०४ शब्दपरीक्षा

चतुर्थमाह्निकम्—शब्दपरीक्षा वेदानां पौरुषेयत्वानुमानम्
एवं कृतकत्वे वर्णानां साधिते सति वर्णात्मनः पदात् प्रभृति 1 सर्वत्र पुरुषस्य स्वातन्त्र्यं सिद्धं भवति ॥

पदनित्यत्वपक्षेऽपि2 वाक्ये तद्रचनात्मके ।
कर्तृत्वसम्भवात् पुंसः, वेदः कथमकृत्रिमः ॥ १ ॥

तथा च वैदिक्यो रचनाः कर्तृपूर्विकाः, रचनात्वात्, लौकिकरचनावत् । एष च पञ्चलक्षणो3 हेतुः, प्रयोजकश्चेति गमक एव, न हेत्वाभासः ॥ वेदपौरुषेयत्वानुमाने दूषणोद्धारः
न तावदयमसिद्धो हेतुः; “शन्नो देवीरभिष्टये” [अथ। सं। १-६-१] इत्यादिषु वेदवाक्यसन्दर्भेषु पदरचनाया स्वरक्रमादिविशेषवत्याः प्रत्यक्षत्वेन पक्षे हेतोः वर्तमानत्वात् ॥

नापि विरुद्धः; कर्तृपूर्वकत्ववति सपक्षे कुमारसम्भवादौ रचनात्वस्य विद्यमानत्वात् ॥

नाप्यनैकान्तिकः; कर्तृरहितेषु गगनादिषु, गगनकुसुमादिषु वा रचनाया अदृष्टत्वात् ॥

[एतदाह्निके टिप्पणीस्थलानां विरलत्वात् सुज्ञानार्थं तानि चिह्नैर्योजितानि]

नापि कालात्ययापदिष्टः; प्रत्यक्षेण, आगमेन वा वेदे वक्त्रभावनिश्चयानुत्पादात् ॥

नापि सत्प्रतिपक्षः; प्रकरणचिन्ताहेतोः4 स्थाणुपुरुषविशेषानुपलब्धेरिव हेतुत्वेनानभिधानात् ॥

नापि परमाण्वनित्यतायामिव मूर्तत्वं अप्रयोजकमिदं साधनम्; रचनाव्यापाराणां कर्तृव्यापारसाध्यत्वावधारणात् । यथा5 धूमस्य ज्वलनाधीन आत्मलाभः; ज्ञप्तिस्तु धूमादग्नेः—तथा कर्त्रधीना रचनानामभिनिर्वृत्तिः, प्रतीतिस्तु ताभ्यः कर्तुरिति । तस्मात् प्रयोजक एवायं हेतुः ॥ वेदपौरुषेयत्वानुमानस्य ससत्प्रतिपक्षत्वाशङ्कानिरासः
ननु ! सत्प्रतिपक्षत्वे विवदन्ते । तथा च मीमांसकैः प्रतिहेतुरिह गीयते [श्लो। वा। १-१-७-३६६] — “ वेदस्याध्ययनं6 सर्वं गुर्वध्ययन पूर्वकम् ।
वेदाध्ययनवाच्यत्वात् अधुनाऽध्ययनं यथा

” इति—नैतद्युक्तम्—एवम्प्रायाणां प्रयोगाणामप्रयोजकत्वात् । न हि 7 तच्छब्दवाच्यत्वकृतं अनादित्वमुपपद्यते ॥

अनैकान्तिकश्चायं हेतुः, भारतेऽप्येवमभिधातुं शक्यत्वात् । भारताध्ययनं सर्वं गुर्वध्ययनपूर्वकम्, भारताध्ययनवाच्यत्वात्, इदानीन्तनभारताध्ययनवत् इति ॥ वेदस्यापौरुषेयत्वे भारतादेरप्यपौरुषेयत्वप्रसङ्गः
ननु ! भारते कर्तृस्मृतिरविगीता विद्यते; यद्येवं वेदेऽपि प्रजापतिः कर्ता 8 स्मर्यत एव ॥

910 अथ वैदिकमन्त्रार्थवादमूलेयं प्रजापतिकर्तृत्वस्मृतिः; “प्रजापतिना चत्वारो वेदा असृज्यन्त, चत्वारो वर्णाः चत्वार आश्रमाः” इति तत्र पाठादिति—उच्यते—हन्त तर्हि भारतेऽपि तत्रत्यवचनमूलैव पाराशर्यस्मृतिरिति शक्यते वक्तुम् ॥ पौरुषेयत्वापौरुषेयत्वयोः वेदभारतयोस्तौल्यम्
यथा प्रजापतिर्वेदे तत्र तत्र प्रशस्यते ।
भारतेऽपि तथा व्यासः तत्र तत्र प्रशस्यते ॥ २ ॥

अथ प्रणेता वेदस्य न दृष्टः केनचित् क्वचित् ।
द्वैपायनोऽपि किं दृष्टः भवत्पितृपितामहैः ॥ ३ ॥

सर्वेषामविगीता चेत् स्मृतिः सत्यवतीसुते ।
प्रजापतिरपि स्रष्टा लोके सर्वत्र गीयते ॥ ४ ॥

वेदपौरुषेयत्वासम्भवपूर्वपक्षः
आह—किमिति सदसद्विवेकविकलशाकटिकादिप्रवादविप्रलब्धः11 एवं भ्राम्यसि ? किल स्वल्पमपि कर्म पित्रा मात्रा वोपदिश्यमानं तद्वचनप्रत्ययादनुष्ठीयते । तदयमियान् अनेकक्लेशवित्तव्ययादिनिर्वर्त्यो वैदिकः कर्मकलापः 12 एवमेव तदुपदेशिनमाप्तं संस्मृत्वैव क्रियते इति महान् प्रमादः ॥

13 एवञ्च सति उच्चावचकविरचितजरत्पुस्तकलिखितकाव्यवत् अस्मर्यमाणकर्तृकेण वेदेन व्यवहारानुपपत्तेः अवश्यस्मरणीयः तत्र कर्ता स्यात् । न च कदाचन वेदेषु व्यवहारविच्छेदः सम्भाव्यते, येन 14 तत्कृतं जरत्कूपारामादिष्विव तेषु कर्त्रस्मरणं स्यात् । तस्मादवश्यं स्मर्येत कर्ता । न च संस्मर्यते, स्मर्तुं शक्यते वा ? स्मृतिर्हि भवन्ती तदनुभवमूला भवति । न च मूलेऽपि कर्त्रनुभवः कस्यचिज्जातः, सर्गादेरभावात् । भावे वा कर्तुरशरीरत्वेन दर्शनयोग्यत्वाभावात् ॥ वेदानां पौरुषेयत्वेऽप्यनादित्वमवर्जनीयम्
सशरीरत्वपक्षे वा पुरुषः कोऽपि तादृशः ।
तदानीं दृश्यमानोऽपि वेदं कुर्वन्न दृश्यते ॥ ५ ॥

15 अधीयमाने दृष्टेऽस्मिन् तदा संशेरते जनाः ।
किमेष रचयेद्वेदं उत वाऽन्यकृतं पठेत् ? ॥ ६ ॥

यत्कृतं वा पठेदेषः तस्मिन्नपि हि संशयः ।
भङ्ग्या चेदमनादित्वं उन्मीलदिव16 दृश्यते ॥ ७ ॥

असत्यादिप्रमाणे17 च कर्तृताऽनुभवं प्रति ।
स्मृतिः प्रबन्धसिद्धाऽपि स्पृशत्यन्धपरम्पराम् ॥ ८ ॥

योगिभिर्ग्रहणं कर्तुः इत्येतदपि दुर्वचम् ।
कर्तृता हृदि18 दुर्बोधा कथं गृह्येत तैरपि ? ॥ ९ ॥

योगिभिस्सा गृहीतेति वयमेतन्न19 मन्महे ।
अमन्वानाश्च गच्छेम विस्रब्धास्तत्पथं कथम् ? ॥ १० ॥

वेदात् कर्त्रवबोधे तु स्पष्टमन्योन्यसंश्रयम् ।
ततो वेदप्रमाणत्वं वेदात् कर्तुश्च निश्चयः ॥ ११ ॥

तस्मात् पौर्वापर्यपर्यालोचनारहितयथाश्रुतमन्त्रार्थवादमूला भ्रान्तिरेषा,20 न पुनः परमार्थतः कश्चित् कञ्चित् वेदस्य कर्तारं स्मरति । तस्मात् अकृतका वेदाः; अवश्यस्मरणीयस्यापि कर्तुः अस्मरणात् । न च व्यधिकरणो21 हेतुः; अस्मर्यमाणकर्तृकत्वादित्येवं साधनप्रयोगात् ॥ अस्मर्यमाणकर्तृकत्वात् न वेदानादित्व सिद्धिः
अत्रोच्यते—अपि तत् गुर्वध्ययनपूर्वकत्वं साधनमुपेक्षितं याज्ञिकैः ! अयमभिनवो22 हेतुः अस्मर्यमाणकर्तृकत्वात् इति प्रयुक्तः !

तस्मादस्तु नाम ! नैनान् हेत्बन्तरोपन्यासिनः निगृह्णीमः । अक्षुदकथेयं23 प्रस्तुता ॥

अयमपि अस्मर्यमाणकर्तृकत्वादिति हेतुः किं 24 स्वतन्त्र एवाकर्तृकत्वसिद्धये प्रयुज्यते ? उत अस्मदुपरचितरचनात्वप्रतिघाताय25 ? इति ॥ अनुमानस्य अनुमानेन बाधासम्भवः
तत्र26 न तावदनुमानं अनुमानान्तरपरिपन्थि कथयितुमुचितम्; प्रत्यक्षागमवत्27 अनुमानस्याप्यनुमानबाधकत्वानुपपत्तेः । न हि तुल्यबलयोः अनुमानयोः बाध्यबाधकभावः, तुल्यबलत्वादेव । अतुल्यबलत्वे तु यत्कृतं28 अन्यतरस्य दौर्बल्यं, तत एव तदप्रामाण्यसिद्धेः किमनुमानबाधया ?

तद्विडम्बनार्थं तदभिधानमिति चेत्; तदप्ययुक्तम् । एकत्र धर्मिणि युगपदितरेतरविरोधिधर्मद्वयप्रयोजकहेतुद्वयोपनिपातायोगात् । न हि द्व्यात्मकानि वस्तूनि भवितुमर्हन्ति इत्यवश्यमन्यतरः तत्राप्रयोजकहेतुः । अप्रयोजकत्वादेव तस्यागमकत्वे किं विडम्बनार्थेन हेत्वन्तरेण प्रयुक्तेन । विरुद्धाव्यभिचार्यपि नाम न कश्चिद्धेत्वाभास इति वक्ष्यामः29 [११ आह्निके] ॥ सत्प्रतिपक्षस्थलेऽपि नानुमानेनानुमानस्य बाधः
प्रकरणसमोऽपि न यः कश्चित् सत्प्रतिपक्षो हेतुरिष्यते, अपि तु संशयबीजभूतः अन्यतरविशेषानुपलम्भः भ्रान्त्या हेतुत्वेन प्रयुज्यमानः तथोच्यत इति दर्शयिष्यामः [११ आह्निके] । तस्मात् परोदीरितं हेतुं निराचिकीर्षता वादिना तद्गतपक्षवृत्तितादिधर्मपरीक्षणे मनः30 खेदनीयम् । न हि प्रतिहेत्वन्वेषिणा वृथाऽटाट्या कर्तव्या ॥ रचनात्वहेतुकानुमानस्याप्रयोजकत्वासम्भवः
ननु ! कतरदनयोः साधनयोरप्रयोजकं—रचनात्वात्, अस्मर्यमाणकर्तृकत्वादिति च—उच्यते—रचनात्वमेव प्रयोजकम् । न हि पुरुषमन्तरेण क्वचिदक्षरविन्यास इष्टव्य ॥

भो भगवन्तः सभ्याः ! क्वेदं दृष्टं क्व वा श्रुतं लोके ।
यद्वाक्येषु पदानां रचना 31 नैसर्गिकी भवति ॥ १२ ॥

यदि स्वाभाविकी वेदे पदानां रचना भवेत् ।
पटे32 हि हन्त तन्तूनां कथं नैसर्गिकी न सा ? ॥ १३ ॥

“शन्नो देवीरभिष्टये” [अथ। सं। १-६-१] , “नारायणं नमस्कृत्य” [म। भा। आ। १-१] , “अस्त्युत्तरस्यां दिशि देवतात्मा” [कुमारसं। १-१] इति तुल्ये रचनात्वे क्वचित् कर्तृपूर्वकत्वं, अपरत्र तद्विपर्यय इति महान् व्यामोहः । एवं हि धूमोऽपि कश्चित् अनन्निक इत्यपि स्यात् ॥ वेदस्य पौरुषेयत्वेऽपि न लौकिककाव्याद्यवैलक्षण्यम्
किमिदानीं कुमारसम्भवतुल्योऽसौ वेदः सम्पन्नः ? अहो ! सर्वास्तिकधुर्येण33 वेदप्रामाण्यं साधितं नैयायिकेन !

अलमुपहासेन ! रचनामात्रमेव तुल्यं वेदस्य कुमारसम्भवेन, नान्यत् । न चेयतोपहसितुं युक्तम् । किमस्य शब्दत्वसामान्यं शङ्खशब्दसाधारणं नास्ति ? सत्तासामान्यं वा सर्वसाधारणमिति ॥ वेदस्य पौरुषेयत्वासम्भवशङ्का
ननु ! याः कालिदासादिरचनाः कर्तृपूर्विकाः ।
ताभ्यो विलक्षणैवेयं रचना भाति वैदिकी ॥ १४ ॥

इहाध्ययनवेलायां रूपादेव प्रतीयते ।
अकृत्रिमत्वं वेदस्य भेदैस्तैस्तैरनन्यगैः ॥ १५ ॥

नामाख्यातोपसर्गादिप्रयोगगतयो नवाः34
स्तुतिनिन्दापुराकल्पपरकृत्यादिगीतयः ॥ १६ ॥

शाखान्तरोक्तसापेक्षविक्षिप्तार्थोपवर्णना35
इत्यादयो न दृश्यन्ते लौकिके सन्निबन्धने ॥ १७ ॥

तेनाध्येतृगणाः सर्वे रूपात् वेदमकृत्रिमम् ।
मन्यन्त एव लोके तु पीतं मीमांसकैर्यशः ॥ १८ ॥

वेदा न पठिता यैस्तु त्वादृशैः कुण्ठबुद्धिभिः ।
कार्यत्वं ब्रुवते तेऽस्य रचनासाम्यमोहिताः ॥ १९ ॥

वेदानां पौरुषेयत्वं दुरपह्नवम्
उच्यते—मीमांसकाः यशः पिबन्तु ! पयो वा पिबन्तु ! बुद्धिजाड्यापनयनाय ब्राह्मीघृतं वा पिबन्तु ! वेदस्तु पुरुषप्रणीत एव, नात्र भ्रान्तिः ॥

यथा घटादिसंस्थानात् भिन्नमप्यचलादिषु36
संस्थानं कर्तृमत् सिद्धं वेदेऽपि रचना तथा ॥ २० ॥

यच्चात्र किञ्चिद्वक्तव्यं, तत् पूर्वमेव [पु। ४९१] सविस्तरमुक्तम् ॥ वेदानां रचनावैलक्षण्यात् तत्कर्ताऽपि विलक्षण एव
अपि च यद्विलक्षणेयं रचना, तद्विलक्षण एव कर्ताऽनुमीयताम् ! न पुनस्तदपलापो युक्तः इत्यप्युक्तम् [पु। ५०३] ॥

याश्चैताः निर्विवादसिद्वकर्तृकाः कालिदासादिरचनाः चमत्कारिण्यः, तासामन्योन्यविसदृशं रूपमुपलभ्यत एव ॥

अमृतेनेव संसिक्ताः चन्दनेनेव चर्चिताः ।
चन्द्रांशुभिरिवोन्मृष्टाः कालिदासस्य सूक्तयः ॥ २१ ॥

प्रकटरसानुगुणविकटाक्षररचनाचमत्कारितसकलकविकुलाः बाणस्य वाचः । प्रतिकाव्यं च तानि तानि वैचित्र्याणि दृश्यन्त एव । नामाख्यातादिवैचित्र्यमात्रेण कर्त्रभावो वेदे रूपादेव प्रतीयत इति नूतनेयं वाचोयुक्तिः ॥ अनित्यवस्तुसंयोगादपि वेदाः न नित्याः
अपि च यदि रूपे समाश्वसिति भवतो मनः—तदा आदिमदर्थाभिधानमपि वेदस्य रूपं कथं न परीक्षसे ? “बबरः प्रावाहणिरकामयत” [तै। सं। ७-१-१०] , “कुसुरबिन्द औद्दालकिरकामयत” [तै। सं। ७-२-२] , ऽपुरूरवो मा प्रपतः [ऋ। १०-९५-१५] इति ॥ प्रतिसर्गं वेदानां भिन्नत्वं स्मृत्युक्तम्
प्रतिसर्गं पुनस्तेषां 37 भावात् अनादित्वमिति चेत् प्रतिसर्गं तर्हि वेदान्यत्वमपि भविष्यति । यथोक्तम्—

“प्रतिमन्वन्तरं चैषा श्रुतिरन्याऽभिधीयते” इति ।
रूपादकृत्रिमत्त्वे38 च कल्पना कल्पितैव सा ।
आदिमद्वस्तुबुद्धिस्तु वाचकैरक्षरैः स्फुटैः ॥ २२ ॥

तेषामन्यथाव्याख्यानं39 तु व्याख्यानमेव । पठन्त एव त्वध्येतारः तत आदिमतोऽर्थान् बहून् अवगच्छन्तीति नानादिर्वेदः । तस्मान्न रचनात्वमप्रयोजकम् ॥ वेदे कत्रैस्मरणमसिद्धमेव
कर्त्रस्मरणमेव त्वप्रयोजकम्, असिद्धत्वात्40 । सिद्धमपि वा वेदे कर्त्रस्मरणमन्यथासिद्धम् । वेदकरणकालस्य अतिदवीयस्त्वात्, तत्प्रणेतुश्च पुंसः सकलपुरुषविलक्षणत्वात्, नियतशरीरपरिग्रहाभावात् इदन्तयाऽस्य पाणिनिपिङ्गलादिवत् स्मरणं नास्ति; न तु स नास्त्येव । अनुमानागमाभ्यां तदवगमात् कथं पक्षधर्मतया ग्रहीतुं शक्यते कर्त्रस्मरणम् ?

41 तद्ध्येकपुरुषसम्बन्धि व्यभिचरति । सर्वपुरुषसम्बन्धि तु दुरवगमम् । 42 सर्वे पुमांसः कर्तारं वेदस्य न स्मरन्तीति कथं जानाति भवान् ? न हि तव सकललोकहृदयानि प्रत्यक्षाणि; सर्वज्ञत्वप्रसङ्गात् । न च यत् त्वं न जानासि, तत् अन्योऽपि न जानातीति युक्तम्; 43 अतिप्रसङ्गात् । तस्मादस्मर्यमाणकर्तृकत्वं दुर्बोधमेव ॥ वेदे कर्तृस्मरणमन्तरा प्रामाण्यमेव न निश्चीयेत
अपि च कर्तुरस्मरणे सति सुतरां वेदार्थानुष्ठानं प्रेक्षावतां शिथिलीभवेत् । न ह्यकर्तृक एवोपदेशः सम्भवति । सम्भवन्नपि वा प्रामाण्यनिश्चयनिमित्ताभावात् कथं विस्रम्भभूमिरसौ भवेत् । बाधकाभावमात्राच्च न प्रामाण्यनिश्चयो वचसामित्युक्तं प्राक् [पु। ४८३] । तस्मात् आप्तप्रत्ययादेव निर्विचिकित्सं वेदार्थानुष्ठानं सप्रतिष्ठानं सम्भवति, नान्यथेति । तस्मान्न कर्त्रस्मरणस्य रचनात्वप्रतिपक्षतयोपन्यासः उपपन्नः ॥ कर्त्रस्मरणमात्रात् न वेदस्याकर्तृकत्वसिद्धिः
नापि44 स्वतन्त्रमेवेदं कर्त्रभावसाधनं भवितुमर्हति । अनुपलब्धिरियमनेन प्रकारेण किलोच्यते । साऽनुपपन्ना, अनुमानेन कर्तुरुपलम्भात् । अनुमानेनापि45 यदुपलब्धं तदुपलब्धमेव भवति ॥ वेदसकर्तृकत्वानुमानस्याबाधितत्वम्
ननु46 कर्त्रभावस्मरणबाधितत्वात् अनुमानमिदं अयुक्तम्— इतरेतराश्रयप्रसङ्गात्—47 अनुपलब्धौ 48 सिद्धायां अनुमाननिरासः, अनुमाननिरासे च सति अनुपलब्धिसिद्धिः ॥

अनुमानप्रामाण्येऽपि 49 समानो दोष इति चेत्—न—तस्य 50प्रतिबन्धमहिम्ना51 प्रामाण्यसिद्धेः । न हि तस्यानुपलब्धिनिरासापेक्षं प्रामाण्यम् ॥ सकर्तृकत्वानुमानेन कर्त्रस्मरणं बाध्यत एव
तत्रैतत्52 स्यात्—न वयं कर्त्रभावे53 प्रामाण्यं ब्रूमः । सकललोकपदार्थव्यवहारिणो हि मीमांसकाः । परं तु वेदस्य पौरुषेयतां ब्रुवाणं प्रमाणं पृच्छामः । तच्चास्य नास्तीति बलादनुपलब्ध्या तदभावनिश्चयो व्यवतिष्ठत इति—स्यादेतदेवम्—यद्यनुमानं न स्यात् । उक्तं च “रचनात्वात्” इत्यनुमानम् ॥ रचनात्वहेतोः सकर्तृत्वसाधने पर्याप्तत्ववर्णनम्
यत्पुनरवादि—वेदेषु पुरुषस्य कर्तृत्वमशक्यं ग्रहीतुमिति [पु। ५१३] —तदप्यसाधु—परोक्षस्य कुविन्दादेरभिनवप्रावरकपटादौ कार्ये कथं कर्तृताऽवगम्यते ?

पटादिरचनां दृष्ट्वा तस्य चेत् साऽनुमीयते ।
वेदेऽपि रचनां दृष्ट्वा कर्तृत्वं तस्य गम्यताम् ॥ २३ ॥

ईश्वरस्य सशरीरस्य वेदोपदेष्टृत्वेऽपि न काऽपि हानिः
शरीरपरिग्रहमन्तरेण प्राणिनामुपदेशस्य कर्तुमशक्यत्वात् कदाचिदीश्वरः54 शरीरमपि गृह्णीयादिति कल्प्यते । नियतशरीरपरिग्रहाभावाच्च55 व्यासादिवदसौ न स्मर्यते । ततश्च—

अद्य56 सद्यः कविः काव्ये यथा कर्तेति मीयते ।
तथा तत्कालजैः पुम्भिः सोऽपि कर्तेति मास्यते ॥ २४ ॥

यथा परकृता शङ्का तस्मिन्57 काव्ये व्यपैति ते ।
वेदेऽप्यन्यकृता शङ्का तथा तेषां58 व्यपैष्यति ॥ २५ ॥

परोक्षमनुमानेन59 यच्च बुध्यामहे वयम् ।
प्रत्यक्षं योगिनां तच्चेत्युक्तं प्रत्यक्षलक्षणे ॥ २६ ॥

प्रत्यक्षमनुमानं च तदेवं कर्तृतामितौ ।
मूलप्रमाणमस्तीति स्मृतौ60 नान्धपरम्परा ॥ २७ ॥

मन्त्रार्थवादमूलत्वं तत एव न तत्स्मृतेः ।
यथोदितानुमानादिप्रमाणान्तरसम्भवात् ॥ २८ ॥

ईश्वरस्यानुमानिकत्वेन नान्योन्याश्रयादिः
यदपि इतरेतराश्रयमभाषि [पु। ४९१] —पुरुषोक्ते वेदेप्रामाण्यं, वेदप्रामाण्यात् पुरुषसिद्धिरिति—तदपि न सम्यक्; पूर्वं [पु। ५०३] परिहृतत्वात् । अनुमानात् प्रसिद्धे कर्तरि वेदवाक्यैः तत्प्रतीतेरुपोद्बलनमिष्यते,61 न त्वागमैकशरण एव कर्त्रवगमः । उक्तं च पूर्वमपि [पु। ४९१] पृथिव्यादिना कार्येण कर्तुरनुमानम् ॥ जगत्कर्तुरेव वेदोपदेष्टृत्वम्
किं येनैव कर्त्रा पृथिव्यादिकार्यं निर्मितं, तेनैव वैदिक्यो रचना निर्मिताः ? इति चेत्—ओमित्युच्यते । किमत्र प्रमाणम् ? इति चेत्—

उच्यते, तर्हि सर्वज्ञः स्रष्टुं प्रभवतीदृशम् ।
विचित्रं प्राणिभृत्कर्मफलभोगाश्रयं जगत् ॥ २९ ॥

तत्कर्मफलसम्बन्धविदा 62 तदुपदेशिनः ।
तेनैव वेदा रचिताः इति नान्यस्य कल्पना ॥ ३० ॥

63 एकेनैव च सिद्धेऽर्थे द्वितीयं कल्पयेम किम् ?
अनेककल्पनाबीजं न हि किञ्चन विद्यते ॥ ३१ ॥

वेदोपदेष्ठ्रः एकत्वम्
जगत्सर्गे तावत्, एक एवेश्वर इष्यते न द्वौ, बहवो वा । भिन्नाभिन्नाशयकल्पने, एकत्र64 वैयर्थ्यात् । इतरत्र65 व्यबहारवैशसप्रसङ्गेन, तत एकस्येश्वरत्वविघातात् । तथा हि—

अनेकेश्वरवादो हि नातीव हृदयङ्गमः ।
ते चेत् सदृशसङ्कल्पाः, कोऽर्थो बहुभिरीश्वरैः ? ॥ ३२ ॥

सङ्कल्पयति यदेकः शुभमशुभं वाऽपि सत्यसङ्कल्पः ।
तत्सिध्यति तद्विभवात् इत्यपरस्तत्र किं कुर्यात् ॥ ३३ ॥

भिन्नाभिप्रायतायां तु कार्यविप्रतिषेधतः ।
नूनमेकः स्वसङ्कल्पविहत्याऽनीश्वरो भवेत् ॥ ३४ ॥

एकस्य किल सङ्कल्पः राजाऽयं क्रियतामिति ।
हन्यतामिति चान्यस्य तौ समाविशतः कथम् ॥ ३५ ॥

राज्यसङ्कल्पसाफल्ये विहता बधकामना ।
तस्याः सफलतायां वा राज्यसङ्कल्पविप्लवः ॥ ३६ ॥

तेन चित्रजगत्कार्यसंवाहानुगुणाशयः ।
एक एवेश्वरः स्रष्टा जगतामिति साधितम् ॥ ३७ ॥

एवं जगत्सर्गवत्66 स एव वेदानामप्येकः प्रणेता भवितुमर्हति । नानात्वकल्पनायां प्रमाणाभावात्, कल्पनागौरवप्रसङ्गाच्च ॥

तेन यदुच्यते—

नन्वेकः सर्वशाखानां कर्तेत्यवगतं कुतः ?
बहवो67 बहुभिर्ग्रन्थाः कथं न रचिता इमे ? ॥ ३८ ॥

इति—तत्परिहृतं भवति ॥ वेदानामेककर्तृकत्वे प्रमाणान्तरम्
अतश्च एककर्तृका वेदाः, यतः परस्परव्यतिषक्तार्थोपदेशिनो दृश्यन्ते । 68 एकमेव हि कर्म वेदचतुष्टयोपदिष्टैः पृथग्भूतैरप्येकार्थ समवायिभिरङ्गैः अन्वितं प्रयुज्यते । तत्र हि हौत्रं ऋग्वेदेन, यजुर्वेदेनाध्वर्यवं, औद्गात्रं सामवेदेन, ब्रह्मत्वमथर्ववेदेन च क्रियते । पैप्पलादिशाखाभेदोपदिष्टं च तत्तदङ्गजातं तत्र तत्रापेक्ष्यते । तत्र सर्वशाखाप्रत्ययं एकं कर्मेत्याहुः । एतच्च अदूर एव अग्रे [पु। ५९०] निर्णेष्यते ॥

एकाभिप्रायबद्धत्वं तेन सर्वत्र गम्यते ।
भवेद्भिन्नाशयानां हि कथमेकार्थमीलनम् ? ॥ ३९ ॥

समस्यापूरणादावपि कर्त्रैक्यमेव
काव्यसमस्यापूरणे का वार्ता ? इति चेत्—

तत्रापि प्रथमस्यैव कवेस्तद्वस्तुदर्शनात्69
तदभिप्रायवेदी तु सोऽन्यस्तमनुवर्तते ॥ ४० ॥

अन्यथाऽनन्वितं काव्यं स्याद्विश्ववसुकाव्यवत्70
अन्वितत्वे तु सा नूनं आद्यस्यैव कवेर्मतिः ॥ ४१ ॥

71 इहाप्येकाशयाभिज्ञद्वितीयेश्वरकल्पने ।
एकाभिप्रायतैव स्यात्, किं च तत्कल्पने फलम् ? ॥ ४२ ॥

तस्मादेक एव कर्ता सर्वशाखानाम् । काठकादिव्यपदेशस्तु 72 प्रकृष्टाध्ययननिबन्धनो भविष्यतीति भवद्भिरप्युक्तम् ॥ सर्वशाखाप्रत्ययन्यायस्य युक्तत्वकथनम्
73 अपि च यथा तरोर्विक्षिप्ताः शाखा भवन्ति, न च कृत्स्नं पुष्पफलपत्रमेकस्यां शाखायां सन्निहितं भवति, किन्तु कस्याञ्चित्कस्याञ्चित्; एवं वेदस्यापि शाखाः पृथगङ्गकर्मोपदेशिन्यो विक्षिप्ताश्च ॥

74 तासां च वृक्षशाखानां एकस्माज्जन्मबीजतः ।
तथैव सर्वशाखानां एकस्मात् पुरुषोत्तमात् ॥ ४३ ॥

वेदा ईश्वरोपदेशरूपाः
कर्ता य एव जगतामखिलात्मवृत्ति-
कर्मप्रपञ्चपरिपाकविचित्रताज्ञः ।
विश्वात्मना 75 तदुपदेशपराः प्रणीताः
तेनैव वेदरचना इति युक्तमेतत् ॥ ४४ ॥

आप्तं तमेव भगवन्तमनादिमीशं
आश्रित्य विश्वसिति वेदवचस्सु लोकः ।
तेषामकर्तृकतया न हि कश्चिदेवं
विस्रम्भमेति मतिमानिति वर्णितं प्राक् ॥ ४५ ॥

एवञ्च पदवाक्यरचनादौ तावत् वेदेषु पुरुषापेक्षित्वमुपपादितम् ॥ शब्दार्थसङ्केतकरणार्थमीश्वरापेक्षाऽस्त्येव
76 यदपि सम्बन्धकरणे पुरुषानपेक्षत्वमुच्यते—चित्रभानोरिव दहनशक्तिः शब्दस्य नैसर्गिकी वाचकशक्तिः । व्युत्पत्तिस्तु वृद्धेभ्य एव व्यवहरमाणेभ्य उपलभ्यत इति किमत्र पुरुषः करिष्यति ? इति—तदप्यघटमानम्—पुरुषपरिघटितसमयसम्बन्धव्यतिरेकेण शब्दादर्थप्रत्ययानुपपत्तेः ॥ प्रसङ्गात् शब्दार्थयोः सम्बन्धाक्षेपः
ननु ! नैव शब्दस्यार्थेन सम्बन्धः कश्चिदस्ति । कस्येदं पुरुषसापेक्षत्वं वा, निरपेक्षत्वं वा चिन्त्यते ?

न हि शब्दार्थयोः कुड्यबदरयोरिव संयोगस्वभावः, तन्तुपटयोरिव समवायात्मा वा सम्बन्धः प्रत्यक्ष उपलभ्यते । तन्मूलत्वाच्च सम्बन्धान्तराण्यपि न सन्ति । तदुक्तं “मुखे शब्दमुपलभामहे, भूमावर्थम्” इति ॥

नाप्यनुमीयते शब्दस्यार्थेन सम्बन्धः; क्षुरमोदकशब्दोच्चारणे मुखस्य पाटनपूरणानुपलम्भात् । न च शब्ददेशे अर्थः सम्भवति, न चार्थदेशे शब्दः; स्थानकरणप्रयत्नानां तद्धेतूनां घटाद्यर्थप्रदेशेऽनुपलम्भात् । व्यापकत्वं तु शब्दस्य प्रतिषिद्धमेव ॥ शब्दार्थयोस्सम्बन्धे विकल्पाः
उच्यते—न संश्लेषलक्षणः शब्दार्थसम्बन्धः अस्माभिरभ्युपगम्यते । 77 तत् किं कार्यकारणनिमित्तनैमित्तिकाश्रयाश्रयिभावादयः शब्दस्यार्थेन सम्बन्धाः ? एतेऽपि न तराम् ॥

न तर्हि तस्य कश्चिदर्थेन सम्बन्धः ? न नास्ति शब्दस्यार्थेन सम्बन्धः, प्रत्ययनिमित्तहेतुत्वात्; धूमादिवत् ॥

तत् किं शब्दार्थयोरविनाभावः सम्बन्धः ? सोऽपि नास्ति; एवं हि शब्दोऽनुमानमेव स्यात् ॥

कस्तर्हि ? समय इति ब्रूमः ॥ समयाख्यशब्दार्थसम्बन्धस्वरूपशोधनम्
कोऽयं समयो नाम ? अभिधानाभिधेयनियमनियोगः समय उच्यते ॥

78 यद्येवं किमनाशङ्कनीयसंश्लेषपरिचोदनेन ? तद्दूषणेन च ?— उच्यते—शब्दार्थाभेदवादिनां हि वैयाकरणानां एष संश्लेषरूपः सम्बन्धो बलादापततीति79 त एव प्रतिक्षेप्यन्ते ॥ शब्दार्थयोरविनाभाव एव सम्बन्ध इत्याक्षेपः
आह—यदि वैयाकरणवर्णितो न संश्लेष80 उपपत्तिमान्, समयोऽयमनुपपन्न एव । स हि पुरुषकृतः सङ्केतः । न च पुरुषेच्छया वस्तुनियमोऽवकल्पते, तदिच्छाया 81 अव्याहतप्रसरत्वात् ॥

अर्थोऽपि82 किमिति वाचको न भवति, शब्दश्च वाच्यः । न चैवमस्ति—दहनमनिच्छन्नपि पुरुषः धूमात् न तं प्रत्येति; जलं वा तत इच्छन्नपि प्रतिपद्यते । तत्र यथा धूमाग्न्योः नैसर्गिक एवाविनाभावो नाम सम्बन्धः, ज्ञप्तये तु भूयोदर्शनादि निमित्तमाश्रीयते एवं शब्दार्थयोः सांसिद्धिक एव शक्त्यात्मा सम्बन्धः, तद्व्युत्पत्तये तु वृद्धव्यवहारप्रसिद्धिसमाश्रयणम् ॥ शब्दस्य ज्ञातस्य सतः अर्थबोधजनकत्वम्
स्वाभाविके सम्बन्धे सति दीपादिवत् किं तद्व्युत्पत्त्यपेक्षणेनेति चेत्—न—शब्दस्य ज्ञापकत्वात् । ज्ञापकस्य धूमादेः एतत् रूपं, यत् सम्बन्धग्रहणापेक्षं स्वज्ञाप्यज्ञापकत्वम् । उद्योतादयस्तु प्रत्यक्षसामग्र्यन्तर्गतत्वात्83 न व्युत्पत्त्यपेक्ष्या भवन्ति । शक्तिस्तु नैसर्गिकी यथा रूपप्रकाशिनी दीपादेः, तथा शब्दस्यार्थप्रतिपादने । तस्मात् न समयमात्रात् अर्थप्रतिपत्तिः ॥ समयस्य अर्थनिष्ठत्वाभावेन शब्दार्थसम्बन्धत्वासम्भवः
अपि च अभिधानाभिधेयनियमनियोगरूपः समयः ज्ञानमेव, न ततोऽर्थान्तरम् । ज्ञानं चात्मनि वर्तते, न च शब्दार्थयोरिति न तयोः सम्बन्धः स्यात् ॥ समयेन शाब्दबोधनिर्वाहासम्भवः
किञ्च समयः क्रियमाणः, प्रत्युच्चारणं वा क्रियते ? प्रतिपुरुषं वा ? सर्गादौ वा सकृदीश्वरेण ? इति ॥

प्रत्युच्चारणं प्राक्तन एव क्रियते ? नूतनो वा ?

नवस्यतावत् क्रियमाणस्य कथमर्थप्रत्यायनसामर्थ्यमवगम्यते84 ? तदवगतौ वा किं85 तत्करणेन ? पूर्वकृतस्य तु कृतत्वादेव पुनः करणमनुपपन्नम् । एकस्य वस्तुनः ज्ञप्तिरसकृदावर्तते, नोत्पत्तिः ॥

प्रतिपुरुषमपि सम्बन्धः भिन्नः ? अभिन्नो वा क्रियते ?

भेदपक्षे कथमेकार्थसञ्ज्ञानम्—गोशब्दस्य86 सास्रादिमानर्थः, केसरादिमानश्वशब्दस्य ? इति ॥

अभेदेऽपि तथैव कृतस्य करणायोगात् ज्ञानमेव सम्बन्धस्य करणम् ॥

सर्गादावपि सकृत्सम्बन्धकरणमयुक्तम्; तथाविधकालासम्भवादेव । न हि शब्दार्थव्यवहाररहितः कश्चित्काल उपपद्यते । तस्मान्नित्यस्यैव सम्बन्धस्य लोकतो व्युत्पत्तिः, न पुनः करणम् ॥ शब्दार्थयोः स्वाभाविकसम्बन्धपक्षस्य निर्दुष्टत्वम्
व्युत्पत्तिपक्षं च न करणपक्षाभिहिता दोषाः स्पृशन्ति, प्रत्यक्षसिद्धत्वात् । प्रत्यक्षं हीदमुपलभ्यते । वृद्धानां हि स्वार्थे व्यवहरमाणानां उपशृण्वन्तो बालाः ततस्ततः शब्दात् तं तमर्थं प्रतियन्ति । तेऽपि वृद्धा यदा बाला आसन्, तदा अन्येभ्यः वृद्धेभ्यः तथैव प्रतिपन्नबन्तः । तेऽप्यन्येभ्य इति नास्त्यादिस्संसारस्यति ॥ समयपक्षेऽपि शब्दार्थयोस्सम्बन्धस्य स्वाभाविकत्वमवर्जनीयम्
अपि च समयमात्रशरणः शक्तिशून्यः शब्दः कथमक्षिनिकोचहस्तसञ्ज्ञादिभ्यः87 मिद्येत ? स हि तदानीं 88 कशाङ्कुशप्रतोदाभिघातस्थानीय एव भवेत् । तथा च शब्दादर्थं प्रतिपद्यामह इति लौकिको व्यपदेशो बाध्येत, समयादर्थं प्रतिपद्यामह इति स्यात् । समयपक्षे च 89 यदृच्छाशब्दतुल्यत्वं सर्वशब्दानां प्राप्नोति । तेन गवाश्वादिशब्दानां नियतविषयत्वं न स्यात् ॥ देशभेदेनार्थभेदः न समयाधीनः
यत्पुनरुच्यते—“जातिविशेषे चानियमात्” [न्या। सू। २-१-५७] समयरूपः सम्बन्ध इति—जातिशब्देनात्र90 देशो91 विवक्षितः । किल क्वचिद्देशे कश्चिच्छब्दः देशान्तर प्रसिद्धमर्थमुत्सृज्य ततोऽर्थान्तरे वर्तते । यथा 92 चोरशब्दस्तस्करवचनः, ओदने दाक्षिणात्यैः प्रयुज्यते । एतच्च समयपक्षे युज्यते, नित्ये तु सम्बन्धे कथं तदर्थव्यभिचार इति—तदप्ययुक्तम्—सर्वशब्दानां सर्वार्थप्रत्यायनशक्तियुक्तत्वात् क्वचिद्देशे केनचिदर्थेन व्यबहारः ॥

अत एव चानवगतसम्बन्धे श्रुते सति सन्देहो भवति—“कमर्थं प्रत्याययितुमनेनायं शब्दः प्रयुक्तः स्यात्” इति । असत्यां हि शक्तौ अकृतसमये निरालम्बना प्रत्यायकत्वाऽऽशङ्केति ॥ आर्यप्रसिद्धार्थस्यैव ग्रहणं युक्तम्
अथवा आर्यदेशप्रसिद्ध एव शब्दानामर्थः, इतरस्तु म्लेच्छजनसम्मतोऽनादरणीय एव । तस्मात् समयपक्षस्यातिदौर्बल्यात् अकृत्रिम एव शब्दार्थयोः सम्बन्ध इति न तत्र पुरुषस्य प्रभविष्णुता । शब्दार्थयोः सम्बन्धः समयातिरिक्तः वक्तुं न शक्यः इति सिद्धान्तः
अत्रोच्यते—न नित्यः सम्बन्ध उपपद्यते; शब्दवत् अर्थवच्च तृतीयस्य तस्य प्रत्यक्षादिना प्रमाणेन अप्रतीयमानत्वात् ॥ शक्तेः शब्दार्थसम्बन्धरूपत्वासम्भवः
ननु ! शक्तिरूपः सम्बन्ध इत्युक्तम् । शक्तिश्च तदाश्रितेति कथं धर्म्यन्तरवत् पृथक्तया प्रतीयेत ?—नैतत्साम्प्रतम्—स्वरूपसह कारिव्यतिरिक्तायाः शक्तेः सूक्ष्मायाः प्रागेव [पु। १०७-११४] विस्तरतः प्रतिक्षिप्तत्वात् । न च शक्तिः प्रत्यक्षगम्या; द्रव्यस्वरूपवदनुपलम्भात् । नानुमेया; कार्याणामन्यथाऽपि घटमानत्वात् । कल्पयित्वा च शक्तिं अपरिहार्यः93 समयः; समयमन्तरेणार्थप्रतिपत्तेरसिद्धेः । सिद्धे च समये तत एवार्थसिद्धेः किं नित्यसम्बन्धाश्रयणेन ? समयस्य सम्यन्धत्वे अव्यवस्थापरिहारः
यत्तूक्तम्—समयस्य पुरुषेच्छाधीनत्वात्, तस्याश्च अव्याहतप्रसरत्वात् वाच्यवाचकव्यत्ययः स्यात् इति [पु। ५९२] —तदयुक्तम्— शक्त्यभावे94 शब्दस्यैव वाचकत्वे योग्यत्वात् । का पुनः शक्त्यभावे योग्यताऽस्येति चेत्; योऽयं गत्वादिजातियोगः क्रमविशेषोपकृतः । गत्वौत्वादिसामान्यसम्बन्धो95 हि यस्य भवति स वाचकत्वे योग्य इति, इतरस्तु वाच्यत्वे । यथा द्रव्यत्वाद्यविशेषेऽपि वीरणत्वादिसामान्यवतां कटनिष्पत्तौ, तन्तुत्वादिसामान्यवतां च पटनिष्पत्तौ । न च तत्र शक्तिरस्तीत्युक्तम् । न च कारणे कार्यं सदिति साङ्ख्यैरिव भवद्भिरिष्यते । तस्यामसत्यामपि शक्तौ सामान्यविशेषसम्बन्धस्य नियामकत्वात् न वाच्यवाचकयोर्व्यत्यय इति न शक्तिरूपः शब्दार्थयोः सम्बन्धः ॥ शब्दार्थयोः सम्बन्धस्याविनाभावरूपत्वासम्भवः
न च तयोरविनाभावो धूमाग्न्योरिव सम्बन्धः । तत्र हि सम्बन्धः प्रतीयमानः एवं प्रतीयते “धूमोऽग्निं विना न भवति” इति । इह पुनः “अयमस्मात् प्रतीयते” इति । एतावत्येव व्युत्पत्तिपर्यवसानम् । अत एव अवगतिपूर्विकैवावगतिरिहेत्यनुमानात्96 शब्दस्य भेद उक्तः ॥

प्रकाशकत्वमपि शब्दस्य समयप्रसादोपनतमेव, न स्वाभाविकम् । सांसिद्धिके हि तथात्वे भ्रमित्वादिप्रयुक्तात्, अन्यतो वा यतः कुतश्चित् अभिनवादपि दीपादिव शब्दादर्थप्रतीतिः स्यात् ॥ शब्दार्थसम्बन्धस्य व्याप्त्याख्यसम्बन्धाद्विलक्षणत्वम्
यत्तु नैसर्गिकेऽपि प्रकाशकत्वे शब्दस्य धूमादेरिव ज्ञापकत्वात् सम्बन्धग्रहणसापेक्षत्वमुक्तम् [पु। ५९३] —स एष विषम उपन्यासः । न हि धूमादेः प्रत्यायकत्वं स्वाभाविकम्, अनलाविनाभावित्वं तु तस्य निजं बलम् । तत्र चागृह्यते तस्मिन् प्रतीतिरेव न जायते इति युक्तं तद्ग्रहणं प्रतीत्यर्थम् । इह तु प्रतीतिशक्तिरेव स्वाभाविकी भवताऽभ्युपगम्यते । सा चेत् स्वाभाविकी, किं व्युत्पत्त्यपेक्षणेन ? इति97 ॥ शब्दार्थसम्बन्धस्य अर्थात् समयरूपत्वे पर्यवसानम्
यदि चोच्यते—प्रत्यायक इति प्रत्ययं98 दृष्ट्वाऽवगच्छामः, न प्रथमश्रवण इति । यावत्कृत्वः श्रुतेन “इयं सञ्ज्ञा, अयं सञ्ज्ञी” इत्यवगम्यते, तावत्कृत्वः श्रुतादर्थावगम इति—सोऽयं समयोपयोग एव कथितो भवति । सञ्ज्ञासञ्ज्ञिसम्बन्धो हि समय एवोच्यते । तदुपयोगमन्तरेण प्रत्यायकत्वानवगमात् न स्वाभाविकी शक्तिः ॥ समयस्य विषयनिष्ठत्वोपपत्तिः
यत्त्वभ्यधायि—समयस्य ज्ञानात्मकत्वात् आत्मनि वृत्तिः, न शब्दार्थयोरिति [पु। ५९३] —एतदप्यचतुरश्रम्—तदाश्रयत्वाभावेऽपि ज्ञानस्य तद्विषयत्वोपपत्तेः99 ॥ शाब्दबोधस्य समयाधीनत्वेऽपि शब्दस्यैव तत्र हेतुत्वम्
यदप्यभाषणे—समयमात्रशरणे सृणिप्रतोदनोदननिर्विशेषे100 शब्दे शब्दादर्थं प्रतिपद्यामह इति व्यपदेशः न स्यादिति [पु। ५९४] —तदपि यत्किञ्चित् । नैसर्गिकशक्तिपक्षेऽपि “शक्तेरर्थं प्रतिपद्यामहे, न शब्दात्” इति व्यपदेशः स्यात् । “अविनाभावादग्निं101 प्रतिपद्यामहे, न धूमात्” इति स्यात् । तदङ्गत्वादविनाभावादेः102 न तथा व्यपदेश इति चेत्; तदितरत्रापि समानम् ॥

धूमे हि व्याप्तिपूर्वत्वं शब्दे समयपूर्वता ।
नानयोस्तदपेक्षायां करणत्वं विहन्यते ॥ ४६ ॥

समयस्य शब्दार्थसम्बन्धत्वे लोकव्यबहारोऽपि प्रमाणम्
अपि च लौकिको व्यपदेशः समयपक्षसाक्षितामेव भजते । देवदत्तेवोक्तं “अमुतः शब्दादमुमर्थं प्रतिपद्यस्वेति” इत्येवं हि व्यपदिशति लोकः । तस्मात् समय एव ॥

अतश्चैवं देशान्तरे सङ्केतवशेन तत103 एव शब्दादर्थान्तरप्रतिपत्तिः104 ॥ सर्वशब्दानां सर्वार्थप्रत्यायनश क्तमत्त्वं न घटते
ननु ! अत्रोक्तं सर्वे शब्दाः सर्वार्थप्रत्यायनशक्तियुक्ता इति केनचिदर्थेन क्वचिद्व्यवहार इति [पु। ५९५] —तदेतदयुक्तम्—शक्तीनां भेदाभेदविकल्पानुपपत्तेः । न शब्दस्वरूपात् भिन्नाः शक्तयः; तथाऽनवभासात् । अव्यतिरेके च एकस्माच्छब्दादनन्यत्वात् परस्परमव्यतिरेकस्तासां स्यात्105 । न च भिन्नकार्यानुमेया भिन्नाः शक्तयः; कार्यभेदस्यान्यथाऽप्युपपत्तेः106 । सर्वशक्तियोगे च सर्वार्थप्रत्ययप्रसङ्गः107 । समयोपयोगो नियामक इति चेत्; स एवास्तु किं शक्तिभिः ? सादृश्यमेवार्थसन्देहकारणम्, न तु पदानां सर्वशक्तिमत्त्वम्
यदप्यगादि—शब्दश्रवणे सति सर्वार्थविषयसन्देहदर्शनात् सर्वत्र तस्य शक्तिः कल्प्यत इति [पु। ५९५] —तदप्यसारम्—न हि शक्तिकृतः सन्देहः, किन्तु गत्वादिवर्णसामान्यनिबन्धनः । तथा च गत्वादिजातिमतां वर्णानां अर्थे वाचकत्वमवगतम् । “अमी तज्जातियोगिनो वर्णाः कस्यार्थस्य वाचकाः स्युः ?” इति भवति सन्देहः ॥ म्लेच्छजनप्रसिद्धार्थस्यापि कुत्रचित् ग्रहणं मीमांसकसम्मतम्
यत्पुनरवादि—स एव शब्दस्यार्थः, यत्रैनमार्याः प्रयुञ्जत, न म्लेच्छजनप्रसिद्ध इति [पु। ५९५] —तदेतत् कथमिव शपथमन्तरेण प्रतिपद्येमहि । न हि म्लेच्छदेशेऽपि तदर्थप्रत्ययो न जायते, बाध्यते वा, सन्दिग्धो वेति कथं न शब्दार्थः ?

आर्यप्रसिद्धिर्बाधिकेति चेत्; आर्यप्रसिद्धेरपि म्लेच्छप्रसिद्धिः कथं न बाधिका ? अक्षादिवच्च108 विकल्प्यमानार्थोपपत्तेः व्यवस्थितविषय एव विकल्पो भविष्यति ॥

पिकनेमतामरसादिशब्दानां109 च भवद्भिः म्लेच्छप्रयोगात् अर्थनिश्चय आश्रित एव । अवेष्ट्यधिकरणे [जै। सू। २-३-३] राजशब्दं आन्ध्रप्रसिद्धेऽर्थे110 वर्णितवन्तो भवन्त इति अलमवान्तरचिन्तनेन । तस्मात् समय एव सम्बन्ध इति युक्तम् । तदुक्तं “जातिविशेषे चानियमात्” [न्या। सू। २-१-५७] इति ॥ सर्गादौ सकृदेव शब्दानां समयकरणम्
अथ यदुक्तं—समयः प्रत्युच्चारणं, प्रतिपुरुषं, सर्गादौ सकृत् क्रियते ? इति [पु। ५९३] —प्रत्युच्चारणं, प्रतिपुरुषं च तत्करणं अनभ्युपगतमेव दूषितम् । सर्गादौ सकृदेव समयकरणमिति नः पक्षः ॥

अत एव न सर्वशब्दानां यदृच्छातुल्यत्वम् । केषाञ्चिदेव शब्दानां अस्मदादिभिरद्यत्वे सङ्केतकरणात् तत एव यदृच्छाशब्दा उच्यन्ते । सर्गादिश्च समर्थित एव [पु। ५१०] । ईश्वरसिद्धावप्यविकलमनुमानमुपन्यस्तम् [पु। ४९१-५१२] ॥ पूर्वपक्षिसिद्धान्तिनोः विशेषः
एष एव चावयोर्विशेषः—यदेष शब्दार्थसम्बन्धव्यबहारः तवानादिः, मम तु जगत्सर्गात् प्रभृति प्रवृत्त इति । अद्यत्वे तु शब्दार्थसम्बन्धव्युत्पत्तौ तुल्य एवावयोः पन्थाः । तत्रापि त्वयं विशेषः— यत् तव शक्तिपर्यन्ता व्युत्पत्तिः, मम तु तद्वर्जमिति111 ॥ शक्तेः शब्दार्थसम्बन्धत्वे लोकानुभवविरोधः
तथा चेयमियती व्युत्पत्तिः लोके दृश्यते—यत् अयमस्य वाच्यः, अयमस्य वाचक इति, न पुनः शक्तिपर्यन्ता व्युत्पत्तिंरस्ति । तथा हि—यत्र शृङ्गग्राहिकया शब्दमर्थं च निर्दिश्य सम्बन्धः क्रियते, तत्रेयन्तमेवैनं क्रियमाणं पश्यामः—अयमस्य वाच्यः, अयमस्य वाचक इति ॥

यत्रापि च वृद्धेभ्यः व्यवहरमाणेभ्यः व्युत्पद्यते, तत्रापीयदेवासौ जानाति—अयमर्थः अमुतः शब्दात् अनेन प्रतिपन्न इति, न त्वन्याऽस्य काचिच्छक्तिरस्तीति । इयत्यैव च व्युत्पत्त्या शब्दादर्थप्रत्ययोपपत्तेः, अस्याश्चापरिहार्यत्वात्, अधिककल्पनाबीजाभावाच्च न नित्यः शब्दार्थसम्बन्धः ॥ सम्बन्धग्रहणविषये सिद्धान्तस्य मीमांसकमताद्विशेषः
अत एव च 112 “सम्बन्धः त्रिप्रमाणकः” [श्लो। वा। १-१-५ सम्ब। परि। १४१] इति यत् त्वयोच्यते तदस्माभिर्न मृष्यते । “शब्दवृद्धाभिधेयांश्च प्रत्यक्षेणात्र पश्यति” इति सत्यम् । “श्रोतुश्च प्रतिपन्नत्वं अनुमानेन चेष्टया” इत्येतदपि सत्यम् । “अन्यथाऽनुपपत्त्या तु वेत्ति शक्तिं द्वयात्मिकाम्” इत्येतत्तु न सत्यम्; अन्यथाऽप्युपपत्तेरित्युक्तत्वात् । तस्मात् द्विप्रमाणकः113 सम्बन्धनिश्चयः, न त्रिप्रमाणकः ॥

तदेवं शब्दस्य नैसर्गिकशक्त्यात्मकसम्बन्धाभावात् ईश्वरविरचितसमयनिबन्धनः शब्दार्थव्यवहारः नानादिः ॥ शब्दार्थयोस्सम्बन्धस्यानित्यत्वेऽनवस्थापरिहारः
ननु ! ईश्वरोऽपि सम्बन्धं कुर्वन् अवश्यं केनचित् शब्देन करोति; तस्य केन कृतः सम्बन्धः ? शब्दान्तरेण चेत्, तस्यापि केन कृतः ? तस्यापि केन ? इति न कश्चिदवधिः । तस्मादवश्यमनेन सम्बन्धं कुर्वता वृद्धव्यवहारसिद्धाः केचित् अकृतसम्बन्धा एव शब्दा अभ्युपगन्तव्याः । अस्ति114 चेत्, व्यवहारसिद्धिः;115 किमीश्वरेण ? किं वा तत्कृतेन समयेन ? इत्यनादिपक्ष एव श्रेयान्—

उच्यते—

अस्त्रमायुष्मता ज्ञातं विषयस्तु न लक्षितः ।
अस्मदादिषु दोषोऽयं116 ईश्वरे तु न युज्यते ॥ ४७ ॥

नानाकर्मफलस्थानं इच्छयैवेदृशं जगत् ।
स्रष्टुं प्रभवतस्तस्य कौशलं को विकल्पयेत् ॥ ४८ ॥

इच्छामात्रेण पृथिव्यादेरियतः कार्यस्य करणमस्मदादीनां यन्मनोरथपदवीमपि नाधिरोहति, तदपि यतः सम्पद्यते, तस्य कियानयं प्रयासः । तदत्रेश्वरसद्भावे परं विप्रतिपत्तयः । तस्मिंस्तु सिद्धे क एवं विकल्पानामवसरः ? उक्तं च तत्सिद्धौ निरपवादमनुमानम् । वयं तु न कर्तार एव सम्बन्धस्य, यत एवमनुयुज्येमहि ॥

अङ्गुस्यग्रेण निर्दिश्य कञ्चिदर्थं पुरःस्थितम् ।
व्युत्पादयन्तो दृश्यन्ते बालानस्मद्विधा अपि ॥ ४९ ॥

तस्मात् ईश्वरविरचितसम्बन्धाधिगमोपायभूतवृद्धव्यवहारलब्धतद्व्युत्पत्तिसापेक्षः शब्दः अर्थमवगमयतीति सिद्धम् ॥ शब्दार्थयोः सम्बन्धस्यानित्यत्वेऽपि न शब्दानामर्थासंस्पर्शित्वम्
117 न च नित्यसम्बन्धाभावेऽपि शब्दस्यार्थासंस्पर्शित्वं, समयबलेनार्थप्रत्ययस्याबाधितस्य सिद्धेरित्युक्तत्वादित्यलं विस्तरेण ॥ तस्मात् पदे च वाक्ये च सम्बन्धे च स्वतन्त्रता ।
पुरुषस्योपपन्नेति वेदानां तत्प्रणीतता ॥ ५० ॥

तस्मादाप्तोक्तत्वादेव वेदाः प्रमाणम्, न नित्यत्वात् ॥ वेदानामाप्तोक्तत्वनिश्चयासम्भवशङ्का
ननु ! आप्तोक्तत्वस्य हेतोः पक्षधर्मत्वं118 कथमवगम्यते ? न प्रत्यक्षेण क्षोणीधरधर्मत्वमिव धूमस्य वेदानामाप्तप्रणीतत्वमवगम्यते; श्रवणयुगलबललब्धजन्मनि प्रत्यये वेदाख्यशब्दराशेरेव प्रतिभासात् । न चोदात्तादिवत् वर्णधर्मत्वेन आप्तोक्तत्वं गृह्यते ॥

नाप्यनुमानमस्मिन्नर्थे; लिङ्गाभावात् । प्रामाण्ये हि वेदस्य आप्तोक्तत्वं लिङ्गम् । आप्तोक्तत्वानुमितौ तु न लिङ्गान्तरमुपलभामह इति कुतस्त्यः पक्षधर्मत्वनिश्चयः— अनुमानादेव वेदानामाप्तोक्तत्वनिश्चयः
उच्यते—अलं सरस्वतीक्षोदेन ! उक्त एव पक्षधर्मत्वनिश्चयोपायः । तथा हि—

शब्दस्य साधितं तावदनित्यत्वं सविस्तरम् ।
रचनाः कर्तृमत्यश्च रचनात्वादिति स्थितम् ॥ ५१ ॥

कर्ता सर्वस्य सर्वज्ञः पुरुषोऽस्तीति साधितम् ।
कार्येणानुगुणं कल्प्यं निमित्तमिति च स्थितम् ॥ ५२ ॥

प्रत्यक्षादिविसंवादः वेदे परिहरिष्यते119
व्याघातपौनरुक्त्यादिदोषाश्च वचनान्तरे ॥ ५३ ॥

विध्यर्थवादमन्त्राणां उपयोगश्च वक्ष्यते ।
न मात्रामात्रमप्यस्ति वेदे खिञ्चिदपार्थकम् ॥ ५४ ॥

शब्दब्रह्मविवर्तादिकल्पनाश्च पुरोदिताः ।
सर्वाः परिहरिष्यन्ते कार्यत्वस्य विरोधिकाः ॥ ५५ ॥

इत्थं च स्थिते किमन्यदवशिष्टं वेदेष्वाप्तोक्ततानिश्चयस्य ? सोऽयं सकलशास्त्रार्थस्थितौ सत्यां पक्षधर्मत्वनिश्चयः हेतोः आप्तोक्तत्वस्य गीयते ॥

यत्तु प्रत्यक्षमनुमानं वा तन्निश्चयानिमित्तमिति विकल्पितम् [पु। ५७५] —तत्र प्रत्यक्षमास्ताम् ! अनुमानादीनि च यानि रचनात्वादीन्युक्तानि, यानि च परदर्शनद्विंषि120 वक्ष्यन्ते, तानि सर्वाण्याप्तोक्ततायाः पक्षधर्मतासिद्ध्यौपयिकानीत्यलं विस्तरेण ॥ वेदे आप्तोक्तत्वहेतोः व्याप्तिग्रहणप्रकारः
व्याप्तिः पुनरस्य हेतोः आयुर्वेदादिवाक्येषु निश्चीयते । पिप्पलीपटोलमूलादेरप्यौषधस्य इत्थमुपयोगात् इदमभिमतमासाद्यते । अस्य121 च क्षीरचुक्रादिविरोध्यशनस्य122 परिहारादिदमनिष्टमुपशाम्यतीत्यादिष्वायुर्वेदशास्त्रेषु प्रत्यक्षेण तस्यार्थस्य तथा निश्चयात् अर्थाविसंवादित्वं नाम प्रामाण्यं प्रतिपन्नं; तच्चेदमाप्तवादप्रयुक्तम् । अतः यत्राप्तवादत्वं तत्र प्रामाण्यमिति व्याप्तिर्गृह्यते ॥

तथा मन्त्राणां प्रयोगे वृश्चिकभुजगदष्टस्य भक्षितविषस्य वा निर्विषत्वं, अपस्मारपिशाचरूपिकागृहीतस्य तदुन्मोचनं, अतिरभसोज्जिहानेषु दुष्टमेघेषु सस्यरक्षणमित्येवमुपलब्धम् । अतस्तेषां विषभूताशनिशमनकुशलानां आप्ता उपदेष्टार इति तत्रापि तथैव व्याप्तिनिश्चयः ॥ आयुर्वेदादीनां प्रामाण्यमाप्तोक्तत्वमूलमेव
ननु ! आयुर्वेदादौ प्रामाण्यं प्रत्यक्षादिसंवादात् प्रतिपन्नम्, नाप्तप्रामाण्यात् । अतः कथमाप्तोक्तत्वस्य तत्र व्याप्तिग्रहणम् ? नैतदेवम्—प्रत्यक्षादिसंवादात् तन्निश्चीयतां नाम प्रामाण्यम् ! 123 उत्थितं तु तत् आप्तोक्तत्वात् । प्रत्यक्षादावप्यर्थक्रियाज्ञानसंवादात् प्रामाण्यस्य ज्ञप्तिः । उत्पत्तिस्तु गुणवत्कारककृत्येत्युक्तम् [पु। ४४२] ॥

नद्यादिवाक्यानि च विप्रलम्भकपुरुषभाषितानि विसंवदन्ति लोके दृश्यन्ते । तेनाप्तप्रणीतत्वमेव तेषां प्रामाण्यकारणम्, कारणशुद्धिमन्तरेण सम्यक्प्रत्ययानुत्पादात् । निश्चयोपावस्तु प्रत्यक्षं भवतु, न तु तत्कृतमेव प्रामाण्यम् । अतः युक्तमाप्तोक्ततायाः आयुर्वेदादौ व्याप्तिग्रहणम् ॥ आयुर्वेदादौ संवादादेव प्रामाण्यमित्याशङ्का
ननु ! एवमपि न युक्तम्, आप्तोक्तत्वस्य तत्र परिच्छेत्तुमशक्यत्वात् । अन्वयव्यतिरेकमूलमेव आयुर्वेदवाक्यानां प्रामाण्यम्, नाप्तकृतम् । अन्वयव्यतिरेकौ च यावत्येव दृश्येते, तावत्येवार्थे प्रामाण्यम्—यथा हरीतक्यादिवाक्यार्थे । यत्र तु तयोरदर्शनं तत्राप्रामाण्यम्—यथा सोमराज्युपयोगे124 समाः सहस्रं जीव्यते इति । आप्ते तु कल्प्यमानेऽर्घजरतीयं स्यात् । अर्धे तस्याप्तत्वम्, अर्धे च कथमनाप्तत्वमिति ॥ आयुर्वेदादौ संवादस्य दुरधिगमत्वनिरूपणम्
तदिदमनुपपन्नम्—अन्वयव्यतिरेकयोः ग्रहीतुमशक्यत्वात् । तौ हि 125 स्वात्मनि वा ग्रहीतुं शक्येते ? व्यक्तयन्तरे वा ? व्यक्त्यन्तरेऽपि, सर्वत्र ? क्वचिदेव वा व्यक्तिविशेषे ? सर्वथा सङ्कटोऽयं पन्थाः । व्याधीनां, तन्निदानानां, तदुपचयापचयानां तदुपशमोपायानां, औषधानां, तत्संयोगवियोगविशेषाणां, तत्परिमाणानां, तद्रसवीर्यविपाकानां, देशकालपुरुषदशाभेदेन शक्तिभेदस्य एकेन जन्मना ग्रहीतुमशक्यत्वात् । जन्मान्तरानुभूतानां च भावानां अस्मरणात् ॥ जनोऽनन्तस्तावन्निरबधिरिह व्याधिनिवहः
न सङ्ख्यातुं शक्या बहुगुणरसद्रव्यगतयः ।
विचित्राः संयोगाः परिणतिरपूर्वेति च कुतः
चिकित्सायाः पारं तरति युगलक्षैरपि नरः ॥ ५६ ॥

यदेव द्रव्यमेकस्य धातोर्भवति शान्तये ।
योगान्तरात्तदेवास्य पुनः कोपाय कल्पते ॥ ५७ ॥

या द्रव्यशक्तिरेकत्र पुंसि नासौ नरान्तरे ।
126 हरीतक्यापि नोद्भूतवातकुष्ठे विरेच्यते ॥ ५८ ॥

शरद्युद्रिक्तपित्तस्य ज्वराय दधि कल्पते ।
तदेव भुक्तं वर्षासु ज्वरं हन्ति दशान्तरे ॥ ५९ ॥

न चोपलक्षणं किञ्चित् अस्ति तच्छक्तिवेदने ।
येनैकत्र गृहीताऽसौ सर्वत्रावगता भवेत् ॥ ६० ॥

यो वा ज्ञातुं प्रभवति पुरुषः तत्सामर्थ्यं निरवधिविषयम् । स्यात् सर्वज्ञः स इति न विमतिः तस्मिन् कार्या स्ववचनकथिते127 ॥ अनादिपरम्परासिद्धत्वमात्रान्नायुर्वेदादिप्रामाण्यनिर्णयः
अथोच्येत—अनादिरेवैषा चिकित्सकस्मृतिः, व्याकरणादिस्मृतिवत् । सङ्क्षेपविस्तरविवक्षयैव चरकादयः कर्तारः, न तु ते सर्वदर्शिनः । न च स्मृतावन्धपरम्परादोषः, समूलत्वात् । यथा व्याकरणस्मृतेः शिष्टप्रयोगो मूलं, एवमिहान्वयव्यतिरेकौ । शिष्टविरोधे सति यथा मूलविरोधिनी पाणिन्यादिस्मृतिरप्रमाणम्, तथा चाहुः “इह न भवत्यनभिधानात्” [वार्तिकम्] इति । एवं वैद्यस्मृतिरपि अन्वयव्यतिरेकविरुद्धा न प्रमाणमिति—तदेतदयुक्तम्— अन्वयव्यतिरेकयोर्यथोक्तनयेन परिच्छेदासम्भवेन तन्मूलत्वानुपपत्तेः ॥ क्वाचित्कसम्बादात् सर्वांशे प्रामाण्यं न निर्णेतुं शक्यम्
यदि ह्यन्वयव्यतिरेकाभ्यां अशेषद्रव्यशक्तीर्निश्चित्य चरकादिभिर्विरचितं शास्त्रमितीदृशमन्वयव्यतिरेकित्वमुच्यते—तदप्ययाकृतम्—अद्यत्वे यावन्तावन्वयव्यतिरेकौ वयमुपलब्धुं शक्नुमः, तावद्भ्यां ताभ्यां एकदेशसंवादात् प्रामाण्यकल्पनात् 128 तत्र प्रवर्तताम्; न तु तौ तावन्तौ 129 शास्त्रस्य मूलं भवितुमर्हतः; सर्वैरस्मदादिभिस्तादृशशास्त्रप्रणयनप्रसङ्गात् ॥ आयुर्वेदादीनां वेदवत् नानादित्वम्
अनादित्वमपि शास्त्राणां वेदवदनुपपन्नम्; चरकादिकर्तृस्मृतेः कालिदासादिस्मृतिवदविगीतत्वात् । न च चिकित्सास्मरणप्रबन्धएवायमनादिः; तथात्वे अन्धपरम्परा, कारणानवधारणात् । न च तदुक्तं उन्मूलं भवितुमर्हति, व्युदस्तत्वात् । तस्मात् 130 सर्वज्ञप्रणीत एवायुर्वेदः ॥ आयुर्वेदादिकर्तॄणां तदुपयोग्यर्थन्दर्शनं प्रत्यक्षमेव
ननु अविदुषामुपदेशो नावकल्पत इति विद्वांसः चरकादयः कल्प्यन्ताम् । ते तु प्रत्यक्षेणैव131 सर्वं विदितबन्त इत्यत्र किं मानम् ? उच्यते—अन्वयव्यतिरेकयोर्निरासात् नानुमानस्यैष विषयः । वेदमूलत्वमपि मन्वादिस्मृतिवत् अयुक्तं कल्पयितुम्, कर्तृसामान्यासम्भवादिति132 वर्णविष्यामः [पु। ६३२] । पुरुषान्तरोपदेशपूर्वकत्वे चरकेणव किमपराद्धम् ? उपमानमनाशङ्कनीयमेवास्मिन्नर्थे । अर्थापत्तिस्तुं न प्रमाणान्तरम् । अप्रामाण्यं तु नास्ति, बहुकृत्वः संवाददर्शनात् । अतः परिशेषात् प्रत्यक्षीकृतदेशकालपुरुषदशाभेदानुसारिसमस्तव्यस्तपदार्थसार्थशक्तिनिश्चयाः चरकादयः इति युक्तं कल्पयितुम् ॥ आयुर्वेदाद्युक्तफलेषु व्यभिचाराद्यप्रसक्तिः
यद्येवं कथं तर्हि सोमराज्यादिवाक्येषु व्यभिचारः ? व्यभिचारे चार्धजरतीयमित्युक्तम्—नैष दोषः—कर्मकर्तृसाधनवैगुण्यात् एषु व्यभिचारो भविष्यति । वैदिकेषु च कर्मसु मीमांसकस्य समानो133 गुणः ॥

कारीर्यादौ का ते वार्ता ? यस्यां न स्यादिष्टौ वृष्टिः ।
वैगुण्यं चेत् कर्त्रादीनां, अत्राप्येवं शक्यं वक्तुम् ॥ ६२ ॥

यदि विधुरमभुक्तं134 कर्म शास्त्रीयमन्यत्
फलविघटनहेतुः कल्प्यते सोऽपि तुल्यः ।
क्वचिदथ फलसम्पत् दृश्यते तत्प्रयोगे
तदिह दृढशरीराः सन्ति दीर्घायुषश्च ॥ ६३ ॥

आयुर्वेदस्तस्मात् आप्तकृतो नान्यमूल इति सिद्धम् ।
एवम्फलवेदादौ 135 प्रकाशमाप्तप्रणीतत्वम् ॥ ६४ ॥

तस्मात् आप्तोक्तत्वस्य सिद्धमायुर्वेदादौ व्याप्तिग्रहणम् । व्याप्तिप्रदर्शनायैव सूत्रकृता—

“स द्विविधो दृष्टादृष्टार्थत्वात्” [न्या। सू। १-१-८]

इत्युक्तम् । दृष्टार्थशब्दे गृहीताविनाभावं आप्तोक्तत्वं अदृष्टार्थेऽपि प्रामाण्यं साधयतीति । अत एवोक्तं—

“मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात्” [न्या। सू। २-१-६९] इति ॥ आयुर्वेदादिकर्तॄणामतीतत्वेऽपि व्याप्तिग्रहसम्भवः
136 नन्वत्रापि न वैद्यकं विरचयन् दृष्टो मुनिः सर्ववित्
तद्व्याप्तिग्रहणं जने यदि, वृथाऽऽयुर्वेदसङ्कीर्तनम् ।
सत्यं, किन्तु दृढा तथापि चरकाद्याप्तस्मृतिर्वैद्यके
नासौ चान्यनिबन्धनेति कथिता तस्येह दृष्टान्तता ॥ ६५ ॥

इत्यायुर्वेदवाक्यप्रभृतिषु भवति व्याप्तिराप्तोक्ततायाः
पूर्वोक्तेन क्रमेण स्फुटमकथि तथा पक्षधर्मत्वमस्याः ।
न प्रत्यक्षागमाभ्यामपहृतविषया नानुमानान्तरेण
व्याधूता वेति सैषा भजति गमकतां 137 पञ्चरूपोपपत्तेः ॥ ६६ ॥

अनपेक्षतया न वेदवाचां घटते निष्प्रतिमः प्रमाणभावः ।
क्व गिरामयथार्थतानिवृत्तिः पुरुषप्रत्ययमन्तरेण दृष्टा ॥ ६७ ॥

तत्प्रत्ययात् बहुतरद्रविणव्ययादि-
साध्येषु कर्मसु तपस्सु च वैदिकेषु ।
युक्तं प्रवर्तनमबाधनकेन138 नैव
तत्सिद्धिरित्यलमसम्मत139 एष मार्गः ॥ ६८ ॥

तस्मादाप्तोक्तत्वादेव वेदाः प्रमाणमिति सिद्धम् ॥ मीमांसकमते वेदप्रामाण्यवर्णनप्रकारः
140 अन्ये तु अन्यथा वेदप्रामाण्यं वर्णयन्ति । तस्य हि प्रामाण्ये अभ्युपगतपरलोकः, अनभ्युपगतपरलोको वा परो विप्रतिपद्यते ?

तत्रानभ्युपगतपरलोकं प्रति तावत् आत्मनित्यतादिन्यायपूर्वकं परलोकसमर्थनमेव विधेयम् ॥

परलोकवादिनां तु मते यदेतत् सुखिदुःख्यादिभेदेन जगतो वैचित्र्यं दृश्यते, तदवश्यं कर्मवैचित्र्यनिबन्धनमेव । कर्माणि चाननुष्ठितानि नात्मानं141 लभन्ते । अलब्धात्मनां च नभःकुसुमनिभानां कुतो विचित्रसुखदुःखादिफलसाधनत्वम् ? तस्मात् अनुष्ठानमेषामेषितव्यम् । अनुष्ठानं च नाविदितस्वरूपाणां कर्मणामुपपन्नम् । अजानन् पुरुषः तपस्वी किमनुतिष्ठेत् ? तदवश्यं ज्ञात्वाऽनुष्ठेयानि कर्माणि ॥

तदिदानीं तेषां परिज्ञाने कोऽभ्युपायः ?

न प्रत्यक्षं अस्मदादीनां स्वर्गाद्यदृष्टपुरुषार्थसाधनानि कर्माणि दर्शयितुं प्रभवति ॥

नाप्यनुमानम्; अन्वयव्यतिरेकाभ्यां तृप्तिभोजनयोरिव स्वर्गयागयोः साध्यसाधनसम्बन्धानबधारणात् ॥

नाप्यर्थापत्तिः; जगद्वैचित्र्यान्यथाऽनुपपत्त्या तु विचित्रं 142 कारणमात्रमनुमीयते । न च तावताऽनुष्ठानसिद्धिः । उक्तं च [श्लो। वा। १-४-१०५] — “ अधर्मे धर्मरूपे वाऽप्यविभक्ते फलं प्रति ।
किमप्यस्तीति विज्ञानं नराणां क्वोपयुज्यते143 ? इति ॥


उपमानं त्वत्र शङ्क्यमानमपि न शोभते ॥

नापि परस्परमुपदिशन्तो लौकिकाः कर्माणि परलोकफलानि जानीयुरिति वक्तुं युक्तम्; अज्ञात्वा उपपादयतां आप्तत्वायोगात् । ज्ञानं तु लौकिकानां दुर्घटम्; प्रमाणाभावादित्युक्तत्वात् । एवमेव हि पुरुषोपदेशपरम्पराकल्पनायां अन्धपरम्परान्यायः स्यात् । तस्मादवश्यं अभ्युपगतपरलोकैः परलोकफलानि कर्माणि कुर्वद्भिः शास्त्रात् कर्मावबोधोऽभ्युपगन्तव्यः । शास्त्रं च वेदा144 एवेति सिद्धं तत्प्रामाण्यम् ॥ लोकप्रसिद्धया धर्माधर्मस्वरूपावगमः न सम्भवेत्
ननु ! लोकप्रसिद्धित एव धर्माधर्मसाधनानि कर्माणि शास्यन्ते; किं शास्त्रेण ? उपकारापकारौ हि धर्माधर्मयोर्लक्षणमिति प्रसिद्धमेवैतत् । तथाऽऽह व्यासः— “ इदं पुण्यमिदं पापं इत्येतस्मिन् पदद्वये ।
आचण्डालं मनुष्याणां अल्पं शास्त्रप्रयोजनम् ॥

” इति—नैतद्युक्तम्—लोकप्रसिद्धेर्निर्मूलायाः प्रमाणत्वाचुपपत्तेः । लोकप्रसिद्धिर्नाम लौकिकानामविच्छिन्ना स्मृतिः । स्मृतिच्च प्रभबन्ती प्रमाणान्तरमूला भवति, न स्वतन्त्रेत्यवग्र्यमस्या मूलमन्वेषणीयम् । तच्च प्रत्यक्षादि नोपपद्यते इति नूनं शास्त्रमूलैव लोकप्रसिद्धिः । विरुद्धानेकप्रकारत्वाच्च लोकप्रसिद्धेः न तस्यां स्वतन्त्रायां समाश्वसिति लोकः ॥

न चोपकारापकारकमात्रलक्षणावेव धर्माधर्मौ वक्तुं युज्येते; जपशीधुपानादौ145 तदभावात् । गुरुदारगमनादौ च विपर्ययादित्यचश्यं146 शास्त्रशरणावेव तावेषितव्यौ ॥ वैदिकधर्माधर्मनिर्णयः न लोकतो भवितुं शक्यः
अपि च इदमिष्टिमन्त्रादिकं एवम्फलम्, अयमस्मिन् अधिकृत इति; इयमितिकर्तव्यता, एष देशः, एष कालः, इमे ऋत्विजः इत्यादि किं लोकप्रसिद्धेरधिगन्तुं शक्यते ? तस्मादवश्यं शास्त्राधीन एव विशिष्टकर्मावबोध एषितव्यः । शास्त्रं च वेद एवेत्युक्तम् । अतस्तस्य निर्विवादसिद्धमेव प्रामाण्यमिति ॥ सिद्धान्त्युक्तवेदप्रामाण्यप्रक्रियैव युक्ततरा
एवं तु वर्ण्यमाने संसारानादित्वं तावदुक्तं स्यात् । वेदस्यानादित्वं कर्मज्ञानानादित्वात् । ततश्च मीमांसकवर्त्मनैव प्रमाणता सिध्यति, नाप्तवादात् । तस्माद्यथोदाहृत एव मार्गः प्रमाणतायामनुवर्तनीयः ॥ वेदानामनादित्वं प्रवाहत एव, न स्वरूपतः
अथवा— वयमपि न147 न शिष्मो ऽनादिसंसारपक्षं
युगपदखिलसर्गध्वंसवादे तु भेदः ।
अकथि च रचनानां कार्यता तेन सर्गात्-
प्रभृति भगवतेदं वेदशास्त्रं प्रणीतम् ॥ ६९ ॥

अनादिरेवेश्वरकर्तृकोऽपि सदैव सर्गप्रलयप्रबन्धः । सर्गान्तरेष्वेव च कर्मबोधः वेदान्तरेभ्योऽपि जनस्य सिध्येत् ॥ अन्यत्वे148 किं प्रमाणं ? ननु तव, सुमते ! किं तदैक्ये प्रमाणं ?

ध्वस्तं तावत् समस्तं भुवनमिति तदा वेदनाशोऽप्यवश्यम् । एकस्त्वीशोऽविशिष्टः स च रचयति वा प्राक्तनं संस्मरेद्बा वेदे स्वातन्त्र्यमस्मिन् नियतमुभयथाऽप्यस्ति149 चन्द्रार्धमौलेः ॥

एकस्य तस्य मनसि प्रतिभासमानः
वेदस्तदा हि कृतकान्न विशिष्यतेऽसौ ।
प्रत्यक्षसर्वविषयस्य तु नेश्वरस्य
युक्ता स्मृतिः, 150 करणमेव ततोऽनवद्यम् ॥ ७२ ॥

तेनाप्तनिर्मितत्तयैव निरत्ययार्थ-
सम्प्रत्ययोपजननाय जनस्य वेदे ।
शास्त्रं सुविस्तरक्षपास्तकुतर्कमूल-
मोहप्रपञ्चमकरोत् मुनिरक्षपादः ॥ ७३ ॥

अथर्ववेदस्य चतुर्थवेदत्वाक्षेपः
अत्र कश्चिदाह—युक्तमितरेतरव्यतिषक्तार्थोपदेशित्वेनैककर्तृकत्वानुमानद्वारकं त्रिवेद्याः प्रामाण्यम् । अथर्ववेदस्य तु 151 त्रय्याम्नातधर्मोपयोगानुपलब्धेः त्रयीबाह्यत्वेन न तत्समानयोगक्षेमत्वम् ॥ अथर्ववेदस्य स्वतन्त्रप्रमाणत्वासम्भवः
अनपेक्षत्वलक्षणप्रामाण्यपक्षेऽपि [पु। ४३५] विक्षिप्तशास्त्रान्तरोपदिष्टविशिष्टज्योतिष्टोमाद्यनेककर्मानुप्रविष्टहौत्राध्वर्यवादिव्यापारव्यतिषङ्गदर्शनात् तदर्था त्रय्येव यथा प्रमाणभावभागिनी भवितुमर्हति, न तथा 152 पृथग्व्यवहारा आथर्वणश्रुतिः ॥ वेदानां त्रित्वमेव श्रुतिसम्मतम्
तथा च लोके चतस्र इमा विद्याः प्राणिनामनुग्रहाय प्रवृत्ताः— आन्वीक्षकी, त्रयी, वार्ता, दण्डनीतिरिति प्रसिद्धिः । श्रुतिस्मृती अपि तदनुगुणार्थे एव दृश्येते । श्रुतिस्तावत्—“ऋग्भिः प्रातर्दिवि देव ईयते । यजुर्वेदेन तिष्ठति मध्येऽह्नः । सामवेदेनास्तमेति । वेदैरशून्यस्त्रिभिरेति सूर्यः” [तै। ब्रा। ३-१२-९] इति । तथा ऽप्रजापतिरकामयत बहुस्यां प्रजायेयेति । स तपोऽतप्यत । स तपस्तप्त्वा । इमान् लोकानसृजत पृथिवीमन्तरिक्षं दिवमिति । तान् लोकानभ्यतपत् तेभ्यस्त्रीणि ज्योर्तीष्यजायन्त । अग्निरेव पृथिव्या अजायत वायुरन्तरिक्षात् दिव आदित्य इति । तानि ज्योर्तीष्यभ्यतपत् ।

तेभ्यस्त्रयो वेदा अजायन्त । अग्नेरृग्वेदः । वायोर्यजुर्वेदः । आदित्यात्सामवेदःऽ [शत। ब्रा। ११-४-११] । तथा “सैषा विद्या त्रयी तपति” [नारा। १२-२] इति ॥ स्मृतिष्वपि वेदानां त्रित्वमेव कीर्त्यते
स्मृतिरपि मानवी—प्रतिवेदं द्वादशवार्षिकब्रह्मचर्योपदेशिनी दृश्यते [मनुस्मृ। ३-१] — “ षट्त्रिंशद्वार्षिकं चर्यं गुरौ त्रैवेदिकं व्रतम् इति ॥

” श्राद्धप्रकरणेऽपि [मनुस्मृ। ३-१४५] — “ यत्नेन भोजयेच्छ्राद्धे बह्वृचं वेदपारगम् ।
शाखान्तगमथाध्वर्युं छन्दोगं वा समाप्तिगम् ॥

” इति त्रिवेदपारगानेव श्राद्धभुजः ब्राह्मणान् दर्शयति, नाथर्ववेदाध्यायिनः । प्रत्युत निषेधः क्वचिदुपदिश्यते—“तस्मादाथर्वणं न प्रवृञ्जयात्”153 [कल्पसू।] इति ॥ अथर्वणो वेदत्वं भट्टमतरीत्वा
एवमाक्षेपे सति केचिदाचक्षते [तं। वा। १-३-२] — “ यदि यज्ञोपयोगित्वं नेहास्त्याथर्वणश्रुतेः ।
अर्थान्तरे प्रमाणत्वं केनास्याः प्रतिहन्यते ?
शान्तिपुष्ट्यभिचारार्थाः 154 एकब्रह्मर्त्विगाश्रिताः ।
क्रियास्तया प्रमीयन्ते त्रयी वात्मीयगोचरः इति ॥

” स्वपक्षेण अथर्वणः वेदत्वसमर्थनम्
एतत्तु सर्वं न साध्वभिधीयते । तथा हि—“तत्प्रमाणं बादरायणस्यानपेक्षत्वात्” [जै। सू। १-१-५] इति य155 एष वेदप्रामाण्या धिगतौ जैमिनिना निरदेशि पन्थाः, यो वा अक्षपादेन, कणादेन च प्रकटितः—“तद्वचनादाम्नायप्रामाण्यम्” [वै। सू। १०-२-९] इति, “मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात्” [न्या। सू। २-१-६९] इति, स चतुर्ष्वपि वेदेषु तुल्यः । तत्र विशेषतुषोऽपि156 न कश्चिदतिप्रयत्नेनान्विष्यमाणः प्राप्यते । न हि मीमांसकपक्षे एवं वक्तुं शक्यते— त्रय्येवानादिमती, नाथर्वश्रुतिः; तस्यां कर्तृस्मरणसम्भवादिति ॥

नापि नैयायिकपक्षे एवं वक्तुं शक्यम्—आप्तप्रणीताः त्रयो वेदाः, चतुर्थस्तु नाप्तप्रणीत इति । तेन प्रामाण्याधिगमोपायाविशेषात् समानयोगक्षेमतया चत्वारोऽपि वेदाः प्रमाणम् ॥

व्यबहारो हि सर्वेषां सारेतरविचारचतुरचेतसां157 चतुर्भिरपि वेदैः, चतुर्णां वर्णानामाश्रमाणां, चतसृषु दिक्षु, चतुरब्धिमेखलायामवनौ प्रसिद्ध इति कोऽयमत्रान्यथात्वभ्रमः158 ?

श्रुतिस्मृतिमूलश्चार्यावर्तनिवासिनां भवति व्यवहारः । ते च श्रुतिस्मृती चतुरोऽपि वेदान् समानकक्ष्यानभिवदतः । ऋग्यजुस्सामवेदेष्वपि अथर्ववेदाशंसीनि भूयांसि वचांसि भवन्ति । तद्यथा शतपथे “अथ तृतीयेऽहन्” [शत। प्रा। १३-४-३-७] इत्युपक्रम्य अश्वमेधे पारिप्लवाख्याने 159 “सोऽयमाथर्वणो वेदः” इति श्रूयते । छान्दोग्योपनिषदि च “ऋग्वेदो यजुर्वेदः सामवेद आथर्वणश्चतुर्थः” [छा। उ। ७-१-४] इति पठ्यते ॥ अथर्ववेदस्य इतिहासपुराणतुल्यत्वनिरासः
ननु ! “इतिहासपुराणः पञ्चमः” [छा। उ। ७-१-४] इति तत्र पठ्यत एव ॥

किञ्चातः ? किमियताऽथर्वणश्चतुर्थो न भवति वेदः ?

160 चतुर्थशब्दोपादानात् इतिहासादितुल्योऽसौ, न वेदसमानकक्ष्य इति चेत्; केयं161 कल्पना ? चतुर्थशब्दोपादानादप्राधान्ये “त्रयो वेदा असृज्यन्त” [शत। ब्रा। ११-४-११] इत्यादौ त्रित्वसङ्ख्योपादानात् तेऽपि न प्रधानतामधिगच्छेयुः । इतिहासादिभिर्वा सह परिगणनं अप्राधान्यकारणं यदुच्यते, 162 तदपि सर्ववेदसाधारणमिति यत्किञ्चिदेतत् ॥ अथर्ववेदस्य वेदत्वे श्रुतिसम्मतिः
तथा शताध्ययनेऽपि “ऋचो वै ब्रह्मणः प्राणाः” इत्यभ्युपक्रम्य “आथर्वणो वै ब्रह्मणः समानः” इति पठ्यते ॥

तथा “येऽस्य प्राञ्चो रश्मयः ता एवास्य प्राच्यो मधुनाड्यः, ऋच एव पुष्पम्” [छा। उ। ३-१-२] इत्युपक्रम्य पठित—“अथ येऽस्योदञ्चो रश्मयः ता एवास्योदीच्यः मधुनाड्यः अथर्वाङ्गिरस एव मधुकृतः” [छा। उ। ३-४-१] इति ॥

तथा तैत्तरीये “तस्माद्वा एतस्मात् प्राणमयात् । अन्योऽन्तर आत्मा मनोमयः” [तै। उ। २] इति प्रस्तुत्य “तस्य यजुरेव शिरः । ऋग्दक्षिणः पक्षः । सामोत्तरः पक्षः । आदेश आत्मा । अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा” [तै। उ। २] इति पठ्यते ॥

तथाऽन्यत्र “ऋचां प्राची महती दिगुच्यते । दक्षिणामाहुर्यजुषाम् । साम्नामुत्तराम् । अथर्वणामङ्गिरसां प्रतीची महती दिगुच्यते” [तै। ब्रा। ३-१२-९] इति ॥

शतपथे ब्रह्मयज्ञविधिप्रक्रमे मध्यमे “पय आहुतयो ह वा एता देवानां यदृचः” [शत। ब्रा। ११-५-६-४] इत्युपक्रम्य, “मेद आहुतयो ह वा एता देवानां यदथर्वाङ्गिरसः स य एवं विद्वानथर्वाङ्गिरसोऽहरहः स्वाध्यायमधीते मेद आहुतिभिरेव तद्देवान् स तर्पयति त एनं तृप्तास्तर्पयन्ति” [शत। ब्रा। ११-५-६-७] इति ॥ मन्त्रवर्णोऽपि अथर्वणो वेदत्वगमकः
मन्त्रा अपि तदर्थप्रकाशनपरा अनुश्रूयन्ते “त्वामग्ने पुष्करादध्यथर्वा निरमन्थत” [तै। सं। ३-५-११] इत्यादयः । न चैषां अथर्वा नाम कश्चिदृषिरित्येवम्प्रकारं व्याख्यानं युक्तम्; 163 अन्यत्राप्यसमाश्वासप्रसङ्गात् । इत्येवञ्जातीयकास्तावदुदाहृताः श्रुतिवाचः ॥ अथर्वणो वेदत्वे स्मृतिवाक्यानि
स्मृतिवाक्यानि खल्वपि । मनुस्तावत् [मनुस्मृ। ११-३३] — “श्रुतीरथर्वाङ्गिरसीः कुर्यादित्यविचारयन्”

इति श्रुतिशब्देन त्रयीवदिह व्यवहरति ॥

याज्ञवल्क्यः चतुर्दशविद्यास्थानानि गणयन् [याज्ञ। स्मृ। १-३] — “ पुराणतर्कमीमांसाधर्मशास्त्राङ्गमिश्रिताः ।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश

” इति चतुर एव वेदानावेदयते; नान्यथा हि चतुर्दशसङ्ख्या पूर्यते ॥

स्मृत्यन्तरे164 च स्पष्टमेवोक्तम्— “ अङ्गानि वेदाश्चत्वारः मीमांसान्यायविस्तरः ।
पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश इति ॥

” अन्यत्राप्युक्तम् “पुराणं धर्मशास्त्रं मीमांसा न्यायः चत्वारो वेदाः षडङ्गानीति चतुर्दश विद्यास्थानानि” इति ॥

शातातपोऽप्याह— “ ऋक्सामयजुरङ्गानां अथर्वाङ्गिरसामपि ।
अणोरप्यस्य विज्ञानात् योऽनूचानः स नो महान् इति ॥


तथाऽन्यत्र “चत्वारश्चतुर्णां वेदानां पारगाः धर्मज्ञाः परिषत्” इत्युक्तम् ॥

शङ्खलिखितौ च “ऋग्यजुस्सामाथर्वविदः षडङ्गवित् धर्मवित् वाक्यवित् नैयायिको नैष्ठिको ब्रह्मचारी पञ्चाग्निरिति दशावरा परिषत्” इत्यूचतुः ॥

प्राचेतसे “चत्वारो वेदविदः धर्मशास्त्रविदिति पञ्चावरा परिषत्” इत्युक्तम् ॥

तथा च पङ्क्तिपावनप्रस्तावे165 चतुर्वेदषडङ्गवित् ज्येष्ठसामगोऽथर्वाङ्गिरसोऽप्येते पङ्क्तिपावना गण्यन्ते । तदयमेवमादिवेदचतुष्टयप्रतिष्ठाप्रगुण एव प्राचुर्येण धर्मशास्त्रकाराणां व्यवहारः ॥ अथर्वणः वेदत्वं शास्त्रकाराणामपि सम्मतम्
अन्येऽपि शास्त्रकाराः तथैव व्यवहरन्तो दृश्यन्ते । तथा च महाभाष्यकारो भगवान् पतञ्जलिः अथर्ववेदमेव प्रथममुदाहृतवान् “शन्नो देवीरभिष्टये” [अथर्वसं। १] इति ॥

मीमांसाभाष्यकारेणापि वेदाधिकरणे “काठकं कालापं मौद्गलं पैप्पलादकम्” [शा। भा। १-१-८] इति यजुर्वेदादिवत् अथर्ववेदेऽपि पैप्पलादकमुदाजह्ने । सर्वशाखाधिकरणेऽपि [शा। भा। २-८-२] वेदान्तरशास्वान्तरवत् मौद्गलपैप्पलादकाख्ये अथर्वशाखे अप्युदाहृत्य विचारः कृतः । “तथा च प्रथमयज्ञो नाम चतुर्षु166 न कश्चिदस्ति” इत्यधिकरणान्त एव लिखितम् । एवं श्रुतिस्मृतिविशिष्टाचारव्यवहारविदां अत्र विप्रतिपत्तिसम्भावनैव नास्ति ॥ त्रय्यां अथर्वणः अगणनं तस्य नावेदत्वं गमयेत्
आह—न ब्रूमः अथर्ववेदो न प्रमाणमिति, किन्तु त्रयीबाह्य इति—उच्यते—त्रय्यपीयं अथर्ववेदबाह्यैव । न केवलमेवं, त्रय्यामपि परस्परबाह्यत्वमस्त्येव—ऋक्सामबाह्यानि यजूंषि, यजुस्सामबाह्या ऋचः, ऋग्यजुर्बाह्यानि सामानीति कियानयं दोषः ? सर्वभावानामितरेतरसाङ्कर्यसहितत्वात्167 । ये हि शब्दात्मानः ग्रन्थसन्दर्भस्वभावाः, ये च तदभिधेया अर्थस्वभावाः, ते सर्वेऽन्योन्यसम्मिश्रितात्मान एव । न च परेणात्मानं सम्मिश्रयन्तोऽपि ते स्वरूपमपहारयन्तीति168 ॥ सर्वशाखाप्रत्ययन्यायः अथर्ववेदमपि क्रोडीकरोत्येव
अथोच्येत—नेदृशं त्रयीबाह्यत्वमथर्ववेदे विवक्षितम्, अपि तु यदेव न त्रयीप्रत्ययं169 कर्मोपदिशति, न तत्सम्बद्धं किञ्चिदिति, तदस्य त्रयीबाह्यत्वमिति—एतदपि न साधूपदिष्टम्—इष्टिपश्वेकाहाहीनसत्रादिकर्मणां तत्रोपदेशदर्शनात् । “सर्वशाखाप्रत्ययमेकं कर्म” इति न्यायात् । त्रय्युपदिष्टेऽपि कर्मणि सम्बद्धमथर्ववेदात् किमपि170 लम्यत एव ॥ अथर्ववेदापेक्षत्वं त्रय्या अस्त्येव
ननु ! भवति सर्वशाखाप्रत्ययमेकं कर्म । तत्पुनः त्रिवेदीसम्बद्धसर्वशाखाप्रत्ययमेव, नाथर्वशाखाप्रत्ययं; यतः सोमयागादिकर्मणां ऋग्वेदेन हौत्रं, यजुर्वेदेनाध्वर्यवं, समावेदेनौद्गात्रं कियते, नाथर्ववेदेन किञ्चिदिति—तदयुक्तम्—अथर्ववेदेन ब्रह्मत्वस्य करणात् । तथा च गोपथब्राह्मणम्—“प्रजापतिस्सोमेन यक्ष्यमाणो वेदानुवाच । कं वो होतारं वृणीयमिति” [गो। ब्रा। २-२४] इति प्रक्रम्य, “तस्मादृग्विदमेव होतारं वृणीष्व, स हि हौत्रं वेद”, “यजुर्विदमेवाध्वर्युं वृणीष्व, स हि आध्वर्यवं वेद”, “सामविदमेवोद्गातारं वृणीष्व, स हि ओद्गात्रं वेद”, “अथर्वाङ्गिरोविदमेव ब्रह्माणं वृणीष्व, स हि ब्रह्मत्वं वेद” [गो। ब्रा। २-२४] इत्यभिधाय, पुनराह “अथ171 चेन्नैवंविधं होतारं अध्वर्युमुद्गातारं ब्रह्माणं वा वृणुते पुरस्तादेव वैषां यज्ञो रिच्यत इति तस्मादृग्विदमेव होतारं कुर्यात्, यजुर्विदमेवाध्वर्युं, सामविदमेवोद्गातारं, अथर्वाङ्गिरोविदमेव ब्रह्माणम्” [गो। ब्रा। २-२४] इति । तथा “यदूनं च विरिष्टं च यातयामं च करोति तदथर्वणां तेजसा प्रत्याप्याययेत्” [गो। ब्रा। १-२२] इति, “नर्ते172 भृग्वङ्गिरोभ्यः सोमः पातव्यः” [गो। ब्रा। १-२८] इति ॥ अथर्ववेदस्य त्रयीरूपत्वम्
नन्वेताः श्रुतीः अथर्वाण एवाधीयते; नान्ये त्रयीविदः । ते त्वेवं पठन्ति ऽयदृचा हौत्रं क्रियते यजुषाऽऽध्वर्यवं साम्ना औद्गात्रं अथ केन ब्रह्मत्वं क्रियते इति त्रय्या विद्ययेति ब्रूयात्ऽ इति । तथा च “यदृचैव हौत्रमकुर्वत यजुषाऽऽध्वर्यवं साम्नौद्गात्रं यदेव त्रय्यै विद्यायै शुक्रं तेन ब्रह्मत्वम्” इति—उच्यते— वयमप्येवमादीनि वाक्यानि न नाधीमहि । किं त्वेषामयमेवार्थः—अथर्वाङ्गिरोविदेव ब्रह्मेति । कथम् ? यतो न त्रयी नाम किमपि वस्त्वन्तरम्; अपि तु त्रयाणां वेदानां समाहार173 इति । समाहारश्च समाह्रियमाणनिष्ठो भवति । समाह्रियमाणाश्च ऋग्वेदादयः त्रयः हौत्रादिपरत्वेन चरितार्थाः, न पुनस्तत्र भेदमर्हन्ति । एकैकशः चरितार्थानां समुदायोऽपि चरितार्थ एव । समुदायबुद्धौ हि विभज्यमानायां समुदायिन एव स्फुरन्ति, नावयविवदर्थान्तरम्, ते चान्यत्र व्यापृताः ॥ ऋग्वेदाद्यध्येतृणां ब्रह्मत्वेऽनधिकारः
किं नु खलु ऋग्वेदादीनां ब्रह्मत्वं कुर्वतामतिभारो भवति ? न ब्रूमः अतिभार इति । किन्तु त्र्यात्मकत्वेन ब्रह्मत्वकर्तव्यतोपदिश्यते । त्र्यात्मकश्चान्यतमोऽपि तेभ्यो न भवति वेदः । अथर्ववेदस्तु त्र्यात्मक एव । तत्र हि ऋचो यजूंषि सामानीति त्रीण्यपि सन्ति । तेन ब्रह्मत्वं क्रियमाणं त्रय्या कृतं भवति ॥

ननु ! यस्त्रीन् वेदानधीते, तेन चेत् ब्रह्मत्वं क्रियेत, तत्किं त्रय्या न कृतं भवति ? बाढमित्युच्यते—सोऽपि “एकस्मै वा कामायाऽन्ये यज्ञक्रतवः समाधीयन्ते”, “सर्वेभ्यो ज्योतिष्टोमः”, “सर्वेभ्यो दर्शपूर्णमासौ” इति श्रुतावपि योगसिद्ध्यधिकरणन्यायेन174 [जै। सू। ४-३-११] अस्यतममेव बुद्धाबाधाय विदध्यात्, न समुदायं बुद्धावारोपयितुं शक्नुयात् इत्येकेनैव तत्कृतं भवति, न त्रय्येति ॥ अथर्वशाखिनां इतरशाखितुल्यत्वम्
ननु ! अन्येऽपि175 त्र्यात्मका वेदाः—यद्येवं सुतरामथर्ववेदो न पृथक्करणीयः, सर्वेषां रूपाविशेषात् । तेषां पृथक्प्रतिष्ठैः स्वैः स्वैः ऋगादिभिरेव व्यपदेश इति न ते समुदायशब्दव्यपदेश्याः ॥ अथर्ववेदस्य त्रयीसारत्वम्
यत्तु वाक्यान्तरे “त्रय्यै विद्यायै शुक्रं, तेन ब्रह्मत्वम्” इति; तत्रेयं चतुर्थी षष्ठ्याः स्थाने प्रयुक्ता । शुक्रमिति सारमाचक्षते । तेन त्रयीविद्यायाः सारेण ब्रह्मत्वं क्रियत इत्युक्तं भवति । न च त्रय्येव त्रय्याः शुक्रं भवति । न चात्यन्तं ततोऽर्थान्तरमेव । तेनेदमथर्ववेदात्मकमेव त्रय्याः शुक्रं इति मन्यामहे । त्र्यात्मकत्वादिति मन्यामहे । त्र्यात्मकत्वादिति शुक्रमिति च गुह्यमाहुः । अथर्वशब्दोऽपि रहस्यवचनः । “यज्ञाथर्वाणं वैदिकस्या इष्टयः” इति । तेन त्रयी शुक्ररूपेणाथर्ववेदेन ब्रह्मत्वमितीत्थमथर्ववेदस्य न त्रयीबाह्यत्वम् । इत्थं “सर्वशाखाप्रत्ययमेकं कर्म” इत्यत्र न सर्वशब्दः सङ्कोचितो भवति ॥ अथर्ववेदः ब्रह्मवेदः
अत एव ब्रह्मवेदः अथर्ववेद इति पूर्वोत्तरब्राह्मणे पठ्यते— “ऋग्वेदो यजुर्वेदः सामवेदो ब्रह्मवेदः” [गो। ब्रा। ३-२-१६] इति । तथा च काठकशताध्ययने ब्राह्मणे ब्रह्मौदने श्रूयते ऽब्रह्मवादिनो वदन्ति पुरोधा औद्दालकिरारुणिमुवाच ब्रह्मणे त्वा प्राणाय जुष्टं निर्वपामि ब्रह्मणे त्वा व्यानाय जुष्टं निर्वपामिऽ इत्युपक्रम्य, “आथर्वणौ वै ब्रह्मणःसमानोऽथर्वणमेवैतज्जुष्टं निर्वपति चतुश्शरावो भवति चत्वारो हीमे वेदाः तानेव भागिनः करोति मूलं वै ब्रह्मणो वेदाः वेदानामेतन्मूलं यदृत्विजः प्राश्नन्ति तद्द्रह्मौदनस्य ब्रह्मौदनत्वम्” इति ॥

तथा सामवेदे पृष्ठ्यस्य चतुर्थेऽहन्यार्भवे पवमाने अथर्वणे साम्नो गानं यत्, तद्विधाने श्रूयते “चतुर्विधमाथर्वणं भवति चतूरात्रस्य वृत्त्वै चतुष्पदामानुष्टुभाऽनुष्टुभमेवैतदहर्यश्चतुर्थं भेषजं वाऽथर्वणं तद्धि भैषज्यमेव तत्करोत्याथर्वणानि यागभेषजानि” [सा। ब्रा। १-३] इत्येतदालम्बनेयं स्तुतिः । अत एव प्रागुक्तं “यज्ञे यदूनं च विरिष्टं च यातयामं च करोति तदथर्वणां तेजसाऽऽप्याययति” [गो। ब्रा। १-२२।] इति । तस्मादाथर्वण एव ब्रह्मेति । एतच्च शास्त्रान्तरे विस्तरेणाभियुक्तैः युक्तिभिरुपपादितमिति नेहात्यन्ताय प्रतायते ॥ आथर्वणः अपरिहरणीयत्वम्
यत्तु—“नाथर्वणेन प्रवृञ्ज्यात्” इति, तत् कल्पसूत्रवाक्यत्वात् वेदविरुद्धमित्यनादृतम् । अथापि श्रौतमिदं वाक्यं, तदाऽपि, प्रकरणाधीतं176 चेत्, तत्रैव क्वचित्कर्मणि निवेक्ष्यते । अनारभ्यवादपक्षेऽपि177 पूर्वोक्तवाक्यविसदृशार्थत्वात् अथर्ववेदस्य च त्रय्यबाह्यत्वेन सम्पर्कपरिहारानर्द्दत्वात् नियतविषयमेव व्याख्यास्यते ॥ उच्चैस्त्वादयो मन्त्रधर्माः, न वेदधर्माः
यदप्युच्यते—“उच्चैरृचा क्रियते उच्चैस्साम्नोपांशु यजुषा” इतिवत् अथर्वधर्मोऽपि न कश्चिदाम्नात इति—तदप्यसारम्— मन्त्रधर्मो ह्ययमुपदिश्यते, न वेदधर्मः । मन्त्रब्राह्मणसमुदायस्वभावा हि चत्वार इमे वेदग्रन्थाः । मन्त्रास्तु वस्तुतो गद्यपद्यभेदात् द्विविधा एव । गद्यबन्धो यजुरुच्यते, पद्यबन्धः ऋगिति । गीतिनिबन्धनं तु भेदान्तरं सामेति । अत एव जैमिनिना मन्त्रविभागं प्रस्तुत्य—“तेषामृग्यत्रार्थवशेन पादव्यवस्था” [जै। सू। २-१-३५] , “गीतिषु सामाख्या” [३६] , “शेषे यजुश्शब्दः” [३७] , इत्थमेव तेषां त्रैविध्यमुपपादितम् । तेषामेव चायमुच्चैस्त्वादिधर्मः, न वेदशब्दवाच्यानां मन्त्रब्राह्मणसमुदायात्मनां ग्रन्थानाम् । अथर्ववेदेऽपीयं त्रिविधैव मन्त्रजातिरिति तत्रापीदं धर्मजातमुपदिष्टं भवति ॥

मन्त्रविभागकृत एवायं त्रयीव्यपदेश इति । अतश्च “सैषात्रयी विद्या तपति” इत्याद्यपि न विरोत्स्यते । एवं ऋग्यजुस्सामसमुदायात्मकमन्त्रोपबन्धात् त्रय्यन्तर्गतश्चाथर्बवेदः । पृथग्व्यवस्थितग्रन्थसन्दर्भस्वभावत्वाच्च भिन्नः स इति सिद्धम् ॥ अथर्वणः ऋग्वेदत्वपक्षः
अन्ये पुनः—ऋक्प्रचुरत्वात्, प्रविरलयजुर्वाक्यत्वात्, अगीयमानसाममन्त्रतावशाच्च ऋग्वेदमेवाथर्ववेदमाचक्षते । अयमपि पक्षोऽस्तु, न178 कश्चिद्विरोधः ॥ अथर्वणः वेदत्वेन व्यवहारे विप्रतिपत्त्यभावः
यत्पुनरभिधीयते—वेदशब्दः त्रयाणामेव वाचकः, न चतुर्थस्येति—सोऽयमत्युत्कटो द्वेषः । वृद्धव्यवहारो ह्यत्र प्रमाणम् । “वेदोऽयम्”, “ब्राह्मणोऽयम्” इति तत्र तत्र वेदशब्दे उच्चारिते चत्वारोऽपि प्रतीयन्ते । “वेदो मयाऽधीतः” इति वदन्तं पृच्छन्ति व्यवहर्तारः “कतमस्त्वयाऽधीतो वेदः” इति । स आह “अथर्ववेदः” इति । न तमेवमाक्षिपन्ति “नासौ वेदः, यस्त्वया पठितः” इति । सोपपदोऽथर्ववेदे वेदशब्द इति चेत्, वेदान्तरेष्वपि तुल्यमेतत् “ऋग्वेदः, यजुर्वेदः, सामवेदः” इति । निरुपपदोऽपि तेषु वेदशब्दः, प्रयुज्यत इति चेत्, तदितरत्रापि समानमित्युक्तम् । चतुर्वेदाध्यायी भरद्वाज इति च प्रसिद्धमेव179 । सर्वथा तु सोपपद एवायुर्वेदादिषु वेदशब्द इति न तत्तुल्यकक्ष्यताऽधिक्षेपक्षेत्रतामथर्ववेदो नेतव्यः ॥ ब्रह्मयज्ञे अथर्ववेदविनियोगः सर्वसम्मतः
ब्रह्मयज्ञविधिश्च श्रौतः चतुर्ष्वप्यविशिष्ट इत्युक्तम् । स्मार्तोऽपि तथाविध एवास्ति । यथाऽऽह याज्ञवल्क्यः [या। स्मृ १-४४] — “ भेदसा तर्पयेद्देवान् अथर्वाङ्गिरसः पठन् ।
पितॄंश्च मधुसर्पिर्भ्यां अन्वहं शक्तितो द्विजः

” इति । साम्प्रदायिकमध्यापनाध्ययनादि सर्वमभिन्नमेवेत्यलं प्रसङ्गेन ॥

तेन प्रमाणतायां, वेदस्वाध्यायशब्दवाच्यत्वे, पुरुषार्थसाधनविधावपि चत्वारः समा वेदाः ॥ अथर्ववेदस्यैवेतरवेदापेक्षया श्रैष्ठ्यम्
यदि पुनः औत्तराधर्येण180 विना न परितुष्यते, तत् अथर्ववेद एव प्रथमः, ततः परमस्य मन्त्रस्य ब्रह्मणः प्रणवस्याभिव्यक्तेः । तथा च श्रुतिः—“ब्रह्म ह वा इदमग्र आसीत्” [गो। ब्रा। १-१] इत्युपक्रम्य, “आथर्वणं वेदमभ्यश्राम्यदभ्यतपत् समतपत्तस्माच्छान्तात् तप्तात् सन्तप्तात् ओमिति मन एवोर्ध्वमक्षरमुदक्रामत्” [गो। ब्रा। १-५] इत्यादि । तथा महाव्याहृतीनां शाखान्तरप्रसिद्धानां, अप्रसिद्धानां च बृहदित्यादीनां तत् एवोत्थानम् ॥ अथर्ववेदाध्ययनस्य प्रत्येकोपनयनाधिकारिकत्वम्
अथर्ववेदकृतोपनयनसंस्कारस्य वेदान्तराध्ययनमविरुद्धम् । अन्यवेदोपनीयमानस्य181 तु नाथर्वणोपनयनसंस्कारमप्रापितस्याथर्व वेदाध्ययनेऽधिकारः । तदुक्तम् “भृग्वङ्गिरोविदा संस्कृतोऽन्यान् वेदानधीयीत, नान्यत्र संस्कृतो भृग्वङ्गिरसोऽधीयीत” [गो। ब्रा। १-२९] इति । त्रय्येकशरणैरपि चैतदवश्याश्रयणीयं अथर्ववेदविहितं स्वकर्मभ्रंशे प्रायश्चित्तमाचरद्भिरित्यथर्ववेद एव ज्यायान् ॥ अथर्वणो वेदत्वे स्मृतयो न प्रतिकूलाः
यत्तु मानवं वाक्यमुदाहृतं षट्त्रिंशदाब्दिकं, तत् त्रिवेदाध्ययनविषयं वैकल्पिकम् । “वेदानधीत्य वेदौ वा वेदं वाऽपि यथाक्रमम्” [मनुस्मृ। ३-२] इति एकस्मिन् वेदे द्वादशवर्षाणि व्रतम्, द्वयोः चतुर्विंशतिः, त्रयाणां षट्त्रिंशदिति । यस्तु चतुरो वेदानधीते, तस्य “अष्टचत्वारिंशद्वर्षं वेदब्रह्मचर्यमुपासीत” इति स्मृत्यन्तरमस्ति, न च तदार्यैर्नादृतम् । तत्र त्रिवेदाध्यायिनामेव प्रतिवर्षं षोडशवर्षाणि व्रतं चरेदिति व्याख्यानमसङ्गतम्, उपक्रमविरोधात्, अनुपयोगाच्च । तेन वेदान्तराध्ययनकृत एवायं विकल्पविधिः, न द्वादशषोडशवर्षापेक्ष इत्यनादरोऽप्यस्यां स्मृतौ “कृष्णकेशोऽग्नीनादधीत” इति श्रुतिविरोधकृतः, नाथर्ववेदाध्ययननिषेधगर्भ इति ॥

त्रैवेदिकब्रह्मचर्यस्मृतिरपि चेयं अथर्ववेदाध्ययनपर्युदासमेव विषयीकरोति, न च वेदान्तराध्ययननिषेधमिति अत्रापि न विशेषहेतुरस्ति । त्रिषु वेदेष्विदं व्रतम्, न पुनरेष्वेव त्रिष्विति नियामकं वचनमस्ति ॥ अथर्वविदः श्राद्धभोजनेऽधिकारः अस्त्येव
यदपि श्राद्धप्रकरणे “यत्नेन भोजयेत्” इति त्रिवेदीपारगपरिकीर्तनं [पु। ६१५] तत् “वेदपारगम्” इति, “शाखान्तगम्” इति, “समाप्तिगम्” इति विशेषणपदपर्यालोचनया ऋग्वेदाद्येकदेशाध्यायिनामनधिकारमेव श्राद्धे सूचयति । अथर्वणस्तु अथर्वशिरोऽध्ययनमात्रलब्धपङ्क्तिपावनभावस्यैकदेशपाठिनोऽपि182 तत्राधिकार उपपद्यते । दर्शितं चाथर्वशिरोध्ययनमात्रादपि पङ्क्तिपावनत्वम् । पङ्क्तिपावनश्च श्राद्धभोजनेऽनधिकृत इति विप्रतिषिद्धम् ॥ इतरवेदैकदेशाध्यायिनः श्राद्धभोजनेऽनधिकारः
यस्तु “ज्येष्ठसामगस्त्रिमधुस्त्रिसुपर्णिकः” इति वेदान्तरैकदेशाध्यायिनामपि श्राद्धभोजनाभ्यनुज्ञानं तत् अनुकल्परूपमिव भाति, 183 प्रथमकल्पेन समग्रवेदाध्ययनोपदेशादिति । तस्मात् नाथर्वनिषेधार्थमेतद्वाक्यमिति ॥ अथर्वप्रामाण्ये कुमारिलोक्तं न हृदयङ्गमम्
तदेवमवस्थिते यत् वार्तिककारेण भयादिव, द्वेषादिव, मोहादिव, सानुकम्पमिव वा इदमुच्यते “यदि यज्ञोपयोगित्वम्” इत्यादि [पु। ६१५] —तदहृदयङ्गमम्—अथर्ववेदे पूर्वोत्तरब्राह्मणे184 विस्पष्टं इष्टिपश्वाहाहीनसत्राणामुपदेशात् । वेदान्तरेषु तच्चोदनाभावात् किमथर्ववेदे तदुपदेशेनेति चेत्—सुभापितमिदम्—एवमपि हि वक्तुं शक्यं—अथर्ववेदे तच्चोदनाया दर्शनात् किं वेदान्तरेषु तदुपदेशेन ? इति ॥

न च जाने कस्यैप पर्यनुयोगः ? किं नित्यस्य वेदस्य ? किं वा तत्प्रणेतुरीश्वरस्य ? इति । द्वावपि तावपर्यनुयोज्यावित्युक्तम् । अर्थान्तरशान्तिपुष्ट्यभिचारादि वेदान्तरेष्वपि न न दृश्यते । श्येनो हि सामवेद उत्पन्नः; अद्भुतशान्त्यादयश्च यजुर्वेद इति तदपि समानम् ॥ एकब्रह्माश्रितत्वं आथर्वणकर्मणामिति न क्षोदक्षमम्
एकब्रह्मर्त्विगाश्रिता इत्येतदपि न सत्यम् । यत एवं तत्र185 पठ्यते—द्वे यज्ञवृत्ती भवतः वैहारिकी च पाकयज्ञवृत्तिश्चेति । तत्र वैहारिकी नाम अनेकर्त्विगाश्रितानां एकक्रियाणामुपदेशः श्रुतौ । एकब्रह्मर्त्विगाश्रितास्तु शान्त्यादिक्रियाः स्मृतावित्यभूमिज्ञोक्तिरेषा ॥ वेदचतुष्टयेऽपि वैदिकानामभिमानः सम नः
त्रय्येव आत्मीयगोचरेत्येतदपि परममाध्यस्थ्यम् । न ह्यात्मीयः परकीयो वा कश्चिदस्ति वेदार्थः, सर्वशाखाप्रत्ययत्वादेकस्य कर्मणः । तस्मात् समानयोगक्षेमत्वात् सर्ववेदानां एकस्य ततः पृथक्करणं वेदनिन्दाप्रायश्चित्तनिर्भयधियामेव चेतसि परिस्फुरति, न साधूनामित्युपरम्यते ॥ अथर्ववेदप्रामाण्योपसंहारः
इति तुल्यप्रभावर्द्धिवर्धमानोचितस्तवाः ।
विविधाभिमतस्फीतफलसम्पादनोद्यताः ॥ ७४ ॥

चत्वारोऽपि पराक्षेपपरिहारस्थिरस्थितिम् ।
भजन्ति वेदाः प्रामाण्यलक्ष्मीं 186 हरिभुजा इव ॥ ७५ ॥

चतुस्स्कन्धोपेतः प्रथितपृथगर्यैरवयवैः
कृतान्योन्यश्लेषैः उपचितवपुः वेदविटपी ।
प्रतिस्कन्धं शाखाफलकुसुमसन्दर्भसुभगाः
प्रकाशन्ते तस्य द्विजमुखनिपीतोत्तमरसाः187 ॥ ७६ ॥

आगमप्रामाण्याक्षेपविकल्पः
आह— किमेतदित्थं प्रामाण्यं वेदानामेव साध्यते ।
उतागमान्तराणां वा188 सर्वेषाभियमेव दिक् ॥ ७७ ॥

किञ्चातः ?

आद्ये पक्षे परेष्येवं189 ब्रुवाणेषु किमुत्तरम् ?
उत्तरत्र तु मिथ्या स्युः सर्वेऽन्योन्यविरोधिनः190 ॥ ७८ ॥

आगमद्वैविध्यम्
कानि पुनरागमान्तराणि चेतसि विधायैवं वत्सः पृच्छति ? पुराणेतिहासधर्मशास्त्राणि वा ? शैवपाशुपतपञ्चरात्रबाद्धार्हतप्रभृतीति वा ? मन्वाद्यागमानां वेदमूलत्वात् प्रामाण्यम्
तत्र शैवादीनि तावन्निरूपयिष्यामः । मन्वादिप्रणीतानि धर्मशास्त्राणि वेदवत् तदर्थानुप्रविष्टविशिष्टकर्मोपदेशीनि प्रमाणमेव । कस्तेषु विचारः ? तेषां तु प्रमाणत्वं वेदमूलत्वेनैव केचिदाचक्षते ॥

तथा हि—न तावन्मन्वादिदेशनाः भ्रान्तिमूलाः सम्भाव्यन्ते, बाधकाभावात् । अद्ययावदपरिम्लानादरैः वेदविद्भिः तदर्थानुष्ठानात् ॥

नाप्यनुभवमूलाः,191 प्रत्यक्षस्य त्रिकालानवच्छिन्नकार्यरूपधर्मपरिच्छेददशासामर्थ्यासम्भवात् ॥

न च पुरुषान्तरोपदेशमूलाः, पुरुषान्तरस्यापि तदवगमे प्रमाणाभावात् । भावे वा मनुना किमपराद्धम् ? असति हि मूलप्रमाणे पुरुषवचनपरम्परायामेव कल्प्यमानायां अन्धपरम्परास्मरणतुल्यत्वं दुर्निवारम् ॥

न च विप्रलम्भका एव भवन्तो मन्वादयः एवमुपदिशेयुरिति युक्ता कल्पना; बाधकाभावात्, साधुजनपरिग्रहाच्चेत्युक्तम् ॥

तस्मात् पारिशेष्यात् वेदाख्यकारणमूला एव भवितुमर्हन्ति मन्वादिदेशनाः, तद्ध्यनुगुणं समर्थं च कारणमिति । तदाह भट्टः [तं। वा। १-३-२] — “ भ्रान्तेरनुभवाद्वाऽपि192 पुंवाक्याद्विप्रलम्भकात् ।
दृष्टानुगुण्यसामर्थ्यात् चोदनैव लघीयसी इति ॥

” मन्वाद्यागमानां वेदमूलकत्वे पक्षभेदाः
तत्र केचित् परिदृश्यमानमन्त्रार्थवादबलोन्नीतविधिमूलत्वं मन्यन्ते । अन्ये विप्रकीर्णशाखामूलत्वम् । अपरे पुनः उत्सन्नशाखामूलत्वमिति ॥

अनेन च विशेषविवरणेन न नः प्रयोजनम् । सर्वथा यथोपपत्ति वेद एव तत्र मूलं प्रकल्प्यताम्, न मूलान्तरम्, अप्रमाणकत्वात् । वेदमूलत्वपक्षेऽपि चेयमखिलजगद्विदिता 193 स्मृतिसमाख्याऽनुगृहीता भविष्यति । प्रत्यक्षमूलत्वे हि वेदवदत्रापि कः स्मृतिशब्दार्थः ? श्रुतिस्मृतिविरोधे श्रुतेः प्राबल्यम्
किञ्च वेदमूलत्वे सति स्मृतेः श्रुतिविरोधे सति तदतुल्यकक्ष्यत्वात् बाध्यत्वं सुवचं भवति । कॢप्तमेकत्र194 मूलं, इतरत्र195 कल्प्यम् । यावदेव भवान् स्मृतेः श्रुतिं कल्पयितुं व्यवस्यति, तावदेतद्विरोधिनी प्रत्यक्षश्रुता श्रुतिरवतरति हृदयपथमिति कथं तदा मूलकल्पनायै स्मृतिः प्रभवेत् । तदाह [तं। वा। १-३-३] — “ सोऽयमाभाणको लोके यदश्वेन हृतं पुरा ।
तत्पश्चात् गर्दभः प्राप्तुं केनोपायेन शक्नुयात् ? इति ॥

” श्रुतिस्मृत्योः साम्यमिति पक्षान्तरम्
अपर आह—विकल्प एवात्र युक्तः । किल द्विविधो वेदः— श्रूयमाणः, अनुमीयमानश्च । श्रूयमाणश्च श्रुतिरित्युच्यते । अनुमीयमानश्च स्मृतिरिति । द्वावपि चैतावनादी इति किं केन बाध्यते ? व्यक्ताव्यक्तो हि वेद एवासौ । अत एव न मन्त्रार्थवादादिमूलकत्वकल्पनं196 युक्तम्, स्मर्यमाणस्य वेदस्यानादित्वात् ॥ मन्वादिस्मृतिबाह्यस्मृत्योर्वैलक्षण्यम्
ननु ! एवं वेदमूलत्वेन प्रामाण्ये वर्ण्यमाने बाह्यस्मृतीनामपि प्रामाण्यं वदन्तः प्रवादुकाः कथं प्रतिवक्तव्याः ? उच्यते—प्रत्युक्ता एव ते तपस्विनः । उक्तं हि भगवता जैमिनिना—“अपि वा कर्तृसामान्यात् प्रमाण197 मनुमानं स्यात्” [जै। सू। १-३-२] इति ॥

कर्तृसामान्यादिति कोऽर्थः ? एकाधिकारावगमादिति । य एव वेदार्थानुष्ठानेऽधिकृताः कर्तारः, त एव स्मृत्यर्थानुष्ठाने । आचमनादिस्मार्तपदार्थसम्बलिततयैव वेदिस्तरणादिवैदिकपदार्थप्रयोगदर्शनात् । न198 त्वेवमेकाधिकारावगमो बाह्यस्मृतिषु विद्यते । तस्मात् मन्वादिस्मृतय एव प्रमाणं, न बाह्यस्मृतयः ॥ सिद्धान्ते तु मन्वादिस्मृतीनां प्रत्यक्षमूलकत्वादेव प्रामाण्यम्
ननु ! मन्वादिस्मृतयोऽपि 199 वेदमूलत्वात् प्रमाणं, नान्यत इति —अत्रोच्यते—तदेतद्वदमूलतया प्रामाण्यं योगिप्रत्यक्षं धर्मग्राहकममृष्यमाणाः किलाचक्षते भवन्तः । एतच्च न युक्तम्—यथा हि भगवानीश्वरः सर्वस्य कर्ता, सर्वस्येशिता, सर्वदर्शी, सर्वानुकम्पी च वेदानां प्रणेता समर्थितः, तथा योगिप्रत्यक्षमपि धर्मग्रहणे निपुणमस्मदादिप्रत्यक्षविलक्षणं प्रत्यक्षलक्षणे [पु। २६८] समर्थितमेव । तस्मात् तन्मूला एव मन्वादिदेशनाः भवन्तु ॥ धर्मस्यापि प्रत्यक्षत्वसम्भवः
यत्तु त्रिकालानवच्छिन्नः200 कथं प्रत्यक्षगम्यो धर्मः स्यादिति [पु। ६३०] चोदनैव तत्र प्रमाणमुच्यते—प्रतिविहितं तत् ईश्वरप्रत्यक्षसमर्थनेन । साध्यसाधनसम्बन्धस्य स्वर्गाग्निद्दोत्रादिगतस्य यथा ग्राहकमीश्वरप्रत्यक्षं, एवं अष्टकादिगतस्य तस्य ग्राहकं मन्वादिप्रत्यक्षं भविष्यतीति किमत्र201 त्रिकालानवच्छेदेन, अवच्छेदेन वा कृत्यम् ? वेदानां स्मृतीनां च वैलक्षण्यम्
यद्येवं अष्टकादिकर्मणां धर्मत्वाग्रहणात् असर्वज्ञ ईश्वरः स्यात् । ज्ञात्वा वाऽनुपदिशत् अकारुणिको भवेत्—नैष दोषः— सर्वं जानात्येव भगवान् । किञ्चित् स्वयमुपदिशति, किञ्चित् परानुपदेशयति । ते हि स्यानुग्राह्या भगवतः । तेषां च तदनुग्रहकृतेव तथाविधज्ञानप्राप्तिः । मन्यादीनां प्रत्यक्षो धर्म इति वेदेऽपि पठ्यते202 ॥ श्रुतिस्मृत्योः प्रत्यक्षमूलकत्वाविशेषात् न कुत्रापि तयोर्बाध्यबाधकभावः
ननु ! एवं प्रत्यक्षमूलत्वाविशेषात् श्रुतिस्मृत्योर्विरोधे विकल्पः प्राप्नोति, बृहद्रथन्तरबिध्योरिव;203 न बाध्यबाधकभावः । न हीश्वर प्रत्यक्षस्य योगिप्रत्यक्षस्य च प्रामाण्ये कश्चिद्विशेषः । नैसर्गिकाहार्यकृतस्तु204 भविष्यति । किं तेन ?

उच्यते—भवतु विकल्पः । को दोषः ? वेदमूलत्ववादिभिरपि कश्चिद्विकल्पो व्याख्यात205 एव । विषयविभागेन वा विकल्पो व्याख्यास्यते । न च श्रुतिस्मृतिविरोधोदाहरणं किञ्चिदस्तीति स्वाध्यायाभियुक्ताः । तस्मादाप्तप्रत्यक्षमूलत्वेन वेदानामिव धर्मशास्त्राणामपि प्रामाण्यम् ॥ इतिहासपुराणानामपि साक्षादेव प्रामाण्योपपादनम्
एतेन इतिहासपुराणप्रामाण्यमपि निर्णीतं वेदितव्यम् । इतिहासपुराणं हि पञ्चमं वेदमाहुः । उक्तं च— [म। भा। आ। १-२६५] “ इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।
बिभेत्यल्पश्रुताद्वेदः मामयं प्रतरिष्यति इति ॥

” सर्वस्मृतीनां वेदमूलकत्वेनैव प्रामाण्यमिति पक्षः
अथवा किमस्माकं दुरभिनिवेशेन ? वेदमूलत्वात् स्मृतीनां, स्मृतिवत् पुराणानामपि भवतु प्रामाण्यम् । प्रामाण्ये तावदविवादः । सदाचारस्याप्यनुपनिबद्धस्य206 वेदमूलत्वादेव भवतु प्रामाण्यम् ॥ विद्यास्थानेषु षण्णां प्राधान्यं, इतरेषामङ्गत्वम्
सर्वथा तावत् वेदाश्चत्वारः, पुराणं, स्मृतिरिति षडिमानि विद्यास्थानानि साक्षात्पुरुषार्थसाधनोपदेशीनि पूर्वोक्तरीत्या प्रमाणम् । व्याकरणादीनि तु षडङ्गानि अङ्गत्वेनैव तदुपयोगीनि, न साक्षाद्धर्मोपदेशीनि । कल्पसूत्रेष्वपि विक्षिप्तकर्मक्रमनियमसङ्ग्रहमात्रम्, नापूर्वोपदेशः । मीमांसा वेदवाक्यविचारात्मिका । वेदप्रामाण्यनिश्चयहेतुश्च न्यायविस्तर इत्यामुख एवोक्तम् [पु। ७-१०] । तदिमानि चतुर्दशविद्यास्थानानि प्रमाणम् । कानिचित् साक्षादुपदेशीनि, कानिचित् तदुपयोगीनीति सिद्धम् ॥ आगमद्वैविध्यम्
यानि पुनरागमान्तराणि207 परिदृश्यन्ते, तान्यपि द्विविधानि— कानिचित् सर्वात्मना वेदविरोधेनैव प्रवर्तन्ते, बौद्धादिवत् । कानिचित् तदविरोधेनैव कल्पितव्रतान्तरोपदेशीनि, शैवादिवत् ॥ शैवागमानां प्रामाण्यम्
तत्र शैवागमानां तावत् प्रामाण्यं ब्रूमहे; तदुपजनितायाः प्रतीतेः सन्देह-बाधकारण-कालुष्यकलापस्यानुपलम्भात् । ईश्वरकर्तृत्वस्य तत्रापि स्मृत्यनुमानाभ्यां सिद्धत्वात् । मूलान्तरस्य लोभमोहादेः कल्पयितुमशक्यत्वात् । न हि तत्र इदम्प्रथमता208 स्मर्यते । वेदवदेकदेशसंवादाश्च भूम्ना दृश्यन्त इति कुतो मूलान्तरकल्पनावकाशः ॥ शैवागमा अपि वैदिकधर्मप्रतिपादका एव
न च वेदप्रतिपक्षतया तेषामवस्थानम्; वेदप्रसिद्धचातुर्वर्ण्यादिव्यवहारापरित्यागात् ॥

मन्वादिचोदनान्यायः209 स यद्यपि न विद्यते ।
शैवागमे तथाऽप्यस्य न न युक्ताऽप्रमाणता ॥ ७९ ॥

सर्वोपनिपदामर्थाः निःश्रेयसपदस्पृशः ।
विविच्यमाना दृश्यन्ते ते हि तत्र पदे पदे ॥ ८० ॥

ये च वेदविदामग्र्याः कृष्णद्वैपायनादयः ।
प्रमाणमनुमन्यन्ते तेऽपि210 शैवादिदर्शनम् ॥ ८१ ॥

पञ्चरात्रप्रामाण्यम्
पञ्चरात्रेऽपि211 तेनैव प्रामाण्यमुपवर्णितम् ।
अप्रामाण्यनिर्मित्तं हि नास्ति तत्रापि किञ्चन ॥ ८२ ॥

तत्र च भगवान् विष्णुः प्रणेता कथ्यते । स चेश्वर एव ॥ शैववैष्णवकलहस्य निर्मूलत्वम्
एकस्य212 कस्यचिदशेषजगत्प्रसूति-
हेतोरनादिपुरुषस्य महाविभूतेः ।
सृष्टिस्थितिप्रलयकार्यविभागयोगात्
ब्रह्मेति विष्णुरिति रुद्र इति प्रतीतिः ॥ ८३ ॥

शैवपञ्चरात्रोक्तधर्माणां वैदिकम्
वेदे च पदे पदे “एक एव रुद्रोऽवतस्थे न द्वितीयः” [अथ। ३] , “इदं विष्णुर्विचक्रमे” [तै। सं। १-२-१३, ऋ। सं। १-२२-७] इति रुद्रो विष्णुश्च पठ्यते । तद्योगाश्च तदाराधनोपाया213 वेदेऽपि चोदिता एव । शैवपञ्चरात्रयोस्तु तद्योगा एवान्यथोपदिश्यन्ते214 । न चैष एव वेदविरोधः; वैकल्पिकत्वादुपायानाम् । अतः आप्तप्रणीतत्वात्, वेदाविरुद्धत्वाच्च न तयोरप्रामाण्यम् ॥ बौद्धागमानामप्रामाण्यम्
ये तु सौगतसंसारमोचकागमाः पापकाचारोपदेशिनः, कस्तेषु प्रामाण्यमार्योऽनुमोदते ?

बुद्धशास्त्रे हि विस्पष्टा दृश्यते वेदबाह्यता ।
जातिधर्मोचिताचारपरिहाराबधारणात्215 ॥ ८४ ॥

संसारमोचकाः पापाः प्राणिहिंसापरायणाः ।
मोहप्रवृत्ता एवेति न प्रमाणं तदागमः ॥ ८५ ॥

निषिद्धसेवनप्रायं यत्र कर्मोपदिश्यते ।
प्रामाण्यकथने तस्य कस्य जिह्वा प्रवर्तते ? ॥ ८६ ॥

ततो216 यद्यपि सिद्धिः स्यात् कदाचित् कस्यचित् क्वचित् ।
ब्रह्महत्यार्जितग्राम्यभोगवन्नरकाय सा ॥ ८७ ॥

निषिद्धाचरणोपात्तं दुष्कृतं केन शाम्यति ?
अतः कालान्तरेणापि नरके पतनं पुनः ॥ ८८ ॥

बौद्धवैदिकागमयोर्वैलक्षण्यम्
यत्त्वत्र चोदितम् [पु। ६२९] —परेषु पूर्वोक्तक्रमेण बुद्धाद्याप्तकल्पनां कुर्वत्सु किं प्रतिविधेयमिति—तत्रोच्यते—महाजनप्रसिद्ध्यनुग्रहे हि सति सुवचमाप्तोक्तत्वं भवति, नान्यथा ॥ वैदिकागमानां महाजनपरिग्रहात् प्रामाण्यम्
महाजनश्च वेदानां, वेदार्थानुगामिनां च पुराणधर्मशास्त्राणां, वेदाविरोधिनां च केषाञ्चिदागमानां प्रामाण्यमनुमन्यते; न वेद विरुद्धानां बौद्धाद्यागमानामिति कुतस्तेषामाप्तप्रणीतत्वम् ? मूलान्तरं हि तत्र सुवचं अज्ञानलोभादि—इत्येवमभिधाय वेदस्पर्धिनो बौद्धादयः निषेद्धव्याः ॥ कोऽयं महाजनो नाम ?
आह—

कोऽयं महाजनो नाम ? किमाकारः ? किमास्पदः ?
किंसङ्ख्यः ? किंसमाचारः ? इति व्याख्यातुमर्हसि ॥ ८९ ॥

अपि च बौद्धादयो बुद्धादीनाप्तान् स्वागमप्रामाण्यसिद्धये वदन्ति ते महाजनमपि निजम् । 217 तत्सिद्धये बन्दकादिकं218 वदेयुरेव । कस्तत्र प्रतीकारः ? उच्यते—चातुर्वर्ण्यं, चातुराश्रम्यं च यदेतदार्यदेशप्रसिद्धं, स महाजन उच्यते । आकारस्तु तस्य कीदृशं पाणिपादम् ? कीदृशं शिरोग्रीवं वा ? कियती तस्य सङ्ख्या ? इति पुरुषलक्षणादीनि गणयितुं न जानीमः ॥

चातुर्वर्ण्यचातुराश्रम्यरूपश्चैष महाजनः वेदपथप्रवृत्तः आगमान्तरवादिभिरप्रत्याख्येय219 एव । तथा चैते बौद्धादयोऽपि— दुरात्मानः वेदप्रामाण्यनियमिता एव चण्डालादिस्पर्शं परिहरन्ति । निरस्ते हि जातिवादाबलेपे कः चण्डालादिस्पर्शे दोषः ?

येऽपि अन्ये केचित् अशुचिभक्षणागम्यागमनादिनिर्विकल्पदीक्षाप्रकारमकार्यमनुतिष्ठन्ति, तेऽपि चातुर्वर्ण्यमहाजनभीताः तत्कर्म रहसि कुर्वन्ति, न प्रकाशम् । निर्विशङ्के हि तच्छास्त्रप्रत्यये किमिति चौर्यवत् तदर्थानुष्ठानम् ? अत एव न निजो महाजनः उत्थापयितुं शक्यते वन्दकादिः, किं त्वयमेव चातुर्वर्ण्यादिर्महाजनः220 । स चैष महाजनः वेदविरुद्धमागमं परिहरत्येव, नानुमोदते ॥

संसारमोचकं स्पृष्ट्वा शिष्टाः स्नान्ति सवाससः ।
बौद्धैरपि सहैतेषां व्यवहारो न कश्चन ॥ ९० ॥

वेदधर्मानुवर्ती च प्रायेण सकलो जनः ।
वेदवाह्यस्तु यः कश्चित् आगमो वञ्चनैव सा ॥ ९१ ॥

वेदबाह्या अपि वैदिकाभासा एव
ईदृशश्चायं अनन्यसामान्यविभवो महाभागो वेदनामा ग्रन्थराशिः, यदन्ये बाह्यागमवादिन एवमेव स्पर्धन्ते । ते हि स्वागमप्रामाण्यमभिवदन्तः, वेदरीत्याऽभिदधति । वेदे यथातथा प्रवेष्टुमीहन्ते ॥

वैदिकानर्थान् अन्तराऽन्तरा स्वागमेषु निबध्नन्ति । वेदस्पर्शपूतमिवात्मानं मन्यन्ते । तेषामप्यन्तर्हृदये ज्वलत्येव वेदप्रामाण्यम् । अत एवंविधाया महाजनप्रसिद्धेः आगमान्तरेष्वदर्शनात् न तेषामाप्तप्रणीतत्वम् ॥ महाजनपरिग्रहाद्वेदप्रामाण्येऽपि न्यायशास्त्रस्यावश्यकता
आह—

महाजनप्रसिद्ध्यैव वेदप्रामाण्यनिश्चयात् ।
किमर्थः कण्ठशोषोऽयं221 इयानार्येण संश्रितः ? ॥ ९२ ॥

वेदप्रामाण्यसिद्ध्यर्थं हि इदं शास्त्रमारब्धमिति गीयते । वेदप्रामाण्यस्य च महाजनप्रसिद्ध्यैव सिद्धत्वात् किं शास्त्रेण ?

अलं क्षुद्रचोद्यैरीदृशैः !

महाजनप्रसिद्धिं हि केचिद्विप्लावयन्त्यपि222
अतस्तदुपघाताय शास्त्रमन्त्रं प्रयुज्यते ॥ ९३ ॥

तस्मात् पूर्वोक्तानामेव प्रामाण्यमागमानां, न वेदबाह्यानामिति स्थितम् ॥ सर्वागमप्रामाण्यपक्षः
अन्ये सर्वागमानां तु प्रामाण्यं प्रतिपेदिरे ।
सर्वत्र बाधसन्देहरहितप्रत्ययोदयात्223 ॥ ९४ ॥

सवत्र वेदवत् कर्तुः आप्तस्य परिकल्पना ॥
दृष्टार्थेष्वेकदेशेषु प्रायः संवाददर्शनात् ॥ ९५ ॥

आगमानां न परस्परं विरोधः
यत्पुनरत्रोक्तम्—सर्व एवागमाः परस्परविरुद्धार्थोपदेशित्वादप्रमाणं स्युरिति—तत्रोच्यते—आप्तप्रणीतत्वेन तुल्यकक्ष्यत्वात् अन्यतमदौर्बल्यतिमित्तानुपलम्भाच्च न कश्चिदागमः किञ्चित् बाधते । विरोधमात्रं त्वकिञ्चित्करम्, प्रमाणत्वाभिमतेषु वेदवाक्येष्वपि परस्परविरोधदर्शनात् । पुरुषशीर्षस्पर्शनसुराग्रहगवालम्भादिचोदनासु वचनान्तरविरुद्धमर्थजातमुपदिष्टमेव ॥ अधिकारिभेदेन सर्वागमानां यथाकथञ्चित् श्रेयस्साधनत्वम्
किञ्चानमानां विरोधोऽपि नातीव विद्यते, प्रमाणे पुरुषार्थे वा सर्वेषामविवादात् ॥

नानाविधेरागममार्गभेदैः आदिश्यमाना बहवोऽभ्युपायाः ।
एकत्र ते श्रेयसि सम्पतन्ति सिन्धौ प्रबाहा इव जाह्नवीयाः ॥ ९६ ॥

उपायोपेयविषये सर्वागमानामैककण्ठ्यम्
तथा ह्यपवर्ग उपेषः सर्वशास्वेषु निर्दिश्यते । तदुपायः सर्वत्र ज्ञानमुपदिश्यते । ज्ञानविषये तु विवदन्ते । तत्रापि प्रायशः आत्मविषयतायां बहूनामविप्रतिपत्तिः ॥

प्रकृतिपुरुषविवेकज्ञानपक्षे तु प्रकृतेर्विविक्ततया पुरुष एव ज्ञेयः ॥

नैरात्म्यवादिनस्तु आत्मशैथिल्यजननाय224 तथोपदिशन्ति । स्वच्छं तु ज्ञानतत्त्वं यक्तैरिष्यते; तत् स्वातन्त्र्यात्, अनाश्रितत्वात् आत्मकल्पमेव । कूटस्यनित्यचे225 प्रवाहनित्यत्वे च विशेषः ॥ क्रियासु अनैककण्ट्यं न दोषाय
एवं प्रधानयोस्तावत् उपायोपेययोरविवादः । क्रिया तु विचित्रा प्रत्यागमं भवतु नाम । भस्मजटापरिग्रहो वा, दण्डकमण्डलुग्रहणं वा, रक्तपटधारणं वा, दिगम्बरता वाऽबलम्ब्यताम् ! कोऽत्र विरोधः ? वेदेऽपि किमल्पीयांसः पृथगितिकर्तव्यताकलापखचिताः स्वर्गोपायाश्चोदिताः ? तस्मात् परस्परविरोधेऽपि न प्रामाण्यविरोधः ॥ आगमप्रवक्तॄनां सर्वज्ञत्वं समानम्
अतश्च यदुच्यते— “ कपिलो यदि सर्वज्ञः सुगतो नेति का प्रमा ?
अथोभावपि सर्वज्ञौ मतभेदस्तयोः कथम् ?

” इति—तदपास्तं भवति—प्रधाने सति भेदाभावात् । क्वचिच्च तद्भावे प्रामाण्याविरोघात् । न च हृदयक्रोशनहेतुकर्मोपदेशात्226 आगमान्तराणामप्रामाण्यम्; तस्याप्रामाण्यतायां अप्रयोजकत्वात् ॥

विचिकित्सा227 हि नृशिरःकपालाद्यशनेषु या ।
साऽप्यन्यदर्शनाभ्यासभावनोपनिबन्धना ॥ ९७ ॥

तथा च शान्तचित्तानां सर्वभूतदयावताम् ।
वैदिकीष्वपि हिंसासु विचिकित्सा प्रवर्तते ॥ ९८ ॥

हिंसोपदेशमात्रात् नाप्रामाण्यम्
अभिचारादिहिंसायां वैदिक्यामपि भवतु हृदयोत्कम्पः । करणांशोपनिपातिनी228 हिंसेति लिप्सातस्तस्यां प्रवृत्तिः ॥

या तु अग्निषोमीयादिपशुहिंसा इतिकर्तव्यतांशस्था, यस्यां क्रत्वर्थो हि शास्त्रादवगम्यते इति वैधी प्रवृत्तिः, तस्यामपि कारुणिको लोकः सविचिकित्सो भवति । वदति च “यत्र प्राणिवधो धर्मस्त्वधर्मः तत्र कीदृशः ?” इति । न चैतावता वेदस्याप्रामाण्यम् । एवमागमान्तरेष्वपि भविष्यति ॥ विधिनिषेधादिकं तत्तदागमप्रतिनियतम्
यत्तु आगमान्तरेभ्यः कौलादिभ्यः खेचरताद्यर्थसिद्धावपि निषिद्धाचरणकृतः कालान्तरे प्रत्यवायोऽवश्यम्भावीत्युक्तम्—तदपि न युक्तम्—तस्यार्थस्य तदागमनिषिद्धत्वाभावात्229 । आगमान्तरनिषिद्धत्वेऽपि वैकल्पिकत्वकल्पनोपपत्तेः । पुरुषार्थप्राप्त्युपायत्वाच्च तस्य तस्मिन् सिद्धे कुतः प्रत्यवाः ? निषिद्धकर्मोपदेशमात्रं नाप्रामाण्यहेतुः
भवतु वा कालान्तरे ततः प्रत्यवायः ! तथाप्यधिकारिभेदेन तत्फले कर्मणि चोद्यमाने श्येनादाविव नागमप्रामाण्यमत्र हीयते । “श्येनेनाभिचरन् यजेत” इत्यत्र “अभिचरन्” इति शता230 लङ्घितनिषेधमधिकारिणमाचष्टे । तस्य च श्येनयागः चोदितः । स च तत्प्रयोगात् कृतबधः प्रत्यवैत्येव, न च वेदस्याप्रामाण्यम् । उक्तं च “उभयमिह चोदनया लक्ष्यते अर्थोऽनर्थश्च” [शा। भा। १-१-२] इति । अधिकारभेदाच्च विचित्रकर्मचोदना नानुपपन्ना । मरणकामस्य सर्वस्वारः231 चोदितः, आयुष्कामस्य कृष्णलचरुः । तस्मादेतदपि नाप्रामाण्यनिमित्तम् ॥ बौद्धागमस्य वर्णाश्रमधर्मनिषेधे न तात्पर्यम्
यदपि बौद्धागमे जातिवादनिराकरणं, तदपि सर्वानुग्रहप्रवणकरुणातिशयप्रशंसापरं232 न च यथाश्रुतमवगन्तव्यम् । तथा च तत्रैतत्पठ्यते “न जातिकार्यदुष्टान् प्रव्राजयेत्” इति । तस्मात् सर्वेषामागमानां आप्तैः कपिलसुगतार्हत्प्रभृतिभिः प्रणीतानां प्रामाण्यमिति युक्तम् ॥ सर्वागमानामपीश्वरकृतत्वपञ्चः
अन्ये मन्यन्ते—सर्वागमानामीश्वर एव भगवान् प्रणेतेति । स हि सकलप्राणिनां कर्मविपाकं अनेकप्रकारमबलोकयन् करुणया ताननुग्रहीतुं अपवर्गप्राप्तिमार्गं बहुविधमुत्पश्यन् आशयानुसारेण केषाञ्चित् क्वचित् कर्मणि योग्यतामवगम्य तं तमुपायमुपदिश्यति । स्वविभूतिमहिम्ना च नानाशरीरपरिग्रहात् स एव सञ्ज्ञाभेदानुपगच्छति । अर्हन्निति, कपिल इति, सुगत इति स एवोच्यते भगवान् । नानासर्वज्ञकल्पनायां यत्नगौरवप्रसङ्गात् ॥ बुद्धस्य भगवदवतारत्वम्
ननु ! बुद्धः शुद्धोदनस्यराज्ञोऽपत्यम् स कथमीश्वरो भवेत् ? परिहृतमेतत् भगवता कृष्णद्वैपायनेन [गी। ४-७] — “ यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् इति ॥


शरीरमेव शुद्धोदनस्यापत्ये, नात्मा । अतः प्रतियुगं विष्णुरेव भगवान् धर्मरूपेणावतरतीत्यागमविदः233 प्रतिपन्नाः ॥ वैदिकबौद्धाद्यागमयोर्विशेषः
ननु ! वेदसमानकर्तृकेषु आगमान्तरेषु234 कथं तादृशो235 महाजनसम्प्रत्ययो नास्ति ? एवं नास्ति—तेन वर्त्मना भगवता कतिपये प्राणिनः अनुगृहीताः, येषां तादृश आशयो लक्षितः । वैदिकेन तु वर्त्मना निस्सङ्ख्याकाः प्राणिनोऽमुगृहीताः इति तत्र महानादरः, आगमान्तरेषु कृश इति ॥

एककर्तृके परस्परविरोधः कथमिति चेत्, वेदैरेवात्र वर्णितः समाधिः । तेष्वपि भूम्नः परस्परविरोधस्य दर्शनादित्युक्तम् । तस्मादीश्वरप्रणीतत्वादेव सर्वागमानां प्रामाण्यम् ॥ सर्वागमानां वेदमूलत्वात् प्रामाण्यमिति पक्षः
अपरे पुनः वेदमूलत्वेन सर्वागमप्रामाण्यमभ्युपागमन् । यो हि मन्वादिदेशनानां वेदमूलतायां न्योय उक्तः— [तं। वा। १-३-२] “ भ्रान्तेरनुभवाद्वाऽपि पुंवाक्याद्विप्रलम्भकात् ।
दृष्टानुगुण्यसामर्थ्यात् चोदनैव लघीयसी ॥

” इति—स सर्वागमेषु समानः । न च मन्वादिस्मृतीनां मूलमूता श्रुतिः उपलभ्यते । अनुमानेन तु तत्कल्पनमागमान्तरेष्वपि तुल्यम् ॥ बौद्धागमानामपि वेदमूलकत्वसम्भवः
ननु च ! उक्तं “अपि236 वा कर्तृसामान्यात् प्रमाणमनुमानं स्यात्” [जै। सू। १-३-२] इति—तच्चेह237 नास्ति, इति कथं थुत्यनुमानम् ? नैष दोषः—

एकाधिकारावगमः न प्रामाण्ये प्रयोजकः ।
मिश्रानुष्ठानसिद्धौ238 तु कामं भवतु कारणम् ॥ ९९ ॥

न च पृथगनुष्ठीयमानमपि कर्म न प्रमाणमूलं भवति, र्णाश्रमभेदानुष्ठेयकर्मवत्239

कर्तृसामान्यशून्यत्वात् अथ मूलान्तरोदयः240
तदसत्, बाधकाभावात्, भ्रान्त्यादिप्रतिषेधनात् ॥ १०० ॥

प्रत्यक्षमूलताया तु गुर्वी भवति कल्पना ।
वेदस्त्वनन्तशाखत्वात् मूलं तत्र सुसङ्गतम् ॥ १०१ ॥

सर्वागमानामपि श्रुतिमूलत्वम्
नन्वत्र241 वेदमूलत्वे द्वेषो वेदविदां कथम् ?
गत्वा त एव पृच्छयन्तां साक्षर्यं242 यदि विद्यते ॥ १०२ ॥

गोवधे243 वा कथं तेषां द्वेषः सुस्पष्टवैदिके ?
प्रत्युक्तं च विरुद्धत्वं, शाखानन्त्याच्च दुर्गमम् ॥ १०३ ॥

किमियद्वेदसर्वस्वं यावदस्मन्मुखे स्थितम् ?
शाखान्तराद्वा संवादः न लभ्येतेति का प्रमा ? ॥ १०४ ॥

तथा च साङ्ख्यशास्त्रप्रसिद्धत्रिगुणात्मकप्रकृतिसूचनपरं “अजामेकां लोहितशुक्लकृष्णां” [तै। ना। ९-२, श्वे। ४-५] इति वैदिकं लिङ्गमुपलभ्यते ॥

निर्ग्रन्थकथिततपस्सचिवतत्त्वज्ञानशंसी244 चायमनुवादो दृश्यते “मुनयो245 वातरशनाः” [तै। आ। २-७] इति । एवं रक्तपटपरिग्रहभस्मकपालधारणादिमूलमप्यभियुक्ता लभन्त एव ॥

मन्वादिस्मृतिवत् कर्तृसाम्यस्यासम्भवेऽप्यतः ।
प्रमाणं वेदमूलत्वात् वाच्या सर्वागमस्मृतिः ॥ १०५ ॥

ततश्च— यः कश्चित् कस्यचिद्धर्मो मनुना परिकीर्तितः ।
स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः

इत्यत्र यथा मनुग्रहणं गौतम-यम-आपस्तम्ब-संवर्तकादिस्मृतिकारोपलक्षणम्, एवं अर्हत्-कपिल-सुगताद्युपलक्षणपरमपि व्याख्येयम् ॥ लोकायतमतस्य अनुपादेवत्वम्
ननु च ! लोकायताद्यागमेऽप्येवं प्रामाण्यं प्राप्नोति । “विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति, न प्रेत्य सञ्ज्ञाऽस्ति” [बृ। ४-४-१३] इति वेदमूलदर्शनात् । ततश्च लोकायतदर्शने प्रमाणीभूते सति स्वस्ति सर्वागमेभ्यः ! उच्यते—

246 न हि लोकायते किञ्चित् कर्तव्यमुपदिश्यते ।
वैतण्डिककथैवासौ न पुनः कश्चिदागमः ॥ १०६ ॥

ननु च ! “यावज्जीवं सुखं जीवेत्” इति तत्रोपदिश्यते । एवं “न स्वभावसिद्धत्वेत, अत्रोपदेशवैफल्यात्”, “धर्मो न कार्यः”, “तदुपदेशेषु न प्रत्येतव्यम्” इत्येवं वा यदुपदिश्यते, तत् प्रतिबिहितमेव, पूर्वपक्षवचनमूलत्वात् लोकायतदर्भनस्य । तथा च तत्र उत्तरब्राह्मणं भवति “न वा अरे अहं मोहं ब्रवीमि अविनाशी वा अरेऽप्रमात्मा मात्रासंसर्गस्त्वस्य भवति” [बृ। ४-४-१२-१३] इति । तदेवं पूर्वपक्षवचनमूलत्वात् लोकायतशास्त्रमपि न स्वतन्त्रम् । उत्तरवाक्यप्रतिहतत्वात्तु तद्नादरणीयम् ॥ बौद्धाद्यागमवार्वाकमतयोर्वैलक्षण्यम्
शास्त्रान्तराणां तु पूर्वपक्षवाक्यमूलत्वकल्पनं अयुक्तम् । समनन्तरमेव तत्प्रतिपक्षवचनानुपलब्धेः इत्यतः वेदमूलत्वात् सर्वागमाः प्रमाणम् ॥ प्राचीनागमानां कल्पितागमानां च वैलक्षण्यम्
सर्वागमप्रमाणत्वे नन्वेवमुपपादिते ।
अहमप्यद्य यत्किञ्चित् आगमं रचयामि चेत् ॥ १०७ ॥

तस्यापि हि प्रमाणत्वं दिनैः कतिपयैर्भवेत् ।
तस्मिन्नपि न पूर्वोक्तन्यायो247 भवति दुर्वचः ॥ १०८ ॥

जग्त्पुस्तकलिखितं यदपि तदपि किञ्चिदिदानीं केनापि धूर्तेन प्रख्याप्यते—मह नयमागम इति । तत्राप्याप्त एव प्रणेता कल्प्यताम् ! यादृशं तादृशं वैदिकं वचनमुच्यतां मूलभूतमिति—

नैतदस्त्यविगीतां248 ये प्रसिद्धिं प्रापुरागमाः ।
कृतश्च बहुभिर्येषां शिष्टैरिह परिग्रहः ॥ १०९ ॥

अद्य प्रवर्तमानाश्च नापूर्वा इव भान्ति ये ।
येषां न मूलं लोभादि येभ्यो नोद्विजते जनः ॥ ११० ॥

तेषामेव प्रमाणत्वं आगमानामिहेष्यते ।
न मृष्यते तु यत्किञ्चित् प्रमाणं कुट्टनीमतम् ॥ १११ ॥

तथा हि—

अमितैकपटनिवीतानियतस्त्रीपुंसविहितबहुचेष्टम् ।
नीलाम्बरव्रतमिदं किल कल्पितमासीत् विटेः कैश्चित् ॥ ११२ ॥

तदपूर्वमिति विदित्वा निवारयामास धर्मतत्त्वज्ञः ।
राजा शङ्करवर्मा न पुनर्जैनादिमतमेवम् ॥ ११३ ॥

वेदागमप्रामाण्योपसंहारः
इत्याप्तोक्तत्वहेतोः परिमुषितपरोदीरिताशेषदोषात्
एषां वेदागमानां सुदृढमुपगते मानभावे प्ररोहम्249
उन्मूलत्वात्तथात्वं पुरुषवचनतो250 वाऽस्तु शास्त्रान्तराणां
तद्द्वारेणापि251 वक्तुं न खलु कलुपता शक्यते वेदवाचाम् ॥

अनृतव्याघातादिभिः वेदप्रामाण्याक्षेपः
ननु252 ! नाद्यापि वेदस्य प्रामाण्यं सुव्यवस्थितम् ।
स्वदेहसम्भवैरेव दोषैरनृवतादिभिः ॥ ११५ ॥

“चित्रया यजेत पशुकामः”, “पुत्रकामः पुत्रेष्ट्या यजेत” इति थूयते । न चेष्ट्यनन्तरं पुत्रपश्वादिफलमुपलभ्यते । तस्मात् असत्याः चित्रादिचोदनाः ॥ चित्रादिकर्मणां फलव्यभिचारसमर्थनम्
ननु च ! यः पशुकामः स इष्टिं कुर्यात्—इतीयानेव वाक्यार्थः । तत्र यागात् पशवो भवन्तीत्येतदेव 253 दुरुपपादम् । ते च भवन्तोऽप्यनन्तरमेव भवन्तीत्येतत् दुरुपपादतरम् । अतः कथं न सत्यार्थत्वं चित्रादिचोदनानाम्—उच्यते—“यावज्जीवं यजेत” “यावज्जीवं जुहुयात्” इति जीवनवत् 254 असाध्यमानपशुकामनैव नाधिकारिविशेषणं भवितुमर्हति । पशूनां ततः कर्मणः सिद्धिमनवबुध्यमानस्य तत्राधिकार एव न सम्प्रवर्तते इति निर्णेष्यते एतत् ॥

आनन्तर्यमपि255 कर्मस्वभावपर्यालोचनेनैव गम्यते, समनन्तरफलत्वेन कर्मणां दृष्टत्वात् । आह256 च “यदा तावदियं विद्यमानाऽऽसीत्, तदा फलं न दत्तवती; यदा फलमुत्पद्यते, तदाऽसौ नास्ति, असती कथं फलं दास्यति ?” इति ॥

अपि च कालान्तरे फलस्यान्यत्257 प्रत्यक्षं कारणमुपलभ्यते— 258 सेवादि । तस्मिंश्च कारणे दृष्टे सति को नाम सृक्ष्मदृष्टिः अदृष्टं चित्रादि कारणं कल्पयेत् ? तस्मादसत्याः चित्रादिचोदनाः, प्रत्यक्षा दिप्रमाणपरिच्छेदयोग्यार्थोपदेशित्वे सत्यपि तत्संवादशून्यत्वात्; एवंविधविप्रलम्भकवाक्यवत् ॥ चित्रादिदृष्टान्तेन अग्निहोत्रादीनामप्यफलत्वं सिध्यति
चित्रादिवचसामेवं अपचारस्य दर्शनात् ।
अनाश्वासोऽग्निहोत्रादिचोदनास्वपि जायते ॥ ११६ ॥

अग्निहोत्रचोदना, मिथ्या—वेदैकदेशत्वात्, चित्रादिचोदनावत् । तदत्र तावदसंवादात् अप्रामाण्यम् ॥

एवं “पुत्रकामः पुत्रेष्ट्या यजेत” इत्येवमादावपि असंवादोद्रष्टव्यः ॥ कुत्रचित् विसंवादश्च
विसंवादोऽपि क्वचित् दृश्यते । प्रमीते यजमाने259 पात्रचयनाख्यं कर्मोपदिश्य एवमादिदेश वेदः “स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गं लोकमेति” इति । तत्र “एषः” इति तावत् आत्मनो निर्देशः क्लिष्ट एव, परोक्षत्वात्,260 स्फ्यकपालादियज्ञायुधसम्बन्धाभावाच्च कायस्त्वेष निर्दिश्यते, स न स्वर्गं लोकं याति—इति; तद्विपरीतभस्मीभावोपलम्भादिति विसंवादः । एवञ्च असंवादविसंवादाभ्यां अप्रमाणं वेदः ॥ वेदवाक्येषु परस्परव्याहतिश्च
व्याघाताच्च—“उदिते होतव्यम्”, “अनुदिते होतव्यम्”, “समयाध्युषिते होतव्यम्” इति होमकालत्रयमपि विधाय निन्दार्थवादैः तदेव निषेधति—“श्यामो वा अस्याहुतिमभ्यवहरति, य उदिते जुहोति । शबलो वा अस्याहुतिमभ्यवहरति, योऽनुदिते जुहोति । श्यामशबलावस्याहुतिमभ्यवहरतः, यः समयाध्युषिते जुहोति” ॥

न चार्थवादमात्रमेतदिति वक्तव्यम्; यतः—

विधानं कल्प्यते स्तुत्या निन्दया च निषेधनम् ।
विधिस्तुत्योः समा 261 वृत्तिः तथा निन्दानिषेधयोः ॥ ११७ ॥

न हि निन्दा निन्दितुमुपादीयते, किन्तु निन्दितादितरत् प्रशंसितुमित्यवमपि प्रकारोऽत्र न सम्भवति; कालत्रयस्याप्यत्र निषेधात् कस्यान्यस्य तन्निन्दया प्रशंसा विधीयते ? तस्मात् परस्परविरुद्धार्थोपदेशलक्षणात् व्याघातात् अप्रमाणं वेदः ॥ पौनरुक्त्यं च वेदे दृश्यते
पौनरुक्त्याच्च—“त्रिः प्रथमामन्वाह त्रिरुत्तमाम्” इत्यभ्यासचोदनायां प्रथमोत्तमयोः सामिधेन्योः विर्वचनात् पौनरुक्त्यम् । सकृदनुवचनेन तत्प्रयोजनसम्पत्तेः अनर्थकं त्रिर्वचनम् । तस्मात् इत्थममृतव्याघातपुनरुक्तदोषकलुषितत्वात् अप्रमाणं वेदः । तदाह सूत्रकारः—

“तदप्रामाण्यमनृतव्याघातपुनरुक्तदोषेभ्यः262 पुत्रकामेष्टिहवनाम्पासेषु” [न्या। सू। १-२-५६] इति ॥ वेदप्रामाण्यविरोधिदोषपरिहारः
अत्र समाधिमाह—

“न कर्मकर्तृसावनवैगुण्यात्” [न्या। सू। १-२-५७] इति ॥

अयमाशयः—अप्रामाण्यसाधनं अनृतत्वं परैरुक्तम् । अनृतत्वे च साधनं फलादर्शनम् । एतच्चानैकान्तिकम्, अन्यथाऽपि फलादर्शनोपपत्तेः । किं वेदस्यासत्यार्थत्वादत्र फलादर्शनम् ? उत कर्त्रादिवैगुण्यात् ? इति न विशेषहेतुरस्ति ॥ करीर्वादौ प्रत्यक्षादेव फलनिश्चयः
ननु ! न कदाचिदपि कर्मसमनन्तरमेव फलमुपलब्धमिति, तददर्शनमेव तदनृतत्वकारणम्, न कारणवैगुण्यमिति—तदयुक्तम्— भविगुणायां कारीर्यां प्रयुक्तायां सद्य एव वृष्टेर्दर्शनात् । न च तत् काकतालीयम्; आगमेन, अन्वयव्यतिरेकाभ्यां च तत्कारणत्वदर्शनात्263

पुत्रादिस्त्वैहिकमपि फलं वस्तुस्वभावपर्यालोचनयैव न सद्यो भवितुमर्हति । न हि नभसस्तदानीमेव वृष्टिरिव निपतति पुत्रः, स्त्रीपुससंयोगकारणान्तरसव्यपेक्षत्वात्264 तदुपत्तेः । पश्वादिप्राप्तिस्तु कस्यचित् अदूरकालेऽपि दृश्यते, प्रतिग्रहादिना । तथा स्मत्पितामह एव ग्रामकामः साङ्ग्रहणीं कृतवान् । स इष्टिसमाप्तिसमनन्तरमेव गौरमूलकं ग्राममवाप265 ॥ यागजन्यफलस्य दृष्टकारणकत्वं न वक्तुं शक्यम्
ननु ! एवं तर्हि प्रतिप्रहाद्येव दृष्टं कारणमस्तु पश्वादेः । पुत्रस्य च स्त्रीपुंसयोगः । किमिष्टेः कारणत्वकल्पनया ? इति— मैवं वोचः—सत्स्वपि266 च दृष्टेषु कारणेषु तददर्शनात् इष्टिप्रयोगानन्तरं चैतद्दर्शनात् इष्टिकृतं267 स्त्रीपुंसयोगादिकारणत्वमिति निश्चीयते । किञ्च—

सेवाध्ययनकृष्यादिसाम्येऽपि फलभेदतः ।
वक्तुं न युक्ता तत्प्रातिः दृष्टकारणमात्रजा ॥ ११८ ॥

268 भूतस्वभाववादादि पुरस्तात् प्रतिषिध्यते ।
तस्मान्नूनमुपेतव्यं अत्रान्यदपि कारणम् ॥ ११९ ॥

तदुक्तं—“तच्चैव हि तत्र269 कारणम्, शब्दश्च” [शा। भा। १-१-५] इति ॥ फलादर्शनस्थले प्रतिबन्धकं उह्यते
यत्र पुनः अविगुणेऽपि कर्मणि प्रयुज्यमाने कालान्तरेऽपि पुत्रपश्वादिफलं न दृश्यते, तत्र तीव्रं किमपि प्राक्तनं कर्म प्रतिबन्धकं कल्पनीयम् । यथोक्तम् [श्लो। वा। १-१-५ चित्रा। परि।] — “ फलति यदि न सर्वं तत्कदाचित्तदेव
ध्रुवमपरमभुक्तं कर्म शास्त्रीयमास्ते इति ॥


270 कर्मादिवैगुण्यग्रहणमुपलक्षणार्थं ऋषिणा प्रयुक्तम् । न तु वेदस्याप्रामाण्यकल्पना साध्वी, साद्गुण्ये कर्मणः प्राचुर्येण फलदर्शनात् ॥

अपि च—वित्रातः पशवो भवन्ति—इत्येतावानेव शास्त्रार्थः । 271 आनन्तर्ये तु न किञ्चित्प्रमाणमस्ति । तदयं प्रत्यक्षादिविसंवादः आनन्तर्यविषयः । चित्रादिचोदना तु अनिर्दिष्टकालविशेषविषयेति विषयभेदान्न सा तेन बाध्यते । तदाह भट्टः [श्लो। वा। १-१-५ चित्रा। परि। ४] — “ आनन्तर्यविसंवादः नाविशेषप्रवर्तिनीम् ।
चोदनां बाधितुं शक्तः स्फुटाद्विषयभेदतः इति ॥

” क्रियाफलविधिफलयोर्विशेषः
यत्तु कर्मस्वभावपर्यालोचनया272 चित्रादेरनन्तरफलत्वमुक्तं, यत्कालं हि मर्दवं, तत्कालं मर्दनसुखमिति—तदेतदत्यन्तमनभिज्ञस्याभिघानम्—विधिफलानां क्रियाफलतुल्यत्वानुपपत्तेः । इह किञ्चित् विधिफलं भवति, किञ्चित् क्रियाफलम् । कृष्यादौ तु भूमिपाटनादि273 क्रियाफलम्; सस्यसम्पत्तिस्तु विधिफलम् ॥

कः पुनः कृष्यादौ विधिः ? अस्ति वार्ताविद्यायां, वृद्धोपदेशो वा कश्चिद्बिधिः । अन्वयन्यतिरेकौ वा तत्र विधिस्थानीयौ भविष्यतः ॥

लोकेऽपि “वेतनकामः274 पवति” इत्यादौ पाकक्रियाफलं ओदनः, विधिफलं तु वेतनम् । तत्र क्रियाफलानामेवैप नियमः, यत् क्रियानन्तरभावित्वम् । विधिफलानां तु वेतनादीनां नास्ति कालनियमः । इष्टावपि हविर्षिकारादि क्रियाफलं सद्यो भवत्येव । पशुपुवादि तु विधिफलं अनवच्छिन्नकालम् । अत एव मर्दनसुखं क्रियाफलमिति सद्यो भवति । मृद्गतस्तु पुंसः सेवाफलमनियतकालम् ॥

ग्रामकामो महीपालं सेवेतेत्येवमादिषु ।
लौकिकेषु विधिष्वस्ति न कालनियमः फले ॥ १२० ॥

आयुर्वेदोपदिष्टानामप्यौपधविधीनां न क्रियावत् सद्य एव फलदर्शनम् । अपि तु कालापेक्षमेवेति न फलानन्तर्ये किञ्चित्प्रमाणम् ॥ पुरुषेच्छानुगुणा फलसिद्धिनं भवति
यत्तु पशुविरहकृतकदशनादिदोदूयमानाधिकारिस्वरूपपर्यालोचनया275 सद्यःफलत्वमुच्यते—तदपि न साम्प्रतम्—पुरुषेच्छामात्रमेतत्, न प्रमाणवृत्तम् ॥ ऐहिकानामपि फलानां न क्रियासमनन्तरभावित्वनियमः
अपि च ऐहिकत्वं फलस्य तावता सेत्स्यति; न पुनः क्रियाफलवत् सद्यस्त्वम् । सन्ति चैहिकफलान्यपि कालान्तरसव्यपेक्षाणि कर्माणि । यथा—“ब्रह्मवर्वसकामस्य कार्यं विप्रस्य पञ्चमे” इति । न तत्र पञ्चमवर्षे उपनीतमात्र एव माणवकः ब्रह्मवर्चससम्पन्नो भवति, कालान्तरे तु भवतीति । एवं 276 वीर्यकामादिष्यपि द्रष्टव्यम् । तस्मात् विधिफलानां आनन्तर्यनियमाभावात् न तद्विसंवादो दोषाय । कालान्तरेऽपि यत्र फलादर्शनं, तत्र क्रियावैगुण्यकर्मान्तरप्रतिबन्धादि कारणमित्युक्तम् ॥ मीमांसकोक्तानृतत्वपरिहारक्रमः
अन्ये कर्त्रादिवैगुण्यकल्पनाननुमोदिनः ।
इहाफलस्य चित्रादेः फलमामुत्रिकं जगुः ॥ १२१ ॥

सर्वाङ्गोपसंहारेण काम्यकर्मप्रयोगात् कोऽवसरः कर्मवैगुण्यकल्पनायाम् ? जन्मान्तरे तु तत्फलमिति युक्ता कल्पना ॥ फलकालभेदात् कर्मणां त्रिविधत्वम्
तथा च त्रिविधं कर्म—किञ्चिदैहिकफलमेव, किञ्चिदामुष्मिकफलमेव, किञ्चिदनियतफलमेव—इहामुत्र वा तत्फलप्रदम्—इति कल्पना ॥

तत्र कारीर्यादि तावत् ऐहिकफलमेव । तद्धि सकलजनपदसन्तापकारिणि महत्यवग्रहे प्रस्तूयते । वृष्टिलक्षणं च तत्फलं स्वभावत एव सकललोकसाधारणम्277 । आसन्नतयैव तदभिलषणीयमिति सद्य एव भवितुमर्हति । वचनानि च तत्र तादृंश्येव दृश्यन्ते—“यदि वर्षेत्, तावत्येवेष्टिं समापयेत् । यदि न वर्षेत् श्वोभूते जुहुयात्—”इति ॥

आमुष्मिकफलं तु कर्म ज्योतिष्टोमादि फलस्वभावमहिम्नैव पारलौकिकं भवति ॥

स्वर्गो निरुपमा प्रीतिः देशो वा तद्विशेषणः ।
भोक्तुं नोभयथाऽप्येषः देहेनानेन शक्यते ॥ १२२ ॥

चित्रादि तु अनियतफलं कर्म, तत्फलस्य पश्वादेः इह वा परत्र वा लोके सम्भवात् ॥ चित्रादीनां जन्मान्तरीयपश्वादिफलकत्वं युक्तमेव
अवश्यं चैतदेवं विज्ञेयम् । तथाहि—अकृतचित्रायागानामपि इह जन्मनि पशवो दृश्यन्ते । ते परिदृश्यमानसेवाप्रतिग्रहादिकारणका एवेति कथ्यमाने कर्मनिमित्तत्वहानेः278 बृहस्पतिमतानुप्रवेशप्रसङ्गः । कर्मनिमित्तकत्वे तु तेषां पशूनामुपपादकं किं कर्म ? इति निरूपणीयम् । न हि ब्रह्मवर्चसादिफलात् कर्मणः पशवो निष्पद्यन्ते । चित्रा च पशुफला इह जन्मनि तैर्न कृतैव । पूर्वजन्मकृता तु तस्मिन्नेव जन्मनि फलं दत्तवतीति नियतैहिकफलाभ्युपगमादिति कुतः पशुसम्पत् ? ज्योतिष्टोमादिकर्मशेषफलत्वं ऐहिकपश्वादीनां न युक्तम्
ननु ! गौतमवचनप्रामाण्यात् पूर्वकृतभुक्तशिष्टज्योतिष्टोमादि कर्मनिमित्तकः स पशुलाभो भविष्यति । यथोक्तम्—“वर्णा279 आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय पतन्तः ततश्शेषेण विशिष्टदेशश्रुतवृत्तवित्तादियुक्तं280 जन्म प्रतिपद्यन्ते” [गौ-ध-सू-११-३१] । नैतत् यथाश्रुतं बोद्धुं युक्तम्—

न ह्यन्यफलकं कर्म दातुमीष्टे फलान्तरम् ।
साध्यसाधनभावो हि नियतः फलकर्मणाम् ॥ १२३ ॥

तस्मात् समूहापेक्षा शेषवाचोयुक्तिर्व्याख्येया—बहूनि हि कर्माणि वर्णा आश्रमाश्च कृतवन्तः । ततः कर्मसमूहात् ज्योतिष्टोमादिफलं प्रेत्यानुभूयते । ततः शेषेण चित्रादिना कर्मणा विशिष्टं जन्म प्रतिपद्यन्त इत्यर्थः । तस्मात् पूर्वजन्मकृतचित्रादिनिबन्धनः इह जन्मनि पशुलाभः, नाकर्मनिमित्तकः, नान्यकर्मनिमित्तक इत्येवमनियतफलत्वात् चित्रादेरिह जन्मनि फलादर्शनेऽपि नानृतत्वं तच्चोदनानाम्, जन्मान्तरे हि ता इष्टयः फलं दास्यन्तीति ॥ पूर्वोक्तकर्मत्रैविध्यासम्भवसिद्धान्तः
अत्रोच्यते—किं वाचनिकमेतत् कर्मणां त्रैविध्यम् ? उत पुरुषेच्छाधीनम् ? इति ॥

तत्र वचनं तावत् त्रिविधविभागप्रतिपादकं नास्ति— “कारीरीं निर्वषेत् वृष्टिकामः”, “ज्योतिष्टोमेन स्वर्गकामो यजेत”, “चित्रया281 पशुकामः” इत्येतावन्मात्रश्रवणम् । न ह्यत्र ऐहिकत्वं, पारलौकिकत्वं, अनियतत्वं वा क्वचित् फलस्य पठितम् ॥

282 विधिवृत्तमपि इयदेव—यत् सप्रत्ययप्रवर्तनं283 नाम । तत्र इदमेवङ्कामेन कर्तव्यमित्येतावान् लिङर्थः । अपुरुषार्थरूपे284 तु व्यापारे प्रवर्तकत्वलक्षणस्वव्यापारनिर्वहणमनधिगच्छन् विधिः अधिकारिविशेषणस्य285 कामस्य, काम्यमानस्य स्वर्गादेः, भावार्थस्य च यागादेः साध्यसाधनसम्बन्धमेव अवबोधयति; न काम्यमानस्य सद्यः, कालान्तरे वा निष्पत्तिमाक्षिपतीति ॥

फलस्वरूपपर्यालोचनया तु सत्यं स्वर्गस्य पारलौकिकत्वमवगम्यते, न तु पश्वादेरनियमः ॥

पुरुषेच्छा तु पुरुषेच्छैव, न तया शास्त्रार्थो व्यवस्थापयितुं शक्यः । तस्मात् निष्प्रमाणकं त्रैविध्यम् ॥ चित्रायाः फलकालानियमे कारीर्या अपि तथैव स्यात्
यस्तु चित्रादीनामनियतफलत्वे न्याय उक्तः [श्लो-वा-१-१-५चित्रा-परि-१५]
“चित्रादीनां फलं तावत् क्षीणं286 तत्रैव जन्मनि”

इत्यादिः—स कारीर्यामपि निश्चितैहिकफलायां योजयितुं शक्यः ॥

अद्याकृतायां कारीर्या न हि देवो न वर्षति ।
जन्मान्तरकृता तत्र कारीरी किं न कारणम् ? ॥ १२४ ॥

287 तस्मात् 288 साऽप्यनियतफला भवतु ॥ चित्राकारीर्योः न कश्चन विशेषः
289 अथ सस्यसम्पत्सम्पाद्यसुखसम्भोगसाधनभूतादृष्टनिमित्ता वृष्टिः अद्याकृतायामपि कारीर्यामिति मन्यसे; तर्हि दधिक्षीरादिभक्षणसुखाक्षेपिकर्मनिमित्तकः290 पशुलाभो भविष्यति अकृतचित्रायागानाम् । कारीर्यधीन291 ओदनः, चित्राधीनं दधीति, दध्योदनभोजनसुखसाधनादृष्टकारिता पशुवृष्टिसृष्टिर्भवतु ॥ चित्राकारीर्योः वैलक्षण्यशङ्का, समाधानं च
अथ शृङ्गग्राहिकया292 पशुफला चित्रेष्टिरुपदिश्यते, तेन न सुखसामान्याक्षेपककर्मनिबन्धनः पशुलाभः; एवं तर्हि वृष्टावपि शृङ्गग्राहिकया कारीरी पठ्यत एवेति वृष्टिरपि सामान्यादृष्टनिबन्धना मा भूत् ॥ कारीरीष्टेः नियतकालत्वेऽपि सर्वेषां तथा न वक्तुं शक्यम्
अथ “न यदि वर्षेत्, श्वोभूते जुहुयात्” इत्यादिवचनपर्यालोचनया तस्यामैहिकफलत्वमुच्यते; यद्येवं यत्र तादृशं वचनं नास्ति “यो वृष्टिकामः स सौभरेण स्तुवीत” [ता। ब्रा। ८-८-१८] ऽयदि कामयेत वर्षुकः पर्जन्यः स्यादितिऽ 293 “नीचैः सदो मिनुयात्” [मै। सं। ३-८-९] इत्यादौ, तत्र पारलौकिकफलत्वं स्यात् । 294 “यदि च श्वोभूते जुहुयात्” इति वचनमहिम्नैव फले सद्यस्त्वमात्रमधिकं, भवतु, न295 तु तादृशवचनरहितानां कर्मणां विस्पष्टसिद्धमप्यैहिकफलत्वं निवर्तते ॥ बहुसाधारणत्वमपि वृष्टिपश्वोः समानम्
यत्पुनः बहुसाधारणत्वेन वृष्टेरैहिकत्वमुच्यते—तदपि पश्वादौ समानम्—न ह्यात्मम्भरिरेव 296 यजमानो भवति; तस्यापि 297 स्ववासिनीकुमारातिथिभृत्यादिभोजनपूर्वकस्वभोजननियमोपदेशात्298 । बहुतरोपकारकत्वं तु वृष्टेरित्यलं तुलया ॥ प्रत्यासन्नत्वमपि फलद्वयस्य समानम्
यदपि प्रत्यासन्नत्वेन काम्यमानत्वात् वृष्टेरैहिकत्वं कथ्यते— तदपि तादृगेव—पश्वादेरपि तथैव काम्यमानत्वात् । तत्रावग्रह विहितसन्तापतया प्रत्यासन्नत्वेन वृष्टिरभिलष्यते; इहापि दौर्गत्यो द्वेगात् आसन्नतयैव पशवः काम्यन्ते । तस्मात् “वारिदः तृप्तिमाप्नोति सुखम्मक्षयमन्नदः” इत्यादिवचनोपदिष्टसामान्यसुखसाधनादृष्टनिबन्धनैवेयं इहाकृतकर्मणां वृष्टिपश्वादिसम्पत्तिरिति न बृहस्पतिमतवत् अकर्मनिमित्तं फलम् । नापि299 कर्मफलसाध्यसाधनभावनियमव्यबहारोल्लङ्घनमिति ॥ कारीर्या अपि अनियतकालफलकत्वमेव
यच्च कारीर्याः क्वचित्फलविसंवादे समाधानमुक्तं [श्लो-वा-चित्रापरि-१-१-५] — “ फलति यदि न सर्वं तत्कदाचित्तदेव
ध्रुवमपरमभुक्तं कर्म शास्त्रीयमास्ते इति


तेन साऽप्यनियतफलैव स्यात् । न हि तत्कर्मान्तरं आसंसारं300 प्रतिबन्धकं भवति । फलोपभोगाद्धि तस्यावश्यं क्षयेण भवितव्यम् । प्रतिबन्धके च क्षीणे कारीर्या स्वफलं तदा दातव्यमेव । साऽप्यदत्तफला न क्षीयत एवेत्येवं जन्मान्तरे तत्फलसम्भवात् तस्या अपि अनियतफलत्वम् ॥

अनेन च प्रकारेण चित्रादेरप्यनियतफलत्वं अस्माभिरिष्यत एव, यत्र सम्यक्प्रयुक्तायामपीष्टौ कर्मान्तरप्रतिबन्धादेव पशूनामनुपलम्भः कल्प्यते । सर्वथा301 सद्यःफलत्वमात्रवर्जं समानयोगक्षेमा कारीर्या चित्रेष्टिः ॥ ऐहिकफलानां सर्वेषामप्यनियतकालफलकत्वमेव
एतेन ब्रह्मवर्चसवीर्यान्नाद्यग्रामादिकामेष्टयोऽपि व्याख्याताः । तस्मात् 302 यथाश्रुतं गौतमं बोद्धव्यम् ॥ समग्राङ्गोपसंहारेऽपि कर्मणां वैगुण्यसम्भवः
यदप्यभ्यधायि—समग्राङ्गोपसंहारेण काम्यकर्मप्रयोगात् कुतः कर्मणो वैगुण्यावसर इति—तदप्यसारम्—सर्वाङ्गोपसंहारेण प्रवृत्तावपि प्रमादात् असंवेद्यमानवैगुण्यसम्भवात् । स च विचित्रः भाष्यकारेण303 प्रदर्शितः । 304 तस्मात् पूर्वोक्त [पु। ६५२] एव प्रतिसमाधानमार्गः श्रेयान् ॥ सिद्धान्ते धर्माधर्मस्वरूपनिर्णयः
यत्पुनः पूर्वपाक्षिकेण कथितम्—कालान्तरे कर्माभावात् कुतः फलमिति [पु। ६५०] —तदपि न सम्यक्—

यद्यप्याफलनिष्पत्तेः कर्मणो नास्त्यवस्थितिः ।
तथाप्यस्त्येव संस्कारः पुरुषस्य तदाहितः ॥ १२५ ॥

कर्मजन्यो हि संस्कारः पुंसो बुद्ध्यादिवद्गुणः ।
तस्य चाफलसंयोगात्305 अवस्थितिरुपेयते ॥ १२६ ॥

यथेन्द्रियादिसंयोगात् आत्मनो बुद्धिसम्भवः ।
तथा यागादिकर्मभ्यः तस्य संस्कारसम्भवः ॥ १२७ ॥

बुद्धिस्तु भङ्गुरा तस्य संस्कारस्तु फलावधिः ।
साध्यसाधनभावो हि नान्यथा फलकर्मणोः ॥ १२८ ॥

स्मृतिबीजं तु संस्कारः 306 तस्यान्यैरपि मृष्यते ।
तथैव फलसंयोगबीजं सोऽस्य भविष्यति ॥ १२९ ॥

307 स यागदानहोमादिजन्यो धर्मगिरोच्यते ।
ब्रह्महत्यादिजन्यस्तु सोऽधर्म इति कथ्यते ॥ १३० ॥

इतरदार्शनिकरीत्या धर्माधर्मस्वरूपम्
कापिलास्तु अन्तःकरणस्य बुद्धेः वृत्तिविशेषं धर्ममाहुः । आर्हताः पुण्यपुद्गलान् धर्मत्वेन व्यपदिशन्ति । शाक्यभिक्षवः चित्तवासनां धर्ममाचक्षते । 308 वृद्धमीमांसकाः यागादिकर्मनिर्वर्त्यं अपूर्वं नाम धर्ममभिवदन्ति । यागादिकर्मैव 309 शाबरा ब्रुवते । वाक्यार्थ एव नियोगात्मा अपूर्वशब्दवाच्यः, धर्मशब्देन च स एवोच्यते इति 310 प्राभाकराः कथयन्ति ॥ पुद्गलादिवादानां असामञ्जस्यम्
तत्र पुण्यपुद्गल-वृत्तिपक्षयोः कपिलार्हद्ग्रन्थकथितयोः तन्मतनिरासादेव निरासः ॥

आत्मनश्च समर्थयिष्यमाणत्वात् तस्यैव वासना, न चेतस इति सौगतपक्षोऽप्ययुक्तः ॥

स्वर्गयागान्तरालवर्तिनश्चस्थिरस्य निराधारस्यापूर्वस्य311 निष्प्रमाणकत्वात् जरज्जैमिनीयप्रवादोऽप्यपेशलः । अपि च फलस्य वा काचिदुत्पत्स्यमानदशा,312 यागस्य वा शक्तिः अपूर्वशब्देनोच्यते ॥

न च नियोगः वाक्यार्थ एव अपूर्वशब्दवाच्यः; तस्योपरिष्टादपाकरिष्यमाणत्वात् [५ आह्निके] ॥

नापि—यो यागमनुतिष्ठति, तं धार्मिक इत्याचक्षत इति यागादिसामानाधिकरण्येन प्रयोगात् स एव धर्मशब्दवाच्य इति युक्तं वक्तुं; तस्य क्षणिकत्वेन कालान्तरे फलदातृत्वानुपपत्तेः । सामानाधिकरण्यप्रयोगोऽपि चैकान्ततो नास्त्येव ॥

यागदानादिना धर्मो भवतीत्यपि लौकिकाः ।
प्रयोगाः सन्ति ते चामी संस्क्रियापक्षसाक्षिणः ॥ १३१ ॥

एवं “यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्” [तै। सं। ३-५-३६] इति वैदिकोऽपि प्रयोगः तद्विषय313 एव व्याख्येयः; तस्य स्थायित्वेन कालान्तरे फलदानयोग्यतोपपत्तेः ॥

संस्कारो नृगुणः स्थायी तस्माद्धर्म इति स्थितम् ।
तस्माच्च फलनिष्पत्तेः न चित्रादौ मृषार्थता ॥ १३२ ॥

यज्ञायुधिवाक्ये विसंवादपरिहारः
यदपि यज्ञायुधिवाक्ये प्रत्यक्षविरुद्धत्वमुपपाद्यते स्म—भस्मीभावोपलम्भात् कायस्येति [पु। ६५१] —तदप्यसमीचीनम्—एष इति शरीराभेदोपचारेण आत्मन एव निर्देशात् । तस्य च स्वर्गगमनं भवत्येव । गमनं च तदुपभोग एव तस्योच्यते—यथा शरीरादियोगवियोगौ जन्ममरणे इति । न तु व्यापिनः परिस्पन्दात्मकक्रियायोग उपपद्यते । ज्ञानचिकीर्षाप्रयत्नसमवायश्च314 तस्य कर्तृत्वमिति वर्णयिष्यते [९ आह्निके] । यज्ञायुधसम्बन्धोऽपि स्वस्वामिभावादिः तस्यैव व्यापकत्वाविशेषेऽपि व्यवस्थयोपपद्यत315 इति न कश्चिदत्र विरोधः । तस्मात् सर्वत्र निरवकाशमनृतत्वादिदूषणम् ॥ हवनवाक्यविरोधपरिहारः
योऽपि हवनकालविधौ व्याघातदोषो दर्शितः [पु। ६५१] — सोऽपि न दोष एव ॥

तत्रानुष्ठानभेदेन316 कालत्रितयचोदना ।
यो यस्य चोदितः कालः लङ्घनीयो न तेन सः ॥ १३३ ॥

ततश्चान्यतमं कालं अभ्युपेत्यैनमुज्झतः ।
निन्देति न विरोधोऽत्र कश्चिद्विधिनिषेधयोः ॥ १३४ ॥

पुनरुक्तदोषपरिहारः
अभ्यासे पौनरुक्त्यं च कार्यार्थत्वाददूषणम् ।
सम्पाद्यं पाञ्चदश्यं हि सामिधेनीषु चोदितम् ॥ १३५ ॥

“इममहं पञ्चदशारेण वज्रेणापबाधे योऽस्मान् द्वेष्टि यं च वयं द्विष्मः” इति श्रूयते । एकादशसामिधेन्य ऋचस्तु पठ्यन्ते । तत्राभ्यासमन्तरेण पाञ्चदश्यं नावकल्पत इत्येवमवश्यकर्तव्योऽभ्यासः । स चायमनियमेन प्राप्तः वचनेन317 नियम्यते—प्रथमोत्तमे ऋचौ त्रिरुच्चारणीये—इति । तस्मात् तत्प्रयोजनार्थत्वात् न पुनरुक्ततादोषः ॥

अभ्यासे फलरहिते318 हि पौनरुक्त्यं
दोषः स्यादिह तु न तस्य निष्फलत्वम् ।
व्याघातानृतपुनरुक्ततादि तस्मात्
वेदस्य श्लथयति न प्रमाणभावम् ॥ १३६ ॥

इयं च वाक्यार्थविचारणाऽपि प्रामाण्यसिध्यौपयिकीति मत्वा ।
चक्रे स्वशास्त्रे 319 मुनिनेह वेदप्रामाण्यनिर्वाहणदीक्षितेन ॥ १३७ ॥

अर्थवादवाक्यानामप्रामाण्याक्षेपः
320 ननु ! नाद्यापि वेदस्य भवद्भिर्निपुणैरपि ।
स्वदेहसम्भवा दोषाः निखिलाः 321 परिपिञ्जिताः ॥ १३८ ॥

तथाहि—“सोऽरोदीत् यदरोदीत् तद्रुद्रस्य रुद्रत्वम्” [तै। सं। १-५-१] , “प्रजापतिरात्मनो वपामुदक्खिदत् । तामग्नौ प्रागृह्णात् । ततोऽजस्तूपर322 उदगात्” [तै। सं। २-१-१] , “देवा वै देवयजनमध्यवसाय दिशो न प्राजानन्” [तै। सं। ६-१-५] इत्येवमादीनामर्थवादानां किं 323 यथाश्रुतवस्तुपरत्वम् ? उत तेभ्यः कार्यरूपार्थोपदेशपरिकल्पनम् ? उत लिङादियुक्तवाक्यान्तरप्रतिपाद्यमानकार्यरूपार्थौपयिकत्वम् ? इति चिन्त्यम् ॥ अर्थवादानां स्वार्थे प्रामाण्यासम्भवः
सर्वथा च प्रमादः । स्वरूपपरत्वे तावत् प्रमाणान्तरविरुद्धार्थोपदेशात् अप्रामाण्यमेवावतरति, रोदनवपोत्खेदनदिङ्मोहादेरर्थस्य तथात्वे324 निश्चयाभावात् ॥ अर्थवादानां विरुद्धार्थप्रतिपादकत्वादप्रामाण्यम्
किञ्च “स्तेनं मनोऽनृतवादिनी वाक्” इत्येवञ्जातीयकानामर्थवादवाक्यानां विस्पष्टमेव प्रमाणान्तरविरुद्धार्थप्रतिपादकत्वम् । न हि निसर्गत एव सर्वप्राणिनामनृतवादिनी वाक् भवति, स्तेनं वा मनः ॥

अपि च “धूम एवाग्नेर्दिवा ददृशे नार्चिः । तस्मादर्चिरेवाग्नेर्नक्तं दृश्यते न धूमः” [तै। ब्रा। २-१-२] इति प्रत्यक्षविरुद्धमभिधीयते, नक्तं दिनं द्वयोरपि325 इन्द्रियार्थसन्निकर्षे सति ग्रहणात् ॥

किञ्च “एतन्न विद्मः यदि ब्राह्मणाः स्मोऽब्राह्मणा वा” [गो। ब्रा। ५-२१] इति ब्राह्मणजातेरुपदेशसहायप्रत्यक्षगम्यत्वात्326 तद्विरुद्ध एषोऽर्थवादः ॥

शास्त्रविरोधोऽप्यस्ति—“को हि तद्वद यद्यमुष्मिंल्लोकेऽस्ति वा न वा” [तै। सं। ६-१-१] इति । शास्त्रे स्वर्गादिफलानां ज्योतिष्टोमादिकर्मणां उपदेशात् केयमनवकॢप्तिः327

अपि च गर्गत्रिरात्रब्राह्मणमधिकृत्य श्रूयते—“शोभतेऽस्य मुखं य एवं वेद” [ता। ब्रा। २०-१६-६] इति । न हि कस्यचित् एवंविदतः मुखं शोभत इति प्रत्यक्षविरोधः ॥

अन्यकर्मानर्थक्यशंसी च कश्चिदर्थवादो भवति—“पूर्णाहुत्या सर्वान् कामान् अवाप्नोति”, “पशुबन्धयाजी सर्वान् लोकानभिजयति”, “तरति मृत्युं तरति पाप्मानं तरति ब्रह्महत्यां योऽश्वमेधेन यजते यश्चैवं वेद” इति । यदि पूर्णाहुत्यैव सर्वकामावाप्तिः, पशुबन्धयागेनैव सर्वलोकजयः, अश्वमेधवेदनेनैव तत्फलावाप्तिः, तत्किमर्थमन्यकर्मोपदेशः ? उपदिष्टान्यपि तानि बहुक्लेशसाध्यानि कर्माणि व्यर्थानि भवेयुः, अनेनैव328 लघुनोपायेन तत्फलप्राप्तेर्दर्शनात् ॥

अपि च “न पृथिव्यामग्निश्चेतव्यः नान्तरिक्षे न दिवि” [तै। सं। ५-२-७] इति वेदे चयननिषेध329 एवात्र भङ्ग्या भवेत् । दिवि चान्तरिक्षे च तावत् चयनप्रयोग एव नास्ति, किं तन्निषेधेन ? पृथिवीचयननिषेधार्थं च यद्वाक्यं, तत् चयनप्रतिषेधार्थमेव भवेत्, अपृथिव्यधिकरणकस्य चयनस्यानुपपत्तेः ॥

अपि च “यजमानः प्रस्तरः” [तै। सं। २-६-५] क्१>, “आदित्यो यूपः” [तै। ब्रा। २-१-५] इत्येवञ्जातीयकानां प्रत्यक्षविरुद्धार्थाभिधायिनां अर्थवादानां का परिनिष्ठेति । तस्मान्न स्वरूपपरत्वं तेषामुपपद्यते ॥ अर्थवादेभ्य एव विधिकल्पनमपि न सम्भवति
नापि तेभ्य एव कार्यरूपार्थपरिकल्पनं उपपन्नम्, अशक्यत्वात् । “सोऽरोदीत् यदरोदीत् तद्रुद्रस्य रुद्रत्वं” [तै। सं। १-५-१] इत्यत्र कार्यं कल्प्यमानमेवं कल्प्येत—रुद्रः किल रुरोद, अतोऽन्येनापि रोदितव्यम् इति—तच्चाशक्यम् —प्रियविप्रयोगजनितसन्तापवशेन330 हि बाष्पमोचनं रोदनमुच्यते । न तत् चोदनोपदेशात् कर्तुं शक्यते ॥

प्रजापतिरात्मनो वपामुच्चिखेद; तस्मादन्योऽप्येवमुत्खिदेत् आत्मनो वपामिति दुरनुष्ठानोऽयमर्थः । को हि नाम आत्मनो वपामुत्खिदेत् ? कस्य वा वपाहोमे सति समनन्तरमेव 331 हुतभुजः पशुस्तूपर उद्गच्छेत् ? इति ॥

देवा दिशो नाज्ञासिषुः, अतः अन्योऽपि न जानीयात् इति अशक्योपदेशः; न हि दिङ्मोहो नाम उपदेशात् कर्तुं शक्यः ॥

न च 332 सर्वस्मादर्थवादात् विधिः कल्पयितुं शक्य इति मध्यमोऽपि न सत्पक्षः ॥ अर्थवादानां विधिशेषतया प्रामाण्यमपि न
नापि तृतीयः पक्षः सम्भवति—वाक्यान्तरविहितकार्यरूपार्थौपयिकत्वं हि तदुपयोगिद्रव्यदेवतादिविधानद्वारकं भवति—यथा “अग्निहोत्रं जुहोति” [तै। सं। १-५-९] इत्यत्र “दध्ना जुहोति”, “पयसा जुहोति” इति द्रव्यविनियोगविधेः, “यदग्नये च प्रजापतये च सायं जुहोति” [तै। ब्रा। २] इति देवताविधेर्वा । न चायमर्थवादेषु प्रकारः सम्भवति । न चैभिः “ब्रीहीनवहन्ति”, “ब्रीहीन् प्रोक्षति” इतिवत् दृष्टाऽदृष्टा वा काचिदितिकर्तव्यतोपदिश्यते । तस्मात् न तेषां तदौपयिकत्वम् ॥ प्रवृत्त्युत्तम्भनरूपफलमप्यर्थवादानां न समस्ति
ननु ! प्रेक्षावतां333 प्ररोचनातिशयकरणेन प्रवृत्त्युत्साहमाबहन्तः अर्थवादाः तदुपयोगिनो भविष्यन्ति—नैतदपि सम्यक्—प्रवृत्त्युत्साहो हि केषाञ्चिन्मते334 निरपेक्षशब्दप्रत्ययादेव सिध्यति । अस्मन्मते तु तत्प्रणेतृपुरुषप्रत्ययादिति किं प्ररोचनया ? “एवङ्काम इदं कुर्यात्” इत्युक्ते, यस्तत्र न प्रवर्तते, स प्ररोचनयाऽपि न प्रवर्तेतैवेति यत्किञ्चिदेतत् ॥

तदेवं प्रकारत्रयेणापि अर्थवादपदानामनन्वयात् एकदेशाक्षेपेण सर्वाक्षेप335 एव क्रियत इति अप्रमाणं वेदः ॥ अर्थवादानामप्रामाण्ये तद्दृष्टान्तेन वेदसामान्याप्रामाण्यसिद्धिः
ननु ! यावत्येव प्रमाणान्तरविरुद्धत्वमुपलभ्यते, तावत्येवाप्रामाण्यमस्तु । सर्वत्र तु कुतस्त्या तदाशङ्का ? इति—मैवम्— तत्सामान्यात् अन्यत्राप्यनाश्वासः । मीमांसकपक्षे हि अर्थवादरहितकेवलवेदग्रन्थानुपलम्भात्,336 तदनुषङ्गेण सर्वत्र सापेक्षत्वमवतरति । नैयायिकमते तु वेदप्रणेतुरीश्वरस्य क्वचित् वितथवादित्वे दृश्यमाने, कथमन्यत्र सत्यवादितायां दृढः प्रत्ययो भवेत् ? इत्यप्रामाण्यं सर्वत्रेति ॥ अर्थवादानां विध्येकवाक्यत्वात्प्रामाण्यस्थापनम्
अत्राभिधीयते—विध्येकवाक्यतयैव भूम्ना तावदर्थवादपदानि पठ्यन्ते—“वायव्यं श्वेतमालभेत भूतिकामो वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति” [तै। सं। २-१-१] इति । तेषां तदेकवाक्यत्वादेव प्रामाण्यम् । “वायुर्वै क्षेपिष्ठा देवता” इत्यतः यद्यपि क्रिया नावगम्यते, नापि तत्सम्बद्धः कश्चिदर्थः;337 तथाऽपि विध्युद्देशेनैकवाक्यत्वं तस्य प्रतीयते । “भूतिकामः” इत्येवमन्तो विध्युद्देशः । तेनैकवाक्यभूतो “वायुर्वै क्षेपिष्ठा” इत्येवमादेः ॥ अर्थवादानां स्तुतिरूपत्वम्
338 कथमेकवाक्यभावः ? पदानाम् साकाङ्क्षत्वात् ॥

ननु ! “भूतिकामः” इत्येवमन्तेन वाक्येन विधेयं विहितम्; उत्पादितं प्रतिपत्तुरनाकाङ्क्षत्वम्; कृतञ्च शब्दकर्तव्यमिति, किमन्येन—“क्षेपिष्ठा”इत्यादिना339 प्रयोजनम् ?—तदर्थस्यैव स्तुतिरिति ब्रूमः ॥ सार्थवादविधेरेव प्रेरकत्वम्
ननु ! स्तुत्याऽपि किं प्रयोजनम् ? स्तुतोऽस्तुतश्च तावानेव340 सोऽर्थः—मैवम्—सस्तुतिपदे हि वाक्ये स्तुतिपदसहितं विधायकं341 विधायकं भवति ॥

किमिदानीं केवलं लिङादियुक्तं वाक्यं न विधायकमुच्यते— यदि स्तुतिपदानि न श्रूयन्ते तत् बाढं भवति विधायकम् । एतेषु च सत्सु तत्सहितं तद्विधायकं भवति, न केवलम्; तथा प्रतीतेः । स्तुतिपदसम्बन्धे सति भिन्नवाक्यता मा भूदिति विधिपदेन स्तुतिपदेन च सम्भूयार्थो विधीयते; तथाऽवगमात् । अन्यथा हि प्रतीयमानः पदार्थान्वयः त्यज्येत; वाक्यभेदो वा कल्प्येत । तस्मान्न स्तुतिपदानामानर्थक्यम् ॥ अर्थवादवाक्यप्रयोजनाक्षेपः, समाधानं च
ननु ! केवलस्यापि विधिवाक्यस्य सामर्थ्यात् किमर्थं स्तुतिपदानि प्रयुञ्जते ? इति—उच्यते—अपर्यनुयोज्यो जैमिनीयानां मते शब्दः; अस्माकं च भगवानीश्वरः342 । उक्ते सति प्रतिपत्तारो वयं वेदस्य; न कर्तारः । प्रतिपत्तौ च क्रमो दर्शितः ॥ द्रव्यदेवताद्यसमर्पकत्वेऽप्यर्थवादानां नानर्थक्यम्
एवञ्च यद्यपि द्रव्यदेवतेतिकर्तव्यताविधानद्वारकं अङ्गविधिवदर्थवादवाक्यानां कार्यौपयिकत्वं नास्ति; तथापि 343 प्रतीत्यङ्गत्वं न निवार्यते ॥ अर्थवादानामावश्यकता
अत एव प्रमाणोपयोगित्वमेषामाचक्षते, न प्रमेयोपयोगित्वम् । केवलविधिपदश्रवणे हि न तदाद्रियन्ते यज्वानः । तत्र विधिविभक्तिरवसीदति344 । तां निमज्जन्तीमिव अर्थवादजनितकर्मप्राशस्त्यप्रत्ययः उत्तभ्राति । “सर्वजिता यजेत” इत्यतः न तथाविधः श्रद्धातिशयो भवति; यथाविधः “सर्वजिता वै देवाः सर्वमजयन् सर्वस्याप्त्यै सर्वस्य जित्यै सर्वमेवैतेन सर्वं जयति” [ता। ब्रा। १६-७-२] इत्यर्थवादपदेभ्यः । लोकेऽपि “इयं गौः क्रेतव्या” इत्यतः न तथा क्रेतारः प्रवर्तन्ते, यथा “एषा बहुस्निग्धक्षीरासुश्लीला, सापत्या, अनघप्रजा च” इत्येवमादिभ्यः स्तुतिभ्यः । स्वानुभवसाक्षिकोऽयमर्थः ॥ अर्थवादाश्रवणस्थलेऽपि अर्थवादकल्पनम्
अत एव केचित् अश्रुतार्थवादकेऽपि विधिवाक्ये तत्कल्पना मिच्छन्ति, यथा345 क्वचित् अर्थवादात् विधिकल्पनमिति । यथोक्तम् [तं। वा। १-४-१३] —

“विधिस्तुत्योः सदा वृत्तिः समानविषयेष्यते”इति346 । अनधिगम्यमानविधिसम्बन्धाच्च347 अर्थवादात् विधिरुन्नीयते, न गम्यमानसम्बन्धात् ॥ अर्थवादैः स्तुतिप्राप्तिप्रकारः
अत एव च “सोऽरोदीत्” इत्येवमादिभ्यः ऽन रोदितव्यम् इत्यादिविधिकल्पनमिष्यते । मुधैव पूर्वपक्षिणा तदाशङ्कितम् । विध्यन्तरेणैकवाक्यत्वं हि प्रत्यक्षमिहोपदिश्यते । 348 “बर्हिषि रजतं न देयम्” [तै। सं। १-५-१] इत्यस्य विधेः शेषोऽयं “सोऽरोदीत्” इत्यादिः—“रुद्रो रुरोद । तस्य यदश्रु अशीर्यत, तद्रजतमभवत् । यो हि बर्हिषि रजतं ददाति, पुराऽस्य संवत्सरात् गृहे रोदनं भवति” इति । तस्मात् “वर्हिषि रजतं न देयम्” इति ॥

“प्राजापत्यमजं तूपरमालभेत” [तै। सं। २-१] इत्यस्य विधेः शेषः “प्रजापतिरात्मनो वपामुदक्खिदत्” इति । वपाहोममाहात्म्यप्रदर्शनार्थमुच्यते—अग्नौ वै प्रगृहीतमात्रायां वपायां अजस्तूपर उदगादिति ॥

“आदित्यः 349 प्रायणीयश्चरुः” [तै। सं। ६-१-५] इत्यस्य विधेः शेषोऽयं “देवा वै देवयजनमध्यवसाय दिशो न प्राजानन्” [तै। सं। ६-१-५] इति; व्यामोहानामादित्यश्चरुर्नाशयिता, यथा दिङ्मोहस्येति । एवं तत्र तत्र विधिशेषत्वं अर्थवादानां वेदितव्यम् ॥ अर्थवादानामसत्यार्थकत्वनिरासः
कथं पुनरिदमसत्यमेवोच्यते ? “रुद्ररुदितात् रजतमजायत”, “प्रजापतिहोमसमिद्धादग्नेः अजस्तूपर उदगात्” इति—उच्यते— नेदमसत्यम्, यदस्य वाक्यस्य प्रतिपाद्यं, तत्र सत्यार्थमेवेदम् । न चास्य यथातोऽर्थः प्रतिपाद्यः, किन्तु विधेयो निषेध्यो वा कश्चिदर्थः । इहान्वाख्याने350 द्वयमापतति—यच्च वृत्तान्तज्ञानम्, यच्च कस्मिंश्चिदर्थे प्ररोचना द्वेषो वा । तत्र वृत्तान्तज्ञानं न प्रवर्तकम्, न निवर्तकमिति प्रयोजनाभावात् अनर्थकमनादरणीयम्351 । प्ररोचना द्वेषौ प्रवृत्तिनिवृत्त्यङ्गत्वात् तदर्थौ गृहीत्वा प्ररोचनायाः प्रवर्तेत, द्वेषान्निवर्तेतेति । तत्र तत्प्रतिपाद्यसत्यार्थ एवार्थवादः ॥ अर्थवादानामर्थविरोधे गौणार्थकत्वम्
यत्तु अरुदति रुद्रे कथं तद्रोदनवचनम् ? अरोदनप्रभवे वा रजते कथं तदुद्भवताऽभिधानम् ? इति—गुणवादमात्रम्—गौण एष वादः श्वेतवर्णसारूप्यादिना रोदनप्रभवं रजतं निन्दितुमुच्यते ॥

एवं पशुयागे वपाहोमप्रशंसायै “प्रजापतिरात्मनो वपामुदक्खिदत्” इति वृत्तान्ताख्यानं योजनीयम् ॥

आदित्यचरुप्रशंसायै “देवा वै देवयजनमध्यवसाय दिशो न प्राजानन्” इति ॥ सिद्धान्ते अर्थवादानां यथाश्रुतार्थत्वे न विरोधः
अथवा नैयायिकानामनेकप्रकारपुरुषातिशयवादिनां352 यथाश्रुतेऽप्यर्थे नात्यन्तमसम्भवः । रुद्रस्य रुदितात् रजतजन्म, प्रजापतेर्वपोत्खेदः, तद्धोमात् तूपरपशूद्गमः, देवानां देवयजनाध्यवसाने दिङ्मोह इत्येवञ्जातीयकमपि सत्यमस्तु ! को दोषः ? तत्सर्वथा नार्थवादा न प्रमाणम् ॥ अर्थवादेषु प्रत्यक्षादिविरोधपरिहारः
एवं “स्तेनं मनोऽनृतवादिनी वाक्” इति गौण एष वादः । 353 प्रच्छन्नतया स्तेनं मन उच्यते । बाहुल्याभिप्रायेण चानृतवादिनी वाक् इति ॥

“धूम एवाग्नेर्दिवा ददृशे नार्चिरर्चिरैवाग्नेर्नक्तं ददृशे न धूमः” [तै। ब्रा। २-१-२] इति दूरभूयस्त्वाभिप्रायेण354 कस्मैचित् प्रयोजनाय सायम्प्रातर्होमदेवतास्तुतये कथ्यते ॥

“न चैतद्विद्मो यदि ब्राह्मणाः स्मः, अब्राह्मणा वा” [गो। ब्रा। ५-११] इति प्रवरानुमन्त्रणप्रशंसायै संशय इव दर्शितः । अब्राह्मणोऽपि यजमानः प्रवरानुमन्त्रणेन ब्राह्मणः स्यादिति ॥

“को355 हि वै तद्वेद, यदमुष्मिंल्लोकेऽस्ति वा न वा” [तै। सं। ६-१-१] इति अदृष्टफलं किमपि कर्म स्तोतुमुच्यते ॥

“शोभतेऽस्य मुखं य एवं वेद” [ता। ब्रा। २०-१६-६] इति विद्याप्रशंसैषा शोभत इति शिष्यैरुद्वीक्ष्यमाणस्य मुखमिति ॥

“सर्वान् कामानाप्नोति” इति सर्वत्वं प्रकृताऽपेक्षम् । स्तुत्यर्थं चाश्वमेधाध्ययने तत्फलवचनम् ॥

“हिरण्यं निधाय चेतव्यम्” इति स्तुत्यर्थतया दिव्यन्तरिक्षे पृथिव्यां च चयनं प्रतिषिध्यते । अनुपहितहिरण्यायां पृथिव्यां अग्निर्न चेतव्यः, न पुनर्न चेतव्य एव 356 तस्यामिति ॥

“आदित्यो यूपः” [तै। ब्रा। २-१-५] इति अञ्जने357 सति तेजस्वितया यूपस्य आदित्यरूपता स्तुतये कथ्यते ॥

तत्कार्यकारित्वाच्च यजमानः प्रस्तर उच्यते । न हि मुख्ययैव वृत्त्या लोके शब्दाः प्रवर्तन्ते; गौण्याऽपि वृत्त्या तद्व्यवहार दर्शनात्358 । एवं वेदेऽपि तेषां तथा प्रयोगो भविष्यति । 359 इत्थं च मन्त्रेष्वपि ऐन्द्र्या गार्हपत्योपस्थानमविरुद्धम् ॥ परकृतिपुराकल्परूपार्थवादानामपि प्रामाण्यम्
एवं स्तुतिनिन्दास्वरूपास्तावदर्थवादाः विध्येकवाक्यत्वेन प्रमाणम् । 360 परकृतिपुराकल्पस्वरूपा अपि तथैव योज्याः ॥ कुत्रचित् अर्थवादैः विधिकल्पनमपि दृश्यते
क्वचित्पुनः अर्थवादेनैव कश्चिदंशः पूर्यत इति न तु प्रतीत्यङ्गत्वमेव तस्य, कार्याङ्गत्वमपि भवति । यथा—“प्रतितिष्ठन्ति ह वा य एता रात्रीरुपासते” [तै। सं। ७-३-१०] इति अश्रूयमाणाधिकारस्य रात्रिसत्रविधेः अधिकारांशोऽर्थवादादेव लभ्यते । यथोक्तं—“फलमात्रेयो निर्देशात्”361 [जै। सू। ४-३-१८] इति । तत्र हि—“प्रतिष्ठाकामाः सत्रमासीरन्—”इत्यर्थवादवशात् गम्यते वाक्यार्थः ॥ क्वचिदर्थवादानां संशयनिवर्तकत्वम्
क्वचित् विधिवाक्यस्यार्थसन्देहे अर्थवादात्मकात् वाक्यशेषात् तन्निश्चयो भवति । यथा—“अक्ताः शर्करा362 उपदधाति” [तै। ब्रा। ३-१२-५] इत्यञ्जनद्रव्ये घृतनैलवसादिभेदेन सन्दिह्यमाने “तेजो वै घृतम्” [तै। ब्रा। ३-१२-५] इत्यर्थवादात् घृतेनाक्ताः शर्करा उपधेया इति गम्यते ॥ अर्थवादविचारोपसंहारः
इत्यर्थवादा विधिनैक्यभावात्
363 तद्वत्प्रमाणत्वममी भजन्ते ।
अस्ति प्रतीत्यन्वयिता हि तेषां
क्वचिच्च364 कार्यान्वयिता तु दृष्टा ॥ १३९ ॥

यद्वा स्वरूपपरतामपि संस्पृशन्त
प्रामाण्यवर्त्म त इमे न परित्यजन्ति ।
नैयायिका हि पुरुषातिशयं365 वदन्तः
वृत्तान्तवर्णनमपीह यथार्थमाहुः ॥ १४० ॥

आदित्ययूपवचनादिषु तु स्वरूप-
याथार्थ्यमित्थमुपपादयितुं न शक्यम् ।
गौणीं तु वृत्तिमबलम्ब्य कृता तदर्थ-
व्याख्येति तेष्वपि न विप्लवनावकाशः ॥ १४१ ॥

मन्त्रवाक्यविचारः
366 अथेदानीं मन्त्रा विचार्यन्ते—किं अर्थप्रकाशनद्वारेण विध्यर्थोपयोगिता तेषाम् ? उतोच्चारणमात्रेण ? 367 इति ॥ मन्त्रवाक्यविचारस्याप्रकृतत्वशङ्का, समाधानञ्च
ननु ! उभयथाऽपि प्रामाण्याविशेषात् किं तद्विचारेण ? न हीदं शास्त्रं वेदस्यार्थविचाराय मीमांसावत् प्रवृत्तम्; अपि तु प्रामाण्यनिर्णयायैवेति—सत्यम्, प्रामाण्यनिर्णयायैवेदं शास्त्रं प्रवृत्तम्— अविवक्षितार्थत्वे तु मन्त्राणां अप्रतिपादकत्वलक्षणमप्रामाण्यमेव भवेत् । 368 सामान्यात् वेदब्राह्मणवाक्यानामपि तथाभावप्रसङ्ग इति वेदस्य कर्मावबोधार्थत्वं हीयेत । न च संशयविपर्ययजननमेवाप्रामाण्यम्; 369 अज्ञानजनकत्वमप्यप्रामाण्यमेव ॥ उच्चारणमात्रादेव सार्थक्यं मन्त्राणामिति पूर्वपक्षः
तदुच्यते—उच्चारणमात्रोपकारिणो मन्त्राः, कुतः ? तथा विनियोगोपदेशात्—“उरु प्रथा उरु प्रथस्व इति पुरोडाशं प्रथयति” [वा। सं। १-२२] इति । यद्यर्थप्रकाशनोपकारिणो मन्त्राः, सामर्थ्यादेव प्रथनोपयोगी मन्त्रोऽयमिति किमर्थं प्रथने विनियुज्यन्ते वचनेन ? यथा साक्षः370 पुरुषः परेण चेन्नीयते, नूनमक्षिभ्यां न पश्यतीति गम्यते ॥

“अग्नीदग्नीन् विहर” इति च करोत्येवासौ ऋत्विक् अग्निविहरणम्,371 किं वचनेन ? उच्चारणमात्रोपकारिणि मन्त्रे तदुच्चारणादेवादृष्टं किञ्चित् उपकारजातं कल्प्यते ॥

वाक्यक्रमनियमाच्चाविवक्षितार्थान् मन्त्रानवगच्छामः । नियतपदक्रमा हि मन्त्राः पठ्यन्ते । यद्यर्थप्रतिपादनेनोपकुर्युः, नियतक्रमाश्रयणमनर्थकं स्यात्, क्रमान्तरेणापि तदर्थावगमसम्पत्तेः ॥ मन्त्राणामर्थविवक्षाऽपि क्वचित् न सम्भवति
इतश्चाविवक्षितार्था मन्त्राः । अविद्यमानार्थप्रकाशिनो हि केचिद्दृश्यन्ते । यथा “चत्वारि शृङ्गाः त्रयो अस्य पादाः द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्यानाविवेश” [तै। ना। १०-१] इति । न हि चतुःशृङ्गं त्रिपादं द्विशिरस्कं सप्तहस्तं किञ्चिद्यज्ञसाधनमस्ति,372 यदनेन प्रकाश्येत ॥ अचेतने चेतनवद्व्यवहारः विरुद्धः
इतश्चैवम् । अचेतनप्रैषप्रदर्शनात्—“ओषधे373 त्रायस्वैनम्” [तै। सं। १-१-२] इति । न ह्योषधिर्बुध्यते—त्राणाय नियुक्ताऽस्मीति । “शृणोत ग्रावाणः” [तै। सं। १-३-१३] इति चोदाहरणम् । न ह्यचेतनाः ग्रावाणः श्रोतुं नियुज्यन्ते ॥ अर्थविप्रतिषेधश्च क्वचित्
अपि च “अदितिर्द्यौरदितिरन्तरिक्षम्” [तै। आ। १-१३] इति विप्रतिषिद्धमभिवदन्ति मन्त्राः । कथं सैव द्यौः, तदेवान्तरिक्षं भवितुमर्हति ॥ क्वचिन्मन्त्राणामर्थ एव नास्ति
केषाञ्चिच्च मन्त्राणां अर्थो ज्ञातुमेव न शक्यते । ते कथमर्थप्रकाशनेनोपकुर्युः ? “अम्यक्सात इन्द्र ऋष्टिः” [ऋ। सं। २-८] इति । “सृण्येव जर्भरीतुर्फरीतु” [ऋ। सं। ८-६-२] इति । “इन्द्रः सोमस्य काणुका” [ऋ। सं। ३-३-९१] इति च । तस्मादविवक्षितार्था मन्त्राः ॥ मन्त्राणामुच्चारणस्यावर्जनीयत्वात्तावदेव तेषां फलम्
अपि च उच्चारणमुभयथाऽपि374 कर्तव्यं मन्त्राणां; अदृष्टाय वा ? अर्थप्रत्यायनाय वा ? यतोऽर्थमपि नानुच्चरिताः शब्दाः प्रत्याययितुमुत्सहन्ते । तदवश्यकर्तव्येऽस्मिन्नुच्चारणे तत एव यज्ञोपकारे सिद्धे किं अर्थप्रतिपादनद्वारपरिग्रहेण प्रयोजनमिति ? मन्त्राणामर्थप्रत्ययार्थत्वसिद्धान्तः
तत्रोच्यते—किं मन्त्रेभ्योऽर्थप्रतीतिरेव नास्ति ? किं वा भवन्त्यपि निर्निमित्ताऽसौ375 ? उत सन्निमित्ताऽपि ग्रहैकत्वप्रतीतिवत्376 अविवक्षिता ? इति ॥ मन्त्रैरर्थप्रतीतिर्न सम्भवतीति न युक्तम्
न तावत् प्रतीतिरेव नास्ति; शब्दार्थसम्बन्धव्युत्पत्तिसंस्कृतमतीनां “बर्हिर्देवसदनं दामि” [मै। सं। १-१-२] इत्येवमादिमन्त्रश्रवणे सति तदर्थप्रतीतेः स्वसंवेद्यत्वात् ॥

नाप्यसौ निर्निमित्ता; लोकवत् पदानामेवात्र निमित्तत्वात् । व्युत्पत्तिरपि न नास्ति; य377 एव लौकिकाः शब्दाः, त एव वैदिका, त एव तेषामर्था इति लोकव्यवहारतस्तद्व्युत्पत्तिसम्भवात् ॥

नापि भवन्त्यपि मन्त्रेभ्योऽर्थप्रतीतिः 378 ग्रहैकत्वप्रतीतिवदविवक्षिता भवितुमर्हति; अविवक्षानिबन्धनस्य क्वचिदप्यभावात् । ग्रहादिवचनान्तरनिर्ज्ञातसङ्ख्यत्वात् सोमावसेकनिर्हरणस्य च सम्मार्गकार्यस्य सर्वग्रहसाधारणत्वात् “ग्रहं” इतिविभक्तेश्च कर्मकारकसमर्पणमात्रेणापि सार्थक्योपपत्तेः युक्तमेकत्वमविवक्षितमिति कथयितुम् । इह तु “बर्हिर्देवसदनं दामि” इत्येवमादिवाक्यक्रियमाणक्रतूपयोगिद्रव्यादिप्रकाशनस्य विध्यपेक्षितत्वात् मन्त्रेण स्मृतं 379 कर्म करोति । तथा क्रियमाणं अभ्युदयकारि भवतीति न यज्ञाङ्गप्रकाशनमविवक्षितम् । अतो नोच्चारणमात्रोपकारिणो मन्त्राः ॥ केषाञ्चित्तु मन्त्राणामुच्चारणमात्रे चारितार्थ्यम्
जपमन्त्राणां तु “पावमानीं जपेत्”, “वैष्णवीं जपेत्” इति विधिनैव तावन्मात्राक्षेपणात् नार्थेन प्रकाशितेन प्रयोजनमिति किं तत्र क्रियते ? यत्र तु “जपेत्” इति विधिर्न श्रूयते, न तत्र तदर्थः प्रतीयमानः, अपेक्ष्यमाणश्चोपेक्षितुं युक्तः ॥ स्वाध्यायविधेस्त्वर्थज्ञानपर्यन्ताध्ययनपरत्वमेव
ननु ! यदि “जपेत्” इति विधेः वैष्णव्यादिषु नार्थः विवक्ष्यते, तर्हि “स्वाध्यायोऽध्येतव्यः” इति अक्षरग्रहणमात्रविधानात् सर्वस्यैव वेदस्याविवक्षितार्थत्वं स्यात्—मैवम्—स्वाध्यायाध्ययनविधेः दृष्टो380 हि तस्यार्थः कर्मावबोधनमिति दृष्टार्थत्वेन विवक्षितार्थत्वात् । एतच्च शास्त्रान्तरे [जै। सू। १-१-१] विस्तरतो निर्णीतम् । इह तु वितन्यमानं अस्माकमवान्तरविचारवाचालतामाविष्करोतीति न प्रतन्यते ॥ मन्त्राणामर्थविवक्षाऽस्त्येव
यत्तु तदर्थविनियोगोपदेशादिति अविवक्षितार्थत्वमुक्तम्— तत्र “उरु प्रथा उरु प्रथस्व” [वा। सं। १-२२] इति लिङ्गादेव प्रथन विनियोगे मन्त्रस्य सिद्धे, कामं तद्विधायकं वचनं381 अनर्थकं भवतु, प्राप्तानुवादकत्वात्; न तु प्रतीयमानः मन्त्रादर्थः त्यक्तुं युक्तः । तत्किं वचनमनर्थकमेव ? नानर्थकम्, प्रतिपन्नार्थविषयं तु तत् ॥

अर्थवादार्थं वा तद्वचनम्; “यज्ञपतिमेव तत् प्रथयति” इति । यदनेन मन्त्रेण पुरोडाशं प्रथयति, तद्यज्ञपतिं यजमानमेव प्रजया पशुभिः प्रथयतीति ॥

क्वचित्तु गुणार्थविधानम् । यथा—“तां382 चतुर्भिरादत्ते” [तै। सं। ५-१-१] इति । एवं “अग्नीदग्नीन् विहर” इत्यादावपि द्रष्टव्यम् ॥ मन्त्राणामुच्चारमात्रार्थत्वं न युक्तम्
यत्तु नियतपदक्रमत्वात् उच्चारणमात्रोपयोगिनो मन्त्रा इति— तदप्यसाधु—मीमांसकानामनादित्वाद्वेदस्य, तत्क्रमलङ्घनानुपपत्तेः । यथोक्तम् [श्लो। वा। १-१-३-१५०] —

“अन्यथाकरणे383 चास्य बहुभ्यः स्यान्निवारणम्” इति ॥

अस्माकमपि यादृक् ईश्वरप्रणीतः, तदन्यथाकरणे384 किमध्येतॄणां स्वातन्त्र्यमस्ति ? तस्मान्नार्थविवक्षायै मन्त्रक्रमः प्रभवति ब्राह्मणवाक्यक्रमवत् ॥ चत्वारि शृङ्गाः इत्यादिमन्त्राणामर्थः
यदपि “चत्वारि शृङ्गाः” इत्यविद्यमानार्थवचनमाशङ्कितम्— तदप्यनभिज्ञतया—यज्ञस्य वैष गुणवादेन संस्तवः । चत्वारि385 शृङ्गा इति वेदा उक्ताः, त्रयोऽस्य पादा इति सवनानि, द्वे शीर्षे इति दम्पतीयजमानौ, सप्तहस्तास इति छन्दांसि, त्रिधा बद्ध इति मन्त्रब्राह्मणकल्पैः निबद्धः, वृषभ इति कामान् वर्षति, रोरवीतीति स्तोत्रशस्त्रप्रयोगबाहुल्यात् शब्दायमानः, महो देवो मर्त्यानाविवेशेति मनुष्यकर्तृक इत्येवमेष यज्ञः स्तुतो भवति । तद्यथा चक्रवाकमिथुनस्तनी, हंसदन्तावली, शैबालकेशी, काशवसनेति नदी स्तूयते ॥

“ओषधे त्रायस्वैनम्” [तै। सं। १-१-२] इति चेतनवन्नियोग तस्याः स्तुत्यर्थः ॥

“शृणोत ग्रावाणः” [तै। सं। १-३-१३] इति प्रातरनुवाकस्तुतिः । इत्थं नामैषः प्रातरनुवाकः प्रशस्यः, यदचेतना ग्रावाणोऽपि शृणुयुः386 इति ॥

“अदितिर्द्यौरदितिरन्तरिक्षम्” [तै। आ। १-१३] इति गुणवादादप्रतिषेधः । तद्यथा लोके—त्वमेव मे माता, त्वमेव मे पिता, त्वमेव मे भगिनी, त्वमेव मे भ्रातेति ॥ अप्रसिद्धार्थकमन्त्राणामर्थप्रत्यायनक्रमः
यत्तु केषाञ्चिन्मन्त्राणामर्थो न ज्ञायत इति—स पुरुषापराधः सम्भवति, न मन्त्रापराधः । अर्थावगमोपायेषु बहुषु सत्स्वपि तदन्वेषणालसः पुरुषः नार्थमवगच्छति; न पुनर्मन्त्रोऽत्रापराध्यति; ब्राह्मणवाक्यवत् उपायतस्तदर्थावगमदर्शनात् । उपायश्च प्रथमस्तावत् वृद्धव्यवहार एव, तुल्यत्वाल्लोकवेदशब्दार्थानाम् । य एव लौकिकाः शब्दाः, त एव वैदिकाः; त एव चैषामर्था इति ॥ य एव लौकिकाः शब्दाः त एव वैदिकाः
387 यद्यपि च “अग्निर्वृत्राणि जङ्घनत्” [तै। ब्रा। ३-५-६] इति वेदे कृतणत्वं अग्निशब्दं पठन्ति । “उत्ताना वै देवगवा बहन्ति” [आ। श्रौ। सू। ११-७-६] “वनस्पते हिरण्यपर्ण प्रदिवस्ते अर्थम्” इति लौकिकवैदिकयोः शब्दयोः, अर्थयोश्च नानात्वमिवाशङ्क्यते; तथाऽपि तथात्वप्रत्यभिज्ञानेनावधार्य, ईषद्विकृतास्त एव वेदे इति लौकिक्येव व्युत्पत्तिः ॥

388 लोकप्रसिद्धिविप्रतिषेधे तु शास्त्रवित्प्रसिद्धिः प्रमाणीक्रियते । यथा “यवमयश्चरुः,” “वाराही उपानहौ” [तै। सं। १-७-९] “वैतसे कटे प्राजापत्यान् सञ्चिनोति” इति यववराहवेतसशब्दाः दीर्घशूकसूकरवञ्जुलकेषु शिष्टप्रसिद्ध्या नियम्यन्ते, न प्रियङ्गुकृष्णशकुनिजम्बूष्विति ॥

389 यत्र तु शिष्टप्रसिद्धिर्नास्ति, तत्र म्लेच्छेभ्वोऽपि तदर्थव्युत्पत्तिराश्रीयते । यथा—पिकनेमतामरसशब्देषु ॥ सृण्येव जर्भरी इतिमन्त्रार्थः
390 म्लेच्छप्रसिद्धेरप्यभावे निगमनिरुक्तव्याकरणवशेन धातुतः अर्थः परिकल्पनीयः । तेन आश्विनसूक्तप्रक्रमात् जरणभरणनिमित्तौ “जर्भरीतुर्फरीत्” इति द्विवचनान्तसरूपावेतौ शब्दौ अश्विनोर्वाचकाविति391 गम्यते । एवमन्यत्राप्युत्प्रेक्षणीयम् ॥ मन्त्रवाक्यविचारोपसंहारः
तदनेनापि निमित्तेन न मन्त्राणामविवक्षितार्थत्वं वक्तव्यम् ॥

अमी तस्मादर्थप्रकटनमुखेनैव दधति
क्रियार्थत्वं मन्त्रा न तु पठनमात्रेण जपवत् ।
न तद्द्वारेणापि श्लथयितुमतः शक्यत इदं
प्रमाणत्वं वेदे सकलपुरुषार्थामृतनिधौ ॥ १४२ ॥

नामधेयविचारः
392 इदमिदानीं परीक्ष्यते । “उद्भिदा यजेत” [तां। ब्रा। १९-७-३] , “चित्रया यजेत पशुकामः” [तै। सं। २-४-६] “अग्निहोत्रं जुहुयात्स्वर्गकामः”, “श्येनेनाभिचरन् वजेत” [षड्विं। ब्रा। ३-८] “वाजपेयेन स्वाराज्यकामो यजेत” इति श्रूयते । तत्र किं उद्भिदेति, चित्रयेति, अग्निहोत्रमिति, श्येनेनेति, वाजपेयेनेति गुणविधय एते ? तत्तत्कर्मनामधेयानि ? इति ॥

किमनेन परीक्षितेन प्रयोजनम् ? उभयत्रापि प्रामाण्यं नोपपद्यत इति तदर्थमेवेदं परीक्ष्यते ॥ उद्भिदादिवाक्यानां गुणविधित्वं न सम्भवति
यदि तावत् “ब्रीहिभिर्यजेत”, “दध्ना, जुहोति” इतिवत् गुणः393 कश्चिदुद्भिदादिपदैर्विधीयते—अनेन द्रव्यविशेषेण यागः कर्तव्य इति—तदा भावार्थस्य394 यज्यादेः अन्यतोऽवगतिर्मृग्या, अनवगतार्थे भावार्थे गुणविधानस्यानुपपन्नत्वात् । “आग्नेयोऽष्टाकपालो भवति” [तै। सं। २-६-३] , “अग्निहोत्रं जुहोति” [तै। सं। १-५-९] इति विध्यन्तरेण भावार्थे चोदिते, तत्र “ब्रीहिभिर्यजेत”, “दध्ना जुहोति” इति395 ॥ उद्भिदादिवाक्यानां विशिष्टविधित्वे वाक्यभेददोषः
396 ननु ! “वाजपेयेन स्वाराज्यकामो यजेत” इत्यनेनैव वाक्येन यागाख्यो भावार्थः चोदयिष्यते, गुणश्च तस्मिन् वाजपेयाख्यो विधास्यते इति को397 दोषः ?

कथं न दोषः ? अर्थद्वयविधानेन 398 वाक्यभेदप्रङ्गात्— “वाजपेयेन स्वाराज्यं कुर्यात्” इत्येकोऽर्थः, “वाजपेयेन गुणेन यागं कुर्यात्” इति द्वितीयोऽर्थः । न च सकृदुच्चरितं वाक्यं अर्थद्वयविधानाय प्रभवति ॥ वाक्यभेदस्य दोषत्वोपपादनम्
399 ननु ! “यजेत” इति रूपसाम्यात् उभयत्रापि सम्बध्यते “यजेत स्वाराज्यकामः वाजपेयेन च” इति तुल्यमस्योभयत्रापि रूपम्—न—रूपसाम्यस्यासिद्धत्वात् । स्वाराज्यं प्रति यजिरप्राप्तत्वात् विधीयते, गुणं च प्रति प्राप्तत्वात् अनूद्यते । अनवगते च कर्मणि गुणविधानमघटमानमिति अवश्यं गुणविधिपक्षे गुणं प्रति यजिः प्राप्तत्वादुद्देश्यो भवति, प्रधानं च । स एव स्वाराज्यं प्रति विधेयत्वात् उपादेयो गुणश्चेति विरुद्धरूपापत्तेः, न यजिरुभाभ्यां युगपत् सम्बद्धुमर्हति । यः स्वाराज्यं साधयितुमिच्छेत्, स यजेतेत्यन्यद्रूपम्; यद्यजेत, तत् वाजपेयेनेत्यन्यद्रूपम् । तस्मात् भावार्थप्राप्तौ प्रमाणान्तरापेक्षणात् गुणविधिपक्षे तत् अप्रमाणं वचनम् ॥ उद्भिदादिपदानां नामधेयत्वे वैफल्यम्
अथैष दोषो मा भूदिति नामधेयपक्ष आश्रीयते; तदैषामुद्भिदादिपदानां विस्पष्टमेवानर्थक्यम्400 । यावदेवोक्तं भवति “यजेत” इति, तावदेव “वाजपेयेन यजेत” इति । एवमानर्थक्यात् अन्यत्राप्यसमाश्वासः401 ॥ उद्भिदादिपदानां नामधेयत्वसिद्धान्तः
अत्रोच्यते—गुणविधिपक्षे यथा भवानाह, तथैव । नामधेयपक्ष एव तु श्रेयान् इत्यभ्युपगम्यते । तथा हि—भावार्थस्य फलं प्रति करणत्वात् तत्सामानाधिकरण्येन तृतीया प्रयुज्यते । तत्र “वाजपेयेन” इति, साध्यश्च भवन् भावार्थः करणभावमनुभवतीति । साध्यत्वापेक्षया तत्सामानाधिकरण्येन क्वचित् द्वितीयाऽपि प्रयुज्यते— “अग्निहोत्रं जुहोति” इति ॥ उद्भिदादिनाम्नां न विधानम्
ननु ! गुणवन्नामापि विधातव्यमेव, अनभिहितस्यानवगमात् । ततश्च गुणविधिपक्षस्पृशः वाक्यभेदादिदोषाः तदवस्था एव— नैतदेवम्—न402 ह्यस्य कर्मणः इदं नाम वेदितव्यमिति सञ्ज्ञासञ्ज्ञिसम्बन्धं वेदो विदधाति । योगेन तु केनचित् प्रवर्तमानं नामधेयमवगम्यत एव । उद्भेदनमनेन पशूनां क्रियत इति उद्भिदिदम् ॥

“दधिमधुपयोघृतं धानास्तण्डुला उदकं तत्संसृष्टं प्राजापत्यम्” इति नानाविधविचित्रद्रव्यसाध्यत्वात् चित्रा ॥

अग्नये होत्रमस्मिन्नित्यग्निहोत्रम् ॥

“यथा वै श्येनो निपत्यादत्ते, एवमनेन द्विषन्तं भ्रातृव्यमादत्ते” [षड्विं। ब्रा। ३-८] इत्यर्थवादात् श्येन इव श्येनो यागः ॥

वाजं—अन्नं पीयते अस्मिन्निति वाजपेयो यागः । तस्मात् कर्मनामान्येतानि ॥ नामधेयपरत्वे पूर्वोक्तानर्थक्यशङ्कानिरासः
यत्तु नामधेयपक्षे नैरर्थक्यमाशङ्कितं—तदपि न चारु—नामापि गुणफलोपलब्धेः अर्थवदित्यभियुक्तैः403 परिहृतत्वात् । एवन्नामेदं कर्मेत्यवगम्यते । तत्र गुणः द्रव्यदेवतादिः । फलं च तस्य स्वर्गः पश्चादवगम्यत इति । तस्मान्नामधेयपदानामविरुद्धोऽन्वयः ॥ क्वचित् वाक्यभेदपरिहाराय विशिष्टविधिः
क्वचित्पुनरप्राप्ते भावार्थे सगुणमेव तत्कर्म चोद्यते । यथा— “आग्नेयोऽष्टाकपालोऽमावास्यायां404 च पौर्णमास्यां चाऽच्युतो भवति” [तै। सं। २-६-३] इति । यथा वा “एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेत” [ता। ब्रा। १७-७-१] इतीत्यलं श स्त्रान्तरोद्गारगहनकथाविस्तरेणेति नास्ति नामधेयद्वारेणापि प्रमाणताऽऽक्षेपः । सर्वप्रकारेणापि सिद्धं वेदप्रमाणत्वमिति ॥

वेदप्रामाण्यसिध्यर्थमित्थमेताः कथाः कृताः ।
405 न तु मीमांसकच्छातपारमिथ्याभिधानतःः ॥ १४३ ॥

पदानां कार्य एवार्थे व्युत्पत्तिः ? उत सिद्धेऽपि
ननु ! एवं विध्यर्थवादमन्त्रनामधेयानां कार्यौपयिकत्वदर्शनात् कार्य एवार्थे वेदः प्रमाणमित्युक्तं स्यात् । ततः किम् ?

सिद्धेऽर्थे तस्य प्रामाण्यं हीयते ?

ततोऽपि किम् ?

भूयान् 406 भूतार्थाभिधायिग्रन्थराशिरुपेक्षितो भवेत् । सकलस्य च वेदस्य प्रामाण्यं प्रतिष्ठापयितुमेतत् प्रवृत्तं शास्त्रम् 407 ॥ कार्य एव पदानां व्युत्पत्तिरिति भीमांसकरीत्या पूर्वपक्षः
अत्र केचिदाहुः—सर्वस्यैव वेदस्य कार्येऽर्थे प्रामाण्यम्— तथा हि—गृहीतसम्बन्धः408 शब्दः अर्थमवगमयति । सम्बन्धग्रहणं चास्य वृद्धव्यवहारात् । वृद्धानां च व्यवहारः “पानीयमानय”, “गां बधान”, “ग्रामं गच्छ” इति कार्यप्रतिपादकैरेव शब्दैः प्रवर्तत इति तत्रैव व्युत्पद्यन्ते बालाः । प्रयोजनोहेशेन हि वृद्धा वाक्यानि प्रयुञ्जते । न च सिद्धार्थाभिधायिना प्रवृत्तिनिवृत्ती409 अनुपदिशता शब्देन किञ्चित् प्रयोजनमभिनिर्वर्तत इति तस्य न प्रयोगयोग्यत्वम् । अप्रयुज्यमानस्य च न सम्बन्धग्रहणम् । अगृहीतसम्बन्धस्य च न प्रतिपादकत्वम् । अप्रतिपादकस्य च 410 न प्रामाण्यम् ॥ क्रियारहितं वाक्यं प्रयोक्तुं नार्हम्
अपि च आख्यातपदोच्चारणमन्तरेण निराकाङ्क्षप्रत्ययानुत्पादात् अवश्यमाख्यातयुक्तं वाक्यं प्रयोक्तव्यम् । आख्यातपदेन च साध्यरूपोऽर्थ उच्यते । नामपदेन च सिद्धः । भूतभव्यसमुच्चारणे 411 भूतं भव्यायोपदिश्यत इति वाक्यस्य साध्यार्थनिष्ठतेति न भूतार्थविषये तस्य प्रामाण्यम् । अतश्च कार्येऽर्थे शब्दस्य प्रामाण्यम्, यतश्च कार्यरूपोऽर्थः शब्दस्यैव विषय इति तत्र शब्दः प्रमाणतां लभते । सिद्धोऽर्थः प्रसिद्धत्वादेव 412 प्रमाणान्तरपरिच्छेदयोग्य इति तत्प्रतिपादने तत्प्रमाणान्तरसव्यपेक्षः शब्दो भवति । ततश्च तद्ग्राहिणः प्रमाणान्तरस्यैव तत्र प्रामाण्यं स्यात्, न शब्दस्य । शब्दश्च तदुपस्थापनमात्र413 एव निष्ठः स्यात् । तस्मात् शब्दप्रामाण्यमिच्छता कार्य एवार्थे तत्प्रामाण्यमङ्गीकर्तव्यमिति ॥ सिद्धेऽपि पदानां व्युत्पत्तिरिति सिद्धान्तः
अत्रोच्यते—यत् ब्रूषे कार्य एवार्थे वाक्यस्य व्युत्पत्तिरिति— तदयुक्तम् । एवं414 हि “सिद्धरूपोऽयं तस्यार्थः” इति कथं त्वयोच्यते ? न ह्यलब्धव्युत्पत्तेः शब्दात् अर्थप्रत्ययो युज्यते । अर्थप्रतीतिश्च ततो दृश्यते, व्युत्पत्तिश्च तत्र नास्तीति चित्रम् !

न च कार्यपरैरेव शब्दैः लोके व्यवहारः; वर्तमानोपदेशकेभ्योऽपि 415 नद्यादिवाक्येभ्यः व्यवहारप्रवृत्तेः तत्रापि व्युत्पत्तिर्भवत्येव ॥ कार्योपदेशाभावेऽपि व्युत्पत्तिः
अपि च अङ्गुल्यादिना पुरोऽवस्थितमर्थं निर्दिश्य यदा कश्चित् कथयति “अस्येदं नाम” इति तदा कार्योपदेशमन्तरेणापि भवत्येव व्युत्पत्तिः । “अस्माच्छब्दादयमर्थः प्रतिपत्तव्यः” इति कार्योपदेश एवासाविति चेत्—न, तादृशानामक्षराणामश्रवणात् । “अस्येदं नाम” इति हि श्रूयते, न “अस्मादयं प्रतिपत्तव्यः” इति । “अस्येदं नाम” इत्येषामेवाक्षराणां एषोऽर्थ इति चेत्—न—अपदार्थस्य क्यार्थत्वायोगात् । न चैवं कल्पयितुमपि शक्यते, “अस्येदन्न म” इत्येतावतैव तत्प्रतिपत्तिसिद्धेः प्रतिपत्तिकर्तव्यताऽभिधानस्य निष्प्रयोजनत्वात्416

कार्यपरादपि शब्दात् व्युत्पत्तिर्भवन्ती न वाक्यार्थमात्रपर्यवसायिनी भवति; किन्त्वेकैकपदावापोद्वापद्वारकपदार्थपर्यन्ता417 सा भवति । पदार्थव्युत्पत्तिसंस्कृतमतेश्च अभिनवकविविरचितवर्तमानोपदेशश्लोकश्रवणेऽपि418 वाक्यार्थप्रतीतिर्दृश्यत एवेति नाव्युत्पत्तिकृतमप्रामाण्यम् ॥

न चासौ भूतार्थप्रतिपादकशब्दजनिता प्रतीतिः बाध्यते, सन्दिग्धा वा; येन 419 प्रत्यक्षादिप्रमाणान्तरकरणकप्रतीतिवत् प्रमाणफलमेव सा भवितुमर्हति ॥ शब्दस्य प्रमाणान्तरसापेक्षत्वम् गुण एव
यत्पुनरभ्यधायि—कार्येऽर्थे प्रमाणान्तरनिरपेक्षतया प्रमाणं भवति शब्दः, भूतार्थे तु नेति—तदसत्—शब्दस्य प्रमाणान्तरसापेक्षत्वानपायात् । प्रमाणान्तरेणानवगते ह्यर्थे शब्दः प्रवर्तयितुमेव न शक्नोति इत्यवोचाम [पु। ४८१] । वक्ष्यामश्च वाक्यार्थचिन्तायामपि [५ आह्निके] । प्रमाणान्तरसापेक्षत्वं तस्य प्रत्युत420 प्रामाण्यमावहति, न प्रतिहन्ति ॥ प्रमाणान्तरसापेक्षत्वं नाप्रामाण्यावहम्
421 किञ्चेदं सापेक्षत्वमिति वक्तव्यम् । किं सिद्धार्थाभिधायिनः शब्दस्य उत्पत्तावेव प्रमाणान्तरसापेक्षत्वम् ? उत तद्विषयस्य प्रमाणान्तरपरिच्छेदयोग्यत्वम् ? इत्युभयथाऽतिप्रसङ्गः । उत्पत्तौ प्रमाणान्तरसव्यपेक्षतया यद्यप्रामाण्यं वर्ण्यते हन्त ! हतमनुमानम्, तस्योत्पत्तौ प्रत्यक्षादिसापेक्षत्वात् । वर्णितं च “तत्पूर्वकं त्रिविधमनुमानम्” [न्या। सू। १-१-५] इति । तद्विषयस्य प्रमाणान्तरग्रहणायोग्यतायां तु तदप्रामाण्ये, प्रत्यक्षादीनां सर्वेषां अप्रामाण्यं प्राप्नोति, प्रमाणसम्प्लवस्य422 प्राक् [पु। ८७] प्रतिपादितत्वात् ॥ विधिवाक्यानां कार्यपरत्वमसम्भवि
अपि च विधियुक्तेष्वपि वैदिकेषु लौकिकेषु वाक्येषु “अधीष्व”, “गां वधान”, “ग्रामं गच्छ” इत्येवमादिषु अन्वयव्यतिरेकाभ्यां हिताहितप्राप्तिपरिहारसाधनसामर्थ्यावगमेन प्रवृत्तिसिद्धेः 423 विनियोगमात्रनिष्ठ एव विधिर्भवति । अप्रवृत्तप्रवर्तनात्मकनिरपेक्षनिज व्यापारवैधुर्यात् कार्यपरत्वानुपपत्तेः अनुवादमात्रं विधिवचनमिति कार्यार्थप्रामाण्यवादिनां सर्वमेव लौकिकं वाक्यं अप्रमाणं स्यात् ॥ सिद्धपरवाक्येषु विधिकल्पनमपि न युक्तम्
ये तु भूतार्थवादिषु लौकिकवाक्येषु प्रवृत्तिनिवृत्तिकारिषु विधिनिषेधौ कल्पयन्ति ते नितरामृजवः—श्रूयमाणोऽपि424 विधिः अनुवादीभवति यत्र, तत्राश्रुतः कल्प्यत इति किमन्यदतः परमार्जवम् ? प्रवृत्तौ तु तत्र विधिरप्रयोजक एव; अन्वयव्यतिरेकाभ्यां पुरुषार्थसाधनसामर्थ्यावगमात्, पुरुषप्रत्ययाद्वा425 लोकेषु प्रवृत्तिसिद्धेः ॥ शब्दात् वक्तृतात्पर्यानुमानपक्षनिराकरणम्
तत्रैतत्स्यात्—लौकिकवाक्यानां विवक्षापरत्वात् न कार्यार्थत्वम् । यथोक्तं—“अपि च पौरुषेयाद्वचनात् एव मयं426 पुरुषो वेदेति भवति प्रत्ययः, नैवमर्थतेति । वैदिकानि पुनः मपौरुषेयतया कार्यपराण्येव वाक्यानि” इति—एतदपि न पेशलम्—अपौरुषेयस्य वचसः प्रतिक्षिप्तत्वात् । वेदेऽपि कर्तुरीश्वरस्य साधितत्वात् ॥

न च पुरुषवचनमपि विवक्षापरमिति दर्शितम् । तथा हि— न विवक्षा वाक्यार्थः, “देवदत्त ! गामभ्याज कृष्णां दण्डेन” इति पदग्रामे विवक्षावाचिनः पदस्याश्रवणात् । अपदार्थस्य427 वाक्यार्थत्वानुपपत्तेः । न च 428 विषयभक्षणवाक्यस्येव परगृहे भोजननिवृत्तौ, पौरुषेयवचसः विवक्षायां तात्पर्यशक्तिरपि प्रभवति । न हि सर्वात्मनाऽभिधात्रीं शक्तिमवधीर्यैव तात्पर्यशक्तिः प्रसरति इति न विवक्षापरत्वम् ॥ अनुमानादेव वक्तृतात्पर्यनिश्चयः
कथं तर्हि पुरुषवचनादुच्चारितात् विवक्षावगम इति चेत्, अनुमानादिति ब्रूमः । कार्यत्वात् पदरचनायाः पुरुषेच्छापूर्वकत्वमनुमीयते । अर्थावगमपुरस्सरं च पुरुषवचनात् विवक्षानुमानं— “एवमयं वेद”, “एवमयं विवक्षति” इति । अर्थोपरागरहितस्य विवक्षामात्रस्य जीवतां429 निसर्गत एव सिद्धेः । “अयमर्थोऽस्य विवक्षितः” इत्यर्थोपरज्यमाना तु विवक्षा न शक्या अर्थेऽनवगतेऽवगन्तुम् । अर्थश्चेत् प्रथममवगतो वाक्यात्, न तर्हि तत् विवक्षापरम्, अर्थपरमेव भवितुमर्हति । लोकवाक्यानां विवक्षापरत्वे बाह्येऽर्थे 430 सम्बन्धग्रहणासम्भवात् वेदादपि वाक्यार्थावगमो न स्यादित्यलं प्रसङ्गेन ॥

तस्मान्न कार्यपरत्वेनैव शब्दस्य प्रामाण्यम् ॥ कार्यान्वयरहितवाक्यानामप्यस्ति प्रामाण्यम्
यत्पुनरभाणि—नाख्यातशून्यं वाक्यं प्रयोगार्हम् । तेन विना नैराकाङ्क्ष्यानुपपत्तेः । आख्यातस्य च भव्यरूपः अर्थः, न नाम्न इव भूतः । भूतभव्यसमुच्चारणे च भूतं भव्यायोपदिश्यत इति सर्वत्र कार्यपरत्वमिति—तदपि न साम्प्रतम्—“पुत्रस्ते जातः”, “कन्या ते गर्भिणी” इति सुखदुःखकारिणां अनुपदिष्टप्रवृत्तिनिवृत्तिकानां अनाख्यातानामपि वाक्यानां लोके प्राचुर्येण प्रयुज्यमानत्वात् ॥ प्रमाणतन्त्रस्य ज्ञानसुखादेर्न विधिसम्भवः
अथ “सुखी भव”, “दुःखी भव” इति तत्र कार्यपरत्वं व्याख्यायते—तदपि न युक्तम्—ईदृशानामक्षराणामश्रवणात्; कल्पनायाश्च निष्फलत्वात् । न हि “सुखी भव” इत्युपदेशात् असौ सुखी भवति; सुखीभवितुं वा क्वचित् प्रवर्तते । उपाये431 पूर्वमेव प्रवृत्तत्वात् । 432 उपेये च प्रवृत्त्यनुपपत्तेः । किन्तु पुत्रजन्मश्रवणत एवासौ सुखीभवति ॥

तथा कस्यचित् उत्तरीयावगुण्ठिततनोः निद्रायमाणस्य क्वचित् केनचित् केलिना रज्जुवेष्टितवपुषः, पश्चात्प्रबोधसमये सहसा सरीसृपवलितमात्मानं मन्यमानस्य भयादनुन्मीलितचक्षुषः केनचित्प्रयुज्यमानं “रज्वा वेष्टितोऽसि” इति वचः श्रवणपथमवतरति, तत् सिद्धार्थबोधकमपि प्रमाणम् । न च तत्र “मा भैषीः” इति प्रयोगकल्पनायाः प्रयोजनम्; रज्जुवेष्टनप्रत्ययादेव भयनिवृत्तेः सिद्धत्वात् ॥

तथा च “विषमविषधराधिष्ठितोऽयमध्वा”, “निधियुक्तोऽयं भूभागः” इति भूतार्थख्यापकं वचो दृश्यते; न च तदप्रमाणम् । न च तत्र “मा गाः त्वमनेनाध्वना”, “निर्धि गृहाण” इति विधिनिषेधपरत्वं युक्तम्, एषां पदानामश्रवणात् ॥ सर्वत्र कार्यपदाध्याहारः नापेक्षितः
ननु ! वक्तुः प्रेक्षापूर्वकारितया निष्प्रयोजनवचनानुच्चारात् अवश्यं “मा गाः”, “गृहाण” इति कार्याक्षराणि हृदये परिस्फुरन्ति । कथञ्चिदालस्यादिना नोच्चरितानीति—नैतद्युक्तम्—प्रेक्षापूर्वकारि433 त्वादेव वक्तुः यथाऽवस्थितवस्तुस्वरूपभात्रख्यापकवचनोच्चारणमेव युक्तम्; अर्थात् प्रवृत्तिनिवृत्त्योः सिद्धत्वात्; पराभिप्रायस्य चानवस्थितत्वेन नियतोपदेशानुपपत्तेः । सर्पबन्धजीविनो हि सपन्नग एव पन्था उपादेयतयाऽवभाति । वीतरागस्य च ब्रह्मविदः वित्तेषणाव्युत्थितस्य गोविन्दस्वामिन इव निधिरपि हेयतया परिस्फुरतीति कस्मै किमुपदिश्यताम् ? वस्तुस्वरूपे तु कथिते यथाहृदयवर्तिरागद्वेषानुवर्तनेन कश्चित्तत्र प्रवर्तताम् ! कश्चित्ततो निवर्तताम् ! इति भूतार्थकथनमेव लोके प्रेक्षावान् करोति, न विधिनिषेधौ प्रयोक्तुमर्हतीति ॥ सर्वत्र ज्ञानविधानपक्षोऽपि अत एव निरस्तः
येऽपि ब्रुवते—सर्वत्र434 प्रतिपत्तिकर्तव्यताविधानमेवादौ वेदितव्यम्; अविधिकस्य वाक्यस्य प्रयोगानर्हत्वादिति—तेऽपि न साधु बुध्यन्ते—विदितशब्दार्थसम्बन्धस्य पुंसः शब्दश्रवणे सति प्रतिपत्तेः स्वतः सिद्धत्वेन अनुपदेश्यत्वात् । असिद्धायां वा प्रतिपत्तौ प्रतिपत्तिकर्तव्यताऽपि कुतः प्रतीयेत ? कार्यद्वारैव पदार्थानां सम्बन्धभानमिति न नियमः
ननु ! कार्यार्थप्रतिपादकं पदमन्तरेण पदान्तराणि संसर्गमेव न435 भजन्ते, कार्याकाङ्क्षानिबन्धनत्वात् सम्बन्धस्य । तेन सर्वत्र कार्य परत्वम्—उच्यते—नैष नियमः, कार्याकाङ्क्षागर्भ एव सर्वत्र सम्बन्ध इति; वर्तमानापदेशकानामपि प्रेक्षापूर्वकारिवाक्यानां इतरेतरसंसृष्टार्थप्रतीतिजनकत्वदर्शनात् । न हि दशदाडिमादिवाक्यसदॄंशि436 वर्तमानापदेशीनि वचांसि भवन्ति । कार्यनिबन्धने हि सम्बन्धे तद्रहितानामनन्वय एव स्यात् । दर्शितश्चान्वयः पूर्वोदाहृतवाक्यानाम् ॥ कार्यवाक्येऽपि सर्वेषां पदानां न क्रियान्वयनियमः
अपि च लिङन्तपदयुक्तेऽपि वाक्ये 437 पदान्तरार्थानां परस्परमन्वयो दृश्यत एव । स कथं समर्थयिष्यते ?

कार्याकाङ्क्षानिबन्धने हि कार्ये सर्वेषामन्वयः, न परस्परमिति ब्रुवन् ब्रूयात्—सर्वथा कार्यसम्बन्धे प्रथममवगते सति पश्चादरुणैकहायनीन्यायेन438 वाक्यीयः परस्परान्वयोऽपि सेत्स्यतीति—हन्त तर्हि परस्परान्वये कार्याकाङ्क्षाकारणम् ! तर्हि “अरुणया पिङ्गाक्ष्या एकहायन्या सोमं क्रीणाति” इति द्रव्यगुणयोः विभक्त्या सोमक्रयं प्रति युक्तत्वात्, प्रथमं क्रयसम्बन्ध एव तयोर्गम्यते । यश्च पाश्चात्यः परस्परान्वयः, तत्र कार्यपारतन्त्र्यापादिका विभक्तिः अकारणम्;439 असत्यामपि 440 तस्यां “शुक्लः पटः” इति सामानाधिकरण्यप्रयोगेणान्वयसिद्धेः । तस्मात् कार्यैक्यनिबन्धनोऽन्वय इति नियमो य उच्यते; स कल्पनामात्रप्रभवः, न प्रमाणवृत्तगम्य इति ॥ सिद्धस्य साध्यशेषत्वनिर्बन्धोऽपि नास्ति
यत्तु भूतभव्यसमुच्चारणे भूतं भव्यायोपदिश्यत इति—अयमपि न सार्वत्रिको नियमः; विपर्ययस्यापि441 “ब्रीहीन् प्रोक्षति” इत्यादौ दर्शनात् ॥

अलं442 वा दर्शपूर्णमासप्रकरणनिवेशानुज्ज्ञितकार्यमुखप्रेक्षणदैन्येन ब्रीहिप्रोक्षणोदाहरणेन ! “आत्मा ज्ञतव्यः” इति तु सिद्धपर एव साध्योपदेशः । न ह्यत्र कर्म किञ्चित्साध्यं प्रधानमुपदिश्यते, 443 अधिकाराश्रवणात् । न च विश्वजिदादिवत् अधिकारकल्पना काचिदुपपद्यते । न च 444 कर्मप्रवृत्तिहेतुत्वं आत्मज्ञानस्येति वक्ष्यामः [९ आह्निके] ॥ आर्थवादिकं फलमात्मज्ञानस्य न सम्भवति
445 अर्थवादस्त्वर्थवाद एव, नाधिकारिकल्पनाय प्रभवति । तस्मात् अपहतपाष्मादिगुणयुक्तात्मस्वरूपनिष्ठत्वमेव तत्रावतिष्ठते । तस्मिन्नवगते पुरुषान्तरप्रार्थनादैन्यानुपपत्तेः446 स एव ह्युत्तमः पुरुषार्थः । स च सिद्ध एव, न साध्यः । यत्नस्तु कृतबुद्धीनां अविद्योपरमायैवेति व्याचक्षते ॥ आत्मज्ञानस्याविधेयत्वम्
“ज्ञातव्यः” इति प्रतिपत्तिकर्तव्यतापरोऽयं विधिरिति चेत्—न— प्रतिपत्तेः प्रमितित्वात् । प्रमितेश्च प्रमेयनिष्ठत्वात्447 । “ज्ञातव्यः” इति च कर्मणि कृत्यप्रत्ययनिर्देशात् । कर्मणश्च ईप्सिततमत्वात् तत्परत्वमेवावगम्यते448 । विधिस्तत्र प्रसरन्नपि क्व प्रसरेत् ? फलं तावत् विधेः न विषय एव । यथाऽऽह भट्टः [श्लो। वा। १-१-२-२२२] — “फलांशे भावनायाश्च प्रत्ययो न विधायकः” इति । उपायस्तु ज्ञानमेव । ज्ञानं च ज्ञेयनिष्ठमित्युक्तम्449 ॥ आत्मज्ञानाङ्गोपदेशोऽपि प्रतिबन्धकनिवृत्तिपर्यवसाय्येव
यस्तु यमनियमादिप्रतिपत्तीतिकर्तव्यताप्रकारोपदेशः,450 सोऽपि तथाविधात्मरूपाधिगतये सत्यासत्यस्वभावनामरूपप्रपञ्चविलापनद्वारेण451 तत्रोपयुज्यत इति सिद्धसाध्यम् ॥ सर्वेषामपि कर्मणां आत्मज्ञानाङ्गत्वम्
तिष्ठतु वा यमनियमप्राणायामप्रत्याहारधारणाद्यात्मज्ञानोपयोगीतिकर्तव्यताविधिः ! अन्येऽपि ज्योतिष्टोमादिविधयः तन्निष्ठा एवेति वेदान्तवादिनः 452453 साध्यस्य सर्वस्य क्षयित्वेनानुपादेयत्वात्, सिद्धस्य ब्रह्मण एव अनाद्यविद्यातीतस्यानपायिनः पुरुषार्थत्वात्, स्तोकस्तोकप्रपञ्चविलापनद्वारेण उत्तमाधिकारयोग्यत्वापादनात् ब्रह्मप्राप्तयौपयिका एव सर्वविधयः । तथा च मनुः— [म। स्मृ। २-२५] “ स्वाध्यायेन ब्रतैर्होमैः त्रैविद्येनेज्यया सुतैः ।
महायज्ञैश्च यज्ञैश्च ब्राह्मीयं454 क्रियते तनुः इति ॥

” सर्वविधीनामपि ब्रह्मप्राप्तिपर्यवसायित्वम्
तदेवं सिद्ध एवार्थे वेदस्यादुः प्रमाणताम् ।
सर्वा हि विधयो ब्रह्मप्राप्तिपर्यवसायिनः ॥ १४४ ॥

आस्तां वाऽयं विषयः बहु वक्तव्यः, प्रमाणता तु गिराम् ।
सिद्धे कार्ये चार्थे तुल्यैव प्रमितितुल्यत्वात् ॥ १४५ ॥

वेदविचारोपसंहारः
455456 किं तन्त्रता भवति कस्य तयोरितीयं
चर्चा चिराय न महत्युपयुज्यते नः ।
सन्तोषवृत्तिमवलम्ब्य वयं हि वेद-
प्रामाण्यमात्रकथताय गृहीतयत्नाः ॥ १४६ ॥

प्रामाण्यसाधनविधाबुपयोगि यच्च
वक्तव्यमत्र तदवादि यथोपयोगम् ।
वक्तव्यमिष्टमपि किञ्चिदिहाभिदध्मः
तच्छ्रूयतां यदि न धीः परिखिद्यते वः ॥ १४७ ॥

इति श्रामज्जयन्तभट्टकृतौ न्यायमञ्जर्यां चतुर्थमाह्निकम्

द्वितीयसम्पुटः


  1. “सर्वत्र—”वाक्यादिषु । वर्णानामेवानित्यत्वे वाक्यानां अनित्यत्वं कैमुतिकसिद्धमिति भावः ॥ ↩︎

  2. पदेत्यादि । यद्यपि “वर्णनित्यत्वपक्षेऽपि” इति वक्तुमुचितम्; परन्तु मीमांसकैः, औत्पत्तिकसूत्रे शब्दार्थयोस्सम्बन्धस्य सहजत्वं स्थापितम् । तत्र प्रसक्तः शब्दः पदरूप एव । अतश्च तदनन्तरे शब्दनित्यताधिकरणे पदात्मकस्यैव नित्यत्वं साधितमिति एवमुक्तम् ॥ ↩︎

  3. “पञ्चलक्षणः—”पक्षसत्त्वादि [पु। २८२] युक्तः ॥ ↩︎

  4. प्रकरणचिन्तेति । “यस्मात्प्रकरणचिन्ता स प्रकरणसमः” [न्या। सू। १-२-७] सौत्रलक्षणानुरोधेन एवमुक्तिः । प्रकरणं—पक्षप्रतिपक्षौ, तावधिकृत्य चिन्तेत्यर्थः ॥ ↩︎

  5. ननु कर्तृपूर्वकत्वे रचनात्वं हेतुरिति कथम् ? रचनायां हि कर्ता हेतुः, न तु कर्तरि रचना हेतुरित्यत्राह—यथेति । तथा च कारकहेतोः, कार्यं ज्ञापकहेतुर्भवतीत्यर्थः ॥ ↩︎

  6. वेदस्येत्यादि । नन्वेतावताऽपि कथं वेदनित्यत्वसिद्धिरिति चेत्, एवमेव सर्वेषामध्ययनानां तत्तदध्ययनपूर्वकत्वे सिद्धे महाप्रलयानङ्गीकारात् संसारस्यानादित्वसिध्या वेदानादित्वसिद्धिः ॥ ↩︎

  7. “तच्छब्दः—”वेदाध्ययनशब्दः ॥ ↩︎

  8. स्मर्यते । तथा च प्रदर्शयिष्यत्युत्तरत्र ॥ ↩︎

  9. अथेति । मन्त्राणामर्थवादानां च न स्वप्रतिपाद्यार्थे प्रामाण्यम् । अपि च मन्वादिस्मृतयो हि वेदानुसारादेव प्रमाणानि । वेदस्तु स्वविषये स्वयं कथं प्रमाणं भवेत् । न हि विप्रतिपत्तिस्थले विप्रतिपन्नवाक्यमेव प्रमाणीकर्तुं शक्यमिति भावः ॥ ↩︎

  10. तत्रत्येति । भारतस्थेत्यर्थः ॥ ↩︎

  11. “शाकटिकः—”शकटेन जीवतीत्यर्थे ठक्, पामर इति यावत् ॥ ↩︎

  12. एवमेवेति । न ह्येवं लोके दृश्यते, सम्भवि वेत्याशयः ॥ ↩︎

  13. “एवञ्च सति—”वेदस्य सकर्तृकत्वेऽङ्गीकृते सति ॥ ↩︎

  14. “तत्कृतं—”विच्छेदकृतम् ॥ ↩︎

  15. अधीयमान इति । “लटः शतृशानचौ” इति शानच् । आदिपुरुषे वेदं पठति सतीत्यर्थः ॥ ↩︎

  16. “उन्मीलदिव—”अङ्कुरायमाणमिव ॥ ↩︎

  17. असति इति पदविभागः ॥ ↩︎

  18. “हृदि दुर्बोधा—”मनसाऽपि प्रतिपत्तुमशक्या ॥ ↩︎

  19. “वयं—”अयोगिनः इतरे ॥ ↩︎

  20. “एषा—”वेदपौरुषेयत्वस्मृतिः ॥ ↩︎

  21. व्यधिकरण इति । कर्तुः अस्मरणादित्युक्ते हि स्मरणाभावो हेतुः प्राप्तः । स च चेतनगतः, न तु पक्ष इति हेतुसाध्ययोर्वैयधिकरण्यम् ॥ ↩︎

  22. अभिनव इति हेत्वन्तररूपनिग्रहस्थानोपपादकम् ॥ ↩︎

  23. “अक्षुद्रा—”महती उपहासोऽयम् ॥ ↩︎

  24. “स्वतन्त्रः—”रचनात्वहेतुकसकर्तृकत्वानुमानवत् स्वसाध्यसाधनक्षमः ॥ ↩︎

  25. अस्मदित्यादि । अस्माभिर्वर्णिते रचनात्वहेतौ सप्रतिपक्षत्वसम्पादनायेत्यर्थः ॥ ↩︎

  26. सूचीकटाहन्यायेन द्वितीयकल्पं निराकरोति—तत्रेति ॥ ↩︎

  27. प्रत्यक्षागमवत् इति व्यतिरेकदृष्टान्तः ॥ ↩︎

  28. यत्कृतमिति । प्रत्यक्षविरोधात् वह्न्यनुष्णत्वानुमानं, आगमविरोधात् नरशिरःकपालशौचाद्यनुमानं च दुर्बलं वक्तव्यम् । तथा च प्रत्यक्षं आगमश्चेति द्वयमेव बाधकं, न त्वनुमानं अनुमानस्य, तौल्यादिति सिद्धम् । ननु तर्हि शुक्तिरजतप्रत्यक्षस्य नेदं रजतमिति प्रत्यक्षं बाधकं सर्वसम्मतम् । एवं शब्देऽपि अपरीक्षकवाक्यस्य परीक्षकवाक्यं बाधकं दृष्टम् । प्रत्यक्षत्वाद्यविशेषे कथमन्यतरस्य बाधकत्वं बाध्यत्वं वेति चेत्; न हि वयं प्रत्यक्षत्वं शब्दत्वं वा बाधकत्वे बाध्यत्वे वा प्रयोजकं वदामः । निरवकाशं यत् तत् बाधकं, सावकाशं चेत् बाध्यमित्येव निष्कर्षः । ननु तर्हि अनुमानेऽपि कुतस्तथा नास्तीति चेत्, अनुमानस्य सावकाशत्वनिरवकाशत्वे हि प्रत्यक्षागमाधीने एव दृष्टे । दृष्टे विषये प्रत्यक्षं, अदृष्टे आगमश्चेति द्वयमेव स्वतन्त्रं प्रमाणम् ।अनुमानं तु “तत्पूर्वकं” इति निर्दिष्टमेव । अतश्च अनुमानस्य बाधकत्वं यादृशप्रत्यक्षागममूलकत्वकृतं, तादृशप्रत्यक्षागमयोरेव पूर्वानुमानबाधकत्वमिति अनुमानेन नानुमानबाधसम्भव इत्याशयः ॥ ↩︎

  29. वक्ष्याम इति । पूर्वमपि [पु। २९३-२९४] इदं सामान्यतो विचारितम् ॥ ↩︎

  30. मनः खेदनीयं—परिश्रमः करणीय इति भावः । अधिकं तु ११ आह्निके स्पष्टीकृतं द्रष्टव्यम् ॥ ↩︎

  31. “नैसर्गिकी—”पुरुषनिरपेक्षा ॥ ↩︎

  32. प्रत्यक्षापलापोऽयमित्याशयेनाह—पट इत्यादि ॥ ↩︎

  33. सर्वास्तिकेत्यादि । वेदप्रामाण्यरक्षणं नैयायिकानामेव भारः इति ह्युक्तं [पु। ७-१०] इति भावः ॥ ↩︎

  34. “नवाः—”लोके अपरिचिताः ॥ ↩︎

  35. शाखान्तरेत्यादि । “एकं वा रूपसंयोग चोदनाख्याऽविशेषात्” [जै। सू। २-४-९] , “सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात्” [ब्र। सू। ३-३-१] इत्यादौ हि शाखान्तरोक्तार्थानामप्युपसंहारादिर्निरूपितः । अल्पबुद्धिमतां वाक्यं नैतावद्विस्तृतं भवेत् । अत एव—सन्निबन्धने इत्युक्तिः ॥ ↩︎

  36. “भिन्नं—”विलक्षणम् । रचनासु वैलक्षण्यमात्रेण कथमकर्तृकत्वसिद्धिरित्यर्थः ॥ ↩︎

  37. “भावात्—”अभिव्यक्तेः ॥ ↩︎

  38. रूपादिति । अनित्यवस्तुसम्बन्धात् किल अनित्यत्वं, तानि वस्तूनि नित्यान्येव यदि, तदा को दोष इति चेत्; सा कल्पना कल्पितैव—सर्वथा न साधीयसी । यतः अनित्यवस्तुसंयोगश्च स्वरसत एव प्रतीयते ॥ ↩︎

  39. “तेषां—”उक्तवाक्यानाम् । “अन्यथा—”अभिव्यक्तिपरत्वादिना ॥ ↩︎

  40. असिद्धत्वात्—रचनात्वेन सामान्यतः कर्तुरनुमानेन तत्स्मरणसत्वात् । सिद्धमपि—इति तु, न हि लोके कोऽपि कमपि वेदकर्तारं निर्दिश्य व्यवहरतीत्यभिप्रायेण । समाधानवाक्येष्वयमर्थः स्पष्टः । दृश्यते लोकेऽपि बहृनि वस्तूनि अज्ञानकर्तृकाणि ॥ ↩︎

  41. “तत्—”कर्त्रस्मरणम् । व्यभिचरति, अन्येत स्मरणसम्भवात् ॥ ↩︎

  42. “दुरवगमत्वस्यैवोपपादनं—”सर्व इत्यादि ॥ ↩︎

  43. अतिप्रसङ्गादिति । एतादृशोऽतिप्रसङ्गः पूर्व [पु। २६७] मप्युक्तः ॥ ↩︎

  44. पूर्व [पु। ५७८] मुक्तं प्रथमविकल्पं प्रत्याह—नापीति । कर्तुः अस्मरणं नाम स्मरणाभावः । तथा च स्मरणाभावः अनुपलम्भे विश्राम्यति । स च बाधितः इत्यर्थः ॥ ↩︎

  45. अनुमानेनेति । अन्यथा हि धूमात् पर्वते वह्न्यनुमानकाले पर्वते वह्नेः इन्द्रियेणानुपलम्भमादायानुमानस्यैवानुत्थितिर्वक्तव्या स्यात् । अतोऽत्र उपलम्भपदं अनन्यथासिद्धज्ञानसामान्यपरमेव ॥ ↩︎

  46. ननु सकर्तृकत्वं च रचनात्वहेतुमूलम् । कर्त्रस्मरणं तु स्वतस्सर्वेषां सिद्धम् । अतः अनुमानोत्थितिः कथम् ? वह्न्यनुमानस्थले तु नैवं वह्न्यभावस्योपस्थितिः, पर्वते वह्नेः सन्दिग्धत्वेन तदभावानिर्णयात् । अन्ततस्तस्यैव वह्नेः समीपस्थेनो पलम्भाच्च । अतः अनुमानेन अस्मरणबाधकथनमयुक्तम् । प्रत्युतास्मरणेनैवानुमानबाधो युक्त इति शङ्कते—नन्विति ॥ ↩︎

  47. “अनुपलब्धौ—”कर्त्रभावनिर्णये ॥ ↩︎

  48. सिद्धायां-निश्शङ्कं जातायाम् । अस्त्यत्रापि पर्वते वह्नेरिव संशय इत्यर्थः ॥ ↩︎

  49. समानो दोष इति । सकर्तृकत्वानुमानस्य प्रामाण्ये सकर्तृकत्वसिद्धिः सकर्तृकत्वाबाध एव च अनुमानप्रामाण्यमित्यन्योन्याश्रय इत्यर्थः ॥ ↩︎

  50. प्रतिबन्धमहिम्ना—व्याप्तिबलेन । अन्यथा तु एतादृशदोषः धूमात् वह्न्यनुमानेऽपि समान इत्यर्थः । ↩︎

  51. अथवा—सकर्तृकत्वानुमानस्य प्रामाण्ये कर्त्रस्मरणस्य बाधः, कर्त्रस्मरणस्य बाधे सिद्ध एव तादृशानुमानप्रामाण्यमित्यन्योन्याश्रयः । प्रतिबन्धेत्यादि । अनुमानप्रामाण्यं तु अनौपाधिकसम्बन्धाधीनम् । सम्बन्धश्च साध्यहेत्वोरेव । अनुपलम्भस्तु साध्यस्य पक्षे वक्तव्या । अतश्चेयमनुपलब्धिः न व्याप्तिग्रहं उपरोद्धुमलम् । ननु तर्हि ह्रदे धूमेन वह्नेः साधने कथं बाधस्य दोषत्वमिति चेत्—तत्रानुपलम्भः अप्रत्यक्षरूपः, न तु अस्मरणादिरूपः । अतः तेन तत्र पक्षे बाधे पर्यवसानम् । नैवमत्र वेदे कर्त्रनुपलम्भः कस्यचिद्वर्तते । अत एव खलु भवताऽप्यस्मरणमेव हेतूकृतम् । अस्मरणं तु अन्यथासिद्धमित्युपपादितमेव । अत इयमनुपलब्धिः न व्याप्तिं निरोद्धुमलमिति भावः ॥ ↩︎

  52. जानीमो वयमिदम् । न हि वयं धूमात् वह्न्याद्यनुमानमेव निराकुर्मः । किन्तु वेदस्य पौरुषेयत्वे प्रमाणाभावात्, कर्तुरस्मरणाच्च वेदपौरुषेयत्वं स्वतःसिद्धं वदाम इत्याशयवान् शङ्कते—तत्रेत्यादि ॥ ↩︎

  53. “कर्त्रभावे—”कर्त्रभावनिर्णये सत्येव । यदधीना अन्योन्याश्रयादिप्रसक्तिरुक्ता ॥ ↩︎

  54. “कदाचित्—”सृष्ट्यादौ, धर्मग्लान्यादौ वा ॥ ↩︎

  55. नियतेति । दिव्यमानुषादिप्रतिनियतेत्यर्थः ॥ ↩︎

  56. अद्येत्यादि । दृश्यन्ते हीदानीमपि काश्चिद्रचनाः अज्ञातकर्तृकाः पौकषेयत्वेन च सम्प्रतिपन्नाः प्रपञ्चहृदयाद्याः ॥ ↩︎

  57. “तस्मिन्—”तत्पुरतो रचिते ॥ ↩︎

  58. “तेषां—”सर्गाद्यकालिकानां पुंसाम् ॥ ↩︎

  59. वेदानामीश्वरकृतत्वे प्रत्यक्षमप्यस्तीत्याह—परोक्षमिति ॥ ↩︎

  60. “स्मृतौ—”पौरुषेयत्वे इति शेषः कर्तृस्मृताविति वा ॥ ↩︎

  61. “तत्प्रतीतेः—”अनुमानप्रमितेश्वरप्रतीतेः ॥ ↩︎

  62. तदुपदेशिनः वेदाः इत्यन्वयः ॥ ↩︎

  63. एकेनैव ईश्वरेण ॥ ↩︎

  64. उपस्थितिसामीप्यात् । व्युत्क्रमेण समाधानमाह—एकत्रेति । अभिन्नाशयत्वे इत्यर्थः ॥ ↩︎

  65. “इतरत्र—”आशयभेदे । अस्यैव विवरणं—तथा हीत्यादि ॥ ↩︎

  66. “जगत्सर्गस्येव—”जगत्सर्गवत् ॥ ↩︎

  67. बहव इति । बहुभिः कृताः वेदा अपि न एकग्रन्थरूपा इत्यर्थः । कर्तृभेदेऽपि कादम्बर्यादौ ऐकग्रन्थ्यदर्शनादेवमुक्तम् । सिद्धान्ते ईश्वरकृतत्वात्सर्वदोषपरिहारः ॥ ↩︎

  68. एकमेवेत्यादि । “एकं वा संयोगरूपचोदनाख्याऽविशेषात्” [जै। सू। २-४-९] “सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात्” [ब्र। सू। ३-३-९] इत्यादौ शाखाभेदेऽपि कर्मणः उपासनस्य च ऐक्यं साधितमेव पूर्वोत्तरमीमांसकैः । संयोगः—फलसंयोगः । रूपं—स्वरूपम् । चोदना— विधिः । आख्या—नाम । एतेषामविशेषात् एकमेव कर्मेत्यर्थः ॥ ↩︎

  69. “तद्वस्तु—”पूरणीयं वस्तु । एवञ्च समस्यापूरणे द्वितीयेन प्रथमाभिमतार्थप्रकटनमात्रं, न तु नूतनार्थकल्पनमित्यर्थः ॥ ↩︎

  70. “विश्ववसुः—”कश्चित्कविः ॥ ↩︎

  71. वेदेऽपि तादृशा एव वा बहवः कुतो न स्युरित्यत्र, तथाऽवश्यकता नास्तीत्याह—इहापीति ॥ ↩︎

  72. प्रकृष्टेति । दृश्यते हि लोकेऽपि पूर्वमेव स्थितस्य ग्रामस्याभिवर्धनादिभिरेव “कृष्णराजनगरम्” इत्यादिराजनाम्ना व्यपदेशः ॥ ↩︎

  73. अपि चेत्यादि । आम्रवृक्षे हि एकस्यां शाखायां पुष्पमात्रोद्गमः । अपरस्यां च फलदर्शनम् । अथापि तत्रैक्यं यथा तथेत्यर्थः ॥ ↩︎

  74. ननु तत्र मूलस्य बीजस्यैक्यादैक्यमिति चेत्, तत् वेदेऽपि तुल्यमित्याह—तासामिति ॥ ↩︎

  75. “तदुपदेशपराः—”स्वोपदेशपरा इति यावत् ॥ ↩︎

  76. वेदाख्यशब्दस्य स्वरूपे पुरुषापेक्षाभावान्नित्यत्वमित्यंशो निरस्तः । अथ शब्दार्थयोः सम्बन्धस्यापि नित्यत्वेन सङ्केतकरणार्थमपि पुरुषापेक्षा नास्तीत्यपौरुषेयत्वं सम्बन्धभाष्यवार्तिकादिषूक्तं [शा। भा। १-१-५] अनूद्य दूषयति—यदपीति ॥ ↩︎

  77. तत्किं इत्यादौ पूर्ववाक्यमाक्षेपपरं, उत्तरं च समाधानपरम् ॥ ↩︎

  78. यद्येवमित्यादि । यदि समय एव शब्दार्थयोः सम्बन्धः, तर्हि वृथा किमर्थः अप्रसक्तसंश्लेषादिपक्षविचारोपक्षेपः—इति शङ्काऽऽशयः । अस्ति कश्चन पक्षः तादृश इति नाप्रसक्तनिराकरणमिति समाधानाशयः ॥ ↩︎

  79. बलादिति । शब्दार्थयोस्तैरविनाभाववर्णनात् ॥ ↩︎

  80. “संश्लेषः—”तादात्म्यम् । शब्दविवर्तवादिनो हि ते ॥ ↩︎

  81. “अव्याहतप्रसरत्वात्—”उच्छृङ्खलत्वादिति भावः ॥ ↩︎

  82. अर्थोऽपीति । पुरुषेच्छाया उच्छृङ्खलत्वादेव । न चेष्टापत्तिः, नियमस्य लोके दर्शनात् । नियम एव च व्याप्तिः, स एव च अविनाभावः । ततश्च शब्दार्थयोः सम्बन्धः अविनाभाव इति स्वयमापतितमित्याशयः ॥ ↩︎

  83. प्रत्यक्षसामग्रीति । प्रत्यक्षस्थल एवेन्द्रियादेः स्वरूपसत एव कारणत्वम् । परोक्षस्थले तु लिङ्गादेः ज्ञातस्य सत एव कारणत्वमित्यनुभवबलादङ्गीकर्तव्यम् ॥ ↩︎

  84. कथमिति । नूतनत्वमेवात्र हेतुः ॥ ↩︎

  85. किं तत्करणेनेति । नूतनेनैतावताऽनवगतेन यद्यर्थप्रतीतिः, तर्हि केवलेन शब्देनैव तथा बोधोऽस्त्वित्यर्थः ॥ ↩︎

  86. एकार्येति । द्वयोरपि परस्परं शब्दभेदात् कृतसमयभेदात् द्वाभ्यां परस्परं एकवस्तुविषयकशब्दव्यबहारः कथमित्यर्थः ॥ ↩︎

  87. “अक्षिनिकोचः—”अक्षिचेष्टाविशेषः ॥ ↩︎

  88. कशाङ्कुशेत्यादि । ध्वन्यादिवदिति भावः । भयङ्करध्वन्यादिश्रवणे दृश्यत एवापसर्पणादिकम् ॥ ↩︎

  89. “यदृच्छाशब्दः—”ध्वन्यादिवत् रूढः शब्दः ॥ ↩︎

  90. उक्तस्यैव विवरणम्—जातीत्यादि ॥ ↩︎

  91. वक्ष्यमाणविवरणानुसारेण—देशो विवक्षित इति ॥ ↩︎

  92. चोरशब्द इति । यद्यपि केचन “शोर्” इति वदन्ति, परन्तु “चोर्” इत्यपि वदन्ति केचन, विशिष्य केरलीयाः । हिन्दीभाषायां अन्त्याक्षरस्यार्धाक्षरत्वेनैव उच्चारणम् ॥ ↩︎

  93. अपरिहार्य इति । शक्तेरतीन्द्रियत्वेन “इदं पदमत्र शक्तं” इति समयेनैव शक्तिपरिज्ञानसम्भवात् ॥ ↩︎

  94. शक्त्यभाव इति । शक्तिपक्षे सा शक्तिः शब्द एव वर्तते, न त्वर्थे इति अनुभवेनैव हि निर्णयः । शक्त्यभावे च वाचकत्वं शब्द एवास्तु, तथाऽनुभवात् ॥ ↩︎

  95. “गत्वौत्वादि—”गकारोत्तरौकारादि ॥ ↩︎

  96. अवगतिपूर्विकेति । धूमवह्न्योर्ह्यविनाभावः न पुरुषकल्पितः, किन्तु सहजः । शब्दार्थयोस्तु सम्बन्धः न तथा सहजः, किन्तु कल्पितः । ततश्च “अस्मात् पदादयमर्थो बोद्धव्यः” इत्याकारकस्य सङ्केतस्य परिज्ञानमन्तरा न शाब्दबोधसम्भव इति भावः ॥ ↩︎

  97. किं व्युत्पत्त्यपेक्षणेनेति । अनुपदमेवोक्तः दीपादिर्दृष्टान्तः ॥ ↩︎

  98. प्रत्ययं दृष्ट्वेति । तथा च प्रत्यायनशक्तेः कार्यानुमेयत्वेन न दीपादितौल्यम् ॥ ↩︎

  99. “तद्विपयत्वोपपत्तेः—”ज्ञानात्मकत्वेऽपि विषयतासम्बन्धेनार्थनिष्ठत्वात् ॥ ↩︎

  100. सृणीति । “अङ्कुशोऽस्त्री सृणिः स्त्रियाम्” इत्यमरः ॥ ↩︎

  101. “इष्टापत्ताबाह—”अविनाभावादित्यादि ॥ ↩︎

  102. तदङ्गत्वात्—धूमाङ्गत्वात् । अविनाभावः खलु सम्बन्धः । स चाश्रयमपेक्षत एवेति न धूमपरित्यागसम्भव इति चेत्, तत् शब्देऽपि समानमित्यर्थः ॥ ↩︎

  103. “तत एव—”देशान्तरीयसङ्केतवशादेव ॥ ↩︎

  104. “शब्दात्—”चोरादिशब्दात् ॥ ↩︎

  105. तासां स्यादिति । तथा च देशभेदेनार्थभेदो न स्यात् ॥ ↩︎

  106. “अन्यथाऽपि—”शक्तिभ्रमादिनाऽपि ॥ ↩︎

  107. सर्वार्थप्रत्ययप्रसङ्गः इत्यत्र “सर्वशब्दात्” इति शेषः ॥ ↩︎

  108. अक्षादिवदिति । अक्षशब्दः इन्द्रियवाची द्यूतविशेषवाची च ॥ ↩︎

  109. पिकेत्यादि । पिकनेमाधिकरणे [१-३-५] अविरोधे सति म्लेच्छप्रसिद्धिरपि ग्राह्येति सिद्धान्तितम् । “पिक इति कोकिलो ग्राह्यः, नेमोऽर्धं, तामरसं पद्मं, सत इति दारुमयं पात्रं, परिमण्डलं शतच्छिद्रम्” इति शाबरभाष्यम् [१-३-५] ॥ ↩︎

  110. आन्ध्रप्रसिद्ध इति । “जनपदपुरपरिरक्षणवृत्तिमनुपजीवत्यपि क्षत्रिये राजशब्दमान्ध्राः प्रयुञ्जते । आन्ध्राणां प्रयोगो न विरोत्स्यते” इति तत्रत्यं शाबरं भाष्यम् ॥ ↩︎

  111. तद्वर्जमिति । अर्थपर्यन्तैव हि व्युत्पत्तिः, “तद्धेतोरेव तद्धेतुत्वे मध्ये किं तेन” इतिन्यायात् मध्ये शक्तिकल्पनं व्यर्थम् ॥ ↩︎

  112. त्रिप्रमाणक इति । इदं च प्रकरणं पूर्वमेव [पु। २२३] विचारितम् । तत्र यद्यपि भाट्टपक्षः स्वसम्मतत्वेनोक्त इव; अथापि सम्बन्धाधिगमस्य नानाप्रमाणगम्यत्वमात्रे सम्मतिः पूर्वं प्रदर्शितेति मन्तव्यम् ॥ ↩︎

  113. द्विप्रमाणक इति । प्रत्यक्षानुमानप्रमाणकः, न त्वर्थापत्तिरपेक्ष्यत इत्यर्थः ॥ ↩︎

  114. “अस्ति चेत्—”अवशात्तादृशशब्दसत्त्वमङ्गीक्रियत इति चेत् ॥ ↩︎

  115. व्यवहारसिद्धिरिति । अस्य भवत्सप्रयमन्तराऽपीत्यादिः । एतदनन्तरं च “ततश्च” इत्यप्यध्याहार्यम् ॥ ↩︎

  116. “अयं दोषः—”शब्दान्तरेण सङ्केतकरणेऽनवस्थादिः । कुतो नास्ति—इत्यत्रैवोत्तरं अनन्तरश्लोकः । तथा च इच्छयैव सङ्केतकरणमिति नानवस्था ॥ ↩︎

  117. न चेत्यादि । शब्दार्थयोः सम्बन्धस्यानित्यत्वे अर्थमन्तराऽपि शब्दस्य स्थितिसम्भवेन अर्थशून्योऽपि शब्दः कश्चिदङ्गीकर्तव्यः—इत्याक्षेपाशयः । सम्बन्धानित्यत्वेऽपि शब्दस्यापि तथात्वेन शब्देन साकमेव समयसिद्ध्या नार्थशून्यत्वं शब्दानामिति समाधानाशयः ॥ ↩︎

  118. “पक्षधर्मत्वं—”वेदरूपपक्षवृत्तित्वम् ॥ ↩︎

  119. “परिहरिष्यते—”अत्रैवाह्निके उपरिष्टात् ॥ ↩︎

  120. परदर्शनद्विंषि—परपक्षासम्मतानि । आयुर्वेदादिदृष्टान्तैरयमर्थः समनन्तरमेव वक्ष्यते ॥ ↩︎

  121. अस्येत्यादि । उक्तस्यौषधस्य पव्योपदेशोऽयम् ॥ ↩︎

  122. “चुक्रं—”“तिन्त्रिणीकं च चुक्रं च” इत्यमरः ॥ ↩︎

  123. उत्थितमिति । आप्तोक्तत्वज्ञानादेव हि तादृशौषधसेवनादौ प्रवर्तते पुरुषः । फलप्राप्त्या च तद्दार्क्यं भवति । न त्वाप्तोक्तत्वज्ञानमेव संवादाधीनम् ॥ ↩︎

  124. “सोमराजी—”“अवल्गुजः सोमराजी सुवल्लिः सोमवल्लिका” इत्यमरः ॥ ↩︎

  125. “स्वात्मनि—”येन तदौषधं सेवितं तादृशे स्वस्मिन् ॥ ↩︎

  126. हरीतकीति । हरीतक्याः विरेचकत्वं प्रसिद्धम् ॥ ↩︎

  127. स्ववचनेति । भवतैवोच्यते “तादृशः कश्चित् स्यात् पुरुषः” इति, निषिध्यते चेश्वरः, किमिदं विचित्रम् ! यतः स एवेश्वरो नः ॥ ↩︎

  128. “तत्र—”तात्रत्येव एकदेशे ॥ ↩︎

  129. शास्त्रस्येति । कृत्स्नस्येति शेषः ॥ ↩︎

  130. “सर्वज्ञः—”तत्तच्छास्रोपयोगियावदर्थसाक्षात्कारवान् ॥ ↩︎

  131. प्रत्यक्षेणैवेति । तादृशशास्त्रप्रणयनोपयोगिज्ञानं प्रत्यक्षरूपमेवेति कुत इत्यर्थः ॥ ↩︎

  132. कर्तृसामान्यासम्भवादिति । ये वैदिकधर्माधिकारिणः, त एव मन्वादिस्मृत्युक्तार्थाधिकारिण इति उभयविधधर्मकर्त्रोः साधारणत्वात् मन्वादिस्मृतीनामपि वेदमूलत्वं कल्प्यते । न ह्येवमायुर्वेदादौ वक्तुं शक्यं, विषयस्यैव विलक्षणत्वादित्यर्थः ॥ ↩︎

  133. “समानो गुणः—”समानो योगक्षेम इति भावः । वस्तुतस्तु शतसहस्रादिपदानि बहुपर्यायान्येवेति सोमराज्युपयोगवचनमपि न बाधितम् ॥ ↩︎

  134. विधुरं—फलविकलम् । यदि विधुरं इति आक्षेपवाक्यम् । एतावताऽदत्तफलस्य तस्य तत्समये फलौन्मुख्येन प्रकृतफलविघटनं मद्युच्यते, तर्हि प्रकृतेऽपि तुल्यम् ॥ ↩︎

  135. “प्रकाशं—”स्पष्टम् ॥ ↩︎

  136. नन्वित्यादि । चरकादीनामतीतत्वात्, इदानीं तादृशपुरुषादर्शनात् कथं व्याप्तिग्रहः ? अतीतचरकादिविषयिण्येव यदि व्याप्तिः, तदाऽतीतवस्तुज्ञानात् वयमपि सर्वज्ञा जाता इति, अस्माकं परमुखनिरीक्षणं व्यर्थमिति आयुर्वेदादिदृष्टान्तकथनं वृथेति चेत्; न—अतीतानां चरकादीनां इदानीमप्रत्यक्षत्वेऽपि तेषां ज्ञानं शब्दात् अनुमानेन वा भवत्येव । अनुमानं हि त्रिकालविषयम् । अतः आप्तोक्तत्वव्याप्तिस्सुगमैव ॥ ↩︎

  137. पञ्चरूपाणि पूर्व [पु। २८३] मुक्तानि ॥ ↩︎

  138. अबाधनकेन—बाधादर्शनमात्रेण । अयमर्थः पूर्वमेव [पु। १५] “आर्तो हि भिषजं दृष्ट्वा” इत्यादावुपपादितः ॥ ↩︎

  139. “असम्मतः—”सतामिति शेषः । यद्वा, असन्मतः—सताममतः ॥ ↩︎

  140. शावरभाष्यसूचितां, श्लोकवार्तिकपोषितां प्रक्रियामनुवदति—अन्ये त्विति ॥ ↩︎

  141. “नात्मानं लभन्ते—”स्वरूपनिष्पत्तिरेवानुष्ठानमन्तरा न भवतीत्यर्थः ॥ ↩︎

  142. “कारणमात्रं—”कारणसामान्यम् । न तु विशेषसिद्धिरित्यर्थः ॥ ↩︎

  143. क्वोपयुज्यत इति । फलविशेषकर्मविशेषाणां, अधिकारानधिकारादीनां ज्ञाचमन्तरा प्रवृत्तेरसम्भवादिति हेतुः ॥ ↩︎

  144. वेदा एवेति । “वेदाच्छास्त्रं परं नास्ति” [म। भा। अनु।] इति प्रसिद्धमेव ॥ ↩︎

  145. “शीधुः—”“मैरेयमासवः शीधुः” इत्यमरः ॥ ↩︎

  146. विपर्ययादिति । उपकारापकारयोः पुरुषबुध्यैव निर्णये अपकारेऽपि उपकारत्वबुद्धिः स्यात् कस्यचित् । इन्द्रेण दूषिता हि अहल्या “कृतार्थाऽस्मि” [रा। बा। ४८-२०] इति वदति । शास्त्रादेवोपकारापकारनिर्णये अस्मदिष्टसिद्धिः ॥ ↩︎

  147. “न शिष्म इति न—”शासु अनुशिष्टौ, लटः उत्तमपुरुषबहुवचनम् ॥ ↩︎

  148. “अन्यत्वे—”पूर्वकल्पगतवेदात् एतत्कल्पगतवेदस्य भेदे ॥ ↩︎

  149. उभयथाऽपि स्वातन्त्र्यं इत्यन्वयः ॥ ↩︎

  150. “करणं—”नूतनतया रचनम् ॥ ↩︎

  151. त्रय्याम्नातेति । शान्तिकपौष्टिकाभिचारादिप्रधानः खलु अथर्ववेदः ॥ ↩︎

  152. “पृथग्व्यवहारा—”इतरनिरपेक्षेति यावत् ॥ ↩︎

  153. प्रवृञ्ज्यादिति । “वृजि वर्जने” इति धातुः । प्रवर्गे आथर्वणं न नियोजयेदित्यर्थः ॥ ↩︎

  154. एकब्रह्मेत्यादि । एक एव ब्रह्मा ऋत्विक् च शान्तिकपौष्टिकाभिचारिकेषु ॥ ↩︎

  155. “यः पन्थाः—”अनपेक्षत्वहेतुक इत्यर्थः ॥ ↩︎

  156. “विशेषतुषोऽपि—”विशेषलेशोऽपि ॥ ↩︎

  157. सारेतरेति । सारासारेत्यर्थः । चतुर्भिरपि वेदैः व्यवहारः प्रसिद्ध इत्यन्वयः ॥ ↩︎

  158. “अत्र—”अथर्ववेदे ॥ ↩︎

  159. सोऽयमिति । अर्थानुवादोऽयम् । एवमन्यत्रापि दृश्यते ॥ ↩︎

  160. चतुर्थशब्दोपादानादिति । ऋग्वेदादौ सङ्ख्याया अनिर्देशात्, इतिहासपुराणयोः पञ्चमपदोपादानाच्चेति शेषः ॥ ↩︎

  161. सङ्ख्यानिर्देशमात्रं तस्य जवन्यतां न गमयेदित्याशयेन समाधत्ते—केयमिति ॥ ↩︎

  162. तदपीति । इतिहासपुराणौ द्वौ यथा समुतौ, न तथा ताभ्यां अथर्ववेदः, किन्तु स पृथगेव परिगणितः । ननु त्रयीनिर्देशानन्तरं चतुर्थत्वेनास्य पृथङ्निर्देशस्तर्हि कुत इति चेत्, त्रपेक्षया किञ्चिद्वैलक्षण्यात्तथा निर्देशः । वैलक्षण्यं च वक्ष्यति [पु। ६२५] ॥ ↩︎

  163. “अन्यत्रापि—”यजुरादिपदेष्वपि ॥ ↩︎

  164. स्मृत्यन्तर इति । इतिहासपुराणयोरपि विवक्षया स्मृतित्वमस्त्येव । अथवा समानानुपूर्वीकं स्मृत्यन्तरमेव वेदम् ॥ ↩︎

  165. पङ्क्तिपावनेति । “अथर्वाङ्गिरसोऽध्येता” इत्युपक्रम्य “एते वै पङ्क्तिपावनाः” [पाद्म। स्वर्ग। ३५ शङ्ख। १४-७] इत्यादि तत्र तत्र पठ्यत एव ॥ ↩︎

  166. चतुर्ष्विति । त्रय्या एव वेदत्वे “चतुर्षु” इति निर्देशः कयमित्यर्थः ॥ ↩︎

  167. सर्वभावानामिति । जगत एव पाञ्चभौतिकत्वात् सर्वं सर्वत्र वर्तत एव । अथापि सर्वाण्यपि वस्तूनि परस्परविलक्षणान्येव । एतत् तस्मिन्नान्तर्भवति । तद्वा न एतस्मिन् ॥ ↩︎

  168. “स्वरूपं—”स्वस्य रूपम् । अपहारयन्ति—प्रच्यावयन्तीति यावत् ॥ ↩︎

  169. “त्रयीप्रत्ययं—”वेदत्रयप्रतिपाद्यम् ॥ ↩︎

  170. किमपीति । तत्किमित्यत्र उत्तरं समनन्तरमेव वक्ष्यति ॥ ↩︎

  171. “अथ चेत्” इत्यादिकमाहत्यार्थानुवादः ॥ ↩︎

  172. “नर्ते—”न ऋते इति । पदविभागः ॥ ↩︎

  173. समाहार इति—ऋक्त्वादिकं हि न साङ्केतिकम् । वक्ष्यति च तेषां निर्वचनम् [६२५ पु।] । एवञ्चाथर्ववेदस्यापि त्रय्यन्तर्भावः सुवच एव । तत्र हौत्रादिषु ऋग्वेदादीनां चरितार्थत्वात् अथर्ववेदस्य ब्रह्मत्वपरत्वं स्वतःसिद्धमिति भावः ॥ ↩︎

  174. योगसिध्यधिकरणन्यायेनेति । अश्वमेधस्य सर्वफलकत्वेन सकृदनुष्ठानमात्रेण सर्वफलसिद्धिर्भवत्वित्याशङ्क्य, फलकामनाया एवाधिकारसम्पादकत्वेन “निर्विशेषं न सामान्यम्” इति न्यायेन सर्वफलकामनाया असम्भवेन तत्तत्फलकामनया पृथक् पृथगेवानुष्ठेयो याग इति सिद्धान्तितम् ॥ ↩︎

  175. “अन्येपि—”ऋगादयोऽपि । ऋग्वेदादावपि वक्ष्यमाणलक्षणकब्राह्मणादिवाक्यानां दर्शनादिति भावः ॥ ↩︎

  176. “प्रकरणाधीतं—”प्रकरणविशेषेऽधीतम् ॥ ↩︎

  177. “अनारभ्यवादः—”सामान्यवादः । सामान्यतः कथनेऽपि विषयानुरोधात् विषयविशेषे नियन्तव्यमित्यर्थः ॥ ↩︎

  178. न कश्चिद्विरोधः, प्रामाण्ये वेदत्वे चेति शेषः ॥ ↩︎

  179. प्रसिद्धमेवेति । तैत्तरीयकाठकान्ते अयमर्थः स्पष्टः ॥ ↩︎

  180. “औत्तराधर्येण—”उच्चनीचभावेन ॥ ↩︎

  181. अन्यवेदेति । एतेनेतरवेदापेक्षयाथर्ववेदस्यैव श्रैष्ठ्यमुक्तं भवतीत्यर्थः ॥ ↩︎

  182. अध्ययनमात्रेति । अध्ययनैकदेशेत्यर्थः ॥ ↩︎

  183. “प्रथमकल्पः—”मुख्यकल्पः ॥ ↩︎

  184. “पूर्वोत्तरब्राह्मणे—”गोपथस्य पूर्वब्राह्मणे उत्तरब्राह्मणे च ॥ ↩︎

  185. “तत्र—”अथर्ववेदे ॥ ↩︎

  186. “हरिभुजा इव—”हरेर्हि चत्वारो भुजाः ॥ ↩︎

  187. “द्विजाः—”ब्राह्मणाः, पक्षिणश्च ॥ ↩︎

  188. “दिक् वा—”इत्यन्वयः ॥ ↩︎

  189. “परेषु—”वेदबाह्येषु ॥ ↩︎

  190. अन्योन्येति । यद्यपि वैदिकेष्वप्यागमेषु परस्परविरोधः प्रतीयत इव परन्तु नास्ति वास्तविको विरोध इत्याशयः ॥ ↩︎

  191. अनुभवमूलाः इत्यादौ “सम्भाव्यन्ते” इत्यस्यानुवृत्तिः ॥ ↩︎

  192. भ्रान्तेरित्यादि । स्मृतीनां दर्शनानुगुण्यमेव यतः सामर्थ्यं, ततः स्मृतिमूले किञ्चित्कल्पनीये साधकाभावात् भ्रान्तेः, प्रत्यक्षस्य च धर्माग्राहकत्वात् पौरुषेयवाक्यस्याविश्वसनीयत्वात्, विप्रलम्भमूलकत्वेऽपि प्रमाणाभावात् एतेषां चतुर्णामपि अष्टकादिस्मृतिमूलत्वासम्भवे चोदनामूलकत्वमेव वक्तव्यमित्यर्थः ॥ ↩︎

  193. स्मृतिसमाख्येति । तथा च वेदाः अनुभवमूलाः, स्मृतयस्तु वेदमूलाः इति भावः ॥ ↩︎

  194. “एकत्र—”वेदे ॥ ↩︎

  195. “इतरत्र—”मन्वादिस्मृतौ ॥ ↩︎

  196. मन्त्रार्थवादादि इत्यादेः, मन्वादिस्मृतीनामिति शेषः ॥ ↩︎

  197. “अनुमानं—”अनुमिता श्रुतिः । सैव स्मृतेः मूलं प्रमाणमित्यर्थः ॥ ↩︎

  198. न त्वेवमित्यादि । तथा च आचमनादिस्मार्तकर्मणां, वेदिस्तरणादिश्रौतकर्मणां च परस्परसम्बलनदर्शनात् वैदिकमन्वादिविरचितत्वमेव बाह्यस्मृत्यपेक्षया वैलक्षण्यं पर्याप्तमित्यर्थः ॥ ↩︎

  199. वेदमूलत्वादिति । तथा च तेषां धर्मे प्रामाण्यवर्णनमुपहास्यं इत्याशयः ॥ ↩︎

  200. त्रिकालेत्यादि । वर्तमानैकविषयं प्रत्यक्षं त्रिकालानवच्छिन्नं धर्मं कथं गृह्णीयादित्यर्थः ॥ ↩︎

  201. किमत्रेति । त्रिकालावच्छेदानवच्छेदादिकं न प्रत्यक्षत्वे प्रतिबन्धकं प्रयोजकं वा ॥ ↩︎

  202. पठ्यत इति । “यद्वै किञ्च मनुरवदत् तद्भेषजम्” [तै। सं। २-२-१०] इति श्रुतिः । मनूक्तत्वेनैव तद्वचनस्य प्रामाण्यमुच्यते, न त्वन्यापेक्षयेत्याशयः ॥ ↩︎

  203. बृहदिति । “बृहद्वा साम, रथन्तरं वा साम भवति” [?] इत्यत्र विकल्पः प्रतिपादितः ॥ ↩︎

  204. नैसर्गिकेति । विशेष इत्यनुवर्तते । ईश्वरप्रत्यक्षं नैसर्गिकम्, योगिनां तु आहार्यं—तपःप्रभावसम्पाद्यम् ॥ ↩︎

  205. “व्याख्यात एवेति” । तन्त्रवार्तिके “वैष्टुतं वै वासः” इति शाठ्यायनिब्राह्मणोदाहरणपूर्वकं “ततश्च श्रुतिमूलत्वात् बाध्योदाहरणं न तत् । विकल्प एव हि न्याय्यस्तुल्यकक्ष्यप्रमाणतः” [तं। वा। १-२-४] इत्युक्तम् ॥ ↩︎

  206. “अनुपनिबद्धस्य—”स्मृतिरूपनिबन्धाविषयस्य—तद्विषयकस्मृतिरहितस्य ॥ ↩︎

  207. पूर्वं [पु। ६३०] मन्वादिस्मृतीनामागमत्वेन निर्देशात् आगमान्तराणीति ॥ ↩︎

  208. इदं प्रथमतेति । अनादिपरम्पराप्राप्तोः ते आगमा इत्यर्थः ॥ ↩︎

  209. ननु मन्वाद्युक्तशौचाचमनादीनां वैदिकधर्मैः सम्बलनदर्शनात्, आगमोक्तधर्मेषु त्रयीबाह्यानामप्यधिकारात् अप्रामाण्यमेव शैवपाञ्चरात्राद्यागमानां इति शङ्कायां [तं। वा। १-३-४] आह—मन्वादीति ॥ ↩︎

  210. तऽपीति । “साङ्क्यं योगः पञ्चरात्रं वेदाः पाशुपतं तथा । आत्मप्रमाणान्येतानि न हन्तव्यानि हेतुभिः” [म। भा। शा। ३५०-६३] ॥ ↩︎

  211. पञ्चरात्र इति । वैखानसागमे विवादाभावादकथनम् । व्याससूत्रेऽपि हि तर्कपादे पाशुपतपञ्चरात्रस्पर्शेऽपि न वैखानसस्पर्श इत्यबधेयम् ॥ ↩︎

  212. “सृष्टिस्थित्यन्तकरणीं ब्रह्मविष्णुशिवात्मिकाम् । स सञ्ज्ञां याति भगवान् एक एव जनार्दनः” [वि। पु। १-२-६६] इत्याद्यप्यत्र द्रष्टव्यम् ॥ ↩︎

  213. ““तद्योगाः”” इत्यस्यैव विवरणं—तदाराधनोपाया इति ॥ ↩︎

  214. “अन्यथा—”प्रकारान्तरेण । आहुश्च शङ्करभगवत्पादा अपि—“अभिगमनोपादानेज्यास्वाध्याययोगरूपपञ्चकर्मणां ईश्वराराधनरूपत्वं श्रौतत्वं च” [शं। भा। २-२-४२] ॥ ↩︎

  215. वेदबाह्यत्वमेवोपपादयति—जातीत्यादि ॥ ↩︎

  216. ततः—बौद्धाद्यागमोक्तमार्गानुष्ठानात् । श्रूयन्ते च बौद्धार्हतादिषु बहुविधसिद्धिमन्तः ॥ ↩︎

  217. निजमिति । वदन्तीत्यनुकर्षः ॥ ↩︎

  218. वन्दकादि—“वन्दा वृक्षादिनी”इत्यमरः । स्वार्थे कुत्सायां वा कन् । वृक्षोपरि यदृच्छया जातः वृक्षः । प्रक्षिप्तवचनादीत्यर्थः । अथवा वन्दका—भिक्षुकी । तादृशं जनं स्वागमप्रामाण्यसिद्धये महाजनं वदेयुरेवेत्यर्थः ॥ ↩︎

  219. आगमान्तरेत्यादि । वैदिकैरुक्तानेव धर्मान् प्रकारान्तरेण तेऽप्यङ्गीकुर्वन्त्येवेत्यर्थः ॥ ↩︎

  220. चातुर्वर्ण्येति । तथा च वर्णाश्रमधर्मनिष्ठा एव महाजना इति निश्चितम् ॥ ↩︎

  221. “अयं कण्ठशोषः—”एतावता वेदप्रामाण्यस्थापनार्थं कृतः श्रमः ॥ ↩︎

  222. “केचित्—”मन्दमतयः, हैतुका वा ॥ ↩︎

  223. बाधेत्यादि—तत्तदधिकारिणामिति शेषः । दृश्यन्ते हि बौद्धजैनेष्वपि विचित्रसिद्धिमन्तः पुरुषाः ॥ ↩︎

  224. “आत्मशैथिल्येति—”अहङ्कारादिकलुषितस्यात्मनः शथिल्यं—अहङ्कारग्रन्थिविश्लेषणम् ॥ ↩︎

  225. कूटस्थेत्यादि । कूटस्थनित्यः—स्वतः स्वरूपत एव एकरूपः आत्मा वैदिकानाम् । बौद्धादीनां तु क्षणिकत्यादात्मनः प्रवाहतः नित्य आत्मा । शून्यवादिनान्त्वनिर्वचनीय एवेति न चर्चाविषय आत्मा ॥ ↩︎

  226. हृदयक्रोशनं—हृदयस्याक्रन्दनम् । श्रूयते हि कुत्रचिदागमेषु नरबल्यादिकमपि ॥ ↩︎

  227. विचिकित्सेत्यादि । अस्मदनभ्यासमात्रात् इतरेष्वाचारेषु यद्यपि विचिकित्सा भवेत् । अथापि नाप्रामाण्यं तदागमस्य । अन्यथा वैदिकस्यापि मृदुलमतेः यज्ञीयपशुहिंसायामपि हृदयं आक्रन्दत एवेत्यप्रामाण्यं स्यात् ॥ ↩︎

  228. करणांशेति । सोमप्रकृतिके श्येते पशुहिंसनं शत्रुहिंसायाः साधनम् । अग्नीषोमीयादौ तु याग एव साधनं, पशुहिंसा तु इतिकर्तव्यतान्तर्गतेति विशेषः ॥ ↩︎

  229. तदागमेति । कौलाद्यागमेत्यर्थः । आगमान्तरनिषेधः आगमान्तरोक्तधर्मे नाधर्मत्वमावहेदिति भावः ॥ ↩︎

  230. “शता—”शतृप्रत्ययः । शतृप्रत्ययेन वर्तमानकालबोधनात् तदानीं अभिचरि प्रवृत्तत्वसिद्ध्या लङ्घितनिषेधशास्त्रः पुरुषः लभ्यते ॥ ↩︎

  231. सर्वस्वारः । क्रतुविशेषः ज्योतिष्टोमप्रकृतिकः । “मरणकामो ह्येतेन यजेत यः कामयेतानामयः स्वर्गं लोकमियामिति” [शा। भा। १०-२-५२] ॥ ↩︎

  232. करुणातिशयेति । “शुनि चैव श्वपाके च पण्डिताः समदर्शिनः” [गी। ५-१८] , ऽमां हि पाथं व्यपाश्रित्य येऽपि स्युः पापयोनयः । वैश्याःतथा शूद्रः तेऽपि यान्ति परां गतिम्ऽ [गी। ९-४०] क्१>, “अपि चेत् सुदुराचारः भवते मामनन्यभाक् । साधुरेव स मन्तव्यः” [गी। ९-४२] इत्यादिवदित्यर्थः ॥ ↩︎

  233. धर्मरूपेणेति । “रामो विग्रहवान् धर्मः” [रा। अर। ३८-९३] , “कृष्णं धर्मं सनातनम्” इत्याद्यत्र स्मर्तव्यम् ॥ ↩︎

  234. “आगमान्तरेषु—”बौद्धाद्यागमेषु ॥ ↩︎

  235. “तादृशः—”यादृशो वेदस्य तादृशः ॥ ↩︎

  236. अपि वेति । अपि वेति सिद्धान्तसूचनाय । अनुमानं—स्मृतिः कर्तृसामान्यात्—वेदोक्तानां स्मृत्युक्तानां च धर्माणां कर्तुः साधारणत्वात्, ये वैदिककर्माधिकारिणः, त एव स्मृत्युक्तकर्मण्यपीति स्मृतिः प्रमाणम् ॥ ↩︎

  237. “तत्—”एकाधिकारिकत्वम् ॥ ↩︎

  238. मिश्रानुष्ठानसिद्धौ—वेचित् केवलवैदिकाः, वेचित् केवलस्मार्ताः, केचित्तु उभयरूपा इति विषये ॥ ↩︎

  239. वर्णाश्रमेति । एकेन वर्णेन एकेनाश्रमिणा वाऽनुष्ठीयमाने कर्मणि न ह्यन्येषामधिकारः ॥ ↩︎

  240. “मूलान्तरोदयः—”भ्रान्त्यादिमूलकत्वकल्पना ॥ ↩︎

  241. “अत्र—”बौद्धाद्यागमे द्वेषः इत्यन्वयः ॥ ↩︎

  242. “साक्षर्यं—”साक्षरस्य भावः, पाण्ढित्यमिति यावत् ॥ ↩︎

  243. गोवध इति । श्रूयते हि “अश्वालम्भं गवालम्भं सन्यासं पलपैतृकम् । देवराच्च सुतोत्पत्तिं कलौ पञ्च विवर्जयेत्” इति वैदिकस्यापि यागोपदेशः । अतः न तावन्मात्रात् अप्रामाण्यम् ॥ ↩︎

  244. “निर्ग्रन्थाः—”जैनाः ॥ ↩︎

  245. वातरशनाः—वाताशनाः—तपस्विनः ॥ ↩︎

  246. न हीत्यादि । तथा च पारलौकिककर्तव्यानुपदेशात् लोकावतं न प्रमाणमित्यर्थः । ननु यस्तु अतिमन्दाधिकारी पारलौकिककर्मानधिकृतः, स तु ऐहिकाद्वा न प्रव्युतो भवेदिति करुणयैव लोकायतोपदेश इति कुतो न स्यादिति वेत्, अस्तु कामं तथैव । न तावता इतराप्रामाण्यम् ॥ ↩︎

  247. “पूर्वोक्तन्यायः—”“शाखान्तराद्वा संवादः” इत्याद्यनुपदमेवोक्तः ॥ ↩︎

  248. नैतदित्यादि । अयमाशयः—प्राचीनो वा नवीनो वा आगमः विषयानुगुणो यः स एव स्वयं प्रतिष्ठितो भवति, अननुगुणश्च स्वयं नश्यत्ववेति अनाद्यनुभवसिद्धेऽस्मिन् विषये नास्माभिर्भेतव्यं किञ्चिदिति । ↩︎

  249. “प्ररोहं—”अप्रतिरोमिति भावः ॥ ↩︎

  250. “पुरुषवचनतः—”पौरुषेयवाक्यत्वात् ॥ ↩︎

  251. तद्दारेणापीति । न हि सिद्धान्ते पौरुषेयत्वं अप्रामाण्यहेतुः, किन्तु दोषमूलत्वमेव ॥ ↩︎

  252. “तदप्रामाण्यमनृतव्याघातपुनरुक्तदोषेभ्यः” [न्या। सू। २-१-५८] इत्याद्युक्तं विचारं प्रदर्शयति—ननु नाद्यापीत्यादिना ॥ ↩︎

  253. दुरुपपादमिति । न हि तत्र यागस्य पशुसाधनत्वं अक्षरतो लभ्यते । र्थिकत्वे च जन्मान्तरीयमपि फलं भवितुमर्हतीति कथं व्यभिचार इत्यर्थः ॥ ↩︎

  254. असाध्यमानेति । जीवनवत् पशुः न हि सिद्धः, किन्तु साध्यः । अतः साध्यमानपशुकामनैव विशेषणं, न त्वसाध्यमानपशुकामना । यतश्च पशुस्साध्यमानः, यतश्च तत्कामनावताऽनुष्ठीयते, तत एव यागस्य पशुसाधनत्वं सिद्धमित्यर्थः ॥ ↩︎

  255. अस्तु साध्यसाधनभावः । स तु कालान्तरफलेनापि घटत इत्यत्राह—आनन्तर्यमपीति । न हि जन्मान्तरपशूद्देशेन यज्ञामनुतिष्ठन्तीति भावः ॥ ↩︎

  256. आह चेति । लोक इति शेषः ॥ ↩︎

  257. अन्यत् कारणं इत्यन्वयः ॥ ↩︎

  258. “सेवा—”राजसेवा ॥ ↩︎

  259. “यजमानः—”आहिताग्निः । दशमे [जै। सू। १०] इद चिन्तितम् ॥ ↩︎

  260. परोक्षत्वादिति । “एषः” इति हि प्रस्यक्षवन्निर्दिश्यते ॥ ↩︎

  261. वृत्तिः—व्यापारः । तथा च स्तुत्या विधेः, निन्दया निषेधस्य च प्रतीतौ सिद्ध एव व्याघातः ॥ ↩︎

  262. “तदप्रामाण्यमनृतव्याघातपुनरुक्तदोषेभ्यः” इत्येतावदेव प्रसिद्धः सूत्रपाठः ॥ ↩︎

  263. तत्कारणत्वदर्शनात्, कारीर्या इति शेषः ॥ ↩︎

  264. स्त्रीपुंसेति । “अचतुरविचतुरस्त्रीपुंस” इति निपातः ॥ ↩︎

  265. ग्राममवाप, प्रतिग्रहादिति शेषः । गौरमूलमिति ग्रामनाम ॥ ↩︎

  266. सत्स्वपीति । इष्ट्यनुष्ठानपर्यन्तं यानि कारणानि दृष्टान्यासन्, तैः फलादर्शनात्, इष्ट्यनुष्ठानानन्तरं तेरेव फलदर्शनाच्च प्रतिग्रहस्थले इष्टिकृतः ग्रामदातुः तादृशबुद्धिसंयोग इत्येव वक्तव्यमित्यर्थः ॥ ↩︎

  267. “इष्टिकृतं—”इष्टिसमनन्तरकृतम् ॥ ↩︎

  268. “भूतस्वभाववादः—”वस्तुस्वभाववादः—कार्याकस्मिकतावादः ॥ ↩︎

  269. तत्र—कालान्तरीणपश्वादिफले चित्रैव कारणम्; चित्राविधिरेवात्र प्रमाणमित्यर्थः ॥ ↩︎

  270. ननु अनृतदोषे आपादिते कर्मवैगुण्यादिकथनेन किं साधितम् ? पूर्वपक्षोक्तवैफल्यमङ्गीकृतमेव खल्विति शङ्कायामाह—कर्मादीति । कस्यार्थस्योपलक्षणमित्यत्राह—न त्वित्यादि । अनुपदोक्तप्रतिबन्धकदृष्ट्या प्राचुर्येणेति ॥ ↩︎

  271. “आनन्तर्ये—”समनन्तरभावित्वे । तेन—प्रत्यक्षविसंवादेन ॥ ↩︎

  272. “कर्मस्वभावः—”कर्मणां समनन्तरफलकत्वस्वभावः मर्दनादौ दृष्टः ॥ ↩︎

  273. भूमिपाटनादीति । कृषधातुर्हि कर्षणार्थः । यदि च यावद्धान्यप्राप्ति व्यापार एव कृषिपदार्थः, पाकादिवत् [पु। ५०] , तदा फलमपि दृश्यत एव । तथा च विधिः—परमापूर्वतुल्यः प्रकृते । न हि पाको नाम एका क्रिया, किन्तु क्रियासमुदायः ॥ ↩︎

  274. वेतनमिति । तदुद्देशेनैव पाककरणात् । भोजनोद्देशेन करणे तु भोजनमेव विधिफलम् ॥ ↩︎

  275. पशुविरहेति । पश्वभावकृतं यत् कदशनं-कुत्सितं अशनं—कदन्नं, तेन दूयमानः चित्रेष्ट्यधिकारी । दधिक्षीराद्यभावेन समीचीनभोजनाभावखिन्नमनसः पश्वर्थं चित्रायां प्रवृत्तिः ॥ ↩︎

  276. वीर्यकामादिष्विति । “राज्ञो बलार्थितः पष्ठे वैश्यस्येहार्थिनोऽष्टमे” इति मनुः [२-३७] । ईहा—कृष्यादिव्यापारः वैश्यधर्मः ॥ ↩︎

  277. सकललोकेति । तत्कर्तृमात्रस्य वृष्टिफलभाक्त्वाभावात् जन्मान्तरीयं वृष्ट्यादि फलं न कल्पयितुं शक्यमित्यर्थः ॥ ↩︎

  278. “कर्म—”प्राचीनं कर्मा परिदृश्यमानसेवादिमात्रफलकत्वे सर्वत्रैवं प्राचीनकर्मापलापसम्भवेन चार्वाकमतप्रवेशः स्यात् ॥ ↩︎

  279. वर्णा आश्रमाश्च—अर्शआद्यजन्तः—तत्तद्वर्णिनः, तत्तदाश्रमिणश्च । एवमुत्तरत्रापि ॥ ↩︎

  280. “विशिष्टेति—”उत्तमेति यावत् ॥ ↩︎

  281. चित्रयेति । यजेतेत्यस्यानुवृत्तिः । विधिसच्छायानि ग्रन्थकर्तुरेवेमानि वाक्यानि ॥ ↩︎

  282. “विधिवृत्तं—”विधेः स्वभावः ॥ ↩︎

  283. “सप्रत्ययं—”सश्रद्धम् ॥ ↩︎

  284. अपुरुषार्थेति । पुरुषार्थपर्यवसायि हि शास्त्रम् । शास्त्रं—शासनं, विधिरेव ॥ ↩︎

  285. “अधिकारिविशेषणं—”कामनावतः अधिकारे कामना तत्र विशेषणम् ॥ ↩︎

  286. क्षीणं, तज्जन्मनियतफलकत्वे इति शेषः । तथा च इदानीमकृतचित्राणामपि पशुदर्शनात् पूर्वजन्मन्यदत्तफलं चित्रादि कल्प्यमिति तस्या अनियतकालफलकत्वसिद्धिरित्यर्थः ॥ ↩︎

  287. “तस्मात्—”तुल्यन्यायत्वात् ॥ ↩︎

  288. “सापि—”कारीर्यपि । ↩︎

  289. वृष्टेः अदृष्टविशेषवशाल्लाभो वक्तुं शक्यते, वृष्टेः देशसामान्यफलत्वात् । चित्रा तु न तथेति शङ्कते—अथेति ॥ ↩︎

  290. सुखाक्षेपीति । तादृशसुखान्यथानुपपत्तिप्राप्तेति यावत् । सुखप्रापकेति वा ॥ ↩︎

  291. किमुत ! एकादृष्टाधीनत्वमपि पशुवृष्ट्योर्भवितुमर्हतीत्याह—कारीरीति । कारीरीसाध्यः यः ओदनः, स इत्यर्थः । एवमुत्तरत्रापि ॥ ↩︎

  292. “शृङ्गग्राहिकया—”ऐदम्पर्येण ॥ ↩︎

  293. “नीचैर्मिनुयात्—”किञ्चिन्नीचैःप्रमाणकं कुर्यात् ॥ ↩︎

  294. “यदि च” इत्यादिः “यदि न वर्षेत्” इत्यादिः पूर्वोक्तवाक्यस्य [पु। ६५७] स्वकल्पितः सङ्ग्रहः । एवमुत्तरत्रापि यथायथं ग्राह्यम् ॥ ↩︎

  295. “सद्यस्त्वमात्रं” इत्यत्र मात्रपदार्थस्यैव विवरणं—न त्वित्यादि । कारीर्यां परं यागसमनन्तरमेव वृष्टिरिति वचनबलात् भवतु । परं तु तादृशवचनाभावमात्रात् चित्रादीनां अनियतफलकत्वं तु न कल्पयितुं शक्यमित्यर्थः ॥ ↩︎

  296. “यजमानः—”चित्रायजमानः ॥ ↩︎

  297. स्ववासिनी—“चिरण्टी तु स्ववासिनी—”माप्तयौवना पितृगेहस्था कन्या ॥ ↩︎

  298. नियमोपदेशात्—“एकः स्वादु न भुञ्जीत”, “पुत्रैर्दारैश्च भृत्यैश्च स्वगृहे परिवारितः । स एको मृष्टमश्तु” [रा। । ७५-३४] इति एकाकिभोजननिषेधो दृश्यते ॥ ↩︎

  299. “न ह्यन्यफलकं कर्म” [पु। ६५८] इत्यादेः समाधानं—नापीति ॥ ↩︎

  300. “आसंसारं—”आप्रलयमिति यावत् । तदा—प्रतिबन्धकक्षये ॥ ↩︎

  301. सर्वथेत्यादि—कारीरी सद्यः फलप्रदा, चित्रा तु अन्ततः एतज्जन्मनि इत्येतावानेव विशेषः, न तु अनियतफलत्वादिकमित्यर्थः ॥ ↩︎

  302. “यथाश्रुतं—”अक्षोदक्षमम् । जन्मान्तरकृतचित्रादिमिरेव तत्तत्फललाभादिति हेतुः । गौतमसूत्रे कर्मपदं कर्मसामान्यपरमिति वा ॥ ↩︎

  303. “भाष्यकारेणेति” । “कर्मवैगुण्यं—समीहाभ्रेषः । कर्तृवैगुण्यं—अविद्वान् प्रयोक्ता, कपूयाचरणश्च । साधनवैगुण्यं—हविरसंस्कृतम्” [न्या-भा२-१-५९] इत्यादिष्विति शेषः ॥ ↩︎

  304. ननु चित्राया अनियतफलत्वनिराकरणे तदनृतत्वं कथं परिहरणीयमित्यत्राह—तस्मादिति ॥ ↩︎

  305. “आफलसंयोगात्—”इति पदम् ॥ ↩︎

  306. “तस्य—”आत्मनः ॥ ↩︎

  307. “सः—”संस्कारः ॥ ↩︎

  308. “वृद्धमीमांसकाः—”जैमिनिप्रमुखाः ॥ ↩︎

  309. शाबरा इति । “द्रव्यक्रियागुणादीनां धर्मत्वं स्थापयिष्यते” [श्लो। वा। १-९-२-१३] इति वार्तिकम् ॥ ↩︎

  310. प्राभाकराः—प्रकरणपञ्चिकायां वाक्यार्थमातृकाप्रकरणे विस्तरेणेदं निरूपितम् ॥ ↩︎

  311. निराधार इति । अपूर्वः खलु नात्मधर्मस्तन्मते । आत्मधर्मत्वे तु अस्मत्सिद्धान्त एव । अपूर्वं स्वतन्त्रमेव तन्मते । एतदेवोपपादयत्यनन्तरवाक्येन ॥ ↩︎

  312. “उत्पत्स्यमानदशा—”नैयायिकानां प्रागभाव एव सः ॥ ↩︎

  313. तद्विषयः—स्थायिसंस्कारविषयः । तथा च तादृशधर्मसाधनत्वात् यज्ञादीनामपि धर्मत्वव्यपदेश इत्याशयः ॥ ↩︎

  314. ननु यदि आत्मनः क्रियैव नास्ति, तर्हि कथं करोतीत्यादिव्यपदेश इत्यत्राह—ज्ञानेति ॥ ↩︎

  315. “व्यवस्थया—”तत्तद्धर्माधर्माधीनयेति शेषः ॥ ↩︎

  316. अनुष्ठानभेदेनेति । न ह्येकोद्देशेन वाक्यत्रयं प्रवृत्तम्, किन्तु अधिकारिभेदेन । अतो न विरोध इत्यर्थः ॥ ↩︎

  317. वचनेन—“त्रिः प्रथमामन्वाह त्रिरुत्तमाम्” इति वचनेन । तथा च पञ्चदशत्वं प्राप्तं, तस्य च शत्रुनाशकत्वात् “पञ्चदशारेण वज्रेण” इत्युक्तिः । इदं च १०-५-८ अधिकरणे चिन्तितम् ॥ ↩︎

  318. फलरहित इति । लोकेऽपि हि त्वरादिविवक्षया “गच्छ गच्छ” इत्याद्यभ्यासो दृश्यते ॥ ↩︎

  319. “मुनिना—”गौतमेन । मूत्राणि च पूर्वमेव प्रदर्शितानि ॥ ↩︎

  320. “आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्” [जै। सू। १-२-१] इत्याद्युक्तं विचारं प्रकृतानुगुणरीत्योपक्षिपति—नन्वित्यादि । एतत्प्रकरणोदाहृतानां श्रुतिवाक्यानामानुपूर्व्यां ग्रन्थकृता नैर्भर्यं न स्वीकृतमिति द्रष्टव्यम् ॥ ↩︎

  321. “परिपिञ्जिताः—”पिजि हिंसायाम् । परिहृता इति यावत् ॥ ↩︎

  322. “तूषरः—”“अजातशृङ्गो गौः कालेऽप्यश्मश्रुर्ना च तूपरौ” इत्यमरः ॥ ↩︎

  323. यथाश्रुतेति । किमेतेषां स्वार्थ एव पर्यवसानम् ? उत तेभ्यो विधिकल्पनम् ? उत विधिवाक्यशेषत्वमिति विकल्पत्रयार्थः ॥ ↩︎

  324. “तथात्वे—”रुद्रादिसम्बन्धित्वे ॥ ↩︎

  325. “द्वयोः—”अग्निधूमयोः ॥ ↩︎

  326. प्रत्यक्षगम्यत्वादिति । पूर्वमेव [पु। ५५२] प्रतिपादितमिदम् ॥ ↩︎

  327. “अनवकॢप्तिः—”अनिर्णयः ॥ ↩︎

  328. “अनेन—”पूर्णाहुत्यादिना ॥ ↩︎

  329. चयननिषेध इति । तथा च चयनविधिविरोधः ॥ ↩︎

  330. अशक्यमिति । रोदनादिकं हि विषयाधीनं, न तु विध्यधीनम् ॥ ↩︎

  331. हुतभुज इति पञ्चमी ॥ ↩︎

  332. सर्वस्मादिति । “वायव्यं श्वेतमालभेत भूतिकामो वायुर्वै क्षेपिष्ठा देवता” [तै। सं। २-१-१] इति अर्थवादस्य विधिशेषत्वं स्पष्टं प्रतीयते । न हि तत्र अर्थवादे पृथग्विधिकल्पनं शक्यमित्यर्थः ॥ ↩︎

  333. “प्रेक्षावतां—”अनुन्मत्तानाम् ॥ ↩︎

  334. “केषाञ्चित्—”मीमांसकानाम् । निरपेक्षत्वमेवास्याः प्रामाण्यप्रयोजकमित्युक्तं प्राक् [पु। ४३५] ॥ ↩︎

  335. “सर्वाक्षेपः—”निखिलवेदानामपि एतद्दृष्टान्तेनाप्रामाण्याक्षेपः ॥ ↩︎

  336. अनुपलम्भादिति । विधिवाक्यानि हि अत्यन्तं विरलानि ॥ ↩︎

  337. “कश्चिदर्थः—”द्रव्यदेवतादिः ॥ ↩︎

  338. कथमेकवाक्यभाव इत्याक्षेपः । पदानां इत्यादि समाधानम् ॥ ↩︎

  339. किमन्येनेति । उक्तार्थानुपयोगिनेत्यर्थः । उक्तेऽर्थे सर्वोऽपि शास्त्रार्थः परिसमास एवेत्याशयः ॥ ↩︎

  340. तावानेवेति । न हि स्तुतो गर्दभः अश्वो भवेत्, अस्तुतो वाऽश्वः गर्दभो भवेत् ॥ ↩︎

  341. “विधायकं—”विधिवाक्यम् ॥ ↩︎

  342. ईश्वर इति । अपर्यनुयोज्य इत्यस्यानुवृत्तिः ॥ ↩︎

  343. “प्रतीतिः—”विधिवाक्यप्रतिपन्नयागकर्तव्यत्वबुद्धिः ॥ ↩︎

  344. “अवसीदति—”क्लेशसाध्यत्वादिज्ञानेन, न निरङ्कुशा भवति ॥ ↩︎

  345. क्वचित्—“प्रतितिष्ठन्ति ह वा य एता रात्रीरुपयन्ति” इत्यादौ । विधिः, रात्रिसत्रस्येति शेषः ॥ ↩︎

  346. समानेति । यत्र केवलं विधिः, तत्रार्थवादेनापि भाव्यम् । यत्र केवलमर्थवादः, तत्र विधिनापि भाव्यम् ॥ ↩︎

  347. ननु तर्हि “वायुर्वै क्षेपिष्ठा देवता” इत्यादावपि विधिः कल्पनीय स्यादित्यत्राह—अनधिगम्यमानेति ॥ ↩︎

  348. “बर्हिः—”यज्ञः ॥ ↩︎

  349. प्रायणीय इति इष्टेर्नाम [जै। सू। ९-४-३२] ॥ ↩︎

  350. “अन्वाख्यानं—”अर्थवादरूपानुवादवाक्यम् ॥ ↩︎

  351. अनर्थकमिति प्रकृतस्तुतिनिन्दाभिप्रायम् । वक्ष्यति च [पु। ६७७] तयोरपि फलम् ॥ ↩︎

  352. पुरुषातिशयेति । सर्वैरपि कर्मभिः पुरुष एव कश्चनातिशयः धर्माधर्माख्यः आधीयते इति सिद्धान्तः । ततश्च तदनुगुणतया विचित्राश्शक्तयः क्रियाश्च सुलभतया निर्वोढुं शक्यन्त इत्यर्थः ॥ ↩︎

  353. प्रच्छन्नतयेति । स्वमनस्यन्तः किमस्तीति स्वेनापि हि न ज्ञातुं शक्यते । एवं “अङ्गुल्यग्रे हस्तियूथशतमास्ते” इति वचने न हि जिह्वा विशीर्यते ॥ ↩︎

  354. दूरभूयस्त्वेति । दूरस्थैः दिवा धूम एव गृह्यते रात्रौ तु अर्चिरित्यस्त्यनुभवः ॥ ↩︎

  355. को हीति । अत्रानवकॢप्तिसूचनं च विप्रकृष्टकालफलत्वात् ॥ ↩︎

  356. “तस्यां—”पृथिव्याम् ॥ ↩︎

  357. “अञ्जने—”घृतेन लेपने ॥ ↩︎

  358. “दर्शनात्—”“अग्निर्माणबकः” इत्यादौ ॥ ↩︎

  359. इत्थं च—वेदेऽपि गौणप्रयोगसत्वाच्च । इन्द्रपदं रूड्या इन्द्रवाचकमपि, ऐश्वर्यविशेषविवक्षया गार्हपत्यवाचकमपि स्यात् ॥ ↩︎

  360. परकृतीत्यादि । “स्तुतिर्निन्दा परकृतिः पुराकल्प इत्यर्थवादः” [न्या। सू। २-१-६५] इति सूत्रम् । अर्थवादाश्चतुर्विधाः । तत्र दृष्टान्ता भाष्य एवं प्रदर्शिताः—स्तुतिः—“सर्वजिता वै देवाः सर्वमयजन् सर्वस्याप्त्यै सर्वस्य जित्यै सर्वमेव तेनाप्नोति सर्वं जयति” [ता। ब्रा। १६-७-२] इत्यादि । अनिष्टफलवादो निन्दा वर्जनार्था—“स एष वाव प्रथमो यज्ञो यज्ञानां यज्ज्योतिष्टोमो य एतेनानिष्ट्वाऽन्येन यजते गर्ते पतत्ययमेवैतज्जीर्यते वा प्रमीयते वा” इत्येवमादि । अन्यकर्तृकस्य व्याहतस्य विधेर्वादः परकृतिः—“हुत्वा वपामेवाग्रेऽभिघारयन्ति, अथ पृषदाज्यं, तदु ह चरकाध्वर्यवः पृषदाज्यमेवाग्रेऽभिघारयन्ति, अग्नेः प्राणाः पृषदाज्यमित्येवमभिदधति” इत्येवमादि । ऐतिह्यसमाचरितो विधिः पुराकल्प इति—“तस्माद्वा एतेन ब्राह्मणा बहिष्पवमानं सामस्तोममस्तौषन् योने यज्ञं प्रतनवामहे” इत्येवमादि ॥ ↩︎

  361. “फलं—”प्रतिष्ठारूपं इदं अर्थवादवाक्यं विवक्षत्येव, तत्र तत्फलस्यनिर्देशात्, अप्राप्तत्वाच्चेत्यर्थः । आत्रेयग्रहणं पूजार्थम् ॥ ↩︎

  362. “शर्कराः—”इष्टकाः ॥ ↩︎

  363. “तद्वत्—”विधिवाक्यवत् ॥ ↩︎

  364. “क्वचित्—”“प्रतितिष्ठन्ति ह वै” इत्यादौ ॥ ↩︎

  365. पुरुषातिशयेति । अदृष्टविशेषाधीनदेवताविग्रहाद्यङ्गीकारात् तदंशे स्वरूपपरत्वेऽपि न हानिरित्यर्थः ॥ ↩︎

  366. “तदर्थशास्त्रात्” [जै। सू। १-२-३१] इत्याद्युक्तं विचारं सङ्गृह्णाति—अथेत्यादि ॥ ↩︎

  367. उच्चारणमात्रेणेति । विध्यर्थोपयोगिता इत्यावर्तते ॥ ↩︎

  368. “सामान्यात्—”वेदत्वसाम्यात् ॥ ↩︎

  369. “अज्ञानजनकत्वं—”ज्ञानाजनकत्वम् ॥ ↩︎

  370. “साक्षः—”अक्षशब्दोऽत्र चक्षुर्गोलकपरः ॥ ↩︎

  371. “अग्निविहरणं—”अग्नीन्धनादि । एतदेव कार्यं अग्नीधः—ऋत्विविशेषस्य ॥ ↩︎

  372. “यज्ञसाधनं—”द्रव्यं, देवता वा ॥ ↩︎

  373. “प्रैषः—”नियोग इति वक्ष्यति [पु। ६८४] ॥ ↩︎

  374. “उभयथा—”अर्थप्रत्यायकत्वेऽप्रत्यायकत्वे च ॥ ↩︎

  375. “निर्निमित्ता—”मन्त्रघटकपदाजन्या, यादृच्छिकीति यावत् ॥ ↩︎

  376. ग्रहैकत्वेति । “ग्रहं सम्मार्ष्टि” इत्यत्र एकत्वमविवक्षितमिति ग्रहैकत्वाधिकरणे [जै। सू। ३-१-७] सिद्धान्तितम् ॥ ↩︎

  377. य एवेति । लोकवेदाधिकरणे [जै। सू। ३-१-७] सिद्धान्तितमिदम् ॥ ↩︎

  378. “ग्रहः—”सोमरसाधारपात्रविशेषः । “ग्रहं सम्मार्ष्टि” इत्यत्र एकवचनसत्त्वेऽपि विषयदृष्ट्या पात्रबहुत्वात् एकवचनमविवक्षितमिति [जै। सू। ३-१-७] सिद्धान्तितम् ॥ ↩︎

  379. “कर्म—”बर्हिस्सादनादिकम् ॥ ↩︎

  380. दृष्टो हीति । दृष्टे सम्भवत्यदृष्टफलकल्पनाया अन्याय्यत्वात् अध्ययनस्यार्थज्ञानपर्यन्तत्वं साधितम् [जै। सू। १-१-१] ॥ ↩︎

  381. “वचनं—”“इति पुरोडाशं प्रथयति” इति वाक्यम् ॥ ↩︎

  382. तां चतुर्भिरिति । अत्र चतुष्ट्वरूपगुणलाभार्थं तथा विधानम् । एवं “अग्नीदग्नीन् विहर” इत्यत्र संस्कारोद्बोधनार्थत्वमुक्तम् [जै। सू। १-२-३७] ॥ ↩︎

  383. अन्यथेत्यादि । वेदस्य एकपुरुषाधीनत्वे तत्तेन कदाऽप्यन्यथाऽपि क्रियेत । बह्वधीनत्वे तु एकेनान्यथा पाठेऽपि इतरे तत्परिहरेयुः । अतः वेदः अनादिपरम्परया बहुभिः पठ्यत इत्यनादिर्वेदः ॥ ↩︎

  384. “तदन्यथाकरणे—”क्रमान्यथाकरणे ॥ ↩︎

  385. गोपथब्राह्मणोक्तविवरणमनुसृत्य शबरेण [शा। भा। १-२-३८] विवृतोऽर्थोऽनूदितः ॥ ↩︎

  386. किं पुनर्विद्वांसो ब्राह्मणा इति शेषः ॥ ↩︎

  387. प्रसङ्गतः लोकवेदाधिकरण [जै। सू। १-३-९] विषयमपि सङ्गृह्य प्रदर्शयितुमुपक्षिपति—यद्यपीति ॥ ↩︎

  388. प्रकृतोपयोगित्वात् यववराहाधिकरण [जै। सू। १-३-४] मपि सङ्गृह्णाति—लोकेति ॥ ↩︎

  389. प्रकृतोपयोगित्वादेव यववराहाधिकरण [जै। सू। १-३-५] मपि सङ्गृह्णाति— यत्र त्विति । पिकनेमतामरसपदानां कोकिल-अर्धं—पद्मपरत्वं ग्राह्यम् ॥ ↩︎

  390. एवं प्रसङ्गं समाप्य प्रकृतमनुसरति—म्लेच्छेत्यादि ॥ ↩︎

  391. “अश्विनोरिति” । सृणिः—अङ्कुशः, तमर्हन्तौ सृण्यौ—कुञ्जरौ ।ताविव अत्यर्थं जृम्भमाणौ—जर्भरी । तुर्फरीतू—हिसन्तौ इति तन्त्रवार्तिके [१-२-४१] व्याख्यातम् । एवं “अम्यक्सात” [पु। ६८०] अमा इति साहित्यार्थकमव्ययम् । अमा अञ्चतीति—अम्यक् । रिष्टिः—आयुधविशेषः । इन्द्रं सम्बुध्येयमुक्तिः । एवं सोमस्य पूर्णानि पात्राणि इन्द्रः काणुका—कामयमानः—इति तृतीय ऋगर्थः ॥ ↩︎

  392. प्रसङ्गात् नामधेयविचारमपि [जै। सू। १-४-१] सङ्गृह्णाति—इदमित्यादिना ॥ ↩︎

  393. गुण इति । अत्र आद्यवाक्यत्रयविषयकाणां त्रयाणामप्यधिकरणानां गुणविधित्वपूर्वपक्षसाम्यात्तानि क्रोडीकृत्यात्र एकपूर्वपक्षः प्रदर्शितः । तत्र उद्भिद्यते भूमिरनेनेति उद्भित्—खनित्रम् । प्रकरणप्राप्तं ज्योतिष्टोममनूद्य खनित्रगुणविधिरिति पूर्वपक्षः । एवं अग्नीषोमीयपशुमनूद्य चित्रात्वस्त्रीत्वरूपगुणविधिरिति द्वितीयाधिकरणपूर्वपक्षः । एवं अग्नये होत्रं अस्मिन्निति अग्निहोत्रपदेन अग्निदेवतारूपो गुणः दर्विहोममनूद्य विधीयत इति तृतीयाधिकरणपूर्वपक्षः ॥ ↩︎

  394. भावार्थः—यजिधात्वर्थः । यजिः—यज्ञः, ईक्षणस्य ईक्षतिपदेन निर्देशवत् ॥ ↩︎

  395. इति गुणविधिः यथा प्रवर्तत इति शेषः ॥ ↩︎

  396. एवमधिकरणत्रयमपि क्रोडीकृत्य पूर्वपक्षवर्णनात्, एतदधिकरणत्रयोपर्याक्षेपेण प्राप्तं वाजपेयाधिकरणं [१-४-६] त्रयसाधारणतया प्रदर्शयति— नन्विति । गुण इति । वाजं—अन्नं, पेयं—सुरा । तदुभयमित्यर्थः ॥ ↩︎

  397. को दोष इति । तथा च उद्भिदादिस्थलेऽपि गुणविशिष्टयागविधिरेवास्त्विति पूर्वपक्षाशयः ॥ ↩︎

  398. यागस्याप्राप्तत्वात् यागोऽप्यनेनैव वाक्येन “वाजपेयेन यागेन स्वर्गं भावयेत्” इति विधेयः । एवं वाजपेयाख्यगुणस्याप्यप्राप्तत्वेन “वाजपेयेन यागं भावयेत्” इति अनेनैव वाक्येन गुणोऽपि विधेयः । यजेत इति पदं तु सकृदेव श्रूयते । सकृदुच्चरितः शब्दः सकृदेवार्थं गमयतीति न्यायेन यजतिधात्वर्थस्य स्वर्गसाधनत्वं वा वाच्यं, वाजपेयसाध्यत्वं वा वाच्यम् । पुनरावृत्तिकरणे च वाक्यद्वयं स्वतन्त्रमेवेषितव्यम् । वाक्यप्रवृत्तिशैली तु नात्रानुकूलेति भावः ॥ ↩︎

  399. ननु यजतीत्यत्रास्ति अंशद्वयम्—धातुः, आख्यातश्च । भूतार्थवाचिना धातुना सिद्धः यागः स्वर्गसाधनत्वेन बोध्यते । आख्यातेन च भाव्यत्वेन स एव बोध्यत इति गुणान्वयसम्भव इति न दोष इति शङ्कते—नन्विति । रूपसाम्यात्, शब्दस्वरूपस्यैक्यप्रयुक्तात् । असिद्धत्वमेवोपपादयति— स्वाराज्यमित्यादिना । यदा च यागः स्वर्गार्थं विधीयते, तदा तत्र अपूर्वत्वं, विधेयत्वं, प्राधान्यं इति त्रयो धर्माः सम्भवन्ति । यदा च वाजपेयगुणविधानं, तदा यागे प्राप्तत्वं, अनुवाद्यत्वं, अप्राधान्यं=गुणत्वं इति त्रयो धर्माः तत्रैव भवन्ति । एते च परस्परविरुद्धा इति स्वरूपत एव ज्ञायते । अतः एकदा स्वरूपविधिः, गुणविधिः इत्युभयमपि सर्वथा न सम्भवत्येव ॥ ↩︎

  400. आनर्थक्यम्—न हि नामधेयनिर्देशमात्रात् यागस्वरूपे कश्चन अतिशयः प्राप्नोति ॥ ↩︎

  401. “अन्यत्र—”इतरवैदिकवाक्येष्वपि एवमेवानर्थत्वशङ्काप्रसङ्गः ॥ ↩︎

  402. न हीति । अत्रेदं शाबरं भाष्यं—“न नामधेयं विधायिष्यते । अनुवादा ह्युद्भिदादयः । कुतः प्राप्तिरिति चेत्—उच्छब्दसामर्थ्यात् मिच्छब्दसामर्थ्याच्चोद्भिच्छब्दः क्रियावचनः । उद्भेदनं—प्रकाशनं पशूनामनेन क्रियत इत्युद्भित् यागः” [शा। भा। १-४-१] इति । अयमेव न्याय उत्तरत्रापि योजनीयः ॥ ↩︎

  403. अभियुक्तैरिति । “नामापि गुणफलोपबन्धेनार्थवत्” [शा। भा। १-४-१] इति भाष्यम् । एवन्नामकोऽयं यागः, एतद्गुणकः, एतत्फलकः—इति रीत्या गुणफलाद्यन्वयार्थत्वेन नाम्नः सार्थक्यम् । यदि नामैव न स्यात्, तदा कस्य को गुणो विधेयः स्यात्, फलं वा ॥ ↩︎

  404. आग्नेय इति । अत्र आग्नेयपदं किं गुणपरम् ? उत कर्मनामधेयमिति संशय्य, “अप्राप्ते शास्त्रमर्थवत्” इति न्यायमनुरुध्य—“तद्रुणास्तु विधीयेरन्नविभागाद्विधानार्थे न चेदन्येन शिष्टाः” [जै। सू। १-४-९] इतिन्यायेनोभयविधिरिति सिद्धान्तितम् । एवं “एतस्यैव रेवतीषु” इत्यत्र एतस्यैवेति प्रकरणप्राप्तं अग्निष्टुतमनूद्य पशुफलाय रेवतीऋक्सम्बन्धिवारवन्तीयसामगुणकत्वं विधीयते ? उत तादृशगुणविशिष्टः अपूर्वः यागः विधीयत इत्याशङ्क्य, तादृशगुणविशिष्टं कर्मान्तरमेव विधीयत इति सिद्धान्तितम् [जै। सू। २-२-१२] ॥ ↩︎

  405. न त्वित्यादि । छातं—छिन्नं पारं येन, सः छातपारः, भिन्नमर्याद इत्यर्थः । मीमांसकेषु अयं मर्यादोल्लङ्क्षीति मिथ्याभिधानतः इत्यर्थः । मीमांसकानां मर्यादां भेत्तायमिति वृथाख्यात्यर्थं न कथाः कृता इति यावत् ॥ ↩︎

  406. “भूतार्थः—”सिद्धार्थः । कार्यं—भव्यं, सिद्धं—भूतमिति व्यवहारः ॥ ↩︎

  407. “एतच्छास्त्रं—”न्यायशास्त्रम् ॥ ↩︎

  408. “सम्बन्धः—”शक्तयाख्यः ॥ ↩︎

  409. “प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा । पुंसां येनोपदिश्येत तच्छास्रमभिधीयते” [श्लो। वा। १-१-५, शब्द। ४] इति भट्टः ॥ ↩︎

  410. न प्रामाण्यमिति । प्रमाकरणं हि प्रमाणम् ॥ ↩︎

  411. भूतं भव्यायेति । “घटमानय” इत्यादौ हि घटपदं आनयनरूपक्रियाशेषभूतमेव । आनयनं न सिद्धं, अतः तत् साध्यं—भव्यं च । घटस्तु पूर्वमेव सिद्धः—भूतश्च ॥ ↩︎

  412. “प्रमाणान्तरं—”प्रत्यक्षादि ॥ ↩︎

  413. “तदुपस्थापनं—”आनयनशेषतया घटसमर्पणम् ॥ ↩︎

  414. एवं हीत्यादि । “घटः सिद्धः” इति यदा उच्यते, तदा तस्य वाक्यस्य सिद्धवस्तुबोधकत्वं सिद्धमेव ॥ ↩︎

  415. नद्यादिवाक्यम् । “नद्यास्तीरे फलानि सन्ति” इति वाक्यम् ॥ ↩︎

  416. निष्प्रयोजनत्वात्—प्रमाणतन्त्रं हि ज्ञानं, न पुरुषतन्त्रम् । अतः “जानीहि” इति विधिमात्रेण न ज्ञानमुत्पद्येत ॥ ↩︎

  417. किन्त्वित्यादि । प्रत्येकं पदैरर्थोपस्थित्यनन्तरं हि वाक्यार्थः जायेत । तदा प्रत्येकं सिद्धपदेनापि बोधः अनुभूयत एव ॥ ↩︎

  418. वर्तमानोपदेशेति । सिद्धार्थप्रतिपादकेत्यर्थः ॥ ↩︎

  419. “प्रत्यक्षं—”इन्द्रियम् । तत्करणकः संशयादिः न प्रमाणम् ॥ ↩︎

  420. प्रमाणान्तरावगतमेव यदा बोधयति, तदा संवादयत् प्रामाण्यं दृढीभवति ॥ ↩︎

  421. “किं—”कीदृशम् ॥ ↩︎

  422. प्रमाणसम्प्लवस्येति । तथा च प्रत्यक्षमपि प्रमाणान्तरप्रहणयोग्यं गृह्णात्येव ॥ ↩︎

  423. विनियोगमात्रेति । न हि शतशः विधिश्रवणमात्रेण पुरुषः स्वेष्टसाधनत्वानिष्टनिवारकत्वज्ञानमन्तरा प्रवर्तते । अतः विधिः न साक्षात्प्रवर्तयितुमलमिति कार्यपरत्वेऽपि तदंशेऽनुवादकत्वमेव ॥ ↩︎

  424. ऋजवः इति उपहासोक्तिः ॥ ↩︎

  425. “पुरुषप्रत्ययात्—”वक्तुः पुरुषस्याप्तत्वज्ञानात् ॥ ↩︎

  426. अयं पुरुषः—शब्दप्रयोक्तृपुरुषः । एतादृशार्थयोधनेच्छया इमं शब्दं अयं प्रयुक्तवानिति ह्यस्ति व्यवहारः ॥ ↩︎

  427. पदैस्तथाऽबोधनेऽपि आहत्य वाक्येनास्त्वत्यत्राह—अपदार्थस्येति ॥ ↩︎

  428. “परगृहे भोजनतो विषभक्षणमेव वरम्” इति वाक्येन हि विषभक्षणं न विधेयम्, किन्तु परगृहभोजननिषेध एव । स च न पदानामर्थः, अथापिवाक्यैर्बोध्यत इति कथमिति चेत्—न हि तत्र पदैरर्थप्रतीतिरेव न भवति । पदसङ्घातरूपात्तु वाक्यात् तावानेव हि बोध्येत । विवक्षाज्ञानं तु पार्ष्णिकमेवानुमानादिति समनन्तरमेव वक्ष्यते ॥ ↩︎

  429. जीवतां—चेतनानामिति यावत् । शब्दे श्रुते सति “अयं किञ्चिद्विवक्षति” इति सामान्यत एव विवक्षाऽनुमातुं शक्या, न तु अर्थोपरागेण । अर्थस्य शाब्दबोधाधीनत्वेन, तत्पूर्वं अर्थोपरागासम्भवादित्यर्थः ॥ ↩︎

  430. लोकतोऽवगतपदपदार्थव्युत्पत्तिकाः खलु वेदादप्यर्थं प्रतिपद्येयुः ॥ ↩︎

  431. “उपायः—”सुखदुःखहेतुवाक्यश्रवणम् ॥ ↩︎

  432. “उपेयं—”फलं सुखं दुःखं वा । नैतत् विधेयम्, पुरुषानधीनत्वात् ॥ ↩︎

  433. प्रेक्षापूर्वकारित्वादेवेति । कदा कार्यपदं प्रयुक्तं चेत् सफलं भवेत् ? कदा च प्रयोगाप्रयोगयोरविशेषः ? इत्यादिज्ञानवत्त्वादेव तादृशस्थले न कार्यपदं प्रयुङ्क्त इत्यर्थः । न चान्ततः तत्र “सन्ति” इति वा क्रियापदमध्याहार्यमिति वाच्यम्; सत्तायाः सिद्धत्वेन क्रियात्वाभावात् । सन्तीति प्रयोगस्तु अनुवाद एव, असत्त्वशङ्कावारणायैव, नान्या क्रिया तत्र बोध्यत इति ॥ ↩︎

  434. सर्वत्रेति । उक्तक्रमेण प्रेक्षावतः तावत्येव प्रवृत्तेः सर्वत्र तावन्मात्रं विधेयमित्यर्थः ॥ ↩︎

  435. न भजन्त इति । प्रत्ययमन्तरा पदं न प्रयुज्यत एव । प्रत्ययाश्च सुबादयः सप्तविधाः तत्तत्कारकपदोपरि भवन्ति । कारकत्वं च क्रियानिर्वर्तकत्वमेव । तथा चैकक्रियान्वयोद्देशेनैव सप्तविधकारकाणि प्रवृत्तानीति कथं कार्यपरित्यागः । परित्यागे वा कथं तेषां कारकत्वमित्याक्षेपः । अन्ततः साधुत्वार्थम्मपि विभक्तिप्रयोगदर्शनात्, तत क्रियायाः सर्वथाऽप्रतीतेः न कार्यान्वयो नियत इति समाधानाशयः ॥ ↩︎

  436. दशदाडिमादीति । परस्परानन्वितार्थकानीत्यर्थः ॥ ↩︎

  437. “पदान्तरार्थानां—”नीलघटमानयेत्यादौ नीलादिपदार्थानाम् ॥ ↩︎

  438. अरुणैकहायनीन्यायेनेति । “अरुणयैकहायन्या पिङ्गाक्ष्या गवा सोमं क्रीणाति” इत्यत्र प्रथमं “अरुणया क्रीणाति”, “एकहायन्या क्रीणाति”, “पिङ्गाक्ष्या क्रीणाति” इतिक्रमेणैव बोधः । विशिष्टबोधस्तु पार्ष्णिकः इति तैरङ्गीकृतः ॥ ↩︎

  439. अकारणमिति । प्राथमिकान्वयबोधजननेनैव हि विभक्तिश्चरितार्था ॥ ↩︎

  440. “तस्यां—”क्रियायाम् । प्रातिपदिकार्थलिङ्गवचनमात्रे हि प्रथमा ॥ ↩︎

  441. विपर्ययस्येति । प्रोक्षणं हि ब्रीह्युद्देश्यकम् ॥ ↩︎

  442. ननु सर्वेषामपि परमापूर्वरूपकार्यनिष्पत्त्यर्थत्वात् प्रोक्षणं न ब्रीह्यङ्गमित्याशङ्क्याह—अलं वेति ॥ ↩︎

  443. अधिकाराश्रवणात्—फलकामनावान् ह्यधिकारी । न ह्यत्र फलं किञ्चिदस्ति ॥ ↩︎

  444. कर्मप्रवृत्तीति । शरीरातिरिक्तनित्यात्मज्ञानमन्तरा स्वर्गाद्यर्थकर्मसु प्रवृत्तिर्न हि सम्भवेत् ॥ ↩︎

  445. अर्थवाद इति । “सर्वमायुरेति, नास्यापरपुरुषाः क्षीयन्ते, य एवं वेद” [छा। ४-११-२] इत्यादिः आनुषङ्गिकफलपरः । आत्मोपासनस्य फलं हि मोक्ष एव । ननु तर्हि मोक्षकामनावानेवाधिकारी लब्धः—इति चेत्— मोक्षस्य स्वस्वरूपरूपत्वेन साध्यत्वाभावात् । उपासना तु प्रतिबन्धकनिवृत्तावेव पर्यवसन्ना । प्रतिबन्धकनिवृत्तिस्तु न पुरुषार्थ इति आत्मोपासनावाक्यं स्वरूपपरमेव । अधिकमत्राप्रस्तुतम् ॥ ↩︎

  446. पुरुषान्तरं—इन्द्राग्न्यादि । आत्मविद्विषये हि “स वेद ब्रह्म । सर्वेऽस्मै देवा बलिमावहन्ति” [तै। उ। १-५] इति श्रूयते ॥ ↩︎

  447. “प्रमेयनिष्ठत्वात्—”प्रमेयाधीनत्वात्, पुरुषानधीनत्वादिति यावत् ॥ ↩︎

  448. “तत्परत्वं—”आत्मपरत्वम् । आत्मा खल्वीप्सिततमः ॥ ↩︎

  449. ज्ञेयनिष्ठमिति । तथा चेदं वाक्यं न कार्यपरमिति सिद्धम् ॥ ↩︎

  450. यमेत्यादि । यदि न किञ्चिद्विधेयं, तर्हि—“शान्तो दान्तः” [बृ। ४-४-२३] इत्यादिना उपासनाङ्गविधानं, “यमनियमासनप्राणायाम” [यो। सू। २-२९] इत्याद्यङ्गोपदेशश्च किमर्थः ? किमुद्दिश्यैतानि विधीयन्ते ? इति चेत्, प्रतिबन्धकनिवृत्त्यर्थमेवेत्यर्थः ॥ ↩︎

  451. सत्यासत्येति—जगतः स्वरूपतः सत्यत्वं, विकारतः असत्यत्वं च वेदान्तिभिः समर्थितम् ॥ ↩︎

  452. वेदान्तवादिन इति । “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा” [वृ। ४-४-२२] इत्यादिना निष्काममनुष्ठितकर्मणां ब्रह्मज्ञानोपयोगित्वमुक्तम् ॥ ↩︎

  453. “साध्यस्य—”प्रयत्नसाध्यस्य ॥ ↩︎

  454. “ब्राह्मी—”ब्रह्मसम्बन्धिनी ॥ ↩︎

  455. किं तन्त्रतेति । भूतं भव्याय वा, भव्यं भूताय वेति इयं चर्चा नातीवप्रयोजना, व्यवहारस्यैतदनधीनत्वात् । तयोः—सिद्धसाध्ययोर्मध्ये कस्य किन्तन्त्रतेति चिराय चर्चा महति फले नोपयुज्यत इत्यन्वयः ॥ ↩︎

  456. इति पण्डितरत्नेन विदुषा वरदार्येण विरचिते न्यायसौरमे चतुर्थमाङ्किकम् ↩︎