१० संशयपरीक्षा

दशममाह्निकम्—संशयपरीक्षा

संशयलक्षणम्

संशयादेः पदार्थगणस्य प्रमाणप्रमेयपदसङ्गृहीतस्यापिन्यायप्रवृत्तिप्रयो जनतया पृथग्व्युत्पादनीयत्वस्य प्रागेव समर्थितत्वात्, प्रथमसूत्रे च प्रमेया नन्तरं संशयोद्देशात्-उद्देशानुक्रमेण तस्य लक्षणं प्रतिपादयितुमाह—

समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः ॥ न्या-सू-१-१-२३ ॥

ननु ! संशयस्य समानधर्मोपपत्त्यादिकारणभेदेन पञ्चविधत्वात्1 सामान्यसक्षणम्, विभागः, विशेषलक्षणानि च वक्तव्यानि । तत्र सामान्यलक्षणेविभागे च सूत्रद्वयम्, विशेषलक्षणार्थं च पञ्चानां तत्प्रमेदानां सूत्रपञ्चकमित्येवं सप्त सूत्राणि प्रणेतुं युक्तानि । एकं चेदं सूत्रं श्रूयते । तत्कथमेतद्भविष्यति—उच्यते—सत्यमाह भवान् । किं त्वेकमेवेदं सूत्रम् आवृत्तिन्यायमाश्रित्य सप्तधा कल्पयिष्यते ॥ सूत्रविभागः
तत्र आचार्यास्तावदेवं व्याचक्षते—समानधर्मोपपत्तेः, उपलब्ध्यनुपलब्ध्यव्यवस्थातो विशेषापेक्षो विमर्शः संशयः, इतीयत्सूत्रं सामान्यलक्षणा प्रतिपादकम् । समानानेकधर्मोपपत्तेः, विप्रतिपत्तेः, उपलब्ध्यनुपलब्ध्यव्यवस्थातश्चेति विभागसूत्रम् । पुनश्च समानधर्मोपपत्तेः उपलब्ध्यनुपलब्ध्यव्यवस्थातो विशेषापेक्षोविमर्शः संशय इत्येतदेव सूत्रं प्रथमस्य संशयस्य विशेषलक्षणप्रतिपादकमिति ॥ सूत्रस्य सामान्यविशेषलक्षणपरत्वम्
ननु ! एतदेव सूत्रं सामान्यलक्षणार्थम्, इयदेव चेदयमन्यूनानतिरिक्तं विशेषलक्षणार्थमिति कथमेतत्—उच्यते—विशेषस्मरणकारणभूत2 साधारणधर्मग्रहणात्, विशेषाग्रहणात्, विशेषास्मृतेश्च संशयो भवतीति प्रत्यात्मवेदनीयं तावदेतत् । सूत्रे विशेषापेक्ष इत्यनेन पदेन विशेषस्मरणमुपदिष्टम् । उपलब्ध्यनुपलब्ध्यव्यवस्थापदेन च विशेषाग्रहणमितीयत्तावत् द्वयोरणि सामान्यविशेषलक्षणयोः तुल्यम् । समानशब्दस्त्वाक्षिप्तसामान्यवचनः सन् तत्सामान्यलक्षणमाह । अनुगतसामान्यत्रचनस्तु विशेषलक्षणमिति ॥ सामान्यविशेषलक्षणप्रतिपादनप्रकारः
कथं पुनरयमेवाक्षिप्तसामान्यवचनः, कथञ्चानुगतसामान्यवचन इति —उच्यते—संशयोत्पत्त्यैव समानधर्यमात्रमाक्षिप्यते, यद्गृह्यमाणं विशेषस्मरणबीजसंस्कारोद्बोधनिमित्ततां प्रतिपद्यते, तद्व्यतिरेकेण संशयानुत्पादात् ॥

तथा हि—विरुद्धविशेषावमर्शस्वभावस्तावत्संशयः । न च विरुद्धविशेषाणां पुरोऽवस्थिते धर्मिणि सन्निहितानाम् अवमर्शनम्, विरुद्ध तयैवैकत्र सन्निधानाभावात् । अतः स्मृत्युपारूढानाम् अवमर्शनम् । स्मृतिश्च नाकस्मादुद्भवतीति यत्सहचरितानां तेषां विशेषाणां पूर्वं पर्यायेण ग्रहणं वृत्तम्, तद्दर्शनसंस्कारप्रबोधद्वारेण स्मरणकारणमवश्यमेवाश्रयणीयम् । तत्तु अनुगतं वा भवतु, व्यावृत्तं वा, विप्रतिपत्त्यात्मकं वा, आन्तरम् उपलब्ध्यनुपलब्ध्यव्यवस्थारूपं वेत्येवमाक्षिप्तसामान्यवाचिनि समानशब्दे पञ्चसाधारणरूपावगमात् सामान्यलक्षणार्थता ॥

यदा त्वनुगतमेव धर्मम् आरोहपरिणाहादिस्वभावमाचष्टे समानशब्दः, तदाविशेषलक्षणार्थ इति ॥ सूत्रयोजानाप्रदर्शनम्
तत्र चेत्थं सूत्रयोजना—समानो धर्मः परिणाहादिः । तस्य गुणत्वेन3 प्रतिद्रव्यमन्यत्वेऽपि तुल्यरूपावगतिविषयीकृतत्वात्4 समानत्वमुपपद्यते । तस्योपपत्तिः उपलब्धिः । अथापि सत्ता उपपत्तिशब्देनोच्यते । साऽप्युपलब्ध्यधीनस्थितिरेव भवतीति सर्वथा समानधर्मोपलब्धेः संशय इत्युक्तं भवति ॥ संशयस्य धर्मिविषयकत्वम्
ननु ! समानधर्मः अर्थान्तरं धर्मिणः । न चार्थान्तरे दृष्टेऽन्यत्र संशयो भवितुमर्हति—न—अर्थान्तरविशेषत्वात् । अर्थान्तरविशेषस्तु धर्म्येवोच्यते, अर्थान्तरेण परिणाहादिना विशेष्यत इति तस्मिन्नेव—साधारण धर्माध्यासितवपुषि धर्मिणि नयनपथवर्तिनि तद्गतविशेषावमर्शात्मा तत्रैव संशयो जायते । योऽयमूर्ध्वत्वविशिष्टो धर्मी दृश्यते, सः स्थाणुर्वास्यात्, पुरुषोवेति नार्थान्तरत्वं दूषणम् ॥ संशयकारणान्तरम्
तथापि वक्रकोटरत्वकरचरणादिविशेषदर्शिनः न दृष्टः संशय इति कारणान्तरमुच्यते—उपलब्ध्यनुपलब्ध्यव्यवस्थात इति । विशेषाग्रहणा दित्यर्थः । कथं पुनरुपलब्ध्यनुपलब्ध्यव्यवस्थात इत्यनेन विशेषाग्रहणमुच्यते—इत्थमुच्यते—इदन्तयाऽनिदन्तया वा तत्रोपलब्धिः न व्यवतिष्ठते, अनुपलब्धिर्वा—इति । विशेषग्रहणे हि सति तद्व्यवस्थानं सम्भवति— स्थाणुरयम्, न पुरुष इति वक्रकोटरादियिशेषग्रहणे । शिरःपाण्यादिपरिच्छेदे तु—पुरुषोऽयम्, न स्थाणुरिति ॥ संशयकारणान्तरम्
एवमनेन पदेन विशेषाग्रहणमुक्तम् । तथापि प्रेङ्खारूढस्य5 साधारणधर्मदर्शिनः विशेषानुपलभमानस्यापि न दृष्टः संशय इति कारणान्तरमुच्यते—विशेषापेक्ष इति । विशेषस्मृत्यपेक्ष इत्यर्थः ॥ सौत्रं विशेषपदं विशेषस्मृतिपरम्
ननु ! विशेषापेक्ष इति श्रूयते, न विशेषस्मृत्यपेक्ष इति—सत्यम्— अश्रूयमाणमपि तत्स्मरणं संशयप्रस्तावादवगम्यते । स्मर्यमाणत्वेन हि विशेषाणां संशयोत्पत्तावपेक्षा, नानभूयमानतया; अनुभूयमानेषु हि तेषु संशयच्छेदो भवति, न संशयः ॥

अपेक्षाशब्दार्थनिरूपणादेव वा स्मृतिर्लभ्यते । विशेषाणां अपेक्षा— आकाङ्क्षा । ते चानुपलभ्यमानाः पूर्वानुभूताश्च आकाङ्क्ष्यन्ते इतीयं सा तेषां स्मृतिः । सम्प्रत्युपलभ्यमानेषु एकान्ताननुभूतेषु वा तेष्वाकाङ्क्षाऽनुपपत्तेः ॥ विशेषाग्रहणस्य संशयकारणत्वम्
ननु ! समानधर्मोपपत्तेः विशेषस्मृतेश्चेति—कारणद्वयमेवास्तु किं वशेषाग्रहणेन । अपि च—

विशेषस्मरणादेव नन्वाक्षिप्तस्तदाऽग्रहः ।
ग्रहणं स्मरणं चैव भवेतां युगपत्कथम् ॥

—अस्त्येतत्—किन्तु नातिदूरगतायां निजप्रमदायां अनुरागवतः कामिनः समानधर्मदर्शने, तद्गतविशेषादर्शने,6 तदनुस्मरणे च सन्यपि न भवत्येव संशयः । अतः संशयोत्पत्त्यव्यभिचारे देशकालव्यवहितविशेषाग्रहणसिद्धये पदान्तरमुपादीयते देशान्तरे कालान्तरे वा चिरदृष्टानां विशेषाणामिदानीमग्रहणं संशयकारणम्, न विशेषाग्रहणमात्रम् । एवममुना पदत्रयेण संशयलक्षणमिदमुक्तम् ॥ संशयकारणानां मेलनासम्भवपरिहारः
ननु च ! सम्भूय कारकैः कार्यमारभत इति न्यायात् समानधर्मोपलब्धि-विशेषानुपलब्धि—तत्स्मृतिलक्षणकारणत्रयजन्ये संशये ज्ञानयौगपद्य मापद्यते । क्रमभावित्वे हि बुद्धीनां नैककार्योत्पत्तौ युगपद्व्यापारः समस्ति7 । विशेषाश्च बहवोऽपि सम्भवन्तीति तत्स्मरणान्यपि युगपद्भू यांसि भवेयुः—नैतदेवम्—समानधर्मग्रहणानन्तरं पूर्वोपजातविविधविशैषानुभवपरम्परोपचित पीवरसंस्कारद्वारकमेकमेव तद्विषयं स्मरणं भविष्यति—यथा वर्णानामर्थप्रतीतौ वर्णितम् ॥ विशेषानुपलब्धिः प्रागभावरूपा
उपलब्ध्यनुपलब्ध्यव्यवस्थासूचिता च विशेषानुपलब्धिः अनुपलब्धिरेव, न सा ज्ञानात्मिका, किन्तु ज्ञानानुत्पाद इति तत् तृतीयं कारणमपि भवन्न ज्ञानात्मकमिति द्वे एव ज्ञानात्मके कारणे—समानधर्मग्रहणम्, विशेषस्मरणं च । तयोः प्रथमं समानधर्मग्रहणं विनश्यदवस्थं, विशेस्मरणं च द्वितीयमविनश्यदवस्थं संशयमुपजनयतः । ईदृशयोश्च ज्ञानयोः यौगपद्यमविरुद्धमिति शास्त्रे स्थितम्8

एवं समानधर्मग्रहणात् विशेषाग्रहणात् विशेषस्मृतेश्च संशय इति पदत्रयेण संशयलक्षणमनवद्यमुच्यत इति ॥ पक्षान्तरेण संशयसूत्रव्याख्यानम्
तदेतदाचार्यव्याख्यानमरोचयन्तः परेऽपरथा व्याचक्षते—सामान्यलक्षणं तावत् विमर्शपदेनैव प्रतिपाद्यते । न हि पर्यायोच्चारणमात्रमिदं विमर्शः संशयः इति । किन्तु संशय इति लक्ष्यपदम्, विमर्श इति लक्षणपदम् । प्रमाणपदवच्च9 निर्वचनसव्यपेक्षम् एतत्पदं लक्षणप्रतिपादनक्षमं भवति । विरुद्धार्थावमर्शो विमर्शः स्थाणुर्वा, पुरुषो वेति । इयता च सजातीयसंशयपश्चकानुगतं विजातीतेभ्यः प्रमाणादिभ्यो व्यवच्चिन्नं सामान्यलक्षणमुक्तं भवति । संशयीत्पादककारणपरिगणनं पुन रिन्द्रियार्थसन्निकर्षोत्पन्नग्रहणवदिहापि नोपयुज्यते, कारणान्तराणामपि आत्ममनस्यन्निकर्षादीनां अपरिहार्यत्वात् ॥

अथान्यासाधारणकारणनिर्देशश्चिकीर्षितः, तेनापि कीऽर्थः ? सामान्यलक्षणस्य प्रतिपिपादयिषितत्वात्, तस्य च विमर्शपदादेव सिद्धत्वात् ॥ व्याख्यानान्तरस्य क्लिष्टत्वम्
उपलब्ध्यनुपलब्ध्यव्यवस्थापदप्रतिपाद्यमानविशेषाग्रहणवर्णनं चातीव क्लिष्टमिति, पुनश्च विशेषलक्षणप्रसङ्गे यथाश्रुतमेव तद्व्याख्येयमित्यतिभारः ॥

एवं विमर्शपदेन विजातीयव्यवच्छेदकारिणि सामान्यलक्षणे वर्णिते “समानधर्मोपपत्तेः” इत्येकमेव पदं सजातीयसंशयान्तरव्यवच्छेदकारि विशेषलक्षणक्षमं भवतीति तत्रापि पदत्रययोजनं नोपायुज्यत इति ॥

अत्र व्याख्यानद्वयेऽपि कतरत्साध्विति तद्विदः प्रमाणम् ॥ अनेकधर्मोपत्तिपदार्थविवरणम्
“अनेकधर्मोपपत्तेः” इत्यत्रापि त्रिपदपरिग्रहणेनैन लक्षणमाचार्या वर्णयन्ति । अनेकधर्मोपपत्तेः उपलब्ध्यनुपलब्ध्यव्यवस्थातो विषेषापेक्ष इत्यसाधारणधर्मग्रहणात् विशेषग्रहणात् विशेषस्मृतेश्च संशय इत्यर्थः । एकैकपदोपादानफलं च पूर्ववदत्रापि दर्शयितव्यम् । न चेन्द्रियमनस्संयोगादिकारणान्तरपरिगणनचोदनं युक्तम्, तेषां सर्वबुद्धिजन्मसुतुल्यत्वात्10 । इहासाधारणसंशयज्ञानकारणोपदेशप्रस्तावादिति ॥ संशयसूत्रव्याख्याने पक्षान्तरम्
अन्ये तु सामान्यलक्षणसम्पादिते विजातीयव्यवच्छेदे केवलसजातीयव्यवच्छिन्नलक्षणप्रधितपादननिपुणमनेकधर्मोपपत्तिपदमेव पूर्ववद्वर्णयाञ्चक्रुः ॥

ननु ! अनेकधर्मशब्देन कथमसाधारणो धर्म उच्यते ?—एवमुच्यते —समानजातीयमसमानजातीयं चानेकम् । तस्मात्परावृत्तो धर्मः अनेक धर्म इति ॥

यद्वा किमनया क्लिष्टकल्पनया ! अस्त्ययमेकशब्दः समानपर्यायः । तत्र स्पष्ट एव नञ्समासेनासमानधर्मः अनेकधर्मः साधारणधर्म उच्यते एवेति ॥ असाधारणधर्मस्य संशयकारणत्वाक्षेपः
भवत्वेवम् ! असाधारणधर्मस्य तु कथं संशयकारणत्वमिति चिन्त्यम् । विरुद्धविशेषानुस्मरणकारणकं हि संशयमाहुः । विशेषाणां च स्मरणहेतोः संस्कारस्य तदुद्बोधकं11 भवति, येन सहैते पूर्वं पर्यायेणोपलब्धाः । असाधारणधर्मस्य तु असाधारणधर्मत्वादेव न केनचित्सह पूर्वं ग्रहणमभवत् । भावे तु असाधारणधर्मतैव हीयेतेत्यतः कथमसौ तत्स्मृतिहेतुः । व्यावृत्ततयैव तु स्मृतिहेतुत्वेऽस्य त्रैलोक्यस्मरणनिमित्तता प्रसज्येत, ततोऽपि12 व्यावृत्तत्वादिति ॥ असाधारणधर्मस्य संशयकारणत्वनिरूपणम्
नैष दोषः—प्रकारान्तरेणास्य स्मृतिहेतुत्वात् । इह हि केषुचित्केषुचित् असाधारणधर्मा धर्मिषु भवन्तः तद्गतसाधारणधर्मान्तरसहचरिता भवन्ति । तद्यथा पृथिवीत्वगन्धत्वादयो धर्माः पृथिव्यामसाधारणास्सन्तः, स्नेहवत्त्वादिधर्माश्च तथैवाप्सु द्रव्यत्वसहचारिणो दृष्टाः । रूपादिषु रूपत्वादिधर्माः गुणत्वसहचारिणः, उत्क्षेपणादिषु उत्क्षेपणत्वादिधर्माः कर्मत्वसहचारिणः । एवं प्रकृतेऽपि धर्मिणि कस्मिंश्चिदसाधारणो धर्म उपलभ्यमानः केनापि साधारणधर्मान्तरेण सहचरितो भवतीति भवति विशेषानुस्मृतिद्वारेण संशयसाधनम् ॥ अनेकधर्मस्य समानधर्माद्विशेषः
ननु ! एवं तर्हि व्यावृत्तत्वादेव समानधर्मादेष संशयः, नानेकधर्मादिति—मैवम्—अनेकधर्म एवासौ तेन वर्त्मना विशेषान् स्मारयन् संशयजन्मने कल्पते । असति हि तस्मिन् किमालम्बनं व्यावृत्तत्वं स्यादित्यलमतिसूक्ष्मेक्षिकया13

तस्योदाहरणं भाष्यकारेण दर्शितं शब्दे विभागजत्वम् । यथा हि पृथिव्यादौ पृथिवीत्वादिः व्यावृत्तो धर्मः द्रव्यत्वाद्यनुगतधर्मसहचारी दृष्टः एवं शब्दे विभागजत्वं धर्मः केनचित् द्रव्यत्वादीनामन्यतमेन धर्मेण सहचरितः स्यादिति संशयः ॥ विभागजविभागविमर्शः
ननु ! विभागजत्वमसाधारणो न भवत्येव शब्दधर्मः, विभागजवि भागेऽपि भावात् । तथा च प्रयोगः—“गुणः शब्दः, विभागजत्वात्” विभागजविभागवत् इति—तत्र केचिदाहुः सत्यमस्ति विभागेऽपि विभागजत्वम् । शब्दे तु विशेषो विवक्षितः ॥

द्विविधो हि विभागजो विभागः—कारणविभागपूर्वकः, कारणाकारणविभागपूर्वकश्च । कारणं समवायिकारणमत्राभिप्रेतम् । कारणविभागपूर्वकस्तावत् तन्तुविभागात् तन्त्वाकाशविभागः ॥

कारणाकारणविभागपूर्वकस्तु अङ्गुल्याकाशविभागात् हस्ताकाशविभागः; हस्ताकाशविभागादपि शरीराकाशविभाग इति ॥

शब्दस्तु14 नियमेनैव कारणविभागपूर्वकविभागप्रभवः—वंशदलविभागात् दलाकाशविभागः; दलाकाशविभागाच्चासमवायिकारणात् शब्दो निष्पद्यत इत्यनेन विशेषेणास्येदृशविभागजत्वस्यासाधारणत्वं शब्दधर्मस्योच्यत इति ॥ विभागजविभागानङ्गीकारपक्षः
अन्ये तु विभागजं विभागममृष्यमाणाः यथाश्रुतस्यैव शब्दे विभागजत्वस्यासाधारणधर्मतामाचक्षते ॥

ननु ! किमिति विभागजं विभागं ते न मृष्यन्ते ? अस्ति ह्ययं तत्सिद्धौ न्यायः—यदा ह्यवयवे कर्मोत्पन्नं अवयवान्तराद्विभागं करोति, न तदाकाशादिदेशात्15 । यदा त्वाकाशादिदेशात्, न तदाऽअयवान्तरादिति स्थितिः ॥ विभागजविभागस्यावश्यकता
किं कृता पुनरियं16 स्थितिरिति चेत्—उच्यते—या ह्यवयवक्रिया नभोभागविभागकारिणी, नासौ द्रव्यारम्भकसंयोगप्रतिपक्षभूतं विभागमारभमाणा दृश्यते, दिनकरकिरणपरामर्शोपजनितकमलदलविकासकारिक्रियावत् । तदेव कथमिति चेत्—कमलस्य मुकुलविकासदशयोः प्रत्यभिज्ञायमानत्वेनाविनाशनिश्चयात् ॥

इयं तु पाट्यमानवंशदलक्रिया द्रव्यारम्भकसंयोगप्रतिद्वन्द्विभूत विभागारम्भिका, द्रव्यानारम्भक संयोगप्रतिद्वन्द्विविभागजनिकोपलभ्यते इति नासौ नभसो विभागमारभेतेत्यत एषा स्थितिरस्तीति विभागजविभागकल्पना क्रियते ॥ विभागस्यैव संयोगनाशकत्वम्
संयोगान्तं कर्मेति तावत् स्थितम् । अन्यथा हि तस्य कालान्तरस्थायित्वं, नित्यद्रव्यसमवेतस्य च नित्यत्वं स्यात् । तस्मात् कर्मणोऽचिरजीवित्वात् तद्विनाशकेन संयोगेन भवितव्यम् । उत्तरस्तु संयोगः पूर्वसंयोगोपरमे सति जायते, नान्यथा17 । न च विभागव्यतिरिक्तः कश्चन संयोगस्य हन्ता समस्ति ॥

कर्म तूत्तरसंयोगजन्मनिर्ज्ञातकौशलम् ।
न हि प्राक्तनसंयोगविनाशाय प्रकल्पते ॥

तस्मात् विभागेनैव संयोगविरोधिना भवितव्यम् ॥

यदधिकरणो विभागः तदधिकरणमेव संयोगमुपशमयति, न त्वङ्गुलिविभागः कुण्डबदरसंयोगोपमर्दाय प्रभवतीत्यतः न वंशदलवृत्तिविभागः दलाकाशसंयोगमुपहन्तुमलमिति नूनं दलाकाशसंयोगवैरिणा दलाकाशविभागेन भवितव्यम् ॥ विभागजविभागस्यावर्जनीयत्वम्
तदिदानीं तस्योत्पत्तिकारणचिन्तायां क्रियायां—वंशदलविभागमात्रो पजनने चरितार्थत्वात्, तं निर्माय विभागान्तरनिर्माणे विरम्य व्यापारासंवेदनात्, अवश्यं वंशदलविभाग एव प्रत्यासन्नतया दलाकाशविभागारम्भकोऽभ्युपगमनीयः । एवमनभ्युपगमे कर्मनित्यत्वप्रसङ्गादिति ॥ विभागजविभागखण्डनम्
अत्र वदन्ति । न18 कर्मनित्यत्वं अनभ्युपगम्यमानेऽपि विभागजे विभागे भविष्यति; उत्तरसंयोगस्य कर्मविनाशहेतोरस्तित्वात् । पूर्वसंयोगानुपरमे कथं तदुत्पाद इति चेत्; बाढम् ! उपरत एव पूर्वसंयोगः । कस्तस्योपरमहेतुरिति चेत्—

कर्म ह्युत्तरसंयोगनिमित्तं यदुपेयते ।
तदेव पूर्वसंयोगध्वंसकारि भविष्यति ॥

न यज्जनने शक्तं अशक्तं तद्विनाशने ।
हेतुर्दहनसंयोगः पाकजोत्पादनाशयोः ॥

यथा च विभागेऽधिकरणनियमः, यदाधारो विभागः, तदाधारमेव संयोगं निरुणद्धि; तथा कमण्ण्यपि नियमः । कर्मापि स्वाश्रयस्य यदन्य दिक्संयोगनिबन्धनं, तत् तद्विरुद्धदिग्वृत्तेः संयोगस्योपमर्दकमिति नातिप्रसङ्गः19 । एवं कर्माविष्टस्योत्तरसंयोगदर्शनमदूषणं, विगन्तरसंयोगस्य तेनोपमर्दनात् ॥ एकस्योभयकारित्वेऽदोषः
अपि च यदेव कर्म वंशदलनविभागकारि कथ्यते, तदेव दलाकाशविभागकारि भविष्यति । को दोषः ?

ननु ! व्योमविभागकारि कर्म, न द्रव्यारम्भकसंयोगप्रत्यनीकभूतविभारम्भकं, अम्भोरुहकर्मवत् इत्युक्तम्—सत्यमुक्तम्, अयुक्तं तु— शतपत्रपत्रकर्मणोऽपि द्रव्यारम्भकसंयोगप्रतिकूलविभागारम्भकत्वात् । तच्च कर्म कुड्मलकमलात् विकचकमलस्यान्यत्वनिश्चयान्निश्चितम् ॥ कमलकुड्मलकुसुमयोर्भेदः आवश्यकः
ननु ! तदेवेदमरविन्दमिति सन्देहविपर्ययरहिततामरसप्रत्यभिज्ञादर्शनात् कथं सङ्कोचविकासदशामात्रभेदात् तदन्यत्वमिति कृतमनया दुरा शया20 । शरीरेऽपि सुस्पष्टोपलभ्यमानशैशवयौवनवार्धकादिदशाभेदभिन्न स्वरूपे प्रत्यभिज्ञानदर्शनात् । न च शरीरकुशेशययोः विशेषलेशमतिकृशमपि पश्याम इति कुतस्तदेकत्वम् ॥

भवतु वा पुण्डरीकस्याविनाशः ! निदर्शनमात्रमिदं तु वर्णितम्, न तु प्रतिबद्धःकश्चन हेतुरस्तीत्यभ्यधायि, येन वंशदलकर्मणः कोकनदपल्लवकर्मसाम्यं कल्प्येत । क्रियात्वं त्वप्रयोजकमेव, तत्कर्मणां विचित्रकार्यहेतुत्वात् ॥ अवयवावयविविभागयोरैक्यम्
यदि वा नान्यो वंशदलविभागः, नान्यश्च तत्कार्यो दलाकाशविभागः । किन्तु—

एक एव विभागोऽयं भेदोऽस्याश्रयभेदतः ।
एकत्र देशेऽवस्थानात्21 व्योम्नो वंशदलस्य च ॥

समानदेशे वृत्तित्वं मूर्तानां हि विरुद्ध्यते ।
व्योम्नस्सर्वगतत्वात्तु विद्यते तत्र सन्निधिः ॥

एकदेशाश्रयत्वे तु यदेकस्माद्विभागकृत् ।
तदेवान्यत इत्यस्ति न विभागो विभागजः ॥

अतिरिक्तविभागनिराकरणम्
अपरे पुनः विभागजविभागपराकरणोपारूढरभसाः सङ्गिरन्ते— तिष्ठतु तावत् दूरत एव विमागजो विभागः । कर्मजोऽपि न विभागो नाम कश्चिदस्ति । संयोगविरोधिनि तस्मिन्नभ्युपगम्यमाने मुद्गरादिवत् पूर्व सिद्धताऽवश्यम्भाविनी । ततश्च पूर्वसिद्धो विभागः संयोगमुन्मूलयतीति घटमुद्गरयोरिव संयोगविभागयोरेकत्र युगपदुपलब्धिर्भवेत । न चैवमस्ति । तस्मात् संयोगाभावविषय एव विभक्तप्रत्यय इति न विभागालम्बनतां प्रतिपद्यते ॥

सत्यपि विभागे तस्मिन् क्षणे संयोगस्याविनाशात् न भवति विभक्तप्रतिभासः । क्षणान्तरे च संयोगविनाशे सति भवतीत्यन्वयव्यतिरेकाभ्यां संयोगाभावविषय एवावसीयते इत्यतो न प्रत्यक्षगम्यता निभागस्य । संयोगभङ्गलिङ्गेन च तत्परिकल्पनक्रियेव तं हिनस्तीति पुरस्तादुपपादितम् ॥ कारणत्रेविध्यम्
कथं तर्हि विभागजत्वं शब्दस्य भाष्यकार उदाहृतवान् ? उच्यते— त्रिविधं कारणं कार्योत्पत्तिं प्रति विधत्ते—समयायिकारणं, असमवायिकारणं, निमित्तकारणं चेतिः तत्र समवायिकारणं तदुच्यते, यत्राश्रितं कार्यमुपलभ्यते—यथा पटस्य तन्तवः ॥

असमवायिकारणं तु द्विविधम्—कार्यैकार्थसमवायलक्षणया प्रत्यासत्त्य । प्रत्यासन्नं, कारणैकार्थसमवायलक्षणया वा सम्बद्धम् । तत्र कार्यैकार्थसमवायेन प्रत्यासन्नं यथा—पटस्य तन्तुसंयोगः । कारणैकार्थसमवायेन तु प्रत्यासन्नं यथा—पटरूपस्य तन्तुरूपमिति ॥ असमवायिकारणे विशेषः
अवधृतकारणङ्कारणत्वेन सम्प्रतिपन्नमेवेत्यर्थः ॥ च तदसमवायिकारणमाश्रयणीयं, अतो बुद्धिजन्मनि सत्यप्येकार्थममवाये नान्येषामात्मगुणानामिच्छादीनासममवायिकारणत्वं,ज्ञानादीनामिच्छाद्यसमवायिकारणत्वपरिहाराय असमवायिकारणसामान्यलक्षणे ज्ञाना-दिभिन्नत्वविशेषणस्यावश्यकत्वात् ॥ अपि त्ववघृतसामर्थ्यस्यात्ममनस्संयोगस्यैवेति ॥

समवाय्यसमवायिव्यतिरिक्तं तु कार्योत्पत्तौ निर्ज्ञातसामर्थ्यं यत् कारणं तत् निमित्तकारणमुच्यत इति ॥ विभागस्यावश्यकता
एवं स्थिते शब्दस्य नित्यत्वे निरस्ते, कार्यत्वे च साधिते तदुत्पत्तौ आकाशं तावत् समवयिकारणम् । निमित्तकारणानि तु भूयांसि सन्त्येव । असमवायिकारणं तु चिन्त्यम् । तच्चाकाशाश्रितमवश्यम् । अन्यथा प्रत्यासत्त्यभावात्22 । तद्गुणान्तराणां च विभुत्वादीनां अनवधृतशक्तित्वात्23 वंशदलपाटनसमनन्तरं च शब्दोत्पाददर्शनात् एवं24 मन्यामहे ॥

क्रिया यदैव संयोगं हन्ति वंशदलाश्रितम् ।
तदैव गगने कञ्चित् करोत्यतिशयं ध्रुवम् ॥

आकाशातिशयो यश्च क्रियाजः शब्द कारणम् ।
असौ विभागनामेति शब्दे तज्जन्यतोच्यते ॥

तदेवमेतत् यथागममाचार्यमतमभिहितमस्माभिः ॥ कीदृशो विभागः शब्दहेतुः
एतच्च मतिमद्भिविचारणीयम्—किमाकाशातिशयमात्रं किञ्चित् असमवायिकारणम्, उत यथा मुद्गरदण्डसंयोगकार्ये शब्दे भेरीगगनसंयोगस्यासमवायिकारणत्वम्, एवं वंशदलविभागकार्ये तस्मिन् दलगगनविभागस्येति । दलाकाशविभागोऽपि किं दलविभागजः, उत कर्मज एवेति ॥

सर्वथा कश्चिदसाधरणो धर्मः संशयहेतुरुदाहर्तव्य इतीयता नः प्रयोजनम् ॥ विप्रतिपत्तेः संशयजनकत्वम्
विरूद्धा प्रतिपत्तिः विप्रतिपत्तिः । अस्त्यात्मेत्येके, नास्त्यात्मेत्यपरे । सेयं विप्रतिपत्तिरूपलभ्यमाना—विशेषस्मरणद्वारेण25 संशयमावहति । न चेह कश्चिदनुगतो व्यावृत्तो वा धर्मः संशयकारणं, अपि तु विप्रतिपत्तिरेवेति । किं तत्रापि त्रिपदपरिग्रहेण लक्षणवर्णनम्, एकेनैव वा पदेनेति पूर्ववदाचार्यद्वयमतमनुसरणीयम् ॥ उपव्यब्ध्यलवस्थया संशयः
उपलब्ध्यव्यवस्थातः खल्ववपि भवति संशयः । सच्चोदकमुपलभ्यते यथा ह्रदादिषु । क्वचिदसच्च भास्करकरनिकरप्रतिफलनतरलितासु मरुस्थालीषु । तदेवमुपलब्धेख्यवस्थितत्वात् क्वचिदुपलभ्यमाने भवति संशयः—किमिदं सदुपलभ्यते, किमसदिति ॥ अनुपलब्ध्यव्यवस्थाया संशयः
अनुपलब्ध्यव्यस्थातश्च भवति संशयः । किञ्चिदसदेव नोपलभ्यते नभःसमादि । किञ्चित्सदपि नोपलभ्यते मृदन्तरितशङ्कुमूलजलादि । तदन्यत्रानुपलभ्यमाने संशेते पुमान्, किमिदमसदेव नोपलभ्येते, उत सदिति ॥ अव्यवस्थायाः स्वरूपम्
अव्यवस्थशब्देनात्र26 पूर्वं पर्यायेण प्रवृत्तसदसदाश्रितविशेषादर्शनं सूचितम्; इदानीं पुनः अर्थक्रियासमर्थतादिर्विशेषदर्शनशून्यचेतसां उपलब्ध्यनुपलब्धिमात्रोपपत्तेः संशयो भवतीति वर्ण्यते । न चैवं सति सर्वत्रानाश्वास इति शङ्कनीयम्, यथानुभवं संशयाभ्युपगमात् । सर्वत्र च तदुत्पादकविशेषाग्रहणतत्स्मरणादिकारणसान्निध्यासम्भवादिति ॥

अत्रापि27 पदत्रयेण एकेन वा पदेन लक्षणोपपादनं पूर्ववद्द्रष्टव्यम् ॥ सौत्रपदानां न पौनरूक्त्यम्
ननु च ! उपलब्ध्यनुपलब्धी सदसतो; समान एव धर्म इति पूर्वेण गतार्थत्वम्—नैतत्—पूर्वनिर्दिष्टस्योर्ध्वत्वादेर्धर्मस्य ज्ञेयस्थत्वात्, उप लब्ध्यनुपलब्ध्यीश्च ज्ञातृस्थत्वात् ॥

अत एव च मानसमिमं संशयमाचक्षते, न बाह्यधर्मिसम्बद्धसाधारणोर्ध्वतादिधर्माधिगमाधीनसंशयवत् बाह्येन्द्रियजम् ॥ उपलब्ध्यनुपलब्ध्यव्यवस्थयोर्विशेषः
ननु च ! उपलब्धित्वं अनुपलब्धित्वं वाऽत्र संशयकारणम् । तद्धि न ज्ञातरि वर्तते, किन्तु बुद्धाविति कथमयं विशेषः—सत्यमेवम्— असमानधर्मोऽप्युपलब्धितादिकः यदाश्रितः, तद्धि बोद्धरि वर्तते । अतो विशेषात् पृथगेव कथ्यते । यथा ह्यसाधारणताश्रयः, एवम्प्रकारमेव च विशेषमाश्रित्य किञ्चित् पञ्चविधत्वं विपञ्च्यते ॥

परमार्ततस्तु सर्वत्रानुगतसम्बन्धो दुष्परिहरः, विशेषस्मरणजन्यत्वात्संशयस्य । विशेषाणां च येन सह पूर्वं दर्शनमभूत्, तस्मिन्ननुपलभ्य माने स्मरणासम्भवात् । अतस्तस्यानेकविशेषानुगामित्वात् समानत्वमपरिहार्यम् । अत एव चाक्षिप्तसामान्यवाचिनं समानशब्दं सामान्यलक्षणे28 व्याचख्युराचार्या इत्यलमतिविस्तरेण ॥

इति पञ्चविधः प्रपञ्चितः
मुनिना दर्शित एष संशयः ।
फलवद्व्यवहारहेतुतां
अनुमानाङ्गतया विभर्ति यः ॥

अनुमानिरपेक्ष एव वा
किल दृष्टे विषयेऽर्थसंशयः ।
वहति व्यवहारवर्तनीं
इति पूर्व च विचारितं बुधैः ॥

—इति संशयपरीक्षा— अथ प्रयोजनपरीक्षा
यमर्थमधिकृत्य प्रर्वतते तत्प्रयोजनम् ॥ १-१-२४ ॥

यमित्यत्र देशकालपुरुषदशाभेदभिन्नप्रयोजनविशेषव्याप्तये वीप्सा द्रष्टव्या । अर्थः—अर्थ्यमानः उच्यते, न वस्तुरूप एव, अभावस्यापि प्रयो जनत्वसम्भवात् । अधिकारः—अर्थस्य29 व्यवसायः । यं यमर्थं आप्तव्यं हातव्यं वाऽधिकृत्य व्यवसायः प्रवर्तते, तत्प्राप्तये परिहाराय वा चेष्टते पुरुषः—तत् प्रयोजनमिति ॥ फलस्य द्विविधत्वम्, आपेक्षिकत्वं च
तच्च गौणमुख्यभेदेन द्विविधम् । मुख्यं सुखप्राप्तिः, दुःखपरिहारश्च । तत्साधनं तु गौणम् । सुखसाधनमपि चन्दनधनसारहारमहिलादि प्राप्तव्यत्वात् मुख्यत्वेन30 यदा विवक्षितं भवति, तदा तदवाप्त्युपाये गौणता द्रष्टव्या ॥

तच्च प्रयोजनं देशकालपुरुषशाभेदादव्यवस्थितं भवति । तद्यथा ग्रीष्मे मरुस्थले निशातमलातकनिकरमिव किरति किरणमिषेण पूषणि, तृषातुरस्य तुषारकणोत्करदन्तुरमम्बु परमं सुखसाधनम्, तदेव शिशिरे सकलजगत्कम्पकारिणि दारुणसमीरणशिथिलीकृतनीरेषु काश्मीरेषु श्लेष्मोपचयजनितजडिमजठरशिखिनः खेदाय जायते । तस्यादनियत एवायं सुखदुःखसाधनभावो भावानाम् ॥

यद्यपि31 च यदेकदा सुखसाधनमिति विदितमुपयुक्तम्, अतिक्रान्तं वस्तु तत्—तथापि तज्जातीयत्वलिङ्गावधृतसुखसाधनभावे भावान्तरेऽदि प्रवर्तन्त एव तदर्थिनः ॥ प्रयोजनस्य प्रवर्तकत्वाक्षेपसमाधाने
ननु ! प्रयोजनस्य प्रवर्तकत्वमयुक्तम्, सदसद्विकल्पाभ्यामनुपपत्तेः । सत्त्वे कर्णनासादिवत्—न तदर्था प्रवृत्तिः । असत्त्वे तु खपुष्पा दिवत् न तराम्—नैष दोषः—ईप्साजिहासाविषयीकृतस्य तस्य प्रवर्त कत्वात् । न हि तत् खपुष्पादिवदसाध्यम्32 । नापि शिरःपाण्यादिवत् सिद्धमेव । अदि तु साध्यत्वेन बुद्ध्युपारूढं तत् प्रवर्तकमिति सर्वलोकसाक्षिकमेतत् । तस्मात् इच्छाविषयीकृतं तत् प्रवर्तकमिति युक्तम् ॥

इत्थं प्रवर्तकत्वे प्रयोजनस्योपपदिते मुनिना ।
भग्ना भवन्ति सर्वे प्रेरकपक्षाः पराभिहिताः33

प्रयोजनमतोऽखिलैविधिवचोभिरादिश्यते
प्रयोजननिबन्धनास्तनुभृतामशेषाः क्रियाः ।
क्रिमेरपि यथा तथा किमपि जीवितं बिभ्रतः
प्रयोजनबहिष्कृतं न खलु चेष्टितं दृश्यते ॥

वैतण्डिकः प्रयतते निजपक्षसिद्ध्यै
तां चैष वेद परपक्षनिषेधलभ्याम् ।
तस्मादियं स्वमतसाधनवर्जिताऽपि
युक्ता प्रयोजनवती भवितुं वितण्डा ॥

—इति प्रयोजनपरिक्षा— अथ दृष्टान्तपरीक्षा
लौकिकपरीक्षकानां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः ॥ १-१-२५ ॥

लौकिकपरीक्षकौ वादिप्रतिवादिनौ दृष्टान्तलक्षणप्रस्तावाद्वेदितव्यौ । न तु मूर्खपण्डितौ, प्रकृतासङ्गतेः34 । तयोश्च सङ्गत्यभावात् । तयोश्च यस्मिन्नर्थे—भावस्वभावे अभावात्मके वा बुद्धिसाम्यं—प्रयोज्यप्रयोजकभावव्यवस्थितसाध्यसाधनधर्माधिकरणत्वे—साध्यव्यावृत्तिपूर्वकसाधनधर्मव्यावृत्ततायां वा तुल्यरूपा बुद्धिः स दृष्टान्तः । तस्य तथाविधधर्माधारत्वं तद्रहितत्वं वा वक्ष्यमाणादुदाहरणलक्षणान्मन्तव्यम् ॥ शिष्टमन्यतो ग्राह्यम्
यथा चानुमानलक्षणे तत्पूर्वकं इति प्रतिबन्धग्रहणोपायमात्रं प्रतिपादितम्, तत्स्वरूपं तु अवयवलक्षणे निर्णीतं “उदाहरणसाधर्म्यात् साध्य साधनं हेतुः” “तथा वैधर्म्यात्” इति; एवमिह वादिप्रतिवादिप्रसिद्धिमात्रं दृष्टान्तस्य दर्शितम् । रूपं तु तस्य द्विविधमपि तत्रैव19 वक्ष्यते “साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्त उदाहरणम्” “तद्विपर्ययाद्वा विपरीतम्” इति ॥

अनित्यः शब्दः कृतकत्वात्, यत् कृतकं तदनित्यं दृष्टम—यथा घट इति साधर्म्यदृष्टान्तः । यत्पुनरनित्यं न भवति; तत् कृतकमपि न भवत्येव —यथाऽऽकाश इति वैधर्म्यदृष्टान्तः । यथोक्तलक्षणवैकल्यात्तु दृष्टान्ताभासता भवति ॥

आभासभेदविभवः कथयिष्यते तु
तेषामुदाहरणलक्षणवाक्प्रसङ्गे ।
आभासता वचनदोषकृताऽपि काचित्
अस्तीति साऽवयवलक्षण एव वाच्या ॥

द्विविधोऽपि दृष्टान्तः सुदृष्टिभिर्यत्नतोऽधिगन्तव्यः ।
स हि निश्चलः फलनिधेः अनुमानमहातरोः स्कन्धः ॥

—इति दृष्टान्तपरीक्षा— अथ सिद्धान्तपरीक्षा
तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः ॥ १-१-२६ ॥

तन्त्र्यतेऽनेन पदार्थस्थितिरिति तन्त्रं प्रमाणमुच्यते । अधिकरणम् —आश्रयः । तन्त्रम् अधिकरणं यस्य सः, तन्त्राधिकरणः, प्रमाणमूलक इत्यर्थः । अभ्युपगमः—स्वीकारः, तस्य संस्थितिः इत्थम्भावव्यवस्था35 धर्मनियमः—इदमित्थमिति; इदमिति सामान्यनिर्देशः, इत्थमिति विशेषनिर्देशः । एवं च तन्त्राधिकरणाभ्युपगमसंस्थितिः—प्रमाणमूलाभ्युपगमविषयीकृतः सामान्यविशेषवानर्थः सिद्धान्त इति सामान्यलक्षणमुक्तं भवति36 ॥ सूत्रव्याख्याने पक्षान्तरम्
अन्ये तु व्याचक्षते—तन्त्रम्—इतरेतरसम्बद्धस्यार्थसमूहस्योपदेशः शास्त्रम् । अधिक्रियते इत्यधिकरणं पक्ष उच्यते । अभ्युपगमः, यथोक्त एव । संस्थितिशब्दः प्रत्येकमभिसम्बध्यते । तन्त्रसंस्थितिः अधिकरणसंस्थितिः, अभ्युपगमसंस्थितिः इत्यनेन तन्त्रनिर्देशसाम्यात् सर्वतन्त्रप्रति तन्त्रसिद्धान्तयोःसूचनम् । इतराभ्यां पदाभ्यां उत्तरयोः अधिकरणभ्युपागमसिद्धान्तयोरिति ॥ एताद्व्याख्याने न्यूनता
एतत्तु अपव्याख्यानम् । न ह्येवं सिद्धान्तचतुष्टयानुगतं किञ्चित्सामान्यलक्षणमुक्तं भवति । न चेदं विभागार्थं विशेषसक्षणार्थं वा सूत्रम्, तत्प्रतिपादनस्योत्तरसूत्रैः करिष्यमाणत्वात् । उक्तस्य च पुनर्वचने प्रयोजनाभावात् । अतः पूर्वप्रक्रमेणैव सिद्धान्तस्य सामान्यलक्षणवर्णनं श्रेयः ॥ सिद्धान्तविभागः, लक्षणानि च
तस्य स्वकण्ठेन विभागमाह—

स चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात्37 ॥ १-१-२६ ॥

चतुष्प्रकारो हि सिद्धान्तः—सर्वतन्त्रसिद्धान्तः, प्रतितन्त्रसिद्धान्तः अधिकरणसिद्धान्तः, अभ्युपगमसिद्धान्त इति ॥

तत्र—

सर्वतन्त्राविरुद्धः स्वतन्त्रेऽधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः ॥

अत्र तन्त्रशब्देन शास्त्रमुच्चते स्वशास्त्रे य उपदिष्टोऽर्थः, सर्वशास्त्राविरूद्धश्च स सर्वतन्त्रसिद्धान्तः । यथा—चाक्षुषं प्रमाणमिति ॥

ननु अत्रापि विविदन्ते । ब्रह्मवादिनां हि सर्वैवेयं अविद्या । अविद्या च कथं प्रमाणमिति—न—व्यवहारावस्थायां तैरपि तत्प्रामाण्या भ्युपगमात्38 सङ्ख्यालक्षणविषयविप्रतिपत्तिस्तु प्रतिशास्त्रं भवतु । चाक्षुषं प्रमाणं इतीयति सर्ववादिनामविवादः ॥ प्रतितन्त्रसिद्धान्तलक्षणम्
तन्त्रे अधिकृतोऽर्थ इति वर्थते । यथाऽस्माकर्माश्वरेच्छाप्रेरितपरमाणुनिर्मितानि समानतन्त्रे कणव्रतमते तथैव सिद्धानि, परतन्त्रे च सङ्ख्याशास्त्रे तथा नाभ्युपगम्यन्त इति ॥

यथा वा गुणत्रयात्मिकायाः प्रकृतेः महदहङ्करादिरूपेण भूतसर्ग ति साङ्ख्यानां स्वतन्त्रसिद्धोऽर्थः; समानतन्त्रेऽपि पातञ्जले योगाशात्रे सिद्ध एव, परतत्त्रे तु वैशेषिकादिमते न सिद्ध इति ॥

ननु ! अस्य कथं प्रमाणमूलता—स्थाने39 प्रश्नः, सत्यमेतत्— आस्माकीने हि प्रतितन्त्रसिद्धान्ते प्रमाणमूलत्वं यथार्थमेव । साङ्ख्यसिद्धान्तस्य तु प्रमाण—

मूलत्वाभावेऽपि परतन्त्रत्वख्यापनायोदाहृतः ।
तदर्भिप्रायेण वाऽस्य प्रमाणमूलता वक्तव्येति40

अधिकरणसिद्धान्तलक्षणम्
यत्सिद्धावन्यप्रकरणसिद्धः साऽधिकरणसिद्धान्तः ॥ १-१-३० ॥

प्रक्रियत इति प्रकरणं—पक्ष उच्यते । यस्यार्थस्य सिद्धौ सत्यां प्रकरणान्तरसिद्धिः भवति—सोऽधिकरणसिद्धान्तः, तदधिकरणानामर्थान्तराणां सिद्धेः ॥

कः पुनः “यत्सिद्धौ” इति सर्वनाम्ना प्रत्यवमृश्यते, पक्षः हेतुर्वा ?41 किञ्चातः ? पक्षः कथं पक्षान्तरसिद्धये कल्पते । हेतुना हि पक्षसिद्धिः क्रियते, न पक्षेण हेतोः । हेतोस्त्वधिकरणसिद्धान्तत्वे कथं सिद्धान्ताश्रया न्यायप्रवृत्तिरिति तदुद्देशप्रयोजनं वर्णितम् । न्यायो हि हेतुरेव । स एव चाधिकरणसिद्धान्तः । न च हेतुर्हत्वाश्रय इति ॥ सिद्धसाध्यभाव आपोक्षिक एव
उच्यते—उभयथाऽप्यदोषः । हेतुरपि क्वचित् पक्षीभवति, पक्षोऽपि हेतूभवत्येव । तत्र तावदाञ्जस्येन हेत्वधीना पक्षसिद्धिरिति हेतुरेव सर्वनाम्नाऽवमृश्यते । तत्सिद्धावन्यप्रकरणसिद्धेः स एवाधिकरणसिद्धान्तः ॥

कथं तर्हि तदाश्रया न्यायप्रवृत्तिः ?—उच्यते—हेतुरपि तदन्यतरा सिद्ध इव साध्यमानत्वात् पक्षीभवन् न्यायान्तराश्रयतां प्रतिपत्स्यते ॥

अपि वा—पक्ष एव सर्वनाम्नाऽवमृश्यमानः भवत्वधिकरणसिद्धान्तः । स च स्पष्ट एव न्यायस्याश्रयः । स च सिध्यन् पक्षान्तराण्याक्षिपन्नेव सिद्ध्यतीत्यधिकरणसिद्धान्ततां भजते ॥

तस्योदाहरणं—इन्द्रियव्यतिरिक्तः ज्ञाता, दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिति । अत्र इन्द्रियव्यतिरिक्ते ज्ञातरि सिद्ध्यति, तदनुषङ्गीण्य र्थान्तराण्यपि सिद्ध्यन्ति—नाना इन्द्रियाणि, नियतविषयाणि; गुणव्यतिरिक्तं द्रव्यं—इत्येवमादीनि ॥ अभ्युपगमसिद्धान्तनिरूपणम्
अपरीक्षिताभ्युपगमात् तद्विशेषपरीक्षणं अभ्युपगमसिद्धान्तः ॥ १-१-३१ ॥

अत्र “अपरीक्षिताभ्युपगमात्” इति यथाश्रुतपञ्चमीनिर्देशमनुरुध्यमानाः, प्रमाणमूलाभ्युपगमविषयीकृतोऽर्थः सिद्धान्तः—इति च सामान्य लक्षणमनुसरन्तः42 केचित् एवं व्याचक्षते—धर्मिणः शब्दादेः नित्यानित्यत्वविचारचर्चायां अपरीक्षितस्यैव—आकाशविशेषगुणत्वादिधर्मपरीक्षारहितस्यैवाऽभ्युपगमः कर्तव्यः । ततोऽपरीक्षिताभ्युपगमात् किं सिद्ध्यति ?—उच्यते—तद्विशेषपरीक्षणमिति । तद्गतनित्यानित्वत्वपरीक्षणं हि सामान्येन धर्मिण्युपादीयमाने व्योमविशेषगुणत्वादिधर्मपरीक्षारहिते सत्युपपद्यते । यदि पुनराकाशविशेषगुणत्वविशिष्टः शब्दः धर्मित्वेनोपादीयते परं प्रत्यसिद्धविशेषणः पक्षो भवेदिति ॥

एवमपि कृते यदि पुरोधर्मिणं विकल्पयेत्—कीदृशस्य सतः शब्दस्य भवता नित्यत्वं साध्यते—द्रव्यस्य, गुणस्य वेति । स एवं विकल्पयन् अर्थान्तरगमनात्तावत्43 पराजित एव भवति । जितमप्येनं पुनर्जेतुं स्व बुद्ध्यतिशयचिख्यापयिषया, परबुद्ध्यवज्ञया च वादी ब्रवीति—अस्तु द्रव्यं शब्द इति ॥ पूर्वोक्तव्याख्याननिराकरणम्
एतत्तु व्याख्यानं न बुद्ध्यामहे । एवं व्याचक्षाणानामेषां अभ्युपगमसिद्धान्त इति को नु व्यवसित इति । यदि तावत् अनित्यः शब्द इति द्रव्यत्वगुणत्वादिविशेषरहितः शब्दाख्यधमिनिर्देशो यः प्रथममुपात्तः, स एवाभ्युपगमसिद्धान्तः । तत्र अभ्युपागमार्थः क्रीदृशः, कश्च प्रतितन्त्रसिद्धान्तादस्य विशेषः ॥

अथास्तु द्रव्यं शब्द इति स्वबुद्ध्यतिशयाभिमानेन पश्चादभ्युपगम्यमानद्रव्यत्वविशिष्टशब्दनिर्देशः अभ्युपगमसिद्धान्तः, तर्हि सूत्रम्, “अपरीक्षिताभ्युपगमात्” इति न योजितम्, अन्यत्रैव तैस्सूत्रार्थो नीत इति44

तस्मादेवं व्याख्यायते—अपरीक्षिताभ्युपगम एव स्वमतिकौशल्येन क्रियमाणः अभ्युपगमसिद्धान्तः—अस्तु द्रव्यं शब्द इति । प्रमाणमूलाभ्युपगमविषयीकरणं तु सामान्यलक्षणे प्रौढवाद्यभिप्रायेणैव योज्यम् । द्रव्यत्वमपि प्रमाणमूलं शब्दस्य भवतु; तथापि तस्यानित्यत्वमिति । किल निरवयवं द्रव्यं अनित्यमिति नास्त्येव, शब्दस्य तु तादृशस्याप्यनित्यत्वमहं साधयामीति ॥

कथं तर्हि पञ्चमी ? किं पञ्चम्या ! वस्तु तावदीदृशं यथा व्याख्यतमस्माभिः ॥ अभ्युपगमात् इत्यत्र पञ्चम्यर्थः
पञ्चम्यपि चेत्थं योज्यते । किमर्थं पुनरयमपरीक्षित एव शब्दगतद्र व्यत्वाभ्युपगमः क्रियत इति पृच्छते उत्तरं पञ्चम्याऽभिधीयते—यस्मादपरी क्षिताभ्युपगमात् तद्विशेषानित्यत्वपरीक्षणमवकल्पते, तस्मादपरीक्षिताभ्यु पगमोऽपि अभ्युपगमसिद्धान्त इति । न तु तद्विशेषणपरीक्षणमेव सामा नाधिकरण्यनिर्देशात् अभ्युपगमसिद्धान्त इति मन्तव्यं, परीक्षणस्य सिद्धान्ताश्रितत्वात् । तस्मात् तद्विशेषपरीक्षणार्थः अपरीक्षिताभ्युपगमः प्रौढवादिना क्रियमाणः अभ्युपगमसिद्धान्त इति सूत्रार्थः45 । इत्थमेव च तत्र तत्र प्रवादुकानां व्यवहारः ॥

इमाश्च सिद्धान्तभिदाश्चतस्रः
न्यायप्रवृत्तेः प्रथमं निमित्तम् ।
प्रवर्तते नैव परीक्षकाणां
अनाश्रिता न्यायकथा कदाचित् ॥

—इति प्रयोजनपरिक्षा— न्यायावयवपरीक्षा
इह हि स्वयमवगतमर्थं अनुमानेन परस्मै प्रतिपादयता साधनीयस्यार्थस्य यावति शब्दसमूहे सिद्धिः परिसमाप्यते, तावान् प्रयोक्तव्यः । तमेव च परार्थानुमानमाचक्षते नीतिविदः ॥ परार्थानुमाननिराकरणपूर्वपक्षः
ननु ! नैव परार्थानुमानं नाम किञ्चिदस्तिः वक्त्रपेक्षया; श्रोत्रपेक्षया वा तदनुपपत्तेः ॥

वक्त्रान्वमायि स ह्यर्थः नेदानीमनुमीयते ।
श्रोतुः स्वार्थानुमानं तत् वाक्यावगतिहेतुकम् ॥

यथा प्रत्यक्षतो धूमं दृष्टवाऽग्निमवगच्छति ।
तथा तदीयाद्वचनादिति कस्य परार्थता ॥

आगमस्त्वेष भिद्येत कश्चिदर्थोपदेशकः ।
कश्चित्तत्प्रत्ययोपायन्यायमार्गोपदेशकः46 ॥ इति ॥

परार्थानुमानसाधनम्
सत्यम्—न परमार्थतः परार्थमनुमानमुपपद्यते । किन्तु द्विविधः प्रतिपत्ता । स्वयमवगतयथाप्रकृतलिङ्गव्याप्तिकः, तद्विपरीतश्च । तत्र स्वयमवधृतप्रतिबन्धं प्रति नोपदिश्यत एवमनुमानम्, स्वत एव तस्य तीत्युपपत्तेः । अनवधृतव्याप्तिकस्य तु व्याप्तिरेव व्युत्पाद्यत इति तं प्रति परार्थमनुमानं तदुपदेशकं वाक्यमेवाख्यायते । तथा हि—

वक्त्रा स्वप्रत्ययेनेदं न हि वाक्यं प्रयुज्यते ।
परो मद्वचनादेव तमर्थं बुद्ध्यतामिति ॥

किं त्वेनमनुमानेन बोधयामीति मन्यते ।
सोऽपि तद्वचनान्नैव तमर्थमवबुद्ध्यते ॥

किन्तु व्याप्तिमतो लिङ्गात् स्वयं तत्तु न पश्यति ।
तत्प्रतीत्यभ्युपायत्वात् परार्थमिदमुच्यते ॥

अतश्च श्रोतुः स्वार्थानुमानमेवेदम् । वक्ता तु तथा परं प्रतिपादयन् परार्थानुमानं प्रयुङ्क्त इत्युच्यते47 ॥ परार्थानुमानस्य प्रमाणत्वम्
न चानुवादमात्रं तत् वक्तुरित्युपपद्यते ।
यतो व्याप्रियते सम्यक् परस्य प्रतिपत्तये ॥

तेनानधिगतार्थोपदेशकत्वात् नानुवादमात्रम् । स्वावगमापेक्षया त्वनुवादत्वे नेदानीमाप्तवचनं अननुवादरूपं किञ्चिद्भवेत्, सर्वस्य स्वोपलब्धिपूर्वकत्वादिति ॥

तस्मात् परार्थानुमानवाक्योपपत्तेः तदेकदेशाः अवयवा युक्ता इति लक्ष्यन्ते ॥

प्रतिज्ञाहेतूदाहरणोपनयननिगमनान्यवयवाः ॥ १-१-३२ ॥

एतच्च सूत्रमेकमेव सामान्यलक्षणमवयवानामभिधत्ते, विभागं च प्रमाणानामिव—“प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि” इति । तत्र अवयवाः, भागाः, अंशाः, एकदेशाः इत्येवं अवयवशब्दः साधनीयार्थप्रतिपत्तिपर्यन्तवचनकलापैकदेशत्वमवयवानां सामान्यलक्षणमाचष्टे ॥ न्यायस्य वाक्यसमुदायरूपत्वम्
यद्यपि चैकवदनविनिर्गतानां निसर्गभङ्गुराणां48 अदीर्घायुषां अपरिहार्यक्रमजन्मनां वर्णानां द्रुमाणामिव पारमार्थिकस्समूहो न समत्त्येव; तथापि सिषाधयिषितार्थप्रतिपादनरूपैककार्योपयोगमूलीकृतात्मनां तेषां काल्पनिकः कलापः पूर्वमेव वाक्यकल्पनावसरे समर्थित इति तद्भागा अपि सम्भवन्त्येव ॥ पदानामपि वाक्यत्वम्
न च पदानामेवानुमानवाक्यावयवत्वम्, अपि तु “खण्डवाक्यानाम्” एकैकेन पदेन प्रतिज्ञोदाहरणादीनामभिधातुमशक्यत्वात् । हेतुवचनं तु एकमपि पदं क्वचिद्भवति—कृतकत्वात्—इति49 । तदपि वा सविशेषणं प्रयुज्यमानं पदसमुदायेनैव प्रतिपाद्यते—वस्तुत्वे सति कृतकत्वात्— इति ॥

उदाहरणवचनमपि “घटवत्” इत्यालस्यादेव प्रयुञ्जते । तद्धि व्याप्तिप्रदर्शनाय एवं वक्तव्यम्—यत् कृतकं तत् अनित्यं दृष्टं, यथा घटः— इति ॥

तस्मादवयवानामवयत्वमेव लक्षणं, न पदत्वम् ॥

विभागोऽपि प्रतिज्ञादिपदसन्निधाववयवश्रुतेरेवावगम्यते, प्रतिज्ञादयः पञ्चावयवाः, न न्यूनाः नातिरिक्ता इति ॥ अवयवसङ्ख्याविमर्शः
ननु अत्र विवदन्ते केचित्50 नूनतामवयवानामाचक्षते । त्र्यवयवं द्व्यवयवं वा साधनवाक्यं वदन्तः ॥

अन्ये तु जिज्ञासा, संशयः, शक्यप्राप्तिः, प्रयोजनम्, संशयव्युदास इति पञ्चभिस्सह प्रतिज्ञादीन् दशावयवानाहुः ॥ पक्षान्तरनिराकरणम्
उच्यते—न्यूनता यथाऽवसरं प्रतिसमाधास्यते । आधिक्यमप्ययुक्तम्, जिज्ञासादीनां अशब्दस्वभावत्वेन वाक्यावयवत्वायोगात् ॥

तथा हि—अप्रतीयमानेऽर्थे प्रतीतिप्रयोजनस्य प्रवर्तिका जिज्ञासा । सा चेच्छास्वभावत्वादान्तरः प्रमातृधर्मः न वाक्यावयवः ॥

अर्थक्रियासाधनेऽर्थे विमर्शः संशयः—किमेवमयम्, अयथैवमिति । सोऽपि ज्ञानात्मकत्वान्न वाक्यावयवः ॥

प्रमातुः प्रमाणानि प्रवर्तमानानि प्रमेयमर्पयितुं पारयन्तीति सम्भावना शक्यप्राप्तिः । साऽपि तथैव न वाक्यावयवः ॥

प्रयोजनं संशयितस्य निर्णयः कथं वाक्यावयवतां स्पृशेत् ॥

संशयव्युदासस्तु प्रत्यक्षोपालम्भः । स च वचनस्वभावत्वेऽपि न साधनवाक्यस्यावयवत्वं प्रतिपद्यते ॥

तदिमे संशयादयः प्रकरणप्रवृत्तिहेतवो भवन्ति, न वाक्यावयवा इति सूक्तं “प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः” इति ॥ प्रतिज्ञालक्षणम्
तेषाम्—

साध्यनिर्देशः प्रतिज्ञा ॥ १-१-३३ ॥

प्रतिज्ञेति लक्ष्यनिर्देशः । साध्यनिदश इति लक्षणम् । शुद्धस्य धर्मिणो वा,51 धर्मस्य वा, द्वयोर्वा स्वतन्त्रयोः, धर्मिविशिष्टस्य वा धर्मस्य साध्यत्वानुपपत्तेः धर्मविशिष्टो धर्मी साध्य इत्यनुमानलक्षणे निर्णीतमेतत् । तस्य निर्देशः—परिग्रहवचनं प्रतिज्ञेति ॥ प्रतिज्ञालक्षणस्य दुष्टत्वाक्षेपः
ननु ! सावधारणत्वाद्वाक्यानां किं साध्यनिर्देश एव प्रतिज्ञेत्यवधारणम्, उत प्रतिज्ञैव साध्यनिर्देश इति ॥

यदि साध्यसिदेश एव प्रतिज्ञेत्यवधार्यते, तदा यत एवकारकरणम्, ततोऽन्यत्रावधारणमिति प्रतिज्ञा नियम्यते, साध्यनिर्देशं मा हासीरिति, साध्यनिर्देशस्त्वनियमित इति प्रतिज्ञामपहायापि भवेदित्यतिव्यापकं लक्षणम्52

अथ प्रतिज्ञैव साध्यनिर्देश इत्यवधार्यते, ततः साध्यनिर्देशो नियम्यते प्रतिज्ञां मा त्याक्षीदिति । प्रतिज्ञा त्वनियमितेति साध्यनिर्देशमपहायापिभवेदिति साध्यनिर्देशेन प्रतिज्ञाया अव्याप्तत्वात् अव्यापकं लक्षणमिति53 ॥ उक्तदोषपरिहारः
तदेतदयुक्तम् । न हि सर्वं वाक्यं सावधारणं भवति54 । यथा “एष पन्थाः स्रुघ्नं गच्छति” इति । न हि तत्र—एष एवेति, स्रुघ्नमेवेति वा गच्छत्येवेति वा नियन्तुं शक्यत इति ॥

अथापि अवधारणममश्याश्रयणीयं, तद्भवतु—साध्यनिर्देश एव प्रतिज्ञति । न चातिव्याप्तिः, प्रतिज्ञामपहायान्यत्र साध्यनिर्देशस्यादर्शनात्55 । अनियमितोऽप्यसावन्यत्र न च दृश्यते एवेति । तस्मात् साध्यतिर्देश एव प्रतिज्ञेति स्थितम् । तद्यथा—अनित्यश्शब्द इति ॥ विशेषणस्य स्वविरुद्धधर्ममात्रव्यावर्तकत्वम्
ननु ! अत्रापि किमनित्य एव शब्दः, इत्यवधारणम्, उत शब्द एवानित्य इति । तत्र अनित्य एव शब्द इत्युक्ते, तद्गतधर्मान्तरतिरस्कारात्, कृतकत्वमपि तत्र न भवेदित्यसिद्धो हेतुः । शब्द एवानित्यः इति त्ववधार्यमाणे घटादावनित्यत्वप्रतिषेधादन्वयशून्यता हेतोः स्यादिति —नैष दोषः—निरवधारणस्यापि वचनप्रयोगस्य दर्शितत्वात् । अनित्य एव शब्द इत्यवधारणे वा नानित्यत्वव्यतिरिक्ततदविरुद्धकृतकत्वाद्यशेष धर्मान्तरनिषेधस्तत्र विधीयते । किन्तु, तद्विरुद्धनित्यत्वमात्रनिषेध एव —अनित्य एव शब्दः, न नित्य इत्यर्थः । तदुक्तम् [श्लो। वा। अनु-५५] — “ नियमस्तद्विरुद्धाच्च कल्प्यते, नाविरोधिनः


इति ॥ तस्मान्न हेतोरसिद्धत्वम् ॥ प्रतिज्ञावाक्यवैयर्थ्यशङ्का
ननु ! साधनवाक्ये प्रतिज्ञावचनमसमञ्चतम्, असाधनाङ्गवचनत्वात् । हेतुदृष्टान्तवचनाभ्यां हि साध्यसिद्धेः ते एव वक्तव्ये । न च स्वप्रतिपत्तावुपलब्धं सर्वमेव परस्मै आख्येयम् । आख्याने वा धर्मिमात्रमाख्यायताम् । स्वप्रतिपत्तौ हि पूर्वं पर्वतादेः शुद्धस्य धर्मिणो ग्रहणम् । सिषाधयिषितहुतवहादिधर्मविशेषरूषितवपुषः एवमभ्युपगमेऽनुमानवैफल्यप्रसङ्गात्56 । अतः कथं प्रथममेव साध्यधर्माध्यासितस्वरूपधर्मिनिर्देशकरणम् ॥

अपि च विवादादेव प्रतिज्ञार्थौ लभ्यते इति किं स्वकण्ठोक्तेन तेन प्रयोजनम् ॥ प्रतिज्ञावाक्यस्यावश्यकता
उच्यते—स्वप्रतिपत्तिमनुसरता परस्य प्रतिपत्तिरुत्पादनीयेति स्वप्रतिपत्तौ प्रथममुपलब्धो धर्मी तावत् आख्येय एव । अनुच्यमाने हि धर्मिणि निरधिकरणो हेतुः क्वसाध्यं साधयेत् । धर्मिण्यनवच्छिन्ने च धर्ममात्रेऽनुमानमनर्थकम्, अविवादसिद्धत्वात्; अस्ति हि यत्र क्वचित् अनित्यत्वमिति ॥

आश्रयासिद्धश्च धर्मिनिर्देशाद्विना हेतुर्नवेदिति अवश्यनिर्देश्यो धर्मो ॥

यद्यपि धर्मिमात्रदर्शनमेव प्रथममभूत्; तथापि किं साधयितुमेष हेतुः प्रयुक्तो भवेत्57 इत्युपप्लवशमनाय साध्यधर्मनिर्देशोऽपि कर्तव्यः । शब्दः कृतकत्वादिति हि प्रयुज्यमानं तदिदं अन्धपदमिवासाधनं भवेत् ॥ उदाहरणादिना प्रतिज्ञाया नान्यथासिद्धिः
अथ व्याप्तिप्रदर्शनप्रवणेन “यत् कृतकं तदनित्यं दृष्टं” इति दृष्टान्तवचसा, “तस्मादनित्यः” इति निगमनवचनेन वा विरंस्यति स उपप्लव इति—“तथापि श्रोतृबुभुत्सोपरमपरिश्रमफले साधनवाक्ये साधनाधिगमाकाङ्क्षासम्पादनाय साध्यं निर्देष्टव्यम्” । न हि शब्द इत्येतावत्युक्ते तत्र साधनमाकाङ्क्षति कश्चिदिति साधनवचनावसरतत्प्रयोगसाफल्योत्पादनायैव नूनं “अनित्यः शब्दः” इति प्रतिज्ञावचनं प्रयोक्तव्यम् ॥ पक्षप्रतिपक्षपरिग्रह एव प्रतिज्ञा
यच्च विवादादेव प्रतिज्ञार्थस्य लब्धत्वमभिधीयते; तदभ्युपगमनमेव शब्दान्तरेण प्रतिज्ञायाः । यतः विरुद्धो वादः विवादः । एक आह “नित्यः शब्दः”; इतरस्तु “अनित्यः” इत्याह । सोऽयं पक्षप्रतिपक्षपरिग्रहो विवादः प्रतिज्ञैव । स तु पक्षप्रतिपक्षपरिग्रहः तदहरेव भवतु, दिनान्तरे वेति किमनेन विशेषेण । अपरिहार्यं प्रतिज्ञावचनमिति58 ॥ पक्षाभासानां प्रतिज्ञात्वासम्भवः
प्रतिज्ञैव च पक्ष इत्युच्यते । तदेवंविधे पक्षलक्षणे प्रदर्शिते बलात् पक्षाभासाः प्रतिक्षिप्ताः भवन्ति । तद्यथा—“अनुष्णोऽग्निः” इति प्रत्यक्षविरुद्धः पक्षः । “न रूपग्राहि चक्षुः” इति अनुमानविरुद्धः ॥

शब्दविरुद्धस्तु बहुशाखः—“ब्राह्मणेन सुरा पेया” इत्यगामविरुद्धः । “जनयित्री मे वन्ध्या” “पिता मे ब्रह्मचारी” इति धर्मिधर्मपदयोरेव विप्रतिषेधात् स्ववचनविरुद्धः । “न चन्द्रः शशी” इति लोकप्रसिद्धिविरुद्धः ॥

उपमानविरुद्धस्तु—“न गवयपदवाच्योऽयं गोसदृशः” इति । अप्रसिद्धविशेषणः “नभःकुसुमकृतावतंसः चैत्रः” इति । अप्रसिद्धविशेष्यः “सुगन्धि गगनकमलम्” इति । अप्रसिद्धोभयः “खपुष्पकृतशेखरः वन्ध्या सुतः” इति ॥ सिद्धसास्य पक्षाभासत
यत्रापि विशेष्यणयोरूभयोरपि प्रमाणन्तरतः स्वरूपं निश्चितमेव, तन्निर्देशोऽपि पक्षाभास एव—“शीतं तुहिनं, उष्णोऽग्निः इति” साध्यत्वाभावेन अनुमानप्रयोगावसरविरहादिति । इयमेव59 च सा सिद्धसाध्यतोच्यत इति ॥ सर्वेषामपि हेतुदोषत्वमेवं
ये चैते प्रत्यक्षविरुद्धतादयः पक्षदोषाः, ये च वक्ष्यमाणाः साधनविकलत्वादयो दृष्टान्तदोषाः, ते वस्तुस्थित्या सर्वे हेतुदोषा एव । प्रपञ्चमात्रं तु पक्षदृष्टान्तदोषवर्णनम् । तथा चाबाधितत्वं हेतुलक्षणमेवोक्तम् । दृष्टान्तदुष्टतया च हेतोरेव लक्षणं अन्वयव्यतिरेकयोरन्यत् हीयत इति, सर्वे च ते हेतुदोषा एव ॥

अत एव च शास्त्रेऽस्मिन् मुनिना तत्त्वदर्शिना ।
पक्षाभासादयो नोक्ताः हेत्वाभासास्तु दर्शिताः ॥

कश्चिद्धेत्वनपेक्षोऽपि पक्षमात्रप्रतिष्ठितः60
बोधोऽनुमानारूपस्य स्वावाक्यादिकृतो यथा ॥

हेतुपरीक्षा
एवं लक्षणको हेतुरिति तत्स्वरूपावधारणं सति तदभिधायकं वचनं मुखमेव लक्ष्यते इत्यर्थात्मकहेतुलक्षणं तावदुच्यते—

उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः ॥ १-१-३४ ॥ इति ॥

ननु ! अर्थात्मको हेतुः अनुमानम् । तच्च लक्षितमेव पूर्वम्— “तत्पूर्वकं त्रिविधमनुमानम्” इति—सत्यम्—तत्र “तत्पूर्वकं” इति सर्वनाम्ना परामृष्टप्रत्यक्षमूलतोपवर्णनेन प्रतिबन्धपरिच्छेदोपायमात्रनिरूपणं कृतम् । इह तु प्रतिबन्धस्वरूपमपि प्रतिपाद्यते ॥ सूत्रे पाठभेदः
तत्रा हि अर्थात्मके हेतौ लक्ष्ये पञ्चमीमपास्य “उवाहरणसाधर्म्ये साध्यसाधनं हेतुः” इति सूत्रं पठन्ति । व्याचक्षते च साधर्म्यं हेतुरित्युच्यमाने गन्धवत्त्वादेरसाधारणहेतोः साध्यधर्मिव्यक्तिभेदवृत्तित्वेन साधर्म्यरूपसम्भवात्, विरुद्धस्य च पक्षविपक्षवृत्तेः तत्साधर्म्यस्वभावत्त्वात् हेतुत्वं प्रसज्यत इति तन्निवृत्त्यर्थं उदाहरणग्रहणम् । उदाह्रियतेऽस्मिन् साध्यसाधनयोः प्रयोज्यप्रयोजकभाव इत्युदाहरणं दृष्टान्तः । तेन साधर्म्यं कस्येति प्रकृतत्वात् प्रत्यासत्तेश्च साध्यधर्मिण इत्यवगम्यते । उदाहरणसाधर्म्ये साध्यदृष्टान्तधर्मिसाधारणो धर्मो हेतुरिति नासाधारणादौ तथाविप्रसक्तिरिति ॥ साध्यसाधनदलप्रयोजनम्
एवमपि प्रमेयत्वादेरनैकान्तिकहेतोः तथा भागासिद्धस्यानित्यत्वसिद्धये चतुर्विधपरमाणुपक्षीकरणे61 गन्धवत्त्वादेः प्रकरणसमकालात्ययाप 62 दिष्टयोश्च उदाहरणसाधर्म्यसम्भवात् हेतुत्वं भवेदिति तद्व्यवच्छेदाय साध्य साधनग्रहणम् । साध्यदृष्टान्तधर्मिणोश्च समानो धर्म साध्योऽप्यनित्यत्वादिः भवत्येवेति तस्यापि हेतुता मा प्रसाङ्क्षीदिति साध्यसाधनग्रहणम् । लिङ्गसामान्यलाभार्थं साध्यसाधनं यदुदाहरणसाधर्म्यं स हेतुरिति ॥

साध्यसाधनशब्देन च प्रतिबन्धो लक्ष्यते । स च सव्यभिचारादिषु नास्तीति न ते हेतवः । प्रतिबन्धश्च पञ्चलक्षणक इत्येकैकलक्षणापायकृतहेत्वाभासपञ्चकनिर्देशादेव सूत्रितवानाचार्यः ॥ उदाहरणसाधर्म्यदलप्रयोजनम्
ननु ! एवं तर्हि साध्यसाधनग्रहणमेव हेतुलक्षणमस्तु । तद्धि सकलहेत्वाभासव्युदाससमर्थमिति किमुदाहरणसाधर्म्यग्रहणेन—न—समानजातीयव्यवच्छेदार्थत्वात् । अहेतवो हि विजातीयाः । तद्व्यवच्छेदः साध्यसाधनग्रहणात् । समानजातीयस्य केवलव्यतिरेकिणः व्यवच्छेदाय उदाहरणसाधर्म्यग्रहणमिति ॥ केवलान्वयिहेतुविमर्शः
तत्किं केवलान्वयी हेतुरिति लक्ष्यत्वेन विवक्षितः—न—तथाविधस्य हेतोरभावात् । अन्वयव्यतिरेकवानेव लक्ष्यः । तत्रोदाहरणसाधर्म्य वैधर्म्यसम्भवे तु सति साधर्म्यमप्यस्त्येवेति । न सावधारणं वा63 विशेषविधिरूपेणैवेदसुदाहरणसाधर्म्यग्रहणं केवलान्वयिलक्षणं वर्णनीयमिति ॥ हेतुसामान्यलक्षणम्
ननु ! यदि द्विविधो हेतुरिष्यते, तर्हि सामान्यलक्षणमादौ वक्तव्यम् ततो विशेषलक्षणमिति—उच्यते—साध्यसाधनग्रहणमेव प्रतिबन्धसूचकं सामान्यलक्षणं भविष्यति । उदाहरणसाधर्म्यग्रहणं तु अन्वयव्यतिरेकिणो लक्षणम् । उत्तरसूत्रं च केवलव्यतिरेकिणः । केवलान्वयी हेतुर्नास्त्येवेत्येवं पञ्चमीमुपेक्ष्यार्थात्मकहेतुलक्षणमाचख्युः ॥ प्रसिद्धसौत्रपाठनिर्वाहः
अपि वा भवतु तत्रापि संशयव्यवच्छेदफलः पञ्चमीपाठः । कश्चिदेवमभिदधीत “साध्यसाधनम्” इति पर्यायपठनमात्रमेतत्, न हेतुलक्षणम् । अपि च यत्रैव वृष्टान्तधर्मिणि हेतुधर्मप्रयुक्ततया साध्यधमोऽवधारितः, तत्रैव पुनः असाबुपलभ्यमानः तमुपस्थापयतु । धर्म्यन्तरे तु तदुपलम्भात् भवतु संशयः, किं तत् साध्याविनाभूतमिह हेतोस्सत्त्वं, उतान्यथेति । तस्येदमुत्तरमुच्यते “उदाहरणसाधर्म्यात्” इति ॥ पञ्चम्यर्थवर्णनम्
अयमर्थः—देशकालव्यक्तिविशेषाणां व्यभिचारात् न तेषु प्रतिबन्धावधारणम्, अपि तु सामान्यधर्मयोरेव ॥

व्यक्तिभेदाश्रयत्वे हि नैव व्याप्तिग्रहो भवेत्64
दृष्टान्तेऽप्यभ्यनुज्ञैवं भवता दीयते कथम् ॥

तदभ्यनुज्ञानात्तु सामान्येन व्यप्तिग्रहणमङ्गीकृतमेव भवति । तस्मिंश्च सति उदाहरणसाधर्म्यात् साध्यसाधनमेव भवति, न संशयः; संशयस्य विशेषाग्रहणकारणकत्वात् । इह च उदाहरणसाधर्म्यपदोपात्तं लिङ्गसामान्यमेव विशेषो गृह्यत इति कुतः संशयः ॥ हेतोः पञ्चलक्षणकत्वम्
साध्यसाधनपदमपि न पर्यायमात्रम्, अपि तु पञ्चलक्षणकप्रतिबन्धसूचनेन हेतोः हेतुत्वसमर्थनार्थमेव । कस्मात् हेतुर्हेतुर्भवति, साध्यसाधनत्वात्, गमकत्वादित्यर्थः । साध्यसाधनता चास्य पञ्चलक्षणकात् प्रतिबन्धाद्विना न निर्वहतीति असौ साध्यसाधनपदेन लक्ष्यते । सोऽपि च प्रयोज्यप्रयोजकभावगर्भः साधनताङ्गतामेतीति तथाविध एव सूच्यते ॥

अत65 एव चाप्रयोजक एवैकः परमार्थतो हेत्वाभास इति वक्ष्यते ॥

तदिदमीदृशं साध्यसाधनत्वं हेतोः कुतो भवतीति—“उदाहरणसाधर्म्यात्” इति संशयं व्यवच्छिन्दन्त्या पञ्चम्या कथ्यते ॥ दिङ्नागोक्तदूषणोद्धारः
अतश्च यदुच्यते परैः— “ साधर्म्यं यदि हेतुः स्यात् न वाक्यांशो66 न पञ्चमी


इति—तदिदमनुपपन्नम्—पञ्चम्या अर्थात्मकत्वे हेतावनुपयोगात् । तत्रापि वा तस्यास्समर्थितत्वात् । वाक्यांशे लक्षणान्तरकरणात् । तच्चेदमिदानीमुच्यते उदाहरणसाधर्म्यात् साध्यसाधनं हेतुः । यथोक्तादुदाहरणसाधर्म्यात् विवक्षादिक्रमेण यद्वचनं प्रवर्तते, स हेतुः ॥

यद्यपि च ज्ञानस्याप्युदाहरणसाधर्म्यात् कमम्भूतात्, करणात्मकाद्वा भवत्यभिनिर्वृत्तिः, तथापि वाक्यावयवकरणसामर्थ्यात् वचनमवसीयते ॥

यदि वाक्यावयवकरणमिदम्, किमर्थं तर्ह्यर्थव्युत्पादनम् ?—उक्तमत्र, तदौपयिकत्वादिति ॥

साध्यसाधनग्रहणं वचनलक्षणे किमर्थम्67 ? हेत्वाभासवचननिरसनम् अर्थात्मकहेतुनिरसनादेव हि सिद्धम्—न हेत्वाभासवचनव्यवच्छेदार्थं तत् । किन्तु हेतुवचनविशेषप्रतिपत्त्यर्थम् । न स्वरूपमात्रनिर्देशकं वचनम्—“कृतकत्वम्” इत्येवमादि प्रयोक्तव्यम्; अपि तु हेतुविभक्त्यन्तं “कृतकत्वात्” इति, “कृतकत्वेन” इति “कृतकोऽयमस्मात्” इति बाऽभिधातव्यम् । एवं हि तत् साध्यसाधनं भवतीति ॥

तथा वैधर्म्यात् ॥ १-१-३५ ॥

उदाहरणग्रहणमनुवर्तते, साध्यसाधनमिति च । एतच्च तथाशब्दो पादानसामर्थ्याद्गम्यते—उदाहरणवैधर्म्यात् साध्यसाधनं हेतुः । अत्राप्यर्थात्मकहेतूपूर्वकन्वात् तद्वचनस्यार्थात्मक एव हेतुः प्रथमं प्रयुज्यत इति तल्लक्षणाय पूर्ववत् पञ्चमीपाठशून्यमेव सूत्रं वर्णयन्ति । “वैधर्म्यं हेतुः” इत्युच्यमाने पक्षवैधर्म्यस्यापि विपक्षवृत्तेः अशेषाश्वव्यक्तिपक्षीकरणे—तुरगा इमे, विषाणित्वात्—इत्येवमादेर्हेतुत्वं स्यात् इति उदाहरणग्रहणम् ॥

तथाप्यसाधारणादेः उदाहरणवैधर्म्यस्य हेतुता प्रसज्यत इति पूर्ववत् साध्यसाधनग्रहणं प्रतिबन्धसूचकं सकलहेत्वाभासव्यवच्छेदकं योजनीयम् ॥

तस्मादेव सकलहेत्वाभासव्यवच्छेदसिद्धेः उदाहरणवैधर्म्यग्रहणं समान जातीयान्वयव्यतिरेकिहेतुव्यवच्छेदाय व्याख्येयम् ॥ अन्वयव्यतिरेकिवैलक्षण्यं केवलव्यतिरेकिणः
ननु ! यैधर्म्यशब्दः केवलान्वयिनमेव हेतुं अव्यतिरेकं व्यवच्छेत्तुमलम्, तस्य वर्धम्यंशून्यत्वात् । अन्वयव्यतिरेकिणस्तु हेतोः उदाहरणसाधर्म्यवत् तद्वैधर्म्यस्यापि भावात् कथमनेन व्यावर्तनम् ? उच्यते—

वैधर्म्यशब्दोपादानात् केवलान्वयिनो यथा ।
निवृत्तिर्गम्यते तद्वत् अन्वयव्यतिरेकिणः ॥

साध्यसाधनशब्दो हि प्रतिबन्धोपलक्षणः ।
व्याख्यातः प्रतिबन्धश्च व्यतिरेकान्वयात्मकः ॥

वैधर्म्यसाधनेऽप्यस्मिन् स एव यदि वर्ण्यते ।
पूर्वत्रकथनाद्व्यर्थं वैधर्म्यग्रहणं भवेत् ॥

केवलव्यतिरेकाख्यप्रतिबन्धाभिधित्सया ।
वैधर्म्यवचनं तस्मात् सफलं व्यवतिष्ठते ॥

अध्याहृतैवकारं वा तद्व्युदासाय पठ्यताम् ।
विशेषविधिरूपेण व्याख्यानं वा विधीयताम् ॥

केवलान्वयिहेतुश्च न कश्चिदुपलभ्यते ।
तेन पूर्वोक्त एवास्य व्यवच्छेद्यो भविष्यति ॥

पूर्वसूत्रेऽवधारणाभावः
ननु ! एवं तर्हि अनेनैव न्यायेन पूर्वसूत्रं केवलात्वयिलक्षणार्थं स्यात्; यथेह वैधर्म्यङ्ग्रहणं साधर्म्यव्यवच्छेदकम्, एवं तत्र साधर्म्यग्रहणं वैधर्म्यव्यवच्छेदाय स्यादिति—उक्तमत्र—न केवलान्वयी नाम हेतुः सम्भवतीत्यलक्षणीय एवासौ । तदेवमन्वयव्यतिरेकवतो हेतोः लक्षणाय पूर्वसूत्रम् । इदं तु केवलल्यतिरेकिलक्षणायेति स्थितम् ॥ पञ्चम्यन्तपदपाठपक्षः
अर्थात्मकहेतुलक्षणपक्षेऽपि पञ्चमीपाठः पूर्ववत् संशयपराकरणफलत्वेन वर्णनीयः । वचनात्मकहेतुलक्षणेऽपि तथैव सूत्रं योज्यम् । यथोक्तवैधर्म्यात् प्रवृत्तं वचनं साध्यसाधनं हेतुविभक्त्यन्तं प्रयोक्तव्यमिति ॥ केवलव्यतिरेकिनिराकरणम्
तदेतदाक्षिपन्ति—लक्ष्ये सति लक्षणं वक्तव्यं भवति । केवलव्यतिरेकी तु नाम न समस्त्येव हेतुरिति कस्येदं लक्षणमुच्यते । प्रतिबन्धेन हि हेतोर्गमकत्वमुक्तम् । प्रतिबन्धश्च पञ्चलक्षणको व्याख्यातः । एकैकलक्षणविरहनिबन्धनाश्च पञ्चहेत्वाभासा भविष्यन्ति । तत् पक्षधर्मत्वविरहिण इवासिद्धस्य68 हेतोरन्वयशून्यस्यापि न हेतुता युक्ता । केवलव्यतिरेकमात्रशरणेन हेतुना साध्यसिद्धौ तथाविधसिद्धिसुभिक्षसम्भवात् यत् यस्मै रोचते, स तत्सर्वं साध्येत्69 । असाधारणस्य वा किमिति हेतुत्वं व्यतिरेकवतोऽपिनेष्यते ॥ केवलव्यतिरेकव्याप्तेरसाधकत्वम्
अपि च—

अन्वयस्यापरिच्छेदात् व्यतिरेकेऽपि संशयः ।
साध्याभावकृता तस्मात् व्यावृत्तिरुत वाऽन्यथा ॥

अन्वये हि क्वचिद्गृहीतेऽन्यत्र हेतुव्यावृत्तिरवगम्यमाना साध्यव्यावृत्तिकृतैवेति अवधार्यते, नेतरथा । इत्थमेव च सन्दिग्धव्यतिरेकता व्यावर्तते, नान्यथेति ॥

सन्दिग्धव्यतिरेके च साध्यसाधनता कथम् ।
लक्ष्याभावादतश्चेदं कथ्यते तस्य लक्षणम् ॥

केवलव्यतिरेक्यभावे सूत्रनिर्वहिः
तस्मान्न साध्यसाधनग्रहणेन हेतुद्वयसामान्यलक्षणमभिधाय, उदाहरणसाधर्म्यग्रहणेन अन्वयव्यतिरेकिणो लक्षणम्, उदाहरणवैधर्म्यग्रहणेन च केवलव्यतिरेकिणो वर्णनीयम् । अपि तु सूत्रद्वयेनैकस्यैवान्वयव्यतिरेकवतो हेतोर्लक्षणं व्याख्येयम् । अन्वयव्यतिरेकयोर्गमकाङ्गत्वात् एकेनान्वयनिरूपणं, अपरेण च सूत्रेण व्यतिरेकव्युत्पादनम् । अत एव भाष्यकारः “किमेतावद्धेतुलक्षणम्” ? नेत्युच्यते—“तथा वैधर्म्यात्” इत्येकवाक्यतयैव व्याख्यातवान् । उदाहरणमपि च सूत्रद्वये तुल्यमेव अन्वयव्यतिरेकिहेतोरुक्तवान् “उत्पत्तिधर्मकत्वात्” इति ॥ केवलव्यतिरेकिसाधनम्
अत्र वदन्ति—यदि वयं कञ्चन शुष्कमेव केवलव्यतिरेकिणं हेतुमुपगच्छेम, तत एवमनुयुज्येमहि । किन्त्वन्वयव्यतिरेकवानेषु हेतुः क्वचित् साध्यविशेषे विशेषणवशात् केवलव्यतिरेकितामबलम्बत इति ब्रूमः । तद्यथा—इच्छादिगतं कार्यत्वमात्मसिद्धौ । तत्र हि कार्यत्वमात्रं आश्रितत्वमात्रेण व्याप्तमुपलब्धमन्वयव्यतिरेकयुक्तमेव, घटादेः कार्यस्याश्रितस्य दृष्टत्वात् । यत्र चाश्रितत्वं नास्ति, तत्र कार्यत्वमपि नास्त्येव, व्योमादौ । सोऽयमन्वयव्यतिरेकवानेव हेतुः यदा परिदृश्यमानशरीराद्याश्रयव्यतिरिक्ताश्रयाश्रितत्वे साध्ये ऽदेहादिषु बाधकोपपत्तौ सत्यां कार्य त्वात् इति70 सविशेषणः प्रयुज्यते, तदा केवलव्यतिरेकी सम्पद्यते । देहादि यतिरिक्तस्याश्रयस्यात्मनो नित्यपरोक्षत्वेनान्वयानुपलम्भादिति ॥

दृशस्य चान्वयमूलस्य तस्यां दशायां केवलव्यतिरेकितामुपगतस्यु हेतुत्वोपगमात् न पूर्वोक्तदोषावसरः । न हीदृशा हेतुना सर्वः सर्वं साधयितुमुत्सहते । न चासाधारणस्य हेतुत्वं इत्थं स्थिते प्रसज्येत । पञ्चलक्षणत्वमपि पूर्वाश्रयापेक्षमस्य भविष्यति ॥ केवलव्यतिरेकिणि दोषोद्धारः
यच्च सन्दिग्धव्यतिरेकित्वमाशङ्कितं—तदप्यन्वयव्यतिरेकमूले केवलव्यतिरेकिणि निरवकाशम्, कार्यस्याश्रितस्योपलम्भात्, अश्रितत्वव्या वृत्त्या व्योमादौ च कार्यत्वव्यावृत्तिदर्शनात् । इदानीं घटादौ शरीरे वा सविशेषव्यावृत्तिर्दृश्यमाना विशिष्टाश्रयव्यावृत्तिकृतैवावगम्यत इति न सन्दिग्धो व्यतिरेकः । एतच्चात्मसिद्धिप्रसङ्गे निर्णीतमिति निरपवादः केवलव्यतिरेकी हेतुरस्त्येव लक्ष्य इति तल्लक्षणार्थमुत्तरसूत्रम् । अन्वयव्यतिरेकिहेतुलक्षणार्थं पूर्वसूत्रम् । केवलान्वयी हेतुर्नास्त्येव । सामान्यलक्षणे तु अनुमानलक्षणवत्, साध्यसाधनपदाद्वाऽवगन्तव्यम् ॥ भाष्यविरोधपरिहारः
भाष्याक्षराणि तु काममुपेक्षिष्यामहे । अथवा यथा कर्थचिद्वा व्याख्यास्यामः । केवलव्यतिरेकिणं त्वीदृशमात्मादिप्रसाधने परममस्त्रमुपेक्षितुं न शक्नुम इति अयथाभाष्यमपि व्याख्यानं श्रेयः ॥ उदाहरणनिरूपणम्
साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्त उदाहरणम् ॥ १-१-३६ ॥

यथा “तत्पूर्वकमनुमानं” इत्यत्र प्रतिबन्धग्रहणोपायमात्रं प्रतिपादितम्, इह तु प्रतिबन्धस्वरूपमुदाहरणसाधर्म्यमुक्तम् । एवं “लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः,” इत्यत्रं वादिप्रतिवादिप्रतिपन्नत्वं द्विविधस्यापि दृष्टान्तस्य सामान्यलक्षणमुक्तम् । इह तु प्रयोज्यप्रयोजकभावव्यवस्थितसाध्यसाधनधर्माधिकरणत्वमेकस्य, द्वितीयस्य च तद्रहितत्वं लक्षणमुपपाद्यते ॥ उदाहरणसूत्रविवरणम्
तत्र “साध्यसाधर्म्यात्तद्धर्मभावी” इति साधर्म्यदृष्टान्तस्य लक्षणम् । वचनाधिकारेऽपि71 अर्थात्मकदृष्टान्तचिन्तनं तदौपयिकत्वात् हेतुवत् कर्तव्यम् ॥

साध्यः—धर्मविशिष्टो धर्मी, तेन साधर्म्यं—समानो धर्मः—लिङ्गसामान्यं यत् उदाहरणसाधर्म्यं पूर्वमुक्तं, तदेव द्विष्ठत्वादुभाभ्यां व्यपदिश्यते इति इह च साध्यसाधर्म्यपदेनोक्तम् । तस्मात् साध्यसाधर्म्यात् यः तद्धर्मभावी—तस्य—साध्यस्य धर्मः—नित्यत्वादिः यस्मिन् भवति, सः तद्धर्मभावी । पञ्चम्या प्रयोजकत्वमुच्यते । हेतु धर्मप्रयुक्तो हि साध्यधर्मः यत्रास्ति, सः साधर्म्यदृष्टान्त इत्यर्थः । स एव च वचसः कर्मतां प्रतिपद्यमानः उदाहरणं भवतीत्यर्थवचनवाचिनोः दृष्टान्तोदाहरणशब्दयोः सामानाधिकरण्यमविरुद्धम् ॥

दृष्टान्त एवान्वयख्यापकेन वचनेनोच्यमानः उदाहरणं— इत्युक्ते सति तदभिधायकं वचनं उदाहरणं भवत्येव । यद्यत् कृतकं, तत्तदनित्यं दृष्टं—यथा घट इति ॥ कार्येण कारणानुमानस्यापि सङ्ग्रहः
ननु ! एवं यत्र हेतुकृता साधर्म्यवत्ता, यथा—जलधरोन्नमनवृष्ट्यादौ, तादृश एवं दृष्टान्त उपदिष्टो भवेत्—न यत्र साध्यधर्मकृता हेतुसत्ता, यथा धूमानुमान इति—अदर्शनज्ञो देवानाम्प्रियः—नात्रोत्पत्त्यपेक्षया प्रयोज्यप्रयोजकभावो विवक्षितः, किन्तु ज्ञप्त्यभिप्रायेण । ज्ञप्तौ च धुम एवाग्नेः प्रयोजकतां प्रतिपद्यते । न हि धूमाग्न्योः कार्यकारणभावेन गभ्यगमकभावः । किन्तु नित्यसाहचर्येणैव नियमनाम्ना सम्बन्धेनेत्यसकृदुक्तम् ॥ कारक—ज्ञापकरूपहेतुद्वैविध्यम्
धूमः स्वरूपतो नाम जायतां जातवेदसः ।
अग्निस्तु नाक्षिपत्येनं स एव ह्यग्निमाक्षिपेत् ॥

प्रयोजकत्वमग्नेश्च पञ्चम्या यदि कथ्यते ।
यत्र यत्राग्निरित्येवं तन्निर्देशः प्रसज्यते ॥

यस्य प्रयोजकत्वं हि चिख्यापयिषितं भवेत् ।
यच्छब्देन च पूर्वत्र स हि निर्देशमर्हति ॥

भवेदेवं च हेतुत्वं धूमं72 प्रति विभावसोः ।
न च तद्युज्यते वक्तुं अनैकान्तिकदोषतः ॥

प्रयोजकत्वमिच्छन्ति तस्मान्नोत्पत्त्यपेक्षया ।
अपि तु ज्ञप्त्यभिप्रायं हेतोरेवोचितं च तत् ॥

तस्मात् हेतुधर्मप्रयुक्तः साध्यधर्मः यत्र ख्याप्यते, स साधर्म्यदृष्टान्तः । तद्वचनमुदाहरणमिति सिद्धम् ॥ वैधर्म्योदाहरणम्
तद्विपर्ययाद्वा विपरीतम् ॥ ३-२-३७ ॥

“दृष्टान्त उदाहरणं” इति वर्तते । तदिति साध्यसाधर्म्यपरामर्शः । तच्च यद्यपि पूर्वसूत्रे लिङ्गसामान्यं व्याख्यातम्—तथाप्युभयस्य सम्भवादिहानुमेयसामान्यं साध्यसाधर्म्यं द्रष्टव्यम् । तद्विपर्ययात्—साध्याभावात्, तद्विपरीतः—अतद्धर्मभावी—साधनरहितः यो दृष्टान्तः, स वैधर्म्यदृष्टान्तः पूर्ववत् वचसः कर्मतामापद्यमानः वैधर्म्योदाहरणं भवति । “विपरीतं” इत्युदाहरणापेक्षया नपुंसकलिङ्गनिर्देशः ॥ वैधर्म्यदृष्टान्ते विशेषः
किमर्थं पुनः साध्याभावात् साधनाभावो वैधर्म्यदृष्टान्तो वर्ण्यते, न पुनः साधर्म्यदृष्टान्तस्थित्या साधनाभावादेवं साध्याभाव इति—उक्तमत्र— “ व्याप्यव्यापकभावो यः साध्यसाधनधर्मयोः ।
स एव वैपरीत्येन मन्तव्यस्तदभावयोः इति ॥


किं कारणम् ? साधनधर्मे हि धूमे साध्यधर्मेणाग्निना व्याप्तेऽनग्निः तत्र निवेशमलभमानोऽन्यत्रानवकाशादधूम एव निविशते । एवं साध्यधर्माभावेऽनग्नौ साधनधर्माभावेनाधूमेन व्याप्ते सति धूमस्तत्रालब्धावकाशः अनन्यगतित्वादग्नावेव निविशत इति ॥ साधर्म्यदृष्टान्ताद्वैधर्म्यदृष्टान्तवैपरीत्यम्
यदि तु साधर्म्यदृष्टान्तवत् तथैव व्याप्यव्यापकभावः ख्याप्यते— स्साधनाभावे साध्यं नास्तीति—तदा धूमाभावेनानग्निना व्याप्तेन अग्नि तत्रालब्धनिवेशः धूममेवाबलम्बेतेति स्यात् । न चैतन्निर्वहति, अधूमेऽपि वह्निदर्शनात् इत्येवं सपक्षैकदेशवृत्तेर्हेतुत्वमपि73 प्रसिद्धं हीरेत, व्याप्तिवैधुर्यादिति ॥

अपि च धुमाभावेनाग्न्यभावे व्याप्ते कथ्यमाने सत्यधूमो नियमितो भवति “अनग्निं मा हासीत्” इति । अग्निस्त्वनियमित इति स्वातन्त्र्यादधूमवद्धूममपि74 स्पृशेदिति व्यभिचारात् प्रतिबन्धो विप्लवेत । तदुक्तम्— “ यदा तु साध्याभावेन हेत्वभावो विरुद्ध्यते ।
तदा साध्यं ततो दृष्टं अवतिष्ठेत साधने ॥


एवं नियवितं साध्यं साधने ख्यापितं भवेत् ।
साधनं तु स्वतन्त्रत्वात् साध्याभावेऽपि सम्भवेत् ॥

समव्याप्तिकस्थलेऽपि तुल्यो न्यायः
तस्मात् यत्रापि समव्याप्तिकौ साध्यसाधनधर्माविति सपक्षैकदेशवृत्तित्वेनाहेतुत्वमाशङ्क्यते, तत्रापि साधनधर्मस्य विपक्षात् व्यावृत्तिमभिधित्सता साध्याभावे साधनाभावो दर्शयितव्यः । यत्रानित्यत्वं नास्ति, तत्र कृतकत्वमपि नास्ति, यथाऽऽकाश इति ॥

योऽप्यविद्यमानविपक्षो हेतुः, सोऽपि सुतरां ततो व्यावृत्तो भवति, तदभावात्तत्रावृत्तेरिति । अतश्च सर्वपदार्थानित्यत्ववादी एवमपि वैधम्यदृष्टान्तं प्रदर्शयन् न वार्यते—यत्र नित्यत्वं नास्ति, तत्र कृतकत्वमपि नास्ति यथाशशविषाणादाविति ॥

ते एते साधर्म्यवैधर्म्योदाहरणे अन्वव्ययतिरेकवति हेतावुभे अपि सम्भवन्ती विक्ल्पेन प्रयोक्तव्ये । एकेनैव व्याप्तेः प्रदर्शनात् किमन्येन कृत्यम् ॥ उभयविधव्याप्त्योरावश्यकता
केचित्तु व्याप्तिसौष्ठवप्रदर्शनाय द्वयोरपि प्रयोगमिच्छन्ति । स भवतु, मा वा भूत् । नेदं महद्विमर्दस्थानम् ॥

ननु ! हेतूदाहरणाधिकमिति निग्रहस्थानमिदमादिष्टम्—न— समानजातीयाभिप्रायं तद्भविष्यति । साधर्म्यदृष्टन्तानेकत्वे वैधर्म्यदृष्टत्तानेकत्वे वापूर्वं समयकरणवेलायामेव तथैवकरणेतु अयमपि न दोषः ॥ तन्निग्रहस्थानमित्यास्तामेतत् ॥ सःध्यर्म्यं दृष्टान्ताभासाः
इत्थै साधर्म्यवैधर्म्यदृष्टान्तस्वरूपे व्युत्पादिते बसात्तल्लक्षणरहिता दृष्टान्ताभासा भवन्ति । तत्र साध्यविकलः, साधनविकलः, उथयविकल इति वस्तुदोषकृतास्त्रयः साधर्म्यदृष्टान्ताभासाः । अनन्वयः, विपरीतान्वय इति द्वौ वचनदोषकृतौ । यथा “नित्यः शब्दः अमूर्तत्वात्” इत्यत्र “ब्रुद्धिवत्” इति साध्यविकलो दृष्टान्तः । “परमाणुवत्” इति साधनविकलः “घटवत्” इति उभयविकलः । व्योम्नि नित्यत्वान्मूर्तत्वं विद्यत इन्य नन्वयः । यदमूर्तं तन्नित्यमिति वक्तव्ये, यन्नित्यं तदमूर्तमिति विपरीतान्वय इति ॥ वैधर्म्यदृष्टान्ताभासाः
वैधर्म्यदृष्टान्ताभासा अपि पञ्चैव साध्याव्यावृत्तः, साधनाव्यावृत्त उभयाव्यावृत्त इति वस्तुदोषास्त्रयः । अव्यतिरेकः विपरीतव्यतिरेक इति वचनदोषौ द्वौ । यथा तत्रैव हेतौ—यत्र नित्यत्वं नास्ति, तत्रामूर्तत्वमपि नास्ति, यथा परमाणुष्विति साध्याव्यावृत्तः । यथा बुद्धाविति साधनाव्यावृत्तः । यथाऽऽकाश इत्युभयाव्यावृत्तः । नित्यत्वामूर्तत्वे घटे न विद्येते इत्यव्यतिरेकः । “यत्र नित्यत्वं नास्ति, तत्रामूर्तत्वनपि नास्ति” इति वक्तव्ये, “यत्रामूर्तत्वं नास्ति तत्र नित्यत्वमपि नास्ति” इति विपरीतव्यतिरेक इति ॥

एते च वस्तुवृत्तेन हेतुदोषा एव, तदनुविधायित्वात् । अत एव हेत्वाभासवत् सूत्रकृता नोपदिष्टाः । अस्माभिस्तु शिष्यहिताय प्रदर्शिता एवम् ॥ उपनयलक्षणम्
उदाहरणापेक्षः तथेत्युपसंहासे न तथेति वा साध्यस्यापेनयः ॥ १-१-३९ ॥

उदाहरणम् आत्मलाभे अपेक्षत इति—उदाहरणापेक्षः पक्षधर्मीपसंहारः75 उपनयः । द्विविधश्चासौ—तथेति, न तथेति वा, उदाहरणद्वै विध्यात् । तत्र साधर्म्योदाहरणापेक्षः तथेत्युदनयः । यत् कृतकं तदनित्यं दृष्टं, यथा घटः, न च तथा कृतकः शब्दः इति । वेधर्म्योदाहरणापेक्षस्तु न तथेत्युपनयः—यन्नित्यं, तदकृतकं दृष्टं—यथाऽऽकाशः न च तथा कृतकः शब्द इति । अत्रापि निषेधद्वययोगाद्विधिरेव गम्यते ॥ सौत्रपदवैयर्थ्यशङ्कापरिहारौ
ननु ! “साध्यस्य” इत्यवाचकः सूत्रावयवः । पक्षधर्मोपसंहारोह्युपनयः, न साध्योपसंहारः । साध्यो हि धर्मः, धर्मी वा स्यात् न तर्यीरन्यतरस्याप्ययमुपसंहार इति—उच्यते—साध्योसाध्यविशिष्टपक्षस्य साध्यत्वात् पक्षः साध्यः ॥ धर्म्येव, न धर्म इह विवक्षितः । तत्रायं हेतोरुपसंहारः—“तथा च कृतकः शब्दः” इति । सेयं साध्यस्येति सप्तम्यर्थे षष्ठी मन्तव्या । साध्ये धर्मिणि हेतोरुपसंहारः उपनय इति ॥ षष्ठ्याः सप्तम्यर्थसम्भवः
नन्वाधारविवक्षायामिह प्राप्नोति सप्तमी ।
सम्बन्धमात्रे वा वाच्ये कथमाधारतोच्यते ॥

नैतत्, सम्बन्धसामान्येऽप्युक्ते भवति धर्मिणा ।
योगो विशेषचिन्तायां76 तस्य त्वाधारता भवेत् ॥

विशेषेऽन्तर्निगूढे च प्रायः षष्ठीप्रयुज्यते ।
शेषो नामाविवक्षैव कारकाणामिति स्थितिः ॥

तथा च राज्ञः पुरुषः ब्राह्मणस्य कमण्डलुः ॥

तरोः शाखेति सर्वत्र विशेषोऽन्तर्व्यवस्थितः ॥

अतश्च “धर्माय जिज्ञासा—धर्मजिज्ञासा । सा हि तस्य77 ज्ञातुमिच्छा [शा-भा-१-१-१] इतिवत् सम्बन्धमात्रसमर्पिकाऽपि सेऽयं षष्ठी विशेषयर्य” वसाना भविष्यतीति सूक्तं साध्यस्योपसंहार इति ॥ उपनयस्य व्यर्थत्वाक्षेपः
ननु ! उपनयवचनमनर्थकम् । पक्षहेतुदृष्टान्तवचनैः किं न पर्याप्तम् ? यदर्थमुपनयवचनमुच्चार्यते । यदि धर्मिणि हेतोः सत्त्वसिद्धये तदभिधानम्—तदैष वृथैव श्रमः । पक्षधर्मवचनेनैव “कृतकत्वात्” इत्येवमादिना सिद्धत्वात् ॥

अथ साध्यदृष्टान्तधर्णिणोः साम्यापादनाय78 तदुच्चारणं, तदपि न चतुरश्रम्—“उदाहरणसाधर्म्यात्” इत्यनेनैव गतार्थत्वात् । उदाहरणसाधर्म्यवचनं हि हेतुवचनमेव भवेत् ॥

अथ स्वप्रतिपत्तौ तदर्थदर्शनात् परं प्रति तद्वचन—तत्रापि परामर्शज्ञाने विवदन्ते ॥

अपि च स्वयं दधिभक्षणसमनन्तरं यदि कदाचिदनुमेयमतिरुपजायते, तत् किमपरस्मै तदुपदिश्यताम् ॥ प्रतिज्ञादीनां क्रमेऽप्याक्षेपः
योऽप्ययं प्रतिज्ञाहेतूदाहरणोपनयनिगमनप्रयोगक्रम आश्रीयते, सोऽपि स्वप्रक्रियानुरागुनिर्मित एव, न वस्तुबलप्रवृत्तः । तथा हि—यद्यत् कृतकम्, तत्तदनित्यं दृष्टम्, कृतकश्च शब्द इतीयतो वननात् को नाम शब्दानित्यतां नावगच्छेत् । त्वमेवात्र सत्यव्रतधनः प्रमाणम् । डिण्डिकरागं79 परित्यज्याक्षिणीनिमील्य चिन्तय तावत्, किमियताऽर्थं बुद्ध्यसे न वा । तस्मात् स्वप्रक्रियापक्षपातमपास्य पञ्चावयवमेवं क्रमकं वाक्यं उपेक्ष्य यथोक्तमेव80 वाक्यं प्रयुङ्क्ष्वेति ॥ उपनयस्यावश्यकतावर्णनम्
अत्रोच्यते—इदं तावत् भवान् पृष्टो व्याचष्टाम् । किं स्वप्रतिपत्तिमनुसरन्तः परप्रतिपादनाय वाक्यरचनां कुर्मः, उत परहृदयानुवर्थनेनेति । तत्र पराभिप्रायस्य वैचित्र्यात् परोक्षत्वाच्च दुरवगमत्वेन न विद्मः किं विदध्महे ? किं भुवमुत्क्षिपामः ? किमरत्निना परं पीडयामः ? उत हस्तसञ्ज्ञया व्यवहरामः ? आहो हेतुमात्रमेव केवलं प्रयुज्महे ? किं वात्र्यवयवं वाक्यमभिदध्मः ? उत पञ्चावयवादपि वाक्यादभ्यधिकमाख्यानकमस्मै [वर्णयमः ?] इत्येवमनवस्थितत्वात् पराभिप्रायस्य स्वप्रति पत्तिमेवानुसरता परः प्रत्याय्यः ॥ प्रतिज्ञादिक्रमस्य युक्तत्वम्
तत्र स्वप्रतिपत्तौ पर्वतादिधर्मी प्रथमं दृष्ट इति स प्रतिज्ञाय कथ्यते । ततोऽपि धूमादिलिङ्गमुपलब्धमिति हेतुवचनेन तदावेद्यते । ततो यत्र धूमस्तत्राग्निः यथा महानसः इति व्याप्तिस्मरणमभवदिति दृष्टान्तवचसा तदभिधीयते । ततः “तथा चायं धूमः” इति परामर्शज्ञानमुदपादीति तदुपनयवचनेन प्रतिपाद्यते । ततः “तस्मादत्राग्निः” इत्यनुमेयज्ञानमुपजायते इति निगमनेन तदुच्यते । ततः “परप्रतिपत्ति”पर्यवसानात् किमन्यदुपदिश्यमानमिति । न च दधिथक्षणसदृशं अतोऽन्यतममपि81 भवितुमर्हति, अनुमेयप्रतिपत्तावुपादयत्वात् ॥ सर्वैरुपनयस्यापरित्याज्यता
येषामपि मते परामर्शज्ञानं नाति, तैरप्युपनयवचनमवश्यमेवापरिहार्यम्; अनुमेयप्रतिपत्तये दृष्टान्ते दर्शितशक्तिरेव हेतुः प्रभवति नान्यथेति । अतो यद्यपि पक्षधर्मवचनेन हेतुधर्मिसम्बन्धमात्रमुपपादितम्— तथापि अधुना दृष्ठान्ते दर्शितशक्तिधर्मः सः तस्मिन् धर्मिणि तथाविधो हेतुः स्यात्, न वति असिद्ध्याशङ्काशमनमुपनयवचनमन्तरेण न भवत्येवेत्यवश्यं प्रयोक्तव्यं तदिति । स्वप्रतीत्यनुसरणेन च वाक्यरचनायाः स्थतत्वात् क्रमोऽपि यथोक्त उपयुज्यते ॥ अवयवद्वयवादनिरासः
अत एव च “यत् कृतकं, तदनित्यं दृष्टं” इत्यभिधानं अनुपपन्नम्, अनवगते धर्मिणि, तद्वर्तिनि च हेतौ प्रथममेव व्याप्तिस्मरणासम्भवेन तद्वचनायोगात् । तदिदमवयविविपर्यासवचनं अप्राप्तकालनिग्रहस्थानमुपदेक्ष्यामः ॥

अपि च “यत् कृतकं, तदनित्यं दृष्टं, कृतकश्चशब्दः” इत्येतावदेव प्रयोक्तव्यमिति वदता भवता “कृतकश्च शब्दः” इतीदमुपनयवचनमनु ज्ञातम् कृतकत्वादिति पक्षधर्मवचनं तु निह्नुतम् । “कृतकश्च शब्दः” इत्येतावदेव हेतुवचनमिति चेत्—न—प्रयोजकस्य पञ्चम्यादिना निर्देशार्हत्वादिति यत्किञ्चिदेतत् ॥ एकावयववादनिरासः
यदप्युच्यते [प्र। वा। ३-२६] — “ ……विदुषां वाच्यो हेतुरेव हि केवलः


इति—तदप्यचारु—विद्वद्भिर्वित्त्वादेव हेतोरपि प्रज्ञानात् । अपूर्वा इमे विद्वांसः, ये प्रतिज्ञाद्यवयवचतुष्टयस्यार्थं जानन्ति, हेतुवचनस्य तु न विन्दन्तीति82 । तस्मात् पराशयस्य सर्वथा दुर्बोधत्वात् पूर्वोक्तेनैव क्रमेण स्वानुभवसाक्षिकेण वाक्यरचनां कृत्वा परः प्रत्याय्य इति ॥ निगमनलक्षणम्
हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम् ॥ १-१ ॥

हेतुः दृष्टान्तधर्मिणि निर्ज्ञातशक्तिः साध्ये धर्मिणि अपदिश्यतेऽनेनेति हेत्वपदेश—उपनयः । तस्मात्—हेत्वपदेशात् प्रवृत्तं प्रर्तिज्ञायाः पुनर्वचनं निगमनम् । निगम्यतेऽनेने पूर्वोक्ताः अवयवाः—एकत्र साध्येऽर्थे समर्प्यन्ते—नियोज्यन्त इति निगमनम् । “तस्मात् कृतकत्वादनित्यः शब्दः” इति । तदिदं निगमनं साधर्म्यवैधर्म्यभेदेन हेतोः दृष्टान्तस्य च तदपेक्षिणश्च “तथा” “न तथा” इत्युपनयस्य द्वैविध्येऽपि प्रतिशावचनवत्तुल्यमेव भवति ॥ निगमनलक्षणाक्षेपः
ननु ! प्रतिज्ञावचनमेव तावत् असाधनाङ्गवचनत्वात् अपार्थकम् । तस्या एव पुनर्वचनं निगमनमधुना सफलं भविष्यतीति केयं कथा ? “प्रतिज्ञायाः पुनर्वचनम्” इति च न वाचको ग्रन्थः; साध्यनिर्देशो हि प्रतिज्ञा सिद्धनिर्देशस्तु निगमनमिति ॥

वाचके वा ग्रन्थे, पौनरुक्त्यादेव निगमनस्य वैफल्यम् । स्वप्रतिपत्तौ च परामर्शज्ञानान्तरं साध्यावगतिरेव भवन्ती दृश्यते । सा परस्याप्युपनयवचनश्रवणसमनन्तरमुपजायत एवेति किं तदुक्त्या प्रयोजनम् ॥ उक्ताक्षेपपरिहारः
उच्यते—प्रतिज्ञायास्तावत् साफल्यं समर्थितमेव । तस्याश्चेदं पुनर्वचनं सिद्धसाध्यभेदे सत्यपि धर्मिधर्मनिर्देशमात्रसाम्यादुच्यते । सिद्धसाध्यभेदादेव च न पौनरुक्त्यकृताफल्यम् । स्वप्रतिपत्तये च परामर्शज्ञानानन्तरं साध्यबुद्धिरुत्पन्ना सा परस्मै कथ्यमाना न निष्प्रयोजना भवति ॥

अस्माद्धेतोरिदं साध्यं अहमज्ञासिषं यथा ।
तथा त्वमपि जानीहि मा स्म विघ्नोऽत्र ते भवेत् ॥

एवमुक्ते संशयानस्य संशयः शाभ्यति, विपर्यस्तमतेश्च विपर्ययः । तदर्थश्चायं परार्थानुमानोपन्यासश्रमः । तदिदं—विपरीत83 प्रसङ्गप्रतिषेधार्थं निगमनमाहुः ॥ असाधारण्यनिरासकत्वपक्षः, तन्निरासश्च
ये तु यथाश्रुतसाध्यनिर्देशात्मकप्रतिज्ञापुनर्वचनसमर्थनलोभादद्यापि प्रतिज्ञायाः सिद्धिमबुध्यमानाः असाधारणाशङ्काव्यवच्छेदाय निगमनवचनमिच्छन्ति—ते न सम्यगभ्ययुः—असाधारणाशङ्कायाः दृष्टान्तवचनेनैव निरस्तत्वात् । विशेषस्य84 हि हेतुत्वसम्भावनायामसाधा रणाशङ्का स्यात् । “यत् कृतकं, तदनित्यं” इति तु दृष्टान्तवचसा सामान्यस्य हेतुत्वे कथिते कथमसाधारणत्वमाङ्क्येत ?

यदि पुनरुपनयवचनेन साध्ये धर्मिणि हेतोरुपसंहारात् असाथारणत्वमाशङ्क्येत, तन्पुनर्दृष्टान्तधर्मिवृत्तित्वमस्य दर्शयितव्यम् । तस्मिन् दर्शिते पुनः तद्वृत्तित्वात् धर्मिण्यसिद्धत्वमाशङ्कनीयम् । पुनस्तद्व्यावृत्तये धर्मिणि हेतोरुपसंहारो विधेय इत्येवमसाधारणासिद्धायशङ्काभ्यां गच्छेदिति न कदाचित् साध्यप्रतीतिर्भवेदिति नासाधारणशङ्काव्युदासाय तत्प्रयोगः, किन्तु पूर्वरीत्यैवेति ॥

तस्माद्विवक्षितेऽर्थे यथोदितक्रमनिवेशिनोऽवयवान् ।
एकत्र सङ्घटयितुं निगमनवचनं प्रयोक्तव्यम् ॥

परार्थानुमानपरमफलम्
त इमे प्रतिज्ञादयो निगमनपर्यन्ताः पञ्चावयवाः यथासम्भवमागमादिप्रमाणानुगृहीताः परस्परानुषक्ताश्च स्वार्थं साध्यन्ति । तत्र मुख्यया वृत्त्या प्रतिपाद्येनानुमानेनैव सर्वेऽवयवा अनुगृह्यन्ते । प्रपञ्चाय तु प्रमाणान्तरानुग्रह एषामुच्यते ॥

प्रतिज्ञायास्तावदागमोऽनुग्राहकः उपेयते, उपदेशस्वभावत्वात् । “अनित्यः शब्दः” इति वक्ता तु एवंविधे विषये ऋषिवदस्वतन्त्रत्वात् । अनुमानमुपदिशति । प्रतिज्ञावचनं तु तच्छायानुपातित्वात् । शब्दप्रामाण्यसिद्ध्यर्थे वा शास्त्रे तत्प्रतिज्ञायाः शब्दविषयत्वादागमानुगृहीतत्वमुच्यते ॥

हेतुवचनमनुमानेनानुगृह्यते ॥

उदाहरणं तु प्रत्यक्षेण, तन्मूलत्वाद्व्याप्तिपारिच्छेदस्य ॥

“यथा गौः, तथा गवयः” इतिवत् “यथा घटस्तथा शब्दः” इत्यनया च्छायया उपमानकारणभूत वनेचरादिवचनसदृशत्वात् उपमानं उपनयस्या नुग्राहकमभिधीयते ॥

निगमनस्य तु सर्वावयवानामेकत्र नियोजनार्थत्वात् सर्वप्रमाणानुग्राह्यतैव ॥ प्रतिज्ञादीनां प्रयोगक्रमः
इतरेतरानुषक्तत्वात् प्रतिज्ञां विना निराश्रयो हेतुर्भवेदिति सा पूर्वं प्रयोक्तव्या “अनित्यः शब्दः” इति । ततो हेतुं परोजिज्ञासत इति हेतुवचनमुच्चार्यते “कृतकत्वात्” इति । हेतौ श्रुते क्वास्य व्याप्तिरवधृतेति दर्शयितुमुदाहरणमुच्यते “यत् कृतकं, तदनित्यं दृष्टं—यथा घटः” इति । एवमुक्ते ईदृशो निर्ज्ञातशक्तिरेष हेतुः साध्ये धर्मिणि भवेत्, न वेत्यसिद्धताशङामपाकर्तुमुपनयः प्रसज्यते । ततः “अमुना क्रमेण तवापि साध्यप्रतीति र्भवतु” इति सर्वावयवानेकत्र साध्येऽर्थे समर्थयितुं निगमनमभिधीयते । अन्यतममवयवमन्तरेण सकलमिदमनुषक्तार्थवाक्यं स्यादिति पञ्चावयवमेव यथोपदिष्टक्रमकं वाक्यं प्रयोक्तव्यम् ॥ अवयवपरीक्षोपसंहारः
इत्यारब्धोपकारः तदनुगुणफलैः आगमादिप्रमाणैः
अत्योन्यापेक्षिणोऽमी नियतमवयवाः साधयन्त्यर्थजातम् ।
यश्चैतेषां प्रमेये वचसि च चतुरस्तस्य जातिप्रयोग-
प्रायैः शक्यो न पक्षः क्षपयितुमिति हि
व्याहरद्वृत्तिकारः85

॥ इत्यवयवपरीक्षा ॥ ॥ इति श्री भट्टजयन्तकृतौ न्यायमञ्जर्या दशममाह्निकम् ॥


  1. समानधर्मोपपत्तिः, अनेकधर्मोपपत्तिः, विप्रतिपत्तिः, उपलब्ध्यवस्थ, अनुपलब्ध्यव्यवस्था इति पञ्च ॥ ↩︎

  2. विशेषाः—स्थाणुत्वपुरुषत्वादयः ॥ ↩︎

  3. न हि गुणः सामान्यम् ॥ ↩︎

  4. तथा चा ननुगतस्यापि कुत्रचिदनुगमकत्वमनुभव बलात् ॥ ↩︎

  5. डोलायमानास्थितिमारूढस्यं ॥ ↩︎

  6. ज्ञानानां द्विक्षणावस्थायित्वात्, अयौगपद्याच्च ॥ ↩︎

  7. विशेषाः—वक्रकोटरत्वादयः ॥ ↩︎

  8. अन्यथा तेषां कुत्रापि कारणत्वं न स्यात् ॥ ↩︎

  9. प्रमीयते अनेनेति किल तत्र निर्वचनम् ॥ ↩︎

  10. ज्ञानसामान्यकारणत्वात् ॥ ↩︎

  11. शब्दत्वादिः नित्यानित्यव्यावृत्तत्वात् उभयकोट्युपस्थापकः इत्युक्तः, न तु साक्षात् संशयकारणम् ॥ ↩︎

  12. स्वव्यतिरिक्तसर्वेभ्योऽपि ॥ ↩︎

  13. मानवबुद्धेरतिविचित्रत्वादेवमपि सम्भवतीति प्रदर्शनमात्राभिप्रायं तदिति गृह्यतामित्याशयः ॥ ↩︎

  14. शब्दः—इत्यस्य विभागजेत्यादिः ॥ ↩︎

  15. आकाशदेशोऽत्र अवयविदेशः विवक्षितः । क्रिया हि कदाचित् पूर्णेऽवयविनि, कदाचिदवयवैकदेशे च जायते ॥ ↩︎

  16. अनारम्भकसंयोगप्रतिद्वन्द्विविभागजनिका क्रिया आरम्भकसंयोगप्रतिद्वन्द्विविभागजनिका न भवति इतीयं स्थितिः ॥ ↩︎

  17. अन्यथा—पूर्वसंयोगानाशे ॥ ↩︎

  18. न भविष्यति—इत्यन्वयः ॥ ↩︎

  19. इन् थे प्रिन्त् एदितिओन् थेरे इस् अ ड़ोओत्नोते रेड़ेरेन्चे, बुत् नो चोर्रेस्पोन्दिन्ग् नोते। ↩︎ ↩︎

  20. अन्यथा हि परिणामवादप्रसरप्रसङ्गः ॥ ↩︎

  21. देशः—दिग्देशः । दिगेव हि सर्वत्र मुख्यो देशः ॥ ↩︎

  22. व्यधिकरणयोः कथं कार्यकारणभावः ॥ ↩︎

  23. शब्दोत्पत्ताविति शेषः ॥ ↩︎

  24. इदमत्र तत्त्वम्—सिद्धान्ते हि अवयवावयविनावत्यन्तम्भिन्नौ । संयोगविभागौ च नियमेनाव्याप्यवृत्ती । अतः अवयवसंयोगविभागाभ्यामेवावयविनि तावुपपादनीयौ ॥ ↩︎

  25. विशेषस्मरणं—कोटिद्वयस्मरणम् ॥ ↩︎

  26. उपलब्धेख्यवस्था अनुपलब्धौ, अनुपलब्धेरव्यवस्था उपलब्धौ च विश्राम्यतीति अनयोः को भेद इति शङ्कां वारयति—अव्यवस्थेत्यादिना ॥ ↩︎

  27. व्याख्यान इति शेषः ॥ ↩︎

  28. सामान्यलक्षणे—संशयसामान्यलक्षणे ॥ ↩︎

  29. अधिकृत्य—इत्यत्रैकदेशः अधिकारः ॥ ↩︎

  30. अर्थकामावपि हि पुरुषार्थवर्गपरिगणितौ ॥ ↩︎

  31. प्रयोजनस्य प्रवर्तकत्वं आक्षिप्य सामाधत्ते—यद्यपीत्यादिना । अस्यैव विवरणमुपरिष्टात् ॥ ↩︎

  32. न हि खपुस्पे कस्यचिदीप्सा भवति ॥ ↩︎

  33. पूर्वं एते पक्षा विचारिता विस्तरेण ॥ ↩︎

  34. प्रकृतं खलु न्यायशास्त्रम् । वस्तुतस्तु लोकस्यैव एतच्छास्त्रलक्ष्यत्वात् दृष्टान्तव्यवहारस्य सर्वत्र दर्शनात् लोकव्यवहारेऽपि दृष्टान्तप्रयोगदर्शनात् ऐहिकामुष्मिकपरौ उत्तानगम्भीरप्रज्ञपरौ वा लौकिकपरीक्षकशब्दौ ॥ ↩︎

  35. संस्थितिः—अविचाल्यनिर्णयो वा ॥ ↩︎

  36. तन्त्राभ्युपगमः—शास्त्राश्रितः निर्णयः इत्यर्थो वा ॥ ↩︎

  37. संस्थितिपदं सामान्यलक्षणानुगमसूचकम् ॥ ↩︎

  38. अयमंशः सर्वापलपिनां माध्यामिकानामपि समानः ॥ ↩︎

  39. तत्तन्त्रदृष्टा इतराण्यप्रामाणिकानि खलु । अतश्च तस्य तन्त्रत्वमेव कथम् ? ↩︎

  40. वस्तुतस्तु—सर्वेषामहि शास्त्राणां व्यवस्थितविषयत्वात्, तत्तन्मर्यादानतिक्रमेण तेषां प्रमाणसिद्धत्वमस्त्येव । साङ्ख्यतन्त्रं हि तत्त्वक्षेत्रनियतम् । न्यायतन्त्रं च स्थूलजगद्विषयकम् ॥ ↩︎

  41. साध्यं तु साध्यत्वादेव न विकल्पितुमर्हति ॥ ↩︎

  42. अर्थान्तररूपनिग्रहस्थान प्राप्त्येति शेषः ॥ ↩︎

  43. परस्परविरुद्धौ खलु तावुभौ ॥ ↩︎

  44. “अपरीक्षितमभ्युपगम्य” इति सूत्रितव्यं स्यात्तदेत्यर्थः ॥ ↩︎

  45. तथा च परपक्षाभ्युपगमोऽपि स्वप्रौढिमसूचकः आवश्यक इति प्रयोजकत्वमस्तु पच्चम्यर्थः ॥ ↩︎

  46. अतश्च परार्थानुमानं शब्द एवान्तर्भूतम् ॥ ↩︎

  47. तथा च मानसपरामर्शजनकत्वात्तद्वाक्यसमुदायत्य न तस्य शब्दरूपत्वम्, किन्त्वनुमानरूपत्वम् ॥ ↩︎

  48. वर्णानां वृक्षाणामिव मेलनासम्भवहेतवः—निसर्गेत्यादयः ॥ ↩︎

  49. वर्णसमुदायस्यैव पदत्वेऽपि एकाक्षराणां “कः” इत्यादीनां यथा पदत्वम्, तथैव संसर्गविशिष्टार्थबोधकत्वे एकस्य पदस्यपि वाक्यत्वमविरूद्धम् ॥ ↩︎

  50. केचित्—बौद्धाः । अन्ये—भिमांसकाः ॥ ↩︎

  51. न हि यत्र कुत्रचित् वह्निः साध्यः । किन्तु अधिकरणविशेषे ॥ ↩︎

  52. तथा च “वह्निमान्” इत्यस्यापि प्रतिज्ञात्वं स्यात् ॥ ↩︎

  53. तथा च “पर्वतः” इत्यस्यापि प्रतिज्ञात्वं स्यात् ॥ ↩︎

  54. किन्तु तथा विवक्षायां सत्यामेव ॥ ↩︎

  55. पक्षमन्तरा कथ्यमानस्य तस्य साध्यत्वाभावात् ॥ ↩︎

  56. प्रतिज्ञावाक्येनैव पक्षे साध्यसिद्धेः, उपरितनवाक्यानां वैयर्थ्यम् । अयं बौद्धानामाक्षेपः ॥ ↩︎

  57. स्वस्य दर्शनमन्यत्, परव्युत्पादनं चान्यत् इत्यर्थः ॥ ↩︎

  58. तथा च “पर्वतो वह्निमान्” इति वाक्येनैव पर्वते वह्निज्ञानसम्भवेऽपि व्याप्तिव्युत्पादनार्थं इतरावयवानां प्रयोगः ॥ ↩︎

  59. सिद्धसाध्यतेति विशेष्यामिप्रायेण स्त्रीलिङ्गनिर्देशः ॥ ↩︎

  60. परं त्वस्यापि तादृशपक्षकत्वात् हेतुदोषत्वभेव । अयमर्थः एकज्ञानविषयकत्वरूपसम्बन्धकल्पनायां विश्रान्तः ॥ ↩︎

  61. पृथिव्यप्तेजोवायुपरमाणवः चतुर्विधाः ॥ ↩︎

  62. अर्थः—धूमादिः । लिङ्गमेवानुभितिकरणमिति प्राचीनाः ॥ ↩︎

  63. एतेन केवलान्वयिनोऽपि क्रोडीकरणम् ॥ ↩︎

  64. प्रातिस्विकव्यक्तिषु व्यप्तिग्रहासम्भवात् ॥ ↩︎

  65. साधकस्यैव हेतुत्वात्, असाधको हेत्वाभास इति स्पष्टम् ॥ ↩︎

  66. साधर्म्यस्य हेतुत्वे, तस्य वस्तुत्वेन, अवयववाक्यार्थत्वं न स्यात् ॥ ↩︎

  67. अर्थः खलु साधनम्, न वचनम् ॥ ↩︎

  68. असिद्धस्य हेतोरिवेत्यन्वयः ॥ ↩︎

  69. घटः नित्यः घटत्वात्, यन्नैवं तन्नैवम्, यथा पट इत्यपि प्रयोक्तुं शक्यत्वात् ॥ ↩︎

  70. इदमेव “देहाद्यनाश्रितत्वे सति कार्यत्वात्” इति नवीनभाषयोच्यते । परिशेषानुमानानां सर्वेषामपीयमेव रीतिः ॥ ↩︎

  71. न्यायावयवनिरूपणपरं हि प्रकरणम् ॥ ↩︎

  72. हेतुत्वं—अनुमानविधया ॥ ↩︎

  73. धूमो हि सपक्षैकदेशे वह्निमत्ययोगोलके नास्ति ॥ ↩︎

  74. स्वातन्त्र्यं—नियमाभाव एव ॥ ↩︎

  75. हेतोः पक्षवृत्तित्वोपसंहार इत्यर्थः ॥ ↩︎

  76. सम्बन्धत्वसामान्येनाधारत्वमर्थः, न त्वाधारत्वेनेत्यर्थः ॥ ↩︎

  77. “तस्य” इति षष्ठीमुक्त्वा “धर्माय” इति कथनादेवं गम्यत इत्यर्थः ॥ ↩︎

  78. साम्यापादनं—सपक्षवदेवायं पक्षोऽपि इति प्रदर्शनम् ॥ ↩︎

  79. डिण्डिकाः—क्षपणकाः । तेषां रागः—स्वरविशेषः—“एवमपि, तथापि” इत्यनिर्णयप्रदर्शकः । नर्मोक्तिरियम् ॥ ↩︎

  80. यथोक्तं—उदाहरणोपनयरूपम् ॥ ↩︎

  81. अतः—एषु पञ्चावयशेषु ॥ ↩︎

  82. तथा च हेतुवचनमपि विफलभेवेति भावः ॥ ↩︎

  83. विपरीतप्रसङ्गः—बाधापादनम् ॥ ↩︎

  84. विशेषस्य—पक्षमात्रवृत्तेः ॥ ↩︎

  85. —सूत्रवृत्तिकारः, भाव्यकार इति यावत् ॥ ↩︎