०७ प्रमेयपरीक्षा

सप्तममाह्निकम्—प्रमेयपरीक्षा

प्रमेयनिर्देशः

एवं प्रमाणपदार्थे परीक्षिते सति यदर्थं तत्परीक्षणं तत् प्रमेयमिदानीं दर्शयितुमाह—

आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम् ॥ १-१-९ ॥

प्रमाणवदिहाप्येतत्सूत्रं व्याख्यायि सूरिभिः ।
एवं विभागसामान्यलक्षणप्रतिपादकम् ॥

प्रमेयश्रुतिरात्मादिपदपर्यन्तवर्तिनी1
तेषामेव प्रमेयत्वं नान्यस्येति नियच्छति ॥

यथा “देवदत्तयज्ञदत्तविण्थुमित्रा भोज्यन्ताम्” इति एवकारादिश्रुतिमन्तरेणापि शब्दसामर्थ्यात् त एव भोजनक्रियायोगिनोऽवगम्यन्ते, नान्ये; तथेहाप्यात्मादयः प्रमेयमित्युक्ते तथैव तदितरप्रमेयनिषेधोऽवधार्यते ॥ प्रमेयविभागाक्षेपः
ननु कथं द्वादशविधमेव प्रमेयमवधार्यते, यावता समानतन्त्रे पृथिव्यानीनिनव द्रव्याणिऽ रूपादयश्चतुर्विशतिगुणाः, उत्क्षेपणादि पञ्चकर्माणि, परापरभेदेन द्विविधं सामान्यं, नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः, एकः समवाय इति षट्पदार्थाननुक्रम्य तदवान्तरविशेषैरानन्त्यं प्रमेयस्योपवर्णितमस्ति ॥

उच्यते—किं पुनरिह प्रमेयं विवक्षितमिति तत्सामान्यलक्षणं ताव परीक्ष्यताम् ॥ प्रमेयसामान्यलक्षणम्
आह—सूक्तमिदं—कस्यापि कर्णे पृष्टः कटिं चालयतीति । द्वादशविधत्वमाक्षिप्तं न प्रतिसमाधत्ते भवान् । प्रयेयस्य सामान्यलक्षणं तु परीक्षते2 इति ॥

उच्यते—अलं केलिना ! एतदेवात्र प्रतिसमाधानं भवति । न हि प्रमाणविषयमात्रमिह प्रमेयमभिमतम्, एवंविधस्य प्रसिद्धत्वेन लक्षणानर्हत्वात् । प्रमाण एवं ज्ञाते सति तद्विषयोऽर्थः प्रमेयमिति प्रज्ञायत एव । किं तेन लक्षितेन ? तस्मात् विशिष्टमिह प्रमेयं लक्ष्यते ॥

ज्ञातं3 सम्यगतम्यग्वा यन्मोक्षाय भवाय वा ।
तत्प्रमेयमिहाभोष्टं न प्रमाणार्थमात्रकम् ॥

तच्च द्वादशविधमेव भवति, न न्यूनमधिकं वेति समाहितमित्थं भवति विभागाक्षेपः ॥ द्वादशानां विशिष्टप्रमेयत्वम्
कुतः पुनरेषः प्रमेयविशेषो लभ्यते ? निःश्रेयसार्थत्वाच्छास्त्रस्य । प्रमेयज्ञानस्य प्रमाणज्ञानवदन्यज्ञानोपयोगितामन्तरेण स्वत एव मिथ्याज्ञाननिवृत्त्यादिक्रमेण अपवर्गाहेतुत्वप्रतिज्ञानात् । तथाविधस्य चापवर्गोपायत्वस्यात्मादिष्वेव भावात् ॥ आत्मादीनां प्रमेयत्वोपपादनम्
भवत्वेवम् ! सूत्रस्य तु कथमीदृशप्रमेयविशेषसमर्थने सामर्थ्यम् ? विशेषनिर्देशात्तु, शब्दप्रयोगसामर्थ्याच्च ॥

सत्यम्, आकाशकालदिगादि प्रमाणविषयत्वात् प्रमेयं भवति । तत्तु न सप्रयोजनं आत्मशरीरेन्द्रियार्थमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम्, अस्यैव निःश्रेयसहेतुत्वादित्याशयः ॥

तदित्थमेष तुशब्दः निःश्रेयसानङ्गभूतप्रमेयान्तरपरिहारद्वारेणविशिष्टमात्मादि प्रमेयमिह सूचयति ॥

तद्द्वादशविधत्वेऽपि हेयोपादेयभेदतः ।
द्विधोच्यते मुमुक्षूणां तथैव ध्यानसिद्धये4

तत्र देहादि दुःखान्तं हेयमेव व्यवस्थितम् ।
उपादेयोऽपवर्गस्तु, द्विधाऽवरिथतिरात्मनः ॥

सुखदुःखादिभोक्तृत्वस्वभावो हेय एव सः ।
उपादेयस्तु भोगादिव्यवहारपराङ्मुखः ॥

आत्मादिज्ञानस्य मुमुक्षुसम्पाद्यत्वम्
आत्मनो हि भोगाधिष्ठानं शरीरम् । भोगसाधनानीन्द्रियाणि । भोक्तव्या इन्द्रियार्थाः । भोगकारणं मनः । प्रवृत्तिः पुण्यपापात्मिका । रागादयश्च दोषाः शरीरादिजन्महेतवः । एतत्कृतश्च शरीरादियोगवियोगाभ्यासः प्रेत्यभावः । एतत्कृतमेव5 च संसारे सुखदुःखरूपं फलं । तच्य विविधमेव । विवेकवतः6 सर्वं दुःखमेवेति । एवं शरीरादि दुःखान्तं हेयतयैव भावनीयम् । एददनुपयुक्तश्चात्माऽपि तथैव । एतद्वियुक्तस्त्वात्मैवापवर्ग उच्यते7 । स चोपादेयतया भावनोयैत्यत एवात्मपदसङ्गृहीतस्याप्यस्य पुनर्निर्देशः, स र्दि परमः पुरुषार्थ इति ॥ तत्त्वज्ञानस्य मोक्षहेतुत्वोपपापनम्
एवमिदं द्वादशविधं प्रमेयं हेयोपादेयतया तत्त्वज्ञानेन भावयन अभ्यासात् तद्विषयविपरीतग्रहात्मकं मिथ्याज्ञानं क्षिणोति ॥

तत्त्वज्ञानोदयेनास्य मिथ्याज्ञानेऽपबाधिते ।
रागद्वेषादयो दोषाः तन्मूलात्क्षयमाप्नुयुः ॥

क्षीणदोषस्य नोदेति प्रवृत्तिः पुण्यपापिका ।
तदभावान्नतत्कार्यं शरिराद्युपजायते ॥

अशरीरश्च8 नैवात्मा स्पृश्यते दुःखडम्बरैः ।
अशेषदुःखोपरमः सोऽपवर्गोऽभिधीयते ॥

तदित्थमेव द्वादशविधं प्रमेयं अतिगहनसंसारमारवस्थलप्रभवभीमसन्तापनिर्वापणमहाह्रदतामुपयातीति9 तदेवोप देशार्हमिति सिद्धम् ॥ आत्मविचारोपक्षेपः
विरक्तसङ्कथास्तावदसतां तापसोदिताः ।
आत्मैव त्वस्ति नास्तीति कथं न परिचिन्त्यते ॥

शरीरात्मवादोपक्षेपः
तथा च लोकायतिकाः परलोकापवादिनः ।
चैतन्यखचितात् कायात् नात्माऽन्योऽस्तीति मन्वते ॥

न च तावदात्मा प्रत्यक्षतो गृह्यते, घटादिवत् बाह्येन्द्रियेण, सुखादियन्मनसा10 वा परिच्छेत्तुमशक्यत्वात् । अनुमानं तु न प्रमाणमेव चार्वाकाणाम् । न चात्मसिद्धौ किञ्चन लिङ्गमस्ति । ज्ञानादियोगस्तु भूतानामेव परिणामविशेषोपपादितशक्त्यतिशयजुषां भविष्यति । यथा गुडपिष्टादयः प्रागसतीमपि मदशक्तिं आसादितसुराकारपरिणामाः प्रपद्यन्ते, तथा मृदाद्यवस्थायां अचेतनान्यपि भूतानि शरीराकारपरिणतानि चैतन्यं स्प्रक्ष्यन्ति । कालान्तरे च व्याध्यादिना परिणामविशेषमवजहन्ति तान्येव चैतन्यशून्यतामुपयास्यन्ति । चैतन्यवत्त्वानपायाच्च तावन्तं कालं तान्येव स्मृत्यनुसन्धानादिव्यवहारनिर्वहणनिपुणतामनुभविष्यन्ति इति किमनुमानक आत्मा स्यात् ?

आगमास्तु मनोरथाधिरूढप्रामाण्याः कथमात्मानमवबोधयितुं शक्ष्यन्ति । अयमपि चागमोऽस्त्येव “विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य सञ्ज्ञाऽस्ति” इति । तत् आत्मनो नित्यस्य परलोकिनोऽभावात् कृतमेताभिः अपार्थकपरिश्रमकरिणीभिः परलोककथाभिः ॥ आत्मनः अहमर्थत्वम्
तत्र प्रत्यक्षमात्मानमौपवर्षाः11 प्रपेदिरे ।
अहम्प्रत्ययगम्यत्वात् सयूथ्या अपि केचन ॥

अस्त्ययमहम्प्रत्ययः कश्चित् शरीरसमानाधिकरणः “स्थूलोऽहम्” “क्षामोऽहं” इति । कश्चित् ज्ञातृसमानाधिकरणः—“जानाम्यहम्” “स्मराम्यहम्” इति । तत्र स्थूलादिसमानाधिकरणस्तावदास्तामहं प्रत्ययः ॥

ज्ञानेच्छासुखदुःखादिसामानाधिकरण्यभाक् ।
यस्त्वहम्प्रत्ययस्तत्र नात्मनोऽन्यः प्रकाशते ॥

न हि ज्ञानसुखेच्छादियोगः कायेन्द्रियादिषु12
न च ज्ञानादिशून्येऽर्थे जानामीत्यादिसंविदः ॥

ज्ञानमात्रावभासोऽपि वारितः प्रत्यभिज्ञया ।
ज्ञातवानहमेवादौ अहमेवाद्य वेद्मि च13

नोत्तरस्य च पूर्वस्य न ज्ञानक्षणयोर्द्वयोः ।
न सन्तानस्य चैतस्मिन् प्रत्ययेऽस्त्यवभासनम् ॥

नोत्तरोज्ञानवान् पूर्वं पूर्वो जानाति नाधुना ।
न द्वयोर्द्वयमप्यस्ति सन्तानस्तु न वास्तवः ॥

अवस्तुत्वाच्च नासौ पूर्वं किञ्चिज्ज्ञातवान्, न चाद्य किञ्चिज्जानातीति । तस्मादहमेव ह्यो ज्ञातवान्, अहमेवाद्य जानामीत्यस्मिन् प्रत्यये ह्यश्चाद्य चानुवर्तमानो ज्ञाता प्रतिभातीति गम्यते ॥ शरीरं न अहमर्थः
न चासौ कायः, बालाद्यवस्थाभेदेन नानात्वात्, अचेतनत्वाच्च । एवञ्च प्रत्यभिज्ञाऽहम्प्रत्ययग्राह्ये14 ज्ञातरि सिद्धे, सोऽयं स्थूलादिसमानाधिकरणः अहम्प्रत्ययः तदभेदोपचारेण शरीरे वर्तमानो मिथ्येति15 कल्पयिष्यते । न पुनरेतदनुरोधेन ज्ञानादिसमानाधिकरणाहम्प्रत्ययमिथ्यात्वकल्पनं युक्तं, अबाधितत्वात् । न खल्बहं जानामीति प्रत्ययः केन चिदल्पीयसा दोषकारणेन कलुषीकर्तुं पार्यते । तत् अस्यात्मैव मुख्यो विषयः, तदतिरिक्तं वस्तु भाक्तः विषय इत्यर्थः ॥भाक्त इति । तस्मादहम्प्रत्ययगम्यत्वादात्मा प्रत्यक्ष इति ॥ आत्मनः अहम्प्रतीतिविषयत्वे विवादः
अत्र वदन्ति—शब्दमात्रोच्चारणमेतत् “अहं जानामि” “अहमिच्छामि” “अहंसुखी” “अहं दुःखी” इति । न तु ज्ञानादिस्वरूपातिरिक्तः तदाश्रयः कश्चिदेतासु बुद्धिषु परिस्फुरतीति । कथमेकस्यामेव संविदि कर्ता च कर्म चात्मा भवेत् ॥

ग्राह्यग्राहकतैकस्य16 ज्ञानस्यापाकरिष्यते ।
त्वयाऽपि नेष्यते चेति तथा नास्त्यात्मनोऽपि सा ॥

विज्ञानात्मनः ज्ञातृत्वासम्भावः
यच्च अवस्थाकृतं भेदमबलम्ब्य ग्राह्मग्राहकभावसमर्थनमेकस्यैवात्मनः कृतं “किल द्रव्यादिरूपमात्मनो ग्राह्यं, ज्ञातृरूपं च ग्राहकमिति” तदनुपपन्नम्—द्रव्यादिरूपे ग्राह्ये न ज्ञातरि ग्राह्यता साधिता स्यात् । आत्मवर्तिनोऽपि द्रव्यादिरूपस्य घटादितुल्यत्वात्17 ॥ व्यवसायानुव्यवसायर्वैलक्षण्यविमर्शः
यदपि निपुणम्मन्यैरुच्यते—भवतु ज्ञातृतेव ग्राहिका । तथापि विषयगतः उपाधिः । स चानुपदं प्रदर्शितः ॥विषयोपाधिकृ तोऽस्त्येव भेदः । घटावच्छिन्ना हि हि ज्ञातृता ग्राह्मा, शुद्धैव तु ज्ञातृता ग्राहिकेति । “घटमहं जानामि” इति कोऽर्थः ? कथम् जानन्तमात्मानं “जानामि” इत्यस्मत्प्रयोगसम्भेदाच्चैवमवकल्पते । अन्यत्र तु शुद्धविषयग्रहणमेव भवति “घटोऽयं” इति—तदेतदपि सरलमतिप्रतारणमात्रम्—यथा हि “घटोऽयं” इत्त्र घटमात्रप्रवणैव संवित्, एवं अस्मत्प्रयोगसम्भेदेऽपि “घटमहं जानामि” इत्यत्र घटप्रवणैव बुद्धिः ॥

इयांस्तु विशेषः—पूर्वं केवलं घटग्रहणं, अधुना तु ज्ञानविशिष्टघटावमर्श इति ॥ विज्ञानस्यात्मत्वे युक्तिः
ननु ! विभज्यमानायां प्रतीतौ “घटोऽयं” इति तावत् विषयग्रहणम् । “जानामि” इति तु ज्ञानग्रहणमपि भवतु नाम । अहमिति तु कस्य ग्रहणम् ? न चैकस्यामेव प्रतीतौ अंशविभागेव प्रामाण्यमप्रामाण्यं च वक्तुं युक्तम्—घटमिति जानामीति च प्रमाणं, अहमिति तु न प्रमाणमिति । तस्मादत्र ज्ञातुरवभासोऽभ्युपेयः ॥

उक्तमत्र नैकस्यां प्रतीतावात्मनः कर्तृता कर्मता च स्यातामिति ॥ ग्राह्यस्यैव न ग्राहकत्वम्
यस्तूपाधिस्त्वयोन्नेतुमुपक्रान्तः, सोऽयं न घटते, घटप्रवणत्वात् । “घटं अहं जानामि” इति प्रतीतेर्विभज्यमानत्वेऽपि घटमिति जानामीति च अंशद्वयं विषयनिष्ठमेव जातम् । अहमिति तु अयमंशः यद्यात्मविषय इष्यते, तर्हि स एव तु शुद्धोऽवशिष्यते ग्राह्यो ग्राहकश्चेति । नावस्थाकृतस्तद्भेदः समर्थितः स्यात्18 । भेदाभावेन चैकस्यैव—ग्राह्यग्राहकभाव मनुपाधिकमभिदधता विज्ञानवादवर्त्म संश्रितं स्यात् । तस्मादहम्प्रत्ययस्य ग्राहकाद्भिन्नं ग्राह्यं अभिधित्सता शरीरमेव ग्राह्यमभ्युपगन्तव्यम् । ज्ञानसामानाधिकरण्यानुपपत्तेश्च वरमस्य मिथ्यात्वम्, अस्तु नामात्मावलम्बनता ॥

अत एव कृशश्यामसामानाधिकरण्यधीः ।
शरीरालम्बनत्वस्य साक्षिणी न विरोत्स्यते ॥

अहमर्थस्य शरीरातिरिक्तत्वं नानुभवसिद्धम्
ननु ! “ममेदं शरीरं” इति भेदप्रतिभासात् कथमहम्प्रत्ययः शरीरालम्बनः स्यात् ? भोः साधो ! नैवंविधेषु विश्वसितुमर्हति । “ममात्मा” इत्यपि भेदप्रत्ययदर्शनात् ॥

अथावस्थाभेदादिना यथातथा तत्समर्थनमास्थीयते; तदिह शरीरालम्बनत्वेऽपि सैव सरणिरनुसरिष्यते । तस्मात् अहम्प्रत्ययः शरीरालम्बन एवेति, स च ज्ञानादिसमानाधिकरणो मिथ्या, स्थूलादिसमानाधिकरणस्तु सम्यगिति ॥ मम शरीरम् इति प्रतितेर्मिथ्यात्वम्
ये तु “मम शरोरं” “ममात्मा” इति बुद्धी,—ते द्वे अपि मिथ्या, ममप्रत्ययस्याहम्प्रत्ययवत् आत्मानालम्बनत्वात्, शरीरे च भेदानुपपत्तेः ॥

मम पाणिर्भुजो वेति भिन्नत्वादुपपद्यते ।
शरीरं तु ममेत्येषा कल्पना राहुमूर्धवत् ॥

तस्मादहङ्कारममकारयोः द्वयोरप्यविषयत्वात्19 आत्मा परोक्ष इति सिद्धम् ॥ आत्मनः स्वयम्प्रकाशत्वपक्षः
अपरे पुनराहुः— ग्राह्यग्राहकरूपोभयसम्पत्तेरेकस्य कर्मत्वं कर्तृत्वं च युगपदात्मनो मन्यामहे; किन्तु चितिशक्तिस्वभावमपरसाधनमपरोक्षमात्मतत्त्वं20 प्रचक्ष्महे । न ह्यात्माऽन्यजन्येन ज्ञानेन घटादिर्रिव प्रकाश्यते, अपि तु स्वत एव प्रकाश्यते । चेतनत्वमपि तस्य नैसर्गिकमेव, न करणोपनीतचितियोगनिबन्धनम् । चिद्योगाद्धि चेतनत्वे घटादावपि21 तत्प्रसङ्गः । न चास्ति नियमहेतुः, अनेककारकनिकरपरिघटिततनुरपि चितिरात्मानमेव ज्ञातारं करोति, न कारकान्तरमिति । तस्मात् स्वत एव चित्स्वभावता तस्य भद्रिका । तदिदमात्मप्रकाशनं संविद्वदवगन्तव्यम् । यदाहुः—संवित संवित्तयैव संवेद्यते, न संवेद्यतयेति । नास्याः कर्मभावो विद्यत इत्यर्थः । एवमात्मा ग्राहकतयैव प्रकाश्यते, न ग्राह्यतयेति तद्वैरुप्यस्य चोदनमनुपपन्नमिति ॥ आत्मनः स्वयम्प्रकाशत्वासम्भवः
एतदपि न चतुरश्रम्—अपरसाधनमिति कोऽर्थः ? उपायान्तरनिरपेक्षमेव प्रकाशमानमात्मतत्त्वमास्त इति; तदयुक्तम्—अकरणिकायाः प्रतीतेरदृष्टत्वात् । अपूर्वं च तत् किमपि यथाभ्युपगतप्रमाणातिरिक्तमेव प्रमाणं स्यात् । न च नियमकारणमत्र पश्यामः, तथा प्रकाशमानः स्व एवात्मा प्रकाशते, न परात्मेति22 । प्रकाशमानत्वेन चात्मनो नूनमनुभूयमानता वाच्या । अनुभूयमानता च अनुभवकर्मत्वम्, इतरथाऽस्याः प्रत्यक्षतैव न स्यात् ॥ आत्मनः अपरोक्षत्वनिराकरणम्
अथोच्यते—न प्रत्यक्ष आत्मा, किन्न्त्वपरोक्ष इति; नेदमर्थान्तरवचनम् । शिशव एवं प्रतार्यन्ते, न प्रामाणिकाः । प्रत्यक्षश्च न भवति, अपरोक्षश्च भवतीति चित्रम् ॥

प्रत्यक्षज्ञानकर्मत्वमस्य नास्तीति चेत्, तर्ह्यपरोक्षत्वमपि मा भूत् । प्रकाशत्वादपरोक्षत्वमिति चेत्—न—दीपादेः प्रकाशस्याप्यन्धादिभिरगृह्यमाणस्य प्रकाशमानत्वायोगात् । तस्मात् प्रकाशते चेदात्मा नूनमनुभूयेतापीति बलात् कर्मत्वमपरिहार्यम् । अतश्च तदवस्थैव द्वैरूप्यचोदना23 ॥ ज्ञानमपि न स्वयम्प्रकाशम्
प्रकाशज्ञानपक्षं च प्रतिक्षेप्स्यामः । स चात्मन्यपि तुल्यो न्यायः । कल्पनाद्वैरूप्यं च भवतां, आत्मा च स्वप्रकाशः, संविच्च स्वप्रकाशेति । न च निपुणमतिरपि विवेकमीदृशमुपदर्शयितुं शक्नोति भवान्—इयं स्वप्रकाशा फलरूपा संवित्,24 अयं स्वप्रकाशो ज्ञातृरूप आत्मेति । चित्रं चेदं यत्तयोः द्वयोः प्रकाशयोरन्तराले तद्व्यापारः परोक्षः ज्ञानाख्यः सम्पन्नः इति ॥ अहम्प्रतीतेः शरीरविषयत्वम्
ननु “घटमहं जानामि” इत्यत्र त्रयप्रतिभासः—“घटं” इति विषयः प्रकाशते, “अहं” इत्यात्मा, “जानामि” इति संविदिति ॥

उक्तमत्र—“घटं जानामि” इति ज्ञानविशेषणविषयप्रतिभासः । “अहं” इति तु शरीरे ज्ञातृत्वभ्रमः, एकस्यात्मनः ग्राह्यग्राहकभावानुपपत्तेरिति ॥ आत्मनः चैतन्यरूपत्वासम्भवः
यदपि स्वतश्चेतनस्वभावत्वमात्मनः कल्प्यते—तदपि न सोपपत्तिकम् ॥

सचेतनश्चिता योगात् तद्योगेन विना जडः ।
नार्थावभासादन्यद्धि चैतन्यं नाम मन्महे ॥

अत्मनः ज्ञानरूपत्वे दोषः
यदि च स्वत एवार्थावभाससामर्थ्यमात्मनः—तत्25 किमिन्द्रियैः प्रयोजनम् ? मनष्षष्ठैरिन्द्रियनिरपेक्षपदार्थपरिच्छेदसामर्थ्यपक्षे च सर्वसर्वज्ञतापत्तिः । अतोऽवश्यं ज्ञानसमवायिनिबन्धनमेवात्मनश्चेतयितृत्वम् ॥

न च घटादिभिरतिप्रसङ्गः आशङ्कनीयः । पदार्थस्वभावोपनतस्यैव क्रियावैचित्र्यस्य सर्वलोकप्रसिद्धत्वात् । चेतनादिक्रियाः26 कर्मसमवायिन्यो न भवन्ति । गमनादिक्रियास्तु कर्तृसमवायिन्यः । तदियं ज्ञानक्रियाऽपि कर्तृसमवायिन्येव । न च वस्तुशक्तिरनुयोज्या भवति ॥

न जडत्वाविशेषेऽपि कर्मादौ27 समवैति चित् ।
न द्रव्यत्वाविशेषेऽपि गन्धः स्पृशति पावकम् ॥

तस्मान्न प्रत्यक्ष आत्मा, नापि स्वतश्चेतयितेति स्थितम् ॥ आत्मनः मानसप्रत्यक्षगम्यत्वपक्षः
स्वयूथ्यास्तु केचिदाचक्षते—यद्येकस्य कर्तृत्वं कर्मत्वं चानुपपन्नमित्यप्रत्यत्यक्ष आत्मा इष्यते ? तदयमनुमानेनापि कथं ग्रहीष्यते ?

आत्मानमात्मनाऽऽत्मैव लिङ्गादनुमिनोति हि ।
तत्र नूनमुपेतव्या कर्तृता कर्मताऽस्य च ॥

तत्रानुमानज्ञानस्य यथाऽऽत्मा याति कर्मताम् ।
तथाऽहम्प्रत्ययस्यैषः प्रत्यक्षस्यापि गच्छतु ॥

देहादिव्यतिरिक्तश्च यथा लिङ्गेन गम्यते ।
तथाऽहम्प्रत्ययेनापि गम्यतां तद्विलक्षणः ॥

अरूपस्याप्यात्मनः प्रत्यक्षत्वम्
ननु ! आत्मनः किं रूपं,28 यत् प्रत्यक्षेण साक्षात्क्रियते ?—यद्येवं सुखादेरपि किं रूपं, यन्मानसप्रत्यक्षसमधिगम्यमिष्यते ॥

ननु ! आनन्दादिस्वभावं प्रसिद्धमेव सुखादेः; तर्हि तदाधारत्वमात्मनोऽपि रूपमवगच्छतु भवान् ॥

सुखादि चेत्यमानं हि स्वतन्त्रं नानुभूयते ।
मतुबर्थानुवेधात्तु सिद्धं ग्रहणमात्मनः ॥

इदं सुखमिति ज्ञानं दृश्यते न घटादिवत् ।
अहं सुखीति तु ज्ञप्तिः आत्मनोऽपि प्रकाशिका ॥

आत्मनः प्रत्यक्षत्वमन्तरा सुखादेः प्रत्यक्षं न सम्भवति
अपि च—

ज्ञातृज्ञानविशिष्टार्थग्रहणं किल भाष्यकृत्29
स्वयं प्रादीदृशत्तच्च किं वा युक्तमुपेक्षितुम् ॥

विशेष्यबुद्धिमिच्छन्ति नागृहीतविशेषणाम्30
पूर्वं चाननुभूतस्य स्मरणं नावकल्पते ॥

न चानुमानतः पूर्वं ज्ञात्वाऽऽत्मानं विशेषणम् ।
तद्विशिष्टार्थबुद्धिः स्यात् क्रमस्यानवधारणात् ॥

तस्मात् प्रत्यक्ष आत्मा ॥ आत्मनः प्रत्यक्षत्वाभावे प्रतिसन्धानासम्भवः
सामानाधिकरण्यं च स्मरणानुभवादिषु ।
अनुसन्धीयमानं यद्दृश्यते तत्कथं भवेत् ॥

“पूर्वं अहममुमर्थमनुभूतवान्, अहमेवाद्य पुनरनुभवामि” इति तुल्यविषयं तावत् । तुल्यकर्तृकताऽपि तत्र प्रकाशते, इतरथा त्वनुमातुमप्यात्मा न शक्येत ॥

ज्ञानेच्छासुखदुःखादि किलेदं लिङ्गमात्मनः ।
एकाश्रयतया ज्ञातं अनुसन्धातृबोधकम् ॥

तथात्वेन च तद्ज्ञानं आश्रयज्ञानपूर्वकम् ।
ज्ञाते तत्राफलं लिङ्गं अज्ञाते तु न लिङ्गता ॥

तस्मात् प्रत्यक्ष एवात्मा वरमभ्युपगम्यताम् ।
वृद्धागमानुसारेण31 संविदालोकनेन च ॥

आत्मनः अनुमेयत्वपक्षः
अथवाऽभिनिवेशेन किमनेन प्रयोजनम् ।
अनुमेयत्वमेवास्तु लिङ्गेनेच्छादिनाऽऽत्मनः ॥

तदाह सूत्रकारः—

इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् ॥ १-१-१० ॥

इच्छा नाम तावदित्थमुपजायते—यज्जातीयमर्थमु पयुञ्जानः पुरुषः पुरा सुखमनुभूतवान्, पुनः कालान्तरे तज्जातीयमर्थमुपलभ्य सुखसाधन तामनुस्मृत्य तदादातुमिच्छति । सेयमनेन क्रमेण समुपजायमानेच्छा पूर्वापरानुसन्धानसमर्थमाश्रयमनुमापयति, कार्यस्य निराधारस्यानुपपत्तेः । आश्रयमात्रप्रतीतौ चायमन्वयव्यतिरेकवानेव हेतुर्भवति । इच्छा धर्मिणीधर्मिणी—पक्षः ॥ —आश्रितेति साध्यो धर्मः—कार्यत्वात्, घटादिवत्; गुणत्वात्, रूपादिवत् इति वा हेतुर्वक्तव्यः ॥

गुणत्वं चेच्छादीनां अचाक्षुषप्रत्यक्षत्वादिना रसादिवद्दर्शितमाचार्यैः ॥ आत्मानुमानप्रकारः
एवमन्वयव्यतिरेकवताऽमुना हेतुना अधिष्ठानमात्रेऽनुमिते, तदधिष्ठानत्वे च देहेन्द्रियादौ प्रसक्ते पूर्वानुभूतसुखसाधनत्वानुसन्धानसव्य पेक्षतदुत्पादनपर्यालोचनया तत्कार्यसमानकर्तृकत्वावगमात् शरीरादिप्रतिषेधे सति, स एव केवलव्यतिरेकिभवने तु विशिष्टमाश्रयमनुमापयति । इच्छा—शरीरादिविलक्षणाश्रया—शरीरादिषु बाधकोपपत्तौ सत्यां कार्यत्वात् । अत्र च साधर्म्यदृष्टान्तो न सम्भवतीति वेधर्म्यदृष्टान्तः प्रदर्श्यते । स च घट एव । योऽभूत् साधर्म्यदृष्टान्तः कार्यत्वे “शरीरादिषु बाधकोत्पत्तौ सत्यां” इति विशेषणरहिते कार्यत्वे ॥निर्विशेषणेऽपि घटः, स एव वैधर्म्यदृष्टान्तः सविशेषणे । यत्र विलक्षणाश्रितत्वं नास्ति, तत्र सविशेषणं कार्यत्वमपि नास्ति, यथा घटादाविति न न शक्यते वक्तुम् । तत्र कार्यत्वमात्रयोगेऽपि सविशेषणानां कार्यत्वाभावात् विलक्षणाश्रितत्वमपि तत्र नास्ति, भूताश्रितत्वेन प्रत्यक्षमुपलभ्यमानत्वात् ॥ केवलव्यतिरेकिसमर्थनम्
ननु चान्वयदर्शनमन्तरेण केवलो व्यतिरेकः प्रतीयमानः सन्दिग्धो भवति—किं तत्साध्याभावकृतैव तस्य तस्माद्व्यावृत्तिः, उत निमित्तान्तरकृता ? इति । सन्दिग्धव्यतिरेकस्य हेतोरगमकत्वं निश्चितव्यभिचारहेतुवदिति तार्किकाः—उच्यते—स्यादेतदेवम्, यदि प्रथममनवगतान्वय एव केवलव्यतिरेकशरणो हेतुः प्रयुज्येत । यत्र त्वन्वयव्यतिरेकवानेव हेतुः कञ्चन विशेषं—प्रयोगविशेषम् ॥विशेषमाश्रित्य केवलव्यतिरेकितामबलम्बते, तत्र न ? सन्दिग्धव्यतिरेकताऽवकाशं लभते । घटो हि भूतलाश्रितत्वेन प्रत्यक्षमुपलभ्यते । तदस्य विलक्षणाश्रयविरहादेव सविशेषणहेतुशून्यता जाता, निर्विशेषणावस्थायां तद्योगदर्शनादिति न सन्दिग्धो व्यतिरेकः ॥

अथवा शरीरत्वं सामान्यमिह वैधर्म्यदृष्टान्तीकर्तव्यम् । तत्र हि सर्वात्मना32 कार्यत्वस्य शङ्काऽपि नास्ति । न च तद्विलक्षणाश्रितम्, शरीराश्रितत्वस्य प्रत्यक्षमुपलम्भादिति ॥ इच्छालिङ्गकात्मानुमानम्
तदियमिच्छा प्रथमपदार्थदर्शनादिकार्यसमानकर्तृकतयाऽवगम्यमाना33 शरीरादिविलक्षणमाश्रयमवगमयति, सविशेषणात्कार्यत्वादिति स्थितम् । यश्च स विलक्षण आश्रयः तत्राऽऽत्मसञ्ज्ञाऽगमिकी34 ॥ द्वेषादिलिङ्गकात्मानुमानम्
एवमेव द्वेषादेरात्मलिङ्गता वक्तव्या । यज्जातीयस्यार्थस्य सन्निधानाद्दुःखमनुभूतवान् पुरुषः, तज्जातीयमर्थं पुनरुपलभमानो दुःखसाधनतामनुसन्धाय तत् द्वेष्टीति । सोऽपि प्रतिसन्धातारमेकमन्तरेण नोपपद्यते ॥

आभ्यामिच्छाद्वेषाभ्यामनन्तरं प्रयत्नः समुत्पद्यते । सोऽपि यथोक्तेन क्रमेणानुसन्धानपूर्वक एव । प्रयतमानस्य सुखदुःखे भवतः । ते अपि तथैव द्रष्टव्ये ॥ ज्ञानस्यात्मानुमानलिङ्गत्वेनाकथने हेतुः
ज्ञानं तु यद्यपि प्रथममनुसन्धाननिरपेक्षमपि भवति । तदपि च शक्यत एवात्मलिङ्गमभिधातुम्; तथाप्यनुसन्धानपूर्वेच्छादिकार्यप्रकर णात् निर्णयात्मकमेव ज्ञानमुदाहर्तव्यम् । तत्र हि बुभुत्साविमर्शादिपूर्वकत्वमुपलब्धमिति तदेककर्तृकत्वमुपकल्प्यते35 । तदेवमिच्छादीन्यात्मलिङ्गानीति स्थितम् ॥ अनेकहेतुकथने दोषाभावः
शास्त्रे चानेकहेतूक्तिः न दोषाय कथास्विवजल्पादिकथायां खलु द्वितीयहेतुप्रयोगे हेत्वन्तररूपं निग्रहस्थानम् ॥ ।
शिष्यः कश्चित्क्वचित्किञ्चित् अनुस्मृत्याभिधास्यति ॥

इति कारुणिको हि मुनिरनेकमिह हेतुमार्गमुपदिष्टवान् ॥ आत्मनः अनुमेयत्वेऽपि सुखाद्युपलब्धिसम्भवः
ननु ! अत्र चोदितं—अनुसन्धातारमन्तरेण तदेतदिच्छादि कार्यं नावकल्पत इति कथं ज्ञायते । एकत्र प्रमातरि तद्दर्शनादिति यदुच्यते— तदिदमेकप्रमातृग्रहणादात्मप्रत्यक्षत्वमङ्गीकृतं स्यात् इति व्यर्थमनुमानम् । अग्रहणे तु प्रमातुरेकस्य तत्पूर्वकत्वेनेच्छादेः प्रतिबन्धाग्रहणादशक्यमनुमानमिति—परिहृतमेतत्—कार्यत्वेनैव लिङ्गत्वमिच्छादेरुपवर्णितमस्माभिः, न स्मरणादिसमानाधारतयेति ॥

किमर्थस्तर्हि प्रतिसन्धानोपन्यासः ? शरीरादिषु तदाश्रयत्वप्रतिषेधार्थःशरीरस्य क्षणिकत्वेन प्रतिसन्धानासम्भवात् ॥ । न त्वेवं व्याख्यातवन्तो वयम्, एकस्य प्रमातुः इच्छादिकार्याश्रयत्वदर्शनात् एकाश्रयत्वानुमानमिति । तस्मान्न दोषः ॥ आत्मसाधकव्याप्तिग्रहणसमर्थनम्
ननु कथं न दोषः ? शरीराद्याश्रयत्वप्रतिषेधसाधनेऽपि हेतोर्व्याप्ति ग्रहणासम्भवात् । यावद्धि दर्शनस्मश्णेच्छादि कार्यजातमेकप्रमातृनियततयाऽनवधारितं, तावत् कथमस्मदवस्थाभिः न शरीराद्याश्रयत्वनिषेधस्य तत्पूर्वकस्य चैकात्माश्रितत्वस्य सिद्धिः ॥

क एवमाह—न गृहीतमेककर्तृकतया कार्यमिच्छादीति—यदि गृहीतं तर्हि वक्तव्यम्, क्व गृहीतम् ? केन वा प्रमाणेन गृहीतमिति । स्वात्मन्येवेति चेत्, सोऽयं प्रत्यक्ष आत्मा भवेत् । एवमनभ्युपगमे वा न व्याप्ति ग्रहणमिति ॥

उच्यते—न च प्रत्यक्ष आत्मा, न च व्याप्तेरग्रहणम् । न चैव धर्म्यन्तरे व्याप्तिर्गृह्यते । किन्तु स्वसन्तान एव । तथापि न सिध्यति प्रमातृनियततानुमानम् ? कथमिव सिध्यति ? सन्तानान्तरेषु एकप्रमातृपूर्वकत्वेन प्रतिसन्धानस्य दृष्टत्वात् ॥ व्याप्तिग्रहणकालासम्भवप्रदर्शनम्
ननु ! कोऽत्र व्याप्तिग्रहणकालः ? प्रमाणानुमानबद्धि36 तद्भेदेन भवितव्यम् । ततः किम् ? इदं ततो भवति । कथं स्वसन्तान एव व्याप्तिर्गृह्यताम् ? कथं वा तत्रैव प्रमातृनियमोऽनुमीयतामिति । सेयसुभयतः पाशा रज्जुः । आत्मा वा प्रत्यक्षः । व्याप्तिर्वा दुरवगमेति ॥ आत्मनः अप्रत्यक्षेऽपि व्याप्तिग्रहणम्
नैतदेवम्—यथा शाक्यपक्षे—सत्त्वात् क्षणिकत्वानुमाने व्याप्तिग्रहणम्, तथेहापि भविष्यति । तत्र हि यैव क्रमयौगपद्यव्यावृत्त्या सत्त्वस्य नित्येभ्यो व्यावृत्तिः, स एव क्षणिकैः अन्वय इति धर्म्यन्तरनिरपेक्षतयैव साध्येऽपि धर्मिणि प्रतिबन्धग्रहणं च अनुमानं च दर्शितम् । तद्वदिहाप्येकप्रमातृपूर्वकत्वेन प्रतिसन्धानस्य धर्म्यन्तरे यद्यपि ग्रहणं नास्ति । तथापि सन्तानान्तरभेदे यदस्यादर्शनं, तदेवैककर्तृकत्वदर्शनमिति कोऽनयोर्हेतुत्वे विशेषः ? व्यप्तिग्रहणासम्भवाक्षेपपरिहारौ
ननु ! तत्र नित्येभ्यः क्रमयौगपद्यव्यावृत्त्या व्यावृत्तत्वं37 शक्यग्रहणम् । इह तु प्रमातृभेदेन प्रतिसन्धानव्यावृत्तिर्दुरवगमा । स्वसन्तानेऽपि ज्ञानक्षणाभिन्ना एव प्रमातारः । न च तेभ्यो व्यावृत्तं प्रतिसन्धानमिति ॥

तिष्ठत्वन्वयः, व्यतिरेकमुखेनापि कष्टमिदमनुमानं वर्तते । स्वसन्ताने सन्तानान्तरवत् प्रमातृभेदाग्रहणात् । तद्भेदग्रहे हि स्वपरसन्तान विवेको न स्यात् । यद्येवम्, प्रमातृभेदग्रहणाभावात्38 पुनरप्यात्मा प्रत्यक्ष आयातः ॥

मैवम्—नात्मा प्रत्यक्षः । प्रमातृभेदो हि स्वसन्ताने न गृह्यत इत्युक्तम् । न पुनस्तदैक्यं गृह्यते । अन्यच्च भेदाग्रहणम्—अन्यच्च तदैक्यग्रहणम् । भेदाग्रहणादेव च व्याप्तिसिद्धेः न कष्टमनुमानम् ॥

ननु च स्वसन्तानेऽपि प्रमातृभेदाग्रहणं किं प्रमातुरेकत्वात्, उत ज्ञानानां कार्यकारणभावात् ? इति न निश्चीयते । ततश्च सन्दिग्धो व्यतिरेकः—यथा ज्ञानानां कार्यकारणभावो नास्ति, यथा च न तत्कृतोऽयं व्यवहारः, तथाऽनन्तरमेव सविस्तरं वक्ष्यामः । तस्मादिच्छादिकार्येण युक्तमेकप्रमात्रनुमानम् ॥ देहादेः इच्छाद्याश्रयत्वासम्भवः
ननु चाश्रितमिच्छादि देह एव भविष्यति ।
भूतानामेव चैतन्यमिति प्राह बृहस्पतिः ॥

उक्तं च मदशक्तिवद्विज्ञानमिति—उच्यते—शरीरं तावन्नेच्छादेरा श्रयः; शैशवयौवनवार्धकादिदशाभेदेन भिन्नत्वात् ॥

तथाहि नान्यदृष्टोऽर्थः स्मर्तुमन्येन शक्यते ।
न चान्येन स्मृते तस्मिन् अन्यस्येच्छोपजायते ॥

तेनाद्यादर्थविज्ञानात् प्रकृत्येच्छासमुद्भवात्39
एकस्य कार्यचक्रस्य वक्तव्यः कश्चिदाश्रयः ॥

शरीरं च बाल्याद्यवस्थाभेदेन भिन्नम् । अतस्तस्य नाश्रयो भवितुमर्हति, सन्तानान्तरवत् । यथा हि देवदत्तदृष्टेऽर्थे न यज्ञादत्तस्य स्मरणं, एवं बालशरीरानुभूते युवशरीरस्य तन्न स्यात् ॥ शरीरस्यैकत्वनिरासः
ननु अवस्थामात्रमेव भिन्नम्; अवस्थातृशरीरस्वरूपमभिन्नमेव प्रत्यभिज्ञाप्रत्ययप्रामाण्यादवगम्यते । न चेयं प्रत्यभिज्ञा लूनपुनर्जात केशनखादिप्रत्यभिज्ञावदन्यथासिद्धा, विनाशस्यानुपलम्भात् । स्तम्भादौ हि क्षणभङ्गित्वप्रतिषेधः प्रत्यभिज्ञयैव करिष्यते । सा40 चेहापि तादृश्येव —तदयुक्तम्—स्तम्भादौ नानात्वकारणाग्रहणात् । इह तु रूपपरिणाम सन्निवेशाद्यन्यत्वदर्शनात् सादृश्यनिबन्धनेयं भ्रान्तिरेव प्रत्यभिज्ञा । न खलु शिशुशरीरे, तरुणशरीरे, जरच्छरीरे च तुल्यमेव परिमाणाद्युपलभ्यते ॥ शरीरभेदसाधनम्
आहारपरिणामाच्च देहभेदोऽवगम्यते ।
पाकजोत्पत्तिमार्गेण न जीर्येतान्नमन्यथा41

न भवेत्परिपोषो हि दधिक्षीरादिभक्षणे ।
काञ्चिकाद्युपयोगे42 च न दृश्येतास्य रक्तता ॥

क्षीणैरवयवः कैश्चित् कैश्चिच्चाभिनवोद्गतैः ।
अभिन्न एवावयवी कथं भवितुमर्हति ॥

तथा च केचित्43 पच्यमानस्य घटादेरपि प्रागवस्थाविसदृशरूपादियोगिनः पाककारणभूतवेगवदग्निद्रव्यसंयोगपर्यालोचनयैव प्रलयोदयौ कल्पितवन्तः ॥ पीलुपाकवादवर्णनम्
यद्यपि कन्दुकनिक्षिप्ता घटादयः तृणपर्णादिपिहितवपुषोऽपि तद्विवरप्रसृतेन नयनरश्मिना न विनष्टा इत्युपलभ्यन्ते । यद्यपि तत्सङ्ख्या, तत्परिमाणः, तत्सन्निवेशः, तद्देशाश्च पक्वा अपि दृश्यन्ते, यद्यपि पतन्तो न विभाव्यन्ते, यद्यपि च तदा तेषां कर्त्रादिकारककलापासम्भवात् पुनर्घटनमघटमानमिव लक्ष्यते—तथापि तेषामनुमानेन विनाशः परिकल्प्यते । सर्वावयवेष्वन्तर्बहिश्च पाकात् पूर्वरूपादिविलक्षणगुणोपलब्धेः अन्तःप्रवेशः कृशानोरनुमीयते । तेन वेगवता वह्निद्रव्येण नोदनात् अभिघाताद्वा नूनं घटाद्यारम्भकेष्ववयवेषु क्रिया जायते, क्रियातः विभागः, विभागात् द्रव्यारम्भकसंयोगविनाशः, तद्विनाशात् द्रव्यविनाश इति ॥

अनुप्रवेशपक्षेऽपि44 सूक्ष्मविवरपरिकल्पनात् अवश्यमवयवसंयोगविघटनं घटादेरिति विनाश एव ॥ पीलुपाकवादे युक्त्यन्तरम्
अपि च पाकानन्तरं कन्दुकादपकृष्यमाणाः पिठारादयः केचित् स्फुटिताः, केचिद्वक्रतां गताः, केचित् सन्निवेशान्तरमेव प्रतिपन्ना दृश्यन्ते । तस्मादपि पश्यामो नश्यन्तीति ॥

तत्सङ्ख्यत्वादिति45 सर्वमनैकान्तिकं सूच्यग्रविद्धकण्ठकोणैः कुम्भादिभिः । अतः पूर्वोक्तनीत्या नष्टेषु घटादिकार्यद्रव्येषु परमाणव एव पच्यन्ते । पक्वाश्च श्यामादिगुणानवजहतः रक्तादिगुणान्तरयोगमनु भवन्तः प्राणिगतसुखदुःखोपभोगसाधनभूतादृष्टप्रेर्यमाणाः परस्परं संयुज्य द्यणुकादिप्रक्रमेण तादृशमेव घटादिकार्यमारभन्ते । तत्रामुष्मिन् क्षणेऽमुष्य कार्यस्य प्रसवः, अमुष्य प्रलय इति प्रक्रिया न लिख्यते, ग्रन्थविस्तरभयात्, अप्रयोजनत्वाच्चेति ॥ आम्रफलादिष्वपि पीलुपाकः
एवं तपनातपपच्यमानेष्वाम्रादिफलेष्वेष एव न्यायः । शरीरेऽप्यौदर्येण तेजसा पच्यमानेष्वन्नपानादिषु रसमलधातुभावेन परिणाममुपगच्छत्सु प्रायेण प्रतिक्षणमुत्पादविनाशौ सम्भवत इति स्थैर्याभावात् कथमनुसन्धानादिकार्ययोगस्तस्येति ॥ पिठरपाकवादसमर्थनम्
अपरे पुनः प्रत्यक्षबलवत्तया घटादेरविनाशमेव पच्यमानस्य मन्यन्ते । सुषिरद्रव्यारम्भाच्च अन्तर्बहिश्च पाकोऽप्युपपत्स्यते । दृश्यते46 च पक्वेऽपि कलशे निषिक्तानामपां बहिः शीतस्पर्शग्रहणम् । अतश्च पाककाले ज्वलदनलशिखाकलापानुप्रवेशकृतविनाशवत् तदापि शिशिरतरनीरकणनिकरानुप्रवेशकृतविनाशप्रसङ्गः । न चेदृशी प्रमाणदृष्टिः । अतः प्रकृतिसुषिरतयैव कार्यद्रव्यस्य घटादेरारम्भात् अन्तरान्तरा तेजःकणानुप्रवेशकृतपाकोपपत्तेरलं विनाशकल्पनया । पिठरपाकपक्ष47 एव पेशलः ॥

यादृगेव हि निक्षिप्तः घटः पाकाय कन्दुके ।
पाकेऽपि तादृगेवासौ उद्धृतो दृश्यते ततः ॥

क्वचित्तु सन्निवेशान्तरदर्शनं काष्ठाद्यभिघातकृतमुपपत्स्यते । पावकसम्पर्ककारित्वे तु सर्वत्र तथाभावः स्यात् । तस्मादविनष्टा एव घटादयः पच्यन्ते । सोऽयं तु घटादिन्यायः शरीरे नेष्यते ॥

न ह्यन्नपाकः स्थैर्येऽपि48 तत्र कुम्भादिपाकवत् ।
चयापचययुक्तं हि शरीरमुपलभ्यते ॥

तस्मात् परिमाणादिभेददर्शनान्नैकं शरीरं इति ज्वालादिप्रत्यभिज्ञावत्तत्प्रत्यभिज्ञेति स्थितम् ॥ अवस्थाऽवस्थावतोर्भेदाभेदविमर्शः
यदप्युच्यते अवस्थानामेव नानात्वम्, अवस्थाता पुनरेक एव देहाख्य इति—तदप्ययुक्तम् भेदाभेदविकल्पानुपपत्तेः । यदि शरीरादव्यतिरिता एव तदवस्थाः, तर्हि तन्नानात्वात् शरीरनानात्वप्रसङ्गः । एकस्माच्छरीरादप्यनन्यत्वात् अवस्थानामप्यन्योन्यं भेदो न स्यात् ॥

अथ व्यतिरिक्ताः शरीरादवस्थाः, तर्हि भेदेन तदुपग्रहो दर्शयितव्यः । न चासावस्ति । गोत्वादावनुवृत्ता बुद्धिरन्यथाऽसिद्धा49 सती जातितद्वतोर्भेदमापादयन्ती न केनचित्प्रतिहन्यते । इह पुनरवस्थातुरेकत्वग्राहिणी बुद्धिः पूर्वनीत्या प्रमाणबाधितत्वात् भ्रान्तेति । तस्मात् शरीरस्य भिन्नत्वात् सन्तानान्तरवत् स्मृत्यनुसन्धानादिकार्ययोगो दुर्घट इति न तस्येच्छादिकार्याश्रयत्वम् ॥ शरीरचैतन्यवादनिरासः
इतश्च न शरीरस्य ज्ञानादियोगः, परिणामित्वात्, क्षीरवत्; रूपादिमत्त्वात्, तद्वदेव; अनेकसमूहस्वभावत्वात्, त्रिदण्डादिवत्; सान्निवेशविशिष्टाच्च भूतत्वात्, वाह्यभूतवत् ॥

चैतन्यशून्यं शरीरं, शरीरत्वात्, भूतशरीरवत् । न शरीरधर्मश्चैतन्यम्, अयावद्द्रव्यभावित्वात् । न च संयोगादिभिः व्यभिचारः; तदुपजननापाययोर्निमित्तान्तरजन्यत्वदर्शनात्, इह च तदभावात् । विशेषगुणत्वे सतीति वा विशेषणोपादानान्न व्यभिचारः । तद्विशेषगुणत्वे हि चैतन्यस्य रूपादिवत्तदवस्थानादविनाशप्रसङ्गः ॥ किण्वादिदृष्टान्तदौस्थ्यम्
यत्तु मदशक्तिवदित्युक्तम्—तत्रमदशक्तेर्दृष्टत्वात् अभ्युपगमः, न तु ज्ञानस्य तत्र दर्शनम् ॥

ननु ज्ञानमपि तदन्वयव्यतिरेकानुविधायि50 प्रायेण दृश्यते । भूतेष्वन्नपानाद्युपयोगपुष्टेषु पट्वी चेतना भवति, तद्विपर्यये विपर्ययः । ब्राह्मीघृताद्युपयोगसंस्कृते च कुमारशरीरे पटुप्रज्ञता जायते ॥

वर्षासु च स्वेदादिनाऽनतिदवीयसैव कालेन दध्याद्यवयवा एव चलन्तः पूतनादिक्रिमिरूपा51 उपलभ्यन्ते । चैतन्ये च गुरुलाघवव्यवहारोऽपि भूतातिशयसदसत्त्वकृतो भविष्यतीति भूतचैतन्यपक्ष एव युक्तियुक्तो लक्ष्यते ॥

नैतच्चारु—चेष्टेन्द्रियार्थाश्रयः शरीरं लक्ष्यते । तत्र तदनुग्रहात् इन्द्रियानुग्रहे सति पटुकरणत्वात् विषयग्रहणमपि पटुतरमिवभवति । न च विषयग्रहणादन्यच्चैतन्यं नाम ॥ चेतनानामभौतिकत्वम्
एतेन ब्राह्मीघृतोपयोगोऽपि व्याख्यातः । व्यापकत्वादात्मनः सर्वत्र भावे सति भोगायतनत्वेन कदाचित् भूतावयवानां उपादानम् । अतः शुक्रशोणितादिवत् दध्यवयवान् विकृतानुपादास्यते । तथा च स्वेदजादिभेदेन बहुभेदो भूतसर्गः प्रवर्तते विचित्रकर्मपरिपाकापेक्षयेति यत्किञ्चिदेतत् । तस्मान्न सर्वथा भूतानां चैतन्यमिति सिद्धम् ॥ इन्द्रियचैतन्यवादनिरासः
नापीन्द्रियाणि यथोक्तस्य ज्ञानादेः52 कार्यस्याश्रयतां प्रतिपद्यन्ते—

दर्शनस्पर्शनाभ्यामेकार्थग्रहणात् ॥ [न्या-सू-३-१-१]

“यमर्थमहमद्राक्षं चक्षुषा, तमेवैतर्हि स्पर्शनेन स्पृशामि”, “यमस्प्राक्ष”“स्पर्शनेन, तमधुना चक्षुषा पश्यामि” इति कतरदिन्द्रियमेवमनुसन्दधीत ? न चक्षुः, स्पर्शाविषयत्वात् । न त्वगिन्द्रियं, रूपाविषयत्वात् । तस्मादुभयविषयग्रहणसमर्थः कश्चिदनुसन्धाताऽस्तीति स इन्द्रियव्यतिरिक्तो गम्यते ॥ गुणगुणिभेदसिद्धिः
अमुनैव प्रसङ्गेन रूपादिव्यतिरेकिणः ।
वक्तव्या गुणिनः सिद्धिरेतद्बुद्धिनिबन्धना ॥

रूपादिषु स्वतन्त्रेषु53 न ह्येषप्रत्ययो भवेत् ।
न रूपमस्य विषयः न स्पर्शो न च तद्द्वयम् ॥

अतश्च—न गुणव्यतिरिक्तो गुणी, भेदेनाग्रहणात्—इत्यसिद्धः परोक्तो हेतुः, भेदग्रहणस्य दर्शितत्वात् । वृत्तिविकल्पादीनां तु प्रतिसमाधानं सामान्यसमर्थनावसरे कथितम्,54 अवयविसिद्धौ वक्ष्यते चेत्यलमवान्तरचिन्तया ॥ इन्द्रियाणामनात्मत्वे हेत्वन्तराणि
इतश्च नेन्द्रियाणां चैतन्यम्, करणत्वात्; वास्यादिवत् । भौतिकानि चेन्द्रियाणि वर्णयिष्यामः । तेन य एष भूतचैतन्यनिराकरणे न्यायो वर्णितः, स तेष्वपि योजनीयः ॥

अतश्चैवं—

इन्द्रियान्तरविकारात् ॥ न्या। सू। ३-१-१२ ॥

आम्रे हि चक्षुषा दृष्टे रसनिष्यन्दसुन्दरे ।
रसनस्य विकारः स्यात् न दन्तोदकसम्प्लवः55

बहूनामिन्द्रियाणां च भिन्नाभिप्रायता भवेत् ।
तेनैकत्रैव सन्ताने नानाचेतनता भवेत् ॥

अति तुच्छश्चायमिन्द्रियचैतन्यपक्ष इति किमत्र बहु लिख्यते ॥ मनश्चैतन्यवादनिरासः
ननु ! मनस्तर्हि इच्छादेरधिष्ठानं भविष्यति । तद्धि नित्यमेकं सर्वविषयं, अभौतिकमिति न प्राक्तनदौषैः स्पृश्यते—उच्यते—मनसोऽपि तदाश्रयत्वमनुपन्नम् । कुतः ?

ज्ञातुर्ज्ञानसाधनोपपत्तेः सञ्ज्ञाभेदमात्रम् ॥ न्या। सू। ३-१-१७ ॥

मनसो हीच्छाद्याश्रयत्वे ज्ञानादौ कर्तृत्वात् तस्यापि बाह्यगन्धादिविषयज्ञानयौगपद्यानुपपत्तेः तद्ग्रहणकरणघ्राणाद्यधिष्ठानपटुना केन चिदान्तरसुखदुःखादिविषयग्राहिणा स्मृत्यादिक्रियाकारिणा च करणेन भवितव्यमिति तत्रात्मसञ्ज्ञा भवेत्, आत्मनि च कर्तरि मनस्सञ्ज्ञेति ॥ बाह्यान्तरकरणयोरावश्यकता
न चास्य बाह्यकरणैः सिध्यन्ति सकलाः क्रियाः ।
न च स्मृतिसुखेच्छादौ चक्षुरादीनि साधनम्56

तेनेच्छाकृतिसुखदुःखवेदनानां
आधारो न खलु मनो न चेन्द्रियाणि ।
देहोऽपि व्रजति न तत्समाश्रयत्वं
तेनान्यं पुरुषमतः प्रकल्पयामः ॥

आत्मसाधने हेत्वन्तराणि
दिक्प्रदर्शनमिदं कृतमिच्छा-
द्वेषयत्नसुखदुःखमतीनाम् ।
लिङ्गताकथनमात्मनि तत्र
त्वस्ति हेतुनिवहो बहुरन्यः ॥

कर्तृप्रयोज्यता खलु दृष्टा दात्रादिकरणजातस्य57
त्वक्श्रोत्राद्यपि करणं तथैव कर्त्रा प्रयुज्येत ॥

हिताहितप्राप्तिविसर्गयोग्या58
चेष्टा च दृष्टा नियता शरीरे ।
तच्चेतनाधिष्ठितताममुष्य
गन्त्रीरथादेरिव कल्पयामः ॥

प्राणादिमारुतानामन्तश्चलतां चलाचलगतीनाम् ।
सहजनिजकर्मविकृतौ कारणमनुमीयते किञ्चित् ॥

इदं च देहादितरत्र दुर्लभं
निरीक्ष्य वृद्धिक्षतभग्नरोहणम् ।
ध्रुवं ग्रहस्येव गतिः प्रकल्पते
निजाश्रयक्षेमपरायणो नरः ॥

मनसः ज्ञानसामान्यकरणत्वम्, अनात्मत्वं च
युक्तं च नैव मनसा ह्यनधिष्ठितानां
स्वार्थप्रमाकरणकौशलमिन्द्रियाणाम् ।
स्यात् कश्चिदिष्टविषयानुगुणः प्रयत्नः
यत् प्रेरितं समधितिष्ठति तानि, चेतः ॥

ज्ञानप्रयत्नादिमतोऽथ कस्य
दृष्टान्तता स्यात् करणादिलिङ्गे ।
कार्ये59 न नः पर्यनुयोग एषः
सामान्यमात्रस्य तवापि सिद्धेः ॥

आत्मनित्यत्वावश्यकता
प्रत्यक्षादिप्रमाणैर्यः व्यवहारः स चात्मना ।
विना नित्येन नेत्येवं ततोऽप्येतस्य कल्पना ॥

यत् प्रत्यक्षं प्रत्यभिज्ञास्वभावं
ज्ञात्रन्यत्वे तस्य न ह्यात्मलाभः ।
ग्राह्यस्यैक्यं यद्वदर्थस्य तस्मात्
सिध्यत्येवं ग्राहकस्यापि पुंसः ॥

अविनाभावग्रहणं लिङ्गज्ञानं तदन्वयस्मरणम् ।
लिङ्गिप्रमितिरितीदं न बोद्धृभेदे प्रमाणं स्यात् ॥

ज्ञाते वनेचरमुखादतिदेशवाक्ये
दृष्टे मृगे विपिनवर्तिनि गोसदृक्षे ।
तत्सञ्ज्ञितामितिफलं लभते प्रमातृ-
भेदे न चेदमुपमानमिति प्रतिष्ठम् ॥

वर्णानां श्रवणं क्रमेण समयस्मृत्या पदार्थग्रहः
तत्संस्कारजमन्त्यवर्णकलनाकाले तदालोचनम् ।
आकाङ्क्षादिनिबन्धनान्वयकृतं वाक्यार्थसम्पिण्डनं
ज्ञात्रैकेन विनाऽतिदुर्घटमतो नित्यात्मसिद्धिर्ध्रुवा ॥

मयेदं पूर्वेद्युर्विहितमिदमन्येद्युरपरं
विधातव्यं चेति श्रुतिकृषिवणिज्यादिषु जनाः ।
यदेवं चेष्टन्ते निपुणमनुसन्धाय तदमी
ध्रुवं सर्वावस्थानुगतमवगच्छन्ति पुरुषम् ॥

आत्मलक्षणज्ञानस्य फलम्
इत्यात्मलक्षणमवादि यदेतदिच्छा-
द्वेषप्रयत्नसुखदुःखसमाश्रयत्वम् ।
तत्सङ्गिनं60 तदिह हेयतया व्यवस्येत्
तद्विप्रयुक्तमधिगम्यतया मुमुक्षुः ॥

विज्ञानात्मवादोपक्षेपः
अथो तथागताः प्राहुः किं पुंसा कल्पितेन वः ।
ज्ञानमात्रेण61 पूर्वोक्तः व्यवहारः प्रसिद्ध्यति ॥

ज्ञानं किमात्मवन्नित्यं सौगतैरुपगम्यते ।
प्राग्दर्शितानुसन्धानकामनादिक्रियाक्षमम् ॥

ज्ञानं बौद्धगृहे तावत् कुतो नित्यं भविष्यति ।
अन्येऽपि सर्वे संस्काराः क्षणिका इति गृह्यताम् ॥

क्षणिकं चेष्यते कार्यं न क्वचित् किञ्चिदाश्रितम् ।
स्वतन्त्रं ज्ञानमेवातः नान्यस्तेनानुमीयते ॥

इच्छादीनां ज्ञानरूपत्वम्
ज्ञानस्य च प्रभेदोऽयं इच्छाद्वेषसुखादिकः ।
न वस्त्वन्तरमित्येवं न ततोऽप्यन्यकल्पनम् ॥

गुणत्वमपि नास्त्यस्य यतोऽधिष्ठानकल्पना ।
न गुणव्यतिरिक्तश्च गुणी नामास्ति कश्चन ॥

क्षणिकविज्ञानवादे स्मरणाद्युपपत्तिः
निराश्रयेषु विज्ञानस्कन्धेषु62 क्षणभङ्गिषु ।
कथं स्मृत्यादिकार्यं वा परलोकोऽपि वा कथम् ॥

सत्यपि परलोके कथमकृताभ्यागमकृतविप्रणाशौ पराक्रियेते ? येन हि ज्ञानेन चैत्यवन्दनादि कर्म कृतं, तस्य विनाशात् न तत्फलोपभोगः । यस्य च फलोपभोगः तेन न तत्कर्म कृतमिति—नैषदोषः—कार्यकारणभावस्य नियामकत्वात् । अनादिप्रबन्धप्रवृत्तो हि ज्ञानानां हेतुफलभाव प्रवाहः । एष एव च सन्तान इत्युच्यते । तत्कृतश्चायं अनुसन्धानादिकार्यनियमः । सन्तानानादित्वात्, तदविच्छेदाच्च परलोकोऽपि न क्लिष्टकल्पनः ॥ सन्तानसाङ्कर्यनिरासः
यद्यपि सन्तत्यन्तरपतितज्ञानजन्यमपि सन्तत्यन्तरे ज्ञानं दृश्यते,63 तथापि न तादृशकार्यकारणभावेन सन्तानव्यवहारः प्रतिसन्धानादिकार्यनिर्वाहो वा; किन्तु उपादानरूपतद्विशेषनिबन्धन एवैष निर्वहति नियमः । तस्मिन्नेव सति स्वरूपसन्तानविभागोऽवकल्पते ॥

स्मृतिवत्परिहर्तव्यौ कृतनाशाकृतागमौ ।
तत्सन्तानोपसङ्क्रान्त्या कुसुमे बीजरागवत् ॥

आह च— “ यस्मिन्नेव हि सन्ताने आहिता कर्मवासना ।
फलं तत्रैव बध्नाति कार्पासे रक्तता यथा ॥


यथा यस्मिन्नेव हि कार्पसबीजे वर्णः रक्तताख्यः कृतः, तस्यैव कुसुममपि रक्तम्, नान्यस्येति; तथा यस्मिन्नेव ज्ञानसन्ताने यादृशी कर्मवासना, तादृशं फलं तस्मिन्नेव सन्ताने भवति, नान्यस्मिन् ज्ञान इत्यर्थः । तथा च कृतहानाकृताभ्यागमदोषनिरासः ॥ आत्मनः नित्यत्वासम्भवः
नित्यस्त्वात्माऽभ्युपगम्यमानः यदि सुखादिजन्मना विकृतिमनुभवति तदयं अनित्य एव चर्मादिवदुक्तः स्यात् । निर्विकारत्वे तु सताऽ सता वा सुखदुःखादिना कर्मफलेन कस्तस्य विशेष इति कर्मवैफल्यमेव । तदुक्तम्— “ वर्षातपाभ्यां किं व्योम्नः चर्मण्यस्ति तयोः फलम् ।
चर्मोपमश्चेत् सोऽनित्यः खतुल्यश्चेदसत्फलः इति ॥


तस्मादुत्सृज्यतामेषः मूर्धाभिषिक्तः प्रथमो मोहः आत्मग्रहो नाम । तन्निवृत्त्या चात्मीयग्रहोऽपि विरंस्यति “अहमेव न, किं मम” इति64 । तदिदमहङ्कारममकारग्रन्थिप्रहाणेन नैरात्म्यदर्शनमेव निर्वाणद्वार65 मबलम्ब्यताम् ॥ क्षणिकवादोपक्षेपः
तस्य च मार्गः क्षणिकपदार्थनिश्चयः । क्षणिकेषु हि सर्वभावेषु निराश्रयेषु ज्ञानस्याप्याश्रयविरहात् कुतस्त्यमात्मकल्पनमिति ॥

कथं पुनरेषः सकलप्रमाणातीतः क्षणिकपदार्थवादः शक्यते शाक्यैरभ्युपगन्तुम् ॥

न खलु क्षणभाङ्गित्वे भावानामक्षजा मतिः ।
प्रमाणं, क्षणिकाकारकल्पनोत्पत्यसम्भवात् ॥

अथवाप्यविनाभूतहेतुज्ञानोपपत्तितः ।
न भूमिरनुमानस्य विकल्पनियतस्थितेः ॥

स्मरणप्रत्यभिज्ञाने प्रत्युत स्थैर्यसाधके ।
एवं च वञ्चनामात्रं आशुनाशित्वदेशनाः ॥

क्षणिकत्वसाधनम्
उच्यते—प्रत्यक्षगम्यं क्षणिकत्वं भवति, न भवतीत्येषं करिष्यते विचारः । अनुमानं तु सम्प्रत्येवाभिधीयते—सत्त्वात् क्षणिकाः पदार्था इति । सत्त्वं तावदर्थक्रियाकारित्वमुच्यते । यथोक्तम् [प्र। वा। १-३-२] — “ अर्थक्रियासमर्थं यत् तदेव परमार्थसत् इति ॥

” सत्त्वस्वरूपं किम्
सत्प्रत्ययगम्यत्वे हि सत्त्वे, केशोण्ड्रकादेरपि66 सत्त्वप्रसङ्गः । सत्ता सम्बन्धित्वे तु सत्त्वे, सामान्यादीनां तदसम्बन्धादसत्त्वं स्यात् । अर्थक्रियासामर्थ्यसत्त्वानुवर्ती च लौकिको व्यवहारः । सत्यपि पुत्रे तत्कार्यादर्शनात्—“अपुत्रा वयम्” इति व्यपदिशन्ति लौकिका । पुत्रादन्यस्मिन्नपि तत्कार्यकारिणि सति “सपुत्रा वयम्” इति च ब्रुवते । तस्मादर्थक्रियाकारित्वमेव सत्त्वम् ॥ सत्त्वस्य क्षणिकत्वसाधकत्वम्
भवत्वेवं, तस्य तु कुत्र कथं वा क्षणिकत्वेन व्याप्तिग्रहणम् ? कुत्रेति यत् पृच्छसि, यत्र रोचते महाभागाय घटे, पटे वा गृह्यतां व्याप्तिः ॥

किं साध्यधर्मिण्येव व्याप्तिग्रहणमुपपद्यते ?

धीमन् ! कोऽत्र प्रमादः ? न हि दैवनिर्मितः कश्चित् साध्यधर्मी नाम । ग्रहीतुं शक्यते चेद्व्याप्तिः, यत्र तत्र सा गृह्यतामिति ॥ सत्त्वक्षणिकत्वयोः व्याप्तिः
यत्तु कथमस्या ग्रहणमिति—तदुच्यते—भावानां हि सत्त्वं क्रमयौगपद्याभ्यां व्याप्तम् ॥

नित्येषु च पदार्थेषु67 व्यापकानुपलम्भनात् ।
तद्व्याप्तमपि सत्त्वं हि बलात्तेभ्यो निवर्तते ॥

न च राशिस्तृतीयोऽस्ति68 तेन गत्यन्तरक्षयात् ।
क्षणिकानेव तान् भावान् सत्त्वं समबलम्बते ॥

तच्च स्वग्राहकाद्बोधात् असन्दिग्धं प्रतीयते ।
ज्ञानोत्पत्त्यैव तद्धेतोः असामर्थ्ये पराकृते ॥

असमर्थात्समुत्पादो दृश्यते न हि कस्यचित् ।
शक्ताशक्तप्रसूतत्वे न तद्बोधोऽस्ति संशयः ॥

अत एव च तज्ज्ञानं प्रमाणं जगदुस्सदा ।
स्वरूपे शक्तिजत्वे तु संशयादेरसम्भवात् ॥

किमिदं रजतं, उत शुक्तिकेति विशेषांशे संशेरतां नाम प्रमातारः; न तु सामर्थ्यं प्रति दोला69 काचित् सम्भवति—“किमिदं ज्ञानं समर्थेन जनितम् ? उत तदितरेण ?” इति । असमर्थस्य जनकत्वानुपपत्तेः । व्यापकानुपलम्भस्यापि व्याप्तिग्राहिणः स्वत एव प्रामाण्यम् । संशय विपर्ययोस्तत्राप्यभावात् ॥ नित्यपदार्थस्यासम्भवः
कथं पुनर्नित्येषु पदार्थेषु सत्त्वव्यापकयोः क्रमयौगपद्ययोरनुपलम्भः ? उच्यते—नित्यो हि भावः क्रमेण वा कार्यं कुर्यात्, यौगपद्येन वा ? परस्परपरिहारव्यवस्थितात्मनां तृतीयप्रकारानुपपत्तेः ॥ क्रमशः कार्योत्पत्तिपक्षदूषणम्
न तावत् क्रमेण, स हि समर्थो वा स्यात् ? असमर्थो वा स्यात् । समर्थश्चेत् किं क्रमेण ? समर्थस्य कालक्षेपायोगात् । असमर्थस्तु असमर्थत्वादेव न करोति किञ्चिदिति तस्यापि किं क्रमेण ? सहकारिसान्निध्याद्यनुपपत्तिः
सहकार्यपेक्षया करोतीति चेत्—न—असमर्थस्य सहकारिणाऽपि सामर्थ्याधानानुपपत्तेः । समर्थस्य स्वत एव सामर्थ्ये सति सहकारि वैयर्थ्यात् ॥

सहकारिसन्निधानेऽपि चास्य स्वरूपेण वा कर्तृत्वं स्यात्, पररूपेण वा ? स्वरूपस्य च प्रागपि भावात्, तस्य च कारकत्वात्,70 किं सहकारिणा । पररूपेण कर्तृत्वे—पूर्वरूपपरित्यागात्, तद्रूपान्तरापत्तेश्च क्षणिकत्वमापद्यते ॥ सहकारित्वमपि दुर्वचम्
एवं सहकार्यपि समर्थासमर्थतया विकल्पनीयः । स्वतोऽस्य सामर्थ्येकिं परोपकारानुसरणदैन्येन ? असमर्थस्तु सचिवः किमागत्यापि तपस्वी करिष्यति ॥

किञ्च किञ्चित्करो वा सहकारी स्यात्, अकिञ्चित्करो वा ? अकिञ्चि त्करपक्षे सर्वः सर्वस्य सर्वत्र कार्ये साचिव्यमुपगच्छेत् । किञ्चित्करश्चेत् वक्तव्यं, किं करोतीति ॥

उपकारमिति चेत्, स उपक्रियमाणात् भिन्नः, अभिन्नो वा ? अभिन्न श्चेत्, स एव कृतः स्यात्71 । भेदे तस्य किमायातम्, यदसौ न पूर्ववदास्ते ॥

कार्यादपि72 भेदाभेदाभ्यां चिन्त्य उपकारः । न कार्याद्भिन्नः, अनुपलम्भात् । द्वयकरणाभावाच्च । कार्यादव्यतिरेके तूपकारे सहकारिणा क्रियमाणे कार्यमेव तेन कृतं स्यादिति मूलकारणानर्थक्यम् ॥ एकैकस्य कारकत्वासम्भवः
ननु च एक एव भावः कारकः । स एव हि समर्थः । तदितरपदार्थसन्निधानं तु स्वहेतुवशादुपनीतमिति नोपालम्भमर्हति—नैतद्युक्तम् —एकस्य कदाचिदपि कारकत्वानुपलब्धेः तत्सामर्थ्यस्य दुरधिगमत्वात् । एवं ह्यसौ समर्थं उच्यते, यद्येकः कदाचित् कार्यमुत्पादयन् दृश्येत, न तु विस्मृत्यापि दृश्यते ॥

अथ कार्यस्यायं स्वभावः, यदेकस्मान्नोत्पद्यते, कारणं तु शक्तमेवेति—तदप्ययुक्तम्—कार्यस्वभावपराधीनत्वेन73 कारणस्य सामर्थ्य विरहप्रसङ्गात् । एवं ह्यसौ समर्थः कथ्येत, यदि कार्यस्वभावमनादृत्य स्वतन्त्र एक एव प्रसह्य कार्यं जनयेत् । न चैवं दृश्यते इति यत्किञ्चिदेतत् ॥ कारणे सामर्थ्यं दुरुपपादम्
अथ समर्थमेव कारणम् । तस्य त्वयं स्वभावः, यत् सहसैव कार्यन्न करोति, कतिपयक्षणव्यवधाने तु कार्यं करोतीति । यद्येवं न कदाचित् कार्योत्पादः स्यात् । कार्यीत्पादसमयेऽपि कतिपयक्षणव्यवहितकार्यजननस्वभावानपयात् पुनः कतिपयक्षणावेक्षणं स्यात् । तेष्वपि कतिपयेषु क्षणेष्वतिक्रान्तेषु स एवास्य स्वभावस्तदवस्थ इति पुनरप्येवं भवेदिति कदा नाम—कार्यं जनयेत् । तदेवमादिदोषोपहतत्वात् न क्रमेण भावानामर्थक्रियासामर्थ्यम् ॥ यौगपद्यपक्षदूषणम्
नापि युगपत्; लोके तथा व्यवहारादर्शनात् । युगपत् कृतकार्य स्यापि स्थिरस्य पुनरकरणे हेत्वभावः74 । पुनश्च कुर्वन्नपि भावः कार्यं न तदेव कुर्यात्, कृतस्य करणायोगात् । कार्यान्तरकरणे तु स एवायं पुनः क्रमपक्ष आपतेदित्येवं क्रमयौगपद्ये नित्येभ्यः पदार्थेभ्यः निवर्तेते । ते च निवर्तमाने सत्त्वस्य व्यापके इति सत्त्वं तेभ्य आदावेव निवर्तते । तेभ्यः प्रच्युतं सत्त्वं गत्यन्तरविरहात् क्षणिकेष्वेव निविशते ॥ सत्त्वक्षणिकत्वयोर्व्याप्तिग्रहणम्
अतो यद्यपि कार्यहेतौ धूमाग्न्योरिव, स्वभावहेतावपि वा क्वचित् वृक्षत्वर्शिशपात्वयोरिव पूर्वमिह साध्यसाधनधर्मयोर्ग्रहणं धर्म्मन्तरे न वृत्तम्—तथापि साध्यधर्मिण्येव75 व्याप्तिग्रहणमुपपत्स्यते, विपक्षव्यावृत्तेः सुपरिनिश्चितत्वात् । सैव च विपक्षाद्व्यावृत्तिः । स एव चास्य हेतोः स्वसाध्येनान्वयः । न ह्येवं सम्भवति, नित्येभ्यश्च व्यावृत्तं सत्त्वं, क्षणिकेषु च न निविष्टमिति; तृतीयराश्यभावात् । निराश्रयत्वानुपपत्तेश्च ॥

तदेवं क्वचिद्धर्मिणि व्याप्तौ गृहीताय—यदि स एव कदाचित् परं प्रति दृष्टान्तीक्रियते, तदैवं नाम भवतु, को दोष इति ॥ क्षणिकत्वानुमानेऽनवस्थापरिहारः
ननु व्यापकानुपलब्धिः अनुमानम् । अनुमानेन चानुमानस्य व्याप्तिग्रहणेऽनवस्था ॥

नानवस्था, तावत्येव पर्यवसानात् । न हि व्यापकानुपलष्धेः अनुमानान्तरात् व्याप्तिनिश्चयः, किन्तु प्रत्यक्षविकल्पादेव । तदनया व्याप्तिनिश्चयात् सिद्धमेतत्—यत् सत्, तत् क्षणिकमिति ॥ क्षणिकत्वसाधकव्याप्तिग्रहणे पक्षान्तरम्
अन्ये तु रीत्यन्तरेण व्याप्तिनिश्चयमाचक्षते । विरुद्धयोरेकपरिच्छेदेऽन्यतरनिवृत्तिरवश्यम्भाविनी, विरुद्धत्वादेव । विरुद्धे च सत्त्वनित्यत्वे76 पूर्वोक्तयैव नीत्या । सत्त्वं च विस्पष्टमुपलभ्यते भावानाम्— इति तदुपलम्भान्नित्यत्वनिवृत्तिः । नित्यत्वनिवृत्तिरेव क्षणिकत्वनिश्चयः, प्रकारान्तराभावात् ॥ नित्यत्वाग्रहणेऽपि व्यावृत्तिसिद्धिः
ननु ! शीतोष्णयोः पृथगुपलम्भात् विरोधनिश्चये युक्त एकग्रहणे द्वितीयव्युदासः । इह तु सत्त्वमेवोपलभ्यते, न नित्यत्वमिति कथं तद्वि रोधादितरव्यावृत्तिः—नैषदोषः—फृथगुभयानुपलम्भेऽपि सत्त्वसिद्ध्यैव नित्यत्वनिराससिद्धेः ॥ सत्त्वज्ञानस्य क्षणिकत्वे प्रमाणत्वम्
कथमन्यषिया बुद्धिः अन्यमुदस्यति—उच्यते—

द्विचन्द्रदर्शनस्यैकशशभृद्बिम्बवेदिनी ।
धीरतद्विषयत्वेऽपि यथा मिथ्यात्वकारणम् ॥

तथा स्थैर्यासमाविष्टा सामर्थ्यग्राहिणी मतिः ।
स्थिरत्वाविषयत्वेऽपि तद्व्यवच्छेदकारिणी ॥

सत्त्वं नानास्वभावत्वं स्थैर्यमेकस्वभावता ।
तयोर्विरोधो युक्त्याऽपि वक्तुं न हि न शक्यते ॥

तस्मात् सत्त्वप्रतीतिरेव नित्यत्वनिवृत्तिः, सैव च क्षणिकत्वव्याप्तिरिति सिद्धं सत्त्वात् क्षणिकत्वम् ॥ कारकत्वमेव क्षणिकत्वपर्यवसायि
अपि च सर्वदा कार्यानुत्पादात् कारकावस्था नूनमेकक्षणस्थायिनी भावानामुपगन्तव्या । व्यापारावेशवशेन वा श्रोत्रियादिपक्षे,77 सहकार्यादिसन्निधनासादनेन वा नैयायिकपक्षे । कारकत्वं नाम वस्तुनः रूपं एकक्षणवृत्त्येव, कार्योत्पत्त्येव तत्कल्पनात् । ततः पूर्वमुत्तरकालं वा कारकत्वयोगात् । कारकत्वमेव परमार्थसत्, अकारकस्य ज्ञानजनकत्वाभावात् अस्तित्वमपि दुर्वचम् । अतश्च सर्ववादिभिरेव प्रायेण क्षणि कत्वमिदमभ्युपगतमिति यश एव केवलं सौगताः पीतवन्तः । तस्मात् सिद्धं यत् कारकं, यच्च सत्, तत् क्षणिकमिति ॥ ध्वंसस्य हेत्वनपेक्षत्ववादः
अतश्च—क्षणभङ्गिनो भावाः, प्रलयं प्रति हेत्वनपेक्षत्वात् । भावो हि स्वतो नश्वरात्मा भवेत्, तद्विपरीतो वा ?

विनश्वरस्वभावेऽस्मिन् कृतं प्रलयहेतुभिः ।
अनश्वरस्वभावे हि कृतं प्रलयहेतुभिः78

क्व तर्हि मुद्गरादीनां व्यापारः ? विजातीयसन्ततिजन्मनीति ब्रूमः ॥

अभावस्तु तज्जन्यो79 न सम्भवत्येव, प्रमाणविरुद्धत्वात् । भावो हि स्वरूपेण न भवति, न त्वभावोऽप्यस्य भवतीति । स्वरूपं तु तस्य80 भवनात्मकं चेत्, सर्वदैव भवेदेव, न न भवेत् । अभवनात्मकं तु तदेव न भवेत्, परापेक्षाया अभावात् । न हि मुद्गरादिकारणान्तरसापेक्षः कुम्भादेर्विनाशो भवितुमर्हति; उत्पत्ताविव नाशेऽपि समर्थासमर्थभिन्नाभिन्नोपकारकारिसहकार्यादिविकल्पकलापानपायात् ॥ विनाशस्य विलम्बासहत्वम्
अथ कतिपयक्षणव्यवहितविनाशस्वभावो भावः इष्यते—तर्हि प्राक्तननयेन कदाचिदपि न विनश्येत् । विनाशसमयेऽपि तत्स्वभावानपायेन पुनः कतिपयक्षणापेक्षणप्रसङ्गात् ॥

अपि च यदाऽपि तेन नष्टव्यं, तदाऽप्यस्य न स्वरूपादतिरिक्तः कश्चन विनाशहेतुरवतरति । तच्च स्वरूपं आद्येऽपि क्षणे तस्य तादृशमेवेति तदैव वा नश्येत्, न कदाचिद्वा ॥

अपमृत्योरपक्रान्तः तस्य चेत्प्रथमः क्षणः ।
अविनाशिस्वभावत्वात् आस्तां युगशतान्यपि ॥

न चैवमभ्युपगम्यते । तस्मात् आत्मलाभाविनाभावी81 भावानां विनाश इति सिद्धः क्षणभङ्गः ॥ प्रत्यभिज्ञायाः क्षणिकवादप्रतिकूलत्वनिरासः
यदपि क्षणभङ्गसाधकस्य पदार्थस्थैर्यावसायि प्रत्यभिज्ञानविज्ञानं अनुमानस्य बाधकमभिधीयते—तदपि न पेशलम्—अशिथिलप्रतिबन्धहेतौ बाधकस्य निरवकाशत्वात् । उक्तं हि—“बाधाविनाभावयोर्विरोधान्नैकत्र समावेशः” इति ॥

“अनुष्णस्तेजस्वी, कृतकत्वात्” इत्यत्रापि प्रतिबन्धवैधुर्यमेव साध्यसिद्धिं निरुणद्धि, नाध्यक्षबाध्यत्वम् ॥

अथवा किमनेन निर्बन्धेन ?

अग्निशैत्यानुमानादौ युक्तं प्रत्यक्षबाधनम् ।
तस्य ह्यनन्यथासिद्धिः, इह त्वेतन्न युज्यते ॥

प्रत्यभिज्ञायाः अन्यथासिद्धत्वम्
प्रत्यभिज्ञायाः क्षणभङ्गपक्षेऽपि सदृशपरापरक्षणगणप्रसवप्रतारितमतीनां उपपद्यमानत्वात् । एवञ्च सति—

यदि हि व्याप्तिशैथिल्यं सिद्धं किं प्रत्यभिज्ञया ।
अथ न व्याप्तिशैथिल्यं सिद्धं किं प्रत्यभिज्ञया82

न चेत्थं प्रत्यभिज्ञैव व्याप्तिविप्लवकारणम्, इतरेतराश्रयप्रसङ्गात् । व्याप्तिविप्लवेनानुमाने न्यग्भूते प्रत्यभिज्ञा प्रमाणं भवति,—तस्यां च प्रमाणीभूतायां व्याप्तिवैधुर्यादनुमानाप्रामाण्यम् ॥

अनुमानप्रामाण्येऽपि समानो दोष83 इति चेत्—न—तस्य प्रतिबन्धमहिम्नैव प्रामाण्यसिद्धेः । न हि तस्य प्रत्यभिज्ञादौर्बल्यनिबन्धन प्रामाण्यम् ॥ प्रत्यभिज्ञास्वरूपविमर्शः
अपि च केयं प्रत्यभिज्ञा नामेति नैपुण्येन निरूपयितुमर्हन्ति अत्रभवन्तः । किं “स एवायं स्तम्भः” इत्येकं ज्ञानम्, उत द्वे एते स्मृत्यनुभवज्ञाने ?

यद्येकं, तदस्य कारणं वाच्यम्, यत उत्पद्यते । नेन्द्रियम्, “सः” इत्यस्मिन्नंशे तस्यासामर्थ्यात् । न च संस्कारः, तस्यापि “अयं” इत्यंशे कौशलाभावात् ॥

उभाभ्यां न च सम्भूय तद्ज्ञानमुपजन्यते ।
पृथक्पृथक् स्वकार्ये हि निर्ज्ञातं कौशलं तयोः ॥

संस्कारस्य स्मृतिरेव कार्यम्, इन्द्रियस्यानुभव एव । सम्भूय तु न ताभ्यामेकं कार्यमारभ्यते84 । न हि मृत्पिण्डतन्तुनिर्वत्येमेकं घटपटरूप कार्यमुपलब्धम् । न चेन्द्रियं केवलमीदृशि कार्ये समर्थम् । यथासन्निहिताकारमात्रग्राह्यविषयकमिन्द्रियं प्रत्यभिज्ञानमातनोतीति विस्मयः । तस्मात् द्वे एते ज्ञाने, स इति स्मरणम्, अयमित्यनुभवः ॥ प्रत्यभिज्ञायाः ज्ञानद्वयरूपत्वम्
स्मृतिः स्मर्तव्यविषया ग्रहणं ग्राह्यगोचरम् ।
न तदैक्यपरामर्शि दृश्यते प्रत्ययान्तरम् ॥

यथा निरन्तरोत्पन्ने घटज्ञानपटस्मृती ।
न तुल्यविषये तद्वत् एते अपि भविष्यतः ॥

प्रत्यभिज्ञाया एकज्ञानत्वेऽपि नेष्टसिद्धिः
यद्वा भवतु नामेदं एकमेव हि वेदनम् ।
तथापि कीदृशं वस्तु स्पृशतीति परीक्ष्यताम् ॥

अतीतकालयुक्तं चेत् स्मरणान्न विशिष्यते ।
अनागतविशिष्टं चेत् सङ्कल्पप्रायमेव तत् ॥

वर्तमानैकनिष्ठं चेत् स्थिरत्वं तर्हि सुस्थितम्85
कालत्रयपरीतं चेत् विरोधात्तत्तु दुर्लभम् ॥

परस्परपरित्यागव्यवस्थितनिजात्मनाम् ।
एकत्र न समावेशः कथं चिदुपपद्यते ॥

वर्तमानमात्रग्रहणे क्षणिकत्वसिद्धिः
यथा हि—

नीलाभावाविनाभूतलोहिताद्यपसारणम् ।
कुर्वता नीलबोधेन नीलं भवति निश्चितम् ॥

तद्वदिहापि—

तदभावाविनाभूत86 भूतकालाद्यपोहनम् ।
विदधद्वर्तमानार्थज्ञानं तद्ग्राहितां87 व्रजेत् ॥

प्रत्यभिज्ञायाः अधिकविषयत्वाभावः
एतेन पूर्वज्ञानविशिष्टार्थग्राहित्वं प्रत्यभिज्ञायाः प्रत्युक्तम् । पूर्वज्ञानस्येदानीमसत्त्वेन विशेषणत्वानुपपत्तेः । अगृहीतविशेषणायाश्च विशिष्टबुद्धेरभावात् ॥

अथ उपजननापायरहितवस्तुस्वरूपग्राहिणी प्रत्यभिज्ञेत्युच्यते— तदप्ययुक्तम्—वर्तमानैकनिष्ठतायाः प्रदर्शितत्वात् । भावानां च विनाशजन्मनोः वर्तमानो वा कालः—स्यात्, अन्यो वा ? तदन्यस्तावत् ग्रहीतुमशक्य इत्युक्तम् । वर्तमाने तु तदुत्पादविनाशकाले कथ्यमाने तद्ग्रहणात्तदविनाभूतौ भावानामुत्पादविनाशावपि गृहीतौ स्याताम् ॥

सेयं तपस्विनी स्थैर्यं प्रसाधयितुमागता ।
प्रत्यभिज्ञा विनाशित्वं प्रतिष्ठाप्य गमिष्यति ॥

प्रत्यभिज्ञायाः सादृश्यादिविषयकत्वम्
अपि च लूनपुनर्जातकेशनखादिषु सादृश्यात् दृश्यमाना प्रत्यभिज्ञा स्तम्भादिष्वपि तद्वदेव न स्थिरतामुपपादयेत् । तत्र बाधकयोगादिति चेत्—इहाप्युक्त एव बाधकः परस्परविरोधिभूतादिकालसमावेशस्यैकत्र र्घटत्वादिति । तस्मात् प्रत्यभिज्ञाप्रत्ययस्य बाधकस्याभावात् सिद्धमानुमानिकं भावानां क्षणिकत्वम् ॥ क्षणिकत्वस्य प्रत्यक्षगम्यत्वपक्षः
अपरे पुनः प्रत्यक्षगम्यमेव क्षणिकत्वमाचक्षते ॥

नातीतानागतौ कालौ विचारयति चाक्षुषम् ।
वर्तमानः क्षणश्चैकः इति तन्निष्ठमेव तत् ॥

यदि च वर्तमानताव्यतिरिक्तग्राहि प्रत्यक्षमिष्यते तद्वक्तव्यम्—कालद्वयविशिष्टवस्तुग्रहणे स्थिरत्वं सिद्ध्यति । तन्न सम्भवति । पूर्वकालविषयकस्योत्तरकालाविषयकत्वात् । उत्तरकालविषयकस्य पूर्वकालाधिकविषयकत्वात् ॥किं पूर्वविज्ञानमनागतकालावच्छिन्नपदार्थग्रहणनिपुणम्, उत उत्तरविज्ञान मतीतकालालिङ्गितभावाकलनकुशलमिति ॥

तत्र आद्यविज्ञानसमुपजननसमये तत्क्षणातिरिक्तभाविकालासन्निधानात् न तेन तद्ग्रहणम्, अनागतग्रहणे वा कथमागामिजन्मग्रहणं स्यात् ?

उत्तरविज्ञानप्रसवसमयेऽपि भूतकालस्य भूतत्वादेव न सन्निधानम्, असन्निहितभूतकालग्रहणे वा पूर्वजन्मग्रहणप्रसङ्गःन चेष्टापत्तिः, ग्रहणस्मरणयोरवैलक्षण्यप्रसङ्गात् ॥ ॥ वर्तमानकालस्य तत्क्षणमात्ररूपत्वम्
अथ वर्तमानानुप्रवेशेन88 भूतभाविनोः कालयोः ग्रहणं मन्यसे— तर्हि वर्तमानानुप्रवेशात् वर्तमान एव स कालः गृहीतः स्यात्, न भूतः भावी वा ॥

अथ न कश्चिदेव कालः क्वचिद्गृह्यते, अर्थ एव केवलः प्रकाशत इति—तदयुक्तम्—तदनवच्छिन्नभावग्रहणस्य भवद्गृहे चानभ्युपगमात्89 ॥ प्रत्यक्षस्य वर्तमानविषयकत्वम्
ननु कोऽयं कालो नाम शाक्यानां ? न कश्चित् वास्तवः, किन्तु काल्पनिक एव तद्व्यवहारः ॥

सर्वथेन्द्रियजं ज्ञानं वर्तमानैकगोचरम् ।
पूर्वापरदशास्पर्शकौशलं नाबलम्बते ॥

वर्तमानश्च कियान् कालः ? एक एव क्षणस्ततः । पूर्वः क्षणोऽतीततां स्पृशति, उत्तरस्त्वनागतताम् ॥ वर्तमानकालस्य न विततत्वम्
ननु च पचति, पठतीति वर्तमानोऽपि हि वितत एव कालः प्रतीयते —नैतत्सारम्—

न ह्यस्ति कालावयवी90 नानाक्षणगणात्मकः ।
वर्तमानक्षणो दीर्घः इति बालिशभाषितम् ॥

क्षणसमुदायात्मकत्वे तु नानारूपत्वमेव तस्य भवेत् । अतीतानागतक्षणानुप्रवेशात् । तस्मादेकक्षणो वर्तमानः, स चात्यन्तमल्पीयानित्येवमेकक्षणपरीतार्थदर्शि चाक्षुषं ततः पूर्वमूर्ध्वं वा न पदार्थसत्तां गृह्णातीति क्षणिका एव भावाः ॥ प्रत्यक्षेण क्षणिकत्वग्रहणोपपादनम्
ननु च वर्तमानक्षणात् पूर्वमूर्ध्वं वा तदस्तित्ववत् नास्तित्वमपि न गृहीतमेवेति कथं क्षणिकत्वम् ॥

क एवमाह ? न गृहीतं नास्तित्वम् ? अनुपलब्धेरेव नास्तित्वव्यवहारात् । उपलम्भो हि भावानां सत्ता, अनुपलम्भश्च नास्तित्वम् । दर्शनादर्शने एव सदसत्त्वयोर्लक्षणम् । तस्मात् क्षणान्तरे तदनुपलम्भात् नास्तित्वमेवेत्येवं क्षणिकत्वग्राहि प्रत्यक्षमिति स्थितम् ॥ प्रत्यभिज्ञाया विततकालाविषयकत्वम्
ननु च प्रत्यभिज्ञातो दीर्घकालत्वनिश्चयः ।
किमद्यापि न मुक्तोऽसि तत्प्रामाण्यकुतृष्णया ॥

परीक्षितं हि तस्याः स्वरूपं कार्य च कारणम् ।
न शक्नोत्येव सा स्थैर्यं उपपादयितुं ध्रुवम् ॥

न पूर्वं नोत्तरं ज्ञानं ग्राहि कालान्तरस्थितेः ।
तदिदं बोध्यमानोऽपि रागान्धो नावबुध्यसे ॥

पूर्वं हि ज्ञानं तत्कालमेव, उत्तरमपि स्वकालमेव वस्तु गृह्णाति; तु नास्त्येव ग्रहणम् । अग्रहणमेव हि मध्यमाहुः ॥ धारावाहिज्ञानस्याप्रामाणिकता
नन्वविच्छिन्नदृष्टीनां न91 हि त्र्युट्यदवस्थितिः ।
स्तम्भादिरवभातीति कथमेतस्य भङ्गिता ॥

नैतदेवम्—तत्राप्येकक्षणवृत्तित्वात् ज्ञानस्य । क्षणान्तरे तु ज्ञानमेव नास्ति तत्92 । तत् कस्याविच्छिन्नसत्ता ? कस्य त्रुटितसत्ता ? कस्य वा बाधकम् ?

ननु अस्त्येव क्षणान्तरे विज्ञानम्, अविच्छिन्नत्वाद्दृष्टेरिति चेत्— मैवम्—बुद्धेरदीर्घकालत्वात् ज्ञानान्तरोत्पाद एवासावित्यवधारयत्वायुष्मान् ॥

तस्माद्यथैव सन्तानवृत्त्या ज्ञानक्षणोदयः ।
तथैवोत्पाद्यतामेषा स्तम्भक्षणपरम्परा ॥

ज्ञानस्य स्थिरत्वेऽपि न वस्तुस्थैर्यग्रहणम्
सोऽयं अविच्छिन्नदृष्टीनां अत्रुटितपदार्थसत्ताग्रहणाभिमान इत्थमुत्थितः ॥

स्थिरेणापि न बोधेन दीर्घकालस्थितिग्रहः ।
न ह्यसन्निहितग्राहि प्रत्यक्षमिति वर्णितम् ॥

तत्काले सन्निधिर्नास्ति क्षणयोर्भूतभाविनोः ।
वर्तमानक्षणश्चैको न दीर्घत्वं प्रपद्यते ॥

तेन बुद्धेस्स्थिरत्वेऽपि स्थैयेमर्थस्य दुर्वचम् ।
न त्वनन्तरया नीत्या तस्या93 अपि चिरं स्थितिः ॥

साऽपि हि स्वसंवेद्यत्वात् एकक्षणपरीतैव प्रकाशत इति । तस्मात् क्षणिकग्राहि प्रत्यक्षमिति सिद्धम् ॥ क्षणिकवादं प्रत्यनुमानं न प्रतिकूलम्
ननु स्थैर्यं पदार्थानामनुमानात्प्रतीयते ।
अन्वयव्यतिरेकाभ्यां मुद्गरादिर्विनाशकः ॥

निश्चीयते घटादीनां तेन पूर्वं तदागमात्94
विनाशरहितत्वेन सिद्धत्येषामवस्थितिः ॥

न—अनुपलम्भव्यतिरिक्तस्य हेतुमतः विनाशस्यानुपलब्धेः95 । उपलम्भ एवास्तित्वं भावानाम्, अनुपलम्भश्च नास्तित्वम् । न च घटानुपलब्धिः मुद्गरादिकार्या, ततः प्रागपि भावात् ॥ घटकालेऽपि घटानुपलम्भः
ननु दृश्यानुपलब्धेः असत्त्वनिश्चयः । स च कपालकाल एव घटस्यावकल्पते । मध्ये त्वदर्शनं अन्यथाऽपि96 स्यादिति नादर्शनमात्रमेव नास्तित्वम्—मैवम्—त्वदभिमते मध्येऽपि दृश्यस्यैव घटस्यानुपलम्भ97 इति तदाऽप्यस्य नास्तित्वमेव ॥

अथापि मध्ये सर्वेषां न घटानुपलम्भनम् ।
तद्वत्कपालकालेऽपि सर्वेषामिति का प्रमा ॥

अनुभवस्सर्वेषां नैकरूपः
यदहं न वेद्मि, तत् परोऽपि न वेदेति चेत्; तर्हि मध्येऽपि घटं सर्व एव न पश्येयुरिति नास्त्येवासौ कपालीभूतघटवत् । अपि च—

यदि98 यत्त्वं न जानासि तदन्योऽपि न मन्यते ।
स्वजायाजघनस्पर्शसुखमप्येष मा ग्रहीत् ॥

यदि वा बुध्यसे यत्त्वं तदन्योऽप्यधिगच्छति ।
त्वज्जायाजघनस्पर्शसुखमप्यधिगच्छतु ॥

तदलं ते परगृहवृत्तान्तचिन्तया । यत् पश्यसि तदस्तीति जानीहि यन्न पश्यसि तन्नास्तीति विद्धि । एवमनुपलम्भ एव भावानां विनाश इति न तस्य मुद्गरादिकार्यत्वम् । अतोऽनुमानमपि न स्थैर्यसाधकम् । तस्माद्यथोक्तक्रमेण प्रत्यक्षमेव क्षणिकपदार्थपरिच्छेदीति स्थितम् ॥ क्षणिकवादे दोषोद्धारः
स्मरणप्रत्यभिज्ञानस्वकर्मफलभोक्तृताः ।
क्षणिकत्वेऽपि कथिताः कार्यकारणभावतः ॥

तदेवमुपपन्नेयं गृह्यतां क्षणभङ्गिता ।
त्यज्यतां दीर्घसंस्कारकारणं स्थिरताग्रहः ॥

क्षणभङ्गनिरासोपक्रमः
अत्राभिधीयते नैव प्रमाणद्वयमप्यदः ।
भावानां क्षणभङ्गित्वं उपपादयितुं क्षमम् ॥

सत्त्वं नार्थक्रियाकारित्वम्
अर्थक्रियासमर्थत्वं सत्त्वं यत्तावदुच्यते ।
तदसत्कूटहेमादिव्यभिचारावधारणात्99

किन्त्वबाधितसद्बुद्धिगम्यता सत्त्वभिष्यते ।
सदसद्व्यपदेशस्तु पुत्रादावौपचारिकः ॥

एवं च बाधकाभावपर्येषणपरायणम् ।
न सत्त्वग्राहकं ज्ञानं स्वतः प्रामाण्यमर्हति ॥

सत्त्वे च संशयोऽप्यस्ति सकलप्राणिसाक्षिकः ।
उपलब्ध्यव्यवस्थात इत्येवं वर्णयिष्यते ॥

क्षणिकस्यार्थक्रियाकारित्वासम्भवः
अर्थक्रियासमर्थत्वं त्वदुक्तं सत्त्वमस्तु वा ।
तदपि व्याप्तिशून्यत्वान्न हेतुर्गन्धवत्त्ववत् ॥

क्षणिकस्यापि भावस्य सत्त्वं नास्त्येव सोऽपि हि ।
क्रमेण युगपद्वाऽपि न कार्यकरणक्षमः ॥

क्षणिकस्य क्रमः कीदृग्युपत्करणे पुनः ।
एकवस्तुक्षणस्यापि रूपभेदः प्रसज्यते ॥

कार्याण्येकेन रूपेण भिन्नानि जनयेत्कथम् ।
रूपभेदविरोधात्तु वस्तुनो नास्तिता भवेत् ॥

क्षणिकवादस्य दुर्वचत्वम्
स्थिते च वस्तुसद्भावे100 क्षणिकत्वं परीक्ष्यते ।
तदसत्त्वे तु तच्चिन्ता व्योम्नि रोमन्थकेलिवत् ॥

ज्ञाने क्षणिकचिन्ता चेत् किं तस्यापि पराकृतौ ।
वहन्त्येतानि शास्त्राणि ज्ञेयाभावे च तत्कुतः ॥

क्षणिकवादे कार्यानुपपत्तिः
अपि च—क्षणिकत्वपक्षे किमेकस्मादेकोत्पादः ? उत बहुभ्य एकोत्पत्तिः ? अथैकस्मादनेकनिष्पत्तिः ? आहोस्वित् बहुभ्यो बहुसम्भवः ? इति परीक्षणीयम् ॥

न तावदेकस्मादेकोत्पत्तिः, अलौकिकत्वात् । एकस्मादप्यग्नेः भस्मधूमेन्धनविकाराद्यनेकप्रकारकार्यकलापोत्पाददर्शनात् । कार्यसिद्धये च सर्वत्र सहकारिसन्निधापनप्रयत्नदर्शनात्, “न वै किञ्चिदेकं जनकम्” इति ग्रन्थविरोधाच्च ॥ एकस्मात्कारणादनेककार्यासम्भवः
एतेन तृतीयः पक्षः निरस्तः एकस्मादनेकोत्पत्तिरिति । एकश्च नैकं जनयत् क्रमेण जनयेत्, युगपद्वा ? न क्रमेण, स्थेर्यप्रसङ्गात् ॥ न यगपत्, अदृष्टत्वात् । एकस्य चानेककार्यकरणशक्तियोगेन तद्भेदान्नानात्वप्रसङ्गः ॥

विरुद्धधर्मयोगेऽपि यदि चैकत्वमिष्यते ।
अनेकक्षणयोगेऽपि भाव एक उपेयताम्101

बहुभिः कारणैरेकाकार्यस्याप्यसम्भवः
अथ बहुभ्य एकोत्पादनमिति पक्ष आश्रीयते—तद्वक्तव्यम्—किं तदेकं कार्यम् ? कैर्वा बहुभिरुत्पाद्यते इति । न ह्यस्माकमिव भवतां अनेकोपायनिबहनिर्मितं अवयविस्वरूपं कार्यमस्ति; सञ्चितैः सञ्चिता एव जन्यन्त इत्यभ्युपगमात्102

यदि चानेककारणकार्यमेकमुच्यते तदस्य कारणभेदोपनतस्वभावनानात्वयोगात् एकत्वमेव तावद्विरुध्यते । अन्यथात्वे हि न कारणाधीनं भावानां रूपमित्याकस्मिकत्वप्रसङ्गः । कारणभेदापादितनानात्वस्यापि यदि चैकत्वं, तदैकस्य नानाकालयोगिनोऽप्येकत्वं स्यात् । असत्त्वं वा भिन्नस्वभावस्य वस्तुन इति पूर्ववत् वक्तव्यम् ॥ बौद्धमते ग्राह्यग्राहकभावानुपपत्तिः
लोचनालोकमनस्कारादिकारणभेदे103 कार्यमप्येकरूपं ज्ञानं इति चेन्न— तस्य भवन्मते विषयाकारग्राहकत्वस्वसंवेदनरूपभेदात् । निराकारज्ञानवादिनो हि बौद्धस्य प्रतिकर्मव्यवस्था न सिध्यति, जनकस्य कर्मणः प्रतिभासे स्थैर्यप्रसङ्गात्, एकसामग्र्यधीनत्वपक्षस्य चासम्भवात्104 । सम्भवेऽपि वा ग्राह्यनियमनिमित्ताभावादिति105 ॥ बहुभ्यो बहुसम्भवदूषणम्
अथोच्यते—किमनभ्युपगतपक्षोपमर्दनेन । बहुभ्यो बहुसम्भव इत्येष एव नः पक्षः । सन्तानवृत्त्या वर्तमाना पूर्वसामग्री सरूपामुत्तरसामग्रीमारभते । विजातीयकारणानुप्रवेशे तु विरूपामिति ॥

अथ केयं सामग्री नाम ? न समग्रेभ्यो भिन्ना, पृथगनुपलम्भात् । अव्यतिरेके तु समग्र एव सामग्री । तत्र पूर्वसमुदायेन उत्तरसमुदायारम्भे तदन्तर्गतं समुदायिनमेकमेक एवोत्पादयेत्, एकं वा सर्वे सम्भूयेति ॥

तत्र आद्ये पक्षे सैवेयमेकस्मादेकोत्पत्तिरुक्ता स्यात् । सा च प्रतिषिद्धा ॥ कार्यसाङ्कर्यप्रसङ्गस्तन्मते
अथैकैकसमुदायिनिष्पत्तौ सर्वसमुदायिनां व्यापारः—स तु क्रमेण वा, यैगपद्येन वा ? तत्र क्रमपक्षे क्षणिकत्वहानिः । ये हि तत्र पञ्चषास्समुदायिनः क्षणाः वर्तन्ते, ते एकं तमुत्पाद्य पुनरपरमारभेरन्, पुनरन्यमिति तावत्कालप्रतीक्षणादक्षणिकत्वम् ॥

अथ युगपदेव सर्वनिष्पत्तौ सर्वे व्याप्रियन्ते, तर्हि निकुरुम्बरूपमेव कार्यं निकुरुम्बरूपादेव कारणादुत्पन्नमिति, कारणविवेकनियमाभावात् रूपरसादिप्रविभागो न स्यात् । इदं रूपं, एष रसः इति कथं निश्ची यते ? चित्रेण चित्रमुत्पादितमिति सर्वं रूपं स्यात् । सर्वो वा रसः । यद्वा न रूपं, न रसः, अन्यदेव किञ्चद्वस्त्वन्तरं तत् स्यात् ॥ कारणेषु वैलक्षण्यमपि तन्मते दुर्वचम्
अथोच्यते—यद्यपि रूपरसादिसामग्री तत्सामग्र्या एव जनिका,106 तथापि क्वचित् किञ्चिदुपादानकारणं, इतरत्सहकारि कारणम् । तत्र रूपक्षणनिष्पत्तौ रूपस्योपादानकारणत्वात् इतरेषां च सहकारिकारणत्वात् न पदार्थसङ्कर इति—तदयुक्तम्—सर्वथा कारणत्वानपायात् ॥ अस्मिन् पक्षे स्थैर्यापत्तिः
अपि च येन स्वरूपेण रूपस्य रूपं प्रत्युपादानकारणता, तेनैव यदि रसं प्रति सहकारिकारणता तदा पुनरपि रूपरसयोरविशेषः । अथान्येन रूपेण रूपस्य रूपोपादानता, अन्येन च रससहकारितेति, तर्हि स्वभाव भेदान्नानात्वम्, नानत्वे च स्थैर्यम्, असत्त्वं वेत्युक्तम्—

अथ नास्त्यनयोः किञ्चिद्विरुद्धत्वं स्वभावयोः ।
कथं बौद्धगृहे जातस्त्वमेवमभिभाषसे107

भावानां परस्परपरिहारव्यवस्थितरुपत्वादस्त्येवैषां लक्षणिको108 विरोधः ॥ क्षणिकवादे कारणविशेषव्यवस्थापनं दुकरम्
अपि च क्षणिकत्वे पदार्थानां, इदमत्रोपादानकारणं, इदं सहकारिकारणमिति विशेषोऽपि दुरवगमः । तथा हि—किमिदमुपादानं नाम ? किं स्वसन्तानविनाशेन बीजादिवत् कार्यजनकमुपादानम्, उत स्वविशेषसमर्पणेनोत्पादकमिति । यदि पूर्वः पक्षः, परलोकचर्चा चार्वाकवदुपेक्षिता स्यात्109 । ज्ञानसन्तानविनाशेन ज्ञानान्तरारम्भप्रसङ्गात् ॥

स्वविशेषार्पणपक्षेऽपि सर्वविशेषार्पणं वा स्यात्, कतिपयविशेषार्पणं वा ? सर्वविशेषार्पणे निर्विकल्पज्ञानं सविकल्पकस्य नोपादानकारणं स्यात्110 ॥ क्षणिकवादे हेतुदर्शनं व्याप्तिस्मारकं न स्यात्
लिङ्गदर्शनजन्या च प्रतिबन्धस्मृतिः कथम् ।
कथं वा रसविज्ञानं रूपज्ञानादनन्तरम् ॥

सन्तानभूयस्त्वाद्भविष्यतीति111 चेत्—न—एकप्रमात्रधीनप्रतिसन्धानौ पनिबन्धनव्यवहारप्रतिबन्धविप्लवप्रसङ्गात् । नित्यमेकमात्मानमन्तरेण सन्तानैकतायामपि तावदसौ व्यवहारो नावकल्पते । किमुतैकत्रैव देवदत्तसन्तानभूयस्त्वे सतीति ॥

कतिपयविशेषार्पणेन तु यद्युपादानता, तदानीं रूपमपि ज्ञानोपादान कारणतां प्रतिपद्येत । तस्मान्नोपादानकारणं नाम किञ्चित् । तन्निरासेन च तद्वैलक्षण्यलक्ष्यमाणस्वरूपस्य सहकारिणोऽपि व्युदासो वेदितव्यः ॥ सहकार्यधीनत्वे स्थैर्यसिद्धिः
अपि च—

प्रतिक्षिपसि मत्पक्षे सर्वथा सहकारिणम् ।
स्वयं चाङ्गीकरोषीति, भिक्षो ! रागीव लक्ष्यसे ॥

भिन्नाभिन्नोपकारादिविकल्पास्त्वत्प्रकल्पिताः ।
सहकारिप्रतिक्षेपकारिणः क्वाधुना गताः ? ॥

112 ! ज्ञातं युक्तिशक्त्यैषः युष्माभिरुपकल्पितः ।
दोषो न बाधते युष्मान् मन्त्रोत्थापितसर्पवत् ॥

क्षणिकावादे कार्यकरणभावासिद्धिः
अथवा—तिष्ठतु तावदुपादानसहकारिकारणविवेकः ! कार्यकारणभाव एषः भदन्तसिद्धान्ते दुरुपपादः । परोत्पत्तावव्याप्रियमाणमेव यदि कारणमुच्यते सर्वं सर्वस्य कारणं स्यात् ॥

न चालब्धात्मनस्तस्य113 व्यापारः परजन्मनि ।
लब्धात्मनस्तु व्यापारे स्थितिस्सिद्धा क्षणान्तरे ॥

आनन्तर्यमात्रं न कारणत्वगमकम्
अथ ब्रूयात्—इदं प्रतीत्य इदं प्रतीयते इति इदम्प्रत्ययतामात्रमेव114 कार्यकारणभाव इति—तथापि लब्धात्मनः क्षणस्य प्रतीतिरिति द्वितीयक्षणावस्थानमपरिहार्यमेव ॥

न चानन्तर्यमात्रेण कार्यकारणग्रहः ।
अहेतुफलभावेऽपि115 तथाऽनन्तर्यदर्शनात् ॥

व्यापारस्तु परोत्पत्तौ नास्त्येव क्षणभङ्गिनः ।
न वर्तमानकालस्य न भूतस्य न भाविनः ॥

तुलादृष्टान्तवैरूप्यम्
अथ मन्येथा यथा तुलान्तयोर्नामोन्नामौ भवतः,116 एवं पूर्वोत्तरयोः क्षणयोः नाशोत्पादावित्येवं पूर्वक्षणविनाशेनोत्तरक्षणनिवृत्तेः इयतैव तौ कार्यकारणभावमश्नुवीयातामिति—एतदप्यमनोरमम्—न ह्ययमायुष्मता सम्यगवधृतस्तुलादृष्टान्तः ॥

तत्रान्यदेव हेमादि नामोन्नामनिबन्धनम् ।
उन्नामो न तु नामेन तेन वा स विधीयते ॥

इह हि न पूर्वेण क्षणेन, नापि तद्विनाशेनोत्तरः क्षण उत्पद्यते । न च हेमस्थानीयमिहान्यदस्तीत्यनुत्पाद एवावशिष्यते ॥

सर्वथा परनिष्पत्तौ निर्व्यापारं न कारणम् ।
सव्यापारस्य कर्तृत्वे क्षणिकत्वं तु दुर्घटम् ॥

इथं च सत्त्वं व्यावृत्तं क्षणिकेभ्यो विशेषतः ।
तेनासाधारणत्वेन यायात्संशयहेतुताम् ॥

सत्त्वं क्षणिकत्वविरुद्धस्यैव साधकम्
अथवा लब्धात्मनः पदार्थस्य परोत्पत्तौ व्याप्रियमाणत्वेन कारकत्वावधारणात्, द्वित्रक्षणस्थायित्वमवश्यमनन्तरनीत्या भवेदिति प्रत्युत सत्त्वादक्षणिकत्वसिद्धेः विरुद्धोऽयं हेतुः ॥

अतश्चैवं, नित्यानामेवार्थक्रियाकारित्वोपपत्तेः समवाय्यसमवायिनिमित्तभेदेन त्रिविधा कार्यकारणसामग्री परस्परसंसर्गमागत्य यथासन्निधानं कार्यं प्रसूत इति कृतं क्रमयौगपद्यविकल्पैस्तावकैः । यदैवाविकलसंसर्गा सामग्री तदैव कार्योत्पत्तिः ॥ कार्याणां क्रमादेवोत्पत्तिः
अत117 एव च कार्याणां युगपन्न समुद्भवः ।
न चापि कारणं नित्यं सामग्री न हि सर्वदा ॥

प्राणिकर्मविपाकोऽपि118 सामग्यन्तर्गतोऽस्ति नः ।
सर्वस्य सुखदुःखादिहेतोस्तदुपपादनात् ॥

न च समग्रव्यतिरेकाव्यतिरेकविकल्पः अस्मत्पक्षे सामग्रीं अपबा धते; समग्रधर्मत्वात् सामग्र्याः । समग्रापेक्षया च सामग्र्या एव च तमबर्थातिशययोगात् करणमिति प्रमाणसामान्यलक्षणे वर्णितमेतत् ॥ कारणानां प्रत्येकसामर्थ्यप्रश्नोऽपि व्यर्थः
समर्थत्वासमर्थत्वविकल्पोऽपि न सङ्गतः ।
सामग्र्या एव सामर्थ्यं ततः कार्यस्य दर्शनात् ॥

तदन्तर्गतस्य तु कारकजातस्य शकटाद्यङ्गस्येव सामर्थ्यं यावत्, तावदभ्युपगतमेव तदपेक्षस्य सामग्र्याः साधकतमत्वस्य निर्वहणात् । न हि भवति कृष्णाच्छुक्लतर119 इति ॥

अविकलं तु सामग्र्या एव सामर्थ्यं, यदनन्तरं कार्यनिष्पत्तिरिति कार्यनिष्पत्तिदर्शनादेवावगम्यते ॥ कारकत्वं न क्षणिकम्
यदपि एकक्षणस्थायि कारकं स्यादित्युद्धोषितं परैः—तदप्यसत्— कार्यनिष्पत्तिपर्यन्तत्वादवस्थानस्य । एकेन च क्षणैन कार्यनिष्पत्तेरघटमानत्वात् । कार्यनिष्पत्तेरूर्ध्वं तु सामग्री विप्लवते120 न समग्राणिः तेषामेकैकशः क्वचित्क्वचिदुपलम्भात् चक्रसूत्रदण्डादीनाम् । इत्थं स्थिराणामेव पदार्थानां अर्थक्रियासामर्थ्यः समर्थिसमिति न ततः क्षणभङ्गसिद्धिः ॥

एवञ्च सत्त्वनित्यत्वयोः विरोधात्—सत्त्वप्रतीत्यैव एकचन्द्रबुद्धिवत् तदितरनिराकरणमित्यादि यत् प्रलपितं तत् प्रतिक्षिप्तं भवति ॥ ध्वंसस्यानपेक्षत्वनिराकरणम्
यदप्यभाणि नाशं प्रत्यनपेक्षत्वात् क्षणिकाः पदार्था इति—तदपि यत्किञ्चित्—दण्डादिव्यवहारान्वयव्यतिरेकानुविधायिनस्तत्कार्यस्य घटाद्यभावस्य विस्तरतः प्रमाणचिन्ताऽवसरे प्रसाधितत्वात् । प्रध्वंसाभावश्च विनाश इत्युच्यते ॥

नश्वरानश्वरत्वादिविकल्पास्तु न साधवः ।
सामग्र्यधीनः प्रध्वंसः भावानामात्मलाभवत्121

मुद्गरादिसामग्र्या घटस्य किं क्रियते ? मृत्पिण्डादिसामग्र्या किमस्य क्रियते ? आत्मलाभ इति चेत्, अनयाऽप्यात्महानं करिष्यते ॥ भावाभावयोरुभयोरपि हेत्वधीनत्वम्
ननु ! नश्वरश्चेत्122 तत्कारणमफलम्, अनश्वरत्वे त्वशक्तमिति— उत्पत्तावपि तुल्योऽयं प्रलापः । भवनस्वभावश्चेत् घटः स्वत एव भवति, किं दण्डादिकारकसामग्र्या ? अभवनस्वभावस्तु कर्तुमशक्यः, खरविषाणवदिति ॥

कारकव्यापारकार्यत्वदर्शनात् अपर्यनुयोग एष इति चेत्, विनाशे च समः समाधिः, उत्पत्तिवत् विनाशस्यापि कारकान्वयव्यतिरेकानुविधायित्वात् ॥

तस्मादुत्पन्नमात्रस्य विनाशो नास्ति वस्तुनः ।
आविनाशकसद्भावादवस्थानमिति स्थितिः ॥

घटादीनां नित्यत्वापादनपरिहारः
ननु ! सापेक्षाणां भावानां123 नावश्यम्भाविता भवेदिति घटस्य विनाशहेतुर्नोपनिपतेदपि कदाचित्—इत्येवमसौ124 किं नित्य एव भवत्विति —अहो ! महान् प्रमादः, उत्सन्नाः प्रजाः, पतितो महान् वज्राशनिः, दुष्परिहरोऽयं दोष उत्थितः । यदि घटो नित्यो भवेत्, एष कालाग्निरुद्र इव त्रिभुवनमपि भस्मीकुर्यात् ॥ घटादीनां सावयवत्वेन नाशावश्यम्भावः
अपि च, रे मूढ ! सावयवस्य, आश्रितस्य कार्यस्य च नूनमवयवविभागात्—आश्रयविनाशाद्वा यदा कदाचिद्भवितव्यमेव विनाशेनेति कस्तन्नित्यत्वशङ्कावसरः ? तथा हि न रामाभिषेककलशमद्य यावदनु वर्तमानमीश्वरवेश्मन्यपि पश्यति लोक इत्यवश्यम्भावी तस्य विनाशहेतुः । तस्मात् सहेतुको विनाश इति न स्वत एव विनश्वरा भावाः ॥ वस्तुस्थैर्यं प्रत्यक्षसिद्धम्
अपि च प्रत्यज्ञा स्वतेजोविभवविधूतबौद्धसिद्धान्तध्वान्तसिद्धान्तसन्ततिरभङ्गुरमेव भावनिवहमनिशमुपदर्शयन्ती दिनेशदीधितिदशशत विभागवती सर्वतो125 जाज्वलीतीति कस्तस्य सत्यं क्षणभङ्गिनो भावानभिदध्यात् । यच्च किञ्चन तस्यामपभाषितं—तत्सर्वमसमञ्जसम् ॥ प्रत्यभिज्ञाप्रामाण्यम्
यत्तावदिदं विकल्पितं—स एवायमिति किमेकं विज्ञानम्, उत द्बे ? इति—तत्रोच्यते—सामानाधिकरण्येनैकविषयावद्योतनाप्रवणैकप्रतीतिसंवेदनात् केयं द्वित्वाशङ्का ? योऽयमयं सः, यः सः सोऽयमित्येकत्वावमर्शिनी खल्वियमेका । स्वतस्तु याऽनेकप्रतीतिरनुभूयते घटोऽयमिति तन्न निरन्तरोत्पन्नघटज्ञानपटस्मरणवत् भिन्नविषयं बुद्धिद्वयमिति ॥ प्रत्यभिज्ञायाः प्रत्यक्षत्वम्
यत्तु किमेकप्रतीतिजन्मनि करणमिति—

कार्यं चेदवगम्येत किं कारणपरीक्षया126
कार्यं चेन्नावगम्येत किं कारणपरीक्षया ॥

न च कार्यमकारकं भवितुमर्हति, कार्यत्वस्यैवानुपपत्तेः इति भवितव्यमेव तत्र कारणेन । अस्ति च संस्कारसहितमिन्द्रियमस्याः प्रतीतेः कारणं पृथक् । कार्यताऽपि तयोर्दर्शनादेव127 गभ्यते । तदिह सन्निहितयोरेककार्यजन्मनि व्यापारात् तदपि किमिति नेष्यते । मृत्तन्तुकार्यमेकमदर्शनादेवानभ्युपगतम् । इदं तु दृष्टत्वाद्दुरपह्नवम् ॥

क्वचित्तु128 केवलेन्द्रियव्यापारादपि—कार्यादर्शनान्न सर्वत्र तथाविधस्यैव तस्य कार्यकारित्वं, सहकार्यपेक्षेण कार्यान्तरजननात् ॥ प्रत्यभिज्ञाविषयनिर्णयः
यत्तु उक्तं—कीदृशोऽर्थः प्रत्यभिज्ञायामवभातीति—तत्रैते वादिनः शतकृत्वो दत्तोत्तरा अपि यत्पुनरस्माननुयुञ्जते, तेन बलवदुद्विग्नाः स्मः । उक्तमत्र प्रमितयः प्रष्टव्याः, न तु वादिन इति । अतीतकालविशिष्टो वर्तमानकालावच्छिन्नश्चार्थ एतस्यामवभासते ॥ एकस्य कालद्वयसम्बन्धः न विरुद्धः
ननु पूर्वापरौ कालौ परस्परविरोधिनौ ।
नैकत्र विशतस्तेन तद्भेदाद्वस्तु भिद्यते ॥

नैतदेवम्—केयूरकिरीटकटककुण्डलादिभेदेऽपि देवदत्तस्याभदात् । अवयव्यस्ति, नास्तीति परीक्षणं वादान्तरगमनम् । अपवर्गाह्निके च विस्तरेणावयवी साधयिष्यत इत्यास्तामेतत् ॥

कुण्डलादीनामविरोधादिति129 चेत्—न—लाक्षणिकविरोधाभ्युपगमात्130 । परस्परपरिहारव्यवस्थितात्मनो हि सर्वे भावा इति भणद्भिर्भवद्भिरभ्युपेयत एषां विरोधः ॥ एकस्य कालद्वयसम्बन्धो न विरुद्धः
ननु ! केयूरादीनां विरोधेऽपि तदाऽवस्थानादेकदेवदत्तसम्बन्धित्वमभ्युपपद्येतापि । भूतवर्तमानयोस्तु युगपदसन्निधानात्131 कथं तद्विशिष्टता स्तम्भादेरुच्यते—प्रतीयते च द्वौ कालौ, न च सन्निहिताविति चित्रम् ॥

किं भूतोऽपि काल इदानीमस्ति—मैवम्—नासावस्तीत्युच्यते, अपि त्वासीदिति । अस्तीत्युच्यमानः वर्तमान एव स्यात्, न भूतः ॥

हन्त तर्हि भूतः भूतत्वादेव नेदानीमस्तीति कथं प्रतिभासते ? भूतत्वेनैवेति ब्रूमः । भूतः कालो भूततयैव गृह्यते, वर्तमानोऽपि वर्तमानतयैव, अर्थस्तूभयानुगत एक एव, तथा ग्रहणात् ॥ भूतकालस्येदानीं भानसम्भवः
ननु भूतकालस्येदानीमभावात् तद्विषयं ज्ञानमनर्थजं स्यात्—न— धर्मिणस्तदवच्छिन्नस्य ज्ञानजनकस्य भावात् । भूतः कथमवच्छेदक इति चेत्, तथा प्रतिभासात् । प्रतीतिमवमृशतु भवान् “स एवायम्” इति । यः पूर्वमासीत्, स इदानीमप्यस्तीति । सोऽयमतीतकालविशिष्टोऽर्थ एतस्यां बुद्धाववभासते ॥ प्रत्यभिज्ञाया इन्द्रियजत्वम्
ननु । असता भूतकालेन विशेषितमर्थं कथमिन्द्रियजा प्रतीतिरालम्बनीकुर्यात् ? उच्यते—

अन्त्यसङ्ख्येयसंवित्तिकाले प्रागवलोकिताः ।
यथा शतादिज्ञानानि132 जनयन्ति पदातयः ॥

अतीतकालसंसर्गो भवन्नेवं विशेषणम् ।
स्तम्भादिप्रत्यभिज्ञायाः कारणत्थं प्रपद्यते ॥

अविद्यमानस्यापि विशेषणतया भानसम्भवः
सङ्ख्येयाः पदातयः सन्ति, अतीतकालस्तु नास्तीति चेत्—कपित्थेषु भक्ष्यमाणेषु किं वक्ष्यति देवानां प्रियः ? शतं कपित्थानां भक्षितवान् वाहीक इति प्रतीतिदर्शनात् । न च नवनवतावनुपयुक्तेषु कपित्थेषु एकत्रैव133 “शतं मया भक्षितम्” इति मतिः । अतः यथा तत्रातिक्रान्तान्यपि नवनवतिकपित्थानि शतप्रतीतिहेतुतामुपयान्ति, प्रतिभासोपारूढत्वात्; एवमतीतकालयोगोऽपि प्रतिभासमानः प्रत्यभिज्ञामाधास्यतीति ॥ विकल्पानां प्रामाण्यम्
विकल्पमात्रं शतप्रत्यय इति चेत्, भो महात्मन् ! किं वा तव न विकल्पमात्रम् । किन्तु जीवन्त्यमी सविकल्पकप्रामाण्यवादिनः ॥

यश्च सामान्यसंसिद्धौ134 प्रकारः प्राक् प्रदर्शितः ।
योज्यः स एव द्वित्वादिसङ्ख्यासद्भावसिद्धये ॥

इत्यलं कथान्तराक्षेपेण ॥ प्रत्यभिज्ञायां गतकालस्य विषयत्वम्
ननु ! अतिक्रान्तग्राहि प्रत्यभिज्ञानं, इन्द्रियार्थसन्निकर्षजं चेति नः कौतुकमिदम् । किं तत्कौतुकम् ? अर्थस्तावदस्य पुरोऽवस्थितोऽस्त्येव जनकः स्तम्भादिः ॥

ननु ! अस्ति, स तु वर्तमानकाल एव—न केवलं, वर्तमानकालयोगिनाऽर्थेन तत्प्रत्ययजननात्, तस्य वर्तमान इवातीतोऽपि कालः अवच्छेदकतां प्रतिपद्यते । स च तदवच्छिन्नोऽर्थः इदं च ज्ञानमादधातीत्यर्थजमेतत् इन्द्रियजमपि भवति, तद्भावाभावानुविधानात् ॥ अतीतविषयकस्यापीन्द्रियजन्यत्वम्
ननु ! अतीतेऽर्थे कथमिन्द्रियं प्रवर्तते ?

कस्यैष पर्यनुयोगः ? नेन्द्रियस्य, अचेतनत्वात् । पुरुषस्तु अविष्फारिताक्षस्तु लभत इति सोऽप्यननुयोज्यः ॥ प्रत्यभिज्ञाया अबाधितत्वम्
ननु ! अतीतग्राहित्वात् अप्रामाण्यं कल्पयितुं युक्तमस्या बुद्धेः, नेन्द्रियस्यातीतेऽपि सामर्थ्यं दृष्टपूर्वमिति—मैवम्—अप्रामाण्यं नाम बाधकप्रत्ययात् कल्प्यते, न चासावस्ति प्रत्यभिज्ञायाम् । अनुमानं तु बाधकं प्रतिक्षिप्तम् ॥ प्रत्यभिज्ञाया अप्रामाण्ये हेतुर्नास्ति
ननु ! कारणदोषादपि कल्प्यत एवाप्रामाण्यम् ॥

आयुष्मन् ! सोऽप्युच्यताम् ॥ 135
उक्त एवेन्द्रियस्यातीतग्रहणविषये सामर्थ्यविरहः । वत्स ! न सम्यगुक्तवानसि । नायमिन्द्रियस्य तिमिरादिरिव दोषः । अतीते काले स्वतन्त्रे तस्यासामर्थ्यम्, न तद्ग्राह्यवर्तमानवस्तुविशेषणीभूते । संस्कारसचिवस्य चास्य सामर्थ्यम्, न केवलस्येत्युक्तम् । तस्मादतीतकालविशेषितपुरोवर्तिवर्तमानस्तम्भादिपदार्थविषयमिन्द्रियार्थसन्निकर्षोत्पन्नमेवेदं प्रत्यभिज्ञाज्ञानमिति सिद्धम् ॥ प्रत्यभिज्ञाया मानसत्वं वा
अथवा पूर्वविज्ञानविशिष्टग्राहि मानसम् ।
इष्यतां प्रत्यभिज्ञानं गन्धवत्कुन्दबुद्धिवत्136

यथा हि लोचनगोचरेऽपि कुन्दकुसुमे तदविषयगन्धविशेषिते बाह्येन्द्रियद्वारकं ग्रहणमघटमानमिति मानसमेव सुरभि कुसुममिति ज्ञानं, एवं पूर्वविज्ञानविशेषितस्य स्तम्भादेर्विशेषणमतीतक्षणविषय इति मानसी प्रत्यभिज्ञा । पूर्वप्रवृत्तबाह्येन्द्रियोपजनितज्ञानविशिष्टबाह्यविषयग्राहिणि चान्तःकरणेऽभ्युपगम्यमाने सति नान्धाद्यभावप्रसङ्ग137 इति बहुशः कथितम् ॥

ननु ! कुन्दादेर्विशेषणं वर्तमानमस्ति सौरभम् । इह त्वतीतं पूर्वविज्ञानमिति कथं विशेषणम् ?—उक्तमत्र । किं तेन सता करिष्यसि ? शतादिबुद्धिष्वतिक्रान्तस्यापि कपित्थादेः कारणत्वदर्शनादिति ॥

तदेवमन्तःकरणजन्मनाऽपि प्रत्यभिज्ञानेन स्थैर्यमवस्थाप्यत एव भावानाम् ॥ वस्तुस्थैर्यवादः
या तु मुण्डितकेशादिप्रत्यभिज्ञानतुल्यता138
स्तम्भादिप्रत्यभिज्ञायाः कथ्यते साऽप्यसङ्गता ॥

तत्रान्तराले मुण्डितशिरोदर्शनमेव बाधकम् । इह तु न किञ्चिदस्ति ॥

अत एव शब्दे तदैव स्फुरन्त्या विनाशबुद्ध्या वैधुर्यमुपनीता प्रत्यभिज्ञा139 स्थास्नुतामुपस्थापयितुमसमर्थेत्युक्तम् ॥

ज्वालादावपि तैलवर्तिक्षयाद्यनुमानबाधितत्वात् भ्रान्ता प्रत्यभिज्ञा, न तु तथा स्तम्भादावनुमानमपि बाधकमस्ति । सत्त्वानुमानं तु निरस्तमेव ॥ अनुमानेन प्रत्यक्षबाधेऽपि नात्र तद्युक्तम्
यद्यपि नैष नियमः—प्रत्यक्षानुमानयोर्विरोधे प्रत्यक्षं बलीय इति, त्वरिततरपरिभ्रमितचक्रीभवदलातग्राहिणः प्रत्यक्षस्य अनुमानबाध्यत्वदर्शनादिति—तथापि प्रकृतं क्षणिकत्वानुमानं अन्यथासिद्धं, अनन्यथासिद्धं तु प्रत्यक्षमिति प्रत्यक्षमेव क्षणिकत्वानुमानस्य बाधकम् ॥

न चेतरेतराश्रयत्वम्, अनुमानमिथ्यात्वनिबन्धनप्रत्यभिज्ञाप्रत्यक्षप्रामाण्यानभ्युपगमात् । स्वहेतुबलवत्तयैव प्रत्यभिज्ञाप्रत्यक्षं प्रमाणम् । न तस्येदं दैन्यम्, यदनुमानमिथ्यात्वे सति तत्प्रमाणीभविष्यतीति140 ॥ ज्ञानस्य क्षणिकत्वासम्भवः
आस्तां वा प्रत्यभिज्ञानं, य एष प्रथमाक्षजः ।
स्तम्भादिबोधस्तेनापि बाध्यते क्षणभङ्गिता ॥

तुल्यसामग्र्यधीनत्वस्य निराकृतत्वात्, निराकारत्वस्य निराकरिष्यमाणत्वात्, अन्वयव्यतिरेकोपकृतमानसप्रत्यक्षनिश्चितजनकत्वस्य चार्थस्यावभास्यत्वनिश्चयात्, उत्पन्नोऽर्थो ज्ञानं जनयति, जातेन च तेन ज्ञानेनगृह्यत इति बलात् द्वित्रक्षणावस्थायित्वमस्यापद्यत141 इति कुतः क्षणिकत्वम् ? घटादीनां स्थिरत्वम्
यदि लब्धस्वरूपोऽपि न नष्टः प्रथमे क्षणे ।
हेत्वन्तराद्विनाशोऽस्य न स्वरूपनिबन्धनः142

विचित्रा च पदार्थानां प्रतीतिरिह दृश्यते ।
चिरन्तनमतिः काचित् काचित्तत्कालजा मतिः ॥

सलिलाहरणव्यग्रकुम्भावगतिरन्यथा ।
तथैव कन्दकाकृष्टकुम्भावगतिरन्यथा ॥

रविगुप्तपक्षनिरासः
एतेन रविगुप्तोऽपि परिम्लानमुखः कृतः ।
क्षणिकत्वक्षमाध्यक्षसमुत्प्रेक्षणपण्डितः ॥

तथा हि—वर्तमानवस्तु विग्रहग्राहिविज्ञानं143 अनन्तरोक्तनयेन स्वजन कार्थप्रतिभासनात् द्विक्षणस्थायितामर्थस्य गमयतीत्युक्तम् । आद्यं च किञ्चिद्विज्ञानं अनागतकालस्पर्शि144 भवति । यथाऽऽह भट्टः— “ रजतं गृह्यमाणं हि चिरस्थायीति गृह्यते


इति । उत्तरमपि प्रत्यभिज्ञानं अतीतकालावच्छिन्नमर्थमवद्योतयतीति दर्शितम् ॥ अतीतकालग्रहणेऽप्युत्पत्तेरग्रहणम्
न चातीतानागतजन्मग्रहणमाशङ्कनीयम्, इयति कारणसामर्थ्यनियमात् । न ह्यतीतानागतजन्मग्रहणमशक्यक्रियमिति यदपि दृश्यमानं ग्रहणं, तदप्यपह्नोतुं युक्तम् ॥

न चैतावताऽतीतानागतकालावच्छिन्नवर्तमानवस्तुग्रहणमात्रेण सामान्यतोदृष्टेन अदृष्टमप्यतीतानागतज्ञानं कल्प्यम् । यथादर्शनं हि वस्तूनि व्यवस्थाप्यन्ते, न तु किञ्चिद्दृष्टवाऽन्यदपि कल्प्यते, दृष्टमपि वा निह्नूयते इति ॥ वस्तूनां स्थिरत्वं प्रत्यभिज्ञाग्राह्यम्
अपि च अनिमेषदृष्टेरत्रुटितसत्ताकस्तम्भादिपदार्थग्राहि प्रत्यक्षमुपपद्यते । तत् कथं क्षणिकग्राहि कथ्यते ॥

यच्च तत्र विकल्पितं—अतीतानागतक्षणयोः असन्निहितत्वेन प्रत्यक्ष ग्राह्यताऽनुपपत्तेः वर्तमानक्षणस्य चातिसूक्ष्मत्वात् तत्कालग्राहिणा प्रत्यक्षेण क्षणिकत्वमेव गृहीतं भवतीति—तदुपपन्नम्—मा145 नामाभूदतीतानागतकालग्रहणं, वर्तवान एव तु तत्रानिमेषदर्शने कियान् काल इति चिन्त्यताम् । निमेषकृतस्यापि दर्शनविच्छेदस्यानवकाशात् । यावद्धि दर्शनं न विच्छिन्नं, तावान् वर्तमानः काल इति तद्ग्रहणेन स्थैर्यं गृहीतं भवति, न क्षणिकत्वम् ॥ वर्तमानकालस्य न क्षणरूपत्वम्
ननु ! तावानसौ कालः क्षणसमुदायो भवति, न क्षणः । क्षणश्चैक एव वर्तमानो भवति । अतः पूर्वापरौ क्षणावतीतानागतौ भवतः । तयोश्च न ग्रहणमित्युक्तम् ॥

भो महात्मन् ! सिद्धे क्षणकत्व एव एवं शक्यते वक्तुम्, न तत्साधनावसरे । कालो ह्येको नित्यो विभुरिति साधितोऽनुमानपरीक्षायाम् । न तु क्षणसमुदायात्मा कालः । कालस्य तु भेदाः क्रियोपजननविनाशाद्युपाधिनिबन्धनाः कल्प्यन्त इत्यपि तत्रैव परीक्षितम् । तदयमनिमेषदृष्टेः146 दर्शनविच्छेदानुपग्रहात् तावानेकः कालः स इति वर्तवान एव भवति147 नानाक्षणसमुदायः । क्षणसमुदायात्मकेऽपि वा काले दर्शनविच्छेदानवधारणात् क्षणसमुदाय एव वर्तमानीभवतु ॥ कालस्याप्रामाणिकत्वेऽपि न क्षणिकत्वसिद्धिः
ननु ! कालो नाम न कश्चित् पारमार्थिकः पदार्थ एव परिदृश्यमानः वर्तमानादिव्यवहारहेतुः । स च न चिरमनुभूयत इति क्षणिक उच्यते—

भिक्षो ! अलमवान्तरगमनेन । मा भूत् कालः । पदार्थस्त्वनिमेषदृष्ट्यविच्छेदान्न नश्यन् दृश्यत इति न क्षणिकग्राहि प्रत्यक्षम् ॥ ज्ञानस्यास्थिरत्वेऽपि वस्तुस्थैर्योपपत्तिः
ननु ! भवद्भिरपि न स्थिरं ज्ञानमिष्यते । क्षीणे च ज्ञाने सोऽर्थो द्वितीयक्षणे केन गृह्येत ? ज्ञानान्तरेण तु गृह्यमाणः स एवेत्यत्र को निश्चयः ?

अनिमेषदृष्टेर्ज्ञानं न क्षीयत एवेत्येके ॥

अथवा किं न एतेन । न हि विषयप्रतिभासकाले ज्ञानमवभासत148 इति असकृदुक्तं, वक्ष्यते च । तेन तत्कीदृशमिति कुतो वयं विद्मः । अर्थस्त्वविच्छिन्नसत्ताक एव गृह्यते । ज्ञानं तु वर्तमानकालमप्यतीतानागतकालग्राहि भवति; स्मरणमिव, भूतभविष्यद्वृष्ट्यनुमानमिव ॥ इन्द्रियस्य, सन्निकर्षस्य, अर्थस्य च स्थिरत्वम्
ननु ! इन्द्रियव्यापारो न क्षणान्तरस्थायीति तस्मिन्नसति कुतोऽर्थस्य विततकालताग्रहणम् ?

भदन्त ! भवतु, श्रान्तोऽसि । लज्जस्वैवम्ब्रुवाणः । निमेषकृतोऽपि विच्छेदोऽस्य नास्ति । अथ च न स्थिरः इन्द्रियव्यापार इति ग्राहिकतामात्रम् । सन्निकर्षश्चास्य विषयग्रहणे व्यापारः । स149 च स्थिर एव । तस्माद्विततकालस्य वस्तुनः प्रत्यक्षेण ग्रहणमिति स्थितम् ॥ ध्वंसस्य हेतुजन्यत्वाद्वस्तुस्थैर्यसिद्धिः
एवञ्च स्थिते न स्वरूपमात्रनिबन्धन एव भावानां विनाशः, किन्तु हेत्वन्तरनिबन्धनो भवति । ततश्च आविनाशहेतूपनिपातात् अवस्थानमेव भावानाम् । अविद्यमानविनाशकारणानां च150 नित्यत्वमेव व्योमादीनामिति सिद्धम् ॥ सत्त्वासत्त्वयोर्दर्शनादर्शनरूपत्वाभावः
यत्पुनरभाणि—दर्शनादर्शने एव सत्त्वासत्त्वे भावानामिति—तदपि व्यामूढभाषितम् । दर्शनादर्शनाभ्यां भावाभावयोः परिच्छेदः, न पुनः दर्शनादर्शने एव भावाभावौ ॥

अभावश्च विस्तरतः प्राक् प्रसाधितः । स च सहेतुक इति न स्वत एव विशरारवो भावाः ॥ क्षणिकवादे व्यवहारानुपपत्तिः
एवं त्वनिष्यमाणे पदार्थस्थैर्यपक्षे—ज्ञानजनकस्य नियतस्य वस्तुनो दर्शनम्, दर्शनविषयीकृतेऽस्य प्रवृत्तिः, प्रवृत्तिविषयीकृतस्य प्राप्तिरिति व्यवहारो न स्यात्, अर्थक्षणनानात्वात् ॥ क्षणिकवादे बाध्यबाधकभावानुपपत्तिः
बाध्यबाधकभावश्च क्वचित् ज्ञानानां दृष्टः । स च न स्यात्; पूर्वावगतरजतादिविषयाभावग्राहिणो ज्ञानस्य गृहीतमुद्गरदलितश्वधटा भावज्ञानवत् बाधकत्वानुपपत्तेः ॥

पूर्वदृष्टस्य स्मरणं, स्मृतस्य कस्य चित् प्रत्यभिज्ञानं, प्रत्यभिज्ञातस्य च गृहादेरेवार्धकृतस्य समापनं इत्यादयश्च व्यवहारा विलुप्येरन् ॥ क्षणिकवादनिराससङ्ग्रहः
अथ सन्तानमाश्रित्य क्रियते तत्समर्थनम् ।
न, तस्य भिन्नाभिन्नत्वविकल्पानुपपत्तितः ॥

अभेदपक्षे क्षणवत् व्यवहारो न सिध्यति ।
व्यतिरेके तु चिन्त्योऽसौ वास्तवोऽवास्तवोऽपि वा ॥

अवास्तवत्वे पूर्वोक्तं कार्यं विघटते पुनः ।
वास्तवत्वे स्थिरो वा स्यात् क्षणिको वेति चिन्त्यताम् ॥

सन्तानिनिर्विशेषः स्यात् सन्तानः क्षणभङ्गुरः ।
न सिध्येत्पुनरप्येवं व्यवहारः पुरोदितः151

अथापि नित्यं परमार्थसन्तं
सन्ताननामानमुपैषि भावम् ।
उत्तिष्ठ, भिक्षो ! फलितास्तवाशाः
सोऽयं समाप्तः क्षणभङ्गवादः ॥

तदेवं सति सन्तानच्छद्मनो विनिवारणात् ।
लोकयात्रा स्थिरैरेव पदार्थैरुपपाद्यताम् ॥

क्षणिकवादे प्रमाणाभावः
एवमनन्तरनिगदितदूषणनिकुरम्बविनिहतप्रसरम् ।
नाध्यक्षं क्षणिकत्वे, न चानुमानं प्रमाणं स्यात् ॥

क्षणभङ्गे निरस्ते च कार्यमाधारवद्ध्रुवम् ।
अतो ज्ञानादिकार्येण युक्तमाश्रयकल्पनम् ॥

सुखादेरपि कार्यस्य विज्ञानाद्व्यतिरिक्तता ।
प्रागुक्तेति तदप्यन्यद्भवत्यस्यानुमापकम् ॥

क्षणिकवादे पारलौकिकविलोपः
किञ्च नाङ्गीकरोषि त्वमात्मानं पारलोकिनम् ।
उपैषि परलोकं च विदितं ते बकव्रतम् ॥

कर्मसन्तानिनाऽन्येन यत्कृतं चैत्यवन्दनम् ।
ततोऽद्य फलमन्येन भुज्यतेऽकृतकर्मणा ॥

न च निर्वृत्तिरप्यस्य चैत्यवन्दनकर्मणा ।
ज्ञानक्षणेन नैकेन किञ्चित् कर्म समाप्यते ॥

कार्यकारणभावाश्च यस्त्वयोक्तः स दूषितः ।
कार्यकारणभावेऽपि न ह्यन्यत्वं निवर्तते ॥

अनैकान्तिकता चास्य सन्तानान्तरबुद्धिभिः ।
उपादानत्वरूपोऽपि विशेषः प्राङ्निराकृतः ॥

कार्पासरागसङ्क्रान्न्तिदृष्टान्तो यश्च वर्णितः ।
सोऽप्ययुक्तः स्वरूपेण तत्रतस्यैव दर्शनात् ॥

य एव रागः कार्पासबीजे समुपकल्पितः ।
स एव दृश्यते पुष्पे न तु तस्मात्फलान्तरम् ॥

एर्व152 कर्मानुवृत्तिः स्यात् फलभोगस्तु दुर्घटः ॥

क्षणिकवादे कृतहानादिरनिवार्यां
कर्मानुवृत्तिरप्येषा न चैकस्यास्ति कस्यचित् ।
कार्यकारणयोर्भेदात् कार्पासकुसुमादिवत् ॥

अन्यत्रैव हि कर्म स्यात् अन्यत्रैव च तत्फलम् ।
न च सन्तानभोगाय कश्चित्कर्मानुतिष्ठति ॥

फलमस्मान्ममैव स्यात् इति सर्वः प्रवर्तते ।
सर्वथा शाक्यभिक्षूणां परलोको विसंष्ठुलः ॥

न तत्प्रसाधने तेषां काचिद्गमनिकाऽस्ति वा ॥

ज्ञानसन्तानस्याविच्छेदोऽपि दुर्वचः
गर्भादौ प्रथमं ज्ञानं विज्ञानान्तरपूर्वकम् ।
ज्ञानत्वादित्ययं हेतुः अप्रयोजक153 इष्यते ॥

मूर्छाद्यनन्तरोद्भूतज्ञानैश्च व्यभिचार्यताम्
मूर्छितस्यापि विज्ञानमस्तीत्येतत्तत्तु कैतवम् ॥

न ह्यर्थावगतेरन्यद्रूपं ज्ञानस्य किं चन ।
मूर्छादिषु कुतस्तत्स्यात् कुतो वा कललादिषु154

कललादिदशायां वा यदि विज्ञानमिष्यते ।
मातापितृस्थयोरस्तु शुक्रशोणितयोरपि ॥

ततश्चैकत्र सन्ताने चेतनद्वयमापतेत् ।
चेतनानां बहुत्वं वा दम्पत्योर्बहुपुत्रयोः ॥

सन्तानानां सौसादृश्यमपि दुर्वचम्
न चैष नियमो लोके सदृशात्सदृशोद्भवः ।
वृश्चिकादेस्समुत्पादः गोमयादपि दृश्यते ॥

शरीरान्तरसञ्चारचातुर्यं च धियां कथम् ।
ज्वालादिवन्न मूर्तत्वं न च व्यापकताऽत्मवत् ॥

जननमरणाद्युपपादनमपि क्षणिकवादे दुर्घटम्
आतिवादिकदेहेन155 नीयन्ते चेद्भवान्तरम् ।
नन्वातिवाहिकेऽप्यासां कथं सञ्चारसम्भवः ॥

आस्तामेवैष वा जीवेद्देहेऽपि पथि गच्छताम् ।
प्रदेशान्तरसञ्चारो ज्ञानानां भवतां कथम् ॥

न ह्येषां भूतधर्मत्वं न स्वतो गतिशक्तिता ।
न च जात्यादिवद्वृत्तिः न च व्यापकताऽऽत्मवत् ॥

एवं यदैव निष्क्रान्तः विहारकुहराद्भवान् ।
तदा काष्ठीभवेद्देहः ज्ञानसङ्क्रान्त्यसम्भवात् ॥

तदयं सङ्क्षेपार्थः त्यक्तव्यो वा निरस्य कौरुकुचीम्156
सुरगुरुवत्परलोकः नित्यो वाऽऽत्माऽभ्युपेतव्यः ॥

आत्मनः ज्ञानसुखाद्युपपत्तिः
यत्त्वस्य चर्मगगनोपमतां विकल्प्य
नाशित्वमुक्तमथवा विफलत्वमेव ।
तन्नैव साधु सुखदुःखदशोपभोग-
योगेऽपि नाशमधिगच्छति नायमात्मा157

विकृतिश्च तस्य सुखदुःखजन्मना
न हि तादृशी भवति लुप्यते यया ।
सहकारिकारणवशात्तु जायते
तदवश्यमेव समुपैति भोक्तृताम् ॥

अवस्थावादः
अथवोपजनव्ययस्वभावः
स्वदशाभेदसमन्वये हि पुंसः ।
फणिनः किल कुण्डलाद्यवस्था-
नुगतस्येव न भिन्नतेति केचित्158

अवस्था एवैताः प्रसभविलयातङ्कविधुराः
अवस्थाता त्वेकः स्फुरति निरपायस्थिरवपुः ।
असत्यस्मिन् पूर्वावगतविषयाऽनुस्मृतिभुवां
न सिद्धिः कार्याणामिति निपुणमावेदितमिदम् ॥

आत्मनः स्थिरत्वज्ञानेन लाभः
ननु विमृशति159 भोगे कर्म नित्योऽपि नात्मा
न हि नरकनिमग्नो मन्यते कश्चिदेवम् ।
किल यदहमकार्षं प्राग्भवे कर्म पापं
फलमुपनतमस्माद्भुज्यते तन्मयेति ॥

कार्योपभोगसमये किमनेन160 कृत्यं
नास्य प्रवृत्तिरधुना न निवृत्तिरस्मात् ।
यस्स्वप्रवृत्तिजननौपयिकोऽवमर्शः
शास्त्रादसौ भवति शास्त्रविदामवश्यम् ॥

विमर्शोऽयं पश्चादपि भवतु दृष्टे तु विषये
मया यूना यत्तत्किमपि सदसद्वा कृतमभूत् ।
ततो वृद्धोऽद्याहं फलमनुभवामीति तदयं
पुमानस्ति स्थायी सुकृतफलभोगादिनिपुणः ॥

क्षणिकवादिनां क्रियावैरूप्यम्
नास्त्यात्मा फलभोगमात्रमथ च स्वर्गाय चैत्यार्चनं
संस्काराः क्षणिकाः युगस्थितिभृतश्चैते विहाराः कृताः ।
सर्व शून्यमिदं वसूनि गुरवे देहीति चादिश्यते
बौद्धानां चरितं किमन्यदियती दम्भस्य भूमिः परा ॥

अर्वाचीनचार्वाकमतम्
अत्र सुशिक्षितचार्वाक आह—यावच्छारीरमवस्थितमेकं प्रमातृतत्त्वं अनुसन्धानादिव्यवहारसमर्थमस्तु नाम, कस्तत्र कलहायते । शरीरादूर्ध्वं तु तदस्तीति किमत्र प्रमाणम् ? न च पूर्वशरीरमपहाय शरीरान्तरं सङ्क्रमति प्रमाता ॥ पारलौकिकात्मा नास्ति
यदि ह्येवं भवेत्, तदिह शरीरे शैशवदशानुभूतपदार्थस्मरणवत् अतीतजन्मानुभूतपदार्थस्मरणमपि तस्य भवेत् । न हि तस्य नित्यत्वाविशेषे च, शरीरभेदाविशेषे च स्मरणविशेषे कारणविशेषमुत्पश्यामः, यदिह जन्मन्येवानुभूतं स्मरति, नान्यजन्मानुभूतमिति । तस्मादूर्ध्वं देहात् नास्त्येव प्रमातेति नित्यात्मवादमूलपरलोककथाकौरुकुचीमपास्य यथासुखमास्यताम् ॥ यथाऽऽह—

यावज्जीवं सुखं जीवेन्नास्ति मृत्योरगोचरः ।
भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥ इति ॥

आत्मनः स्थिरत्वस्यौत्सर्गिकत्वम्
अत्रोच्यते—न खलु निपुणमिव सुशिक्षितमायुष्मता चार्वाकाचार्यचातुर्यम् । यावच्छरीरमेकमनुयायि प्रमातृतत्त्वमस्तीति यदुक्तवानसि तन्न विस्मर्तुमर्हसि161 । न चास्तित्वाविनाभावी भावानां विनाशः स्वाभाविकः, किन्तु हेत्वन्तरनिमित्तक इति सौगतैस्सह कलहमतिमात्रमधुनैव कृत्वा समर्थितोऽयमर्थः । न च विनाशहेतुः प्रमातुरतिचिरमपि विचार्यमाणः कश्चित् कुतश्चित् अवाप्यते । न चानुपलभ्यमानोऽप्यसौ कल्पयितुं पार्यते ॥ आत्मनो विनाशहेतुर्नास्ति
न ह्यात्मा पटदिरिव सावयव उपलभ्यते, यदवयवविभागादिना नङ्क्ष्यतीसि गम्यते । उत्पत्तिरपि नात्मनो दृष्टा, यतस्तदविनाभाविनः निरवयवस्यापि कर्मादेरिव विनाशः प्रतीयते । न चैष कस्ययिदात्मागुणः, यैनाश्रयविनाशाद्वा विरोधिगुणान्तरप्रादुर्भावाद्वा प्रध्वंसमासादयेत् ॥

न चैवं शक्यते वक्तुम्—किं विनाशहेत्वनुमानेन ? प्रत्यक्ष एवास्य विनाशो दृश्यत इति । यतो न शरीरवदसौ दह्यमानः, शकुनिभिरवलुप्यमानो162 वा कदाचिदुलब्ध इति । तस्माद्विनाशादर्शनात् विनाशहेत्वनुमानासम्भवाच्च अस्ति चेदात्मा नित्य एवेत्यवधार्यताम् ॥

तस्मात् भूतचैतन्यमेव चिरन्तनचार्वाकाचार्यवत् परलोकापलापपरितोषालम्बनयत्किञ्चित्कारित्वसुलभसुखासिकासक्तहृदयैर्वरमाश्रितुम् । आशरीरमवस्थिते तु प्रमातृतत्त्वे सति न फलन्त्येते परलोकापलापमनोरथाः । भूतचैतन्यपक्षोऽपि च पुरा पराकृत एव । तस्मादस्ति नित्यः परलोकी प्रमातेति ॥

नित्यत्वे सति पूर्वदेहसम्बन्धः, भविष्यद्देहान्तरसम्बन्धश्चास्य न दुरुपपादः ॥ आत्मनः विभुत्वेऽपि शरीरान्तरप्राप्त्यादि युज्यते
शरीरान्तरसञ्चारस्त्वस्य नास्तीति यदुक्तं—तद्युक्तमेव । व्यापिनः सर्वत्र विद्यमानस्यात्मनः कः सञ्चारार्थः ?

व्यापित्व एव किं प्रमाणमिति चेत्—सर्वत्रैव कार्योपलम्भः प्रमाणम् । इतो वाराणसीमपि गतस्य मे भदत्येव स्मरणेच्छादिकार्ययोगः । स चात्मैकप्रभवः । आत्मनश्च शरीरस्येव न तत्र गमनम्, अमूर्तत्वात् । न शरीरगुणवत्, तदनाश्रितत्वात्163 । न प्राणादिवत्, अन्तश्शरीरवृत्तित्वाभावात् ॥ आत्मनः न शरीरान्तर्वर्तित्वम्
अन्तश्शरीरवृत्तित्वाभाव एव किं प्रमाणमिति चेत्—उच्यते—अन्तश्शरीरवृत्तित्वे हि द्वयी गतीः, एकदेशवृत्तित्वं, सर्वशरीरापूरकत्वं वा ॥

तत्र सर्वशरीरापूरकत्वे शरीरपरिमाणानुविधायित्वात् बालयुवस्थाविरशरीरवत् पूर्वनीत्या परिमाणान्यत्वेन तदन्यत्वात् पुनरपि प्रतिसन्धानादिकार्यवैधुर्यप्रसङ्गः । करिमशकशरीरयोगे च कर्मपरिणामोपनते तस्य सङ्कोचविकासौ प्राप्नुतः । तौ च नित्यस्य विरुध्येते ॥

एकदेशवृत्तित्वे तु तदनधिष्ठितानामवयवानामनात्मकत्वात् मृतशरीरावयवत् अयथेष्टविनियोज्यता—काष्ठीभावः स्यात् ॥ आत्मनो न स्वज्ञानेन सर्वशरीरव्यापकत्वं
प्रदोपवदेकदेशवृत्तेरप्यात्मनः सकलशरीराधिष्ठातृत्वमिति चेत्— वर्तिप्रदेशोपचिततेजःपिण्डवदेकत्र शरीरावयवे सविशेषचैतन्यसंवित्तिः स्यात् ॥

अस्त्येव हृदयदेशे तदतिशय इति चेत्—न—अनुपलम्भात् । दहनहिमकृपाणादिस्पर्शेषु न हृदयस्य, प्रदेशान्तरस्य वा शरीरे वेदनाविशेषं पश्यामः । तस्मान्न हृत्पुण्डरीके दीपवदवस्थानमात्मनः ॥ आत्मनोऽविभुत्वपरवचनगतिः
अत एव— “ अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात्


इति व्यासवचनमनेवम्परमवगन्तव्यम्164

यदि तु मनोवदेकदेशवृत्तेरणुपरिमाणस्याशु सञ्चरतः शरीराधिष्ठातृत्वमात्मनः कथ्यते—तथापि सहसैव चिरप्रोषितागतदयितजनदर्शनोद्भ तसकलशरीरव्यापिस्वेदरोमाञ्चादिदर्शनं विरुध्यते । न च द्वयोरण्वोरात्ममनसोः कर्तृकरणव्यवस्थाऽपि निर्वहतीति । तस्मान्नाणुरात्मा, न च शरीरमात्रपरिमाण इति व्यापक एवावशिष्यते । तदेवं वाराणस्यामपि अयमात्मा विद्यत एवेति तत्र तत्कार्यदर्शनमवकल्पते, नान्येन गमनादिप्रकारेणेति ॥ ऐकात्म्यवादनिरासः
ननु ! सर्वत्र सुखदुःखज्ञानादिकार्यदर्शनात् सर्वप्राणिनामेक एवात्मा भवेत्—न—सुखदुःखव्यवस्थादर्शनात्, बन्धमुक्तव्यवस्थोपपत्तेश्चात्मभेदस्य दर्शयिष्यमाणत्वात् ॥ विभोरपि कर्तृत्वोपपत्तिः
व्यापिनः तथं कर्तृत्वमिति चेत्,165 ज्ञानचिकीर्षाप्रयत्नसमवाय एवास्य कर्तृत्वम्, न व्यापारयोग इति निर्णीतमेतत् ॥

ननु ! व्यापिन्यात्मनि कथं शरीराद्बहिरण्वपि तत्कार्यं न दृश्यते— कर्माक्षिप्तशरीरेन्द्रियादिसहकारिसन्निधाननिबन्धनो हि तत्कार्योत्पादः । स कथं ततो बहिर्भवेत् इति ॥

तस्मादनन्तरोक्तेन प्रकारेणोपपादितम् ।
नित्यत्वाद्व्यापकत्वाच्च परलोकित्वमात्मनः ॥

आत्मनः देहातिरिक्तत्वे हेत्वन्तराणि
सूत्रकारस्तु पारलौकिकत्वसिद्धये हेत्वन्तराणि प्रत्यपादयत् । सद्योजातस्य बालस्य वदनविकासरोदनाद्यनुमितो166 हर्षशोकादियोगस्तोवदस्ति । युवशरीरादौ रोदनादि शोकादिकारणकमवगतम् । आननविकासादि हर्षहेतुकम् । एवं शिशोरपि तन्निबन्धनः तदुत्पादः । तौ च हर्षशोकौ सुखदुःखसाधनाधिगमतदनुस्मरणान्यतरकारणकौ भवितुमर्हतः, तथा दृष्टत्वात् । इह चास्य न सुखदुःखसाधनपदार्थानुभवस्तादनीमस्ति—इति तदनुस्मरणमेव हर्षशोकहेतुर्भवेत् ॥

तदनुस्मरणपि तदनुभवप्रभवम् । अनुभवश्चेह जन्मनि सद्योजातस्य न समस्तीति जन्मान्तरानुभूतसुखदुःखसाधनानुस्मरणनिमित्तक एवास्य हर्षशोकसमुत्पाद इति जन्मान्तरानुगमान्नित्य आत्मा ॥ शिशोस्सुखदुःखानुस्मरणम्
ननु ! अभिनवजीवलोकावलोकनाह्लादनिबन्धन एवास्य मुखविकासः, तथा योनिद्वारनिर्गमनोद्गतनिरर्गलक्लेशपीडितस्य तस्य रोदनमिति न जन्मान्तरानुभूतस्मरणं कल्पयितुं युक्तम्, अतिप्रसङ्गात्—मैवम्— सुखदुःखहेतुमीदृशमननुभवतोऽप्यकस्मादेव167 हर्षशोकदर्शनात् ॥ शिशोर्मुखविकासादेरहेतुकत्वनिरासः
ननु ! कमलमुकुलविकासादिवत् स्वाभाविकमेव शिशोर्मुखविकासादिकार्यं स्यात्—स्वाभाविकं नाम किमुच्यते, किमहेतुकम्, अविज्ञातहेतुकम्, अनियतहेतुकं वा ?

न तावदहेतुकं कार्यं सम्भवति, कार्यत्वहानिप्रसङ्गात् ॥

नाप्यविज्ञातहेतुकं तद्भवितुं युक्तम्—कार्यमुपलभ्यते । तद्धेतुपरिज्ञाने यततां भवान्; किमुदास्ते ? न चासौ ज्ञातुमशक्यः, कार्यस्यैव तत्र ज्ञापकत्वात् ॥

नाप्यनियतहेतुकं कार्यं किञ्चिदस्ति । कार्योत्पादननियमेनैव हेतुनियमसिद्धेः । अत एव तत्कार्यमुपपादयितुकामाः तन्नियतमेव कारणमुपाददते लौकिकाः ॥ गोमयवृश्चिकादेरुपपत्तिप्रदर्शनम्
यत्राप्यनियतो हेतुः वृश्चिके गोमयादिकः ।
अभियुक्तस्तु तत्रापि विशेषं न न मन्वते168

तदेव कारणनियमोऽपि कार्यविशेषदर्शनाद्दुरपह्नव इति मुखविकासस्य हर्ष एव कारणमवगम्यते, सहस्रकृत्वस्तथा दर्शनात् ॥

अचेतनानां तु तामरसादीनां विकासकारणं तरणिकिरणनिकरपरिष्वङ्गाद्युपलब्धमिति तदपि न स्वाभाविकम् ॥

तस्मान्मुखविकासस्य हर्षः, हर्षस्य च स्मृतिः ।
स्मृतेरनुभवो हेतुः स च जन्मान्तरे शिशोः ॥

जन्मान्तरानुभूतानां न सर्वेषां स्मरणम्
ननु ! शिशोर्जन्मान्तरानुभूतस्मरणे सर्वदा सर्वस्मरणप्रसङ्गः—न— यावत्कार्यं कारणकल्पनात् । न हि सर्वदा सर्वानुस्मरणं संवेद्यते । न च तत्कल्पनायां कारणमुपलभ्यते । न चैकदर्शनात् सर्वं कल्प्यं, दृष्टमपि वा निह्नोतव्यमिति परीक्षकाणामुचित एष पन्था इत्यसकृदुक्तम्169 ॥ शिशोस्तन्यपानप्रवृत्त्या जन्मान्तरसिद्धिः
अपि च पयसस्तृप्तिहेतुतामनुस्मरन् बालकः स्तन्याभिलाषेण मातुस्तनतटे दृष्टिं निदधाति । न चाद्य तेन तस्य तत्साधनत्वमवगतमिति जन्मान्तरे सम्बन्धग्रहणमस्य वृत्तमिति मन्यामहे ॥

न चायस्कान्तदृष्टान्तसमाश्रयेण स्वाभाविकमेव तत् बालकस्य कुचकलशनिकटोपसर्पणमिति वक्तुमुचितम्, अनन्तरमेव निरस्तत्वात् ॥ गर्भस्थशिशोः पोषणकारणम्
ननु च गर्भशय्याशायिनोऽपि परिपोषदर्शनात् तत्साधनोपादाने तदनुस्मरणमेव प्राप्नोति—यदि कार्यमवगम्यते तत्रापि तत्कारणमवगम्य ताम्, को दोषः ? तत्र तु जनयित्रीजठरपतितान्नपानपरिपाकसङ्क्रान्त्या तत्परिपोषमायुर्वेदविदो वदन्तीति कथं तत्र स्मतणादिकल्पना ॥

कल्पनायां वा प्रथमं निषेकानन्तरमेव कललादिशुक्रशोणितविकारसम्भवात् तद्दशास्वपि स्मरणकल्पनाप्रसङ्गः । न च तत्कल्पनायामपि काचिदस्माकं क्षतिः170 । अयं तु स्तन्याभिलाषेण कुचक्षीरकलशावलोकनोपसर्पणादरो दारकस्य तदनुस्मरणकृत एवेति सर्वथा जन्मान्तरसम्बन्धानुमानान्नित्योऽयमात्मेति ॥ जन्मान्तरसमर्थकहेत्वन्तरम्
अतश्चैवं—

वीतरागजन्मादर्शनात् ॥ ३-१-२५ ॥

रागादिवासनाभ्यासेन सुदृढप्ररूढेनानादिप्रबन्धप्रवृत्तेन अपरित्यज्यमानाः सरागा एव जन्तवो जायन्ते । न खलु लोके कश्चन तादृशो दृश्यते प्राणी, यो जातो वीतरागश्चेति । स एष सरागो जायमानः पूर्वोपचितां रागादिवासनामनुसरतीति सिद्धो जन्मान्तरसम्बन्धः ॥ जगद्वैचित्र्यहेतुतया कर्मपरम्परासिद्धिः
तथा च केचिज्जजायन्ते लोभमात्रपरायणाः ।
द्रव्यसङ्ग्रहणैकाग्रमनसो मूषकादयः ॥

मनोभवमयाः केचित् सन्ति पारावतादयः ।
कुजत्प्रियतमाचञ्चुचुम्बनासक्तचेतसः ॥

केचित् क्रोधप्रधानाश्च भवन्ति भुजगादयः ॥

ज्वलद्विषानलज्वालाजालपल्लविताननाः ।
जगतो यच्च वैचित्र्यं सुखदुःखादिभेदतः ॥

कृषिसेवादिसाम्येऽपि171 विलक्षणफलोदयः ।
अकस्मान्निधिलाभश्च विद्युत्पातश्च कस्य चित् ॥

क्वचित्फलमयत्नेऽपि यत्नेऽप्यफलता क्वचित् ।
तदेतद्दुर्घटं दृष्टात्कारणाद्व्यभिचारिणः ॥

तेनादृष्टमुपेतव्यमस्य किञ्चन कारणम् ।

जगद्वैचित्र्यकारणस्य न भौतिकत्वम्
अदृश्यो भूतधर्मस्तु जगद्वैचित्र्यकारणम् ॥

यदि कश्चिदुपेयेत को दोषः कर्मकल्पने ॥

सञ्ज्ञामात्रे विवादश्च तथा सत्यावयोर्भवेत् ॥

भूतवद्भूतधर्मस्य न चादृश्यत्वसम्भवः172
दृष्टश्च साध्वीसुतयोः,173 यमयोस्तुल्यजन्मनोः ॥

विशेषो वीर्यविज्ञानसौभाग्यारोग्यसम्पदाम् ।
स्वाभाविकत्वं कार्याणां अधुनैव निराकृतम् ॥

तस्मात् कर्मभ्य एवैष विचित्रजगदुद्भवः ॥

कर्मणां शक्तिवैचित्र्यम्
कर्मणां ननु वैचित्र्यं कर्मान्तरकृतं यदि ।
अनिष्टं तत्174 स्वतस्सिद्धं जगत्येव तदिष्यताम् ॥

कर्मणां शास्त्रतो ज्ञाता विचित्रफलशक्तता ।
दृष्टार्थेषु च वाक्येषु दृष्टा प्रत्यक्षतोऽपि सा175

तस्माद्दृष्टस्य कार्यस्य युक्ता कारणकल्पना ।
कारणस्य त्वदृष्टत्वात् किं हेत्वन्तरचिन्तया ॥

कार्यकारणभावपरम्परायां नानवस्था दोषः
हेत्वन्तरं तु तद्धेतोः नास्तीत्येतावतैव किम् ।
दृष्टस्याप्यस्य कार्यस्य युज्यते हेत्वपह्नवः ? ॥

हेत्वन्तरनिमित्तेऽपि कर्मवैचित्र्यकल्पने ।
संसारस्य त्वनादित्वात् नानवस्था भयाबहा ॥

तथा च पुण्यः पुण्येन पापः पापेन कर्मणा ।
जायते जन्तुरित्येवं धर्मशास्त्रेषु पठ्यते ॥

तस्मात् कुतर्कमूलेन दृष्टकार्योपपातिना ।
सर्वलोकविरुद्धेन चोद्येन कृतमीदृशा ॥

तस्मात् कल्प्यानि कर्माणि दृष्टकार्योपपत्तये ॥

स्थिरस्यात्मनः आवश्यकत्वम्
एषां च क्षणभङ्गित्वात् संस्कारद्वारिका स्थितिः ।
स कर्मजन्यसंस्कारः176 धर्माधर्मगिरोच्यते ॥

विना च नित्यमात्मानं न धर्माधर्मयोः स्थितिः ॥

नित्यस्तस्माद्भवति पुरुषः स्वप्रणीतानुगच्छ—
द्धर्माधर्मक्रमपरिणतानन्दतापोपभोगः ।
प्रामाण्यं च स्फुटमभिहितं पूर्वमेवागमानां
तेभ्योऽप्यात्मा जनननिधनातीततत्त्वः प्रसिद्धः ॥

आत्मानित्यत्ववचनगमनिका
यद्विज्ञानघनादिवेदवचनं तत्पूर्वपक्षे स्थितं
पौर्वापर्यविमर्शशून्यहृदयैः सोऽर्थो गृहीतस्तथा ।
मैत्रेय्या177 परिचोदितस्तु भगवान् यद्याज्ञवल्क्योऽब्रवीत्
आत्मा178 नैव विनश्यतीति तदिदं सिद्धान्तसारं वचः ॥

तेनात्मनित्यत्वसमर्थनेन
सुस्पष्टसिद्धः परलोकमार्गः ।
य एव देहान्तरसङ्गमोऽस्य179
तमेव तद्ज्ञाः परलोकमाहुः ॥

जन्मान्तरज्ञानप्रयोजनम्
इति कबलने मांस्पाकानां,180 परस्वपरिग्रहे,
कितवजनतागोष्ठ्यां, वेश्यामुखाम्बुजचुम्बने ।
रतमतिरभूद्धूर्तो मत्वा भवान्तरनास्तितां
तदयमधुना तत्संसिद्धेरहो बत दूयते ॥

तस्मान्नित्योऽयमात्मा न च कलुषफलस्तस्य नैसर्गिकोऽयं
रागद्वेषादियोगोऽपि तु सकलगुणापोढमेवास्य रूपम् ।
तेनानादिप्रबन्धोपचितपरिणमत्कर्मपाकोपनीतं
दुःखं सन्त्यज्य निःश्रेयसमखिलभयातीतमाप्तुं यतेत ॥

॥ इति श्री भट्टजयन्तकृतौ न्यायमञ्जर्यां सप्तममाह्निकम् ॥


  1. पद्यते—गम्यते इति पदं—मोक्षः ॥ ↩︎

  2. भवान् परीक्षते—इत्यन्वयः ॥ ↩︎

  3. सम्यक् ज्ञातं मोक्षाय, असम्यग्वा ज्ञातं भवाय वा—इत्यन्वयः ॥ ↩︎

  4. ध्यानं—चिन्तनम् । हेयोपादेययोश्चिन्तनं हानाय, उपादानाय च ॥ ↩︎

  5. एतत्कृतं—जननमरणावृत्तिरूपप्रेत्यभावकृतम् ॥ ↩︎

  6. “परिणामतापसंस्कारदुःखैः गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः” इति योगसूत्रम् [२-७६] ॥ ↩︎

  7. यद्यपि “तदत्यन्तविमोक्षोऽपवर्गः” [न्या-सू] इति आत्यन्तिकदुःखनिवृत्तिरेव मोक्ष इत्युक्तम् । परन्तु दुःखास्यन्ताभावस्य स्वतः पुरुषार्थत्वासम्भवात् तद्विशिष्ट आत्मैव परमपुरुषार्थः । सूत्रं तु प्राप्ताप्राप्तविवेकन्यायेन प्रवृत्तम् ॥ ↩︎

  8. “अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशतः” इति श्रुतिः ॥ ↩︎

  9. मारवं—मरुसम्बन्धि ॥ ↩︎

  10. “अहं सुखी” इत्यत्रापि शरीरमेव भासत इत्याशयः ॥ ↩︎

  11. उपवर्षः पूर्वोत्तरमीमांसावृत्तिकारः । “भगवतोपवर्षेण प्रथमे तन्त्रे आत्मास्तित्वाभिधानप्रसक्तौ “शारीरके वक्ष्यामः” इत्युद्धारः कृतः” इति शाङ्करब्रह्मसूत्रभाष्यम् [३-३-५३] ॥ ↩︎

  12. प्रत्येकसमुदायादिविकल्पैरसम्भवादिति हेतुः ॥ ↩︎

  13. एतस्मिन् प्रत्यये प्रत्यभिज्ञायां न केवलं पूर्वज्ञानक्षणस्य, न केवलं उत्तरस्य तस्य, न द्वयोः ज्ञानक्षणयोस्सन्तानस्य च अवभासनं अस्ति । एतदेवोपपादयति अनन्तरवाक्यैः । न वास्तवः, अतिरिक्तसन्तानानङ्गीकारादिति हेतुः ॥ ↩︎

  14. प्रत्यभिज्ञाऽहं प्रत्ययः—प्रत्यभिज्ञारूपः अहम्प्रत्ययः ॥ ↩︎

  15. मिथ्येति—“न चासौ कायः” इत्याद्युक्तहेतुनेति शेषः ॥ ↩︎

  16. आत्मा अहम्प्रत्ययगम्यश्चेत्, तत्प्रत्ययविषयोऽप्यात्मा, तादृशप्रत्ययाश्रयोऽप्यात्मेति एकस्यैव कर्तृत्वकरणत्वे विरुद्धे स्याताम् । ↩︎

  17. तथा चात्मनः घटादिवत् पराक्त्वमेव स्यात् ॥ ↩︎

  18. न ह्यात्मनः घटावच्छिन्नत्वं, तदनवच्छिन्नत्वं च कदापि वक्तुं शक्यम् ॥ ↩︎

  19. आत्मनः—इति शेषः ॥ ↩︎

  20. अपरसाधनं—साधनान्तरानधीनप्रकाशम् ॥ ↩︎

  21. अस्वयम्प्रकाशस्यात्मत्वे चैतन्याश्रयत्वे च घटस्यापि चैतन्याश्रयत्वमस्त्वित्यापादने नोत्तरं वक्तुं शक्यमित्यर्थः ॥ ↩︎

  22. स्वं प्रतीति शेषः ॥ ↩︎

  23. द्वैरूप्यं—कतृत्वं, कर्मत्वं च ॥ ↩︎

  24. संवित्—आत्मधर्मभूता ॥ ↩︎

  25. आत्मनः ज्ञानरूपत्वात्, ज्ञानस्य च सविषयत्वनियमात् ॥ ↩︎

  26. “चेतयते” इति क्रियाः ॥ ↩︎

  27. कर्म—घटादिः ॥ ↩︎

  28. रूपं—आकारः ॥ ↩︎

  29. न्यायभाष्यम् ३-१-१५ ॥ ↩︎

  30. न इच्छन्ति—इत्यन्वयः ॥ ↩︎

  31. इन् थे प्रिन्त् एदितिओन् थेरे इस् अ ड़ोओत्नोते रेड़ेरेन्चे, बुत् नो चोर्रेस्पोन्दिन्ग् नोते। ↩︎

  32. शरीरस्य सर्वैरपि अनित्यत्वाङ्गीकारात् ॥ ↩︎

  33. प्रथमेति—पूर्वसञ्जातेत्यर्थः । दर्शनविशेषणम् ॥ ↩︎

  34. आगमिकी—वेदसिद्धा ॥ ↩︎

  35. कुत्रचित् जिज्ञासापूर्वकत्वात् ज्ञानस्य, इच्छैवादौ सूत्रकारैरुपात्तेत्यर्थः ॥ ↩︎

  36. तद्भेदेन—कालभेदेन ॥ ↩︎

  37. “सत्त्वस्य” इति शेषः ॥ ↩︎

  38. स्वापरसन्तनविवेकाभावादिति हेतुः ॥ ↩︎

  39. प्रकृत्य—प्रारभ्य ॥ ↩︎

  40. सा—प्रत्यभिज्ञा । एवं च प्रत्यभिज्ञाऽप्रामाण्ये स्तम्भादेरपि स्थिरत्वं न सिद्धयेत् ॥ ↩︎

  41. अन्यथा—शरीरपरिणामाभावे ॥ ↩︎

  42. “अवन्तिसोमधान्याम्लकुञ्जलानि च काञ्चिके” इत्यमरः ॥ ↩︎

  43. केचित्—पीलुपाकवादिनः ॥ ↩︎

  44. पिठरपाकवादे ॥ ↩︎

  45. पूर्वस्थितसङ्ख्यासमानसङ्ख्यावत्वात् ऐक्यमिति न । सूक्ष्मावयवविश्लोषस्य ज्ञातुमशक्यत्वात् । तत्रावयविनाशाङ्गीकारात् ॥ ↩︎

  46. अवयविनः सच्छिद्रत्वे युक्तिमाह—दृश्यत इत्यादि ॥ ↩︎

  47. “पिठरः स्थाल्युखा कुण्डम्” इत्यमरः । अवयवीति यावत् ॥ ↩︎

  48. शरीरस्येति शेषः ॥ ↩︎

  49. अनुगमकतया खलु गोत्वादिसिद्धिः ॥ ↩︎

  50. तत्—शरीरम् । शरीरप्रेरणादौ शरीरान्तरानपेक्षणात् प्रायेण इति ॥ ↩︎

  51. पूतना—इति क्रि [कृ] मिसञ्ज्ञा ॥ ↩︎

  52. ज्ञानादेः कार्यस्य—ज्ञानादिरूपकार्यस्य ॥ ↩︎

  53. स्वतन्त्रेषु—द्रव्यरूपेषु । यदि रूपं द्रव्यवत् स्वतन्त्रं स्यात् “दृष्टमेवस्पृशामि” इति न स्यात् ॥ ↩︎

  54. कथितं—तुल्यव्यायातिदेशात् ॥ ↩︎

  55. सूत्रगत“विकार”पदस्य भाष्योक्तं विवरणं—दन्तोदकसम्प्लवः इति । दन्तोदकं—लालाजलमिति यावत् ॥ ↩︎

  56. रूपादिसाक्षात्कारकरणतयैव चक्षुरादीनां सिद्धेः ॥ ↩︎

  57. इदमेव “आत्मा इन्द्रियाद्यधिष्ठाता करणं हि सकर्तृकम्” इत्युक्तम् ॥ ↩︎

  58. प्राप्तिविसर्गै—उपादानहाने ॥ ↩︎

  59. कार्यसामान्यं करणजन्यमिति, तच्च करणं ज्ञानप्रयत्नादिमांस्तु न शरीरादिः, किन्त्वतिरिक्तः कश्चित् । स एवात्मा ॥ ↩︎

  60. तत्सङ्गिनं—इच्छाद्वेषप्रयत्नादिमन्तम् । अशेषविशेषगुणोच्छोदो हि मोक्षः सिद्धान्ते ॥ ↩︎

  61. ज्ञानमात्रेण—न तु ज्ञानाश्रयेण ॥ ↩︎

  62. रूपविज्ञानवेदनासञ्ज्ञासंस्काररूपपञ्चस्कन्धात्मको जीवः । तत्र विज्ञानमप्येकः ॥ ↩︎

  63. मातापितृवासनायाः पुत्रे सङ्क्रमणम्, गुरोः ज्ञानस्य शिष्ये सङ्क्रमणं च दृश्यते । परन्त्वत्र सहकारित्वमेव, न तूपादानत्वम् ॥ ↩︎

  64. उच्यते किल “अहमेव न किञ्चिच्चेद्भयं कस्य भविष्यति” इति ॥ ↩︎

  65. नैरात्म्यदर्शनं—अहमर्थक्षये सति जायमानः अनुभवः ॥ ↩︎

  66. तत्रापि किल “अस्ति” इति प्रतीतिस्समाना ॥ ↩︎

  67. व्यापकं—अर्थक्रियाकारित्वम् ॥ ↩︎

  68. तृतीयः राशिः—क्रममौगपद्यातिरिक्तः कल्पः ॥ ↩︎

  69. दोला—डोला, सन्देहः ॥ ↩︎

  70. “समर्थत्वेन” इत्यादिः ॥ ↩︎

  71. उपकारस्य वस्तुस्वरूपत्वापत्येति हेतुः ॥ ↩︎

  72. कार्यं—प्रकृतं फलम् ॥ ↩︎

  73. “कार्यस्यायं स्वभावः” इति खलूक्तम् ॥ ↩︎

  74. वस्तुस्वरूपस्य तदानीमपि सत्त्वात् ॥ ↩︎

  75. साध्यधर्मिणि—साध्यरूपधर्मिणि ॥ ↩︎

  76. सत्त्वनित्यत्वे—अर्थक्रियाकारित्वं, स्थिरत्वं च ॥ ↩︎

  77. श्रोत्रियपक्षे—अतिरिक्तशक्त्यङ्गीकारपक्षे ॥ ↩︎

  78. एतेन नाशस्य कारणापेक्षा निराकृता ॥ ↩︎

  79. तज्जन्यः—मुद्गरादिजन्यः । भावस्य स्वरूपच्युतिः अभावः । तथा चात्रैव मुद्गरादिव्यापारः । न त्वभावोत्पत्तौ ॥ ↩︎

  80. तस्य—अभावस्य ॥ ↩︎

  81. वस्तुनः स्वरूपलाभे, तदविनाभावी विनाशः ॥ ↩︎

  82. पक्षद्वयेऽपि प्रत्यभिज्ञाया अप्रमाणत्वात् ॥ ↩︎

  83. दोषः—अन्योन्याश्रयः ॥ ↩︎

  84. स्मृतित्वानुभवत्वयोः कदापि सामानाधिकरण्यासम्भवात् ॥ ↩︎

  85. इयं परिहासोक्तिः । वर्तमानमात्रविषयकत्वे क्षणिकत्वमेव हि सिद्ध्येत् ॥ ↩︎

  86. तदभावः—वर्तमानाभावः ॥ ↩︎

  87. तद्ग्राहितां—स्थिरत्वविषयकत्वम् ॥ ↩︎

  88. वर्तमानदिवसप्रतीतौ अनेकक्षणानां पूर्वापरभावापन्नानां एकस्मिन् दिवसे भानात् एवमुक्तम् ॥ ↩︎

  89. सर्वत्र प्रतीतिषु कालस्य विशेषणतया भानाङ्गीकारात् ॥ ↩︎

  90. निरवयवद्रव्यं किल कालः ॥ ↩︎

  91. न हि भातीत्यन्वयः ॥ ↩︎

  92. क्षणिकत्वात् ज्ञानानाम् ॥ ↩︎

  93. तस्याः—बुद्धेः चिरं स्थितिरपि न इत्यन्वयः ॥ ↩︎

  94. तदागमात्—मुद्गरादिनिपातात् ॥ ↩︎

  95. अनुपदमेव विनाशस्य हेतुज न्यत्वनिरासात् ॥ ↩︎

  96. अन्यथा—देशान्तरनयनादिना, आलोकाद्यभावेन वा ॥ ↩︎

  97. पूर्वापरेति शेषः ॥ ↩︎

  98. यदि न मन्यते—इत्यन्वयः । भवता ज्ञातमपि अन्यो जानीयात् । भवता ज्ञातमपि अन्यः न जानीयाच्च ॥ ↩︎

  99. सत्यहेमकूटहेमयोरुभयोरपि एकरूपज्ञानजनकत्वात् सत्त्वं स्यात् [प्। ३००] ॥ ↩︎

  100. बाह्यार्थशून्यवादिनः किल ते ॥ ↩︎

  101. तथा च वस्तुनां स्थिरत्वसिद्धिः ॥ ↩︎

  102. अयमेव प्रतीत्यसमुदयवादः तदिष्टः ॥ ↩︎

  103. “चित्तामोगो मनस्कारः” इत्यमरः ॥ ↩︎

  104. तस्यानुपदमेव दूषितत्वात् ॥ ↩︎

  105. क्षणिकवादे नियामकत्वस्य दुर्वचत्वात् ॥ ↩︎

  106. न तु कार्यस्येति शेषः । अतश्च कार्ये साङ्कार्यं नापादयितुं शक्यमित्यभिमानः ॥ ↩︎

  107. करणाकरणादिविरुद्धधर्मयोगाद्धि क्षणिकत्वं साध्यते ॥ ↩︎

  108. लाक्षणिकः—तत्तदसाधारणधर्मविशेषकृतः ॥ ↩︎

  109. आत्मस्थानापन्नस्य नाशाङ्गीकारात् ॥ ↩︎

  110. निर्विशेषणकं हि ज्ञानं निर्विकल्पकम् । तथा च निर्विकल्पापेक्षयाऽतिरिक्तविषयकत्वं न स्यात् ॥ ↩︎

  111. भूयस्त्वम्—एकोपादानकानेकविज्ञानपरम्परारूपम् ॥ ↩︎

  112. बौद्धानां मन्त्रदिसिद्ध पहासोऽयम् ॥ ↩︎

  113. आत्मा—स्वरूपम् । स्वयं लब्धस्वरूपं चेत्, अनन्तरमन्यमुत्पादयेत् । अतश्चान्ततः क्षणद्वयसिद्धिरनिवार्या ॥ ↩︎

  114. पूर्वापरभावमात्रं कार्यकारणभावप्रयोजकम् ॥ ↩︎

  115. अन्यथासिद्धवस्तुषु इदं सम्मतम् ॥ ↩︎

  116. अन्यतरस्य नमनं अन्यतरस्योन्नमनहेतुः ॥ ↩︎

  117. अत एव—कार्यस्य सामग्रीमेलनाधीनत्वादेव ॥ ↩︎

  118. कर्मविपाकः—धर्माधर्मौ कार्यसामान्यकारणभूतौ ॥ ↩︎

  119. कृष्णात् कृष्णतरो भवती । प्रत्येकमल्पशक्तित्वेऽपि सामग्रीदशायां मिलिता शक्ततरा भवति सामग्री ॥ ↩︎

  120. विप्लवते—रिक्तसामर्थ्या भवति । अन्ततः अदृष्टविशेषस्य गलितत्वात् ॥ ↩︎

  121. भावानां स्वरूपलाभः यथा सामग्र्यधीनः, तथैव तेषां स्वरूपच्युतिरपि सामग्र्यधीना ॥ ↩︎

  122. घटः इति शेषः । यदि घटः नश्वरस्वभाववान् तर्हि कारकवैयर्थ्यम् । अनश्वरत्वे कारकाणि तदुत्पादनसामर्थ्यशून्यानि भवेयुः ॥ ↩︎

  123. भावानां—पदार्थानाम् । परापेक्षत्वमेव हेतुः । यथा घटादिः दण्डचक्राद्यपेक्षः, कदाचित् सामग्रीवैकल्यान्न भवत्यपि, एवं ध्वंसोऽपि कदाचिन्न भवत्यपि । ततश्च एकोऽपि वा घटः नित्यः स्यादित्याक्षेपः ॥ ↩︎

  124. इत्येवमित्यादि आशयोद्धाटनम् । उपहसति—अहो इत्यादि ॥ ↩︎

  125. सूर्यालोकरहितसमयेऽपि हि प्रत्यभिज्ञा भवति ॥ ↩︎

  126. उच्यतां यत्किञ्चित्कारणम्, आवश्यकत्वात् ॥ ↩︎

  127. दर्शनं—अन्वयव्यतिरेकानुभवौ ॥ ↩︎

  128. ननु तर्हि इन्द्रियजन्यं सर्वमपि प्रत्यभिज्ञा स्यादिस्यत्राह—क्वचिदित्यादि ॥ ↩︎

  129. भूतभविष्यत्त्वयोस्तु विरोधः स्पष्टः ॥ ↩︎

  130. न हि कुण्डलविशिष्टवेषेण केयूरविशिष्टत्वं सम्भवति ॥ ↩︎

  131. यद्यपि सिद्धान्ते युगपत्सन्निधानं न; किन्त्वेकवस्तुनि । परन्तु क्षणिकवाददृष्ट्याऽयमाक्षेपः ॥ ↩︎

  132. शतादिगणनवेलायां अन्तिममेव वस्तु इन्द्रियसन्निकृष्टम् । अथापि शतपदात्यादिज्ञानं प्रत्यक्षमेवेति सर्वे वदन्ति । तद्वदिहापि ॥ ↩︎

  133. एकत्रैव—हठात् एकक्षणे ॥ ↩︎

  134. अनेकव्यक्त्यनुगतसामान्यग्रहणन्यायेनैव, अनेककालानुगतव्यक्तेरपि ग्रहण मुपपादनीयमिति भावः ॥ ↩︎

  135. तथाचार्थजन्यत्वात्तस्य प्रत्यक्षत्वम् ॥ ↩︎

  136. इदमत्र तत्त्वम्—लौकिकसन्निकर्षद्वयजन्यमेकं ज्ञानमिव, संस्कार-इन्द्रियजन्यं “सुरभि कुसुमम्” इत्यादिज्ञानमपि सर्वसम्मतम् । कुसुमं तु चाक्षुषम्, सौरभं तु घ्राणग्राह्यम् । इन्द्रियद्वयं तु युगपन्न प्रसरति । संस्कारस्य इन्द्रियसहकारित्वात् निरंशत्वाच्च प्रत्यभिज्ञायाः प्रत्यक्षमेव तत् । अथवा संस्कारजन्यस्मृत्युपस्थापितं विशेषणं भासते । इयमेव ज्ञानलक्षणेत्युच्यते । तथा च लौकिकालौकिकसन्निकर्षद्वय जन्यं ज्ञानं प्रत्यभिज्ञेति न दोषः । ग्रन्थकारस्तु अलौकिकं सन्निकर्ष नाङ्गीकरोतीति मानसं तदिति वदति । मानसत्वे बाह्यत्वेनानुभवस्यास्वारस्यापत्त्या अनन्तरकालिकैः अलौकिकस्सन्निकर्षः अङ्गीक्रियत इति ज्ञेयम् ॥ ↩︎

  137. मनसः बाह्ये विषयेऽप्रवृत्त्येति हेतुः । मनः बाह्ये नैव प्रवर्तत इति न । स्वातन्त्र्येण न प्रवर्तते इत्येव ॥ ↩︎

  138. लूनपुनर्जातकेशादीत्यर्थः ॥ ↩︎

  139. प्रत्यभिज्ञा—“स एवायं गकारः” इत्यादीति शेषः ॥ ↩︎

  140. अनुमानमिथ्यात्वाधीनं न प्रत्यक्षप्रामाण्यम्, किन्तु स्वकारणादेव ॥ ↩︎

  141. “अयं घटः” इति खलु निषयाभिमुखोऽनुभवः । स च पूर्वं विषयस्य ज्ञानाभिमुखत्वकृतः । विषयस्य ज्ञानाभिमुख्यमेव विषयीकरणम् । अतः अन्ततः क्षणद्वयावस्थानं ज्ञानानामावश्यकम् ॥ ↩︎

  142. अन्ततः ज्ञानस्य द्विक्षणावस्थानमावश्मकमित्युक्तम् । घटादौ तु वैलक्षण्यात् स्थित्वस्य सिद्धिः ॥ ↩︎

  143. विग्रहः—स्वरूपम् ॥ ↩︎

  144. न हि समनन्तरे क्षणे सर्वं नङ्क्ष्यतीति कस्यापि प्रतीतिः ॥ ↩︎

  145. कालस्यातीन्द्रियत्वेन अंशतस्सत्यत्वात् ॥ ↩︎

  146. अनिमेषदृष्टिः—परमात्मा ॥ ↩︎

  147. तत्तद्वस्तुदृष्टयेति शेषः । तावन्निमेषाः दिनानि वा यत् एवं वर्तते, तावनेक एव सः कालस्तस्य भवति ॥ ↩︎

  148. ज्ञानं तु अनुव्यवसायेन मानसेन गृह्यते ॥ ↩︎

  149. सः—विषयः । इदमत्र तत्त्वम्—कालः अतीन्द्रियः, नित्यः, व्यापकश्च । परन्तु उपाधिवशात्तत्तद्व्यवहारः । उपाधीनां घटादीनां प्रत्यक्षत्वात् प्रत्यक्षत्वेन व्यवहारः । जन्यमात्रत्य कालोपाधित्वात्, घटः यावत्कालं वर्तते, तावान् एकः घटकाल इत्युच्यते । क्षणोपाधिदृष्ट्या घटस्य नानाकालसम्बन्धेऽपि घटस्य स्वकालदृष्ट्या न नानाकालसम्बन्धः, किन्तु एक एव स काल इति न कश्चन विरोधः ॥ ↩︎

  150. विनाशकारणानि—असमवायिकारणनाशादीनि ॥ ↩︎

  151. अतश्च सन्तानिनः अतिरिक्तत्वे, सत्यत्वे च स्थिरत्वसिद्धिः । अयमर्थः समनन्तरश्लोके स्पष्टः ॥ ↩︎

  152. कथञ्चित्कर्मानुवृत्तावपि सुखदुःखानुभवस्यान्तिमक्षण एव सम्भवेन, अन्यः कर्ता, अन्यो भोक्ता इत्यनिवार्यमेव ॥ ↩︎

  153. कललं—गर्भपिण्डावस्थाभेदः ॥ ↩︎

  154. अन्यथा घटादीनामपि तथैवानादित्वं स्यात् ॥ ↩︎

  155. आतिवाहिकदेहः—अन्तराभवदेहः ॥ ↩︎

  156. कौरुकुची—निर्वक्तुमशक्यः उद्वेगविशेषः । शब्दानुकरणमिदम् ॥ ↩︎

  157. सिद्धान्ते आकाशस्य तुच्छत्वानङ्गीकारात्, विशिष्टरूपेण विकारित्वेऽपि स्वरूपप्रच्युतेरभावाच्च न हानिः ॥ ↩︎

  158. तथोक्तं भट्टेन—“विक्रियामात्रवाचित्वे न युच्छेदोऽस्ति तावता” इति ॥ ↩︎

  159. नित्योऽप्यात्मा सुखदुःखभोगे तद्धेतुभूतं कर्म न हि विमृशति । अतः किं लाभ इत्याक्षेपः । विमृशत्येव, कार्यसामान्यस्य सहेतुकत्वज्ञानादिति समाधानम् ॥ ↩︎

  160. अनेन—पूर्वोक्तज्ञानेन । कार्यस्य निरोद्धुमशक्यत्वादिति हेतुः । उत्तरस्वप्रवृत्तिशिक्षणं भविष्यतीति न वैफल्यमिति सारम् ॥ ↩︎

  161. यावच्छरीरमवस्थितिरङ्गीकृता चेत्, तेनैव न्यायेन निस्यत्वमिति भवेदेव ॥ ↩︎

  162. शकुनिः—मांसादनः गृघ्रादिः ॥ ↩︎

  163. तत्—शरीरम् ॥ ↩︎

  164. औपाधिकपरिमितत्वपरमित्यर्थः । अन्यथा परमात्मनोऽपि तथाश्रवणात् विभुत्वं न स्यात् ॥ ↩︎

  165. विभोश्चलनाद्यसम्भवादिति हेतुः ॥ ↩︎

  166. निद्रादिष्वपीति शेषः ॥ ↩︎

  167. सुषुप्त्यादौ इति शेषः ॥ ↩︎

  168. अन्यथा मृदः कुतो न वृश्चिकोत्पत्तिरिति प्रश्नः दुरुत्तरः स्यात् ॥ ↩︎

  169. एतज्जन्मन्यप्यनुभूतं सर्वं न हि स्मर्यते । अदृष्टमेवात्र नियामकम् ॥ ↩︎

  170. जन्मान्तरसिद्धेरिति शेषः ॥ ↩︎

  171. सेवा—गुरुसेवा । गुरुसेवादीनां समानत्वेऽपि शिष्ययोः ज्ञानसम्पत्तौ दृश्यते तारतम्यम् ॥ ↩︎

  172. अत्तश्चादृष्टस्य भूतधर्मत्वे तस्य प्रत्यक्षत्वापत्तिः ॥ ↩︎

  173. “साध्वी”“यम”पदाग्यां कारणान्तरनिराकरणम् ॥ ↩︎

  174. अनवस्थाप्रसङ्गो हेतुः । यत्र कुत्रचित् स्वभाववादस्यावश्यकत्वादादावेव तच्छरणीक्रियतामिति भावः । समाधत्ते—कर्मणामित्यादिना ॥ ↩︎

  175. सा—विचित्रफलशक्तता । आयुर्वेददास्त्रवाक्येषु हरीतक्यादौ सा दृष्टा ॥ ↩︎

  176. संस्कारः—अतिशयः ॥ ↩︎

  177. बृहदारण्यकोपनिषदि ६ अध्याये द्रष्टव्यम् ॥ ↩︎

  178. “अविनाशी वा अरे अयमात्मा” इति श्रतिः ॥ ↩︎

  179. परलोकपदेन एतल्लोकमपि क्रोडीकर्तुं व्याख्याति—देहेत्यादि ॥ ↩︎

  180. मांस्पाकाः—मांसपाकाः ॥ ↩︎