०८ प्रमेयपरीक्षा

अष्टममाह्निकम्—प्रमेयपरीक्षा

शरीरपरीक्षा

आत्मानन्तरं विभागसूत्रे शरीरनिर्देशात् तदनुक्रमेण तत्स्वरूपनिरूपणार्थमाह—

चेष्टेन्द्रियार्थाश्रयः शरीरम् ॥ २-२-३२ ॥

शरीरस्य यल्लक्षणं, येन रूपेण विभाव्यमानस्यापवर्गोपयोगिता तदुभयमपि प्रतिपाद्यते ॥ शरीरलक्षणम्
तत्र शरीरत्वमेव तावत् प्रथमं शरीरस्य लक्षणम् । तेन हि समानासमानजातीयकेभ्यः तद्व्यवच्छिद्यते । तस्मिन् सत्यपि चेष्टेन्द्रियार्थाश्रयत्वं यदस्य लक्षणमुच्यते, तत् तेन रूपेणात्मनो भोगायतनं शरीरमिति ज्ञापयितुम् । चेष्टेन्द्रियार्थाश्रयतया हि शरीरमात्मनो भोगसाधनं भवति । मुमुक्षुणा च सुखदुःखोपभोगरहितात्मतत्त्वस्वभावनिःश्रेयसाधिगमविनिहितमनसा1 तथा भोगाधिष्ठानत्वेन शरीरं भावयता तत्परिहरणे यत्नः कार्य इति आचार्यः चेष्टेन्द्रियार्थाश्रयत्वमस्य लक्षणमुक्तवान् ॥ चेष्टास्वरूपम्
ननु ! चेष्टा क्रिया । क्रियाश्रयत्वे सत्यपि न वृक्षादीनां शरीरत्वमिति अतिव्यापकं लक्षणम्—न—विशिष्टचेष्टाश्रयत्वस्य विशिष्ट प्रमेयलक्षणप्रक्रमतोऽवसीयमानत्वात् । हिताहितप्राप्तिपरिहारयोग्यव्यापाराधिकरणं हि शरीरमुच्यते, न चेष्टामात्रस्याधिष्ठानम्2 । रथादिनाऽपि नातिव्याप्तिः, यथोक्तप्रक्रमवशादेव “अन्येन प्रेरणायामसत्याम्” इति विशेषलाभात् । आत्मप्रयत्नातिरिक्तप्रेरकनिरपेक्षहिताहितोपादानपरित्यागोपाधिकचेष्टाविशेषाश्रयः शरीरमित्यर्थः ॥ शरीरलक्षणे दोषपरिहारः
ननु ! पाषाणान्तर्गतमण्डूकशरीरेषु तदाश्रयत्वादर्शनादव्याप्तिः— न—योग्यताया—स्तत्रापि भावात् । सत्यामपि क्रियायोग्यतायां सर्वतो निर्विवरनिबिडदृषत्कर्परोपरुद्धावकाशतया चलितुमसौ न प्रभवति भेको वराकः । तथा च स्फुटिते तस्मिन्नश्मनि तत्क्षणमेवासौ चलत् दृश्यते इति निबिडपाशसंयतशरीरवत् तदानीं चेष्टाया अदर्शनेऽपि नाव्याप्तिः ॥ मुमुक्षुशरीरनियमाभावः
मुमुक्षुशरीरमेव लक्ष्यमित्येके । तेन न मण्डूकशरीरादिभिरव्याप्तिः, अलक्षणीयत्वात्तेषामिति—तदयुक्तम्—नियतस्य मुमुक्षुशरीरस्याभावात् तादृशिं च भेकादिशरीराणि नितरां निर्वेदकारीणि भवन्ति । मुमुक्षुरपि कर्मविपाकमनेकप्रकारमाकलयन् मण्डूकीभावमात्मनोऽपि न न शङ्कते ॥

प्रत्यासन्नापवर्गपुरप्रवेशविपश्चित्तममपश्चित्तममपश्चिमजन्मानं मुमुक्षुं प्रति लक्षणाद्युपदेशः क्वोपयुज्यते ? इत्यतः पूर्वोक्त एवाव्याप्तिपरिहारः श्रेयान् ॥ इन्द्रियाश्रयत्वपरीक्षा
भवत्वेवं चेष्टाश्रयत्वं शरीरलक्षणम् । इन्द्रियाश्रयत्वं तु कथम् ? भौतिकानि हीन्द्रियाणि स्यावयवसमाश्रितानि घ्राणरसननयनस्पर्शनानि । श्रोत्रमनसी तु नित्यद्रव्यत्वादनाश्रिते एवेति कथमिन्द्रियाश्रयता शरीरस्येति—

उच्यते—नात्र आधाराधेयभाव आश्रयार्थः; किन्तु तदनुग्राह्यत्वात्तदाश्रितानि इन्द्रियाप्युच्यन्ते । देशकालदशानुकूलपथ्यभोजनाभ्यङ्गव्यायाममर्दनाद्युपचारोपचितशरीरस्य हि पुंसः पदुतराणि स्वविषयग्रहणे भवन्तीन्द्रियाणि । दीर्घाध्वलङ्घनकदशनशुष्कजरत्पुरन्ध्री3 सेवनादिक्लिष्टशरीरस्य तु पुंसः मन्दशक्तीनि भवन्ति तदनुग्राहकत्वादिन्द्रियाणामाश्रयः शरीरम् ॥ अर्थाश्रयत्वलक्षणपरीक्षा
अर्थानां तु रूपरसगन्धादीनां केषां चिदाश्रयः शरीरं भवत्येव तत्समवायिनाम् । न तु तावता किञ्चिद्भोगायतनत्वोपयोगि रूपमभिहितं भवति ॥

लक्षणमपि तदतिव्यापकं रूपरसादिसमवायस्य वृक्षादावपि भावात् । तस्मात्—तदर्थाश्रयत्वमीदृशमत्र विवक्षितम् । य एते परवनितादिशरीरवर्तिनः प्रविकचमुचुकुन्दकुन्दकन्दलकुमुदकुड्मलादिबाह्यविषयसमवायिनश्च रूपरसादयोऽर्था रमणीयतामादधाना रागवृद्धिहेतवो भवन्ति भोक्तुरात्मनः शरीरे सति, न शरीररहितस्येति अर्थानां भोगसाधनभावादाश्रयः4 शरीरम् । अतः सुष्ठूक्तं चेष्टेन्द्रियार्थाश्रयः शरीरमिति ॥

तदित्थं भोगायतनत्वेन बन्धहेतुत्वाद्धेयमित्यर्थः । तदिदानीमस्मदादिशरीरं किं पर्थिवम्, किं वा नानाभूतनिर्मितमिति परीक्ष्यते ॥ शरीरस्य पार्थिवत्वविचारफलम्
ननु ! किमनया परीक्षया प्रयोजनम् ?

निःश्रेयसोपयोगो हि यः शरीरस्य दर्शितः ।
सोऽनेकप्रकृतित्वेऽपि न स तस्य विशिष्यते ॥

मैवं वोचः—

प्रतिपन्नस्वरूपस्य चिन्त्या कार्योपयोगिता ।
कार्या कार्यार्थिनोऽप्यादौ यत्नस्तद्रूपनिर्णयेदेहेन्द्रियादिविलक्षणत्वज्ञानमात्मन आवश्यकम् । तच्च देहेन्द्रियादीनां स्वरूपनिष्कर्षमन्तरा न सम्भवति ॥ ॥

तथा चेन्द्रियाणि भौतिकत्वाहङ्कारिकत्वादिवेकेन परीक्षिष्यन्ते ॥

अर्था अपि कति, किङ्गुणा इति ॥

बुद्धिरपि किं प्रधानस्य प्रथमो विकारः महच्छब्दवाच्यः, उत आत्मन एव धर्मो ज्ञानाख्यः क्षणिकः ? इत्येवं सर्वत्र द्रष्टव्यम् ॥ मानवशरीरस्य पार्थिवत्वादिविकल्पाः
तत्र पाथिवमेवास्मदादिशरीरमिति केचित् । असाधारणो हि धरणिधर्मः गन्धस्तस्मिन्नुपलभ्यत इति ॥

पृथिव्युदककारणमित्यन्ये । क्लेदस्यापि तस्मिन् दर्शनात् । असति हि सलिलसंसर्गे न पार्थिवावयवाः क्लेदमनुभवन्तीति ॥

क्षितिजलज्वलनजनितमित्यपरे, गन्धक्लेदवदूष्मणोऽपि तत्रोपलम्भादिति ॥

वसुमतीसलिलसितेतरसरणिसमीरणरचितमिति5 चान्ये, रचना विशेषस्य पवनकार्यस्य तत्रावधारणादिति ॥

अवनिवनदहनपवनगगनविनिर्मितमिति चापरे, गन्धादिवदवकाशस्याप्याकाशकार्यस्य तत्र दर्शनात् । सुषिरं हि शरीरमुपलभ्यते । अवकाशे चाकाशैकदेशेऽप्यवच्छेदाभिप्रायेण श्रोत्रवत् भक्त्या तत्कार्यत्वव्यपदेश इति ॥ मानवशरीरस्य पार्थिवत्वम्
तदत्र किं तत्त्वम् ? पार्थिवमेवास्मदादिशरीरमिति, विजातीयकार्यस्यावयविनोऽनुपपत्तेः । पार्थिवावयवसमवेतशरीरावयविग्राहिणस्त्वभेदप्रत्ययस्य तृणपर्णपाषाणमूलकाद्यभेदप्रत्ययवत् अपवादासम्भवात् । न वयमिह भूतान्तराणां कारणभावनिषेधं शिक्ष्मः । केवलपार्थिवतया निर्विवादेऽपि कुम्भादावम्भःप्रभृतीनां कारणत्वानपायात् । तद्व्यतिरेकेण घटादेर्घटयितुमशक्यत्वात् ॥

किन्तु घटादाविव शरीरेऽपि समवायिकारणं पृथिव्यवयवानेवाचक्ष्महे,6 तदाश्चितत्वस्यास्य प्रत्यक्षेण ग्रहणात् । सहकारिकारणानु प्रविष्टभूतान्तरसम्बन्धनबन्धनस्तु तिस्मन् क्लेदोष्मव्यूहावकाशसं प्रत्ययः । तद्यथाऽऽगमपठितेषु वरुणलोकादौ केवलजलादिजन्येषु शरीरेषु सहकारित्वानुप्रविष्टपार्थिवावयवोपष्टम्भवशेन स्थैर्याद्युपलम्भइति । तस्मादस्मदादिशरीरं पार्थिवम् ॥ शरीरस्य पार्थिवत्वं वेदसम्मतम्
वेदे च तथैव व्यवहारो दृश्यते । अग्नीषोमीयादिपशोः प्रलयकाले, यजमानस्य वा प्रेतस्य पात्रचयनकर्मणि “सूर्यं चक्षूर्गमयतात्” इत्युपक्रम्य, “पृथिवीं ते शरीरम्” इति पठ्यते । तच्च प्रकृतिगामित्ववचनम् । यद्यतः प्रकृतेरुत्थितं तत्तस्यामेव लीयतामित्यर्थः । तत्र यथा तैजसं चक्षुरिति सूर्याख्ये तेजसि तद्गमनमुपदिष्टम्, एवं पृथिव्यां शरीरस्येति ॥

तस्मात्पृथिव्यवयवैरयमस्मदादि-
देहो निबद्ध इति नात्र सतां विवादः ।
सोऽयं च दुःखवसतेर्भवमन्दिरस्य
स्तम्भः कठोर इति यत्नत एव हेयः7

इन्द्रियपरीक्षा
घाणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्यः ॥ १-१-१२ ॥

अत्र इन्द्रियाणां विषयोपलब्धिकारणत्वं सामान्यसक्षणं प्रसिद्धमेव । विभागोऽपि पञ्चबाह्येन्द्रियाणीत्येष सूत्रित एव । स चानन्तरमेव तीर्थान्तरकथितकर्मेन्द्रियानिषेधात् साधयिष्यते ॥ चक्षुरादिलक्षणम्
विशेषलक्षणानि तु पञ्चानां पञ्च समाख्यानिर्वचनसामार्थ्यात् प्रमाणवदवगन्तव्यानि ॥

जिघ्रत्यनेनेति घ्राणं गन्धं गृह्णातीति, गन्धोपलब्धावसाधारणकारणं घ्राणम् ॥

रसयत्यनेनेति रसनं, रसं गृह्णातीति रसोपलब्धावसाधारणं कारणं रसनम् ॥

चष्टेऽनेनेति चक्षुः, रूपं पश्यतीति रूपोपलब्धावसाधारणं कारणं चक्षुः ईक्षणं लोचनं तदुच्यते ॥

स्पृश्यत्यनेनेति स्पर्शनम्, स्पर्शं गृह्णातीति स्पर्शोपलब्धावसाधारणं कारणं स्पर्शनम् ॥

स्पर्शनमिति वक्तव्ये त्वग्ग्रहणं उपचारात्8 “मञ्चाः क्रोशन्ति” इतिवत् तदधिष्ठानत्वं दर्शयितुम् । यथा त्रिपुटिकाधिष्ठानं घ्राणं, जिह्वाधिष्ठानं रसनम्, गोलकाधिष्ठानं चक्षुः, तथा त्वगधिष्ठानं स्पर्शनम्, शिरःप्रभृत्यापादाङ्गुष्ठं स्पर्शोपलम्भात् । त्वगिति च न बाह्यमेव चर्म केवलमुच्यते, अपि तु सकलशरीरव्यापि; तुहिनकणशिशिरसलिलपान समये अन्तर्हृदयेऽपि शीतस्पर्शोपलम्भादिति ॥ इन्द्रियाणामाश्रयाः
स्वावयवसमवायित्वेऽपि चेन्द्रियाणां त्रिपुटिकाद्याश्रयत्वं आश्रयत्वमात्रापेक्षयोच्यते, न समवायित्वादिति ॥

शृणोत्यनेनेति श्रोत्रं, शब्दं गृह्णातीति शब्दोपलब्धावसाधारणं कारणं श्रोत्रम् । तच्चाकाशैकदेशत्वादनाश्रितमपि कर्णशष्कुल्यधिष्ठानमुच्यते । तदेवं विशेषलक्षणानि पञ्च पञ्चनामुक्तानि भवन्ति ॥ इन्द्रियाणां बन्धहेतुत्वम्
तानीमानीन्द्रियाणि स्वविषयग्रहणलक्षणानि आत्मनो भोगसाधनत्वात् संसारकारणानीति हेयतया भावयितव्यानि । तथा भाव्यमानानि निर्वेदोत्पादनादिद्वारेण अपवर्गाय कल्पयिष्यन्त इति ॥ इन्द्रियाणां भौतिकत्वम्
“भूतेभ्यः” इति किमर्थम् ? उक्तं हि इन्द्रियाणां स्वविषयग्रहण लक्षणत्वम् । तत्र न भूतग्रहणं लक्षणार्थम्, अपि तु तद्विनिश्चयार्थम् । यथा “आप्तोपदेशः शब्दः” इत्यत्राप्तग्रहणं लक्षणविनिश्चयार्थम् । स्वस्वविषयोपलब्धिलक्षणत्वं हीन्द्रियाणां भूतप्रकृतित्वे सति निर्वहति नान्यथेति ॥ इन्द्रियाणां भौतिकत्वं कीदृशम् ?
तानि पुनरिन्द्रियाणां कारणानि पृथिव्यप्तेजोवायुराकाशमिति भूतानि । एभ्यः पञ्चभ्यः—यथासङ्ख्यं घ्राणरसनचक्षुस्त्वक्श्रोत्राणि पंश्चेन्द्रियाणि भवन्ति । भूतप्रकृतित्वमिति भूतस्वभावत्वं व्याख्यायमानं पञ्चस्वपि सम्भवति । भूतकारणकत्वं तु अन्येषु9 चतुर्ष्वपि तथैव । श्रोत्रे तु कथञ्चित् कर्णशष्कुल्यवाच्छिन्ननभोभागाभिप्रयेण व्यवहारतः समर्थनीयम् । एवं सति भौतिकानीन्द्रियाणि स्वं स्वं विषयमधिगन्तुमुत्सहन्त इति तल्लक्षणत्वमेषां—सिद्ध्यतीति । अतो “भूतेभ्यः” इत्युक्तम् ॥ इन्द्रियाणां प्राप्यकारित्वे साङ्ख्यपक्षः
ननु ? एतत्परीक्षणीयं वर्तते । किं भौतिकानामिन्द्रियाणां स्वविषयग्रहणकरणत्वं, उतान्यथेति ॥

एवं हि साङ्ख्याः सम्प्रवदन्ते—आहङ्कारिकाणीन्द्रियाणि अर्थं साधयितुमर्हन्ति, नान्यथा । तथा हि—कारकं कारकत्वादेव प्राप्यकारि भवति । भौतिकानि चेन्द्रियाणि कथं प्राप्यकारीणि दूरवर्तिनि विषये भवेयुः । आहङ्कारिकाणां तु तेषां व्यापकत्वात्10 विषयाकारपरिणामात्मिका वृत्तिर्वृत्तिमतोऽनन्या सती सम्भवत्येवेति सुवचं प्राप्यकारित्वम् ॥ इन्द्रियाणामाहङ्कारिकत्वे युक्तिः
अपि च महदणुग्रहणमाहङ्कारिकत्वे तेषां कल्पते, न भौतिकत्वे । भौतिकत्वे हि यत्परिमाणं ग्रहणं तत्परिमाणं ग्राह्यं गृह्णीयात्; अस्ति च गोलकादधिकपरिमाणस्य पटपिठरादेर्ग्रहणं, हीनपरिमाणस्य च वटधानादेः । अतोऽपि न भौतिकानीन्द्रियाणि ॥

भौतिकानामपि दीपादीनां परं प्रकाशयतां स्वात्मप्रकाशकत्वमपि दृष्टम् । एवमिन्द्रियाण्यपि पटादिस्वरूपं प्रकाशयन्ति स्वरूपमपि प्रकाशयेयुः । न च प्रकाशयन्तीत्यतोऽपि न भौतिकानि ॥ इन्द्रियाणां प्राप्यकारित्वे सिद्धान्तः
अत्राभिधीयते—यत्तावत् प्राप्यकारित्वं भौतिकत्वपक्षे नावकल्पत इति जल्पितवानसि, तन्मन्ये—नूनं त्वया गोलकमेव चक्षुरिति चेतसि गृहीतम्; अन्यथा कथमित्थमकथायव्यः । स चायमायुष्मतो महान् भ्रमः । न खलु कृष्णसारं चक्षुः; तदधिकरणं तु तेजः चक्षुः । तच्च वेगवद्द्रव्यत्वात् दूरमपि प्रसरतीति कोऽस्य प्राप्यकारितायां मादः ॥ चक्षुषः गोलकरूपत्वाक्षेपः
ननु ! गोलकेऽपि चिकिप्सादिप्रयोगात्, गोलकगुणदोषानुवर्तित्वाच्च विषयोपलब्धेः गोलकमेव चक्षुः स्यात् । अनुपलभ्यमानं च तेजः कथमिन्द्रियमुच्यते । कथं च तेजसा वेगवतापि विस्फारिते चक्षुषि सहसैव योजनशतसहस्रव्यवहितसितकरतरणितारकादि ग्रहीतुं शक्येत ? कथं वा तदल्पकं वराकं नायनं तेजः समन्ततः प्रसरता सकलभुवनप्रथितप्रभावेन महीयसाऽपि मिहिरमहसा प्रतिहतगति भवेदिति भास्करदर्शनं इत्थं न सम्पद्येत । तेजःपक्षे च काचाभ्रकपटलस्पटिकान्तरितपदार्थोपलब्धिः कथं समर्थ्येत । तस्माद्वरं शक्तिविशेषयुक्तं गोलकमेव, साधो ! चक्षुरभ्युपगच्छेति ॥ चक्षुषः गोलकातिरिक्तत्वम्
उच्यते—न खलु भवदनुशासनेन युक्तिविरुद्धमर्थमभ्युपगच्छामः । प्राप्यकारि हि कारकं दृष्टम् । कृष्णसारपक्षे च कुतः प्राप्यकारित्वम् ? शक्तिरपि कल्प्यमाना निराश्रया न परिकल्पनीयैवेति तदाश्रयचिन्तायां न गोलकमात्रमाश्रयो भवितुमर्हति, अप्राप्यकारित्वप्रसङ्गादिति तदधिकरणं11 तेज एव शक्तेराश्रयो भवेत् ॥ इन्द्रियाणामप्राप्यकारित्वपक्षः
ननु च ! प्राप्यकारित्वमेव12 चिन्त्यं वर्तते । तद्धि रसनस्पर्शनयोः केवलमवलोक्यते लोके । चक्षुःश्रोत्रे तु दूरदेशव्यवस्थितविषयग्राहिणी कथं प्राप्यकारिणी स्याताम् ॥

घ्राणं तु त्रिपुटिकानिकटनिहितपदार्थगन्धमपि गृह्णाति, दूरतोऽपि च प्रचलदनिलबलवेल्लितफुल्लमल्लिकादिसौरभमुपलभते । त्रिपुटितकोपकण्ठढौकितेनापि द्रव्येण न तस्य सन्निकर्ष13 इति तदप्यप्राप्यकार्येव तस्माच्छक्तिविशेषणमधिष्ठानमेव तत्तदिन्द्रियमिति गृह्यताम् । उत्सृज्यतां प्राप्यकारित्वपक्षः ॥

चक्षुषि चन्द्रार्कग्रहादिग्राहिणि नितरां प्राप्यकारित्वमित्युक्तमेव ॥ इन्द्रियाणां प्राप्यकारित्वपक्षः
अत्रोच्यते—न प्राप्यकारित्वमुत्स्रष्टुं शक्नुमः । कारकत्वमेव तथा सत्येषामुत्सृजेम । कारकं च, अप्राप्यकारि चेति चित्रम् ॥

अदृष्टमपि कारणमात्मनो व्यापकत्वात् तद्वत्तिधर्माधिकं नाप्राप्यकारि भवेत्; किमुत दृष्टं चक्षुरादि कारकमिति ॥

अप्राप्यकारित्वे च शक्तेरविशेषणात् कुड्यादिव्यवहितमपि वस्तु चक्षुषा दृश्येत । तत्र कार्यानुपलम्भान्न शक्तिः कल्प्यत इति चेत्—किं शक्तः कल्प्यताम्, किं तेज इति सम्प्रधारणायां तेजसो द्रव्यत्वात् व्यवधानादि अनुगुणम्, अमूर्तायास्तु शक्तेः व्यवधानमबाधकं भवेदिति तेज एवेन्द्रियं कल्पनीयं, न शक्तिः, शक्तिमदधिष्ठानं वा ॥ प्राप्यकारित्वोपपादनम्
प्राप्यकारिता च श्रोत्रस्य तावत् वीचीसन्तानसदृशशब्दपरम्परारम्भणद्वारेण दर्शिता शब्दाधिकरणे ॥

घ्राणस्यापि समीरणान्दोलितकुन्दलतादिप्रसृततत्परिमाणनिकराधिकरणगन्धग्रहणात् प्राप्यकारिता । न च परमाणूनामपसर्पणे द्रव्यपरिक्षयाद्याशङ्कनीयम्; भूयस्त्वात्परिमाणूनाम् । अत एव गन्धद्वारकतद्द्रव्यसम्पर्कदोषनिर्हरणाय प्रायश्चित्तमशुचिद्रव्यघ्राणे समामनन्ति ॥

चक्षुषस्तेजः प्रसरणात् प्राप्यकारिता । अनुपलभ्यमानं तेज इति चेत् किं चन्द्रमसः परभाग उपलभ्यते, पृथिव्याश्चाधोभागः ? न खलु प्रत्यक्षैकशरणाः पदार्थाः । अनुमानादिभिरप्येषामुपलम्भः सम्भवत्येव । उक्तं चानुमानम् । रूपोपलब्धिकार्येण तैजसमेव चक्षुरनुमीयते । तेजोद्रव्यं हि दीपादि रूपस्य प्रकाशकं दृष्टमिति ॥ चाक्षुषतेजसः अप्रत्यक्षत्वम्
प्रत्यक्षेण तु नायनं तेजः किमिति नोपलभ्यत14 इति चेत्—उच्यते —विचित्रा हि द्रव्यगुणानामुद्भवाभिभवादिवशेन गतयो भवन्ति । तद्यथा —सर्वतः प्रसरता बहलबहलेन शीतस्पर्शाश्रयेण द्रव्येण व्याप्तौ हेमन्तशिशिरौ ऋतू भवतः । निराधारस्य शीतस्पर्शगुणस्यानुपलब्धेः । अथः सत्यपि तत्र सलिलद्रव्ये तद्गुणस्य शीतस्पर्शस्यैवोपलब्धिः, न शुक्लरूपस्येति ॥

तेजोद्रव्येण च निरर्गलं विजृम्भमाणेन भूयसा ग्रीष्मो भवति । तत्र सत्यपि तेजोद्रव्ये तद्गुणस्योष्णस्पर्शस्यैव ग्रहणम्, न भास्वररूपस्येति ॥

भास्वरं च कार्तस्वरादौ तैजसद्रव्ये रूपमुपलभ्यते, नोष्णस्पर्शः ॥

उदकान्तर्गते च तेजसि ज्वलनतप्ते जले ज्वलनगुणः उष्णस्पर्शोऽनु भूयते, न भास्वरं रूपमिति ॥

एवमिह नयनरश् तेजसि द्रव्ये द्वावपि रूपस्पर्शौ नोपलभ्येते इति कमुपालभेमहि ॥

उक्तं च “दृष्टानुमितानां15 च नियोगप्रतिषेधानुपपत्तिः प्रमाणस्य तत्त्वविषयत्वात्” [न्या। सू-३-१५०] इति ॥ चक्षुस्तेजसः क्वचिदुपलम्भः
न च सर्वत्र नयनरश्मेरनुपलम्भः । क्वचिद्धि पृषदंशप्रभृतीनां16 नक्तञ्चरणां निशि निबिडतमतमःपकपटलावलिप्ते वेश्मनि सञ्चरतां चाक्षुषं तेजः भास्वरं रूपं दूरमपि प्रसरदुपलभ्यत एव । अन्यत्र मध्यन्दिनोल्काप्रकाशवदग्रहणमस्मदादिनयनरश्मेः ॥

अयं तु विशेषः—उल्कारूपस्य दिवाकरकरविभवाभिभूतत्वादग्रहणम्, नयनरश्मिरूपस्य त्वनुद्भतत्वादेवेति ॥ काचाद्यान्तरितानां ग्रहणोपपत्तिः
यत्तु काचाभ्रपटलस्फटिकान्तरितपदार्थोपलम्बनं; तत्र काचादीनां केषाञ्चित् अतिस्वच्छत्वात्, केषां चिच्च सुषिरत्वात् चाक्षुषतेजःप्रसर निरोधकौशलं नास्तीति नाप्राप्यकारित्वं चक्षुषस्वावता भवति ॥ चाक्षुषतेजसः वेगातिशयः
यत्तु—कुतो नयनरश्मेरीदृशी गतिः, गगनमाक्रम्य यद्गभस्तिमालिनं स्पृशति, न प्रतिहन्यते च सावित्रेण वेगवता तेजसेति—उक्तमत्र दृष्टानुमितानां नियोगप्रतिषेधानुपपत्तिरिति । कार्य सत्तया हि तथाविधं कारणं कल्प्यते, यद्दूरमपि प्रसरति, प्रसरदपि परेण न निरुध्यते । दृष्टश्चानिरोधो भर्जनकपालादौ तेजसः पच्यमानद्रव्यपाकसिद्धेः । कलशे च निषिक्तानां अपां बहिःशीतस्पर्शग्रहणात् अनिरोधः । एवं नयनरश्मेरपि भविष्यति । न तु गोलकस्यैव शक्तिकल्पना लघ्वीति वक्तव्यम्, प्राप्यकारिकारकस्वरूपपरित्यागप्रसङ्गात् । प्राप्यकारीणि चक्षुःश्रोत्रे, त्वगादिवत् इति ॥ इन्द्रियाणां आश्रयातिरिक्तत्वम्
अत एव सर्वेन्द्रियाणां प्राप्यकारित्वम् पश्यद्भिः शास्त्रज्ञैः इन्द्रियार्थसन्निकर्षः षट्प्रकारो व्याख्यातः । प्राप्यकारिता च न गोलकस्योपपद्यते, तदप्राप्तस्य पर्वतादेग्रहणात्, प्राप्तस्य च प्रत्युताञ्जनशलाकादेरग्रहणात् । अतो न गोलकं चक्षुः ॥ गोलकसंस्कारेण चक्षुषः अतिशयलाभः
चिकित्सादिप्रयोगस्तु17 गोलके यः प्रवर्तते ।
सोऽयमाधारसंस्कारः आधेयस्योपकारकः ॥

अत एव गोलकगुणदोषानुवर्तित्वमपि विषयोपलब्धेर्घटमानम्, आधार द्वारकै हि तदाधेयस्यैव तौ गुणदोषाविति । तस्मात् अप्राप्तविषय ग्रहणानुपपत्तेः गोलकचक्षुःपक्षः भिक्षूत्प्रेक्षितः प्रेक्षावतां हृदयेषु न विश्राम्यतीति प्राप्यकारि तेज एव चक्षुरिति स्थितम् ॥ इन्द्रियाणां आहङ्कारिकत्वानुपपत्तिः
इत्थं भौतिकेन्द्रियवादेऽपि प्राप्यकारित्वसिद्धेः न कापिलकथितमाहङ्कारिकत्वमिन्द्रियाणामुपपद्यते ॥

ननु ! पक्षद्वयेऽपि प्राप्यकारित्वोपपत्तेः कोऽयं भोतिकत्वं प्रत्यभिनिवेशातिशयो भवतामिति—उच्यते—एकप्रकृतिकत्वे18 हीन्द्रियाणां एकमेव सर्वविषयप्रकाशनकुशलमिन्द्रियं भवेत्, सर्वाणि वा सर्वविषयग्राहीणि भवेयुः, कारणस्याविशेषात् । कारणनियमाधीनो हि कार्यनियमः । अहङ्काराख्यं च कारणं सकलविषयप्रकाशनशक्तियुक्तम् । इन्द्रियाण्यपि तथा भवेयुः । एकविषयप्रकाशनशक्तियुक्ते तस्मिन् कथमिन्द्रियान्तराणि विषयान्तरग्राहीणि भवेयुः ? भोतिकत्वे तु भूतानां भेदात् नियतगुणोत्कर्षयोगित्वात् नियतविषयग्राहीन्द्रियप्रकृतित्वम् ॥

तथा च प्रदीपादितेज रूपरसाद्यनेकविषयसन्निधानेऽपि रूपस्यैव प्रकाशकमुपलब्धम् । अतस्तेजःप्रकृति चक्षुरिन्द्रियमपि रूपस्यैव प्रकाशकं भवितुमर्हति । एवमिन्द्रियान्तरेष्वपि वक्तव्यम् । तदेष विषयनियमः प्रकृतिनियमकारित इन्द्रियाणामिति भौतिकानीन्द्रियाणि ॥ चक्षुरादिभिः रूपादिग्रहणोपपत्तिः
यद्येवं तैजसेन चक्षुषा कथं पार्थिवस्य रूपस्य ग्रहणम् ? पृथिव्या एव वा ? आप्येन च रसनेन पार्थिवस्य रसस्य; वायवीयेन स्पर्शनेन्द्रियेण च पृथिव्यादिस्पर्शस्य ? तदिदं प्रकृतिनियमेऽपि कथं विषयसाङ्कर्यमिति —नैषदोषः—रूपादिविषयविषयोऽपि ह्येषां नियमः न तदाश्रयविषयः । तैजसं हि प्रदीपादि द्रव्यं रूपमेव प्रकाशयद्दृश्यते, न तेजोवृत्त्येव रूपम् । आप्यमपि द्रव्यं रसमेव व्यनक्ति, न तु सलिलस्थमेवेति । घ्राणे तु न कश्चिद्दोषः, तद्ग्राह्यस्य गन्धस्य पृथिव्येकवृत्तित्वादिति ॥

द्रव्यस्यापि दर्शनस्पर्शनग्राह्यत्वमविरुद्धमित्थं भौतिकत्वेऽपीति ॥ इन्द्रियैः महद्वस्तुग्रहणोपपत्तिः
यत्तूक्तं महदणुग्रहणान्न भौतिकानीन्द्रियाणीति—परिहृतं तत् गोलकाद्यधिष्ठानातिरिक्तस्येन्द्रियस्य दर्शितत्वात् । तच्च विततत्वद्विततग्राहि भवत्येव । विततेनापि च तेजसाऽणुद्रव्यं प्रकाश्यमानं दृश्यते दीपादिना तण्डुलादीति । अतोऽपि नाहङ्कारिकत्वम् ॥ इन्द्रियैः स्वगुणाग्रहणम्
यत्पुनरभ्यधायि—भौतिकत्वे परगुणवत् स्वगुणस्यापि प्रकाशक मिन्द्रियं स्यादिति—तदयुक्तम्—सगुणस्येन्द्रियस्येन्द्रियभावात् । इन्द्रियेण हि सता तेन विषयः परिच्छिद्यते । सगुणस्य चास्येन्द्रियत्वं, स्वगुणरहितं तत् इन्द्रियमेव न स्यात् । अनिन्द्रियं च कथं ग्राहकम् ? अतः इन्द्रियगुणानां प्रमाणकोट्यन्तःपातित्वात् न तत्प्रमेयत्वम् । तस्मा द्भौतिकानीन्द्रियाणि स्वं स्वं विषयमुपलभन्त इति सिद्धम् ॥ इन्द्रियाणां भौतिकत्वसाधकानुमानम्
प्रयोगस्तु—पार्थिवं घ्राणं, द्रव्यत्वे सति रूपादिमध्ये गन्धस्यैव व्यञ्चकत्वात्, गन्धयुक्तिद्रव्यवत्19 । तत्र व्यञ्जकत्वमात्रमनैकान्तिक मिति गन्धस्यैव विशेष्यते । सोऽयमसिद्धो हेतुर्भवेत्, गन्धत्वस्यापि घ्राणव्यङ्ग्यत्वादिति रूपादिमध्य इत्युक्तम् । तथापि सन्निकर्षेण व्यभिचार इति तद्व्युदासाय दृश्यत्वे सतीति विशेषणम् ॥

एवं रसनादिष्वपि प्रयोगा रचनीयाः । श्रोत्रं त्वाकाशैकदेश इति शब्दाधिकरणे निर्णीतम् । गन्धादिविषयोपलब्धिनिबन्धनसुखदुःखोपभोगहेतुभूतधर्माधर्मोपनिबद्धानां चेन्द्रियाणामिन्द्रियत्वमिति तद्वशात् यथा यथा नियत विषयग्रहणकरणता घटते, तथा तथा कल्प्यत इति सर्वमनवद्यम् ॥ त्वगिन्द्रियैकान्तवादः
आह—भवन्तु भौतिकानीन्द्रियाणि; पञ्चेति तु न युक्तमुक्तम् । त्वगेव ह्येकमिन्द्रियं भवितुमर्हति, सर्वत्रानपायात् ॥

करतलकपोलकण्ठादिवर्तिनाऽपि त्वगिन्द्रियेण रूपोपलम्भप्रसङ्ग इति चेत्—न—अवयवविशेषे20 शक्तिविशेषनियमात् । न हि पाणिना पादेन वा उपस्थकार्यं कर्तुं शक्यते । अस्ति च अवयवविशेषे स्वभावविशेषवैचित्र्यम् ॥

तुषारकर्पूरापूर्णवारिण्युत्तरमानसे21
यथा च वृषणौ स्नातुः स्फुटतो न तथा स्फिचौ ॥

क्लिन्नार्द्रतृणकाष्ठादिधूमेन कटुना यथा ।
मूर्धाक्षिवेदनोदेति न तथाऽवयवान्तरे ॥

तस्मात् अवयवविशेषव्यवस्थितनानाशक्तिखचितं त्वगेवैकमिन्द्रियमिति ॥ त्वगिन्द्रियैकान्तवादनिरासः
उच्यते—कुतोऽयमपूर्व एष महाप्राज्ञो वादी सरलमतीनस्मान22 वञ्चयितुमागतः, योऽवयवविशेषे शक्तिविशेषमाश्रयन्नपि एकमिन्द्रिय मन्यते । शक्तिभेदादाश्रयभेदाच्च नानात्वमेवैतदिन्द्रियाणां युक्तमित्यल महात्मभिस्सह कलहेन ॥

मनुष्यैस्सह संवादो मादृशानां हि शोभते ।
देवास्तु नररूपेण त इमे भान्ति वादिनः ॥

चक्षुःश्रोत्रयोरेकैकेन्द्रियत्वम्
ननु ! नानात्वपक्षेऽपि23 पञ्चत्वनियमः कथम् ।
द्वे श्रोत्रे चक्षूषी द्वे च कथं ते एकमिन्द्रियम् ॥

आह च—सव्यष्टस्येतरेण प्रत्यभिज्ञानात्— [गौ। सू। ३-१-७] इति । चक्षुष्टवजातेरेकत्वादिति चेत्—तर्हीन्द्रियत्वजातेरेकत्वात् एकमेवेन्द्रियं स्यात्—उच्यते—चक्षुस्तावत्तेज इति निर्णीतम् । तच्चैकमेव, तदधिष्ठानमप्येकमेव घोणावंशव्यवहितमनेकमिवोपलभ्यते ॥

भिन्नं वा तद्भवतु । तेजस्तत्ककार्यैक्यात् आश्रयभेदेऽप्येकमेव श्रोत्र मपि कर्णच्छिद्रद्वयानुस्यूतमेकमेव नभोदेशप्रायं वेदितव्यम्, कार्यैक्यस्य तत्रापि भावात् ॥

तेनाधिष्ठानभेदेऽपि कार्यैकत्वस्य दर्शनात् ।
तत्सामान्यस्य चैकत्वात् एकत्वं श्रोत्रचक्षुषोः ॥

न चेन्द्रियजातेरैक्यात् एकमिन्द्रियम्; कार्यस्योपलब्धिलक्षणस्य कारणस्य गन्धादेः अधिष्ठानस्य त्रिपुटिकादेः गतेश्च बहिःप्रसरणात्मिकायाः, आकृतेश्च परिमाणस्वभावाया जातेश्च घ्राणत्वादेः, जातिशब्दवाच्यस्य योनेर्वा पृथिव्यादेः पञ्चविधत्वात् पञ्चैवेन्द्रियाणि कल्प्यन्ते । यथा परमाणुत्वसामान्याविशेषोऽपि पृथिव्यादिचतुर्विधकार्यदर्शनात् चतुर्विधाः परमाणवः कल्प्यन्त इति ॥ कर्मेन्द्रियाणामावश्यकता
ननु ! तथापि न पञ्चेन्द्रियाणि । कथम् ? बुद्धीन्द्रियवत्24 कर्मेन्द्रियाणामपि पञ्चानामुपसङ्ख्येयत्वात् । तदुक्तम्— “ वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियाण्याहुः ॥


तेषां च वचनादानविहरणोत्सर्गानन्दात्मकपञ्चविधकार्यसाधनादिन्द्रियत्वं, तत्कार्यस्यानितरेतरसाध्यत्वादिति ॥ अतिरिक्तकर्मेन्द्रियनिरासः
अत्राह—अत्यल्पमिदमुच्यते—पञ्च कर्मेन्द्रियाणीति । अन्यान्यपि खलु न सन्ति कर्मेन्द्रियाणि ? तथा हि—कण्ठोऽन्ननिगरणेन, स्तनकलशालिङ्गनादिना वक्षः, भारवहनेन चांसद्वयं इन्द्रियमुच्यते न कथम् ? तत्कार्यस्य शरीरावयवान्तरेऽपि दर्शनादिति चेत्—किन्नु भवानन्नपानं पाणिपादेन निगिरति ? पायुना वा ? आदानमपि किमास्यादिना वा न कुर्वते तिर्यञ्चः मनुष्या अपि हि क्वचित् । असत्स्वपि च भवत्कल्पितेषु—कर्मेन्द्रियेषु तत्कार्यं यावत् तावदन्यथापि दृश्यते । न त्वेवं बुद्धीन्द्रियेषु ॥

भवत्युत्पाटिक्षस्य न मनागपि रूपधीः ।
ईषद्विहारादानादि दृष्टं लूनाङ्घ्रिपाणिषु ॥

कर्मेद्रियाणामतिप्रसक्तत्वम्
अपि च विहरणमपि न केवलं चरणयुगलकार्यम्, अपि तु जानूरुजङ्घादिसहितपादसम्पाद्यमानमपि । आदानमपि बाहुसहिताभ्यां, पाणिभ्यामभिनिर्वर्त्यते, न केवलाभ्याम् ॥

वागिन्द्रियं तु नाभेरूर्ध्वं सर्वमेव स्यात् । एवं ह्याहुः—ऽवायुर्नाभेरुत्थितः उरसि विस्तीर्णः कण्ठे विवर्तितः मूर्धानमभिहत्य परावृत्तः वक्त्रे चरन् विविधान् शब्दानभिव्यनक्ति इति । अस्ति चेदृगनुभवः जल्पतां, विशेषतस्त्वखण्डगेयं गायतामिति । एवञ्च कर्मेन्द्रियमयमेव विश्वमिति न शरीरमिन्द्रियव्यतिरिक्तं किञ्चिद्भवेत् ।

अथ शरीरावयवेष्वेव भिन्नकार्यकारिषु कर्मेन्द्रियवहारः, तर्हि कण्ठादिभिरतिप्रसङ्ग इत्युक्तम् ॥

उपस्थेन्द्रियं च कथमेकं गण्यते, तेनानन्दवत् मूत्रोत्सर्गस्यापि साधनात् ॥ 25 26 वाचः इन्द्रियत्वानुपपत्तिः
वागिन्द्रियं तु सुतरामहृदयङ्गमम् । संयोगविभागनिर्वर्त्यो बाह्यः शब्द उपलभ्यते । तद्भेदाच्च भिद्यते । यादृशो हि भेरीदण्डसंयोगजः शब्दः, न तादृशः कूर्मीकोणसंयोगजः27 । एवं विचित्रस्थानकरणसंयोगात् विचित्रो वर्णात्मकः शब्द उदेतीति न वागिन्द्रियं नाम किञ्चित् ॥

लोकश्च वाक्च्छब्देन वर्णात्मकमेव शब्दे व्यपदिशति । शब्दश्चेन्द्रियविषयः, नेन्द्रियम् । तस्मादनेकविधदुःखोपभोगक्षेपक्षमकर्मपरिणामनिर्मितमेतच्छरीरं तैस्तैरवयवैः तं तं कर्भफलोपभोगमात्मनः सम्पादयतीत्यलं एवंविधेन्द्रियकल्पनार्जवेन ॥ मन एकमेवान्तरिन्द्रियम्
अन्तःकरणस्यापि त्रैविध्यमनुपपन्नम्,28 एकेन मनसैव पर्याप्तेः । बुद्धिस्तु उपलब्धिस्वभावत्वात् करणकार्यं, न तु करणम् । अहङ्कारोऽपि ज्ञानविषय एव, न करणम् । एतच्च सविस्तरं बुद्धिलक्षणे वृक्ष्यामः । तस्मात् न त्रयोदशविधं29 करणमिति सिद्धम् ॥

न्यूनाधिकत्वशमनादत इन्द्रियाणि
पञ्चैव बाह्यविषयाधिगमक्षमाणि ।
अन्तस्सुखादिविषयग्रहणोपयोगि
षष्ठं मनस्तु कथयिष्यति सूत्रकारः ॥

तस्मादिमानि विषयप्रसभोपभोग-
लुब्धानि चोरचटुलानि यथेन्द्रियाणि ।
पुंसो भवाब्धिपतितस्य विवेकरत्नं
आनन्ददायि न हरन्ति तथा विधेयम् ॥

इन्द्रियार्थपरीक्षा
गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्थाः ॥ ॥ १-१-१४ ॥

“तदर्थाः” इत्यत एवापकृष्य वा, प्रक्रमाद्वा “अर्थाः” इति लक्ष्यपदं दर्शयितव्यम् । “तदर्थाः” इति लक्षणम् । तदिति प्रक्रान्तेन्द्रियपरामर्शः । तेषां अर्थाः विषयाः इन्द्रियविषया अर्था इत्यर्थः । एतच्च तेषां सामान्यलक्षणम् । गन्धरसरूपस्पर्शशब्दा इति विभागः ॥ इन्द्रियलक्षणानि
विशेषलक्षणं तु पुनः “तदर्थाः” इत्येवं योजनीयम् । तदिति घ्राणादीनां विशेषसञ्ज्ञानिर्दिष्टानामवमर्शः । एवञ्च घ्राणस्य विषयो गन्धः, रसनस्य विषयो रसः—इत्यादिविशेषलक्षणमुक्तं भवति । गन्धत्वादीनां तु घ्राणादिग्राह्यत्वादतिव्याप्तिरिति पृथिव्यादिगुणा इति विशेषणोपादानम् । ते चामी गन्धादयः इन्द्रियार्था भोग्यास्सन्तः सक्तिहेतवः संसार माणमावहन्तीति हेयतया भावयितव्याः30 ॥ गन्धादीनां रागहेतुत्वम्
ननु एवं गन्धादिगुणाधिकरणस्यावयविनः प्रथमस्य31 रागहेतोरसङ्ग्रहः स्यात् । वक्ष्यति च “तन्निमितं त्ववयव्यभिमानः” इति । सङ्ख्या परिमाणादिगुणान्तराणामपि रागहेतुत्वमस्त्येव । यथा हि बर्हिकलापानुकारिपरिमृदितकुसुमदलपटलशबलविलासिनीकेशपाशवृत्ति रूपं हरति हृदयं यूनां, तथा तद्गता बहुत्वसङ्ख्याऽपि । उत्तप्तकनकशिलानिभनितम्बबिम्बरूपवत् तत्परिमाणमपि । हरति च सरभसमवयवसंयोगविभागाद्यपि ॥

तथा कन्दुकादिक्रीडासु किसलयितविलासरसमधुरपरिभ्रमणादि कर्मजातम् ॥

तथा अन्त्यजात्यादिपरिहारेण स्वानुरूपजातियोगित्वमपीत्यादि सर्व द्रव्यगुणकर्मादि सक्तिकारणमनुक्तं32 स्यात् ॥ सूत्रयोजनायां पक्षभेदः
तत्र केचित्—पृथिव्यादिगुणा इति द्वन्द्वसमासं व्याचक्षते—पृथिव्यादीनि च गुणाश्चेति । पृथिव्यादिपदेन गुणाधिकरणमवयवि द्रव्यमुक्तम् । आश्रितत्वविशेषणाभ्यां सर्वे गुणा इति । गुणग्रहणेन सङ्ख्यापरिमाणादिवत् कर्मसामान्याद्यपि सर्वमुक्तम् । अतो नासङ्ग्रह इति ॥

तदिदमनुपपन्नम्—गन्धादिग्रहणस्य हि तदानीमानर्थक्यम्, “गुणाश्च” इत्यनेनैव गतार्थत्वात् । विशेषख्यापनार्थं33 तदुपादानमिति चेत्; तर्हि किं द्वन्द्वसमासवर्णनेन ? अयमेवास्तु समाधिः ॥ रूपरसादीनामिन्द्रियार्थत्वे विशेषः
यद्यपि द्रव्यकर्मसामान्यानां अन्येषां च सङ्ख्यापरिमाणादिगुणानां अस्त्येव सक्तिहेतुता—तथापि प्राधान्येन गन्धादीनामेव सा दृश्यते । न हि रूपादिनिरपेक्षस्य द्रव्यस्य सङ्ख्यादेः सामान्यस्य वा सक्तिहेतुत्वं समस्तीति रूपादय एव मुख्यं रागकारणम्34 । तत्र झटिति बुद्धेः प्रसरणात् । उक्तं च—

तथापि नितरां रागवृद्ध्यै रूपादयो नृणाम् ।
त एव कविभिर्गीताः पञ्चेषोः पञ्च सायकाः ॥

तस्मात् पृथिव्यादीनां गुणा इति षष्ठीसमास एव श्रेयान् । गुणव्यतिरिक्तश्च गुणी पूर्वमेव साधितः “यमहमद्राक्षं, तं स्पृशामि” इति प्रत्ययप्रामाण्यात् ॥ पृथिव्यादीनां गुणविभागः
पृथिव्यादीनां गुणा इति यदुक्तं, दिदानीं विभज्य वर्ण्यते, कस्य कति गुणा इति । तत्र—

गन्धादयो नियोक्तव्याः चत्वारः पृथिवीगुणाः ।
अप्तेजोमरुतामेकं पूर्वपूर्वमपोह्य तु ॥

गन्धवर्जं रसरूपस्पर्शाः अपाम्, रसवर्जं रूपस्पर्शौ तेजसः, रूपवर्जं स्पर्श एव वायोः इति । आकाशस्य तु गुणः शब्दः ॥ भूतानामेकैकगुणवत्त्वनिराकरणम्
ननु ! नायं गुणविनियोगः साधीयान् । पृथिव्याश्चतुर्गुणत्वे पार्थिवेन घ्राणेन्द्रियेण चतुर्णामपि तद्गुणानां ग्रहणं स्यात् । एवमुत्तरेष्वपि वक्तव्यम् । तस्मादेकैकगुणत्वमेव भूतानामुच्यताम्—नैतदेवम्—न35 हि गुणाः स्वेच्छया लभ्यन्ते । किन्तु यथोपलभ्यन्ते, तथा व्यवस्थाप्यन्ते । प्रतीतिप्रमाणका हि वयम् । तत्र—पार्थिवे द्रव्ये चतुर्णामपि गुणानां उपलम्भात् कथमेकगुणां पृथिवीं ब्रूमः । रूपैकगुणे च तेजसि, पृथिव्युदकयोः वायुवदरूपत्वादप्रत्यक्षत्वं स्यात्36 । तस्मात् त्रीणि रूपवन्ति तव्याणि ॥ सर्वस्य सर्वगुणवत्त्वनिराकरणम्
यद्येवं सर्वेषां सर्वत्रोपलम्भात् सर्वाणि सर्वगुणानि भवन्तु भूतानि । पटपटायते पृथिवी, चलचलायन्ते आपः, धगधगायते तेजः । कथकथायते वायुः इति सर्वेषां गुणः शब्दः स्यात् । उच्यते—न सर्वे गुणाः सर्वत्रोपलभ्यन्ते । निर्गन्धानामपां सर्वत्र दर्शनात् । क्लिन्नरूपादौ तु पार्थि वावयवसङ्क्रान्त्या गन्धः पयस्युपलभ्यते ॥ शब्दस्याकाशमात्रगुणत्वम्
एवं सुवर्णे तैजसे द्रव्ये, संयुक्तसमवायात् रसाद्युपलब्धिः । शब्दस्तु सर्वकालमाकाशवृत्तिरेव प्रतीयते । पृथिव्याद्यवयवसंयोगविभागप्रभवस्त्वसाविति तदाश्रितत्वभ्रममावहति, न त्वकाशाद्विना तस्य ग्रहणमिति । आकाशगुण एव शब्द इत्येतच्च प्राङ्निर्णीतम् । तस्मात् न सर्वेषां सर्वगुणत्वम् ॥ इन्द्रियाणां विषयनैयत्यम्
यच्च पृथिव्याश्चतुर्गुणत्वे तद्गुणानां चतुर्णामपि पार्थिवघ्राणेन्द्रिय ग्राह्यत्वं स्यादिति—तन्न—गुणोत्कर्षस्य37 नियामकत्वात् । सातिशयगन्ध गुणाधिकरणैर्विजातीयद्रव्यावयवसंस्पर्शलेशरहितैः केवलपृथिव्यवयवैरदृष्ट सहकारिभिः घटितं घ्राणेन्द्रियमिति गन्धस्यैव ग्राहकम् ॥ तत्तदिन्द्रियेषु तत्तद्गुणस्य प्राधान्यम्
एतदेव च भूयस्त्वमाचक्षते । यथाऽऽह कणव्रतः—“भूयस्त्वाद्गन्धवत्त्वाच्च पृथिवी गन्धज्ञाने प्रकृतिः” । इहाप्युक्तं—“तद्व्यवस्थानं तु भूयस्त्वात्” इति । दृश्यन्ते च केवलपृथिव्यवयवोपादानेष्वपि पदार्थेषु व्यवस्थितकार्यनियमाः शक्तयः । यथा—

पार्थिवत्वाविशेषेऽपि विषं मरणकारणम् ।
अगदद्रव्यमन्यत्तु38 जीविताय प्रकल्पते ॥

तस्मादपर्यनुयोज्योऽयं पार्थिवेन घ्राणेन गन्धवत् तद्रसादयोऽपि कथं न गृह्यन्त इति ॥ इन्द्रियैः स्वगतगुणग्रहणाग्रहणे
सातिशयप्रकृतिगुणयोगेऽपि न च स्वगुणग्रहणनैपुण्यमिन्द्रियाणामिती न्द्रियचिन्तायां निर्णीतम् । श्रोत्रेण तु स्वगुणस्य शब्दस्य ग्रहणमिति परि शेषानुमानप्रमाणकोऽयमर्थः शब्दपरीक्षायामेव परीक्षित इत्यलमतिप्रसङ्गेन ॥

इति निपुणधियामसम्मतैषा
सकलगुणैकगुणत्वकल्पना ।
तदयमकलुषोऽभ्युपेयतां
गुणविनियोगविधिर्यथोदितः ॥

इन्द्रियाणां विमर्शनस्य फलम्
तेऽमी ज्ञेयाः कृतकमधुरं रूपमादर्शयन्तः
तिक्तोद्गाराः परिणतिविपत्कारिणो हीन्द्रियार्थाः ।
त्यक्ताश्चैते व्यपगतमहामोहपङ्केन पुंसा
तीर्णश्चायं भवजलनिधिः क्लेशकल्लोलरौद्रः ॥

—इतीन्द्रियपरीक्षा— बुद्धिपरीक्षा
बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम् ॥ १-१-१५ ॥

ननु ! पर्यायोच्चारणमेतत्, न बुद्धेर्लक्षणाभिधानम्—न—पर्यायप्रयोग स्यैव लक्षणक्षमत्वात् । लक्षणं हि तदुच्यते—येन समानेतरजातीयेभ्यः लक्ष्यं व्यवच्छिद्यते । व्यवच्छिद्यते च बुद्धिः बुद्ध्यादिपर्यायवाच्यतयैव तेभ्य39 इति नाभिधानमालामात्रमिदम् ॥ बुध्युपलब्धिज्ञानानां भिन्नत्वं साङ्ख्या मन्यन्ते । तन्निराकरणार्थं एषामर्थान्तरत्वं निरस्यते सूत्रे । इतरदार्थिकम् ॥ सूत्रस्य लक्षणपरत्वम्
ननु ! सामयिकत्वाच्छब्दार्थप्रत्ययस्य, समयस्य च पुरुषेच्छानुवर्ति त्वात् कथमिदं व्यवस्थितं लक्षणं स्यात् ?—मैवम्—सार्वजनीनस्य समयस्य विप्लावयितुमशक्यत्वात् । तद्विशिष्टस्य तद्वाच्यस्य लक्षणत्वात् ॥

प्रकारान्तरेण लक्षणमस्याः किमिति नोक्तमिति चेत्, शिंशपाचोद्य मिदम् । तस्मिन्नप्युक्तेऽनुयुञ्जीत भवात् “इत्थं किमिति नीक्तम्” इति ॥ बुद्धिलक्षणविचारः
अस्ति च प्रयोजनं पर्यायद्वारकलक्षणोपवर्णनस्य, यत् साङ्ख्यानां व्यामोहनिरसनम् । एवं हि साङ्ख्याः सङ्गिरन्ते—बुद्धिरन्या, ज्ञानमन्यत्, उपलब्धिरन्येति । तद्भ्रयापनयनायेदमुच्यते—बुद्धिरुपलब्धिर्ज्ञानर्मित्यनर्थान्तरम्—एक एवार्थ इत्यर्थः । इत्थं च स्वरूपतो निर्ज्ञाता बुद्धिः भोगस्वभावत्वात् तत्साधनत्वाच्च संसारहेतुरिति हेयत्वेन भाव्यते, सुखादिबुद्धिः भोगः, तत्साधनबुद्धिस्तु भोगसाधनमिति । कथं पुनः पारमर्षाः प्रवदन्ति, बुद्धिरन्या, ज्ञानमन्यत्, उपलब्धिरन्येति ? नित्यां हि बुद्धिं ते मन्यन्ते ॥ साङ्ख्यसम्मतबुद्धिपरीक्षा
तत् किमात्मैव तैः बुद्धिरिति गृहीतः ?—न—अचेतनायाः भोग्यायाः प्रकृतेः थमा विकृतिः महच्छब्दवाच्या बुद्धिः40 । पुरुषस्तु चेतनः भोक्ता अन्य एव । ताविमौ प्रकृतिपुरुषौ विवेकेनापश्यतां संसारः । प्रकृतिपुरुषविवेकज्ञानान्मोक्षः इति ॥ प्रकृतिस्वरूपम्
का पुनः प्रकृतिर्नाम ? सत्त्वरजस्तमसां त्रयाणां गुणानां साम्यावस्था प्रकृतिः । प्रधानमव्यक्तं च तदुच्यते, यत्साम्यावस्थागतं गुणत्रयमिति ॥

ननु ! तत्सत्त्वे किं प्रमाणम् ? अनुमानमित्याह । तथा हि चराचरमिदं विश्वं सुखदुःखमोहाविनाभूतमुपलभ्यते । न हि ब्रह्मादौ स्तम्ब पर्यन्ते जगति तथाभूतं किमपि भूतमुपलभ्यते, यत् सुखदुःखमोहैर्विनाकृतम् ॥

तत्र सुखस्वभावं सत्त्वम्, दुःखस्वभावं रजः, मोहस्वभावं तमः । सर्वत्र च प्रीत्यप्रीतिविषाददर्शनात् प्रकाशप्रवृत्तिनियमावगमाच्च सर्वं त्रिगुणात्मकं जगत् । कार्यं च यत् परस्परान्वितरूपं तदेकरूपात्कारणादुत्पद्यमानं दृश्यते । मृदन्वितानि हि घटशरावोदञ्चनप्रभृतीनि कार्यस्यैकस्मान्मृदात्मनः कारणादुद्भवन्ति । तदिदं विश्वं सुखदुःखमोहान्वितमिति तदात्मककारणकार्यं41 भवितुमर्हति । यत् सुखदुःखमोहात्मकं कारणं सा सत्त्वरजस्तमोरूपा प्रकृतिः ॥ प्रकृतिसाधकानुमानान्तराणि
एवमन्वयपुरस्सराः परिमाणादिहेतवोऽपि वक्यव्याः । इयत्तया वा चतुरश्रतादिना वा परिमाणेन तद्वतां कार्याणामेकप्रकृतित्वदर्शनात् । विषमवृत्तयश्चैते गुणाः कार्येषु दृश्यन्ते । क्वचित्सत्त्वमाधिकम्, ऊने रजस्तमसी । क्वचिद्रजः प्रकृष्टम्, अल्पे सत्त्वतमसी । क्वचित्तमः प्रवृद्धम्, तुच्छे सत्त्वरजसी इति । तदेषां वैषम्यभेदोपदर्शितविश्वरूपकार्याणां क्वचित् साम्यावस्थया भाव्यम् । सा प्रकृतिरुच्यते । सेयमचेतना भोग्या प्रकृतिः । अस्यास्तु भोक्ता चेतनः पुरुषः ॥ साङ्ख्योक्तपुरुषानुमानप्रकारः
पुरुष इदानीं किमनुमानकः ? उक्तमेव भोग्येन भोक्तुरनुमानम् । न ह्यचेतनस्य—भोग्यस्य भोक्तारमन्तरेण भोग्यतैवोपपद्यते । दृष्टा च सेति42 भोक्ता कल्प्यते ॥

स च चितिशक्तिस्वभावक एव सर्वप्रकारकर्तृत्वादिव्यहार निर्वहबहिष्कृतस्वरूपः43 । द्रष्टृत्वमेव पुरुषस्य स्वरूपमाहुः । यथा भवन्त एनमात्मानमध्यवसायादिधर्मयोगिनं मन्यन्ते, न तथाऽसौ भवितुमर्हति; अध्यवसायादेर्बुद्धिधर्मत्वात् ॥

कर्तुं शक्नोति पुरुषः तृणस्यापि न कुब्जताम् ।
अन्योपनीतमर्थं तु स पश्यत्येव केवलम् ॥

प्रकृतेरेव सर्वकर्तृत्वम्
प्रकृतिरेवैनं भोगापवर्गाभ्यां संयुनक्ति । न च निर्विकारा सती भोगसम्पादनसमर्थाऽसौ भवतीति महदादिविकृतीः प्रतिपद्यते । पङ्गबन्धन्यायेन प्रकृतिपुरुषौ संयुज्येते । प्रकृतिरचेतना दृश्या भोग्या द्रष्टारं भोक्तारं पुरुषमपेक्षते । पुरुषोऽपि द्रष्टा भोक्ता दृश्यं भोग्यमपेक्षते । इत्येवं तयोः पङ्ग्वन्धवत् संयोगो भवति । दर्शनशक्त्या पङ्गोः, गमनशक्त्या चान्धस्य एकत्र मेलनात् कार्यसिद्धिः । एवं प्रकृतिपुरुषसंयोगात् सर्गः प्रवर्तते तदुक्तम्—

पुरुषस्य दर्शनार्थः कैवल्यार्थः तथा प्रधानस्य ।
पङ्ग्वन्धवदुभयोरपि संयोगः, तत्कृतः सर्गः ॥ [सां-का-११]

बुद्धेः परिणामभेदाः
यच्चेत्थं प्रधानान्महत्तत्त्वमुत्पद्यते, सा बुद्धिरध्यवसायात्मिकां धर्मज्ञानवैराग्यैश्यर्यतद्विपर्ययरूपवृत्तियोगिनी44 महत्तत्त्वमुच्यते ॥

बुद्धेरहङ्कार उदेति । स चाभिमानस्वभावः ॥

अहङ्कारात्तु45 घ्राणादीनि पञ्च बुद्धीन्द्रियाणि, वागादीनि पञ्च कर्मेन्द्रियाणि, सङ्कल्पकमेकादशं मनः गन्धादितन्मात्राणि च पञ्चेति षोडशको गुणः प्रभवति ॥

ततो गन्धादितन्मात्रपञ्चकात् पञ्च पृथिव्यादीनि महाभूतानि जायन्त इति । आह च—

ऽप्रकृतेर्महास्ततोऽहङ्कारः तस्माद्गणश्च षोडशकः ।
तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूताति ॥ [सां। का। २२]

तानीमानि पञ्चविंशतितत्त्वानि सञ्चक्षते । प्रधानं प्रकृतिरेव, न विकृतिः । महदहङ्कारतन्मात्राणि सप्त पूर्वपूर्वापेक्षया विकृतयः, उत्तरो वोत्तरकार्यापेक्षया प्रकृतयः । एकादशेन्द्रियाणि, पञ्चभूतानि विकृतय एव । अप्रकृतिविकृतिरूपस्तु शुद्धः पुरुष इति । तदाह—

ऽमूलप्रकृत्विरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारः न प्रकृतिर्न विकृतिः पुरुषः ॥ [सां। का। ३]

प्रकृतेर्बाधकत्वप्रकारः
एवं महादिविकारवती प्रकृतिरात्मनो भोगं साधयति । कश्चास्य भोगः ? बुद्धिवृत्त्यनुपातित्वम् । विषयाकारपरिणतेन्द्रियवृत्त्यनुरक्तां बुद्धिवृतिं ज्ञानात्मिकां पुरुषः पश्यति । दर्शनेऽपि न तस्य46 किञ्चिदन्यत्वम् । तदेव दर्शनं—यत् तत्र प्रतिबिम्बनमिति । इत्थं तयोः बुद्धिपुंसोः संयोगे सति पुरुषधर्मश्चेतयितृत्वलक्षणः बुद्धावसन्नपि सन्निव लक्ष्यते । बुद्धिधर्मश्च कर्तृत्वादिः आत्मनि साक्षिस्थानीयेऽसन्नपि सन्निव विभाव्यते । तदाह—

ऽतत्स्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् ।
गुणकर्तृत्वेऽपि तथा कर्तेव भवत्युदासीनः ॥ [सां। का। २०]

प्रकृतेर्मोचकत्वप्रकारः
अथ अपवर्गाय कथमात्मनः प्रकृतिरवकल्पते ? स्वरूपं प्रकाशयती त्याचक्षते । अनवधृतप्रकृतिस्वरूपः पुमान् स्वरूपनिष्ठ एव प्रकृतिकृतमखिलं आत्मकृतमिति मन्यमानः तदुपार्जितं भुङ्क्ते । यदा तु पृथग्थूतामेनां मन्यते, तदा भवत्वियमायासहेतुरेव मम, इति बुद्ध्यमानः तत्कृतमनुपभुञ्जानः स्वरूपनिष्ठ एवावतिष्ठते । प्रकृतिरपि “भवतु ! दृष्टाऽहमनेन, पृथङ्मामेष मन्यते” इति न तदभिमुखीभवितुमुत्सहते । तदाह—

प्रकृतेस्सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति ।
या दृष्टाऽस्मीति पुनर्नदर्शनमुपैति पुरुषस्य ॥ [सां-का-१६]

प्रकृतिपुरुषविवेकः
परस्परं च भग्नरसयोः प्रकृतिपुरुषयोः व्यापकत्वात्47 सत्यपि संयोगे सर्गो न प्रवर्तत एवेत्याह—

दृष्टा मयेत्युपेक्षक एकः दृष्टाऽहमस्मीत्युपर त्यन्या ।
सति संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्य ॥

अपरिम्लानकुतूहलो हि पुमान् वञ्चयितुं शक्यते, न दृष्टतत्त्व इति मत्वा सत्यामपि योग्यतायां निवर्तते प्रकृतिः नटीव रङ्गभूमौ प्रदर्शितनिखिलनिजनृत्तवृत्तान्तनैपुणा तत इत्याह—

रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् ।
पुरुषस्य तथाऽऽत्मानं प्रकाश्य विनिवर्तते प्रकृतिः ॥ [सां-का-६१]

प्रकृतेरेव बन्धमोक्षौ
तदेवं प्रकृतिरेव संसारे प्रवर्तते, प्रकृतिरेव मोक्षमनुभवतीत्याह—

तस्मान्न बध्यतेऽद्धा नापि मुच्यते नापि संसरति कश्चित् ।
संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ [सां-का-६२]

किमर्थं पुनरसाअसौ—जडा ॥वेवं चेष्टते प्रकृतिरिति चेत्—किं क्रियते ? स्वभाव48 एवैष दैवहतिकायास्तस्याः—

नानाविधैरुपायैरुपकारिण्यनुपकारिणः पुंसः ।
गुणवत्यगुणस्य सतः तस्यार्थमपार्थकं चरति ॥

अचेतनाया अपि प्रकृतेः कर्तृत्वादि
अचेतनत्वादस्याः कथमेवङ्कारित्वमिति चेत्—उक्तमत्र—

वत्सविवृद्धिनिमित्तं क्षीरस्य49 यथा प्रवृत्तिरज्ञस्य ।
पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ [सां-का-५७]

ननु ! उत्पन्नतत्त्वज्ञाने पुंसि प्रकृतेर्भोगानुकूलमहदादिकार्यारम्भपराङ्मुखत्वात् एकस्मिंस्तत्त्वविदि मुक्ते सति सर्वे मुक्ताः स्युः—नैषं दोषः—तत्त्वविदमेव पुमांसं प्रति तस्या औदासीन्यात् । अन्यसाधारणत्वेन50 तत्कार्यानपायात् । तथा च पातजलिः—“कृतार्थं प्रति नष्टमप्यनष्ट तदत्यसाधारणत्वात्” [यो-सू-२-२२] ॥ सदेहमुक्तिः, विदेहमुक्तिश्च
ननु एवं यदैव तत्त्वज्ञानमुत्पन्नम्, तदैव प्रकृत्युपाजितकर्मफलोपभोगपरिहारिणः पुंसः शरीरपातः स्यात्—नेत्याह—

तिष्ठति संस्कारवशाच्चक्रभ्रमिवद्धृतशरीरः ॥

ततः संस्कारविरतौ सत्यां—

प्राप्ते शरीरभेदे चरितार्थत्वात्प्रधानविनिवृत्तौ ।
ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति—इति ॥

“स्वभावो दुरतिक्रमः” इति हि न्यायः ॥ बुद्धि-ज्ञान-उपलब्धिपदानामपर्यायत्वम्
अहो नु खलु कापिलकविकथारसाक्षिप्तहृदयैः अतिबहु प्रसक्तानुप्रसक्त्या लिखितमस्माभिः । तदियं प्रधानविकृतिः प्रथमा महच्छब्दवाच्या सा बुद्धिः तत्त्वविदं प्रति नष्टाऽपि अन्यसाधारणत्वादनष्टैवेति नित्या । नित्यत्वाच्च प्रत्यभिज्ञासनुसन्धानादिव्यवहारप्रबन्धनिर्वहणक्षमा बुद्धिः । ज्ञानम—गौणम् बुद्धिः, तस्याः वृत्तिः । तस्याः फलं उपलब्धिः ॥ज्ञानं तु तस्याः वृत्तिः । उपलब्धिस्तु पुंसो वृत्तिमद्बुद्धिदर्शनमिति नैषां पर्यायशब्दत्वमिति ॥ साङ्क्यप्रक्रियानिरासः
अत्र प्रतिविधीयते—आत्मन्येव नित्ये व्यापिनि बोद्धरि ज्ञातर्यध्यवसातरि धर्माधर्मादियोगिनि प्रत्यभिज्ञानादिकार्याणां कर्तरि सेयं बुद्धिः असञ्ज्ञा साङ्ख्यैः कल्पिता । चेतनत्वं तु ज्ञानादियोगिन्या अपि यत्त्वस्या नाभ्युपगतं, सोऽयमतीव तमस्विनां भ्रमः । य एव बुध्यते, जानाति, अध्यवस्यति—स एव पश्यति, चेतयते च । न खल्वत्र वस्तुस्वरूपभेदं पश्यामः । तत्र बुद्धिर्बुध्यते, जानाति, अध्यवस्यति—पुरुषस्तु पश्यति, चेतयते चेति वञ्चनायैवमुच्यते, मुग्धतया वा ॥ आत्मनः द्रष्टृत्वादिकं स्वाभाविकम्
यच्चेदमुच्यते—बुध्याध्यवसितमर्थं पुरुषः पश्यतीति—तद्व्याख्येयम्—किमिदं तस्य द्रष्टृत्वमिति । प्रतिबिम्बनमिति चेत्; किं स्वच्छे पुंसि वृत्तिमती बुद्धिः सङ्क्रामति, उत वृत्तिमत्यां बुद्धौ पुमानिति । तत्र चतिशक्तिरपरिणामिनी अप्रतिसङ्क्रमेति न बुद्धौ पुरुषस्य सङ्क्रमणम् । बुद्धौ तु पुंसि सङ्क्रान्तायामपि पुंसः किं वृत्तम्ज्ञानम—गौणम् बुद्धिः, तस्याः वृत्तिः । तस्याः फलं उपलब्धिः ॥, येन द्रष्टा सम्पन्नः ॥

द्रष्टृत्वं स्वभाव एवास्येति चेत्; किं बुद्धौ प्रतिबिम्बनेन । विशिष्टविषयावच्छेद इति चेत्; ततः पूर्वमनालम्बनं द्रष्टृत्वमघटमानमिति न नैसर्गिकं द्रष्ट्टरूपत्वं पुंसः स्यात् ॥ बुद्धि-पुरुषधर्मविभागानुपपत्तिः
दर्शनशक्तिः स्वाभाविकीति51 चेत्—न—तस्या भेदाभेदाभ्यां निरूपयिः तुमशक्यत्वात् । प्रतिबिम्बपक्षे च परस्परानुरागस्य तुल्यत्वात् अवियोगाच्च कथमिदं निर्धार्यताम्—अमी बुद्धिधर्माः, अमी पुन्धर्मा इति । न हि तयो पार्थगर्थ्येन कदाचित् स्वरूपावधारणं वृत्तम् ॥ बुद्धि पुरुषयोरवैलक्षण्यप्रसङ्गः
अनवधारितकार्यभेदत्वाच्च नानात्वमपि तयोर्दुर्वचम् । चेतनाचेतनत्वात् भोक्तृभोग्यत्वाच्च विस्पष्टं तयोर्नानात्वमिति चेत्—न—ज्ञानादियोगित्वं बुद्धेः अचेतनत्वं चेति चित्रम् ॥

अपि च कल्पयित्वाऽपि बुद्धिपुंसोर्नानात्वं बुद्धिधर्माः पुंसि, पुन्धर्माश्च बुद्धावारोपणीयाः इति किं भेदेन ! भेदे च बुद्धेर्ज्ञानादियोगित्वेन चेतन त्वापत्तेः एकत्र कार्यकारणसङ्घाते चेतनद्वयमनिष्टं प्रसज्येत ॥ बुद्धेरावश्यकत्वाभावः
नित्यमन्तःकरणमन्तरेण पुंसः उपलब्धिर्न भवेदिति बुद्धेः कल्पना चेत्—अस्त्येव नित्यमन्तःकरणं मनः । तेन करणेन कर्तुरात्मनः विषयो 52 पलब्धिक्रिया निर्वर्त्यते । सैव च बुद्धिरित्याख्यायते, न त्वन्या नित्या बुद्धिरस्तीति ॥ बुद्धेः कर्तृत्वाद्यनुपपत्तिः
किञ्च कस्य कृते परिदृश्यमानमात्मनो ज्ञानादिकर्तृत्वं उत्सृज्य बुद्धेरदृश्यमानं तदुपेयते । कोऽत्रातिशयः ?

ननु ! पुरुषस्य स्वातन्त्र्यात्मककर्तृत्वे53 सति स्वकृतकर्मफलोपभोगानन्त्यादनिर्मोक्षः स्यात् । न हि कर्मणां परिक्षयः जन्मकोटिशतैरपि शक्यक्रियः । यदा त्वकर्तारं उदासीनमेवं प्रकृतिर्बध्नाति, तदा सैव ज्ञाता सती मोक्ष्यतीति न दूरं मोक्षवर्त्म भविष्यतीति ॥ पुरुषस्यानिर्मोक्षप्रसङ्गः
अहो बत ! निखिलमेव मौर्ख्यं साङ्ख्यहृदयेष्वेव प्रतिष्ठितमिति कथ मन्यो जन इदानीं मूर्खो भविष्यति ! अचेतने हि निरङ्कुशे प्रधाने बन्धयितरि सुतरामनिर्वोक्षः स्यात् । तत्त्वविदमपि पुमांसं न बध्नाति प्रकृति रिति कोऽस्या नियन्ता ? पङ्ग्वन्धन्यायेन संयोगस्य तदाऽपि तुल्यत्वात् । निवृत्तकुतूहलः पुमानिति चेत्—प्रकृतिरनिर्मुक्तकौतुकाऽभिनववधूरिवस्थितैव54

अपि च, रे मूढ ! पूर्वमपि तपस्विना पुंसा किं कृतम्, यदाऽसौ बद्धोऽभूत् ? द्रष्टृत्वं तु तस्य रूपं तदविनाभूतमिति कैवल्यदशायामपि तन्न नश्यत्येवेति तदाऽपि तस्य बन्धनाय कथं न प्रवर्तेत निर्मर्यादा प्रकृतिः ?

दृष्टाऽस्मीति विरमतीति चेत्—मैवम्—न ह्यसौ एकपत्नीव्रतदुर्ग्रहगृहिता । निस्सङ्ख्यपुरुषोपभोगसौभाग्या प्रकृतिः किल सर्व कारणी एका ॥पण्यवनितेव, न वाऽसौ नियमेन व्यवहर्तुमर्हतीत्यास्तामेतत् ॥ महदादिसृष्टिक्रमनिराकरणम्
यच्च सत्त्वरजस्तमोभिः त्रिभिर्गुणैः समावस्थायाः प्रधानशब्दव्यपदेशभाजः प्रकृतेः महान्नाम बुद्धिरुत्पद्यते इत्यादि प्रक्रियाजालमालपितम्—तत्सर्वं महान्धपरम्परान्यायप्रवृत्तगुरुपाठक्रमोपनतमेव, न प्रमाणमूलम् । कार्याद्धि कारणमल्पपरिमाणमुपलभ्यते; न तु विपर्ययः । स्वावयवाश्रितस्य घटपटादेर्दर्शनात् । तदवयवानां तदपेक्षयाऽल्पत्वात् । अन्यस्या मृदः महापरिमाणत्वमप्रयोजकम् ॥ अहङ्कारादिसृष्टयनुपपत्तिः
अपि च—बुद्धिर्नाम विषयोपलम्भः । अहङ्कारोऽप्यहम्प्रत्ययरूपोऽ भिमानः बुद्धिविशेष एव । तेन बाह्यानीन्द्रियाणि जन्यन्ते, गन्धादयश्च गुणाः, गुणैश्च पृथिव्यादीनि भूतानीति महाव्यामोहः । इदं च चित्रम्— विषयजन्या हि सुखादयः प्रसिद्धाः । तेऽद्य सुखादिजन्या55 विषयाःसंवृत्ता इति नवेयं विश्वामित्रस्येव साङ्ख्यमुनेः सृष्टिः ॥ प्रकृतिसद्भावे प्रमाणाभावः
न च प्रधानास्तित्वमपि प्रमाणवत्, अन्वयादिहेतूनामसाधनत्वात्प्रकृतिः किल सर्व कारणी एका ॥ । चेतनानामपि हि कामं भवेदपि सुखदुःखमोहान्वितत्वम् । अचेतनानि भूतानि सुखदुःखमोहवन्तीति सुभाषितम् । घटे पटे शकटे च सुखदुःखमोहाः सन्तीति कः प्रतिपद्येत ? प्रकाशप्रवृत्तिनियमा अपि चेतनेष्वेव दृश्यन्ते, नाचेतनेष्वित्यसिद्धत्वाद्धेतोर्न प्रधानसिद्धिः ॥ सत्कार्यवादपरिक्षा
अपि च सत्कार्यवादमूल एष तपस्विनां विभ्रमः सर्वं सर्वत्रास्तीति । ततोऽन्वयसिद्धं बुध्यमानास्ते प्रधानसिद्धावध्यवसिताः । सत्कार्यवादश्च विचार्यमाणः न समस्त्येवेति कुतस्त्या हेतुसिद्धिः ? कार्यकारणभावविषये विप्रतिपत्तिः
ननु ! सत्कार्यवादे कार्यकारणभावो भवति भावानां, नान्यथा । तथा हि—चतुष्टयी गतिरिह स्यात् । घटादिकार्यं मृत्पिण्डादिना कारयेन क्रियमाणं असद्वा क्रियते ? सद्वा ? सदसद्वा ? अनुभयस्वभावं वा ? इति ॥ साङ्ख्यैः असत्कार्यवादनिरासः
तत्रासतः करणे खरविषाणादेपि करणं स्यात् । असत्त्वे हि घटस्य खरविषाणस्य को विशेषः ? घटस्यापि प्रागभावप्रध्वंसाभावदशयोः असत्त्वाविशेषात् प्रागभावदशायामिव प्रध्वंसदशायामपि करणं भवेत् ॥

असत्करणे च नियतोपादानग्रहणं न प्राप्नोति । तैलार्थी तिलसर्षपानुपादत्ते, न सिकताः । असत्त्वे56 च तैलस्य को विशेषः सर्षपाणां सिकताभ्यः ॥

असति च कार्ये, निरालम्बनः कारकव्यापारो भवेत्, न ह्यसौ मृत्पिण्डादिविषयो भवितुमर्हति57 । कार्यं चासत् ॥ उपादानोपादेययोर्भेदानुपपत्तिः
अपि चाविद्यमाने कारणव्यतिरिक्ते च कार्ये जन्ये तत्कारणस्य मृत्पिण्डादेः घटादिकार्यं जनितवतः किमिति न स्वरूपमुपलभ्यते58

अथ स्वविनाशेन कारणं कार्यस्य जनकमिष्यते, तदियमभावाद्भावोत्पत्तिर्भवेत् । तस्यां च कुतोऽयं नियमः, यदनन्तरवृत्त एव मृत्पिण्डाभावः कुम्भमभिनिर्वर्तयति, न चिरातिक्रान्त इति । अतश्च59 परुत्मृत्पिण्डे नष्टे एषमः कुम्भोत्पादः स्यात् ॥

अथ स्वाव्यतिरिक्तमेव कारणेन कार्यं जन्यते, तर्हि कारणस्य सत्त्वात् तदव्यतिरिक्तं कार्यं सदेवेति नासतः करणम् ॥ कार्यस्य सदसद्रूपत्वनिरासः
सदसदपि न कार्य वक्तुं युक्तम्—सदसतोर्विप्रतिषेधेन एकत्र समावेशायोगात् । रूपभेदादविरोध इति चेत्—न—कार्यस्य विचार्यमाणस्यैकत्वात् । तच्च तेनैव स्वेन कार्येण रूपेण सच्चेत्, नासद्भवेत् । असच्चेत्, न सत् इति पररूपेण त्वसत्त्वं सर्वभावानामस्त्येव ॥

अनुभयात्मकं तु वस्तु नास्त्येवेति तत्पारिशेष्यात् सदेव कार्यम् ॥ तिलेष्विति शेषः ॥
किमिति च तदा नोपलभ्यत इति चेत्—अनुमानेनापि यदुपलब्धं तत् किमनुपलब्धं भवति ? प्रत्यक्षेण तु तदनीमनुपलम्भोऽनभिव्यक्तत्वात् । अभिव्यतिसम्पादन एव च कारकप्रयत्नसाफल्यम् । कार्यं तु सदेवेति ॥ कार्यस्वरूपसिद्धान्तः सत्कार्यवादनिरासश्च
अत्राभिधीयते—केन तु रूपेण तदानीं कार्यं सदिति मन्यसे ? यदि कारकव्यापाराभिनिर्वर्त्येन सलिलाहरणाद्यर्थक्रियासमर्थेन पृथुबुध्नोदराकारवता रूपेण चक्रमूर्धनि घटोऽस्तीति—तदाऽभिव्यक्तेनापि रूपेण सत्त्वात् अत्यन्ताय कारकव्यापारवैफल्यम् । इत्यमपि च कारकप्रवृत्तौ तद्व्यापारानुपरमप्रसङ्गः60 । किं हि तदोपलभ्य कारकाणि निवर्तेरन्, कार्यस्य प्रागुपलब्धत्वात् ॥ घटस्य पूर्वं सत्त्वासम्भवः
अथ मृत्पिण्डरूपेण तदानीं घटोऽस्तीति कथ्यते, न तर्ह्यसौ तदानीं घटोऽस्ति, मृपिण्ड एवावस्ति । न ह्यन्यरूपेणान्योऽस्तीति शक्यते वक्तुम् । उष्ट्रोऽप्यसन् मृत्पिण्डरूपेणास्तीति स्यात् ॥

अथोष्ट्ररूपमुत्तरकालमपि न निर्वर्त्यते, घटस्तु ततो निर्वर्त्यते— यद्येवं यदैवासौ निर्वर्त्यते, तदैवास्ति, न ततः पूर्वमिति ॥

अथ पूर्वं शक्तयात्मना तस्यास्तित्वं, इदीनीं अभिव्यक्त्यात्मना क्रियते इति—तदप्यनुपपन्नम्—अभिव्यक्तिरपि तत्स्वरूपाद्भिन्ना, अभिन्ना वा ? सती, असती वा ? इति विकल्प्यमाना न पूर्वोक्तं दोषमतिवर्तते ॥ अभिव्यक्तिस्वरूपविमर्शः
का चेयमभिव्यक्तिः ? किं कार्यात्मनाऽवस्थानम्, अथ संस्थानविशेषः, उत प्रतीतिः ? इति ॥

यदि कार्यात्मनाऽवस्थानं, तत्पूर्वं नाभूत्, तदधुना भूतमित्यसत्कार्यम् । पूर्वमपि वा यदि तदासीत्, तदा पुनः कारकवैफल्यम् ॥

संस्थानमपि अवयवसन्निवेशविशेषः । स चासन्नेव क्रियते । अवयवास्तु सन्तीति कस्यात्र विवादः ?61 न हि परमाणवोऽस्माभिर्नाङ्गीकृताः ॥

प्रतीतिस्तु घटस्य चक्षुरादिकारकसामग्र्यधीना, न मृत्पिण्डदण्डचक्रादिकारकचक्रसाध्येति, सा चक्रमूर्धनि घटस्य नास्त्येवेति असन् घटः ॥

दर्शनादर्शनाधीने सदसत्त्वे हि वस्तुनः ।
दृश्यम्यादर्शनात्तेन62 चक्रे कुम्भस्य नास्तिता ॥

चक्रमूर्धवत् प्रध्वंसदशायामप्यनुपलम्भात् घटस्य नास्तित्वमेवेति । अतश्च— “ नासतो विद्यते भावः नाभावो विद्यते सतः [गी। २-१६]


इत्यप्रमाणकम्,63 पूर्वापरान्तयोर्भावस्वरूपादर्शनात् ॥ शक्त्यात्मनापि कार्यस्य न सत्त्वम्
शक्त्यात्मनाऽपि यदस्तित्वमस्योच्यते—अत्रापि चिन्त्यम्—केयं शक्तिर्नामेति । यदि घटस्वरूपाद्भिन्नाऽसौ, तर्हि पररूपेण घटोऽस्ति, स्वरूपेण च नास्तीत्यसत् कार्यमुक्तं स्यात् । घटादभिन्नत्वे तु शक्तेः शक्तिरूपेण घटोऽस्तीति स्वरूपेणैव घटास्तित्वमुक्तं भवेत् । तच्च प्रत्यक्षविरोधान्निरस्तम् ॥ असत्कार्यवादे दूषणोद्धारः
असत्करणपक्षे च यच्चोदितं—शशविषाणाद्यपि क्रियेतेति—तत्तु वचनव्यक्त्यपरिज्ञानात् । “यदसत्, तत् क्रियते” इति नेयं वचनव्यक्तिः, अपि तु “यत् क्रियते, तदसत्” इति ॥ असतः कार्यस्य शशशृङ्गादिवैलक्षण्यम्
स्वरूपसहकार्यादिहेतवो यद्विधायिनः ।
दृश्यन्ते, जन्यते तद्धि न व्योमकुसुमादिकम् ॥

प्रागभावदशायां64 च हेतुव्यापारदर्शनम् ।
न तु प्रध्वंसवेलायां अतः कमनुयुञ्ज्महे ॥

उपादानं तु सर्वस्य यन्न सर्वत्र दृश्यते ।
तन्न कार्यस्य सद्भावात्, अपि त्वेवं निरीक्षणात् ॥

अद्यत्वे व्यवहारोऽपि नैवापूर्वः प्रवर्तते ।
यथोपलब्धो वृद्धेभ्यः स तथैवानुगम्यते ॥

तैलार्थी सिकताः कश्चिदाददानो न दृश्यते ।
अदृष्टवा चाद्य नान्योऽपि तदर्थी तासु धावति ॥

अन्वयव्यतिरेकौ च गृह्येते व्यवहारतः ।
अनादिश्चैष संसारः इति कस्यानुयोज्यता ॥

कारणस्य कार्यानुकूलशक्तिमत्त्वम्
अथवा शक्तिनियमादेवोपादाननियम उपपत्स्यते ॥

शक्तिस्तु नित्या सूक्ष्मा च नेह काचिदुपेयते ।
तदभ्युपगमे नित्यं कार्योत्पत्तिप्रसक्तितः65

किन्तु योग्यतावच्छिन्नस्वरूपसहकारिसन्निधानमेव शक्तिः । सैवेयं द्विविधा शक्तिरुच्यते—अवस्थिता,66 आगन्तुकी च । मृत्त्वाद्यवच्छिन्नं स्वरूपं अवस्थिता शक्तिः । आगन्तुकी च, दण्डचक्रादिसङ्गरूपा । शक्तिद्वयकृता च कार्यनिष्पत्तिरसकृद्दृष्टेति तदर्थिभिस्तु तदुपादानम् ॥

योग्यताऽपि नार्थान्तरं किञ्चित्, किन्तु वस्तुविशेष एवेत्येवं वस्तुविशेषनियमात् उपादाननियमसिद्धेः न सत् कार्यम् ॥ योग्यता न कार्यस्वरूपा
न च शक्तिरेव कार्यमिति वक्तव्यम् । कार्यस्वरूपस्य ततः पृथ ग्भूतस्य प्रतीत्या व्यवस्थापनात् । शक्तेश्च कार्यत्वे कार्यादेव कार्योत्पादोऽ ङ्गीकृतः स्यात् । न च घटात् घट उत्पत्तुमर्हति । शक्तेश्च कार्यमुत्पद्यत इत्यभ्युपगतम् । अतोऽन्यत् कार्यम्, अन्या च शक्तिः ॥ योग्यताया अद्विष्ठत्वम्
ननु ! वाच्यवाचकयोश्शब्दार्थयोः, व्यङ्ग्यव्यञ्जकयोश्च दीपघटयोः उभयाश्रिता शक्तिर्दृष्टेति कार्यकारणयोरप्यसावुभयाधिष्ठाना67 भवितुमर्हति । असति द्वितीये कार्याख्ये तदाश्रये कथमियमुभयाश्रिता स्यादिति ॥

नैतदेवम्—यथादर्शनं शक्तेरभ्युपगमात । न चैकत्र दृष्टं रूपमन्यत्रापि मृग्यते । वाच्यवाचकयोः व्यङ्ग्यव्यजकयोश्च द्वयोः पृथक्त्वेन दर्शनादुभयाश्रिता शक्तिरङ्गीकृतेति हेतुद्वयस्यानुपलम्भात् केवलकारणवत्तिरेव शक्तिः । तत्कृतश्चोपादाननियम इति सिद्धम् ॥ असत्कार्यवादे स्वारस्यम्
असत्कार्यपक्ष68 एवोपादाननियमविचारो युक्तः ॥

उत्पत्तौ खलु सिद्धायां उपादानं विचार्यते ।
सतस्तु नैव नास्तीति किमुपादानचिन्तया ॥

सत्कार्यवादे च सुतरामुपादाननियमो दुर्घटः; सर्वस्य सर्वत्र भावात्69 । सिकतातिलसरित्तीरकेदारव्यप्तबीजनियताङ्कुरादिक्रमोत्पद्यमानतिलस्वरूपपर्यालोचनया तिलेष्विव सिकतास्वपि70 तैलसम्भवात् । —सर्वस्य सर्वत्र चास्तित्वे नियतपदार्थप्रतिष्ठितहानोपादानादिव्यवहार सकल एव विप्लवेत ॥ सत्कार्यवादे असामञ्जस्यम्
अपि च प्रायश्चित्तमेष तपस्वी तप्तकृच्छ्रमतिकष्टं कथं चरिष्यतीति महन्मम मनसि कारुण्यम् । अन्नं च तावदयमश्नाति, अन्ने च वर्चोऽस्तीति71 विड्भक्षणात् प्रायश्चित्तीयत एवायमिति अलं सत्कार्यवादप्रमादेन ॥ असत्कार्यवादे दोषोद्धारः
यत्पुनरभाणि—कारणानुपमर्देन कार्यानुत्पादात् अभावाद्भावोत्पत्तिर्भवेत् । तत्र चानन्तरवृत्त्युत्पत्तिनियमो न स्यात् इति—तदप्ययुक्तम्— मूर्तानां समानदेशर्त्वावरोधात् कार्यकारणयोरेकदेशत्वं नेष्यते । नैतावता भावोत्पत्तिरभावाद्भवितुमर्हति,72 कारणाधीनतदुत्पाददर्शनात् । अत एवानन्तर्यनियमोऽप्युपपन्नः । न च कार्यकारणयोरभेदात् सत् कार्यमिति वक्तव्यम् । तयोः प्रत्यक्षसिद्धभिन्नस्वरूपत्वात् ॥ असम्बद्धात्कार्योत्पत्तिनिरासः
यत्तु निरलम्बना कारकप्रवृत्तिरिति चोदितम्—परिहृतं तत् भाष्यकारेण “बुद्धिसिद्धं तु तदसत्” इति । वृद्धव्यवहारतः कार्यकारणभावा मवगम्य अमुष्मात् कारणात् इदमीदृशं कार्यमुत्पद्यत इति बुद्धौ निर्धार्य कारकाणि73 कर्ता नियुङ्क्त इति न निर्विषयः कारकव्यापारः ॥

तदेवं सत्कार्यवादस्य निष्प्रमाणकत्वात् तन्मूलान्वयादिहेतुसिध्यभावात् न प्रधानास्तित्वसिद्धिः । तदभावाच्च न तद्विकृतिः नित्याबुद्धिः । अपि तु ज्ञानोपलब्धिरूपैवेति सम्यक् सूत्रितं “बुद्धिरुपलब्धि र्ज्ञानमित्यनर्थान्तरम्” इति ॥ बुद्धेरनित्यत्वम्
इतश्चानित्या बुद्धिः—जानामि, ज्ञास्यामि, अज्ञासिषमिति उपजननापायधर्मतया पाकादिवत् कालत्रयेऽपि प्रकाशमानत्वात् । ज्ञानव्यतिरिक्तायाश्च बुद्धेरप्रतिभासात् ॥

अयं तु विशेषः । पाकादिक्रियाणां ओदनादिफलावच्छेदद्वारकं कालवैतत्यमपि भवति । उपलब्धेस्तु वस्तुस्वरूपप्रकाशनमात्रपरिसमाप्तप्रयोजनायाः कालवेतत्यं नास्त्येव । अत एवानित्यत्वेऽपि उत्पन्नापवर्गिणीमेव बुद्धिमाचक्षते, शब्दवत्; न घटादिवत् कालान्तरस्था यिनीमिति ॥ बुद्धेरात्मगुणत्वम्
सा चेयं बुद्धिः आत्मान्तःकरणशब्ददीपेन्द्रियार्थाद्यनेककारककलापकार्याऽपि सती न बाह्येन बाह्यकर्मणि समवैति । न बाह्यकरणे चक्षुरादौ । नान्तःकरणे मनसि । किन्तु कर्तर्येव । कर्ताऽपि च नित्यः विभुरात्मा, न भूतसङ्घातस्वभावः कार्यस्तस्या आश्रय इत्यात्मपरीक्षायां निर्णीतम् । गुणत्वमपि चास्यास्तत्रैव दर्शितम् ॥ बुद्धेराशुतरविनाशित्वे हेतुः
ननु एवं तर्हि न बुद्धेरनित्यत्वम्, विनाशकारणाभावात् । द्विविधो हि गुणानां विनाशहेतुः—आश्रयविनाशः, विरोधिगुणप्रादुर्भावो वा । नेहाश्रयविनाश, नित्यत्वादात्मनः । न च विरोधिनमस्याः कं चिद्रुणमुपलभामहे—न—शब्दवदाशुविनाशित्वात् । नित्याकाशगुणोऽपि शब्दः शब्दान्तरमारभ्य यथा विनश्यति, तथा बुद्धिः बुद्ध्यन्तरमारभ्य विनश्यतीति तथा दर्शनात् कल्प्यते । यावांश्च कश्चन विनाशदर्शनभेदोपलम्भादिः शब्दस्यानित्यतायां न्याय उक्तः, स सर्वोऽपि बुद्धावपि योजनीयः ॥ ज्ञानानामगपद्यकारणम्
अत एव न बुद्धीनामेकप्रमातृवृत्तीनां यौगपद्य विद्यते, वर्णानामिवैकवक्तृप्रयुक्तानाम् । विनश्यदविनश्यद्दशयोस्तु बुद्ध्योराशु विनाशित्वेऽपि यौगपद्यमनुभवादभ्युपेयतइत्यलमतिविस्तरेण74

बुद्धेरनित्यतायां च प्रायेण सर्ववादिनामविवादः । तथा चाह जैमिनिः “सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षम्” इति ॥ बुद्धेरपि हेयत्वम्
अचिररुचिवत्तस्मात् बुद्धिर्निसर्गविनश्वरी—

भवति जनकः स्वात्मा तस्याः स एव समाश्रयः ।
भवमरुभवैस्तापैः या जातमेव युनक्ति सा—
व्यसनजननीं जह्यादेनां परमार्थवित् ॥

—इति बुद्धिपरीक्षा— मनःपरीक्षा
युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ॥ १-१-१२ ॥

मनसो यदेव सत्त्वे प्रमाणं, तद्गम्यत्वमेवास्य लक्षणम्, समानेतरजातीयव्यवच्छेदकारित्वात् ॥ मनसः प्रत्येकगणनायां हेतुः
ननु ! मनस इन्द्रियत्वात् तद्वर्ग एव पठनं युक्तम् । किमर्थोऽयं पृथङ्निर्देशः ?—न—धर्मभेदात् । भौतिकानीन्द्रियाणि नियतविषयाणि । सगुणानां चैषामिन्द्रियभावः । मनस्तु न भौतिकम्, न नियतविषयम् । न चास्य सगुणस्येन्द्रियभावः75 इति ॥ मनसः अभौतिकत्वम्
तच्च न भौतिकम्, अकार्यत्वात् । अत एव न तद्गुणयोगि । न च नियतविषयम् । सर्वविषयत्वं त्वस्य सकलबाह्येन्द्रियाणामधिष्ठातृत्वत् । तदनधिगम्यसुखादिविषयग्राहित्वाच्च । बाह्येन्द्रियाणि हि मनोऽ धिष्ठितानि स्वविषयेषु प्रवर्तितुमुत्सहन्ते चक्षुरादीनि, नान्यथा ॥

कस्मादेवमिति चेत्—युगपत् ज्ञानानुत्पत्तेः । उत्तरकालं च बाह्येन्द्रियव्यापारविरहेऽपि तदर्थावमर्शात्—

अस्त्येकेन्द्रियगम्येषु क्वचिज्जातिगुणादिषु ।
विज्ञानायौगपद्यं यत् मनसस्तन्न साधनम्76

तत्र विषयादिदोषेण दूरत्वादिना जात्यादेः युगपत् गृहीतुमशक्यत्वात् ॥ ज्ञानायैगपद्यस्य मनस्साधकत्वम्
यत्तु—नानेन्द्रियग्राह्येषु युगपत्सन्निहितेष्वपि गन्धरसरूपादिषु विषयेषु तद्ग्रहणेषु च स्वकार्यानुमितसन्निधानेषु, सत्स्वप्यविकलेषु कारणेषु युगपदुपलब्धयो न भवन्ति, ततोऽवसीयते—नूनं कारणान्दरमेभिरपेक्ष्यते । तच्च मन इत्याख्यायते ॥ ज्ञानायौगपद्ये कारणम्
ननु च !

सुगन्धि शीतलां दीर्घां अश्नन्तः शुष्कशष्कुलीम् ।
कपिलब्राह्मणास्सन्ति युगपत् पञ्चबुद्धयः ॥

अपि च अयं खल्वध्यापकः अधीते, व्रजति, कमण्डलुं धारयति, पन्थानं पश्यति, शृणोत्यरण्यजान् शब्दान्, बिभ्यत् व्याललिङ्गानि बुभुत्सत इति क्रमाग्रहणात् युगपदेता बुद्धयोऽस्य भवन्तीति—न—आशूत्पत्तेः सूच्यग्रभिद्यमानकोकनददळकदम्बकालवदतिसूक्ष्मत्वात् कालस्य क्रमस्तत्र न विभाव्यते । भवितव्यं77 तु तेनेति ॥ स्मृतिकारणतयाऽपि मनस्सिद्धिः
यदि कारणान्तरनिरपेक्षचक्षुरादिकरणसाध्या एव रूपादिविषयोपलब्धयः, तदुत्तरकालमुपहतकरणानामपि कथं स्मरणादिरूपस्तदवमर्शः ? अतो नूनं नयनादिवत् करणान्तरमविकलं तद्ग्राहि विद्यते ॥ मनसः अणुत्वादिः
अव्यापकं च तत् । व्यापित्वे न हि बुद्धीनां यौगपद्यं निवर्तते । अस्ति चायं व्यवहारः उक्तेऽपि क्यचिद्वचसि कश्चिदाह, “नाहमेतदश्रौषम, अन्यत्र मे मनोऽभूत्” इति । तस्मान्न व्यापकं मनः ॥

प्रतिशरीरमेकं च, तदनेकत्वे पुनरपि ज्ञानयौगपद्यानपायात् ॥

क्रियावच्च तत्, निष्क्रियेणेन्द्रियाणामधिष्ठातुमशक्यत्वात् ॥

मूर्त च तत्, अमूर्तस्य क्रियानुपपत्तेः ॥

मूर्तत्वे सति नित्यं च तत् निरवयवत्त्वात्, अनाश्रितत्वाच्च मुर्तत्वं त्वनित्यतायामप्रयोजकमिति वक्ष्यामः ॥

निरवयवं च, तदवयवकल्पनायां प्रमाणाभावात् ॥

वेगवच्च, तदाशुसञ्चारात् । आशुसञ्चारमन्तरेणोपलब्धिशैघ्र्यस्य दृष्टस्यानुपपत्तेः ॥

इन्द्रियसंयोगि च तत्, द्रव्यत्वात् ॥

द्रव्यं च तत्, वेगादिगुणयोगात्; क्रियावत्त्वादनाश्रितत्वाच्च ॥

अचेतनं च तत्, कारणत्वात्, इतरथा ह्येकत्र शरीरे चेतनद्वय समावेशात् अव्यवहारः स्यादिति । तस्मादेवंरूपं मनः ॥

साङ्ख्योक्तं सु तस्य रूपमयुक्तमिति तत्प्रक्रियानिषेधादेव व्याख्यातम् ॥ मनस्साधकहेत्वन्तराणि
अन्यान्यपि स्मृत्यनुमानागमसंशयप्रतिभास्वप्नोहज्ञानानि, आन्तरसुखदुःखेच्छाद्वेषादिविषयग्राहीणि च ज्ञानानि मनसो लिङ्गानि सन्त्येव । तेषां बाह्येन्द्रियव्यापारसाध्यत्वासम्भवात् करणरहितायाश्च क्रियाभिनिवृत्तेरदर्शनादिति ॥ मानसानि ज्ञानानि
स्मृतिस्तावन्मनोजन्यैव । अनुमानागमज्ञानं तु परोक्षार्थविषयत्त्वात् मानसम्78 । संशयस्तु मानसोऽपि कश्चिद्वक्ष्यते । प्रतिभा मनासी दर्शितैव—“श्वो मे भ्राताऽऽगन्ता” इति । स्वप्नज्ञानमुपरतेन्द्रियग्रामस्य भवत् कथं नाम न मानसम् ॥

तर्कोऽपि संशयवत् क्वचिद्विषये मानसो भवत्येव । सुखादीनां तु ज्ञप्तिवत् उत्पत्तिरपि मनोनिबन्धनैव । कार्यणामात्मगुणानामुत्पत्तौ प्रत्यासन्नकारणान्तरसम्भवेऽपि आत्ममनस्संयोगस्यावधृतसामर्थ्यस्यासम वायिकारणत्वात् । अतश्च विषयानुभवजन्येऽपि सुखादौ मनस्संयोगः कारणम् ॥

सुखादीनां च बोधस्वरूपत्वं79 स्वसंवेद्यत्वं च निरस्तम् । अतस्तदुपलब्धौ मनस एव कारणता ॥ मनसः संस्कारविशेषवत्वम्, हेयत्वं च
तदिदं मनः पूर्वकृतशुभाशुभकर्मसङ्कारवताऽऽत्मना80 तद्वशादेव शरीरदेशे संयोगं प्रतिपद्यते । तत्रैव च जीवनव्यवहारः । विपच्यमानकर्माशयसहितः आत्ममनस्संयोगो जीवनमिति हि वदन्ति । संयुक्तञ्चात्मना मनः तेषु तेषूपपत्तिस्थानेषु नानाविधभोगसाधनतया संसारकारणं भवति । नित्यत्वादात्ममनसोः अनादित्वाच्च संसारस्य नेदं चोदनीयं—प्रथममेव81 कथं आत्ममनसोस्संयोग इति । न हि प्रथमो नाम कश्चित् कालः समस्ति; आदिसर्गस्यापि पूर्वसर्गसापेक्षत्वात् । ईश्वरोऽपि हि कर्मापेक्ष एव विचित्रस्य जगतः स्रष्टेति निर्णीतमेतदिति कृतं विस्तरेण ॥

विदधत्सुखादिभोगं वहच्च तरलेन्द्रियाश्वसारथिताम्82
बन्धनिमित्तं मन इति मनस्विना यत्नतो हेयम् ॥

—इति बुद्धिपरीक्षा— प्रवृत्तिपरीक्षा
प्रवृत्तिर्वाग्बुद्धिशरीरारम्भः ॥ १-२-२७ ॥

वागिति वर्णात्मकशब्दकारणसंयोगाद्युच्यते, नेन्द्रियमिति83 व्याख्यातम् । बुद्धिरिति मन इहोच्यते, नोपलब्धिः । शरीरं प्रसिद्धम् । तेषां आरम्भः व्यापारः, तैर्वा आरम्भ इति सर्वथा तदीयक्रिया प्रवृत्तिरित्युच्यते ॥ पापरूपा प्रवृत्तिः
सा च द्विविधा पुण्या पापिका च । तत्र पापिका वाचा चतुर्विधा, मनसा त्रिविधा, शरीरेण त्रिविधैवेति दशविधा ॥

वाचा प्रवृत्तिस्तत्र अनृतपरुषसूचनासम्बद्धवचनरूपा चतुर्विधा ॥

परद्रोहपरद्रव्याभिलाषनास्तिक्यानुव्यानरूपा त्रिविधा मनसा प्रवृत्तिः ॥

हिंसास्तेयप्रतिषिद्धमैथुनाचरणरूपा त्रिविधा शरीरेण प्रवृत्तिः । मैथुनग्रहणं एवम्प्रकारसुरापानाद्युपलक्षणार्थम् । सेयं दशविधा प्रवृत्तिः अनवरतमभिज्वलतो निरतिशयदुःखवेदनादायिनो नरकानलस्येन्धनम् ॥ पुण्यरूपा प्रवृत्तिः
पुण्याऽपि सत्यप्रियहितवचनस्वाध्यायाध्ययनरूपा चतुर्विधा वाचा प्रवृत्तिः । जपयज्ञे हि स्वाध्यायपाठ एवोपांशुना, अन्तस्सञ्जल्पेन वा ॥

अस्पृहाऽनुकम्पापरलोकश्रद्धात्मिका त्रिविधा मनसा प्रवृत्तिः ॥

दानपरित्राणपरिचरणरूपा त्रिविधा शरीरेण प्रवृत्तिरितीयमपि दर्शविधैव । एषा च स्वर्गसदनद्वारसोपानकल्पा ॥ प्रवृत्तेः द्विविधत्वम्
सेयमुभयतो विंशतिभेदा प्रवृत्तिः सङ्क्षेपतो द्विविधैव, विधिनिषेधात्मकतदवगमोपायभेदात् । विधिनिषेधावगमशरण एव हि सदसत्कर्मावगमः । तत्र विहितानुष्ठानं स्वर्गाय, निषिद्धाचरणं नरकायेत्येवं सुखदुःखोपभोगस्थानशरीरेन्द्रियाद्यभिसम्बधनिबन्धनमेषा प्रवृत्तिर्भवन्ती संसारस्य परमं कारणं भवति ॥ प्रवृत्तेर्धर्माधर्महेतुत्वम्
यो ह्ययं देवमनुष्यतिर्यग्योनिषु शरीरसंसर्गः, यश्च प्रतिविषयं बुद्धिसंसर्गः, यश्चात्मना सह मनसस्संसर्गः स सर्वः प्रवृत्तेरेव परिणामविभवः । वृत्तेश्च सर्वस्याः क्रियात्वात् क्षणिकत्वेऽपि तदुपगतो धर्माधर्मशब्दवाच्यः आत्मसंस्कारः कर्मफलोपभोगपर्यन्तस्थितिरस्त्येव । न च फलमदत्त्वा धर्माधर्मौ क्षीयेते । अन्त्यसुखदुःखसंविद्विरोधिनौ हि धर्माधर्मावुदाहरन्ति84 । न च जगति तथाविधं किमपि कार्यमस्ति वस्तु, यन्न धर्माधर्माभ्यामनाक्षिप्तसम्भवमिति तदुच्छेदे मुमुक्षुणा यत्न आस्थेयः ॥

इति वितनुतः पुण्यापुण्यप्रवृत्तिसमुद्भवौ
निगलवदिमौ धर्माधमौ रुजं भवबन्धने ।
यदि निरवधेर्दुःखस्यान्तं चिकीर्षसि सर्वथा
परिहर मनोवाक्कायानां प्रवृत्तिमनर्गलाम् ॥

दोषपरीक्षा
प्रवर्तनालक्षणा दोषाः ॥ २-२-२७ ॥

प्रवर्तना प्रवृत्तिं प्रति प्रयोजकता । सा लक्षणं येषामिति प्रवर्तनालक्षणा दोषाः । दोषप्रयुक्तो हि पुरुषः पुण्ये कर्मणि, पापे वा प्रवर्तते ॥ दोषस्यानुपदेश्यत्वशङ्कापरिहारौ
ननु ! प्रत्यात्मवेदनीयतया दोषाणां स्वरूपमपरोक्षमेव । तत् किमर्थमेषां लक्षणतो रूपं निरूप्यते—सत्यम्—प्रत्यात्मवेहनीयत्वेऽपि यदेषां प्रवर्तनालक्षणत्वमुपदिश्यते, तदनेन रूपेण संसारकारणत्वज्ञापनार्थम् । धर्माधर्मनिर्मितो हि शरीरादिदुःखाधिष्ठानसम्बन्धः । तद्बीजस्य च कर्मणः कारणं दोषाः कर्मणि पुमांसं प्रवर्तयन्तो भवन्तीति प्रवर्तनालक्षणा इत्युक्ताः ॥

परसन्तानवर्तिनां85 दोषाणां अप्रत्यक्षत्वात् तत्प्रतीतये प्रवर्तनालक्षणत्त्वकथनमिति त्वपव्याख्यानम्—अल्पप्रयोजनकत्वादिति ॥ दोषाणां विभागः
तेषां दोषाणां त्रयो राशयो भवन्ति, रागः द्वेषः मोहः इति । तत्रानुकूलेष्वर्थेषु अभिलाषलक्षणो रागः । प्रतिकूलेष्वसहनलक्षणः द्वेषः । वस्तुपारमार्थ्यापरिच्छेदलक्षणो मिथ्याध्यवसायो मोहः ॥ ईर्ष्यादीनां कॢप्तेष्वेवान्तर्भावः
ननु च ! ईर्ष्यासूयालोभमानमदमत्सरादिदोषान्तरसम्भवात् कथं त्रय एव दोषाः ?—न—ईर्ष्यादीनां यथानिर्दिष्टेष्वेवान्तर्भावात् ॥ रागप्रभेदाः
कामः, मत्सरः, स्पृहा, तृष्णा, लोभ इति पञ्चप्रकारो रागपक्षः । स्त्रीसंयोगेच्छा कामः86 । यदन्यस्मै निवेद्यमानमपि वस्तु धनवन्न क्षीयते, तदपरित्यागेच्छा मत्सरः । अनात्मीयवस्त्वादित्सा स्पृहा । पुनर्भवप्रति सन्धानहेतुभूतेच्छा तृष्णा । निषिद्धद्रव्यग्रहणेच्छा लोभ इत्यभिलाषप्रकारभेदात् रागपक्ष एवायम् ॥ दोषप्रभेदाः
द्वेषपक्षोऽपि पञ्चविधः, क्रोधेर्ष्यासूया द्रोहोऽमर्ष इति । अक्षिभ्व्रादि विकारहेतुः प्रज्वलनात्मकः क्रोधः । साधारणेऽपि वस्तुनि परस्य दर्शनाद्यसहनं ईर्ष्या । परगुणेष्वक्षमा असूया । परापकारः द्रोहः । अदर्शितमुखादिविकारः परं प्रति मन्युः अमर्षः इति असहनप्रकारभेदादेष द्वेषपक्षः ॥ मोहप्रभेदाः
मोहपक्षस्तु चतुर्विधः—मिथ्याज्ञानं, विचिकित्सा, मानः, प्रमाद इति । अतस्मिंस्तदिति ज्ञानं मिथ्याज्ञानम् । किं स्विदिति विमर्शो विचिकित्सा । असद्गुणाध्यारोपेण स्वोत्कर्षबुद्धिर्मानः87 । कियदेतदित्यवज्ञया कर्तव्याकरणं प्रमादः । स एव मद इत्याख्यायते । सोऽयं तत्त्वापरिज्ञानप्रकारभेदान्मोहपक्षः ॥ मोहस्य पापतमत्वम्
एवं त्रय एवैते दोषाः । शोकहषौ तु सुखदुःखे उच्येते, न दोषान्तरम् । तेषां तु मोहः पापतमः, इतरयोस्तु तदधीनात्मलाभत्वात् । मूढस्य88 हि रागद्वेषौ भवतः, मिथ्यासङ्कल्पादुत्पद्यमानयोरनुभवात् । कुसङ्कल्पश्च मिथ्याज्ञानप्रकृतिः । एवं मिथ्याज्ञानस्यैव भगवतः सर्वमिदं विलसितं, योऽयमनेकप्रकारः संसारदुःखभारः ॥ मोहस्य स्वतो दोषत्वम्, दोषहेतुत्वं च
यद्येवं न तर्हि मोहस्य दोषत्वम्, दोषकारणत्वादिति—न—तल्लक्षणा नपायात् । सत्यपि दोषान्तरहेतुत्वे स्वयमपि पुरुषप्रवृत्तिप्रयोजकत्वलक्षणयोगात् रागवत् दोषत्वं न मोहोऽपि जहाति । त इमे दोषाः संसारहेतव इति यत्नतः शमनीयाः ॥ दोषशमनोपायः
कथं पुनरमी शमयितुं शक्याः ? उक्तमत्र—नाकस्मिकाः, न नित्याः, नाज्ञातशमनोपायाः, न चाशक्यप्रतिक्रिया इति । विस्तरतश्चैतदप वर्गाह्निके परोक्ष्यते । मिथ्याज्ञाननिमित्ताः खल्वेते दोषाः । तस्मिन् सम्यग्ज्ञानप्रभावनिहते हेतोरभावान्न भवन्त्येवेति ॥ दोषस्य एकत्वशङ्कापरिहारौ
ननु ! एवं प्रसवविनाशकारणयोरेकत्वात्89 एक एव दोषो भवेदिति त्रित्वं हीयेत—न—अनुभवसिद्धभेदत्वात् । अनुभूयते हि रागद्वेषमोहानामितरेतरविभक्तं स्वरूपम् । कारणैकत्वं तु न प्रयोजकम्, एकस्मादेव ज्वलनसंयोगात् उत्पद्यमानानां विनश्यतां च पार्थिवपदार्थवृत्तीनां गन्धरस रूपस्पर्शानां नानात्वदर्शनात् । अतः सूक्तं दोषणां त्रैराश्यमिति ॥

संसारकाराभवनप्रवेश-
मार्गास्त एते त्रय एव दोषाः ।
एषां प्रहाणोद्यममादधानः
न जन्ममृत्यू पुनरभ्युपैति ॥

प्रेत्यभावपरीक्षा
पुनरुत्पत्तिः प्रेत्यभावः ॥ १-१-१९ ॥

कस्येयं पुनरुत्पत्तिरुच्यते, आत्मनः शरीरस्य वा ? तत्रात्मनो नित्य त्वादुत्पत्तिरेव नास्ति, का कथा पुनश्शब्दार्थस्य ? शरीरस्य तु उत्पत्तिरस्ति, न तु पौनःपुन्येन । न हि मृतं शरीरं तदेव पुनरुत्पद्यते । तस्मात् पुनरुत्पत्तिः प्रेत्यभाव इत्यवाचकं सूत्रम्—उच्यते—पुनश्शब्दार्थस्य यत्नत उपदिष्टस्य परिहर्तुमशक्यत्वात् । तस्यैव निर्वेदोत्पादद्वारकापवर्गोपयोगयोग्योपदेशत्वात् । आत्मनश्च स्थायित्वेन क्रियाभ्या वृत्तिसम्भवात्, तस्यैव पुनः पुनरुत्पत्ति ब्रूमः । उत्पत्तिवन्मरणमपि । सोऽयमात्मन एव मृत्वा पुनर्जन्म प्रेत्यभाव इति ॥ नित्यस्याप्यात्मनः जन्ममरणोपपादनम्
ननु ! जन्ममरणे उभे अपि नित्यत्वादात्मनः न संस्तः इत्युक्तम्— सत्यम्—शरीरादिसंयोगवियोगयोस्तु तथाभिधानान्न दोषः । मरणं— आत्मनः भोगायतनदेहेन्द्रियादिवियोग उच्यते । जन्म तु तत्सम्बन्धः । ते एते विपच्यमानकर्माशयानुरूपेण देहेन्द्रियादित्यागोपादाने एव मरणजन्मनी क्रियाभ्यावृत्त्या भवन्ती प्रेत्यभाव इत्युच्यते । स एव च संसारः । तदित्थमनुध्यायतः कस्य सचेतसो निर्वेदो नोदियात् । तदुक्तम्—

जरावियोगमरणव्याधयस्तावदासताम् ।
जन्मैव किं न धीरस्य भूयो भूयस्त्रपाकरम् ॥

देहेन्द्रियादिरचनाप्रकारः
अथ यैरुत्पद्यमानैर्देहेन्द्रियादिभिरात्मनः सम्बन्धः, तेषां कथमुत्पत्तिरित्युक्तं सूत्रकृता—“व्यक्तात् व्यक्तानामुत्पत्तिः प्रत्यक्षप्रामाण्यात्” [न्या-सू-४-१-११] इति । व्यक्तादिति कापिलाभ्युपगतत्रिगुणात्मकाव्यक्तरूपकारणनिषेधेन90 परमाणूनां शरीरादौ कार्ये कारणत्वमाह ॥

तथा हि—पार्थिवं, आप्यं, तैजसं, वायवीयमिति चतुर्विधमिदं कार्यं स्वावयवाश्रितमुपलभ्यते । तत्र यथा घटः सावयवः कपालेष्वाश्रितः, एवं कपालान्यपि सावयवत्वात्तदवयवेषु, तदवयवा अपि तदवयवान्तरेषु इत्येवं तावत्, यावत् परमाणवो निरवयवा इति । यत्र यावतः कार्यजातस्य स्वावयवाश्रितस्य प्रत्यक्षेण ग्रहणं तत्र तदेव प्रमाणम् । तत ऊर्ध्वमनुमानम् ॥ परमाणुसाधकानुमानम्
तदपि हि कार्यं स्वावयवाश्रितम्, सावयवत्वात्, परिदृश्यमानकार्यवत् । निरवयत्वे तु तस्य परमाणुत्वमेव । परमाणुषु च सावयवत्वस्य च हेतोरसिद्धत्वान्नावयवान्तरकल्पना । तेषां हि सावयवत्वे तदवयवाः परमाणवो भवेयुः । न ते उत्पत्तिक्रमवत् विनाशक्रमेणापि परमाणवोऽनुमीयन्ते । लोष्टस्य प्रविभज्यमानस्य भागाः, तद्भागानां च भागान्तराणीत्येवं तावत् यावदशक्यभङ्गत्वमदर्शनविषयत्वं च भवति । तद्यतः परमवयवविभागो न सम्भवति, ते परमाणव उच्यन्ते । तेष्वपि हि विभज्यमानेषु तदवयवाः परमाणवो भवेयुर्न ते । तदेतदेवं उत्पत्तिक्रमवत् विनाशक्रमस्येदृशो दर्शनात् सन्ति परमाणवः ॥ परमाणूनामावश्यकता
अत्र हि त्रयी गतिः । अस्य घटादेः कार्यस्य निरवयवत्वमेव वा, अवयवानन्त्यं वा, परमाण्वन्तता वा ? तत्र निरवयवत्वमनुपपन्नम्, अवयवानां पटे तन्तूनां, घटे च कपालानां प्रत्यक्षमुपलम्भात् । अनन्तावयव योगित्वमपि न युक्तम्, मेरुसर्षपयोरनन्तावयवयोगित्वाविशेषेण तुल्यपरिमाणत्वप्रसङ्गात्91 । तस्मात्परमाण्वन्ततैव युक्तिमती ॥

त इमे परमाणवः चेतनेच्छाप्रेरणमन्तरेण विशिष्टक्रमकमितरेतर सङ्घटनमलभमानाः कार्यसिद्धये न पर्याप्नुयुः, अचेतनत्वादिति चेतन एषामधिष्ठाना सकलभुवननिर्माणनिपुणमतिरीश्वरोऽभ्युपगतः । तत्सि द्धये च सकलकुतर्कतिमिरतिरस्कारपूर्वकं पूर्वमेव निरवद्यमनुमानमुपपादितम् ॥

ईश्वरोऽपि नानेकात्मवृत्तिविपाकोन्मुखधर्माधर्मसंस्कारवैचित्र्यमननुरुध्यमानः विचित्रस्य जगतो जन्म निर्मातुमर्हतीत्येतदपि92 दर्शितम् ॥ परमाणुभिः जगदारम्भक्रमः
न च सकृदेव सर्वे निर्वर्त्यमानकार्यपरिमाणानुगुणसङ्ख्याः परमाणवः एकत्र संयोज्य कार्यमारभन्ते, किन्तु द्व्यणुकादिप्रक्रमेण । सकृदारम्भे हि कुम्भे भज्यमाने कपालशर्कराकणचूर्णादिक्रममपहाय प्रथममेव परमाण्वन्तता भवेत्; सर्वसंयोगस्य सर्वविभागेन सहसैव विनाशात् । अतश्च कर्परादिक्रमदर्शनं विरुध्येत । अविनष्टेऽपि पटादौ तन्त्वाद्यवयवाश्रितत्वमुपलभ्यमानं कथं वा समर्थ्येत ? परमाणूनामप्रत्यक्षत्वेन तदाश्रितत्वस्य ग्रहीतुमशक्यत्वात् । परमाणूनां घटस्य च मध्ये कार्यान्तरानारम्भादिति । तस्मात् द्व्यणुकादिप्रक्रमेण परमाणवः कार्यमारभन्ते ॥ द्व्यणुकोत्पत्तिः
ननु ! द्वाद्वेव परमाणू प्रथमं सङ्घटेते इत्यत्र का युक्तिरुच्यते ? बहुत्वसङ्ख्यायाः महत्परिमाणकारणत्वदर्शनात्, त्रिषु परमाणुषु प्रथमं मिलत्सु तत्कार्ये बहुत्वसङ्ख्यायाः महत्त्वारम्भकत्वात् तत्प्रत्यक्षत्वं प्रसज्येत । न च तत्प्रत्यक्षत्वम्, अतिसूक्ष्मत्वात् । अतो द्वाभ्यां परमाणुभ्यां द्व्यणुकमादावुत्पद्यते ॥ द्व्यणुकस्याप्रत्यक्षत्त्वम्, त्र्यणुकोत्पत्तिश्च
तच्च परमाणुवदप्रत्यक्षमेव, महत्त्वानुत्पादात् । द्व्यणुकद्वयेन तु कार्यारम्भ इष्यमाणे तदविशेषप्रसङ्गः द्व्यणुक इव तत्रापि महत्त्वोत्पत्तौ कारणाभावात् । अतः त्रिभिर्द्व्यणुकैः त्र्यणुकमारभ्यते । तत्र च बहुत्वसङ्ख्यया महत्त्वमप्यारप्स्यते, प्रत्यक्षत्वं च भविष्यति । ततः परं तु क्रमसामान्ये93 प्रमाणमस्ति, लोष्टादिभङ्गे स्वावयवखण्डावयवदर्श नम् । क्रमविशेषे तु प्रमाणं नास्ति इत्थमारम्भ इति । यत्र वा दर्शनमस्ति तत्र तदस्तु क्रमविशेषे प्रमाणमिति ॥ अन्त्यावयविनिरूपणम्
आरभ्यारम्भकत्वं94 नेष्यते, मूर्तानां समानदेशत्वविरोधात् । न हि परमाणवः प्रथमं कार्यमारभ्य, तदनु त एवोत्तरोत्तरकालं कार्याण्यार भन्ते । किन्तु यत्परमाणुनिर्वृत्तं कार्य द्व्यणुकं, तत् कार्यान्तरस्यारम्भकम् तदप्यन्यस्य कार्यण्येत्येवं तावत्, यावत् परिपूर्णावयविनिष्पत्तिः ॥

इत्थं च तन्तुभिः पटः क्रियते, न तन्त्ववयवैरंशुभिः;95 इतरथा ह्युत्तरोत्तरकार्यारम्भेऽपि पूर्वपूर्वकारणानपायात् मूर्तानामेकदेशत्वं स्यात् । न च तद्दृश्यत इति यथोक्त एव क्रमः श्रेयान् ॥

तदेवमनेकात्मसमवेतधर्माधर्मसंस्कारपरिपाकानुरूपप्रसरदीश्वरेच्छाप्रेर्यमाणपरमाणुक्रियानुपूर्वीनिर्वर्त्यमानद्व्यणुकादिकार्यप्रक्रमेण शरीराद्यवयविनिवृत्तिरिति स्थितम् ॥ शरीरविषये पक्षान्तराणि
एतद्विपरीतानि तु मतान्तराणि प्रमाणविरुद्धानि । तथाहि—नित्यमेव शरीरादि अनुत्पत्तिधर्मकमिति प्रत्यक्षविरुद्धम् । पृथिव्यादेरप्यवयवसन्निवेशविशिष्टत्वात् कार्यत्वम् ईश्वरसिद्धौ निर्णीतम् ॥

आकस्मिकत्वमपि शरीरादेः कार्यस्य न युक्तम्; कारणनियमोपलम्भात्, अनिमित्तायाश्च भावोत्पत्तेरनुपपत्तेः ॥

अभावात् भावोत्पत्तिरपि तादृगेव ॥

त्रिगुणात्मकप्रधानविकारमहदहङ्कारादिकारणकत्वमपि कार्यस्य पृथिव्यादेः प्रागेव प्रतिषिद्धम् ॥

अनारब्धावयविरूपकार्याः परमाणव एवैते सञ्चयविशिष्टास्सन्तः96 लोकयात्रां वहन्तीत्येतदपि न समीचीनम्; सञ्चयस्य भेदाभेदविकल्पाभ्यां नुपपद्यमानत्वात्, परमाणूनां चातिसौक्ष्म्यादप्रत्यक्षत्वात् ॥

पौद्गलिककार्यपक्षेऽपि97 पर्यायान्तरेण परमाणूनां कथनम्, अप्रमाणकत्वं वा ॥

शब्दविवर्तत्वं तदनुगमाग्रहणादनुपपन्नम्98

परमात्मोपादानत्वमपि99 न सम्भवति, तस्यैव निष्प्रमाणकत्वात् ॥

न च “न कदाचिदनीदृशं जगत्”100 [पू। सं। ४९१] इति पादप्रसारिकामात्रं कर्तुमुचितम्; सर्गप्रलयप्रबन्धस्य समर्थितत्वादिति ॥

अतश्च पक्षान्तरदुर्बलत्वात्
यथोदितः सिद्ध्यति भूतसर्गः ।
तं यस्तु पश्यन्नपि निह्नुवीत्
तस्मै नमः पण्डितशेखराय ॥

अनादौ संसारे स्थितमिदमहो मूढमनसां
जनित्वा जन्तूनां मरणमथ मृत्वापि जननम् ।
इयं सा दुःखानां सरणिरिति सञ्चिन्त्य कृतिना
निधातव्यं चेतो जननमरणोच्छेदिनि पदे ॥

फलपरीक्षा
प्रवृत्तिदोषजनितोऽर्थः फलम् ॥ १-१-२० ॥

प्रवृत्तिदोषास्तु व्याख्याताः । तज्जनितोऽर्थः फलमित्युच्यते । अर्थपदग्रहणं गौणमुख्यभेदप्रदर्शनार्थम् । सुखदुःखे मुख्यं फलम् । तत्साधनं तु शरीरेन्द्रियविषयादि गौणम् । सर्वं हीदं प्रवृत्तिदोषाक्षिप्तं फलमित्युक्तम् । तदिदमनादिना प्रबन्धेन प्रवर्तमानं फलं पुनः पुनरुपभुज्यत इति महतः खेदस्य हेतुरिति भाव्यमानं निर्वेदवैराग्यादिमार्गेणापवर्गोपयोगितां प्रतिपद्यते ॥

आत्तमात्तं विजहतः त्यक्तं त्यक्तं च गृह्णतः ।
पुंसः फलघटीयन्त्रं अहो कष्टः परिश्रमः ॥

फलद्वैविध्यम्
तत्पुनः फलं कर्मणा किं सद्य एव सम्पद्यते, कालान्तरेण वा ? उच्यते—द्विविधं कर्म—विहितं निषिद्धं च । तत्र विधिफलानां कालनियमो नास्ति । क्रियाफलं हि “दोग्धि” “पचति” इति समनन्तरमुत्पद्यमानं दृश्यते101 । विधिफलानां तु नैव नियम इति शब्दपरीक्षायां चित्राक्षेपपरिहारावसरे [पू-सं-६५७] निरूपितमेतत् ॥ विधिफले विशेषः
विधिफलमपिः च किञ्चन चोदनावचनपर्यालोचनया सद्य इति निश्चीयते, वृष्टिरिव कारीर्याः । किञ्चित् ऐहिकफलमपि कर्म वस्तुबलात् कालान्तरापेक्षं भवति, पुत्रेष्ट्यादि । न हि सहसैव निधिलाभवत् पुत्रलाभः सम्भवति, गर्भसम्भवहेतुभूतभार्यापरिरम्भणादिक्रमापेक्षत्वात् ॥

ज्योतिष्टोमादि तु स्वर्गफलं कर्मफलस्वरूपमहिम्नैव पारलौकिकफलमवर्तिष्ठते । स्वर्गो हि निरतिशया प्रीतिः, तदन्यथानुपपत्तिपरिकल्पितः, कनकगिरिशिखरादिर्वा भोगदेशः48 । उभयथाऽपि नैतद्देहो पभोगयोग्यतां प्रतिपद्यते । अनियतफलं तु चित्रादि कैश्चिदुक्तम् । तच्च युक्तमयुक्तमिति वा तत्रैव परीक्षितम् ॥ निषिद्धफलविचारः
निषिद्धस्य तु कर्मणः सर्वस्यैव प्रायेण परलोक एव फलम् । परदाराभिमर्षणादौ हि क्रियाफलं सुरतसुखादि सद्यः फलम् । निषेधविधिफलं तु नरकपतनं पारलौकिकम् । स्वर्गवन्नरकस्यापि निरतिशयदुःखात्मनः, तदन्यथाऽनुपपतिपरिकल्पितदेशस्वभावस्य वा एतच्छरीरानुप भोगयोग्यत्वात् ॥

तीव्रसंवेगनिर्वृत्तं तु कर्म विहितं इतरद्वा प्रत्यासन्नविपाकं इहैव भवति, नन्दीश्वरनहुषयोरिवेत्यागमविदः102

चोरब्रह्मघ्नादयश्च केचित् प्रत्यासन्नप्रत्यवायाः प्रायेण दृश्यन्त एवेत्येवमेषां विचित्रः कर्मणां विपाकः ॥ कर्मणां फलप्रदत्वप्रकारः
यदपि चोच्यते—कर्मकाले फलं नास्ति, फलकाले कर्म नास्ति । कालान्तरे च फलस्यान्यत् प्रत्यक्षं कारणमुपलभ्यते सेवादिकमिति—तदपि पूर्वं परिहृतम् । कर्मणां विनाशेऽपि तज्जनितस्य आत्मसंस्कारस्य धर्माधर्मशब्दवाच्यस्य भावात् । दृष्टस्य च सेवादेः कारणस्य व्यभिचारात् अदृष्टकल्पनाया अवश्यम्भावित्वात् ॥

धर्मादेरात्मनिसमवायात्, फलस्य च पुत्रपश्वादेः अन्यत्र समवेतत्वात् भिन्नाधिकरणत्वं कर्मफलयोरित्यपि न चोद्यम्; मुख्यस्य सुखदुःखात्मनः फलस्य भिन्नाश्रयत्वानुपपत्तेः । सुखदुःखे ह्यात्मनि वर्तेते, धर्माधर्मौ च तत्स्थावेवेति ॥

दृष्टं103 नैव सुखस्य कारणमतस्तद्धेतुरागेण किं ?
दुःखस्यापि न तन्निबन्धनमिति द्वेषस्तदर्थेषु कः ?
तस्मात्कर्मनिमित्तकं फलमिति ध्यायन्न कुर्यात् कृती
सङ्गं कर्मणि येन दुस्तरमसौ संसारमापद्यते ॥

दुःखपरीक्षा
बाधनालक्षणं दुःखम् ॥ १-१-२१ ॥

बाधना पीडनं—सन्तापनम् । सा लक्षणमस्येति बाधनालक्षणं दुःखम् । तत्र मुख्ये दुःखे लक्ष्ये, लक्षणशब्दो यथाश्रुत एव । बाधनयैव हि दुःखस्वरूपं लक्ष्यते—बाधयति दुःखयतीति । गौणे तु दुःखे शरीरादौ लक्ष्ये, बाधनालक्षणं—बाधनानुषक्तमिति व्याख्येयम् ॥ प्रत्येकं दुःखलक्षणकथनाक्षेपः
ननु ! पूर्वसूत्रव्याख्यातेन फलग्रहणेनैव दुःखस्योपदिष्टत्वात् किमर्थ पुनरुपदेशः ? सुखप्रत्याख्यनार्थ इति चेत्—न—पूर्वापरविरोधात् । सकलप्राणभृदनुभवसाक्षिकत्वेन च सुखस्य प्रत्याख्यातुमशक्यत्वात् । तत्प्रत्याख्याने च विवक्षिते किमर्थं प्रमेयसूत्रे फलपदोपादानम् ? फले खलु सुख दुःखे इति व्याख्यातम् । ततश्च सुखे प्रत्याख्याते दुःखमेवावशिष्यते । तच्चानेन दुःखशब्देनैव निर्दिष्टमिति किं फलग्रहणेन ? उक्ताक्षेपपरिहारः
उच्यते—न सुखलेशस्य संसारे जन्तुभिरन्तराऽन्तराऽनुभूयमानस्य प्रत्याख्यानाय दुःखग्रहणम् । किन्तु सर्वत्र तथात्वभावनोपदेशार्थम्104 । सोऽपि हि सुखलवः दुःखमेवेति भावयितव्यः, तत्साधन दुःखमेवेति मन्तव्यम् ॥

न तद्व्यवसितं पुंसां न तत्कर्म न तद्वचः ।
न तद्भोग्यं समस्तीह यन्न दुःखाय जायते ॥

दुःखे तारतम्यम्
तदित्थं दुःखं उत्कृष्टं तिरश्चाम्, मध्यमं मनुष्याणाम् । हीनं देवानाम् । हीनतरं वीतरागाणामित्यागमविदः । वीतरागाणां दुःखतानवं युक्तितोऽप्यवगम्यते, दुःखस्य रागनिबन्धनत्वात् ॥

तत्त्वतश्चिन्त्यमानं हि ? सर्वं दुःखं विवेकिनः ।
विषसम्पृक्तमधुवत् सुखं दुःखीभवत्यदः ॥

सुखाधिगमलोभेन यतमानो हि पुरुषः ।
सहस्रशाखमाप्नोति दुःखमेव तदर्जने ॥

एवं सर्वमिदं दुःखं इति भावयतोऽनिशम् ।
सर्वोपपत्तिस्थानेषु निर्वेदोऽस्य प्रवर्तते ॥

निर्विण्णस्य च वैराग्यं विरक्तस्य च देहिनः ।
क्लेशकर्मप्रहाणादिद्वारो निःश्रेयसोदयः ॥

दुःखस्य फलरूपत्ववर्णनफलम्
ननु ! एवं तर्हि फलग्रहणं न कर्तव्यम्, दुःखपदेनैव गतार्थत्वादित्युक्तम्—मैवम्—तस्यान्यप्रयोजनत्वात् । प्रवृत्तिदोषजनितत्वेन सुखदुःखे भावयितव्ये अभ्यासेन च वर्तमाने इति । कर्मदोषजनितत्वेन हि फलमनुचिन्तयतः तत्कारणयोरनुकूलप्रतिकूलयोरस्य रागद्वेषौ मा भूताम् । अभ्यावृत्त्या च ससाधनस्य फलस्य हानोपादानस्रोतसोह्यमानः तत्रात्यन्ताय निर्विद्यतामिति फलग्रहणम् । तदेवं अन्यथा फलस्य निःश्रेयसोपयोगित्वम्, अन्यथा तु फलत्वे सत्यपि दुःखस्येति ॥ दुःखस्वरूपनिगमनम्
दीर्घस्य दुःखस्य निमित्तभूतं
सुखं च दुःखात्मकमेव सर्वम् ।
मुमुक्षुणा हेयतया विचिन्त्यं
देहादि105 दुःखान्तमिदं प्रमेयम् ॥

इति निपुणमतिर्यो दुखमेवेति सर्वं
परिहरति शरीरे क्लेशकर्मादिजालम् ।
अजमजरमनन्तं चिन्तयन्नात्मतत्त्वं
गतभयमपवर्गं शाश्वतं सोऽभ्युपैति ॥

॥ इति श्री भट्टजयन्तकृतौ न्यायमञ्जर्यां अष्टममाह्निकम् ॥


  1. अशेषविशेषगुणोच्छेदो हि मोक्षः ॥ ↩︎

  2. “चेष्टते” इति व्यवहारः खलु यत्नाधीनव्यापार एव स्वरसः ॥ ↩︎

  3. लङ्घनं—निरशनम् ॥ ↩︎

  4. अर्थः—भोगः । तदाश्रय तदवच्छेदकं शरीरम् ॥ ↩︎

  5. सितेतरसरणिः—कृष्णवर्त्मा—अग्निः ॥ ↩︎

  6. इतराणि तु सहकारीणि ॥ ↩︎

  7. अनेन चैतद्ज्ञानस्य प्रयोजनमुक्तम् ॥ ↩︎

  8. “त्वक्” पदं इन्द्रियवाचकमपीति केचन ॥ ↩︎

  9. पृथिव्यप्तेजोवायुषु ॥ ↩︎

  10. भूतापेक्षया व्यापकत्वम् ॥ ↩︎

  11. तदाधिकरणं—तदाधिकरणकम् ॥ ↩︎

  12. इन्द्रियं स्वसम्बद्धं वस्तु गृह्णातीति पक्षः प्राप्यकारित्वपक्षः । असम्बद्धं गृह्णातीति पक्षः विपरीतः बौद्धानाम् । सम्बन्धः—सन्निकर्षः ॥ ↩︎

  13. घ्राणेन्द्रियं न द्रव्यग्राहकम् ॥ ↩︎

  14. तस्य बहिः प्रसराङ्गीकारत् ॥ ↩︎

  15. प्रत्यक्षतः, अनुमानतो वा यत् यथा प्रतिपन्नम्, तत्तथैव । तत्र “एवमेव भवतु”, तथा मा भवतु इति विधिनिषेधौ न सम्भवतः । प्रमाणं खलु तद्विषयं व्यवस्थापक मित्यर्थः ॥ ↩︎

  16. पृषदंशः—मार्जालः ॥ ↩︎

  17. वैद्यकचिकित्सादीनां गोलक एव खलु प्रयोगः, न तु इन्द्रिये; तस्या तीन्द्रियत्वादित्याक्षेपयेयेदं समाधानम् ॥ ↩︎

  18. एकप्रकृतिकत्वम्—एकोपादानकत्वम् । अहङ्कारतत्त्वात् सर्वेन्द्रियाणां युगपत उत्पत्तिरिति साङ्ख्याः ॥ ↩︎

  19. सुगन्धद्रव्यसज्जीङ्करणसंस्काराद्युपयोगिद्रव्यम् ॥ ↩︎

  20. अवयवाः—जिह्वानासिकादयः ॥ ↩︎

  21. उत्तरमानसम्—मानससरोवरोत्तरक्षेत्रम् ॥ ↩︎

  22. एवं सति सर्वप्राणिनां इन्द्रियमेकमेव, शरीरभेदात् कार्यवैलक्षण्यमिति स्यात् । इष्टापत्तौ च सर्वात्मनार्मेक्यं स्यादिति नर्मोक्त्या समाधत्ते—सरलेत्यादिना ॥ ↩︎

  23. नानात्वम्—इन्द्रियनानात्वम् ॥ ↩︎

  24. बुद्धीन्द्रियं—ज्ञानेन्द्रियम् ॥ ↩︎

  25. किं बहुना । वृश्चिकासनाद्यभ्यासवन्तो हि पाणिभ्यामपीषद्विहरन्ति ॥ ↩︎

  26. अखण्डगेय—गानविशेषः, आनाभेरुत्थप्यमानस्वरैर्गेयः ॥ ↩︎

  27. कूर्मी—वाद्यविशेषः ॥ ↩︎

  28. मनोबुद्ध्यहङ्कारभेदेन त्रिविधमन्तःकरणमिति साङ्ख्याः ॥ ↩︎

  29. पञ्च ज्ञानेन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, त्रीण्यन्तःकरणानि ॥ ↩︎

  30. “प्रकर्षेण मेयम्—”प्रमेयमिति व्युत्पत्त्या हेयतया मुमुक्षुज्ञेयत्वमुक्तम् ॥ ↩︎

  31. प्रथमस्य—प्रधानस्य ॥ ↩︎

  32. सक्तिः—आसक्तिः, राग इति यावत् ॥ ↩︎

  33. विशेषः—गुणेष्ववान्तरविभागः ॥ ↩︎

  34. शब्दस्पर्शरूपरसगन्धाः पञ्चविषयाः साक्षाद्बन्धहेतवः । एतद्द्वारेव सङ्ख्यापरिमाणादीनां बन्धकत्वम् ॥ ↩︎

  35. इतरत् जले गन्धवदौपाधिकमस्तु ॥ ↩︎

  36. यस्य कस्यचित् क्वचिदौपाधिकत्वे हि विनिगमकाभावः ॥ ↩︎

  37. गुणः—गन्धः ॥ ↩︎

  38. अगदः—व्याधिः । अन्यत्—हरीतक्यादि ॥ ↩︎

  39. तेभ्यः—समानेतरजातीयेभ्यः ॥ ↩︎

  40. बुद्धिस्तु प्रकृतेः परिणामः । ज्ञानं तु पुरुषस्य स्वरुपं मुख्यम् । गोणं तु ज्ञानं बुद्धेः वृत्तिरेव । तदा तु पुरुषस्य स्वरूपं चैतन्यम् ॥ ↩︎

  41. सत्कार्यवादिनः साङ्ख्याः उपादानोपादेययोः अभेदमङ्गीकुर्वन्ति । अतः “तदात्मक” इत्युक्तम् ॥ ↩︎

  42. सा—भोग्यता ॥ ↩︎

  43. यतः स्वतः निर्गुणः निर्विकारश्च ॥ ↩︎

  44. तद्विर्ययः—अधर्माज्ञानावैराग्यानैश्वर्यरूपः ॥ ↩︎

  45. सात्त्विकाहङ्कारादेकादशेन्द्रियाणि, तामसाहङ्कारात्पञ्चतन्मात्राणि जायन्ते ॥ ↩︎

  46. तस्य—पुरुषस्य । अन्यत्वम्—रूपान्तरापत्तिः ॥ ↩︎

  47. व्यापकत्वात्—विभुत्वात् ॥ ↩︎

  48. इन् थे प्रिन्त् एदितिओन् थेरे इस् अ ड़ोओत्नोते रेड़ेरेन्चे, बुत् नो चोर्रेस्पोन्दिन्ग् नोते। ↩︎ ↩︎

  49. क्षीरं किल शिशुं स्वयं पोषयति ॥ ↩︎

  50. अन्ये—अतत्त्वविदः ॥ ↩︎

  51. न तु दर्शनम् ॥ ↩︎

  52. यतः पुरुषः अपरिणामी अप्रतिसङ्क्रमश्च ॥ ↩︎

  53. स्वाभाविके इति शेषः ॥ ↩︎

  54. स्वतः परिणामस्वभावा हि प्रकृतिः ॥ ↩︎

  55. सुखदुःखमोहात्मिका हि प्रकृतिरुच्यते ॥ ↩︎

  56. अन्वयदृष्टान्ताभावादिति हेतुः ॥ ↩︎

  57. तदा हि “मृदं करोति” इति व्यवहारःस्यात् । न तु “घटं करोति” इति ॥ ↩︎

  58. मृत्पिण्डघटयोरत्यन्तं भेदात् द्वयोरप्युपलब्धिः स्यात् ॥ ↩︎

  59. परुत्—यस्मिन् कस्मिंश्चित् ॥ ↩︎

  60. कार्यनिष्पत्तिर्हि कारकव्यापारावधिः ॥ ↩︎

  61. तावत्यर्थे सत्कार्यवादश्चेत्, इष्टापत्तिः ॥ ↩︎

  62. दृश्यस्यादर्शनम्—योग्यानुपलब्धिः ॥ ↩︎

  63. “भवदभिमतार्थे” इति शेषः । शशशृङ्गदितौल्यनिराकरणमात्रे तापर्यादिति हेतुः । पूर्वापरान्तौ—पूर्वोत्तरावधी ॥ ↩︎

  64. प्रागसत्त्वमात्रं कार्यत्वप्रयोजकम्, न त्वसत्त्वमात्रमित्यर्थः ॥ ↩︎

  65. अकरणवेलायामपि तत्र शक्तिरस्तीति कथं वक्तुं शक्यम् ॥ ↩︎

  66. वस्तुस्वरूपसिद्धार्हतारूपा । न हि दण्डचक्रादिभिरपि पाषाणात् घटः कर्तुं शक्यः ॥ ↩︎

  67. आधाराधेयामावादिवदिति शेषः ॥ ↩︎

  68. “असत्” इस्यस्य “कारणे” इत्यादिः । तेन शशशृङ्गादिव्यावृत्तिः ॥ ↩︎

  69. प्रकृतेरेकस्या एव सर्वोपादानत्वात् ॥ ↩︎

  70. सरित्तीरसिकताभ्यः तिलसस्यस्योत्पत्त्या सिकतानां तिलोपादानत्वात् ॥ ↩︎

  71. “तेजःपुरीषयोर्वर्चः” इत्यमरः ॥ ↩︎

  72. ननु तत्तत्प्रागभावस्य तत्तत्कार्यं प्रति कारणत्वाङ्गीकारात् अभावात् भावोत्पत्तिर्दुर्वारेति चेत्, हेतौ पञ्चम्या अपि साधुत्वात् । अन्यथा तन्मते “घटः मृत्पिण्ड एव वर्तते; न तु दण्डादिषु” इति निरूपणासम्भवप्रसङ्गः ॥ ↩︎

  73. “मृदं घटं करोति” इत्येव व्यवहारात्, उपादानकारणेनेतरकारकसम्बन्धात् न दोष इति भावः ॥ ↩︎

  74. अन्यथा कार्यकारणयोरसमानकालिकत्वापत्त्या क्षणिकवादतौल्यप्रसङ्गः ॥ ↩︎

  75. गुणाः—गन्धरसरूपस्पर्शशब्दाः ॥ ↩︎

  76. अत्र हेतुः अनन्तरवाक्येनोच्यते ॥ ↩︎

  77. प्रथमदलभेदनस्य द्वितीयदलभेदनस्य च हि कालभेदः अवर्जनीयः ॥ ↩︎

  78. मनसः तत्रात्यन्तं अपेक्षितत्वात् मानसभित्युच्यते । कारणं तु व्याप्तिज्ञानम् शब्दश्च यथासङ्ख्यम् ॥ ↩︎

  79. बौद्धादिसम्मतमिदम् ॥ ↩︎

  80. संस्कारः—भावनातिरिक्तः संस्कारविशेषः ॥ ↩︎

  81. प्रथममेव—प्राथमिक एवेत्यर्थः ॥ ↩︎

  82. “इन्द्रियाणि हयानाहुः” इति श्रुतिः ॥ ↩︎

  83. वागिन्द्रियं पूर्वमेव निरस्तम् ॥ ↩︎

  84. सुखदुःखयोरुभयोरपि हेयत्वात्, तद्धेतुभूतौ धर्माधर्मावपि हेयावेव ॥ ↩︎

  85. सन्तानः—आत्मा । बौद्धप्रभावात्प्रयुक्तः शब्दः ॥ ↩︎

  86. यद्यपि इन्द्रियसुखसामान्यं कामः, तथापि तीव्रत्वादस्य प्रयोगप्राचुर्याच्च एवं व्याख्यानम् ॥ ↩︎

  87. स्वस्मिन्नित्यादिः ॥ ↩︎

  88. मूढः—मोहाक्रान्तः ॥ ↩︎

  89. मिथ्याज्ञानस्यैव हेतुत्वं, तदभावस्य च विनाशकत्वम् ॥ ↩︎

  90. व्यक्तादेव व्यक्तानामुत्पत्तिः, न तु अव्यक्तादिति सूचनेनेत्यर्थः ॥ ↩︎

  91. अवयवपरम्परायाः कुत्रचिद्विश्रान्तौ सत्यां अधिकावयवत्वान्महत्वम्, न्यूनावयवत्वात् अल्पत्वं च वक्तुं शक्यम् ॥ ↩︎

  92. तदा हीश्वरस्य पक्षपातप्रसङ्गः ॥ ↩︎

  93. समान्यतः अल्पपरिमाणात् महत्परिमाणः अवयवी भवतीति नियमः । न त्ववयवसङ्ख्यादिनियमः ॥ ↩︎

  94. आरभ्यस्य—कार्यस्य आरम्भकत्वं—उत्तरोपादानत्वम् । कापालिकापेक्षया कपलः अवयवी । अयं च घटस्य उपादानम् । एवं च घटः कपालश्च द्वाववयवी समकालौ स्याताम् । अतः घटावस्थितिवेलायां पूर्वावयविनो नाशः, अवयवानाभेवावस्थानं वक्तव्यमिति भावः ॥ ↩︎

  95. न हि तन्तुर्नामावयवी पटकाले तिष्ठति ॥ ↩︎

  96. सञ्चयविशिष्टाः—सङ्घातरूपा इत्यर्थः । इदं बौद्धानां मतम् ॥ ↩︎

  97. इदं जैनानाम् ॥ ↩︎

  98. अनुगमः—कारणस्य कार्येऽनुवृत्तिः ॥ ↩︎

  99. भर्तृप्रपञ्चादीनां ब्रह्मपरिणामवादिनां मतमिदम् ॥ ↩︎

  100. कदाप्यनीदृशं न, किन्तु अनादिकालादेवमेवेति स्वभाववादिनः ॥ ↩︎

  101. यद्यपि कृष्यादीनां क्रियाणामपि सद्यः फलं न दृश्यत इति शङ्का स्यात्; परन्तु फलपर्यन्ततावत्क्रियाया एव पाकादिवदेकक्रियारूपत्वात् कृषेः सद्यःफलत्वम् ॥ ↩︎

  102. नन्दीनामकः तीव्रतपःफलतया तदैव गाणापस्यस्थानमवाप । एवं नहुषः तीव्रपापफलतया क्षणादेव स्वर्गाद्भ्रष्टः । तथा हि श्रूयते—“अत्युत्कटैः पुण्यपापरिहैव फलमश्नुते” इति ॥ ↩︎

  103. फलपरीक्षायाः प्रयोजनमाह—दृष्टमित्यादिना ॥ ↩︎

  104. संसारे सुखमेव नास्ति, सर्वं दुःखमेवेति बौद्धा; । सिद्धान्तिनां पु अस्ति संसारे सुखलेशः । अन्यथा गुणगणनायां सुखस्य पाठो न स्यात् ॥ ↩︎

  105. द्वादशविधप्रभेयेषु आद्यन्तवर्जम् ॥ ↩︎