०९ प्रमेयपरीक्षा

नवममाह्निकम्—प्रमेयपरीक्षा

अपवर्गपरीक्षा

एवं शरीरादौ दुःखपर्यन्ते हेये प्रमेये निर्णीते, यदर्थ एतदुपदेशः यत्परमुपादेयं प्रमेयं, यदर्थः शास्त्रारम्भः तमपवर्गं लक्षयितुमाह—

तदत्यन्तविमोक्षोऽपवर्गः ॥ १-१-२२ ॥

तदिति प्रक्रान्तस्य दुःखस्यावमर्शः । न च मुख्यमेव दुःखं बाधनास्वभावमवमृश्यते, किन्तु तत्साधनं तदनुषक्तं च सर्वमेव । तेन दुःखेन वियोगोऽपवर्गः ॥

अस्ति प्रलयवेलायामप्यात्मनो1 दुःखवियोगः । स त्वपवर्गो न भवति, सर्गसमये पुनरक्षीणकर्माशयानुरूपशरीरादिसम्बन्धे सति दुखसम्भवात् । अतः तद्व्यावृत्त्यर्थमत्यन्तग्रहणम् ॥ अशेषविशेषगुणोच्छेद एव मोक्षः
आत्यन्तिकी दुःखनिवृत्तिरपवर्गः, न सावधिका । द्विविधदुःखावमर्शिना सर्वनाम्ना सर्वेषामात्मगुणानां दुःखवदवमर्शात्, अत्यन्तग्रहणेन च सर्वात्मना तद्वियोगाभिधानात् नवानामात्मगुणानां बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराणां निर्मूलोच्छेदः अपवर्ग इत्युक्तं भवति ॥ विशेषगुणानां मुक्तौ नाशस्यावश्यकता
यावदात्मगुणास्सर्वे नोच्छिन्ना वासनादयः ।
तावदात्यन्तिकी दुःखव्यावृत्तिर्नावकल्पते ॥

धर्माधर्मनिमित्तो हि सम्भवः सुखदुःखयोः ।
मूलभूतौ च तावेव स्तम्भौ संसारसद्मनः ॥

तदुच्छेदे तु तत्कार्यशरीराद्यनुपप्लवात् ।
नात्मनः सुखदुःखे स्तः इत्यसौ मुक्त उच्यते ॥

हच्छाद्वेषप्रयत्नादि भोगायतनबन्धनम् ।
उच्छिन्नभोगायतनः नात्मा तैरपि युज्यते ॥

प्राणस्य क्षुप्पिपासे द्वे लोभमोहौ च चेतसः ।
शीतातपौ शरीरस्य षडूमिरहितः शिवः ॥

तदेवं नवानामात्मविशेषगुणानां निर्मूलोच्छेदोऽपवर्ग इति यदुच्यते, तदेवेदमुक्तं भवति “तदत्यन्तविमोक्षोऽपवर्ग” इति ॥ मुक्तिकालिकात्मस्वरूपम्
ननु ! तस्यामवस्थायां कीदृगात्माऽवशिष्यते ?
स्वरूपैकप्रतिष्ठानः परित्यक्तोऽखिलैर्गुणैः ॥

उमिष्टकातिगं2 रूपं तदस्याहुर्मनीषिणः ।
संसारबन्धनाधीनदुःखक्लेशाद्यदूषितम् ॥

वेदान्तिसम्मतमोक्षनिरासः
अत्र तावत् वेदान्तिन आहुः—नायमिदृशो मोक्षः प्रेक्षावतां प्रयत्नभूमिर्भवितुमर्हति । को हि नाम शिलाशकलकल्पं अपगतसकलसुख संवेदनसंस्पर्शं3 आत्मानमुपपादयितुं यतेत ? सोपाधिसावधिकपरिमितानन्दनिष्यन्दात् स्वर्गादप्यधिकं अनवधिकनिरतिशयनैसर्गिकानन्दसुन्दरं अपरिम्लानतत्संवेदनसामर्थ्यं चतुर्थं पुरुषार्थमाचक्षन्ते विचक्षणाः ॥ मुक्तेरपि संसार एव वरम्
यदि तु जडः पाषाणनिर्विशेष एव तस्यामवस्थायामात्मा भवेत्, । तत्कृतं अपवर्गेण ! संसार एव वरमस्तु ! यत्र तावदन्तराऽन्तराऽपि दुःखकलुषितमपि स्वल्पमपि सुखमुपभुज्यते । चिन्त्यतां तावदिदं, किमल्पसुखानुभवो भद्रकः, उत सर्वसुखोच्छेद एव । तस्मान्नित्यसुखमात्मनो महत्त्ववदस्तीति आगमप्रामाण्यादभ्युपगम्यताम् । तच्च संसारदशायां अविद्यावरणवशेन नानुभूयते । तत्त्वज्ञानाभ्यासभावनाभिभूतनिरन्तराविद्यावरणस्त्वात्मा तस्यामवस्थायां तदनुभवतीति ॥ सिद्धान्ते मुक्तौ सुखाभावे प्रमाणम्
तदिदमनुपपन्नम्—आत्मनो नित्यसुखसत्तायां प्रमाणाभावात् । प्रत्यक्षं तावन्नास्मदादीनामन्येषां वा केषाञ्चिदस्मिन्नर्थे प्रभविष्यतीति केयं कथा ? अनुमानमपि न सम्भवति, लिङ्गलेशानवलोकनादिति ॥ नित्यसुखसद्भावे अनुमानं न प्रमाणम्
ननु ! उक्तमेवानुमानमपवर्गाय, यत्र प्रेक्षावतां प्रयत्नः । सुखसिद्धये हि बुद्धिमन्तो यतन्ते, नाश्मकल्पमात्मानं कर्तुमिति । तदयं इष्टाधिगमार्थः मुमुक्षोः प्रयत्नः, प्रेक्षापूर्वकारिप्रयत्नत्वात्, कृष्यादिप्रयत्न वदिति ॥

नानिष्टोपरमार्थत्वात्;4 अनिष्टस्यापि शान्तये ।
सन्तः प्रयतमाना हि दृश्यन्ते व्याधिखेदिताः ॥

अतिदुर्वहश्चायं संसारदुःखभार इति तदुपशमाय व्यवस्यन्तः सन्तः न निष्प्रयोजनप्रयत्ना भवन्तीति अनैकान्तिको हेतुः ॥ नित्यसुखसद्भावे आगमाः न प्रमाणम्
अथ आगमादवगम्यते—बिभुत्वेनेव, नित्येन सुखेनाविनाकृतः स्वात्मेति । तथा च पठ्यते—“विज्ञानमानन्दं ब्रह्म” इति—

स्यादेतदेवम्—यद्येतदेव केवलं आगमवचनमश्रोष्यत । वचनान्तरमपि तु श्रूयते—“न ह वै सशरीरस्य सतः प्रियाप्रिययोरुपहतिरस्ति । अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशतः” इति ॥ आगमवाक्यानामन्यथासिद्धत्वम्
ननु ! भवत्पठितमागमवचनं अन्यथापि व्याख्यातुं शक्यते । “सशरीरस्य” इति प्रक्रमात् सांसारिके सुखदुःखे अनुकूलेतरविषयोपलम्भसम्भवे तदानीमशरीरमात्मानं न स्पृशत इत्यर्थः ॥

हन्त ! तर्हि त्वदधीतमपि वेदवचनं “आनन्दं ब्रह्म” इति संसारदुःखपरिहारप्रकरणादेव तद्दुःखापायविषयं व्याख्यास्यते । न खलु व्याख्यानस्य भगवतः काचिदभूमिरस्ति । दृष्टाश्च दुःखोपरमे सुखशब्दप्रयोगाः ॥

चिरज्वरशिरोर्त्यादिव्याधिदुःखेन खेदिताः ।
सुखिनो वयमद्येति तदपाये प्रयुञ्जते ॥

मुक्तौ शरीरादीनामप्यङ्गीकारप्रसङ्गः
यदि च “आनन्दम्” इति वचनात् नित्यं सुखमात्मन इष्यते, “तर्हि ब्रह्म” इति वचनात् व्यापकत्वमिव, “विज्ञानम्”5 इति वचनात् ज्ञानमपि नित्यमस्याभ्युपगन्तव्यम् । अतश्च सुखवत् ज्ञानस्यापि नित्यत्वात् संसारेऽपि नित्यसुखोपलब्धिः स्यात् । ततश्च धर्माधर्मफलाभ्यां सुखदुःखाभ्यामस्य नित्यस्य सुखस्य साहचर्यमनुभूयेत । अपि च—

सुखवत् ज्ञानवच्चास्य कामं देहेन्द्रियाद्यपि ।
नित्यं प्रकल्प्यतामित्थं मोक्षो रम्यतरो भवेत् ॥

अथ कार्यं सुखज्ञानम्,6 हेतुस्तस्य विचिन्तनीयः—यत उत्पद्यत इति । धर्माच्चेत्, सोऽपि किम्प्रभव इति वाच्यम् । योगसमाधिज इति चेत्, तस्य स्वकार्यत्वात् स्वकार्यसुखसंवेदनावसानत्वान्न शाश्वतिकत्वं स्यात् । अप्रक्षयश्च धर्मस्य निरनुमानकः । न हि योगसमाधिजो धर्मः न क्षीयत इत्यत्र च किञ्चिदनुमानमस्ति । विपर्यये तु प्रसिद्धमनुमानम्, सर्वस्य कृतकस्यानित्यत्वदर्शनादिति । क्षीणे च धर्मे तत्कार्यज्ञानाभावात् सदपि सुखमनुपलभ्यमानं असतो न विशिष्यते ॥ आत्मसुखस्य स्वप्रकाशत्वनिराकरणम्
स्वप्रकाशं तत् सुखमिति चेत्—न—संसारेऽपि तदुपलब्धिप्रसङ्गात् । शरीरादिसम्बन्धः प्रतिबन्धहेतुरिति चेत्—न—शरीरादीनामुपभोगार्थत्वात् । भोगार्थाः शरीरादयस्ते भोगप्रतिबन्धं विदधतीति न साध्वी कल्पना ॥ सुखस्यावरणासम्भवः
अविद्यावरणात् संसारे स्वप्रकाशसुखानुपलम्भ इति चेत्—न—प्रकाशस्य तुच्छेनावरितुमशक्यत्वात् । न च प्रकाशरूपं पारमार्थिकमात्मनः सुखं तद्विपरीततुच्छस्वभावेयमविद्या न परीतुमर्हति, मेघादिना दिनकरकिरणा वरणावधारणात् ॥

अविरलगवलमलीमसं बलाहकव्यूहपिहितरविबिम्बम् ।
तदपि न रजनीसदृशं दिनमिति सहसा मोहमहिमा ॥

मेघा7 अपि रवेरन्ये स्वरूपेण च वास्तवाः ।
तत्त्वान्यत्वादचिन्त्या तु नाविद्याऽवरणक्षमा ॥

तस्मान्न नित्यानन्दत्वमात्मनः सुवचम् ॥ मोक्षस्य नित्यसुखरूपत्वे मुक्त्यसम्भवः
अपि च मोक्षे नित्यानन्दस्वभावे तद्रागेण प्रयतमानो मुमुक्षुः न मोक्षमधिगच्छेत् । न हिरागिणां मोक्षोऽस्तीति मोक्षविदः ॥

दुःखनिवृत्त्यात्मकेऽपि मोक्षे दुःखद्वेषात् प्रयतमानस्य समानो दोष इति चेत्—न—मुमुक्षोर्द्वेषाभावात् । रागद्वेषौ हि संसारकारणमिति च जानाति मुमुक्षुः, द्वेष्टि च दुःखमिति कथं सङ्गच्छते ॥

सुखेऽप्यस्य रागो नास्त्येवेति चेत्—न—स्वर्गनिर्विशेषेऽपवर्गे स्वर्गव द्रागस्य सम्भाव्यमानत्वात् । दुःखेन तु निर्विण्णस्य मुमुक्षोर्वैराग्यं जायते न दुःखविषयो द्वेषः । विरक्तस्य चास्य मोक्षं प्रति यत्नो भवति, न दुःखं द्विषत इति न समानो न्यायः8 ॥ केवलदुःखनिवृत्तेरपि पुरुषार्थत्वम्
यदुक्तं तादृशो मोक्षः प्रेक्षावतां प्रयत्नविषयो न भवतीति—तदपि न साम्प्रतम्—प्रयोजनानुसारेण प्रमाणव्यवस्थानुपपत्तेः । न हि प्रयोजनानुवर्ति प्रमाणं भवितुमर्हति ॥

यदि निरानन्दो मोक्षः प्रेक्षावतां न रुचिरः—कामं मा भूत्—न त्वप्रमाणकमानन्दं त्वत्र कल्पयितुं शक्नुमः ॥ सुखरहितस्यापि मोक्षस्योपादेयत्वम्
न च सर्वात्मना साधूनामनभिमत एव तथाविधो मोक्षः । न चतदवाप्तये न प्रयतन्ते । ते ह्येवं विवेचयन्ति । दुःखसंस्पर्शशून्यशाश्वतिक सुखसम्भोगासम्भवात्, दुःखस्य चावश्यं हातव्यत्वात्, विवेकहानस्य चाशक्यत्वात्, विषमधुनी इवैकपात्रे पतिते उभे अपि सुखदुःखे त्यज्येतामिति । अतश्च संसारान्मोक्षः श्रेयान्, यत्रायमियानतिदुस्सहो दुःखप्रबन्धोऽवलुप्यते, वरमियती कादाचित्की सुखकणिका त्यक्ता, न तस्याः कृते दुःखभार इयानूढ इति । तस्मान्न सुखोपभोगात्मको मोक्ष9 इति ॥ जागति सुखमेव नास्तीति बौद्धपक्षः
अन्यस्त्वाह—तिष्ठतु तावन्मोक्षः ! संसारेऽपि न सुखं नाम किञ्चिदस्तीति सर्व एवायं दुखाभावमात्रे सुःखव्यवहारः । तथा हि—

तृषा शुष्यत्यास्ये पिबति सलिलं स्वादु सुरभि
क्षुधार्तस्सन् शालीन् कबलयति मांस्पाकवलितान् ।
प्रदीप्ते रागाग्नौ घननिबिडमाश्लिष्यति वधूं
प्रतीकारे व्याधेः सुखमिति विपर्यस्यति जनः ॥

संसारे सुखसद्भावसिद्धान्तः
उच्यते—तदिदमतिकृतकवैराग्यप्रकटनकौरुकुचीकौशलम्, आनन्दात्मनः प्रतिप्राणिसंवेद्यस्य सुखस्य निह्नोतुमशक्यत्वात्10 । अनिवृत्तेऽपि दुःखे क्वचित् सुखसंवेदनात् न दुःखाभावः सुखम् । निरभिलाषस्याप्यतर्कितोपनतसुखसाधनविषयसम्पर्के सति सुखसंवेददर्शनात् ॥

अभिलाषात्मकदुःखाभावः सुखमित्यपि न मनोज्ञम् । यस्तु दुःखाभावे क्वचित् सुखमित्यपि व्यपदेशः प्रशान्तरोगाणामिव पूर्वं दर्शितः, स भाक्त इति न तावता स्वसंवेदनसाक्षिकसुखापह्नवः कर्तुमुचितः । मोक्ष तु नित्यसुखमसम्भवत्प्रमाणत्वात् नाभ्युपगम्यते ॥ मोक्षस्य आत्मस्वरूपात्मकत्वम्
अपि च मोक्षे सुखमस्ति न वेति विचार एष न प्रामाणिकजनोचितः । स्वरूपेण व्यवस्थानमात्मनो मोक्ष इति मोक्षविदः । तत्र आत्मस्वरूपमेव कीदृशमिति चिन्त्यम्, न पृथङ्मोक्षस्वरूपम् । आत्मनश्च सुखदुःखबुध्यादयः आगन्तुका गुणाः, न महत्त्ववत् सांसिद्धिका इति निर्णीतमेतदात्मलक्षणे, सुखादिकार्येण चात्मनोऽनुमानादिति ॥ आत्मनः चैतन्यरूपत्वनिरासः
अत एव कापिलकथितचितिशक्तिस्वभावत्वमपि न युक्तमात्मनः ॥

स चेतनश्चिता योगात् तद्योगेन विना जडः ।
चितिर्नामार्थविज्ञानं11 कादाचित्कं तु तस्य तत् ॥

नार्थसंवेनादन्यत् चैतन्यं नाम विद्यते ।
तच्च सामग्र्यधीनत्वात् कथं मोक्षे भविष्यति ॥

जाग्रतः स्वप्नवृत्तेर्वा सुषुप्तस्यापि वाऽऽत्मनः ।
ज्ञानमुत्पद्यतेऽन्या तु चतुर्थी नास्ति तादृशी ॥

जाग्रद्दशायां स्वप्ने च बुद्धेः प्रत्यात्मवेद्यता ।
सुखं सुप्तोऽहमद्येति पश्चात्प्रत्यवमर्शनात्12

तदा त्ववेद्यमानाऽपि सुषुप्ते धीः प्रकल्प्यते ।
तुर्यावस्था तु संवित्तिशून्यस्य स्थितिरात्मनः ॥

तुर्यावस्थातिगं रूपं यदाहुः केचिदात्मनः ।
प्रमाणागोचरत्वेन कल्पनामात्रमेव तत् ॥

संवित्प्रसवसामर्थ्यं सामग्रीसन्निधानतः ।
यदि नामात्मनोऽस्त्यस्य तावता न चिदात्मता ॥

ज्ञानोत्पत्त्यर्हत्वरूपचैतन्यरूपत्वेऽविरोधः
यदि तु दर्शनशक्तियोग्यतामात्रमेव पुंसश्चैतन्यमुच्यते—तर्हि तथाविधस्य तस्य कैवल्यस्यास्माकीनमोक्षसदृशत्वमेव । सत्संवित्प्रसवयोग्य तामात्रसम्भवेऽपि दृश्येन्द्रियसम्प्रयोगादिसामग्रीवैकल्यात् कैवल्यावस्थाया मात्मनो द्रष्टृत्वासम्भवात् । दर्शनशून्यस्य चान्यस्य चैतन्यस्य निरस्तत्वादिति ॥ बौद्धसम्मतमोक्षविमर्शः
निर्वाणादिपदाख्येयमपवर्गं तु सौगताः ।
सन्तत्युच्छेदमिच्छन्ति,13 स्वच्छां वा ज्ञानसन्ततिम् ॥

मतद्वितयमप्येतत् प्रत्युक्तं पूर्वमेव यत् ।
ध्वस्तश्च ज्ञानसन्तानः नित्यश्चात्मा समर्थितः ॥

सन्तत्युच्छेदपक्षस्तु नैयायिकमतादपि ।
शोच्यो यत्राश्मकल्पोऽपि न कश्चिदवशिष्यते ॥

जैनसम्मतमोक्षविमर्शः
अर्हत्पक्षेऽपि यद्रूपं अन्यसापेक्षमात्मनः14
न केवलस्य ताद्रप्यम् इत्यस्मन्मततुल्यता15

विकारित्वं तु जीवानां अत्यन्तमसमञ्जसम् ।
शब्दपुद्गलवच्चैतत्प्रत्याख्येयमसम्भवात् ॥

तस्मान्न वेदान्तविदो वदन्ति
मोक्षं न16 साङ्ख्या न च सौगताद्याः ।
इत्यक्षपादाभिहितोऽपवर्गः
श्रोयांस्तदत्यन्तविमोक्ष एव ॥

मोक्षोपायविचारः
आह—भवत्वयमीदृगपवर्गः । स तु कथमधिगम्यत इत्युच्यताम् । उक्तमेव भगवता सूत्रकारेण—

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः ॥ १-१-२ ॥

दुःखोच्छेदस्तावदपवर्ग इति कथितम् । कार्यत्वाच्च दुःखस्य कारणोच्छेदात्तदुच्छेदः । कारणं चास्य जन्म । जन्मनि सति हि दुःखं भवति । जायते इति हि जन्म देहेन्द्रियादिसम्बन्धः आत्मनः । तदपि जन्मकारणोच्छेदादेवोच्छेद्यम् । अतस्तत्कारणं प्रवृत्तिरुच्छेद्या । तस्या अपि हेतूच्छेदात् उच्छेद इति तद्धेतयो दोषाः उच्छेद्याः । तेषां तु निमित्तं मिथ्याज्ञानम् । तस्मिन्नुच्छिन्ने दोषा उच्छिन्ना भवन्तीति मिथ्या ज्ञानमुच्छेद्यम् । तदुच्छेदे च तत्त्वज्ञानमुपायः । “प्रसिद्धो ह्ययमर्थः” समर्थितश्च पूर्वं विस्तरतः तत्त्वज्ञानं मिथ्याज्ञानस्य बाधकमिति । तस्मा तत्त्वज्ञानान्मिथ्याज्ञानदोषप्रवृत्तिजन्मदुःखनिवृत्तिक्रमेणापवर्ग इति ॥ तत्त्वज्ञानस्य मिथ्याज्ञाननिवर्तकत्वम्
यद्यपि मिथ्याज्ञानमपि जन्मकार्यम्,17 अशरीरस्यात्मनो मिथ्याज्ञानानुपपत्तेः । इतरेतरकार्यकारणभावेन बीजाङ्कुरवदनादिप्रबन्धप्रवृत्तेन प्रवर्तमाना मिथ्याज्ञानादयो भावाः संसार इत्याख्यायते—तथापि—तत्कारणोच्छेदचिन्तायां कुतः प्रभृत्युच्छेद उपक्रम्यतामिति विचार्यमाणे विशेषनियमाभावात् यतः कुतश्चिदिति प्राप्ते, मिथ्याज्ञानस्य प्रतिकूलमुच्छेद कारणं तत्त्वज्ञानमुपलब्धमिति विशेषे प्रमाणाभवात् तदुच्छद एवोपक्रम्यते ॥

अत एव मिथ्याज्ञानमूलः संसार उच्यते । तस्मिन् उच्छिन्ने तदुच्छेदसम्भवात्, न ततः प्रभृति संसारः प्रवर्तत इति निपुणमतिभिरपि निर्धारयितुं शक्यम्, अनादित्वात्तस्येति ॥

तदेवं तत्त्वज्ञानान्मिथ्याज्ञानापाये तत्कार्यदोषापायः, दोषापाये प्रवृत्त्यपायः, प्रवृत्त्यपाये जन्मापायः, जन्मापाये दुःखापायः—स एवापवर्ग इति । तदिदमुक्तं “उत्तरोत्तरापाये तदनन्तरापायात्” इति ॥ मोक्षस्य दुरधिगमत्वशङ्का
आह—विदितोऽयं सूत्रार्थः; किन्त्वघटमानमनोरथविडम्बनामात्रमिदम् अलीकश्रद्दधानताप्रकटनं वा । दुरधिगमस्तु सङ्कटो मोक्षमार्गः ॥

साध्यस्त्रिवर्ग एवैषः धर्मकर्मार्थलक्षणः ।
चतुर्थः पुरुषार्थस्तु कथास्वेव विराजते ॥

यदा प्रियवियोगादि भवत्युद्वेगकारणम् ।
तदा मोक्षकथाः कामं क्रियन्तां शोकशान्तये ॥

न तूद्यमसमये18 तदधिगमसमर्थामुपलभामहे सरणिम्, ऋणक्लेशप्रवृत्त्यनुबन्धस्य दुस्तरत्वात् ॥ ऋणत्रयस्य दुस्तरत्वम्
ऋणानुबन्धस्तावत्—“जायमानो ह वै ब्राह्मणः त्रिभिरृणैरृणवा । ब्रह्मचर्येण ऋषिभ्यः यज्ञेन देवेभ्यः प्रजया पितृभ्यः” इतीदं हि वेदे पठ्यते । तत्र प्रथमं “ऋषीणामनृणः स्याम्” इति ब्रह्मचर्यमाचरति । ततः “पितृणामनृणः स्याम्” इति कृतदारसङ्ग्रहः प्रजोत्पादनाय व्यवहरति । तदनु गृहस्थ एव दर्शपूर्णमासादिषु सहस्रसंवत्सरपर्यन्तेषु कर्मस्वधिकृतः क्रतूननुतिष्ठतीति “देवानामनृणः स्याम्” इति । कोऽस्य मोक्षव्यवसायावसरः ? मोक्षस्य श्रुतिविरुद्धत्वम्
ननु च ! “ ऋणाणि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत्—


इति मन्वादिस्मरणात् अस्त्येव तदवसरः—न—श्रुतिवाक्यविरोधात् । एवं हि श्रूयते “जरामर्यं19 वा एतत्सत्रं यदग्निहोत्रं दर्शपूर्णमासौ च जरया ह वा एष एतस्मान्मुच्यते मृत्युना वा” इति । न च कर्मप्रयोगाशक्त्या कर्मभ्यो विरन्तुं शक्यते; स्वयमशक्तस्य बाह्यशक्त्युपदेशात् । अन्तेवासी वा जुहुयात, “ब्रह्मणा20 हि स परिक्रीतः । क्रीतो वा जुहुयात्” धनेन हि स परिक्रीतः । अशक्तस्य च मोक्षोपायानुष्ठानेऽप्यस्य कथं शक्तिः ? रागादीनां अवर्जनीयत्वम्
क्लेशानुबन्धादप्यपवर्गाभावः—

ये हि रागादयो दोषाः आत्मनश्चिरसम्भृताः ।
कस्तान् शमयितुं शक्तः पुनरावृत्तिधर्मकान् ॥

कामं चिरं विजित्यापि क्रोधं वा लोभमेव वा ।
पुनर्गच्छन् वशे तेषां लोकः प्रायेण दृश्यते ॥

तथाहि—चिरमपि तपसि नियमितमतिरपि अविजितविषमशरविकृतिः तनुपवनापनीतवसनकामिनीस्तनजघनदर्शनादेव वशं विश्वामित्रः कुसुमधन्वनो गत इति श्रूयते ॥ रागविवृद्धिहेतव एवाधिकाः
अलमाख्यायिकया । अद्यत्वेऽप्येवं शतशो दृश्यत इति दुरुच्छेदा दोषाः । “वीतरागजन्मादर्शनात्” इति च विचारितमात्मपरीक्षायाम् । अवियुक्त एव दोषैर्जन्तुर्जायत इति दोषविवृद्धिहेतवश्च रूपादयो विषयाः । ते कथमिव स्वकर्मण्युदासते ॥

ताम्बूलं कुसुमसुगन्धयस्समीराः
सौधेषु प्रतिफलिताः शशाङ्कभासः ।
वाचश्च प्रणयनवामृतद्रवार्द्राः
दूतीनां दधति न कस्य रागवृद्धिम् ॥

अपि च—

मुग्धस्मितसुघाधौतमधुरालापशालिना ।
मुखेन पक्ष्मलाक्षीनां कस्य नाक्षिप्यते मनः ॥

इत्येवं निदानानुपशमादपि21 स्थित एव क्लेशानुबन्धः ॥ प्रवृत्तेरपि दुस्त्यजत्वम्
प्रवृत्त्यनुबन्धः खल्वपि—

रागादिप्रेर्यमाणो हि कर्माण्यारभते नरः ।
दीर्घदीर्घाः प्रतायन्ते यैर्धर्माधर्मवासनाः ॥

यः प्रवृत्त्यनुबन्धश्च हेतुरन्यस्य जन्मनः ।
तेन जन्मान्तरेणान्या जन्यते कर्मवासना ॥

एकमेवेदृशं22 कर्म कर्तुमापतति क्वचित् ।
जन्मायुतशतेनापि यत्फलं भुज्यते न वा ॥

क्लेशकर्मानुबन्धोत्था जन्मदुःखादिशृङ्खला ।
पुनरावर्तमानैषा केनोपायेन भज्यताम् ?

विना23 फलोपभोगेन न विनाशोऽस्ति कर्मणाम् ।
तेषां ज्ञानाग्निना दाह इति श्रद्धाविजृम्भितम् ॥

कार्यकारणभावो हि शास्त्रादेवावधारितः ।
कर्मणां च फलानां च स कथं वा निवर्तताम् ॥

न च प्यज्ञानसापेक्षं कर्मेष्टं बन्धकारणम् ।
येनात्मज्ञानयुक्तानां तदुदासीत तान् प्रति ॥

अज्ञाननैरपेक्ष्येण कर्मणां स्वभाव एवैषः, यत् फलाविनाभावित्वमिति ॥

तस्मादित्थमृणक्लेशप्रवृत्त्याद्यनुबन्धतः ।
न मोक्षसिद्धिरस्तीति तदर्थो विफलः श्रमः ॥

अशक्येऽर्थे वृथा यत्न इति मत्वा मनीषिभिः ।
मोक्षचर्चाः परित्यज्य स्वे गृहे सुखमास्यताम् ॥

मोक्षस्य दुरधिगमत्वशङ्कानिरासः
अत्राभिधीयते—यत्तावदुक्तं “ऋणानुबन्धात्” इति—तदयुक्तम्— विधिपदाश्रवणात् औपचारिकम् ऋणशब्दं जायमानशब्दं च प्रयुज्य कर्मस्तुतिरियं क्रियते “जायमानो ह वै ब्राह्मणः” इति । न तद्व्यतिरिक्त पुरुषार्थविषयप्रयत्नप्रतिषेधो विधीयते ॥

तथा हि—ऋणशब्दोऽयं विषयान्तरे मुख्यार्थः प्रसिद्धः, “यत्रोत्तमर्णः सलाभममुतः प्रतिग्रहीष्यामि” इति धनमधमर्णाय प्रयच्छति । अधमर्णोऽपि “सलाभमस्मै प्रदास्यामि” इति मत्त्वा गृह्णाति । सोऽयं ऋणशब्दस्य मुख्यो24 विषयः इह नास्त्येव ॥

जायमानोऽपि मुख्यः उत्पद्यमानो हि मातुः कुक्षिकुहारान्निस्सरन्नभि धीयते । न चासौ तपस्वी बालः कर्मभिरभिसम्बध्यते । तस्मात् ब्रह्मचर्यम्, अपत्योत्पादनम्, अध्वरप्रयोग इति त्रितयमिदम्, ऋणवदवश्यकर्तव्यमिति कर्मस्तुतिरियमौपचारिकपदप्रयोगाद्गम्यते । न चैतावता मोक्षव्यवसायावसरविरह इति परिशङ्कनीयम्, आश्रमान्तरस्य तदौपयि कस्य दर्शनात् ॥ कर्मणां विरतिः आवश्यकी
ननु ! मरणावधि दर्शपूर्णमासादिधर्मोपदेशात् कथमाश्रमान्तरग्रहणम्—न—जरामर्यवादस्थाप्यपरित्यागप्रतिपादनाय कर्मप्रशंसार्थत्वात् । “ये चत्वारः पथयो देवयानाः” इत्यादयो हि चतुर्थाश्रमशंसिनः भूयांसः सन्ति मन्त्रार्थवादाः । मन्वादिस्मृतिवचनानि चतुर्थाश्रमोपदेशीनि चतुर्थाश्रमोचितशौचाचारादीतिकर्तव्यतावितानविधानपराणि च प्रबन्धेनैव दृश्यन्ते— “ एवं गृहाश्रमे स्थित्वा विधिवत् स्नातको द्विजः ।
वने वसेत्सुनियतः भैक्षभुग्विजितेन्द्रियः ॥


इत्युपक्रम्य चतुर्थाश्रमोचितमोक्षोपायानुष्ठानोपदेशाय षष्ठोऽध्यायः समस्त एव मनुनाऽनुक्रान्तः ॥ सन्यासाश्रमः स्पष्टश्रुतिसिद्धः
जाबालश्रुतौ च विधायकेनैव ब्राह्मणवाक्येन प्रतिपदमाश्रमचतुष्टय25 मुपदिष्टम् “ब्रह्मचारी भूत्वा गृही भवेत्, गृही भूत्वा वनी भवेत्, वनी भूत्वा प्रव्रजेत्” इति ॥

अग्निसमारोपणविधानोपदेशश्च प्रत्यक्षश्रुतः कथमपह्नूयते । “ आत्मन्यग्नीन् समारोप्य ब्राह्मणः प्रव्रजेद्गृहात् इति ॥


अपि च उपनिषदामध्ययनं असति मोक्षोपायप्रयोगसमर्थे चतुर्थाश्रमे निरर्थकमेव प्राप्नोति । क्रियाकाण्डानुष्ठाननिष्ठत्वे हि वेदस्य ज्ञानकाण्डोपदेशः किम्प्रयोजनः स्यात् ॥ चतुर्थाश्रमकालः
तदेवं वर्णवत् आश्रमाणामपि चतुर्णां प्रत्यक्षोपदेशसिद्धत्वाच्चतुर्थाश्रमिणां च मोक्षाधिगमोपायतत्त्वज्ञानभावनाभ्यासावसरसम्भवात् सोऽयं जरामर्यवादः प्रशंसामात्रपर एवावतिष्ठते । “जरया ह वा एष एतस्मान्मुच्यते मृत्युना वा” इति च वचनात् जरसा कर्मत्यागानुज्ञानात् स एव चतुर्थाश्रमावसर इति गम्यते । तदुक्तम्— “ गृहस्थस्तु यदा पश्येत् वलीपलितमात्मनः ।
अपत्यस्यैव चापत्यं तदाऽरण्यं समाश्रयेत् ॥


[म। स्मृ। ६। २] इति ॥

इतरथा हि “मृत्युनैव च तस्मान्मृच्यते” इत्यवक्ष्यत, च त्वेवमब्रवीत् । तस्मात् वार्धकदशोचितं चतुर्थमाश्रममनुमन्यन्ते ॥ विरक्तस्य सर्वस्य सन्यासाधिकारः
तिष्ठतु वा वार्धकदशा । यूनोऽपि परिपक्वकाष यस्याश्रमचतुष्टय क्रममनपेक्ष्यैव मोक्षाधिकार आख्यातः । यथोक्यं “ब्रह्मचर्यादेव प्रव्रजेत्” इति । अत एव द्विविधो ब्रह्मचारि भवति—उपकुर्वाणः नैष्ठिकश्च । तत्र उपकुर्वाणकः यो ब्रह्मचर्यमनुभूय गृहस्थाश्रममनुभवति । स चापरि पक्वकषायः, अनुषशान्तरागः । तमेव प्रतीदमुच्यते— “ अनधीत्य द्विजो वेदान् अनुत्पाद्य च सन्ततिम् ।
अनिष्टवा चैव यज्ञैश्च मोक्षमिच्छन्26 व्रजत्यधः


[म। स्मृ। ६। ३७] इति ॥

यस्तु परिपक्वकषायः स नैष्ठिक एव ब्रह्मचारी भवति, न गृहस्थामं प्रतिपद्यते । गृहस्थोऽपि परिपक्वकषायः वानप्रस्थाश्रममुल्लङ्घ्य यतित्वेऽधिक्रियते । यथोक्तम्—“गृहाद्वा वनाद्वा प्रव्रजेत्” इति ॥ गृहस्थस्यापि मोक्षः
केचित्तु—कर्मफलाभिसन्धिरहितस्य, कर्तव्यमिति कर्म कुर्वतः क्षीणरागस्यात्मविदः गृहस्थस्यापि मोक्षमाचक्षते27 । यथाऽऽह याज्ञवल्क्यः— “ न्यायार्जितधनस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः ।
श्राद्धकृद्वेदविद्यावित् गृहस्थोऽपि विमुच्यते


इति । तस्मादृणानुबन्धादपवर्गाभाव इत्ययुक्तम् ॥ क्लेशानां परिहारोपायः
यत्तु क्लेशानुबन्धादिति—तदप्यनध्यवसायमात्रम् । प्रतिपक्षभावनादिना28 क्लेशोपशमस्य सुशकत्वात् । यदि हि दोषा नित्या भवेयुः, अनित्यत्वेऽप्याकस्मिका वा, सहेतुत्वेऽपि यद्येषां नित्यो हेतुर्भवेत् । कार्यो ऽपि वा यद्यसौ न ज्ञायेत, ज्ञातस्य वाऽस्य शमनोपायो न ज्ञायेत, ज्ञातोऽपि वाऽनुष्ठातुमसौ न शक्येत, तदा क एवैनमुच्छिन्द्यात् । किन्तु—

नाकस्मिका न नित्यास्ते न नित्याज्ञातहेतुकाः ।
नाज्ञातशमनोपायाः न चाशक्यप्रतिक्रियाः ॥

न हि दोषाणां आत्मस्वरूपवन्नित्यत्वं, उपजननापायधर्मकत्वेन ग्रहणात् मिथ्याज्ञानं च प्रसवकारणमेषामवधृतमिति नाकस्मिकत्वम्, अविनाशिहेतुकत्वम्, अज्ञातहेतुकत्वं वा ॥ प्रतिपक्षभावनया क्लेशक्षयः
मिथ्याज्ञानस्य च सन्यग्ज्ञानम् प्रतिपक्षभावनाभ्यासेन च समूलमुन्मीलयितुं शक्यन्ते दोषाः इति नाज्ञातप्रतीकारत्वं तेषाम् । उक्तं च केन चित् [प्र-वा-३-२२०] —

सर्वेषां29 सविपक्षत्वात् निर्ह्रासातिशयाश्रितात् ।
सात्मीभावात्तदभ्यासात् हीयेरन्नास्रवाः क्वचित् ॥

इति । विषयदोषदर्शनेन हि तेषु सक्तिलक्षणो रागः शाम्यति । यदा ह्येष चिन्तयति विवेकी—

असौ तरलताराक्षी पीनोन्नतघनस्तनी ।
विलुप्यमाना कान्तारे विहगैरद्य दृश्यते ॥

विभाति बहिरेवास्याः पद्मगन्धनिभं वपुः ।
अन्तर्मज्जास्थिविण्मूत्रभेदःक्रिमिकुलाकुलम् ॥

अस्थीनि पित्तमुच्चाराः क्लिन्नान्यान्त्राणि शोणितम् ।
इति चर्मपिनद्धं तत् कामिनीत्यभिधीयते ॥

मेदोग्रन्थी स्तनौ नाम तौ स्वर्णकलशौ कथम् ।
विष्ठादृतौ नितम्बे च कोऽयं हेमशिलाभ्रमः ॥

मूत्रासृग्द्वारमशुचि च्छिद्रं क्लेदि जुगुप्सितम् ।
तदेव हि रतिस्थानं अहो पुंसां विडम्बना ॥

प्रीतिर्यथा निजास्योत्थं लिहतः शोणितं शुनः ।
शुष्केऽस्थिनि तथा पुंसः स्वधातुस्यन्दिनः स्त्रियाम् ॥

व्यात्तानना विवृत्ताक्षी विवर्णा श्वासघुर्घरा ।
कथमद्य न रागाय म्रियमाणा तपस्विनी ॥

अहो बत वराकोऽयं अकाले तृषितः फणी ।
प्रसारितमुखोऽस्माकं शोणितं पातुमागतः ॥

किमनेनापराद्धं30 नः स्वभावो वस्तुनः स्वयम् ।
स्पृश्यमानो दहत्यग्निः इति कस्मै प्रकुप्यति ॥

नानुकूलः प्रिये हेतुः प्रतिकूलो न विप्रिये ।
स्वकर्मफलमश्नामि कः सुहृत्कश्च मे रिपुः ॥

एवमहनिशं चिन्तयतो नितान्तं शान्तस्य मनसः समचित्तता सर्वत्र समुद्भवतीति विलीयन्ते दोषग्रन्थयः ॥

अत एवोपदिश्यन्ते मोक्षशास्त्रेष्वनेकशः ।
तस्य तस्योपघाताय तास्ताः प्रत्यूहभावनाः ॥

प्रतिपक्षभावनया दोषक्षयः
ननु च प्रतिपक्षभावनेऽपि न सर्वात्मना दोषपक्षः क्षयमुपयाति । निम्बाभ्युपयोग इव क्रियमाणे कफधातुरिति—नैतदेवम्—तत्र निम्बोपयो गवत् तदनुकूलस्यान्नपानादेरुपयोगदर्शनात् । अपि च—

धर्मिलोपभयात्तत्र31 नेष्टः सर्वात्मना क्षयः ।
कफाधिक्यं तु हन्तव्यं धातुसाम्यस्य सिद्धये ॥

इह सर्वात्मनोच्छेद्याः क्लेशाः संसारकारिणः ।
छेदश्चैकान्ततस्तेषां प्रतिपक्षोपसेवया ॥

न च प्रतिपक्षभावनाभ्यासमेकं अस्त्रमपास्य तदुपशमे निमित्तान्तरं किमपि क्रमते ॥ भोगानां नोपभेगेन क्षयः
न हि विषयाभिलाषस्तदुपभोगेन विरंस्यति । यथाऽऽह— “ न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ [म-भा-आ-८५-१२]


अन्यत्राप्युक्तम्—“भोगाभ्यासमनु विवर्धन्ते रागाः, कौशलानि चेन्द्रियाणाम्” इति ॥

पाराशर्योऽप्याह— “ तृष्णाखनिरगाधेयं दुष्पूरा केन पूर्यते ।
या महद्भिरपि क्षिप्तैः पूरणेनैव खन्यते इति ॥


तस्मात् प्रतिपक्षभावनैव भगवती भीमकान्तिः अन्तःकरणकान्तारे निरन्तरमभिज्वलन्ती दावदहनदीधितिरिव दहति दोषविटपकानिति । तदेवं दोषानुबन्धविध्वंसोपायसम्भवान्न तत्कृतो मोक्षमार्गनिरोधोऽभिधातव्यः ॥ क्लेशाद्यनुबन्धनिवृत्तिमात्रं साध्यम्
अत एव केचन चेतनस्य प्रकृत्या निर्मलत्वात् मलानामागन्तुकत्वात्, मलनिबर्हणहेतोश्च यथोक्तस्य सम्भवात्, तदाचरणात्तदपाये सति स्वतस्सकलपदार्थदर्शनसामर्थ्यस्वभावचित्तत्त्वावस्थानात् सर्वज्ञसिद्धिमदूरवर्तिनीमेव मन्यन्ते ॥ सुषुप्त्यादौ शुद्धस्यात्मनो लेशतो भानम्
यदप्युक्तं क्लेशशून्यत्वमात्मनो न कदाचिदपि दृष्टम्, अनुबन्धवृत्तित्वात् क्वेशानामिति—तदप्यसत्यम्—सुषुप्तावस्थायामस्पृष्टस्य दोषैरात्मनः प्रत्यहमुपलम्भात् । जाग्रतोऽपि का चन तादृशी दृशा दृश्यत एव, यस्यामसावात्मस्वरूप एवात्मा निर्मलोऽवतिष्ठते । यथोक्तं “अहरहर्ब्रह्मलोकं यान्ति” इति32 । तदलमनेन दोषानुबन्धकथानुबन्धेन ॥ प्रवृत्तीनां विरतिसम्भवः
यदपि प्रवृत्त्यनुबन्धादिति प्रत्यपादि—तदपि सूत्रकृता समाहितम् —“न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य” [न्या-सू-४-१-६४] इति । दोषेषु बन्धहेतुषु विगलितेषु प्रवृत्तिरपि न देहेन्द्रियादिजन्मने प्रभवतीति ॥ कर्मक्षयप्रकारवर्णनम्
ननु दोषक्षयान्मा भूत् उत्तरः कर्मसङ्ग्रहः ।
कथं फलमदत्त्वा तु प्राक्तनं कर्म शाम्यति ॥

अत्र केचिदाहुः—ददत्येव कर्माणि, नादत्त्वा शाम्यन्ति; तथापि बन्धहेतवो न भवन्ति । यतः शमसन्तोषादिजनितं योगिनः सुखमुत्पाद्य धर्मो विनङ्क्ष्यति, अधर्मश्च शीतातपक्लेशादिद्वारकं दुःखं दत्त्वेति ॥ कर्मणां फलनैयत्येऽपि न हानिरिति पक्षः
ननु ! अमुष्मात्कर्मणः इदं फलं भवतीति33 कर्मफलानां कार्यकारण भावनियमात्, कथमियता कर्मफलोपभोगो भवेदित्यन्यथा तदुपभोगमपरे वर्णयन्ति । योगी हि योगर्धिसिद्ध्या विहितनिखिलनिजधर्माधर्मकर्मा निर्माय तदुपभोगयोग्यानि तेषु तेषूपपत्तिस्थानेषु तानि तानि सेन्द्रियाणि शरीराणि,34 रण्डान्तःकरणानि च मुक्तैरात्मभिरुपेक्षितानि गृहीत्वा सकृदेव सकलकर्मफलमनुभवति प्राप्तैश्वर्य इतीत्थमुपभोगेन35 कर्मणां क्षयः ॥ तत्त्वज्ञानेन कर्मणां नाशपक्षः
अन्ये त्वाचक्षते—किमनेन भोगायासेन, अदत्तफलान्येव कर्माणि योगिनो नङ्क्ष्यन्ति । तत्त्वज्ञानस्यैव भगवत इयान् प्रभावः, यदस्मिन्नुत्पन्ने चिरसञ्चितान्यपि कर्माणि सहसैव प्रलयमुपयान्ति । भोगादपि तेषां प्रक्षयः शास्त्रप्रामाण्यादेवावगतः । तथा तत्प्रामाण्यादेव तत्त्वज्ञाना दपि तत्प्रक्षयं प्रतिपत्स्यामहे । तथा चाह— “ यथैधांसि समिद्धोऽग्निः भस्मसात्कुरुतेऽर्जुन ।
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा


[गी। ४-३७] इति ॥

न चेदं श्रद्धामात्रम्, वेदविदामग्रण्या व्यासमुनिनैव समभिधानात्, अवेदार्थं हि नासावभिदधीतेति ॥ कर्मणां फलजननशक्तिनाशपक्षः
तमन्ये न मन्यन्ते । न सर्वामना कर्मणां दाहः । किन्तु स्वरूपेण सतामपि सहकारिवैकल्यात् स्वकार्यकरणोदासीनता तेषां भवति, भ्रष्टानामिव बीजानामङ्कुरकरणकौशलहानिः । यतः सामग्री कार्यस्य जनिका, न केवलं कारकम् । अतो न कर्माण्येवकेवलानि फलोपभोगयोग्यशरीरेन्द्रियादिजन्मनिमित्ततामुपयान्ति । किन्तु मिथ्याज्ञानेन दोषैश्च सहितानि । तदुक्तं “अविद्यातृष्णे धर्माधर्मौ च जन्मकारणम्” इति ॥

तत्त्वविदश्च तत्त्ववित्त्वादेव नाविद्या मिथ्याज्ञानात्मिका भवति । दोषाणां तु प्रथमे दर्शित एव क्रमः । तदभावे भवन्तावपि धर्माधर्मौ न बन्धाय कल्पेते । न हि स्वकार्यमङ्कुरादि कुसूलवर्तीनि बीजानि जनयितुमुत्सहन्ते ॥

भ्रष्टबीजानामपि स्वरूपशक्तिरपि तानवं36 गता । तद्वत् कर्मणां स्वरूपशक्तिशैथिल्यं मा नाम भूत् । तथापि कुसूलवर्ति बीजवत् सहकारि वैधुर्यात् कार्यानारम्भ इति । तदिदसुक्तं “न37 प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य” [न्या-सू-४-१-६४] इति ॥ धर्माधर्थयोः न सम्पूर्णनाशः
ननु स्वरूपसत्तायां धर्माधर्मयोः कथमिदमुक्तं नवानामात्मगुणानां निर्मूलोच्छेदोऽपवर्ग इति—नैष दोषः—मनस्संयोगवदकिञ्चित्करयोरवस्थानमपि उच्छेदान्न विशिष्यते । मुक्तस्यात्मनः विभुत्वादपरिहार्यो मन स्संयोगः । न च तदानीमसौ सन्नपि सुखदुःखज्ञानादिजन्मनि व्याप्रियते । एवं धर्माधर्मौ सन्तावपि फलमनाक्षिपन्तौ किं करिष्यत इति फलत उच्छिन्नावेव भवतः । तस्मान्नवानामात्मगुणानामुच्छेदोऽपवर्ग इत्यविरुद्धम्38

एवं प्रवृत्त्यनुबन्धस्यापि बन्धहेतोरभावान्न दुर्गमोऽपवर्गः ॥ ज्ञानकर्मसमुच्चयवादः
अपरे पुनराहुः—कर्मफलानां शास्त्रतः कार्यकारणभावनियमावगतेः शमसन्तोषशीतातपादिद्वारकसुखदुःखमात्रोपपादनेन कर्मपरिक्षयानुपपत्तेः, योगर्द्ध्या च दीर्घकालावधिसुखदुःखोपभोगस्य सकृदेव सम्पादयितुमशक्य त्वात् ज्ञानाग्निना च दाहे तत्कर्मोपदेशिवैदिकवचनसार्थानर्थक्यप्रसङ्गात्, अदत्तफलस्य कर्मणोऽनुपरमात्, अवस्थानपक्षे चिरमप्युषित्वा कुसूलावस्थितबीजवत् कालान्तरेणापि तत्फलाक्षेपप्रसङ्गात् अवश्यं स्वफलोपभोगद्वारक एव कर्मक्षयो वाच्यः ॥

न चानिर्मोक्ष आशङ्कनीयः, ततश्चिरादपि तत्सिद्धिसम्भवात् । तथा च मुमुक्षुर्नित्यनैमित्तिकं कर्मावश्यमनुतिष्ठेत्, अननुतिष्ठन् प्रत्यवेयादिति तत्कुतोऽस्य बन्धः स्यात् । काम्यं निषिद्धं च कर्म स्वर्गनरककारि विस्पष्टमेव बन्धसाधनमिति तत्परिहरेदेवेत्येवं तावदुत्तरोऽयं न कर्मसञ्चयः प्रवर्तते । तदाह— “ नित्यनैमित्तिके कुर्यात् प्रत्यवायजिहासया ।
मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः इति ॥

” नित्यकाम्यकर्मविभागः
प्राक्तनस्य तु कर्मसञ्चयस्य भोगादेव क्षयः । आत्मविदश्च मुमुक्षोरयमनुष्ठानक्रमो भवति, नेतरस्येति स एवेत्थमपवृज्यत इति । आह च— “ आत्मज्ञे चैतदस्तीति तद्ज्ञानमुपयुज्यते ।
तत्र ज्ञातात्मतत्त्वानां भोगात्पूर्वक्रियाक्षये ॥
उत्तरप्रचयासत्त्वात्39 देहो नोत्पद्यते पुनः ॥


ननु ! नित्यकर्मनुष्ठानपक्षे नास्त्येव मोक्षः । यान्येव हि नित्यानि दर्शपौर्णमासादिकर्माणि “यावज्जीवं दर्शपूर्णमासाभ्यां यजेत” इत्यादिचोदनोपदिष्टानि, तान्येव फलवन्ति श्रूयन्त इति काम्यान्यपि भवितुम र्हन्ति “दर्शपौर्णमासाभ्यां स्वर्गकामो यजेत्” “अग्निंहोत्रं जुहुयात्स्वर्गकामः” इति—न—फलाभिसन्धानपूर्वकत्वेनाप्रयोगात् । तथाऽऽह— “ प्रार्थ्यमानं फलं ज्ञातं नानिच्छोस्तद्भविष्यति


इति । सोऽयं प्रवृत्तौ विशेषः । प्रयोगेऽपि विशेषः । काम्यं कर्म सर्वाङ्गोपसंहारेण प्रयुज्यमानं फलसाधनमिति न यथाशक्ति तथा तथा प्रयोक्तव्यमिति । नित्यकर्मणः अकरणात् प्रत्यवाय इति यथाशक्त्यपि तत् प्रयोक्तव्यम् । अननुष्ठितात् यादृक्, तादृक् अनुष्ठितश्रेयःप्रत्यवायपरिहारोपपत्तेः ॥

काम्ये तु सर्वाण्यङ्गानि यद्यसावुपसंहर्तुं न शक्नुयात्, मा प्रवर्तिष्ट । न ह्यप्रवर्तमानः प्रत्यवेयादिति ॥

एवञ्च तदेव दर्शपौर्णमासादिकर्म “यावज्जीवं” इति चोदनयोपदिष्टं नित्यं सत् तत्फलानभिसन्धानात् प्रयुक्तं न बन्धाय कल्पते । क्व सा स्वर्गसाधनत्वशक्तिः अस्य गतेति चेत्—न—न वयं कर्मणां शक्तिमशक्ति वा प्रत्यक्षतः प्रपश्यामः । शास्त्रैकशरणास्तु श्रोत्रिया वयम् । चोदनैव धर्मे प्रमाणमिति नः कुलव्रतमेतत् । सा च चोदना एकत्र कामिनमधिकारिणमाश्रित्य प्रवृत्ता । तदधिकारश्च फलनिर्वृत्तेर्विना न स्यादिति फलपर्यन्ततां प्रतिपद्यते ॥

अन्यत्र तु यावत्पदोषबद्धजीवनपदार्थावच्छिन्नाधिकारिलाभेन प्रवर्तमाना न फलाय प्रभवति । अक्रियमाणे तु शास्त्रार्थे प्रत्यवायाय भवति अधिकृतेन सता शास्त्रार्थस्त्यक्त इति । काम्ये त्वनुत्पन्नकामोऽधिकृत एव न भवतीति नाधिकृतेन सता विधिस्त्यक्त इति न प्रत्यवैतीति । उपक्रम्य त्वन्तराले त्यक्तुं न लभत एव । वीतायां फलेच्छायां, आवाप्ते वा फले तत्कर्मसमापनवदवश्यकर्तव्यमेव तदित्यलं शास्त्रान्तरगर्भेण भूयसा कथाविस्तरेण ॥

सर्वथा सुष्टूक्तं “नित्यनैमित्तिके कुर्यात्” इति ॥

मोक्षस्य दुर्लभत्वम्
ननु ! भोगात् प्राक्तनकर्मक्षयपक्षे दीर्घकालापेक्षणात् अप्रत्यासन्न इव मोक्षो लक्ष्यते—किं त्वया ज्ञातमधुनैव । हुङ्कृत्वा40 निर्विलम्बमेव मोक्षमाप्नुयादिति । न खलु सुलभोऽयं पुरुषार्थः । किं न श्रुतमिदमायुष्मता क्यासवचनम्— “ अनेकजन्मसंसिद्धस्ततो याति परां गतिम् [गी। ६। ४५] इति ॥


ज्ञानाग्निदाहवचनं तु ज्ञानप्रशंसार्थमेव । सोऽयं ज्ञानकर्मसमुच्चयान्मोक्ष उच्यत इति ॥ ज्ञानकर्मसमुच्चयवादनिरासारम्भः
अत्राभिधीयते—न खलु फलोपभोगद्वारकः कर्मणां परिक्षयः जन्मकोटिशतैरपि शक्यक्रियः । उक्तं हि— “ एकमेवेदृशं कर्म कर्तुमापतति क्वचित् ।
जन्मायुतशतेनापि यत्फलं भुज्यते न वा ॥

देहैस्तत्कर्मभोगार्थैः कर्मान्यन्न करिष्यते ।
देहबन्धनमित्येषा दुराशैव तपस्विनाम् ॥


तदीदृशमेनं मोक्षपथमुपदिशद्भिर्याज्ञिकैः मोक्षोपेक्षणमनक्षरमुपदिष्टं भवतीति । तस्मात् पूर्वोक्तनीत्यैव कर्मणां बन्धहेतुत्वमपाकरणीयम् ॥ कर्मनाशस्वरूपनिश्चयः
ननु ! पक्षचतुष्टयेऽपि दोष उक्तः—न—चतुर्थपक्षस्य41 निरवद्यत्वात् । सहकारिवैकल्यात् कुसूलावस्थितबीजवत् कर्मणामनारम्भकत्वे सति न कश्चिद्दोषः । एष एव च तेषां दाहः, यत् कार्यानारम्भकत्वम् ॥ कर्मणां फलादानम्
ननु ! अविनष्टस्वरूपाणि कुसूलबीजवदेव कदा चिरादारप्स्यन्ते कार्यम् । तस्माद्वरमुच्छिद्यन्तामेव । किमिदानीं नित्यमात्मानमप्युच्छेत्तुं यतामहे । स हि पुरा भोक्ताऽभूदिति मुक्तोऽपि पुनर्भोक्तृतां प्रतिपद्येतेति वरमुच्छिद्यन्तामेव ॥

सामग्र्यभावात् कथमसौ पुनः भोक्तृतां गच्छेत् ? इति चेत्— कर्माण्यपि सहकार्यभावात् कथं कार्यमारभेरन् ? न च कर्मणां बन्धकरणे रागादयो न सहकारिण इति वक्तुं शक्यते; “वीतरागस्य जत्मादर्शनात्” इत्यसकृदुक्तत्वात् । तस्मादयमेव सूत्रकारोपदिष्टः पन्थाः पेशलः “न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य” इति ॥ ज्ञानकर्मसमुच्चयवादरूण्डनम्
यच्चेदमुच्यते ज्ञानकर्मसमुच्चयान्मोक्ष इति—तत्रेदं वक्तव्यम् । कर्मणां कीदृशो मोक्षं प्रत्यङ्गभावः ? न हि तत्साध्यो मोक्षः; स्वर्गा दिवदनित्यत्वप्रसङ्गात् ॥

अपि च—आत्मैव स्वरूपावस्थितो मोक्ष इत्युच्यते; न चात्मस्वरूपं कर्मसाध्यम्, अनादिनिधनत्वेन सिद्धत्वात् ॥ कर्मणां चित्तकषायनिवर्तकत्वम्
ननु ! नित्यकर्माननुष्ठाने प्रत्यवेयादिति तद्द्वारकबन्धपरिहारोपायत्वात् कर्मापि मोक्षाङ्गं स्यात्—न—सन्यासविधानस्य प्रत्यक्षोपदेशादि त्युक्तत्वात् । अपरिपक्वकषायाणां शनैश्शनैस्तत्परिपाकौपयिकत्वेन कर्मानुष्ठानं पारम्पर्येणापवर्गोपाय इति तु बाढमभ्युपगम्यते । यथाऽऽह मनुः— “ महायज्ञैश्च यज्ञैश्च ब्राह्मीयं42 क्रियते तनुः इति ॥


अध्यात्मविदश्च ज्ञानकाण्डौपयिकमेव क्रियाकाण्डं मन्यन्ते । साक्षात्तु कर्मसाध्येऽपवर्गे स्वर्गवदपायित्वप्रसङ्गात् कृतकस्य सर्वस्यानित्यत्वात् तत्त्वज्ञानमेव मोक्षोपाय इत्युक्तम् ॥ यमनियमादीनामपि ज्ञानाङ्गत्वम्
यदपि यमनियमादिसाध्यमङ्गभूतं कर्मजातम्, तदपि तदङ्गतां गच्छन्न वार्यते । तत्कार्यत्वेऽपि—यावद्गुणप्रघ्वंसाभावस्वभावत्वात्43 मोक्षस्य न क्षयित्वं स्वर्गवत् । अन्यस्तु न मोक्ष इत्युक्तम् ॥

तत्पूर्वोक्तप्रक्रमेणापवर्ग—
प्राप्तेस्तत्त्वज्ञानमेवाभ्युपायः ।
कर्म त्वङ्गं तत्र शौचादि किञ्चित्
किञ्चित्तत्स्यादात्मसंस्कारपूर्वम्44

मोक्षहेतुतत्त्वज्ञानस्वरूपविचारः
आह—तत्त्वज्ञानमिदानीं विचिन्त्यताम्—किंविषयं तदपवर्गाय कल्पते ? कुतो वा तस्य निःश्रेयससाधनत्वमवगतमिति ॥

ननु ! आत्मज्ञानमपवर्गहेतुरिति बहुशः कथितमेवैतदिति कोऽयं प्रश्नः ?—न—विप्रतिपत्तेः । विप्रवदन्ते ह्यत्र वादिनः ॥ मोक्षहेतुज्ञानविषये पक्षभेदाः
एक एवायम् । अविद्यापरिकल्पितः जीवात्मपरमात्मविभागः । परमात्मतत्त्वज्ञानादविद्यापाये मोक्ष इति ब्रह्मवादिनः ॥

शब्दाद्वैतनिश्चयादिति वैयाकरणाः ॥

विज्ञानाद्वैतदर्शनादिति शाक्यभिक्षवः ॥

प्रकृतिपुरुषविवेकविज्ञानादिति पारमर्षाः ॥

ईश्वरप्रणिधानादिति चान्ये45

तदेवं कस्मै तत्त्वज्ञानाय स्पृहयन्तु मुमुक्षवः इति वाच्यम् ॥ आत्मतत्त्वज्ञानस्यैवापवर्गोपायत्वम्
उच्यते—भिन्नास्तावदात्मान इति गृह्यतामात्मज्ञानमेव निःश्रेयसाङ्गमिति ॥

यत्तु—कुतस्तस्य निःश्रेयससाधनत्वमवगतमिति; अक्षपादवचनादिति ब्रूमः । अक्षपादस्तावदेवमुपदिष्टवान् “आत्मज्ञानान्निःश्रेयसाधिगमः” इति । न च निष्प्रमाणकमर्थमेष ऋषिरुपादिशदिति भवितव्यमत्र प्रमाणेन । तत्तु वैदिकं विधिवाक्यं “आत्मा46 ज्ञातव्यः” इति ॥

स एष तावन्न निरधिकारः विधिः; अधिकाररहितस्य च विधेः प्रयोगयोग्यत्वाभावात् । अधिकारान्वेषणमुपक्रमणीयम् । परप्रकरणपरिपठनविरहाच्च नास्य समिदाधिविधिवत् प्रधानाधिकारनिवेशित्वम् । अतः विश्वजिदधिकरणन्यायेन स्वर्गकाममधिकारिणमिह यावदुपादातुमध्यवस्यामः, तदैव “न स पुनरावर्तते” इत्यर्थवादसमर्पितेयमपुनरावृत्तिरेव हृदयपथमवतरति, रात्रिसत्र इव प्रतिष्ठेति तामेवास्य फलत्वेन प्रतिपद्यामहे ॥

सा चेयं साध्यमानाऽपि रूपादेव47 हि शाश्वती ।
चकास्त्यपुनरावृत्तिः न स्वर्गवदपायिनी ॥

आत्मज्ञानस्य न दृष्टफलसम्भवः
ननु ! दृष्टप्रयोजनालाभे सति अदृष्टप्रयोजनपरिकल्पनावसरः । इह च दृष्टमेव प्रयोजनमात्मज्ञानस्य कर्मप्रवृत्तिहेतुत्वमुपलभ्यते । नित्येनात्मना विना भूतेष्वेवाचेतनेषु श्मशानावधिषु बहुवित्तव्ययायाससाध्यानि को नाम ज्योतिष्टोमादिकर्माण्यनुतिष्ठेदिति नित्य एवात्मा परलोकी ज्ञातव्यः । एवं हि निर्विशङ्कः कर्मसु प्रवर्तेतेति ॥

तदिदमनुपपन्नम्—अन्यत एव सिद्धत्वात् । प्रत्यभिज्ञाप्रत्यक्षप्रत्ययेन जैमिनीयैः,48 अनुमानमहिम्ना च नैयायिकादिभिः आत्मा नित्य इति निश्चित एव । किमत्र विधिः करिष्यति । इतिकर्तव्यताकलापोपदेशश्च तदानीमत्यन्तनिष्प्रयोजनः स्यात् ॥ वेदस्य फलवत्त्वम्
अमी च तथा नामातिमहान्तो वेदग्रन्था इयत्येव पर्यवसन्ना इति ?—तदिदमुपनतम्—सेयं महतो वंशस्तम्बात् लट्वाऽऽकृष्यत49 इति । तस्मादर्थवादसमर्पितमपुनरावृत्तिरूपमेव फलमात्मज्ञानविधिरबलम्बत इत्येवं केचित् ॥ आत्मज्ञानस्य मोक्षसाधनत्वं विधिसिद्धम्
सूक्ष्मदर्शिनस्त्वाहुः—इयमर्पि महती दुर्गतिः, यत् अर्थवादमुखप्रेक्षित्वमस्योक्तमधिकारविधेः । विश्वजिति रात्रिसत्रे वा किमन्यत् क्रियताम् । न हि विश्वजिद्रूपपर्यालोचनतः कश्चिदधिकारी लभ्यत इति बलात् स्वर्गकामादिः कल्प्यते वा, अर्थवादसमर्पितो वाऽबलम्ब्यते । यत्र तु विधिस्वरूपमहिम्नैव तदुपलम्भः, तत्र किं कल्पनया, किमर्थवादवदनावलोकनदैन्येन वा ॥

इह च “स्वाध्यायोऽध्येतव्यः” इतिवत् “अग्नीनादधीत” इतिवद्वा कृत्येन द्वितीयया वा ईप्सिततमत्वनिर्देशात् तन्निष्ठत्वमेवावतिष्ठते । तत्र यथाऽग्न्यर्थतयाऽऽधानविधिरवगम्यमानः अग्नीनामनेकविधपुरुषार्थौपयिककर्मकलापोपयोगात् तदार्जनेनैव कृतार्थत्वमुपगत इति न फलान्तरमपेक्षते, यथा वा “स्वाध्यायोऽध्येतव्यः” इत्यक्षरग्रहणार्थत्वात् अस्य विधेः अक्षरग्रहणस्य च फलवत्कर्मावबोधद्वारेण परमपुरुषार्थोपायत्वावधारणान्न तदतिरिक्तघृतमधुकुल्यादिफलान्तरापेक्षित्वम् । न चाध्यापनविध्यङ्गत्वं, स्वमहिम्नैवेप्सिततमसंस्कारद्वारकाधिकारलाभात्; एवमिहाप्यपहतपाप्माद्यात्मस्वरूपपरिज्ञानमेव तस्य परमपुरुषार्थतामवबोधयन्नस्य विधेरन्यप्रयोजनतामापादयति ॥

कश्चित्50 किल संस्कारविधिः संस्क्रियमाणनिष्ठोऽपि संस्क्रियमाणप्रयोजनापेक्षया परमुखप्रेक्षी भवति—“ब्रीहीन् प्रोक्षति” इतिवत् । कश्चित्तु संस्क्रियमाणप्रयोजनमलभमानः तदीप्सिततमत्वानिर्वहणात्—संस्कारविधित्वमेव जहाति “सक्तून् जुहोति” इतिवत् । यथोक्तम्— “ भूतभाव्युपयोगं हि द्रव्यं संस्कार्यमिष्यते ।
सक्तवो नोपयोक्ष्यन्ते नोपयुक्ताश्च ते क्वचित्
[तं। वा। २-१-४-१२] इति ॥

” स्वतः पुरुषार्थानां न फलान्तरम्
यस्य तु संस्कार्यमनर्धमिव रत्नम् अपर्युषितमिवामृतम्, अनस्तमितविव चन्द्रबिम्बम्, अपरिम्लानमिव शतपत्रमस्ति, कस्तर्हि प्रकरणपाठापेक्षायां अर्थवादमुखप्रेक्षणेन फलकल्पनायां वाऽभिलाषः ? अत एव न कामश्रुतिप्रयुक्तत्वमाधानस्य, न चाचार्यकरणविधिप्रयुक्तत्वमध्ययनस्येति ॥

तस्मात् स्वाध्यायाध्ययनाधानविधिसमानयोगक्षेमत्वात् आत्मज्ञानविधेः, तत्कृतमात्मज्ञानमपवर्गार्थमवगम्यते । तथाविधस्वरूप आत्मैव परोपाधिजनितधर्मरहितः अपवर्ग इत्युच्यते । यतः तदिदमित्थमात्मज्ञान मेव निःश्रेयससाधनं, अनन्यलभ्यमिति तदेवोपदिष्टवानाचार्योऽक्षपादः ॥

यत्तु विज्ञानसत्तात्मशब्दाद्यद्वैतदर्शनं—तत् मिथ्याज्ञानमेवेति न निःश्रेयससाधनमिति ॥ ब्रह्माद्वैतवादनिरासः
ननु कथमद्वैतदर्शनं मिथ्या कथ्यते तत् । प्रत्युत द्वैतदर्शनमविद्या मायाऽपि, मिथ्याज्ञानमिति युक्तम् । तथा हि—प्रत्यक्षमेव तावत् निपुणं निरूपयतु भवान् । तत्र हि यदन्यानपेक्षतया झगिति पदार्थस्वरूपमवभासते,51 तत् पारमाथिकम्, इतरत् काल्पनिकमिति गम्यते । सद्रूपमेव च च तत्राभिन्नमन्यनिरपेक्षमवभाति । भेदस्त्वन्यापेक्ष52 इति नाक्षजविज्ञानविषयतामुपयाति ॥ कारणस्यैव सत्यत्वम्, कार्यस्य मिथ्यात्वम्
तत्र यथा मृद्रूपतातः प्रभृति यावत्कुम्भावस्थेत्यस्मिन्नन्तराळे आविर्भवतां तिरोभवतां च घटकपालशकलशर्कराकणादीनां कार्याणां रूपमपरमार्थसदेव व्यवहारपदवीमवतरति । परमार्थतस्तु मृत्तिकैव । यथाऽऽहुः “मृत्तिकेत्येव सत्यम्” [छां। ६-१-४] इति । एवं तदपि मृत्तिकारूपं सत्तापेक्षया न परमार्थसदिति सत्तैव सर्वत्र परमार्था । तदेव सल्लक्षणं ब्रह्मेत्याहुः ॥

आगमश्च “एकमेवाद्वितीयं” [छां। ६-२-१] इत्यादिः अभेदमेव दर्शयति “नेह नानास्ति किञ्चन । मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति” इति च ॥ प्रत्यक्षस्य शात्राविरोधित्वम्
न च प्रत्यक्षविरुद्धत्वमभेदशंसिनो वक्तुं शक्यमागमस्य । न ह्यन्यनिषेधे प्रत्यक्षं प्रभवति, स्वरूपमात्रग्रहणे परिसमाप्तव्यापारत्वात् । पररूपनिषेधमन्तरेण च भेदस्य दुरुपपादत्वात् भेदे कुण्ठमेव प्रत्यक्षमिति कथमभेदग्राहिणं आगमं विरुन्ध्यात् । तदुक्तं— “ आहुर्विधातृ प्रत्यक्षं53 न निषेद्धृ विपश्चितः ।
नैकत्व आगमस्तेन प्रत्यक्षेण विरुध्यते ॥

” बन्धमोक्षव्यवस्था
ननु यद्येकमेव ब्रह्म, न द्वितीयं किञ्चिदस्ति, तर्हि तद्ब्रह्म नित्यशुद्धबुद्धस्वभावत्वात् मुक्तमेवास्ते । केन तद्बद्धमिति किमर्थोऽयं मुमुक्षुणां प्रयत्नः । कुतस्त्यो वाऽयं विचित्रजगदवभासः—अविद्योच्छेदार्थो मुमुक्षुप्रयत्न इति ब्रूमः । ततस्त्य एवायं विचित्रजागदवभासः ॥ अविद्यास्वरूपम्
केयमविद्या ? ब्रह्मणो व्यतिरिक्ता चेत् नाद्वैतम् । अव्यतिरेके तु ब्रह्मैव सा, ततो नान्याऽस्त्येषेति कथमुच्छिद्येत—मैवम्—वस्तुनीदृंशि कुतार्किकचोद्यानि क्रमन्ते । अविद्या त्वियमवस्तुरूपा, माया, मिथ्यावभासस्वभावाऽभिधीयते । तत्त्वाग्रहणमविद्या । अग्रहणं च नाम कथं वस्तुधर्मैः विकल्प्यते ? अविद्याश्रयः
ननु ! तत्त्वाग्रहणरूपाऽपि कस्येयमविद्या । न हि ब्रह्मणो नित्यबुद्धस्वभावत्वादविद्या भवति । अन्यस्तु नास्त्येव तदाश्रयः । न च निरधिकरणमेव मिथ्याज्ञानं भवितुमर्हति—उच्यते—जीवात्मनामविद्या,54 न ब्रह्मणः ॥

ननु ! के ते जीवात्मानः ? तेऽपि ब्रह्मणोऽन्यानन्यतया चिन्त्या एवआः ! क्षुद्रतार्किक ! सर्वत्रानभिज्ञोऽसि । ब्रह्मैव जीवात्मानः, न ततोऽन्ये । न हि दहनपिण्डाद्भेदेनापि भान्तः स्फुलिङ्गाः अग्निस्वरूपा न भवन्ति ॥ जीवाज्ञानवादः
तत् किं ब्रह्मण एवाविद्या ?—न च ब्रह्मणोऽविद्या । यथा ह्येकमेव घटाद्यावरणोपहितभेदतया भिन्नमिव विभाति नभः—पटाकाशं घटाकाश मिति, तदावरणवशादेव च रजोधूमादिकलुषितमपि भवति, तदावरणविरतौ तु गळितकालुष्यमले तत्रैव परमे व्योम्नि लीयते—तथैव जीवा त्मानोऽपि अविद्याकल्पितभेदाः तत्कृतमनेकप्रकारकालुष्यमनुभवन्ति । तदुपरमे च परे ब्रह्मणि लीयन्ते इति ॥ अन्योन्याश्रयपरिहारः
ननु ! एवं सत्यप्यविद्यापरिकल्पित एष ब्रह्मजीवात्मविभागः । सा च जीवात्मनामविद्येत्युच्यते । तदेतदितरेतराश्रयमापद्यते—अविद्याकल्पनायां सत्यां जीवात्मानः, जीवात्मसु च सत्सु अविद्येति—भवत्वितरेतराश्रयम् । अविद्याप्रपञ्च एवायमशेषः । कस्यैष दोषः ?

यदि वाऽनादित्वमस्य परिहारो बीजाङ्कुरवद्भविष्यति । भवद्भिरपि चायमनादिरेव संसारोऽभ्युपगतः । अविद्ययैव च संसार इत्युच्यते ॥ अविद्यानिवृत्त्युपायः
ननु ! अनादेरविद्यायाः कथमुच्छेदः ? किमनादेरुच्छेदो न भवति भूमे55 रूपस्य । भवद्भिर्वा कथमनादिस्संसार उच्छेद्यते ?

ननु ! उपाये सत्यनादिरप्युच्छिद्यते । अद्वैतिनां कस्तदुच्छेदोपायः ? अविद्यैवेति ब्रूमः । श्रवणमनननिध्यानादिरप्यविद्यैव । सा त्वभ्यस्य माना सती अविद्यान्तरमुत्सादयति, स्वयमप्युत्सीदति । यथा पयःपयो जरयति, स्वयं च जीर्यति । विषं विषान्तरं शमयति, स्वयं च शाम्यति । यथा वा द्रव्यान्तररजः क्षिप्तं रजःकलुषितेऽम्भसि तच्चात्मानं संहृत्य स्वच्छमम्बु करोति । एवमियमविद्यैवाविद्यान्तरमुच्छिन्दन्ती विद्योपायतां प्रतिपद्यते ॥ असत्यादपि सत्यसिद्धिः
ननु ! स्वरूपेणासत्यैवेयमविद्या कथं सत्यकार्यं कुर्यात् ? उच्यते—

असत्यादपि सत्यार्थसम्पत्तिरुपपत्स्यते ।
मायासर्पादयो दृष्टाः सत्यप्रलयहेतवः56

रेखागकारादयश्चासत्याः सत्यार्थप्रतीत्युपाया दृश्यन्ते । स्वरूपेण सत्यास्त इति चेत्—किं तेन क्रियते । गकारादित्वेन हि ते प्रतिपादकाः । तच्चैषामसत्यमिति ॥ शुद्धस्यापि ब्रह्मणोऽविद्ययाऽऽवरणम्
ननु ! ब्रह्मणो नित्यशुद्धत्वात् जीवानां च ततोऽनन्यत्वात् कथं तेष्वविद्याऽवकाशं लभते—परिहृतमेतत् घटाकाशदृष्टान्तोपवर्णनेन ॥

अपि च यथा विशुद्धमपि वदनबिम्बं अम्बुमणिकृपाणदर्पणाद्युपाधिवशेन श्यामदीर्घस्थूलादिरूपमपारमार्थिकमेव दर्शयति, तथा ब्रह्मणस्तदभावेऽपि जीवेषु तदवकाश इति ॥ बद्धमुक्तव्यवस्थोपपत्तिः
ननु ! परमात्मनो नित्यत्वात् जीवानामप्यन्योन्यमनन्यत्वमित्येक स्मिन् बद्धे, मुक्ते वा सर्वे बद्धाः मुक्ता वा स्युः—अयि कुतर्ककलुषितमते कथं बोध्यमानोऽपि न बुध्यसे । घटाकाशे हि घटभङ्गात् परमाकाशप्रतिष्ठे जाते, न पटाकाशोऽपि तथा भवति । एकस्यापि जीवात्मनः उपाधिभेदात् सुखदुःखानुभवभेदो दृश्यते—“पादे मे वेदना” “शिरसि मे वेदना” इति । तीव्रतरतरणितापोपनतातनुतरक्लमस्य च यत्रैव च शरिरावयवे शिशिरहरिचन्दनस्थासकमुपरचयति57 परिजनः, तत्रैव तद्दुःखोपरमानुभवः नान्यत्रेति, एवमेकस्मिन्नपि परमात्मनि कल्पनामात्र प्रतिष्ठेष्वपि जीवात्मसु बद्धमुक्तव्यवस्था सिद्ध्यत्येवेति एकात्मवाद एवायमागमानुगुणः उपगन्तुं युक्तः, नानन्त्यमात्मनाम् ॥

ब्रह्मदर्शनमेवातः निःश्रेयसनिबन्धनम् ।
भेददर्शनमूढानां संसारविरतिः कुतः—इति ॥

ब्रह्माद्वैतवादनिराकरणम्
अत्राभिधीयते—कपटनाटकरहस्यप्रक्रियाकूर्चोपरचने तदनुगुणदृष्टान्तपरम्परोपपादने च किमुच्यते परं कौशलं भवताम् ! प्रमाणवृत्तनिरूपणे तु तपस्विन एव भवन्तः । तथा हि—भेदस्य प्रमाणबाधितत्वात् किमयमभेदाभ्युपगमः भवताम्, उत स्वित् अभेदस्यैव प्रमाणसिद्धत्वादिति । द्वयमपि नास्ति । प्रत्यक्षादीनि हि सर्वाण्येव भेदप्रतिष्ठानि प्रमाणानि ॥ भेदस्य प्रत्यक्षत्वम्
यत्तावत् भेदस्य परापेक्षत्वात् अक्षजज्ञानगम्यता नास्तीति—तदयुक्तम्—अभेदस्य सुतरां परापेक्षत्वात्58 । मृत्पिण्डात्प्रभृति घटकर्परचूर्णपर्यन्तकार्यपरम्परापरिच्छेदे तदनुगतमृद्रूपताग्रहणे च सति मृदस्तदभिन्न रूपत्वमवधार्येत, नान्यथास्वरूपेण भासमाना इति यावत् ॥ ॥

भिक्षवस्त्वाचक्षते59 चाक्षुषं व्यावृत्तस्वलक्षणग्राहि, नाभेदविषयं, अभेदस्य परापेक्षत्वादिति ॥ अभेदस्य भेदाधीनत्वम्
अयमस्मादन्य इतीयं परापेक्षा प्रतीतिरिति चेत्—अयमस्मिन्ननुस्यूत इतीयमपि परापेक्षैवस्वरूपेण भासमाना इति यावत् ॥ ॥

तदत्र भवान् भिक्षवश्च द्वावपि दुर्ग्रहोपहतौ । भेदाभेदग्रहणनिपुणमक्षजमिति परिक्षितमेतद्विस्तरतः सामान्यचिन्तायाम् । अङ्गुलिचतुष्टयं हि प्रतिभासमानमितरेतरविविक्तरूपमप्यनुगतरूपमपि प्रकाशत इत्युक्तम् ॥

व्यावृत्तिरनुवृत्तिर्वा परापेक्षाऽस्तु वस्तुषु ।
स्वरूपेण भासमाना इति यावत् ॥असङ्कीर्णस्वभावास्तु भावा भान्त्यक्षबुद्धिषु ॥

60 प्रत्यक्षं भेदाभेदोभयविषयकम्
यदप्युक्तं “आहुर्विधातृ प्रत्यक्षं, न निषेद्धृ” इति—तदप्यसाधु— “विधातृ” इति कोऽर्थः ? इदमपि—

वस्तुस्वरूपं गृह्णाति नान्यरूपं निषेधति ।
प्रत्यक्षमिति चेत्—मैवम्—ज्ञानं तर्हि न तद्भवेत् ॥

अन्यरूपनिषेधमन्तरेण तत्स्वरूपपरिच्छेदस्याप्यसम्पत्तेः । पीता दिव्यवच्छिन्नं हि नीलं नीलमिति गृहीतं भवति, नेतरथा । तथा चाह “तत् परिच्छिनत्ति, अन्यद्व्यवच्छिनत्ति” इति ॥

भाववदभावमपि गृहीतुं प्रभवति प्रत्यक्षमिति च साधितमस्माभिरेवैतत् । तस्मादितरेतरविविक्तपदार्थस्वरूपग्राहित्वान्नाभेदविषयम्प्रत्यक्षम् ॥ शब्दानुमानयोः भेदाबलम्बनत्वम्
शब्दानुमानयोस्तु सम्बन्धग्रहणाधीनस्वविषयव्यापारयोः भेदमन्तरेण61 स्वरूपमेव नावकल्पत इति तावुभावपि भेदविषयावेव । विशेषविषयत्वाभावेऽपि लिङ्गसामान्यस्य तदितरविलक्षणस्य परिच्छेदात् भेदविषयमनुमानम् ॥

शब्दस्य तु पदात्मनः तद्वदादिवाच्यभेदरूपस्य तु परस्परोपरक्तपदार्थपुञ्जस्वभावः, इतरपदार्थविशेषितान्यतमपदार्थरूपो वा वाक्यार्थो विषय इति पूर्वमेव निरूपितम् । अतः सर्वथा न भेदस्य प्रमाणबाधितत्वम् ॥

नाप्यभेदग्राहि62 किञ्चन प्रमाणमस्ति यथोक्तेनैव न्यायेन ॥ अभेदे न श्रुतिः प्रमाणम्
यस्तु आगमः पठितः “एकमेवाद्वितीयम्” “नेह नानास्ति किञ्चन” इत्यादिः—तस्यार्थवादत्वान्न63 यथाश्रुत एवार्थो ग्रहीतव्यः ॥ अर्थवादानां सर्वेषां न स्वार्थे प्रामाण्यम्
ननु ! सिद्धेऽप्यर्थे वेदस्य प्रामाण्यमभ्युपगतमेव भवद्भिः—बाढमभ्युपगतम् । किन्तु “धूम एवाग्नेदिवा ददृशे नार्चिः” इत्येवमादीनां प्रत्यक्षा दिविरुद्धार्थाभिधायिनामर्थवादानां मुख्यां वृत्तिमपहाय गौण्यापि वृत्त्या व्याख्यानमाश्रितम्64 । एवमिदमपि वचनं इतरप्रमाणविरुद्धमर्थमभिदधत् अन्यथा व्याख्यायते ॥

ये तु प्रमाणान्तरविरुद्धार्थानुवादिनो न भवन्ति अर्थवादाः, तेषामस्तु स्वरूपे प्रामाण्यं “वायुर्वै क्षेपिष्ठा देवता” इत्येवमादीनाम् ॥

तस्मात् सुखदुःखावस्थाभेदेऽपि नावस्थातुरात्मनो भेदः, देहेन्द्रियादि नानात्वेऽपि वा न तस्य नानात्वमित्येवं यथाकथञ्चिदयमर्थवादो योजनीयः । अभेदोपदेशी तु तत्परः शब्दः विधिरूप इह नास्त्येव । एवमागमबलादपि नाद्वैतसिद्धिः ॥ अविद्यास्वरूपाद्यनुपपत्तिः
यत्पुनः अविद्यादिभेदचोद्यमाशङ्क्याशङ्क्यपरिहृतम्—तत्राशङ्का साधीयसी । समाधानं तु न पेशलम् । तत्त्वान्यत्वाभ्यामनिर्वचनीयेयमविद्येति कोऽर्थः ?

अनादिना प्रबन्धेन प्रवृत्ताऽऽवरणक्षमा ।
यत्नोच्छेद्याप्यविद्येयं असती कथ्यते कथम् ॥

अस्तित्वे क एनामुच्छिन्द्यादिति चेत्—कातरसन्त्रासोऽयम् । सता मेव हि वृक्षादीनां उच्छेदो दृश्यते, नासतां शशविषाणादीनाम् । तदियमुच्छेद्यत्वादविद्या नित्या मा भूत्, सती तु भवत्येव ॥

नित्यं न शक्यमुच्छेत्तुं सदनित्यं तु शक्यते ।
असत्त्वमन्यत्, अन्या च पदार्थानामनित्यता ॥

अविद्या भावरूपापि
न च तत्त्वाग्रहणमात्रमविद्या, संशयविपर्ययावप्यविद्यैव । तौ च भावस्वभावत्वात् कथमसन्तौ भवेताम् ? ग्रहणप्रागभावोऽपि नास न्निति शक्यते वक्तुम्, अभावस्याप्यस्तित्वसमर्थनादिति सर्वथा नासती अविद्या ॥

असत्त्वे च निषिद्धेऽस्याः सत्त्वमेव बलाद्भवेत् ।
सदसद्व्यतिरिक्तो हि राशिरत्यन्तदुर्लभः ॥

सत्त्वे च द्वितीयाया65 अविद्याया भावान्नाद्वैतम् ॥ जीवस्य कल्पितत्वासम्भवः
यत्तु ब्रह्मणः सततप्रबुद्धत्वात् अविद्याक्षेवता नेति जीवानामविद्यास्पदत्वमभिहितम्, अविद्योपरमे ब्रह्मणि परमे त एव घटाकाशवल्लीयन्त इति च—तदपि न चतुरश्रम्—आकाशावच्छेदहेतोः घटादेर्घटमानत्वात् । अविद्यायास्त्वसत्त्वात् तत्कृतः परमात्मनोऽवच्छेद इति विषमो दृष्टान्तः । अवच्छेदकाभावाच्च जीवविभागकल्पनाऽपि निरवकाशैव ॥ अदिद्याया अनादित्वासम्भवः
यच्च इतरेतराश्रयत्वं परिहर्तुमनादित्वमावेदितं अविद्यायाः—तत्र बीजाङ्कुरवत्, वाद्यन्तरोपगतसंसारवच्च तस्याः सत्यत्वमेव स्यात् । अनादिप्रबन्धप्रवृत्तत्वे सत्त्वे चास्याः प्रतिकूलहेत्वन्तरोपनिपातकृतमपाकरणमुचितम् । एकात्मवादिनां तु तदतिदुर्घटमित्यनिर्मोक्ष एव स्यात् । यथाऽऽह भट्टः— “ स्वाभाविकीमविद्यां च नोच्छेत्तुं कश्चिदर्हति ।
विलक्षणोपपाते हि नश्येत् स्वाभाबिकं क्वचित्66

न त्वेकात्माऽभ्युपायानां67 हेतुरस्ति विलक्षणः


[श्लो। वा। १-१-५ सम्ब ८६] इति ॥ अविद्याया न बन्धनिवर्तकत्वसम्भवः
यत्पुनः अविद्यैव विद्योपाय इत्यत्र दृष्टान्तपरम्परोद्घाटनं कृतं— तदपि क्लेशाय, नार्थसिद्धये । सर्वत्रोपायस्य स्वरूपेण सत्त्वात् । असतः खपुष्पादेरुपायत्वाभावात् । रेखागकारादीनां तु वर्णरूपतया सत्त्वं यद्यपि नास्ति; तथापि स्वरूपतः सत्त्वं विद्यत एव ॥ सत्यस्यैव सर्वत्र निवर्तकत्वम्
ननु ! गकारोऽयमिति गृह्यमाणः स रेखासन्निवेशः अर्थप्रत्यायको भवति, न चासौ तेन रूपेणास्ति—मैवम्—स्वरूपेण सतोऽर्थस्य रूपान्त रेणापि गृह्यमाणस्य कूटकार्षापणादेरिव व्यवहारहेतुता दृश्यते च, युक्ता च68 । यस्तु स्वरूपत एव नास्ति, न, तस्य स्वात्मना परात्मना वा व्यवहाराङ्गता समस्ति । रेखासन्निवेशश्च स्वरूपेण सन्निति वर्णात्मत्वेनासन्नपि तत्कार्याय पर्याप्नुयात् । न त्वयम् अविद्यायां न्यायः, स्वरूपासत्त्वात्तस्याः ॥

सर्पादौ तु सर्पादिस्वरूपवत् तद्ज्ञानस्यापि तत्कार्यत्वमवगतम् ॥

अत एव शङ्काविषस्यापि स्वशास्त्रेषु चिकित्सामुपदिशन्ति ॥

एवं “वनगुहाकुहरदेशादेष निस्सृतः केसरी सरोषमित एवाभिवर्त्तते” इत्यसत्येऽप्युक्ते यद्भीरूणां पलायनादि, शूराणां च सोत्साहमायुधोद्यमनादि सत्यं कार्यमुपलभ्यते, तत्र सिंहज्ञानस्य तत्कार्यत्वात् नासत एवोपायत्वम् ॥

एतेन प्रतिबिम्बदृष्टान्तोऽपि प्रत्याख्यातः, खङ्गादेः मुखादिकालुष्य कल्पनाकारणस्य तत्र सद्भावात् । इह तु तदभावादिति ॥ एकात्मवादे बद्धमुक्तादिव्यवस्थानुपपत्तिः
यदपि बद्धमुक्तव्यवस्थासिद्धये पादवेदनाद्युदाहृतम्—तदप्येवमपाकृतम्—अवच्छेदकस्य पादादेः तत्र तात्त्विकत्वात् । इह तु भेदकल्पनाबीजमद्वैतवादिनां दुर्घटमिति बहुशः प्रदर्शितम् ॥

तदत्रायं वस्तुसङ्क्षेपः—अविद्यायामसत्यां सर्व एवायं यथोदाहृतो व्यवहारप्रकारः तत्कृत इति नावतिष्ठते । सत्यां तु तस्यां नाद्वैत मिति । अत एवाह सूत्रकारः “सङ्ख्यैकान्तासिद्धिः प्रमाणोपपत्त्यनुपपत्तिभ्याम्” [न्या। सू। ४-१-४] इति ॥ आत्माद्वैतवादनिराकरणोपसंहारः
यदि तावदद्वैतसिद्धौ प्रमाणमस्तिः तर्हि तदेव द्वितीयमिति नाद्वैतम् । अथ नास्ति प्रमाणम्, न तरामद्वैतम्, अप्रामाणिकायाः सिद्धेरभावादिति ॥

मन्त्रार्थवादोत्थविकल्पमूल-69
मद्वैतवाद परिहृत्य तस्मात् ।
उपेयतामेष पदार्थभेदः
प्रत्यक्षलिङ्गागमगम्यमानः ॥

शब्दाद्वैतवादनिराकरणम्
एतेन शब्दाद्वैतवदोऽपि प्रत्युक्तः— “ अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् ।
विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः


[वा। प। १-१] इति ॥

उच्यते—तत्र अनादिनिधनपदनिवेदितापूर्वापरान्तरहिता वस्तुसत्ता नित्यत्वम्, ब्रह्मपदप्रतिपादितं च व्यापित्वमित्युभयमपि शब्दस्य प्रागेव निरस्तम् । निरवयवश्च स्फोटात्मा शब्दः प्रतिक्षिप्त एव ॥ शब्दविवर्तवादोपन्यासः
यत्तु नित्यं व्यापि च किञ्चिदुच्यते, तत् शब्दतत्त्वमित्यत्र का युक्तिः । आह—शब्दोपग्राह्यतया च शब्दतत्त्वम् ॥

तथा हि सर्वप्रत्यय उपजायमानः नानुल्लिखितशब्दः उपजायते । तदुल्लेखविरहिणः अनासादितप्रकाशस्वभावस्य प्रत्ययस्यानुत्पन्ननिर्विशेषत्वात् । एवमीदृशमित्यादिपरामर्शप्रमुषितवपुषि वेदने वेदनात्मकतैव न भवेत् ॥ सर्वप्रत्ययानां शब्दानुविद्धत्वम्
येऽपि वृद्धव्यवहारोपयोगवैधुर्यादनवाप्तशब्दार्थसम्बन्धविशेषव्युत्पत्तयः बालदारकप्रायाः प्रमातारः, तेऽऽपि नूनं “यत्” “सत्” “तत्” “किम्” इत्यादिशब्दजातमनुल्लिखन्तो न प्रतियन्ति किमपि प्रमेयम् । अतः शब्दोन्मेषप्रभावप्राप्तप्रकाशस्वभावत्वात्70 सर्वप्रत्ययानां शब्दानुविद्धं बोधकत्वमिति सर्वं शब्दतत्त्वमित्यवधार्यताम् । [वा। प। १। १३४] तदाह— “ न सोऽस्ति प्रत्ययो लोके यश्शब्दानुगमादृते ।
अनुविद्धमिव ज्ञानं सर्वं शब्देन गम्यते इति ॥


एवमनभ्युपगमे तु संविदः प्रकाशशून्यतया अनधिगतविषयः सर्व एवान्धमूकप्रायो लोकः स्यात् । आह च [वा। प। १-१२५] — “ वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती ।
न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी इति ॥


अतः क्रमेण तावदेवं बोध्यसे, शब्दाख्यविशेषणानुवेधविशेषा भवात् सर्वं निर्विकल्पकम् इन्द्रियजं सविकल्पकं वा ज्ञानं शब्दविशिष्ट मर्थमवद्योतयति गौः शुक्लो गच्छतीति, जातिगुणक्रियावच्छिन्नविषयाव भासिनि प्रत्यये शब्दविशिष्ट एवार्थः स्फुरतीति बुध्यस्व ॥ अर्थानां शब्दात्मकत्वसमर्थनम्
एवं चेद्बोद्धुमवतीर्णोऽसि शब्दाख्यविशेषणानुरक्तस्य तस्य विशेष्यस्य स्वरूपं पृष्टः शब्देनैव दर्शयसि, शब्दापरित्यागलब्धप्रकाशस्वरूपयैव वाऽनुभूत्याऽनुभवसीति सोऽपि विशेष्यः शब्दरूप एवेति जानीहि । तदेवं शब्द एवार्थोपारूढः प्रतिभातीति व्यवतिष्ठते ॥

इत्थमियन्तमध्वानं चेत्प्राप्तोऽपि तदधुना यदुपारूढः शब्दः प्रकाशते, तस्य पृथक् प्रदर्शयितुमनुभवितुं चाशक्यत्वात् शब्द एव तथा तथा प्रतिभातीति शब्दविवर्त एवायमर्थः, नान्यः कश्चिदिति प्रतिपत्तुमर्हसिशब्दस्य सूक्ष्मत्वादन्यथासिद्ध्यसम्भवादिति हेतुः ॥ ॥

यथा चायमिन्द्रियजेषु प्रतिभासेषु प्रक्रमः, तथा शाब्देष्वपि प्रत्ययेषु शब्दविशिष्टो वाऽर्थः प्रविभाति, शब्दो वाऽर्थारूढः, शब्द एवार्थरूपेण विवर्तत इति गृह्यताम् ॥

अतश्च शब्दब्रह्मेदमेकम् अविद्योपाधिदर्शितविचित्रभेदम्, अविद्योपरमे यथावस्थितस्वरूपं प्रकाशत इति युक्तम् ॥ शब्दविवर्तवादनिरासः
अत्राभिधीयते—न खलुशब्दस्य सूक्ष्मत्वादन्यथासिद्ध्यसम्भवादिति हेतुः ॥ प्रकारत्रयमपीदमुपपद्यते, पदपदार्थसम्बन्धव्युत्पत्तिविरहिणाम् अनवाप्तशब्दयोजनावैरूप्यस्वरूपमात्रप्रतिष्ठ विशुद्धवस्तुग्रहणप्रवणेन्द्रियजप्रत्ययदर्शनात् । वृद्धव्यवहारपरिचयाधिगतशब्दार्थसम्बन्धसंस्कृतधियामपि शब्दस्मरणसंस्कारप्रबोधहेतुभूतप्रथमोदभूतविशुद्धवस्त्ववभासस्यापरिहार्यत्वात् । यत्र हि वस्तुनि निविशमानः शब्दः शब्दविद्व्यवहारेषु योऽवधृतस्तद्दर्शने तत्संस्कारप्रबोधात् स हि स्मृतिपथमेति, नान्यथेति ॥ प्रत्ययानां न शब्दानुविद्धत्वम्
सामान्यशब्देष्वपि “यत्” “तत्” “किं” इत्यादिषु विशेषशब्देष्विव सैव वार्ता । तेषामपि व्युत्पत्त्युपयोगविरहे विविधवनविहारि विहङ्गकूजितादिवदर्थप्रतीतिहेतुत्वानुपपत्तेः ॥

सविकल्पकदशायामपि न वाचकविशिष्टं वाच्यं मेचकगुणखचितमिव कुवलयमवलोकयति लोक इति विस्तरशः प्रत्यक्षलक्षणे परीक्षितमेतत् । आह च [श्लो। वा। प्रत्यक्ष। १७२] — “ न शब्दाभेदरूपेण बुद्धिरर्थेषु जायते ।
प्राक्शब्दाद्यादृशी बुद्धिः शब्दादपि हि तादृशी इति ॥

” अर्थेन साकं शब्दभानासम्भवः
सञ्ज्ञित्वमात्रमधिकमधुना ध्वनिसन्निधाने बुद्धिसधिरोहति, न तद्वि । शिष्टोऽर्थः । तस्य हि न नेत्रेण, न श्रोत्रेण, नोभाभ्यां, न केवलं मनसा वा ग्रहणमुपपद्यते, अतिप्रसङ्गात् । शब्दो हि अनेकधर्मके धर्मिणि एक “अनादिनिधनं”“न सोऽस्ति प्रत्ययः”“वाग्रूपता चेत्” इति श्लोकैरुक्तम्, शब्दस्य तत्त्वरूपत्वम्, सर्वप्रत्ययानां शब्दानुविद्धत्वम्, अर्थस्य शब्दविवर्तत्वं च ॥ तरधर्मावधारणाभ्युपायो भवति । न तत्रात्मानमारोपयति । न हि दीपेन्द्रियप्रभृतयः प्रतीत्युपायाः तदुपेये रूपादावात्मानमारोपयन्ति । अत एव तदुपायत्वभ्रमकृतस्तदभेदवादोऽपि न युक्तः ॥

न ह्युपायादभिन्नत्वं तदुपेयस्य युज्यते ।
रूपस्य न ह्यभिन्नत्वं दीपाद्वा चक्षुषोऽपि वा ॥

अर्थस्य शब्दविवर्तत्वाभावः
अपि च—यदि शब्दादभिन्नोऽर्थः प्रतिभात्येव, कोऽध्यासार्थः ? अभेदेऽपि शब्दमयमेव विश्वमिति, तत्रापि कोऽध्यासार्थः ? अध्यास भ्रमस्तु वैयाकरणानां एकाकारनिर्देशदोषनिर्मितः71 । यथाऽऽह [श्लो। वा। प्रत्यक्ष १८२] — “ गौरित्येव हि निर्देशः वाच्यस्तद्बुद्धिवाचिनाम्72


इति । “कस्त्वया दृष्टोऽर्थः” इति पृष्टो वक्ति “गौः” इति “कीदृशं ते ज्ञानमुत्पन्नम्—”“गौः” इति । “कीदृशं शब्दं प्रयुक्तवानसि—” “गौः” इति । तत एषा भ्रान्तिः । वस्तुतस्तु विविक्ता एवैते शब्दज्ञानार्थाः । तदुक्तम् [श्लो। वा। प्रत्यक्ष। १८५] — “ गवि सास्नादिसद्रूपा गादिरूपाभिधायके ।
निराकारोभयज्ञाने73 संवित्तिः परमार्थतः इति ॥

” नानार्थकस्थले शब्दार्थयोरभेदासम्भवः
एवं इन्द्रियजेष्विव शाब्देष्वपि प्रत्ययेषु न शब्दस्वरूपमध्यस्यतीति युक्तम् । यदि च शब्दः स्वरूपेणार्थं प्रतिपादयति, तदा अक्षशब्दस्यैक्यात् देवनविभीतकरथाक्षेषु74 तुल्या प्रतीतिः स्यात् । न चाक्षशब्दाः75 भिन्ना इति वक्तव्यम्, स्वरूपप्रत्यभिज्ञानानपायात् । तदुच्चारणे चार्थत्रव्यां संशयदर्शनात् ॥

भवतिशब्दयोश्च सुप्तिङन्तयोः तुल्यरूपत्वात् । अध्यासपक्षे तुल्यार्थप्रतीतिहेतुत्वं प्राप्नोति । तथा च सिद्धसाध्यबुद्धिः76 संवेद्यमानाऽपि निह्नूयेत । एवमगादित्यश्व इति, अजावय इत्यादावपि द्रष्टव्यम् ॥ शब्दे अर्थाध्यासः विरुद्धश्च
शब्दस्य सिद्धरूपत्वात् तदध्यासेनार्थबुद्धाविष्यमाणायां “यजेत” “दद्यात्” “जुहुयात्” इत्यादौ न क्वचित् साध्यबुद्धिर्भवेत्, सिद्धाध्यासेन साध्यबुद्धेरननुरूपत्वात्77

जातिगुणक्रियाशब्दाश्च गौः शुक्लो गच्छतीत्यादयः केन कारणेन नियतमध्यासमनुरुन्धत इति नावगच्छामः । शब्दस्यार्थानपेक्षनिसर्गसिद्धवैश्वरूप्यकल्पनाबीजाभावात् । प्रतिनियतशब्दवृत्तेश्च कस्यचि ल्लक्षणस्यानुपलक्षणात् । वृक्षप्लक्षशब्दयोश्च घटपटशब्दयोरिव स्वरूपभेदा विशेषात्, अर्थानपेक्षित्वाच्च विशेषणविशेष्यभावसामानाधिकरण्ये शब्दाध्यासवादिनो न भवेताम् । न ह्येकत्र वस्तुनि वाच्ये क्वचिदनयोः शब्दयोर्वृत्तिः ॥

एतेन नीलोत्पलमपि प्रत्याख्यातम् ॥ शब्दविवर्तवादे सामानाधिकरण्यासम्भवः
तत्रैतत्स्यात्—न नीलगुणविशेषितमिदं उत्पलं नाम किञ्चिदस्ति विशेष्यम्, अपि तु तत् निरस्तावयवार्थं अश्वकर्णादिवत् अर्थान्तरमेवेदं;78 व्युत्पत्तिप्रकारमात्रं तु विशेषणविशेष्यभाववर्णनमिति—तदेतदसमीचीनम्—अनुभूयमानावयवार्थप्रतीतिनिह्नवनिर्मित्तानुपलम्भात् । अश्वकर्णादौ हि युक्तमर्थान्तरत्वं; तत्र हि नाश्वार्थः, न कर्णार्थः । निरवयववाक्यार्थवादश्च प्रागेव विस्तरेण निरस्त इत्यलं पुनरुक्तालापेन ॥ शब्दविवर्तवादे पर्यायपदानां सामानाधिरकरण्यं स्यात्
अथ शब्दद्वयाध्यासमात्रनिबन्धनमेव सामानाधिकरण्यं “वृक्षः” “प्लक्षः” इत्युच्यते—तदपि न चारु—वृक्षस्तरुरितिपर्याययोरपि तत्सम्भवे सति सामानाधिकरण्यप्रसङ्गात् ॥

अपि च पर्यायेषु “हस्तः” “करः” “पाणिः” इत्यादिषु शब्दरूपभेदाध्यासपक्षे अर्थबुद्धिभेदः प्राप्नोति । न चासावस्तीति नाध्यासः ॥

किञ्च सम्बन्धग्रहणनिरपेक्षोऽपि शब्दः स्वसामर्थ्यमनुरुध्यमानः स्वाध्यासेन बुद्धिं विदध्यात् । तदपेक्षायां वा कस्य केन सम्बन्ध इति न बुध्यामहे—शब्दादर्थस्य पृथग्व्यवस्थितात्मनः त्वन्मते दुर्लभत्वात् । शब्दव्यतिरिक्तार्थोपगमे वा किमनेन शब्दाध्याससमर्थनाडम्बरेण ? विरम्यताम् अतो मृगतृष्णानुसरणरणिकात् ॥ शब्दे अर्थाध्यासासम्भवः
अपि चाध्यासः क्वचित्सादृश्याद्भवति, शुक्ताविव रजतस्य । क्वचिदनुरागाद्भवति,79 लाक्षाया इव स्फटिके । शब्दार्थयोर्मूर्तामूर्ततयाऽतिदूरभिन्नस्वरूपयोः सादृश्यं तावदनुपपन्नम् । अनुरागोऽपि तत एव दुर्घटः, पृथग्देशत्वात्, भिन्नेन्द्रियग्राह्यत्वाच्च ॥ शब्दार्थयोर्बिम्बप्रतिबिम्बभावासम्भवः
प्रतिबिम्बवर्णनमपि न सुन्दरम्, दूरदेशत्वेन शब्दार्थयोः प्राप्त्यभावात् । अप्राप्तयोश्च प्रतिबिम्बे द्वारकोद्याननिवासिवासुदेवसुन्दरीवदनतामरसानि सागरतरङ्गपवनपरिचयचलदलकलतिकालाञ्च्छितानि स्वच्छेषु ज्योत्स्नावदातद्युतिषु तुषारगिरिगह्वरगततुहिनशिलाकर्पूरदर्पणेषु प्रतिबिम्बितानि दृश्येरन् ॥

अथ80 सर्वगतत्वेन शब्दानामर्थदेशे प्राप्तिरभिधीयते, तर्हि सकलशब्दसार्थसाधारण्यात् अत्यन्तमध्याससाङ्कर्यम् अनवधार्यमाणविशेषनियमकारणमापद्यत इत्यलमतिप्रसङ्गेन । सर्वथा न सम्बद्धः शब्दाध्यासवादः ॥ विवर्तवाद एवासमर्थनीयः
विवर्तवादोऽपि न समञ्जसः । तथा हि—“विवर्ततेऽर्थभावेन”81 इति कोऽर्थः ? न तावदर्थात्मना शब्दः परिणाममुपयाति, क्षीरमिव दधिरूपेण, परिणामित्वेन विकारितया वा क्षीरादेरिवानित्यत्वप्रसङ्गात् । तथाभावेऽपि च नाद्वैतसिद्धिः दध्न इव क्षीरविकारस्य, शब्दविकारस्यार्थस्य ततोऽन्यत्वात् । अन्यत्वाच्च बाधकारणकालुष्याद्युपप्लवविरहप्रतीतिसमर्पितभेदत्वात् ॥ अर्थप्रतिभासस्यायथार्थत्वपक्षनिरासः
अथार्थप्रतिभासमसत्यमपीन्द्रजालवदुपदर्शयति शब्द इत्ययं विवर्तोऽर्थः, सोऽपि न युक्तः । बाह्यस्य वस्तुनः पदाभिधेयस्य जातिव्यक्त्यादेः, वाक्यवाच्यस्यापि भावनादेः पूर्वप्रसाधितत्वात् । अवयवव्यादेश्चादूर एवाग्रे समर्थयिष्यमाणत्वात् । न चेन्द्रजालमायादिवदयथार्थतायामिह किमपि कारणमुत्पश्यामः ॥ अर्थानां मिथ्यात्वपक्षनिरासः
अथार्थरूपेण शब्दः शुक्तिरिव रजताकारतयाऽवभासत इतीयं विवर्तवाचो युक्तिः—इयमपि न साधीयसी—शुक्तिका हि रजतवत्प्रकाशत इति शक्यं वक्तुम्, शुक्तेराकारसारूप्येण तथाऽवभाससम्भवात् । इह तु शब्दार्थयोरत्यन्तविसदृशवपुषोराकारसमारोपकारणानवधारणात् कथमितररूपेणेतरस्यावभासः । शुक्तिकारजतादिषु च बाधकवशात् तथात्वमवगतम् । इह तु न बाधकं किञ्चिद्भवति, भविष्यति वेति वर्णितम् ॥ शब्दानुवेधोऽपि न साधीयः
अथ स्वानुवेधमजहत् सत्यामसत्यां वाऽर्थबुद्धिमादधाति शब्द -त्ययं विवर्तार्थः—एषोऽपि सम्प्रत्येव प्रतिक्षिप्तः । शब्दानुवेधविरहिणीनां प्राचुर्येण प्रतिपत्तीनां प्रदर्शितत्वात् । न चान्यः कश्चिद्विपश्चिच्चेतसि विवर्तते विवर्तप्रकारः इत्यवाचकमुच्यते—“विवर्ततेऽर्थभावेन” इति ॥ शब्दस्य जगत्स्रष्टृत्वनिरासः
अथ शब्दब्रह्मैव सृजति जगदित्ययं विवर्तप्रकार उच्यते—सोऽपि न सम्यक्—अचेतनत्वेन शब्दस्य ईश्वरस्येव स्रष्टृत्वानुपपत्तेः । न च परमाणुवदस्य कारणत्वम्, अवयवसमवायित्वेन82 पृथिव्यादेः कार्यस्य ग्रहणात् ॥

अथ “विज्ञानमानन्दं ब्रह्म” इत्यागमवचनमनुसरता विभुत्वमिव चेतनत्वमपि शब्दब्रह्मणो वर्ण्यते—तर्हि ईश्वरस्यैव शब्दब्रह्मेति नाम कृतं स्यात् ॥ ब्रह्मद्वैविध्यनिरासः
यदप्युच्यते— “ द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म,83 परं च यत् ।
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति

” इति—तदापि ब्रह्म सुभिक्षमत्यन्तमलौकिकम्84 । एकतरस्य ब्रह्मणः काल्पनिकत्वात् । अकाल्पनिकत्वे वा कथमद्वैतवादः85 । तस्मात् कृतमनेन शब्दब्रह्मणा । स्वस्ति परस्मै ब्रह्मणे भूयात् ॥

अविद्यामायाविनिर्मितविविधभेदप्रथनकल्पश्च सत्ताद्वैतदूषणावसर एव निवारित इति शब्दाद्वैतमपि तद्बदसमञ्जसमिति सिद्धम् ॥ जगतः ब्रह्मोपादानत्वनिरासः
एतेन परमात्मोपादानत्वमपि86 प्रत्युक्तम् । परमात्मनो निसर्गनिर्मलस्य एवम्प्रायकलुषविकारकारणत्वानुपपत्तेः ॥

असत्यमेव विकारजातं अविद्यातः परमात्मनि विभातीत्येतदपि दूषितम् । अतः सर्वथा नाद्वैतपक्षः कश्चिदनवद्यः ॥ ऐकात्म्यवादेऽनुपपत्तयः
अथ सर्वप्राणिनामेक एवात्मा, न नानात्मानः—इतीदृशमुच्यते— तदप्यप्रमाणकम्—एकस्मिन् सुखिनि न सर्वे सुखिनः, एकस्मिन् दुःखिते न सर्वे दुःखिताः इति व्यवस्थादर्शनात् । आत्मपरव्यवहारस्य च सर्वजनप्रतीतिसिद्धस्य दुरपह्नवत्वात् । अन्यदृष्टे च सुखदुःखसाधने वस्तुनि स्मरणानुसन्धानपूर्वकेच्छाद्वेषादिकार्यजातस्यान्यत्रानुपलम्भात् । एकस्मिंश्च वीतरागे मोक्षमासादितवति संसारिणामन्येषामानन्त्यदर्शनात् ॥

अहम्प्रत्ययस्य प्रत्यगात्मवृत्तेः परत्रासम्भवात्87 । जगद्वैचित्र्यस्य च पुरुषभेदनियतधर्मनिबन्धनस्यान्यथानुपपत्तेः । आत्मभेदस्य विस्पष्टसिद्धत्वात् ॥

तप्तलोहस्फुलिङ्कघटाकाश पादवेदनादिदृष्टान्तकदम्बकस्य च निषेधः कृत एवेति एकात्मवादोऽपि न युक्तिमानित्यलं विस्तरेण ॥ शब्दविवर्तवादोपसंहारः
शब्दस्यायं विवर्तः कथमखिलमिति प्रस्फुरत्तद्विविक्त-
स्वाकारोऽर्थप्रपञ्चः कथमिव विकृतिः ब्रह्मणो वेदृशी स्यात् ।
तस्मान्नानात्मतत्त्वो88 परिचितसदसत्कर्मपाकानुसार-
प्रादुर्भूतेश्वरेच्छावशविचलदणुप्रोद्भवो भूतसर्गः ॥

विज्ञानाद्वैतवादः
एवं स्थितेषु सर्वेषु तूष्णीमद्वैतवादिषु ।
विद्वानाद्वैतवादी तु पुनः प्रत्यवतिष्ठते ॥

सत्यमनुपजननमनपायमपरिमितमद्वयं ब्रह्म न युक्तिमदिति युक्त एव तदनभ्युपगमः । विज्ञानमेव तु क्षणिकं उपजननापायधर्मकं अनादिसन्तानप्रबन्धप्रवृतमिदं तथा तथाऽवभातीति न ततोऽद्वितीयमर्थरूपं नाम किञ्चिदस्तीति पश्यामः ॥ विज्ञानाद्वैतसमर्थनम्
ननु ! प्रत्यक्षादिना प्रमाणेन परस्परविसदृशपदार्थस्वरूपसंवेदनस्य दर्शितत्वात् कथं विज्ञानस्यायमवभासः, अर्थाभावे तत्स्वरूपानुपपत्तेः । ग्राह्यग्रहणं हि नाम विज्ञानं भवति, न ग्रहणग्रहणमिति89

उच्यते—इदं तावत्परीक्ष्यताम् । यदेतत् प्रत्यक्षविज्ञानं “नीलमिदम्” “पीतमिदम्” इत्युत्पद्यते, तत्र किमेक आकारः प्रकाशते, उत द्वितयमिति ॥ आकारद्वयानुपलम्भः
यदि द्वितयमवभाति अयमर्थो नीलम्, इदं तज्ज्ञानमिति, तत् किमत्र विचार्यते, जितं भवद्भिः । जितस्य यदापद्यते तदस्मासु विधीयताम्90

अथ एक एवायमाकारः प्रथते, तर्ह्यस्ति विचारावसरः । कस्यायमाकारः, किमर्थस्य, किं ज्ञानस्येति । स चैवं विचार्यमाण आकारः यद्यर्थस्येति तद्भवन्तो जेष्यन्ति । ज्ञानाकारपक्षे तु वयं जेष्याम इति ॥ ज्ञानस्यावर्जनीयत्वम्
किं तावदत्र युक्तम् । ज्ञानस्यायमाकार इति । कुतः ? कल्पना तावदिहाल्पीयसीति । अर्थाकारपक्षे हि अर्थस्य जडात्मनः प्रकाशा योगात् ग्राह्यत्वमन्यथा91 न स्यादिति ग्राहकान्तरकल्पनाऽवश्यम्भाविनीति कल्पनाद्वैगुण्यम्92

अथार्थ एव ग्राह्यात्मा यः, स एव ग्राहक इति—कथ्यते, स तर्हि प्रकाश93 एवेति सञ्ज्ञायामेव विवादः स्यात् । बाह्याभ्यन्तरकृतो विशेषं इति चेत्, अहो विशेषज्ञो देवानाम्प्रियः । ग्राहकाद्विच्छिन्नता हि ग्राह्यस्य बाह्यता । न शरीरापेक्षिणो बाह्यता भवति । यदा च ग्राह्यादर्थात् अव्यतिरिक्त एव ग्राहक इष्यते, तदाऽस्य न ततो विच्छिन्नतेति अबाह्यत्वात् ज्ञानमेव तदिति कथं न नाम्नि विवादः ॥

उभयसिद्धत्वात् ज्ञानस्य तस्यायमाकारी भवितुमर्हति । ज्ञाने हि न केचन विवदन्ते । अतस्तस्यैवायमाकार इति युक्तमनेककल्पनातो ह्येकार्थकल्पना ज्यायसीति ॥ ज्ञानस्यावश्यकत्वे हेत्वन्तरम्
अतश्च ज्ञानस्यायमाकारः । ज्ञानं हि प्रकाशकम् अप्रकाशस्यार्थस्य भवद्भिरभ्युपगम्यते । ततश्च अर्थात् प्रथमतरमस्य ग्रहणेन भवितव्यम् । अगृहीतस्य दीपादेः प्रकाशस्य प्रकाशकत्वादर्शनात् । उत्पन्नेष्वपि च घटादिष्वर्थेषु प्रकाशवैकल्याद्वा, प्रतिबन्धवैधुर्याद्वा भवत्यग्रहणम् । ज्ञानस्य तूत्पन्नस्य सतः न किञ्चिद्ग्रहणे प्रतिबन्धकः । न च प्रकाशकान्तरापेक्षणम्, स्वत एव दीपवत् प्रकाशस्वभावत्वात्94 । अतः यदैव तस्योत्पादः, तदैव ग्रहणमवश्यं भवेत् । न चेत् कालान्तरेऽपि न स्यात् ॥ ज्ञानस्य स्वप्रकाशत्वम्
किं हि तस्य कालान्तरे भविष्यति, किं वा तदा नाभूत्; येन तत् कालान्तरे ग्रहीष्यते, तदा च न गृह्यत इति । ज्ञानान्तरेण कालान्तरे तद्ग्रहीष्यत इति चेत्, तदपि केन ग्राहीष्यते ? अन्येनेति चेत्, तदप्यन्येनेति कोऽवधिः ? श्रम इति चेत्, कामं श्रान्तो विरंस्यति भावन्, अर्थं तु न गृहीतवानेव, प्रकाशाग्रहणे तत्प्रकाश्यपरिच्छेदायोगादित्येवं न कदाचिदर्थग्रहणं स्यात् । तस्मादर्थग्रहणवादिनापि पूर्वं ज्ञानग्रहणमवश्याश्रयणीयम् । यथोक्तं— “ यस्य ज्ञानं न प्रत्यक्षम्, तस्य तद्विषयस्याप्यभानमेव ॥अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति इति ॥

” प्रथमं ज्ञानस्यैव भानम्
अतश्चैतदेवम्—ज्ञानपृष्ठेन चोत्तरकालभाविप्रत्यवमर्शदर्शनात् । “ज्ञातो मयाऽयमर्थः” इति हि प्रत्यवमृशन्तः प्रमातारः प्रथमं ज्ञानग्रहणमनुमोदन्ते । न ह्यगृहीतविशेषणा विशेष्यबुद्धिर्भवति । तस्मादपि पूर्वं ज्ञानग्रहणमिति सिद्धम् ॥

ज्ञानं च गृह्यमाणं आकाररहितं ग्रहीतुमशक्यमिति बलात् साकारमेव तत् ग्रहीतव्यम् । साकारे च ज्ञाने गृहीते सतिद्वितीयस्य ग्राह्यस्याभावादिति भावः ॥ द्वितीयकारणाभावात् कुतो ज्ञानातिरिक्तो बाह्योऽर्थः ? ज्ञानस्य विषयसम्बन्धात्साकारत्वम्
इतश्च साकारं ज्ञानम्, आकारवत्तामन्तरेणास्य प्रतिकर्मव्यवस्थानुपपत्तेः । कल्पयित्वाऽपि बाह्यमर्थम् अवश्यमाकारवत्ता विज्ञानस्य विषयनियमसिद्धये वक्तव्या । नीलज्ञानं हीदं अनेकसन्निधाने समुपजायमानं कथमखिलतदितरपदार्थपरिहारेण केवलनीलालम्बनतामवलम्बेत ? बोधस्वभावतायाः सर्वान् प्रत्यविशिष्टत्वात् । प्रवृत्तिरपि प्रेक्षापूर्वकारिणां कथं तदेकविषयैव स्यात् । न च नीलजनितत्वकृत एष तदधिगमनियम इति कथयितुमुचितम्, आलोकलोचनादिकारकान्तरजनितत्वस्यापि भावेन तद्विषयत्वप्रसङ्गात् । अतो नीलाकारतैव95 नीलविषयत्वव्यवस्थाहेतुः न निमित्तान्तरम् । आह च— “ तत्रानुभवमात्रेण ज्ञानस्य सदृशात्मनः ।
भाव्यतेऽनात्मना96 येन प्रतिकर्म विभज्यते इति ॥

” ज्ञानस्यैव प्रमाणत्वं फलत्वं च
अत एव आकारग्रहणमेवातिशयमाश्रित्य तमबर्थसमर्थने सति साधकतमं ज्ञानमेव प्रमाणं भविष्यति । अपरथा कारकातिशयदर्शनाभावे तत्तत्साधकतमत्वस्य दुरुपपादत्वात् । साकारज्ञानसाक्षी च लौकिकोऽपि दृश्यते व्यवहारः । एवं च वक्तारो भवन्ति लौकिकाः, “नीलोऽर्थोऽयं, यतोऽत्र तदाकारं ज्ञानमुत्पन्नम्”, इति । तेन प्रतिकर्मनियमान्यथानुपपत्तेः अवश्यं साकारमेव97 ज्ञानम् ॥

इत्थं सत्यपि बाह्येऽर्थे ज्ञानस्याकारकल्पना ।
भवेदेवेति तत्रैव सन्तुष्य स्थीयतां वरम् ॥

विज्ञानवादिन सौन्त्रान्तिकखण्डनम्
ये तु ब्रुवन्ते—ज्ञानस्य स्वतः स्वच्छत्वभावत्वेन नीलपीताद्यवभासः परोपाधिरेव भवितुमर्हति, स्फटिकस्येव लाक्षादिनाऽरुणिमाद्यनुवेधः । अतः पृथगननुभूयमानोऽपि बाह्योऽर्थः साकारज्ञानावभासान्यथाऽनुपपत्त्याऽनुमीयते । यथोकतं—“बाह्यसिद्धिः स्याद्व्यतिरेकतः” इति98

तदिदमनुपपन्नम्—अन्वयानुपलब्धेः— “ अर्थे हि सति साकारं निराकारं तदत्यये ।
नित्यानुमेयबाह्यार्थवादी ज्ञानं क्व दृष्टवान् ॥


लाक्षास्फटिकादौ तु तथा युक्तम्, तदनुरक्तस्फटिकशकलावलोकनात् । इह पुनः—

अर्थेन रज्यमानं हि निराकारं निसर्गतः ।
ज्ञानं न खलु पश्यामः लाक्षया स्फटिकं यथा ॥

आकारद्वयं तु अनुभवविरुद्धम्
आकारद्वयप्रतिभासो हि नास्तीत्युक्तम् । अभ्युपगमे वा सुदुस्त रमनवस्थादूषणम् । अर्थाकारश्च प्रत्यक्षः, तत्कृतश्च ज्ञानाकारः प्रत्यक्षः इत्युच्यमाने, अर्थाकारस्तावत् साकारेण ज्ञानेन गृहीतः । स इदानीं ज्ञानाकारोऽपि ग्राह्यत्वात् साकारज्ञानान्तरं भवेत् । तदपि साकारं ज्ञानान्तरं तथाभूतज्ञानान्तरग्राह्यमेव स्यादित्यनिष्टम् ॥

अथ स्वप्रकाशं तत् साकारं ज्ञानमिष्यते, तेन ज्ञानान्तरानपेक्षणात् नानवस्थेति; तर्हि स्वप्रकाशसाकारज्ञानव्यतिरिक्तार्थाकारानवभासात् तदेवास्तु, कुतो द्वितीय इदानीमर्थाकारः ॥ विषयमिथ्यात्वेऽपि ज्ञानस्याकारसम्भवः
न चान्यथानुपपत्त्याऽपि99 तत्कल्पना युक्तिमती । न हि राजशासनमिदं अर्थेनाकारवता भवितव्यमिति । ज्ञानमेव नीलाद्याकारं यदि भवेत् को दोषः स्यादिति । नीलाद्याकारयोगात् अर्थस्स भवेदिति चेत्, सञ्ज्ञायां विवाद इत्युक्तम् । द्वितीयस्याभावात् स्वच्छत्वात् ज्ञानस्य कालुष्यमन्यकृतं युक्तमिति चेत्, अविद्यावासनाकृतं तद्भविष्यति । स्वतः स्वच्छमपि ज्ञानमनाद्यविद्यावासनाविभवोपनतमनेकाकारकालुष्यरूषितवपुरिव प्रकाशते ॥

ज्ञानवासनाभेदसन्तानयोश्च बीजाङ्कुरवदनादित्वान्नात्र पर्यनुयोगस्यावसरः—“कुतो वासना प्रवृत्ता” इति । तस्मादनादिवासनावैचित्र्यरचितज्ञानवैचित्र्योपपत्तेः कृतमनुमेयेनापि बाह्येनार्थेनेति ज्ञानस्यैवायमाकार इति सिद्धम् ॥ ज्ञानातिरिक्तार्थनिराकरणम्
अतश्च ज्ञानस्यैवायमाकारः, ज्ञानेन विना हि न क्वचिदर्थरूपमुपलभ्यते । ज्ञानं त्वर्थरहितमपि गन्धर्वनगरमायादिषु विस्पष्टमुप लभ्यते इत्यन्वयव्यतिरेकाभ्यामपि ज्ञानाकारत्वमवगच्छामः । यदि च ज्ञानादर्थः पृथगवस्थितात्मा भवेत्, ज्ञानमन्तरेणाप्यसावुपलभ्येत; न चैवमस्ति । तस्मादभेद एव ज्ञानार्थयोः । यदाह— “ सहोपलम्भानियमादभेदो नीलतद्धियोः इति ॥

” आकारस्य ज्ञानार्थमेलनकृतत्वनिरासः
न च ज्ञानार्थसंसर्गधर्म100 आकारो भवितुमर्हति । यदि हि पृथगर्थमनाकारं, पृथक्च ज्ञानमानाकार उपलभ्य, संसृष्टयोर्ज्ञानयोराकारवत्ता मुपलभेमहि, तत इममाकारं संसर्गधर्मं प्रतिपद्येमहि । न त्वयमस्ति क्रमः । अर्थरहितत्वेऽपि च स्मरणस्वप्नादिज्ञानानामाकारवत्त्वमस्तीत्युक्तम् । अतः कथं संसर्गधर्म आकारः ? अर्थाकाराणां कल्पितत्वमावश्यकम्
अपि च नक्षत्रं तारका तिष्य इति कथमेकस्मिन्नर्थे परस्परविरुद्धलिङ्गसमावेशः ? ॥

परिव्राजककामुककौलेयकानां च कथमेक एव वनितारूपोऽर्थः कुणप इति कामिनीति भक्ष्यम् इति च प्रतिभासत्रितयविषयतामनुभवेत् ? ॥

दारा इति कथमेकैव स्त्रीव्यक्तिः पुंवचनबहुवचनविषयतां यायात् ? ॥

षण्णगरिति च कथं बहनामन्यलिङ्गानामेकता स्त्रीलिङ्गता च भवेत् ? ॥

ह्रस्वदीर्घयोश्च101 कथं परस्परापेक्षग्रहणयोरर्थेनैकतर आकारः पारमार्थिकः स्यात् ? ॥

ज्ञानानां तु भिन्नत्वात् विचित्रवासनाभेदसहकारिरूपानुविधानेन जायमानानां न किञ्चिदपि विरोधः ॥

तस्मात् ज्ञानमेवेदं सर्वत्र तथा तथा प्रतिभाति, न तद्व्यतिरिक्तो ऽर्थो नाम किञ्चिदिति ज्ञान एव चैकत्रायं प्रमाणप्रमेयप्रमितिव्यवहारः परिसमाप्यते । तस्य हि विषयाकारता प्रमेयम्, ग्राहकाकारता प्रामाणम्, स्वसंवित्तिश्च102 फलमिति । यथोक्तम्— “ यदाभासं प्रमेयं तत् प्रमाणफलते पुनः ।
ग्राहकाकारसंवित्त्योः त्रयं नातः पृथक्कृतम् इति ॥


तदिदं अनाद्यविद्यावासनाविलासविपर्यासिततत्त्वदर्शनतया ज्ञानमेव ग्राह्यग्राहकसंवित्तिभेदवदिव लक्ष्यते । अविद्याविरतौ तु स्वच्छमेव तत्सम्पद्यते, न किञ्चिद्वेति ॥

तदुक्तम्—

ऽनान्योऽनुभाव्यो बुद्ध्याऽस्ति तस्या नानुभवोऽपरः ।
ग्राह्यग्राहकवैधुर्यात् स्वयं सैव प्रकाशते ॥

तथा— “ अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः ।
ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥


इत्यर्थरूपरहितं संविन्मात्रं किलेदमिति पश्यन् ।
परिहृत्य दुःखसन्ततिं अभयं निर्वाणमाप्नोति ॥

विज्ञानाद्वैतनिरासः
अत्राभिधीयते—न खल्वेक एव बोधात्मा ग्राह्यग्राहकतयोभयस्वभावो भवितुमर्हति । ग्राह्यग्राहकरूपयोरितरेतरविसदृशत्वेन एकत्र समावेशानुपपत्तेः । तथा हि—नीलज्ञानम्, पीतज्ञानम्, शुक्लज्ञानमिति नीलपीताद्युपजननापायेऽप्यनुवर्तमानबोधरूपतया नीलादिविलक्षणमन्वयव्यतिरेकाभ्यामवधार्यते ॥

अपि च ज्ञानम् अहङ्कारास्पदम् आनन्दादिस्वभावं स्वकर्मणि103 च सव्यापारमिव भवद्भिरभ्युपगतम् । अर्थस्तु नैवमात्मक इति कथमनयोरभेदः ॥ प्रतीयमानः आकारः अर्थस्यैव
यद्यपि ज्ञानमिदम्, अयमर्थ इत्येवमाकारद्वयप्रतिभासो नास्ति, तथाप्ययमेकोऽप्याकारः104 प्रतिभासमानः प्रकाश्य एव प्रतिभाति, न प्रकाशकः । इदं नीलमिति ग्राहकाद्विच्छिन्न एव ग्राह्याकारोऽवभासते, न त्वहं नीलमिति तदैक्येनावभासोऽस्ति इति ॥

अपि च प्रकाश्यस्य नीलादेः प्रकाशकबोधाधीनं युक्तं नाम ग्रहणम् । बोधस्य तु तद्ग्राहकस्य तदा किङ्कृतं ग्रहणमिति चिन्त्यम् । न बोधान्तरनिबन्धनम्, अनवस्थाप्रसङ्गात् । नापि स्वप्रकाशं ज्ञानम्, अहं नीलमित्यप्रतिभासात् ॥ अर्थस्य प्रकाशसम्भवाक्षेपः
ननु ! नैव ग्राह्यग्राहकयोरन्यत्वमिति । योऽयं ग्राह्यावभास इति भवताऽभ्युपगतः, स एव ग्राहकावभासः । ग्राहकादन्योऽहि ग्राह्यः जडात्मा105 भवेत् । ग्राहकस्तु प्रकाशस्वभावः, ग्राहकत्वादेव । द्वयप्रतिभासश्च नास्तीत्युक्तम् । तत्रान्यतरस्य प्रतिभासने जडप्रकाशयोः कतरस्यावभासितुं युक्तमिति चिन्तायां, बलात् प्रकाश एव प्रकाशते, न जडः । निराकारश्च न प्रकाशः प्रकाशत इति तस्मिन् साकारे प्रकाश्यमाने कुतो जडात्मा तदतिरिक्तोऽर्थः स्यात् ॥ अर्थप्रकाशे ज्ञानप्रकाशासम्भवप्रदर्शनम्
तदिदमपेशलम्—उपायेनोपेयनिह्नवस्याशक्यकरणीयत्वात् । रूपस्य हि प्रकाशकं चक्षुः । न चक्षुरेव प्रकाशतामित्युक्त्वा रूपमपह्नोतुं शक्यते । तदिदमर्थस्य मूर्तिद्रवत्वकाठिन्यादिधर्मविशेषितात्मनः तद्विपरीतस्वच्छस्वभावं ज्ञानं प्रकाशकम्, न तदेव चक्षुर्वत् तदाऽवभासितुमर्हति च ॥ ज्ञानानवभासेऽपि अर्थप्रकाशसम्भवः
ननु ! चक्षुर्वत् उपायत्वं ज्ञानस्य प्रकाशस्वभावत्वात् । चक्षुर्जन्यो हि प्रकाशो नाम ज्ञानमुच्यते, न चागृहीतः प्रकाशः प्रकाश्यं प्रकाशयतीति—सत्यम्—वक्षुर्जन्यः प्रकाशः ज्ञानमिष्यते । स तु प्रकाशः रूपादिविषयप्रकाशः, न प्रकाशप्रकाशः । न हि चक्षुषा प्रकाशः प्रकाश्यते, अपि तु रूपं प्रकाश्यते । तत्र यद्रूपमुच्यते, स विषयो ग्राह्यः; यत्तत्प्रकाशते इत्युच्यते, स प्रकाशः ज्ञानं ग्राहकम् । तदुत्पत्तिमात्रेण106 च रूपं प्रकाशितं भवतीति न प्रकाशो ग्रहणमपेक्षते ॥ ज्ञानप्रकाशे बाह्यविषयानवभासप्रसङ्गः
ननु ! उक्तमत्र नानुपलब्धायां बुद्धावर्थः प्रकाशते— “ अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति


इति—तदयुक्तम्—अप्रत्यक्षोपलम्भस्य च प्रत्युत अर्थदृष्टिः प्रसिद्ध्यति । उपलम्भोत्पाद एव अर्थदृष्टिः, न पुनरुपलम्भदृष्टिः ॥

ननु ! उपलब्धेरग्रहणे तदुत्पादनुत्पादयोः अविशेषात्, अनुत्पन्नोपलम्भस्याप्यर्थः प्रत्यक्षः स्यादिति सर्वसर्वज्ञत्वप्रसङ्गः—तदिदमतिसुभाषितम्—अर्थप्रकाशात्मैव खलूपलम्भः । स कथमुत्पन्नादनुत्पन्नो न विशिष्येत । तस्मात् अर्थप्रत्यक्षीकरणात्मकत्वात् ज्ञानस्य तदुत्पाद एवार्थप्रत्यक्षता, न तद्ग्रहणमिति अगृहीतमेव ज्ञानमर्थप्रकाशकमिति युक्तमं ॥ ज्ञानाग्रहण एवार्थग्रहणम्
यत्तु उपायत्वात् ज्ञानस्य पूर्वं ग्रहणमुच्यते—तत्, चक्षुरादिभिरनैकान्तिकमित्युक्तम् ॥

गृहीतं यदि च ज्ञानं भवेदर्थप्रकाशकम् ।
धूमवद्दीपवद्वेति वक्तव्यं, यदि धूमवत् ॥

भवेदर्थानुमेयत्वं तत्त्वयैव च दूषितम् ।
आकारद्वयसंवित्तिविरहान्न च दीपवत् ॥

घटं दीपेन पश्यामीत्यस्ति द्वितयवेदनम् ।
न तु ज्ञानेन विज्ञेयं जानामीति द्वयग्रहः ॥

स्वप्रकावस्त्वसम्भवः
यदपि प्रकाशत्वात् ज्ञानस्य प्रदीपवत् पूर्वं ग्रहणमुक्तम्—तदपिव्याख्येयम्—प्रकाशत्वादिति कोऽर्थः ? प्रकाशयतीति प्रकाशः, तस्य भावः प्रकाशत्वमिति—तत् चक्षुरादिभिरनैकान्तिकमुक्तमेव ॥

अथ प्रकाशनं प्रकाशः, तर्हि प्रकाशत्वादिति असिद्धो हेतुः । न ह्यर्थ ग्रहणकाले बुद्धेः प्रकाशनमस्ति ॥

अथ प्रकाशशब्दो बोधपर्याय एव । प्रकाशत्वात् बोधरूपत्वादित्यर्थः, तदा साधनविकलो दृष्टान्तः, प्रदीपस्य बोधरूपत्वाभावात्107 । अतश्च स्वसंवेदनपक्षो न युक्तियुक्तः, स्वतः प्रकाशस्य कस्य चिदप्यदृष्टत्वात् ॥ स्वप्रकाशपदार्थस्वरूपम्
ननु ! ज्ञानशब्ददीपाः त्रयः स्वपरप्रकाशा इत्याहुः—तदयुक्तम्— शब्ददीपयोः स्वग्रहणेऽर्थप्रकाशने च सामग्र्यन्तरसव्यपेक्षत्वात् । शब्दः अर्थप्रकाशने समयग्रहणमपेक्षते, स्वप्रकाशने तु श्रोत्रम् । दीपोऽपि चक्षुराद्यपेक्ष एव गृह्यते, ग्राहयति चार्थम् ॥

इयांस्तु विशेषः—घटादिग्रहणे आलोकसापेक्षं चक्षुः प्रवर्तते । आलोकग्रहणे तु निरपेक्षमिति । नैतावता दीपस्य स्वप्रकाशता स्यात् । इत्थं108 च मार्जारादिनक्तञ्चरचक्षुरपेक्षया सर्व एव घटादयः स्वप्रकाशाः स्युः ॥

ज्ञानस्य परप्रकाशकत्वमेव दृश्यते, न स्वप्रकाशकत्वम्, अर्थप्रकाशकाले तदप्रकाशस्य दर्शितत्वात् ॥

मुधैव नस्माद्भणितस्त एते
त्रयः प्रकाशाः स्वपरप्रकाशाः ।
प्रदीपबोधध्वनिनामधेयाः
विभिन्नसामग्र्यभिवेद्यवेदकाः ॥

आत्मप्रत्यक्षवादिनां तु109 अवस्थाभेदेन ग्राह्यग्राहकांशयोर्भेदो विद्यत एवेति सर्वथा न स्वप्रकाशं ज्ञानम् ॥ अर्थग्रहणवेलायां न ज्ञानग्रहणसम्भवः
यदप्यभिहितं—उत्पद्यमानमेव ज्ञानं अनपेक्षत्वात्, अप्रतिबन्धत्वाच्च तदैव गृह्यते, न वा कदाचिदिति—तदप्यसाम्प्रतम्—तदानीं तद्ग्रहणसामग्र्यभावात् ॥

न चाविबन्धमात्रेण110 प्रतीतिरवकल्पते ।
उपायविरहेणापि तदा ज्ञानस्य न ग्रहः ॥

न च जैमिनीया इव वयं ज्ञानं नित्यपरोक्षमाचक्ष्महे । “ज्ञातो मयाऽयमर्थः” इति कालान्तरे111 तद्विशिष्टार्थग्रहणदर्शनात् ॥

शुक्लः पट इति ज्ञाने यथाऽसौ भाति तद्गुणः ।
तथा ज्ञातोऽर्थ इत्यत्र भात्यर्थो धीविशेषणः ॥

न विशेष्ये च संवित्तिः अगृहीतविशेषणा ।
नानुसायधियं112 वेत्थं प्रतीयेत क्रमाग्रहात् ॥

न च नित्यपरोक्षा बुद्धिः अनुमातुमपि न शक्यत इति च विचारितमेव ॥

तदलमनया कथया । किमिति शाक्यसुत्सृज्य श्रोत्रियमिदानी मनुयुञ्ज्महे ॥ ज्ञानाग्रहणेऽपि विषयग्रहणम्
अतश्च यदुक्तं ज्ञानपृष्ठावमर्शदर्शनात् ज्ञानग्रहणपूर्वकमर्थग्रहणमिति —तन्न सार्वत्रिकम्, अपि तु क्वचिदेव ज्ञानविशिष्टार्थसंवेदनात् तथाऽभ्युपगम्यते । तस्मात् अर्थग्रहणात् पूर्वं ज्ञानस्यानवभासात् निराकारावसायविरहाच्च ज्ञानस्यैवायमाकार इति कदाशाप्रलपितमेतदरुणाम्बराणाम् ॥ अर्थस्य कल्पनीयत्वं न
यत्पुनरभ्यधायि—ज्ञानाकारपक्षे कल्पनाऽल्पीयसीति—तत्र यथोक्तनीत्या प्रत्यक्षगम्ये बाह्ये ग्राह्येऽर्थाकारे कल्पनोक्तिः कीदृशी । कीदृशं वा तदल्पत्वम् महत्त्वं वेति ॥ अर्थापलापे ज्ञानस्याप्यपलापः स्यात्
उभयसिद्धत्वमपि यदवादि ज्ञानस्य—तत्र यदि प्रमाणायत्ता वस्तुस्थितिः, अर्थोऽप्युभयसिद्ध एव । इच्छाद्वेषनिबन्धनायां तु वस्तुस्थितौ ज्ञानमपि कथमुभयसिद्धं113 स्यादिति यत्किञ्चिदेतत् ॥ ज्ञानाकारमन्तरापि प्रतिकर्मव्यवस्थासिद्धिः
यत्पुनरिदमभिहितं—अभ्युपगम्यापि बाह्यमर्थं अप्रत्याख्येयः प्रतिकर्मव्यवस्थासिद्धये ज्ञानस्याकारयोग इति—तदपि न साम्प्रतम्—प्रतिकर्मव्यवस्थायाः प्रकारान्तरेणाप्युपपत्तेः114

यद्यपि अनेकसन्निधाने नीलज्ञानमुपजायते । यद्यपि च बोधस्वरूपत्वमशेषसाधारणम्, तथापि नीलेनैव कर्मकारकेण तदुपजनितमिति नीलनिष्ठमेवावतिष्ठते । चक्षुरादिनाऽपि तज्जनितमिति चेत्—सत्यं जनितम्—न तु कर्मणा सता । नीलेन तु कर्मभूतेन तदुत्पाद्यत इति तदेकविषयमेव भवति । कुत एष नियम इति चेत्, वस्तुस्वभावकृत एव । आकारपक्षेऽपि समानोऽयं पर्यनुयोगः ॥

यदुच्यते—किमिति नीलमेव कर्मकारकम्, किमिति वा कर्मविषयमेव ज्ञानमिति—तत्र वस्तुस्वभावैरुत्तरं वाच्यम् ॥

आकारमपि115 च ज्ञानमुपाददानं कर्मकारकस्यैव कथमुपाददीत, न कारकान्तरस्य ? इत्यत्रापि वस्तुस्वभाव एव शरणमिति ॥ ज्ञानं प्रति विषयस्य कारणत्वम्
अर्थस्य च ज्ञानजनकत्वं अन्वयव्यतिरेकाभ्यामवगम्यते ॥

यदा हि देवदत्तार्थी कश्चिद्व्रजति तद्गृहम् ।
तत्रासन्निहितं चैनं गत्वाऽपि न स पश्यति ॥

क्षणान्तरे स आयान्तं देवदत्तं निरीक्षते ।
तत्र तत्सदसत्त्वेन तथात्वं वेत्ति तद्धियः ॥

अनागते देवदत्ते न देवदत्तज्ञानमुदपादि, तस्मिन्नागते च तदुत्पन्नमिति तद्भावभावित्वात् तज्जन्यं तदवसीयते । इत्थं च तज्जन्यत्वेनैव तत्र नियमसिद्धेः अलमाकारकल्पनया116

एतेन पुरुषप्रवृत्तिरपि नियतविषया व्याख्याता । साधकतमत्वं तु सामग्र्याः प्रमाणसामान्यलक्षणे निर्णीतमेव ॥

यस्तु लोकिको व्यपदेश उदाहृतः सोऽपि व्यभिचरति । “नीलोऽर्थोऽयम्, यतस्तद्विषयं ज्ञानमुत्पन्नम्” इत्यपि न व्यपदिशन्ति लौकिकाः ? तस्मादर्थे सत्यपि साकारं ज्ञानमेषितव्यमिति यदुक्तं— तदनुपपन्नम् ॥ सहोपलम्भात् न ज्ञानार्थयोरभेदः
यदप्यवर्णि— “ सहोपलम्भनियमादभेदो नीलतद्धियोः


इति—तदपि बालभाषितमिव नः प्रतिभाति, अभेदे सहार्थानुपपत्तेः ॥

अथ “एकोपलम्भनियमात्” इति हेत्वर्थो विवक्षितः—तदयमसिद्धो हेतुः, नीलादिग्राह्यग्रहणसमये तद्ग्राहकानुपलम्भात्117 । ग्राहकाकारानु वेधरहिततद्विच्छिन्नबाह्यग्राह्यमात्रप्रतिभास एवायं “नीलमिदम्” इत्यादिः दर्शितः ॥ सहोपलम्भोऽप्यसिद्धः
क्वचिच्च ग्राह्याकारानुपर्श्लिष्टकेवलग्राहकावमर्शनमर्पि दृश्यते— “न स्मरामि, मया कोऽपि गृहीतोऽर्थस्तदा” इति । तदेवमितरेतरविभक्तज्ञानार्थाकारसंवेदनात् कथम् ॥ “ एकोपलम्भनियमादभेदो नीलतद्धियोः


इत्युच्यते । “नीलतद्धियोः” इति वदता भवताऽष्येष भेद एव निर्दिश्यते ॥

परमतानुवादमात्रमेतदिति चेत्—न—अभेदे पृथङ्निर्देशस्याप्यघटमानत्वात् । तस्मादपि न ज्ञानस्यायमाकारः ॥ ज्ञानार्थयोः भेदः अनुभवसिद्धः
यदप्युक्तं—असत्यपि बाह्येऽर्थे स्वप्नगन्धर्वनगरमायादिषु ज्ञानस्याकारवत्ता दृश्यत इति तस्यैवायमाकारो युक्त इति—तदपि दुराशामात्रम् —सर्वत्र ज्ञानाद्विच्छिन्नस्व ग्राह्याकारस्य प्रतिभासनात् ॥

तथा हि—भ्रमज्ञानेषु चतुष्टयी गतिः—आत्मख्यातिः, असत्ख्यातिः, अख्यातिः, विपरीतख्यातिर्वा118

तत्र “रजतमिदम्” इति सामानाधिकरण्येनैकार्थप्रतिभासात्, तन्मते च संवित्तेरपरोक्षत्वात् रजताधिगमाभिमानेन तदर्थिनस्तत्र प्रवृत्तेः, बाधकप्रत्ययस्य तथाविधबोधनिषेधपरत्वेन प्रादुर्भावात् न तावदख्यातिरिति प्रागेव [प्र। सं। ४५६] प्रासाधितमेतत् ॥ असत्ख्यातिनिरासः
असत्ख्यातिरपि नास्ति, एकान्तासतः स्वपुष्पादेः प्रतिभासायोगात् । देशकालव्यवहितानुभूतपूर्वपदार्थविषय एव भ्रान्तोऽपि प्रत्ययः प्राणभृतां भवति, न त्वत्यन्तासदर्थविषयः ॥ सर्वेषां भ्रमाणां सालम्बनत्वम्
तथा हि—द्विविधा भ्रान्तिः—बाह्येन्द्रियजा, मानसी च । तत्र बाह्येन्द्रियजे भ्रमज्ञाने विषयदोषात्, इन्द्रियदोषाद्वा समुत्पद्यमाने न क्वचित् निरालम्बनता दृश्यते । भास्वररूपसादृश्येन हि विषयदोषेण119 शुक्तिका रजतमिति परिस्फुरति । मरुस्थलीपतितोत्फलितं च सावित्रं तेजः तरलतरङ्गसारूप्येण पय इति चकास्ति । इन्द्रियदोषादपि पित्तोपहतरसनस्य तिक्ततया शर्कराऽवभासते । तिमिरसीमन्तितनयनवृत्तेः चन्द्रमण्डलमेकमपि द्विधा प्रतिभाति । तिमिरकणनिकरविवरविरचित120 प्रसृताश्च नयनरश्मय एव सूर्याशुसंवलिताः सन्तः सूक्ष्मतया केशकूर्चकाकाराः प्रतिभान्तीति ॥ मानसविभ्रमाणामपि सालम्बनत्वम्
अन्तःकरणदोषेण विभ्रमो यस्तु जायते ।
असत्यपि121 महेलादौ पुष्पेषुमुषितात्मनाम् ॥

सोऽपि कश्चित् विषयदोषसहायो भवति । स चालम्बन एव [प्र। सं। २२८] ॥

तस्याः पाणिरिति ज्ञानं यथा भवति कुत्रचित् ।
कोमलानिलकल्लोलवेल्लिते बालपल्लवे ॥

अनपेक्षिततत्तुल्यपदार्थस्यैव या पुनः ।
मानसी मन्मथोन्मादमहिम्ना मानिनीमतिः ॥

तस्यामपि रागादिवासनाबलोपप्लवमानस्मृत्युपस्थापितदेशकालव्यवहितोपलब्धपुरन्ध्रीरूपादिसमुल्लेखः, न त्वेकान्तासतः खरविषाणादेरिव ॥

प्रतिभानिद्रादिमनोदोषजन्मनि स्वप्नेऽपि दृष्टपूर्वस्यैव तस्याकारस्योल्लेखः ॥

जालज्वलागळद्वह्निद्रवद्रव्यादिदर्शने122
रूपमन्यस्थमन्यत्र वेत्ति न त्वसदेव तत् ॥

तदेवं भ्रान्तिबोधेषु नास्त्यत्यन्तासतां प्रथा ।
देशकालान्यथात्वं तु केवलं भाति वस्तुनः ॥

असत्ख्यातिवादे विशेषः
ननु ! तत्रासतोऽर्थस्य प्रतिभासे देशान्तरादिषु सत्त्वं क्वोपयुज्यते ? देशान्तरे हि सन् असन् वा तत्र तावन्नास्त्येव सोऽर्थः । न च द्वयोरसत्त्वयोः123 किञ्चिद्विशेषः । देशकालावपि किं सन्तावसन्तौ वा प्रतिभासेते इति विकल्पनायां तथा तयोरपि तुल्यो दोषः—मैवम्—भवतोऽप्यसत्ख्यातिवादिनः किं सर्वत्रैव तदर्थासत्त्वं सम्मतम्, उत तद्देश एव ? तत्रासन्निधानमात्रेण तावत् क इव तव स्वार्थः124 ? सर्वत्रासतस्तु प्रतिभासे कुतस्त्य एष नियमः—यत् असत्त्वाविशेषेऽपि रजताद्येवासत् प्रतिभाति, न खरविषाणादीति ॥

अयं तु द्वयोरसत्त्वयोर्विशेषः—देशान्तरादिषु सतोऽर्थस्य स्मरणाद्युपारोहेण प्रतिभासमानता युज्यते, न त्वेकान्तासत इति । एवं देशकालयोरपि सदसत्त्वविकल्पचोद्यं परिहर्तव्यम् ॥

अतश्च किञ्चिदपि नात्यन्तासदर्थग्राहि ज्ञानमस्तीति किं दृष्टान्तबलेन सर्वत्रार्थशून्यता कल्प्येत ? तस्मान्नासत्ख्यातिः ॥ आत्मख्यातिनिरासः
आत्मख्यातेस्तु निराकरणाय सोऽयमियान् कलिः वर्तते । तत्र च बहुशः कथितं—ग्राहकाद्विच्छिन्नमेव ग्राह्यमवभासते “नीलमिदम्” इति, न तु तदभेदेन “नीलमहम्” इति । भ्रान्तिज्ञानेषु तदर्थासन्निधानात् भान्तत्वमस्तु, नात्मतत्त्वग्रहणमिति ॥

यच्चोच्यते— “ यदन्तर्ज्ञेयरूपं तत् बहिर्वदवभासते


इति—सेयं विपरीतख्यातिरेवाङ्गीकृता स्यात् । तद्वरं सैव तपस्विनी साधीयसी ॥ अर्थस्य ज्ञानरूपत्वासम्भवः
अथ कथ्यते—ग्रहकात् सत्यम्—इत्यर्धाङ्गीकारे ॥सत्यं विच्छिन्नं ग्राह्यं; तत्तु ज्ञानरूपमेवेति—तत्र विच्छिन्नमिति प्रियमावेदितम् । ज्ञानत्वे तु तस्य का युक्तिः ? न च ज्ञानयोः125 युगपदुत्पन्नयोः क्रमभाविनोर्वा ग्राह्यग्राहकभाव उपपद्यते । यौगपद्ये सव्येतरगोविषाणवत् ग्राह्यग्राहकनियमाभावात् । क्रमपक्षेऽपि पूर्वमुत्तरस्य ग्राहसत्यम्—इत्यर्धाङ्गीकारे ॥कं चेत्—तदुत्पत्तितद्ग्रहणकालप्रतीक्षणात् क्षणिकतां जह्यात् । उत्तरमपि यदि पूर्वस्य ग्राहकं तदापि सैव वार्ता । तावत्कालमवस्थितिमन्तरेण तद्ग्राह्यतानुपपत्तेः । न च ज्ञानत्वं नाम सामान्यं ग्राह्यग्राहकयोरनुगतम्, गोत्वमिव शाबलेयादौ, विभाति । अतो विच्छिन्नश्चेत् ग्राहकात् ग्राह्यांशः, सोऽर्थ एव भवेदिति न ज्ञानस्यायमाकारः ॥ आकारस्य संसर्गधर्मत्वाभावः
यत्तु संसर्गधर्मः आकारो न भवतीति भाषितं, तद्युक्तमेव—

न कुण्डदधिवत् कश्चित् संसर्गोऽस्त्यर्थबोधयोः ।
तत्कृताकारवत्ता वा प्रागनाकारयोस्तयोः ॥

तदेवं शाक्योक्तयुक्तिशकलदौर्बल्यात् सर्वत्र विच्छेदप्रतिभासात् ज्ञानस्य स्दतो वैवित्र्यानुपपत्तेः अर्थस्यैवायमाकार इति सिद्धम् ॥ एकस्मिन्नर्थे न विरुद्धाकारोल्लेखः
यत्तु अर्थाकारपक्षे चोदितं—एकत्रार्थे नक्षत्रं तारका तिष्य इति परस्परविरूद्धाकारसमावेशो न युक्त इति—तत्रोच्यते—अनुपपन्नमिति नः क्व सम्प्रत्ययः, यत् न प्रमाणेनावगतं126 विरुद्धमपि तदवबुद्ध्यामहे, यदेकत्र निविशमानं न पश्यामः । तदिह यद्यबाधितेन ज्ञानेन विस्पष्टमाकारत्रयमेकत्र गृह्यते, तत् कथमनुपपन्नं स्यात् ? कथं वा विरुद्धमिति ॥ नानाकारेष्वन्यतमस्य कल्पितत्वसम्भवः
अथैकं सम्यक्प्रमाणपरिनिश्चितरूपं, इतरत् काल्पनिकमिति प्रतीयते —तदेवमस्तु, को दीषः ? दृष्टश्च चित्रादावनेकवर्णसमावेशः । न चैकत्र विरोधं अविरोधं वा दृष्टवा सर्वत्र तत्कल्पनमुचितम् । अबाधितावगतिनिबन्धना हि वस्तुस्थितयो भवन्ति, न कल्पनानिर्मिताः ॥ शब्दसाधुत्वं व्याकरणाधीनम्
अपि वा वस्तुताद्रूप्यसदसत्तानपेक्षया ।
शब्दप्रयोगसाधुत्वं अन्वाख्यायेत केवलम् ॥

“दाराः” इति नैकस्याः स्त्रीव्यक्तेः पुंस्त्वंहुवं त्व वा विद्यते । शब्दस्त्वेष तत्र प्रयुज्यमानः साधुर्भवति ॥

नार्थासंस्पर्शिता चास्य तावता व्यवतिष्ठते ।
यथैतदात्मकं वस्तु तथा शक्नोति भाषितुम् ॥

सर्वस्य वस्तुनः अनेकरूपस्वम्
परिव्राट्प्रभृतीनां च कुणपादिप्रतीतयः ।
अर्थस्यानेकशक्तित्वात्127 नावहन्त्यर्थशून्यताम् ॥

किं न भक्षयितुं शक्या नारी कौलेयकेन सा ।
किं वा न शमयत्येषा कामिनो मदनज्वरम् ॥

शवाद्वा केन रूपेण सा विशिष्येत योगिनः ।
धीत्रयं तु न सर्वेषां अभावात् सहकारिणः ॥

प्रतिप्राणिनियतानेकविधवासनाभेदसहकारिसापेक्षो हि तस्य तस्य ज्ञानस्यात्मलाभ इति न सर्वेषां सर्वसारूप्येण ज्ञानम् ॥ अर्थानां वासनाकल्पितत्वासम्भवः
यद्येवं वासनाभेद एव विविधप्रतिभोद्भवहेतुर्भवति, किं अर्थकल्पनया ? अयि साधो ! किमद्यापि न परिहरसौ सुचिरं गुणितां128 कल्पनावाचोयुक्तिम् । न ह्यर्थः कल्प्यते, अपि तु प्रतिभासत एव । बहुरूपस्य तु तस्य एकतमरूपपरिच्छेदनियमे किमर्पि वासनादि कारणं क्वचित् कल्प्यते । कस्तावताऽर्थनिह्नवस्यावसरः ॥ वासनाया दुर्निरूपत्वम्
यच्चोक्तं वासनाभेद एव ज्ञानवैचित्र्यकारणम्, इतरेतरकार्यकारणभावप्रबन्धश्च बीजाङ्कुरवदनादिः ज्ञानयासनयोरिति—तदप्यघटमानम्—केयं वासना नाम ? ज्ञानादव्यतिक्ता चेत्, साऽपि ज्ञानादव्य तिरिक्तत्वादेव स्वच्छत्वम् ॥स्वच्छरूपत्वात् न ज्ञानकालुष्यकारणं भवेत् । ज्ञानव्यतिरिक्ता चेद्वासना तद्वैचित्र्यहेतुश्च सोऽर्थ एव पर्यायान्तरेणोक्तः स्यात् ॥ वासनायास्संस्काकाररूपत्वम्
अपि च वासना नाम विषयानुभवसमाहितः संस्कार इति लोके प्रसिद्धिः । संस्कारश्च यदनुभवघटितः, तत्रैव क्वचिदवसरे स्मरणमुपजनयति । न पुनरसदेव वैचित्र्यमिदमीदृशमावहति ॥

किञ्च भिक्षुपक्षे क्षणिकत्वेन ज्ञानानां ग्राह्यग्राहकभाव इव वास्यवासकभावोऽपि निराकर्तव्यः । स्थायिनो हि भावास्तिलादयः स्थायिभिरेव चम्पकादिभिः वास्यन्ते । न तूत्पद्य सपद्येव विनश्यद्भिः ज्ञानैः तादृंश्येव ज्ञानानीति ॥

निरन्वयविनाशाच्च न तदंशोऽनुवर्तते ।
यतः कथश्चिद्वास्येत पूर्वेण ज्ञानमुत्तरम् ॥

वासनावादेऽव्यवस्थापत्तिः
अपि च एकत्र देवदत्तसन्ताने वासनातः सहस्राणि ज्ञानवैचित्र्यकारीणि भवेयुः“ज्ञानानि” इति कर्तृ ॥ । न हि गोवासनातो हस्तिज्ञानमुदेति ॥

अनन्तत्वेऽपि खल्वासां आरम्भे129 नियमः कुतः ?
असमञ्जसकारित्वे व्यवहारस्य विप्लवः ॥

धूमज्ञानसमुत्पादे धूमवासनया कृते ।
किं तदा न जलज्ञानं जनयेज्जलवासना ॥

वासनाश्च वासनासन्तानारम्भहेतव एव भवेयुः, न पुनरनुभवज्ञानमाधातुमुद्यच्छेयुः । सदृशात् सदृशोत्पत्तिरिति हि भवतां दर्शनम् ॥ वासनाया आश्रयानुपपत्तिः
अपि च न निराधारा वासना आसते । न च भवत्पक्षे तदाधारः कश्चन सम्भवति, भङ्गुरत्वेन, ज्ञानस्य तदाश्रयत्वानुपपत्तेः । एकज्ञानाश्रितत्वे सर्वासां वासनानां तद्विनाशे नाशः स्यात् । प्रतिवासनमाश्रयाभेदे तदानन्त्येनानियमश्च शतशाखः ॥ आलयविज्ञानप्रवृत्तिविज्ञानभेदनिरासः
न चालयविज्ञानं नाम किञ्चिदस्ति । सत्यपि तस्मिन्नशेषवासनासहस्रसमाश्रये तत्क्षणिकत्वात्, सकृदेव तथाविधवासनाकुसूलज्ञानविनाशः स्यात् । पुनरुत्पादेऽपि कथं तथाविधं ज्ञानमेव समुत्पाद्येत । त तु गवाश्वादिज्ञानक्रमनियमो भवेत् इति सर्वथा सङ्कटोऽयं पन्थाः । तस्मात् मृगतृष्णिकैषा तपस्विनां वासनात एव लोकयात्रालिद्धेः किं बाह्येनार्थेनेति130

कृतमतिवाचालतया चिरमपि निपुणैर्निरूप्यमाणोऽतः ।
अर्थस्यैव न बुद्धेः सिध्यति नीलादिराकारः ॥

एकश्च बोधः प्रमितिप्रमाण-
प्रमेयरूपाणि कथं बिभर्ति ?
भिन्नं प्रमाणात् फलमभ्यधायि
प्रन्यक्षचिन्तावसरे पुरस्तात् ॥

शून्यवादिभिः अवयवातिरिक्तावयविखण्डनम्
ये तु ब्रुवते—तिष्ठतु131 तावत् प्रमाणमार्गं इति प्रमेयमेव विकल्पयन्तो न ब्राह्ममर्थं कञ्चन निरपवादं प्रतिपद्यामहे । तथा हि—न तावदयं अवयवी घटादिरवकल्पते, अवयवव्यतिरेकेणावयविनोऽनुपलम्भात् । यो हि यस्माद्व्यतिरिक्तः, सः तदधिष्ठितदेशव्यतिरिक्तदेशाधिष्ठान उपलभ्यते, घटदिव पटः । न चैवमवयवेभ्यः पृथग्देशो दृश्यते अवयवी । तदग्रहणे च तद्बुध्यभावात् । घटाग्रहणेऽपि पटो गृह्यते, नत्ववयवानुपलब्धाववयवीति कथं स तेभ्यो भिद्येत ॥ सर्वावयवैर्नेन्द्रियसन्निकर्षः
अवयवग्रहणानुपपत्तेश्च । न हि सर्वे तदवयवाः शक्यन्ते ग्रहीतुम्मर्वाग्भागवर्तिन एव गृह्येरन्, न मध्यपरभागगता इति ॥

बुध्या विभज्यमाने चानुपलम्भात् । यदा हि पटं पाणौ निधाय बुध्या विविनाक्ति, एष तन्तुः एष तन्तुरिति, तदा प्राच्यादञ्चलात्प्रभृति प्रतिचीनमञ्चलं यावद्विविञ्चयन्नसौ तन्तुसन्ततिमेव केवलामुपलभते, न ततोऽतिरिक्तं पटावयविनम् ॥ अवयिनः वृत्त्यनुपपत्तिः
वृत्त्यनुपपत्तेश्च । नैकत्रावयवे कार्त्स्न्येनावयवी वर्तते, तदन्येष्ववृत्तिप्रसङ्गात् । नैकदेशेनवर्तते, स्वारम्भावयवव्यतिरिक्तदेशाभावात् । अभ्युपगमे वाऽनवस्थाप्रसङ्गात् । यैरप्येकदेशैरवयवेष्वसौवर्तते, तेष्वपि कथं वर्तते अन्यैरेकदेशैः तेष्वपि अन्यैरिति नास्त्यन्तः । असम्बद्धस्त्वेकदेशैरवयवीति132 कथं तद्वारेण स्वारम्भकैरपि सम्बध्येत । तस्मादभय्यपि नास्य वृत्तिरवयवेष्विति ॥ धारणाकर्षणादिकं नावयविनः, किन्तु सन्धातस्यैव
धारणाकर्षणादि तु अनारब्धकार्ये काष्ठमूलककार्पासादावपि133 दृश्यत इत्यनैकान्तिकम् । एकाकारातु प्रतीतिविकल्पमात्रम् । एकदेशावस्थानादिनिमित्तमाश्रित्य करितुरगपदातिप्रभृतिष्विव सेनेति, धवखदिरपलाशादिष्विव वनमिति, सञ्चितेष्वभवयवेष्वेव घठ इत्यादिबुद्धिर्भविष्यती त्येवावयवावयवपर्यालोचनयाऽणुसञ्चयमात्रमेवावशिष्यते, नान्यत् ॥ सङ्घातोऽपिनातिरिक्तः
सञ्चयोऽपि च व्यतिरिक्ताव्यतिरिक्ततया चिन्त्यमानो नास्त्येवेत्यणव एवावशिष्यन्ते । परमाणवोऽपि— “ षट्केन युगपद्योगात्परमाणोष्षडंशता


इत्येवं विकल्प्यमाना विप्लवन्त एव । न च तैरतिसूक्ष्मैरेष व्यवहारोऽभिनिर्वर्त्यत इति । तस्माद्वाह्यस्य प्रमेयस्यैव निरूप्यमाणस्यानुपपत्तेः विज्ञानमात्रमेवेदमित्यभ्युपगमनीयम् ॥ अवयवातिरिक्तावयविसाधनम्
तेऽप्येवं वदन्तः प्राक्तनेभ्योऽपि भिक्षुभ्यः134 कृपणतरा इव लक्ष्यन्ते । अपूर्वं एष तर्कमार्गः, यत्र प्रतीतिमुत्सृज्य तर्जनीविस्फोटनेन वस्तुव्यवस्थाः क्रियन्ते ॥

दृढेन चेत्प्रमाणेन बाधादिरहितात्मना ।
गृहीत एवावयवी किमेभिर्बालवल्गितैः ॥

अथ नास्ति प्रमाणेन केन चित्तदुपग्रहः ।
एतदेवोच्यतां135 वृत्तिविकल्पैः किं प्रयोजनम् ॥

न च शक्नुयः पदे पदे वयमेभिरभिनवमल्पमपि किञ्चिदपश्यद्भिः तदेव पुनःपुनः पृच्छद्भिः शाक्यहतकैस्सह कलहमतिमात्रं कर्तुम् ॥ अवयविनि प्रमाणोपन्यासः
सविकल्पकं प्रत्यक्षं प्रमाणमिति साधितम् । निर्विकल्पकेनापि शब्दोल्लेखमात्ररहितं सविकल्पकग्राह्यमेव वस्तु गृह्यत इति च दर्शितम् । एकाकारविषयव्यतिरेकेण च तद्बुद्धेरेककार्यत्वैकदेशाद्यन्यथासिद्धिनिब न्धनत्वमपि न किञ्चिद्वक्तुं शक्यत इत्यपि वर्णितम् । क्वचिद्वा पृतनावनादौ बाधकोपनिपातात् एकावगतिमिथ्यात्वात्, न सर्वत्र मिथ्यात्वकल्पना युक्तेत्यप्युक्तम् । किं वा तदस्ति, यत्सामान्यसमर्थनावमरे नाकथितम् । तस्मात्तयैव नीत्याऽवयव्यपि सिद्ध एव, तद्ग्राहिणः प्रत्यक्षस्य निरपवादत्वात् ॥ अवयविन्याक्षेपानां परिहारः
यत्तु देशभेदेनाग्रहणात्, तदग्रहे136 तद्बुद्ध्यभावादिति—तत्रावयवाश्रितत्वमेव निमित्तं, नासत्त्वम् ॥

देशभेदेन हि ज्ञानं, तद्देशस्य137 कथं भवेत् ।
न हि कश्चित् स्वतन्त्रोऽसौ अपि त्ववयवाश्रितः ॥

यावतां ग्रहणोऽप्यस्मिन् बुद्धिर्भवति तावताम् ।
अपेक्षतेऽसौ ग्रहणं न सर्वेषामिति स्थितिः ॥

विविच्यमानेष्वंशेषु युक्तस्तदनुपग्रहः ।
तदावयविनाशो हि बुद्धौ विपरिवर्तते ॥

अवयववविभागो ह्यवयविनो विनाशहेतुः । तस्मिन् बुद्ध्या समुल्लिख्यमानेऽवयविविनाशोऽपि नानुल्लिखितो भवेदिति कथमवयवी तदानीं गम्येत ? अवयवेषु अवयविनः व्याप्तज्यवर्तमानत्वम्
वृत्तिश्चावयवेष्वस्य व्यासज्यैवेति गम्यते ।
न प्रत्यवयवं तस्य समाप्तिर्व्यक्तिजातिवत्44

व्यासज्य वर्तमानो हि न खल्ववयवान्तरैः ।
वर्तते, तदसंवित्तेः, किन्तु वर्तत एव सः ॥

तथा चाहुः—“वर्तत इति ब्रूमः, अनाश्रितस्यानुपलम्भात्” ॥

वृत्तिरेवंविधाऽन्यत्र क्वदृष्टेति यदुच्यते ।
प्रत्यक्षदृष्ट एवार्थे दृष्टान्तान्वेषणेन किम् ॥

तस्मात् प्रत्यक्षत एवावायववृत्तेरवयविनः उपलब्धेः न तद्वत्तौ विकल्पानामवसरः ॥ अवयविग्राहकप्रमाणस्यानन्यथासिद्धत्वम्
स्रक्सूत्रादिवृत्तिरपि तथा दर्शनादभ्युपगता । तदियमवयविवृत्तिरपीदृशी दृश्यमाना किमिति निह्नूयते । न चावयविग्राहिणः प्रत्यक्षस्य कश्चिदपवादः समस्ति ॥

अदुष्टकारणोद्भूतं अनाविर्भूतबाधकम् ।
असन्दिग्धं च विज्ञानं कथं मिथ्येति कथ्यते ?

न च सेनावनवदवयविग्रहणं अभिधातुमुचितम्, अबाधितत्वात्, सेनादौ बाधकसद्भावात् ? सेनादिवैलक्षण्यं पटादेरवयविनः
अपि च गजवाजिपदातिपीलुपलाशशिंशपादिदर्शनस्य तत्र घटमानत्वात्, तत्समवाये सेनावनादिप्रतीतिरुपपद्येतापि । इह तु किंसमुदायविषयः पटप्रत्यय इति चिन्त्यम् । तन्तुससुदायालम्बन इति चेत्, तन्तु 138 प्रत्यय इदानीं किमालम्बनः ? सोऽपि स्वावयबालम्बन इत्येवमवयवावयवनिरूपणे परमाणवः, पत्त्यश्वशमीशिंशपादिस्थानीय वक्तव्याः । तेषां च तद्वत् ग्रहणमनुपपन्नं, अतीन्द्रियत्वादिति न तदालम्बनोऽवयविप्रत्ययः । तस्मादवयवी प्रत्यक्षग्राह्योऽस्तीति सिद्धम् ॥ परमाणूनां प्रमाणसिद्धत्वम्
परमाणवोऽपि कार्यानुमानपरिनिश्चितनित्यनिरवयवस्वरूपाः सन्तीति पूर्वमेव समर्थितम् । अतो न षट्कयोगादिना सावयवत्वमेषा उपपादयितुं पार्यते । मूर्तत्वमप्यनित्यतायामप्रयोजकमिति दर्शयिष्यते ॥ शून्यवादे प्रमाणाभावः
अतः प्रमेयपर्यालीचनवर्त्मनाऽपि शून्यवादसमर्थनं न सुशकम् । प्रमेयविचारेऽपि हि प्रमाणवृत्तमेव परीक्ष्यते । अतश्च प्रमाणचर्चातो विभ्यद्भिः प्रपलाय्य या प्रमेयकथावीथी तथागतैबलम्बिता तस्यामपि सैव भीषणमुखी प्रमाणचर्चिकैवोपनता139

सर्वती विपदां मार्गं आदेशयितुमुद्यते ।
विधौ विधुरतां यति प्रपलाप्य क्व गम्यते ॥

तस्मात् प्रमाणतोऽशक्ये शक्ये वा वस्तुनिर्णये ।
एवम्प्रायमयुक्तं वः कुशकाशाबलम्बनम् ॥

एवं निष्फलमुत्सृथ्य शून्यवादबकव्रतम् ।
बाह्येनैवार्थजातेन व्यवहारो विधीयत्तम् ॥

वैराग्यजननायापि न क्षणिकवादाद्यावश्यकता
अथ अस्थाशैथिल्यजननाय140 “सर्वं शून्यं” “सर्वं क्षणिकं” “सर्वं निरालम्बनं” इत्युपदिश्यते—तर्हि किमनेन मृषोद्येन ! सत्यप्यात्मनि, सत्स्वपि स्रेषु पदार्थेषु विषयदोषदर्शनद्वारेण भवत्येव विवेकवतां वैराग्यमिति तदुपजननाय शून्यवादादिवर्णनं वक्रः पन्थाः । प्रत्युत प्राज्ञो मुमुक्षुः क्षणिकनैरात्म्यशून्यतादिवचनं युक्तिबाधितमवबुध्यमानः वञ्चनामयमिव तदुपदेशमाशङ्कते ॥

स एष बुद्धिशून्यानां शून्यवादपरिग्रहः ।
प्रतारणपराणां वा न तु तत्त्वार्थदर्शिनाम् ॥

तस्मात्परीक्ष्यमाणोऽयं शब्दाद्यद्वैतपक्षवत् ।
विज्ञानाद्वैतपक्षोऽपि गन्धर्वनगरायते ॥

अपवर्गपरीक्षोपसंहारः
तदेवमद्वैतदृशान141 दृश्यते
जनस्य निःश्रेयससम्पदागमः ।
अतो यथोक्तात्मसुतत्त्वचिन्तया
कृती व्यवस्येदपवर्गसिद्धये ॥

साङ्ख्योक्तप्रक्रियायाः डपसंहारः
साङ्ख्यैर्यस्त्वपवर्गसाधनविधावुक्तःप्रकृत्यात्मनोः
अन्यत्वावगमोऽभ्युपाय इति स प्रागेव निर्वासितः ।
अज्ञा शक्तिमति विकारबहुला बध्नात्यकिञ्चित्करं
भूयो न प्रकृतिः पुमांसमिति वा कस्तां नियन्तुं क्षमः ॥

पुंसा न किञ्चिदपि बन्धनिधानभूतं
अत्यल्पमात्रमपि कर्म कृतं कदाचित्142
मथ्नाति तं प्रकृतिरेव निरङ्कुशैषा
मत्ता करेणुरिव पद्मवनानि भूयः ॥

जैनाद्युक्तप्रक्रियाया उपासंहारः
कचनिलुञ्चनदिक्पटधारण-
क्षितिधराक्रमणक्रमपूर्वकम्143
क्षपणकास्त्वपवर्गमुशन्त्यमी
ह्यतितरां परमार्थविदस्तु ते ॥

लोम्नां नित्यसम्भवात् खलतयोमोक्षं144 क्षणात्प्राप्नुयुः
संसारोपरमो दिगम्बरतया सद्यस्तिरश्चां भवेत् ।
मुक्ताः स्युः गिरिशृङ्गवासिन इमे शश्वत्तदारोहणात्
जन्तूनामपवर्गवर्त्म निकटं केनेदृशं दर्शितम् ॥

तस्मादात्मज्ञानं सन्तः मोक्षप्राप्तौ हेतुं प्राहुः ।
तीर्थे145 तीर्थे तच्चाचार्यैः तैस्तैरुक्तं सञ्ज्ञाभेदैः ॥

पातञ्जलप्रक्रियोपसंहारः
यदपीह केचिद विकल्पमीश्वर—146
प्रणिधानमाहुरपवर्ग साधनम् ।
इदमात्मदर्शनमवादि तैरपि
प्रथितो हि पूरषविशेष ईश्वरः147

गौतमोक्तप्रक्रियैव साधीयसी
दृष्टा वाद्यन्तराणां गतिरियमियती नापवर्गस्य मार्गं
स्प्रष्टुं द्रष्टुं समर्थास्त इति चिरमिह श्वभ्र एव भ्रमन्ति ।
नेदीयानेषु तस्माद्भवमरुपतितैः अक्षपादोपदिष्टः
पन्थाः क्षेमाया मोक्षाधिगमसमुचितः क्षिप्रमालम्बनीयः ॥

॥ इति श्री भट्टजयन्तकृतौ न्यायमञ्जर्यां नवममाह्निकम् ॥


  1. प्रलयेति सुषुप्त्यादीनामुपलक्षकम् ॥ ↩︎

  2. ऊर्मिष्टकमनुपदमुक्तं क्षुत्पिपासालोभमोहशीतातपा इति ॥ ↩︎

  3. संवेदनम्—अनुभवः ॥ ↩︎

  4. न—इत्यादि समाधानम् । इष्टप्राप्तिवदनिष्टनिवृत्तिरपि पुरुषार्थ एव ॥ ↩︎

  5. विज्ञानम्—इत्यर्शाद्यजन्तम् । “आनन्दम्” इतिपदसमभिव्याहारात् आनन्दपदस्य स्वतः पुंलिङ्गत्वेनार्शाद्यजन्तत्वावश्यकत्वात् ॥ ↩︎

  6. सुखज्ञानम्—सुखानुभवः ॥ ↩︎

  7. समाधानम्—मेघा इत्यादि । तत्त्वेत्यादि—मिथाभूता सदसदनिर्वचनीया अविद्येति हि तन्मतम् ॥ ↩︎

  8. दुःखकारणस्य रागस्य निवृत्त्या दुःखनिवृत्तिः । सुखे रागे तु नैवं वक्तुं शक्यम् ॥ ↩︎

  9. अन्यथा स्यात् ॥ ↩︎

  10. अन्यथा हि अनुकूलत्वप्रतिकूलत्वादिज्ञानानां भ्रमत्वप्रसङ्गः । सर्वं भ्रम एवेति वादस्तु असकृन्निरस्त एव ॥ ↩︎

  11. न हि चेतन—चैतन्यशब्दौ पर्ययरूपौ ॥ ↩︎

  12. “सुखमहमस्वाप्सम्” इति प्रत्यवमर्शः । तदा ज्ञानाभाववचनं तु विषयानवभासादित्याशयः ॥ ↩︎

  13. आद्यः माध्यमिकानाम् । अन्यस्तु इतरेषां त्रयाणाम् ॥ ↩︎

  14. शरीरानुगुणपरिमाणवानात्मेति हि तन्मतम् ॥ ↩︎

  15. सिद्धान्तेऽपि घटाकाशवत् शरीरौपाधिकः परिमाणोऽविरुद्धः ॥ ↩︎

  16. सम्यगिति शेषः ॥ ↩︎

  17. अयं प्रायोवादः, तत्त्वज्ञानस्यापि शरीराधीनत्वात् ॥ ↩︎

  18. अभाववैराग्यवतामुपदिश्यताम्, न तूत्साहवतामित्यर्थः ॥ ↩︎

  19. जरामर्यम्—जरामरणावधिकम् ॥ ↩︎

  20. ब्रह्म—वेदः ॥ ↩︎

  21. निदानम्—विषयवासनाः ॥ ↩︎

  22. एकमेव कर्मानेकजन्मारम्भकमपि भवति ॥ ↩︎

  23. “नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि” इति हि वचनम् ॥ ↩︎

  24. जन्मान्तरी ऋणविषयत्वे लोकव्यवहार याकुली दृढा ॥ ↩︎

  25. प्रतिपदम्—स्वपदेनैवेति यावत् ॥ ↩︎

  26. “पतत्यधः” इति प्रसिद्धः पाठः ॥ ↩︎

  27. “भवेत्सरागस्य तपोवनं गृहं निवृत्तरागस्य गृहं तपोवनम्” इति हि प्रसिद्धम् ॥ ↩︎

  28. प्रतिपक्षभावनाः—अविद्यादिविरोधिनः ज्ञानाभ्यासादयः प्रतिपक्षभावनाः, “अहिंसाप्रतिष्ठायां वैरत्यागः” इत्यादियोगशास्त्रोक्ताः ॥ ↩︎

  29. द्वन्द्वरूपत्वात् जगति सर्वस्य, तत्तद्विरोधिगुणानामभ्यासात् आस्रवाः— दोषाः हीयेरन् । सात्मीभावः—आत्मना समरसभावः ॥ ↩︎

  30. विरोधिदर्शनेऽपि द्वेषाभावाभ्यासायोच्यते—किमित्यादि ॥ ↩︎

  31. धर्मी—शरीरम् ॥ ↩︎

  32. तर्हि किमर्थो मोक्षार्थप्रयत्नः इति चेत्—जाग्रतः पूर्ववत् क्येशानुवृत्तेरवर्जनीयत्वात् । तदानीमपि पूर्णस्य स्वरूपस्य भानाभावात् ॥ ↩︎

  33. न तु शीतातपादिरूपम् ॥ ↩︎

  34. परकायप्रवेशादिना । रण्डेत्यादि—तत्स्वाभिनोऽभावात् ॥ ↩︎

  35. सौभर्यादिः दृष्टान्तः ॥ ↩︎

  36. तानवं—तनुताम् । न तु सम्पूर्णनाशः ॥ ↩︎

  37. हीनक्लेशस्य—नष्टदोषस्य प्रवृत्तिः, प्रतिसन्धानाय—वासनाद्यनुवृत्तये न—न प्रभवति ॥ ↩︎

  38. अथमेव सिद्धान्त इति वक्ष्यति । वस्तुतस्तु, फलादानस्य पक्षद्वयेऽपि समानत्वात्, धर्माधर्मयोस्तथैवावस्थानकथनमर्थहीनम् ॥ ↩︎

  39. तथा च “नाभुक्तम्” इत्यादिवचनं प्रारब्धकर्मविषयम् । “यथैधांसि” इत्यादि सञ्चितकर्मविषयमित्यविरोधः ॥ ↩︎

  40. भर्त्सनादिनेति यावत् । नर्मोक्तिरियम् ॥ ↩︎

  41. “अपरे” इत्यादिना ४५५ पुटे उक्तः । चतुर्थः पक्षः ४५४ पुटे उक्तः ॥ ↩︎

  42. ब्राह्मी—ब्रह्मप्राप्त्यर्हां ॥ ↩︎

  43. अङ्गिनः यत् फलम् तदेव किलाङ्गस्यापि ॥ ↩︎

  44. इन् थे प्रिन्त् एदितिओन् थेरे इस् अ ड़ोओत्नोते रेड़ेरेन्चे, बुत् नो चोर्रेस्पोन्दिन्ग् नोते। ↩︎ ↩︎

  45. पातञ्जलाः ॥ ↩︎

  46. “आत्मा वारे द्रष्टव्यः” इत्यस्यार्थानुवादोऽयम् ॥ ↩︎

  47. रूपं—स्वरूपम् । ध्वंसरूपा हि सा ॥ ↩︎

  48. “कीदृशं पापं मया जन्मान्तरे कृतम्” इत्यादिप्रत्यभिज्ञयेत्यर्थः ॥ ↩︎

  49. लट्वा—सूक्ष्मशलाका ॥ ↩︎

  50. ब्रीहीणां प्रोक्षणसंस्कृतानां पुरोडाशाद्युपयुक्तत्वात्तथात्वम् । सक्तूनां तु न तथोपयोगः, होमेन भस्मीभावात् ॥ ↩︎

  51. परमुखनिरीक्षणं हि स्वप्राधान्यं निवर्तयति ॥ ↩︎

  52. प्रतियोगिस्मरणादिसापेक्षः ॥ ↩︎

  53. प्रत्यक्षं विधायकम्, न निषेधकम्, प्रतियोगिनः तेन उपस्थापयितुमशक्यत्वात् ॥ ↩︎

  54. भामतीकारपक्षोऽयम् । विवरणकारस्तु ब्रह्माज्ञानवादी ॥ ↩︎

  55. अनादेः कालात्—मृदि विद्यमानं रूपं पाकान्नश्यति किल ॥ ↩︎

  56. प्रलयः—मरणम् ॥ ↩︎

  57. स्थासकं—चन्दनादिलेपगम् ॥ ↩︎

  58. अभेदो हि भेदनिराकरणरूपः ॥ ↩︎

  59. भिक्षवः—बौद्धाः ॥ ↩︎

  60. देशान्तरकालान्तरव्यक्तीनां भानस्यावश्यकत्वात् ॥ ↩︎

  61. सम्बन्धः किल व्यक्त्योरेव, न सामान्ययोः ॥ ↩︎

  62. अभेदेत्यत्र केवलेत्यादिः ॥ ↩︎

  63. जीवे परमात्मतौल्यबोधनायार्थवादः । तौल्यं च स्वतः निर्दुःखत्वादिना ॥ ↩︎

  64. पूर्वसम्पुटे ६७६ तमपुटे ॥ ↩︎

  65. परब्रह्मापेक्षयेति शेषः ॥ ↩︎

  66. सत्येनातपादिना हि सत्यस्य शैत्यादेर्निवृत्तिसम्भवः ॥ ↩︎

  67. अभ्युपायः—अभ्युपगमः ॥ ↩︎

  68. रज्जौ हि सर्पभानम्, न तु शून्ये । तथाङ्गीकारे तु निरधिष्ठानभ्रमवादः स्यात् ॥ ↩︎

  69. “नेह नानास्ति” इत्यादयः मन्त्राः । “एकमेवाद्वितीयम्” इत्यादयः अर्थवादाः ॥ ↩︎

  70. शब्दार्थयोरविनाभावादिति यावत् ॥ ↩︎

  71. “गौः” इति शब्दः, अर्थः, प्रत्ययश्चेति त्रयमपि हि निर्दिश्यते ॥ ↩︎

  72. वाच्यम्, तद्बुद्धिः, वाचकः शब्दश्च ॥ ↩︎

  73. मीमांसका अपि निराकारज्ञानवादिन इति चक्रधरः । परं तु निराकारज्ञानवादः अन्यः, अन्यश्च निरालम्बनज्ञानवाद इत्यबधेयम् ॥ ↩︎

  74. विभीतकं—फलविशेषः ॥ ↩︎

  75. उक्तार्थत्रयवाचिनः इति शेषः ॥ ↩︎

  76. तिङन्तत्वे साध्यत्वम्, सुबन्तत्वे सिद्धत्वम् । एवं “अगात्” इत्यादि सुबन्तं तिङन्तं च ॥ ↩︎

  77. न हि तेजसि तमसः, तमसि तेजसो वाऽध्याससम्भवः ॥ ↩︎

  78. प्रकृते शब्दतत्त्वरूपम् ॥ ↩︎

  79. अनुरागः—अनुरञ्जनम् ॥ ↩︎

  80. तन्मते शब्दस्यैव ब्रह्मत्वात् ॥ ↩︎

  81. वाक्यपदीये हि “विवर्ततेऽर्थभावेन” “यत्तस्य परिणामोऽयम्” इति विवर्तपरिणामशब्दौ पर्यायतया बहुलं प्रयुक्तौ ॥ ↩︎

  82. न तु शब्दसमवायित्वेन ॥ ↩︎

  83. शब्दब्रह्म—अपरं ब्रह्म । परं ब्रह्म—परमात्मा ॥ ↩︎

  84. सुभिक्षम्—इति नर्मोक्तिः ॥ ↩︎

  85. परं ब्रह्म एकमेवेति नाद्वैतद्दानिः इत्यपि न—तर्हि “द्वे ब्रह्मणी” इति कथनमयुक्तं स्यात् ॥ ↩︎

  86. अयमेव ब्रह्मपरिणामवादः भर्तृप्रपञ्चादिसम्मतः शङ्कराचार्यादिदूषितश्च ॥ ↩︎

  87. ऐकात्म्यवादे हि अहमर्थः न आत्मा, किन्तु अन्तःकरणमेव ॥ ↩︎

  88. अनेकात्मगर्भ इति भूतसर्गविशेषणम् ॥ ↩︎

  89. स्वप्रकाशज्ञानमात्रमिस्यर्थः । निर्विषयस्य कथं ज्ञानत्वमित्यर्थः ॥ ↩︎

  90. परन्तु आकारद्वयानुपलम्भाव भवतां विजयः ॥ ↩︎

  91. अन्यथा—ज्ञानं प्रकाशकमन्तरा ॥ ↩︎

  92. ज्ञानस्य, अर्थस्येति द्वितयकल्पना ॥ ↩︎

  93. अन्यथा ग्राहकत्वासम्भवः ॥ ↩︎

  94. प्रकाशकान्तरापेक्षायामनवस्था ॥ ↩︎

  95. यदा च ज्ञानमेवार्थाकारं जातम्, तर्हि अर्थः प्रत्येकं मा स्तु ॥ ↩︎

  96. अनात्मना—ज्ञानातिरिक्तेन ॥ ↩︎

  97. यद्यपि बौद्धाः निराकारज्ञानवादिनः, परन्तु “अर्थे सति च साकारं निराकारं तदत्यये” इत्युक्तेः, साङ्ख्यमतेऽन्तःकरणस्य विषयाकारप्राप्तिवत्, ज्ञानस्य अर्थाकारप्राप्तेः साकारज्ञानवादिनस्ते इत्युच्यते । एवं ज्ञानाकाराङ्गीकारादेव विषयस्यापलापः कर्तुं शक्यते, आकारद्वयानुपलम्भादिति । विषयासान्निध्ये तु ज्ञानं निराकारं— निर्विषयम् अवतिष्ठते । ततश्च निराकारज्ञानवादः अन्यः, निरालम्बनज्ञानवादपययिः निर्विषयज्ञानवादश्चान्यः ॥ ↩︎

  98. व्यतिरेकतः—अर्थाभावे ज्ञानाकारासिद्धेः, बाह्यार्थसिद्धिः ॥ ↩︎

  99. अन्यथानुपपत्त्या—विषयमन्तरा स्वतः ज्ञानस्याकारान्यथानुपपत्त्या ॥ ↩︎

  100. ज्ञानस्य, अर्थस्य च यः संसर्गः—परस्पराभिमुखीभवनम्, तत्कृतः आकारः ॥ ↩︎

  101. ह्रस्वत्वदीर्घत्वादिकं बुद्धिकृतमिति हि सर्वसम्मतम् ॥ ↩︎

  102. बौद्धाः किल नैरात्म्यवादिनः । अतः “प्रमाता” इति विभागः नास्ति ↩︎

  103. स्वकर्मणि—स्वस्य स्वेन विषयीकरणे । स्वप्रकाशं हि ज्ञानम् । स्वप्रकाश मित्युक्ते त्रिपुटीरहितमित्येवार्थः । इतरत्तु व्यावहारिकम् ॥ ↩︎

  104. आकारद्वयाप्रतिभासमात्रेण आकारद्वयाभावः न सिद्ध्यति । प्रतीयमानस्त्वाकारः अर्थस्यैव, बाह्यतयाऽनुभवात् । आन्तरं तु ज्ञानम् अनुव्यवसायगम्यम् ॥ ↩︎

  105. ग्राहकस्याजडत्वात् ॥ ↩︎

  106. मात्रेणेति—स्वरूपसदेव ज्ञानमर्थप्रकाशकम्, न तु ज्ञातं सत्, चक्षुरिन्द्रियवदेव ॥ ↩︎

  107. अबोधरूपस्याप्यर्थप्रकाशकत्वं दीपादेदृष्टम् ॥ ↩︎

  108. इत्थं च—सामग्रीन्यूनतामात्रेण । मार्जारादीनामालोकापेक्षाया अभावेन, तेषां घटादयोऽपि स्वप्रक्राशा भवेयुः ॥ ↩︎

  109. “पश्यत्यात्मानमात्मना” इत्यादौ हि कर्तृत्वकर्मत्वकरणत्वादिकं उपाधिभेदेन स्पष्टम् ॥ ↩︎

  110. अविबन्धः—अप्रतिबन्धः । प्रतिबन्धकाभावमात्रं न हि कार्यजनकम् ॥ ↩︎

  111. कालान्तरे—अनुव्यवसायकाले ॥ ↩︎

  112. अनुसायः—अनुव्यवसायः ॥ ↩︎

  113. शून्यवादिना विवाद इति शेषः । न हि विवादाविषयः कश्चिदर्थो वर्तते ॥ ↩︎

  114. प्रकारान्तरेण—विषयीकरणमात्रेण ॥ ↩︎

  115. ज्ञानं च आकारम् उपाददानमपि—इत्यन्वयः ॥ ↩︎

  116. ज्ञानं हि गुण । न हि द्रव्यस्येव तस्याकारः सम्भवतीति सारम् ॥ ↩︎

  117. तद्ग्राहकस्य—ज्ञानस्य अनुपलम्भात् ॥ ↩︎

  118. इतरख्यातीनामत्रैवान्तर्भाव इति तात्पर्यम् । वस्तुतस्तु अख्यात्यन्यथाख्यात्योरेव सर्वेषामन्तर्भावः ॥ ↩︎

  119. भ्रमहेतुत्वात्तस्य दोषत्वेन कथनम् ॥ ↩︎

  120. तिमिरं—नयनदोषविशेषः । न तु तमः ॥ ↩︎

  121. महेला—महिला । पुष्पेषुः—कामः ॥ ↩︎

  122. जालम्—इन्द्रजालम् ॥ ↩︎

  123. द्वयोः—तद्देशासत्त्वदेशान्तरासत्त्वयोः ॥ ↩︎

  124. असत्ख्यातिरूपः ॥ ↩︎

  125. ग्राह्यकस्य ग्राह्यस्य च उभयोः ज्ञानरूपत्वाङ्गीकारात् ज्ञानयोः इति ॥ ↩︎

  126. पदानां तत्तल्लिङ्गकत्वं व्याकरणशास्त्रसिद्धम् । अर्थेषु व्यक्तिभेदेन विरूद्धधर्मवत्त्वं तु भानमात्रम्; न वस्त्वन्वयि ॥ ↩︎

  127. अनेककार्यकारित्वादित्यर्थः ॥ ↩︎

  128. गुणितां—अभ्यस्ताम् ॥ ↩︎

  129. आरम्भे—उत्तरज्ञानोत्पादने ॥ ↩︎

  130. वासना अपि बाह्यार्थानालम्ब्यैव हि लब्धस्वरूपाः । वासनापदस्य संस्कारपर्यायत्वे तु न हानिः ॥ ↩︎

  131. अतिरिक्तावयविनिराकरणेन सर्वापलापस्सुसाध इति भावः ॥ ↩︎

  132. येषु नास्त्यवयवी, तेषां कथं तदवयत्वम्; अतिप्रसङ्गात् ॥ ↩︎

  133. न हि कार्पासादि अन्त्यावयवि ॥ ↩︎

  134. वैभाषिकाः, माध्यमिका वा ॥ ↩︎

  135. एतदेव—अवयवी नास्ति, प्रमाणाभावादिति ॥ ↩︎

  136. तदग्रहे—देशभेदाग्रहे ॥ ↩︎

  137. तद्देशः—अवयवस्य यो देशः, स एवावयविनोऽपि ॥ ↩︎

  138. व्यक्तिषु जातिवत् ॥ ↩︎

  139. प्रमाणं तु अबाधितं साधितम् । तेन प्रमेयमपि सिद्धत्येवेति नावयविनिराकरणसम्भवः ॥ ↩︎

  140. आस्था—लौकिकवस्तुष्वासक्तिः ॥ ↩︎

  141. अद्वैतदृशा—विज्ञानाद्वैत-शब्दाद्वैत-ब्रह्माद्वैत-शून्याद्वैतदर्शनैः ॥ ↩︎

  142. कर्तृत्वादिकं सर्वं प्रकृतेरेवेति वर्णनात् ॥ ↩︎

  143. पर्वतशिखरगुहादिवासः । उपह्रासोक्तिरियम् ॥ ↩︎

  144. खलतयः—शिरोरुहव्याधयः ॥ ↩︎

  145. सर्वेषु वैदिकशास्त्रेषु ॥ ↩︎

  146. “ईश्वरप्रणिधानाद्वा” इति योगसूत्रम् । अविकल्पं—निर्वीजसमाधिरूपम् ॥ ↩︎

  147. “क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः” इति योगसूत्रम् ॥ ↩︎