तृतीयमाह्निकम्—शब्दपरीक्षा
शब्दलक्षणम्
उपमानानन्तरं शब्दस्य विभागसूत्रे निर्देशात्तस्य लक्षणं प्रतिपादयितुमाह—
आप्तोपदेशः शब्दः ॥ १-१-७ ॥
उपदेशः शब्दः इत्युच्यमाने पर्यायमात्रोच्चारणात् अकारके शब्दमात्रे प्रमाण्यप्रसक्तिरिति तद्विनिवृत्तये पूर्वसूत्रात् साध्यसाधनपदमाकृष्यते । तथाऽपि शब्दान्तरजनके प्रसक्तिरिति प्रत्यक्षसूत्रात् ज्ञानपदस्य, स्मृतिजनकस्य व्यवच्छेदार्थं चार्थग्रहणस्य, संशयविपर्ययजनकनिराकरणाय च व्यवसायात्मकाव्यभिचारिपदयोरनुवृत्तिरित्येवमव्यभिचारादिविशेषणार्थप्रतीतिजनक उपदेशः शब्द इत्युक्तं भवति ॥
तदेवम्पर्यायमेवोपदेशशब्दं शब्दलक्षणमपेक्षितपूर्वसूत्रोपात्तविशेषणपदं केचिद्व्याचक्षते । आप्तग्रहणं च लक्षणनिश्चयार्थमाहुः । “घ्राणरसनत्वक्चक्षुःश्रोत्राणीन्द्रियाणि भूतेभ्यः” इत्यत्र भूतग्रहणं वक्ष्यते । एवं ह्यैतिह्यस्य न प्रमाणान्तरता भविष्यति, उपदेशरूपत्वाविशेषादिति ॥
क्षुण्णं किञ्चिज्जयन्तस्य वर्त्म चैतावतैव नः ।
सुदूरमस्ति गन्तव्यं, गच्छामः त्वरितं ततः ॥
अकारके—बोधाजनके, घट, कलश, कुम्भ, इत्यादिरूपे । शब्दान्तरजनके—वीचीतरङ्गन्यायेन शब्दान्तरजनके पूर्वशब्दे । ज्ञानपदस्येति । एवं प्रत्यक्षसूत्र इव “यतः” शब्दोऽप्यध्याहर्तव्यः । एतादृशं ज्ञानं यतः, स शब्द इत्यर्थः ॥
एवम्पर्यायं—उक्तार्थकम् । लक्षणनिश्चयार्थं—उक्तार्थस्य परिचायकमिति यावत् । वक्ष्यते इति । अष्टमाह्निके तत्सूत्रविवरणवेलायां “भूत”ग्रहणं स्पष्टार्थमिति सहेतुकमुक्तम् । एवं—एवं सत्येव । अन्यथा सूत्रयोजनायां पक्षान्तरम् अन्ये तु ब्रुवते—युक्तमुपदेशपदमेव शब्दलक्षणम् । युक्तं च तन्निश्चयार्थमाप्तग्रहणम् । पूर्वसूत्रोपात्तविशेषणपदानुवृत्तिस्तु नोपयुज्यते, सामान्यलक्षणानन्तरं विशेषलक्षणप्रक्रमात् । सामान्यलक्षणेन च स्मृत्यादिजनकसकलप्रमाणाभासव्युदासे कृते सजातीयप्रत्यक्षादिव्यदच्छेद एव केवलमिदानीं वक्तव्यः । तत्र च पर्यायतया पर्याप्तमुपदेशपदमेव बुद्ध्यादिपदवदिति किं विशेषणानुवृत्तिक्लेशेन ? इति ॥ आप्तपदमपि लक्षणघटकमिति पक्षः अपर आह—अनवलम्बितसामान्यलक्षणानुसरणदैन्यमनध्याहृतप्राक्तनविशेषणपदमाप्तोपदेशश्शब्दलक्षणम् । न चाकारकेण शब्दान्तरकारिणा वा स्मृतिजनकेन वा संशयाधायिना वा शब्देन किञ्चिदुपदिश्यत इति निर्वचनसव्यपेक्षात् उपदेशग्रहणादेव तन्निवृत्तिः सिद्धा । मिथ्योपदेशे तु रथ्यापुरुषादिवचसि विपरीतप्रतीतिकारिणि प्रसङ्गो न निवर्तत इति तत्प्रतिक्षेपार्थमाप्तग्रहणम् । ऐतिह्ये यथार्थप्रतीतिहेतावाप्तानुमानान्न प्रमाणान्तरत्वमिति । तस्माद्यथाश्रुतमेव सूत्रं शब्दलक्षणार्थं युक्तम् ॥ ऐतिह्यस्य अज्ञातप्रवक्तृकत्वेन आप्तोपदेशरूपत्वाभावात् अतिरिक्तप्रमाणताऽपत्तिः । सूत्रे तु चत्वार्येव प्रमाणानि निर्दिष्टानि । तेन गम्यते आप्तपदं न लक्षणघटकमभिमतं सूत्रकर्तुरिति भावः ॥
अन्ये त्वित्यादि । प्रमाणसामान्यलक्षणेनैव अकारकशब्दादावतिप्रसङ्गवारणात् न साध्यसाधनादिपदानामाकर्ष इत्याशयः । पर्यायपदनिर्देशेन कथं लक्षणप्राप्तिः ? इति शङ्कायां सूत्रकारस्येयं शैलीत्यत्र निदर्शनमाह—बुध्यादीति । “बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम्” इतिवदित्यर्थः । शिष्टं बुद्धिपरीक्षायामेव द्रष्टव्यम् ॥
अनवलम्बित—इत्यादिनाऽनुपदोक्तपक्षवैलक्षण्यं, अनध्याहृत—इत्यादिना प्रथममुपपादितपक्षवैलक्षण्यम् । न च उपदिश्यते इत्यन्वयः । प्रसङ्गः—अतिप्रसङ्गः । आप्तानुमानादिति । अत एव खलु वेदोप उपदेशपदस्यार्थानुपपत्तिः भवत्वेवम् ! उपदिश्यत इति कोऽर्थः ? अभिधानक्रिया क्रियते । केयमभिधानक्रिया नाम ? प्रतीतिरिति चेत्; चक्षुरादेरपि तत्करणत्वादुपदेशत्वप्रसङ्गः ॥
स्वावगतिपूर्विका प्रतीतिरिति चेत्, धूमादेरप्युपदेशताप्रसङ्गः । चक्षुरादेरपि तत्करणत्वात् उपदेशत्वप्रसङ्गः । स्वसादृश्येन प्रतीतिरिति चेत्, बिम्बस्यापि पादाद्यनुमितावुपदेशत्वप्रसङ्गः, शब्दे च तदभावादनुपदेशत्वं स्यात् । शब्दावच्छिन्ना प्रतीतिरिति चेत्, श्रोत्रस्य तज्जनकत्वादुपदेशत्वप्रसङ्गः, शब्दस्य च स्वावच्छेदेन प्रतीतिजनकत्वनिषेधादनुपदेशत्वम्भवेत् । नापि शब्दकरणिका प्रतीतिः; अभिधानक्रियाविवक्षायां, आकाशानुमाने वा तस्योपदेशत्वप्रसङ्गा दित्यभिधानक्रियास्वरूपानिश्चयात् न तस्याः करणमुपदेशः ॥ देष्टृतया ईश्वरसाधनम् । ऐतिह्येऽपि यथार्थे सामान्यत आप्तमूलकत्वानुमानाल्लक्षणोपपत्तिः । अयथार्थस्य तु न लक्ष्यतैवेति शेषः ॥
तत्करणत्वात्—प्रतीतिकरणत्वात् । स्वावगतीति । शब्दः किल ज्ञातसन्नेव प्रतीतिकरणं, इन्द्रियं तु अज्ञातमेव स्वरूपसत् । उपदेशपदं च एतादृशविलक्षणार्थकं, प्रयोगरूढ्या इत्यर्थः । धूमादेरिति । ज्ञायमानमेव खलु लिङ्गं अनुमितिकरणम् । स्वसादृश्येनेति । अनुमितौ करणं धूमः, प्रमितिस्तु तद्विजातीयवह्निविषयिणी । शब्दे तु यद्विषयको बोधः, तद्विषयक एव शब्दोऽपीति अभिमानः । बिम्बस्येति । प्रतिबिम्बस्येत्यर्थः । पूर्णप्रतिबिम्बस्थले अनुमानस्याप्रसरात् । “यत्र पादादिबिम्बेन गतानामनुमीयते” इति [शब्द-२८] कुमारिलवचनं च स्मरन् आह—पादादीति । प्रत्युतासम्भव एवेत्याह— शब्दे चेति । बोधस्तु घटत्वावच्छिन्नस्य । करणे तु शब्दे, शब्दज्ञाने वा न हि घटत्वं स्थातुमलम् । अतः अत्रापि न सादृश्यलेश इति भावः । शब्दावच्छिन्नेति । अयं पक्षः प्रत्यक्षपरीक्षायां वर्णितः । प्रत्युत असम्भव एवेत्याह—शब्दस्य चेति । इदमपि प्रत्यक्षलक्षणे अव्यपदेश्यपदप्रयोजनविचारावसरे प्रतिपादितम् । अभिधानेत्यादि । अभिधानक्रियां प्रत्यपि उपदेशपदस्यार्थः उच्यते—श्रोत्रग्राह्यवस्तुकरणिका तदर्थप्रतीतिरभिधानक्रिया, इत्थं लोके व्यवहारात् । उक्तः, अभिहितश्च स एवार्थो लोके व्यपदिश्यते, यस्तु तथाविधप्रतीतिविषयतां प्रतिपन्नः । श्रोत्रग्राह्यस्य वर्णराशेरेवार्थप्रतीतिकरणत्वात्; न तु श्रोत्रप्रत्ययविषयः स्फोटत्मा शब्दः । श्रोत्रग्रहणे ह्यर्थे शब्दशब्दः प्रसिद्धः । वर्णा एव च श्रोत्रग्रहणाः । यतोऽर्थप्रतीतिः स शब्द इति तूच्यमाने धूमादिरपि शब्दः स्यात् । अगृहीतसम्बन्धश्च शब्दः शब्दत्वं जह्यात्, अर्थप्रतिपत्तेरकरणात् ॥ केयं अभिधानक्रिया नाम ननु ! प्रतीतेः संविदात्मकत्वात् नाभिधानक्रिया नाम काचिदपूर्वा संविदन्या विद्यते । तत्करणस्य चोपदेशतायामतिप्रसङ्ग इत्युक्तम्—सत्यम्—संविदात्मैव सर्वत्र प्रतीतिः । सा चक्षुरादिकरणिका प्रत्यक्षफलम्, लिङ्गकरणिकाऽनुमानफलम्, श्रोत्रग्राह्यकरणिका शब्दफलम् । न हि—दृश्यते, अनुमीयते, अभिधीयत इति पर्यायशब्दाः । तत्प्रतीतिविशेषजनने च शब्दस्योपदेशत्वमुच्यते । आकाशानुमानविवक्षादौ तु तस्य लिङ्गत्वमेवेत्यलं प्रसङ्गेन ॥ आप्तस्वरूपम् आप्तो भाष्यकृता व्याख्यातः—“आप्तः खलु साक्षात्कृतधर्मा यथादृष्टस्यार्थस्य चिख्यापयिषाप्रयुक्त उपदेष्टा च” इति ॥ शब्दस्य उपदेशरूपत्वप्रसङ्गः । शब्दाश्रयत्वेन आकाशानुमाने, तत्र करणस्य शब्दस्य उपदेशरूपत्वप्रसङ्गः ॥
श्रोत्रग्रहणे—श्रोत्रग्राह्य इति यावत् । शब्दशब्दः—शब्द इति शब्दः ॥
लिङ्गत्वमेवेति । शब्दकरणकप्रतीतित्वेऽपि तस्य, न हि “अभिधीयते” इति तत्र व्यवहारः ॥
ननु “साक्षात्कृतधर्मा” इति पदेन धर्मोपदेष्टुरेव आप्तत्वं भाति । एवं सति लौकिकं वाक्यं सर्वमप्रमाणमापतति । एवं अनुमानादिना निर्णीतार्थवक्तरि
धर्म इत्युपदेष्टव्यः कश्चिदर्थो विवक्षितः ।
साक्षात्करणमेतस्य यथार्थमुपलम्भनम् ॥ १ ॥
न तु प्रत्यक्षेणैव ग्रहणमिति नियमः, अनुमानादिनिश्चितार्थोपदेशिनोऽप्याप्तत्वानपायात् ॥
चिख्यापयिषया युक्त इत्युक्ता वीतरागता ।
उपदेष्टेत्यनेनोक्तं प्रतिपादनकौशलम् ॥ २ ॥
वीतरागोऽपि मूकादिरुपदेष्टुमशक्तः किं कुर्यात् ? वक्तुं शक्तोऽपि साक्षात्कृतधर्माऽप्यवीतरागो न वक्ति, तूष्णीमास्त इति ॥
तस्य च प्रतिपाद्येऽर्थे वीतरागत्वमिष्यते ।
सर्वथा वीतरागस्तु पुरुषः कुत्र लभ्यते ॥ ३ ॥
ऋष्यार्यल्मेच्छसामान्यं वक्तव्यं चाप्तलक्षणम् ।
एवं हि लोकेऽप्याप्तोक्त्या व्यवहारो न नङ्क्ष्यति ॥ ४ ॥
दोषक्षयः आप्तत्वं इति पक्षविमर्शः येऽप्याप्तिं दोषक्षयमाचक्षते—तैरपि दोषक्षयः प्रतिपाद्यार्थेष्वेव वर्णनीयः; अन्यथा लीके दृश्यमानस्याप्तोक्तिनिबन्धनस्य व्यवहारस्य निह्नवः स्यात् ॥ आप्तत्वं न स्यात् इति शङ्कायामाह—धर्म इति । धर्मपदं उपदेष्टव्यपदार्थसामान्योपलक्षकम् । एवं साक्षात्कारपदं सुदृढप्रमाणसामान्योपलक्षकमिति भावः । वाचस्पतिस्तु “धर्माः—पदार्थाः” इत्येव व्याख्यातवान् । वीतरागतेति इच्छायामुपाध्यन्तरानुक्तेः । अवीतरागः—चिख्यापयिषाशून्यः ॥
इतीति । एतदुभयमपि आप्तत्वप्रयोजकम् । प्रतिपाद्येऽर्थ इति । प्रतिपाद्यमानेनार्थेन स्वानिष्टादिकं ज्ञात्वा, यद्यन्यथा वदेत्, स कथं आप्तः । अतः प्रतिपाद्यविषये निर्मत्सरत्वं विवक्षितम् । न तु सागसामान्यामावः, तादृशस्य शब्दप्रयोगस्याप्यसम्भवात् । अन्ततः लोकानुग्रहेच्छा वा अस्त्येवेति भावः । वस्तुतस्तु—इच्छा अन्या, अन्यश्च रागः । तत्र राग एव कालुष्यापादक इति पूर्णवीतरागाणामपि इच्छया उपदेपसम्भव इत्यन्यत्र विस्तरः ॥
प्रतिपाद्येष्वर्थेषु प्रतिपाद्यार्थविषयकपक्षपातादिरूपदोषक्षयः इति भावः ॥
अथवा वेदप्रामाण्यसिद्ध्यर्थत्वाच्छास्त्रस्य तत्प्रणेतुराप्तस्येश्वरस्य यथाश्रुतमेवेदं लक्षणम्, स साक्षात्कृतधर्मैव, धर्मस्येश्वरप्रत्यक्षगोचरत्वात् ॥
कृपयैव भगवता वेदानामुपदेशः
चिख्यापयिषाप्रयुक्त इति । कारुणिक एव भगवानिति वक्ष्यते । उपदेष्टा च, वेदाद्यागमानां तत्प्रणीतत्वस्य [४ आह्निके] समर्थयिष्यमाणत्वात् ॥
शब्दस्यानुमानेऽन्तर्भावाशङ्का
आह—आस्तां तावदेतत् ! इदं तु चिन्त्यताम् ! किमर्थमिदं पुनश्शब्दस्य पृथग्लक्षणमुपदिश्यते ?
शब्दस्य खलु पश्यामो नानुमानाद्विभिन्नताम् ।
अतस्तल्लक्षणाक्षेपात् न वाच्यं लक्षणान्तरम् ॥ ५ ॥
परोक्षविषयत्वं हि तुल्यं तावद्द्वयोरपि ।
सामान्यविषयत्वं च सम्बन्धापेक्षणाद्द्वयोः ॥ ६ ॥
अगृहीतेऽपि सम्बन्धे नैकस्यापि प्रवर्तनम् ।
सम्बन्धश्च विशेषाणामानन्त्यादतिदुर्गमः ॥ ७ ॥
अथवेत्यादि । ग्रन्थारम्भ एव न्यायशास्त्रस्य परमं प्रयोजनं वेदप्राप्नाण्यसंरक्षणमेवेत्युक्तत्वात्, इममर्थमविस्मरन् भाष्यकारः प्रकृतानुगुणतयाऽऽप्तं लिलक्षयिषुः “धर्म” पदं प्रयुक्तवानितीयं चर्चा वृथैवेति भावः ॥
प्रमाणसमुच्चय वार्तिकादौ दिङ्नागधर्मकीर्त्याद्युक्तं सङ्कलय्यानुवदति— आहेति । तल्लक्षणाक्षेपात्—अनुमानलक्षणेनैव आक्षेपात्—स्वतः प्राप्तेः । परोक्षेति । एकसम्बन्धिज्ञानविधयैव हि अनुमानस्य प्रवृत्तिः । शाब्देऽपि अयं क्रम एव सिद्धान्ते । वाच्यवाचकभावाख्यवृत्तेः सम्बन्धरूपता सम्मतैव । सामान्येति । व्याप्तिः शक्तिग्रहश्चेत्युभयं सामान्यद्वारैवेति हि सिद्धान्तः । ननु अविनाभावरूपसम्बन्धः व्याप्तिः, वाच्यवाचकभावलक्षणश्च सम्बन्धः शक्तिः । एवं विलक्षणसम्बन्धमूलयोः कथमैक्यमिति शङ्कायामाह— सम्बन्धश्चेति । सम्बन्धश्च सर्वत्र नैकरूपो भवतुमर्हति । अन्ततः
यथा प्रत्यक्षतो धूमं दृष्ट्वाऽग्निरनुमीयते ।
तथैव शब्दमाकर्ण्य तदर्थोऽप्यवगम्यते ॥ ८ ॥
अन्वयव्यतिरेकौ च भवतोऽत्रापि लिङ्गवत् ।
यो यत्र दृश्यते शब्दः स तस्यार्थस्य वाचकः ॥ ९ ॥
पक्षधर्मत्वमप्यस्ति शब्द एव यतोऽर्थवान् ।
प्रकल्पयिष्यते पक्षो धूमो दहनवानिव ॥ १० ॥
तत्र धूमत्वसामान्यं यथा वहति हेतुताम् ।
गोत्वादिशब्दसामान्यन्तद्वदत्रापिवक्ष्यति ॥ ११ ॥
एवं विषयसामग्रीसाभ्यादेकत्वनिश्चये ।
न विलक्षणतामात्रं किञ्चिदन्यत्वकारणम् ॥ १२ ॥
पूर्ववर्णक्रमोद्भूतसंस्कारसहकारिता ।
पुरुषापेक्षवृत्तित्वं विवक्षानुसृतिक्रमः ॥ १३ ॥
इत्यादिना विशेषेण न प्रमाणान्तरं भवेत् ।
कार्यकारणधर्मादिविशेषोऽत्रापि नास्ति किम् ? ॥ १४ ॥
यथेष्टविनियोज्यत्वमपि नान्यत्वकारणम् ।
हस्तसञ्ज्ञादिलिङ्गेऽपि तथाभावस्य दर्शनात् ॥ १५ ॥
अन्वयव्यतिरेकादिभेदात् व्याप्तेरपि यथा भेदः, तथाऽयमप्येकः सम्बन्धविशेषोऽस्तु । प्रत्यायनक्रमस्तु तुल्य एव । अयमेवार्थः अनन्तरश्लोकैः उपपाद्यते । गोत्वादीति । गकारोत्तरत्वादिरूपं सामान्यं निखिलगोशब्देषुअस्त्येव ॥
विलक्षणता—अनुमिनोमि, शाब्दयामि इत्याद्यनुभवरूपं वैलक्षण्यम् । तथा सति हि हस्तचेष्टादीनां अर्थसूचकानामपि प्रमाणान्तरत्वप्रसङ्गः । शब्द । प्रमाणवैलक्षण्यमेवाह—पूर्वत्यादि । एवं सालक्षण्यमप्याह—कार्येत्यादि । यथेष्टेत्यादि । धूमात् वह्न्यनुमानादिकं न पुरुषतन्त्रं, शब्दस्तु पुरुषतन्त्रः । “स्वायत्ते शब्दप्रयोगे” इत्यादिर्हि न्यायः । तथाभावस्य—स्वायत्तत्वस्य ननु अनुमाने महानसादिदृष्टान्तापेक्षा नियता, न तथा शाब्दबोधे—इति शङ्कायां असकृदभ्यस्तविषये अनुमानेऽपि न दृष्टान्तापेक्षा नियता । अनभ्यस्तेतु सा
दृष्टान्तनिरपेक्षत्त्वमभ्यस्ते विषये समम् ।
अनभ्यस्ते तु सम्बन्धस्मृतिसापेक्षता द्वयोः ॥ १६ ॥
अनेकप्रतिभोत्पत्तिहेतुत्वमपि विद्यते ।
अस्पष्टलिङ्गे कस्मिंश्चिदश्व इत्यादिशब्दवत् ॥ १७ ॥
स्फुटार्थानवसायाश्च प्रमाणाभासतो यथा ।
लिङ्गे तथैव शब्देऽपि नानार्थभ्रमकारिणि ॥ १८ ॥
अपि च प्रतिभामात्रे शब्दाज्जातेऽपि कुत्रचित् ।
आप्तवादत्वलिङ्गेन जन्यते निश्चिता मतिः ॥ १९ ॥
शब्दस्यानुमानरूपता समानतन्त्रानुमता
अत एव हि मन्यन्ते शब्दस्यापि विपश्चितः ।
आप्तवादाविसंवादसामान्यादनुमानताम् ॥ २० ॥
समानैवेत्याह—दृष्टान्तेति । ननु एक एव अश्वादिशब्दः, श्रोतृप्रतिभानुगुणं, मृगविशेष-श्वोऽभवित्राद्यर्थान् बहून् प्रत्याययति, न तथा धूमः नानाऽर्थान् प्रत्याययति, किन्तु वह्निमेकं । एवं स्फुटार्थत्वास्फुटार्थत्वादिभेदः शब्दे दृश्यते, न धूमादौ । अतः अस्ति महदन्तरं इति शङ्कायामाह—अनेकेत्यादि । अस्पष्टलिङ्ग इति । धूमधूलीपटलसाधारणाकारज्ञानात्, एकस्य वह्न्यनुमितिः, अपरस्य सेनाद्यनुमितिरिति दृश्यत एव अनुमितावपि प्रतिपत्तिभेदः । इदं च वैभवेन, स्पष्टलिङ्गकेऽपि विवक्षानुगुणं प्रतिपत्तिभेदः दृश्यत एव । यथा धूमात् वह्न्यनुमितिः, तथैव कदाचित् तृणादेः, मनुष्यसद्भावस्य वाऽनुमानं यथाऽपेक्षं भवत्येव । एवं स्पष्टास्पष्टप्रतीत्यादिकमपि यथाऽनुभवं तुल्यमेव । अनुमानापेक्षत्वस्य शब्देऽवर्जनीयतया, ततोऽपि तस्य न स्वतन्त्रप्रमाणतेत्याह— अपिचेति ॥
विपश्चितः—कणादप्रशस्तपादादयः । “एतेन शाब्दं व्याख्यातम्” [९-२-३] इत्यादिसूत्रभाष्य-कन्दल्यादिषु अस्य विस्तरो द्रष्टव्यः । “प्रमाणमविसंवादि ज्ञानं” इति कथनात्, शब्दस्य प्रामाण्यं यत् अविसंवादरूपं, तत् आप्तत्वमूलमेव वक्तव्यम् । तत्परित्यज्य शब्दो न प्रमाणमेव इति कथं युज्येत ? एवञ्च अनुमानवत् शब्दोऽपि स्वप्रामाण्ये परमुखमेव निरीक्षत इति इदमनुमानमेवेत्यर्थः । यद्यपीयं प्रक्रिया बौद्धानाम्, “आप्तवादाविसम्बादात्” इत्याद्यर्धं च दृश्यते प्रमाणवार्तिके [१-२२५-२२८] ; अथापि विषयतौल्यं वैशेषिकबौद्धयोरस्मिन् । अथवा विपश्चित इति धर्मकीर्त्यादय एव उच्यन्ते ॥
शब्दस्यानुमानान्तर्भावे युक्त्यन्तरम्
किञ्च शब्दो विवक्षायामेव प्रामाण्यमश्नुते ।
न बाह्येः व्यभिचारित्वात् तस्यां चैतस्य लिङ्गता ॥ २१ ॥
शब्दस्यातिरिक्तप्रमाणत्वसाधनम्
तत्राभिधीयते । द्विविधः शब्दः पदात्मा वाक्यात्मा चेति । तत्र वाक्यमनवगतसम्बन्धमेव वाक्यार्थमवगमयितुमलम्; अभिनवविरचितश्लोकश्रवणे सति पदसंस्कृतमतीनां तदर्थावगमदर्शनात् । अतः सम्बधाधिगममूलप्रवृत्तिनाऽनुमानेन तस्य कथं साम्यसम्भावना ॥
पदस्य तु सम्बन्धाधिगमसापेक्षत्वे सत्यपि सामग्रीभेदात् विषयभेदाच्चानुमानाद्भिन्नत्त्वम् । विषयस्तावद्विसदृश एव पदलिङ्गयोः । तद्वन्मात्रं पदस्यार्थ इति च स्थापयिष्यते [५ आह्निके] । अनुमानं तु वाक्यार्थविषयम्—अत्राग्निः, अग्निमान् पर्वत इति ततः प्रतिपत्तेः । उक्तं च [पु। ३११] तत्र धर्मविशिष्टो धर्मी साध्य इति ॥
किञ्चेत्यादि । “एतदर्थबोधेच्छया अयं शब्दः प्रयुक्तः” इति खलु जानाति लोकः शब्दश्रवणसमनन्तरम् । अनेन शब्दस्य वक्तृगतेच्छाविशेषानुमापकत्वं स्पष्टम् । अतः तादृशेच्छायां शब्दः लिङ्गम् । न तु बाह्ये— घटादौ । अतद्वोधेच्छया उच्चरितेन शब्देन तद्बोधस्यापि जननात् । अतः इच्छानुमानमन्तरा शब्दो न बोधमितुमलम् । इच्छायां चानुमितायां तद्विषयतयाऽर्थप्रतीतिः । अतः शब्दः नार्थांशे प्रमाणम् । इच्छाया आन्तरत्वात् “बाह्ये” इति पदम् ॥
अनवगतसम्बन्धमेवेति, वाक्ये शक्त्यनङ्गीकारात् । तस्य—वाक्यस्य ॥
तद्वन्मात्रं—जातिविशिष्टव्यक्तिमात्रम् । मात्रचा परस्परान्वयव्युदासः । स तु संसर्गमर्यादालभ्य इति वक्ष्यते । एवञ्च वाक्यात् अर्थप्रतीतौ तावति शक्तेरभावात् सम्बन्धाभावान्नानुमानप्रसरः । पदेन तु व्यक्तिमात्रं बोध्यते, नान्वयादिः । अतस्तत्रापि पदस्य वाक्यार्थस्य च न कश्चन सम्बन्ध इति नानुमानप्रसर इत्यर्थः ॥
पदानामन्वयबोधकत्वविचारः
ननु पदान्यपि वाक्यार्थवृत्तीनि सन्ति—गोमान्, औपगवः, कुम्भकार इति—सत्यम्—किन्तु तेष्वपि साकाङ्क्षताऽस्त्येव; पदान्तरमन्तरेण निराकाङ्क्षप्रत्ययानुत्पादात् । गोमान् कः ? इत्याकाङ्क्षाया अनिवृत्तेः ॥
अपि च पर्वतादिविशेष्यप्रतिपत्तिपूर्विका पावकादिविशेषणावगतिर्लिङ्गादुदेति । पदात्तु विशेषणावगतिपूर्विका विशेष्यावगतिरिति विषयभेदः ॥
शब्दः हेतुरेव, न पक्षः
ननु ! उक्तं—यथाऽनुमाने धर्मविशिष्टो धर्मी साध्यः, एवमिहार्थविशिष्टः शब्दः साध्यो भवतु—मैवम्—शब्दस्य हेतुत्वात् । न च हेतुरेव पक्षो भवितुमर्हतीति ॥
शब्दस्य हेतुत्वेऽपि अनुमानासम्भवः
ननु ! यथाऽग्निमानयं धूमः, धूमत्वात् महानसधूमवदित्युक्तं—
पदानीति । गोमान् इति पदेन हि गोस्वामिरूपः गोविशिष्टपुरुषरूपः विशिष्टोऽर्थः प्रतीयते । तत्र गोपदार्थस्य पुरुषस्य च स्वत्वस्वामित्वादिकमपि तेनैव पदेन प्रत्याय्यम् । अतः पदमपि “अन्वितमेवार्थं वाक्यार्थरूपं बोधयत्येव । ततश्च “तद्वन्मात्रं” पदस्यार्थं, अनुमानं तु वाक्यार्थविषकं” इति गतमेवेत्याशयः । इदं च “सुप्तिङ्ं पदं” इति पदलक्षणामिप्रायेण । “शक्तं पदं” इति सिद्धान्ते तु “गोमान्” इति विशिष्टे नैका शक्तिः, अतश्च बोधकत्वमपि न विशिष्टस्येति नायमाक्षेपः ॥
अनिवृत्तेरिति । ततश्च न तावन्मात्रं शब्दप्रमाणं, विचारस्तु तदधिकृत्यैव । “गोमान्” इत्यत्र प्रकृतिप्रत्ययभावात् कथञ्चित् विशिष्टबोधजननेऽपि, अनुमितेः पक्षसाध्यादिविशिष्टप्रतीतिरूपत्वात्, तादृशः बोधः न एकेन पदेन सम्भवति, वाक्ये तु शक्तिर्नास्तीति पूर्वोक्तं युक्तमेवेति भावः ॥
विशेषणेति । पार्ष्णिक एव खलु विशिष्टबोधः ॥
अग्निमानिति । व्याप्तेः सम्बन्धरूपत्वात् एवं व्यवहारः पूर्व [पु-३११] मप्युपपादितः । नैय्यायिकास्तु धूममेव धर्मीकृत्य तस्यैवाविशिष्टता
“सा देशस्याग्नियुक्तस्य, धूमस्यान्यैश्चकल्पिता” [श्लो-वा-अनु-४८] इति । एवं गोशब्द एवार्थवत्त्वेन साध्यताम् ! गोशब्दत्वादित्यादि सामान्यं च हेतूक्रियताम् ! इति—एतदपि दुर्घटम्—शब्दस्य धर्मिणः किं अर्थविशिष्टत्वं वा साध्यते ? प्रत्यायनशक्तिविशिष्टत्वं वा ? अर्थप्रतीतिविशिष्टत्वं वा ?
न तावदर्थविशिष्टत्वं साध्यम्; शैलज्वलनयोरिव शब्दार्थयोः धर्मधर्मिभावाभावात् ॥
अथार्थविषयत्वाच्छब्दस्यार्थविशिष्टतेत्युच्यते; तदप्ययुक्तम्; तत्प्रतीतिजननमन्तरेण तद्विषयत्वानुपपत्तेः । प्रतीतौ तु सिद्धायां किं तद्विषयत्वद्वारकेण तद्धर्मत्वेन ? यदि तु तद्विषयत्वमूला तद्धर्मत्वपूर्विकाऽर्थप्रतीतिः, अर्थप्रतीतिमूलं तद्विषयत्वम्, तदितरेतराश्रयम् । तस्मान्नार्थविशिष्टः शब्दः साध्यः ॥
नाप्यर्थप्रत्यायनशक्तिविशिष्टः; तदर्थितया शब्दप्रयोगाभावात् ॥
न शक्तिसिद्धये शब्दः कथ्यते श्रूयतेऽपि वा ।
अर्थगत्यर्थमेवामुं शृण्वन्ति च वदन्ति च ॥ २२ ॥
नाप्यर्थप्रतीतिविशिष्टः शब्दः पक्षतामनुभवितुमर्हति; सिद्ध्यसिद्धिविकल्पानुपपत्तेः ॥
असिद्धयाऽपि तद्वत्त्वं शब्दस्यार्थधिया कथम् ?
सिद्धायां तत्प्रतीतौ वा किमन्यदनुमीयते ॥ २३ ॥
मनुमेयामाहुरित्याह—धूमस्येति इति न्यायरत्नाकरः । अन्तरेणेति न हि शब्दः बुध्यादिवत् सविषयः पदार्थः । सिद्धायामिति । तदेव खल्वद्य विचार्यते । अतः तथा विवक्षा न सम्भवति । विवक्षायां च अन्योन्याश्रयो जागरूकः । अर्थस्य शब्दधर्मत्वसिद्धौ, बोधसम्भवः । बोधे जात एव तन्निबन्धनतद्वर्मत्वसिद्धिः इति । तदर्थितया—तदपेक्षया—तदिच्छया ॥
विशिष्ट इति । वैशिष्ट्यं चात्र न जन्यजनकभावरूपं, किन्तु पूर्वोत्तरकालसम्बन्धित्वमात्रम् । तेन अनुपदोक्तात् इतरेतराश्रयग्रस्तपक्षात् विशेषः ॥
ज्वलनादावपि तुल्यो विकल्प इति चेत्; न हि तत्राग्निर्धूमेन जन्यते, अपि तु गम्यते । इयं त्वर्थप्रतीतिर्जन्यते शब्देनेत्यस्यामेव सिद्धासिद्धत्वविकल्पावसरः । तस्मात् त्रिधाऽपि न शब्दस्य पक्षत्वम् ॥
शब्दस्य पक्षत्वमसम्भवि च
अपि च गोशब्दे धर्मिणि गत्वादिसामान्यात्मकस्य हेतोर्ग्रहणं, ततो व्याप्तिस्मरणम्, ततः परामर्शः, ततोऽर्थप्रतिपत्तिरिति कालद्राघीयस्त्वात् धर्मी तिरोहितो भवेत् । न पर्वतवदवस्थितिः तस्य । अपि तूच्चरितप्रध्वंसित्वं शब्दस्य । न च शब्दमर्थवत्त्वेन लोकः प्रतिपद्यते, किन्तु शब्दात् पृथगेवार्थमिति न सर्वथा शब्दः पक्षः । अतो धर्मविशिष्टस्य धर्मिणः साध्यस्येद्वासम्भवाच्छब्दलिङ्गयोर्महान् विषयभेदः ॥
शब्दानुमानयोः सामग्रीभेदादपि वैलक्षण्यम्
सामग्रीभेदः खल्वपि—पक्षधर्मान्वयादिरूपसापेक्षमनुमानं व्याख्यातं, शब्दे तु न तानि सन्ति रूपाणि । तथा च शब्दस्य
ज्वलनादाविति । अग्निविशिष्टधूमस्य पक्षत्वात् साध्यस्य पक्षेऽन्तर्भावः समान एव । न हीति । अग्निवैशिष्ट्यं च धूमे व्याप्यव्यापकभावतः, न तु जन्यजनकभावतः । तादृशं च लिङ्गं अग्नेर्गमकमिति न अन्योन्याश्रयस्य, सिध्यसिद्धिविकल्पस्य वा प्रसक्तिः । प्रकृते तु शब्दाधीनबोधस्य शब्दविशेषणत्वात् दोष एव । अत एव वाच्यवाचकभावसम्बन्धात् अर्थविशिष्टः शब्दः अर्थस्य गमको भवत्विति शङ्काऽपि निरस्ता । वाच्यवाचकभावस्यैव गमकत्वरूपत्वात्, तस्यैव विचार्यमाणत्वात् ॥
गत्वादि—अत्र आदिना तदुत्तर“ओत्व”आदिग्रहणम् । धर्मी—शब्दः । ननु तर्हि शब्दस्य पक्षत्वं कुत्रापि न स्यात्, ततश्च शब्दानित्यत्त्राद्यनुमानानामपि जलाञ्जलिरित्यतः अनुभवविरोधमाह—न चेति । यद्यपि लोकेऽपि अर्थवानयं शब्दः, निरर्थकोऽयं शब्द इत्यादिरस्ति व्यवहारः, अथापीदमभ्युजयदूषणं भवतु, मुख्यदूषणं तु आदावेवोक्तम् ॥
पक्षत्वप्रतिक्षेपान्न तद्धर्मतया गत्वादिसामान्यस्य लिङ्गता । न चार्थस्य धर्मित्वम्; सिद्ध्यसिद्धिविकल्पानुपपत्तेः । न च तद्धर्मत्वं शब्दस्य शक्यते वक्तुम्; तत्र वृत्त्यभावात् । प्रतीतिजनकत्वेन तद्धर्मतायामुच्यमानायां पूर्ववदितरेतराश्रयः; पक्षधर्मादिवलेन प्रतीतिः, प्रतीतौ च सत्यां पक्षधर्मादिरूपलाभः ॥
शब्दः न सर्वथाऽर्थधर्मः
अपि च यद्यर्थधर्मतया शब्दस्य पक्षधर्मत्वं भवेत्, तदाऽनवगतधूमाग्निसम्बन्धोऽपि यथा धूमस्य पर्वतधर्मतां गृह्णात्येव, तथाऽनवगतशब्दार्थसम्बन्धोऽपि अर्थधर्मतां शब्दस्य गृह्णीयात्; न च गृह्णातीत्यतो नास्ति पक्षधर्मत्वं शब्दस्येति ॥
अनुमानसामग्रीरूपत्वमपि दुर्वचम्
अन्वयव्यतिरेकावपि तस्य दुरुपपादौ; देशे काले च शब्दार्थयोरनुगमाभावात् । न हि यत्र देशे शब्दः तत्रार्थः । यथोक्तं श्रोत्रियैः—“मुखे हि शब्दमुपलभामहे, भूमावर्थम्” इति । वयं तु कर्णाकाशे श्रोत्रमुपलभामहे—इत्यास्तामेतत् ॥
नापि यत्र काले शब्दः तत्रार्थः; इदानीं युधिष्ठिरार्थाभावेऽपि युधिष्ठिरशब्दसद्भावात् । अर्थशब्दार्थयोः अन्वयाभावेऽपि तद्बुद्ध्योरन्वयो ग्रहीष्यते इत्युच्यते । तर्हि वक्तव्यं—किं अर्थबुद्धावुत्पन्नायामन्वयो गृह्यते ? अनुत्पन्नायां वा ? अनुत्पन्नायां तावत्
ननु “गोपदवाच्यः कः ?” इति तात्पर्येण “कः गौः?” इति प्रश्नः, “अयं गौः” इत्युत्तरं च सर्वानुभवसिद्धम् । अतः कथञ्चित् शब्दार्थयोः सम्बन्ध उपपादनीयः । तमादायैव अर्थस्य पक्षत्वमुपपादयामः—इति शङ्कायां आह— अपि चेति । उक्तप्रश्नगतगबादिपदानि वाच्यपर्यन्तं उपचरितानि । अन्यथा व्याप्तिमजानतोऽपि, प्रथमं वा धूमवान् पर्वत इतिवत् वाच्यवाचकनामजानतोऽपि “अयं गौः” इति प्रत्ययः स्यात् । अतः शब्दः नार्थधर्मः ॥
चकारः वाऽर्थे । वयं त्वित्यादि । “भूमावर्थम्” इति तु स्थितमेव ॥
स्वरूपासत्त्वात् कुतोऽन्वयग्रहणम् ? उत्पन्नायां त्वर्थबुद्धौ किमन्वयग्रहणेनेति नैष्फल्यम् । तत्पूर्वकत्वे तु पूर्ववदितरेतराश्रयम् । एतेन व्यतिरेकग्रहणमपि व्याख्यातम् ॥
शब्दार्थयोरन्वयव्यतिरेकसमर्थनं, तद्दूषणं च
ननु ! आवापोद्वापद्वारेण शब्दार्थसम्बन्धे निश्चीयमाने उपयुज्येते एवान्वयव्यतिरेकौ । यथोक्तम् [श्लो। वा। १-१-७-१६०] —
“यत्र योऽन्वेति यं शब्दमर्थस्तस्य भवेदसौ” इति—
सत्यमेतत्—किन्तु समयबलेन सिद्धायामर्थबुद्धौ समयनियमार्थाबन्वयव्यतिरेकौ शब्दे; नान्वयव्यतिरेककृता च धूमादेरिवाग्नेः ततोऽर्थबुद्धिः ॥
अपि च—
धूमादिभ्यः प्रतीतिश्च नैवावगतिपूर्विका ।
इहावगतिपूर्वैव शब्दादुत्पद्यते मतिः ॥ २४ ॥
आवापेत्यादि । आवापोद्वापाभ्यां शक्तिग्रह इति सिद्धान्तेऽपि सम्मतम् । शक्तिग्रहो नाम अयं शब्दः एतदर्थवाचीत्येवंरूपः वाच्यवाचकभावग्रह एव । तथा च तत्र शब्दार्थयोरन्वयव्यतिरेकौ दृष्टावेवेत्यर्थः । समयबलेनेति । “गामानय” इतिवाक्यश्रवणसमनन्तरं गवानयने प्रवृतिं पश्यतः सामान्यतः “इदं गवानयनं एतच्छब्दमूलं” इति शक्तिग्रहे सिद्धे “कस्य पदस्य गौः अर्थः ? कस्य आनयनम्” इत्यनवगमे,—“घटं आनय” “अश्वं बधान” इत्याद्यावापोद्वापाभ्यां सामान्यतो गृहीतां शक्तिं विशिष्य जानाति बालः । नात्र शक्तिग्रहः आवापोद्वापात्, किन्तु तेन नियममात्रमिति नानुमानरूपमिति भावः ॥
ननु सामान्यशक्तिरपि अन्वयव्यतिरेकाधीनकार्यकारणभावग्रहमूलैव वक्तव्येति चेत्—तर्हि अनुमानात्सामान्यशक्तिग्रहः, ततो नियमज्ञानं, ततश्शक्तिनिश्चयः, ततः शाब्दबोधः कालान्तरेऽपि—इति अनुमानपूर्वकोऽथं शाब्दबोधः नानुमानं भवितुमर्हतीत्याह—अपि चेति ॥
स्थविरव्यवहारे हि बालः शब्दात् कुतश्चन ।
दृष्ट्वाऽर्थमवगच्छन् तं स्वयमप्यवगच्छति ॥ २५ ॥
यत्राप्येवं समयः क्रियते, एतस्माच्छब्दादयमर्थस्त्वया प्रतिपत्तव्य इति—तत्रापि प्रतीतिरेव कारणत्वेन निर्दिष्टा द्रष्टव्या । तस्मादन्यो लिङ्गलिङ्गिनोरविनाभावो नाम सम्बन्धः, अन्यश्च शब्दार्थयोः समयापरनामा वाच्यवाचकभावः सम्बन्धः प्रतीत्यङ्गम् । एवंविधविषयभेदात् सामग्रीभेदाच्च प्रत्यक्षवदनुमानादन्यः शब्द इति सिद्धम् ॥
शब्दानुमानयोर्नावैलक्षण्यम्
यत्तु पूर्ववर्णक्रमापेक्षणादिवैलक्षण्यमाशङ्क्य दूर्षितम् [पु। ४०२] —कस्तत्र फल्गुप्राये निर्बन्धः ॥
ननु ज्ञायमानो धूम एव करणमित्युक्तम् ? इति शङ्कायां स्वाशयं विवृणोतिस्थविरेत्यादि । कुतश्चन शब्दात्—इत्यन्वयः । व्यवहाराच्छक्तिग्रहस्यानुमानिकत्वं सर्वसम्मतमेव । तथा च धूमाद्वह्न्यनुमानस्थले महानसादौ प्रत्यक्षादेव धूमवह्न्योः अविनाभावरूपसम्बन्धनिर्णयः प्रकृते तु वृद्धव्यवहारकालेऽनुमानात् वाच्यवाचकभावरूपसम्बन्धनिर्णयः । ततश्चानुमानाधीनप्रवृत्तिकः शब्दः कथं अनुमानं स्यात् ? ननु अनुमानपूर्वकमप्यनुमानं भवितुमर्हति, धूमात् वह्ननुमाने, तेन तत्र पुरुषानुमानात् इति चेत्; तथापि अनुमानात् वाच्यवाचकभावस्यैवावगमः । वाच्यवाचकभावश्च नाविनाभावरूपः । शब्दार्थयोरविनाभावः निराक्रियत एवेति । किञ्च धूमवह्न्योः सम्बन्धः न सङ्केतमूलकः, किन्तु स्वाभाविकः ॥
प्रतीतिः—तादृशप्रतिपत्तव्यत्वविषयकप्रतीतिः । अन्यः—विलक्षणः । प्रत्यक्षवदिति । यत्किञ्चित्सम्बन्धमूलकत्वमात्रात् क्रोडीकारे इन्द्रियार्थसम्बन्धमूलकं प्रत्यक्षमपि अनुमानं स्यादित्याशयः ॥
“इत्यादिना विशेषेण” [पु। ४०२] इति पूर्वपक्षिणैव वैलक्षण्यकथनात् नास्माभिः वक्तव्यमवशिष्यत इत्यभिप्रायेणाह—फल्गुप्राय इति ॥
शब्दानुमानयोर्विषयभेदादपि भेदः
यत्पुनरभिहितम् [पु। ४०३] [श्लो। वा।—१-१-५। शब्द। २३] —
“आप्तवादाविसंवादसामान्यादनुमानता”
इति—तदतीव सुभाषितम् ! विषयभेदात् । आप्तवादत्वहेतुना हि शब्दार्थबुद्धेः प्रामाण्यं साध्यते; न तु सैव जन्यते । यदाह [श्लो। वा। १-१-७-२४४, २४६]
“
अन्यदेव हि सत्यत्वमाप्तवादत्वहेतुकम् ।
वाक्यार्थश्चान्य एवेह ज्ञातः पूर्वतरं च सः ॥
ततश्चेदाप्तवादेन सत्यत्वमनुमीयते ।
वाक्यार्थप्रत्ययस्यात्र कथं स्यादनुमानता ॥
जन्म तुल्यं हि बुद्धीनामाप्तानाप्तगिरां श्रुतौ ।
जन्माधिकोपयोगी च नानुमायां त्रिलक्षणः इति ॥
”
न च प्रामाण्यनिश्चयाद्विना प्रतिभामात्रं तदिति वक्तव्यम्; शब्दार्थसम्प्रत्ययस्यानुभवसिद्धत्वात् ॥
साध्यते—निश्चीयते । सैव—अर्थविषकबुद्धिरेव । उक्तमेव उपपादयति कुमारिलवाक्यैः—यदाहेति । “इदं वाक्यं सत्यम् ? उत न ?” इति संशये आप्तोक्तत्वनिश्चये सत्यत्वनिश्चयः । तद्वाक्यात् प्रथमं अर्थप्रतीतिर्जातैव । अतः आप्तोक्तत्वं प्रामाण्यनिश्चयहेतुः, न तु शाब्दवोधहेतुः । आप्तानां अनाप्तानां वा वाक्ये श्रुते शाब्दबोधः अविशेषेण जायत एव । अतः आप्तत्वसंवादात् न बोधजननम् । “अनुमायां च त्रिलक्षणो हेतुः जन्माधिकोपयोगी न” इत्यन्वयः । तथा च बोधजननं न त्वदुक्तहेतुजन्यमिति शब्दो नानुमानम् । पूर्वपक्षिणः बौद्धस्य दृष्ट्या “त्रिलक्षणः” इति । तत्—शाब्दानुभवरूपं ज्ञानम् । प्रामाण्यनिश्चयात् पूर्वं जातं ज्ञानं केवलभानमात्रं, न तु वास्तविकमिति वक्तुं न शक्यं, अनुभवविरुद्धत्वात् ॥
शब्दः न विवक्षामात्रानुमापकः
एतेन विवक्षाविषयत्वमपि [पु। ४०४] प्रत्युक्तम् । न हि विवक्षा नाम शब्दस्य वाच्यो विषयः, किन्त्वर्थ एव तथा ॥
विवक्षायां हि शब्दस्य लिङ्गत्वमिह दृश्यते ।
आकाश इव कार्यत्वात् न वाचकतया पुनः ॥ २६ ॥
शब्दादुच्चरिताच्च वाच्यविषया तावत्समुत्पद्यते
संवित्तिस्तदनन्तरं तु गमयेत्कामं विवक्षामसौ ।
अर्थोपग्रहवर्जितात्तु नियमात्सिद्धैवमाजीवता
तद्वाच्यार्थविशेषिता त्वविदिते नैषा तदर्थे भवेत् ॥ २७ ॥
शब्दप्रामाण्याक्षेपः
ननु ! सिद्धे प्रमाणत्त्वे भेदाभेदपरीक्षणम् ।
क्रियते, न तु शब्दस्य प्रामाण्यमवकल्पते ॥ २८ ॥
शब्दानां अर्थासंस्पर्शित्वम्
अर्थप्रतीतिजनकं प्रमाणमिति वर्णितम् ।
विकल्पमात्रमूलत्वात् नार्थं शब्दाः स्पृशन्त्यमी ॥ २९ ॥
न वाच्यः विषयः—वाच्यतया न विषय इति भावः । विवक्षायामित्यादि । शब्दस्य कार्यत्वात् समवायिकारणतया यथा शब्दः आकाशानुमाने हेतुर्भवति, तथा इच्छामन्तरा शब्दप्रयोगासम्भवात् तच्छब्दोच्छारणेच्छामनुमापयेत् शब्दः, न त्वर्थम् । शब्दादर्थप्रतीतेरेवाभावे “एतदर्थबोधेच्छया उच्चरितः” इति कथं वक्तुं शक्यम् । नानार्थकस्थलेऽपि बोधाः प्रथमं जायन्त एव । एषु कः प्रयोक्तुरभिमतः इति संशये परं तात्पर्यापरनामिका इच्छाऽन्वेषणीया प्रकरणादिभिः । अतश्च आप्तोक्तत्ववत् इदमपि न शाब्दबोधहेतुः । शाब्दबोधजननानन्तरमपेक्षणीयमस्तु कामम् ॥
विकल्पेति । नियमेन प्रवृत्तिनिमित्तपूर्विका शब्दप्रवृत्तिः । तेन नामजात्यादिकल्पनामूलकत्वमनिवार्यमिति शब्दानां यथार्थविषयत्वं नास्त्येव ॥
जात्यादीनां शब्दार्थत्वानुपपत्तिः
अर्थो निरूप्यमाणश्च को वा शब्दस्य शक्यते ?
वक्तुं, न जातिर्न व्यक्तिः न तद्वान्नाम कश्चन ॥ ३० ॥
शब्दार्थयोः सम्बन्धोऽपि दुर्वचः
सम्बन्धोऽप्यस्य नार्थेन नित्योऽस्ति समयोऽस्थ वा ?
शक्यः, सन्नपि वा बोद्धुमर्थे कथमतीन्द्रिये ? ॥ ३१ ॥
वाक्यानामर्थप्रत्याययकत्वं दुर्वचम्
वाक्यार्थोऽपि न निर्णेतुं पार्यते पारमार्थिकः ।
नियोगभावनाभेदसंसर्गादिस्वभावकः ॥ ३२ ॥
तत्प्रतीत्यभ्युपायश्च किं पदार्थः पदानि वा ?
वाक्यं वा व्यतिषक्तार्थं स्फोटो वेति न लक्ष्यते ॥ ३३ ॥
सिद्धायामपि तद्बुद्धौ तस्या द्रढिमकारणम् ।
नित्यत्वमाप्तोक्तत्वं वा न सम्यगवतिष्ठते ॥ ३४ ॥
न जातिरिति । जातिमात्रस्य शब्दार्थत्वे, व्यक्तिबोधो न स्यात् । व्यक्तिमात्रस्य तथात्वेऽननुगमात् व्यक्त्यन्तरबोधनं न स्यात् । जातिमान् पदार्थस्तु कश्चन नास्त्येव, कृत्स्नैकदेशादिविकल्पदुस्स्थत्वात् ॥
समयः—सङ्केतः शक्त्यपरपर्यायः । स नित्यश्चेत् शब्दस्यापि नित्यत्वप्रसङ्गः । अनित्यश्चेदनवस्थादुस्स्थितिः । अतीन्द्रियेऽर्थे च तादृशसम्बन्धग्रहणं कथम् ? कुत्रापि केनापि “अयमस्यार्थः” इति प्रदर्शयितुमशक्यत्वात् ॥
एवं प्रत्येकं पदानां बोधकत्वासम्भवे, विशिष्टवाक्यार्थः नियोगादिरपि न सम्भवतीत्याह—वाक्यार्थोऽपीति । नियोगः वाक्यस्यार्थ इति प्राचीनमीमांसकाः, भावनेति नवीनाः । परन्तु पदैर्वा, पदवाच्यैरर्थैर्वा, वाक्याद्वा, स्फोटेन वा तादृशार्थः न कस्याप्यनुभवसिद्धः । कथञ्चिद्द्वोधनेऽपि तादृशवाक्यार्थे प्रामाण्यं कथम् ? नित्यत्वादिकृतं तु दुर्वचमेवेत्यर्थः ॥
वेदानां आप्तोक्तत्वकृतं प्रामाण्यमपि दुर्वचम्
पदे नित्येऽपि वैदिक्यो रचनाः कर्तृपूर्विकाः ?
नित्या वा ? कृतकत्वेऽपि कृताः केनेति दुर्गमम् ॥ ३५ ॥
कर्ताऽस्ति स च निर्द्वन्द्वः स चैकः स च सर्ववित् ।
स च कारुणिको वेति प्रतिपत्तुं न शक्यते ॥ ३६ ॥
व्याघातादिभिः न वेदाः प्रमाणम्
परस्परविरुद्धाश्च सन्ति भृयांस आगमाः ।
तेषां कस्येश्वरः कर्ता कस्य नेति न मन्महे ॥ ३७ ॥
वेदे दोषाश्च विद्यन्ते व्याघातः पुनरुक्तता ।
फलस्यानुपलम्भश्च तथा फलविपर्ययः ॥ ३८ ॥
कीदृशश्चार्थवादानां विरुद्धार्थाभिधायिनाम् ।
मन्त्राणां नामधेयादिपदानां वा समन्वयः ॥ ३९ ॥
वेदे व्युत्पत्तिरपि दुस्स्थिता
सिद्धकार्योपदेशाच्च वेदे संशेरते जनाः ।
किमस्य कार्ये प्रामाण्यं सिद्धेऽर्थे वोभयत्र वा ? ॥ ४० ॥
तेन वेदप्रमाणत्वं विषमे पथि वर्तते ।
जीविकोपायबुद्ध्या वा श्रद्धया वाऽभ्युपेयताम् ॥ ४१ ॥
पद इति । पदानां नित्यत्वेऽपि तद्रचनाविशेषरूपाणां वेदवाक्यानां कथं नित्यत्वम् ॥
“तदप्रामाण्यं अनृतव्याघातपुनरुक्तेभ्यः” [न्या। सू। २-१-५८] इत्युक्तं सङ्गृह्णाति—परस्परेति । “उदिते जुहोति” “अनुदिते जुहोति” इति विरुद्धयोर्मध्ये कस्य ईश्वरः कर्ता ? कस्य न ? अन्यतराप्रामाण्ये तद्दृष्टान्तेनेतराप्रामाण्यं जागर्त्येव । एवं पुत्रेष्टौ कृतायामपि कदाचित्फलं व्यभिचरति इत्यनृतत्वम् । “त्रिःप्रथमामन्वाह” इत्यादिः पुनरुक्तिः ॥
सिद्ध इति । वैदिकेष्वेवास्ति विवादः, किं वेदानां सिद्धपरत्वम् ? उत कार्यपरत्वम् ? इति । एतादृशानवस्थादुस्स्थत्वात् शब्दः न प्रमाणम् । यद्यपि शब्दसामान्याप्रामाण्यसाधन एवोपक्रमः, अथापि वेदप्रामाण्यरक्षण एव शब्दप्रामाण्यसमर्थनस्य परमोद्देश्यतेति ज्ञेयम् ॥
वेदप्रामाण्यस्थापनम्
अत्रामिधीयते—सर्व एवैते दोषा यथाक्रमं परिहरिष्यन्त इत्यलभसमाश्वासेन । सुप्रतिष्ठमेव वेदप्रामाण्यमवगच्छत्वायुष्मान् ॥
शब्दसामान्यस्याप्यर्थाजन्यत्वं स्वभावः
ननु ! अर्थासंस्पर्शित्वमेव तावत्कथं परिह्रियते । न हि बाह्येऽर्थे शब्दाः प्रतीतिमादधति । ते हि दुर्लभवस्तुसम्पर्कविकल्पमात्राधीनजन्मानः स्वमहिमानमनुवर्तमानास्तिरस्कृतवाह्यार्थसमन्वयान् विकल्पप्रायान् प्रत्ययानुत्पादयन्तो दृश्यन्ते—“अङ्गुल्यग्रे हस्तियूथशतमास्ते” इतीतिस्वभाव एव शब्दानामर्थासंस्पर्शित्वम् ॥
शब्दस्य चक्षुरादिवैलक्षण्यम्
चक्षुरादीनामपि अलीककचकूर्चकादिप्रतीतिकारणत्वमस्ति, न च तेषामर्थासंस्पर्शित्वमिति चेत्; न; तेषांहि तिमिरादिदोषकलुषितवपुषां तथाविधविभ्रमकारणत्वम्, न तु स्वमहिम्नैव । इहापि पुरुषदोषाणामेष महिमा, न शब्दानामिति चेत्, मैवम्; दोषवतोऽपि पुरुषस्य मूकादेरनुच्चारितशब्दस्येदृशविप्लवोत्पादनपाटवाभावात् । असत्यपि च पुरुषहृदयकालुष्ये यथाप्रयुज्यमानान्यङ्गुल्यग्रादिवाक्यानि विप्लवमावहन्त्येवेति शब्दानामेवैष स्वभावः, न वक्तृदोषाणाम् ॥
अङुल्यग्रैत्यादि । न ह्यस्मात् वाक्यात् बोध एव न भवतीति वक्तुं शक्यम्, व्युत्पन्नानां तस्यानिवार्यत्वात् । किन्तु जातो बोधः प्रमा वा ? इति विचारः स्यात् । स त्वन्यो विषयः । शब्दास्तु असत्यपि अर्थे बोधमुत्पादयितुमलमिति तु दुरपह्नवम् ॥
ननु चक्षुरादिकमपि कदाचिदलीकरजतादौ प्रवर्तत एवेति प्रत्यक्षमपि न प्रमा स्यादित्याशङ्क्य, शब्द-चक्षुषोर्वैलक्षण्यमाह—चक्षुरादीनामिति । यथा प्रमुज्यमानेति । लीलया, यदृच्छया, प्रमादाद्वेति हेतुः । तथाचान्वय बाधकज्ञाने सत्यपि शब्दः प्रवर्तते
अपि च न चक्षुरादि बाधकज्ञानोदये सति न विरमति; विपरीतवेदनजन्मनः शुक्तिकारजतादिबुद्धिषु विभ्रमस्यापायदर्शनात् । शब्दस्तु शतकृत्वोऽपि बाध्यमानो यथैवोच्चरितः “करशाखाशिखरे करेणुशतमास्ते” इति तथैव तथाभूतं भूयोऽपि विकल्पमयथार्थमुत्पादयत्येवेति विकल्पाधीनजन्मत्वाच्छब्दानामेवेदं रूपं यत् अर्थासंस्पर्शित्वं नामेति । तदुक्तम्—
“
विकल्पयोनयः शब्दाः विकल्पाः शब्दयोनयः ।
तेषामन्योन्यसम्बन्धे नार्थं शब्दाः स्पृशन्त्यमी इति ॥
”शब्दानां अर्थासंस्पर्शित्वं न स्वभाव इति सिद्धान्तः अत्राभिधीयते—भवेदेतदेवं; यदि न कदाचिदपि यथार्थं शब्दः प्रत्ययमुपजनयेत्, अर्थासंस्पर्शित्वमेवास्य स्वभाव इति गम्येत । भवति तु गुणवत्पुरुषभाषितात् “नद्यास्तीरे फलानि सन्ति” इति वाक्यात् अतिरस्कृतबाह्यार्थो यथार्थः प्रत्ययः; ततः प्रवृत्तस्य तदर्थप्राप्तेः । न चेयमर्थप्राप्तिरर्थस्पर्शशून्यादपि शब्दविकल्पात् पारम्पर्येण मणिप्रभामणिबुद्धिवदवकल्पत इत्युपरिष्टात् वक्ष्यामः ॥
ननु ! गुणवद्वक्तृकादङ्गुल्यादिवाक्यात् दृष्ट एवासमीचीनः प्रत्ययः—मैत्रम्—गुणवतामेवंविधवाक्योच्चारणचपलाभावात् ॥ व्यतिरेकतः शब्दानामयं स्वभावः, अर्थमन्तरापि प्रवृत्तिः इति । शुक्तिरजतादौ अधिष्ठानतया वाऽर्थसंस्पर्शोऽस्तीति अलीककेशादिनः निरधिष्ठानभ्रमविषयत्वेनावगतस्य कथनम् ॥
न न विरमति—इत्यन्वयः । अपायः—निवृत्तिः ॥
गुणवदिति । गुणाः—प्रमादप्रतारणाद्यभावरूपाः ॥
अङ्गुल्यादिवाक्यात्—अङ्गुल्यग्रे हस्तियूथशतमास्ते इत्यादिवाक्यात् ।
अप्रमाणवाक्यानुवादकवाक्यं नाप्रमाणम्
यत्तु आप्तोऽपि कं चिदनुशास्ति—“मा भवानभूतार्थं वाक्यं वादीः—अङ्गुलिकोटौ करिघटाशतमास्ते—इति” इति, तत्रेतिकरणावच्छिन्नस्य दृष्टान्ततया शब्दपरत्वेनोपादानात्प्रतिषेधैकवाक्यतया यथार्थमेव । अर्थपरत्वे तु निषेधकवाक्यतैव न स्यादिति । तस्मादाप्तवाक्यानामयथार्थत्वाभावान्न स्वतोऽर्थासंस्पार्शिनः शब्दाः । पुरुष दोषानुषङ्गकृत एवायां विप्लवः ॥
वक्तृगुणदोषावेव शब्दस्यार्थसंस्पर्शतदभावयोर्मूलम्
ननु ! आप्तैरेवंविधवाक्याप्रयोगेऽपि सन्दिग्धो व्यतिरेकः— किं शब्दानां तदृशस्वभावाभावादयथार्थप्रत्ययानुत्पादः ? उत वक्तृदोषाभावादिति । नैतदेवम्—
अनुच्चरितशब्दोऽपि पुरुषो विप्रलम्भकः ।
हस्तसञ्ज्ञाद्युपायेन जनयत्येव विप्लवम् ॥ ४२ ॥
चेष्टया शब्दानुमानासम्भवः
न च हस्तसञ्ज्ञादिना शब्दानुमानम्, तत्कृतश्च विप्लव इति वक्तव्यम्; इत्थमप्रतीतेः । उत्पन्ने च क्वचिन्नद्यादिवाक्याद्विज्ञाने तरङ्गिणीतीरमनुसरन्ननासादितफलः प्रवृत्तबाधकप्रत्ययः पुरुषमेवा-
दृष्टान्ततयेति—निरर्थकवाक्यदृष्टान्ततयाऽनुवादमात्रमित्यर्थः । न स्यादिति—अर्थपरत्वे सिद्धे निरर्थकवाक्यनिषेधनदृष्ठान्तता कथमित्यर्थः । भूतले घटो नास्तीत्यादावपि खलु “भूतले घटः” इत्येतावान् भागः न स्वपरः, किन्तु निषेध्यसमर्पणपरः ॥
पूर्वं [४१५ पु] “दोषवतोऽपि पुरुषस्य मूकादेः” इत्युक्तं अन्यथयन् पुरुषगुणदोषयोरेव शब्दानां अर्थाव्यभिचारव्यभिचारयोर्निदानमित्याह— अनुच्चरितेत्यादि ॥
तत्कृतः—शब्दकृतः । तथा च शब्दस्यैवायं दोषः, न पुरुषस्येति भावः । इत्थमप्रतीतेः । चेष्टातः शब्दानुमानाननुभवात् । तद्धेतोरेवतद्धेतुत्वे मध्ये किं तेन, इति न्यायेन अर्थानुमानस्यैव न्याय्यत्वात् । अथवा इत्थं—शब्ददोषत्वेनेत्यर्थः । अस्मिन्नर्थे अनुभवमाह—उत्पन्नेपीति ॥
षिक्षिपति—“धिक् ! हा ! तेन दुरात्मना विप्रलब्धोऽस्मि” इति । न शब्दम् । प्राप्तफलश्च पुमांसमेव श्लाघते “साधु साधुना तेनोपदिष्टम्” इति । अतः पुरुषदोषान्वयानुविधानात् पुरुषदोषकृत एव शब्दाद्विप्लवः, न स्वरूपनिबन्धनः । तदभावकृत एव आप्तेषु तूष्णीमातीनेषु विभ्रमानुत्पाद इति न सन्दिग्धो व्यतिरेकः ॥
अर्थासंस्पर्शः नाप्यप्रामाण्यसाधकः
ननु ! पुरुषदोषास्तत्र किं कुर्युः ! पुरुषस्य हि गुणवतो दोषवतो वा शब्दोच्चारणमात्र एव व्यापारः । ततः परं तु कार्यं शब्दायत्तमेवेति तत्स्वरूपकृत एवायं विभ्रमः ॥
हन्त ! तर्हि वक्तरि गुणवति सति “सरितस्तीरे फलानि सन्ति” इति सम्यक्प्रत्ययेऽपि शब्दस्यैव व्यापारात् पुरुषस्योच्चारणमात्रे चरितार्थत्वान्नैकास्ततः शब्दस्यार्थासंस्पर्शित्वमेव स्वभावः । युक्तञ्चैतदेव—यद्दीपवत्प्रकाशत्वमात्रमेव शब्दस्य स्वरूपम्; न यथार्थत्वमयथार्थत्वं वा । विपरीतेऽप्यर्थे दीपस्य प्रकाशत्वानतिवृत्तेः । अयं तु विशेषः—प्रदीपे व्युत्पत्तिनिरपेक्षमेव प्रकाशत्वम्, शब्दस्य तु व्युत्पत्त्यपेक्षमिति । प्रकाशात्मनस्तु शब्दस्य वक्तृगुणदोषाधीने
साधुः—ऋजुमतिः । आप्तेषु तूष्णीमासीनेषु इति शब्दव्यतिरेकोपपादनार्थम् ॥
“किं कुर्युः ?” इत्यस्यैव विवरणं—पुरुषस्येत्यादि । ज्ञानस्य प्रमात्वतदभावौ हि करणस्वरूपाधीनौ । शाब्दबोधे च करणं शब्द एव । ततश्च प्रमात्वतदभावौ तदधीनावेव वक्तव्यौ । पुरुषगुणदोषौ तत्र किं कुर्यास्ताम् ? न हि दाहहेतुरग्निः प्रयोजकपुरुषानुगुणं व्यत्यस्यति इति भावः ॥
वक्तरीत्यादि । अयमाशयः—सत्यं करणाधीनावेव तौ । परन्तु पुरुषदोषात् करणमपि दुष्टं भवत्येव । न हि एतानि करणानि स्वतन्त्राणि । चक्षुरादावपि हि तुल्यैव रीतिः । अतः बोधजनने शब्दानां साम्येऽपि, प्रमात्वतदभावौ अस्वयव्यतिरेकाभ्यां वक्तृगुणदोषाधीनौ इति शब्दानां आर्थासंस्पर्शित्वं न स्वभावकृतम् ॥
यथार्थेतरत्वे । अत एवाङ्गुलिशिखराधिकरणकरेणुशतवचसि बाधितेऽपि पुनः पुनरुच्चार्यमाणे भवति विभ्रमः; प्रकाशत्वरूपानपायात् । न त्वेष शब्दस्य दोषः ॥
पदार्थानां तु संसर्गमसमीक्ष्य प्रजल्पतः ।
वक्तुरेव प्रमादोऽयं न शब्दोऽत्रापराध्यति ॥ ४३ ॥
तदुक्तम्—प्रमाणान्तरदर्शनमत्र बाध्यते, न पुनर्हस्तियूथशतमिति शाब्दोऽन्वयः । पुरुषो हि स्वदर्शनं शब्देन परेषां प्रकाशयति । तत्र तद्दर्शनं चे द्दुष्टं, दुष्टः शाब्दप्रत्ययः । अदुष्टं चेत्, अदुष्ट इति गुणवतः पुरुषस्यादुष्टं दर्शनं भवति, दोषवतो दुष्टमिति । अदृष्ट्वाऽपि वस्तु यदुपदिश्यते सोऽपि बुद्धिदोष एव । तस्मात् पुरुषगतगुणदोषान्वयव्यतिरेकानुविधायित्वात् तत्कृते एव शब्दयथार्थत्वायथार्थत्वे । तदुक्तम्—“तत्त्वमपि भवति वितथमपि भवति” इति ॥
उपसंहारः
तेनाभिधातृदौरात्म्यकृतेयमयथार्थता ।
प्रत्ययस्येति शब्दानां नार्थासंस्पर्शिता स्वतः ॥ ४४ ॥
या तु जात्यादिशब्दार्थपराकरणवर्त्मना ।
अर्थासंस्पर्शिता प्रोक्ता, सा पुरस्तान्निषेत्स्यते ॥ ४५ ॥
प्रामाण्यस्वतस्त्वपरतस्त्वविचारोपक्षेपः
प्रमाणत्वं तु शब्दस्य कथमित्यत्र वस्तुनि ।
जैमिनीयैरयं तावत्पीठबन्धो विधीयते ॥ ४६ ॥
प्रामाण्यमप्रामाण्यं वा सर्वविज्ञानगोचरः ।
स्वतो वा परतो वेति प्रथमं प्रधिविच्यताम् ॥ ४७ ॥
प्रमाणान्तरं—शब्दप्रयोगहेतुभूतं प्रत्यक्षादि । अर्थं बुध्वा हि शब्दरचना ॥
निषेत्स्यते—पञ्चमाह्निके जातिसमर्थनादिभिः ॥
शब्दस्य वस्तुनि प्रमाणत्वं—इत्यन्वयः । अथवा, इत्यत्र वस्तुनि— इत्यस्मिन् विषये । प्रामाण्यमिति । “सर्वविज्ञानविषयं इदं तावत्परीक्ष्यताम् । प्रामाण्यविचारप्रसङ्गसमर्थनम्—तत्र पक्षभेदाश्च ननु ! शब्दप्रामाण्यचिन्तावसरे सकलप्रमाणप्रामाण्यविचारस्य कः प्रसङ्गः ? न स्वातन्त्र्येण परीक्षणम्, अपितु तदर्थमेव, समानमार्गत्वात् । यथाऽन्येषां स्वतः परतो वा प्रामाण्यं, तथा शब्दस्यापि भविष्यतीति । न हि तस्य स्वरूपमिव प्रामाण्यमपि तद्विसदृशमिति ॥
तदुच्यते—किं विज्ञानानां प्रामाण्यप्रामाण्यं चेति द्वयमपि स्वतः ? उत तदुभयमपि परतः ? आहोस्विदप्रामाण्यं स्वतः, प्रामाण्यं तु परतः ? उत स्वित् प्रामाण्यं स्वतः, अप्रामाण्यं तु परतः ? इति ॥ तत्र साङ्ख्यमतदूषणम् तत्र द्वयमपि स्वत इति तावदसाम्प्रतम्, प्रवृत्तस्य विसंवाददर्शनात् । यदि हि प्रामाण्यमितरद्वा स्वत एव ज्ञानस्य गम्येत, तर्हि शुक्तौ रजतज्ञानं प्रमाणतया वा प्रतिपन्नम् ? अन्यथा वा ? प्रमाणत्वाप्रमाणत्वे स्वतः किं परतोऽथवा ?” इति [श्लो। वा-चोद-३३] भट्टवाक्यं अत्र स्मरणीयम् ॥
तदर्थमेवेति । वेदप्रामाण्यसंरक्षणमेवास्य शास्त्रस्य परमं प्रयोजनमिति उपक्रमे [पु। ७] उक्तमपि स्मर्तव्यम् । किमित्यादि । आद्यः पक्षः साङ्ख्यानाम् । द्वितीयः सिद्धान्तिनां । तृतीयः सौगतानाम् । चतुर्थः मीमांसकानाम् ॥
प्रामाण्यस्य स्वतस्त्वपरतस्त्वकोट्योः उत्पत्तिज्ञप्तिभेदेऽनापि भेदः । प्रामाण्यं स्वतः उत्पद्यते, स्वतः ज्ञायते च; एवं परतः उत्पद्यते, परतः ज्ञायते च इति । ज्ञानोत्पादकसामग्रयैव प्रामाण्यमपि ज्ञाने उत्पद्यते इति उप्तत्तौ स्वतस्त्वम् । ज्ञानग्राहकसामग्नयैव प्रामाण्यमपि गृह्यते इति ज्ञप्तौ स्वतस्त्वम् । एवं ज्ञानसामान्यसामाग्च्यपेक्षया विशिष्टसामग्र्या प्रामाण्यं उत्पद्यते इति उत्पत्तौ परतस्त्वम्, ज्ञानग्राहकसामग्र्यतिरिक्तसामग्र्यैव प्रामाण्यं गृह्यत इति ज्ञप्तौ परतस्त्वम् ॥
द्वयमपि स्वत इति । अयं भावः साङ्ख्यानां—वृत्तेरेव विषयाकारेण परिणामात् तस्य च भ्रमप्रमास्थले तुल्यत्वात् उभयपि स्वत एवेति ॥
प्रमाणत्वपरिच्छित्तौविषंवदति तत्कथम् ?
अप्रामाण्यगृहीतौवा तस्मिन् कस्मात् प्रवर्तते ? ॥ ४८ ॥
तत्रबौद्धमतदूषणम्
एतेन तृतीयोऽपि पक्षः प्रत्युक्तः—यदप्रमाण्यं स्वतः, प्रामाण्यं तु परत इति । स्वतो ह्यप्रामाण्ये निश्चिते प्रवृत्तिर्न प्राप्नोतीति । किञ्च अप्रामाण्यमुत्पत्तौ करणदोषापेक्षम् । निश्चये बाधकज्ञानापेक्षम् । तत् कथं स्वतोभवितुमर्हति ?
आप्रामाण्यस्यावस्तुत्वनिरासः
यच्च “अप्रामाण्यमवस्तुत्वान्न स्यात् कारणदोषतः” [श्लोवा। १-१-२-३९] इति कैश्चिदुच्यते, तदपि यत्किञ्चित् । संशयविपर्ययात्मनः अप्रमाणस्य वस्तुत्वात्तद्गतमप्रामाण्यमपि वस्त्वेवेति । परतस्तु प्रामाण्यं यथा नावकल्पते, तथा विस्तरेणोच्यते ॥
प्रामाण्याप्रामाण्ययोः परतस्त्वाऽसम्भवाक्षेपः
एवञ्चायं द्वयमपि परत इति द्वितीयपक्षप्रतिक्षेपोऽपि भविष्यति । अर्थतथात्वप्रकाशकं हि प्रमाणमित्युक्तम् । तस्य स्वप्रमेयाव्यभिचारित्वं नाम प्रामाण्यम् । अतश्च परापेक्षायां सत्यां हि परत इति कथयितुमुचितम् । न चास्य परापेक्षा क्वचिद्विद्यते ॥
सा हि भवन्ती उत्पत्तौ वा स्यात् ? स्वकार्यकरणे वा ? प्रामाण्यनिश्चये वा ? उत्पत्तौ—कारकस्वरूपमात्रापेक्षा ?
अप्रामाण्यं स्वतः—अप्रामाण्यं हि प्रामाण्याभावः, अभावस्तु निरुपाख्यः न कारणजन्यः । प्रामाण्यं तु गुण-संवाद-अर्थक्रियाद्यधीनमिति युक्तं परतः । “एतेन” इत्यस्यैव विवरणं—स्वतो हीत्यादि ॥
उच्यते—अनूद्यते । परतस्त्त्विति । सौगतसम्मतमिति शेषः ।
मीमांसकः प्रत्यवतिष्ठते—एवञ्चेति । स्वकार्यं—अर्थप्रकाशनरूपं प्रमाणफलम् । प्रथमकल्पेऽपि विकल्पं प्रदर्शयति कारकेत्यादि ॥
तदतिरिक्ततद्गतगुणापेक्षा वा ? कारकस्वरूपमात्रापेक्षायां सिद्धसाध्यत्वम् । असत्सु कारकेषु कार्यस्य ज्ञानस्यात्मलाभाभावात् कस्य प्रामाण्यमप्रामाण्यं वा चिन्त्यते ?
गुणानां सद्भावे न किञ्चित्प्रमाणम्
कारकातिरिक्ततदधिकरणगुणापेक्षणं तु दुर्घटम् । अप्रामाणिकत्वेन कारणगुणानामाकाशकुशेशयसदृशवपुषां अपेक्षणीयत्वाभावात् ॥
न कारणगुणग्राहि प्रत्यक्षमुपपद्यते ।
चक्षुरादेः परोक्षत्वात् प्रत्यक्षास्तद्गुणाः कथम् ? ॥ ४९ ॥
लिङ्गं चादृष्टसम्बन्धं न तेषामनुमापकम् ।
यथाऽर्थबुद्धिसिद्धिस्तु निर्दोषादेव कारकात् ॥ ५० ॥
ज्ञानसामान्यसामग्र्याः अन्यतररूपत्वं अवर्जनीयम्
यदि हि यथाऽर्थत्वायथाऽर्थत्वरूपद्वयरहितं किञ्चित् उपलब्ध्याख्यं कार्यं भवेत्, ततः कार्यत्रैविध्यात् कारणत्रैविध्यमवश्यमवसीयेत—यथाऽर्थोपलब्धेः गुणवत्कारकं कारकं, अयथाऽ र्थोपलब्धेः दोषकलुषं कारकं कारकम्, उभयरहितायास्तु तस्याः स्वरूपावस्थितमेव कारकं कारकमिति । न त्वेवमस्ति । द्विविधैव खल्वियमुपलब्धिः—यथाऽर्थत्वयथाऽर्थत्वभेदेन ॥
सिद्धसाध्यत्वं—अस्यैवास्मत्सम्मतस्वतस्त्वरूपत्वात् । आत्मालाभः— उत्पत्तिः ॥
परोक्षत्वात्—अतीन्द्रियत्वात् । ननु ज्ञानसामान्यसामग्रीमात्राधीनं यदि प्रामाण्यं, तर्हि अप्रमायामपि सामान्यसामग्र्याः सत्त्वात् तदपि स्वत एव स्यादित्यत्राह—यथार्थेति । तथा च दोषाः अप्रामाण्यज्ञाने विशेषसामग्री, अतो न तत् स्वतः । दोषाभावमात्रादेव सामान्यसामग्री प्रमाजनिकेति न दोषः ॥
कार्यत्रैविध्यं विशदयति—यथार्थोपलब्धेरित्यादि ॥
प्रामाण्यस्य स्वतस्त्वं, अप्रामाण्यस्य परतस्त्व च
तत्रायथाऽर्थोपलब्धिस्तावद्दुष्टकारककार्यैव दृष्टा ॥
दृष्टः कुटिलकुम्भादिसम्भवो दुष्टकारणात् ।
तथा मानान्तरज्ञातात्तिमिरादेर्द्विचन्द्रधीः ॥ ५१ ॥
अयथाऽर्थोपलब्धौ च दुष्टकारककार्यत्वेन सिद्धायामिदानीं तृतीयकार्याभावात् यथाऽर्थोपलब्धिः स्वरूपावस्थितेभ्य एव कारकेभ्योऽवकल्पत इति न गुणकल्पनायै प्रभवति ॥
अनुमाने च यैव पक्षधर्मान्वयादिसामग्री ज्ञानस्य जनिका सैव प्रामाण्यकारणत्वेन दृष्टा । न च स्वरूपस्थितानि कारणानि कार्यजन्मन्युदासत एव, येन यथाऽर्थोपलब्धिजनेन तेषां गुणकारिता कल्प्येतेत्यतो न सन्ति कारणगुणाः ॥
दोषाभावः न कारककोटौनिविष्टः
नैर्मल्यव्यपदेशस्तु लोचनादेः काचकामलादिदोषापायनिबन्धन एव, न स्वरूपातिरिक्तगुणकुतः । अञ्जनाद्युपयोगोऽपि दोषनिर्हरणायैव, न गुणजन्मने ॥
तस्मादवितथा संवित् स्वरूपस्थितहेतुजा ।
दोषाधिकैस्तु तैरेव जन्यते विपरीतधीः ॥ ५२ ॥
ननु ज्ञानद्वैविध्यात् सामग्रीद्वैविध्यमावश्यकमेवेति, अस्मदिष्टसिद्धिरेवेति शङ्कायां आह—तत्रेति । दुष्टकारणात्—कुलालहस्तदोषादिरूपात् । गुणसद्भावे प्रमाणाभावस्योपपादितत्वात्, तद्वैलक्षण्यार्थं मानान्तरज्ञातादिति ॥
गुणकल्पनायै—यथार्थोपलब्धिकारणत्वेन गुणरूपस्यातिरिक्तकारणामुमानाय । गुणकारिता—गुणकार्यता ॥
ननु निर्मलं चक्षुरेव प्रमाजनकं दृष्टम् । अतश्च दोषाभाव एव प्रमाया अतिरिक्ता सामग्री सिद्धेत्यत्राह—नैर्मल्येति । तथा च दोषाभावादिः करणस्वरूपसंरक्षणमात्रोपयोगी, न त्वतिरिक्तातिशयजनम् इति गुणानां न प्रमाहेतुत्वसिद्धिः ॥
अत एवाप्रमाणत्वं परतोऽभ्युपगम्यते ।
जन्मन्यपेक्षते दोषान् बाधकं च स्वनिश्चये ॥ ५३ ॥
तस्मान्नोत्पत्तौ गुणापेक्षं प्रमाणम् ॥
प्रमाकार्येऽपि न कारकान्तरापेक्षा
नापि स्वकार्यकरणे किञ्चिदपेक्षते; अर्थप्रकाशनस्वभावस्यैव तस्य स्वहेतोरुत्पादात् । अर्थप्रकाशनमेव च प्रमाणकार्यम्, प्रवृत्त्यादेः पुरुषेच्छानिबन्धनत्वात् ॥
नैव वा जायते ज्ञानं जायते वा प्रकाशकम् ।
अर्थप्रकाशने किञ्चित् न तूत्पन्नमपेक्षते ॥ ५४ ॥
तथा चोक्तम्—
“
मृद्दण्डचक्रसूत्रादि घटो जन्मन्यपेक्षते ।
उदकाहरणे त्वस्य तदपेक्षा न विद्यते इति ॥
”
अथवा—
सापेक्षत्वं घटस्यापि सलिलाहरणं प्रति ।
यत्किञ्चिदस्ति, न त्वेवं प्रमाणस्योपपद्यते ॥ ५५ ॥
न च स्वग्रहणापेक्षं ज्ञानमर्थप्रकाशकम् ।
तस्मिन्ननवबुद्धेऽपि तत्सिद्धेश्चक्षुरादिवत् ॥ ५६ ॥
अपेक्षते । प्रमाणज्ञानमिति शेषः । ज्ञानस्य स्वरूपमेव हि तादृशं, अतः तत्र न कारणान्तरोपेक्षा ॥
ननु ज्ञानस्य परमं फलं प्रवृत्तिर्वा, निवृत्तिर्वा । तच्च प्रमाणेनैव भवितुमर्हति । न हि ज्ञानसामान्यात् पुरुषः प्रवर्तते इति अस्ति दोषाभावस्याप्यपेक्षेत्यत्राह—प्रवृत्त्यादेरिति । नैवेति । जातं ज्ञानं अर्थप्रकाशरूपमेव जायेत, अथवा न जायेतैव । तस्मादुत्पन्नं ज्ञानमर्थप्रकाशने न स्वरूपसामग्रयतिरिक्तकारणान्तरमपेक्षते । तदपेक्षा—कारकान्तरापेक्षा ॥
ननु तर्हि पुरुषव्यापारमन्तराऽपि घटः उदकमाहरेत् इति शङ्कायामाह— अथवेति । घटस्य जहत्वात् अस्ति जलाहरणे पुरुषाद्यपेक्षा । ज्ञानं तु स्वतः अर्थप्रकाशनसमर्थं तत्र न कारणान्तरमपेक्षते । न चान्ततः ज्ञानं स्वयं गृहीतमेव अर्थप्रकाशकमिति, तत्रास्ति कारणान्तरापेक्षेति वाच्यम्, ज्ञानग्रहणमन्तराऽपि विषयभानोपपत्तेः । भाट्टैस्तयाङ्गीकारात् । प्रकरणं सर्वमिदं श्लोकवार्तिक
उक्तं च—“न ह्यज्ञातेऽर्थे कश्चिद्वुद्धिमुपलभते । ज्ञाते त्वनुमानादवगच्छति” [शा-भा-१-१-५] इति । तस्मात् स्वकार्यकरणेऽपि न स्वग्रहणापेक्षं प्रमाणम् ॥
प्रामाण्यनिश्चयः न स्वरूपसामग्र्यतिरिक्तकारणाधीनः
नापि प्रामाण्यनिश्चये किञ्चिदपेक्षते; अपेक्षणीयाभावात् । तथा हि—अस्य कारणगुणज्ञानाद्वा प्रामाण्यनिश्चयो भवेत् ? बाधकाभावज्ञानाद्वा ? संवादाद्वा ?
न तावत्कारणगुणज्ञानात्; कारणगुणानामिदानीमेव निरस्तत्वात् ॥ गुणज्ञानस्यासम्भावः अपि च न कारणगुणज्ञानमिन्द्रियकरणकम्; अतीन्द्रियकारकाधिकरणत्वेन परोक्षत्वाद्गुणानाम् । अपितूपलब्ध्याख्यकार्यपरिशुद्धिसमधिगम्यं गुणस्वरूपम् । अप्रवृत्तस्य च प्रमातुर्न कार्यपरिशुद्धिर्भवति । तन्नेदानीं प्रामाण्यनिश्चयपूर्विका प्रवृत्तिर्भवेत् । अन्यथा वाऽनिश्चितप्रामाण्यादेव ज्ञानात् प्रवृत्तिसिद्धौ किं पश्चात्तन्निश्चयेन प्रयोजनम् ? निश्चितप्रामाण्यात्तु प्रवृत्तौ दुरतिक्रमः चक्रकक्रकचपातः—प्रवृत्तौ सत्यां कार्यपरिशुद्धिग्रहणम्, कार्यपरिशुद्धिग्रहणात् कारणगुणावगतिः, कारणगुणावगतेः प्रामाण्यनिश्चयः, प्रामाण्यनिश्चयात् प्रवृत्तिरिति ॥ विवरणरूपं अवगन्तव्यम् । विस्तरभयात् श्लोका नोदाह्रियन्ते । अज्ञातेऽर्थ इति । तथाच ज्ञानाग्रहेऽपि अर्थग्रहो भवितुमर्हत्येव ॥
कार्यपरिशुद्धिसमधिगम्यं—ज्ञानप्रामाण्यनिश्चयानुमेयम् । अप्रवृत्तस्येति । सफलप्रवृत्तिजनकत्वात् खलु प्रामाण्यनिश्चयः । इदनीं— अर्थप्रकाशाधीनप्रवृत्तिसमये । एतत्प्रवृत्त्यनन्तरं, फलप्राप्त्या ज्ञानस्य प्रामाण्यमनुमाय, तद्धेतुतया गुणः अनुमेय इति गुणज्ञानं कुत्र उपयुज्यत इति भावः । अन्यथा वा इत्यस्यैवविवरणं अनिश्चितेत्यादि ॥
बाधकाभावज्ञानं तु असम्भवि
नापि बाधकाभावपरिच्छेदात् प्रामाण्यनिश्चयः । स हि तात्कालिको वा स्यात् ? कालान्तरभावी वा ?
तात्कालिको न पर्याप्तः प्रामाण्यपरिनिश्चये ।
कूटकार्षापणादौ किञ्चित्कालमनुत्पन्नबाधकेऽपि कालान्तरे तदुत्पाददर्शनात् ॥
सर्वदा तदभावस्तु नासर्वज्ञस्य गोचरः ॥ ५७ ॥
संवादादपि न प्रामाण्यनिश्चयः
अथ संवादात्प्रामाण्यनिश्चय उच्यते ? तर्ह्युच्यताम्—कोऽयं संवादो नाम ? किं उत्तरं तद्विषयं ज्ञानमात्रम् ? उतार्थान्तरज्ञानम् ? आहो स्विदर्थक्रियाज्ञानमिति ?
आद्ये पक्षे कः पूर्वोत्तरज्ञानयोर्विशेषः, यत् उत्तरज्ञानसंवादात् पूर्वं पूर्वं ज्ञानं प्रामाण्यमश्नुवीत ?
यत्र कुत्र वा प्रामाण्यं स्वत इत्यास्थेयमेव
अपि चोत्तरसंवादात् पूर्वपूर्वप्रमाणताम् ।
वदन्तो नाधिगच्छेयुरन्तं युगशतैरपि ॥ ५८ ॥
सुदूरमपि गत्वा तु प्रामाण्यं यदि कस्य चित् ।
स्वत एवाभिधीयेत् को द्वेषः प्रथमं प्रति ॥ ५९ ॥
यदाह—“
कस्य चित्तु यदीष्येत स्वत एव प्रमाणता ।
प्रथमस्य तथाभावे विद्वेषः किन्निबन्धनः ॥
” [श्लो। वा। चोद—७६] इति ॥
समानविषयस्यैव संवादकत्वम्
अथान्यविषयज्ञानमन्यस्य संवाद उच्यते—तदयुक्तम्— अदशनात् । न हि स्तम्भज्ञानं कुम्भज्ञानस्य संवादः ॥
कालान्तर इति । तथाचेतादृशबाधकज्ञानाभावः अप्रयोजकः ॥
कः विशेष इति । तदिदं अन्धेनान्धाय मार्गदर्शनतुल्यमिति भावः ॥
संवादः दुरधिगमश्च
अथार्थक्रियाज्ञानसंवादात्प्रथमस्य प्रवर्तकस्य ज्ञानस्य प्रामाण्यमिष्यते, तदपि ह्यनवसितप्रामाण्यं कथमादिमस्य प्रामाण्यमवगमयेत् ? कश्चार्थक्रियाज्ञानस्य पूर्वस्माद्विशेषः, यदेतदायत्तस्तस्य प्रामाण्याधिगमः । अर्थक्रियाज्ञानत्वमेव विशेष इति चेत्, किल सलिलज्ञानमाद्यमविद्यमानेऽपि पयसि पूषदीधितिषु प्रवर्तकं दृष्टमिति न भवति विस्रम्भभूमिः ॥
अप्रमाया अपि प्रवर्तकत्वादि समम्
इदं पुनरर्थक्रियासंवेदनं अम्बुमध्यवर्तिनः पानावगाहनादिविषयमुदेतीत्यनवधारितव्यभिचारितया तत्प्रामाण्यनिश्चयाय कल्पत इति—तदसत्—स्वप्ने पानावगाहनस्यापि व्यभिचारोपलब्धेः ॥
अप्रमाया अपि अर्थक्रियाकारित्वं दृश्यते
किञ्च चरमधातुविसर्गोऽपि स्वप्ने सीमन्तिनीमन्तरेण भवतीति महानेष व्यभिचारः ॥
अथ रागोद्रेकनिमित्तत्वेन पित्तादिधातुविकृतिनिबन्धनत्वेन वा तद्विसर्गस्य न स्वसाधनव्यभिचार इत्युच्यते—तदसमञ्जसम्— असकृदनुभूतयुवतिपरिरम्भाद्यन्वयव्यतिरेकानुविधायित्वेन तत्कार्यत्वावधारणात् ॥
अर्थक्रियेत्यादि । वस्तुनः अर्थक्रियाकारित्वं स्वरूपतः न प्रामाण्यनिश्चयहेतुः, किन्तु तन्निश्चय एव । तत्र च प्रामाण्यं केन निर्णीतम् ? विशेषः—प्रामाण्यस्वरूपांशे । एतदायत्तः—अर्थक्रियाज्ञानाधीनः । किल इति ग्रन्थकारशैली । प्रवर्तकमिति । ज्ञानस्य फलं प्रवृत्तिरित्यनुपदमुक्तम् ॥
नेदृशमर्थक्रियाकारित्वं विवक्षितमिति शङ्कते—इदं पुनरिति । एतादृशं त्वित्यर्थः ॥
ननु भवदुक्तं पानादिप्रतिभासमात्रं, न तु पानादिकम् । न हि स्वाप्नजलावगाहनेन शरीरं आर्द्र भवतीतिशङ्कायां, तत्रापि दृष्टान्तमाह—किञ्चेति तत्कार्यत्वं—युवतिपरिरम्भकार्यत्वम् । चरमधातुविसर्गस्येति शेषः ॥
तस्मादर्थक्रियाज्ञानव्यभिचारावधारणात् ।
तत्प्रामाण्यपरीक्षायामनवस्था न शाम्यति ॥ ६० ॥
प्रामाण्यनिश्चयः म प्रवृत्त्यङ्गम्
अथवाऽऽप्तफलत्वेन किं तत्प्रामाण्यचिन्तया ?
प्रथमेऽपि प्रवृत्तत्वात् किं तत्प्रामाण्यचिन्तया ? ॥ ६१ ॥
न चेदमर्थक्रियाज्ञानमप्रवृत्तस्य पुंसस्समुद्भवति । तत्र प्रामाण्यावधारणपूर्विकायां प्रवृत्तौ कारणगुणनिश्चेयप्रामाण्यचर्चाबद्धचक्रकक्रकचचोद्यप्रसङ्गस्तदवस्थ एव ॥
अनिश्चितप्रामाण्यस्य तु प्रवृत्तौ पश्चात्तन्निर्णयो भवन्नपि कृतक्षौरस्य नक्षत्रपरीक्षावत् अफल एवेत्युक्तम् ॥
प्रामाण्यनिश्चयस्य आद्यप्रवृत्तौ अङ्गत्वाक्षेपः
ततैतत्स्यात्—द्विविधा हि प्रवृत्तिः—आद्या च, आभ्यासिकी च । तत्राद्या यथा—विनिहितसलिलावसिक्तमसृणमृदि शरावे शाल्यादिबीजशक्तिपरीक्षणाय कतिपयबीजकणावापरूपा । ततस्तत्र तेषामङ्करकरणकौशलमविकलमवलोकयन्तः कीवाशा निश्शङ्कं केदारेषु तानि बीजान्यावपन्तीति सेयमाभ्यासिकी प्रवृत्तिः । एवमिहापि प्रथमपरीक्षितप्रमाणभावादेव ज्ञानात्कुतश्चित्कश्चिद्विपश्चिदपि व्यवहरंस्तद्व्यवहार परस्तत्तत्फलज्ञाने तस्य प्रामाण्यभवगच्छन् पुनस्तथाविधे जाते सति सुखमेव प्रवृत्त्यादिकं व्यवहारभशङ्कितकालुष्यः करिष्यतीति न सर्वात्मना वैयर्थ्यमिति ॥
आप्तफलत्वेन—फलप्राप्त्यनन्तरं प्रामाण्यविचारणेन किं साध्यमितिचेत्—प्राथमिकज्ञानेन प्रवृत्तेर्निष्पन्नत्वेन अनन्तरं वा तद्विचारेण किं साध्यम् ? अतः प्रामाण्यस्य परतस्त्वं निरवकाशम् । एतदेवोपपादयति—म चेदमित्यादिना ॥
आद्या—प्राथमिकी । कीनाशाः—कर्षकाः ॥
आद्यप्रवृत्तावपि प्रामाण्यनिश्चयः नाङ्गम्
उच्यते—विषमोऽयं दृष्टान्तः—
तज्जातीयतया बीजं शक्यते यदि वेदितुम् ।
तत्र तन्निश्चयाद्युक्तं निर्विशङ्कं प्रवर्तनम् ॥ ६२ ॥
ज्ञाने तथाविधत्वं तु बोधरूपाविशेषतः ।
कार्याद्वा कारणाद्वाऽपि ज्ञातव्यं न स्वरूपतः ॥ ६३ ॥—इति ॥
प्रामाण्यनिश्चयस्य प्रमाणान्तरेण दुस्सम्पादत्वम्
कारणानां परोक्षत्वात् न तद्द्वारा तदागतिः ।
कार्यं तु नाप्रवृत्तस्य भवतीत्युपवर्णितम् ॥ ६४ ॥
तस्माद्वैयर्थ्यचोद्यस्य नायं परिहृतिक्रमः ।
एवं चार्थक्रियाज्ञानात् कीदृक् प्रामाण्यनिश्चयः ॥ ६५ ॥
समर्थकारणज्ञानस्यापि न प्रामाण्यनिश्चायकत्वम्
समर्थकारणज्ञानात् योऽपि प्रामाण्यनिश्चयम् ।
ब्रूते सोऽपि कृतोद्वाहस्तत्र लग्नं परीक्षते ॥ ६६ ॥
किलातिविकसितकुसुममकरन्दपानमुदितमधुकरकुले कस्मिंश्चिदुद्याने वाद्यमानायां वीणायां निरन्तरलतासन्तानान्तरितवपुषि विदूरादनवलोक्यमाने वादके वीणाध्वनिसंविदि रोलम्बनादसन्देहदूषितायां तदभिमुखमेव प्रतिष्ठमानः श्रोता परिवादके दर्शनपथमवतीर्णे स्वरानुकूलकारणनिश्चयात् तत्प्रतीतौ संशयनिवृत्तेः प्रामाण्यं निश्चिनोतीत्येष समर्थकारणज्ञानकृतः प्रामाण्यनिश्चयः ॥
तथाविधत्वं—यथार्थत्वम् । कार्यात्—फलप्राप्तयादिरूपात् । कारणात्—दुष्टेन्द्रियादिरूपात् ॥
तदा—आद्यप्रवृत्तौ । वैयर्थ्य चोद्यं च प्रामाण्यविषयकम् । समर्थकारणज्ञानादित्यादिकं विवृणोति—अतिविकसितेति । इदं च रोलम्बनादसन्देहापादनाय । परिवादके—वीणावादके । समर्थं—तत्कार्यानुकूलसामर्थ्यविशिष्ठं
तत्रापि नाप्रवृत्तस्य हेतुसामर्थ्यदर्शनम् ।
एवमेव प्रवृत्तौ तु निश्चितेनापि तेन किम् ॥ ६७ ॥
तन्निश्चयात् प्रवृत्तौ वा पुनरन्योन्यसंश्रटम् ।
तन्निश्चयात् प्रवृत्तिः स्यात् प्रवृत्तेस्तद्विनिश्चयः ॥ ६८ ॥
प्रामाण्यस्वतस्त्वोपसंहारः
तदेवं न कुतश्चिदपि प्रामाण्यनिश्चयः चक्रकेतरेतराश्रयानवस्थावैयर्थ्यादिदूषणातीतस्थितिरस्तीत्यतः प्रामाण्यनिश्चयेऽपि न किञ्चिदपेक्षते प्रमाणम् । अतश्चोत्पत्तौ, स्वकार्यकरणे, स्वप्रामाण्यनिश्चये च निरपेक्षत्वादपेक्षात्रयरहितत्वात्स्वतःप्रामाण्यमिति सिद्धम् । तदुक्तम् [श्लो। वा। चोद-४७] —
“
स्वतः सर्वप्रमाणानां प्रामाण्यमिति गृह्यताम् ।
न हि स्वतोऽसती शक्तिः कर्तुमन्येन पार्यते ॥
”अप्रामाण्यपरतस्त्वोपसंहारः
अप्रामाण्यं तूत्पत्तौ दोषापेक्षत्वात्, स्वनिश्चये बाधकप्रत्ययादिसापेक्षत्वात् उभयत्रापि परत इत्युक्तमेव । तस्मात् पक्षत्रयस्यायनुपपत्तेश्चतुर्थ एवायं पक्षः श्रेयान्—प्रामाण्यं स्वतः, अप्रामाण्यं परत इति ॥
प्रामाण्याप्रामाण्ययोः परतस्त्वशङ्का
ननु ! चोत्पत्तिवेलायां न विशेषोऽवधार्यते ।
प्रमाणेतरयोस्तेन बलाद्भवति संशयः ॥ ६९ ॥
यत्कारणं, तदनुमानात् प्रामाण्यमव्यभिचरितं निश्चीयत इति भावः । एवमेव—प्रामाण्यनिश्चयात् पूर्वमेव ॥
प्रामाण्यनिश्चयेऽपीति । यदा कुतश्चिदपि प्रामाण्यनिश्चयः असम्भवी, अनुभूयते च प्रामाण्यं, ततः तस्य स्वतस्त्वं अर्थबलादेव सिद्धमित्यर्थः ॥
प्रमाणेतरयोः—प्रामाण्याप्रामाण्ययोः विशेषः इत्यन्वयः । उक्तमुप
परिच्छित्तिमात्रं प्रमाणकार्यम् । तच्च यथाऽर्थेतरप्रमितिसाधारणं रूपं । साधारणधर्मग्रहणं च संशयकारणमिति प्रसिद्धः पन्थाः । एवं स्थिते च—
प्रमाणान्तरसंवादविसंवादौ विना कथम् ?
प्रमाणेतरनिर्णीतिः, अतश्च परतो द्वयम् ॥ ७० ॥
प्रामाण्याप्रामाण्ययोः परतस्त्वासम्भवः
तदेतदचतुरस्रम् । सत्यं, परिच्छित्तिरेव प्रमाणकार्यम् । सा पुनरुपजायमानैव न सन्देहादिदूषिततनुरुपलभ्यते इत्यौत्सर्गिकं प्रामाण्यमेव सा भजते । अर्थपरिच्छेदाच्च प्रवर्तमानः प्रमाता प्रमाणेनैव प्रवर्तितो भवति; न संशयात्प्रवृत्तः । स्थिते चैवमौत्सर्गिके प्रामाण्ये, यत्र तस्यापवादः क्वचिद्भवति तत्राप्रामाण्यम् ॥
अप्रामाण्यहेतुः
अप्रमाण्ये चावश्यम्भाव्यपवादः । द्विविध एवापवादः—वाधकप्रत्ययः, कारणदोषज्ञानं च । तदुक्तं भाष्यकृता [शाव।-भा। १-१-५] “यत्र दुष्टं करणम्, यत्र च मिथ्येति प्रत्ययः, स एवासमीचीनः प्रत्ययः; नान्यः” इति । वार्तिककारोऽप्याह— [श्लो। वा। चोद। ५३]
“
तस्माद्बोधात्मकत्वेन प्राप्ता बुद्धेः प्रमाणता ।
अर्थान्यथात्वहेतूत्थदोषज्ञानादपोद्यते इति ॥
” तत्र बाधकज्ञानं पूर्वज्ञानोपमर्दद्वारेणैव तस्मिन् विषये जायत् इति समानविषयत्वात् स्पष्टमेव बाधकम् ॥ पादयति—परिच्छित्तीति । ज्ञेयपरिच्छेद एव हि ज्ञानस्य कृत्यम् । ज्ञेयं तत्र सञ्चेत् प्रमा, नो चेत् अप्रमेति ॥
सन्देहेत्यादि । न हि पुरुषः सर्वत्र “ममोत्पन्नं ज्ञानं प्रमा ? न वा ?” इति विचिकित्सत इत्यनुभवसिद्धमेव । प्रमाणेनैव—प्रामाण्यविशिष्टज्ञानेनैव ॥
असमानविषयत्वेऽपि करणदोषज्ञानत्य बाधकत्वम्
करणदोषज्ञानं तु भिन्नविषयमपि कार्यैक्याद्वाधकतां प्रतिपद्यते । यथा “चमसेनापः प्रणयति” इति दर्शपूर्णमासाङ्गत्वात् क्रत्वर्थश्चमसः । “गोदोहनेन पशुकामस्य प्रणयेत्” इति काम्यमानपशुनिर्देशात् पुरुषार्थो गोदोहनमित्येवं क्रत्वर्थपुरुषार्थतया भिन्नविषयत्वेऽपि चमसगोदोहनयोः प्रणयनाख्यकार्यमेकमिति गोदोहनेन निर्वृत्ते तस्मिंश्चमसो निवर्तते । एवमिह कारणदोषज्ञानं दोषविषयमपि दोषाणामयथाऽर्थज्ञानजननस्वभावत्त्वात्तस्य ज्ञानस्य प्रामाण्यं बाधते । तदुक्तम् [श्लो। वा। चोद। ५८] —
“
दुष्टकारणबोधे तु जातेऽपि विषयान्तरे ।
अर्थात्तुल्यार्थतां प्राप्य बाधो गोदोहनादिवत् इति ॥
” बाधकाभावमात्रमेव प्रामाण्यावधारणे अलम्
यत्र पुनरिदमपवादद्वयमपि न दृश्यते, तत्र तदौत्सर्गिकं प्रामाण्यमनपोदितमास्त इति न मिथ्यात्वाशङ्कायां निमित्तं किञ्चित् । यदाह [श्लो। वा। चोद। ६०] —
“दोषञ्चाने त्वनुत्पन्ने नाशङ्क्या निष्प्रमाणता” इति ॥
तथा हि—
कश्चिदुत्पन्न एवेह स्वसंवेद्योऽस्ति संशयः ।
स्थाणुर्वा पुरुषो वेति को नामापह्नुवीत तम् ॥ ७१ ॥
कार्यैक्यात्—यज्ज्ञाने प्रामाण्यं गृहीतं तस्मिन्नेव अप्रामाण्यनिश्चयाधानात् । यथेत्यादि । पूर्वमीमांसायां तृतीयस्य षष्ठे तृतीयाधिकरणे विचारितमिदम् । निर्वृत्ते इति । प्रणयन इति शेषः ॥
मिथ्यात्वं—अप्रामाण्यम् । स्वसंवेद्य इति । उत्पन्नः संशयः स्वयं ज्ञायत एव सर्वैः । “चोरो वा ? स्थाणुर्वा ?” इति सन्दिहानः न हि उपरि गच्छति । अतः तत्र संशयत्वं स्वसंवेद्यमेव । तद्वत् ज्ञानात् प्रवृत्तेर्दर्शनेन प्रामाण्यमपि गृहीतमित्येव वक्तव्यम् । ननु तर्हि अप्रामाण्यमपि स्वत
हठादुत्पाद्यमानस्तु हिनस्ति सकलाः क्रियाः ।
स्वभार्यापरिरम्भेऽपि भवेन्मातरि संशयः ॥ ७२ ॥
विनाशी संशयात्मेति पाराशर्योऽप्यभाषत ।
“नायं लोकोऽस्ति कौन्तेय ! न परः संशयात्मनः” ॥ ७३ ॥ इति ॥
स्थलविशेषे संशयोत्पत्तावपि न प्रामाण्यस्वतस्त्वहानिः यत्रापि च क्वचिद्बाधकप्रत्यये संशयो जायते तत्रापि तृतीयज्ञानापेक्षणान्नानवस्था । न च तावता स्वतःप्रामाण्यहानिः । यत्र प्रथमविज्ञानसंवादि तृतीयज्ञानमुत्पद्यते तत्र प्रथमस्य प्रामाण्यमौत्सर्गिकं स्थितमेव । द्वितीयविज्ञानारोपितालीककालुष्यशङ्कानिराकरणं त्वत्य तृतीयेन क्रियते; न त्वस्य संवादात् प्रामाण्यम् ॥ इत्यायास्यतीति चेत्, संशयत्वं—अप्रमात्वमिति न पर्यायः । अतो न दोष इति भावः । ननु सामान्यत उत्पन्नेऽपि ज्ञाने “इदं ज्ञानं प्रमा ? न वा ?” इति संशयस्य कुत्रचित् दर्शनात्, प्रमात्वे गृहीते तादृशसंशयानुत्पादात्, सर्वत्र संशयः कल्पनीय इति शङ्कां तीक्ष्णोक्तिभिः समाधत्ते—हठादिति । अत्र संशय इत्याकर्षः । मातरि—विषयसप्तमी । भार्यायामिति शेषः । पाराशर्यः—व्यासः । “संशयात्मा विनश्यति” [गी। ४-४०] इति क्रमः । नायमिति । “नायं लोकोऽस्ति न परः न सुखं संशयात्मनः” [गी। ४-४०] इति प्रायः पाठः ॥
बाधकप्रत्यये इति निमित्तसप्तमी । तेन प्रामाण्यस्यैबौत्सर्गिकत्वमुक्तम् । कुतो न हानिः ? इत्यत्राह—यत्रेति । आद्यं रजतज्ञानं, द्वितीयं— “ममोत्पन्नं ज्ञानं प्रमा ? न वा ?” इति संशयरूपम्, तृतीयं आद्यज्ञानसंवादि “रजतमेवेदम्” इति । अनेन द्वितीयज्ञानारोपिताप्रामाण्याशङ्कानिवर्तनमात्रं क्रियते, न तु नूतनतया प्रामाण्यग्रहः । यदा च तृतीयं ज्ञानं “नेदं रजतं” इत्येवंरूपं, तदा तत् बाधकज्ञानरूपमेवेति तेनाप्रामाण्यमेव गृह्यते । अप्रामाण्यस्य परतस्त्ववादिनां तु तदिष्टमेव ॥
यदि तु द्वितीयज्ञानसंवादि तृतीयं ज्ञानं तदा प्रथमस्याप्रामाण्यम् । तच्च परत इष्टमेव । द्वितीयस्य तु ज्ञानस्य न तृतीयसंवादकृतं प्रामाण्यम्; अपि तु सङ्कल्प्यमानकुशङ्काऽऽचमनमात्रे तस्य व्यापारः । उक्तं च [श्लो। वा। १-१-२-६१] —
“
एवं त्रिचतुरज्ञानजन्मनो नाधिका मतिः ।
प्रार्थ्यते, तावतैवैकं स्वतःप्रामाण्यमश्नुते इति ॥
” शब्दस्यापि स्वतःप्रामाण्यम्
तदेवं सर्वप्रमाणानां स्वतःप्रामाण्ये सिद्धे समानन्यायतया शब्दस्यापि तथैव प्रामाण्यं भवति । न च नैसर्गिकमर्थासंस्पर्शित्वमेव शब्दस्य स्वरूपमिति परीक्षितमेतत् [पु। ४१६] । किन्त्वर्थबोधजनकत्वात्तस्य नैसर्गिके प्रामाण्ये सति पुरुषदोषानुप्रवेशकारितः क्वचिद्धि विप्लवः । तदुक्तम् [श्लो। वा। १-१-२-६२] —
“शब्दे दोषोद्भवस्तावद्वक्त्रधीन इति स्थितम्” इति ॥
लौकिकवैदिकशब्दानां सर्वेषां स्वतः प्रामाण्यम्
तत्र पौरेषेये वचसि गुणवति वक्तरि तद्गुणापसारितदोषतया तत्प्रामाण्यमौत्सर्गिकमनपोदितं भवति । न तु गुणकृतं तत्प्रामाण्यम्, अनङ्गत्वात्प्रामाण्ये गुणानाम् । बोधकत्वनिबन्धनमेव तदित्युक्तम् ।
ननु तृतीयज्ञानेन आद्यज्ञानेऽप्रामाण्ये गृहीते तेन द्वितीयं ज्ञानं प्रमेत्यावेदितं भवत्येव । ततश्च प्रामाण्यमपि परत एवेत्यत्राह—द्वितीयस्य त्विति । प्रथमज्ञानार्थमेवोत्पन्नं तृतीयज्ञानं द्वितीयज्ञाने न व्यापारयेदिति भावः । जन्मनः इति पञ्चमी । तृतीयज्ञानं निर्दुष्टं चेत् तावतैव आद्यज्ञाने प्रामाण्यनिर्णयः । यदि च तृतीयज्ञानेऽपि दोषशङ्का, तदा चतुर्थज्ञानेन द्वितीयं ज्ञानं संरक्ष्यते इति तदुपरि सम्बादापेक्षा नास्त्येव, यतः पञ्चमज्ञानेन साध्यं द्वितीयेनैव साध्यते । नैसर्गिके—औत्सर्गिके ॥
तत्—प्रामाण्यम् । अर्थप्रकाशकत्वे प्राप्ते प्रामाण्यमपि प्राप्यत एवेत्युक्तं
वेदे तु प्रणेतुः पुरुषस्याभावात् दोषाशङ्कैव न प्रवर्तते, वक्त्रधीनत्वाद्दोषाणाम् । न च बाधकप्रत्ययोऽद्य यावद्वेदार्थे कस्य चिदुत्पन्न इति निरपवादं वेदप्रामाण्यम् । आह च [श्लो। वा। १-१-२-६८] — “
तत्रापवादनिर्मुक्तिर्वक्त्रभावाल्लधीयसी ।
वेदे तेनाप्रमाणत्वं न शङ्कामधिगच्छति इति ॥
” तदिदमुक्तम्—“तत्प्रमाणं बादरायणस्यानपेक्षत्वात्” [जै। सू। १-१-५] इति ॥
दोषाभावमात्रं प्रामाण्यप्रयोजकं, न गुणोऽपि
गिरां मिथ्यात्वहेतूनां दोषाणां पुरुषाश्रयात् ।
अपौरुषेयं सत्यार्थमिति युक्तं प्रचक्षते ॥ ७४ ॥
गिरां सत्यत्वहेतूनां गुणानां पुरुषाश्रयात् ।
पौरुषेयं तु सत्यार्थमित्ययुक्तं तु मन्वते ॥ ७५ ॥
न हि पुरुषगुणानां सत्यतासाधनत्वं
वचसि खलु निसर्गादेव सत्यत्वसिद्धिः ।
गुणमपि नरवाचां विप्लवाधायिदोष-
प्रशमनचरितार्थं सङ्गिरन्ते गुणज्ञाः ॥ ७६ ॥
—परतः प्रामाण्यसाधनोपक्रमः—वेदे प्रामाण्यनिश्चयस्यावश्यकता अत्राभिधीयते—प्रत्यक्षादिषु दृष्टार्थेषु प्रमाणेषु प्रामाण्यनिश्चयमन्तरेणैव व्यवहारसिद्धेस्तत्र किं स्वतः प्रामाण्यम् ? उत परतः ? इति विचारेण न नः प्रयोजनम्; अनिर्णय एव तत्र श्रेयान् । अदृष्टे पूर्वम् [पु। ४२४] । अनपेक्षत्वात्—स्वप्रामाण्ये परापेक्षाभावात् ॥
कुतस्तथा मन्वते ? इत्यत्राह—न हीति । गुणमिति । क्वचिदिति शेषः ॥
तु विषये वैदिकेष्वगणितद्रविणवितरणादिक्लेशसाध्येषु कर्मसु तत्प्रामाण्यावधारणमन्तरेण प्रेक्षावतां प्रवर्तनमनुचितमिति तस्य प्रामाण्यनिश्चयोऽवश्यकर्तव्यः । तत्र परत एव वेदस्य प्रामाण्यमिति वक्ष्यामः ॥
प्रत्यक्षादावपि स्वतः प्रामाण्यं किं उत्पत्तौ ? उत ज्ञप्तौ ?
यच्चेदमियता विस्तरेण स्वतः प्रामाण्यमुपपादितं, तत् व्याख्येयम् । स्वतः प्रामाण्यमिति कोऽर्थः ? किं स्वत एव प्रमाणस्य प्रामाण्यं भवति ? उत स्वयमेव तत् प्रमाणमात्मनः प्रामाण्यं गृह्णाति ? इति ॥
ज्ञाप्तौ प्रामाण्यस्य स्वतस्त्वं न सम्भवति
न तावत् स्वयमेव प्रामाण्यग्रहणमुपपन्नम्; अप्रामाणिकत्वात् । तथा हि—यदेतन्नीलप्रकाशने प्रवृत्तं प्रत्यक्षं तन्नीलं प्रति तावत् प्रत्यक्षं, प्रमाणं तावदिन्द्रियार्थसन्निकर्षोत्पन्नमिति जानीम एवैतत्; किमत्र विचार्यते ?
प्रामाण्यपरिच्छेदे तु किं तत् प्रमाणमिति चिन्त्यताम् । प्रत्यक्षम् ? अनुमानं वा ? प्रमाणान्तराणामनाशङ्कनीयत्वात् ॥
वक्ष्याम इति । अत्रैवाह्निके विपरीतख्यातिसमर्थनानन्तरं वक्ष्यति ॥
नीलं प्रतीति । विषयं प्रति प्रकाशरूपं तत्, नात्मानं प्रतीत्यर्थः । ज्ञानानुमेयतावादिनां भाट्टानामेवात्र पूर्वपक्षित्वमिति स्मर्तव्यम् । ज्ञानस्वप्रकाशत्ववादस्तु नवमाह्निके परीक्ष्यते । इन्द्रियार्थसन्निकर्षोत्पन्नत्वात् स्वरूपतः प्रमाणम् । एतदुभयांशे न चर्चा । प्रामाण्यं उत्पत्तावपि परत एवेति आद्यः कल्पः उपरिष्टात् विचार्यते । ग्रहणस्यैव मुख्यत्वात् बुध्या सन्निहितत्वाद्वा एतत्कल्पस्य प्रथमं विचारः ॥
प्रमाणान्तराणामित्यादि । उपमानं शक्तिग्राहकं प्रमाणम्, अतिदेशवाक्यमूलकं च । शाब्दस्थले तु परत एव प्रामाण्यमित्यनुपदमुक्तम् ॥
प्रत्यक्षेण स्वगतप्रामाण्यग्रहणासम्भवः
न तावत् स्वप्रामाण्यपरिच्छेदे तत्प्रत्यक्षं प्रमाणम्, तद्धि ज्ञानस्य वा प्रामाण्यं गृह्णीयात् तत्फलस्य वा । तत्र ज्ञातृव्यापारात्मनो ज्ञानस्य भवन्मते नित्यपरोक्षत्वात्, प्रत्यक्षस्य स्वतः परिच्छेदानुपपत्तौ तत्प्रामाण्यस्यापि कथं प्रत्यक्षेण ग्रहणम् ॥
फलस्याप्यर्थप्रकाशनाख्यस्य संवेदनात्मनो नेन्द्रसंसर्गयोग्यता विद्यते, येन तद्गतमपि यथाऽर्थत्वलक्षणं प्रामाण्यमिन्द्रियव्यापारलब्धजन्मना प्रत्यक्षेण परिच्छिद्येत ॥
न च मानसमपि प्रत्यक्षं फलगतयथाऽर्थतावसायसमर्थमिति कथनीयम्, तदानीमननुभूयमानत्वात् । न हि नीलसंवित्प्रसवसमनन्तरं यथाऽर्थेयं नीलसंवित्तिरिति संवेदनान्तरमुत्पद्यमानमनुभूयते । अनुभवे वा ततो द्वितीयात्प्रथमोत्पन्ननीलज्ञानयाथार्थ्यग्रहणान्न स्वतःप्रामाण्यनिश्चयः स्यात् । तस्मान्न प्रत्यक्षस्यैष विषयः ॥
अनुमानेन स्वगतप्रामाण्यग्रहणासम्भवः
अनुमानेनापि कस्य प्रामाण्यं निश्चीयते ? ज्ञानस्य ? फलस्य वा ? इति पूर्ववद्वाच्यम् । फलस्य तावत्तन्निश्चये लिङ्गत्वमेव तावन्न कस्यचित्पश्यामः । ज्ञातृव्यापरात्मनो ज्ञानस्य तु स्वकार्यं भवेदपि लिङ्गम्, फलस्य क्रियामात्रव्याप्तिग्रहणात्स्वरूपसत्तामात्र-
भवन्मते—भट्टमते । ज्ञानसामान्यं अतीन्द्रियं, ज्ञाततालिङ्गकानुमितिग्रह्यमिति मते प्रत्यक्षं आत्मानमप्यगृह्णत् स्वगतं प्रामाण्यं कथं स्वयं गृह्णीयात् ?
अननुभूयमानत्वात् । ज्ञानानामयौगपद्यात् । ननु ज्ञानायौगपद्येऽपि तद्गर्भत्वादुत्तरस्य मानसप्रत्यक्षस्य तद्गतं प्रामाण्यं गृह्यत एवेति चेत्, तर्हि परतः प्रामाण्यमेवागतभित्याह—अनुभवे वेति ॥
फलस्य तावदिति । फलं हि स्वकारणानुमाने लिङ्गं भवितुमर्हति, कार्येण कारणानुमानात् । न तु फलस्यानुमानेऽन्यल्लिङ्गं, भवेत् । स्वकार्यं— उक्तज्ञानफलम् । क्रियामात्रेति । फलेन हि तद्धेतुभूतज्ञानरूपक्रियामात्र
मनुमापयितुमुत्सहते, न यथाऽर्थत्वलक्षणं प्रामाण्यम् । तद्धि फलं निर्विशेषणं वा स्वकारणस्य ज्ञातृव्यापारस्य प्रामाण्यनुमापयेत् ? यथार्थत्वविशिष्टं वा ? आद्ये पक्षे यतः कुतश्चन फलात् तत्प्रामाण्यानुमाने नेदानिं किञ्चिदप्रमाणं भवेत् । उत्तरोऽपि नास्ति पक्षः, फलगतयाथाऽर्थ्यपरिच्छेदोपायाभावादित्युक्तम् ॥
प्रमाण्यस्य स्वतस्त्वे यथार्थायथार्थज्ञानयोरविशेषापत्तिः
ननु ! स्वानुभव एवात्रोपायः । तद्धि नीलसंवेदनतया फलं स्वत एव प्रकाशते । नीलसंवेदनत्वमेव चास्य यथाऽर्थत्वं, नान्यत्—यद्येवं शुक्तिकायामपि रजतसंवेदने समानो न्यायः । न हि रजतसंवेदनादन्या यथाऽर्थत्वसंवित्तिरिति ॥
प्रामाण्यग्रहस्यौत्सर्गिकत्वं न युक्तम्
ननु ! तत्र बाधकप्रत्ययोपनिपातेनायथाऽर्थत्वमुपनीयते । नूनं चास्य मिथ्यादर्शनेषु देशान्तरे वा शुक्तिकारजतादिज्ञाने, कालान्तरे कूटकार्षापणादिप्रतीतौ, पुरुषान्तरे वा जाततैमिरिके द्विचन्द्रप्रतीतौ, अवस्थान्तरे पीतशङ्खादिप्रतिभासे भवति बाधक प्रत्ययः । तदसत्त्वे न तच्छङ्का युक्तिमतीत्युक्तमेव ॥
मेवानुमातुं शक्यं, न तु तद्गतप्रामाण्यमपि । एतदेव विशदयति—तद्धीति । निर्विशेषणं फलं—यत्किञ्चित्फलम् । यतःकुतश्च नेति । भ्रमात्मकज्ञानस्यापि तदनुगुणं फलं अस्त्येव । उक्तं, अनुपदमेव ॥
नीलसंवेदनतयेति । न हि संवेदनमात्रं फलं; असम्भवात्, अप्रयो जकत्वाच्च । शुक्तिकायामपीति । न हि शुक्तिरजतज्ञानसत्यरजतज्ञानयोरुत्पत्तिकाले कश्चन विशेषः अनुभवसिद्ध इत्यर्थः ॥
ननु यत्रानन्तरं बाधकज्ञानमनुत्पन्नं तत्राप्रामाण्यग्रहः कथम् ? इति शङ्क्तायां, देशान्तरे, कालान्तरे, पुरुषान्तरे, अवस्थान्तरे वा बाधकप्रत्ययः स्यादेवेत्याह—नूनं चेति । उक्तमेव—“दोषज्ञाने त्वन्ने” [पु-४३२।] इत्यादि ॥
सत्यमुक्तमयुक्तं तु । एवं हि वदता बाधकाभावज्ञानाधीनं प्रामाण्यमभिहितं भवति । तच्च तात्कालिकं ? कालान्तरभावी वा ? इति कल्प्यमानं नोपपद्यत इति दर्शितम् [पु-४२६] । तस्मादुत्पद्यमानमेव प्रमाणमात्मनः प्रामाण्यं निश्चिनोतीति न युक्तमेतत् ॥
प्रामाण्यसंशयादेव प्रवृत्तिर्युज्यते
यदि तु प्रसवसमय एव ज्ञानस्य प्रामाण्यं निश्चिनुयामः, तर्हि ततः प्रवर्तमाना न क्वचिदपि विप्रलभ्येमहि; विप्रलभ्यामहे तु । तेन मन्यामहे—न निश्चितं तत्प्रामाण्यं, संशयादेव व्यवहराम इति ॥
प्राथमिकज्ञानं एकतरकोटिकसंशयरूपमेव
ननु ! संशयोऽपि तदा नानुभूयत एव “किमिदं रजतम् ? उत न रजतम् ?” इति; अपि तु रजतमित्येव प्रतीतिः । न हि संशयानाः प्रवर्तन्ते लौकिकाः; किन्तु निश्चिन्वन्त एव विषयमिति किमननुभूयमान एवारोप्यते संशयः ?
एकतरग्राह्यप्ययं प्रत्ययः, तन्निश्चयोपायविरहात् संशयकोटिपतित एव बलाद्भवति, यथा—अस्ति कूपे जलमिति भिक्षवो
प्रसवसमयः—उत्पत्तिक्षणः । पूर्वं हि प्रामाण्यनिश्चयस्य प्रवृत्त्यनङ्गत्वं साधितमेव । तत्रैवं प्रवृत्त्यर्थमपि प्रामाण्यनिश्चयानपेक्षणात्, प्रवृत्त्यनन्तरं तु सुतरां तदनपेक्षणात्, ज्ञानोत्पत्तिकाल एव यदि न गृहीतं प्रामाण्यं, तर्हि कदापि ग्रहणं न स्यादित्यतः प्रामाण्यं स्वत इति सिद्धं—इति खलु तेषां वादः । एवञ्च प्रामाण्यनिश्चयस्य प्रवृत्त्यनङ्गत्वात्, तदानीं तदग्रहणमपि युज्यत एव । तर्हि कदापि तद्ग्रहणं न स्यादित्येतत्तु पृथग्विचारयामः । परन्तु ज्ञानोत्पत्तिकाले प्रामाण्याग्रहणमित्येव युक्तमिति भावः ॥
रजतमित्येवेति । न हि तत्र कोठ्यन्तरोपस्थितिर्दृश्यते ॥
संशयकोटिपतित एवेति । अयमत्र निष्कर्षः—“एवं भिक्षवो मन्यन्ते ।” इति कथने, वाक्यात् कोठ्यन्तरानुल्लेखनेऽपि अस्त्येव मानसिकी कोठ्यन्तरोपस्थितिः । कुत्रचित् अन्यतरकोटेः औत्कट्यादपि कोठ्यन्तरानु
मन्यन्ते—इति । एवं रजतमिदमित्येकपक्षग्राह्यपि तदानीं प्रतिभासः वस्तुवृत्तेन संशय एव । यदि हि प्रमाणतयाऽसौ गृह्येत, कथं क्वचिद्विसंवदेत् ? अप्रमाणतया तु गृह्यमाणः कथं पुमांसं प्रवर्तयेत् ?
उभाभ्यामपि रूपाभ्यां अथ तस्यानुपग्रहः ।
सोऽयं संशय एव स्यात् इति किं नः प्रकुप्यसि ? ॥ ७७ ॥
प्राथमिकज्ञानस्य संशयात्मकापर्यवसानम् यत्तु नानुभूयते संशय इति—सत्यम्—अननुभूयमानोऽपि न्यायादभ्यस्ते विषयेऽविनाभावस्मरणात् स परिकल्प्यते; निश्चयनिमित्तस्य तदानीमविद्यमानत्वात् । संशयजननहेतोश्च सामग्र्याः सन्निहितत्वात् । तथा हि—यथाऽर्थेतरार्थसाधारणो धर्मो बोधरूपत्वमूर्ध्वत्वादिवत् तदा प्रकाशत एव । न च प्रामाण्याविनाभावी विशेषः कश्चन तदानीमवभाति । तदग्रहणे च समानधर्माधिगमप्रबोध्यमानवासनाधीना तत्सहचरितपर्यायानुभूतविशेषस्मृतिरपि सम्भवत्येवेतीयतीयं सा संशयजननी सामग्री सन्निहितैवेति कथं तज्जन्यः संशयः न स्यात् ? प्राथमिकज्ञाने तत्काले तत्र विशेषग्रहणासम्भवः ननु ! प्रमाणभूते प्रत्यये जायमान एव तद्गतो विशेषः परिस्फुरतीति कथं विशेषाग्रहणमुच्यते ? ल्लेखः, कुत्रचित्तु कोट्यन्तरानुल्लेखः अवसराभावादपि । इदमेव ज्ञानं संशयक्षमं अनवधारणात्मकं प्राथमिकप्रवृत्तिहेतुः । एतेन “कोटिद्वयानवमर्शात्” [पु-४४१] इति वक्ष्यमाणेन न विरोधः । ४४२ पुटोऽपि द्रष्टव्यः ॥
उभाभ्यां—प्रामाण्याप्रामाण्याभ्याम् ॥
संशयः—संशयरूपः । अभ्यस्ते—असकृदनुभूते । एताद्दशेषु इतरस्थलेषु तथानुभवात् इत्यर्थः । इतरार्थः—अयथार्थः ॥
जायमान एवेति । अयमर्थः [४३० पु] पूर्वमुपपादितः ॥
भो महात्मन् ! कथ्यतां सः विशेषः । न हि तं वयमनुपदिष्टं कृशमतयो जानीमः । यदि तावत् स्पष्टता विशेषः; शुक्तिकायामपि रजतावभासः स्पष्ट एव ! न हि तत्रानध्यवसायकालुष्यं किञ्चिदस्ति ॥
अथ निष्कम्पता, शुक्तिकायामपि रजतावभासो निष्कम्प एव । न ह्यसौ जायमान एवाङ्गुंल्यग्रादिवाक्यकरणबोधवत्कम्पमानो जायते ॥
अथ निर्विचिकित्सता, शुक्तिकायामपि रजतावभासो निर्विचिकित्स एव, किंस्विदिति कोटिद्वयानवमर्शात् ॥
अथ यस्मिन् सति बाधा न दृश्यते सोऽस्य विशेष इति, नन्वेतदेव पृच्छामि—कस्मिन् सति बाधा न दृश्यत इति; सर्वावस्थस्य बाधदर्शनात् । न चासौ चिरमपि चिन्तयित्वा विशेषो दर्शयितुं शक्यः ॥
अथ स्वविषयाव्यभिचारित्वमेव विशेषः; स तदानीं नावभासत इत्युक्तम् [पु ४२७] । अपि च यदि तथाविधोऽपि विशेषः समस्ति, तर्हि यत्र ज्ञानेऽसौ न दृश्यते, ततः किमिति प्रवर्तते ? तद्विशेषदर्शी वा प्रवर्तमानः कथं विप्रलभ्येतेत्युक्तम् ॥
प्राथमिकज्ञानस्यानिर्णयात्मकत्वेऽपि न प्रवृत्त्यादिविरोधः
यदयं स्थाणुपुरुषसंशयवदसंवेद्यमानोऽपि तदानीमस्त्येव बोधे यथाऽर्थेतरत्वसंशयः ॥
स्पष्ट एवेति । न हि विषयप्रकाशनांशे वैलक्षण्यं दृश्यते ॥
निष्कम्पता—विषयाचाञ्चल्यम्, निष्कम्पप्रवृत्त्यङ्गतोपयुक्तम् ॥
निर्विचिकित्सता—असंशयरूपता, इयं च प्रवृत्त्यौत्कट्यप्रतिबन्धिका ॥
यस्मन्नित्यादि—बाधदर्शनानर्हतेति यावत् । सर्वावस्थस्येति । वस्तुतः प्रमात्मकमपि ज्ञानं कदाचित् विप्रलम्भकवाक्यादिभिः अगृहीतदोषैः बाध्यत एव ॥
किमिति—कथम् ?
आद्यज्ञानविषये [४३९ पुटे टीका] पूर्वोक्तं अभिसन्धायाह—स्थाणुपुरुषेत्यादि ॥
न चासौ कल्प्यमानोऽपि व्यवहारस्य लोपकः ।
तेनैव व्यवहारस्य सिद्धत्वात्सर्वदेहिनाम् ॥ ७८ ॥
अतश्च संशयादेव व्यवहारं वितन्वताम् ।
लौकिकानां प्रयोक्तव्याः नाभिशापपरम्म्पराः ॥ ७९ ॥
प्राथमिकज्ञानं अनवधारणरूपम्
न च सर्वथा संशयसमर्थनेऽस्माकमभिनिवेशः । प्रामाण्यं तु ज्ञानोत्पत्तिकाले गृहीतुमशक्यमिति नः पक्षः । प्रामाण्याग्रहणमेवानध्यवसायस्वभावं संशयशब्देनेह व्यपदेक्ष्यामः । प्रामाण्याग्रहणं च प्रदर्शितम्; प्रत्यक्षेणानुमानेन वा सता प्रमाणेनात्मनः प्रमाणत्वपरिच्छेदायोगात् । तस्मात् स्वयं प्रामाण्यं गृह्यत इत्येष दुर्घटः पक्षः ॥
प्रामाण्यं स्वत उत्पद्यत इति पक्षोऽपि न युक्तः
अथ स्वतः प्रामाण्यं भवतीत्येष पक्ष आश्रीयते, सोऽप्ययुक्तः । कार्याणां कारणाधीनजन्मत्वात्, प्रामाण्यस्य च कार्यत्वात् । अस्ति च प्रामाण्यम्, वस्तु च तत्, न च नित्यम्, इति कार्यमेव तत् । कार्यं च कार्यत्वादेव न स्वतो भवितुमर्हति इति ॥
प्रमाणज्ञानं न ज्ञानसामान्यसामग्रीजन्यम्
अथोत्पत्तौ स्वकारकातिरिक्तगुणानपेक्षित्वमेव प्रामाण्यस्य स्वतोभवनमुच्यते, न पुनरकार्यत्वमेवेति—तदप्यसम्यक्—सम्यग्रूपस्य कार्यस्य गुणवत्कारकव्यतिरेकेणानिष्पत्तेः । द्विविधं कार्यं
ननु संशयात् प्रवृत्तिः कथमित्यत्राह—न चेत्यादि । तेनैव— अनवधारणात्मकज्ञानेनैव । क्वचिदनधिकव्ययायाससाध्ये, अतादृशेऽपि उत्साहाद्यतिशये सति वा, संशयादपि प्रवृत्तिः लोके दृश्यत इत्यप्यवधेयम् ॥
कार्याणामित्यादि । “स्वत उत्पद्यते” इत्युक्ते शब्दतः कारणसामान्यापेक्षाभावः प्रतीयते इति इदं दूषणमुक्तम् ॥
“स्वत उत्पद्यते” इत्यस्य तत्सम्मतमर्थमनूद्य दूषयति—अथेति । स्वं—ज्ञानम् ॥
भवति, सम्यगसम्यग्वा । तत्र गुणवता कारणेन सम्यक्कार्यमुत्पद्यते, दोषवता त्वसम्यगिति ॥
सामान्यसामग्रीजन्यं तु कार्यं कुत्रापि न भवति
निर्दोषं निर्गुणं वाऽपि न समस्त्येव कारणम् ।
अत एव तृतीयस्य न कार्यस्यास्ति सम्भवः ॥ ८० ॥
सम्यज्ज्ञानोत्पादकं कारकं धर्मिस्वरूपातिरिक्तस्वगतधर्मसापेक्षं कार्यनिर्वर्तकमिति साध्यो धर्मः, कारकत्वात्, मिथ्याज्ञानोत्पादककारकवत् । सम्यज्ज्ञानं वा धर्मि, स्वरूपातिरिक्तधर्मसम्बद्ध कारकनिष्पाद्यमिति साध्यो धर्मः, कार्यत्वात्, मिथ्याज्ञानवत् ॥
प्रमाहेतोः गुणस्य सद्भावे प्रमाणम्
आयुर्वेदागमाच्चेन्द्रियगुणान् प्रतिपद्यामहे । यदमी वैद्याः स्वस्थवृत्तेरौषधोपयोगमुपदिशन्ति, तत् गुणोपयोगायैव; न दोषशान्तये । दृश्यते च तदुपदिष्टौषधोपयोगादिन्द्रियातिशयः । तद्विषय
निर्दोषमित्यादि । “निर्विशेषं न सामान्यम्” इति हि न्यायः । नीलपीतादियाबद्धटविशेषा एव हि घटसामान्यं नाम । नीलपीतादिविशेषरहितं घटो नाम सामान्यं किञ्चिन्नास्त्येव । अत एव घटोत्पत्तिस्थले नीलाद्यन्यतरविशेषसामग्री आवश्यकी । तत्परित्यज्य घटसामान्यसामग्रीति न काचिदऽस्ति । यद्यपि सामान्यकार्यकारणभावः विशेषकार्यकारणभावः इत्यादिव्यवहारोस्ति, परन्तु इदं निरूपणमात्रम् । विषयदृष्ट्या तु विशेषसामग्रीमन्तरा सामान्यसामग्री न तिष्ठेदेव । न हि नीरूपः कश्चित्कपालः तिष्ठेत् । एवं ज्ञानं प्रमाभ्रमभेदभिन्नं चेत्, तयोस्सामग्रीभेदोऽपि दुरपह्नवः । अतश्च ज्ञानसामान्यसामग्र्यैव प्रमाया उत्पत्तिरिति बालिशभाषितम् ॥
सम्यज्ज्ञानेत्यादि । आद्यं अनुमानं सामग्रीपक्षकं, द्वितीयं सामग्र्य [कार्य] पक्षकम् ॥
आयुर्वेदपदं सञ्ज्ञाऽत्र । ननु आयुर्वेदः रोगरूपदोषनिवृत्तिमेव वक्ति, न तु गुणमपीति चेत्तत्राह—स्वस्थवृत्तेरिति । रोगनिवृत्त्यनन्तरमपि हि पुष्टयादिगुणलाभायाप्यौषधमुपदिश्यत एव ॥
एव च लोके नैर्मल्यव्यपदेशः, न दोषाभावमात्रप्रतिष्ठ इत्यलं विमर्देन । तस्मादुत्पत्तौ गुणानपेक्षत्वात् स्वतःप्रामाण्यमिति यदुक्तं तदयुक्तम् ॥
केवलस्य प्रमाणस्य स्वकार्ये न परानपेक्षत्वम्
यदपि च स्वकार्यकरणे प्रमाणस्य परानपेक्षत्वमुच्यते—तदपि व्याख्येयम् । किं प्रमाणं स्वकार्यकरणे निरपेक्षम् ? सामग्री वा ? तदेकदेशो वा ? तज्जन्यं वा ज्ञानमिति ॥
तत्र सामग्र्याः सत्यं स्वकार्यजन्मनि नैरपेक्ष्यमस्ति । न तु तावता स्वतः प्रामाण्यम्, तत्परिच्छेदस्य परायत्तत्वात् ॥
सामग्र्यन्तर्गतकारकस्य स्वकार्ये परापेक्षत्वमपरिहार्यम्; एकस्मात् कारकात्कार्यनिर्वृत्त्यभावात् ॥
ज्ञानं फलमेव, न प्रमाणमित्युक्तम् [पु। १८२] । न च फलात्मनस्तस्य स्वकार्यं किञ्चिदस्ति, यत्र सापेक्षत्वमनपेक्षत्वं वाऽस्य चिन्त्येत । पुरुषप्रवृत्त्यादौ तु तदिच्छाद्यपेक्षत्वं विद्यत एवेति यत्किञ्चिदेतत् ॥
प्रामाण्यनिश्चयस्य पराधीनत्वम्
यदपि प्रामाण्यनिश्रये नैरपेक्ष्यमभ्यधायि [पु। ४२५] —तदपि न साम्प्रतम् । प्रामाण्यनिश्चयस्य हि द्वयी गतिः, नास्तित्वम्, कारणापेक्षिता वा; न पुनरस्ति च प्रामाण्यनिश्चयः, कारणानपेक्षश्चेति
किं प्रमाणमिति । प्रमाणपदं हि प्रमायां तत्करणे च वर्तते । प्रमाकरणमपि यावत्सामग्रीरूपं, प्रत्येकशोऽपि, प्रत्येकमपि करणत्वानपायात् । तथा च सामग्र्याः स्वकार्यकरणे नैरपेक्ष्यमुच्यते ? उत प्रत्येकं करणस्य तत्त्वमुच्यते ? उत फलरूपप्रमायाः तत्त्वमुच्यते ? इति विकल्पः ॥
सत्यं नैरपेक्ष्यमिति । इतरापेक्षायां हि सामग्रीवैकल्यं सिद्धमेव । न त्विति । प्रमासामग्री हि प्रमां जनयेत्, न तु प्रमात्वमवगमयेत् ॥
पूर्वं “तस्य प्रमाणभावे तु फलं हानादिबुद्धयः” [पु। १७४] इत्युक्तं स्मरन्नाह—पुरुषेति ॥
द्वयी गतिरिति । तृतीया तु गतिः सदातनत्वरूपाऽननुभवपराहता ।
शक्यते वक्तुम् । तत्र प्रथमप्रवर्तकप्रतिभासप्रसवसमये तावन्नास्त्येव प्रामाण्यनिश्चय इत्युक्तम् [पु। ४४०] । न हि नीलग्राहिणा प्रमाणेन नीलस्वरूपमिव स्वप्रामाण्यमपि तदानीं निश्चेतुं शक्यत इति । कालान्तरे तत्प्रामाण्यनिश्चयः सत्यमस्ति, न तु तत्र नैरपेक्ष्यम्, प्रवृत्तिसामर्थ्याधीनत्वात्तन्निश्चयस्य ॥
ज्ञानानामस्थिरत्वेऽपि प्रामाण्यं परतोग्रहीतुं शक्यम्
ननु । क्षणिकत्वात्कालान्तरे ज्ञानमेव नास्ति, कस्य प्रामाण्यं निश्चिनुमः ? शिशुचोद्यमेतत्—अप्रामाण्यमपि बाधकप्रत्ययादिना कालान्तरे कस्य निश्चिनुमः ? क्षणिकत्वेन ज्ञानस्यातीतत्वात् । अतिक्रान्तस्यापि स्मर्यमाणस्य ज्ञानस्य, तदुत्पादकस्य वा वर्तमानस्य कारकचक्रस्येति चेत्—प्रामाण्यनिश्चयेऽपि समानोऽयं पन्थाः ॥
प्रामाण्यस्य परतोग्रहणेऽपि नान्योन्याश्रयादिः
यत्पुनः कालान्तरे तन्निश्चयकरणे दूषणम्—इतरेतराश्रयत्वं वा ? मुण्डितशिरोनक्षत्रान्वेषणवद्वैयर्थ्यं वेति वर्णितम् [पु। ४२८] — तत्रादृष्टे विषये प्रामाण्यनिश्चयपूर्विकायाः प्रवृत्तेरभ्युपगमान्नेतरेतराश्रयं चक्रकं वा । दृष्टे विषये ह्यनिर्णीतप्रामाण्य एवार्थसंशयात् प्रवृत्तिरूपम्, अनर्थसंशयाच्च निवृत्त्यात्मकं व्यवहारमारभमाणो दृश्यते लोकः । एतदेव युक्तमित्युक्तं [पु। ४३९] न प्रामाण्यनिश्चयपुरस्सरं प्रवर्तनमिति कुत इतरेतारश्रयम् ॥
प्रवृत्तीत्यादि । न हि कालान्तरेऽपि पूर्वोत्पन्नप्रमाणसामग्री अवतिष्ठेत ॥
अप्रामाण्यमपीति । अप्रामाण्यं परत इति हि तन्मतम् । पूर्णसामग्र्याः सत्त्वे कार्यावश्यम्भवात्, कार्यस्य पूर्वमेव निष्पन्नत्वात् वर्तमानस्य कारकचक्रस्येत्युक्तम् ॥
अनर्थसंशयात्—बलवदनिष्टानुबन्धित्वसंशयात् । प्रवर्तनं नोक्तं इत्यन्वयः ॥
वैयर्थ्यं तु दृष्टे विषये सत्यमिष्यते, किन्तु तत्र प्रवृत्तिसामर्थ्येन प्रामाण्यं निश्चिन्वन् आप्तोक्तत्वस्य हेतोः प्रामाण्येन व्याप्तिमवगच्छतीति अदृष्टविषयोपयोगिवेदादिप्रमाणप्रामाण्यपरिच्छेदे पारम्पर्येणोपायत्वात् स्वविषये व्यर्थोऽप्यसौ तत्र सार्थकतामवलम्बत इत्यदोषः ॥
प्रवृत्तिसामर्थ्यं नाम अर्थक्रियाज्ञानमेव
किं पुनरिदं प्रवृत्तिसामर्थ्यं नाम ? यतः प्रामाण्यनिश्चयमाचक्षते नैय्यायिकाः—उच्यते—पूर्वप्रत्ययापेक्षोत्तरा संवित् प्रवृत्तिसामर्थ्यं, विशेषदर्शनं वेति पूर्वाचार्यैस्तत्स्वरूपमुक्तम् । तत्पुनर्नातीव हृदयङ्गममिति भाष्यकृतैव—“समीहा प्रवृत्तिरित्युच्यते, सामर्थ्यं पुनरस्याः फलेनाभिसम्बन्धः” इति वदताऽर्थक्रियाख्यफलज्ञानमेव प्रवृत्तिसामर्थ्यमिति निर्णीतम् ॥
अर्थक्रियाज्ञाने प्रामाण्यगवेषणमनपेक्षितम्
यत्पुनः अर्थक्रियाज्ञानस्यापि पूर्वस्मात् को विशेषः ? तस्यापि चान्यतः प्रामाण्यनिश्चयापेक्षायामनवस्थेत्युक्तम् [पु। ४२७] — तदपि सकलप्राणभृत्प्रतीतिसाक्षिकव्यवहारविरोधित्वादसम्बद्धाभि
ननु तर्हि लोकोऽपि कुत्रचित् दृश्यमानायाः प्रामाण्यनिश्चयार्थप्रवृत्तेः का गतिः ? इति चेत्, न सर्वथा वैय्यर्थ्यमित्याह—किन्त्विति । आप्तोक्तत्वस्य— आप्तोक्तत्वरूपस्य ॥
आचक्षते—“प्रवृत्तिसामर्थ्यादर्थवत् प्रमाणम्” इति उपक्रमभाष्यम् । पूर्वप्रत्ययेत्यादि । संवादरूपेति यावत् पूर्वं । [पु। ४२७] उपपादितदिशा संवादात् प्रामाण्यग्रहः दुर्घट इत्यतः—विशेषदर्शनं वेति । अर्थक्रियाज्ञानस्यापि विशेषदर्शनविशेषत्वात् तादृशं स्वसम्मतमेव । परन्तु संशयोत्तरस्तले संशयनिवर्तकं यत् विशेषधर्मदर्शनं, तत्तु न साक्षात् प्रामाण्यनिश्चायकम्, अपितु अर्थक्रियाज्ञानद्वारैवेति अस्यैव प्रामाण्यनिश्चायकत्वं युक्तमित्यभिप्रायेण—अतीवेति ॥
धानम्; अपरीक्षणीयप्रामाण्यत्वादर्थक्रियाज्ञानस्य । प्रवर्तकं न सर्वज्ञानं प्रवृत्तिसिद्धये परीक्षणीयप्रामाण्यं वर्तते । फलज्ञाने तु सिद्धप्रयोजनत्वात् प्रामाण्यपरीक्षापेक्षैव नास्तीति कुतोऽनवस्था ?
अर्थक्रियाज्ञानस्य साक्षादनुभवरूपत्वेन प्रामाण्यनिश्चयानपेक्षत्वम्
संशयाभावाद्वा तत्प्रामाण्यविचाराभावः । प्रवर्तकं हि प्रथममुदकज्ञानमविद्यमानेऽपि नीरे मिहिरमरीचिषु दृष्टमिति तत्र संशेरते जनाः । अर्थक्रियाज्ञानं तु सलिलमध्यर्तिनां भवत् तदविनाभूतमेव भवतीति न तत्र संशयः । तदभावान्न तत्र प्रामाण्यविचारः, विचारस्य संशयपूर्वकत्वात् ॥
अर्थक्रियाज्ञानं विशेषदर्शनरूपं च
विशेषदर्शनाद्वा फलज्ञाने प्रामाण्यनिश्चयः । कः पुनरयं विशेष इति चेत्, योऽयं शौचाचमनमज्जनामरपितृतर्पणपटक्षालनश्रमतापनोदनविनोदनाद्यनेकप्रकारनीरपर्यालोचनप्रबन्धः, न ह्ययमियान् कार्यकलापो मिथ्याज्ञानात्प्रवृत्तस्य क्वचिदपि दृष्टः ॥
स्वाप्निकार्थक्रियाज्ञानात् जाग्रदर्थक्रियाज्ञानं विलक्षणम्
स्वप्नेऽप्यस्य प्रबन्धस्य दर्शनमस्तीति चेत्—न—स्वप्नदशाविसदृशविस्पष्टजाग्रदवस्थाप्रत्ययस्य संवेद्यत्वात् । एषोऽस्मि,
प्रामाण्यापेक्षानपेक्षयोः सम्भावितं विनिगमकमाह—प्रवर्तकमिति । बहुवित्तव्ययायाससाध्ये यागादौ प्रवर्तकज्ञानं प्रामाण्यमपेक्षत एवेत्यनुपदमुक्तत्वात्—सर्वपदम् । सिद्धप्रयोजनत्वात्—पिपासाशान्त्यादोः स्पष्टं अनुभवात् ॥
प्रवर्तक-फलज्ञानयोर्वैषम्यमेवोपपादयति प्रकारान्तरेण—संशयाभावाद्वेति । तदविनाभूतं—अर्थाविनाभूतं; न हि मरीचिकाजलेन पिपासाशान्तिः, शरीरक्लेदो वा सम्भाव्येतेत्याशयः ॥
स्वप्नदशाविसदृशेति । स्वाप्निकजलादिना स्वाप्निकशरीरक्लेदादिरनुभूयत एव । जाग्रत्कालिकशरीरक्लेदस्तु नास्त्येवेति अस्ति महत् वैलक्षण्यम् । यद्यपि “चरमधातुविसर्गोऽपि स्वप्ने सीमन्तिनीमन्तरेण भवति” इत्युक्तम् [पु। ४२७] ; अथापि, अधीरप्रकृतीनां रज्जौ सर्पज्ञानमेव यथा भय-कम्प
जागर्मि, न स्वपिमि—इति स्वप्नविलक्षणमनिद्रायमाणमानसः प्रत्यक्षमेव जाग्रत्समयं सकलो जनश्चेतयते । न च तस्मिन्नवसरे सलिलमन्तरेणैताः क्रियाः प्रवर्तमाना दृश्यन्त इति तद्विशेषदर्शनात् सुज्ञानमर्थक्रियाज्ञानप्रामाण्यम् ॥
कारणदोषाभावाच्च अर्थक्रियाज्ञाने प्रामाण्यम्
कारणपरीक्षातो वा तस्मिन् प्रामाण्यं निश्चेष्यामः । यथोक्तं भवद्भिरेव—“प्रयत्नेनान्विच्छन्तो न चेद्दोषमवगच्छेम तत्प्रमाणाभावात्, अदुष्टमिति मन्येमहि” [शा। भा १-१-५] इति । तथा हि— विषयस्य चलत्वसादृश्यादिदोषविरहः, आलोकस्य मलीमसत्वादिकारणवैकल्यं, अन्तःकरणस्य निद्राद्यदूषितत्वम्, आत्मनः क्षुत्प्रकोपाद्यनाकुलत्वम्, ईक्षणयुगलस्य तिमिरपटलादिविकलत्वमित्यादि स्वयं च कार्यद्वारेण, परोपदेशेन च सर्वं सुज्ञानम् । अतो निरवद्यकारणजन्यत्वात् प्रमाणमर्थक्रियाज्ञानमिति विद्मः ॥
प्राथमिकज्ञानेऽपि कारणदोषाभावनिश्चये प्रामाण्यं गृह्येत एव
यद्येवं प्रथमे प्रवर्तक एव प्रत्यये कस्मात् कारणपरीक्षैवेयं न क्रियते ? किमर्थं क्रियाज्ञाने ? न—आयुष्मन् ! आद्येऽपि ज्ञाने कारणपरीक्षायां क्रियमाणायां कः प्रमादः ? किमेवं सति स्वतः प्रामाण्यं सिद्ध्यति तव ? मम वा परतः प्रामाण्यमपहीयते ? किन्तु लोकः प्रवर्तकज्ञानानन्तरं फलप्राप्तिं प्रति यथा सोद्यमो दृश्यते, न
मरणादिहेतुर्भवति, तथाऽत्रापि तादृशानुभव एव तत्कारणम् । अनुभवश्च सत्य एव । न हि कश्चित् “मम सर्पज्ञानमेव न जातम्” इति मनुते; किन्तु अकाण्ड एव तज्ज्ञानं जातम्ऽ इत्येव । अतश्च ज्ञानमेव स्थलविशेषे अर्थक्रियाकारीति न दोषः । अधिकं ९ आह्निके ॥
कारणदोषानेवाह—तथा हीति । अप्रगल्भानां—परोपदेशेन चेति । चकारः वाऽर्थे ॥
क्रियाज्ञाने—अर्थक्रियाज्ञाने । अस्तु परतः प्रामाण्यं, तथाऽपि प्राथमिकज्ञाने कारणदोषाभावनिश्चयेनाऽपि प्रामाण्यनिश्चयस्य प्रतिषेद्धुमशक्यत्वे
तथा तत्कारणपरीक्षां प्रति । फलज्ञानमेवेत्थं परीक्ष्यते । आद्यस्य हि ज्ञानस्य फलज्ञानादेव प्रामाण्यसिद्धिः । कश्च नाम निकटमुपायमुपेक्ष्य दूरं गच्छेदिति !
प्रकारान्तरेण प्राथमिकज्ञाने प्रामाण्यनिश्चयोपपादनम्
अथ वा संशयोत्पत्तिसामर्थ्यादेव यथार्थेतरत्वनिश्चयः फलज्ञानेन लप्स्यते । संशयो हि नाम द्वैविध्यदर्शनाद्विना न भवत्येव । न हि स्थाणुपुरुषसाहचर्यमूर्ध्वताख्यस्य धर्मस्य यो न जानाति, स तं दृष्ट्वा “स्थाणुर्वा स्यात् ? पुरुषो वा ?” इति संशेते । एवमूर्ध्वत्ववद्वोधरूपत्वस्य व्यभिचारित्वाव्यभिचारित्वाभ्यां सहदर्शनमवश्यमाश्रयणीयम्, अन्यथा तद्विषयसंशयानुत्पादात् । अतः पूर्वमव्यभिचारित्वदर्शने सिद्धे यस्तदा तत्परिच्छेदोपायः, स पश्चादपि भविष्यतीति सर्वथा सिद्ध्यत्यव्यभिचारित्वनिश्चयः ॥
“फलज्ञानादेव” इति शपथः कुतः ? इत्यत्राह—कश्चेति । यद्यप्यस्मत्सिद्धान्तभङ्गभीत्या “फलज्ञानादेव” इति न वदामः । किन्तु तत्त्वस्थितिमनुरुध्यैव । पुरोवर्तिवस्तुनि दृष्टे, मनुष्यस्य प्रवृत्तिः प्रथमं जायते । फलप्राप्त्यप्राप्तिभ्यां तु उत्पन्नज्ञाने प्रामाण्यतदभावौ निश्चिनोति इत्युत्सर्गः । प्राथमिकज्ञाने डोलायमानरूपे सति यदि तत्र प्रामाण्यनिश्चयमपेक्षते, तदाऽपि, “किं चर्चया ? समीपमुपसर्प्यैव निर्णेष्यामः” इति अर्थक्रियाज्ञानार्थमेव प्रवर्तते, न तु क्लेशसाध्ये दोषाभावनिश्चये इत्यप्युत्सर्ग एव इत्याशयः । गत्यन्तरविरहे तु अस्तु तथैव । परतः प्रामाण्यं तु अनपोह्यमेवेति च भावः ॥
संशयोत्पत्तिसामर्थ्यात्—प्राथमिकज्ञाने “इदं प्रमा ? न वा ?” इति संशयोत्पादनक्षमत्वात् इति यावत् । साहचर्यं—साधारण्यम् । सहदर्शनं—साधारण्यज्ञानम् । अयं भावः—प्राथमिकं ज्ञानं तु संशयक्षममिति अनुभवसिद्धम् । संशयश्च कोटिद्वयसाधारणधर्मज्ञानात् । प्रमात्वतदभावरूपकोटिद्वयसाधारणबोधत्वरूपधर्मज्ञानमेव तत्र संशयहेतुः वाच्यः । तेन च पूर्वं कदाचित् बोधत्वस्य व्यभिचरितज्ञाने, अव्यभिचरितज्ञाने च परिचयः आवश्यकः । तदा च अनवस्थादिभिया फलज्ञानमूल एव अव्यभिचरितत्व अनिश्चितप्रामाण्यमपि फलज्ञानं आद्यज्ञाने प्रामाण्यनिश्चायकम् अनिश्चितप्रामाण्यादपि वा फलज्ञानात् प्रवर्तकस्य प्रामाण्यनिश्चयो युक्तः, न तु स्वतः; उत्पत्तौ प्रमाणतदाभासयोर्विशेषाग्रहणात् । फलज्ञाने च तद्विशेषप्रतिभासात् ॥ परतः प्रामाण्ये अनवस्थादोषपरिहारः यत्तु—विशेषज्ञानं निश्चितप्रामाण्यमनिश्चितप्रामाण्यं वेति विकल्प्यानवस्थापादनं, अप्रतिपत्तिप्रहतताकथनं वा [४३४-४३६ पु।] — तत् दृष्टविरुद्धत्वात् प्रलापमात्रमित्यलमलीकोक्तविकल्पकलापनिर्मथनोदितदुरामोदास्वादनेन ॥ प्रामाण्याप्रामाण्ययोः परतस्त्वोपसंहारः स्थितमेतत्—अर्थक्रियाज्ञानात्प्रामाण्यनिश्चय इति । तदिदमुक्तम्—“प्रमाणतोऽर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यादर्थवत्प्रमाणम्” [न्या। भा। १-१-१] इति । तस्मादप्रामाण्यवत्प्रामाण्यमपि परापेक्षमित्यतो द्वयमपि परत इत्येष एव पक्षः श्रेयान् ॥ प्रामाण्यग्रहणविषये जैनमतप्रतिक्षेपः यत्तु कश्चित्प्राज्ञमानी वदति—अभ्यस्ते विषये स्वतःप्रामाण्यम्, अनभ्यस्ते तु परतः—इति, सोऽयं “अभ्यस्ते विषये” इति च ब्रवीति, निश्चयो वाच्यः । एवञ्च पूर्वं फलज्ञानेनैव अव्यभिचरितत्वरूपप्रामाण्यनिश्चयस्य अनुभवसिद्धत्वात् सर्वत्रापि तथैव प्रामाण्यनिश्चय इति सिध्यतीति ॥
अनिश्चितेति । अगृहीताप्रामाण्यादपीति बोध्यम् । प्रवर्तकस्य, ज्ञानस्येति शेषः । “इदं रजतं” इति प्राथमिकानुभवो हि शुक्तिरजतसत्यरजतस्थले च एकरूप एवोपलभ्यते । फलज्ञाने, सतीति शेषः । तद्विशेषः—प्रमात्वतदभावरूपः ॥
विद्यानन्दिना तत्त्वार्थवार्तिके “तत्राभ्यासात् प्रमाणत्वं निश्चितं स्वत एव नः । अनभ्यासे तु परतः” [१-१०-१२५] इत्युक्तम् । तदनुसृत्यान्येऽपि माणिक्यनन्दिप्रभृतयः । तदेतदनूद्य दूषयति—यत्त्विति ॥
स्वतश्च प्रामाण्यं मन्यत इति स्वयमेवात्मानं वञ्च्यमानं न चेतयते । अभ्यासो हि नाम पुनःपुनः प्रयोगः क्रियाया अभ्यावृत्तिः; विषयस्य चाभ्यस्तता भूयोभूयः प्रवृत्तिः । अतश्च स्वशरीरग्रहे, निजगृहकुड्यस्तम्भादिप्रतिभासे वा सहस्रकृत्वः प्रवृत्त संवादज्ञानजन्मना प्रामाण्यनिश्चय उक्तो भवति । स्वतः अभ्यस्तत्वं चान्यथा न भवेदिति यत्किञ्चिदेतत् । तस्मात् परतः प्रामाण्यमिति सिद्धम् ॥
प्रामाण्यविचारस्यानुपयुक्तत्वनिरासः
यत्पुनः कैश्चिच्चोद्यते—प्रमाणानां न परीक्षणमुपपद्यते । तद्धि प्रमाणैः क्रियेत ? अप्रमाणैर्वा ? प्रमाणैरपि परीक्षितैः ? अपरीक्षितैर्वा ?
तत्र न नाम अप्रमाणैः प्रमाणपरीक्षणं शक्यक्रियम् ॥
प्रमाणैरप्यपरीक्षितैः तत्करणे, वरं व्यवहार एव तादृशैः क्रियताम् ! किं परीक्षणेन ?
परीक्षितैस्तु तत्परीक्षाकरणमपर्यवसितम्; अनवस्थाप्रसङ्गात् इत्यादि ॥
तदप्युक्तेन न्यायेन परिहृतं भवति । दृष्टे विषये प्रमाणपरीक्षां विनैव व्यवहारात् । अदृष्टे तु परीक्षाया अवश्यकर्तव्यत्वादुपपत्तेश्चेति ॥
तस्माददृष्टपुरुषार्थपदोपदेशि
मानं मनीषि भिरवश्यपरीक्षणीयम् ।
प्रामाण्यमस्य परतो निरणायि चेति
चेतःप्रमाथिभिरलं कुविकल्पजालैः ॥ ८१ ॥
अख्यातिसाधनोपक्रमः
सुशिक्षितास्त्वाचक्षते—युक्तं, यदमी मीमांसकपाशाः काशकुसुमराशय इव शरदि मरुद्भिरतिदूरात्समुत्सार्यन्ते दुष्टतार्किकैः ।
सुशिक्षिताः—गुरवः । अमी मीमांसकाः—भाट्टाः । के ते मीमांसकाः ? इत्यत्राह—ये हीति । अख्यातिवादिनो हि गुरवः “यथार्थं
ये हि किलाभ्युपयन्ति च विपरीतख्यातिवादं अकृतास्त्राः, प्रामाण्यं च स्वत इति च वदन्ति, तेषां कुतः कौशलम् ? विपरीतख्यातावभ्युपगम्यमानायां बाध्यबोधसन्दर्भसुभिक्षे सति तत्साधर्म्यादनुत्पन्नबाधकेऽपि बोधे दुष्परिहरः संशयः । संशये च संवादाद्यन्वेषणमपि ध्रुवमवतरतीति परतः प्रामाण्यमनिवार्यम् ॥
बाध्यस्य ज्ञानस्यैवानङ्गीकारे तु प्रामाण्यं स्वत एव स्यात्
यदा तु न बाध्यो नाम जगति कश्चिदपि बोधः, तदा किंसाधर्म्यात् संशेरतां प्रमातारः ? असंशयानाश्च किमिति परमपेक्षन्ताम् ? अनपेक्षमाणाः कथं परतः प्रामाण्यं प्रतिपद्यन्तामिति निश्चलं स्वत एव प्रामाण्यमवतिष्ठते ॥
कथं पुनर्बाध्यो नाम नास्ति बोधः ? शुकिकादौ रजतादिप्रत्ययाः प्राचुर्येण बाध्यमाना दृश्यन्ते—अनभिज्ञो भवान् बाधस्य—न हि ते बाध्याः प्रत्ययाः ॥ बाधपदार्थः इदं हि निरूपप्यताम्—क इवोत्तरज्ञानेन पूर्वज्ञानस्य बाधः ? बाधार्थमेव न विद्मः । यदि तावन्नाश एव बाधः, स न तेषामेव; बुद्धेर्बुद्ध्यन्तराद्विरोध इति सकलबोधसाधारणत्वात् ॥ सर्वमेवेह विज्ञानं” [प्र। प। नय—१] इति वदन्ति । अतस्तन्मते बोधत्वं अप्रमाप्रमासाधारणं वक्तुमशक्यमिति तज्ज्ञानात् संशयो दुरुपपादः । अन्यथाख्यातिवादिनः भट्टस्य मते तु बाधस्य बाध्याबाध्यज्ञानसाधारणत्वात् संशयः अनिवार्य इति, तत्परिहाराय परत एव प्रामाण्यं बलादङ्गीकर्तव्यम् । अकृतास्त्राः—अशिक्षिततर्काः, तर्काकुशला इति यावत् ॥
भट्टमतात् स्व [गुरु] मतवैलक्षण्यमाह—यदा त्विति । किंसाधर्म्यात्— कीदृशसाधारणधर्मज्ञानात् । परं—प्रामाण्यनिश्चायकप्रमाणान्तरम् ॥
त्वरया गच्छतः क्वचिद्रथ्यादृष्टशुक्तिरजतज्ञानस्य बाधाऽप्रसक्त्या प्राचुर्येणेति । बाधस्य अनभिज्ञः—बाधपदार्थानभिज्ञः ॥
तेषां—शुक्तिरजतज्ञानानाम् । बुद्धेरिति । योग्यविभुविशेषगुणा हि स्वोत्तरोत्पन्नतादृशगुणनाश्याः ॥
अथ सहानवस्थानम्, तदपि समानम्; अबाधितानामपि ज्ञानानां सहावस्थानासम्भवात् ॥
अथ संस्कारोच्छेदो बाधः, सोऽपि तादृगेव; संयक्प्रत्ययोपजनितसंस्कारस्याप्युच्छेददर्शनात् । कश्चिद्भवदभिमतबाध्यबोधाऽहितोऽपि संस्कारः सत्यपि बाधकप्रत्यये नोच्छेदमुपगच्छति; कालान्तरे तत्कारणकतद्विषयस्मरणदर्शनात् ॥
अथ विषयापहारो बाधः, सोऽपि दुर्घटः । प्रतिभातत्वेन विषयस्यापहर्तुमशक्यत्वात् । न हि बाधकं ज्ञानमित्थमुत्तिष्ठति— यत् प्रतिभातं तन्न प्रतिभातमिति ॥
अथ तदभावग्रहो बाधः—स तात्कालिकः ? कालान्तरभावी वा ? कालान्तरभावितदभावग्रहणस्य बाधकत्वे प्रागवगतमुद्गरदलितघटाभावग्राहिणोऽपि विज्ञानस्य तद्बाधकत्वप्रसङ्गः । तदैव तु तदभावग्रहणे प्रत्ययद्वयसमर्पितरूपद्वितययोगादुभयात्मकमेव तदस्तु वस्तु ! किं कस्य बाध्यं बाधकं वा ?
अथ फलापहारो बाधः, सोऽपि न सम्भवति; संविदः प्रमाणफलस्य उत्पन्नत्वेनानपहरणीयत्वात् । न हि यदुत्पन्नं तदनुत्पन्नमिति वदति बाधकः ॥
अथ हानादिफलापहारो बाधः, न, तस्य प्रमाणफलत्वाभावात् ॥
हानादिव्यवहारो हि पुरुषेच्छानिबन्धनः ।
न तेनापहृतेनापि प्रमाणं बाधितं भवेत् ॥ ८२ ॥
तस्मान्न बाधो नाम कश्चित् ॥
सहानवस्थानासम्भवात्—अत्र युगपत् ज्ञानद्वयस्य उत्पादासम्भवःहेतुः ॥
तादृक्—सकलबोधसाधारणः । वस्तुतस्तु सोऽपि नास्ति “मम पूर्वं शुक्तौ रजतज्ञानं जातं” इत्येवं कालान्तरे स्मरणदर्शनादित्याह—कश्चिदिति । अस्य “संस्कारः” इत्यनेनान्वयः ॥
न हीत्यादि । रजतस्य तत्राभावात् न त्वन्यादृशः अपहारः वक्तुं शक्यः ॥
घटाभावसम्पादनाय—मुद्गरदलितेति । तद्बाधकत्वं—घटवत्ताबुद्धिबाधकत्वम् । किमिति । अन्यथा कथमुभयोरेकदा ग्रहणम् ?
अभिमतं फलपदार्थं स्फुटयति—हानादीति । पुरुषेच्छेति । यद्यपि प्रकारान्तरेणापि बाध्यज्ञानासम्भवोपपादनम् इतश्च नास्ति । स हि समानविषययोर्वा ज्ञानयोरिष्यते ? भिन्नविषययोर्वा ? न समानविषययोः, धारावाहिज्ञानेष्वदृष्टत्वात् । नापि भिन्नविषययोः, स्तम्भकुम्भोपलम्भयोस्तदनुपलम्भात् । यदि चोत्तरेण ज्ञानेन पूर्वज्ञानगृहीतादर्थादर्थोऽन्य इदानीं गृहीतः, तत्पूर्वज्ञानं किमिति बाधितमुच्यते ?
अपि च पूर्वस्मिन् प्रत्यये प्राप्तप्रतिष्ठे सति आगन्तुरुत्तरः प्रत्ययः बाधितुं युक्तः, न पूर्वः; न चैवं दृश्यते । तस्मान्न बाध्यं नाम विज्ञानमस्ति । तदभावान्न तत्साधर्म्यनिबन्धनः संशयः । तदभावात्संवादाद्यनन्वेषणान्न परतः प्रामाण्यम् ॥ अख्यात्यवतारः ननु ! एवं बाधे निराक्रियमाणे किममी शुक्तिकारजतादिग्राहिणो विपरीतप्रत्यया अबाधिता एवासताम् ?—आः कुमते ! नामी विपरीतप्रत्ययाः । न हीदृशानां विपर्ययाणामुत्पत्तौ किमपि कारणमुत्पश्यामः ॥ पूर्वं [पु। १७४] “तस्य प्रमाणभावे तु फलं हानादिबुद्धयः” इत्युक्तम्, अथापि हानादिप्रवृत्तिः पुरुषेच्छामन्तरा न भवत्येव । यदि च पुरुषः उदासीनः, तदा हानस्य वा, उपादानस्य असम्भवेन तदधीनः बाधोऽपि दुरुपपादः । सः—बाध्य बाधकभावः । तदनुपलम्भात्—बाध्यबाधकभावादर्शनात् ॥
प्राप्तप्रतिष्ठ इति । पूर्वं हि ज्ञानं तदुत्पत्तिकाले कस्यापि बाधकस्याभावात् उत्पन्नमेव । द्वितीयं तु ज्ञानं सञ्जातविरोधित्वात् उत्पत्तुमेव नालम् । न चोत्तरत्वमेव बाधकत्वप्रयोजकम्, तदा उत्तरत्वाविशेषात् सर्वं सर्वत्र बाधकं भवेदिति न किमपि प्रतिष्ठितं भवेत् । उत्तरज्ञानस्य प्रमात्वं न सार्वत्रिकम् । अतः पूर्वज्ञानमेवोत्तरं प्रति बाधकं भवेत् । तत्साधर्म्यनिबन्धनः—बाध्यज्ञानेन सह यत् साधर्म्यं बोधत्वादि, तत्कृतः ॥
न तावदिन्द्रियमेवंविधबोधविधायि भवितुमर्हति, सर्वदा तदुत्पादप्रसङ्गात् ॥
नापि दोषकलुषितं, दुष्टं हि कारणं स्वकार्यकरण एव कुण्ठितशक्ति जातमिति तदेव मा जीजनत्, विपरीतकार्यकरणस्य किं वर्तते ? न हि दुष्टानि शालिबीजानि यवाङ्कुरकरणकौशलभवलम्बेरन् । तस्मात् कारणाभावादपि न विपरीतप्रत्ययास्ते ॥
भ्रमस्थले ज्ञानद्वयमेव, नैकं ज्ञानम्
तत्किं सम्यक्प्रत्यय एव शुक्तिकायां रजतप्रतिभासः ?—अयि मूढ ! नायमेकः प्रत्ययः—इदं रजतमिति; किन्तु द्वे एते ग्रहणस्मरणे । इदमिति पुरोऽवस्थितभास्वराकारधर्मिप्रतिभासः, रजतमिति तु भास्वररूपदर्शनप्रबोध्यमानसंस्कारकारणकं तत्साहचर्यादवगतरजतस्मरणम् ॥
भ्रमस्थले धर्मज्ञानस्य स्मृतिरूपत्वे युक्तिः
अतश्चेदं स्मरणं—यतः प्रागनवगतरजतस्य न जायते, विदितरजतस्यापि रजन्यामन्यदा वा सादृश्यदर्शनाद्विना न भवतीति ॥
न तावदित्यादि । विपरीतप्रत्ययोत्पादनमेवेन्द्रियस्य स्वभावश्चेत्, कदाऽपि सत्यप्रमितिर्न स्यात् ॥
दोषकलुषितं, इन्द्रियमिति वर्तते । दुष्टानि—स्वाङ्कुरजनन एवासमर्थानि ॥
द्वे इति । इन्द्रियसंयोगस्तु शुक्त्या सह । ज्ञानं तु रजतविषयकम् । कथमिदं प्रत्यक्षरूपं एकं ज्ञानं स्यात् ? अतः विशेष्यांशे इन्द्रियमेव कारणं, विशेषणांशस्तु स्मृत्यैवोपस्थापनीय इति बलात् वक्तव्यम् । ततश्च प्रत्यक्षस्मरणरूपं ज्ञानद्वयमेव “इदं रजतम्” इति ॥
ननु सत्यं रजतं दृष्ट्वा यादृशः प्रत्ययः तदुत्पत्तिकाले अनुभूयते, तदविशेषमेव शुक्तिं दृष्ट्वा जातोऽपि अनुभूयत इति कथं रजतस्मरणमुच्यते ? इत्यत्राह— धर्मस्मरणस्य स्मृतित्वेन ख्यातिर्नास्ति
स्मरणमपि भवदिदमात्मानं तथा न प्रकटयतीति प्रमुषितमुच्यते । स्वरूपेण चाप्रतिभासमानायां स्मृतावनुभवस्मरणयोर्विवेको न गृहीतो भवतीत्यग्रहणमख्यातिरुच्यते ॥
भ्रमस्थले वादिविप्रतिपत्तयः
तथा हि भ्रान्तबोधेषु प्रस्फुरद्वस्तुसम्भवात् ।
चतुष्प्रकारा विमतिरुदपद्यत वादिनाम् ॥ ८३ ॥
विपरीतख्यातिः, असत्ख्यातिः, आत्मख्यातिः, अख्यातिरिति ॥ अन्यथाख्यातेः असत्ख्यातावेव पर्यवसानोपपादनोपक्रमः तत्र विपरीतख्यातिस्तावत्कारणाभावादेव निरस्ता । अपि च विपरीतख्यातौ त्रयी गतिः—रजतं वाऽन्यदेशकालमत्रालम्बनम् ? शुक्तिका वा निगूहितनिजाकारा सती परिगृहीतरजताकारा च ? अथवा अन्यदालम्बनं अन्यच्च प्रतिभाति ? शुक्तिरजतज्ञानं न रजतविषयकम् तत्र यदि रजतमालम्बनं, तदियमसत्ख्यातिरेव; न विपरीतख्यातिः, असतस्तत्र रजतस्य प्रतिभासात् ॥
अथान्यदेशकालं तत् अस्त्येवेत्यभिधीयते ।
इहासन्निहितस्यास्य तेन सत्त्वेन को गुणः ? ॥ ८४ ॥
स्मरणमिति । भवदपि इत्यन्वयः । विपरीतख्यातिपक्षेऽपि हि स्मरणमेव रजतोपस्थापकं इष्टं; न हि एतत् अनुभवसिद्धम् । यदि च स्मरणं विषयमात्रं समर्पयति, न त्वात्मानमपि स्मरणत्वेन प्रकाशयति—इत्युच्यते; तर्हि अस्मन्मतमेव तत् । कुतस्तर्हि एतत्सोपानमतीत्य विपरीतख्यातिकल्पनम् ?
तथाहीत्यादि । भ्रान्तिस्थले इयमत्र समस्या—इन्द्रियान्वयव्यतिरेकानुविधानात्, साक्षात्करोमीत्यनुव्यवसायदर्शनाच्च शुक्तिरजतज्ञानस्य प्रत्यक्षत्वं वक्तव्यम् । इन्द्रियशुक्तिसन्निकर्षस्तु वर्तते, ज्ञानं तु रजतविषयकं जायते ! कथमिदम् ? अन्येन सन्निकर्षः, अन्यस्य ज्ञानम् ?
अपि च—देशकालावपि किं सन्तौ प्रतिभासेते ? उतासन्तौ ? इति । यदि सन्तौ, तर्हि तद्देशकालमेवेदं रजतमवभातमिति न भ्रान्तिरेषा स्यात् । असन्तौ तूभावपि रजतवत् नालम्बनं भवितुमर्हतः ॥
स्मृत्याख्यसन्निकर्षेणैव रजतभानं तु न सम्भवति
अथ स्मृत्यारूढं रजतमस्यां प्रतीतौ परिस्फुरतीत्युच्यते, तर्हि स्मृत्युपारूढमिति कोऽर्थः ? स्मरणमपि ज्ञानमेव, तदपि कथमसदर्थविषयं स्यात् । स्मृतेरनर्थजत्वमेव स्वरूपमिति चेत्; अस्तु कामम् ! तत्सामान्यादत्राप्येवं प्रयोग इत्येतदपि तावन्न ब्रूमः । तथा त्वनर्थजन्यया स्मृत्या सोऽर्थः कथमिह सन्निधापयितुं पार्यते । सा हि न स्पृशत्येवाऽर्थम् । तस्मादसन्निहितरजतालम्बना विपरीतख्यातिरसत्ख्यातेर्न विशिष्यत एव ॥
शुक्तिरजतज्ञानं न शुक्तिविषयकम्
अथ स्थगितनिजवपुरुषगृहीतरजतरूपा शुक्तिकाऽत्र प्रकाशत इति नेयमसत्ख्यातिरुच्यते; तदिदमपूर्वं किमपि नाटकं, इयमस्मिन् कृत्या सीता प्रवृत्तेति । तथा हि—किमत्रशुक्तिरिति प्रतीतिः ? उत रजतमिति ? शुक्तिकाप्रतीतौ तु शुक्तौ शुक्तिरेव प्रतीयते, न रजतं इति भ्रमार्थःकः ? रजतप्रतीतौ तु शुक्तिरसावित्यत्र किं
एतत्समस्यापरिहाराय दार्शनिकाः यथायथं प्रयतन्ते—पुरोवर्तिशुक्तिसंयुक्तं चक्षुः रजतस्मरणसहकृतं सत् “इदं रजतं” इति विशिष्टवैशिष्ट्यावगाहिज्ञानं जनयतीति विपरीतख्यातिवादिनः नैय्यायिकाः, भाट्टाश्च । “विपरीतमेव मया गृहीतम्” इति बाधानन्तरं अनुसन्धानात् तथा व्यवहारः ॥
तथात्विति । स्वयं अर्थसंस्पर्शशून्या कथं तदा अर्थमुपस्थापयेदित्यर्थः ॥
कृत्या सीता—माया सीतेति यावत् । श्रीमद्रामायणे युद्धकाण्डे इन्द्रजिता मायासीताप्रदर्शनं कृतं, तद्वदत्र किमिदं कापट्यमित्यर्थः । असौ— विषयः । किम्प्रमाणमिति । यदा रजतं प्रतीयते, तदा रजतविषयकं ज्ञानमित्य
प्रमाणम् ? बाधकप्रत्ययादेवमवगतं इति चेत्, मैवम्—न हि ज्ञानान्तरेणास्याः प्रतीतेर्विषयो व्यवस्थापयितुं युक्तः । बाधकेन हि ज्ञानेन पूर्वज्ञानगृहीतस्य वस्तुनोऽसत्त्वं नाम ख्याप्यताम्, न तु तस्य विषयो निरूप्यते । अनर्थित्वाद्वा, कदाचिदप्रवृत्तस्य पुंसो बाधकानुत्पत्तौ वा कोऽस्याः प्रतीतेर्विषयं व्यवस्थापयिष्यति । तस्माद्यदेवास्यां चकास्ति, तदेव रजतमस्या विषय इति युक्तं वक्तुम् । शुक्तिस्तु निगूहितनिजवपुरिति दुर्विदग्धवाचोयुक्तिरियम् ॥
शुक्तिः विषयः, रजतस्य प्रतीतिरिति तु उपहास्यम्
ये त्वालम्बनतां शुक्तेः रजतस्यावभासनम् ।
वदन्त्यस्मिन् भ्रमज्ञाने तेषामतितरां भ्रमः ॥ ८५ ॥
न ह्यालम्बनता युक्ता सन्निधाननिबन्धना ।
तत्रैव भूप्रदेशस्य तथाभावप्रसङ्गतः ॥ ८६ ॥
तदेवालम्बनं बुद्धेर्यदस्यामवभासते ।
अन्यदालम्बनं चान्यद्भातीति भणितिर्न वा ? ॥ ८७ ॥
अतो रजतमेवैतद्बुद्धिग्राह्यमसच्च तत् ।
एवं विपर्ययख्यातिरसत्ख्यातेर्न भिद्यते ॥ ८८ ॥
असत्ख्यातिनिरासः तत्किमसत्ख्यातिरेव साधीयसी ? तामेवाभ्युपगच्छामः ?— मैवम्—साऽपि नोपपद्यत एव । असत्ख्यातिरिति कोऽर्थः ? प्रकम्प्यम् । ततश्च तस्य शुक्तिविषयत्वं कथम् ? शुक्त्या सहैव हि इन्द्रियं संयुक्तं इति चेत्, न हि तदा शुक्तेर्भानम् । बाधानन्तरं तत् ज्ञायेतेति चेत्—यः प्रतीयते स एव तत्र विषयः इत्येव लोको मन्यते । न तु अत्र प्रमाणान्तरापेक्षा । बाधादर्शनस्थले तु शुक्तेरेव विषयत्वे प्रमाणं दुर्वचमेव तरां । अतो रजतविषयकत्वे सिद्धे तत्रासतः रजतस्य भानात् असत्ख्यातावेव विश्रान्तिः । अनर्थित्वात्—ज्ञानस्य स्वविषयनिर्णये ज्ञानान्तरानपेक्षणात् । अप्रवृत्तस्य— उदासीनस्य ॥
तथाभावप्रसङ्गतः—आलम्बनत्वप्रसङ्गतः । तदेवेति । यत् भासतेतदेवालम्बनं युक्तं । न तु अन्यदालम्बनं, अन्यस्य प्रतिभास इति ॥
किमेकान्तासत एवार्थस्य प्रथमम् ? अथ देशान्तरादौ विद्यमानस्येति ? उत्तरस्मिन् पक्षे विपरीतख्यातिरेवैषा, परैरपि तत्र रजतस्य सत्वानभ्यु पगमात् । देशान्तरादौ तु तत्सत्तायास्त्वयाऽपि प्रतिपन्नत्वात् । एकान्तासतस्त्वस्य ख्यातिरिति न पेशलम्; आकाशनलिनीपल्लवादेरप्रतिभासनात् । वासनाभ्यासादसतामपि प्रतिभासा भविष्यन्तीति चेत्, न, अर्थमन्तरेण वासनाया अप्यनुपपत्तेः । अर्थानुभवसमाहितो हि संस्कारो वासना कथ्यते । सा कथमसदर्थप्रतिभासहेतुः स्यात् ॥
भवत्वन्या वा भवदभिमता काचन वासना, साऽपि त्वसत्त्वाविशेषे किमिति रजतमतिमुपजनयति, न गगननलिनप्रतीतिमिति कुतस्त्यो नियमः ? तदलमनया !
नात्यन्तमसतोऽर्थस्य सामर्थ्यमवकल्पते ।
व्यवहारधुरं वोदुमियतीमनुपप्लुताम् ॥ ८२ ॥
अपि च सत्त्वेन प्रतिभातीति असत्ख्यातिरपि न विपरीतख्यातिमतिवर्तते ॥
एकान्तासतः—शशशृङ्गादितुल्यस्य । ननु देशकालान्तरवर्तित्वेऽपिपुरतोऽभावात् असत्ख्यातिरेवैषा, न तु विपरीतख्यातिरिति शङ्कायामाह— परैरिति । निरुपाधिकतया असतः ख्यातिरिति वक्तुमक्यत्वात्, न सर्वथाऽसत्ख्यातिः सम्भवति । ननु तर्हि शशशृङ्गादिप्रतीतेर्वा असत्ख्यातित्वमङ्गीकरणीयमिति चेत्—तादृशस्यानुभवस्य कस्याप्यदर्शनात् । यत्र क्वचन दृष्टस्यान्यत्र कुत्रचिद्भानस्यैव सर्वानुभवसिद्धत्वात् ॥
असतां—सर्वथाऽसतां केशोण्ड्रकादीनाम् । तथोक्तं—“अयेद्यवेदकाकारा यथा भ्रान्तैर्निरीक्ष्यते । तथा कृतव्यवस्थेयं केशादिज्ञानभेदवत्” [प्र। वा। ३।३३१] इति ।
अनुपप्लुतां—असङ्कीर्णां इयतीं व्यवहारधुरं बोदुं अत्यन्ताप्ततोऽर्थस्य सामर्थ्यं नावकल्पते ॥
वस्तुतस्त्वियमसत्ख्यातिः विपरीतख्यातिरेवेत्याह—अपि चेति । सत्त्वेन, पुरत इति शेषः ॥
आत्मख्यात्युपपादनम्
तस्माद्वरमात्मख्यातिरस्तु—
विज्ञानमेव खल्वेतत् गृह्णात्यात्मानमात्मना ।
बहिर्निरूप्यमाणस्य ग्राह्यस्यानुपपत्तितः ॥ ९० ॥
बुद्धिः प्रकाशमाना च तेन तेनात्मना बहिः ।
उद्वहत्यर्थशून्याम्पि लोकयात्रामिहेदृशीम् ॥ ९१ ॥
आत्मख्यातिनिरासः
उच्यते—नात्मख्यातिरपि युक्तिमती । विज्ञानात्मनो हि प्रतिभासे “अहं रजतम्” इति प्रतीतिः स्यात्, न “इदं रजतम्” इति । किञ्च—“यदन्तर्ज्ञेयरूपं हि वहिर्वदवभासते” [प्र-स] इत्यभ्युपगमादियमपि विपरीतख्यातिरेव स्यात् । असत्ख्यातिरपि चेयं भवत्येव, बहिर्बुद्धेरसत्त्वात् । बुद्धिरस्त्येवेति चेत्, बहिष्ट्वं तर्हि चिन्त्यं—सत् ? असद्वा ? इति । न तावत् सत्, बुद्धेर्बाह्यत्वाभावात् । असत्त्वे त्वसत्ख्यातिरित्युक्तम् ॥
तस्मात् ख्यातित्रयेऽप्यस्मिन् अन्योऽन्यानुप्रवेशिनि ।
युक्त्या विरुध्यमाने च श्रेयस्यख्यातिरेव सा ॥ ९२ ॥
अख्यातिः सर्वैर्वादिभिरप्रत्याख्येया
ख्यातित्रयवादिभिरपि चेयमप्रत्याख्येया नूनमख्यातिः । आत्मख्यातौ तावत् आत्मतया विज्ञानस्य ख्यातिर्नास्ति, विच्छेदप्रतिभासादित्युक्तत्वात् ॥
तस्मात्—विपरीतख्यातेः, असत्ख्यातेश्च परस्परसाङ्कर्यादिभिः दुर्निरूपत्वात् ।
अहमिति । आत्मा हि अहम्प्रत्ययगोचर इति सर्वेषामनुभवः । विज्ञानरूपस्य तस्यैव रजतात्मना भाने तत्र आत्मन एवाधिष्ठानत्वात् “अहं रजतं” इत्येवानुभवः स्यात् । ननु प्रत्यक्त्वांशस्यापि संवृत्त्याऽऽवरणात् “इदं” इति पराक्त्वेन भानमित्यत्राह—किञ्चेति । बहिष्ट्वं—पराक्त्वम् ॥
आत्मतया—प्रत्यक्तया । विच्छेदः—विच्छित्तिविशेषः । “इदं” इति पराक्त्वमिति यावत् ॥
असत्ख्यातावपि असत्त्वमर्थस्य नैव प्रतिभासते, प्रवृत्त्यादिव्यवहारोच्छेदप्रसङ्गात् ॥
विपरीतख्यातावपि रजतस्य सन्निहितस्य ज्ञानजनकत्वम्, अजनकस्य च प्रतिभासो नेष्यत एव । अतः तत्र रजतस्मृत्युपस्थापितं रजतमवगतिजनकमुपगतम् । अतश्च रजतस्मृतिरपरिहार्या । सा च रजतस्मृतिर्न तदा स्वेन रूपेण प्रकाशते, “स्मरामि” इति प्रत्ययाभावात् ॥
तस्मात् प्रमुषितामेनां स्मृतिमिच्छन्ति तार्किकाः ।
अभ्यस्ते विषये लिङ्गप्रतिबन्धस्मृतिं यथा ॥ ९३ ॥
सोऽयं स्मृतिप्रमोषः तत्त्वाग्रहणं अख्यातिरुच्यते ॥
एवं सतीयमख्यातिरिष्यते सर्ववादिमिः ।
तथा प्रकटयद्भिस्तु पीतं प्राभाकरैर्यशः ॥ ९४ ॥
ज्ञानजनकत्वं नेष्यत एव इत्यन्वयः । असन्निहितत्वमेव हेतुः । असन्निहितत्वात् ज्ञानजनकत्वे असम्भाविते सति, ज्ञानाजनकत्वात् रजतस्य प्रतिभासोऽपि न स्यात् । प्रतिभासते तु रजतं । अतस्तत्र रजतस्य सान्निध्यं उपपादनीयम् । तच्च तत्र स्मृत्यैवोपपादनीयमिति भावः । स्वेन रूपेण— स्मृतित्वेन रूपेण ॥
एनां—रजतभासनां । प्रमुषितां अगृहीतस्मृतित्वधर्मिकां स्मृतिं— स्मृतिरूपां इच्छन्ति तार्किकाः—तर्ककुशलाः । न तु नैय्यायिकाः । अयमेव स्मृतिप्रमोषवादः । तत्र दृष्टान्तः—अभ्यस्त इति । असकृदभ्यस्ते भोजनादौ तृप्तिसाधनत्वे पुरत ओदनदर्शनमात्रेणैव पूर्वेद्युरनुभूतेष्टसाधनत्वनिश्चयात् पुरोवर्तिन्यपि इष्टसाधनत्वं प्रत्यक्षेणैव गृहीतमिव भासते । अथापि तत्र इष्टसाधनत्वस्मृतिरेवास्ति । स्मृतित्वं तु असकृदभ्यासात् तिरोहितमभूत् । तादृशस्मृतिमिवेत्यर्थः । तत्त्वाग्रहणं—स्मृतित्वाग्रहणम् ॥
असत्ख्यातिपदं यथा सर्वथाऽसदर्थख्यातिपरं व्याख्यातं, तथा अख्यातिपदमपि सर्वथा ख्यात्यभावपरमेवेति मन्वान आक्षिपति अख्यातिपदार्थः ननु ! रजतमिति स्मृतेः स्वरूपोल्लेखो मा भूत् ! इदमित्यत्र पुरोऽवस्थितधर्मिप्रतिभासात् कथमख्यातिः । उच्यते—न पुरोऽवस्थितधर्मो शुक्तिकेयमिति स्पष्टतया गृह्यते, तथाचाभ्युपगमे भ्रमाभावप्रसङ्गात् । किन्तु तेजस्वितादिविपरीतं धर्मिमात्रमवभासते । धर्मसारूप्याच्च तदानीं रजतं स्मर्यते । ते एते ग्रहणस्मरणे विविक्ते अपि विविक्ततया न गृह्येते इति विवेकाग्रहणमख्यातिः; न तु सर्वेण सर्वात्मनाऽप्रतिपत्तिरेव । व्यधिकरणयोश्च ग्रहणस्मरणयोर्वैयधिकरण्यं चेन्न गृहीतं, किमन्यदस्तु सामानाधिकरण्यम्; । न तु यदेवेदं, तदेव रजतमिति सामानाधिकरण्येन ग्रहणमस्ति । सा हि विपरीतख्यातिरेव स्यात्—वैय्यधिकरण्यानुपग्रहादेव प्रमातुः प्रवृत्तिः । अविवेकात्साधारण्याभिमानेन प्रवृत्तिरिति फलत इयं वाचोयुक्तिः ॥
सामानाधिकरण्येन केचित्तत्पृष्ठभाविनम् ।
परामर्शमपीच्छन्ति तन्न श्रद्दध्महे वयम् ॥ ९५ ॥
अख्यातिपक्ष एवं हि हीयेतैकत्ववेदनात् ।
वक्रैश्च वितथाख्यातिः अक्षरैः कथिता भवेत् ॥ ९६ ॥
नन्विति । स्वरूपोल्लेखः—स्मृतित्वाग्रहणम् । विविक्ते—समुच्चयानात्मके । व्यधिकरणयोः—भिन्नविषयकयोः । ननु तयोः विशेषणविशेष्ययोः न वैयधिकरण्याग्रहणमात्रं, सामानाधिकरण्यमपि गृह्यत एवेति चेत्तत्राह—न त्विति ॥
वैय्यधिकरण्येत्यादि । यद्यपि सामानाधिकरण्यमपि भासत इवैवानुभवः, परन्तु सः वैयधिकरण्याग्रहणकृत एव; भारापगमे “सुख्यहम्” इत्यादौ दुःखापगममात्रात् सुखीतिवदिति भावः ॥
केचित्—एकदेशिनः । तत्पृष्ठभाविनं—स्मृतिप्रमोषानन्तरभवं परामर्शं—विशिष्टवैशिष्ट्यावगाद्विज्ञानैम् । एकत्ववेदनात्— ज्ञानद्वय इति शेषः । वक्रैः अक्षरैः—पर्यायशब्दैः । वितथाख्यातिः— अन्यथाख्यातिः ॥
अख्यातिपक्षे बाधकज्ञानकृत्यम्
ननु ! एवमख्यातिपक्षे प्रतिष्ठाप्यमाने “नेदं रजतम्” इति पूर्वावगतरजतप्रतिषेधबोधी बाधकप्रत्ययो दृश्यमानः कथं समर्थयिष्यते ? अप्रतीतिज्ञो देवानां प्रियः । न ह्यनेन रजतनिषेधो विधीयते; किन्तु प्रागगृहीतो विवेकः प्रख्याप्यते । न इदं रजतं; यदेवेदं, तदेव रजतमित्येतन्न; इदमिदं रजतं इति ॥
एतदुक्तं भवति—इदमन्यत्, रजतमन्यदिति सोऽयं विवेकः ख्यापितो भवति ॥
स्वाप्नानुभवस्यापि ग्रहणस्मरणात्मकत्वम्
ननु ! एवं, “इदं रजतम्” इत्यादौ स्मरणानुभवयोर्भवतु विवेकाग्रहणम्; स्वप्ने तु कथमेतद्भविष्यति । भीरो ! किं जातं स्वप्ने ?
विवेकेन न गृह्येते स्मरणानुभवौ क्वचित् ।
स्वप्ने तु स्मृतिरेवैका तथात्वेन न गृह्यते ॥ ९७ ॥
सदृशदर्शनाद्विना स्मृतिरेव कुतस्त्येति चेत्—न—नानाकारणकत्वात्स्मरणस्य निद्राकषायितमप्यन्तःकरणं स्मरणकारणं भवत्येव ॥
द्विचन्द्रभ्रमादीनामपि अख्यातिरूपत्वम्
यद्येवं द्विचन्द्रतिक्तशर्करादिप्रत्ययेषु कथं स्मृतिप्रमोषः ? आः कुण्डशेखर ! कथमसकृदभिहितमपि न बुध्यसे—
स्वप्ने त्विति । जाग्रदवस्थायां, सत्यरजतमिथ्यारजतयोरनुभवः उक्तरीत्या युज्यते । स्वप्नस्तु सर्वोऽपि भ्रम एव । तत्र स्वप्नदर्शनं किमधिष्ठानकम् ? किंविषयकम् ? कथमख्यातिः ? इति प्रश्नार्थः । समाधत्ते—विवेकेनेति । क्वचित्— जाग्रत्काले । स्मृतिरेकैवेति । स्वप्ने एकैव स्मृतिः स्मृतित्वेन न गृह्यते । अदृष्टविशेषवशात् दर्शनसमानाकारतां चापद्यते । अतश्चाख्यातिरेव । स्वाप्नानुभवस्य स्मृतिरूपत्वे स्मृतिहेतोः संस्कारस्योद्बोधकं किमिति पृच्छति— सदृशेति । नानेति । अन्ततः अदृष्टादिकमेव उद्बोधकम् ॥
कुण्डशेखर—“अमृते जारजः कुण्डः”, जारजापशदेति यावत् ।
न सर्वत्र स्मृतेरेव प्रमोषोऽभ्युपगम्यते ।
किन्त्वख्यातिः, अतश्चासौ कथञ्चित्कस्य चित्क्वचित् ॥ ९८ ॥
भवति, अनुभवस्मृत्योर्विवेकाग्रहणं क्वचित् ।
क्वचित्तु स्मर्यमाणस्य तथात्वेनानुपग्रहः ॥ ९९ ॥
द्विधा कृता क्वचिद्वृत्तिर्नेत्रस्य तिमिरादिना ।
न हि ग्रहीतुमैक्येन शक्नोति शिशिरत्विषम् ॥ १०० ॥
क्वचिद्रसनसम्पृक्ते पित्ते तिक्तत्ववेदनात् ।
परिच्छेत्तुं न शक्नोति माधुर्यं शर्करागतम् ॥ १०१ ॥
गृह्णाति यत्तु तिक्तत्वं वस्तुतः पित्तवर्ति तत् ।
तथा तु न विजानाति निगिरन्नेष शर्कराम् ॥ १०२ ॥
एतेन पीतशङ्खादिख्यातयोऽपि व्याख्याताः ॥
अख्यातिवादोपसंहारः तत्प्रयोजनकथनेन
तदेवं सति सर्वत्र सम्यगग्रहणं भ्रमः ।
न मिथ्याप्रत्ययः कश्चिदस्ति शङ्कानिबन्धनम् ॥ १०३ ॥
अजातमिथ्याशङ्कश्च न संवादमपेक्षते ।
तस्मान्न कश्चित् परतः प्रामाण्यमधिगच्छति ॥ १०४ ॥
एवं स्वतः प्रमाणत्वे सिद्धे वेदेऽपि सा गतिः ।
अम्पवादद्वयाभावः वक्तव्यश्चात्र पूर्ववत् ॥ १०५ ॥
कचित्—शुक्तिरजतभ्रमादौ । क्वचित्तु—स्वप्ने तु । तथात्वेन—स्मर्यमाणत्वेन । न हीति । एकश्चन्द्र इति ज्ञानवतामपि अङ्गुल्यवष्टम्भादिना“द्वौ चन्द्रौ” इति प्रतीतिर्दुरतिक्रमा । अतः द्विचन्द्रज्ञाने अन्ततः भिन्नदेशत्वाभावाग्रह एव । पित्ते— पित्तदोषे । तथाचात्र तिक्तत्वे पित्तवृत्तित्वाग्रहः सर्वेषामपि “पीतः शङ्खः” इत्यत्रापि पीतिम पित्तगतं, तद्गतत्वेन न गृह्यते ॥
सम्यगिति । सम्यक्त्वं—यथावस्थितत्वम् । एवमख्यातिवादाङ्गीकारस्य मूलहेतुं प्रकटयति—न मिथ्येत्यादि । शङ्कानिबन्धनं—इदं प्रमा ? न वा ? इतिशङ्कानिदानम् । अपवादद्वयं—पूर्वं [पु। ४३१] प्रतिपादितम् ॥
अख्यातिनिराकरणम् शुक्तिरजतज्ञानं न ज्ञानद्वयरूपम्
अत्र प्रतिविधीयते । यदुक्तं—इदं रजतमितिस्मरणानुभवस्वभावे विवेकेनागृह्यमाणे द्वे एते ज्ञाने इति—तदसाम्प्रतम्— प्रत्यभिज्ञावदेकत्वेनैव संवेद्यमानत्वात् । यदेवेदं पुरोऽवस्थितं भास्वररूपाद्यधिकरणं धर्मिसामान्यं, तदेव रजतमिति विशेषतः प्रतिपाद्यते; यदिदमग्रतः स्थितं, तद्रजतमिति सत्यरजतप्रतीतिवत् । अनुभूततया हि न रजतमत्र प्रकाशते, किन्त्वनुभूयमानतया । अनुभूतताग्रहणं च स्मरणमुच्यते, नानुभूयमानताग्रहणम् ॥
अख्यातिरपि विपरीतख्यातौ पर्यवस्यति
स्वप्रकाशा च संवित्तिरिति भवतां दर्शनम् । तत्रैषां रजतसंवित्तिः केन रूपेण प्रकाशतामिति चिन्त्यम् । यदि स्मरणात्मना, कः प्रमोषार्थः ? अथानुभवात्मना, तदियं विपरीतख्यातिरेव । स्मृतेरनुभवत्वेन, शुक्तेरिव रजतत्वेन प्रतिभासात् ॥
अख्यातिः दुरुपपादा च
अथ संविन्मात्रतयैव प्रकाशते, तदपि न युक्तम्—रजतविषयोल्लेखात् । स्मरणानुभवविशेषरहितायाश्च विषयसंवित्तेरनु-
प्रत्यभिज्ञावदिति । प्रत्यभिज्ञाया अपि ग्रहणस्मरणात्मकत्वे क्षणिकवादावतारप्रसङ्ग इति तत्प्रकरणे [७ आह्निके] विशदीभविष्यति ॥
नानुभूयमानताग्रहणम् । न च तत्र अनुभूतत्वाग्रहणमात्रं, तावतैव अनुभूयमानताग्रहणमिव भवतीति वक्तुं शक्यम्; सत्यरजतप्रतीत्यपेक्षयां वैलक्षण्याननुभवात् । तत्रापि वर्तमानतायामगृहीतायां प्रवृत्तिरेव न स्यात् । अवर्तमानत्वाग्रहणमात्रात्प्रवृत्त्युपपादने च, अन्ततः भ्रमप्रमाविभागोऽपि दुर्वच एव स्यात् ॥
प्रकाशतां—इति तिङन्तम् । कः इत्यधिक्षेपे ॥
ननु न केवलं संविन्मात्रतया प्रकाशते, अपि तु रजतसंवित्त्वेनेत्यत्राह— स्मरणेति । “निर्विशेषं न हि सामान्यम्” । ननु पुरोवर्तित्वांशे प्रत्यक्षत्वं
पपत्तेः । न चेयमप्रतिपत्तिरेवेति वक्तुमुचितम्; मदमूर्छादिदशाविसदृशस्वप्रकाशसंवेदनानुभवात् । यथा इदमित्यंशे स्वप्रकाशं संवेदनं, तथैव रजतमित्यत्रापि ॥
इदमंशस्य प्रत्यक्षत्वं रजतांशस्य स्मृतित्वं च दुर्वचम्
अपि च द्वयोश्चांशयोः समाने संवेदने तत्रैकं प्रत्यक्षलब्धं, अपरं स्मरणफलमिति कुतस्त्यो विभागः ? इदमित्यत्र च किमवभासत इति निरूप्यताम् । यदि शुक्तिकाशकलं, सकलस्वगतविशेषखचितमवभाति, तदा तद्दर्शने सति रजतस्मरणस्य कोऽवसरः ? भवदपि वा सादृश्यकृतं स्मरणं न तदविवेकाय कल्पते, देवदत्तदर्शनानन्तरोद्गततत्सदृशपुरुषान्तरस्मरणवत् ॥
अथ धर्मिमात्रं इदमितिप्रत्यये प्रतिभाति, न शुक्तिशकलं; तद्वाढमिष्यते । तदेव चेदं सामान्यधर्मग्रहणवशविरुद्धसंस्कारोपनिबन्धनविरुद्धविशेषस्मरणकारणकं इदं रजतमिति सामान्योपक्रमे विशेषपर्यवसानं ज्ञानम्; यदिदं तद्रजतमिति सामानाधिकरण्यावमर्शात् । रजतानुभवाभिमानेनैव च रजतार्थी तत्र प्रवर्तते ॥ अख्यातिवादः बौद्धमतमूलकः ननु ! स्मरणानुभवयोर्विवेकमप्रतिपद्यमानः प्रवर्तत इत्युक्तम्— श्रुतमिदम्, यदत्र भवद्भिः धर्मकीर्तिगृहादाहृतम्—“दृश्यविकल्पावर्थावेकीकृत्य प्रवर्तते” इति ॥ गृह्यत एवेति, तदुपरागमात्रात् रजतांशेऽपि स्मृतित्वाग्रहणेऽपि मूर्छादिवैलक्षण्यं सिद्धमित्यत्राह—यथेति ॥
सामान्यधर्मेत्यादि । सामान्यधर्मग्रहस्य वशः—अधीनं; तदुद्बुद्धः इत्यर्थः; यः विरुद्धसंस्कारः, तदुपनिबन्धनं यत् विरुद्धविशेषस्मरणं तत्कारणकं ज्ञानमित्यन्वयः । विरोधश्चात्र असामानाधिकरण्यम् । रजतानुभवाभिमानेनैव, न तु शुक्तित्वाज्ञानमात्रात् ॥
किञ्च चौर्यमपीदं न कथञ्चन स्वार्थं पुष्णाति । यावद्धि “दृश्यं गृहीतम्” इति न जातः प्रत्ययः, तावत् कथं दृश्यार्थिनस्तत्र प्रवृत्तिः । एवमिहापि यावत् “रजतं गृहीतम्” इति न जातः प्रत्ययः, तावत् कुतस्तदर्थिनां प्रवृत्तिः ? तस्मादस्ति रजतग्रहणम्; न तु तत्स्मरणप्रमोषमात्रम् ॥
रजतस्मरणं च रजततया ग्रहणार्थमपेक्षितम्
ननु ! रजतस्मरणं विपरीतख्यातिवादिभिरप्यङ्गीकृतमित्युक्तम् । सत्यम्—रजतगतविशेषस्मरणमभ्युपगतम् । यथा हि पुरोऽवस्थिते धर्मिण्यूर्ध्वत्वादिसाधारणधर्मग्रहणात् स्थाणुपुरुषगतविशेषाग्रहणादुभयविशेषस्मृतेः संशयो भवति, एवमिहापि तेजस्वितादिसामान्यधर्मग्रहणाद्विशेषाग्रहणात् रजतगतविशेषस्मृतेश्च तस्मिन् धर्मिणि रजतप्रत्ययो भवति विपर्ययात्मकः । संशये ह्युभयविशेषस्मरणं कारणम्; इह त्वन्यतरविशेषस्मरणमिति विशेषः । अत एव चागृहीतरजतस्येदं ज्ञानं नोत्पद्यते, सदृशाग्रहणे वा निशीथादाविति ॥
रजतस्मरणमात्रात् न शुक्तिरजतप्रतीतिः
न त्वेतावता स्मरणमात्रमेवेदमितीयति स्थातव्यम्; स्मरणजन्यस्य विपर्ययप्रत्ययस्यापि संवेदनात् । अत एव तत्पृष्ठभावि-
कारणकार्ययोर्विवेकमजानानः पृच्छति—नन्विति । सत्यमित्यादि । पुरतः शुक्तेरेव सत्त्वात् विशेषोपस्थापनाय रजतस्मृतिरपेक्ष्यते । नेयं स्मृतिरेव भ्रमपदवाच्यः, किन्तु भ्रमकारणम् । एवं रजतत्वोपस्थित्या पुरोवर्तिनमपि तादृशं विश्वसिति पुरुषः । नात्र स्मृतिप्रमोषः, स्मृतेः कारणावस्थायां विरमात्, “इदं रजतं” इति ज्ञानस्य ततो भिन्नत्वात् । अगृहीतेति—पूर्वम्मपरिचितेत्यर्थः । निशीथादौ तेजस्विताद्यग्रहणात् सदृशाग्रहणे तादृशः भ्रमः नोत्पद्यते ॥
एवं कारणभूता स्मृतिः, न कार्यभूतविपर्ययपदवाच्या इत्यनुपदोक्तमेवोपपादयति—न त्विति । तत्पृष्ठभाविपरामर्शः—तादृशस्मृतिजन्यविशिष्ट
परामर्शवादिनो वरं सत्यवाचः । ते हि प्रतिभासं न निह्नुवते ॥
अन्यथाख्यातौ कारणोपपादनम्
यत्तु विपर्ययावगतेः कारणं विकल्पितम्, तत्रोक्तमेव प्रामाणिकैः— “
कार्यं चेदवगम्येत किं कारणपरीक्षया ?
कार्यं चेन्नावगम्येत किं कारणपरीक्षया ? इति ॥
” कार्याकस्मिकताऽनुपपत्तेश्च कल्प्यतां कारणम् ! तच्च कॢप्तमेव दोषसहितमिन्द्रियम्—यथा संस्कारसहकारि प्रत्यभिज्ञायामिति ॥
दुष्टं इन्द्रियमेव भ्रमकारणम्
सुवते शालयो दुष्टा न यद्यपि यवाङ्कुरम् ।
शालिकार्यं त्वपूपादि जनयन्त्येव कल्मषम् ॥ १०६ ॥
तस्माद्दोषकलितादिन्द्रियात् पुरोऽवस्थितधर्मिगतत्रिकोणत्वादिविशेषावमर्शकौशलशून्यात् सामान्यधर्मसहचरितपदार्थान्तरगतविशेषस्मरणोपकृताद्भवति विपरीतप्रत्ययः । सम्यज्ज्ञानापेक्षया च तद्दुष्टमुच्यते । स्वकार्ये तु विपर्ययज्ञाने तत्कारणमेव न दुष्टम् । तस्मात् रजतमित्यनुभव एव, न प्रमुषितस्मृतिः ॥ वैशिष्ट्यावगाहि ज्ञानम् । वरं—श्रेष्ठाः । अत्र हेतुः—सत्यवाच इति । प्रतिभासं—रजतभानम् ॥
कार्यमित्यादि । अनुभवसिद्धे किं वृथा चर्चया ? तदनुगुणं समर्थकारणं कल्पतामिति भावः । आकस्मिकता—हेत्वनधीनता । संस्कारसहकारि, इन्द्रियमित्यनुकर्षः ॥
“न हि दुष्टानि” इत्याद्युक्तं [पु। ४५५] समाधत्ते—सुवत इति । कल्मषं बीजाननुरूपं कार्यमित्यर्थः । बीजं ह्यङ्कुरजननाय क्लप्तम् । त्रिकोणत्वादिधर्माः शुक्तिगताः । ननु काचादिदुष्टं चक्षुर्न स्वकार्यक्षमं दृष्टं; तत् कथं दुष्टं इन्द्रियं भ्रमहेतुः ? इति शङ्कां—दोषवैचित्र्यात् परिहरति—सम्यगिति । तदेव कारणं इत्यन्वयः । एवं स्मृत्यपेक्षायामपि प्रत्यभिज्ञावत् भ्रमः प्रत्यक्षानुभव एवेति निगमयति—तस्मादिति ॥
बाधस्वरूपपर्यालोचनया शुक्तिरजतभ्रमे रजतभानोपपादनम्
अपि च, नेदं रजतमिति बाधकज्ञानं पूर्वानुभवविषयीकृतरजतनिषेधमधिगमयदुत्पद्यते । नेदं रजतमिति—“यदहमद्राक्षं तद्रजतं न भवति” इति । प्रसक्तस्य चायं निषेधः । अननुभूतं त्वप्रसक्तमपि प्रतिषिध्यमानं, रजतमिव कनकमपि किमिति न प्रतिषिध्यते ?
अख्यातवाद्युक्तस्य बाधज्ञानकृत्यस्य निरसनम्
यत्तु व्याख्यातम् [पु। ४६३] —प्रागनवगतस्मरणानुभवविवेकप्रतिपादकं बाधकज्ञानमिति—तत् व्याख्यानमात्रमेव, तथाऽननुभवात् । न ह्येवं बाधकमुत्पद्यते “यदविविक्तं तद्विविक्तं” इति । अतो यत्किञ्चिदेतत् । तस्मान्न रजतस्मरणं, रजते वा कदाचिदनुभवोऽभूदिति स्मरणमभिधीयमानं नात्यन्तमलौकिकम् ॥
स्वप्नानुभवस्य अख्यातिरूपत्वासम्भवः
स्वप्ने तु स्वशिरच्छेदादेः अत्यन्ताननुभूतस्य स्मृतिरिति कथ्यमानमेव त्रपाकरम् । जन्मान्तरे निजमस्तकलवनमनुभूतमनेनेति चेत्, इदमपि सुभाषिततरम्—यत् जन्मान्तरानुभूतं स्मर्यते । तत्र च कुतस्त्य एष नियमः—यत् कदाचिदेव स्मर्यते, न सर्वदा सर्वमिति ॥
स्वप्नोऽपि नासद्विषयकः
ननु ! भवताऽपि असत्ख्यातिं निरस्यता स्वप्नज्ञानेषु तादृक्षु किं वक्तम् ? यद्वक्तव्यं, तत् तत्रैव श्रोष्यसि [९ आह्निके] । असन्न प्रतिभातीत्युच्यते, न त्वननुभूतमिति ॥
“नेदं रजतम्” इत्यस्यैव विवरणं, तद्रूपानुभवो वा—यदहमित्यादि । अपिः यद्यर्थकः । अथवा—प्रतिषिध्यमानं—प्रतिषिध्यते चेत् ॥
“प्रागनवगत” इत्यस्य विवेकेऽन्वयः । रजते इति विषयसप्तमी । अलौकिकं नेति न—लोकानुभवविरुद्धमेवेत्यर्थः ॥
स्वेनाननुभूतस्यापि वस्तुनः सत्त्वं युक्तमेव
ननु ! अननुभूतं सत् कथं जानीषे ? सदिति चेत् ज्ञानं; तदनुभूतमिति—मैवम्—मया तन्नानुभूतं, अन्येनानुभविष्यते । परानुभूतं च सदिति शक्यते वक्तुम् । परानुभूते तु स्मरणमघटमानमिति नावयोरत्र वस्तुनि समानयोगक्षेमत्वम् ॥
स्वप्नस्य विपरीतख्यातिरूपत्वं अनिवार्यम्
अपि च भवन्मते स्वप्नस्मृतेः स्मृतित्वेनाग्रहणे, केन रूपेण ग्रहणमिति चिन्त्यम् । रूपान्तरेण ग्रहणे विपरीतख्यातिः । सर्वात्मना त्वग्रहणे स्वप्नसुषुप्त्योरविशेषप्रसङ्गः । अनुभवप्रत्ययश्च स्वप्ने संवेद्यते, न स्मरणानुल्लेखमात्रमिति दुरभिनिवेश एव स्मृतिप्रमोषसमर्थनं नामेति ॥
द्विचन्द्रज्ञानादीनां अख्यातिरूपत्वासम्भवः
द्विचन्द्रादिप्रत्ययेषु कथमख्यातिः ?
ननु ! उक्तं [पु। ४६४] —तिमिरसीमन्तिता नयनवृत्तिः एकत्वेन गृहीतुं न शक्नोति शशाङ्कं—इति । भोः श्रोत्रिय ! तादृशी दृशो वृत्तिः एकत्वमिन्दोर्मा ग्रहीत्; द्वित्वानुभवं तु भान्तं क्व प्रच्छादयामः ॥
ननु चक्षुर्वृत्तौ तद्द्वित्वं, तद्गतत्वेन तु यत्तस्याग्रहणं स एव भ्रमः—नैतदेवम्—नेत्रवृत्तेः सर्वत्र परोक्षत्वात् ॥
किमेकचन्द्रबोधेऽपि वृत्त्येकत्वं प्रतीयते ?
इयं ह्यगृह्यमाणैव चक्षुर्वृत्तिः प्रकाशिका ॥ १०७ ॥
नन्विति । यद्यननुभूतं भाति, तर्हि कथं तस्य सत्त्वमवगतम् ? यदि च सत्त्वज्ञानं तदा, तर्ह्यनुभूतमेव तत्, नाननुभूतमित्युभयथाऽपि दोष इत्यर्थः । स्मरणं, स्वस्येति शेषः । वस्तुनि—विषयदृष्ट्येति यावत् ॥
अपि चेत्यादि । संविन्मात्रतया भानं तु पूर्वमेव [पु। ४६५] निरस्तम् ॥
तिमिरसीमन्तिता—तिमिरेण दोषेण प्रत्येकं कृतमर्यादा ॥
एवमुच्यमाने च एकचन्द्रग्रहणेऽपि वृत्त्येकत्वाग्रहणादख्यातिरेव भवेत् ॥
तिक्तशर्कराप्रत्ययस्याप्यख्यातिरूपत्वासम्भवः
यदपि—तिक्तशर्करादिप्रत्ययेष्वख्यातिसमर्थनकदाशया पित्तवृत्तेस्तिक्तत्वस्य संवेद्यमानस्य तत्स्थत्वेनाग्रहणमुपवर्णितम्—तदपि कुशकाशावलम्बनप्रायम् ॥
मोहात् पित्तगतत्वेन तिक्तता चेन्न गृह्यते ।
मा ग्राहि, शर्करायां तु किङ्कृता तिक्ततामतिः ? ॥ १०८ ॥
सामानाधिकरण्येन हि “तिक्ता शर्करा” इति तदधिकरणा तिक्तताप्रतीतिरुपजायते । पित्तं त्विन्द्रियस्थं तिमिरवदगृह्यमाणमपि भ्रममुपजनयति, शरीरस्थमिव ज्वरं शिरोऽर्त्यादिरोगमित्यलं प्रसङ्गेन ॥
अख्यातिसाधनमात्रेण न स्वतःप्रामाण्यसिद्धिः
एवं सर्वत्र नाख्यातिर्निर्वहन्तीव लक्ष्यते ।
न चैतयाऽपि परतःप्रामाण्यमुपहन्यते ॥ १०९ ॥
रजतेऽनुभवः किं स्यात् ? उत प्रमुषिता मतिः ?
द्वैविध्यदर्शनादेवं भवेत्तत्रापि संशयः ॥ ११० ॥
ननु अत एव द्वित्वं तद्गतत्वेन न गृह्यत इति वदाम इति चेत्, तर्हि एतादृश्यख्यातिः प्रमायामपि सुलभेत्याह—एवमिति ॥
शर्करायां—शर्करागतत्वेनेति भावः । तदधिकरणातिरिक्तता— पित्तभिन्नशर्करावृत्तिता । शरीरस्थं ज्वरं यथा शिरोबेदनामुपजनयति तथेत्यर्थः । यद्यपि ज्वरं सर्वं न सर्वथाऽतीन्द्रियं, अथापि अस्ति तादृशमपि ज्वरं क्वचित् ॥
रजते—रजतविषयिणी मतिरित्यन्वयः । सर्वस्यापि ज्ञानस्य वस्तुगत्या यथार्थत्वेऽपि शुक्तिरजताद्यनुभवस्य सत्यरजतानुभवापेक्षया वैलक्षण्यं वक्तव्यमेव । एवञ्चानुभवद्वैविध्यदर्शनात्, प्रमाभ्रमपदार्थत्वस्य यादृशतादृशत्वेऽपि संशयः अनतिक्रमणीय एव । अतः संवादाद्यपेक्षायाः सत्येन परतः प्रामाण्यं दुष्परिहरम् ॥
संशयानश्च संवादं नूनमन्वेषते जनः ।
तदपेक्षाकृतं तस्मात् प्रामाण्यं परतो ध्रुवम् ॥ १११ ॥
शून्यवादनिरासाय सर्वेषां ज्ञानानां यथार्थत्वं न वक्तव्यम्
न चैष शून्यवादस्य प्रतीकारक्रियाक्रमः ।
अनर्थजा हि निर्दग्धपित्रादौ भवति स्मृतिः ॥ ११२ ॥
दृष्टान्तीकृत्य तामेव शून्यवादी समुत्थितः ।
भ्रमापह्नवमात्रेण प्रतिहन्तुं न शक्यते ॥ ११३ ॥
एवं परतःप्रामाण्यखण्डनेन शून्यवादिनिरासो न भवति
अथास्ति काचित्परतः प्रामाण्यस्य निषेधिका ।
शून्यवादस्य या युक्तिः सैव वाच्या किमेतया ? ॥ ११४ ॥
तस्माद्यथार्थमस्याः संश्रयणं तन्न निषिद्धमख्यातेः ।
संविद्विरोध एव प्रकटित इति धिक् प्रमादित्वम् ॥ ११५ ॥
तदुक्तम्—
“
कृतश्च शीलविध्वंसः न चानङ्गश्च सङ्गतः ।
आत्मा च लाघवं नीतः तच्च कार्यं न साधितम् इति ॥
” अन्यथाख्यातेः असत्ख्यातावपर्यवसानम्
यत्पुनर्विपरीतख्यातौ पक्षत्रयमाशङ्क्य दूषितम् [पु। ४५६] — तदपि न युक्तम्—अस्तु तावदयमेव आद्यः पक्षः “रजतमालम्बनं, तदेव चास्यां प्रतीतौ परिस्फुरति” इति ॥
ननु पुरतः अविद्यमानस्यैव रजतादेर्भानाङ्गीकारे, एवं अर्थमन्तरैव सर्वोऽपि प्रत्यय उत्पन्नो भवतीति वदन् शून्यवादी कथं निरसितुं शक्यः ? इत्यत्राह—न चेति । शुक्तिरजतभ्रममादायैव न शून्यवादः प्रसञ्जितः । किन्तु अर्थमन्तराऽपि स्मृतेर्दर्शनात् तदॄष्टान्तेनैव । अधिकं परस्तात् [९ आह्निके] अतः शून्ययादिनो भीत्या नाख्यातिरङ्गीकरणीया ॥
अथेति । शून्यवादस्य निषेधिकेत्यनुकर्षः । यदि परतः प्रामाण्यनिषेधेन शून्यवादो निरस्यः, तदा सफलः प्रयासः । तत्तु न । अतः किमेतया चर्चया ॥
ननु ! अत्र चोदितं [पु। ४५६] “असत्ख्यातिरेव सा भवेत्” इति; नैतत् साधु । देशान्तरादौ रजतस्य विद्यमानत्वात् । असत्ख्यातिपक्षे हि एकान्तासतोऽर्थस्य प्रतिभानमङ्गीक्रियते । इह तु देशान्तरादौ विद्यमानस्येति महान् भेदः ॥
ननु ! तत्रासतोऽर्थस्य किं देशान्तरचिन्तया ?
किं कुर्मः ? तादृशस्यैव वस्तुनः ख्यातिदर्शनात् ॥ ११६ ॥
यस्तु देशान्तरेऽप्यर्थो नास्ति कालान्तरेऽपि वा ।
न तस्य ग्रहणं दृष्टं गगनेन्दीवरादिवत् ॥ ११७ ॥
अयमेव च द्वयोरसत्त्वयोर्विशेषः, यत् एकस्य ग्रहणं दृष्टं, इतरस्य न दृष्टमिति ॥
तत्रासतोऽपि भानसम्भवोपपादनम्
ननु ! उक्तं [पु। ४५९] तत्र असतोऽर्थस्य कथं ज्ञानजनकत्वम् ? अजनकस्य वा कथं प्रतिभासः ?
उक्तमत्र [पु। ४५७] सदृशपदार्थदर्शनोद्भूतस्मृत्युपस्थापितस्य रजतस्यात्र प्रतिभासनमिति । न चास्योपस्थापनं पशोरिव रज्वा संयम्य ढौकनम्, अपि तु हृदये परिस्फुरतोऽर्थस्य बहिरवभासनम् । न चैतावतेयमात्मख्यातिः, असत्ख्यातिर्वेति वक्तव्यम्; विज्ञानात् विच्छेदप्रतीतेः, अत्यन्तासदर्थप्रतिभासाभावाच्चेति ॥
शुक्तिरजतभ्रमे शुक्तेरालम्बनत्वेऽपि न क्षतिः
अथवा पिहितस्वाकारा परिगृहीतपराकारा शुक्तिकैवात्र प्रतिभातीति भवतुद्वितीयः [पु। ४५७] पक्षः ॥
तत्रासत इति । तत्र यदि नास्ति, तर्हि देशान्तरस्थितिः कुत्रोपयुज्यते । तत्रासत्तु भासत एवेति पूर्वार्धस्य भावः । सर्वथाऽसतः कुत्राप्यभानात् देशान्तरावस्थितिरेव प्रकृतभानप्रयोजिकेति समाधानम् । एकस्य— तत्रासतः । ग्रहणं, अन्यत्रेति शेषः । न दृष्टं, क्वापीति शेषः ॥
ढौकनं—ढौकृगताविति धातुः । विच्छेदप्रतीतेः—ज्ञानं तु अन्तर्मुखतया भाति, विषयस्तु बहिष्ट्वेन ॥
ननु ! उक्तं [पु। ४५७] कृत्यासीतावत् किमिदं वेशभाषापरिवर्तनम् ? कथं च रजतज्ञाने शुक्तिकावभासितुमर्हतीति— श्रुतमिदं नाटकम्—न तु वयमत्रोपहासपात्रम् । शुक्तिकेति वस्तुस्थितिरेषा कथ्यते । पुरोऽवस्थितं धर्मिमात्रं भास्वररूपादिसादृश्योपजनितरजतविशेषस्मरणमत्र प्रतिभातीति ब्रूमः—“यदेतत्पुरः किमपि वर्तते तद्रजतम्” इत्यनुभवात् । वस्तुस्थित्या तु शुक्तिरेव सा त्रिकोणत्वादिविशेषग्रहणाभावाच्च निगूहितनिजाकारेत्युच्यते, रजतविशेषस्मरणाच्च परिगृहीतरजताकारेति ॥
भ्रमद्वैविध्यम्
एतच्च विषयेन्द्रियादिदोषप्रभवेषु शुक्तिकारजतावभासभास्करकिरणजलावगमजलदगन्धर्वनगरनिर्वर्णनरज्जुभुजगग्रहणरोहिणीरमणद्वयदर्शन-शङ्खशर्करापीततिक्ततावसाय-केशकूर्चकालोकनादिविभ्रमेष्वभ्युपगम्यते । मनोदोषनिबन्धनेषु तु मिथ्याप्रत्ययेषु निरालम्बनेषु स्मृत्युल्लिखित एव आकारः प्रकाशत इति ॥
शुक्तिरालम्बनं, भानं तु रजतस्येति पक्षेऽपि न दोषः
यस्तु तृतीयः पक्षः [पु। ४५८] “अन्यदालम्बनं, अन्यश्च प्रतिभाति” इति कैश्चिदाश्रितः—तत्रापि न सन्निहितस्यालम्बनत्वमुच्यते, येन भूप्रदेशस्यापि तथात्वमाशङ्क्येत ॥
नापि जनकस्यालम्बनत्वम्, यच्चक्षुरादावपि प्रसज्येत । किन्तु इदमित्यङ्गुल्या निर्दिश्यमानं कर्मतया यज्ज्ञानस्य जनकं, तदालम्बनमित्युच्यमाने न कश्चिद्दोषः ॥
देशकूर्चादिभ्रमेषु आलम्बनकथनम्
ननु ! केशोण्ड्रकज्ञाने किमालम्बनकारणम् ? किञ्चित्तु तिमिरं रोमराजिरिव नयनधाम्नो मध्य एवास्ते । तेन द्विधाकृता नयनवृत्तिः
पुरोऽवास्थतमिति । यदवलम्ब्य ज्ञानमुत्पद्यते, तदेवालम्बनमिति शुक्त्यवष्टम्भेनैव रजतभानात् शुक्तिरेवालम्बनं वाच्यमित्यर्थः ॥
निरालम्बनेषु—बाह्यालम्बनशून्येषु ॥
किञ्चित्तु—विलक्षणं, यादृशं तिमिरं चाक्षुषप्रत्यक्षविरोधि च न स्यात् ॥
द्वित्वेन चन्द्रमसं गृह्णाति । किञ्चित्तु तिमिरं तत्र विवरवदन्तराऽन्तरा तिष्ठति चक्षुषः । तेन विरलप्रसृता नयनरश्मयः सूक्ष्माः सूर्यांशुभिरुपहन्यमानाः केशकूर्चकाकारा भवन्तीति तदेवालम्बनम् । अनुदितेऽस्तमिते वा सवितरि केशोण्ड्रकप्रत्ययस्यानुत्पादात् ॥
गन्धर्वनगरज्ञाने जलदाः पाण्डुरत्विषः ।
आलम्बनं गृहाट्टलप्रकाराकारधारिणः ॥ ११८ ॥
तस्मात् विपरीतख्यातौ पक्षत्रयमपि निरवद्यम् ॥
ख्यातिसाङ्कर्यपरिहारः
यः पुनः इतरेतरसङ्करः ख्यातीनामुदाहारि [पु। ४६०] —तत्र आत्मख्यात्यख्याती अपवर्गाह्निके [९तमे] वयमपि विज्ञानाद्वैतमपाकरिष्यन्तः पराकरिष्याम इति किं तच्चिन्तया ? विपरीतख्यातौ तु तत्साङ्कर्यं परिहृतम् ॥
अख्यातेः विपरीतख्यातिहेतुत्वम्
यत्पुनरवादि—“सर्ववादिभिः स्मृतिप्रमोषोऽभ्युपगत एव । प्राभाकरैस्तुयशः पीतम्” इति [पु। ४६०] —तत्र वाद्यन्तराणि तावत् यथा भवन्ति, तथा भवन्तु । वयं तु स्मृत्युपारूढरजताद्याकारप्रतिभासमभिवदन्तो बाढं स्मृतिप्रमोपमभ्युपगतवन्तः । किन्तु न तावत्येव विश्राम्यति मतिः । अपि तु रजताद्यनुभवोऽपि संवेद्यत इति न स्मृतिप्रमोषमात्र एव विरन्तव्यम् । अतो विपरीतख्यातिपक्ष एव निरवद्य इति स्थितम् ॥
निरवद्य इति । यद्यपि “तद्धेतोरेव तद्धेतुत्वे मध्ये किं तेन ?” इति न्यायात् विपरीतख्यातिहेतुनैव अख्यात्या भ्रमनिर्वाहे सोपानान्तरारोहणं गौरवग्रस्तम्—परन्तु रजतप्रतीतेरनुभवसिद्धत्वेन न गौरवलाघवचर्चाया अवकाशः । यथोक्तमभियुक्तैः—“स्वारस्यमन्यथाख्यातावख्यातौ लाघवं स्थितम्” । [न्या। प। १-१] इति ॥
विषयापहारस्यैव बाधरूपत्वम्
यस्तु बाधप्रकारः प्राग्विकल्पितः—तत्र सहानवस्थानसंस्कारोच्छेदादिपक्षा अनभ्युपगमेनैव निरस्ता इत्यस्थाने कण्ठशोष आयुष्मताऽनुभूतः । विषयापहारस्तावदस्तु बाधः । विषयस्य च न प्रतिभातत्वमपह्रियते, किन्तु प्रतिभातस्यासत्त्वं ख्याप्यत इत्यपहारार्थः । असत्त्वमपि नेदानीमुपनतस्य ख्याप्यते, येन पूर्वदृष्ट द्रघणभग्नकुम्भाभावप्रतिभासवदबाधः स्यात् । न च तदानीमप्यभावग्रहणे वस्तुनो द्व्यात्मकत्वमाशङ्कनीयम्; पूर्वावगताकारोपमर्दद्वारेण बाधकप्रत्ययोत्पादात्; यन्मया तदा रजतमिति गृहीतं तद्रजतं न भवति, अन्यदेव तद्वस्त्विति ॥
प्रतीतयः न वर्तमानमात्रविषयिण्यः
ननु ! स्वकालनियतत्वात् ज्ञानानां कथमुत्तरस्य ज्ञानस्य पूर्वज्ञानोत्पादकालावच्छिन्नतद्विषयाभावग्रहणसामर्थ्यम् ?—किं कुर्मः ? तथा प्रत्ययोत्पादात् । न भग्नघटवदिदानीं तन्नास्तिता गृह्यते, अपि तु तदैव तदसदिति प्रतीतिः । यथा च न वर्तमानैकनिष्ठा एव विषयप्रतीतयस्तथा क्षणभङ्गभङ्गे [९ आह्निकं] वक्ष्यामः ॥
फलापहारस्य बाधत्वपक्षोऽपि युक्तः
अथवा फलापहारो भवतु बाधः । प्रमाणफलत्वं च हानादिबुद्धीनां प्रत्यक्षलक्षणे वर्णितमिति [पु। १७४] तदपहरणात् प्रमाणं बाधितं भवत्येव । किङ्कुर्वता बाधकेन प्रमाणफलमपहृतमिति चेत्—
इदानीं—बाधप्रत्ययकाले उपनतस्य, असत्त्वस्येति शेषः । न हि कालभेदेन सत्त्वासत्त्वयोर्विरोधः । तदानीं—भ्रमकाले । द्व्यात्मकत्वमिति । भ्रमकाले सत्त्वेनैव भानात्, तदानीमेवासत्त्वस्यापि भानाच्चेति भावः । पूर्वेत्यादि । तदानीमसत्त्वं न हि तदानीमेव भातम्, येन द्व्यात्मकता स्यात् इति भावः ॥
स्वकालेत्यादि । ज्ञानं हि वर्तमानैकविषयं, प्रत्युत ऐन्द्रियिकम् । अतीतादिविषयकं तु स्मृतिरेव । अतश्च प्रत्यक्षं वर्तमानैकग्राहीति अनन्तरकालिकः बाधप्रत्ययः पूर्वकालिकासत्त्वं कथमवगमयेदित्यर्थः ॥
गायता नृत्यता वाऽपि जपता जुह्वताऽपि वा ।
तच्चेत् कार्यं कृतं तेन किमवान्तरकर्मणा ? ॥ ११९ ॥
तदभ्युपगमे वाऽपि तत्किं विदधता कृतम् ?
तच्च किं कुर्वतेत्येवमवधिः को भविष्यति ? ॥ १२० ॥
तदलममुनाऽवान्तरप्रश्नेन । सर्वथा बाधकप्रत्ययोपजनने सति हानादिरूपं पूर्वप्रमाणफलं निवर्तत इति तेन तद्बाधितमुच्यते ॥
बाधकज्ञानस्य विषयकथनम्
समानासमानविषयविकल्पोऽपि [पु। ४५४] न पेशलः—एकस्मिन् विषये विरुद्धाकारग्राहिणोर्ज्ञानयोर्बाध्यबाधकभावाभ्युपगमात् । चित्रादिप्रत्यये कथं न बाध इति चेत्; पूर्वज्ञानोपमर्देनोत्तरविज्ञानानुत्पादात् ॥
अत एव एकत्रापि धर्मिणि बहूनां धर्माणामितरेतरानुपमर्देन वेद्यमानानामस्त्येव समावेशः ॥
पूर्वज्ञानेनोत्तरज्ञानस्य न बाधसम्भवः
पूर्वोपमर्देनोत्तरविज्ञान जन्मतश्च एतदपि प्रत्युक्तं भवति, यदुक्तं [पु। ४५४] —“पूर्वस्मिन् प्रत्यये प्राप्तप्रतिष्ठे सत्यागन्तु ज्ञानमुत्तरं बाध्यताम्” इति—यतः पूर्वोपमर्देनैव तदुत्तरं ज्ञानमुदेति; विषयसहायत्वात्, प्रमाणान्तरानुगृह्यमाणत्वाच्च उत्तरमेव ज्ञानं बाधक-
बाधकं ज्ञानं किं करोति ? इति प्रश्नः—“गाति” इत्युक्ते, तत्र किं कृत्वा गातीति प्रश्नतुल्य इत्याह—गायतेति । उत्तरत्रोत्तरत्र क्रियान्तरान्वेषणे अनवस्थाप्रसङ्गः ॥
अत एव—परस्परानुपमर्देनोत्तरविज्ञानोत्पादादेव । एकत्रापीत्यादि । “घटोऽयं नीलः, महान्, एकः, पटसंयुक्तश्च” इत्यादिप्रतीतिः अत्र प्रमाणम् ॥
यत इत्यादि । पूर्वज्ञानं असञ्जातविरोधित्वात् प्रबलमिति चेत्, सत्यम् । परन्तु ज्ञानस्य करणाधीनत्वेन पुरुषतन्त्रत्वाभावात् जायमानं ज्ञानं पूर्वमुपमृद्यैव जातमिति ततोऽपि उत्तरं ज्ञानमेव प्रबलम् । अन्यथासिद्धात् पूर्वात् परमेव ह्यनन्यथासिद्धं प्रबलम् । अङ्गगुणविरोधन्यायस्यासञ्जातविरोधन्या
मिति युक्तम् । तस्मादस्ति ज्ञानानां बाध्यबाधकभावः । स चायं बाधव्यवहारो विपरीतख्यातिपक्ष एव सामर्थ्यमस्खलितं दधातीति स एव ज्यायान् ॥
भ्रमे अलौकिकरजतादिभानपक्षः
अज्ञः कोऽपि नाम मीमांसकस्त्वाह—येयं शुक्तिकायां रजतप्रतीतिर्विपरीतख्यातिरिति तद्वादिनामभिमता, सा तथा न भवतीति, सत्यरजतप्रतीतिवदत्राप्यवभास्यरजतसद्भावात् । लौकिकालौकिकत्वे तु विशेषः । रजतज्ञानावभास्यं हि रजतमुच्यते, तच्च किञ्चित् व्यवहारप्रवर्तकं, किञ्चिन्नेति । तत्र व्यवहारप्रवर्तकं लौकिकमुच्यते, ततोऽन्यदलौकिकमिति । यच्च शुक्तिकाशकलमिति भवन्तो बदन्ति, तदलौकिकं रजतम् । रजतज्ञानावभास्यत्वात् रजतं तत्, व्यवहाराप्रवृत्तेरलौकिकमिति ॥
भ्रमे अलौकिकरजतभानपक्षनिरासः
तदेतदपरामृष्टसंवेदनेतिवृत्तस्याभिनवपदार्थसर्गप्रजापतेरभिधानम् । बाधकप्रत्ययेन तत्र रजताभावस्य ख्यापनात् । नेदं रजतमिति हि रजतं प्रतिषेधत्येष प्रत्ययः, न विद्यमानरजतस्यालौकिकत्वमवद्योतयति इति ॥
अथ नेदं लौकिकमिति व्याख्यायते; हन्त ! वाक्यशेषः क्रियतां “संयजत्रैरङ्गानि” इतिवत् । सोऽयं श्रोत्रियः स्वशास्त्रवर्तनी- यापवादत्वं मीमांसकै [कौस्तु। ३-३-१] रप्यङ्गीकृतमेव । विपरीतख्यातिपक्ष एवेति । अख्यातिपक्षे ज्ञानद्वयस्यापि यथार्थत्वेन नेदृशं बाधनं स्वरसतो वर्णितुं शक्यमित्यर्थः ॥
किं नाम लौकिकत्वमलौकिकत्वं च ? कश्च तयोस्साधारणो धर्मः ? इत्यग्राहरजतज्ञानेत्यादि । व्यवहारः—कटकनिर्माणादिः । वदन्ति इत्यत्र बाधकाल इति शेषः । प्रतीतिकाले तु रजतमित्येव भानात् रजतज्ञानावभास्यत्वरूपं रजतत्वसामान्यं तत्रास्त्येव । न्यायकन्दल्यामप्ययं पक्षः [पु। १८१] प्रदर्शितः ॥
रजतं—रजतसामान्यम् । विद्यमानस्य तदानीं भातस्येति भावः ॥
व्याख्यायते, बाधकप्रत्यय इति शेषः । संयजत्रैरित्यादि । अननुषङ्गाधिकरण [२-१-४९] विषयोऽयम् । “सं ते प्राणो वायुना गच्छतां
मिहापि न तां त्यजति; न तु तस्या अयमवसरः । अगृह्यमाणे तु रजताख्येऽन्यधर्मिणि कथं तद्धर्मत्वेन लौकिकत्वं गृह्यते ? रजताभावग्रहणे त्वेष न दोषः । भावतदभावयोः धर्मधर्मिभावाभावात् । स्मर्यमाणप्रतियोग्यवच्छिन्नो हि अभावो गृह्यत एव । तस्मादत्र मास्त्येव रजतं, न पुनरलैकिकं तदस्ति ॥
लौकिकालौकिकरजतसामान्यं न प्रामाणिकम्
न च रजतज्ञानावभास्यत्वमात्रं रजतलक्षणम्; अपि तु अबाधितरेजतज्ञानगम्यत्वम् ॥
वस्तुनि लौकिकालौकिकविभागोऽप्यप्रामाणिकः
अपि च लौकिकालौकिकप्रविभागः प्रतिभासनिबन्धनो वा स्यात् ? व्यवहारसदसद्भावनिबन्धनो वा ? न तावत् प्रतिभासनिबन्धनः, तथा प्रतीत्यभावात् । क्वचिद्धि रजतं, क्वचिच्च तदभावः प्रतीयते; न तु लौकिकत्वमलौकिकत्वं वा ॥
अथ व्यवहारप्रवृत्त्यप्रवृत्तिभ्यां लौकिकालौकिकत्वे व्यवस्थाप्येते—तद्वक्तव्यं कोऽयं व्यवहारो नामेति । ज्ञानाभिधानस्वभावो हि व्यवहारः; स च तद्विषयो नास्तीत्युक्तम् । तदर्थक्रियानि- संयजत्रैरङ्गानि” इत्यत्र “हे पशो” ते प्राणो वायुना सङ्गच्छतां, अङ्गानि यजत्रैः— यागविशेषैः सङ्गच्छन्ताम्ऽ इत्यर्थे वर्णनीये “गच्छतां” इत्यस्यैवानुषङ्गः वचनविपरिणामेन युक्तः—इति पूर्वपक्षे, “गच्छतां” इत्यस्यैकवचनान्तत्वेन श्रौतं पदं नानुषक्तुं शक्यं, किन्तु “गच्छन्तां” इति लौकिको वाक्यशेषः कर्तव्यः इति सिद्धान्तितम् । लौकिकत्वं कथं गृह्यते, अग्रहणे कथं तस्य निषेधः ? इति तात्पर्यम् । ननु भवन्मते वा रजतनिषेधः कथम् ? पूर्वं रजतं न गृहीतमेव, भसत्त्वात् । अगृहीतस्य च निषेधो न भवत्येवेत्यत्राह—भावतदभावयोरिति । निषेधस्तु अविद्यमानस्यैव, नागृहीतस्येति सारम् । न पुनः—न तराम् ॥
तथा—लौकिकत्वेनालौकिकत्वेन वा ॥
ज्ञानाभिधाने—ज्ञानं व्यवहारश्च । तद्विषयः—रजतादिविषयः । तदर्थक्रियेति । तत्सम्पाद्यार्थक्रियेत्यर्थः । अर्थक्रियायाः—जलाहरणादिरूपायाः ॥
र्वर्तनं व्यवहार इति चेत्, तर्हि स्वप्ने परिरभ्यमाणाया योषितः, कूटकार्षापणस्य च लौकिकत्वं प्राप्नोति । उत्पद्य नष्टे घटे अर्थक्रियाया निवृत्तेरलौकिकत्वं स्यात् ॥
अपि च यः शुक्तिकायां रजतव्यवहारं न करोति, स रजताभावमेव बुध्द्वा; न रजतस्य सतस्तस्यालौकिकताम् ॥
अलौकिकरजतभानमतेऽपि अन्यथाख्यातिरवर्जनीया
यदि चेदमलौकिकं रजतं तत् किमर्थमिह तदर्थक्रियार्थं प्रवर्तते ? अलौकिकं लौकिकत्वेन गृहीत्वेति चेत्—सैवेयं तपस्विनी विपरीतख्यातिरायाता । तस्मात् विपरीतख्यातिद्वेषेण कृतमीदृशा । अत्रापि लोकसिद्धैव प्रतीतिरनुगम्यताम् ॥
स्वतःप्रामाण्यसाधनायाख्यातिवादः न पर्याप्तः
न वा मीमांसका एते स्वभार्यामपि वेश्मतः ।
निस्सारयितुमिच्छन्ति स्वतःप्रामाण्यतृष्णया ॥ १२१ ॥
न चैवमपि तत्सिद्धिः बुद्धिद्वैविध्यदर्शनात् ।
संशये सति संवादसापेक्षत्वं तथैव तत् ॥ १२२ ॥
क्लेशेन तदमुनाऽपि स्वार्थस्तेषां प्रसिद्ध्यति न कश्चित् ।
यद्भवति दैवगत्या राजपथेनैव तद्भवतु ॥ १२३ ॥
अपि चेत्यादि । भ्रान्तः यां शुक्तिं दृष्ट्वा रजतं जानाति, तदैव तां अभ्रान्तो रजततया न व्यवहरतीत्यत्र, तेन तथाऽज्ञानमेव हि हेतुर्वाच्यः, न तु तत्रालौकिकरजतसत्तां जानन्नेव लौकिकरजताभावं निश्चित्य तां शुक्तिकां व्यवहरति । अतः अलौकिकरजतभानं अनुभवविरुद्धम् ॥
ईदृशा द्वेषेण कृतं—अलमित्यर्थः ॥
न वा इच्छन्ति इति काकुः । स्वतःप्रामाण्यव्यामोहेन अलौकिकमेव व्यवहरन्तीति कृत्याकृत्यमपि न जानन्तीति वा उपहासः । बुद्धिद्वैविध्यं प्रमाभ्रमभेदेन । स्वार्थः—स्वाभिमतम् । यद्भवतीत्यादि । यत्तु सर्वथाऽनिवार्यं, तत् हार्दमेव स्वीकुर्मः । न तु दौर्बल्येन अपथे गन्तव्यमिति भावः ॥
ख्यातिवादोपसंहारः
नात्मख्यातिर्बाह्यतयाऽर्थप्रतिभासात्
नासत्ख्यातिर्न ह्यसतां धीविषयत्वम् ।
उक्तोऽख्यातौ दूषणमार्गो विपरीत-
ख्यातिस्तस्मादाश्रयणीया मतिमद्भिः ॥ १२४ ॥
वेदानां प्रामाण्यं परत एव
स्थिते च तस्मिन् विपरीतवेदने
तदीयसाधर्म्यकृतोऽस्ति संशयः ।
तदा च संवादमुखप्रतीक्षणात्
भजन्ति बोधाः परतः प्रमाणताम् ॥ १२५ ॥
प्रत्यक्षादिप्रमाणानां तद्यथाऽस्तु तथाऽस्तु वा ।
शब्दस्य हि प्रमाणत्वं परतो मुक्तसंशयम् ॥ १२६ ॥
वेदे प्रामाण्यनिश्चयमन्तरा तद्विहितेषु न प्रवृत्तिसम्भवः
दृष्टे हि विषये प्रामाण्यनिश्चयमन्तरेणैव लघुपरिश्रमेषु कर्मसु प्रवृत्तिरिति तदुपयोगिप्रत्यक्षादिप्रमाणप्रामाण्यनिश्चये दुरुपपादे कोऽभिनिवेशः ? शब्दे पुनः अदृष्टपुरुषार्थपथोपदेशिनि प्रामाण्यमनिनिश्चत्य महाप्रयत्ननिर्वर्त्यानि ज्योतिष्टोमादीनि न प्रेक्षापूर्वकारिणो यज्वानः प्रयुञ्जीरन्नित्यवश्यं निश्चेतव्यं तत्र प्रामाण्यम् । तच्च परत एवेति ब्रूमः ॥
शब्दानां परतःप्रामाण्ये हेतुः
शब्दस्य वृद्धव्यवहाराधिगतसम्बन्धोपकृतस्य सतः प्रतीतिजनकत्वं नाम रूपमवधृतम् । तत्तु नैसर्गिकशक्त्यात्मकसम्बन्ध-
अस्ति संशयः—बोधत्वरूपसाधारणधर्मकृतः सर्वत्रापि ज्ञाने “इदं प्रमाण न वा ?” इति भवत्येव । मुक्तसंशयं इति क्रियाविशेषणम् ॥
अदृष्टपुरुषार्थोपदेशिनि शब्दे—वेदे । दृष्टार्थविषयकलौकिकशब्दस्य तु अनुपदोक्तप्रत्यक्षतुल्या गतिरिति भावः ॥
महिम्ना वा, पुरुषघटितसमयसम्बन्धवलेन वेति विचारयिष्यामः [४ आह्निकम्] । प्रकाशकत्वमात्रं तु दीपादेरिव तस्य रूपम् । यथा हि दीपः प्रकाशमानः शुचिमशुचिं वा यथासन्नितहितमर्थमवद्योतयति, तथा शब्दोऽपि पुरुषेण प्रयोज्यमानः श्रवणपथमुपगतः सत्येऽनृतेऽवा, समन्वितेऽसमन्विते वा, सफले निष्फले वा, सिद्धे कार्ये वाऽर्थे प्रमितिमुपजनयतीति तावदेवास्य रूपम् । अयं तु दीपाच्छब्दस्य विशेषः—यदेष सम्बन्धव्युत्पत्तिमपेक्षमाणः प्रमामुत्पादयतीति, दीपस्तु तन्निरपेक्ष इति ॥
वक्तृगुणदोषाधीने एव शब्दप्रामाण्याप्रामाण्ये
तस्याः शब्दजनितायाः प्रमितेः यथार्थेतरत्वं पुरुषदर्शनाधीनम्—सम्यग्दर्शिनि शुचौ पुरुषे सति सत्यार्था सा भवति प्रतीतिः, इतरथा तु तद्विपरीतेति । तत्र यथा नैसर्गिकमर्थसंस्पर्शित्वं शब्दस्य रूपं इति समर्थितं, एवमस्य स्वाभाविकं सत्यार्थत्वमपि न रूपम् । एवमभ्युपगम्यमाने विप्रलम्भकवचासि विसंवाददर्शनं न भवेत् । तस्मात्पुरुषगुणदोषाधीनावेव शाब्दे प्रत्यये संवादविसंवादौ ॥
शब्दे गुणदोषयोः सौलभ्यम्
न चेन्द्रियादाविव तत्र दुर्भणा गुणाः—रागादयो दोषाः, करुणादयो गुणाः पुरुषाणामतिप्रसिद्धा एव । पुरुषगुणा एव शब्दस्य गुणाः न स्वशरीरसंस्थाः चक्षुरादेरिवेति । तत्र यदि पुरुषगुणानां प्रामाण्यकारणता नेष्यते, दोषाणामपि विप्लवहेतुता मा भूत् ॥
अयं तु विशेष इति । इदमुपलक्षणम्—प्रत्यक्षे चक्षुरेव करणम्, दीपस्तु सहकारी । अत्र शब्द एव करणम्, शाब्दबोधः खल्वयम् ॥
पुरुषदर्शनाधीनं—शब्दप्रयोक्तृपुरुषदर्शनानुगुणम् । शुचौ— विप्रलम्भकत्वादिदोषरहिते । एवमभ्युपगम्यमाने—यथार्थत्वमपि शब्दस्य स्वाभाविकमित्यङ्गीक्रियमाणे सति ॥
पूर्वं [४२२ पु।] उक्तं स्मरन् समाधत्ते—न चेत्यादिना । स्वशरीरसंस्थाः—शब्दस्वरूपनिष्ठाः । दुर्भणाः—दुर्वचाः ॥
गुणज्ञानं दोषाभावनिश्चयायैवेत्यप्ययुक्तम्
यत्तु दोषप्रशमनचरितार्था एव पुरुषगुणाः प्रामाण्यहेतवस्तु न भवन्तीति [पु। ४३५] —अत्र शपथशरणा एव श्रोत्रियाः । न च बाधानुत्पत्तिमात्रेण वैदिक्याः प्रतीतेः प्रामाण्यं भवितुमर्हति, “पक्ष्मलाक्षीलक्षमभिरमयेत् विद्याधरपदकामः” इत्यादावपि प्रामाण्यप्रसङ्गात् । उक्तं च केन चित्—
यथा हि स्वप्नदृष्टोऽर्थः कश्चिद्वीपान्तरादिषु ।
असम्भवद्विसंवादः श्रद्धातुं नैव शक्यते ॥
तथा चोदनयाऽप्यर्थं बोध्यमानमतीन्द्रियम् ।
असम्भवद्विसंवादं न श्रद्दधति के चन इति ॥
तत्र स्वप्नज्ञाने हेतुः निद्रादिदोषोऽस्तीति दुष्टकारणज्ञानादप्रामाण्यमिति चेत्—लोलाक्षीलक्षवाक्ये किं वक्ष्यसि ? प्रभवस्तस्य न ज्ञायत इति चेत्—न तरामसौ वेदेऽपि त्वन्मते ज्ञायत इति को विशेषः ? महाजनादिपरिग्रहोऽस्य नास्तीति चेत्—अन्वेषणीयं तर्हि प्रामाण्यकारणम्, न बुद्ध्युत्पादकत्वादेवौत्सर्गिकं प्रामाण्यमिति युक्तम् ॥
साक्षाद्द्रष्टृनरोक्तत्वं शब्दे यावन्न निश्चितम् ।
बाधानुत्पत्तिमात्रेण न तावत्तत्प्रमाणता ॥ १२७ ॥
अपौरुषेयत्वाद्वेदस्य दोषाभावप्राप्त्या स्वतः प्रामाण्यमित्यपि न
यदपि वेदे कारणदोषनिराकरणाय कथ्यते [श्लो। वा। १-२-६३] —
“यद्वा वक्तुरभावेन न स्युर्दोषा निराश्रयाः”
इति—तदप्यसाम्प्रतम्—असति वक्तरि प्रामाण्यहेतूनां गुणानामप्यभावेन तत्प्रामाण्यस्याप्यभावात् । न च वेदे वक्तुरभावः सुवचः—तथा ह्येतदेव तावद्विचारयामः, किं वेदे वक्ता विद्यते न वेति ॥
असम्भवद्विसंवादः—अप्राप्तविसम्बादोऽपि । तस्य प्रभवः—तद्वाक्यस्य मूलम् । त्वन्मते—अपौरुषेयः खलु चेदस्तव ॥
वेदानां परमेश्वरप्रणीतत्वम्
ननु वेदे प्रमाणान्तरसंस्पर्शरहितविचित्रकर्मफलगतसाध्यसाधनभावोपदेशिनि कथं तदर्थसाक्षाद्दर्शी पुरुष उपदेष्टा भवेत् ? उच्यते—
वेदस्य पुरुषः कर्ता न हि यादृशतादृशः ।
किन्तु त्रैलोक्यनिर्माणनिपुणः परमेश्वरः ॥ १२८ ॥
स देवः परमो ज्ञाता नित्यानन्दः कृपान्वितः ।
क्लेशकर्मविपाकादिपरामर्शविवर्जितः ॥ १२९ ॥
ईश्वरसद्भावाक्षेपः
अत्राह—किं ब्रूषे ? त्रैलोक्यनिर्माणनिपुणमतिरिति ! अहो तव सरलमतित्वम् ! न हि तथाविधपुरुषसद्भावे किञ्चन प्रमाणमस्ति ॥
ईश्वरः न प्रत्यक्षः
तथा हीश्वरसद्भावो न प्रत्यक्षप्रमाणकः ।
न ह्यसावक्षविज्ञाने रूपादिरिव भासते ॥ १३० ॥
न च मानसविज्ञानसंवेद्योऽयं सुखादिवत् ।
योगिनामप्रसिद्धत्वात् न तत्प्रत्यक्षगोचरः ॥ १३१ ॥
ईश्वरः नानुमानिकः
प्रत्यक्षप्रतिषेधेन तत्पूर्वकमपाकृतम् ।
अनुमानं, अनिर्ज्ञाते तस्मिन् व्याप्त्यनुपग्रहात् ॥ १३२ ॥
यादृशतादृशः—यः कश्चित्सामान्यशक्तिमान् ॥
अत्राहेति । नात्र विशिष्य कश्चित् पूर्वपक्षी, प्रमाणचतुष्टयोपन्यासात् । किन्तु मीमांसकैः ईश्वरनिराकर्तॄणां चार्वाकबौद्धजैननैयायिकादीनां वादान् सङ्गृह्य उपन्यस्तः पूर्वपक्षः प्रकृतानुगुणमनूदितः ॥
सुखादिवदिति । स्वात्म-तत्समवेतगुणा एव हि मनोग्राह्या इति भावः । योगिनामिति । यद्यपि योगिप्रत्यक्षं पूर्वं [पु। २६८] प्रसाधितम्; तदनभ्युपगमेनात्राक्षेपः ॥
घटादिदृष्टान्तेन जगतः सकर्तृकत्वं नानुमातुं शक्यम्
न च सामान्यतो दृष्टं लिङ्गमस्यास्ति किञ्चन ।
क्षित्यादीनां तु कार्यत्वमसिद्धं सुधियः प्रति ॥ १३३ ॥
शैलादिसन्निवेशोऽपि नैष कर्त्रनुमापकः ।
कर्तृपूर्वककुम्भादिसन्निवेशविलक्षणः ॥ १३४ ॥
दृष्टः कर्त्रविनाभावी सन्निवेशो हि यादृशः ।
तादृङ्नगादौ नास्तीति कार्यत्ववदसिद्धता ॥ १३५ ॥
सकर्तृकत्व-साधक-कार्यत्वहेतुः तृणादौ व्यभिचरितः
सिद्धत्वेऽपि न हेतुत्वं
अनैकान्त्यात् तृणादिभिः ।
अकृष्टजातैः, कर्तारम्
अन्तरेणाप्तजन्मभिः ॥ १३६ ॥
तेषामुत्पत्तिसमयप्रत्यक्षत्वेन लभ्यते ।
कर्तुर्दृश्यत्वमपि, एवं अभावोऽनुपलब्धितः ॥ १३७ ॥
दृष्टातिरिक्तं कारणं कुत्रापि कल्पयितुं न शक्यम्
न च क्षितिजलप्रायदृष्टहेत्वतिरेकिणः ।
कस्यापि कल्पनं तेषु युज्यतेऽतिप्रसङ्गतः ॥ १३८ ॥
“नैष कर्त्रनुमापकः” इत्यत्र
साभिप्रायविशेषणं शैलसन्निवेशस्य कर्तृपूर्वकेत्यादि ।
सन्निवेशः—अवयवसंस्थानम् । वैलक्षण्यमेवोपपादयति—दृष्ट इत्यादि । तथा च घटादिसन्निवेशसाम्यस्यैव नगादावसिध्या, तेन कार्यत्वमपि न सिध्यति ॥
अकृष्टजातैः—कर्षणमन्तरापि जातैः । तेषां—सकर्तृकाणां कुम्भादीनाम् । तेषां सकर्तृकत्वं यदा येन प्रमाणेनावगतं, तदा तेनैव कर्तुर्दृश्यत्वमपि । प्रकृते तथाऽनुपलब्धेः कर्तुरभाव एवेत्यर्थः । अथवा तेषां—तृणादीनां उत्पत्तिसमयप्रत्यक्षत्वं यतो न लक्ष्यते, तथा कर्तुरपि दृश्यत्वं न लक्ष्यत इति अनुपलब्धेः कर्तुरभावः । ४९५ पुटो द्रष्टव्यः ॥
क्षितिजलेति । तृणादीनां कारणं हि क्षेत्रं, जलं इत्यादि यत् दृष्टं तदेवालं हेतुत्वे । अन्यथा कुत्रापि कार्यकारणभावानिर्णयः, प्रत्यक्षस्य
तेन कर्तुरभावेऽपि सन्निवेशादिदर्शनात् ।
अनैकान्तिकता हेतोः विप्रत्वे पुरुषत्ववत् ॥ १३९ ॥
घटादिदृष्टान्तेन कुलालतुल्य एवेश्वरः स्यात्
किञ्च व्याप्त्यनुसारेण कल्प्यमानः प्रसिद्ध्यति ।
कुलालतुल्यः कर्तेति स्याद्विशेषविरुद्धता ॥ १४० ॥
व्यापारवानसर्वज्ञः शरीरी क्लेशसङ्कुलः ।
घटस्य यादृशः कर्ता तादृगेव भवेद्भुवः ॥ १४१ ॥
विशेषसाध्यतायां वा साध्यहीनं निदर्शनम् ।
कर्तृसामान्यसिद्धौ तु विशेषावगतिः कुतः ? ॥ १४२ ॥
ईश्वरः सशरीरः ? उताशरीरः ? अपि च सशरीरो वा जगन्ति रचयेदीश्वरः ? शरीररहितो वा ? शरीरमपि च तदीयं कार्यं ? नित्यं वा भवेत् ? सर्वथाऽनुपपत्तिः ॥
अशरीरस्य कर्तृत्वं दृश्यते न हि कस्य चित् ।
देहोऽप्युत्पत्तिमानस्य देहत्वाच्चैत्रदेहवत् ॥ १४३ ॥
दूरीकृतत्वादित्यर्थः । तेन—एतादृशाकर्तृकतृणादिदृष्टान्तेन । अविप्रे पुरुषत्ववदिति अकर्तृके कार्यत्वस्य दृष्टान्तः ॥
विशेषविरुद्धतेति । विशेषः—साध्यं हेतुर्वा । साध्यं हेतुर्वा यादृशं लोके दृष्टं, तादृशमेव पक्षे तेन हेतुना तादृशं सिद्ध्येत् । नो चेत् तादृशविशेषविरुद्धता । ततश्च घटादौ यादृशं सकर्तृकत्वं दृष्टं, तादृशमेव नगादावपि सिद्ध्येत् । अन्यथा तु विरोध एव । यद्यपि विशेषविरुद्धताया हेत्वाभासता निराकरिष्यते [११ आह्निके] क्१>, अनुमानसामान्योच्छेदप्रसङ्गादिति; अथापि पूर्वपक्षिणस्तस्येष्टत्वात् स दोषस्तस्य सम्मतः । “क्लेशकर्मविपाकाशयापरामृष्टः” इति पूर्वं [४८४ पु] कथनात् शरीरक्लेशसङ्कुलः इत्युक्तम् । विशेषसाध्यतायां—तादृशकर्तृविशेषस्य साधने । विशेषः—क्लेशाद्यपरामर्शः ॥
अशरीरस्येति । तथाच अनित्यशरीरवत्त्वपक्ष एव शिष्टः । स
कार्यमपीश्वरशरीरं तत्कर्तृकं वा स्यात् ? ईश्वरान्तरकर्तृकं वा ? तत्र—
स्वयं निजशरीरस्य निर्माणमिति साहसम् ।
कर्त्रन्तरकृते तस्मिन्नीश्वरानन्त्यमापतेत् ॥ १४४ ॥
भवतु, को दोषः ? इति चेत्—प्रमाणाभाव एव दोषः । एकस्यापि तावदीश्वस्य साधने पर्याकुलतां गताः; किं पुनरनन्तानाम् ? ईश्वरः सव्यापारः ? उत निर्व्यापारः ? किञ्च व्यापारेण वा कुलालादिरिव कार्याणि सृजेदीश्वरः ? इच्छामात्रेण वा ? द्वयमपि दुर्घटम्—
व्यापारेण जगत्सृष्टिः कुतो युगशतैरपि ।
तदिच्छां चानुवर्तन्ते न जडाः परमाणवः ॥ १४५ ॥
ईश्वरः प्रयोजनमुद्दिश्य जगत्सृजति ? उत अनुद्दिश्य ? अपि च किं किमपि प्रयोजनमनुसन्धाय जगत्सर्गे प्रवर्तते प्रजापतिः ? एवमेव वा ? निष्प्रयोजनायां प्रवृत्तावप्रेक्षापूर्वकारित्वादुन्मत्ततुल्योऽसौ भवेत् । पूर्वोऽपि नास्ति पक्षः—
अवाप्तसर्वानन्दस्य रागादिरहितात्मनः ।
जगदारभमाणस्य न विद्मः किं प्रयोजनम् ॥ १४६ ॥
एवानन्तरं निरस्यते । तत्कर्तृकं—तच्छरीरस्वामीश्वरकर्तृकम् । ईश्वरान्तरेति । न हि ईश्वरस्य शरीरं मादृशैः कर्तुं शक्यमिति भावः ॥
साहसं—सशरीरः स्वशरीरं सृजति ? उताशरीरः ? आद्ये आत्माश्रयादिः । अन्त्ये पूर्वोक्तदोषाणां पुनः प्राप्तिः ॥
कुत इति । सृज्यानामानन्त्यं हेतुः । जडाः—न वा परमाणवः ईश्वरशरीरं इत्यर्थः ॥
एवमेव वा इति । सृष्टेनानेन जगता यथा न किञ्चित्प्रयोजनं भवदीश्वरस्येदानीं पश्यामः तथैव सृष्ट्यादावपि वेत्यर्थः ॥
दयया जगत्सृजतीश्वर इत्यप्ययुक्तम्
अनुकम्पया प्रवर्तत इति चेत्—मैवम्—
सर्गात् पूर्वं हि निश्शेषक्लेशसंस्पर्शवर्जिताः ।
नास्य मुक्ता इवात्मानो भवन्ति करुणास्पदम् ॥ १४७ ॥
परमकारुणिकानामपि दुस्सहदुःखदहनदन्दह्यमानमनसो जन्तूनबलोकयतामुदेति दया, न पुनरपवर्गदशावत् अशेषदुःखशून्यानिति ॥
करुणामृतसंसिक्तहृदयो वा जगत्सृजन् ।
कथं सृजति दुर्वारदुःखप्राग्भारदारुणम् ? ॥ १४८ ॥
सर्वज्ञस्य सर्वशक्तस्येश्वरस्य करुणया सुखमयजगत्सृष्टिरेव युक्ता
अथ केवलं सुखोपभोगप्रायं जगत् स्रष्टुमेव न जानाति, सृष्टमपि वा न चिरमवतिष्ठते—इत्युच्यते—तदप्यचारु—निरतिशयस्वातन्त्र्यसीमनि वर्तमानस्य स्वेच्छानुवर्तिसकलपदार्थस्थितेः परमेश्वरस्य क्रिमसाध्यं नाम भवेत् ?
कर्मणां वैषम्यादिकारणत्वे ईश्वर एव माऽस्तु
नानात्म-गत-शुभाशुभ-कर्म-कलापापेक्षः स्रष्टा प्रजापतिरिति चेत्;
कर्माण्येव हि तर्हि सृजन्तु जगन्ति, किं प्रजापतिना !
कर्मप्रेरणार्थमपि नेश्वरापेक्षा
अथाचेतनानां चेतनानधिष्ठितानां स्रष्टृत्वम् अघटमानम् इति
तेषाम् अधिष्ठाता चेतनः कल्प्यत इति
चेत्— न— तद्-आश्रयाणाम् आत्मनाम् एव चेतनत्वात्
त एवाधिष्ठातारो भविष्यन्ति,
किमधिष्ठात्रन्तरेणेश्वरेण ?
सर्गात्पूर्वमिति । “यथा सुदीप्तात् पावकात् विष्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः । तथाऽक्षरात् विविधाः सोम्य ! भावाः प्रजायन्ते तत्र चैवापियन्ति” [मुण्डक-२-१-१] इति हि सृष्ट्यादौ ईश्वरसकाशात् तत्सदृशानामेव सृष्टिरुक्तेति भावः ॥
दर्शनमात्रेणैव दुःखाबहत्वसूचनाय—प्राग्भार इति ॥
जीवकर्मानुरोधेनैव जगत्सृष्टौ ईश्वरस्य स्वातन्त्र्यभङ्गः
तस्यापि तादृशा परकीयकर्मान्तरापेक्षासङ्कोचितस्वातन्त्र्येण किमैश्वर्येण कार्यम् ? राज्यमिव मन्त्रिपरवशमैश्वर्यं क्वोपयुज्यते तादृक् ? यत्रापरनिरपेक्षं रुच्यैव न रच्यतेऽभिमतम् । अन्येनाप्युक्तम्—
“
किमीश्वरतयेश्वरो यदि न वर्तते स्वेच्छया
न हि प्रभवतां क्रियाविधिषु हेतुरन्विष्यते इति ॥
” लीलया जगत्सृजतीश्वर इति न तरामयुक्तम्
अथ क्रीडार्था जगत्सर्गे भगवतः प्रवृत्तिः, ईदृशा च शुभाशुभरूपेण जगता सृष्टेन क्रीडति परमेश्वर इत्युच्यते—तर्हि क्रीडासाध्यसुखरहितत्वेन सृष्टेः पूर्वं अवाप्तसकलानन्दत्वं नाम तस्य रूपमप हीयेत ॥
न च क्रीडाऽपि निश्शेषजनताऽऽतङ्ककारिणी ।
आयासबहुला चेयं कर्तुं युक्ता महात्मनः ॥ १४९ ॥
तस्मान्न जगतां नाथ ईश्वरः स्रष्टा संहर्ताऽपि भवति ॥
ईश्वरस्य जगत्संहर्तृत्वमपि न घटते
न ह्यस्य ध्रियमाणेषु पूर्यते जन्तुकर्मसु ।
सकृत् समस्तत्रैलोक्यनिर्मूलनमनोरथः ॥ १५० ॥
ननु अज्ञानां जीवानां स्वीयकर्मज्ञानस्यासम्भवेन, न तत्प्रेरकत्वं तेषां सम्भवीति चेत्—तत्राह—तस्येति । तस्य—ईश्वरस्य । प्रभवतां—सर्वशक्तानाम् ॥
परेषामातङ्ककारित्वेऽपि स्वस्य किमायातमित्यतः—आयासेति । अनन्तकोटियुगकालं अनन्तसाधनगर्भां क्रीडामविच्छेदेन को वा कुर्यात् ?
ध्रियमाणेषु—अनुवर्तमानेष्विति यावत् । अस्य मनोरथ इत्यत्रान्वयः । कर्मफलोपभागस्यापि सृष्ट्युद्देश्यत्वात् विचित्रकर्मणां युगपदुपरमासम्भवादिति भावः ॥
कर्मोपरमपक्षे तु पुनः सृष्टिर्न युज्यते ।
न कर्मनिरपेक्षो हि सर्गवैचित्र्यसम्भवः ॥ १५१ ॥
सृष्टिप्रलययोः ईश्वरकृतत्वासम्भवः
अथ ब्राह्मेण मानेन संवत्सरशतनिष्ठामधितिष्ठति परमेष्ठिनि महेश्वरस्य सञ्जिहीर्षा जायते । तया तिरोहितस्वफलारम्भशक्तीनि कर्माणि सम्भवन्तीति सम्पद्यते सकलभुवनप्रलयः । पुनश्च तावत्येव रात्रिप्राये काले व्यतीते सिसृक्षा भवति भगवतः । तयाऽभिव्यक्तशक्तीनि कर्माणि कार्यमारन्भते इति—तदप्ययुक्तम्—
उद्भवाभिभवौ तेषां स्यातां चेदीश्वरेच्छया ।
तर्हि सैवास्तु जगतां सर्गसंहारकारणम् ॥ १५२ ॥
किं कर्मभिः ? एवमस्त्वितिचेत्—न —ईश्वरेच्छावशित्वपक्षे हि त्रयो दुरतिक्रमा दोषाः । तस्यैव तावन्महात्मनो निष्करुणत्वं— अकारणमेव दारुणसर्गकारिणः । तथा वैदिकीनां विधिनिषेधचोदनानामानर्थक्यम्—ईश्वरेच्छात एव शुभाशुभफलोपभोगसम्भवात् । अनिर्मोक्षप्रसङ्गश्च—मुक्ता अपि प्रलयसमय इव जीवाः पुनरीश्वरेच्छया संसरेयुः । तस्मान्नेश्वराधीनो जगतां सर्गः, संहारो वा ॥
उपमानं तु नेश्वरसाधकम्
इत्यनन्तरगीतेन नयेनेश्वरसाधने ।
नानुमानस्य सामर्थ्यमुपमाने तु का कथा ? ॥ १५३ ॥
संवत्सरशतेति । “सहस्रयुगपर्यन्तमहर्यत् ब्रह्मणो विदुः । रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः” [८-१७] इति गीता ॥
मुक्ता अपीति । इच्छायां कर्माद्युपाधेरनङ्गीकारात् ईशः मुक्तान् संसारेण न योजयेत्, किन्तु संसारिजीवानेवेति विनिगमकस्य दुर्वचत्वादिति हेतुः ॥
का कथेति । उपमानं हि केवलं शक्तिग्राहकं प्रमाणम् ॥
वेदोऽपि ईश्वरसद्भावं बोधयितुं नालम्
अगमस्यापि नित्यस्य तत्परत्वमसाम्प्रतम् ।
तत्प्रणीते तु विस्रम्भः कथं भवतु मादृशाम् ? ॥ १५४ ॥
किञ्चागमस्य प्रामाण्यं तत्प्रणीतत्वहेतुकम् ।
तत्प्रामाण्याच्च तत्सिद्धिरित्यन्योन्याश्रयं भवेत् ॥ १५५ ॥
अन्यथाऽनुपपत्त्या तु न शक्यो लब्धुमीश्वरः ।
न हि तद्दृश्यते कार्यं तं विना यन्न सिद्ध्यति ॥ १५६ ॥
तस्मात् सर्वसद्विषयप्रमाणानवगम्यमानस्वरूपत्वादभावएवेश्वरस्येति सिद्धम् ॥
लोकव्यवहारमात्रान्नेश्वरसिद्धिः
न च प्रसिद्धिमात्रेण युक्तमेतस्य कल्पनम् ।
निर्मूलत्वात्तथा चोक्तं प्रसिद्धिर्वटयक्षवत् ॥ १५७ ॥
अत एव निरीक्ष्य दुर्घटं
जगतो जन्मविनाशडम्बरम् ।
न कदाचिदनीदृशं जगत्
कथितं नीतिरहस्यवेदिभिः ॥ १५८ ॥
—ईश्वरे प्रमाणोपपादनम्— अनुमानमेवेश्वरे प्रमाणम्
अत्र वदामः—यत्तावदिदमगादि—नगादिनिर्माणनिपुणपुरुषपरिच्छेददक्षं प्रत्यक्षं न भवतीति—तदेवमेव । प्रत्यक्षपूर्वकमनुमान-
नित्यस्य—अपौरुषेयस्य । शब्दप्रामाण्यं वक्तृप्रामाण्याधीनमित्युक्तं प्राक् [पु। ४८२] । मादृशां—ईश्वरमेवानभ्युपगच्छताम् । अन्यथाऽनुपपत्त्या— थरापत्त्या—तादृग्रूपतर्केणेति वाऽर्थः । योग्यानुपब्धेरेव ईश्वारासत्वे प्रमाणत्वात् योग्यतोपपादनाय—सर्वसद्विषयेत्यादि ॥
अनीदृशं—यादृशं दृश्यते, तद्विलक्षणं—ईश्वरकर्तृकमिति यावत् । नीतिः—चार्वाकतन्त्रम्, नीतिः—नयः तर्कः । ब्रह्मणस्तर्कागोचरत्वरूपरहस्यसूचनाय वा एवमुक्तिः ॥
मपि तेनैव पथा प्रतिष्ठितमिति—तदप्यास्ताम् । सामान्यतोदृष्टं तु लिङ्गमीश्वरसत्तायामिदं ब्रूमहे—पृथिव्यादिकार्यं धर्मि, तदुत्पत्तिप्रकारप्रयोजनाद्यभिज्ञकर्तृपूर्वकमिति साध्यो धर्मः, कार्यत्वात् घटादिवत् ॥
पृथिव्यादीनां कार्यत्वम् दुरपह्नवम्
ननु ! कार्यत्वमसिद्धमित्युक्तम् । क एवमाचष्टे ? चार्वाकः ? शाक्यः ? मीमांसको वा ?
चार्वाकस्तावत् वेदरचनाया रचनान्तरविलक्षणाया अपि कार्यत्वमभ्युपगच्छति यः, स कथं पृथ्व्यादिरचनायाः कार्यत्वमपह्नुवीत ?
मीमांसकोऽपि न कार्यत्वमपह्नोतुमर्हति, यत एवमाह— “येषामप्यनवगतोत्पत्तीनां रूपमुपलभ्यते, तन्तुव्यतिषक्तजनितोऽयं पटः, तद्व्यतिषङ्गविमोचनात् तन्तुविनाशाद्वा नङ्क्ष्यतीति कल्प्यते” इति । एवमवयवसंयोगनिर्वर्त्यमानवपुषः क्षितिधरादेरपि नाशसम्प्रत्ययः सम्भवत्येव । दृश्यते च क्वचिद्विनाशप्रतीतिः, प्रावृषेण्यजलधरधारासारनिर्लुठित एव पर्वतैकदेशे “पर्वतस्य खण्डः पतितः” इति । वस्तुगतयोश्च कार्यत्वविनाशित्वयोः समव्याप्तिकता वार्तिककृताऽप्युक्तैव [श्लो। वा। १-१-५ अनु। ९] —
“
तेन यत्राप्युभौ धर्मौ व्याप्यव्यापकसम्मतौ ।
तत्रापि व्याप्यतैव स्यादङ्गं न व्यापितामतिः
”
इति वदता । तस्माद्विनाशित्वेनापि कार्यत्वानुमानात्तन्मतेऽपि न कार्यत्वमसिद्धम् ॥
शाक्योऽपि कार्यत्वस्य कथमसिद्धतामभिदधीत ? येन नित्यो नाम पदार्थः प्रणयकेलिष्वपि न विषह्यते । तस्मात् सर्ववादिभिः अप्रणोद्यं पृथिव्यादेः कार्यत्वम् ॥
ईश्वरनिराकर्तारः त्रिविधाः—प्रत्यक्षातिरिक्तप्रमाणाभावात्तन्निरासवादिनः, वेदप्रामाण्यानभ्युपगमात्तदसिद्धिवादिनः, वेदप्रामाण्याभ्युपगमेऽपि युक्त्या तन्निरासवादिनश्च इति मत्वाऽऽह—क एवमित्यादि ॥
तेनेत्यादि । उभयोस्समव्याप्तत्वेऽपि हेतौ व्याप्यत्वमेव गमकं, न तु व्यापकत्वमित्यर्थः ॥
नित्यो नामेति । यद्यपि नित्यवस्तुवादिनोऽपे केचित् बौद्धास्सन्तीति सन्निवेशविशेषवत्त्वाद्वा पृथिव्यादीनां कार्यत्वम्
अथवा सन्निवेशविशिष्टत्वमेव हेतुमभिदध्महे; यस्मिन् प्रत्यक्षत उपलभ्यमाने सर्वापलापलम्पटा अपि न केचन विप्रतिपत्तुमुत्सहन्ते । तस्मान्नासिद्धो हेतुः ॥
घटभूधरयोः सन्निवेशभेदात् तेन कार्यत्वानुमानाक्षेपः
ननु ! कर्त्रविनाभावितया यथाविधस्य सन्निवेशस्य शरावादिषु दर्शनं, तादशमेव सन्निवेशं उपलभ्य क्वचिदनुपलभ्यमानकर्तृके कलशादौ कर्त्रनुमानमिति युक्तम् । अयं त्वन्य एव कलशादिसन्निवेशात् पर्वतादिसन्निवेशः । नात्र सन्निवेशसामान्यं किञ्चिदुपलभन्ते लौकिकाः । सन्निवेशशब्दमेव साधारणं प्रयुञ्जते । न च वस्तुनोरत्यन्तभेदे सति शब्दसाधारणतामात्रेण तदनुमानमुपपद्यते । न हि पाण्डुतामात्रसाधारणत्वेन धूमादिव कक्कोलरजोराशेरपि कृशानुरनुमातुं शक्यत इति । तदुक्तम् [प्र-वा-२-११, १२] —
“
सिद्धं यादृगधिष्ठातृ भावाभावानुवृत्तिमत् ।
सन्निवेशादि तत्तस्मात् युक्तं यदनुमीयते ॥
वस्तुभेदे प्रसिद्धस्य शब्दसाम्यादभेदिनः ।
न युक्ताऽनुमितिः पाण्डुद्रव्यादिव हुताशने इति ॥
” सर्वार्थसिध्यादितः [१-८] अवगम्यते, तथापि बौद्धैरेवास्य पक्षस्य खण्डितत्वात् न गणना । तथा ह्युक्तं शान्तरक्षितेन—“केचित्तु सौगतम्मन्या अप्यात्मानं प्रचक्षते” [श्लो। ३३६] इत्यादिना । कमलशीलोऽपि तत्पञ्जिकायां— “केचित्—वात्सीपुत्रीयाः । ते हि सुगतसुतमात्मानं मन्यमाना अपि॥। वितथाऽऽत्मदृष्टिमभिनिविष्टाः” इत्याद्याह ॥
कक्कोलेति । किञ्चित्पीतश्वेतवर्णवत्फलविशेषः । “पाण्डुद्रव्यादिव” इति प्रमाणवार्तिकोक्तस्य विवरणतयेदमुक्तम् । शब्दसाम्यादिति । येन केनापिसाम्यं पर्याप्तं चेत्, रूपसाम्यमादायातिप्रसङ्ग इति भावः ॥
घटभूधरयोः सन्निवेशगतं सामान्यमस्त्येव
उच्यते—यादृगिति न बुद्ध्यामहे । धूमो हि महानसे कुम्भदासीफूत्कारमारुतसन्धुक्ष्यमाणमन्दज्वलनजन्मा कृशप्रायप्रकृतिरुपलब्धः । स यदि पर्वते प्रवलसमीरणोल्लसितहुतवहप्लुष्यमाणमहामहीरुहस्कन्धेन्धनप्रभवो बहुलबहुलः खमण्डलमखिलमाक्रामन् उपलभ्यते, तत्किमिदानीमनलप्रमितिं मा कार्षीत् ॥
हेतौ विद्यमानविशेषाकारणां न गमकाङ्गत्वम्
अथ विशेषरहितं धूममात्रमग्निमात्रेण व्याप्तमवगतमिति ततस्तदनुमानं; इहापि सन्निवेशमात्रं कर्तृमात्रेण व्याप्तमिति ततोऽपि तदनुमीयताम् ॥
घटभूधरसन्निवेशयोः न शब्दसाम्यमात्रम्
ननु ! सन्निवेशशब्दमात्रसाधारण्यमत्र, न वस्तुसामान्यं किञ्चिदस्ति—भिक्षो ! धूमोऽपि भवद्दर्शने किं वस्तुसामान्यमस्ति ॥
मा भूद्वस्तुसामान्यम्, आकाशकालादिव्यावृत्तिरूपं तु संव्यवहारकारणमस्त्येव—हन्त ! तर्हि प्रकृतेऽपि असन्निवेशव्यावृत्तिरूपं भवतु सामान्यम्, आकाशकालादिविलक्षणरूपत्वात् पृथिव्यादेः ॥
कुम्भदासी—परिचारिका । “दासी तु चेटिका चेटा वडबा कुम्भधारिका” इति बैजयन्ती । कुम्भधारिकैव कुम्भदासी । तत्किमिति । अस्ति महदन्तरं माहानसाग्निप्रभवधूमदावाग्निप्रभवधूमयोः । अथापि अनुमितिरनुभवसिद्धा । तथा घटभूधरसन्निवेशयोरत्यन्तान्तरवत्त्वेऽपि कार्यत्वानुमानं युज्यत एव ॥
विशेषरहितं—अल्पत्वबहलत्वादिरहितम् ॥
भवद्दर्शन इति । सामान्यनिषेधकाः खलु बौद्धाः ॥
आकाशेति । आकाशः, कालश्च यथा तुच्छः, न तथा धूमादिः । अतः धूमादिविषयकः व्यवहारः—संव्यवहारः । आकाशादिव्यावृत्तत्वमेव सत्त्वादिरूपं सामान्यमित्यर्थः । “अन्यव्यावृत्ति” इति पाठे तु सुलभोऽर्थः ॥
धूमत्वादिवत् सन्निवेशत्वसामान्यमप्यस्त्येव
ननु ! तत्र धूमो धूम इत्यनुवृत्तविकल्पबलेन कल्पितमपोहस्वभावं सामान्यमभ्युपगतम्—इहापि सन्निवेशविकल्पानुवृत्तेः त्वत्प्रकल्पितमपोहरूपमेव सामान्यमिष्यताम् !
गोपुरादिषु घटदृष्टान्तेन सकर्तृकत्वसाधकसन्निवेशत्वं सर्वसम्मतम्
अपिच, सकर्तृकत्वाभिमतेष्वपि संस्थानेषु न सर्वात्मना तुल्यत्वं प्रतीयते । न हि घटसंस्थानं चतुश्शालसंस्थानं च सुसदृशमिति । संस्थानसामान्यं तु पर्वतादावपि विद्यत एवेति सर्वथा यादृगित्यवाचको ग्रन्थः ॥
तृणादिकमपि सकर्तृकमेव
यद् अपि व्यभिचारोद्भावनम् अकृष्ट-जातैः स्थावरादिभिर् अकारि [पु। ४८५]
तद् अपि न चारु,
तेषां पक्षीकृतत्वात्।
पक्षेण च व्यभिचार-चोदनायां सर्वानुमानोच्छेदप्रसङ्गाः।
तृणादीनां सकर्तृकत्वम् अनुपलब्धिहतम् इत्य् आक्षेपः
ननु च
पृथिव्य्-आदेर् उत्पत्ति-कालस्य परोक्षत्वात्
कर्त्ता न दृश्यतेइति तद्-अनुपलब्ध्या
तद्-अ-सत्त्व-निश्चयानुपपत्तेः
कामं संशयोऽस्तु।
वनस्-पति-प्रभृतीनान् तु प्रसव-कालम्
अद्यत्वे न वयम् एव पश्यामः,
न च यत्नतो ऽप्य् अन्वेषमाणाः कर्त्तारम् एषाम् उपलभामहे।
तस्माद् असौ दृश्यानुपलब्धेर्
नास्त्य् एवेत्य् अवगच्छामः।
अपि च
येन येन वयं व्यभिचारम् उद्भावयिष्यामः
तं तं चेत् पक्षीकरिष्यति भवान्
सुतराम् अनुमानोच्छेदः,
सव्यभिचाराणाम् अप्य् एवम् अनुमानत्वानपायात् ॥
विस्तारः (द्रष्टुं नोद्यम्)
असौ—तृणादिकर्ता । दृश्यानुपलब्धेः—योग्यानुपब्धेः ॥
सव्यभिचाराणां—
अयं विप्रः पुंस्त्वात्; घटः नित्यः प्रमेयत्वात्
योग्यानुपलब्ध्य्-अभावात् तृणादीनां सकर्तृकत्वाभावः न सिध्यति
उच्यते—स्थावराणामुत्पत्तिकालप्रत्यक्षत्वेऽपि कर्तुरदृश्यत्वमेव, अशरीरत्वनिश्चयात् । अशरीरस्य तर्हि तदुत्पत्तावव्याप्रियमाणत्वात् कर्तृत्वमपि कथमिति चेत्; एतदग्रतो निर्णेष्यते [पु। ५०७] । अदृश्यस्य च कर्तुरनुपलब्धितो नास्तित्वनिश्चयानुपपत्तेः नाकृष्टजातबनस्पतीनामकर्तृकत्वमिति न विपक्षता ॥ दृष्टकारणैरेव तृणाद्युत्पत्त्यसम्भवः यत्तूक्तं परिदृश्यमानक्षितिसलिलादिकारणकार्यत्वात् स्थावराणां किमदृश्यमानकर्तृकल्पनयेति—तदपेशलम्—परलोकवादिभिरदृश्यमानानां कर्मणामपि कारणत्वाभ्युपगमात् । बार्हस्पत्यानां तु तत्समर्थनमेव समाधिः ॥ कर्मणामधिष्ठातृतयेश्वरसिद्धिः अथ जगद्वैचित्र्यं कर्मव्यतिरेकेण न घटत इति कर्मणामदृश्यमानानामपि कारणत्वं कल्प्यते तत्र; यद्येवमचेतनेभ्यः कारकेभ्यश्चेतनानधिष्ठितेभ्यः कार्योत्पादानुपपत्तेः कर्ताऽपि चेतनस्तेषामधिष्ठाता कल्प्यताम् । तस्मात् स्थावराणामकर्तृकत्वाभावात् न विपक्षतेति न तैर्व्यभिचारः ॥ तृणादीनां पक्षत्वाङ्गीकारे नानुमानोच्छेदः यदप्युक्तम्—येन येन व्यभिचार उद्भाव्यते, स चेत्पक्षेऽन्तर्भावयिष्यते, क इदानीमनुमानस्य नियम इति—एतदपि न साधु— यदि हि भवान् निश्चिते विपक्षे वृत्तिमुपदर्शयेत् कस्तं पक्षेऽन्तर्भावयेत् । न हि विप्रत्वे पुंस्त्वस्य, नित्यतायां वा प्रमेयत्वस्य व्यभिचारे इत्युक्ते अविप्रे, अघटे वा व्यभिचारापादने कृते, यदि तयोरपि पक्षत्वमुच्येत तदा कः समाधिरिति भावः ॥
तत्समर्थनं—परलोकसमर्थनम् । इदं च ७ आह्निके स्पष्टीभविष्यति ॥
तत्र—जगत्सृष्टौ । कारकेभ्यः—तादृशकर्मभ्यः ॥
चोद्यमाने वेधसाऽपि विपक्षः पक्षीकर्तुं शक्यः, वादीच्छया वस्तुव्यवस्थाया अभावात् । इह तु स्थावरादौ कर्त्रभावनिश्चयो नास्तीत्युक्तम् ॥
प्रसङ्गात् सपक्षविपक्षातिरिक्तस्य पक्षस्यावश्यकत्वकथनम्
ननु ! स्थावरेषु पक्षीकृतेष्वपि व्यभिचारो न निवर्तत एव । न हि सपक्षविपक्षव्यतिरेकेण तात्त्विकः पक्षो नाम कश्चिदस्ति, वस्तुनो द्वैरूप्यानुपपत्तेः । वस्तुस्थित्या सकर्तृकाश्चेद्वनस्पतिप्रभृतयः सपक्षा एव ते । नो चेत्तर्हि विपक्षा एव । न राश्यन्तरं समस्तीति— उच्यते—पक्षाभावे सपक्षविपक्षवाचोयुक्तिरेव तावत्किमपेक्षा ? पक्षानुकूलो हि सपक्ष उच्यते, तत्प्रतिकूलश्च विपक्ष इति ॥
पक्षसपक्षविपक्षाणां स्वरूपम्
यद्येवं, वक्तव्यं तर्हि कोऽयं पक्षो नामेति—
साध्यधर्मान्वितत्वेन द्वाभ्यामप्यवधारितः ।
सपक्षः, तदभावेन निश्चितस्य विपक्षता ॥ १५९ ॥
विमतो यत्र तु तयोः तं पक्षं सम्प्रचक्ष्महे ।
वस्तुनो द्व्यात्मकत्वं तु नानुमन्यामहे वयम् ॥ १६० ॥
वादिबुद्ध्यनुसारेण स्थितिः पक्षस्य यद्यपि ।
तथाऽपि व्यवहारोऽस्ति वस्तुतस्तन्निबन्धनः ॥ १६१ ॥
पक्षीकृतेषु—पक्षत्वेनाभिमतेष्विति भावः । न हीत्यादि । सपक्षश्च निश्चितसाध्यवान् । तृणादिषु अकर्तृकत्ववत् सकर्तृकत्वमपि न निश्चितम् । अतश्च तेषां सपक्षत्वासम्भवे, तृतीयराश्यभावात् विपक्षत्वं सिद्धमेवेति व्यभिचारः वर्तत एवेत्यर्थः ॥
द्वाभ्यां—वादिप्रतिवादिभ्याम् । ननु वस्तुनोऽद्व्यात्मकत्वात्, “विमतः पक्षः” इत्युक्ते साध्यवत्त्वेन स वादिनो निश्चित इति सपक्ष एव । प्रतिवादिनश्च साध्याभाववत्त्वेनैव निश्चितत्वात् विपक्ष एव । ततश्च पक्षः कुत्रावशिष्यते इति चेत् तत्राह—वादीत्यादि । यद्यपि वाद्युक्तमेवान्ततः पर्यवस्यति,
सन्दिग्धे हि न्यायः प्रवर्तते, नानुपलब्धे न निर्णीत इत्युक्तमेतत् । सन्दिह्यमान एव चार्थः पक्ष उच्यते । किञ्चित्कालं तस्य पक्षत्वं, यावन्निर्णयो नोत्पन्नः । तदुत्पादे तु नूनं सपक्षविपक्षयोरन्यतरत्रानुप्रवेक्ष्यत्यसौ । अतश्च पक्षावस्थायां तेन व्यभिचारोद्भावनमसमीचीनम् ॥
व्यभिचारसंशयस्यादोषत्वम्
ननु ! निश्चितविपक्षवृत्तिरिव सन्दिग्धविपक्षवृत्तिरपि न हेतुरेव । तदेवं वीरुधादिषु सन्दिग्धेऽपि कर्तरि सन्निवेशस्य दर्शनादहेतुत्वम्—नैतत्सारम्—सदसत्पावकतया पर्वते सन्दिग्धे विपक्षे वर्तमानस्य धूमस्याहेतुत्वप्रसङ्गात् । सर्व एव च साध्यांशसंशयाद्विपक्षा एव जाता इति पक्षवृत्तयो हेतव इदानीं विपक्षगामिनो भवेयुरित्यनुमानोच्छेदः ॥
सपक्षे व्याप्तिनिश्चय एव अनुमानाङ्गम्
अथ पक्षीकृतेऽपि धर्मिणि सदसत्साध्यधेर्मतया सन्दिग्धेऽपि वर्तमानो धूमादिः अन्यत्र व्याप्तिनिश्चयात् गमक इष्यते, तर्हि सदसत्कर्तृकतया सन्दिग्धेऽपि वसुन्धरावनस्पत्यादौ वर्तमानं कार्यत्वमन्यत्र व्याप्तिनिश्चयात् गमकमिष्यताम् । विशेषो वा वक्तव्यः ॥
भूधरादीनां अकर्तृकत्वं व्याप्तिग्रहणवेलायामेव सिद्धमित्याक्षेपः
अन्ये मन्यन्ते—किमकृष्टजातस्थावरादिव्यभिचारस्थानान्वेषणेन, पृथिव्यादिभिरेवात्र व्यभिचारः, अस्य व्याप्तिग्रहणस्य प्रतिघातात् ।
तथापि व्यवहारकाले वादिप्रतिवादिविप्रतिपत्तिनिबन्धनः पक्षव्यव्यवहारोऽपि वस्तुतोऽस्त्येव । एतदेवोपपादयत्यनन्तरवाक्यैः ॥
सन्दिग्धे विपक्षे—सन्दिग्धविपक्षरूपे पर्वते । सर्व इति । सन्दिग्धे हि न्यायः प्रवर्तत इत्यनुपदमुक्तम् ॥
अन्यत्र—महानसादौ । अन्यत्र—घटादौ । विशेषः—उक्तानुमानयोः वैलक्षण्यम् ॥
व्याप्तिर्हि गृह्यमाणा सकलसपक्षविपक्षक्रोडीकारेण गृह्यते । इत्थं च तस्यां गृह्यमाणायामेव “यद्यत्सन्निवेशविशिष्टं, तत्तद्बुद्धिमत्कर्तृकं” इत्यस्मिन्नेवावसरे सन्निवेशवन्तोऽपि कर्तृशून्यतया शैलादयश्चेतसि स्फुरन्ति । यथा कृतकत्वेन बह्नेरनुष्णताऽनुमाने “यद्यत् कृतकं तत्तदनुष्णम्” इति व्याप्तिपरिच्छेदवेलायामेव वह्निरुष्णोऽपि कृतक इति हृदयपथमवतरति । तद्वर्जं तु व्याप्तौ गृह्यमाणायां ततो हेतोः षण्डादिव पुत्रजननमघटमानमेव साध्यानुमानमिति ॥
व्याप्तिग्रहणे अधिकरणविशेषभानानपेक्षणादुक्ताक्षेपनिरासः
तदेतदनुपपन्नम्—विशेषोल्लेखरहितसामान्यमात्रप्रतिष्ठितस्य व्याप्तिपरिच्छेदस्यानुमानलक्षणे निर्णीतत्वात् [पु। ३१९] । अग्न्यनुष्णताऽनुमाने हि न व्याप्तिग्रहणप्रतीघातादप्रामाण्यम्, अपि तु प्रत्यक्षविरोधादित्युक्तमेतत् ॥
पृथिव्यादीनां सकर्तृकत्वं यदि नानुमातुं शक्यं, तर्हि इन्द्रियाणामप्यसिद्धिः
अपि चायं पृथिव्यादौ कर्त्रनुमाननिरासप्रकारः, “शब्दाद्युपलब्धयः, करणपूर्विकाः, क्रियात्वात्, छिदिक्रियावत्” इत्यत्र श्रोत्रादिकरणानुमानेऽपि समानः । प्रतिबन्धावधारणवेलायामेव करणशून्यानां शब्दाद्युपलब्धिक्रियाणां अवधारणात् ताभिरेव व्यभिचारात् । पक्षेण च पृथिव्यादिना व्यभिचारचोदनमत्यन्तमलौकिकम् ॥
कर्त्रनुमानं करणानुमानतुल्यमेव
ननु ! वस्तुस्थित्या पर्वतादयोऽपि विपक्षा एव; त्वया तु तेषां पक्ष इति नाम कृतम् । न च त्वदिच्छया वस्तुस्थितिर्विपरिवर्तते ॥
विपक्षेति—व्यतिरेकसहचारग्रहणाय । इदमपि अन्वयदार्ढ्यायेत्युक्तम् ॥
अपि त्विति । वह्नौ औष्ण्यस्य पूर्वं प्रत्यक्षसिद्धत्वादेव हि व्याप्तिग्रहवेलायां स्वयं तस्य वर्जनम्, प्रकृते तु न तथा भूधरादौ अकर्तृकत्वं पूर्वं सिद्धम् ॥
नन्वेवं शब्दाद्युपलब्धयोऽपि वस्तुस्थित्या विपक्षा एव; तासामपि पक्ष इति नामकरणमेव स्यात्—न—तासां करणाभावनिश्चयानुत्पादान्न विपक्षत्वम् ॥
पर्वतादावपि कर्त्रभावनिश्चयानुत्पादान्न विपक्षत्वम् ॥
तेषु कर्ता नोपलभ्यत इति चेत्; शब्दाद्युपलब्धिक मपि नोपलभ्यत एव ॥
करणमदृश्यमानत्वादेव नोपलभ्यते, न नास्तित्वात् इति चेत्; कर्ताऽप्यदृश्यत्वादेव नोपलभ्यते, न नास्तित्वात् ॥
अनुमानात् करणमुपलभ्यते, तद्व्यतिरेकेण क्रियाऽनुपपत्तेरिति चेत्; कर्ताऽप्यनुमानादुपलप्स्यते, कर्तारमन्तरेण कार्यानुपपत्तेः ॥
पृथ्व्यादेः सकर्तृकत्वानुमानं धूमाद्वह्न्यनुमानतुल्यम्
तेनानुमानगम्यत्वान्न कर्तुर्नास्तिताग्रहः ।
तदभावाद्विपक्षत्वं क्षित्यादेरपि दुर्भणम् ॥ १६२ ॥
लिङ्गात्पूर्वं तु सन्देहो दहनेऽपि न वार्यते ।
तथा सति प्रपद्येत धूमोऽप्यननुमानताम् ॥ १६३ ॥
अथास्य लिङ्गाभासत्वं क्षित्यादौ कर्त्रदर्शनात् ।
धूमेऽपि लिङ्गाभासत्वं तत्र देशेऽग्न्यदर्शनात् ॥ १६४ ॥
ननु तं देशमासाद्य गृह्यते धूमलाञ्छनः ।
अनयैव धिया, साधो ! वर्धस्व शरदां शतम् ॥ १६५ ॥
यत्पश्चाद्दर्शनं तेन किं लिङ्गस्य प्रमाणता ?
अनर्थित्वाददृष्टे वा कृशानौ किं करिष्यसि ? ॥ १६६ ॥
तस्मात्सर्वथा नायमनैकान्तिको हेतुः ॥
तद्व्यतिरेकेण—करणमन्तरा । क्रिया—उपलब्धिरूपा ॥
लिङ्गं—अनुमानम् । तत्र देशे—दूरात् धूमदर्शनदेशे । अनयैवेति । कार्यं पश्यन्, तत्कारणमनुमाय, कारणदेशं गतः कारणमुपलभते नरः । एवं जगत्कारणभूतं वस्तु तथैव तद्देशे द्रष्टुं अनवरतं यतस्व । प्रकृतमनुसरति— यदिति । पश्चाद्वह्निदर्शनेनैव पूर्वमुत्पन्नमनुमानं प्रमाणमिति न हि कस्यापि सम्मतमित्यर्थः । अत्रापि हेतुमाह—अनर्थित्वादिति । वह्न्यनपेक्षत्वादित्यर्थः ॥
विशेषविरुद्धत्वस्य हेत्वाभासत्वाभावः
यदपि विशेषविरुद्धत्वमस्य प्रतिपा [पु। ४८६] —तदप्यसमीक्षिताभिधानम्—विशेषविरुद्धस्य हेत्वाभासस्याभावात् [११ आह्निके] । अभ्युपगमे वा सर्वानुमानोच्छेदप्रसङ्गात् । श्रोत्राद्यनुमानेऽपि यथोदाहृते शक्यमेवमभिधातुम् । यादृगेव लवनक्रियायां दात्रादिकरणं काठिन्यादिधर्मकमवगतं तादृगेव श्रोत्रादि स्यात् । तद्विलक्षणकरणसाध्यतायां तु साध्यविकलो दृष्टान्तः, छेदनादिक्रियाणामतीन्द्रियकरणकार्यत्वादर्शनादिति ॥
यावद्विरोधमेव विशेषाणामनुगमः
अथ क्रियामात्रं करणमात्रेण व्याप्तमवगतमिति तावन्मात्रमनुमापयति, तदिहापि सन्निवेशमात्रमधिष्ठातृमात्रेण व्याप्तमुपलब्धमिति तावन्मात्रमेवानुमापयतु । विशेषाणां तु न तल्लिङ्गं, अस्ति यत्र बाधकम् । अनित्यः शब्दः कृतकत्वादित्ययमपि श्रावणत्वादि शब्दस्य विशेषजातं बाधत एव । धूमोऽपि पर्वताग्निविशेषान् कांश्चिन्महानसाग्नावदृष्टानपहन्त्येव । तस्माद्यथानिर्दिष्टसाध्यविपर्ययसाधनमेव विरुद्धो हेतुः, न हि विशेषविपर्ययावहः । प्रकृतहेतुश्च साध्यविपर्ययस्याकर्तृपूर्वकत्वस्य न साधकः, अश्वोऽयं विषाणित्वादितिवत् । तस्मात् न विरुद्धः ॥
भूभूधरादिसकर्तृकत्वानुमानस्य बाधाभावः
नापि कालात्ययापदिष्टः, प्रत्यक्षागमयोर्बाधकयोरदर्शनात् । प्रत्युतागममनुग्राहकमिहोदाहरिष्यामः ॥
भूभूधरादिसकर्तृकत्वानुमाने सत्प्रतिपक्षत्वाभावः
नापि सत्प्रतिपक्षोऽयं हेतुः, संशयबीजस्य विशेषाग्रहणादेरिह हेतुत्वेनानुपादानात् ॥
तेजस्वित्वादिविशेषाणां वह्न्या समं भानात्—अस्ति यत्र बाधकमिति । श्रावणत्वादीति । न हि दृष्टान्ते घटादौ श्रावणत्वादिकमस्ति । पर्वताग्निविशेषान्—अन्ततः पर्वतीयत्वादीन् । यथानिर्दिष्टं—वह्नित्वावच्छिन्नम् ॥
नापीदमनुमानं प्रतितर्कपराहतम्
नाप्ययमप्रयोजको हेतुः, यथा परमाणूनामनित्यत्वे सति मूर्तत्वमभिधास्यते । न हि मूर्तत्वप्रयुक्तमनित्यत्वम् । इह तु कार्यत्वप्रयुक्तमेव सकर्तृकत्वं तत्र तत्रोपलब्धमिति । अत एवानुमानविरोधस्येष्टविघातकृतश्च न कश्चिदिहावसरः । प्रयोजके हेतौ प्रयुक्ते तथाविधपांसुप्रक्षेपप्रयोगानवकाशात् । तस्मात्परोदीरिताशेषदोषविकलकार्यानुमानमहिम्ना नूनमीश्वरः कल्पनीयः ॥
सकललोकसाक्षिकमपि चानुमानप्रामाण्यमपीक्षणीयम् । अनुमानप्रामाण्यरक्षणे च कृत एव परिकरबन्धः प्रागिति [२ आह्निके] सिद्ध एवेश्वरः ॥
ईश्वरसाधकानुमानान्तरे
अन्यदपि तदनुमानमन्यैरुक्तम् । महाभूतादि व्यक्तं चेतनाधिष्ठितं सत् सुखदुःखे जनयति, रूपादिमत्त्वात्; तूर्यादिवत् । तथा, पृथिव्यादीनि भूतानि चेतनाधिष्ठितानि सन्ति धारणादिक्रियां कुर्वन्ति, युग्यादिवदिति । अत्रापि दोषाः पूर्ववदेव परिहर्तव्याः ॥
आगमादेव जगत्स्रष्टु इतरचेतनवैलक्षण्यसिद्धिः
यत्पुनरवादि [पु। ४८६] —“कर्तृसामान्यसिद्धौ वा विशेषावगतिः कुतः ?” इति—
तत्र केचिदागमाद्विशेषप्रतिपत्तिमाहुः “विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरुत विश्वतस्पात् । सम्बाहुभ्यां धमति सम्पतत्रैः द्यावाभूमी जनयन् देव एकः” [ते। ना-३-२] इति । तथा “अपाणिपादो जवनो गृहीता पश्यत्यचक्षुः स शृणोत्यकर्णः । स वेत्ति सर्वं न हि तस्य वेत्ता तमाहुरग्र्यं पुरुषं महान्तम्” [श्वे-३-१९] इति श्रुतौ पठ्यते । ततः सर्वस्य कर्ता सर्वज्ञ ईश्वरो ज्ञाप्यते ॥
न हीति । किन्तु हेत्वधीनत्वप्रयुक्तमिति शेषः । कल्पनीयः—अनुमेयः ॥
सिद्धेऽपि वस्तुनि वेदानां प्रामाण्यम्
न च कार्य एवार्थे वेदाः प्रमाणमिति मन्त्रार्थवादानामतत्परत्वमभिधातुमुचितम्; कार्य इव सिद्धेऽप्यर्थे वेदप्रामाण्यस्य वक्ष्यमाणत्वात् [४ आह्निके] । न चेतरेतराश्रयम् [पु। ४९१] ; आगमैकशरणत्वाभावादीश्वरसिद्धेः ॥
परिशेषानुमानात् ईश्वरस्येतरचेतनवैलक्षण्यसिद्धिः
अन्ये तु—अन्वयव्यतिरेकिहेतुमूलकेवलव्यतिरेकिबलेन विशेषसिद्धिमभिदधति । देहादिव्यतिरिक्तात्मकल्पनमिव सुखदुःखादिगतेन कार्यत्वेन वर्णयिष्यते—पृथिव्यादिकार्यं अस्मदादिविलक्षणसर्वज्ञैककर्तृकम्, अस्मदादिषु बाधकोत्पत्तौ सत्यां कार्यत्वादिति ॥
पक्षधर्मताबलात्तदनुगुणविशेषाः ईश्वरे स्वयं सिध्यन्ति
अपरे—पक्षधर्मताबलादेव विशेषलाभमभ्युपगच्छन्ति । न हीदृशं परिदृश्यमानमनेकरूपमपरिमितमनन्तप्राणिगतविचित्रसुखदुःखसाधनं भुवनादिकार्यं अनतिशयेन पुंसा कर्तुं शक्यमिति ॥
यथा चन्दनधूममितरधूमविसदृशमवलोक्य चन्दन एव वह्निरनुमीयते, तथा विलक्षणात् कार्यात् विलक्षण एव कर्ताऽनुमास्यते ॥
कार्य एवेति—वृद्धव्यवहाराच्छक्तिग्रहे तत्र आनयनादिकार्यान्वित एव शक्तिग्रहात्, सिद्धार्थबोधकवाक्यानां न स्वार्थे प्रामाण्यमिति मीमांसकाः । “अयं घटः” इत्यादिसिद्धपरवाक्यैरपि बोधानुभवात् सिद्धपरवाक्यान्यपि स्वार्थे प्रमाणानीति सिद्धान्तः ॥
अन्ये त्विति । हेत्वसिद्धिपरिहाराय कार्यत्वादीनामप्यनुमानेन साधनीयत्वात्, कार्यत्वानुमानस्यान्वयव्यतिरेकित्वात् तन्मूलकं परिशेषानुमानम् । सुखदुःखादीति । “इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम्” [१-१-१०] इति सूत्रम् । ७ आह्निके इदं व्याख्यास्यते । अस्मदादौ बाधकोत्पत्तिश्च प्रत्यक्षादेव ॥
विलक्षण एव कर्तेति । निखिलजगद्धेतुतया सिध्यन् हीश्वरः तदनुगुणज्ञानशक्त्यादिविशिष्ट एव खलु सिध्येत् । अतः धर्मिग्राहकेनानुमानेनैव ईश्वरस्येतरचेतनवैलक्षण्यसिद्धिः ॥
यथा प्रावरकेभ्य इव तत्कुशलः कुविन्दः, यथा च कुलालः सकलकलशादिकार्यकलापोत्पत्तिसंविधानप्रयोजनाद्यभिज्ञो भवंस्तस्य कार्यचक्रस्य कर्ता, तथेयतस्त्रैलोक्यस्य निरवधिप्राणिसुखदुःखसाधनस्य सृष्टिसंहारसंविधानं सप्रयोजनं बहुशाखं जानन्नेव स्रष्टा भवितुमर्हति महेश्वरः । तस्मात्सर्वज्ञः ॥
परमात्मनः सर्वज्ञत्वं स्वतस्सिद्धम्
अपि च यथा नियतविषयवृत्तीनां चक्षुरादीन्द्रियाणामधिष्ठाता क्षेत्रज्ञः तदपेक्षया सर्वज्ञः, एवं सकलक्षेत्रज्ञकर्मविनियोगेषु प्रभवन्नीश्वरः तदपेक्षया सर्वज्ञः । तथा चाह व्यासः [गी। १५-१६, १७] —
“
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य विभर्त्यव्यय ईश्वरः ॥
”
मन्त्रश्च तदर्थानुवादी पठ्यते [मु। ३-१-१] [श्वे। ४-६] —
“
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्यो अभिचाकशीति इति ॥
”
अतश्च सर्वज्ञ ईश्वरः ॥
प्रावरकं—यवनिकादि । सप्रयोजनमिति । वक्ष्यते चानुपदमेव प्रयोजनं सृष्टिसंहारादेः ॥
तदपेक्षया—तच्छरीरापेक्षया । द्वाविमावित्यादि । “उपद्रष्टाऽनुमन्ता च भर्ता भोक्ता महेश्वरः । परमात्मेति चाप्युक्तः देहेऽस्मिन् पुरुषः परः” [गी—१३-२२] इत्यादेरपीदमुपलक्षणम् । तदर्थानुवादी—तदुपबृंहितार्थः । तथा च व्यासः—“इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् । विभेत्यल्पश्रुन्ताद्वेदः मामयं प्रतरिष्यति” [म-भा। आ। १-२६५] इति ॥
जीवानामज्ञत्वे परमात्मनः सर्वज्ञत्वे च निदानम्
पुंसामसर्ववित्त्वं हि रागादिमलबन्धनम् ।
न च रागादिभिः स्पृष्टो भगवानिति सर्ववित् ॥ १६७ ॥
इष्टानिष्टार्थसम्भोगप्रभवाः खलु देहिनाम् ।
रागादयः कथं ते स्युर्नित्यानन्दात्मके शिवे ॥ १६८ ॥
मिथ्याज्ञानमूलाश्च रागादयो दोषाः; ते कथं नित्यनिर्मलज्ञानवतीश्वरे भवेयुः ?
ईश्वरस्य नित्यसर्वज्ञत्वम्
नित्यं तज्ज्ञानं कथमिति चेत्—तस्मिन् क्षणमप्यज्ञातरि सति तदिच्छाप्रेर्यमाणकर्माधीननानाप्रकारव्यवहारविरमप्रसङ्गात् । प्रलयवेलायां तर्हि कुतस्तन्नित्यत्वकल्पनेति चेत्—मैवम्—आप्रलयात्सिद्धे नित्यत्वे तदा विनाशकारणाभावात् अस्य आत्मन इव तज्ज्ञानस्य नित्यत्वं सेत्स्यति । पुनश्च सर्गकाले तदुत्पत्तिकारणाभावादपि नित्यं ज्ञानम् ॥
ईश्वरज्ञानस्य एकत्वे प्रमाणम्
एवञ्च तदतीतानागतसूक्ष्मव्यवहितादिसमस्तवस्तुविषयं, न भिन्नम्; क्रमयौगपद्यविकल्पानुपपत्तेः । क्रमाश्रयणे क्वचिदज्ञातृत्वं स्यादिति व्यवहारलोपः । यौगपद्येन सर्वज्ञातृत्वे कुतस्त्यो ज्ञानभेदः ?
मिथ्याज्ञानमूला इति । भाष्यमपि “ज्ञातारं हि रागादयः प्रवर्तयन्ति पुण्ये, पापे वा । यत्र मिथ्याज्ञानं तत्र रागद्वेषौ” [१-१-१८] इति ॥
अज्ञातरि—ज्ञानशून्ये । पुनश्चेति । “धाता यथापूर्वमकल्पयत्” [तै-ना-१२] इत्यादौ “यथापूर्व” पदात् सृष्टिप्रलयौ स्त एव । यद्यपि प्रलये कर्माधीननानाव्यवहाराभावात् तत्प्रेरणार्थं ज्ञानापेक्षाऽपि न, अथापि पुनः सृष्ट्यर्थं तेषां परिपाकादिज्ञानं सृष्टेः पूर्वमेवावश्यकमिति प्रलयकालेऽपि ईशः सर्वज्ञ एव ॥
ईश्वरज्ञानस्य इन्द्रियाजन्यत्वेऽपि प्रत्यक्षत्वम्
प्रत्यक्षसाधर्म्याच्च तज्ज्ञानं प्रत्यक्षमुच्यते, न पुनरिन्द्रियार्थसन्निकर्षोत्पन्नत्वमस्यास्ति; अजनकानामेवार्थानां सवितृप्रकाशेनेव तेन ग्रहणात् ॥
ईश्वरगुणानां सर्वेषां नित्यत्वम्
ज्ञानवदन्येऽप्यात्मगुणा येऽस्य सन्ति, ते नित्या एव; मनस्संयोगानपेक्षजन्मत्वात् । दुःखद्वेषास्तस्य तावन्न सन्त्येव । भावनाख्येन संस्कारेणापि न प्रयोजनम्; सर्वदा सर्वार्थदर्शित्वेन स्मृत्यभावात् । अत एव न तस्यानुमानिकं ज्ञानमिष्यते । धर्मस्तु भूतानुग्रहवतो वस्तुस्वाभाव्याद्भवन्न वार्यते । तस्य च फलं परार्थनिष्पत्तिरेव । सुखं त्वस्य नित्यमेव, नित्यानन्दत्वेनागमात् प्रतीतेः । असुखितस्य चैवंविधकार्यारम्भयोग्यताऽभावात् ॥
ईश्वरेच्छाया नित्यत्वेऽपि सृष्टिप्रलयाद्युपपत्तिः
ननु ज्ञानानन्दवदिच्छाऽपि नित्या चेदीश्वरस्य, तर्हि सर्वदा तदिच्छासम्भवात् सर्वदा जगदुत्पत्तिरिति जगदानन्त्यप्रसङ्गः । सर्गेच्छानित्यत्वाच्च संहारो न प्राप्नोति । संहारेच्छाया अपि नित्यत्वाभ्युपगमेन नक्तन्दिनं प्रलयप्रबन्धो न विरमेदेव जगतामिति—
न पुनरिति । अन्यथा तस्यानित्यत्वप्रसङ्गः । ननु विषयाणां प्रत्यक्षकारणत्वात् यदि ईश्वरज्ञानं सविषयकं, तदा विषयजन्यत्वमनिवार्यमित्यत्राह— अजनकानामिति । सवितृप्रकाशेनेवेति । नूतनतयोत्पन्नोऽपि घटः यथा सूर्यप्रकाशेन क्रोडीक्रियते तथेत्यर्थः । ज्ञानं नाम अर्थविषयकः प्रकाश इत्युक्तम् ॥
न वार्यते इत्यनेन तदनभ्युपगमे हान्यभावः सूचितः । भूतानुग्रहस्य स्वभावत्वात् न धर्मस्य तत्रापेक्षा । आगमात्—“विज्ञानमानन्दं ब्रह्म” इत्यादेः । एवं विधेति । परार्थैकफलेत्यर्थः ॥
नैष दोषः—अनात्ममनस्संयोगजत्वादिच्छा स्वरूपमात्रेण नित्याऽपि कदाचित्सर्गेण कदाचित्संहारेण वा विषयेणानुरज्यते । सर्गसंहारयोरन्तराले तु जगतः स्थित्यवस्थायां अस्मात्कर्मण इदमस्य सम्पद्यतामितीच्छा भवति प्रजापतेः ॥
प्रयत्नस्तस्य सकल्पविशेषात्मक एव । तथा चागमः—“सत्यकामः सत्यसङ्कल्पः” [छा-ड-८-१-५] इति । “कामः” इतीच्छा उच्यते, “सङ्कल्पः” इति प्रयत्नः ।
ईश्वरस्य आत्मविशेषरूपत्वम्
तदेवं नवभ्य आत्मगुणेभ्यः पञ्च ज्ञानसुखेच्छाप्रयत्नधर्माः सन्तीश्वरे । चत्वारस्तु दुःखद्वेषाधर्मसंस्कारा न सन्तीत्यात्मविशेष ऐवेश्वरो न द्रव्यान्तरम् । आह च पतञ्जलिः—“क्लशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः” [यो-सू-१-२४] इति । सोऽयमागमात्, अनुमानात्, पक्षधर्मतो वा विशेषलाभ इति स्थितम् ॥
अशरीर एवेश्वरः
यत्पुनर्विकल्पितं [पु ४८६] —ऽसशरीर ईश्वरः सृजति जगत् ? अशरीरो वा ? इति—तत्राशरीरस्यैव स्रष्टृत्वमभ्युपगच्छामः ॥
अशरीरस्यापीश्वरस्य कर्तृत्वं युज्यते
ननु ! क्रियाऽऽवेशनिबन्धनं कर्तृत्वं, न पारिभाषिकम् । तत् अशरीरस्य क्रियाविरहात् कथं भवेत् ? कस्य च कुत्राशरीरस्य कर्तृत्वं दृष्टमिति—उच्यते—ज्ञानचिकीर्षाप्रयत्नयोगित्वं कर्तृत्वमा
अनात्ममनस्संयोगजत्वात्—आत्ममनस्संयोगाजन्यत्वात् । अनुरज्यते—संयुज्यते ॥
सङ्कल्पेति । “सङ्कल्पः कर्म मानसम्” । यद्यपि मनोऽपेक्षा नास्ति । अथापि “इदं कुर्याम्” इत्याकारकः कश्चन धर्मः अस्त्येव, प्रत्यक्षवत् । अत एव “विशेष” पदम् ॥
आहेति । “पुरुषविशेष” पदं प्रयुञ्जान इति शेषः ॥
ज्ञानेति । यद्यपि कृतिमत्त्वमात्रं कर्तृत्वम्, अथापि तादृशकृतिहेतुत्वे
चक्षते । तच्चेश्वरे विद्यत एवेत्युक्तमेतत् । स्वशरीरप्रेरणे च दृष्टमशरीरस्याप्यात्मनः कर्तृत्वम् ॥
जगत्सर्गे ईश्वरस्य क्लेशाभावः
इच्छामात्रेण च तस्य कर्तृत्वात् अनेकव्यापारनिर्वर्तनोपात्तदुर्वहक्लेशकालुष्यविकल्पोऽपि प्रत्युक्तः ॥
अशीरस्यापीश्वरस्य परमाणुप्रेरणं सङ्गच्छते
ननु ! अत्रोक्तम् [पु। ४८७] —
“
कुलालवच्च नैतस्य व्यापारो यदि कल्प्यते ।
अचेतनः कथं भावः तदिच्छामनुवर्तते ? इति ॥
” अस्माभिरप्युक्तमेव—
यथा ह्यचेतनः कायः आत्मेच्छामनुवर्तते ।
तदिच्छामनुवर्त्स्यन्ते तथैव परमाणवः ॥ १६९ ॥
स्वप्रयोजनं विनाऽपि ईश्वरस्य स्रष्टृत्वम् यस्तु प्रयोजनविकल्पः—किमर्थं सृजति जगन्ति भगवान् ? इति—सोऽपि न पेशलः । स्वभाव एवैष भगवतः—यत् कदाचित् सृजति, कदाचिच्च संहरति विश्वमिति ॥
कथं पुनर्नियतकाल एषोऽस्य स्वभाव इति चेत्—आदित्यं पश्यतु देवानाम्प्रियः ! यो नियतकालमुदेत्यस्तमेति च । प्राणिकर्मसापेक्षमेतद्विवस्वतो रूपमिति चेत्—ईश्वरेऽपि तुल्यः समाधिः ॥ नाविनाभावात् ज्ञानचिकीर्षे अपि क्रोडीकृते । जानाति, इच्छति, यतते इति किल क्रमः ॥
अचेतनः—जडः भावः—पदार्थः—परमाणुः ॥
प्राणिकर्मसापेक्षमिति । प्राणिनां तत्तत्कर्मानुभवाय आदित्यादयः स्वस्वकृत्यं कुर्वन्ति चेत्, ईश्वरोऽपि तथैव । एतस्य फलं त्वनुपदं स्पष्टीभविष्यति ॥
लीलयाऽपि जगत्सृष्टिरुपपद्यते
क्रीडार्थेऽपि जगत्सर्गे न हीयेत कृतार्थता ।
प्रवर्तमाना दृश्यन्ते न हि क्रीडासु दुःखिताः ॥ १७० ॥
दययैव वा जगत्सृष्टिः
अथवा अनुकम्पयैव सर्गसंहारावारभतामीश्वरः ॥
दयया जगत्सर्गेऽपि सुखदुःखादिवैषम्योपपत्तिः
नन्वत्र चोदितम् [पु। ४८८] न तथाविधाः प्राणिनोऽनुकम्प्या भवन्ति । केवलसुखस्वभावा वा सृष्टिरनुकम्पावता क्रियेतेति— सत्यं चोदितम्—अनुपपन्नं तु; अनादित्वात्संसारस्य ॥
सृष्टिसंहारयोः परमं फलम्
शुभाशुभसंस्कारानुविद्धा एवात्मानः । ते च धर्माधर्मनिगडसंयतत्वादपवर्गपुरद्वारप्रवेशमलभमानाः कथं नानुकम्प्याः ? अनुपभुक्तफलानां कर्मणां न प्रक्षयः । सर्गमन्तरेण च तत्फलोपभोगासम्भव इति शुभफलोपभोगाय स्वर्गादिसर्गं, अशुभफलोपभोगाय नरकादिसृष्टिमारभते दयालुरेव भगवान् । उपभोगप्रबन्धेन परिश्रान्तानामन्तराऽन्तरा विश्रान्तये जन्तूनां भुवनोपसंहारमपि करोतीति सर्वमेतत्कृपानिबन्धनमेव ॥
कृतार्थता—अवाप्तसमस्तकामत्वम् । अवाप्तसमस्तकामैरेव क्रीडारसः अनुभवितुं शक्यते । “आयासबहुला चेयं” [पु। ४८९] इत्यस्योत्तरं— उत्तरार्धम् । “न च क्रीडाऽपि निश्शेष” [पु। ४८९] इत्यस्योत्तरं तु सृष्टेर्दयामूलकत्वसाधनावसरे स्वयं प्राप्येतेति अत्र नोक्तम् ॥
निगडः—“अथ शृङ्खला । अन्दुको निगडोऽस्त्री स्यात्” । न प्रक्षय इति । “नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि” । यद्यपि प्रायश्चित्तादिनाऽप्यस्ति नाशः, एवं ब्रह्मज्ञानादपि; अथापि तद्व्यतिरिक्तविषयं वचनम् ॥
सृष्टिप्रलयोपपत्तिः
ननु च युगपदेव सकलजगत्प्रलयकरणमनुपपन्नम्, अविनाशिनां कर्मणां फलोपभोगप्रतिबन्धासम्भवादिति चोदितम् [पु। ४८९] —न युक्तमेतत्—ईश्वरेच्छाप्रतिबद्धानां कर्मणां स्तिमितशक्तीनामवस्थानात् । तदिच्छाप्रेरितानि कर्माणि फलमादधति । तदिच्छाप्रतिबद्धानि च तत्रोदासते । कस्मादेवमिति चेत्—अचेतनानां चेतनानधिष्ठितानां स्वकार्यकरणानुपलब्धेः ॥
जीवानां कर्माधिष्ठातृत्वासम्भवः
ननु ! तेषामेव कर्मणां कर्तार आत्मानश्चेतना अधिष्ठातारो भविष्यन्ति । यथाह भट्टः [श्लो। वा। १-१-५ सम्ब-परि ७५] —
“कर्मभिः सर्वजीवानां तत्सिद्धेः सिद्धसाधनम्” इति—
नैतदेवम्—नैतेऽधिष्ठातारो भवितुमर्हन्ति; बहुत्वात्, विरुद्धाभिप्रायत्वाच्च । तथा ह्येक एव कश्चित् स्थावरादिविशेषो राजादिविशेषो वा प्राणिकोटीनामनेकविधसुखदुःखोपभोगस्य हेतुः, स तैर्बहुभिरव्यवस्थिताभिप्रायैः कथमारभेत ? तेषामेकत्र सम्मानाभावात् । मठपरिषदोऽपि क्वचिदेव सकलसाधारणोपकारिणि कार्ये भवत्यैकमत्यम्, न सर्वत्र । महाप्रासादाद्यारम्भे बहूनां तक्षादीनामेकस्थपत्याशयानुवर्तित्वं दृश्यते । पिपीलिकानामपि मृत्कूटकरणे तुल्यः कश्चिदुपकारः प्रवर्तकः, स्थपतिवत् एकाशयानुवर्तित्वं वा कल्प्यम् । इह तु तत्स्थावरं शरीरं केषाञ्चिदुपकारकारणं, इतरेषा-
कर्मभिरित्यादि । सर्वजीवानामपि तत्सिद्धेः जगत्कर्तृत्वसिद्धेः । कर्मभिः द्वारभूतैः । सम्मानं—सम्मतिः, ऐकमत्याभावादित्यर्थः । मठपरिषदः—मठीयपरिषदः । सर्वत्र—यदुद्देशेन प्रवृत्तो मठः, परिषद्वा, तद्व्यतिरिक्तविषये । मृत्कूटं—वल्मीकादिः । स्थपतिवदिति । अस्ति वल्मीकादौ नियामकः कीटराजः, राज्ञी वा; यदधीनाः सर्व एवेतरे कीटाः स्वस्वकार्येषु असङ्कीर्णा व्यापृण्वन्ति, यस्मिंश्च मृते सर्वे स्वैरं चरन्तः नश्यन्तीति प्रत्यक्षसिद्धमेव ॥
मपि भूयसामपकारकारणमिति कथं तैः सम्भूय सृज्यते । अनधिष्ठितानान्त्वचेतनानामारम्भकत्वमयुक्तमेव । तस्मादवश्यमेकस्तेषां कर्मणामधिष्ठाता कल्पनीयः, यदिच्छामन्तरेण भवन्त्यपि कर्माणि न फलजन्मने प्रभवन्ति ॥
ईश्वरस्य एकत्वम्
अत एवैक ईश्वर इष्यते, न द्वौ, बहवो वा; भिन्नाभिप्रायतया लोकानुग्रहोपघातवैशसप्रसङ्गात् । इच्छाविसंवादसम्भवेन च ततः कस्य चित् सङ्कल्पविघातद्वारकानैश्वर्यप्रसङ्गात् इत्येक एवेश्वरः । तदिच्छया कर्माणि कार्येषु प्रवर्तन्ते इत्युपपन्नः सर्गः । तदिच्छाप्रतिबन्धात् स्तिमितशक्तीनि कर्माण्युदासत इत्युपपन्नः प्रलयः ॥
सर्गप्रलयसद्भावः
एवञ्च यदुक्तं [श्लो। वा। १-१-५ सम्ब-परि ११३] — “
तस्मादद्यवदेवात्र सर्गप्रलयकल्पना ।
समस्तक्षयजन्मभ्यां न सिद्ध्यत्यप्रमाणिका
” इति—एतदपि असाम्प्रतम् ॥
सृष्टिप्रलयाभावेऽपि स्थितेरपीश्वरायत्तत्वम्
तिष्ठतु वा सर्गप्रलयकालः ! अद्यत्वेऽपि यथोक्तनयेन तदिच्छामन्तरेण प्राणिनां कर्मविपाकानुपपत्तेरवश्यमीश्वरोऽभ्युपगन्तव्यः, इतरथा सर्वव्यवहारविप्रलोपः । तदुक्तम् [म। भा। वन। ३०-२८] —
“
अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेव वा इति ॥
” भवन्ति—वर्तमानानि ॥
वैशसं—व्यसनम् । सृष्टिविषयाणामनिष्टमुक्त्वा तत्कर्तॄणामपि तदाह— इच्छेति ॥
तिष्ठतु—माऽस्त्विति यावत् । अद्यत्वेऽपि—इदानीमपि ॥
कर्मणामावश्यकत्वम्
ननु ! एवं तर्हि ईश्वरेच्छैव भवतु कर्त्री संहर्त्री च । किं कर्मभिः !—मैवम्—कर्मभिर्विना जगद्वैचित्र्यानुपपत्तेः । कर्मनैरपेक्ष्यपक्षेऽपि त्रयो दोषा दर्शिता एव [पु। ४९०] —ईश्वरस्य निर्दयत्वं, कर्मचोदनानर्थक्यम्, अनिर्मोक्षप्रसङ्गश्चेति । तस्मात् कर्मणामेवनियोजने स्वातन्त्र्यमीश्वरस्य, न तन्निरपेक्षम् ॥
कर्मानुगुणं जगत्सर्जनेऽपि ईश्वरस्य न स्वातन्त्र्यहानिः
किं तादृशैश्वर्येण प्रयोजनमिति चेत्—न—न प्रयोजनानुवर्ति प्रमाणं भवितुमर्हति । किं वा भगवतः कर्मापेक्षिणोऽपि न प्रभुत्व मित्यलं कुतर्कलवलिप्तमुखनास्तिकालापपरिमर्देन !
ईश्वरवादोपसंहारः
तस्मात् कुतार्किकोद्गीतदूषणाभासवारणात् ।
सिद्धस्त्रैलोक्यनिर्माणनिपुणः परमेश्वरः ॥ १७१ ॥
निरीश्वरवादिसम्भाषणस्यापि पापत्वम्
ये त्वीश्वरं निरपवाददृढप्रमाण-
सिद्धस्वरूपमपि नाभ्युपयन्ति मूढाः ।
पापाय तैस्सह कथाऽपि वितन्यमाना
जायेत नूनमिति युक्तमतो विरन्तुम् ॥ १७२ ॥
यस्येच्छयैव भुवनानि समुद्भवन्ति
तिष्ठन्ति यान्ति च पुनर्विलयं युगान्ते ।
तस्मै समस्तफलभोगनिबन्धनाय
नित्यप्रबुद्धमुदिताय नमः शिवाय ॥ १७३ ॥
किं वेति । कुतो वेत्यर्थः । तक्ष्णः तक्षणादिव्यापारेषु वास्याद्यपेक्षायाः सत्वेऽपि न हि स्वातन्त्र्यभङ्गः । अन्यथा तक्षा कर्तैव न स्यात् । स्वतन्त्रः खलु कर्ता । अतः सापेक्षत्वमात्रं न स्वातन्त्र्यभञ्जकम् ॥
एवं निरीश्वरवादिभिस्सह कथायाः पापत्वेन, तत्प्रायश्चित्ततया भगवन्तं स्मरति—यस्येति । निबन्धनाय—हेतवे । नित्यप्रबुद्धमुदिताय— नित्यज्ञानानन्दस्वरूपाय ॥
—वेदपौरुषेयत्वसाधनप्रकरणम्— ईश्वरस्य जगत्स्रष्टृत्वेऽपि वेदानां तत्कृतत्वाक्षेपः
ननु ! त्रैलोक्यनिर्माणनिपुणे परमेश्वरे ।
सिद्धेऽपि तत्प्रणीतत्वं न वेदस्यावकल्पते ॥ १७४ ॥
पदे शब्दार्थसम्बन्धे वेदस्य रचनासु वा ।
कर्तृत्वमस्याशङ्क्येत तच्च सर्वत्र दुर्वचम् ॥ १७५ ॥
वर्णराशिः क्रमव्यक्तः पदमित्यभिधीयते ।
वर्णानां चाविनाशित्वात् कथमीश्वरकार्यता ॥ १७६ ॥
सम्बन्धोऽपि न तत्कार्यः स हि शक्तिस्वभावकः ।
शब्दे वाचकशक्तिश्च नित्यैवाग्नाविवोष्णता ॥ १७७ ॥
रचना अपि वैदिक्यो नैताः पुरुषनिर्मिताः ।
कविप्रणीतकाव्यादिरचनाभ्यो विलक्षणाः ॥ १७८ ॥
एवं च वेदे स्वातन्त्र्यमीश्वरस्य न कुत्रचित् ।
कामं तु पर्वतानेष विदधातु भिनत्तु वा ॥ १७९ ॥
स्वतःप्रामाण्यसिद्धौ तु वेदे वक्त्रनपेक्षताम् ।
वदामो न तु सर्वत्र पुरुषद्वेषिणो वयम् ॥ १८० ॥
अनपेक्षत्वमेवातो वेदप्रामाण्यकारणम् ।
युक्तं, वक्ताऽपि वेदस्य कुर्वन्नपि करोतु किम् ? ॥ १८१ ॥
शब्दस्यानित्यत्वे प्रमाणाभावः, नित्यत्वे च प्रमाणम्
कथं पुनरमी वर्णाः श्रुतमात्रतिरोहिताः ।
नित्या भवन्तु, कोऽयं वा शब्दस्वातन्त्र्यदोहदः ? ॥ १८२ ॥
सर्वत्र—त्रिष्वपि । वर्णानां नित्यत्वात्—क्रमव्यक्त इति । सर्वत्र— पौरुषेयवाक्येषु । अनपेक्षत्वमिति । “तत्प्रमाणं बादरायणस्य, अनपेक्षत्वात्” [जै। सू। १-१-५] इति हि सूत्रम् । एवं इतरानपेक्षतयैव तेन स्वप्रामाण्ये संरक्षिते वेदस्येश्वरकृतत्वेन किं साधनीयमित्यर्थः ॥
सिद्धान्तिच्छाययाऽऽक्षिपति—कथमिति । श्रुतमात्रतिरोहिताः— श्रवणसमनन्तरं नश्यन्तः । एवं वर्णाः पुरुषप्रयत्नोत्पाद्यमानाः श्रूयन्ते, प्रयत्नविरतौ च विरमन्ते । अथापि ते न पुरुषाधीनाः, किन्तु स्वतन्त्राः— नित्या इति किमिदमित्याश्चर्यद्योतनाय—शब्दस्वातन्त्र्यदोहद इति ।
उच्यते—
शब्दस्य न ह्यनित्यत्वे युक्तिःस्फुरति काचन ।
प्रत्यक्षमर्थापत्तिश्च नित्यतां त्वधिगच्छतः ॥ १८३ ॥
शब्दस्यानित्यत्वसाधनानुवादः
तथा हि—अनित्यत्वहेतव इमे किल कथ्यन्ते, प्रयत्नानन्तरमुपलब्धेः कार्यः शब्द इति । कार्यत्वानित्यत्वयोः परस्पराविनाभावात् एकतरसिद्धावन्यतरसिद्धिर्भवत्येवेति क्वचित् किञ्चित् साधनमुच्यते प्रयत्नप्रेरितकौष्ठ्यमारुतसंयोगविभागानन्तरमुपलभ्यमानः शब्दस्तत्कार्य एवेति गम्यते । उच्चारणादूर्ध्वमनुपलब्धेः अनित्यः शब्दः । न ह्येनमुच्चरितं मुहूर्तमप्युपलभामहे । तस्माद्विनष्ट इत्यवगच्छामः ॥
व्यवहारादपि शब्द अनित्यः
करोतिशब्दव्यपदेशाच्च कार्यः ब्दः । “शब्दं कुरु”, “शब्दं मा कार्षीः” इति व्यवहर्तारः प्रयुञ्जते । ते नूनमवगच्छन्ति कार्यः शब्द इति ॥
अनेकदेशेषु उपलम्भात् शब्दस्य नानात्वानित्यत्वे
नानादेशेषु च युगपदुपलम्भात् तेषु तेषु देशेषु शब्देन व्यवहारात् सर्वत्र युगपदुपलभ्यते शब्दः । तदेकस्य नित्यस्य सतोऽनुपपन्नम् । कार्यत्वे तु बहूनां नानादेशेषु क्रियमाणानामुपपद्यतेऽनेकदेशसम्बन्ध इति ॥
अधिगच्छतः—अधिगमयतः ॥
पूर्वमीमांसायाः प्रथमाध्यायाद्यपादे षष्ठाधिकरणोक्तरीत्या शब्दनित्यत्वं निरूपयिष्यन् पूर्वपक्षसिद्धान्तौ तदधिकरणसूत्रभाष्यवार्तिकोक्तौ अनुवदति तथा हीत्यादि । कथ्यन्त इति । “आदिमत्त्वादैन्द्रियकत्वात्कृतकवदुपचाराच्च” [न्या-सू-२-२-१३] इत्यादिष्विति शेषः । ताल्वादौ कोष्ठे भवः—कौष्ठ्यः ॥
एकत्त्येति । यदा नित्यः सार्वत्रिकश्च शब्दः, तदा गगनादिवदेक एव स्यात् । नित्यस्य सतः अनेकत्वं तु अनवस्थादिग्रस्तम् ॥
विकारित्वाच्चानित्यः शब्दः
शब्दान्तरविकार्यत्वाच्चानित्यः शब्दः । दध्यत्रेति इकार एव यकारीभवतीति सादृश्यात् स्मृतेश्चावगम्यते । विकार्यत्वाच्च द्राक्षेक्षुरसादिवदनित्यत्वमस्येति ॥
वृद्धिहासभाक्त्वाच्चानित्यः शब्दः
कारणवृद्ध्या च वर्धमानत्वात् । बहुभिर्महाप्रयत्नैरुच्चार्यमाणो महान् गोशब्द उपलभ्यते, अल्पैरल्पप्रयत्नैरुच्चार्यमाणोऽल्प इत्येतच्च तन्तुवृद्ध्या वर्धमानः पट इव शब्दोऽपि हेतुवृद्ध्या वर्धमानः कार्यो भवितुमर्हतीति ॥
शब्दानित्यत्वहेतूनामसाधकत्वम्
त एते सर्व एवाप्रयोजका हेतवः । तथाहि—प्रात्यभिज्ञातः सिद्धे नित्यत्वे प्रयत्नानन्तरमुपलम्भात् अभिव्यक्तिः प्रयत्नकार्या शब्दस्य, नोत्पत्तिरिति गम्यते । तदेवं व्यङ्ग्येऽपि प्रयत्नानन्तरमुपलम्भसम्भवादनैकान्तिकत्वम् । अभिव्यञ्जकानां च पवनसंयोगविभागानामचिरस्थायित्वान्न चिरमुच्चारणादूर्ध्वमुपलभ्यते शब्दः ॥
प्रयोगाभिप्रायश्च करोतिशब्दव्यपदेशोऽस्य भविष्यति, गोमयानि कुरु, काष्ठानि कुर्वितिवत् । तस्मात्सोऽपि नैकान्तिकः ॥
नानादेशेषु युगपदुपलम्भनं एकस्य स्थिरस्यापि शब्दस्य विवस्वत इव सेत्स्यति ॥
स्मृतिः—व्याकरणं “इको यणचि” इत्यादिरूपम् ॥
महानिति । महत्वाल्पत्वे बहुदूरश्राव्यत्वाश्राव्यत्वे ॥
प्रात्यभिज्ञातः—स्वार्थिकः प्रत्ययः । स एवायं ककारः इति प्रत्यभिज्ञा ॥
गोमयानि कुर्विति । गोमयैरग्निमिन्धयेत्यर्थः । एवमुत्तरत्रापि ॥
नानादेशेष्विति । युगपत्सर्वैरनुपलम्भोऽपि अभिव्यक्तितदभावाभ्यामेवोपन्नः ॥
वर्णानामविकारित्वम्
विकार्यत्वं त्वसिद्धमेव, शब्दान्तरत्वात् । दधिशब्द इकारान्तः संहिताव्यतिरिक्तविषयवृत्तिः । यकारस्त्वयमन्य एव अचि परतः संहिताविषये प्रयुज्यमानः । न पुनरिकार एवायं यकारीभूतः क्षीरमिव दधिभूतमुपलभ्यते । न हीचुयशास्तालव्या इति स्थानसादृश्यमात्रेण तद्विकारत्ववर्णनमुचितम्, अप्रकृतिविकारयोरपि नयनोत्पलपल्लवयोः सादृश्यदर्शनात् । “इको यणचि” इति पाणिनिस्मृतेरपि नायमर्थः—इकारो यकारीभवति, क्षीरमिव दधीभवतीति । किन्त्वास्मिन् विषयेऽयं वर्णः प्रयोक्तव्यः, अस्मिन्नयमिति सूत्रार्थः । सिद्धे शब्देऽर्थे सम्बन्धे च तच्छास्त्रं प्रवृत्तमिति ॥
अपि च क्षीरं दधित्वमुपैति, न तु दधि क्षीरताम् । इह तु यकारोऽपि क्वचिदिकारतामुपैति—विध्यतीति सम्प्रसारणे सति । तस्मादसिद्ध एव वर्णानां प्रकृतिविकारभावः ॥
वृद्धिहासभाक्त्वमपि शब्दस्य नास्ति
नापि कारणवृद्ध्या वर्धते शब्दः । बलवताऽप्युच्चार्यमाणानि, बहुभिश्च, तावन्त्येवाक्षराणि । ध्वनय एव तथा तत्र प्रवृद्धा उपलभ्यन्ते, न वर्णा इति ॥
अन्य एव, न तु इकार एव तथा विकृत इत्यर्थः । नयनेत्यादि । “बाले ! तव मुखाम्भोजे चक्षुरिन्दीवरद्वयम्” इत्यादाविदं दृष्टम् । क्षीरं दधीभवतीव इत्यन्वयः । सिद्ध इत्यादि । “सिद्धे शब्देऽर्थे सम्बन्धे च लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमः” इतिवार्तिकसङ्ग्रहोऽयम् । “अर्थेनात्मप्रत्यायनाय प्रयुक्तः—अर्थप्रयुक्तः” इति प्रदीपः । “धर्माय नियमः, धर्मार्थो वा नियमः, धर्मप्रयोजनो वा नियमः—धर्मनियमः” इति भाष्यम् । धर्मः—विधिः ॥
विध्यतीति । “ग्रहिज्यावयिव्यधि—”इत्यादिना यकारस्य सम्प्रसारणसञ्ज्ञायां, “सम्प्रसारणाच्च” इति पूर्वरूपे व्यधधातो रूपम् ॥
ध्वनय एवेति । तथा च वृद्धिहासादिकं वर्णेन सहगतस्य नादविकारस्य ध्वनेरेव धर्मः ॥
शब्दनित्यत्वम्
तस्मादनित्यताऽसिद्धिः नैवं प्रायैरसाधनैः ।
शब्दस्य नित्यतायां तु सैषाऽर्थापत्तिरिष्यते ॥ १८४ ॥
शब्दस्योच्चारणं तावदर्थगत्यर्थमिष्यते ।
न चोच्चारितनष्टोऽयमर्थं गमयितुं क्षमः ॥ १८५ ॥
सर्वेषामविवादोऽत्र शब्दार्थव्यवहारिणाम् ।
यदविज्ञातसम्बन्धः शब्दो नार्थस्य वाचकः ॥ १८६ ॥
वेद्यमानः स सम्बन्धः स्थविरव्यवहारतः ।
द्राघीयसा न कालेन विना शक्येत वेदितुम् ॥ १८७ ॥
वृद्धव्यवहारात् शब्दार्थसम्बन्धावधारणक्रमः
तथा हि—“गां शुक्लामानय” इत्येकवृद्धप्रयुक्तशब्दश्रवणे सति चेष्टमानमितरं वृद्धमवलोकयन् बालस्तटस्थः तस्यार्थप्रतीतिं तावत्कल्पयति—आत्मनि तत्पूर्विकायाश्चेष्टाया दृष्टत्वात्, प्रमाणान्तरासन्निधानादेतद्वृद्धप्रयुक्तशब्दसमनन्तरं च प्रवृत्तेः तत एव शब्दात् किमप्यनेन प्रतिपन्नमिति मन्यते । ततः क्षणान्तरे तमर्थं तेन वृद्धेनानीयमानमुपलभमान एवं बुद्ध्यते—अयमर्थोऽमुतश्शब्दादनेनावगत इति । स चार्थोऽनेकगुणक्रियाजातिव्यक्त्यादिरूपसङ्कुल उपलभ्यते । शब्दोऽप्यनेकपदकदम्बकात्मा श्रुतः । तत्कतमस्य वाक्यांशस्य कतमोऽर्थांशो वाच्य इत्यावापोद्वापयोगेन बहुकृत्वः
अर्थगतिः—अर्थज्ञानम् । उच्चारितनष्टः—अकिञ्चित्कुर्वन्निति यावत् । तर्हि शब्दः किं करोतीत्यत्राह—सर्वेषामिति । कुत्राविवाद इत्यत्राह— यदिति । एवञ्च सम्बन्धस्मरणद्वाराऽर्थावगतिः शब्दोच्चारणफलम् ॥
चेष्टमानं—गवानयनाय चलन्तम् । इतरं—मध्यमम् । अर्थप्रतीतिं— चलनहेतुभूतं यत्किञ्चिदर्थज्ञानम् । आत्मनि—स्वस्मिन् । तत्पूर्विकायाः— ज्ञानपूर्विकायाः । अनेन—मध्यमवृद्धेन ॥
शृण्वन् गुणक्रियादिपरिहारेण गोत्वसामान्यमस्मन्मते, त्वन्मते वा तद्वन्मात्रं गोशब्दस्याभिधेयं निर्धारयतीति ॥
एवं दीर्घाध्वसापेक्षसम्बन्धाधिगमावधि ।
शब्दस्य जीवितं सिद्धमिति नाशुविनाशिता ॥ १८८ ॥
शब्दनित्यत्वाभावे शाब्दबोध एव न घटेत
भवतु वा विनश्वरस्यापि शब्दस्य सम्बन्धग्रहणम् । तथापि तस्मिन् गृहीतसम्बन्धे शब्दे विनष्टे सति कथमनवगतसम्बन्धादभिनवादिदानीमन्यस्माच्छब्दादर्थप्रतिपत्तिः ॥
अन्यस्मिन् ज्ञातसम्बन्धे यद्यन्यो वाचको भवेत् ।
वाचकाः सर्वशब्दाः स्युरेकस्मिन् ज्ञातसङ्गतौ ॥ १८९ ॥
न च वक्ता व्यवहरमाणः तदैव शब्दं चोच्चारयति, सम्बन्धं करोति च, एवं च व्युत्पादयति, परं च व्यवहारयतीति । न हि युगपदिमाः क्रिया भवितुमर्हन्ति; एवमदर्शनात् ॥
सर्वेषु शब्देषु साजात्यात् न शक्तिग्रहणसम्भवः
अथ आदौ सम्बन्धग्रहणे वृत्ते, तस्मिन् विनष्टेऽपि गोशब्दे, तत्सदृशमभिनवकृतमपि शब्दमुपश्रुत्यार्थं प्रतिपत्स्यन्ते व्यवहर्तार इत्युच्यते—तदपि न चतुरश्रम्—सादृश्यस्याग्रहणात् । न हि गोशब्द इवायमिति प्रतीतिर्दृष्टा, अपि तु गोशब्द एवेति । न च
तद्वन्मात्रं—जातिविशिष्टव्यक्तिमात्रम् । जातिस्तु अनुगमिकैवेति पक्षाभिप्रायेणेदम् ॥
ननु शब्दस्य नाशेऽपि नष्टशब्दमूलकत्वं तच्छब्दकालिकव्यवहारस्य अनुमातुं शक्यमिति चेत्, एवं शक्तिनिर्धारेऽपि अनित्यात् शब्दात् बोधः न भवत्येवेत्युपपादयति—भवतु वेत्यादिना । अन्यस्मात् शब्दात्-कालान्तरपुरुषान्तरप्रयुक्तात् “गां शुक्लामानय” इत्यादेः । न चेत्यादि । एकदैवोच्चरितेन शब्देन न हि सर्वे स्वपरव्यवहारादयः निर्वोदुं शक्या इत्यर्थः ॥
भूयोऽवयवसामान्ययोगरूपं सादृश्यं वर्णानामनवयवानामुपपद्यते । अभिनवस्य शब्दस्य स्वयमर्थवत्त्वानवधारणात् “कथमयममुतः श्रोता प्रतिपद्येत” इति शङ्कमानो वक्ता कथं प्रयोगं कुर्यात् ?
सादृश्यमूलकशक्तिग्रहणेऽतिप्रसङ्गश्च
अथ सोऽप्यर्थवत्सदृशमेव प्रयुङ्क्ते, नार्थवन्तं; तर्हि यत्सदृशमसौ प्रयुङ्क्ते तस्याप्यन्यसादृश्यादेवार्थवत्तेति जगत्सर्गकालकृतस्य मूलभूतस्यार्थवतः शब्दस्य स्मरणं स्यात्, तन्मूलत्वाद्व्यवहारस्य । न चैवमस्ति । न च ततःप्रभृत्यद्ययावत् सादृश्यमनुवर्तते; तत्सादृश्यकल्पनायां मूलसादृश्यविनाशात् । विशेषतस्तु शब्दानाम् ॥
वर्णेषु सादृश्यमेवातिप्रसक्तम्
भिन्नैर्वक्तृमुखस्थानप्रयत्नकरणादिभिः ।
न निर्वहति सादृश्यं शब्दानां दूरवर्तिनाम् ॥ १९० ॥
अनवयवानामिति । मीमांसकानां तु वर्णा नित्याः, सिद्धान्ते तु गुणाः । जातिः खलु आकृतिव्यङ्ग्या । आकृतिश्चावयवसंस्थानमेव । यद्यपि रूपत्वादि सामान्यं रूपाद्याकृतिव्यङ्ग्यम्; अतश्च निरवयवेऽपि संस्थानमस्त्येव । अन्यथा हि आत्मत्वजातिरपि न स्यात्—तथाऽपि निरवयवस्य संस्थानासम्भवपक्षाभिप्रायेणेदम् ॥
अर्थवत्सदृशं—गृहीतीर्थकशब्दतुल्यम् । अर्थवन्तं—गृहीतार्थकम् । मूलसादृश्यविनाशादिति । “स्वभावविलक्षणेषु वस्तुषु सत्यामपि सादृश्यपरम्परायां स्तोकस्तोकभेदेनैव दूरमागतस्य मूलसादृश्यमत्यन्तमेव नश्येत् । विशेषतस्तु शब्दे—स्तोकविशेषादेवार्थान्यत्वं भवति, स्वरभेदादेव बहुब्रीहितत्पुरुषार्थभेदात् । किं पुनर्व्यञ्जन-मात्रा-क्रमादिभेदात्” इति पार्थसारथिः [१-१-६-२६८] ॥
भिन्नैरित्यादि । ताल्वादिवैचित्र्यात् प्रतिपुरुषं उच्चरितेषु वर्णेष्वपि महदन्तरं प्रत्यक्षसिद्धम् । एवं परस्परं असन्निहितानामपि यत्किञ्चित्सादृश्यमादायार्थप्रतीतिनिर्वाहे च नीहारादपि वह्न्यनुमानं प्रमाणं स्यात् ॥
सादृश्यजनितत्वे च मिथ्यैवार्थगतिर्भवेत् ।
धूमानुकारिनीहारजन्यज्वलनबुद्धिवत् ॥ १९१ ॥
तस्मात् सादृश्यनिबन्धनार्थप्रतीत्यनुपपत्तेः गोशब्द एव स्थायीत्यभ्युपगमनीयम् ॥
गकाराद्यनुगतं गोशब्दत्वादिसामान्यं तु नास्त्येव
ननु ! यथा धूमव्यक्तिभेदेऽपि धूमत्वमतिमबलम्ब्य सम्बन्धग्रहणादिव्यबहारनिवहनिर्वहणं, एवमिह गकारादिवर्णव्यक्तिभेदेऽपि सामान्यनिबन्धनस्तन्निर्वाहः करिष्यत इति—
मैवं तत्र हि धूमत्वसामान्यं विद्यते ध्रुवम् ।
शब्दत्वं व्यभिचार्यत्र गोशब्दत्वं तु दुर्घटम् ॥ १९२ ॥
भिन्नैरयुगपत्कालैरसंसृष्टैर्विनश्वरैः ।
वर्णैर्घटयितुं शक्यो गोशब्दावयवी कथम् ? ॥ १९३ ॥
अनारब्धे च गोशब्दे गोशब्दत्वं क्व वर्तताम् ?
पटत्वं नाम सामान्यं न हि तन्तुषु वर्तते ॥ १९४ ॥
गत्वादिजातिनिरासः
ननु ! मा भूत् गोशब्दत्वं सामान्यं, भिन्नाकारगकारादिव्यक्तिवृत्तिभिरेव वा गत्वादिजातिभिः कार्यं पूर्वोक्तमुपपद्यते—एतदपि नास्ति—गत्वादिजातीनामनुपपत्तेः । भेदाभेदप्रत्ययप्रतिष्ठो हि व्यक्तिजातिप्रविभागव्यवहारः । इह चायमभेदप्रत्ययो वर्णैक्य-
दुर्घटं—तदा हि नीलधूमत्वमपि जातिः स्यात् । गोत्वं तु वस्तुगतं, न शब्दगतम् । ननु गोशब्दत्वं नाम नाखण्डः धर्मः, किन्तु गकाराद्यवयवसमुदायरूपं तदित्यत्राह—भिन्नैरित्यादि । गोशब्दावयवी—गोशब्दरूपावयवी । अनारब्धे—निरवयवे ॥
भेदाभेदेति । भेदप्रत्ययप्रतिष्ठो व्यक्तिव्यवहारः, अभेदप्रत्ययप्रतिष्ठो जातिव्यवहारः । अभेदप्रत्यश्च यदा अन्यथासिद्धः, तदा न जातेः सिद्धिः ॥
निबन्धन एव, न जातिकृतः । भेदप्रतिभासस्तु व्यञ्जकभेदाधीन इति कुतो जातिव्यक्तिव्यवहारः ?
गोत्वजातेः गत्वादेश्च वैलक्षण्यम्
गोत्वादिजातिनिराकरणेऽप्येष प्रकारः समान इति चेत्—न— व्यक्तिभेदस्य सुस्पष्टसिद्धत्वेन व्यञ्जकाद्युपाधिनिबन्धनत्वानुपपत्तेः । परस्परविभक्तस्वरूपतया हि शाबलेयबाहुलेयपिण्डाः प्रत्यक्षमुपलभ्यन्ते । स्थिते च व्यक्तिभेदे सर्वत्र गौरिति तदभेदप्रत्ययस्यानन्यविषयत्वादिष्यत एव गोत्वजातिः । इह पुनः—
गकारव्यक्तयो भिन्नाः शाबलेयादिपिण्डवत् ।
क्व नाम भवता दृष्टाः येनासां जातिमिच्छसि ? ॥ १९५ ॥
शिशौ पठति वृद्धे वा स्त्रीजने वा शुकेऽपि वा ।
वक्तृभेदं प्रपद्यन्ते न वर्णव्यक्तिभिन्नताम् ॥ १९६ ॥
तथा च गर्गः पठति, माठरः पठतीत्युच्चारयितृभेद एव प्रतीयते, अमुं गविशेषमेष पठतीति नोच्चार्यमाणभेदः ॥
एकवक्तृप्रयोगेऽपि तस्यैवोच्चारणं पुनः ।
गङ्गागगनगर्गादौ न रूपान्तरदर्शनम् ॥ १९७ ॥
द्रुतादिभेदबोधोऽपि नादभेदनिबन्धनः ।
न व्यक्तिभेदजनितः शाबलेयादिबोधवत् ॥ १९८ ॥
गत्वजात्यङ्गीकर्तृभिरपि द्गुतादिभेदात् न गादिभेदः वक्तुं शक्यः
अभ्युपगतेऽपि गत्वसामान्ये तस्य द्रुतादिभेदप्रतिभासे सत्यपि न भिन्नत्वमेषितव्यम् । औपाधिक एव तस्मिन् भेदप्रतिभासो
शाबलेयबाहुलेयशब्दौ कर्बुरनीलरूपवद्वाचकौ व्यक्तिभेदपरिचायकौ ॥
ननु उच्चारयितृभेदात् गादिभेदे, एकोच्चरितेषु गकारेषु भेदप्रतीतिः कथमित्याशङ्कां, उच्चारणभेदबोधनायैव उच्चारयितृभेद उक्त इति समाधत्ते— एकेत्यादि ॥
वर्णनीयः । सोऽयं गकारव्यक्तावेव कथं न वर्ण्यते—तस्या एवै- कत्वादेकप्रत्ययः, भेदभ्रमस्तु व्यञ्जकाधीन इति । एवं हि कल्पना लघीयसी भवति । तस्मान्न नानागकारवृत्तिगत्वसामान्यं नाम किञ्चिदस्ति ॥
व्यञ्जनानां ह्रस्वदीर्घरूपाणां स्वरोपाधिकभेदवत् स्वरभेदोऽप्यौपाधिक एव
अपि च गोगुरुगेहादौ भिन्नाजुपश्लेषकारित एव व्यञ्जनेषु बुद्धिभेदः परोपाधिरवधार्यते । सोऽयमक्ष्वपि परोपाधिरेव भवितुमर्हति, वर्णाश्रितत्वात्, व्यञ्जकभेदप्रत्ययवदिति । तस्मात् गत्ववत् अत्वसामान्यमपि नास्ति ॥
अष्टादशविधस्वरभेदा औपाधिका एव
यत्पुनः अष्टादशभेदं अवर्णकुलमुच्यते—तदौपाधिकमेव; ह्रस्वदीर्घप्लुतसंवृतविवृतादिबुद्धीनां ध्वनिभेदानुविधायित्वात् ॥
विवृतः संवृतादन्यो न गकाराद्वकारवत् ।
अपि त्वकार एवासौ प्रतिभाति यथा तथा ॥ १९९ ॥
तस्याः—गकारव्यक्तेः । तथा च जगत्येक एव गकारादिः, भेदस्त्वौपाधिक एव ॥
गोगुरुगोहादाविति । ग-गा-गि-गी-इत्यादिष्वित्यर्थः । भिन्नाजुपश्लेषः—अ-आ-इ-ई इत्यादिसम्बन्धः । अक्षु—अकोरादिस्वरेषु । अच्शब्दस्य सुपि रूपम् । परोपाधिः—उच्चारणभेदाधीनः । सः—बुद्धिभेदः ॥
अष्टादशभेदमिति । एकैकोऽपि ह्रस्वदीर्घप्लुतभेदेन त्रिविधः । सोऽपि ह्रस्वादिः प्रत्येकं उदात्तानुदात्तस्वरितस्वरभेदेन भिन्नः । सोऽपि पुनः अनुनासिकाननुनासिकभेदेन भिन्नः । एवञ्च एक एव अकारः अनुनासिकोदात्तह्रस्वरूपः, अननुनासिकोदात्तह्रस्वरूपः—इत्येवङ्क्रमेण अष्टादशविधः । संवृतविवृतेति । एक एव ह्रस्वः अकारः प्रयोगकाले संवृत इति, प्रक्रियायां विवृत इति च सञ्ज्ञाभेदं प्रतिपद्यत इति सम्प्रतिपन्नत्वात् दृष्टान्तत्वेनोपन्यासः । इदमेव स्पष्टीकरोति—विवृत इत्यादि ॥
अकारयोः ध्वनिभेदादेवार्थभेदः
कथं तर्हि शब्दभेदाभावे भिन्ने अर्थप्रतिपत्ती—अरण्यं आरण्यमिति; ध्वनिकृते एव ते भविष्यतः । अशब्दधर्मस्य दीर्घत्वादे कथमर्थप्रतीत्यङ्गत्वमिति चेत्; तुरगवेगवद्भविष्यति ॥
यथा तुरगदेहस्थो वेगः पुंसोऽर्थसिद्धये ।
परधर्मोऽपि दीर्घादिरेवं तस्योपकारकः ॥ २०० ॥
अत्वादिजातिनिरासः
इतश्चैतदकारसामान्यमनुपपन्नम् । अत्वं हि न दीर्घप्लुतयोरनुगतं भवति, आत्वं न ह्रस्वप्लुतयोः, आत्वं न ह्रस्वदीर्घयोरिति । तस्मादेकत्वाद्वर्णानां नावान्तरजातयः सम्भवन्ति । शब्दत्वं तु नियतार्थप्रतिपत्तौ व्यभिचारीत्यतो नात्र धूमादिन्यायः ॥
शब्दादर्थबोधान्यथाऽनुपपत्त्या शब्दनित्यत्वसाधनम्
तेनार्थप्रत्ययः शब्दादन्यथा नोपपद्यते ।
न चेन्नित्यत्वमित्यस्मिन् अर्थापत्तेः प्रमाणता ॥ २०१ ॥
अर्थापत्तेरनुमानरूपत्वे, अनुमानेन शब्दनित्यत्वसिद्धिः
अनुमानादन्यथात्घमर्थापत्तेर्न दृश्यते ।
तेनानुमानमप्येतत्प्रयोक्तुं न न शक्यते ॥ २०२ ॥
ननु यदि ह्रस्वदीर्घादिभेदः अकारे नास्ति, तर्हि अरण्य-आरण्यशब्दयोः कथं वाच्यभेदः ? ताभ्यां बोधभेदो वा इति शङ्कते—कथमिति । परधर्मः— ध्वनिधर्मः ॥
अत्वं—ह्रस्वगतम् । आत्वं—दीर्घगतम् । आत्वं—प्लुतगतम् । नात्र जातिभेदः, एकस्यैव अकारस्य अष्टादशभेदवर्णनात् । तस्मात्— ह्रस्वदीर्घादिभेदः ध्वनिकृत एव, न जातिभेदकृत इति सिद्धिः । शब्दत्वमिति । यद्यपि शब्दत्वं जातिः, परन्तु तत् सर्वसाधारणं इति न विलक्षणबोधोपयोगि ॥
तेनेति । शब्दस्य नित्यत्वं न चेत्, अन्यथा—प्रकारान्तरेण, गत्वादिसामान्यद्वारेण शब्दादर्थप्रत्ययः नोपपद्यते इत्यन्वयः ॥
तदिदमुच्यते—शब्दो धर्मी, नित्य इति साध्यो धर्मः, सम्बन्धग्रहणसापेक्षार्थप्रतिपादकत्वात्, धूमादिजातिवत् । तदिदमुक्तं “नित्यत्वं तु स्याद्दर्शनस्य परार्थत्वात्” [जै। सू। १-१-१८] इति । एवं सम्बन्धग्रहणात्प्रभृति आर्थप्रतिपत्तेरवस्थितस्य विनाशहेत्वभावादात्मादिवन्नित्यत्वम् ॥
निरवयवत्वात् शब्दः न नश्यति
न ह्ययमवयवविनाशान्नश्यति शब्दः, निरवयवत्वात् । तदेव कथमिति चेत्—उच्यते—
स्वल्पेनापि प्रयत्नेन यदि वर्णः प्रयुज्यते ।
यदि वा नानुभूयेत, शकलो नानुभूयते ॥ २०३ ॥
सावयवे हि वस्तुनि द्विधा अवयवा दृश्यन्ते, आरब्धकार्याश्चानारब्धकार्याश्चेति । इह पुनरारब्धकार्या अनारब्धकार्या वा
नित्यत्वमिति । शब्दस्येति शेषः । “दर्शनं—उच्चारणं; तत् परार्थं—परं अर्थं प्रत्याययितुम् । उच्चरितमात्रे हि विनष्टे शब्दे न चान्योऽन्यान् अर्थं प्रत्याययितुं शक्नुयात्” इति शाबरं भाष्यम् । अत्र “नित्यस्तु” इति भाष्यादिपाठः । ननु तर्हि शब्दस्यार्थबोधनपर्यन्तमवस्थानेनाप्यलं, कुतो नित्यत्वम् ? इत्यत्राह—एवमिति । सम्बन्धग्रहणात् प्रभृतीति । अयमाशयः— शक्तिग्रहणकाले यः गवादिशब्दः श्रुतः स एव कालान्तरे गवादिबोधं जनयितुं शक्तः, न त्वन्यः, अगृहीतशक्तिकत्वात् । गत्वादिजातीनां च निरासात् न जातिद्वारा सर्वेषु गवादिशब्देषु पूर्वमेव शक्तिग्रहसम्भवः । अतश्च बोधपर्यन्तमपि स एव शब्दो वर्तत इत्यङ्गीकार्यम् । शक्तिग्रहणकाले श्रुतस्य, मध्यकाले अश्रूयमाणस्यापि गवादिशब्दस्य बोधकाले पुनः श्रवणपर्यन्तं अवस्थानं सिद्धमेव । तेन च अश्रूयमाणा अपि शब्दाः सदा वर्तन्त एव, तदा तदा तूच्चारणादभिव्यक्तिरेवेत्यवशादङ्गीकर्तव्यमिति शब्दनित्यत्वसिद्धिः ॥
नानुभूयेत । यावता हि प्रयत्नेन एको घटो निष्पाद्यः, तावति प्रयत्ने अकृते न हि घटनिष्पत्तिः, दर्शनं वा उपलभ्यते । ननु सर्वथाऽनुपलब्धिः नापादयितुं शक्या, स्वल्पस्य प्रयत्नस्य कृतत्वादित्यत्राह—शकल इति । अक्षरैकदेशः इत्यर्थः ।
पटे तन्त्वादय इव वर्णे न क्वचिदवयवा उपलभ्यन्ते । न चानुमीयन्ते, लिङ्गाभावात् ॥
अश्रयविनाशात् शब्दविनाशासम्भवः
नाप्यश्रयविनाशाद्विनाशः, शब्दस्य आत्मादिवदनाश्रितत्वात् । आकाशाश्रितपक्षे वा तन्नित्यत्वात् । न चान्यः कश्चन शब्दनाशस्य हेतुरस्ति ॥
क्षयो यथोपभोगेन शस्त्रादिच्छेदनेन वा ।
सम्भाव्यते पटादीनां नैवं शब्दस्य कर्हि चित् ॥ २०४ ॥
तस्मात्तिरोहितोऽप्यास्ते, यदि शब्दः क्षणान्तरम् ।
मृत्योर्मुखादपक्रान्तः पुनः केनैष हन्यते ? ॥ २०५ ॥
सङ्ख्याभावाच्च शब्दः नित्यः
इतश्च नित्यः शब्दः—“सङ्ख्याभावात्” [जै। सू। १-१-२०] । अष्टकृत्वो गोशब्द उच्चारित इति वदन्ति, न त्वष्टौ गोशब्दा इति [शा। भा। १-१-२०] । तेनैकत्वमवगम्यते । योऽयं क्रियाभ्यावृत्तिगणने विहितः कृत्वसुच्प्रत्ययः, स क्रियावतामभेदे भवति । तेनोच्चारणावृत्तिमात्रम् । तदुक्तम् [श्लो। वा। १-१-६-३६७] —
“
क्रियावतामभेदे हि क्रियाऽऽवृत्तिषु कृत्वसुच् ।
तत्प्रयोगात् ध्रुवं तस्य शब्दस्यावर्तते क्रिया इति ॥
”
क्रियाभ्यावृत्तिसत्तायामभेदे च क्रियावताम्
सङ्ख्याभिधाचिनः शब्दात् कृत्वसुच्प्रत्ययं विदुः ॥ २०६ ॥
पटे तन्त्वादय इवेति । पार्थिवशरीरे जलादिरिवेति अनारम्भकावयवदृष्टान्तोऽप्यूह्यः । अयमंशः ८ आह्निके स्पष्टीभविष्यति ॥
मीमांसकमते शब्दस्य निरवयवद्रव्यत्वात्—आत्मादिवदित्युक्तम् ॥
तस्मात्—उक्तहेतोः । अयमाशय इत्यादिना टीकायामनुपदमिद विवृतम् ॥
क्रियावतामिति । “दशकृत्वः देवदत्त आगतः” इत्यादाविदं दृष्टम् । “सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्” [पा। सू। ५-४-१७] ॥
प्रत्यभिज्ञाबलादपि शब्दनित्यत्वसिद्धिः
तदनेन प्रकारेण प्रत्यभिज्ञानमुच्यते ।
प्रमाणं शब्दनित्यत्वे सकलश्रोतृसाक्षिकम् ॥ २०७ ॥
तथा ह्यस्ति स एवायं गोशब्द इति वेदनम् ।
श्रौत्रं करणकालुष्यबाधसन्देहवर्जितम् ॥ २०८ ॥
सोऽयं गकारः इत्यादिप्रत्यभिज्ञाया अनन्यथासिद्धत्वम्
श्रोत्रेन्द्रियव्यापारान्वयव्यतिरेकानुविधानात् श्रौत्रमिदं विज्ञानम् । न चैतज्जनकस्य करणस्य किमपि दौर्बल्यमुपलभ्यते । न च किंस्विदिति कोटिद्वयसंस्पर्शितया इदं विज्ञानमुपजायते । न च नैतदेवमिति प्रत्ययान्तरमस्मिन् बाधकमुत्पश्यामः । इदानीन्तनास्तित्वप्रमेयाधिक्यग्रहणाच्चेदमनधिगतार्थग्राह्यपि भवितुमर्हति । भवन्मते च गृहीतग्राहित्वेऽपि प्रत्यभिज्ञायाः प्रामाण्यमिष्यते । न हि तदप्रामाण्यं वक्तुं शक्यते; शाक्यैरिव भवद्भिः क्षणिकपदार्थानभ्युपगमात् ॥
सोऽयं गकारः इति प्रत्यभिज्ञा न साजात्यमूला
न सादृश्यनिमित्तत्वं वक्तुं तस्याश्च युज्यते ।
सामान्यविषयत्वं वा द्वयस्यापि निषेधनात् ॥ २०९ ॥
कैश्चित्तिरोहिते भावादित्यप्रामाण्यमुच्यते ।
तदसत्तत्प्रतीत्यैव तिरोधाननिषेधनात् ॥ २१० ॥
ननु अनधिगतार्थगन्तृत्वरूपप्रामाण्यवादिनस्तव कथं प्रत्यभिज्ञाप्रामाण्यमित्यत्राह—इदानीन्तनेति । वर्तमानकालसम्बन्ध इति यावत् । तदुक्तम् “कालश्चैकोविभुर्नित्यः प्रविभक्तोऽपि गम्यते । वर्णवत्, सर्वभावेषु व्यज्यते केन चित्क्वचित्” [श्लो। वा। १-१-६-३०३] इति ॥
द्वयस्य—सादृश्यस्य, जातेश्च । निषेधनात्, अनुपदमेवेति शेषः । तिरोहिते—विनष्ट इति भावः । ज्ञानकर्मणोः द्वित्रक्षणावस्थानेऽपि ज्ञानक्रियान्तरोत्पत्तावपि प्रत्यभिज्ञा दृश्यत इत्यर्थः । “बुद्धिकर्मणी अपि प्रत्यभिज्ञायेते” [शा। भा। १-१-६] इत्याद्यत्रानुसन्धेयम् । तत्प्रतीत्यैव—तादृशप्रत्यभिज्ञयैव । अयं भावः—प्रत्यभिज्ञा हि वस्त्वैक्यविषयिणी जात्यैक्यविषयिणी वा दृश्यत एव । सोऽयं गकारः इत्यादौ जात्याद्यनालम्बनतायाः उक्तत्वात्,
जीवति त्वन्मतेऽप्येष शब्दस्त्रिचतुरान् क्षणान् ।
प्रत्यभिज्ञा च कालेन तावता न न सिद्ध्यति ॥ २११ ॥
एकक्षणायुषि त्वस्मिन् प्रतीतिरतिदुर्लभा ।
न खल्वजनकं किञ्चित् वस्तु ज्ञानेन गृह्यते ॥ २१२ ॥
इति क्षणभङ्गभङ्गे [९ आह्निके] वक्ष्यते ॥ ग्रहणात्पूर्वमपि शब्दा वर्तन्त एव अपि च—
यथा निशीथे रोलम्बश्यामलाम्बुदडम्बरे ।
प्रत्यभिज्ञायते किञ्चित् अचिरद्युतिधामभिः ॥ २१३ ॥
तथाऽविरतसंयोगविभागक्रमजन्मभिः ।
प्रत्यभिज्ञायते शब्दः क्षणिकैरपि मारुतैः ॥ २१४ ॥
शब्दनित्यत्वे तस्य ग्रहणनियमासम्भवाक्षेपः अत्राह [श्लो-वा-१-१-६-५१] —मारुतैरित्युपोद्धातेन साधु स्मृतम् । तिष्ठतु तावत्प्रत्यभिज्ञानम् ! प्रथममेव शब्दस्य यन्नियतग्रहणं, तदभिव्यक्तिपक्षे दुर्घटम् ॥
नित्यत्वात् व्यापकत्वाच्च सर्वे सवत्र सर्वदा ।
शब्दाः सन्तीति भेदेन ग्रहणे किं नियामकम् ? ॥ २१५ ॥
ध्वनयो हि नाम संयोगविभागविशेषिता वायवः, बाधकाभावाच्च वस्त्वैक्यमेव विषयः । उक्तप्रत्यभिज्ञायाः क्वचित् त्वयाऽपि वस्त्वैक्यालम्बनत्वमङ्गीकार्यमित्याह—जीवतीति । त्रिचतुरानिति । अयं विषयः अग्रे सिद्धान्ते स्पष्टीभविष्यति । ननु क्षणिकवादे साजात्यालम्बनत्वमेव वक्तमित्यत्राह—एकक्षणेति । ज्ञानक्षणे विषयस्यैवाभावादिति हेतुः ॥
शब्दस्य ग्रहणप्रकारं विचारयिषुः, तदुपक्षेपार्थं कादाचित्केनापि व्यञ्जकेन पूर्वतनस्यैव व्यञ्जनं “मेघान्धकारशर्वर्यां विद्युज्जनितदृष्टिवत्” [श्लो। वा। १-१-६-४१] इत्युक्तमुपपादयति—अपि चेत्यादिना । प्रत्यभिज्ञायते— विद्यमान एव ज्ञायते—अभिव्यज्यत इति यावत् ॥
भेदेन—कालदेशपुरुषभेदेन भिन्नतया । ध्वनयः—नादाः । “संयोग
वायुवृत्तयो वा संयोगविभागाः । ते हि शब्दस्य व्यञ्जका इष्यन्ते । तैश्च करणं वा संस्क्रियते ? कर्म वा ? द्वयं वा ? सर्वथा च प्रमादः ॥
अभिव्यञ्जकसामग्र्या श्रोत्रसंस्कारासम्भवः
करणे संस्कृते तावत् सर्वशब्दश्रुतिर्भवेत् ।
गकारायैव संस्कार इत्येष नियमः कुतः ? ॥ २१६ ॥
अपिच—स्तिमितसमीरणापसरणमेव करणस्य संस्कारः । स चायं तद्देशव्यवस्थितसकलतद्विषयसाधारण एव ॥
यथा जवनिकाप्रायप्राप्तप्रसरमीक्षणम् ।
रङ्गभूमिषु तद्देशमशेषं वस्तु पश्यति ॥ २१७ ॥
तथा प्रसरसंरोधिसमीरोत्सारणे सति ।
श्रोत्रं तद्देशनिःशेषशब्दग्राहि भविष्यति ॥ २१८ ॥
श्रोत्रसंस्कारपक्षे श्रोत्रनियमश्च दुर्वचः आकाशं च श्रोत्रमाचक्षते भवन्तः । तच्च विभु निरवयवं चेति क्वचिदेव तस्मिन् संस्कृते सति सर्वे च तदैव संस्कृतकरणाः सम्पन्ना इति सर्व एव शृणुयुः इति बधिरेतरव्यवस्था दुस्थिता ॥ विभागाः नैरन्तर्येण क्रियमाणाः शब्दमभिव्यञ्जयन्तः नादशब्दवाच्याः” [शा-भा१-१-१७] , “वायवीया हि ध्वनयः अभिव्यञ्जकाः” [न्या-रा-१-१-६-४१] । साधारणवायोः ध्वनिरूपत्वासम्भवात् वायुवृत्तयो वेति । करणं वेत्यादि । विद्यमान एव शब्दः, एतावताऽगृह्यमाणोऽपि इदनीमेव गृह्यत इत्यनुभवसिद्धम् । तत्र एतावता कालेन तादृशशब्दग्रहणाशक्तं श्रोत्रं, इदानीमेव व्यञ्जकसामग्रीप्रभावात् संस्कृतं सत् इदानीं शब्दं ग्रहीतुं समर्थमभूदित्युच्यते ? उत इन्द्रियं तथैवावतिष्ठते, किन्तु शब्द एव आरोपितातिशयः इदानीं गृह्यते ? उत श्रोत्रे, शब्दे च अतिशयः प्रापय्यते ?
सर्वशब्देति । यदा च श्रोत्रं संस्कृतं, तदा तेन गकार एव गृह्येत, न तु चकार इति कथं नियमः ? न हि घटग्रहणायोन्मीलितं चक्षुः पटं न गृह्णीयात् ! ननु संस्कार एव प्रत्यक्षरं भिन्नः स्यादित्यत्र, तथा न वक्तुं शक्यमित्याह— अपि चेति । स्तिमितः—निश्चलः—प्रतिबन्धकीभूत इति यावत् [न्या-र१-१-६-१२३] । इदमेवोपपादयति—यथेति ॥
शब्दसंस्कारपक्षस्याप्ययुक्तता
विषये तु संस्क्रियमाणे तस्यानवयवस्य व्यापिनश्च संस्कृतत्वात् सर्वत्र श्रवणमिति मद्रेष्वभिव्यक्तो गोशब्दः कश्मीरेष्वपि श्रूयेत । न हि तस्याधारद्वारकः संस्कारः, आकाशवदनाश्रितत्वात् । आकाशाश्रितत्वपक्षेऽपि तदेकत्वात् । नापि भागशः संस्क्रियते गोशब्दः, तस्य निरवयत्वात् । उक्तं हि [श्लो-वा-१-१-५-स्फोट-१०] —
“
अल्पीयसा प्रयत्नेन शब्देमुच्चरितं मतिः ।
यदि वा नैव गृह्णाति वर्णं वा सकलं स्फुटम् इति ॥
” श्रोत्र-शब्दसंस्कारपक्षस्याप्यसम्भवः
उभयसंस्कारपक्षे तु दोषद्वयस्याप्यनतिवृत्तिः—सर्वेषां ग्रहणं, सर्वत्र श्रवणमिति । न च समानदेशानां समानेन्द्रियग्राह्याणां च भावानां प्रतिनियतव्यञ्जकव्यङ्ग्यत्वमुपलब्धम् ॥
गृहे दधिघटीं द्रष्टुं आनीतो गृहमेधिना ।
अपूपानपि तद्देशान् प्रकाशयति दीपकः ॥ २१९ ॥
तस्मात् कृतकपक्ष एव नियतदेशं शब्दस्य ग्रहणं परिकल्पते, नाभिव्यक्तिपक्ष इति ॥
शब्दनित्यत्वपक्षे तीव्रमन्दविभागाद्यसम्भवश्च
अपि च—अभिव्यक्तिपक्षे तीव्रमन्दविभागः, अभिभवश्च शब्दस्य शब्दान्तरेण न प्राप्नोति । न हि शब्दस्तीव्रो मन्दो वा कश्चित्, स्वतस्तस्य भेदाभावात् । संस्कारस्य च तदभिव्यक्तिहेतोः न काचन तीव्रता, मन्दता वा; यदनुसारेण विषये तथा बुद्धिः स्यात् ॥
सर्वत्रेति । वार्तिकन्यायरत्नाकरयोः [१-१-६-५१-६४] शब्दसंस्कारपक्षेऽपि सर्वैः ग्रहणमप्युक्तम् ॥
स्वत इति । शब्दो हि नित्यः, एकः, विभुश्चेति तन्मतम् ॥
तीव्रत्वमन्दत्वादेः वायुधर्मत्वासम्भवः
पवनधर्मो वा तीव्रादिर्भवन् कथं श्रोत्रेण गृह्येत ? सावयवे हि वस्तुनि सकलविशेषग्रहणाग्रहणसम्भवात् तदपेक्षया प्रतीतिभेदो भवेत् । इह तु निरवयवे शब्दे न तथोपपद्यते इति । तस्मात् कृतकपक्ष एव श्रेयामिति ॥
शब्दनित्यत्वेऽपि श्रोत्रसंस्कारपक्षः युक्त एव
अत्रोच्यते—करणसंस्कारपक्ष एव तावदस्तु । तच्च करणं किञ्चिदेव मरुद्भिरुपाहितसंस्कारं कञ्चिदेव शब्दं गृह्णाति ॥
यथा ताल्वादिसंयोगविभागा भवतां मते ।
उत्पादकतयेष्यन्ते केचिद्वर्णस्य कस्यचित् ॥ २२० ॥
तथा तद्वायुसंयोगविभागाः केचिदेव नः ।
कस्यचिद्ग्रहणे शक्ताः श्रोत्रं कुर्वन्ति संस्कृतम् ॥ २२१ ॥
यथा च तेषामुत्पत्तौ सामर्थ्यनियमस्तव ।
तथैवैषामभिव्यक्तौ सामर्थ्यनियमो मम ॥ २२२ ॥
व्यञ्जकानां नियमो न दृष्ट इति चेत्—क एवमाह सहस्राक्षः ? तथा हि—पृथिव्यामेव वर्तमानो गन्धः समानदेशो भवति, समानेन्द्रियग्राह्यश्च; घ्राणैकविषयत्वात् । तस्य च नियतव्यञ्जकव्यङ्ग्यता दृश्यत एव ॥
कथमिति । पवनधर्मा हि त्वचा गृह्येरन्, न श्रोत्रेण । प्रतीतिभेदः— कतिपय-यावदवयग्रहणानुरोधेन तीव्रमन्दत्वादिभेदप्रत्ययः ॥
ताल्वादीति । इचुयशानां तालव्यत्वेऽपि इकारोच्चारणाय प्रवृत्तः न हि चकारमुच्चारयति । अतः स्थानसाम्यं स्थूलदृष्ट्या, भेदस्त्वस्त्त्येव सूक्ष्मः । तथा प्रकृतेऽपि ॥
“गृहे दधिघटीं द्रष्टुं” इत्यादि समाधत्ते—व्यञ्जकानामित्यादि । समानेन्द्रियेति । सर्वेषामपि हि घ्राणेन्द्रयं पार्थिवमेव, गन्धश्च पृथिवीनिष्ठः । अथापि ग्रहणनियमोऽस्त्येव ॥
क्वचित्पावकसम्पर्कादर्कांशुस्पर्शतः क्वचित् ।
क्वचित्सलिलसंसेकात् गन्धोऽभिव्यज्यते भुवः ॥ २२३ ॥
न च स्तिमितपवनापनोदनमात्रं करणस्य संस्कार इष्यते, यः सर्वसाधारणः स्यात्; किन्तु अन्य एव नियतः प्रतिविषयं योग्यतालक्षणः ॥
श्रोत्रस्याकाशरूपत्वेऽपि ग्रहणनियमः
यत्पुनरभ्यधायि—नभसि श्रोत्रेऽभ्युपगम्यमाने सर्वप्राणिनामेकमेव श्रोत्रं भवेदिति—तदप्यसाधु—धर्माधर्मयोर्नियामकत्वात् । आकाशस्यापि घटाकाशवदन्यावच्छेदोपपत्तेः धर्माधर्मनिबन्धन एव बधिरेतरविभागः ॥
मीमांसकानां आकाश एव न श्रोत्रम्
अपि च भवतामेवैष दोषः, येषामाकाशमेव श्रोत्रमित्यभ्युपगमनियमः । मीमांसकानां तु नावश्यमाकाशमेव श्रोत्रम्, कार्यार्थापत्तिकल्पितं तु किमपि करणमात्रं प्रतिपुरुषनियतं श्रोत्रमिति नातिप्रसङ्गः । तथा च भर्तृमित्रः पवनजनितसंस्कारमेव श्रोत्रं मन्यते ॥
क्वचिदिति । सर्जरसादौ पावकसंयोगात्, मरीच्यादौ सूर्यमरीचिसम्बन्धात्, उशीरादौ सलिलसंसेकाच्च गन्धाभिव्यक्तिः दृश्यते । अन्यः— कार्यैकोन्नेयः ॥
धर्माधर्मौ किं कुरुतः ? इत्यत्र, तत्तत्पुरुषप्रतिनियतं कर्णशष्कुल्याद्युपाधिमुत्पाद्य विषयव्यवस्थां कुरुत इत्याह—आकाशेति ॥
नावश्यमिति । “नावश्यं श्रोत्रमाकाश्वस्त्वन्तरं अमस्मामिश्चाभ्युपेयते” [१-१६-६६] तेनाकाशैकदेशो वा यद्वा भवेत् । कार्यार्थापत्तिगम्यं नः श्रोत्रं प्रतिनरं स्थितम्ऽ [६८] इति वार्तिकम् । किमपीति । चक्षुरादिवदतिरिक्तमेवेत्यर्थः । भर्तृमित्र इति । “केचित्तु पण्डितम्मन्याः” [श्लो। वा। १-१-६-१३१] इति वार्तिकव्याख्याने न्यायरत्नाकरे “अत्र भर्तृमित्रो वदति, ध्वनिजन्यः संस्कारः श्रोत्रमिति” इत्युक्तम् ॥
शब्दसंस्कारपक्षोऽपि साधीयान्
अथ वा विषयसंस्कारपक्षो भवतु, तथाऽपि नातिप्रसङ्गः; नियतदेशस्यैव तत्र संस्कारात् । न चास्य भागशः संस्कारः निरवयवत्वात् । तथाऽपि जातिवदस्य ग्रहणनियमो भविष्यति । तथाच भवतामेव पक्षे—
यथा सर्वगता जातिः पिण्डदेशैव गृह्यते ।
न च कार्त्स्न्यगृहीताऽपि पिण्डेऽन्यत्र न दृश्यते ॥ २२४ ॥
तथा सर्वगतः शब्दः नाददेशेषु गृह्यते ।
कार्त्स्न्येन च गृहीतोऽपि पुनरन्यत्र गृह्यते ॥ २२५ ॥
पिण्डोऽभिव्यञ्जको जातेः शब्दस्य व्यञ्जको ध्वनिः ।
आश्रितानाश्रितत्वादि विशेषः क्वोपयुज्यते ॥ २२६ ॥
तीव्रत्वमन्दत्वादयः ध्वनिधर्माः, न शब्दधर्माः
सर्वगतत्वनिरवयत्वाविशेषात् तीव्रमन्दत्वादयश्च ध्वनिधर्मा अपि भवन्तः शब्दवृत्तितयाऽवभान्ति । यथा स्थूलत्वकृशत्वादय; पिण्डधर्मा अपि जातिवृत्तित्वेन क्वचित् गृह्यन्तो दृश्यन्ते, अगृहीतशाबलेयादिविशेषस्य “कृशा गावः” इत्यादिप्रतिभासदर्शनात् ॥
पिण्डदेशः—बहुब्रीहिसमासः । एकस्मिन् घटे कार्त्स्न्येन गृहीतमपि घटत्वं घटान्तरेऽप्युपलभ्यत एव । पटादौ तु न गृह्यत एव । एवमनुभवानुरोधेन प्रकृतेऽपि ग्रहणनियमादिः । नाददेशेष्विति । “तथैव यत्समीपस्थैः नादैः स्याद्यस्य संस्कृतिः । तैरेव श्रूयते शब्दः” “नादा हि प्रादेशिकाः स्वदेशावच्छिन्नमेव तस्य विभोरपि संस्कारं कुर्वन्ति” इति वार्तिकं [१-१६-८५] व्याख्या च । आश्रितेत्यादि । जातिः किञ्चिदाश्रिता, शब्दस्तु स्वतन्त्रः इति वैलक्षण्यं ग्रहणविषये न किञ्चित्करम् ॥
सर्वगतत्वादिकं शब्द इव ध्वनावप्यङ्गीक्रियते । एवमौपाधिकग्रहणे दृष्टान्तमाह—यथेति । गोत्वपुरस्कारेण व्यवहारोपपादनाय—अगृहीतेत्यादि ॥
तीव्रत्वमन्दत्वादयः बुद्धिकल्पिता एव वा
यद्वा न तीव्रमन्दादेः वर्णधर्मतया ग्रहः ।
बुद्धिरेव तथोदेति व्यञ्जकानुविधायिनी ॥ २२७ ॥
तावन्त एव ते वर्णाः प्रचयापचयस्पृशः ।
एवं चाभिभवोऽप्येषां स्वतो नास्ति परस्परम् ॥ २२८ ॥
मरुद्भिरभिभूयन्ते मारुता इव दुर्बलाः ।
तेजोभिरिव दीप्तांशोः दिवा दीपप्रभादयः ॥ २२९ ॥
श्रोत्र-शब्दसंस्कारपक्षोऽप्यदुष्टः
द्वयसंस्कारपक्षोऽप्येवं समाहितो भवति, उभयेषामपि दोषाणामुत्सारणात् । तस्मात् प्रत्यभिज्ञाप्रत्ययप्रभावसिद्धनित्यत्वस्य शब्दस्य अभिव्यक्तिरेव साधीयसी ॥
शब्दनित्यत्वानित्यत्वपक्षयोः गौरवलाघवविमर्शः
इदं चालोच्यतामार्याः ! कार्याभिव्यङ्ग्यपक्षयोः ।
शब्दस्य ग्रहणे गुर्वी लघ्वी वा कुत्र कल्पना ? ॥ २३० ॥
तथा हि भवन्तः, वैशेषिकाः, साङ्ख्याः; जैनाः, सौगताश्च कार्यशब्दवादिनः । चार्वाकास्तु वराकाः, कस्यैवंविधासु गोष्ठीषु स्मृतिपथमुपयान्ति !
“संस्कारानुकृतेः सोऽपि महत्त्वाद्यवबुध्यते” [श्लो। वा। १-१-५। स्फोट। ४०] “यो हि वैशेषिकः गकारादिषु व्यक्ति-जातिभेदमिच्छति, सोऽपि शब्देषु महत्त्वाल्पत्वयोः गुणतां नाभ्युपैति, निर्गुणत्वात् गुणानां, शब्दस्य च गुणत्वात् । अतः यथा तत्राविद्यमानमेव महत्वादिकं ध्वनिसंस्कारानुसारिण्या बुध्या गृह्यते, तथा द्रुतत्वादिकमपि” इत्यादिवार्तिकव्याख्यानयोरुक्तं स्मरन्नाह—यद्वेत्यादि ॥
वार्तिके [१-१-६-८८] प्रतिपादितं विचारमुपक्षिपति—इदमिति । पक्षद्वये प्रतिप्रादितयोः शब्दग्रहणप्रकारयोः कुत्र कल्पनालाघवगौरवे ?
नैय्यायिकवैशेषिकमतयोः शब्दग्रहणप्रकारानुवादः
तत्र भवतां, वैशेषिकाणां च शब्दस्य श्रवणे तावदेषा तुल्यैव कल्पना । संयोगाद्वा विभागाद्वा शब्द उपजायते । जातश्चासौ तिर्यगूर्ध्वमधश्च सर्वतोदिक्कानि कदम्बगोलकाकारेण सजातीयनिकटदेशानि शब्दान्तराण्यारभते, तान्यपि तथेत्येवं वीचीसन्तानवृत्त्यारम्भप्रबन्धप्राप्तोऽन्त्यः श्रोत्राकाशजन्मा शब्दः तत्समवेतस्तेनैव गृह्यते इति ॥
वीचीतरङ्गन्यायेन शब्दात् शब्दान्तरोत्पत्तिरित्यस्य निरासः
तदियं तावदतिघर्घरा कल्पना ॥
शब्दः शब्दान्तरं सूत इति तावदलौकिकम् ।
कार्यकारणभावो हि न दृष्टस्तेषु बुद्धिवत् ॥ २३१ ॥
जन्यन्तेऽनन्तरे देशे शब्दाः स्वसदृशाश्च ते ।
तिर्यगूर्ध्वमधश्चेति केयं वः श्रद्दधानता ? ॥ २३२ ॥
शब्दान्तराणि कुर्वन्तः कथं च विरमन्ति ते ?
न हि वेगक्षयस्तेषां मरुतामिव कल्प्यते ॥ २३३ ॥
कुड्यादिव्यवधाने च शब्दस्याकरणं कथम् ?
व्योम्नः सर्वगतत्वाद्धि कुड्यमध्ये व्यवस्थितिः ॥ २३४ ॥
भवतामिति । “आदिमत्त्वादैन्द्रियकत्वात्” [न्या। सू। २-२-१३] इत्यादिसूत्रभाष्यवार्तिकादिष्विदमुपपादितम् । वृत्त्यारम्भः—विस्तरारम्भः । तत्समवेतेन—श्रोत्रसमवेतेन ॥
“निरस्तश्चायं शब्दसन्तानः ज्ञानसन्ताननिराकरणन्यायेन” [न्या। र। १-१-६-९५] इत्युक्तं स्मरन्नाह—बुद्धिवदिति । मरुतामिवेति । वायोर्द्रव्यत्वेन वेगादिकमुपपद्यते, न तु गुणस्य शब्दस्य ॥
अथावरणात्मककुड्यादिद्रव्यसंयोगरहितमाकाशं शब्दजन्मनि समवायिकारणमिष्यते, तदत्र प्रमाणं विशेषे वक्तव्यम् ॥
तुल्यारम्भे च तीव्रेण मन्दस्य जननं कथम् ?
श्रूयते चान्तिकात्तीव्रः शब्दो मन्दस्तु दूरतः ॥ २३५ ॥
वीचीसन्तानतुल्यत्वमपि शब्देषु दुर्वचम् ।
मूर्तिमत्त्वक्रियायोगवेगादिरहितात्मसु ॥ २३६ ॥
शब्दो द्रव्यमेव, न गुणः
यदप्युच्यते—सजातीयजनकः शब्दः गुणत्वात्, रूपादिवदिति—तदिदमसिद्धमसिद्धेन साध्यम्, गुणत्वस्यासिद्धत्वात् ॥
न शब्दः पारतन्त्र्येण कदाचिदुपलभ्यते ।
द्रव्यस्थ इव रूपादिरतोऽस्य गुणता कुतः ? ॥ २३७ ॥
अपि च—
न शब्दान्तरारम्भकः शब्दो गुणत्वात् रूपवत् । शब्दं नारभते शब्दः शब्दत्वाच्छ्रोत्रशब्दवत् ॥
न संयोगविभागौ शब्दस्य जनकौ, संयोगविभागत्वात्, अन्यसंयोगविभागवदित्यादयः प्रतिहेतवोऽप्यत्र सुलभा इति यत्किञ्चिदेतत् ॥
विशेषे—आकाशमात्रं न कारणं, किन्तु आकाशविशेष इत्यत्र । तुल्यारम्भ इति । कारणतुल्येन हि कार्येण भाव्यम् । क्रियायोगः—क्रियावत्त्वम् ॥
पारतन्त्र्येणेति । परतन्त्रैकस्वभावत्वं गुणलक्षणम् । रूपवदिति । आरम्भवाद एव हि कारणगतरूपं कार्यगतरूपजनकम् । मीमांसकास्तु अवस्थाभेदवादिनः । “तन्तुगुणा एव हि तन्तुषु पटीभूतेषु पटगुणतां भजन्ते” [न्या-र-१-१-६-१०३] इति ह्युक्तम् । अतः रूपमपि न रूपान्तरजनकम् । तथा च दृष्टान्त एवासिद्धः । प्रत्यनुमानमप्याह—शब्दमिति । “शब्दं नारभते शब्दः शब्दत्वात् अन्त्यशब्दवत्” [१-१-६-१०५] इति वार्तिकसदृशं वाक्यमिदम् । अन्यसंयोगविभागवत्—तन्त्वादिसंयोगविभागवत् ॥
साङ्ख्योक्तशब्दग्रहणप्रकारदूषणम्
कापिलास्तु ब्रुवते—श्रोत्रवृत्तिः शब्ददेशं गच्छति, सा शब्देन विक्रियत इति—तत्र श्रोत्रस्य व्यामिश्रत्वान्निकटदेशेनैव शब्देन तद्वृत्तिर्विक्रियते, न दूरदेशेनेत्यत्र को नियमः ? नियमाभावाच्च कान्यकुब्जप्रयुक्तो गोशब्दः गौरमूलकेऽपि श्रूयेत । अमूर्ता च श्रोत्रवृत्तिः प्रसरन्ती न मूर्तैः कुड्यादिभिरभिहन्तुं शक्यत इति व्यवहितस्यापि शब्दस्य श्रवणं स्यात् ॥
वायौ शब्दानुकूले च न तस्य श्रवणं भवेत् ।
गच्छन्त्याः प्रतिकूलो हि श्रोत्रवृत्तेः स मारुतः ॥ २३८ ॥
दूरेऽपि अनुवातं शब्दस्य श्रवणं यद्दृष्टं, प्रतिवातं च निकटेऽपि यदश्रवणं, तदस्मिन् पक्षे विपरीतं स्यात् ॥
वृत्तिवृत्तिमतोर्भेदो नास्तीतीन्द्रियवद्भवेत् ।
व्यापिका वृत्तिरित्येवं कथं सर्वत्र न श्रुतिः ॥ २३९ ॥
जैनोक्तशब्दग्रहणप्रकारदूषणम्
आर्हतास्त्वादुः—सूक्ष्मैः शब्दपुद्गलैरारब्धशरीरः शब्दः स्वप्रभवभूमेः निष्क्रम्य प्रतिपुरुषं कर्णमूलमुपसर्पतीति—तदेतदतिसुभाषितम्—
वर्णस्यावयवाः सूक्ष्माः सन्ति केचन पुद्गलाः ।
तैर्वर्णोऽवयवी नाम जन्यते पश्य कौतुकम् ॥ २४० ॥
तेषामदृश्यमानानां कीदृशो रचनाक्रमः ।
केन तत्सन्निवेशेन कः शब्द उपजायताम् ? ॥ २४१ ॥
सा—श्रोत्रवृत्तिः । वृत्तेः विषयसमानाकारतापत्तिमेव प्रमाणं मन्वते ते । व्यामिश्रत्वात्—सर्वसम्बन्द्धत्वात् । आकाशाप्यायनकृतैव हि वृत्तिः, आकाशश्च सर्वसम्बद्ध एव । गौरमूलकं—ग्रन्थकारग्रामनाम । शब्दानुकूले— शब्दग्रहणायानुकूले । उक्तमुपपादयति—दूरेऽपीति । शब्दोत्पत्तिदेशात् पुरुषदेशामिमुखतया वायौ आगच्छति शब्दस्य शीघ्रश्रवणं, विपरीते वैपरीत्यं च दृश्यते । यदा च श्रोत्रवृत्तिः शब्ददेशं गच्छति, तदा श्रोत्रवृत्तेः तदभिमुखत्वात् व्याहतिः, बिलम्बश्च स्यादेव । ततश्च सर्वं विपरीतं स्यात् ॥
लघवोऽवयवाश्चैते निबद्धा न च केनचित् ।
न चैनं कठिनं कर्तुं वर्णावयविनं क्षमाः ॥ २४२ ॥
कृशश्च गच्छन् स कथं न विक्षिप्येत मारुतैः ।
दलशो वा न भज्येत वृक्षाद्यभिहतः कथम् ? ॥ २४३ ॥
प्रयाणकावधिः कश्च गच्छतोऽस्य तपस्विनः ।
एकश्रोत्रप्रविष्टो वा स श्रूयेतापरैः कथम् ? ॥ २४४ ॥
निष्कम्य कर्णादेकस्मात् प्रवेशः श्रवणान्तरे ।
यदीष्येत कथं तस्य युगपद्बहुभिः श्रुतिः ॥ २४५ ॥
श्रोतृसङ्ख्यानुसारेण न नानावर्णसम्भवः ।
वक्तुस्तुल्यप्रयत्नत्वात् श्रोतृभेदतदैक्ययोः ॥ २४६ ॥
तदलं परिहासस्य महतो हेतुभूतया ।
नग्नक्षपणकाचार्यप्रज्ञाचातुर्यचर्चया ॥ २४७ ॥
बौद्धोक्तशब्दग्रहणप्रकारदूषणम्
शाक्यप्रायास्त्वाचक्षते—अप्राप्त एव शब्दः श्रोत्रशक्त्या गृह्यत इति—तदेतदतिव्यामूढभाषितम्—अप्राप्तितुल्यतायां दूरव्यवहितादीनामश्रवणकारणाभावात् । प्राप्यकारिताख्यकर्मधर्माप्रसङ्गाच्च । न च चार्वाकवदपरीक्षित एवायमर्थ उपेक्षितुं युक्तः ॥
इति कार्यत्वपक्षेऽमूः श्रुतास्तार्किककल्पनाः ।
अथाभिव्यक्तिपक्षेऽस्य शृणु श्रोत्रियकल्पनाम् ॥ २४८ ॥
शब्दनित्यत्वपक्षे लाघववर्णनम्
विवक्षापूर्वकप्रयत्नप्रेर्यमाणस्तावद्वेगवत्तया क्रियावत्तया च कौष्ठ्यो बहिर्निस्सरति समीरण इति सुस्पष्टमेतत् । प्रत्यक्षनिकटपवनवादिनां पक्षे पवनसमये वक्तृवदननिकटनिहितहस्तस्पर्शेनैव
प्रत्यक्षनिकटपवनवादिनां—त्वक्सन्निकृष्टपवनप्रत्यक्षत्ववादिनामित्यर्थः ॥
स उपलभ्यते । अनुमेयमारुतपक्षेऽपि तदानीमास्यसमीपसन्निधापिततूलककर्मणा सोऽनुमीयते ॥
स गच्छन् सर्वतोदिक्कः स्तिमितानिलनोदनम् ।
करोति, कर्णाकाशे च प्रयाति श्रुतियोग्यताम् ॥ २४९ ॥
स च प्रयत्नतीव्रत्वमन्दत्वेन तदात्मकः ।
शब्दे तथाविधज्ञप्तिहेतुतामवलम्बते ॥ २५० ॥
स चैष गच्छन्नुद्दामवेगयोगाहितक्रियः ।
शरवद्वेगशान्त्यैव न दूरं गन्तुमर्हति ॥ २५१ ॥
स मूर्तः प्रसरन्मूर्तैः अपरैः प्रतिबध्यते ।
कुड्यादिभिरतो नास्य श्रुतिर्व्यवहितात्मनः ॥ २५२ ॥
स वेगगतियोगित्वात् आगच्छति यतो यतः ।
श्रोता ततस्ततः शब्दं आयान्तमभिमन्यते ॥ २५३ ॥
स तु शङ्खादिसंयोगप्रेर्यमाणः समीरणः ।
शब्दस्यावर्णरूपस्य भवति व्यक्तिकारणम् ॥ २५४ ॥
शब्दो यद्यपि वर्णात्मा श्रोत्रग्राह्यो न विद्यते ।
तथाऽपि तत्र शब्दत्वं श्रवणेन ग्रहीष्यते ॥ २५५ ॥
तदिह न कदाचिदस्माभिरधिका कल्पना कृता, मारुतगतेरस्याः सर्वलोकप्रसिद्धत्वात् । कर्णाकाशसंस्कारमात्रमदृष्टं कल्पितम् । तदपि कार्यार्थापत्तिगम्यत्वान्नापूर्वमिति ॥
तदात्मकः—तीव्रमन्दात्मकः । मूर्तः—शब्दो हि द्रव्यम् । यतो यतः —यद्यद्दिशः । अवर्णरूपस्य—ध्वनिरूपस्य । शब्द इति । ध्वनिपदवाच्यः नाद एव श्रोत्रग्राह्यः । तदारूढत्वात् कौष्ठ्यमारुताभिव्यक्तः वर्णोऽपि श्रोत्रग्राह्य इवाभाति इति वार्तिकतद्व्याख्ययोः स्पष्टम् [१-१-६। २२३-२२४] । “द्विविधो हि शब्दः—वर्णः ध्वनिश्च । द्वयोरनुगतं शब्दत्वम् । वर्णत्वं ध्वनित्वं च तत्सामान्ये । वर्णविशेषाः गकारककारादयः, ध्वनिविशेषाः शङ्खघोषादयः । ध्वन्यात्मकश्च शब्दः वायुगुणः । स एव च वर्णात्मकानां ककारादीनामभि
अपक्षपातिनः सभ्याः सत्यमुत्पत्त्यपेक्षया ।
शब्दस्य कल्पनामाहुः अभिव्यक्तौ लघीयसीम् ॥ २५६ ॥
तदेवमभिव्यक्तिपक्षे नियतग्रहणोपपत्तेः प्रत्यभिज्ञाप्रत्ययप्रामाण्यात् नित्यत्वमेवोपगन्तव्यम् ॥
सोऽयङ्गकार इत्यादिप्रत्यभिज्ञायाः अनन्यथासिद्धत्वम्
या त्वनैकान्तिकत्वोक्तिः धीकर्मप्रत्यभिज्ञया ।
प्रत्यक्षे चोद्यमानाऽसौ दर्शयत्यतिमूढताम् ॥ २५७ ॥
व्यञ्जकः । स च कदाचित् वर्णरहितः केवलो गृह्यते शङ्खघोषादिषु, कदाचित् वर्णानभिव्यञ्जयन् तदुपश्लिष्टः प्रतीयते” [श्लो। वा। व्या। १-१-५ स्फोठ ३९] इति पार्थसारथिवाक्यान्यपि अत्राबधेयानि ॥
“बुद्धि-कमर्णी अपि प्रत्यभिज्ञायेते । ते अपि नित्ये प्राप्नुतः । नैष दोषः । न हि ते प्रत्यक्षे । अथ प्रत्यक्षे नित्ये एव” [शा। भा। १-१-६। २०] इत्याद्यनुवदति—या त्विति । “न हि ते प्रत्यक्षे । अथ प्रत्यक्षे नित्ये एव” इति सिद्धान्तभाष्यस्याशयमाह—प्रत्यक्ष इति । शब्दस्तु प्रत्यक्षः । बुद्धिकर्मणी त्वतीन्द्रिये । अतश्च तत्र प्रत्यभिज्ञा न प्रत्यक्षरूपा, किन्तु अनुमानरूपैव वाच्या । कालद्वयविषयकमनुमानं भवितुमर्हत्येव । तथा च परोक्षेयं प्रत्यमिज्ञा न स्वदृष्टान्तेन शब्दविषयप्रत्यभिज्ञाप्रत्यक्षं बाधितुं समर्थम् । शब्दवदेव तयोरपि यदि स्यात् प्रत्यभिज्ञाप्रत्यक्षं, तदा स्यातां कामं ते अपि नित्ये— इति समाधानभाष्याशयः ॥
कुमारिलस्तु—“अथ प्रत्यक्षे, नित्ये एव” इति भाष्यं प्रत्यक्षत्वमात्रं नित्यत्वापादनक्षमपरं भाति । तत्तु प्रत्यक्षे घटादौ नित्यत्वाभावात् व्यभिचरितम् । अतो भाष्यमिदं यथाश्रुततयाऽसम्बद्धमिव—इत्याक्षिप्य; नात्र प्रत्यभिज्ञया शब्दनित्यत्वं साध्यते, येन बुद्धिकर्मणोः व्यभिचारः स्यात् । किन्तु शब्दानित्यत्वे प्रत्यभिज्ञाविरोध एव । एवञ्च “तर्हि बुद्धिकर्मणोरपि तथा प्रत्यभिज्ञानात् अनुभवसिद्धमनित्यत्वं विहाय नित्यत्वमेवाङ्गीकर्तव्यं स्यात्” इति सिद्धान्तिसम्मतार्थन्तरदूषणे कृते, “शब्दस्य प्रत्यक्षत्वात् तन्नित्यत्वमपि प्रत्यक्षमेव । अतस्तस्यानित्यत्वे उक्ते प्रत्यभिज्ञाविरोधः । बुद्धिकर्मणी तु
तेनानुमानदोषेण प्रत्यक्षं न हि दूष्यते ।
सिद्धान्तान्तरचिन्ता तु भवेत् भृशमसङ्गता ॥ २५८ ॥
निर्बाधं प्रत्यभिज्ञानमस्ति चेत् बुद्धिकर्मणोः ।
तयोरप्यस्तु नित्यत्वं नो चेत् का शब्दतुल्यता ॥ २५९ ॥
तस्मान्नित्यः प्रत्यभिज्ञाप्रभावात्
सिद्धः शब्दः पश्यतां तार्किकाणाम् ।
अर्थापत्तिः पूर्वमुक्ता च तस्मिन्
अस्थायित्वे युक्तयश्च व्युदस्ताः ॥ २६० ॥
अस्ति च वेदे वचनं सिद्धामनुवदति यद्ध्रुवां वाचम् ।
तल्लिङ्गदर्शनादपि नित्यः शब्दोऽभिमन्तव्यः ॥ २६१ ॥
शिक्षाविदस्तु पवनात्मकमेव शब्दं
आचक्षन्ते तदसमञ्जसमप्रतीतेः ।
अर्हन्मतप्रथितपुद्गलपर्युदास-
नीत्या च वाय्ववयवा अपि वारणीयाः ॥ २६२ ॥
येऽपि स्थूलविनाशदर्शनवशाद्ब्रूयुः क्षणध्वंसिनः
भावांस्तेऽपि न शक्नुवन्ति गदितुं शब्दस्य विध्वंसिताम् ।
अन्ते हि क्षयदर्शनात् किल तथा तेषां भ्रमोऽस्मिन् पुनः
शब्दे नान्तपरिक्षयाविति कथं कुम्भादिवद्भङ्गिता ? ॥ २६३ ॥
स्वरूपतोऽनुमेये । अतश्च तयोर्नित्यत्वानित्यत्वेऽपि अनुमानविचार्ये एव । अतस्तद्दृष्टान्तोऽत्र विषमः” इति सिद्धान्तभाष्याशयः—इति व्याख्यातवान् [श्लो। वा। १-१-६-३७५—३७८, ३८९—३९२] । स एष वृथा क्लेशः, अस्मदुक्तरीत्या सुव्याख्यत्वादित्याह—सिद्धान्तान्तरेति । सिद्धान्तान्तरं— सिद्धान्तिसम्मतमर्थान्तरमित्यर्थः ॥
पश्यतां तार्किकाणां इत्यनादरे षष्ठी उपहासार्था ॥
“लिङ्गदर्शनाच्च” [जै। सू। १-१-६-२३] इति सूत्रभाष्योक्तमनुवदति— अस्ति च वेद इति । “वाचा विरूपनित्यया” इति वचनं विवक्षितम् ॥
“प्रख्याभावाच्च योगस्य” [जै। सू। १-१-६-२२] इति सूत्रभाष्योक्तमनुवदति—शिक्षाविद इति ॥
—शब्दानित्यत्वसिद्धान्तः— शब्दनित्यत्वे प्रत्यक्षार्थापत्त्योरप्रमाणत्वप्रतिज्ञा
अत्र ब्रूमहे—न खलु भवदभिहितमेत् प्रमाणद्वयमपि शब्दनित्यतां प्रसाधयितुमर्हति ॥
अर्थापत्त्या शब्दनित्यत्वसिद्धिदूषणम्
यावता यदर्थापत्तिरवादि [पु। ५१७] —दर्शनस्य परार्थत्वादिति—सा क्षीणैव, अर्थप्रतीतेरन्यथाऽप्युपपन्नत्वात् ॥
गत्वादिजातिद्वारैव शक्तिग्रहः बोधश्च
तत्र सादृश्यमप्यनभ्युपगतमेव दूषित [पु। ५१८] मित्यस्थाने क्लिष्टा भवन्तः ॥
गत्वादिजातीराश्रित्य सम्बब्धग्रहणादिकः ।
अर्थावगतिपर्यन्तः व्यवहारः प्रसेत्स्यति ॥ २६४ ॥
गत्वादिजातिसिद्ध्यसिद्ध्यधीनत्वं शब्दानित्यत्वनित्यत्वयोः
ननु गत्वं प्रतिक्षिप्तं एतदेव परीक्ष्यताम् ।
अस्मिन् समाप्यते वादः मर्मस्थानमिदं च नः ॥ २६५ ॥
प्रतिक्षिप्ते च गत्वादौ नार्थसम्प्रत्ययोऽन्यथा ।
प्रत्यभिज्ञानभूमिश्च नान्याऽस्तीति वयं जिताः ॥ २६६ ॥
सिद्धे तु गत्वसामान्ये तत एवार्थवेदनम् ।
तदेव प्रत्यभिज्ञेयमिति यूयं पराजिताः ॥ २६७ ॥
अन्यथा—शब्दनित्यत्वमन्तराऽपि । नित्यत्वाङ्गीकारेऽपि हि यावद्बोधं शब्दः श्रोत्रे परिचङ्क्रममाणो न ह्यनुभूयते ॥
प्रतिक्षिप्त इत्यादि । अन्यस्मिन् गोशब्दे शक्तिग्रहः, अन्यस्माच्च बोध इत्यनुपपत्तिः गत्वादिजातिमूलैव परिहरणीया । तथा “सोऽयं गकारः” इति प्रत्यभिज्ञाऽपि साजात्यमूलैव हि निर्वाह्या । प्रत्यभिज्ञेयं—प्रत्यभिज्ञाविषयः ॥
तेनान्यत्सर्वमुत्सृज्य वादस्थानकडम्बरम् ।
गत्वादिजातिसिद्ध्यर्थमथातः प्रयतामहे ॥ २६८ ॥
गत्वस्य जातित्वसाधने उपोद्धातरचनम्
तत्रेदं विचार्यताम्—य एष गकारभेदप्रतिभासः, स किं व्यञ्जकभेदकृतः ? उत वर्णभेदविषयः ? इति ॥
व्यञ्जकभेदकृते तस्मिन् एकत्वाद्गकारस्य किंवृत्ति गत्वसामान्यंस्यात् ?
वर्णभेदविषयत्वे तु तद्भेदसिद्धेरभेदप्रत्ययस्य विषयो मृग्य इति तद्ग्राह्यमपरिहार्यं गत्वसामान्यम् ॥
गकारादिभेदप्रतिभासः न व्यञ्जकभेदकृतः
तदुच्यते—नायं व्यञ्जकभेदकृतः गकारभेदप्रत्ययः । यदि हि व्यञ्जकभेदाधीन एष भेदप्रतिभासः, तर्हि यरलवादिवर्णभेदप्रत्ययोऽपि तत्कृत एव किमिति न भवति ? ततश्च सकलवर्णविकल्पातीतमेकमनवयवं शब्दब्रह्म वैयाकरणवदभ्युपगन्तव्यम् ॥
यरलवादिभेदवत् गकाराणामप्युच्चारणभेदात् भेद एव
अथ मनुषे—यरलवादीनामितरेतरविभक्तस्वरूपपरिच्छेदाद्विषयभेदकृत एव भेदप्रत्ययः, नोपाधिनिबन्धन इति—तर्हि गङ्गागगनगर्गादौ गकारभेदप्रतिभासोऽप्येष न व्यञ्जकभेदाधीनो भवितुमर्हति, तत्रापि परस्परविभिन्नगकारस्वरूपप्रतिभासात् । शुकसारिकामनुष्येषु हि वक्तृभेदे सति व्यञ्जकनानात्वसम्भावनया
एकत्वादिति । बहूनामनुगमाय किल जातिः । अत एव एकव्यक्तिवृत्तेर्न जातित्वम् ॥
तद्ग्राह्यं—अभेदग्रहविषयः । “सैवेयं दीपज्वाला” इत्यादिः दृष्टान्तः ॥
ननु उक्तमेवासकृत् “शब्दो यद्यपि वर्णात्मा श्चोत्रग्राह्यो न विद्यते” [पु ५३८] इति, इतिचेत्तत्राह—ततश्चेति । ततश्च स्पोटनिरासस्तव अर्थरहित एव ॥
वर्णभेदप्रत्ययस्य तत्कृतत्वं काममाशङ्क्येतापि । वक्त्रेकत्वे तु गगनादौ कुतः तत्कृतो भेदः ?
गकाराणामुच्चारणभेदौपाधिकः भेद इत्यपि न युक्तम्
ननु ! तत्रापि मरुतो भिन्ना एव व्यञ्जकाः, मुखं त्वेकं भवतु ! किं तेन ? तदपि वा भिन्नमित्येके । उच्यते—स तर्हि मरुतां भेदः यरलवादिष्वपि तुल्य इति मा भूत्तेषामपि भेदः ॥
यरलवादिभेदाभावेऽपि गकारद्वयभेदः घटद्वयभेदवत् प्रत्यक्षसिद्धः
ननु ! यरलवानां विशेषप्रतीतिरस्ति, गकारे तु सा नास्तीत्युक्तं, [पु। ५३५] उच्चारणस्यैव तत्र भेदः, नोच्चार्यस्येति । नैतत् सारम्— मा भूदेष विशेष इति प्रतीतिः, भेदबुद्धिस्तु विद्यत एव । अन्या च विशेषबुद्धिरुच्यते, अन्या च भेदबुद्धिरिति । विशेषाप्रतिभासेऽपि क्वचिद्विच्छेदप्रतीतिविशेषात् ॥
जात्यैक्येऽपि व्यक्तिभेदः गृह्यत एव
ननु ! अत्रोच्यते [पु ५२१] —
दृश्यते शाबलेयादिव्यक्त्यन्तरविलक्षणा ।
बाहुलेयादिगोव्यक्तिः तेन भेदोऽस्ति वास्तवः ॥ २६९ ॥
गगनादौ—गगनपदादौ । तत्र हि गकारद्वयं एकेनैबोच्चरितम् । तत्कृतः—व्यञ्जकभेदकृतः ॥
भिन्ना मरुत इति । प्रत्युच्चारणं व्यञ्जकावायवाः भिद्यन्त एव । तदपि— मुखमपि । यादृशसन्निवेशविशेषविशिष्टोऽवयवसमुदायात्मा मुखपदवाच्यः शब्दमभिव्यञ्जयति, तादृशसन्निवेशविशेषाः प्रत्युच्चारणं भिद्यन्त एव हि ॥
एष विशेष इति । गकारद्वयश्रवणे यरलवानां श्रवण इव “अत्रायं विशेषः” इति विशेषस्य सुनिरूपत्वाभावेऽपि समानयोर्घटयोरिव व्यक्तिभेदप्रतीतिस्तु वर्तत एव । किञ्चित्साजात्यं तु शषसानामप्यस्त्येव । अन्येति । विशेषो हि व्यावर्तकाकारः घटत्वपटत्वादिः । भेदस्तु घटयोरपि विद्यमानः तद्व्यक्तित्वरूपः ॥
न तु द्रुतादिभेदेन निष्पन्ना सम्प्रतीयते ।
गव्यक्त्यन्तरविच्छिन्ना गव्यक्तिरपरा स्फुटा ॥ २७० ॥
इति—नैतद्युक्तम्—शाबलैयादौ प्रतिव्यक्ति सास्नाखुरककुदाद्यवयववर्तिनो विशेषाः प्रतिभासन्ते । ते च स्थूलत्वात् सुगमा भवन्ति । यत्र तु तिलतण्डुलकुलत्थादौ प्रतिसिक्थं विशेषा न प्रतिभासन्ते, तत्र विशेषप्रतीत्यभावेऽपि विच्छेदप्रतिभासो विद्यत एव, सिक्थात् सिक्थान्तरत्वेन प्रतिभासात् । एवमिहाप्येष गकारविशेष इति प्रतिभासाभावेऽपि विच्छेदग्रहणात् गकारनानात्वम् ॥
व्यक्तिभेदग्रहणे असाधारणाकारापेक्षाऽपि नास्ति
ननु ! तण्डुलादावपि सिक्थात् सिक्थान्तरे विशेषाः प्रतिभासन्त एव । तदप्रतिभासे भेदस्यापि ग्रहीतुमशक्यत्वात्—मैवं वादीः—यत्ने सति चतुरश्रत्रिकोणवर्तुलत्वादिविशेषा अप्यमुत्र प्रतिभासिष्यन्ते । एवं गकारेष्वपि । प्रयत्नं विनाऽपि तु प्रथमाक्षनिपात एव विच्छेदबुद्धिरुत्पद्यत इति तयैव नानात्वसिद्धिः ॥
असाधारण्यग्रहणाभावेऽपि भेदग्रहणोपपत्तिः
ननु ! नैवानधिगतविशेषस्य विच्छेदबुद्धिरुत्पत्तुमर्हतीति विशेषबुद्धिरेव विच्छेदबुद्धिः—नैतदेवम्—भ्रमणादिकर्मक्षणानां सूक्ष्मविशेषाप्रतिभासेऽपि विच्छेदप्रतिभासात् ॥
गव्यक्तिः—एको गकारः । सिक्थं—अपक्वः पुलाकः । “स्थालीपुलाकवत्” इत्यादौ द्रष्टव्यम् । प्रतिसिक्थं—तण्डुलानामेव परस्परम् ॥
विशेषाः—तत्तद्व्यक्त्यसाधारणाः आकाराः । एतादृशा विशेषाः गकारेष्वपि परस्परं सन्त्येव सूक्ष्ममतिग्राह्याः । नेदानीमस्मामिरिदमुच्यते । तण्डुला हि दर्शनमात्रेणैव पृथक्पृथग्भिन्ना एवोपलभ्यन्ते; न तु सर्वे तण्डुला एकत्वेनेति समाधत्ते—यत्ने सतीति ॥
भ्रमणादीति । “भ्रमणरेचनस्पन्दनोर्ध्वज्वलनतिर्यक्पतननमनोन्नमनादयः गमनविशेषाः, न जात्यन्तराणि” [प्र-भा-कर्म] इति भ्रमणादीनां परस्परभेदप्रतीतिः दृष्टैव ॥
तद्व्यक्तित्वरूपविशेषस्तु गकारद्वयेऽप्यस्त्येव
ननु ! तत्रापि विशेषग्रहणं कल्प्यते, अन्यथा विच्छेदप्रतीत्यनुपपत्तेः । यद्येवं वर्णेष्वपि गगनादौ विच्छेदप्रतीतिदर्शनात् कल्प्यतां विशेषग्रहणम् ॥
गकारद्वयगततद्व्यक्तित्वस्यानौपाधिकत्वम्
ननु ! अस्त्येव तत्, किन्त्वौपाधिकं स्फटिके रक्तताप्रत्ययवत्— विषमो दृष्टान्तः । स्फटिकस्य शुद्धस्य दृष्टत्वाल्लाक्षाद्युपाधिनिमित्तको भवतु रक्तताप्रत्ययः । वर्णानां तु नित्यमेवोदात्तादिविशेषवतां प्रतिभासात्, तद्रहितानामनुपलब्धेश्च नैसर्गिक एवायं भेदः । तद्यथा बुद्धीनां घटपटादिविषयविशेषशून्यानामसंवेदनात् प्रतिविषयं नानात्वं, तथा वर्णानामपि प्रत्युदात्तादिविशेषं नानात्वम् । न च बुद्धिरेकैव नित्या च, विषयभेदोपाधिनिबन्धनस्तद्भेद इति साम्प्रतम्—स्वयमेव “बुद्धिजन्म प्रत्यक्षम्” [जै। सू। १-१-५] इत्यभिधानात् । अस्माभिश्च बुद्धिनित्यताया उपरिष्टान्निराकरिष्यमाणत्वात् [८ आह्निके] ॥
विषयभेदाच्च तद्भेदाभिधाने विषयस्यापि कुत इदानीं भेदः ? बुद्धिभेदादिति चेत्—इतरेतराश्रयप्रसङ्गः । तदिमाः स्वत एव भेदवत्यो बुद्धयः, विषयाणामपि स्वत एव भेदो भवति; स तु बुद्धिभिः ज्ञायत इत्यलमर्थान्तरगमनेन ॥
ननु भ्रमणरेचनयोः गतिभेदरूपविशेषग्रहणमस्त्येवेति चेत्, गकारेऽपि प्रत्युच्चारणं तथाविशेषः भासत एवेत्याह—तत्रापीत्यादि ॥
औपाधिकं—उच्चारणभेदप्रयुक्तव्यञ्जकवायुभेदाधीनम् । असंवेदनात्—अननुभवात् ॥
इदानीं—विषयभेदस्यानिर्णयकाले ॥
शुक्लादिगुणभेदवत् गकारादिभेदः
यथा च शुक्लगुणस्य भास्वरधूसरादिभेदवतो नानात्वं, तथा वर्णस्याप्युदात्तादिभेदवतः । शुक्लगुणोऽप्येक एव, आश्रयभेदात्तु तद्भेद इति चेत्; अहो रससमारूढो भट्टः !
कर्मैकं बुद्धिरप्येका जगत्येकः सितो गुणः ।
तच्चैतन्नित्यमित्येताः स्त्रीगृहे कामुकोक्तयः ॥ २७१ ॥
गकारभेदाभावे आत्मभेदोऽपि न स्यात्
अपि च एकात्मवादोऽप्येवमेवावतरेत्, सुखिदुःख्यादिभेदस्य शरीरभेदेनाप्युपपत्तेः । अद्वैतस्य च नातिदवीयानेष पन्था इत्यलमलीकविकत्थनेन ॥
तस्मात् बुद्ध्यादिवत् सर्वदा सविशेषाणामेव वर्णानां ग्रहणान्नानात्वम् ॥
गगनपदादिषु अजुपश्लेषभेदाधीनः गकारभेदः न वक्तुं शक्यः
तत्रैतत्स्यात्—गगनादावकारोपश्लेषकृत एव भेदप्रत्ययः, न स्वरूपभेद इति [पु। ५२२] —तदयुक्तम्—अकारस्यापि भवन्मते
भास्वरधूसरेति । शुक्लरूपवतोः द्वयोः पटयोः भेदे दृष्टे तद्गतशुक्लगुणस्यापि दृश्यमानः भेदः दुरपह्नवः । न च शुक्लरूपे भेद एव नास्ति; अन्ततः दीप-पटगतयोर्वा शुक्लयोर्भेदावश्यम्भावात् । कामुकोक्तयः— अस्वाधीनबुद्धिकस्योक्तयः । कामुको हि स्त्रियं वशीकर्तुं स्वैरं प्रलपति पुण्यपापादिविभागादिकमपलपन् ॥
अपि चेत्यादि । आत्मनां हि नानात्वं नित्यत्वं च आत्मवादे [श्लो। १-१-५] स्थापितं तैरपि ॥
गगनादौ—“गगनं” इत्यादिपदे । अकारस्यापीति । गोगुरुगेहादौ भिन्नाः स्वराः सन्ति, न तु गगनपदे इति भावः । अकारोपश्लेषमन्तरा
भेदाभावात् । अविद्यमाने च तदुपश्लेषे दिगजः, दिग्गज इति भेदेन प्रतिभासो भवत्येव । तथा च समदः—सम्मदः, पटः—पट्टः, आसनं— आसन्नं, मलः—मल्लः, अविकः—अविक्कः, पतिः—पत्तिः, पतनं— पत्तनं इत्यादावपि वर्णभेदप्रतीतिः । अर्थप्रतीतिभेदोऽपि दिगजदिग्गजादौ शब्दान्तरनिमित्तको भवितुमर्हति, न द्विरुच्चारणकृतः । ग्रन्थाधिक्यादर्थाधिक्यम्, नोच्चारणभेदात्; शतकृत्वोऽपि प्रयुक्ते गोशब्दे सास्नादिमदर्थव्यतिरिक्तवाच्यसम्प्रत्ययाभावात् । तथा च दिग्गज इति द्विगकारको निर्देश इत्याचक्षते शब्दविदः, न द्विर्गकार उच्चारित इति ॥
गकारादिभेदस्यौपाधिकत्वे घटादिभेदस्याप्यौपाधिकत्वापत्तिः
ननु ! गोगुरुगिरिगेहादावज्भेदेऽपि गकारप्रत्ययानुवृत्तेरेक एवायं गकारः—मैवं वोचः—एष एव हि भेदप्रत्ययः अस्माभिरुपदर्शितः । विनाऽपि च अजुपश्लेषं दिग्गजादौ भेदप्रत्ययो वर्णितः । न च वयमभेदप्रत्ययमपह्नुमहे, किन्तु भेदप्रत्ययस्याप्यबाधितस्य भावात्, अनन्यथासिद्धत्वाच्च गवादिवत् सामान्यविशेषरूपतां ब्रूमः । व्यञ्जकभेदनिबन्धनत्वं तु यस्लवादावपि वक्तुं शक्यमित्युक्तमेव ॥
उच्चारणमेव न भवतीति नेत्याह—अविद्यमान इति । ननु दिग्गजः इत्यादावपि गकारस्य द्विरुच्चारणात् उच्चारणभेद एव, न तु वर्णभेद इति चेत्, तत्राह—अर्थप्रतीतिभेदोऽपीति । ग्रन्थः—गकाररूपः ॥
गो-गुरु-गेहादिपदेषु अज्भेदात् भेदस्यानुभवसिद्धत्वमपि निराकरोति— नन्वित्यादिना । एष एवेत्युक्तं विवृणोति—विनाऽपीति । ननु “स एवायं गकारः” इत्यभेदप्रत्ययोऽप्यस्त्येवेति भेद एव कुतोऽन्यथासिद्धो न स्यादिति शङ्कायां, अस्ति प्रतीतिद्वयमपि । किन्तु भेदे सत्यभेदप्रतीतेः साजात्याद्यालम्बनत्वेनास्ति बहुला दृष्टान्ताः; न तथा अभेदे भेदप्रत्यये । अन्यथा गवादिष्वपि भेद औपाधिकः स्यादित्याह—न चेत्यादिना । सामान्यविशेषः—सामान्यं ह्यभिन्नम्, विशेषश्च भिन्न एव ॥
अपि च शावलेयादिभेदप्रत्ययस्यापि व्यञ्जकभेदनिबन्धनत्वात् एक एवासौ स्यात् ॥
गोत्वगत्वजात्योरविशेषः
ननु ! तत्र को व्यञ्जकः, यद्भेदकृतः पिण्डभेदप्रत्यय इष्यते ? आह च [श्लो। वा। १-१-५। स्फोट। ३६] —
“
न पिण्डव्यतिरेकेण व्यञ्जकोऽत्र ध्वनिर्यथा ।
पिण्डव्यङ्ग्यैव गोत्वादिजातिर्नित्यं प्रतीयते इति ॥
”
तदयुक्तम्—गोत्वजातेः गत्ववदिदानीं अविवादास्पदीभूतत्वात् । पिण्डभेदप्रत्ययस्य चक्षुर्व्यापारभेदादप्युपपत्तेः ॥
गकारादिभेदप्रतीतेः गवादिभेदप्रतीत्यविशेषः
ननु ! सकृदपि व्यापृतलोचनस्य परस्परविभक्तपिण्डप्रतिभासो भवति—मैवम्—तदानीं गोमात्रप्रतीतिः । “एष शाबलेयः”, “एष बाहुलेयः” इति तु विशेषग्रहणे चक्षुर्व्यापारभेदोऽपरिहार्यः ॥
प्रत्यक्षेणैव गवि गकारादौ च विशेषस्य ग्रहणम्
यदि च आद्यगोपिण्डभेदे प्रथमाक्षसन्निपातजा बुद्धिः सुभगतां गता—गकारभेदे तर्हि किं कृतमस्या दौर्भाग्यम् ? तत्रापि प्रथमश्रोत्रव्यापारवेलायामनवगतव्यञ्जकविभागस्यापि गगन-गङ्गादौ गकारभेदः प्रतिभासत एवेत्यलं प्रसङ्गेन ॥
व्यञ्जकः—यथा शब्दे ध्वनिः । न पिण्डेति । अत्र—शब्दे । एवञ्च जातिव्यञ्जकस्य पिण्डस्याप्यभेदे भेदप्रतीतेरालम्बनमेव दुर्वचम् । अतः पिण्डैक्यमसम्भवि । तथा च शब्दनानात्वे पिण्डनानात्वं न दृष्टान्तीभवितुमर्हति इति भावः । उभयोर्भेदस्य प्रत्यक्षसिद्धत्वात् तावन्मात्रे दृष्टान्तत्वमित्याह—गोत्वजातेरिति ॥
मात्र पदेन विशेषव्यावृत्तिः । सामान्यमगृहीत्वा विशेषः कथं गृह्येत ॥
वस्तुस्थितिमनुसृत्याह—यदीत्यादि । सुभगतां—अबाधितताम् ॥
गोत्वादिवत् गत्वादिसामान्यसाधनोपसंहारः
तदयं वस्तुसङ्क्षेपः—उपेक्ष्यतां वा सर्वत्र सामान्यविशेषव्यवहारः ! इष्यतां वा गोत्वादिवत् गकारभेदवृत्ति गत्वसामान्यम् ॥
अत्वादिकमपि गत्वादिवत् जातिरेव
अत्वमपि गत्ववदप्रत्याख्येयम्; इतरेतरविलक्षणानामकाराणां ह्रस्वदीर्घप्लुतादिभेदेन प्रतिभासात् । यः पुनः आकारेऽप्यकारप्रत्यभिज्ञानं ब्रूयात्, तस्य ईकारोकारप्रतीतिष्वपि अकारस्यैव ग्रहणप्रसक्तिः, अच्त्वाविशेषात् ॥
अथ तदविशेषेऽपि अवर्णात् इवर्णस्य भेदः इष्यते, स तर्ह्याकारस्य न निह्रोतव्यः । एवञ्च सति अरण्यारण्यशब्दाभ्यां भिन्नार्थप्रतीतिरुपपत्स्यते ॥
उदात्तानुदात्तस्वरितसंवृतविवृतादिभेदोऽपि शब्दविदां प्रत्यक्ष एव, गीतज्ञानामिव स्वरग्रामभाषाविभागः । तस्मात् अष्टादशभेदं
ह्रस्वदीर्घेति । अकारादयः प्रत्येकमष्टादशधा पूर्वमुक्ताः । यः पुनरिति । अयं च आकारः न अकारः दीर्घः, किन्तु तदतिरिक्त एवेत्याशयः वस्तुतस्तु—यद्यपि अकारस्यैव प्रभेदः आकारः [पु। ५२२] ; तथाऽपि वर्णमालायां आकारस्य पृथग्ग्रहणात् आत्वं अत्वात् भिन्नमित्याशयः । ईकारेति । अकारस्यैवायं प्रपञ्चः सर्वेऽपि वर्णा इत्यविवादमेव । ओकारादौ अकार-उकारद्वयरूपत्वं प्रत्यक्षत एव सिद्धम् ॥
एवं अकार-आकारयोर्भेदसाधनस्य फलमाह—एवञ्च सतीति ॥
उदात्तेत्यादि । उदात्तादिभेदात् अर्थभेदः “इन्द्रशत्रु”पदादिषु स्पष्ट एव । इन्द्रस्य शत्रुरिति विवक्षायां हि अन्तोदात्तः, इन्द्रः शत्रुः यस्येति विवक्षायां तु आद्युदात्तः । ग्रामः—स्वरसमूहविशेषः ॥
अकारमाचक्षते । अत्वं च तत्सामान्यं अवर्णकुलशब्देन व्यवहरन्तीति ॥
ह्रस्वदीर्घत्वादयो वर्णधर्मा एव, न ध्वनिधर्माः
यत्तु ध्वनिधर्मस्यापि दीर्घादेः अर्थप्रतिपत्त्यङ्गत्वं तुरगवेगवदुक्तम् [पु। ५२३] —तदप्यहृदयङ्गमम् । शब्दादर्थं प्रतिपद्यन्ते लोकाः, न मरुद्भ्यः ॥
अथ मरुतामपि तथा व्युत्पत्तेः अर्थप्रतीतिहेतुत्वं, तर्हि व्युत्पत्तिरेव प्रमाणं स्यात्, न शब्दः; व्युत्पत्तेरव्यभिचारात्, शब्दस्य च व्यभिचारात् इत्यास्तामेतत् ॥
तस्मात् गत्वादिसामान्यैः अर्थसम्प्रत्ययात्मनः ।
कार्यस्य परिनिष्पत्तेः न वर्णव्यक्तिनित्यता ॥ २७२ ॥
शब्दत्वजात्यसिद्धिशङ्का
अपर आह—तिष्ठतु तावत् दूरत एव गत्वाद्यपरसामान्यम्, महासामान्यमपि शब्दत्वं वर्णेषु नोपपद्यते ॥
व्यक्त्यन्तरानुसन्धानं यत्रैकव्यक्तिदर्शने ।
तत्रैकरूपसामान्यं इष्यते तत्कृतं च तत् ॥ २७३ ॥
गकारश्रुतिवेलायां न वकारावमर्शनम् ।
बाहुलेयपरामर्शः शाबलेयग्रहे यथा ॥ २७४ ॥
प्रमाणं—अर्थप्रतीतिजनकम् । अर्थसम्प्रत्ययात्मनः कार्यस्य इत्यन्वयः । अत्र “अस्मिन् समाप्यते वादः मर्मस्थानमिदं च नः” इत्युक्तं [पु। ५४१] अनुसन्धेयम् ॥
व्यक्त्यन्तरेत्यादि । यदा एकं घटं पश्यति, तदा देशान्तरकालान्तरदृष्टं घटान्तरं स्मरेत् चेत्, तत् किन्निबन्धनम् ? इति शङ्कायां हि अनुगतधर्मसिद्धिर्वाच्येत्यर्थः । तत्—व्यक्त्यन्तरानुसन्धानम् । तत्कृतं—सामान्यकृतम् ।
शब्दः शब्दोऽयमित्येवं प्रतीतिस्त्वप्रयोजिका ।
एषा हि श्रोत्रगम्यत्वं उपाधिमनुरुध्यते ॥ २७५ ॥
शब्दत्वजातिसिद्धिः
तदेतन्निरनुसन्धानस्याभिधानम् । अनुसन्धानप्रत्ययस्य सामान्यसिद्धावप्रयोजकत्वात् । अनुसन्धानं हि सारूप्यात् विजातीयेष्वपि भवति, गवयग्रहणसमये गोपिण्डानुसन्धानवत् । तस्मात् अबाधितैकरूपप्रत्ययप्रतिष्ठ एव सामान्यव्यवहारः ॥
समानबुद्धिग्राह्येऽपि सामान्येऽवस्थिते, क्वचित् ।
भवत्यन्यानुसन्धानं, क्वचिद्वा न भवत्यपि ॥ २७६ ॥
तदस्ति खण्डमुण्डादौ पिण्डसारूप्यकारितम् ।
गकारादिषु वर्णेषु तदभावात्तु नास्ति तत् ॥ २७७ ॥
—न तु सामान्याभावात् ॥ सामान्यं न सारूप्यमात्रम् न च सारूप्यमेव सामान्यं साङ्ख्यवदभिधातुं युक्तम्; विजातीयेष्वपि गोगवयादिषु तस्य दृष्टत्वात् ॥
यदि च “शब्दः शब्दः” इत्यनुवृत्तबुद्धेः श्रोत्रगम्यत्वोपाधिकृतत्वमुच्यते, तर्हि गवादावप्येकबुद्धेः वाहदोहाद्येकार्थक्रियाकारित्व- अप्रयोजिकेति । “रामसुग्रीवयोरैक्यं देव्येवं समजायत” [रा। सु। ३५-५२] इत्यादौ हि ऐकमत्यप्रयुक्तमपि ऐक्यं दृश्यते, तथेति भावः ॥
निरनुसन्धानस्य—अविमर्शकस्य । सारूप्यात् इति । किञ्चिदित्यादिः । विरोधादिनिबन्धनमपि स्मरणं कंसस्मरणे कृष्णस्येव दृष्टमत्र ग्राह्यम् । अवस्थितेऽपि इत्यन्वयः । अन्येति । व्यक्त्यन्तरेत्यर्थः । तदभावात्—सारूप्याभावात् ॥
विजातीयेष्वपीति । घटपटयोः सारूप्याभावेऽपि पृथिवीत्वद्रव्यत्वादिसामान्यं दृश्यत एव । यदि च तत्र तदनुगुणं सारूप्यमुपपाद्यते, प्रकृतेऽपि तच्छक्यम् । एवमनभ्युपगमे कुत्रापि सामान्यं न सिध्येदिति बौद्धविजयप्रसङ्गः ॥
निबन्धनत्वात् गोत्वादिजातिनिह्नवः बौद्धवन्मन्तव्यः । न चैतदेवम्; तत् गोत्ववत् शब्दत्वमपि न प्रत्याख्येयम् ॥
ब्राह्मणत्वादिजातीनां प्रत्यक्षगम्यत्वम्
एतेन ब्राह्मणत्वादिसामान्यमपि समर्थितं वेदितव्यम्, उपदेशसहायप्रत्यक्षगम्यत्वात् । न चोपदेशापेक्षणात् अप्रत्यक्षत्वं तस्य भवितुर्महति; गोत्वादिप्रत्ययस्यापि सम्बन्धग्रहणकाले तदपेक्षत्वदर्शनात् । उक्तं च “न हि यत् गिरिशृङ्गमारुह्य गृह्यते तत् अप्रत्यक्षम्” इति ॥
ब्राह्मणत्वादिकं न औपाधिकम्
न चौपाधिकः पैठीनसिपैप्पलादिप्रभृतिषु ब्राह्मणप्रत्ययः, उपाधेरग्रहणात् । औपाधिकत्वस्य गोत्वादावपि वक्तुं शक्यत्वात् ॥
अपि च उपदेशनिरपेक्षमपि चक्षुः क्षत्रियादिविलक्षणां सौम्याकृतिं ब्राह्मणजातिमवगच्छति—इत्येके । तदलमनया कथया ॥
शब्दानित्यत्वेऽप्यर्थबोधोपपत्तिः
प्रकृतमुच्यते—गत्वादिभिर्जातिभिरेव अर्थसम्प्रत्ययोपपत्तेः, यदुक्तं “दर्शनस्य परार्थत्वात्” इति [पु। ५२४] —एतदयुक्तम् ॥
एतेन सर्वत्र यौगपद्यादित्येतदपि प्रत्युक्तम्, सम्बन्धनियमस्य गत्वादिभ्य एव सिद्धेः ॥
शब्दभेदप्रतीतिः न उच्चारणभेदाबलम्बना
यदपि सङ्ख्याभावात् कृत्वसुच्प्रयोगदर्शनमुदग्राहि— [पु। ५२५] तदपि व्यभिचारि—
गिरिशृङ्गेति । तादृशोन्नतस्थानारोहणं हि प्रत्यक्षसहकारि । तद्वदेवात्रोपदेशोऽपीत्यर्थः ॥
वस्तुतस्तु ब्राह्मणत्वं न केवलशरीरनिष्ठम्, कर्तृत्वादीनामप्येवं प्रसङ्गात् । एवं नात्ममात्रनिष्ठम्, आत्मनि विशुद्धे तादृशजात्यादीनामसम्भवात् । अत उभयगतं विलक्षणमिदं ब्राह्मणत्वादिकं आत्मापरोक्षज्ञान्येकगम्यमित्ययं विचारोऽतिसूक्ष्म इत्याशयेनाह—अलमिति ॥
“
कृतं कान्तस्य तन्वङ्ग्या त्रिरपाङ्गविलोकनम् ।
चतुरालिङ्गनं गाढं अष्टकृत्वश्च चुम्बनम्
”
इति—तद्भेदेऽपि दर्शनात् ॥
अथ तत्र स्त्रीपुंसयोरभेदे चुम्बनादिक्रियामात्रभेद एवेत्युच्यते— तथाऽप्यपूर्वेषु ब्राह्मणेषु भुक्तवत्सु “पञ्चकृत्वो ब्राह्मणा भुक्तबन्तः” इति व्यवहारो दृश्यते ॥
शब्दभेदस्य प्रत्यक्षसिद्धत्वम्
एवं शब्देऽपि तत्सङ्ख्याव्यवहारो हि दृश्यते ।
कविना सदनुप्रासे निबद्धेऽक्षरडम्बरे ॥ २७८ ॥
गकारो बहवो दृष्टाः इति व्यवहरन्ति हि ।
यदपि प्रत्यभिज्ञानं तद्द्वारकमुदाहृतम् ॥ २७९ ॥
तस्यापि सिद्धे प्रामाण्ये जात्यालम्बनता भवेत् ।
नृत्ताभिनयचेष्टादिप्रत्यभिज्ञानतो वयम् ॥ २८० ॥
न शब्दप्रत्यभिज्ञानमुत्तारयितुमीश्महे ।
विशेषं प्रत्यभिज्ञाने न पश्यामो मनागपि ॥ २८१ ॥
तद्भेदेऽपि—सङ्ख्याश्रयवस्तुभेदेऽपि । दर्शनात्, कृत्वसुच्प्रत्ययस्येति शेषः ॥
ननु उच्चारणकर्मीभूतस्य शब्दस्यैक्यात् यथा “अष्टकृत्व उच्चरितः शब्दः” इति व्यवहारः, तथा चुम्बनकर्मीभूतस्यैक्यादेवात्रापि कृत्वसुच्प्रयोग इत्याशङ्क्य समाधत्ते—अथेति । अपूर्वेषु—प्रतिवारं भिन्नेषु ॥
तद्द्वारकं—ऐक्यद्वारकम् । “पूर्वमुच्चरितो गकारः नष्टः, अन्योऽयं पुनरुच्चरितः” इत्येव सूक्ष्ममतीनां अनुभवात्—सिद्धे प्रामाण्य इति । “ह्यो यदौषधं दत्तं, तदेवाद्यापि दत्तम्” इत्यादौ तथा दर्शनादित्यर्थः । “कैश्चित्तिरोहिते भावात्” [पु। ५२६] इत्यादि समाधत्ते—नृत्तेति । उत्तारयितुं—विवेचयितुम् । अत्र हेतुमाह—विशेषमिति । तथा च शब्द-बुद्धि-क्रियाणां प्रत्यभिज्ञासु नास्ति कश्चिद्विशेष इति एतेऽनित्या एव । एवं तर्हि प्रत्यभिज्ञा
स्तम्भादिप्रत्यभिज्ञासु न तदैव विनाशधीः ।
क्षणभङ्गप्रतीकारं तेन ताः कर्तुमीशते२ ॥ २८२ ॥
शब्दस्य प्रत्यभिज्ञानवेलायामेव दृश्यते ।
शब्दरूपस्य विध्वंसः इति तन्नित्यता कुतः ॥ २८३ ॥
स्तम्भादिप्रत्यभिज्ञायाः शब्दप्रत्यभिज्ञायाश्च विशेषः
यद्यपि क्षणभङ्गभङ्गे प्रत्यभिज्ञाप्रामाण्यमस्माभिरपि समर्थयिष्यते —तथापि स्तम्भादिप्रत्यभिज्ञायाः शब्दप्रत्यभिज्ञाया एष एव विशेषः, यदत्र “ध्वस्तः शब्दः” इति तदैव प्रत्ययो जायते । अत एव तिरोहितेऽपि भावादियं अप्रमाणं प्रत्यभिज्ञेत्याहुः ॥
शब्दप्रत्यभिज्ञायाः वस्त्वैक्यालम्बनत्वासम्भवः
यद्यपि ध्रियतेऽस्माकं शब्दो द्वित्रानपि क्षणान् ।
प्रत्यभिज्ञा तु कालेन तावता नावकल्पते ॥ २८४ ॥
तथाहि—शब्द उत्पद्यते तावत् । ततः स्वविषयं ज्ञानं जनयति, अजनकस्य प्रतिभासायोगात् । ततः तेन ज्ञानेन शब्दो गृह्यते । ततः संस्कारबोधः । ततः पूर्वज्ञातशब्दस्मरणम् । ततस्तत्सचिवं श्रोत्रं, मनो वा शब्दप्रत्यभिज्ञानं जनयिष्यति । तदा शब्दो ग्रहीष्यत सामान्यस्याप्येवं निर्वाहे कथं क्षणभङ्गभङ्गः ? इत्यत्राह—स्तम्भादीति । तदैव—प्रत्यभिज्ञाकाल एव । तेन—तस्मात् । तथा च केवला प्रत्यभिज्ञा एकस्य वस्तुनः नित्यतां, अनित्यतां वा न साधयितुमलम् । किन्त्वबाधितैव । शब्दप्रत्यभिज्ञायामस्ति तदैव बाधः, न स्तम्भप्रत्यभिज्ञायाम् । एवञ्च न क्षणभङ्गवादस्याप्यवसर इति भावः ॥
क्षणभङ्गभङ्गे—इति निमित्तसप्तमी । तत्प्रकरण इति वा ॥
“जीवति त्वन्मतेऽपि” [पु। ५२७] इत्यादि समाधत्ते—यद्यपीति । द्वित्रानपि इत्यनास्थायाम् ॥
इतीयत् कुतोऽस्य दीर्घमायुः ? प्रत्यभिज्ञाप्रामाण्यादेव तावदायुस्तस्य कल्प्यत इति चेत्; सत्यं कल्प्येत, यदि विनाशप्रत्ययः तदैव न स्यात् ॥
अपि च “गोशब्दोऽयम्” “अश्वशब्दोऽयम्” इति तदभिधानविशेषोल्लेखात्—
नानानुस्मरणं तस्य तदैवावश्यमापतेत् ।
विज्ञानायौगपद्याच्च कालो दीर्घतरो भवेत् ॥ २८५ ॥
ग्रहणात् पूर्वं शब्दस्थित्यसम्भवः
यदप्युदितमुहाममेघश्यामासु रात्रिषु ।
साम्यं सौदामिनीधामजन्यया प्रत्यभिज्ञया ॥ २८६ ॥
तदसत्, कालदैर्घ्येण तदवस्थित्यसम्भवात् ।
विद्युद्दृष्टे च वृक्षादौ नाशसंवित्त्यसम्भवात् ॥ २८७ ॥
प्रत्यभिज्ञायाः ऐन्द्रियकत्वपक्षः
प्रत्यभिज्ञा नाम स्मर्यमाणानुभूयमानसामानाधिकरण्यग्राहिणी संस्कारसचिवेन्द्रियजन्या प्रतीतिरिति केचित् ॥
प्रत्यभिज्ञायाः केवलमानसत्वपक्षः
अन्ये मन्यन्ते—स्मर्यमाणपूर्वज्ञानविशेषितार्थग्राहित्वात् प्रत्यभि-
शब्दप्रत्यभिज्ञाने न केवलमक्षरमात्रानुसन्धानापेक्षा, अपि तु अर्थस्यापीति, सर्वथा तावत्कालं शब्दासत्त्वात् प्रत्यभिज्ञा नैक्यावगाहिनीत्याह—अपि चेति । नानेति । वाच्यसम्बन्धादीत्यर्थः । विज्ञानायौगपद्यात् इति प्रायोवादाभिप्रायम् । स्मृतेः सम्भवात् ॥
“यथा निशीथे” [पु। ५२७] इत्यादि समाधत्ते—यदपीति । कालदैर्घ्येण—चिरकालपर्यन्तमिति यावत् । तदवस्थितिः—शब्दस्थितिः ॥
स्मर्यमाणं—पूर्वकालदेशसम्बन्धादि । अनुभूयमानं—एतत्कालदेशसम्बन्धादि ॥
स्मर्यमाणेत्यादि । “सोऽयं” इत्यत्र हि तच्छब्देन पूर्वकालविशिष्टं
ज्ञायाः, तद्विशेषणस्य च अर्थस्य बाह्येन्द्रियग्राह्यत्वानुपपत्तेः स्तम्भादावपि मानसी प्रत्यभिज्ञेति ॥
निर्बन्धस्त्विह नास्माकं, सा यथाऽस्तु तथाऽस्तु वा ।
शब्दे विनाशज्ञानात्तु न सा नित्यत्वसाधिका ॥ २८८ ॥
ऐक्यप्रत्यभिज्ञापेक्षया विनाशप्रत्यक्षं प्रबलम्
बाध्यबाधकभावे तु नियमो ननु किङ्कृतः ?
शब्दस्य प्रत्यभिज्ञानविनाशप्रतिभासयोः ॥ २८९ ॥
उच्यते, प्रत्यभिज्ञानमन्यथाऽप्युपपद्यते ।
गत्वादिजातिविषयं, यद्वा सादृश्यहेतुकम् ॥ २९० ॥
शब्दविनाशप्रत्यक्षस्य अन्यथासिद्धत्वासम्भवः
नन्वभिव्यञ्जकध्वंसात् नाशधीरपि सेत्स्यति ।
तदसावपि बाध्याऽस्तु, यद्वा भवतु संशयः ॥ २९१ ॥
मैवं; विनाशिताबुद्धिः भेदबुध्युपबृंहिता ।
सा चेयं चान्यथासिद्धे इति वक्तुमसाम्प्रतम् ॥ २९२ ॥
वस्तु साक्षान्न वाच्यः; गतस्य तस्य तदाऽभानात् । किन्तु पूर्वोत्पन्नतादृशज्ञानविषयत्वेनैव । एवञ्च प्रथमपक्षे पूर्वकालसम्बन्धो विशेषणं, द्वितीयपक्षे च तद्विषयकज्ञानं इति विशेषः । अधिकं परस्तात् । पक्षद्वयं चेदं सप्तमाह्निके विस्तरशः विचारयिष्यते इत्यभिप्रायेणाह—निर्बन्ध इत्यादि ॥
ननु विनाशप्रत्यय एवान्यथासिद्धः कुतो न स्यादित्यत्राह—बाध्यबाधकभाव इति ॥
नन्वित्यादि । दृश्यते हि वाय्वभिव्यञ्जिकायाः व्यजनक्रियाया नाशे वायुनाशप्रतीतिः । न केवलं विनाशप्रत्ययमात्रात् शब्दस्य नानात्वं ब्रूमः । किन्तु प्रतीतिकाले शब्दः पूर्वश्रुतगकाराद्भिन्नतयैव भासत इति नानात्वस्यानपह्नवत्वे, तन्मूलतया विनाशोऽपि अनपह्नव एवेत्याह—मैवमिति । ननु नानात्वमप्यौपाधिकं कुतो न स्यादिति तु, अनवस्थाऽन्योन्याश्रयादिग्रस्तं तदित्याह—सा चेत्यादि ।
प्रत्यभिज्ञा च सापेक्षा निरपेक्षा त्वभावधीः ।
तेनैवमादौ विषये प्रत्यभिज्ञैव बाध्यते ॥ २९३ ॥
शब्दाभावस्य झगिति ग्रहणात् । तत्प्रत्यभिज्ञायाश्च पूर्वानुसन्धानादिसव्यपेक्षत्वात् ॥ प्रत्यभिज्ञाया अन्यथासिद्धिरेवौत्सर्गिकी अपि च प्रत्यभिज्ञा व्यभिचरन्ती कर्मादिषु गृह्यते । तेनास्यां शब्देऽप्यभावप्रत्ययोपहतवपुषि कः समाश्वासः ? न चेदं प्रत्यक्षेऽपि अनैकान्तिकत्वोद्भावनम्; अपि तु विनाशकप्रत्ययप्रतिहतप्रभावा प्रत्यभिज्ञा नित्यत्वं, कर्मादिष्विव, शब्देऽपि न साधयितुं प्रभवतीति दृष्टान्त एष प्रदर्श्यते ॥ प्रत्यक्षस्थलेऽपि दृष्टान्तापेक्षा ननु प्रत्यक्षेऽपि दृष्टान्तस्य कोऽवसरः ? सत्यम्—ग्राहकास्तु भवादृशाः स्वयमनवबुध्यमाना एवं बुध्यन्ते ॥ बुद्धिकर्मणोः सर्वथा नित्यत्वासम्भवः यत्तु प्रवृद्धरभसतया बुद्धिकर्मादावपि नित्यत्वसमर्थनम्— तत् अत्यन्तमलौकिकमित्युक्तम् ॥
किं नाम शब्दनित्यत्वसमर्थनतृषाऽऽतुरः ।
जङ्गमं स्थावरं चैव सकलं पातुमिच्छसि ॥ २९४ ॥
तस्मादलमतिरभसप्रवृत्ताभिः बुद्धिकर्मादिनित्यत्वसमर्थनकथाभिः ॥ विनिगमकान्तरमप्याह—प्रत्यभिज्ञा चेति ॥
नन्वेवं तर्हि प्रत्यक्षं सर्वमपि एवमेवेति किं तव सम्मतम् ? इति चेन्नेत्याह—न चेदमिति ॥
एवं—दृष्टान्तमुखेन ॥
शब्दनित्यत्वे नियतग्रहणसमर्थनं न युक्तिमत्
यत्पुनः अभिव्यक्तिपक्षे—शब्दस्य ग्रहणे नियमाभावमाशङ्क्य, श्रोत्रसंस्कारेण, विषयसंस्कारेण, उभयसंस्कारेण वा नियतं ग्रहणमुपवर्णितम् [पु। ५३०-५३३] —तद्वञ्चनामात्रम्—समानदेशानां समानेन्द्रियग्राह्याणां प्रतिनियतव्यञ्जकव्यङ्ग्यत्वादर्शनात् ॥
शब्दनित्यत्वे ग्रहणनियमासम्भवः
ये पुनरत्र गन्धा उदाहृताः [पु। ५३०] —ते समानेन्द्रियग्राह्या भवन्ति, न समानदेशाः ॥
एकभूम्याश्रितत्वेन तुल्यदेशत्वकल्पने ।
भवेत् समानदेशत्वं हिमवद्विन्ध्ययोरपि ॥ २९५ ॥
एकत्वेऽपि भुवो भान्ति पदार्थाः पार्थिवाः पृथक् ।
व्यज्यन्ते तदधिष्ठानाः गन्धास्तैस्तैर्निबन्धनैः ॥ २९६ ॥
भवन्त्वनाश्रिताः शब्दाः, यदि वाऽऽकाशसंश्रिताः ।
सर्वथा भिन्नदेशत्वं एषां वक्तुं न शक्यते ॥ २९७ ॥
औपाधिकाकाशभेदादपि ग्रहणनियमासम्भवः
ननु यथैकत्वेऽपि नभसः तद्भागकल्पनया प्रतिपुरुषं श्रोत्रेन्द्रियभेदः, एवं तद्भागकल्पनयैव शब्दानामपि असमानदेशत्वात् नियतव्यञ्जकव्यङ्ग्यता भविष्यति—नैवमुपपद्यते—यत्रैव वक्तृमुखाकाशदेशे, श्रोतृश्रोत्राकाशदेशे वा गोशब्द उपलब्धः तत्रैवाश्वशब्द इदानीमुपलभ्यते; न पुनरतिमुक्तकुसुमे य उपलब्धो गन्धः, स बन्धूके, मधूके वा कदाचिदुपलभ्यत इति ॥
तस्मात् समानदेशत्वात् न व्यक्तौ नियमो भवेत् ।
उत्पत्तौ तु व्यवस्थायां तद्भेद उपपद्यते ॥ २९८ ॥
न समानदेशाः । न हि गकारादिः यथा नित्यः, एकश्च; तथा गन्धोऽपि । यदि वा—यदि च ॥
तत्रैवेति । न हि शब्दोत्पत्तेः, श्रवणस्य वा देशस्य भेदः अत्रास्ति । “अतिमुक्तः पुण्ड्रकः स्यात् वासन्ती माधवी लता” । एवं बन्धूकादयोऽपि पुष्पभेदाः । “उत्पत्तौ तु” इति तुकारेण तन्मते तदसम्भवः द्योत्यते ।
नादैः संस्क्रियतां शब्दः श्रोत्रं वा द्वयमेव वा ।
सर्वथा नियमो नास्ति व्यञ्जकेष्विति निश्चयः ॥ २९९ ॥
व्यवस्था व्यञ्जकानां चेत् उच्यतेऽदृष्टकारिता ।
उत्पत्तौ दृश्यमानायां दृष्टमप्यविरोधकम् ॥ ३०० ॥
श्रोत्रसंस्कारपक्षः न युक्तः
न च स्तिमितमारुतापनयनव्यतिरिक्तः कश्चन श्रोत्रसंस्कारो विद्यते । तत्र चातिप्रसङ्ग उक्तः । एतदतिरिक्तसंस्कारकल्पनायां तु अदृष्टकल्पना । स्थिरे च शब्दसंस्कारग्राहिणि सति पुनरभिव्यक्तस्यापि गोशब्दस्य श्रवणं स्यात्; तद्ग्रहणहेतोः संस्कारस्य स्थिरत्वात् । तत्क्षणिकत्वे तु शब्दक्षणिकतैव साध्वी, प्रतीयमानत्वात् ॥
श्रोत्रेन्द्रियस्य संस्काररूपत्वासम्भवः
यत्तु भर्तृमित्रः तमेव संस्कारं श्रोत्रेन्द्रियमभ्युपैति, [पु। ५३१] तदिदमपूविकं किमपि पाण्डित्यम् । इन्द्रियस्य हि संस्कार्यस्य संस्कारः, न संस्कार एवेन्द्रियम्; लोकागमविरुद्धत्वात् । प्रतिपुरुषं यावच्छब्दं भिन्नस्य क्षणिकस्य चेन्द्रियस्य कल्पनमनुपपन्नम् । अनश्वरत्वे तु शश्वदेव शब्दकोलाहलप्रसङ्ग इति यत्किञ्चिदेतत् । भट्टेनैव सोपहासमेष दूषितः पक्ष इति किमत्र विमर्देन !
भट्टोक्ता भर्तृमित्रनिराकरणप्रक्रिया न साधीयसी
यदपि भट्ट आह [श्लो। वा। १-१-६-१४९] —
यदि त्ववश्यं वक्तव्यः तार्किकोक्तिविपर्ययः ।
ततो वेदानुसारेण कार्या दिक्श्रोत्रतामतिः ॥ इति;
दृश्यमानायामिति प्रकृतहेतुसम्पादकम् ॥
सिद्धान्ते आकाशस्यैव श्रोत्रत्वात् तदमिप्रायेण—न पुरुषभेदमात्रात् इन्द्रियभेदः स्यात्, किन्तु क्षणभेदादपीत्यभिप्रायेण वा—प्रतिपुरुषमिति । “केचित्तु पण्डितम्मन्याः” इत्येतत्स्मरन्नाह—सोपहासमिति ॥
नैय्यायिकं निराकुर्वन्तं भर्तृमित्रं प्रत्युक्तिः—यदि त्ववश्यमित्यादि । वेदः—“दिशः श्रोत्रम्” [तै। ब्रा। ३-६-६] इत्यादिः ॥
—तदप्यसाम्प्रतम्—
दिशां कार्यान्तराक्षेपात् आगमान्यपरत्वतः ।
आहोपुरुषिकामात्रं दिग्द्रव्यश्रोत्रकल्पनम् ॥ ३०१ ॥
इन्द्रियाणां भौतिकत्वस्य साधयिष्यमाणत्वात् । दिशश्च अमूर्तत्वात् नेन्द्रियप्रकृतित्वम् । व्यापकत्वाविशेषे वा कालात्मनोरपि तथाभावप्रसङ्गः । तयोरन्यत्र व्यापारकत्वात् नेन्द्रियप्रकृतित्वमिति चेत्; दिग्द्रव्येऽपि तुल्यमेतत् । आगमस्त्वन्यपर एव । यथा हि “सूर्यं चक्षुर्गमयतात् ।॥।दिशः श्रोत्रम्” [तै। ब्रा। ३-६-६] इति पठ्यते, एवं “अन्तरिक्षमसुम्” [तै। ब्रा। ३-६-६] इति च पठ्यत एव । न चासवोऽन्तरिक्षप्रकृतिकाः, पवनात्मकत्वात् । तस्मात् कृतं दिशा । आकाशदेश एव कर्णशष्कुल्यवच्छिन्नः शब्दनिमित्तोपभोगप्रापकधर्माधर्मोपनिबद्धः श्रोत्रमित्युक्तम् ॥
नित्यशब्दाभिव्यक्तिव्यवस्था न धर्माधर्माधीना युक्ता
ननु ! धर्माधर्मकृतश्रोत्रनियमवत् अभिव्यक्तिनियमोऽपि शब्दस्य तत्कृत एव भविष्यति । किमिति तदनियमो नित्यत्वपक्षे चोद्यत इति ? नैतद्युक्तम्—चक्षुरादीन्द्रियाणां वैकल्यं अदृष्टनिबन्धनं अन्धकारप्रभृतिषु दृश्यते, न पुनः पदार्थस्थितिरदृष्टवशात् विपरिवर्तते । व्यञ्जकधर्मातिक्रमे हि हिममपि शैत्यं स्वधर्ममतिक्रामेत् । व्यञ्जकेषु नियमो न दृष्ट इत्युक्तम् । दृष्टे च वर्णभेदे नियतोपलब्धिहेतौ सम्भवति सति किमयमदृष्टमस्तके भार आरोप्यते ?
आहोपुरुषिका—“आहोपुरुषिका तावत् गर्वादात्मनि गौरवम्” इति वैजयन्ती । ननु दिगाकाशयोरुभयोः व्यापकत्वाद्यविशेषात् श्रोत्रं दिक्प्रकृतिकमेव भवतु इत्यत्राह—व्यापकत्वेत्यादि । अन्यत्र—अन्यस्मिन् कार्ये । तुल्यम्, दिशोऽपि दैशिकपरत्वापरत्वनिर्बाहकतयैव सिद्धेः । तत्तत्प्रकृतिकत्वाभावेऽपि अभिप्रायान्तरादिभिस्तथा व्यपदेशो बहुलं दृश्यत इत्याह—यथा हीति । असवः—प्राणाः ॥
श्रोत्रनियमवदिति । विभु आकाशं हि श्रोत्रं सिद्धान्ते । नैतद्युक्तमित्यादि । न हि व्यापकं आकाशं वयं श्रोत्रं ब्रूमः, किन्तु कर्णशष्कुल्युपहितमेव । न हि तव शब्दे तथा, पदार्थस्थितेः अदृष्टाधीनत्वाभावात् । तद्ग्रहणादिकं शब्दनित्यत्वे तीव्रमन्दादिविभागः दुर्निर्बहः कथं चाभिव्यक्तिपक्षे तीव्रमन्दविभागः ? [पु। ५३२] । तीव्रतादयो हि वर्णधर्मा वा स्युः ? ध्वनिधर्मा वा ? वर्णधर्मत्वे तीव्रात् गकारात् अन्यत्वं मन्दस्येत्यस्मन्मतानुप्रवेशः ॥
ध्वनिधर्मत्वपक्षे तु श्रोत्रेण ग्रहणं कथम् ?
न हि वायुगतो वेगः श्रवणेनोपलभ्यते ॥ ३०२ ॥
तीव्रत्वमन्दत्वादेः ध्वनिधर्मत्वासम्भवः यत्तु व्यक्तिधर्माः कृशत्वस्थूलत्वादयः जाताबुपलभ्यन्ते इति दर्शितम् [पु। ५३२] —तत् काममुपपद्येतापि । जातेः, व्यक्तेः, तद्धर्माणां च समानेन्द्रियग्राह्यत्वात् ॥
इह तु स्पर्शनग्राह्यः पवनोऽतीन्द्रियोऽथ वा ।
तद्धर्माः श्रवणे शब्दे गृह्यन्त इति विस्मयः ॥ ३०३ ॥
तीव्रत्वमन्दत्वादेः बुद्धिधर्मत्वाभावः यत्तु बुद्धिरेव तीव्रमन्दवतीति [पु। ५३३] —तदतीव सुभाषितम्; असति विषयभेदे बुद्धिभेदानुपपत्तेः ॥
किञ्च नित्यपरोक्षा ते बुद्धिरेवं च नादवत् ।
तदग्रहे न तीव्रादितद्धर्मग्रहसम्भवः ॥ ३०४ ॥
कामं अदृष्टायत्तोपाध्यादिवशादिति युक्तम् । अदृष्टादेव साक्षात् व्यवस्था तु दुरुपपादैवेति ॥
वायुगत इति । “द्विविधो हि शब्दः वर्णो ध्वनिश्च । द्वयोरनुगतं शब्दत्वम् । वर्णत्वं ध्वनित्वं च तदवान्तरसामान्ये । वर्णविशेषाः गकारादयः, ध्वनिविशेषाः शङ्खघोषादयः । ध्वन्यात्मकश्च शब्दः वायुगुणः” इति न्यायरत्नाकरे [१-१-५, स्फोट। ३९] वर्णितं द्रष्टव्यम् ॥
नित्यपरोक्षेति । प्राकट्येनानुमेयं हि ज्ञानं तेषां मते ।
अहो तीव्रादयस्तीव्रे प्रपाते पतिता अमी ।
यो गृह्यते, न तद्धर्मा; यद्धर्मा, स न गृह्यते ॥ ३०५ ॥
शब्दनित्यत्वे तीव्रेण मन्दस्याभिभवोऽपि [पु। ५३३] दुर्निरूपः
यश्चाभिभववृत्तान्तः त्वन्मते मरुतामसौ ।
अनिले चाभिभूतेऽपि शब्दो न श्रूयते कथम् ? ॥ ३०६ ॥
दीपेऽभिभूते रविणा न हि रूपं न गृह्यते ।
नियतव्यञ्जकत्वं तु प्रतिक्षिप्तमदर्शनात् ॥ ३०७ ॥
ध्वनौ वायुगुणे शब्दत्वग्रहणासम्भवः
यत्तु शङ्खादिशब्दानां श्रोत्रग्राह्यत्वसिद्धये ।
शब्दत्वं तत्र तद्ग्राह्यं इत्यवादि [पु। ५३८] तदप्यसत् ॥ ३०८ ॥
सत्यं वदत दृष्टं वा श्रुतं वा क्वचिदीदृशम् ।
आश्रयस्य परोक्षत्वे तत्सामान्योपलम्भनम् ॥ ३०९ ॥
शब्दो न तेऽस्त्यवर्णात्मा न शङ्खो वर्णसम्भवः ।
न नादवृत्ति शब्दत्वं इति तद्ग्रहणं कथम् ? ॥ ३१० ॥
यो गृह्यत इति । शब्दस्तु गृह्यते, परन्तु तीव्रत्वादिर्न तद्धर्मः; तीव्रत्वादिधर्मास्तु बुद्धेः, सा तु न गृह्यते ॥
दीप इति । व्यञ्जकस्य दीपस्य सूर्यप्रभयाऽभिभवेऽपि न हि व्यङ्ग्यं रूपं न गृह्यत इत्यर्थः । ननु तत्र उभयव्यङ्ग्यं रूपं एकमेव । अतः एकस्याभिभवेऽपि न रूपाग्रहणप्रसङ्गः । प्रकृते तु तत्तदनिलाभिव्यङ्ग्ययोः शब्दयोरपि तदनुगुणं भिन्नत्वात् तत्राप्यभिभवो युज्यत एवेत्याशङ्क्य—तर्हि उभयोस्समाने मेलने किं कस्याभिव्यञ्चकं इत्यादिनियमः दुर्निरूप इति पूर्वमेवोक्तमित्याह—नियतव्यञ्जकत्वमित्यादि ॥
आश्रयस्य—शब्दस्य । नाद एव हि तेषां श्रोत्रग्राह्यः, न तु शब्दः । अथापि शब्दत्वं नादे श्रोत्रेण गृह्यत इति ते वदन्ति । एतदेवोच्यतेऽनन्तरश्लोकेन ॥
ननु तर्हि सिद्धान्ते आकाशस्याप्रत्यक्षत्वेऽपि तदाश्रितस्य शब्दस्य प्रत्यक्षत्वं कथमिति चेत्; आकृतिव्यङ्ग्यत्वाज्जातेः तत्रैवायं नियमः, नान्यत्र; तथाऽनुभवात् ॥
शब्दनित्यत्वपक्षे लाघवोपपादनमप्रयोजकमेव
यत्पुनः सम्प्रधारितं व्यङ्ग्यकार्यपक्षयोः क्व शब्दग्रहणे गुर्वी कल्पना भवति ? क्व वा लघ्वी ? इति [पु। ५३३] —तदपि मौलप्रमाणविचारसापेक्षत्वात् अप्रयोजकम् ॥
यदि मौलप्रमाणेन साधिता नित्यशब्दता ।
त्वदुक्ता कल्पना साध्वी मदुक्ता तु विपर्यये ॥ ३११ ॥
शब्दनित्यत्वपक्षे शब्दस्य सर्वदिक्षु ग्रहणासम्भवः
कौष्ठ्येन बहिः प्रसरता समीरणेन सर्वतः स्तिमितमारुतापसरणं क्रियते [पु। ५३७] इत्येतदेव तावदलौकिकं कल्पितम् । “अग्नेरूर्ध्वज्वलनं, वायोस्तिर्यग्गमनं, अणुमनसोश्चाद्यं कर्मेत्यदृष्टकारितानि” [वै। सू। ५-२-१४] इति मरुतां तिर्यग्गमनस्वभावत्वात् ऊर्ध्वमधश्च शब्दश्रवणं न भवेत् ॥
यावन्न वेगिनाऽन्येन प्रेरितो मातरिश्वना ।
तावन्नैसर्गिको वायुः न तिर्यग्गतिमुज्झति ॥ ३१२ ॥
अधोमुखप्रयुक्तोऽपि शब्द ऊर्ध्वं प्रतीयते ।
उत्तानवदनोक्तोऽपि नाधो न श्रूयते च सः ॥ ३१३ ॥
कदम्बगोलकाकारशब्दारम्भो हि सम्भवेत् ।
न पुनर्दृश्यते लोके तादृशी मरुतां गतिः ॥ ३१४ ॥
आकण्ठानद्धनीरन्ध्रचर्मावृतमुखोदितः ।
शब्दो यः श्रूयते तत्र न कौष्ठ्यानिलसर्पणम् ॥ ३१५ ॥
मौलप्रमाणेति । मूलभूतप्रमाणेत्यर्थः । अप्रयोजकत्वमेवाह— यदीति ॥
यावदित्यादि । दृश्यते हि जलेऽपि प्रबाहद्वयसङ्घट्टनया ऊर्ध्वगतिः अकण्ठेत्यादिकं कौष्ठ्येन समीरणेन स्तिमितमारुतापसरणासम्भवोपपादनाय ॥
कुड्यादिप्रतिबन्धेन बायोरप्रसरणं भवद्भिरपि कथितमेव । निर्विवरचर्मपुटोपरुद्धोऽप्यसौ न प्रसरेत् ॥
कौष्ठ्यमारुतस्य शब्दाभिव्यञ्जकत्वासम्भवः
अपि च सर्वतोनिरुद्धसर्वद्वारस्यापि जठरे गुरगुराशब्दो मन्दाग्नेः श्रूयते । अत्र कुतो व्यञ्जकानां कौष्ठ्यपवनानां निस्सृतिः ? रोमकूपनिस्सृतानामपि सूक्ष्मतया स्तिमितबाह्यवाय्वपसरणसामर्थ्याभावः ॥
कौष्ठ्यमारुतस्य बाह्यवाय्वपसरणे शक्तिरपि न भवति
किञ्च मनागपि बहिर्वायौ वाति न शब्दश्रवणं स्यादिति । दुर्बलोऽपि बाह्यः पवनः प्रबलादपि कौष्ठ्यवायोः बलीयान् भवतीति कथं तेनापसार्येत ?
प्रसिद्धबाह्यवाय्वपेक्षया विलक्षणाः शब्दावारकवायवो न सन्त्येव
अन्य एव सूक्ष्मा वायवः शब्दावरणकारिणः, न पुनरेते परिदृश्यमानाः श्यामाकलतालास्योपदेशिनः मातरिश्वान इति चेत्—न—विशेषे प्रमाणाभावात् । यं च सूक्ष्मा अपि वायवः तिरोदधति, तं सुतरां बलीयांसोऽपि विवृणुयुरिति यत्किञ्चिदेतत् ॥
सिद्धान्तोक्तशब्दग्रहणप्रकार एव साधीयान्
तस्मात् सजातीयशब्दसन्तानारम्भपक्ष एव युक्त्यनुगुणः । तथाहि—सजातीयगुणारम्भिणः गुणास्तावद्दृश्यन्त एव रूपादयः । अमूर्ताऽपि च बुद्धिः बुद्ध्यन्तरमारभमाणा दृश्यते । देशान्तरेऽपि सैव कार्यमारभते, पथि गच्छतो देवदत्तादेः एकस्मादात्मप्रदेशात् प्रदेशान्तरे बुद्ध्युत्पाददर्शनात् । कार्यारम्भविरतिरपि भवति; अदृष्टाधीनसंसर्गाणां सहकारिणामनवस्थानात् ॥
भवद्भिः कथितमिति । “आरम्भप्रतिबन्धोऽस्य न च कुड्यादिभिर्भवेत्” [श्लो। बा। १-१-६। १६] इत्यादौ तथोक्तं तैः ॥
श्यामाकलतालास्योपदेशिनः—तासां ईषच्चलनहेतवः ॥
“शब्दः शब्दान्तरं सूते इति तावदलौकिकम्” इत्याद्युक्तं [पु। ५३४] समाधत्ते—तथाहीत्यादि । सैव—पूर्वोत्पन्नैव बुद्धिः । पथि गच्छत इत्यादि ।
तीव्रेणापि शनैरेवं अतीव्रारम्भसम्भवः ।
सीदत्सचिवसामर्थ्यसापेक्षक्षीणवृत्तिना ॥ ३१६ ॥
वीचीसन्तानदृष्टान्तः किञ्चित्साम्यादुदाहृतः ।
न तु वेगादिसामर्थ्यं शब्दानामस्त्यपामिव ॥ ३१७ ॥
निरावरणमेबाकाशं शब्दोत्पत्तिकारणम् यत्तु कुड्यादिव्यवधाने किमिति विरमति शब्दसन्तानारम्भ इति [पु। ५३४] —नैष दोषः—निरावरणस्य हि व्योम्नः शब्दारम्भे समवायिकारणत्वं तथादर्शनात् कल्प्यते, नाकाशमात्रस्येति ॥ शब्दस्य आश्रितत्वात् गुणत्वसाधनपक्षः, तन्निराकरणं च यदपि गुणत्वमसिद्धं शब्दस्येति [पु। ५३४] —तत्र केचित् अश्रितत्वात् गुणत्वमाचक्षते—तदयुक्तम्—
आश्रितत्वं गुणत्वे हि न प्रयोजकमिष्यते ।
षण्णामपि पदार्थानां आश्रितत्वस्य सम्भवात् ॥ ३१८ ॥
दिक्कालपरमाण्वादिनित्यद्रव्यातिरेकिणः ।
आश्रिताः षडपीष्यन्ते पदार्थाः कणभोजिना ॥ ३१९ ॥
न च व्योमाश्रितत्वमपि शब्दस्य प्रत्यक्षम्; अप्रत्यक्षे नभसि तदाश्रितत्वस्याप्यप्रत्यक्षत्वात् ॥
आकाशाप्रत्यक्षत्वेऽपि शब्दप्रत्यक्षत्वमुपपद्यते
कथमाधारपारोक्ष्ये शब्दप्रत्यक्षतेति चेत् ।
यथैवाऽऽत्मपरोक्षत्वे बुद्ध्यादेरुपलम्भनम् ॥ ३२० ॥
एतदेवासिद्धमिति चेत्; अलं बादान्तरगमनेन । उपरिष्टान्निर्णेष्यमाणत्वात् [७ आह्निके] ॥ विभोरात्मनः देहदेशावच्छेदेनैव हि ज्ञानमुत्पद्यते । सचिवाः—सहकारिणः ॥
षण्णामपीति । ऽद्रव्याश्रितत्वं चान्यत्र नित्यद्रव्येभ्यः [प्र। भा।] इति हि काणादाः ॥
एतदेव—आत्मनोऽप्रत्यक्षत्वेऽपि तद्गुणानां प्रत्यक्षत्वमित्येतदेव ॥
किमेतर्हि शब्दस्य गुणत्वे प्रमाणम् ? परिशेषानुमानमिति ब्रूमः । प्रसक्तयोः द्रव्यकर्मणोः प्रतिषेधे सामान्यादावप्रसङ्गाच्च गुण एवावशिष्यते शब्दः ॥
शब्दस्याद्रव्यत्वम्
कथं पुनः ? न द्रव्यं शब्दः, एकद्रव्यत्वात् । अद्रव्यं वा भवति द्रव्यं, आकाशपरमाण्वादि-अनेकद्रव्यं वा—द्वणुकादि कार्यद्रव्यम् । एकद्रव्यं तु शब्दः, एकाकाशाश्रितत्वात् । तस्मान्न द्रव्यम् ॥
शब्दस्य कर्मादिभिन्नत्वम्
नापि शब्दः कर्म, शब्दान्तरजनकत्वात् । कर्मणो हि समानजात्यारम्भकत्वं नास्ति ॥
सत्ताशब्दत्वादिसामान्यसम्बन्धाच्च सामान्यादित्रयप्रसङ्गोऽस्य नास्तीति पारिशेष्यात् गुण एव शब्दः ॥
शब्दस्य गुणत्वसाधनम्
ननु ! गुणत्वसिद्धौ सत्यां आकाशाश्रितत्वं शब्दस्य भविष्यति; गुणस्य द्रव्यानाश्रितस्यादर्शनात् पृथिव्यादीनां च शब्दाश्रयत्वानुपपत्तेः । ततश्च गुणत्वे सति एकद्रव्यत्वं, एकद्रव्यत्वे सति गुणत्वमितीतरेतराश्रयत्वम् ॥
तथा च समानजातीयारम्भकत्वमपि गुणत्वसिद्धिमूलमेव । गुणत्वे सति शब्दस्याकाशाश्रितत्वात् तदात्मकेन श्रोत्रेण ग्रहणम् । तच्च देशान्तरगतसंयोगविभागप्रभवस्य शब्दस्य सन्तानमन्तरेण श्रोत्रदेशप्राप्त्यभावात् न सिध्यतीति गुणत्वसिद्धिमूला
एकद्रव्यत्वादित्यस्योपपादनं—अद्रव्यमिति । द्रव्यासमवायिकारणकमित्यर्थः ॥
समानजात्यारम्भकत्वं—“समानजाति” इत्यत्र बहुब्रीहिः । यद्यपि द्रव्यं द्रव्यान्तरमारभते, अथापि जातिभेद एव घटकपालादौ कार्यकारणतावच्छेदकः ॥
इतरेतराश्रयत्वान्तरमप्याह—तथा चेति ॥
सन्तानकल्पना, सन्तानकल्पनायां च समानजात्यारम्भकत्वात् कर्मव्यवच्छेदे सति गुणत्वसिद्धिरितीतरेतराश्रयत्वमेव ॥
उच्यते—नोभयत्राप्येष दोषः । श्रोत्रग्राह्यत्वादेव शब्दस्याकाशाश्रितत्वं कल्प्यते, समानजातीयारम्भकत्वं च गुणत्वात् । आकाशैकदेशो हि श्रोत्रमिति प्रसाधितमेतत् । प्राप्यकारित्वं चेन्द्रियाणां वक्ष्यते [आह्निके ८] । न चाकाशानाश्रितत्वे शब्दस्य श्रोत्रेण प्राप्तिर्भवति; न चाप्राप्तस्य ग्रहणमिति तदाश्रितत्वं कल्प्यते ॥
एवं समानजातीयारम्भकत्वमपि तत एव श्रावणत्वात् दूरवर्तिनः शब्दस्य श्रवणे सति कल्प्यते, न तु गुणत्वादिति नेतरेतराश्रयम् ॥
शब्दस्य कार्यत्वादप्याकाशाश्रितत्वं साधयितुं शक्यम्
कार्यत्वादाकाशाश्रितत्वं कल्प्यत इत्येके ॥
ननु ! कार्यत्वादप्याकाशाश्रितत्वकल्पनायां तदवस्थमेवेतरेतराश्रयम्; कार्यत्वादाकाशाश्रितत्वम्, आकाशाश्रितत्वे सति नियतग्रहणपूर्वं पूर्वरीत्या कार्यत्वमिति—नैतदेवम्—भेदविनाशप्रतिभासाभ्यामेव कार्यत्वसिद्धेः ॥
किमर्थस्तर्हि नियतग्रहणसमर्थनाय अयमियान् प्रयासः क्रियते ? नियतग्रहणमपि कार्यपक्षानुगुणमिति दर्शयितुम्, न पुनरेषैव कार्यत्वे युक्तिरित्यलं सूक्ष्मेक्षिकया ॥
शब्दस्य कर्मभिन्नत्वं प्रत्यक्षसिद्धमिति पक्षः
अपर आह—परिस्पन्दविलक्षणत्वस्य प्रत्यक्षत्वात् अकर्मत्वं शब्दस्य साध्यते, न समानजात्यारम्भकत्वात् इतीतरेतराश्रयस्पर्शोऽपि नास्तीति । तस्मात् सर्वथा परिशेषानुमानात् शब्दस्य गुणत्वसिद्धिः ॥
उभयत्र—गुणत्वे सजातीयारम्भकत्वे च ॥
भेदेति । अभेदे सति आकाशादिवत् नित्यत्वं स्यात् । भेदे सत्यपि परमाण्वादिवत् नित्यत्वं तु न सम्भवति, विनाशप्रतिभासात् ॥
शब्दस्य गुणत्वेऽपि महान्, अल्पः इत्यादिव्यबहारः नायुक्तः
कथं तर्ह्यस्य महत्त्वादियोगः ? “निर्गुणा गुणाः” इति हि काणादाः । अस्ति हि प्रतीतिः “महान् शब्दः” इति—समानजातीयगुणाभिप्रायं तत् कणादवचनमिति न दोषः । तस्मादाकाशगुणः शब्दः ॥
अपि च—
यथाऽऽत्मगुणता हीच्छाद्वेषादेरुपपत्स्यते ।
शब्दो नयेन तेनैव भविष्यति नभोगुणः ॥ ३२१ ॥
शब्दस्य शब्दान्तरजनकत्वं युक्तमेव
ये तु समानजातीयशब्दारम्भकत्वनिषेधहेतवः, “शब्दत्वात्” इत्यादयः परैरुपन्यस्ताः [पु। ५३५] —तेषामप्रयोजकत्वात् न साधनत्वम् ॥
इत्थं सन्तानवृत्त्या च शब्दग्रहणसम्भवे ।
कल्पनाऽल्पतराऽस्माकं न शब्दव्यक्तिवादिनाम् ॥ ३२२ ॥
शाक्यकापिलनिर्ग्रन्थग्रथितप्रक्रियां प्रति ।
यत्तु दूषणमाख्यातं अस्माकं प्रियमेव तत् ॥ ३२३ ॥
समानजातीयेति । “तेषां गुणरहितत्वं स्वात्मनि गुणान्तरानारम्भकत्वात् । तदनारम्भकत्वं च रूपादिषु रूपाद्यन्तरानुपलब्धेः, अनवस्थानाच्च” इत्येव श्रीधरेण कन्दल्यां [पु। ९४] युक्तिकथनात् रूपे रूपं नास्तीत्येवमङ्गीकारेऽपि सङ्ख्याद्यङ्गीकारे न हानिरिति भावः । ननु तर्हि गुणोऽपि द्रव्यवत् समवायिकारणं स्यात् इति चेत्—इष्टापत्तिः । अथवा इदं वैभवेनोक्तम् । महत्त्वादिकं शब्दोत्पत्तिहेतुभूताभिघाताख्यसंयोगौपाधिकं स्यात्, तथैवानुभवात् ॥
एवमनङ्गीकारे आकाशवत् आत्माऽपि न सिध्येदित्याह—अपि चेति ॥ इच्छाद्वेषादयो हि शरीरेन्द्रियाद्युपाधिका एव दृष्टा इति आत्माऽपि आकाशवदन्यथासिद्धः स्यात् ॥
अप्रयोजकत्वादिति । पूर्वोक्तदिशा शब्दस्य शब्दान्तरजनकत्वस्यानिवार्यत्वात्, अन्यथा आत्मगुणानामपि ज्ञानादीनां तथात्वप्रसङ्गादित्यर्थः । आत्मगुणानां तु तथात्वं तत्प्रकरणे साधयिष्यते ॥
तस्मात् कार्यपक्षे नियतग्रहणोपपत्तेः, अभिव्यक्तिपक्षे च तदभावात् कार्य एव शब्द इति स्थितम् ॥
तदिदमुक्तं सूत्रकृता—
“आदिमत्त्वादैन्द्रियकत्वात् कृतकवदुपचाराच्चानित्यः शब्दः” [न्या। सू। २-२-१३] इति ॥
आदिमत्वादिति संयोगविभागादीनां शब्दे कारकत्वं, न व्यञ्जकत्वमिति दर्शितम् । अतश्च न प्रयत्नानन्तरीयकत्वं अनैकान्तिकम् ॥
ऐन्द्रियकत्वादिति कार्यपक्ष एव शब्दस्य नियतं ग्रहणमित्युक्तम् । प्रतिपुरुषं प्रत्युच्चारणं च शब्दभेदस्यैन्द्रियकत्वादिति वा हेत्वर्थः । तेन प्रत्यभिज्ञादुराशा श्रोत्रियाणामपाकृता भवति ॥
कृतकवदुपचारादिति तीव्रमन्दविभागाभिभवादिव्यवहारादर्शनात् सुखदुःखादिवदनित्यः शब्द इति दर्शितम् ॥
तथा—
“प्रागूर्ध्वमुच्चारणादनुपलब्धेः आवरणानुपलब्धेश्च” [न्या। सू। २-२-१८]
इत्यनेन सूत्रेण शब्दाभावकृतमेव तदग्रहणमित्युक्तम् । न हि स्तिमिता वायवः शब्दमावरीतुमर्हन्ति । मूर्तं हि मूर्तेन व्यवधीयते, नामूर्तं, आकाशादिवत् । न च प्रकृत्यैवाकाशादिवदतीन्द्रियः शब्दः । तस्मात् क्षणिकप्रतीतेस्तत्कालमेव शब्दस्यावस्थानमिति अस्थानहेतोरपि नान्यथासिद्धत्वम् ॥
प्रागूर्ध्वमिति । उच्चारणात् प्राक्, उच्चारणादूर्ध्वं इत्यन्वयः ॥
अस्थानहेतोरिति । “अस्थानात्” [जै। सू। १-१-७] इति पूर्वपक्षसूत्रे—उत्पन्नस्य शब्दस्य अवस्थित्यदर्शनात् विनष्टः शब्दः इत्यनित्यत्वमुक्तम् । अस्य समाधानं “सतः परमदर्शनं विषयानागमात्” [जै। सू। १-१-३३] इति । विद्यमानस्यैव शब्दस्याग्रहणं इन्द्रियदेशाप्राप्त्यैव, न त्वविद्यमानत्वात् । वार्तिकोक्तशब्दानित्यत्वसाधनप्रकारः वार्तिककृता शब्दानित्यत्वे साधनमभिहितं “अनित्यः शब्दः, जातिमत्त्वे सत्यस्मदादिबाह्यकरणप्रत्यक्षत्वात्, घटवत्” [न्या। वा। २-२-१४] इति ॥ कुमारिलोक्तवार्तिकदूषणस्योद्धारः यत्तु अत्र जातीनामपि जातिमत्त्वादनैकान्तिकत्वमुद्भावितम् —“एकार्थसमवायेन जातिर्जातिमती यतः [हि वः] ” [श्लो। वा। १-१-६-३-३९] इति—तत् अत्यन्तमनुपपन्नम्—निस्सामान्यानि सामान्यादीनीति सुप्रसिद्धत्वात् । न हि घटे घटत्वपार्थिवत्वे स्तः इति घटत्वसामान्येऽपि पार्थिवत्वसामान्यमस्तीति शक्यते वक्तुम्, अतो निरवद्य एवायं हेतुः ॥ शब्दस्तु नित्यः, वायवीयसंयोगविभागाभिव्यङ्ग्यः । ततश्च ताल्वादिसंयोगविभागात् वायौ सूक्ष्माः संयोगविभागा जायन्ते । ते च क्रमशः श्रोत्रं प्राप्य तत्रापि शब्दमभिव्यञ्जयन्ति । श्रोत्रेण च वायुस्संयुक्तः, तत्समवेतश्च ध्वन्यात्मकः शब्दः । स एव च वर्णानामभिव्यञ्जकः । तथा च संयुक्तसमवायात् शब्दग्रहणम् [न्या। र। स्फोट। ३९ + शब्दानित्य-३४] । एवञ्च शब्दाभिव्यञ्जकवायवीयसंयोगविभागानां श्रोत्रदेशाप्राप्त्या शब्दस्याग्रहणम्, न तु अस्थानात् । यथा वा सत एवाकाशस्य कूपरूपस्य मृत्पूरणेऽग्रहणं तिरोधानादेव, न त्वस्थानात् तथेति “कूपपूरणयत्नेन खं तिरोधीयते यदा । अस्थानादित्ययं हेतुः तदाऽनैकान्तिको भवेत्” [श्लो। वा। १-१-६-३८] इत्युक्तं न युक्तम्—इत्यर्थः ॥
जातिमत्त्वे सति इति सामान्यादिवारणाय । आत्मवारणाय बाह्यपदम् ॥
न हीत्यादि । एकार्थसमवायो हि सामानाधिकरण्यविशेषः । सामानाधिकरण्यसम्बन्धश्च न विशिष्टवैशिष्ट्यव्यवहारहेतुः । तर्हि एकभूतलवृत्तित्वमात्रादपि “दण्डी” इत्यादिव्यवहारापत्तिः । यद्यपि “एकं रूपम्” इत्यादौ सामानाधिकरण्यस्यापि तथात्वमङ्गीकृतम्, अथापि जातिद्वयस्य तथात्वं तु न भवत्येव । जातिर्हि विलक्षणप्रतीतिनिर्वाहकतया सिद्धा । यदि एका जातिः अन्यत्रापि सामानाधिकरण्येन स्यात्, तर्हि कथं वैलक्षण्यनिर्वाहः इत्याद्यूह्यम् ॥
तेन यदुच्यते— [श्लो। वा। १-१-५, अनु। २१] “
जातिमत्त्वैन्द्रियत्वादि वस्तुसन्मात्रबन्धनम् ।
शब्दानित्यत्वसिध्यर्थं को वदेत् ? यो न तार्किकः ॥
” इति—तदविदिततार्किकपरिस्पन्दस्य व्याहृतम् ॥
मीमांसकोक्तशब्दनित्यत्वहेतूनामेवाप्रयोजकत्वम्
इह त्वप्रयोजका हेतवो भवन्ति—
ह्यस्तनोच्चारितस्तस्मात् गोशब्दोऽद्यापि वर्तते ।
गोशब्दज्ञानगम्यत्वात् यथोक्तोऽद्यैष गौरिति ॥ ३२४ ॥
विज्ञानग्राह्यता नाम वस्तुस्वाभाव्यबन्धना ।
नित्यत्वे कृतकत्वे वा न खल्वेषा प्रयोजिका ॥ ३२५ ॥
अप्रयोजकता चैवम्प्रायाणां चैवमुच्यते ।
स्वयं चैते प्रयुज्यन्ते हेतुत्वेनेति किं न्विदम् ॥ ३२६ ॥
शब्दानित्यत्वविचारनिगमनम्
एवं नित्यत्वे दुर्बलो युक्तिमार्गः
तस्मान्मन्तव्यः कार्य एवेति शब्दः ।
वाचोयुक्तित्वे वैदिको योऽनुवादः
न्याये प्रत्युक्ते किम्फलस्तत्प्रयोगः ॥ ३२७ ॥
कृतकत्वसावयवत्वादिप्रयुक्तेऽनित्यत्वे वक्तव्ये, वस्तुसत्तामात्रनिबन्धनं सर्ववस्तुसाधारणं जातिमत्त्वैन्द्रियकत्वादि तार्किकादन्यः को वदेत्—इत्युपहासः । अविदितेत्यादि । परिस्पन्दः—व्यवहार इति यावत् । न हि तार्किकाः जातिमत्त्वं, ऐन्द्रियकत्वं वा सर्ववस्तुसाधारणं वदन्ति ॥
वस्तुस्वाभाव्यबन्धनेति । ज्ञेयत्वं हि केवलान्वयि; न तु जाति मत्वादि ॥
शब्दस्यास्थिरत्वोपसंहारः
क्षणभङ्गिभावस्याभावादपि शब्दस्य क्षणिकतां न वक्तुमलम् । स्थूलविनाशभावादिति यदुक्तं [पु। ५४०] —तदप्यनृतम्—
सृक्ष्मविनाशापेक्षी नाशः स्थूलस्थिरस्य कुम्भादेः ।
1 प्रकृतितरलस्य नाशः शब्दस्य स एव हि स्थूलः ॥ ३२८ ॥
सत्त्वाद्यदि क्षणिकतां कथयेत्, पुरा वा
शब्दस्तदैष कथमक्षणिकोऽभिधेयः ।
युक्त्यन्तराद्यदि तदेव हि तर्हि चिन्त्यम्
23 किं प्रौढिवादबहुमानपरिग्रहेण ॥ ३२९ ॥
अलमतिविततोक्त्या त्यज्यतां नित्यवादः
कृतक इति नयज्ञैः गृह्यतामेष शब्दः ।
सति च कृतकभावे तस्य कर्ता पुराणः
कविरविरलशक्तिः युक्त एवेन्दुमौलिः ॥ ३३० ॥
इति श्रीजयन्तभट्टकृतौ न्यायमञ्जर्यां तृतीयमाह्निकम्