११ तर्कादिपरीक्षा

एकादशमाह्निकम्—तर्कादिपरीक्षा

तर्कलक्षणम्

अवयवानन्तरं प्रथमसूत्रे तर्कस्योद्देशात उद्देशानुक्रमेण तस्य लक्षणमाह—

अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितः तत्त्वज्ञानार्थमूहस्तर्कः ॥ १-१-४० ॥

“अविज्ञाततत्त्वेऽथ” इति सामानाधिकरण्यनिर्देशात् अर्थ एव अन्यपदार्थः, न पुरुषः । पुरुषां हि षष्ठ्या निरदेक्ष्यत “अविर्ज्ञातं तत्त्वं अस्य” इति । तत्त्वपदोपादानेन धर्मिणः सामान्यधर्ममान्नविशिष्टस्य1 विज्ञातत्वं सूचयति । “कारणोपपत्तितः” इति संशयज्ञानोल्लिख्यमानपक्षद्वयान्यतरपक्षोत्थापनानुकूलकारणावलोकनं तर्कस्योत्थापकमाह । अत एव अविज्ञाततत्त्वेऽर्थे भवन्तावपि बुभुत्साविमशौन तर्कतां प्राप्नुतः । “तत्त्वज्ञानार्थम्” इति साक्षात्प्रमाणतामस्य निरस्यति । प्रमाणानुग्रहं तु विषयपरिशोधनद्वारेण विदधत् तत्त्वज्ञानाय कल्पते । “तर्कः, ऊहः” इति पर्यायपदोपादानस्य प्रयोजनं वक्ष्यामः ॥ नि कृष्टसूत्रार्थः
तेनायं सूत्रार्थः—अविज्ञाततत्त्वे—सामान्यतो ज्ञाते धर्मिणि एकपक्षानुकूलकारणदर्शनात् तस्मिन् सम्भावनाप्रत्ययः भवितव्यतावभासः तदितरपक्षशैथिल्यापादनेन तद्ग्राहकं प्रमाणं अनुगृह्णत्—सुखं प्रवर्तयन् तत्त्व ज्ञानार्थं ऊहस्तर्क इति । यथा वाहकेलिप्रदेशादौ ऊर्ध्वत्वविशिष्टधर्मि दर्शनात् पुरुषेणानेन भवितव्यमिति प्रत्ययः ॥ तत्त्वज्ञानार्थदलप्रयोजनम्
ननु ! “तत्त्वज्ञानार्थम्” इत्युक्ते सति सामार्थ्यादविज्ञाततत्त्वता— लभ्यत एवेति किमर्थं कण्ठेन पुनरनूद्यते—बाढम्—किन्तु क्वचिद्विषये ज्ञाततत्त्वेऽपि पूर्वतर्केणावसृष्टे सति, उत्तरकालं “तर्कितो मयाऽयमर्थ” इति स्मर्यमाणतर्कविशेषणतया गृह्यमाणः विशेषणीभूतस्तर्कः तत्त्वज्ञानार्थो2 भवतीति तद्युदासाय पुनरविज्ञाततत्त्वग्रहणम् । मार्गशोधनद्वारेण तर्कस्य तत्त्वज्ञानार्थत्वमिह विवक्षितम् । तच्च अविज्ञाततत्त्वेऽर्थे सम्भवतीति ॥ तर्कस्यातिरिक्तत्वाक्षेपः
ननु ! नैव संशयनिर्णयान्तरालवर्तीतर्कप्रत्ययः3 कश्चिदस्ति । तथा हि—यदि तावादनवगतविशेषस्य । सम्भवत्यसौ प्रत्ययः, तर्हि संशय एव भवेत् । अवगतविशेषस्य भवन् निर्णयतामेव स्पृशेत् । “पुरुष एव” इति एवकारार्थासमुन्मेषरहितोऽपि प्रत्ययः नानिर्णयो भवितुमर्हति । तुरगपरिसरणसमुचितदेशदर्शनमपि यदि स्थाणुपक्षं स्थगयितुमलमिति मन्यते, तत् करचरणादिनरविशेषदर्शनवत् तन्निर्णयकारणमेव स्यात् । अथ तस्यामपि तुरगविहरणभुवि निशि निखनति कश्चन स्थाणुमिति शङ्कसे, यद्येवं स्थाणुपक्षानपायात् पुनः संशय एव स्यात्—इति न तृतीयः पक्षः समस्तीति—लक्ष्याभावात् कस्येदं लक्षणमिति ॥ तर्कस्यातिरिक्तत्वनिरूपणम्
उच्यते—न खलु स्वमतिपरिकल्पितविकल्पवितानेन प्रत्यात्मवेदनीयाः प्रतीतयोऽपनेतुं शक्याः । तथा हि—“स्थाणुर्वा, पुरुषो वा” इति प्रतीतिरेका, “पुरुष एवायं” इत्यन्या ? अन्या च “पुरुषेणानेन भवितव्यं” इति मध्यवर्तिनी तृतीया सम्भावनाप्रतीतिः, स्वहृदयसाक्षिकैव ॥

साम्येन हि समुल्लेखः संशये पक्षयोर्द्वयोः ।
निर्णये त्वितरः पक्षः स्पृश्यते न मनागपि ॥

तर्कस्त्वेकतरं पक्षं विभात्युत्थापयन्निव ।
नरसम्भावनाबीजवाजिवाहनदर्शनात् ॥

वाहकेलिप्रदेशविशेषदर्शनं हि पुंसि सम्भावनामात्रमुपजनयितुमलं, न तु शिरःपाण्यादिविशेषदर्शनवत् सर्वात्मना स्थाणुपक्षापसारणेन पुरुषस्य निर्णयाय प्रभवति । अतोऽयमगृहीतविशेषस्यैव भवति प्रत्ययः, न तु संशयः; एकतरपक्षानुकूलकारणोपपत्त्यत् जायमानत्वात् ॥ तर्कस्यानिर्णयरूपत्वम्
कथं पुनः पाणिपादादिपुरुषविशेषवत् अश्ववाहनदेशविशेषः विशेषकार्यं न कुर्यात् । करणे वा स्थाणुपक्षोत्सारणात् निर्णय एवायमिति —कस्यैष पर्यनुयोगः—यथा हि शिरःपाण्यादिदर्शने सति पुरुषनिर्णयो भवति, न तथा तुरगवहनदर्शने सति । अननुयोज्याश्च पदार्थाः “एवम्भवत” “एवं मा भूत” इति । यथा च देशान्तरे4 स्पर्धमान एव स्थाणुपक्ष आस्ते, न तथा वाहकेळिभूमौ, अपि तु शिथिलीभवति । सम्भवत्प्रमादत्वाच्च न सर्वात्मना निवर्तते ॥ तर्कः न संशयरूपः
ननु ! यदि न निवर्तते, तर्हि स्पर्धताम् । मा वा स्पर्धिष्ट । स्थितस्तावत् स्थाणुपक्ष इति संशय एवायमिति—मैवम्—न स्थाणुपक्षः सर्वात्मना निवर्तते, नाप्यास्ते । एवमेवायं त्रिशङ्कुरिव लम्बमानः प्रत्या5 यान्तरनिर्वृत्तये प्रभवतीति तथा विधप्रत्ययानुभवादेव परिकल्प्यते । वाहकेलिप्रदेशदर्शने हि यथा पुरुषविशेषाः स्मरणपथमवतरन्ति, न तथा स्थाणुविशेषाः । उभयविशेषस्मरणजन्मा च संशय इति सोऽयं वाहकेलि प्रदेशविशेषः शिथिलयति स्थाणुपक्षं, न सर्वात्मनोच्छिनत्तीति । तत् दर्शनात् भवति प्रत्ययान्तरमूहरूपं पुरुषेणानेन भवितव्यम्, इतीत्यलमतिविस्तरेण ॥ भाष्योक्तोदाहरणविमर्शः
यत्तु भाष्यकारेण तर्कोदाहरणमभ्यधायि—जन्मोच्छेददर्शनात् कृतकतत्कारणप्रत्यय6 इति—न तद्धृदयङ्गमम्—तेन क्रमेण निर्णय एवासौ तत्कारणतथात्वं न तर्क इति ॥

अथवा कार्योदाहरणत्वादस्य तत्रापि संशयनिर्णयान्तरालवर्ती तर्कप्रत्ययो द्रष्टव्यः । स उदाहरणं भविष्यति ॥ ऊहादिपदप्रयोजनम्
ऊह इति पर्यायाभिधाने किं प्रयोजनम् ? लक्षणप्रतिपादनमेव— तर्कस्य लक्षणम्, यत् ऊहरूपत्वम् । इतरस्तु सूत्रे कारणविशेषाय फलनिर्देशः । “कारणोपपत्तितः” इति कारणनिर्देशः । “अविज्ञाततत्त्वेऽर्थे” इति विषयनिर्दोशः । “तत्त्वज्ञानार्थः” इति फलनिर्देशः ॥

अपि च तर्कशब्दं केचित् अनुमाने प्रयुञ्जते । यथा स्मृतिकाराः पठन्ति—7 “ आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना ।
यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः इति ॥


तदिहापि तर्कोऽनुमानं मा विज्ञायीत्यूहग्रहणम् । ऊहोऽत्र तर्क उच्यते नानुमानम् । तत्त्वज्ञानार्थताऽप्यस्य प्रमाणानुग्राहकत्वेन, न साक्षात् । तथैव चार्थं साधयितुमेष वादे प्रयुज्यते, हृदयशुद्धिप्रकाशनार्थम् ॥ साङ्ख्यपक्षनिराकरणम्
कापिलास्तु बुद्धिधर्ममूहमाहुः । सः तत्सिद्धान्तप्रसिद्धसत्त्वरजस्तमोरूपप्रकृतिप्रभवभुवनसर्गादिव्यवहारनिराकरणवर्त्मना पूर्वमेव निरस्तः ॥ मीमांससम्मतोहप्रदर्शना
जैनिनीयास्तु ब्रुवते—युक्त्या प्रयोगनिरूपणमूह इति । इह हि किञ्चिदुपदिष्टदृष्टादृष्टस्वभावसकलेतिकर्तव्यताकलापं कर्म भवति । यथा “आग्नेयोऽष्टाकपालः” इति दर्शपूर्णमासकाण्डे पठितम् । क्वचित् पुनः प्रधानकर्ममात्रमुपदिश्यते, इतिकर्तव्यता तु काचन नाम्नायते । यथा “सौर्यं चरुं निर्वपेदब्रह्मवर्चसकामः” इति ॥

तत्र विचार्यते—किमितिकर्तव्यताविरहितयथाश्रुतप्रधानमात्रसम्पादनेन तत्र शास्त्रार्थप्रयोगः परिसमाप्यते, उत तदपि सेतिकर्तव्यताकं प्रधानमनुष्ठे यमिति ॥

तत्र अपूर्वप्रयुक्तत्वेन धर्माणां प्रतिकरणं—प्रत्यनुष्ठानम् ॥प्रतिकरणं भेदे स्थिते निरङ्गस्य प्रधानस्याननुष्ठेयत्वात् विध्यन्ताधिकरणसिद्धान्तन्यायेन प्राकृतवत् वैकृतकर्म कर्तव्यमिति सेतिकर्तव्यताकं तदनुष्ठीयते । एवं सामान्यातिदेशे स्थिते सति कस्य वैकृतस्य कर्मणः कुतः प्रकृतेः धर्मा अधिगन्तव्या इति चिन्तायां, द्रयदेवतादिचोदनासारूप्यपर्यालोचनोपनतहृदयसन्निधानप्राकृतकर्मविशेषसम्बन्धिन एव तत्र धर्मा भवितुमर्हन्तीति स्थापिते, युगपदुपनिपतदनर्गलचोदकव्यापारोपनीतनिखिलाखडमण्डलविध्यन्तकाण्डाधि— गम्यधर्मप्रबन्धप्राप्तौविनिगमकाभावात्—प्राप्तिः ॥ सत्यां ते धर्माः कथं प्रयोक्तव्या इति युक्त्या प्रयोगनिरूपणं ऊह उच्यते, येन इत्थं प्रयोक्तव्या इति धर्मा व्यवस्थाप्यन्ते ॥ मीमांसकमते तर्कत्रैविध्यम्
स च त्रिविधः मन्त्रसामसंस्कारविषयः । मन्त्रविषयस्तावत् यथाऽत्रैव सौर्ये चरौ प्रकृतिवद्भावेन अग्न्नेयात्, “अग्नये त्वा जुष्टं निर्वपामि” इति निर्वापमन्त्रः प्राप्तः कथं प्रयोक्तव्य इति विचारणायां—उच्चारणमात्रेण मन्त्राणामनुपयोगात् प्रयोगसमवेतद्रव्यदेवतादिप्रकाशनद्वारेण तदुपयोगस्य व्यवस्थितत्वात्, इह व प्राकृत एवायं “अग्नये जुष्टं” इति प्रयुज्यमानो मन्त्रः प्रयोगसमवेतस्यार्थस्याप्रकाशनात् असङ्गतो भवेत् । सर्वात्मना चोत्सृज्यमाने मन्त्रे मन्त्रप्रकाशितकर्माननुष्ठानात् न प्रकृतिवत् कृतं भवेदित्यग्निपदोद्धारेण सूर्यपदप्रक्षेपेण मन्त्रः ऊहेनेत्थं प्रयोक्तव्य इति गम्यते “सूर्याय त्वा जुष्टं निर्वपामि” इति ॥

ननु ! ऊहप्रवरनामधेयानाममन्त्रत्वादित्थमपि8 न मन्त्रेण स्मृतं कर्म कृतं स्यात्—नैतत्—“एकदेशविकृतमनन्यवद्भवति” इति न्यायात् ॥ सामरूपोहः
सामविषयस्तु “गीतयस्सामानि” इति स्थिते क्वचित्कर्मणि “रथन्तरमुत्तरयोर्गायति” “बृहदुत्तरयोर्गायति” इति श्रुतेः सा बृहद्रथन्तरगीतिः यस्यामृचि योनिभूतायामुत्थिता, ततोऽन्यस्यामपि प्रयुज्यते । तादृगक्षरापायेऽपि सा गीतिः ॠगन्तराक्षरेण्वपि प्रत्यभिज्ञायते “रथन्तरमनेन श्लोकेन गीतम्” इति व्यवहारदर्शनात् ॥ संस्काररूपोहः
संस्कारः खल्वपि प्राकृतौ “प्रोक्षिताभ्यामुलूखलमुसलाभ्यामवहन्ति” इति संस्कारश्चोदितः क्वचिच्च विकृतौ श्रूयते “नखनिर्भिन्नश्चरुर्भवति” इति । तत्रोलूखलमुसलयोः प्रकृतौ पुरोडाशापेक्षिततुषकणविप्रमोकपूर्वकतण्डुलीभावसम्पादनद्वारेणोपयोगात् विकृतावपि तत्कार्यापन्नानां नखानां प्रोक्षणाख्यः संस्कारः क्रियत इति । सोऽयं त्रिविध ऊहः ॥ तन्मते ऊहस्य पञ्चविधत्वपक्षः
केचित्तु9 पञ्चविधमूहमाचक्षते । “धर्मस्यार्थकृतत्वात्,” ऽद्रव्यगुणसंस्कारव्यतिरिक्तक्रमप्रतिषेधे चोदनानुबन्धः समवायात् [जै-सू-९-२-१२, ४०] इति सूत्रमनुसरन्तः । एतत्तु प्रतन्यमानमतिप्रसङ्गमावहति । त्रिविधमेव चोहं याज्ञिका अनुमन्यन्त इति ॥ मीमांसकोक्तोहनिराकरणम्
अत्र वदन्ति—सोऽयमूहशब्दः श्रोत्रियैरनुमाने प्रयुक्तः । यथा स्मृतिकारैः तत्र तर्कशब्दः “यस्तर्केणानुसग्धत्तै” इति । तथाहि—वैकृतं कर्मं धर्मित—त्समवेतार्थप्रकाशकमन्त्रप्रयोगनिर्वर्त्यम्—इति—साध्यो धर्मः, कर्मत्वात्—प्राकृतकर्मवत् इति । प्राकृतेषु च कर्मसु तथा तथा व्याप्तिग्रहणत् सर्वोऽयमनुमानमार्ग एव । नखाः प्रोक्षणीयाः, प्रयोगोपयोगि तण्डुलनिर्वर्तकत्वादिति ॥

सामसु तु स्पष्टमेव वचनमस्ति “रथन्तरमुत्तरयोर्गायति” इति । तदभावेऽपि मन्त्रसंस्कारसमानयोगक्षेमत्वमेव ॥ मीमांसकोक्तोहः शब्द एव वा
अपि च शब्दपृष्ठस्थितन्यायसहस्रव्युत्पादनात्मके मीमांसाशासत्तन्न्यायलभ्योऽर्थः चोदनार्थ एवेति स्थापितम् । अतश्च यथोक्तोहलभ्यस्यार्थस्य चोदनार्थता मातिवतिष्टेति सोऽयमूहः शब्द एवान्तर्भावणीयः । प्रमाणान्तरगोचरो10 वा धर्मः स्यात् । न्यायविशेषात्मकस्तूहः नानुमानादर्थान्तरं स्यात् । “अग्नये—”इत्यस्य स्थाने “सूर्याय” इति पदस्य प्रयोग ऊहस्य फलम्; नोहः । तस्मान्न याज्ञिकैः प्रमाणादर्थान्तरमूह उक्तः ॥

इह तु पूर्वोक्तया नीत्या प्रमाणव्यतिरिक्त ऊहः उपपादितः । श्रोत्रि यास्तु तदनभिज्ञतया न्याये न्यायफले च ऊहशब्दमुपचरितवन्त इत्यलं शास्त्रन्तरोद्गारगहनाभिः कथाभिः ॥

तदेष मीमांसककल्प्यमानः
नोहः प्रमाणव्यतिरेकमेति ।
प्रमाणसन्देहदशान्तराळ-
वर्ती तु तर्कः कथितोऽत्र शास्त्रे ।

—इति तर्कपरीक्षा— निर्णयपरीक्षा
तर्कानन्तरं निर्णयो भवति, पठितश्चेति स लक्ष्यते—

विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः ॥ १-१-४१ ॥

अवधारणं निर्णय इत्युच्यमाने मिथ्यावधारणमपि तथा स्यादित्यर्थग्रहणम् । इन्द्रियादिजनितमपि तत्त्वावधारणमस्त्येव । न्यायोपरमहेतोस्तु निर्णयस्योद्देशात् स एवानुमानजन्यो लक्षणीय इहेति पक्षप्रतिपक्षा भ्यामित्युक्तम् ॥ पक्षप्रतिपक्षशब्दार्थः
एकाधिकरणौ धर्मौ तुल्यकालौ विरोधिनौ ।
पृथक्परिग्रहौ पक्षप्रतिपक्षावुदाहृतौ ॥

न तर्हि ताभ्यां निर्णयः, तयोरन्यतरविषयो हि भवति निर्णयः, न तत्करणक एवेति—सत्यम्—इह तु पक्षप्रतिपक्षशब्दाभ्यां तद्विषयौ साधनतदुपालम्भौ लक्ष्येते । तौ च तस्मिन् करणमेव । किमर्थ पुनः लक्षणाऽऽश्रीयते “साधनोपालम्भाभ्यां” इत्येव कथं न सूत्रितम् ? एव मभिधीयमाने पुनस्तयोर्विषयो मृग्यः । लक्षणाप्रयोगे तु सोऽप्यवगतो भवेत् । मुख्यमभिधाय तदितरो लक्ष्यते ॥ पक्षप्रतिपक्षयोः निर्णयाङ्गत्वम्
भवत्वेवम् ! द्वाभ्यां तु कथं निर्णयः, एकमेव हि साधनं निर्णयाय कल्पते—एवमेतत्—न द्वितीयमपि साधनं निर्णयनिमित्तमाचक्ष्महे, किन्तु तदुपालम्भस धनं च, साधनोपालम्भश्च—साधनोपालम्भौ, ताभ्यां निर्णयः ॥

एतदुक्तं भवति—स्वपक्षे साधनमधिगच्छन्, परपक्षसाधने च दूषणमुत्प्रेक्षमाणः स्वपक्षं प्रमाता निर्णयतीति ॥

न खल्वेवं न जाने । किन्तु उपालम्भस्य क इव निर्णयजन्मनि व्यापारः । स हि परपक्षसाधनमेवोच्छिन्द्यादिति—अस्त्येतत्—तदुच्छेदद्वारेणापि तु स्वपक्षसाधनाभिमानमाविष्कुर्वन् कल्पत एव निर्णयायेति युक्तः द्वयोरपि कारणभावः ॥ अर्थपदप्रयोजनम्
ननु ! इदानीमर्थग्रहणमनर्थकमिव । न ह्येवंविधसाधनाधीनजन्मा निर्णयाभासः सम्भवति11 । साधनोपालम्भलक्षणार्थावपि पक्षप्रतिपक्षशब्दौ विषयमदितुं न शक्नुत इत्युक्तमेवेति कोऽर्थोऽर्थग्रहणेन ? उच्यते—पक्षप्रतिपक्षयोस्तु द्वयोः अन्यतरार्थेऽवधारणं भवति, नोभयत्र । स एव च परमार्थतोऽर्थः, इतरस्तु भ्रान्तिकल्पित इति प्रदर्शनायार्थपदोपादानम् ॥

लक्ष्यमाणसाधनोपालम्भनिष्ठत्वात्तु पक्षप्रतिपक्षशब्दयोः विषयनिर्देशार्थं अर्थपदमित्येके ॥ विमृश्येतिपदप्रयोजनम्
“विमृश्य” इति किमर्थम् ? वस्तुस्वरूपकथनार्थमेव । अनुमानकारणको हि निर्णयः इह लक्ष्यत इत्युक्तम् । अनुमानं च संशयविषये प्रवर्तत इति तर्कानन्तरमपि । अनेनैवाशयेन अस्योपादानम् । संशयादनन्तरं तर्कः, तर्कादूर्ध्वं च निर्णयो12 दृष्टः प्रवर्तमानः । अतस्स तत्पूर्वक इष्यते ॥

निर्णये तु समुत्पन्ने बुभुत्सा विनिवर्तते ।
अत एव हि मन्यन्ते तदन्तं न्यायचिन्तनम् ॥

सूत्रे नियमत्रयविवक्षा
भवत्वेवम्, इदन्तु चिन्त्यताम्—क्व नियमः, किं विमर्शे ? किं पक्षप्रतिपक्षयोः ? किं निर्णये ? इति । त्रयेऽपि च नोपपद्यत इति । न विमृश्यैव निर्णयः, अविमृश्यापि भावात् । न पक्षप्रतिपक्षाभ्यामेव, इन्द्रियादेरपि तदुत्पादात् । न निर्णय एव, तर्कस्यापि क्वचिदनिवृत्तेः—उक्तमत्र, उद्देशसूत्रे तत्त्वज्ञानपदोपादानात् प्रमाणपदेन च तत्फलाक्षेपात् न निर्णयमात्रेणोद्दिष्टेन किमपि प्रयोजनम् । विशिष्टस्तु निर्णयः लक्ष्यत्वेन विवक्षितः ॥

परीक्षाविषयो यो हि निर्णयो न्यायनिर्मितः ।
नियमत्रयमप्येतत् तस्मिन्न हि न युज्यते ॥

संशयाभावेऽपि विचारप्रवृत्तिः
स हि विमृश्यैव भवति, विमर्शपूर्वकत्वात् परीक्षायाः । अनुमानं च सन्दिग्धे विषये प्रवर्तत इति प्रायेण तद्व्यवहारः ॥

यद्यपि क्वचिदसन्दिग्धेऽपि विषये दृष्टं प्रवर्तमानमनुमानमनलार्थितायामतर्कितोपनतपर्वतनितम्बनिर्गतधूमदर्शनेन कृशानुकल्पमिव; तथापि वस्तुयोग्यतावशेन सन्दिग्धविषयमेवानुमानमिच्छन्ति न्यायविदः । प्रकृतश्च निर्णयः पक्षप्रतिपक्षाभ्यामेव निर्णय एवेति न शक्यते नियन्तुम्, अन्यथा न्यायानुपरमादिति । शास्त्रे तु विनापि संशयादस्ति निर्णयः13

यद्यपि च तत्रापि सूत्रकृता सर्वपरीक्षाणां संशयपूर्वकत्वमुपदेशातिदेशाभ्यामभ्यधायि, तथापि नासौ शास्त्रीयो निर्णयः, परीक्षाकार्यत्वात् ॥ शास्त्रीयनिर्णयेषु विशेषः
यस्तु शास्त्रत एव क्वचिद्विषयनिर्णयः, स विमर्शवर्जमुत्पद्यते । वादेऽपि विमर्शरहितो भवति निर्णयः । उभौ निश्चितौ वादं कुरुतः, सन्दिग्धस्य तत्रानधिकारात् । कथं तर्ह्येष प्रवादः “संशयच्छेदो वादस्य फलम्” इति ? प्रथममुभयोरपि निश्चितयोर्वादप्रवृत्तौ अन्तराले बलादापतति युक्तिद्वयोपनिपातकृतः संशय इति वस्तुनिर्णयावसानत्वाद्वादस्य संशयच्छेदफलत्वमाचक्षते ॥ निर्णयपरीक्षोपसंहारः
यद्यप्यनिश्चितमतिः कुरुते न वादं
श्रुत्वा तथापि परकीयनयप्रयोगम् ।
अन्तर्मतद्वयबलाबलचिन्तनेन
संशय्य निर्णयति नूनमसौ स्वपक्षम् ॥

—इति निर्णयपरीक्षा— वादपरीक्षा
न्यायपरीक्षाद्वारकवस्तुविचारयोग्याः कथा वादिनां भवन्ति—वादः, जल्पः, वितण्डेति । तत्र वादस्तावदुच्यते—

प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः ॥ १-२-१ ॥

पक्षप्रतिपक्षौ व्याख्यातौ । तयोः परिग्रहः—अभ्युपगमनियमः । एको वक्ति “नित्यः शब्दः” इति । अपरस्तु “अनित्यः शब्दः” इत्याह । सोऽयं पक्षप्रतिपक्षपरिग्रहो वादः । एतच्च रूपं कथात्रयेऽपि साधारणमिति विशेषमाह—प्रमाणतर्कसाधनोपालम्भ इति । प्रमाणैः तर्केण च साधनम्, उपालम्भश्चास्मिन् क्रियते इति प्रमाणतर्कसाधनोपालम्भः । न त्वीदृशी वितण्डा, तस्याः प्रतिपक्षसाधनोपन्यासशून्यस्वभावत्वात्14 ॥ कथासु परार्थानुमानमेव प्रमाणम्
ननु ! प्रत्यक्षादेः प्रमाणस्य परप्रतीत्यनुपायत्वात् न तेन वादे साधनोपालम्भौ शक्यक्रियौ । तर्कस्य तु प्रतीतिसाधनत्वमपि तावत् न सम्भवति, सम्भवनाप्रत्ययस्वभावत्वात् । किमुत परप्रत्यायनाङ्गतेति न तरां तस्य साधनोपालम्भहेतुत्वम् । सत्यमेवम्—इह तु न प्रमाणशब्देन प्रत्यक्षादेरभिधानम्; अपि तु प्रमाणमूला अवयवाः उच्यन्ते । तैश्च सिद्ध्युपालब्धी क्रियेते । एवं तर्कस्य तु स्वतः साधनोपालम्भकरणकौशलशून्यात्मनोऽपि प्रमाणानुग्राहकत्वात् पारम्पर्येण तद्धेतोराशयशुद्धिप्रदर्शनार्थमुपादानम् ॥ पञ्चावयवोपपन्नदलप्रयोजनम्
यद्येवं प्रमाणपदेनैव तन्मूलावयवप्रतिपादनात् पञ्चावयवोपपन्नग्रहणमतिरिच्यते ॥

तत्र के चिदाचक्षे—प्रमाणतर्कसाधनोपालम्भ इति वादलक्षणे, छल जातिनिग्रहस्थानसाधनोपालम्भ इति च जल्पलक्षणे श्रवणात्, वादे सर्वात्मना छलादिनिषेधप्रसक्तौ कतिपयनिग्रहस्थानोद्भावनाभ्यनुज्ञानार्थं पञ्चावयवोपपन्नग्रहणम् ॥

अनेन च हीनं—अन्यतमेनाप्यवयवेन न्यूनम्, हेतूदाहरणाभ्यामधिकं—अधिकमिति न्यूनाधिकयोरुद्भावनमनुज्ञायते । सिद्धान्ताविरुद्धग्रहणेनापि—“सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः” इति विरुद्धाख्यहेत्वाभासोद्भावनमनुज्ञातम्—इत्येवं वादे त्रीणि निग्रहस्थानान्युद्भावनीयानि ॥ वादे चोदनीयनिग्रहस्थानानि
अन्ये वदन्ति—विरुद्ध एव हेत्वाभासो वादे चोद्यते, नानैकान्तिकादि रिति । कथमेतत् युज्यते ? “निग्रहस्थानेभ्यः पृथगुपदिष्टा हेत्वभासा वादे चोदनीया भविष्यन्ति” इति—भाष्यकारवचनात् प्रमाणपदेन च तन्मूलावयवाक्षेपात् प्रमाणाभासमूलनिरासे सति सकलहेत्वाभासोद्भावनमपि तत्र सिद्धमिति ॥

सिद्धान्ताविरुद्धग्रहणेन “सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङ्गः अपसिद्धान्तः” इत्यपसिद्धान्ताख्यनिग्रहस्थानाभ्यनुज्ञानमित्येवमष्टौ निग्रहस्थानानि वादे उद्भाव्यन्त इति—तदनुपपन्नम्—न हि त्रीणि वा अष्टौ वा वादे निग्रहस्थानानि चोदनीयानीति चोदनार्वैदिकी, राजशासनं वा । वस्तुपरिशुद्धिसाधनं सर्वमेव तत्र प्रयोगार्हम् । अयं तु विशेषः—जल्पे कस्याञ्चिदवस्थायां बुद्धिपूर्वकमपि छलादिप्रयोगः क्रियते । वादे तु न तथा तेषां प्रयोगः । भ्रान्त्या तु कथञ्चित्प्रयुक्तानामवश्यमुद्भावनम्; अनुद्भावने वस्तुपरिशुद्धेरभावात् ॥ स्वमतेन दलप्रयोजनम्
कथं तर्हीदं पदद्वयं—सिद्धान्ताविरुद्धः, पञ्चावयवोपपन्न इति । अपसिद्धान्तादिसम्यग्दूषणदिक्प्रदर्शनेन एवम्प्रकारवस्तुशुद्ध्यनुगुणनिग्रहस्थानजाताभ्यनुज्ञानार्थमेवेत्यभियुक्ताः । अप्रतिभाविक्षेपादयो हि न वादे पराजयहेतवः, क्षणान्तरेणाप्यागत्य अनुस्मृत्य च साधनमुपालम्भं वा तत्र प्रवदन्न पराजीयते । प्रतिज्ञाहान्यादि तु सम्यक्पराजयकारणमखिलमाभ्यां पदाभ्यामभ्यनुज्ञातमत्रेति ॥ प्रमाणतर्कदलप्रयोजनम्
ननु ! इदानीं प्रमाणतर्कग्रहणमपार्थकम्, पञ्चावयवोपपन्नपदेनैव प्रमाणमूलावयवोपदेशात्, वस्तुपरिशुद्ध्यनुगुणनिग्रहस्थानाभ्यनुज्ञानाच्च किमिव नोक्तम्—न—अभिप्रायनैर्मल्यनिवेदनद्वारकवादजल्पविवेकप्रतिपादनार्थत्वात् । स्वप्रतिपत्तिसाधनमपि प्रत्यक्षादि वादे प्रयोक्तुमुचितं, आशयशुद्धिमुपदर्शयितुम् । “अत्र वस्तुनि मम प्रथमं तर्कः इत्थं प्रवृत्त आसीत्, ततः प्रमाणमिदं प्रवृत्तम्” इत्येवमाद्यपि तत्र वक्तव्यम् । अत एव चान्यतरपक्षनिर्णयावसान एव भवति वादः । न जल्पवत् अलीकदूषणाडम्बरविरचितपरपरिभवपर्यवसानोऽपीति तथा बुद्धिपूर्वमाभासानामप्रयोग इति निर्मत्सरकथात्वमस्योक्तमिति अकलुषाकूतकथनाय प्रमाण तर्कपदम् ॥ प्रमाणतर्कदलप्रयोजनान्तरम्
अपि च साधनोपालम्भव्यतिषङ्गप्रतिपादनमपि तस्य फलम् । उभावपि परस्परमनुबन्धेन वादिभ्यां परीक्ष्यमाणौ पक्षप्रतिपक्षौ वादतां प्रयोजयतः, न तु स्वगुहे शास्त्रे वा विविच्यमानौ । प्रमाणैरेव वादे, छलादिभिरेव जल्पे व्यवहार इति नियमशङ्कानिरसनमपि तत्पदोपादानप्रयोजनमुक्तमन्यैरिति कृतमतिविस्तरेण । सर्वथा वादलक्षणं सुस्थम् ॥

वादं तु निर्णयफलार्थिभिरेव शिष्य-
सब्रह्मचारिगुरुभिः सहवीतरागैः ।
न ख्यातिलाभरभसप्रतिवर्धमान-
स्पर्धानुबन्धविधुरात्मभिरारभेत ॥

—इति वादपरीक्षा— जल्पपरीक्षा
यथोक्तोपपन्नः छलजातिनिग्रहस्थानसाधनोपालम्भः जल्पः ॥ १-२-२ ॥

यथोक्तोपपन्नग्रहणेन सर्वातिदेशे वादजल्पयोरविशेष इति शङ्कमानाः केचन पक्षप्रतिपक्षपरिग्रहमात्रातिदेशमेव व्याचक्षते । इयतस्तु पूर्वसूत्रानुवृत्त्यापि सिद्धेः मन्दफलमेव “यथोक्तोपपन्न”वचनं भवेदिति समस्तादितिदेश एव वरम् । न च तत्रापि वादजल्पयोः साम्यम्, गम्यमानार्थानतिदेशात् । श्रौत एवार्थः अतिदिश्यते, न गम्यमानः । तत्कृत एव च तयोर्भेदः ॥

तथा च प्रमाणतर्कसाधनोपालम्भ इत्यत्र गम्यमानोऽर्थः अभिप्रायनियमः । स नातिदिश्यते । सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः इत्यत्रापि बुद्धिपूर्वकजात्यादिप्रयोगप्रतिषेधतदुद्भावननियमरूपः गम्यमानोऽर्थः । सोऽपि नातिदिश्यत इति कुतस्तयोरविवेकः । अत एव च बुद्धिपूर्वक प्रयोगानुज्ञानाय छलजातिनिग्रहस्थानसाधनोपालम्भ इत्युक्तम् ॥ जल्पे छलादेरभ्यनुज्ञानम्
भवत्वेवम् ! छलादीनां त्वसदुत्तरत्वात् कथमिव साधनोपासम्भहेतुत्वम् । परपक्षप्रतिक्षेपद्वारकमिति चेत्—न—असदुत्तरत्वेन प्रतिक्षेपे ऽपि तेषामसामर्थ्यात् । एवमपि च साधनग्रहणमनर्थकमेवेति—सत्यमेवेदम्—किन्तु कस्याञ्चिदवस्थायां स्वप्रतिपत्तिसाधनोपहिततत्त्वज्ञानरक्षायै तान्यपि व्याप्रियन्ते । यदा जानन्नपि परपक्षकशिमानम्, स्वपक्षेद्रढिमानं च क्वचिदवसरे15 परप्रयुक्ते साधने दूषणं सपदि न पश्यति, स्वपक्षसाधनं च झटिति न स्मरति, तदा छलादिभिरप्युपक्रम्य परमभिभवति, आत्मानं च रक्षतीति ॥ छलादिप्रयोगफलम्
ननु ! यदि परोऽपि छलादीनि जानीयात्, तेषु चानुरूपमुत्तरमभिदधीत, कथं जीयेत ? प्रत्युत जयत्येव—सत्यम्—तथाप्येकान्तपराजयात् वरं सन्देह इति युक्तमेव तत्प्रयोगेण स्फुटाटोपकरणम्16

ननु ! ईदृंशि प्रयोजनानि जिगीषतो जनस्य जानपदसदसि भवन्ति । तस्यापि न निपुणमतिपरिषदि । मुमुक्षोस्तु दूरापेतैव कथेयमिति कथमिह मोक्षशास्त्रे जल्पाद्युपदेशः ?—नैतेदेवम्—मुमुक्षोरपि क्वचित्प्रसङ्गे तदुपयोगात् । तथोक्तं “तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे, बीजप्ररोहसंरक्षणार्थं कण्टकशाखावरणवत्” [न्या-सू-४-५-] इति ॥ वितण्डादिप्रयोगकालः
यदि हि क्वचिदाश्रमे सुखमासीनं अनेकशिष्यगणोपास्यमानं रहस्यतत्त्वमुपदिशन्तं शान्तमानसमाचार्य अनार्यः कश्चिद्विपश्चिदागत्य दुरधिगतकतिपयाक्षरचयजनितगुरुतरगर्वगद्गदया गिरा ऽभोस्तपस्विन् ! किं व्याख्यायते ? हुं ! आन्वीक्षकी ! सरलमतिप्रियेयं विद्या । क्व वेदाः ! क्ववेदप्रामाण्यम् ! क्वात्मज्ञानम् ? क्वापवर्गः ? इत्यादि मन्दं मन्दं विहस्य सहसा दुष्टमेध इव प्रकटिताकाण्डदण्डकाशडम्बरवित्रासिताश्रममृगवर्गमुद्ग्राहयन् आकुलयति, तदा जगज्जालमिन्द्रजालपण्डितविलसितमिति जानन्नप्याचार्यः यदि तमुपेक्षते, तिरस्करोति, सद्यः सम्यक्साधनाप्रतिभासेऽपि यदि छलादिभिरेनं न शमयति; तदा तस्मिन् गते तत उत्थाय शिष्यगणा ब्रूयुः “कष्टमस्थाने” क्लिष्टाः स्मः ॥

योऽसावस्माकमाचार्यः प्रख्यातो न्यायवित्तमः ।
अद्य त्वागत्य सोऽन्येन पण्डितेन पराजितः ॥

तच्छ्रुत्वा जन इतरोऽपि सत्पथास्था-
शैथिल्यात्सपदि तमेव माऽनुयासीत् ।
तन्नूनं परिभवभूमिकामसभ्यो
नेतव्यः सदसि स वावदूकपाशः17

तद्विधानघटने निरर्गलं
जल्पमस्त्रमुपदिष्टवान् मुनिः ।
आनुषङ्गिकमपि प्रयोजनं18
तस्य रागिजनतासु वर्णितम् ॥

—इति जल्पपरीक्षा— वितण्डापरीक्षा
स प्रतिपक्षस्थापनाहीनो वितण्डा ॥ १-२-३ ॥

स एव यथोक्तलक्षणकः जल्पः वितण्डा भवति । को विशेष इति चेत्—आह—प्रतिपक्षस्थापनाहीन इति । उत्तरपक्षवादी वैतण्डिकः । प्रथमवादी प्रथमसाध्यमानपक्षापेक्षया । तत्पक्षः हस्तिप्रतिहस्तिन्यायेन प्रतिपक्ष इत्युच्यते । तमसावभ्युपगच्छत्येव, न तत्र साधनमुपदिशति, परपक्षमेवाक्षिपन्नास्ते । तर्हि साधनाद्विना पक्षोऽपि सोऽस्य नास्त्ये वेति ॥ स्थापनापदप्रयोजनम्
प्रतिपक्षहीनो वितण्डेत्युच्यताम्, किं स्थापनाग्रहणेन ?—न—अभ्युपगममात्रेण तद्भावात् । तमनभ्मुपगम्य प्रलपतः कस्तस्य शृणुयात् । औपचारिको वा परमतपराकरणरूप एवास्य पक्षः19 । तस्मिन् हि सति स्वपक्षो हि तस्य सिद्ध्येदिति । परमताक्षेपप्रवणप्रवृत्तेश्च बलात् द्वितीयपक्षवाद्येव वैतण्डिक इति । तदेवं पक्षोऽस्यास्तीति, साधनं तु नास्तीति सम्यक्सूत्रितं “स प्रतिपक्षस्थापनाहीनो वितण्डा” इति ॥

इत्युदाहृतमिदं कथात्रयं
यत्परस्परविविक्तलक्षणम् ।
स्थूलमप्यनवलोक्य कथ्यते
वाद एक इति शाक्यशिष्यकैः ॥

—इति वितण्डापरीक्षा— हेत्वाभासपरीक्षा
पक्षधर्मत्वादीनि पञ्च लक्षणानि हेतोरुक्तानि । तेषामेकैकापायात् पञ्च हेत्वाभासा भवन्तीति तान् दर्शयितुमाह—

सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतकाला हेत्वाभासाः ॥ २-२-४ ॥

अत्र हेत्वाभासश्रुतिरेव20 निर्वचनसहिता सामान्यलक्षणं बोधयति— “अहेतवः हेतुवदाभासन्त इति हेत्वाभासाः” इति । लक्षणैकदेशयोगाच्च हेतुवदाभासनं, अहेतोरप्युपपद्यते । सकललक्षणापायेऽपि पञ्चमीनिर्देशादिः भ्रमहेतुरित्येके ॥

सव्यभिचारादिपदपर्यन्तवर्तिनी तु सैव श्रुतिः विभागमवगमयति, प्रमाणश्रुतिवदित्युक्तम् । पक्षधर्मतादिलक्षणानां च21 क्रमनियमाभावात् साध्यसमविरुद्धसव्यभिचारातीतकालप्रकरणसमा हेत्वाभासा इति पाठो नाश्रितः ॥ हेत्वाभाससङ्ख्याविमर्शः
ननु ! त्रय22 एव हेत्वाभासा इति शाक्याः—न—प्रत्यक्षागमबाधितस्य च हेतोः पूर्वं प्रदर्शितत्वात् ॥

ननु ! एकस्यैव रूपद्वयवैकल्यात् कथं न षष्ठादयः23 तत्प्रभेदाः स्युः यथा “अनित्यः शब्दः चाक्षुषत्वात्” इति । एष हि पक्षे वृत्त्यभावादसिद्ध उच्यताम्, उत सामान्यादेः विपक्षादप्रच्युतः सव्यभिचारः, उत जात्यन्तरमेव ताभ्यामिति—नैतदेवम्-एकैकरूपापायनिमित्तभेदपञ्चकप्रतिपादने कृते द्वित्रिरूपापायात् न रूपान्तरमवतरति, किन्तु तेषामेव समावेशःस्यात्24

अपि च प्रथमगृहीतान्यतमरूपवैकल्यलब्धैकहेत्वाभासरूपेऽस्मिन्25 किं रूपान्तरनिरूपणेनेत्यास्तामेतत् ॥ अप्रयोजकहेतोरसिद्धावन्तर्भावः
ननु ! अप्रयोजको नाम षष्ठो हेत्वाभासः समस्तीति न पुनरपि पञ्चत्वम्—न—तस्यान्यथासिद्धत्वेन असिद्ध एवान्तर्भावं वक्ष्यामः । अवान्तरभेदविवक्षायां तु हेत्वाभासानामियत्तानिश्चयः न शक्यक्रियः, न च सप्रयोजन इति पञ्चैव हेत्वाभासा इति सिद्धम् ॥ सव्यभिचारलक्षणम्
तेषां सव्यभिचारस्तावदुच्यते—

अनैकान्तिकः सव्यभिचारः ॥ १-२-५ ॥

व्यभिचारः एकत्र व्यवस्थाऽनियमः । तेन सह वर्तत इति सव्यभिचारः —विपक्षादप्रच्युत इत्यर्थः । एकस्मिन् अन्ते भवन् ऐकान्तिकः । तद्विपर्यायादनैकान्तिक इति स एवार्थः । एवमिह लक्ष्यलक्षणपदयोः यथाकाम मभ्युपगमः, न प्रत्यक्षादिवत् व्यवस्थया ॥

सव्यभिचारपदे लक्ष्याभिधायिनि लक्षणवचनमनैकान्तिकपदम्, अनैकान्तिकपदे तु लक्ष्यवाचिनि सव्यभिचारपदं—लक्षणप्रतिपादकं प्रसिद्ध्यप्रसिद्धिविभागापेक्षया पिककोकिलवत् द्रष्टव्यम् । “पिकः कोकिलः” इत्युक्ते यस्य पिकशब्दार्थः प्रसिद्धः, स ततः कोकिलशब्दार्थमवभोत्स्यते । प्रसिद्धकोकिलशब्दार्थस्तु पिकशब्दार्थमिति ॥ अनैकान्तिकपदार्थः
आह, भवत्वेवम् ! इदं तु चिन्त्यताम् । “अनैकान्तिकः” इति किमयं पर्युदासः, प्रसज्यप्रतिषेधो वा ? किञ्चातः ? पर्युदासपक्षे स्वपक्षनियतादैकान्तिकादन्यः यः, स एवानैकान्तिक इति स एवैको हेत्वाभासः स्यात् । प्रसज्यप्रतिषेधे त्वैकान्तिकाभावस्य निवृत्तिरूपस्य हेत्वाभासता भवेत्, न लक्ष्यत्वेनाभिमतस्य विपक्षवृत्तेः हेत्वन्तरस्य प्रमेयत्वादेरिति— उच्यते—प्रश्न एवायमनुपपन्नः । संशयानो हिपरं पृच्छति । संशयश्चोभयथा दर्शनाद्भवति । न च नामपद सम्बद्धस्य नञः द्वयी वृत्तिर्दृष्टा । “अश्राद्धभोजी” इत्यादौ हि भुजिना नञ् सम्बध्यते, “श्राद्ध न भुङ्क्ते” इति; न तु नाम्ना श्राद्धेनेति ॥ नामपदसम्बद्धनञः पर्युदास एवार्थः
आख्यातेनापि प्रयोज्यमानः क्वचित् प्रकरणसामर्थ्यानुरोधात् प्रत्ययार्थसम्बन्धमवधूय धात्वर्थमेव केवलमालिङ्गन् पर्युदासवृत्तिर्भवति —“नेक्षेतोद्यन्तमादित्यम्” इति । न तु नाम्ना सम्बध्यमानः क्वचिदपि पर्युदासवृत्तिमुल्लङ्घ्य प्रसज्यप्रतिषेधमात्रपरतामबलम्बमानो दृश्यते । अब्राह्मणादौ सर्वत्र तदन्यावगतिदर्शनात् इति कुतस्त्यः संशयः ॥ पर्युदासपक्षोक्तदोषपरिहारः
अथवा किमनयाऽवान्तरचिन्तया ! यथा पृष्टं कृत एवोत्तरमुच्यते । एकस्मिन्ननित्यपक्षे नित्यपक्षे वा नियतः एकान्तिकः एकपक्षवृत्तिरुच्यते । ततोऽन्यः पक्षद्वयवृत्तिः26 अनेकान्तिको भवति । एवं न सर्वे हेत्वाभासाः पक्षद्वयवृत्तय इति न सङ्ख्याहानिः अतः पर्युदासपक्षे तावन्न दोषः ॥ प्रतिपेधार्थकत्वेऽपि न दोषः
प्रसज्यप्रतिषेधेऽपि—ऐकान्तिको न भवति यः, स एवाहेतुरिति न निवृत्तिमात्रपरत्वम् । अश्राद्धभोजीति कृता27 पुरुष उच्यते, न श्राद्धभोजनाभावमात्रम् । एवमिहापि तद्धितेनैकान्तनियतताप्रतिषेधविशिष्टः हेतुरेवोच्यते, नाभावमात्रम्—इत्येवमुभयथाऽपि न दोषः ॥

तस्योदाहरणं—नित्यः शब्दः प्रमेयत्वात्—इति । एष हि नित्यानित्यपक्षयोरन्यतरस्मिन्नपि न नियत इति विपक्षवृत्तित्वादनैकान्तिक उक्तो भवति ॥ परोक्तानैकान्तिकविभागविमर्शः
ननु ! षट्प्रकारः परैरनैकान्तिक इष्यते । सपक्षैकदेशवृत्तिः विपक्ष व्यापी, विपक्षैकदेशवृत्तिः सपक्षव्यापी, उभयपक्षैकदेशवृत्तिः, उभयपक्षव्यापीति साधारणः चतुष्प्रकारः । असाधारणः विरुद्धाव्यभिचारी चेति । स कथमिह न निर्दिश्यते—उच्यते—सपक्षव्याप्त्यादिभेददर्शनं तावत् अप्रयोजनकम्, अशक्यं च; हेत्वाभासानामवान्तरभेदानन्त्यात् । विपक्षाद्व्यावृत्तिर्यस्य नास्ति, स सव्यभिचारः—इत्यन्यतमहेतुरूपरहितत्वमनैकान्तिकलक्षणमिह विवक्षितम् । तच्चोक्तमेव । किमवान्तरभेदपरिगणनेन ॥

असाधारणविरुद्धाव्यभिचारिणौ तु न संस्त एव हेत्वाभासाविति न व्याख्यायेते ॥ 28 असाधारणानैकन्तिको नातिरिक्तः
ननु ! साधारणवदसाधारणस्यापि गन्धवत्त्वादेः संशयहेतुत्वदर्शनात् कथमसम्भवः ? अनेकधर्मोपपत्तेश्च संशयः भवद्भिरपि व्याख्यात एव—नैतदेवम्—उभयविशेषसहचरितधर्मदर्शनं हि तदनुस्मरणयुक्तेन संशयमुपजनयति । असाधारणस्तु असाधारणत्वादेव न तत्सहचरः कदाचिदुपलब्ध इति कथं संशयहेतुः ?

कथं तर्ह्यनेकधर्नोपपत्तेरिति वर्ण्यते ? वर्णितमेतत् । वस्तुनो हि विशेषधर्मः कश्चिदसाधारणः केनापि धर्मान्तरेण सहचरितो दृष्टः, सोऽय शब्दे विभामगजत्वाख्यो धर्मः केनचिद्धर्मान्तरेण द्रव्यत्वेन गुणत्वेन वा सहचरितो भवेदितीत्थमनेकधर्मोपपत्तेः संशयो वर्णितः ॥

तदिहापि गन्धवत्त्वमसाधारणमेव यदि संशयहेतुतया वर्ण्यते, तर्हि साधारणात् वस्तुधर्मत्वादेव संशयो भवेत्, नासाधारणात् गन्धवत्त्वात् । न हि तन्नित्यानित्ययोरन्यतरेणापि सहचरितमुपलब्धम् । वस्तुधर्मस्तु धर्मान्तरानुयायी दृश्यत इति वस्तुधर्मत्वमेव तत्कारणम् । अतः “नित्या भूः, गन्धवत्त्वात्” इत्यसाधारणानैकान्तिकः न वक्तव्यः ॥ विरुद्धाव्यभिचारोऽपि नातिरिक्तः
विरुद्धाव्यभिचर्यपि न वाच्य एव, एकत्र धर्मिणि परस्परविरुद्धद्वयप्रयोजकहेतुद्वयोपनिपातस्यानुपपत्तेः ॥

ननु ! “प्रत्यक्षो वायुः, स्पर्शवत्त्वात्, घटवत्” “अप्रत्यक्षो वायुः, अरूपत्वात्, आकाशवत्” इत्यस्ति हेतुद्वयसन्निपातः । त एव च विरुद्धाव्यभिचार्युच्यत इति—अत्र तावत् एतदेव वक्तव्यम्—कोऽयमपूर्वः प्रामाणिकव्यवहारः ईदृशः, यत् अनुमानेन प्रत्यक्षत्वमप्रत्यक्षत्वं वा साध्यत इति । इन्द्रियजप्रमितिविषयो ह्यर्थः प्रत्यक्षो भवति । स एष वायुः यदीन्द्रियजे प्रत्यये प्रतिभात्येव, किमनुमानेन । अथ तत्र न प्रतिभाति तथापि किमनुमानेनेति ॥ विरुद्धाव्यभिचारिणोऽप्रयोजकत्वम्
किञ्च अनयोरन्यतरो हेतुः अवश्यमप्रयोजकः, वस्तुनः द्वैरूप्यानुपपत्तेः । हेतौ च प्रयुक्ते तद्गुणदोषपरीक्षणमेव प्रतिवादी विधत्ताम्, कोऽवसरः प्रतिहेतूपन्यासस्य । विडम्बनार्थस्तटुपन्यास इति चेत्—न—विडम्बनोपन्यासस्य जात्युत्तरप्रकारत्वात् । इह च हेत्वाभासाः वास्तवा29 एवानुमानदोषाः । एकत्र प्रयोजकवृद्धहेतुद्वयसमावेशासम्भवस्योक्तत्वात् । कथं तर्हि प्रकरणसम इति चेत्, तत्रैव विशेषं वक्ष्यामः ॥ विरुद्धाव्यभिचारिणः विप्रतिपत्तिरूपत्वं वा
अथ हेतुप्रयोगरहितोभयवादिपरिगृहीतपक्षप्रतिपक्षोपन्यासमात्रं30 विरुद्धाव्यभिचारिणो रूपमुच्यते, सोऽयं विप्रतिपत्तेः सशयो भवति, न हेत्वाभासादस्मादिति ॥

अपि च, यदि संशयजनकत्वं अनैकान्तिकलक्षणमुच्येत—काममसाधारणस्य वा विरुद्धाव्यभिचारिणो वा यथा तथा संशयहेतुतामधिरोप्य कथ्यतामनैकान्तिकता, न तु संशयजनकत्वं तल्लक्षणम्, इन्द्रिया देरपि तज्जनकत्वेन तथाभावप्रसक्तेः । अपि तु पक्षद्वयवृत्तित्वमनैकान्ति कलक्षणम् । स तु पक्षद्वयवृत्तित्वात् संशयमपि जनयतीति वस्तुस्वभावो ऽयम् । अतः असाधारणविरुद्धाव्यभिचारिणोः कथञ्चित्संशयहेतुत्वेऽपि पक्षद्वयवृत्त्यभावत् नानैकान्तिकवर्गेऽन्तर्भावः । क्व तर्हि तावन्तर्भविष्यतः ? जात्युत्तराणामानन्त्यात् तेष्विति वक्ष्यामः ॥

तस्मादसाधारणसञ्ज्ञकस्य
हेतोर्विरुद्धाव्यभिचारिणो वा ।
विपक्षवृत्तित्वमतर्कयन्तः
वदन्त्यनैकान्तिकतां न तद्ज्ञाः ॥

विरुद्धलक्षणम्
सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः ॥ १-२-६ ॥

सपक्षविपक्षयोः वृत्त्यवृत्ती हेतोर्लक्षणम् । ते यस्य विपर्यस्ते दृश्येते, यः सपक्षे न वर्तते, विपक्षे च वर्तते, सः साध्यविपर्ययसाधनात् विरुद्धो भवति; सोऽयमुच्यते—सिद्धान्तमभ्युपेत्येति ॥

सिद्धान्तशब्दः यद्यपि धर्मविशिष्टे धर्मिणि व्याख्यातः, अयमित्थमित्यभ्युपगमविषयीकृतोऽर्थः सिद्धान्त इति—तथापीह तदेकदेशसाध्यधर्मविषयो लक्ष्यतेवस्तुस्वरूपदृष्ठया अन्तत्वं सिद्धं विवाक्षितमिति भावः ॥ । तं सिद्धान्तं साध्यधर्ममभ्युपगम्य यो विरुणद्धि— व्याहन्ति—तद्विपर्ययं साधयति स विरुद्ध इत्यर्थः ॥ सूत्रार्थवर्णनम्
ननु समानकर्तृकयोः क्त्वाप्रत्ययः स्मर्यते । इह च हेतोरवस्तुस्वरूपदृष्ठया अन्तत्वं सिद्धं विवाक्षितमिति भावः ॥चेतनस्याभ्युपगमेन कर्तृत्वासम्भवात् पुरुषस्तत्कर्ता भवेत् । “सिद्धान्तं च विरुणद्धि हेतुः” इति भिन्नककतृत्वमुच्यते—उच्यते समानकर्तृकत्वसिद्धये हेतोरेवाभ्युपगमे कर्तृत्वमुपचाराद्वर्णयिष्यते । हेतुबलात् पुरुषेणाभ्युपगमः क्रियमाणः हेतुनव कृतो भवति । एवं च स एवाभ्युपगन्ता, स एव विरुणद्धीति न भिन्नकर्तृकत्वम् ॥

ननु ! उपचारपरिग्रहश्चेदभिमतः, तदत्र त्रितयं वक्तव्यम्—मुख्येऽर्थे प्रमाणबाधः, निमित्तम्, प्रयोजनं चेति । मुख्येऽर्थे प्रमाणबाधः, उक्त एव हेतोरचेतनत्वम् । निमित्तमप्यस्ति हेतुसाधनको ह्यभ्युपगम31 इति । प्रयोजनं तु विशेषविरुद्धानां32 हेत्वाभासत्वनिवारणम् ॥

सिद्धान्तशब्दस्यापि समुदायवाचिनः यदेकदेशेऽवस्थापनं, तस्यापि विशेषविरुद्धव्यवच्छेद एव फलम् ॥ विशेषविरुद्धस्य न हेत्वाभासता
विशेषविरुद्धानां हि हेत्वाभासत्वाभ्युपगमे सर्वानुमानोच्छेदप्रसङ्गः न हि तथाविधो हेतुरिह जगति कश्चिदवाप्यते, यः साध्यसिद्धयेऽभिधीयमानः धर्मस्य वा धर्मिणो वा33 विशेषं न कञ्चन बाधते । तथाहि— “अनित्यः शब्दः, कृतकत्वात्” इति सकलताकिकगृहप्रसिद्ध एष हेतुः अनित्यतां साधयन्नपि “यद्यत्कृतकम्, तत्तदश्रावणं दृष्टम्” । यो यः कृतकः स स व्योमविशेषगुणो न भवति इति धर्मिणो विशेषं बाधत एवेत्यहेतुः स्यात् । न चैवं युक्तमिति न विशेषविरुद्धो नाम हेत्वाभासः अभ्युपगन्तव्यः; किन्तु साध्यस्वरूपविपर्ययसाधन एवेति ॥ परोक्तविरुद्धविभागस्यायुक्तता
अत एव यथा तीर्थान्तरे वर्ण्यते—विरुद्धश्चतुष्प्रकारः—धर्मस्वरूपविपरीतसाधनः,34 धर्मिस्वरूपविपरीतसाधनः, धर्मविशेषविपरीतसाधनः, धर्मिविशेषविपरीतसाधन इति । तथेह नेष्यते, अतिप्रसङ्गस्य दर्शितत्वात् इति । अस्योदाहरणं—“नित्यः शब्दः, कृतकत्वात्” इत्यादि35 ॥ विरुद्धस्य व्यभिचारिवैलक्षण्यम्
ननु ! एकैकलक्षणापायात् पञ्च हेत्वाभासा इत्युक्तम् । अस्य च हेतोरुभे लक्षणे न स्तः । यथा ह्यस्य सपक्षे वृत्तिर्नास्ति, तथा विपक्षादपि व्यावत्तिः । यदि हि सपक्षादिव विपक्षादपि व्यावृत्त एष भवेत् गन्धवत्त्ववदसाधारण एव स्यादिति—सत्यमेवम्—विपक्षादव्यावृत्तिः व्यभिचारं प्रति प्रयोजकतां प्रतिपद्यते । प्रतिपक्षगामी हि व्यभिचरित इत्युच्यते । सपक्षे वृत्तिविच्छेदस्तु विपर्ययसिद्धौ प्रयोजक इति सत्यामपि विपक्षवृत्तौ सपक्षवृत्तिविच्छेदनिबन्धनमेवास्य विरुद्धत्वमुच्यते । विपक्षादप्रच्युतः स्वसाध्यमेव न साधयेत् । सपक्षे त्ववर्तमानोऽसौ विपरीतमपि साधयतीति तल्लक्षणापायकृतमेवास्य विरुद्धत्वमाचक्षत36 इत्यलं सूक्ष्मेक्षिकया । तदिदमुक्तं “सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः” इति ॥ अपसिद्धान्तादीनां विरुद्धरूपत्वपक्षः
अन्ये त्वन्यथा व्याचक्षते—किल साध्यधर्मविपर्ययसाधकवत् अपसिद्धान्तप्रतिज्ञाविरोधादयोऽपि सिद्धान्तविरोधिनः सङ्गृहीतुं युक्ता एव । ते चैवं व्याख्यायमाने न सङ्गृहीताः स्युः । क्त्वाप्रत्ययसिद्धान्तशब्दौ च न समन्वितौ स्याताम् । तस्मादभ्युपगतसिद्धान्तविरोधी इति सूत्रार्थे वर्णिते, अभ्युपगतं सिद्धान्तं यो विरुणद्धि, स विरुद्धः । तत्कालोपात्त प्रतिज्ञाविषयीकृतं वाऽवसरान्तरव्यवस्थापितं वेत्येतत्सङ्ग्रहश्च कृतो भविष्यति । सिद्धान्तशब्दश्च न सङ्कोचितो भविष्यति । क्त्वाप्रत्ययस्तु असङ्गतत्वादुपेक्ष्यत एव, भिन्नकर्तृकत्वात् आनन्तर्यस्य गम्यमानस्य चानुपयुक्तत्वादिति ॥ एतत्पक्षस्य भाष्यानुगुणत्वम्
तथा च भाष्यकारेण अविशेषेण पूर्वाभ्युपगतसिद्धान्तविरुद्धमेवोदाहरणमुक्तं “सोऽयं विकारो व्यक्तेरपैति, नित्यत्वप्रतिषेधात्37 । अपेतोऽप्यस्ति विनाशप्रतिषेधात्” इति । अत्र हि प्रतिषिद्धनित्यधर्मत्वादित्ययं हेतुः व्यक्तेरपेतोऽपि विकारोऽप्यस्तीत्यमुं सिद्धान्तं विरुणदि अनेन वा विरुद्ध्यत इति ॥ उक्तपक्षेऽस्वारस्यम्
एतत्त्वहृदयङ्गममिव व्याख्यानम् । अपसिद्धान्तप्रतिज्ञाविरोधादेः निग्रहस्थानसूत्रे हेत्वाभासेभ्यः पृथगुपदेशात् किमिह तत्सङ्ग्रहेण । प्रत्युत, सङ्ग्रह एव दोषः । यो हि “मीमांसकोऽहम्” इत्यभ्युपगम्य “अनित्यः शब्दः, कृतकत्वात्, घटवत्” इति ब्रूयात्, न तस्यायं हेतुः विरुद्धो भवेत्, अपि तु अपसिद्धान्तनैवासौ निगृह्येत । तस्मात् साध्यविपर्ययसाधन एव विरुद्ध उच्यते, न तु पूर्वाभ्युपगतस्वसिद्धान्तविरुद्धः38 ॥ उक्तपक्षस्य सूत्राननुगुणत्वम्
न च निरभिप्राय एव सूत्रकृता क्त्वानिर्देशः कृतः, किन्तु ततः प्रतीयमानमानन्तर्यमप्यपेक्षमाणेन । यो हि सिद्धान्तमभ्युपेत्य प्रतिज्ञाय तत्सिध्यर्थतयोपादीयमानः तमेव विरुणद्धि, स विरुद्धो हेत्वाभास इति प्राक्तनमेव व्याख्यानमनवद्यम् ॥

अतः प्रतिज्ञाविपरीतसाधनात्
विरुद्धतामेति न हेतुरन्यथा ।
विशेषबाधादिनिबन्धनं पुनः
चहुप्रकारत्वमसुष्य नेष्यते ॥

सप्रतिपक्षलक्षणम्
यस्मात् प्रकरणचिन्ता स निर्णयार्थमुपदिष्टः प्रकरणसमः ॥ १-२-७ ॥

एकैकलक्षणापायनिमित्तहेत्वाभासपञ्चकप्रतिज्ञानात्, असत्प्रतिपक्षत्वलक्षणवैकल्यात् किल प्रकरणसमो नाम हेत्वाभासो वक्तव्यः । स च न सम्भवति, सप्रतिपक्षस्य हेतोरभावात् । अद्व्यात्मकत्वाद्धि वस्तूनामेकत्र परस्परविरोधिधर्मद्वयप्रयोजकहेतुसमावेशो नास्तीत्यसकृदुक्तम् । अतं एव हि विरुद्धाव्यभिचारी निरस्तः । अनुमानविरुद्धमनुमानं च नेष्यत एव39 । तत्कुतः सप्रतिपक्षो हेत्वाभासः ? अतश्च लक्ष्याभावात् कस्येदं लक्षणमित्यत्राह—यस्मादित्यादि ॥ सूत्रव्याख्यानम्
विचार्यमाणौ प्रागुक्तलक्षणकौ पक्षपतिपक्षौ प्रकरणम् । तस्य चिन्ता संशयात् प्रभृत्यानिर्णयात् यद्यपि भवति, तथापीह विमर्शात्मिकैव गृह्यते । सा यस्मात् भवति ॥

कस्माच्च सा भवति ? विशेषानुपलम्भात् । स एव विशेषानुपलम्भः यदि निर्णयार्थमुपदिश्यते, तत्प्रकरणमनतिवर्तमानत्वात् प्रकरणसमो भवति । नित्यः शब्दः, अनित्यधर्मानुपलब्धेः, आकाशवत् । अनित्यः शब्दः, नित्यधर्मानुपलब्धेः, घटवत्—इति । सोऽयं सप्रतिपक्षो हेतुरिह लक्ष्यो विद्यते ॥ विरुद्धहेतुद्वयासमावेशेऽपि तथा प्रयोगः
न च द्रव्यात्मकानि वस्तूनि, प्रमातारस्तु रूपमेषां नियतमवधारयितु मशक्नुवन्त एवं भ्राम्यन्तीतिनन्वेवं सद्धेतावपि सप्रतिपक्षप्रसङ्ग इति चेत्—सत्यम्—तत्र भ्रममूलकत्वोद्भा वनेनैव वादिनो जयः ॥ ॥

तथा हि—एकस्तद्विशेषानुपलब्धेः पक्षधर्मान्वयव्यतिरेकात्पश्यंस्तथेति साध्यं बुध्येत, तथैव परं प्रत्याययेदिति । इतरोऽपि द्वितीय विशेषानुपलब्धेः साधनतां बुद्ध्वा प्रत्यवस्थानं च करोतीति स्वप्रतिपत्तिसाक्षिक एवैष प्रकरणसमो हेत्वाभासः ॥ सप्रतिपक्षस्य इतरवैलक्षण्यम्
तथा च न तावदयं सम्यग्घेतुः, प्रतिपक्षोपहतत्वेन स्वसाध्योपस्थानसामर्थ्यशून्यत्वात् । हेत्वाभासोऽपि भवन् न तावदसिद्धः, साध्ये धर्मिणि शब्देऽनुपलभ्यमाननित्यधर्मत्वस्य हेतोः सद्भावात् । नापि विरुद्धः, साध्य, विपर्ययसाधननिमित्तभूतसपक्षवृत्त्यवियोगानुपपत्तेः । नाप्यनैकान्तिकःपक्षद्वयसाधारणत्वानवधारणात् । संशयजनकत्वं तु न तस्य लक्षणमित्युक्तमेव ॥ सप्रतिपक्षस्यानतिरिक्तत्वाक्षेपः
ननु ! एकस्मिन् पक्षे नियतः ऐकान्तिक, तद्विपर्ययादनैकातिकः । स चायं नित्यानित्यपक्षयोरन्यतरत्रापि न नियत इति अनैकान्तिक एव स्यात् । अपि चाहुः— “ अप्रामाण्यं त्रिधा भिन्नं मिथ्यात्वाज्ञानसंशयैः


[श्लो। वा। १-१-२ श्लो ५४]

इति । तत्र यथा इन्दियादेरबोधकत्वाद्वा संशयविपर्ययस्वभावावभाससमुत्पादनदौरात्म्याद्वा भवत्यप्रामाण्यव्यवहारः, एवमनुमानमपि तेनैव वर्त्मना प्रमाणाभासतामबलम्बते ॥ हेत्वाभासत्रैविध्याक्षेपः
तत्रासिद्धस्तावदलभमानो धर्मिणि वृत्तिं तत्र साध्यधर्मधियमाधातु मनधिकृत इत्यज्ञानफलत्वादप्रामाण्यफलमनुभवति ॥

विरुद्धस्तु विपर्ययसाधन इति भवन्त एव प्रतिपन्नाः ॥

संशयजनकस्त्वनैकान्तिको भवितुमर्हति । न तु पारिभाषिकविपक्ष वृत्तित्वमेव तस्य लक्षणमुचितम् । उभयमपि चान्यतरपक्षनियमविरहिततनुरिति किमिति न भवति विमर्शमुपदधदनैकान्तिक इति त्रय एव हेत्वाभासाः ॥ सप्रतिपक्षस्यातिरिक्तत्वसाधनम्
उच्यते—न फलनियमेन लक्षणनियमः कर्तुं शक्यते । यद्यपि द्विविधं त्रिविधं भवत्यप्रमाणफलम्, तथापि न त्रिलक्षणके लिङ्गेऽविनाभावः परिसमाप्यते,40 अपि तु पञ्चलक्षणक इति प्रसाधितोऽयमर्थः । तद्वैकल्याच्च हेत्वाभासानामपि पञ्चत्वमेव । फलं तु द्विविधमस्तु, त्रिविधं वा । न ह्यप्रतिपत्तिजनकं किञ्चिल्लिङ्गमुपलभामहे । न चाप्रतिपत्तिः प्रयत्नजन्या, प्रागभावस्य निसर्गसिद्धत्वात्—इत्यलमवान्तरचिन्तनेन ॥ सप्रतिपक्षस्यानेकान्तिकवैलक्षण्यसू
न फलापेक्षः लिङ्गलक्षणनियमः । तत्र यथा पक्षधर्मरहितत्वमसिद्धलक्षणम्, एवं व्यतिरेकवैकल्यं अनैकान्तिकलक्षणम् । एष च हेतुः पक्षधर्मान्वयव्यतिरेकाणामन्यतमेनापि रूपेण न विकल इति कथमनै कान्तिकतां प्रतिपद्येत । व्यस्ततायां हि सर्वाण्येतानि सन्ति लक्षणानि । समस्तस्तु नोपन्यस्त एव हेतुत्वेन नित्यानित्यधर्मानुपलब्धेरिति ॥ सप्रतिपक्षस्य संशयजनकत्वम्
ननु ! यद्यस्य पक्षधर्मान्वयव्यतिरेका निरपवादाः सन्ति, कथं तर्हि न हेतुरेवायम् । इतरस्यपि पक्षधर्मान्वयव्यतिरेकाणां निरपवादाना मसम्भवात् सोऽपि न कथं हेतुः ? अस्त्विति चेत्—न—वस्तुनः द्वैरूप्यानुपपत्तेः । एवमिमौ हेतू पक्षद्वयेऽपि बुद्धिं जनयन्तौ संशयमावहतः, नानैकान्तिकवत् विपक्षवृत्तित्वेनेति हेत्वाभासान्तरत्वम् ॥

एवंविधस्य चास्य प्रकरणसमस्य विरुद्धाव्यभिचारीति नाम यदि क्रियते—तदपि भवतु । न पुनरनैकान्तिकप्रभेदतामबलम्बते, तल्लक्षणासंस्पर्शात् । उभयप्रतीतिजनकौ हीमौ हेतू भवतः, नोभयपक्षवृत्तीति ॥ सप्रतिपक्षस्य बाधाद्वैलक्षण्यम्
नाप्ययं कालात्ययापदिष्टः, प्रत्यक्षागमयोरन्यतरस्यापि बाधकस्यानु पलम्भात् । अनुमानं तु नानुमानस्य बाधकं भवितुं क्षममित्युक्तम् । न चेतरेतरवाद्यपेक्षयाऽनयोरसिद्धत्वमभिधेयम्, संशयजनकत्वेऽनुभवसिद्धे सति विशेषानुपलब्धेरप्रत्याख्येयत्वात् ॥ सप्रतिपक्षस्थले परस्परप्रतिघातासम्भवः
ननु ! निश्चितस्य साधनप्रयोगाधिकारात् कथञ्चित्तावत् साधनं प्रयुञ्जीत । निश्चितत्वे च तद्धर्मानुपलब्ध्योः41 परस्परमसिद्धत्वं स्थितमेव—नैतदेवम्—अन्यतरधर्मानुपलब्धेरेव पक्षधर्मत्वान्वयव्यतिरेकात् पश्यन्नसौ निश्चिततां प्राप्तः, न द्वितीयधर्मानुपलब्धेः असिद्धतां बुद्ध्यमानः । अत एव भ्रान्तिमूल एष हेत्वाभासः । द्वितीयधर्मानुपलब्धिसिद्धत्वनिश्चये तु सम्यग्घेतुरेव स्यात् । तदसिद्धत्वानवधारणेऽप्यसौ स्वस्य हेतोस्त्रैरूप्यदर्शनात् निश्चितमतिर्भूत्वा साधनं प्रयुञ्जान इतरेण तथैव निश्चितमतिना प्रतिप्रयोगे कृते, तस्यापि त्रैरूप्यमुपलभमानः संशयमधि गच्छतीत्यलं प्रसङ्गेन ॥

तदेवं असिद्धादिलक्षणवैपरीत्यात् प्रतीत्यनुगुणः प्रकरणसमो नामासद्धो हेत्वाभासः ॥ सप्रतिपक्षविषये पक्षान्तरम्
अपरे पुनः उदाहरणान्तरमस्य व्याहरन्ति—नित्यः शब्दः, पक्षसपक्ष योरन्यतरत्वात्, आकाशवत् । अनित्यः शब्दः, पक्षसपक्षयोरन्यतरत्वादेव, घटवदिति ॥

ननु ! पक्षसपक्षयोरन्यतरः पक्षो वा स्यात्, सपक्षो वा स्यात्, न तृतीयः । न हि मित्रावरुपयोरन्यतरः सोमो भवतुमर्हति । तत्र पक्षेन्यतर शब्दवाच्येऽनन्वयः । न हि शब्दाख्यः पक्षः धर्मी धर्म्यन्तरे वर्तते । सपक्षे त्वन्यतमाभिधेये पक्षधर्मता नास्ति । न ह्याकाशादिः सपक्षः शब्दाख्ये धर्मिणि वर्तते ॥ अन्यतरत्वं न प्रत्येकमात्रम्
उच्यते—न पक्षत्वादिति हेतुः प्रयुक्तः, सपक्षत्वादिति वा; येनैवं स्यात्; पक्षसपक्षयोरन्यतरत्वादिति । तच्च द्वयोरपि किमपि साधारणं रूपम्42 । न हि वरुणो यष्टव्यःऽ इति यादृशी बुद्धिः, तादृश्येव “मित्रावरुणयोरन्यतरो यष्टव्यः” इति । विशेषनिष्ठतायां तु बलादापाद्यमानायां सकलानुमानोच्छेदः । न चान्यतरत्वं शब्दमात्रारोपितं रूपमवास्तवमिति वदितुमुचितं अर्थासंस्पर्शितायाः43 प्रतिक्षिप्तत्वात् ॥

अन्यतरत्वादित्यसिद्धो हेतुरिति चेत्, किल पक्ष एवायं, न पक्षसपक्षयोरन्यतर इति—तदयुक्तं—यत एवायं पक्षः, तत एवायं पक्षसपक्षयोरन्यतरः । न ह्यपक्षः पक्षसपक्षयोरन्यतरः स्यात् । न ह्यवरुणो मित्रावरुणयोरन्यतर इत्युक्तमेव ॥

पक्षोऽपि च भवन्नेषः न पक्षत्वादित्यनेन रूपेण—हेतूक्रियते, किन्तु अन्यतरत्वादिति । इत्थं च हेतूकरणे नैकोऽपि दोष इति ॥ सप्रतिपक्षोदाहरणान्तरम्
अपरमुदाहरणम्—“सन्44 सर्वज्ञः, इतरतद्विपरीतविनिर्मुक्तत्वात्” “घटवत्” “असन् सर्वज्ञः, इतरतद्विपरीतविनिर्मुक्तत्वात्, खरविषाणवत्” इति अत्राप्याक्षेपप्रतिसमाधानप्रकारः पूर्ववदनुसरणीयः ॥

धर्म्यसिद्धतादि च यत्नतः परिचिन्तनीयम् ॥

एवञ्जातीयकं तूदाहरणं नानुमोदन्ते मतिमन्तः । यत्र हि हेतुना स्वयमर्थं सम्यगसम्यग्वाऽनुमाय प्रमाता परप्रत्यायनाय तमेव हेतुं प्रयुञ्जीत, स प्रयुज्यमानः वस्तुबलप्रवृत्ततया हेतूभवति, हेत्वाभासीभवति वा ॥ उक्तानुमानयोः अनुदाहरणत्वम्
तथा हि—आरोहपरिणाहवति पुरोऽवऽस्थिते धर्मिणि स्थाणुगतविशेषानुपलम्भात् एकस्य पुरुष इति भवति प्रतीतिः, इतरस्य तु पुरुषगत विशेषानुपलब्धेः स्थाणुरिति भवति मतिः । एवं च यदाऽसावेकः पुरुषत्व सिद्धये परं प्रति स्थाणुधर्माग्रहणं हेतुत्वेन ब्रूयात्, इतरोऽपि पुरुषधर्माग्रहणेन स्थाणुतां प्रतिष्ठापयन् प्रत्यवतिष्ठेत, तदा स्वप्रतीत्यनुसरणपुरस्मरसाधनाभिधानात् भ्रान्तिसम्भवाच्च युक्तं तथाविधोदाहरणकीर्तनम् । एवं “नित्यः, शब्दः अनित्यधर्मानुपलब्धेः आकाशवत्; अनित्यः शब्दः, नित्यधर्मानुपलब्धेः, घटवत्” इत्यपि द्रष्टव्यम् ॥ सप्रतिपक्षहेत्वोर्वस्तिवत्वावश्यकता
यस्तु न वस्तुमूलः केवलोत्प्रेक्षामात्राबलम्बनः स्वप्रतीतिषु न दृष्टपूर्वः, किं तदुपन्यासेन ?

एतेन सद्वितीयप्रयोगा अपि प्रत्युक्ताः । यथा क्वचित् साधनप्रयोग कृते सति तत्रैवं परः प्रत्यवतिष्ठते—प्रस्तुतसाध्यधर्माधिकरणत्वशून्यधर्मिघटान्यतरसद्वितीयो घटः, अनुत्पन्नत्वात्, कुड्यवदिति । यथा प्रस्तुतेन सिषाधयिषितेन धर्मेण शून्यः यः प्रकृतो धर्मी घटश्च, तयोरन्यतरेण सद्वितीयोऽयं घटाख्यो धर्मी, तत्र हेतुः अनुत्पन्नत्वम्, तस्य कुड्यादौ व्याप्तिरिति ॥ केवलस्वबुद्धिकल्पितत्वस्यासप्रतिपक्षता
सत्यं वदत, यद्यस्ति लोके क्वचिदीदृशः प्रतीतिक्रमः—घटश्च धर्मी, धर्मिघटयोरन्यतरेण सद्वितीय इत्यत्र अन्यतरशब्दः सामान्यवचनोऽपि धर्मिणि व्याख्येयः । न हि घट एव घटेन सद्वितीयो भवितुमर्हति इत्यलमलीककल्पनाकौशलप्रत्याख्यानेन ॥

सम्यग्वा यदि वा ऽन्यथा विदधते ये हेतवः संविदं
दृष्टाः स्वात्मनि ते प्रयोक्तुमुचिताः कामं परज्ञप्तये ।
ये तु स्वप्रतिपत्तिमेव न तथा कर्तुं क्षमाः कल्पना-
सामर्थ्योत्थितवस्तुशून्यघटनाः किं तत्प्रयोगे फलम् ॥

अनुभवासिद्धहेतोः न सप्रतिपक्षत्वम्
ये तु सूक्ष्मोत्प्रेक्षणक्षमप्रज्ञातिशयाभिमानदुर्विदग्धाः तथाविधानपि प्रयुञ्जते—

कृतकरचनाचातुर्यं तैः प्रदर्शितमात्मनः
भवति न पुनश्शुद्धिः काचित्प्रमेयदिशः कृता ।
क्वचिदवसरे एवम्प्रायाः परभ्रमकारिणः
किल सफलतां दध्युः जल्पे45 यथा कथितं पुरा ॥

तत्र त्वेतान् कथयति परः प्राज्ञमानी यदा वा
तस्याख्येयो निपुणमतिना पूर्वनीत्या समाधिः ।
द्राधीयस्या तदलमनया तार्किकम्मन्यगोष्ठ्या
हेत्वाभासः प्रकरणसमस्त्वेष निर्णीत एव ॥

असिद्धलक्षणम्
साध्याविशिष्टः साध्यत्वात्साध्यसमः ॥ १-२-८ ॥

अन्यतरवादिप्रसिद्धंअन्यतरं प्रति यत् साधयितुमुपादीयते, तत् साध्यम् । तदविशिष्टो हेतुः साध्यसमः ॥

कथं साध्येन तुल्यता हेतोरिति चेत्, आह—साध्यत्वादिति । यथा साध्यमसिद्धत्वात् साध्यम्, तथा तत्सिध्यर्थमुपात्तो हेतुरपियः असिद्धत्वात् साध्यः, सः साध्याविशिष्टत्वात् साध्यसम उच्यते ॥

एतच्चान्यतरासिद्धस्यैव लक्षणम् । यथा मीमांसकं प्रति “अनित्यः शब्दः कृतकत्वात्, घटवत्” इति । न46 चाक्षुषत्वादेरुभयासिद्धस्य साध्यत्वं सम्भवतीत्यतः सकलासिद्धभदसङ्ग्रहाय “साध्यत्वात्” इत्येतत्पदरहितं “साध्याविशिष्टः” इत्येवासिद्धलक्षणमुपवर्णनीयम् ॥ साध्यस्य रूपद्वयम्
साध्यस्य च रूपद्वयमस्ति, असिद्धत्वं साध्यत्वं च । तत्रासिद्धत्वमेव भवति तवविशिष्टत्वकारणं इहाश्रीयते सर्वासिद्धभेदसाधारणम् न तु साध्यत्वमन्यतरासिद्ध्येकलग्नमिति । एवञ्चासिद्धत्वमेवासिद्धस्य लक्षणमुक्तं भवति । पक्षधर्मत्वं यस्य नास्ति, साध्ये धर्मिणि यो न वर्तते—हेतुः सोऽसिद्ध इति ॥ असिद्धा अनेकविधाः
तस्य तु भूयांसो भेदा भवन्ति—हेतुस्वरूपे तावत् अन्यतरस्य वादिनोः, द्वयोर्वा अज्ञानम् सन्देहः, विपर्यय इति । तथा तदाश्रयेऽपि धर्मिणि एकस्य वा, द्वयोर्वा तथैवाज्ञानसन्देहविपर्यया इति । भूयसि च पक्षीकृतेऽर्थे तदेकदेशे क्वचिद्वृत्तिः,—तदितरत्रावृत्तिरिति । एकदेशवृत्तावपि द्वयोरेकस्य वा तथैवाज्ञानसंशयविपर्यया इत्येवं प्रकारभेदोदाहरण— वर्णनमल्पप्रयोजनमिति न प्रस्तूयते ॥ अन्यतरासिद्धेः सर्वसम्प्रतिपन्नत्वम्
अन्यतरासिद्धे तु न विवदन्ते, प्रमाणस्यापक्षपातित्वात् । यदि तावत् कृतकत्वं शब्दे प्रमाणतो निश्चितं, तर्हि मीमांसकस्यापि तार्किकस्येव तत्सिद्धमेव । अथ तत्रकृतकत्वनिश्चयनिपुणं नास्त्येव प्रमाणम्, तदा तार्किकोऽपि तूष्णीमास्ताम् । द्वयोरप्यसौ चाक्षुषत्वादिवत् न सिद्धो हेतुः । वाङ्मात्रेण त्वसिद्धिकथनमसाम्प्रतम्, अतिप्रसङ्गादिति ॥ असिद्धस्यानित्यदोषत्वम्
सत्यमेवं—न सर्वदाऽन्यतरासिद्धस्य हेत्वाभासत्वं समभिदध्महे । किन्तु किञ्चित्कालमिति । यदैकेन वादिना हेतौ प्रयुक्ते द्वितीयो वदति, “मां प्रति न सिद्ध एष हेतुः” इति । तदा हेतोः प्रयोक्त्रा तत्साधनमभिधेयम् । अनभिधानात्स पराजीयते । साधने तु तेनोक्ते तदसिद्धतोद्भा वनवादी पराजीयत इति यावत्तत्सिद्धौ नोपन्यस्तं साधनं, तावदेवासौ अन्यतरासिद्धः । अनन्तरं तु सम्यग्घेतुः उभयासिद्धो वा भविष्यतीति ॥ व्यधिकरणासिद्धिस्वरूपम्
व्यधिकरणासिद्धिस्तु यथोक्तभेदान्तर्गत एव । यथा “नित्यः शब्दः काकस्य कार्ष्ण्यात्” इति ॥

क्वचित्पुनश्च व्यधिकरणासिद्धोऽपि भवति गमक इत्येके । तद्यथा बहलबहलः प्रचलजलधरश्यामलवपुः अम्बरतलमाक्रामन् धूमप्रबन्धः क्षोणी ध्रकन्दरादिप्रदेशधर्मत्वानवधारणेऽपि तत्र गमयितुमलमनलमिति यदा वा “अग्निमानेषु देशः, धूमोपलब्धेः” इति प्रयुज्येत, तदा उपलब्धे, रात्मधर्मतया वैयधिकरण्येऽपि गमकताऽस्तीति47 ॥ अन्यथासिद्धस्य नातिरिक्तत्वम्
अन्ये तु अन्यथासिद्धत्वं नाम तद्भेदमुदाहरन्ति । यस्य हेतोः धर्मिणि वृत्तिर्भवन्त्यपि साध्यधर्मप्रवृत्ता न भवति, सोऽन्यथासिद्धः । यथा—“अनित्याः मनःपरमाणवः, मूर्तत्वात्, घटवत्” इति ॥

ननु ! कथमयमन्यथासिद्ध उच्यते ? किमिति सद्धेतुरेव न भवति ? किं परमाणुषु मूर्तत्वं न वर्तते ? किं घटादावनित्यतया व्याप्तं न दृश्यते ? किमाकाशादेः खपुष्पादेर्वा विपक्षान्न प्रच्यवते ? किं प्रत्यक्षेणागमेन वा बाध्यते ? किं प्रतिपक्षेण प्रबाध्यते ? येनाभासतां भजते—न—प्रतिबन्धाभावात् ॥ अन्यथासिद्धस्याप्रयोजकत्वम्
ननु ! पञ्चानां प्रतिबन्धलक्षणानां कतमदस्य श्लथीभूतम् ? नान्यतमस्यापि शैथिल्यं ब्रूमः । तत्किं पञ्चस्वपि लक्षणेषु न परिसमाप्तः प्रतिबन्धः ? न न परिसमाप्तः । का तर्हीयं विडम्बना—पञ्चसु लक्षणेषु प्रतिबन्धः परिसमाप्यते, तानि चास्य सन्त्येव । न चैष प्रतिबन्धः इति कैतवम्—उच्यते—प्रयोज्यप्रयोजकभावेन साध्यसाधनधर्मयोः धूमाग्निवत् प्रतिबन्धोऽवधार्यते । स चात्र प्रयोज्यप्रयोजकभावो नास्तीति । अत एवायमन्यथासिद्धः अप्रयोजक इति कथ्यते ॥ अप्रयोजकत्वनिर्णयक्रमः
कथं पुनरस्याप्रयोजकत्वमवगतम्—उच्यते—मूर्तत्वं हि सर्वगतेतरद्रव्यपरिमाणविशेषादिधर्मः48 वस्तुस्वभावमात्रनिबन्धनः न कृतकत्वादि वदनित्यतां प्रयोक्तुमुत्सहते49 । तथा हि परमाणुषु सिद्धेषु सत्सु तत्र वर्त मानं मूर्तत्वं अनित्यतां साधयेत्, अन्यथात्वाश्रयासिद्धतामुपेयात् । सिध्यन्त एव च सावयवकार्यानुमानमार्गेण, लोष्टप्रविभङ्गावभासमान भागपरम्परापरिकल्पनक्रमेण वा परमाणवो निरवयवाः सिद्ध्यन्ति । सावयवत्वे हि तदवयवाः परमाणवो भवेयु, न ते । तेषामप्यवयवान्तरपरिकल्पनायामपि अवयवानामानन्त्याविशेषत् सर्षपस्य मेरोश्च साम्यमापद्यते । न च तदस्ति । तदेवं निरवयवेषु परमाणुषु निसर्गसिद्धमनाश्रितत्वम् । अतश्च आश्रयविनाशावयवविभागादिविनाशकारणाभावात्,50 स्वाभाविकविनाशवादनिराकरणाच्च कथं परमाणूननित्यता स्पृशेत् । मूर्तत्वं तु वस्तुधर्मत्वाद्भवदपि प्रमेयत्वात् न प्रयोजकम् ॥

इयांस्तु विशेषः—प्रमेयर्त्व उभयपक्षस्पर्शादनैकान्तिकं भवदप्रयो जकम् । इदं तु मूर्तत्वं अनित्यव्यतिरिक्तस्त्वन्तरपरिचयविरहितमपि न प्रयोजकमिति ॥ मूर्तत्वहेतोरनैकान्कित्वाक्षेपः
ननु ! इदमपि प्रमेयत्ववत् विपक्षवृत्त्येव मूर्तत्वम् । क्व विपक्षे वर्तते ?—परमाणुष्वेव । ननु तेषां पक्षीकृतत्वात् कथं विपक्षता—न षेच्छानुरोधेन वस्तु विपरिवर्तते । विपक्षो हि नाम स उच्यते, यः सिषाधयिषितधर्मविपरीतधर्माध्यासिततया दृढप्रमाणसिद्धः । परमाणवश्चैतेऽनन्तरनिर्दिष्टनीतिक्रमेण निर्णीतनित्यत्वाः परमार्थतो विपक्षा एवानित्यत्ववादिनः । स तु रागद्वेषकलुषितहृदयतया यदि तावत् पक्षतया ब्रवीति, ब्रवीतु नाम । न तु सुस्पष्टासिद्धनित्यतानां विपक्षभावो निवर्तत इति ॥ तस्यानैकान्तिकत्वासम्भवः
तदिदमनुपपन्नम्—अनेन क्रमेण धूमानुमानस्याप्यनैकान्तिकत्वप्रसङ्गात् । धूमो हि महीभृति हुतवहविरहितवपुषि विपक्षे वर्तत एव । न तत्र चित्रभानोरभावो निश्चित इति चेत्—किन्नु खलु सद्भावोऽस्य तत्र गृहीतः, तथा सति वा कृतमनुमानेन ॥

अथ सत्त्वमसत्त्वं वा नावधारितमेव धराधरे, धूमकेतोस्तर्हि सन्दिग्धा तत्र विपक्षता । निश्चितविपक्षवृत्तिवत् संशयितविपक्षवृत्तिरपि नानैकान्तिकतामतिवर्तत इति सर्वानुमानानामेव निवापाञ्जलिर्दत्तः स्यात् ॥ पक्षस्यापि सपक्षविपक्षत्वाक्षेपपरिहारौ
न च वादिहृदयपरिकल्पनोपारूढस्थितिरपि पक्षो नाम नास्ति । तदभावे किमपेक्षः सपक्षविपक्षव्यवहारः । बुद्ध्यारूढत्वपक्षेऽपि न सपक्ष विपक्षयोः पक्षत्वम् । न च वस्तूनामुभयात्मकता भवेत् । किन्तु कञ्चिकालमत्यतरासिद्धिवत् विमतिपथापतितस्य वस्तुनः—पक्षत्वमुपेयते । निर्णयजन्मा तु विमतिविरतौ नूनमन्यतरवर्गपतितोऽसौ भविष्यतीति सर्वथा न तस्यां दशायां तेनानैकान्तिकत्वोद्भावनं युक्तम् ॥ पक्षे साध्यसिद्ध्यसम्भवाक्षेपपरिहारौ
ननु ! अनेन पथा पृथक्कृते सपक्षविपक्षाभ्यां पक्षेन तत्रान्वयव्यतिरेकयोः अन्यतरस्यापि ग्रहणं भवेत् । सपक्षे ह्यन्वयो गृह्यते, विपक्षे च व्यतिरेकः । एष तु ताभ्यामर्थान्तरमिति तत्रागृहीतान्वयव्यतिरेकात्मनियमे हेतुः षण्ढ इव सुतजन्मनि न समर्थ एव साध्योपस्थापने भवेत् ॥

अलमनया डिम्भबिभीषिकया । न हि सकलसपक्षविपक्षसाक्षात्करणकारणकेकोल्लेखपुरस्सरं व्यप्तिग्रहणमिति पूर्वमेव निर्णोतोऽयमर्थः । न चतद्वर्जमिति व्याप्तिग्रहणं भवति, येन षण्ढसुतसाम्यचोदनावकाशः स्यात् । सामान्येन हि व्याप्तिर्गृह्यमाणा तत्रापि गृहीता भवत्येव । तेनापि च कालान्तरे सपक्षविपक्षान्यतरवर्गानुप्रवेशिना भवितव्यमेव । विमत्यवस्थायां तु पृथगेव ताभ्यामसाविति न तत्र वर्तमानो हेतुरनैकान्तिको भवति ॥

एतेन ईश्वराद्यनुमानानामप्यनैकान्तिकत्वमपाकृतं वेदितव्यम् तस्मान्नानैकान्तिकत्वेनागमकं मूर्तत्वम्, अपि त्वन्यथासिद्धत्वेनैवेति ॥ उक्तहेतोर्बाधितत्वमपि न
ननु ! एवमपि परमाणुप्रसाधनानुमानमहिमहतशक्तितया मूर्तत्वमनित्यत्वसिद्धावक्षमं जातमिति51 ततश्च कालात्ययापदिष्टत्वात् नान्यथासिद्धतामधिगच्छेत्—नैतदेवम्—कालात्ययापदिष्टो हि प्रत्यक्षागमापहृतविषय उच्यते, “अनुष्णः कृष्णदर्त्मा” “मदिरा द्विजैः पातव्या” इत्यादौ । दर्शितः “यत्पुनरनुनुमानं प्रत्यक्षागमविरुद्धं न्यायाभासः सः” [न्याभा-१-१-१] इति । न च परमाणुषु परमाणुतयैव सततपरोक्षेषु प्रत्यक्षमनित्यताविपर्ययग्राहि प्रवर्तितुं शक्तम् । आगमस्तु नास्त्येवेति कुतः कालात्ययापदिष्टता ॥ अनुमानेनानुमानबाधाक्षेपः
ननु ! किमिदमनिपतिवचनम्, उत वैदिकी चोदना, यत् प्रत्यक्षागमयोरेव बाधकत्वम् अनुमानं प्रति, नानुमानान्तरस्येति । परमाणुप्रसाधनानुमानं हि दृढं, अदृढस्य तदनित्यतानुमानस्य मूर्तत्वादेर्यदि बाधकं स्यात् को दोषः स्यादिति ॥

अथ मनुषे—नियम एवैषः, प्रत्यक्षानुमानयोर्विरोधे प्रत्यक्षमेव बलीय इति तदेवानुमानस्य बाधकमुचितम्, नानुमानान्तरमिति—तदसत्—अलात चक्रादौ प्रत्यक्षमप्यनुमानेनानन्यथासिद्धेन बाध्यत एव ॥ अनुमानेन प्रत्यक्षस्यापि बाधः
ननु ! भ्रमणविरतौ परिमितपरिमाणोल्मुकग्राहि प्रत्यक्षमेव तत्र प्रत्यक्षस्य बाधकम्, नानुमानमिति—नैवम्—अनवरतपरिभ्रमणसमुद्भूत चक्रावभाससमय एव अनुमानेन तत्र भ्रान्ततानिश्चयात् ॥

पूर्वप्रवृत्तं अचक्राकारतदलातपरिछेदि प्रत्यक्षं बाधकमिति चेत्—न— पूर्वप्रवृत्तत्वेनैवातिक्रान्तत्वात्52 । तस्मादनुमानमेव चक्रज्ञानबाधकम् । एवञ्च अनन्यथासिद्धमनुमानमपि प्रत्यक्षस्य बाधकं भवति ॥

यच्चानन्यथासिद्धतया मूलस्तम्भभूतमखिलानुमानप्रतिष्ठायतनं प्रत्यक्ष मपि बाधते, तत् अनुमानस्य तपस्विनः कथं न बाधकम् ? अतश्च प्रत्यक्षागमग्रहणस्योपलक्षणार्थत्वात् अनुमानबाधितमपि कालात्ययापदिष्टमेवेति ॥ अनुमानेनानुमानबाधासम्भवसिद्धान्तः
तदेतदसमीचीनम्—अनुमानादेर्बाध्यबाधकभावानुपपत्तेः । सर्वत्र खलु प्रमाण भासरूपं बाध्यते, न तु प्रमाणं नाम शक्यते बाधितुम् । अलातचक्रादावपि प्रत्यक्षाभासस्य बाधकमनुमानं, न प्रत्यक्षस्य । एवमत्रापि अनुमानाभासस्य बाध्यता, नानुमानस्य ॥

तदिदानीमनुमानाभासत्वमस्य किङ्कृतमिति चिन्त्यताम् । स्वलक्षणवैधुर्यादिति चेत्, किमनुमानान्तरेण बाधकेन । तद्वाध्यतया तु तदाभासत्वकथनमितरस्यापि तादृशमेव । परमाणुप्रसाधनानुमानमनन्यथासिद्धम् । इदं तु मूर्तत्वमन्यथासिद्धमिति चेत्, आगतोऽसि मदीयं पन्थानम् । अन्यथासिद्धत्वादेव तदप्रामाण्ये सिद्धे किं तद्बाधया ॥

अन्यथासिद्धत्वमेव कथमिति चेत्—न घटादौ मूर्तत्वप्रयुक्तमनित्यत्वम्, अपि तु कार्यत्वप्रयुक्तम् । कार्यस्य हि कारणविभागाद्वा, तद्विनाशाद्वा विनाशोपपत्तेः कार्यत्वमेवानित्यत्वप्रयोजर्क युक्तम्, न मूर्तत्वम् । मूर्तत्पे त्वनित्यताक्षेपिणि परमाणुतैव हीयेतेत्युक्तम् । तस्मान्न मूर्तत्वमनित्यतायां कारकं ज्ञापकं वेति भवत्यन्यथासिद्धम् ॥ अप्रयोजकस्यासिद्धावन्तर्भावहेतुः
भवत्वेवम्; असिद्धवर्गे तु कथमेष हेतुर्गण्यते ? साध्यधर्मयुक्ता53 धर्मिणि वृत्तिरस्य नास्तीति चेत्—यद्येवं पञ्चानामपि तत्प्रयुक्तवृत्तिरहितत्वात् असिद्ध एवैको हेत्वाभासः स्यात् ॥

अथ सत्यपि प्रयोजकत्वे विपक्षवृत्त्याद्यवान्तररूपभेदनिबन्धनानैकान्तित्वादिव्यपदेशपञ्चकभाज इमे हेत्वाभासा इष्यन्ते; हन्त तर्हि प्रकृ तोऽयं हेतुः “मूर्तत्वात्” इति किमनैकान्तिक उच्यताम्, अथ कालात्ययापदिष्टः,—आहोस्विद्विरुद्धः, उत प्रकरणसमः ? इति । नैषामन्यतमोऽपि वक्तुं शक्यते, एतल्लक्षणानुपपत्तेरिनि चेत्; काममसिद्धोऽपि मा वादि, पक्षे वर्तमानत्वेन तल्लक्षणस्याप्यनुपपत्तेरिति ॥ अप्रयोजकस्यातिरिक्तत्वमेवास्तु
अस्तु तर्हि षष्ठ एवायं हेत्वाभासः । सम्यग्घेतुतां तावद्यथोक्तनयेन नाश्नुत एव । न चैतेष्वन्तर्भवति इति बलात् षष्ठ एवावतिष्ठते । कथं विभागसूत्रमिति चेत्, अतिक्रमिष्याम इदं सूत्रम् । अतिक्रामन्तः— सुस्पष्टदृष्टमपीमं अप्रयोजकं हेत्वाभासमपह्नुवीमहि ? न चैवं युक्तम् । अतो वरं सूत्रातिक्रमः, न वस्त्वतिक्रम इति ॥

अथ वा न सूत्रकारनियमोल्लङ्घनं श्रेयः । प्रमाद्यन् खलु परिमित दर्शी मादृशः अन्यथा ब्रूयात् । न न्यायमहोदधेः पारदृश्वा भगवानक्षपादः । तदेनं हेत्वाभासं असिद्धवर्ग एव निक्षिपामः ॥ अप्रयोजकस्यासिद्धत्वमेव
ननु ! पक्षे वर्तमानः कथं तत्र निक्षेप्तुं शक्यते ? यथा साध्यधर्मप्रयोजकतया पक्षेऽपि वर्तितुं युक्तम्, तथा54 न वर्तत एवायं तत्रेत्यदूरविप्रकर्षेण भवत्येवायमसिद्धः । अत एवायमन्यथासिद्ध इत्युच्यते । यथाऽसिद्धः सिद्धो भवति, तथा न सिद्धः; अन्यथा तु सिद्ध इत्यनयानीत्योत्तानवृत्तिमात्रलाभेऽप्ययमसिद्धः । एवं अन्येषु तु हेत्वाभासेषु भङ्ग्यापि नान्तर्भवतीत्युक्तमेतत् ॥ अप्रयोजकत्वं सर्वानुगतं वा
अथवा सर्वहेत्वाभासानुवृत्तमिदं अन्यथासिद्धत्वं नाम रूपमिति न न षठोऽयं हेत्वाभासः । तत्तु क्वचित् केवलमेव दृश्यते । क्वचिदव्यभि चारादिरुपान्तरसहचारितम् । अतश्च व्यभिचारादिरूपापेक्षमेव पञ्चत्वसुपदिष्टवान् मुनिरिति न विभागसूत्रविरोधैत्यलमतिविस्तरेण ॥

युक्तस्तस्मादन्यथासिद्धनामा
हेत्वाभासः सोऽयमेकप्रकारः ।
यस्योत्ताना55 विद्यमानाऽपि पक्षे
वृत्तिर्न स्यात्साध्यधर्मप्रयुक्ता ॥

हेत्वाभासकुदुम्बकस्य तदिदं सर्वस्य साधारणं
रूपं यद्यपि लक्षणान्तरकृतः भेदस्तथा नान्यतः ।
सामान्यं तु विशेषरूपरहितं नास्ति प्रमाणं यथा
मा भूदत्र तथेति नास्य विषयश्चोद्यस्य वस्तुस्थितिः ॥

—इति असिद्धपरीक्षा— बाधितलक्षणम्
कालात्ययापदिष्टः कालातीतः ॥ १-२-९ ॥

यथाप्राप्तं हेतुप्रयोगकालमतीत्य यो हेतुरपदिश्यते, स कालात्ययापदिष्टः—कालातीत उच्यते ॥ व्याख्यान्तरम्
तत्र केचिदाचक्षते । प्रतिज्ञानन्तरं हि हेतुः प्रयोक्तुं युक्तः । तत्र यः प्रतिज्ञायाः पूर्वमेव, दृष्टान्तवचनादेरप्यूर्ध्वं वा प्रयुज्यते स कालात्यया पदिष्ट इति—तदनुपपन्नम्—

अक्षतप्रतिबन्धस्य साध्यावगतिकारिणः ।
क्रमातिक्रममात्रेण न हेत्वाभासता भवेत् ॥

कियांश्चैषदोषः, पदान्तरव्यवहितोच्चारणं नाम । व्यवहितमपि येन सह समुचितसमयमन्वेतुमधिकृतं इतरदतिनिकटपठितमपि पराणुद्य दवीयसाऽपि तेनैव सम्बन्धमनुभवति । यथा— “ अथसा56 पथि गच्छन्तीं औषधीं दीर्घलोचनाम् ।
दृष्टसि ? केदारे यो लुनासि मम प्रियाम् इति ॥


अपि च तकालमेतत् कथितं पृथगेव निग्रहस्थानम् । तच्चे पुनरुच्यमानं न त्वार्थमावहति तस्मादपव्याख्यानमेतत् ॥ व्याख्यानान्तरम्
अपर आह—शेषणस्य हेतोः प्रयुज्यमानस्य यस्य विशेषणं कार्यकालमत्येति, न तमवतिष्ठते, स कालात्ययापदिष्ट इति । यथा“कालान्तरस्थायी ः, संयोगव्यङ्ग्यत्वात्, रूपवत्” इति । अत्र न व्यङ्ग्यत्वमात्रं विवक्षितम्, अपि तु सविशेषणं संयोगव्यङ्यत्वम् । स चा व्यञ्जकः, दृष्टान्तधर्मिणि रूपे तदवगतिपर्यन्त स्थितिरुपलभ्यते दीपादिसंयोगः । साध्यधर्मिणि तु शब्दे न तथाऽवस्थान मिति दूरतो हि दारुपरशुसंयोगविच्छिन्ने छेत्रा पुनरुद्यम्यमाने परश्वथे श्रूयते शब्दः इति तदुपलब्धिकाले तदत्ययात् कालात्ययापदिष्टोऽयं हेतुरिति ॥ व्याख्यानान्तरनिरासः, स्वपक्षश्च
एतदपि न सङ्गतम्—असिद्धत्वेनास्य हेत्वाभासान्तरत्वानुपपत्तेः । तस्मादयमर्थ—हेतोः प्रयोगकालः प्रत्यक्षागमानुपहतपक्षपरिग्रहसमय एव । तमतीत्य प्रयुज्यमानः—प्रत्वक्षागमबाधिते विषये वर्तमानः कालात्यया पदिष्टो भवति । तस्योदाहरणं पूर्वमेव प्रदर्शितम् ॥

उष्णो न तेजोऽवयवी कृतकत्वाद्घटादिवत् ।
ब्राह्मणेन सुरा पेया द्रव्यत्वात् क्षीरनीरवत् ॥

यच्च किञ्चिदभिधेयवत्र तत्
सर्वमुक्तमनुमानलक्षणे ।
अप्रयोजकनिरूपणे पुनः
किञ्चनोदितमतो विरम्यते ॥

हेत्वाभासपरीक्षोपसंहारः
हेत्वाभासास्त एतेऽवगतिनियमितानन्यसङ्कीर्णरूपाः
निर्णीताः पञ्चयेऽर्थे विदधति महतीं शुद्धिमभ्यस्यमानाः ।
पक्षादौ वृत्तिभेदाकलनगुरुतरक्लेशनिष्पाद्यमानैः
तैन यत्ता तदीया क्वचन फलवती नादतास्तेन तद्ज्ञैः ॥

—इति हेत्वाभासाः— छलपरोक्षा
तत्त्वाध्यवसायसंरक्षणं जल्पवितण्डयोः प्रयोजनमुक्तम् । तदङ्गभूतानि छलजातिनिग्रहस्थानानि । यद्यपि च वादे केषाञ्चदभ्यनुज्ञानमस्ति । तथापि जल्पवितण्डे एव तेषां प्राचुर्येण क्षेत्रमिति तदौपयिकतया तत्स्वरूपनिरूपणं युक्तमित्युद्देशक्रमेण छलस्य तावल्लक्षणमाह—

वचनविघातोऽर्थविकल्पोपपत्त्या च्छलम् ॥ १-२-१० ॥

छलस्य भेदवत्त्वात् सामान्यलक्षणं, विभागः, विशेषलक्षणानि च वक्तव्यानि । तानीह सर्वाणि स्वकण्ठेन किल “तत्पूर्वकमनुमानम्” इत्यत्र त्रिचतुराक्षरसमर्पितापरिमितविषयविततानुमानलक्षणलब्धनिरति शयसूत्रकरणकौशल्यस्य मे किमधुना शिष्यजनमनःक्लेशकारिणा सङ्क्षिप्ता भिधानदोहदेनेति मन्यमानः सूत्रकृदुक्तवान्57 ॥ छलसूत्रव्याख्यानम्
तत्र “वचनविघातः” इति सूत्रं सामान्यलक्षणप्रतिपादकम् । परस्य वदतः वचनविघातः—अभिधाननिरोधः छलम् । किमास्यपिधानादिना ? नेत्याह—अर्थविकल्पोपपत्त्येति । वक्तुः अनभिप्रेतमर्थात्तदुक्ते वचसि समारोप्य तन्निषेधं छलवादी करोति । कथमर्थान्तरारोपणमिति चेत्— अर्थविकल्पोपत्त्या । विकल्पमानार्थघटनयेत्यर्थः ॥ निर्विशेषं न सामान्यम्
किमुदाहरणम् ? विशेषलक्षणेषु वक्ष्यामः । इहैव कस्मान्नोच्यते ? असम्भवादिति ब्रूमः । न हि निर्विशेषं सामान्यमुपपद्यत इति । तदुदाह्रियमाणं बलाद्विशेषनिष्ठमेवावतिष्ठते ॥

अन्येष्वपि “गौर्न पदा स्प्रष्टव्या” इति सामान्योपदेशेषु नामूर्तायां आकाशनिर्विशेषवपुषि जातौ स्पर्शप्रसक्तिः, तन्निषेधो वाऽवकल्पते । किन्तु व्यक्तिष्वेवेति विशेषविषय एव सर्वत्र क्रियायोग इति तत्रैवोदाहरणवर्णनं युक्तम् ॥ विशेषस्यैव सामान्यदृष्टान्ततापि
कथं तर्हि सकलहेत्वाभाससार्थसामान्यलक्षणम्, अप्रयोजकत्वम् अनपेक्षितसव्यभिचारविरुद्धादिविशेषमप्युदाहरणद्वारेण दर्शितम्—“अनित्याः परमाणवः, मूर्तत्वात्, घटवत्” इति—उच्यते—प्रमाणे तर्हि प्रत्यक्षादिविशेषनिरपेक्षं प्रमाणसामान्यं नोदाहृतम्58 ? ननु ! अयमपरो दोषोऽस्तु । तदप्ययुक्तमेवानुष्ठितम् । किमिति नोदाहृतम् अनपेक्षितप्रत्यक्षादिविशेषं प्रमाणसामान्यम्—अत्रोच्यते—न शक्यमुदाहर्तुम्, असम्भवादिति तन्नोदाहृतम्; न पुनरालस्यात् प्रमादाद्वा । हेत्वाभाससमूहत्वाधारण रूपं त्वप्रयोजकत्वं तथा सम्भवादुदाहृतम् । न च तत्सामान्यात् अत्रापि तथाऽस्त्विति वक्तव्यम् । न हि चाक्षुषेण पञ्चाशद्भवितुमर्हति । तस्मा नैवं वक्तुं शक्यम् ॥ सर्वत्र नैको न्यायः सम्भवति
यथा विरुद्धादिविशेषरूपरहितमप्रयोजकत्वं हेत्वाभासेषु सामान्यरूपं दृश्यते, तथा प्रमाणेष्वपि प्रत्यक्षादिविशेषरूपरहितं तद्दृश्यताम् । यथा वा प्रमाणेषु तन्न दृश्यते, तथा हेत्वाभासेष्वपि मा दर्शीति वस्तुस्वभावानामनुयोगक्षेत्रताऽनुपपत्तेः ॥

अपि च अप्रयोजकत्वं सामान्यं विरुद्धादिविशेषेष्विव तद्रूपरहितेषु तद्विशेषेष्वपि सम्भवद्दृश्यते । अत एव तदपि स्वविशेषनिष्ठमेवोदाहृतं— “अनित्याः परमाणवः, मूर्तत्वात्” इति । न चाकाशवदनालम्बनमेव किञ्चिदप्रयोजकत्वसामान्यमिति । तस्मात् सुष्ठूक्तं—“न सामान्यलक्षणे शक्यमुदाहर्तुम्” इति ॥ छलविभागः
एवं सामान्यलक्षणमभिधाय छलस्य विभागमाह—

तत् त्रिविधं वाक्छलं सामान्यच्छलमुपचारच्छलं च— ॥ १-२-११ ॥

निगदव्याख्यातं59 सूत्रम् । विभागसामान्यलक्षणयोश्च उपदेशपौर्वापर्यनियमो नास्तीति पूर्वमेवोक्तम् ॥ वाक्च्छललक्षणम्
अथ विभागक्रमेण लक्षणान्याह । तत्र—

अविशेषाभिहितेऽर्थे वक्तुरभिप्राथादर्थान्तरकल्पना वाक्छलम् ॥ १-२-१२ ॥

सम्भवद्विशेषेऽप्यविशेषसाधारणार्थसमर्पणकौशलशालिनि श्लेषालङ्कारवति शब्दे प्रयुक्ते सति, वक्तुरभिप्रेतमर्थमपह्नुत्य ततोऽर्थान्तरं परिकल्प्य, तन्निषेधवचनम्, वाचि निमित्तभूतायां छलं वाक्छलम् ॥

“नवकम्बलोऽयं माणवकः” इति “नवः कम्बलोऽस्य” “नव कम्बला अस्य” इति विग्रहद शादृश्यमानविशेषमपि समासपदमिदं अर्थद्वयेऽप्यवि शिष्टम् । तत्र अभिनवकम्बलयोगं वक्तुरभिप्रेतं प्रमाणोपपन्नं च निह्नुत्य नवसङ्ख्यासम्बन्धमध्यारोप्य तत्प्रतिषेधेन परः प्रत्यवतिष्ठते—“कुतोऽस्य नवकम्बलाः ?” इति । तदेतत् साधारणशब्दे वाचि छलं वाक्छलमिति ॥ वाक्छलप्रतिसमाधानम्
यथा च कस्याञ्चिदवस्थायां जल्पादौ छलादिप्रयोगो युक्त इति तद्व्युत्पादनम्, एवं परप्रयुक्तस्यापि सतः छलादेः प्रतिसमाधानमभिधेयमिति तदपि व्युत्पाद्यते । नव कम्बला अस्येति मम विवक्षितमिति कुतः प्रतिपन्नमायुष्मता ? किमयमभिनवकम्बलयोगप्रतिपादको न भवत्येव बहुव्रीहिः । पक्षद्वयेऽपि च सम्भवति । यदि तावदर्थप्रकरणादिसामर्थ्यपर्यालोचनावसितनियताभिधेयवृत्तिशब्दव्यवहाराभिज्ञोऽसि, तदर्थसिद्धमर्थमभिनवकम्बलसम्बन्धमेव बुद्ध्वा तूष्णीमास्व । अथ शुष्कतार्किककुटुम्बकगर्भदास इव शब्दवृत्तानभिज्ञ एव त्वम्, तर्हि पक्षद्वयसम्भ वेन संशयानो मामेव पृच्छ “किं ते विवक्षितम्” इति । निषेधकस्सन्60 वक्तुमुपक्रमसे ॥ अर्थद्वयसाधारणपदप्रयोगो न दोषाय
ननु ! त्वमप्यर्थप्रात्प्यादिफलपर्यन्तशब्दप्रयोगप्रवृत्तः किमिति साधारणमिदमन्धपदप्रायं वचः प्रयुङ्क्षे ? अयि बालिश ! तवैवेहेदमन्धपदम् ॥

अर्थप्रकरणाधीननियतस्वार्थवृत्तिताम् ।
यो न जनाति शब्दानां स एवमपभाषते ॥

इदमर्थद्वये तावत् साधारणपदं भवेत् ।
जातिशब्दाः पुनर्व्यक्तिसहस्राक्षेपकारिणः ॥

स्पृशन्ति नियतं वाच्यं तेऽपि प्रकरणादिना ।
ब्राह्मणान् भोजयेत्यादौ तद्वालेन न शिक्षितम् ? ॥

तस्माच्छब्दार्थसन्देहे प्रयोक्ता वा स पृच्छ्यते ।
न त्वर्थान्तरमारोप्य तन्निषेधो विधीयते ॥

सामान्यच्छललक्षणम्
सम्भवतोऽर्थस्यातिसामान्ययोगादसद्भूतार्थकल्पना सामान्यच्छलम् ॥ १-३-१३ ॥

अनिव्यापकं सामान्यम्—अतिसामान्यम् । तद्योगात्—तत्सम्भवात् क्वचिद्व्यक्तार्थस्य कस्य चित्सम्भवतः सम्भाव्यमाननिष्पत्तेः वक्त्राऽभिहितस्य सतः या असद्भूतार्थकल्पना—वक्तुरनभिप्रेतातिसामान्यहेतुत्वकल्पना तया च प्रत्यवस्थानं तत्सामान्यनिमित्तं छलं सामान्यच्छलम् ॥

यथा—क्वचिदुचितोपचारवचनाराध्यमानप्रगुणब्राह्मणकुले तत्कथाबहुले राजकुले कश्चित्सुजन्मा कञ्चिदग्रजन्मानं स्तौति—“अहो नु खल्वसौ ब्राह्मणः विद्या चरणसम्पन्नः”61 इति । तस्मिन् प्रसङ्गे तथाविध एवापरः तमुत्साहयन् कथयति—“सम्भवति ब्राह्मणे विद्याचरणसम्पत्” इति । तत्र पिशुनश्छलवाद्याह—“यदि ब्राह्मणे विद्यावचरणसम्पत् सम्भवति, तर्हि ब्रात्येऽपि ब्राह्मणत्वजात्यनपायात् सा भवेत्” इति ॥

तत्रेदमतिव्यापकं ब्राह्मणत्वसामान्यं यतो विद्याचरणसम्पदमत्येति, स्पृशति च तद्योगात् ब्राह्मणव्यक्तौ । सम्भवतः विद्याचरणसम्पद्रूपस्यार्थस्य वक्त्राऽभिहितस्य सतः, तत्र वक्त्रनभिमतामेवातिसामान्यहेतुतामारोप्य च्छलवादी प्रत्यवतिष्ठत इति ॥ सामान्यच्छलप्रतिसमाधानम्
अत्रोत्तरं—केन ब्राह्मणत्वस्यात्र हेतुत्वमभिहितम्, यदनैकान्तिकीकुर्वन् प्रत्यवस्थितोऽसि । सम्भावनावचनमिदं स्तुत्यर्थमुपन्यस्तम् । विद्याचरणसम्पदां पात्रं हि ब्राह्मणः । सति ब्राह्मणत्वे62 पूर्वजन्मोपचितसुकृतपरिणामात् भवति विद्याचरणसम्पत् । न च तदेव तस्या हेतुरिति ॥ यथा ऽसम्भवन्त्यस्मिन् क्षेत्रे शालयः इति क्षेत्रप्रशंसापरे वाक्ये प्रयुक्ते, नैवं वक्तुमापद्यते “यदि क्षेत्रमेव शालिसम्भवहेतुः, तर्हि विनाऽपि हलबलीवर्दादिसामग्रीं महत्यवग्रहेऽपि शालयोऽस्मिन् भवेयुः” इति । तदिदमर्थवादगत्यनभिज्ञस्य भवतः भाषितमित्यास्तामेतत् । इदं तु भवन्तं पृच्छामि भो महात्मन् !

स्वभावशुद्धा63 परिनिश्चितार्थ—
संस्पर्शिनी पुण्यसहस्रलभ्या ।
केनेदृशी सर्वजनानुकूला
कल्याणिनी ते निरमायि वाणी ॥

उपचारच्छललक्षणम्
धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेधः उपचारच्छलम् ॥ १-२-१४ ॥

अभिधानस्य64 धर्मः अनेकप्रकारः । मुख्यया वृत्त्या, गौण्या वा, लाक्षणिकया वा यत् अर्थे प्रत्यायनं, तदनेन विकल्पमानेन धर्मेण गौणेन, लाक्षणिकेन वा निर्देशे—प्रयोगे कृते, यः अर्थसद्भावप्रतिषेधः—मुख्यार्थनिषेधः, स उपचारनिमित्तं छलं उपाचारच्छलम् ॥

यथा “मञ्चाः क्रोशन्ति” इत्युक्ते, छलवाद्याह—“कथमचेतनाः काष्ठरचनात्मानः मञ्चाः क्रोशन्ति ? मञ्चस्थाः पुरुषा एते क्रोशन्ति, न मञ्चाः” इति ॥ उपचारच्छलप्रतिसमाधातम् ॥
अत्र समाधिः—वृद्धव्यवहाराच्छब्दार्थव्युत्पत्तिः । तत्र न केवल यैव मुख्यया वृत्त्या शब्दाः प्रवर्तवानाः दृश्यन्ते, वृत्त्यन्तरव्यवहारस्यापि सुप्रसिद्धत्वात् । न च निर्निमित्तमेव परशब्दं परत्र प्रयुक्तवन्तो वयम्, सहचारणादिसूत्रनिवेदितनिमित्तनिकुरुम्बान्यतमनिमित्तपूर्वकत्वात्65 अस्य प्रयोगस्य । स्थानादयं तद्वदुपचारः । स त्वं गौणलाक्षणिकादिशब्दप्रयोगा वगतिबाह्य एव, य एवं प्रत्यवतिष्ठते ॥ गौणलक्षिणकयोर्भेदः
गौणलाक्षिणकयोः कथं विशेषः ? इति चेत्—उच्यते—सत्यं गौणेऽपि लक्षणा विद्यते । एवं सति गोशब्दः स्वार्थमभिधाय सास्नादिमन्तं, तदीयान् गुणानेव जाड्यमौढ्यतिष्ठन्मूत्रणादीन् लक्षयति । न तु तावत्येत्व विरमति । स तु सामानाधिकरण्येन वाहीकेऽपि प्रवर्तते । “गौर्वाहीकः” इत्येवं प्रयुज्यमानः स गौणो भवति ॥

यस्तु स्वार्थाभिधानानन्तरं तदितरमर्थं गुणमगुणं वा लक्षयत्येव, न सामानाधिकरण्येन परत्र प्रयुज्यते शब्दः, स लाक्षणिको भवति “गङ्गायां घोषः प्रतिवसति” इति । तथा चोक्तं “गौणे हि प्रयोगः,66 न लक्षणा याम्” इत्यलं शास्त्रान्तरोद्गारगहनाभिः कथाभिः ॥

मुख्यमर्थमथ लाक्षणिकं वा
गौणमप्यवगमय्य च शब्दः ।
लोकवेदविहितं व्यवहारं
सन्तनोति तदभिज्ञमतीनाम् ॥

कुर्यादाक्षेपं यश्च भाक्ते प्रयोगे
मुख्यं मत्वार्थं तत्र वक्तुर्न दोषः ।
तेन त्वात्मीयं शब्दवृत्तानभिज्ञं
रूपं व्यक्तं स्यादत्र वृद्धाः प्रमाणम् ॥

छलभेदाक्षेपपरिहारौ
एवं छलस्य विशेषलक्षणान्यभिधाय तत्परीक्षार्थमाक्षेपं करोति—

वाक्च्छलमेवोपचारच्छलं तदविशेषात् ॥ १-२-१५ ॥

न खलु वागुपचारच्छलयोः कश्चिद्विशेषः । अनेकधा शब्दार्थे सम्भवति वक्त्रभिमतादर्थादन्यस्य कल्पनं, तत्प्रतिषेधनं चोभयत्रापि समानम् । अवान्तरविशेषकृतनानात्वाभ्युपगमे च तदानन्त्यप्रसङ्गः ॥

अत्र समाधिमाह—

न तदर्थान्तरभावात् ॥ १-२-१६ ॥

नैतदेवम्—वाक्छलमेवोपचारच्छलमिति, ततोऽर्थान्तरत्वात् । वाक्छले हि “नवकम्बलः” इति नवसु कम्बलेषु, नवे च कम्बले मुख्यार्थ एव शब्दः “सरामः”67 इत्यादिवत् । ततस्त्वेकतरं वक्तुरनभिप्रेतं छलवादिनाऽऽरोप्य निषिध्यते । उपचारच्छले तु काष्ठसन्निवेशे मुख्यार्थे मञ्चशब्दः पुरुष भक्त्या प्रवृत्तः । मुख्यमभिधाय च गौणः प्रत्याय्यो भवति । न त्वेष क्रमः साधारणशब्देष्विति महान् भेदः ॥

वाक्च्छले चार्थसत्तैव निषिध्यते “कुतोऽस्य नव कम्बलाः” इति । इह तु सतो मञ्चस्य क्रोशनशक्तिर्निषिध्यते ॥

समाधिरपि साधारणशब्दानभिज्ञतां परस्य प्रदर्शयता वाक्छले वाच्यः । उपचारच्छले तु गौणशब्दवृत्त्यनभिज्ञतामिति महान् विशेषः ॥ छलत्रैविध्यसमर्थनम्
अविशेषे वा किञ्चित्साधर्म्यादेकच्छलप्रसङ्गः ॥ १-२-१७ ॥

छलस्य द्वित्वमभ्यनुज्ञाय त्रित्वं भवता प्रतिषिध्यते, यतः सामान्यच्छलं पार्श्वे कृत्वा वागुपचारच्छलयोरभेदमभिहितवानसि । यथा चायं तदविशेषादिति त्रित्वप्रतिषेधः, तथा द्वित्वस्यापि, किञ्चित्साधर्म्यस्य सामान्यच्छलेऽपि भावात् ॥

तथा हि—यदि तावद्वाचि निमित्तभूतायां इदं प्रवृत्तं छलम्, इदं चेति तदभेदं मन्यसे, तर्हि सामान्यच्छलमपि मा पृथग्वोचः । तदपि हि न शरीरे मनसि बुद्धौ वा प्रवृत्तम्, अपि तु वाच्येवेतिः वाक्छलमेवैकस्यात् ॥

अथैवं सत्यपि तद्विशेषो दृश्यमानः न पराणुद्यते, सामान्यच्छलेपि न शब्दार्थोऽन्यथाकृतः, किन्तु सामान्यस्य हेतुत्वमनुक्तमारोपितमिति पृथगिष्यते; तर्हि वागुपचारच्छले अपि भिद्येते एवेति दर्शितम् । अतो युक्तं छलत्रित्वम् ॥

न चानन्त्यम्, इयत्तानियमकारिणः निमित्तत्रयस्य दर्शितत्वात् । अवान्तरभेदकृतं तु तदानन्त्यमिष्यते एव जातिवदित्यलं प्रसङ्गेन ॥

तस्मात् परस्परविविक्तनिजस्वरूपं
ईदृक् छलत्रितयमेतदिहोपदिष्टम् ।
तस्य क्वचित्स्वयमपि क्रियते प्रयोगः
वाच्यः परैरभिहितस्य तथा समाधिः68

॥ इति श्री भट्टजयन्तकृतौ न्यायमञ्जर्या एकादशमाह्निकम् ॥


  1. सर्वथा अज्ञातत्त्वे विचाराप्रवृत्तेः ॥ ↩︎

  2. तत्त्वज्ञानदाढ्यार्थतर्कचिन्तनरूपः खलु सः, न तर्कः ॥ ↩︎

  3. तर्कप्रत्ययः—तर्करूपं ज्ञानम् ॥ ↩︎

  4. देशान्तरे—अरण्यादौ । निवर्तते—स्थाणुपक्षः ॥ ↩︎

  5. प्रत्ययान्तरं—विलक्षणप्रत्ययम् ॥ ↩︎

  6. तत्करणं—जन्मकारणं कृतकमिति प्रत्ययः । तर्क इतिशेषः । अत्मनः जन्मनः-शरीरसम्बन्धस्य कारणं यदि नित्यं, तर्हि शरीरसम्बन्धोऽपि नित्यः । यद्यनित्यः तर्ह्यनित्यः कदाचिन्निवर्तेत । अयं विचारः प्रथमसूत्रस्थः ॥ ↩︎

  7. वस्तुतस्तु तस्मिन् श्लोके तर्कः ऊह एव, न त्वनुमानम् । तर्कानुगृहीतः आगमः सुदृढं प्रमाणं भवतीति । तर्कः खलु प्रमाणानुग्राहकः ॥ ↩︎

  8. ऊहः उक्तः । यागे अध्यर्युणा यजमानस्य गोत्रप्रप्रवरणामधेयानि श्रावयितव्यानि ॥ ↩︎

  9. उक्तत्रयेण साकं द्रव्योहः, गुणोहः इति द्वयम् ॥ ↩︎

  10. सिद्धान्ते धर्मस्यानुमानगम्यत्वाङ्गीकारात् ॥ ↩︎

  11. किन्तु, अर्थवानेव भविष्यति ॥ ↩︎

  12. तर्कात् पूर्वं जातस्तु न क्षोदक्षमो भवेदित्याशयः ॥ ↩︎

  13. अन्यथा “श्रोतव्यो मन्तव्यः” इति श्रवणानन्तरमननं न स्यात् ॥ ↩︎

  14. वादिदृष्ट्या प्रतिपक्ष इत्युच्यते । वैतण्डिकदृष्ट्या तु स्वपक्षः ॥ ↩︎

  15. दौर्भाग्यवशादिति शेषः ॥ ↩︎

  16. स्फुटाटोपः—फटाटोपः ॥ ↩︎

  17. वावदूकपाशः—नीचवावदूकः ॥ ↩︎

  18. प्रयोजनं—जयादि ॥ ↩︎

  19. यथा खण्डनकारस्य, शून्यवादिनो माध्यमिकस्य वा ॥ ↩︎

  20. श्रुतिः—शब्दः ॥ ↩︎

  21. पक्षसत्त्व-सपक्षसत्त्व-विपक्षासत्त्व-अवाधितत्त्व-असत्प्रतिपक्षितत्वक्रमः ॥ ↩︎

  22. बाधसत्प्रतिपक्षौ विना त्रयः ॥ ↩︎

  23. पक्षसत्त्वाद्येकैकवैकल्ये यथा एकैको हेत्वाभासः, तथा द्वयवैकल्ये अन्यः अतिरिक्तः कश्चित् षष्ठो हेत्वाभास इत्येवं त्रयादिवैकल्येऽपि अस्तु ॥ ↩︎

  24. दुष्टसङ्करेऽपि दोषासङ्कर इति न्यायात् ॥ ↩︎

  25. तावतैव वादिनो निग्रहादिति भावः ॥ ↩︎

  26. पक्षद्वयं—सपक्षविपक्षौ ॥ ↩︎

  27. कृता—कृत्प्रत्ययेन ॥ ↩︎

  28. व्यतिरेकः—विपक्षावृत्तित्वम् ॥ ↩︎

  29. वास्तवाः—वस्तुगताः,—हेतुगताः ॥ ↩︎

  30. प्रतिज्ञामात्रमिति यावत् । प्रकरणसमे तु हेतुप्रयोग आवश्यकः ॥ ↩︎

  31. “हेतुबलाद्धि पुरुषेणाभ्यपगमः” इत्यनुपदमेवोक्तम् ॥ ↩︎

  32. विशेषविरुद्धाः—अनुपदं प्रदर्श्यन्ते ॥ ↩︎

  33. “कञ्चन विशेषम्—”इत्यन्वयः ॥ ↩︎

  34. धर्म—साध्यः । धर्मी—पक्षः ॥ ↩︎

  35. द्वितीयस्य “शब्दः” । गुणः, चाक्षुषत्वादित्यादि ॥ ↩︎

  36. व्यभिचारी तु न सपक्षान्नियमेन व्यावृत्तः । साधारणः खलु सः । एवं च विरुद्धप्रयोगे अज्ञानातिशयः सूच्यते ॥ ↩︎

  37. नित्यत्वप्रतिषेधे हि विकार आवश्यकः । अतः परस्परविरुद्धं तत् ॥ ↩︎

  38. भाष्यं तु एतद्विषये तटस्थमिति भावः ॥ ↩︎

  39. उभयोस्तुल्यबलत्वात् । अन्यतरस्याधिकबलत्वे तु, यत्प्रयुक्ता तस्याधिकबलताः तेनैवानुमानबाधो युक्तः ॥ ↩︎

  40. तदा हि हेत्वाभासानामैक्यमपि स्यात्, विजयरूपैककार्यकारित्वात् ॥ ↩︎

  41. नित्यधर्मानुपलब्ध्यनित्यधर्मानुपलब्ध्योरित्यर्थः ॥ ↩︎

  42. उभयानुगतं खल्वन्यतरत्वम्, न प्रत्येकमात्रस्वरूपम् ॥ ↩︎

  43. अस्य “शब्दानाम्” इत्यादिः ॥ ↩︎

  44. सर्वज्ञे सत्त्वं साध्यम् । घटादीनामिव सर्वज्ञास्यापि सत्वमावश्यकम्, स्वभिन्नस्वविलक्षणविलक्षणत्वादिति हेतुः ॥ ↩︎

  45. जल्पे—इति वितण्डाया अप्युपलक्षकम् ॥ ↩︎

  46. न सम्भवति—इत्यन्वयः ॥ ↩︎

  47. यदि “अत्र धूमोपलब्धेः” इत्येवात्र हेतुः, तदा चोपलब्धिविषयधूमस्य सामानाधिकरण्यं सम्भवति ॥ ↩︎

  48. सर्वगतद्रव्यं—आकाशादि अमूर्तमुच्यते ॥ ↩︎

  49. सावयवत्वमेवानित्य प्रयोजकम् । ↩︎

  50. अश्रयनाशान्नाशः रूपादीताम् । स्वाभाविकविनाश वादः बौद्धानाम् ॥ ↩︎

  51. धर्मिग्राहकप्रमाणबाधितत्वादनित्यत्वस्य ॥ ↩︎

  52. स्मृतेस्तु प्रामाणकोटावपरिगणितत्वान्न बाधकत्वसम्भवः ॥ ↩︎

  53. मूर्तत्वसत्वेऽपि अनित्यत्वव्याप्यमूर्तत्वव्य परमाणावभावात् ॥ ↩︎

  54. साध्यसाधनसमर्थत्वं हि हेतुस्वरूपम् । तस्यासिद्धिः ॥ ↩︎

  55. उत्ताना वृत्तिः—इत्यन्वयः ॥ ↩︎

  56. यः केदा लुनासि—इत्यन्वयः ॥ ↩︎

  57. विस्तरेणेति शेषः ॥ ↩︎

  58. स न्यायः अत्रापि भवत्वित्याशयः । तत्राप्याक्षिपति नन्विति ॥ प्रमाणलक्षणेऽप्ययमस्तु दोष इत्यर्थः ॥ ↩︎

  59. निगदः—स्पष्टवचनम् । तेनैव व्याख्यातम् । स्पष्टार्थकमिति यावत् ॥ ↩︎

  60. मामपृष्ट्वेत्यादिः ॥ ↩︎

  61. चरणम्, आचरणमिति वा पदम् । आचार इत्यर्थः ॥ ↩︎

  62. गुणदोपयोरुभयोरपि वंशः सहकारीति उत्सर्गसिद्धमिदम् । कदाचित् ब्राह्मणपदं केवलव्यक्तिवाच्यपि ॥ ↩︎

  63. स्वभावेत्यादि—परिहासवचनम् ॥ ↩︎

  64. अभिधानं—शब्दव्यापारः ॥ ↩︎

  65. सहचरणस्थानतादर्थ्य— [न्या। सू। २-२-६४] इत्यादिसूत्रपठितानि उपचार निमित्तानि । प्रकृते “स्थानं” निमित्तम् ॥ ↩︎

  66. समानाधिकरणेत्यादिः । इदं वाक्यं प्राभाकरस्येति चक्रधरः ॥ ↩︎

  67. सः समः इति, समेण, रामया सह वा वर्तत इत्यर्थभेदास्सम्भवन्ति । परन्तु सर्वेऽपि मुख्याः ॥ ↩︎

  68. वादिनोः परस्परं स्फूर्तिप्रतिभादिपरीक्षणाय, सदस्यानां स्वचातुर्यप्रदर्शनेना, वर्जनाय वा छलस्य प्रयोगः ॥ ↩︎