०२ प्रत्यक्षपरीक्षा

द्वितीयमाह्निकम्—प्रत्यक्षपरीक्षा प्रत्यक्षलक्षणम्
एवं प्रमाणानां सामान्यलक्षणे, विभागे च निर्णीते सति, अधुना विशेषलक्षणवर्णभावसर इति, सकलप्रमाणमूलभूतत्वेन पूर्वपठितत्वेन ज्यैष्ठ्यात् प्रथमं प्रत्यक्षस्य लक्षणं प्रतिपादयितुमाह—

इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् ॥ १-१-४ ॥

प्रत्यक्षमिति लक्ष्यनिर्देशः; इतरल्लक्षणम् । समानासमानजातीयव्यवच्छेदो लक्षणार्थः । समानजातीयं प्रमाणतयाऽनुमानादि, विजातीयं प्रमेयादि; ततो व्यवच्छिन्नं प्रत्यक्षस्य लक्षणमनेन सूत्रेणोपपाद्यते ॥ सूत्रस्यायुक्तताऽऽक्षेपः
अत्र चोदयन्ति—इन्द्रियार्थसन्निकर्षोत्पन्नत्वादिविशेषणैः स्वरूपं वा विशेष्यते ? सामग्री वा ? फलं वा ?

विभागे—चतुष्टयत्वेनेति शेषः ॥

समानेति । सजातीयविजातीयव्यावृत्तिः लक्षणस्य प्रयोजनमित्यर्थः ॥

चोदयन्तीति । अयमाशयः । अस्मिन् सूत्रे “प्रत्यक्षं” इति पदं लक्ष्यवाचकम्, अत एव विशेष्यम् । प्रत्यक्षशब्दश्च अफलरूपे अकरणरूपे च केवलज्ञाने, तादृशज्ञानकरणे इन्द्रियादौ, फलरूपे ज्ञाने च वर्तते । तदत्र प्रत्यक्षपदं किं केवलज्ञानस्वरूपमात्रपरम् ? उत ज्ञानकरणपरम् ? उत फलभूतज्ञानपरम् ? तत्राद्ये पक्षेऽव्याप्तिरतिव्याप्तिश्च । तदा हि अकरणस्याफलस्यैव च लक्षणमिदमिति भवति । तथा च फलरूपज्ञाने, इन्द्रिये च प्रमाणत्वेन वर्णनीये लक्षणा
तत्र स्वरूपविशेषणपक्षे, यत् एवंस्वरूपं ज्ञानं तत् प्रत्यक्षमिति तत्स्वरूपस्य विशेषितत्वात्, फलविशेषणानुपादानाच्च लक्षणमव्याप्त्यतिव्याप्तिभ्यामुपहृतं स्यात् । अव्याप्तिस्तावत्—अतथाविधस्वरूपस्य बोधस्य, इन्द्रियादेश्च निर्मलफलजनकतया लब्धप्रमाणभावस्यापि प्रामाण्यं नोक्तं भवेत् । अतिव्याप्तिश्च—तथाविधस्वरूपस्यापि ज्ञानस्याकारकस्य, वा संस्कारकारिणो वा स्मृतिं जनयतो वा संशयमादधानस्य वा विपर्ययमुत्पादयतो वा प्रमाणत्वं प्राप्नोति, फलस्याविशेषितत्वात् ॥

तद्विशेषणाभिधाने पुनः—अश्रुतसूत्रान्तराध्याहारप्रसक्तिः, अव्याप्तिश्च तदवस्थेति न स्वरूपविशेषणपक्षः ॥

नापि सामग्रीविशेषणपक्षः—तत्र हि—“इन्द्रियार्थसन्निकर्षोत्पन्नम्” इति इन्द्रियार्थसन्निकर्षोत्पन्नं सामग्र्यं इति व्याख्यातव्यम् । ज्ञानं, अव्यपदेश्यम्, अव्यभिचारि, व्यवसायात्मकमिति च तज्जनकत्वादुपचारेण तथा साकल्यं वर्णनीयमिति क्लिष्टकल्पना ॥ समन्वयः । तथा चानेन सूत्रेण सङ्ग्राह्यानामप्यसङ्ग्रहप्रसङ्गः । एवं प्रमाजनकस्य यथाऽसङ्ग्रहः तथा प्रमाऽजनकेऽतिव्याप्तिः । संस्कारादीनां प्रमात्वाभावेन तज्जनकं हि न प्रमाणत्वेन सङ्ग्राह्यम् । एवं यत् करणं न किञ्चिदपि फलमादधाति तदपि न प्रमाणत्वेन सङ्ग्राह्यम् । उक्तं तु स्वरूपलक्षणं तत्र वर्तत इत्यतिव्याप्तिः ॥

सामग्र्यमिति । कारणशब्दस्य कार्यशब्दवत्, सामग्रीशब्दस्य सामग्र्यशब्दः प्रतिकोटिभूतः । एतदुक्तं भवति—प्रत्यक्षपदं यद्यपि करणव्युत्पत्त्या सामग्रीपरं वक्तुं शक्यम्, परन्तु सामग्र्याः इन्द्रियार्थसन्निकर्षादिरूपायाः तज्जन्यत्वासम्भवेन ज्ञानरूपत्वाभावेन च इन्द्रियार्थसन्निकर्षोत्पन्नज्ञाननिष्ठकार्यतानिरूपकमिति व्याख्येयमिति ॥

फलविशेषणपक्षोऽपि न सङ्गच्छते—ज्ञानप्रत्यक्षशब्दयोः फलकरणवाचिनोः सामानाधिकरण्यप्रसङ्गात् । असमानाधिकरणप्रमाणलक्षणप्रस्तावात् । प्रत्यक्षं प्रमाणमुच्यते । तच्च करणमिति वर्णितम् । ज्ञानं तु तदुपजनितं फलमिति कथमैकाधिकरण्यम् ? तस्मात् पक्षत्रयस्याप्ययुक्तत्वात् पक्षान्तरस्याप्यसम्भवादयुक्तं सूत्रमिति ॥ सूत्रार्थसमर्थनम्
अत्रोच्यते—स्वरूपसामग्रीविशेषणपक्षौ तावत् यथोक्तदोषोपहतत्वात् नाभ्युपगम्येते । फलविशेषणपक्षमेव सम्मन्यामहे । तत्र च यत् वैय्यधिकरण्यं चोदितं, तत् “यतः” शब्दाध्याहारेण परिहरिष्यामः । यतः एवंविधविशेषणविशिष्टं ज्ञानाख्यं फलं भवति, तत् प्रत्यक्षमिति सूत्रार्थः । इत्थं च न क्वचिदव्याप्तिरतिव्याप्तिर्वा, न काचित् क्लिष्टकल्पना । “यतः” शब्दाध्याहारमात्रेण निरवद्यलक्षणोपवर्णनसमर्थसूत्रपदसङ्गतिसम्भवात् ॥

सामानाधिकरण्यप्रसङ्गादिति । फलविशेषणपक्षे ज्ञानपदं प्रत्यक्षपदं च सामान्यविशेषभावापन्नं, अत एव विशेषणविशेष्यभावापन्नं वाच्यमित्यर्थः । अस्तु तथैव, का हानिः ? इत्यत्राह—असमानाधिकरणेति । पूर्वं “प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि” इत्युद्दिष्टानां खलु लक्षणमुच्यते । तत्र च सूत्रे करणवाच्यनुमानादिपदसमभिव्याहृतं प्रत्यक्षपदमपि करणपरमेव । एवं च फलवाचिनो ज्ञानपदस्य, करणवाचिनः प्रत्यक्षपदस्य च कथं विशेषणविशेष्यभावरूपसामानाधिकरण्यसम्भव इति भावः ॥

यतश्शब्दाध्याहारेणेति । एवमेव वाचस्पतिमिश्रा अपि—अत्र “यतः” इत्यध्याहृत्य यत्तदोर्नित्याभिसम्बन्धात् “तत् प्रत्यक्षम्” इति प्रमाणवाचिप्रत्यक्षपदं योजनीयम् इति आहुः तात्पर्यटीकायाम् । निरवद्यलक्षणोपवर्णनसमर्थानि यानि सूत्रघटकपदानि तेषां सङ्गतिसम्भवात् नासाङ्गत्यमित्यर्थः ॥ स्वव्याख्याने बीजवर्णनम्
ननु समानाधिकरणे एव ज्ञानप्रत्यक्षपदे कथं न व्याख्यायेते ? किं “यतः” शब्दाध्याहारेण ? उक्तमत्र—करणस्य प्रमाणत्वात् ज्ञानस्य च तत्फलत्वात् फलकरणयोश्च स्वरूपभेदस्य सिद्धत्वात् ॥

तदत्र—

प्रमाणतायां सामग्र्याः तज्ज्ञानं फलमिष्यते ।
तस्य प्रमाणभावे तु फलं हानादिबुद्धयः ॥

प्रत्यक्षस्य प्रवृत्तिनिवृत्तिहेतुत्वाक्षेपः
ननु स्मृत्याद्यनेकबुद्धिव्यवधानसम्भवात् कथमिन्द्रियार्थसन्निकर्षोत्पन्नमालोचनाज्ञानं हानादिफलं भवेत् ? तथा हि— कपित्थादिजातीयमर्थं इन्द्रियादिसन्निकर्षादिसामग्रीत उपलभ्य तद्गतं सुखसाधनत्वमनुस्मरति—“एवञ्जातीयकेन मम पूर्वं सुखमुपजनितमभूत्” इति । ततः स्मृत्यनन्तरं परामर्शज्ञानमस्योपजायते— “अयं स कपित्थजातीयः” इति । तत उपादेयताज्ञानमुत्पद्यते— “यत एष सुखसाधनं कपित्थादिजातीयः पदार्थः, तस्मादुपादेयः” इति । अत्रान्तरे प्रथमस्येन्द्रियसन्निकर्षजन्मनः कपित्थालोचनाज्ञानस्य नामापि नावशिष्यत इति कथमस्य तत्फलत्वमिति ॥

नन्विति । इदं करणलक्षणपरमिति विस्मृत्य एतत्सूत्रमात्रद्रष्टुरियमाशङ्का ॥

प्रमाणतायामित्यादि । प्रमाणपदं करणार्थकत्वे सामग्रीपरम् । भावार्थकत्वे प्रमितिपरम् । तत्राद्ये ज्ञानमेव फलम् । द्वितीये प्रवृत्तिनिवृत्त्यादिनिश्चयः फलमित्यर्थः ॥

आलोचनाज्ञानम्—साक्षात्काररूपं सविकल्पकज्ञानम् । हानादिफलं— हानादिफलकम् । उपलभ्येति । इयमुपलब्धिरेव आलोचनाज्ञानम् । तद्गतं— कपित्थगतम् । “ततः” इत्यस्य विवरणम्—स्मृत्यनन्तरमिति । परामर्शज्ञानमिति । इदमेव शास्त्रे कुत्रचित् विकल्प इत्युच्यते । एष कपित्थादिजातीय इत्यन्वयः । कथमिति । हानोपादानादेरनुमानमूलकत्वात् इत्यर्थः ॥ प्रत्यक्षस्य प्रवृत्तिहेतुत्वे वाचस्पतिमतम्
अत्राचार्यास्तावदाचक्षते—साधु चोदितम् । सत्यम्, ईदृश एवायं ज्ञानानां क्रमः । न वयं प्रथममालोचनाज्ञानस्य उपादानादिषु प्रमाणतां ब्रूमः । तथा हि—प्रथममिन्द्रियार्थसन्निकर्षोत्पन्नमालोचनाज्ञानं इन्द्रियार्थसन्निकर्षादिसामग्रीस्वभावस्य प्रत्यक्षस्य प्रमाणस्य फलमेव, न तु स्वयं प्रमाणतां प्रतिलभते; स्मृतिजनकत्वात् । तदनन्तरं हि सुखसाधनत्वानुस्मृतिर्भवतीति सेयमनुस्मृतिरप्रमाणफलमपि सती प्रत्यक्षं प्रमाणं सम्पद्यते, “तथाऽयं कपित्थादिजातीयः” इतीन्द्रियविषयपरामर्शोत्पत्तौ इन्द्रियार्थसन्निकर्षेण सह व्याप्रियमाणत्वात् ॥

स पुनः परामर्शप्रत्ययः प्रत्यक्षजनितः धूमज्ञानवत् अनुमानं प्रमाणमुच्यते, परोक्षस्याग्नेरिव सुखसाधनसामर्थ्यस्य ततः अवगतेः ॥

प्रमाणतां—करणताम् । प्रत्यक्षस्य प्रमाणस्य—इन्द्रियाख्यस्य । स्मृतिजनकत्वादिति । प्रमाणं ह्यनुभवजनकम्; एवञ्च स्मृतिजनकत्वात् आलोचनाज्ञानं इन्द्रियाख्यप्रमाणस्य फलमेव, न तु प्रमाणमित्यर्थः । अप्रमाणफलमपि सती—प्रमाणफलं अभवत्यपि । साक्षात् इन्द्रियाद्यजन्यमपीत्यर्थः । ननु पूर्वानुभवजनितसंस्कारादुत्पन्नाया सुखसाधनत्वानुस्मृतेः कथं प्रत्यक्षप्रमाणत्वम् ? इति शङ्कायामाह—तथेति । नात्र स्मृतेः प्रत्यक्षप्रमाणत्वमुक्तं, किन्तु अनुस्मृतेः । इदन्तांशे तस्याः प्रत्यक्षत्वं वर्तत एव इन्द्रियसापेक्षत्वात् । प्रत्यभिज्ञा ह्यनुस्मृतिः । प्रत्यभिज्ञा च प्रत्यक्षमेवेत्यर्थः । इन्द्रियेत्यादि । इन्द्रियविषयवस्तुविषयकपरामर्शेत्यर्थः ॥

स पुनरित्यादि । धूमज्ञानं यथा वह्न्यनुमितिहेतुः, तथा “सोऽयं कपित्थजातीयः” इति परामर्शः सुखसाधनसामर्थ्यानुमितिहेतुर्भवतीत्यर्थः । प्रत्यक्षजनितः—सुखसाधनत्वानुस्मृतिजनितः । परम्परया प्रत्यक्षजनितो वा । स्वानुभवजनित इति यावत् । तथा च उपादानादिषु सुखसाधनत्वानुस्मृतिः प्रत्यक्षं प्रमाणं, परामर्शश्चानुमानरूपं प्रमाणमिति विवेकः । प्रकृते उपादेयं वस्तु ऐन्द्रियिकं, अनुमानस्थले तु तत् परोक्षमिति विशेषः अनन्तरवाक्येषु स्पष्टः ॥
यद्यपि न काचिदतीन्द्रिया शक्तिरस्मन्मते विद्यते; तथाऽपि स्वरूपसहकार्यादिदृष्टादृष्टकारणसमूहसन्निधानस्वभावमपि सामर्थ्यमतीन्द्रियमेव ॥

तस्मादेष कपित्थादिजातीयोऽर्थः सुखसाधनमिति वह्निमत्पर्वतप्रतीतिवत् तज्जातीयलिङ्गकमानुमानिकमिदं ज्ञानम् । तदिदमनुमानफलमपि सुखसाधनत्वनिश्चयात्मकं ज्ञानं इन्द्रियविषये कपित्थादावुपादेयज्ञानं इन्द्रियार्थसन्निकर्षेण सह जनयत् प्रत्यक्षं प्रमाणं भवति । तदेव च हृदि व्यवस्थाप्य भाष्यकृत् वभाषे—“यदा ज्ञानं वृत्तिः तदा हानोपादानोपेक्षाबुद्धयः प्रमितिः” इति ॥ आलोचनाज्ञानं मुख्यं प्रमाणमेव व्याख्यातारस्तु ब्रुवते—नायमीदृशो ज्ञानानां क्रमः; आद्यमालोचनाज्ञानं सुखसाधनत्वानुस्मृतिं उपजनयतीति—सत्यम्— स्मृत्या च तस्य विनश्यत्ता; विनश्यदवस्थं चेन्द्रियविषये कपित्थादौ सुखसाधनत्वनिश्चयमादधाति, सुखसाधनत्वज्ञानमेव चोपादेयताज्ञानमुच्यते, नान्यत् । परामर्शस्तु न कश्चिदन्तराले संवेद्यते । ननु कथं सुखसाधनसामर्थ्यं भवन्मतेऽनुमेयम् ? अतीन्द्रियस्य शक्त्यपरपर्यायस्य सामर्थ्यस्यानभ्युपगमादिति आशङ्क्य समाधत्ते—यद्यपीत्यादि । अतीन्द्रियधर्माधर्मादिघटितत्वात् सामग्र्याः अतीन्द्रियमेव सामर्थ्यमित्यर्थः ॥

ननु तर्हि प्रवृत्तिहेतुः अनुमानमेवेति प्रत्यक्षस्य प्रवृत्तिहेतुत्वं न सिद्धमेवेत्यत्राह—तदिदमिति । अस्य ज्ञानेऽन्वयः । इन्द्रियविषय इति । इदं ममोपादेयमिति हि उपादेयताज्ञानं; तच्च प्रत्यक्षकपित्थविषयमेवेति इन्द्रियार्थसन्निकर्षापेक्षा वर्तत एवेति हानोपादानयोः इन्द्रियं प्रमाणं भवत्येवेति । बभाष इति । प्रमाणविभागसूत्र इति शेषः । वृत्तिः—व्यापारः ॥

स्मृत्या—सुखसाधनत्वानुस्मृत्या । तस्य—आलोचनाज्ञानस्य । विनश्यत्ता—योग्यविभुविशेषगुणानां स्वोत्तरोत्पन्नगुणनाश्यत्वनियमादित्यर्थः । परामर्शः—“सोऽयं कपित्थजातीयः” इत्येवंरूपः पूर्वोक्तः । अन्तराले— आलोचनाज्ञान-उपादेयताज्ञानयोर्मध्ये ॥

तदेव साध्यं दर्शितम् । इन्द्रियार्थसन्निकर्षजनितमुपादेयताज्ञानफलकं अवकल्पते—इति किमसंवेद्यमानज्ञानकन्थाकल्पनेनेति ॥

ननु ! परामर्शोऽनुभूयत एव, न तु कल्प्यते । धूमज्ञानानन्तरमविनाभावं “यत्र धूमस्तत्राग्निः” इत्यनुस्मृत्य पराभृशति “तथा चायं धूमः” इति । असति तु परामर्शे न लिङ्गज्ञानं लिङ्गिनि प्रमाणतां प्रतिपद्येत; स्मरणजनकं हि तत् । न च स्मृतिजनकं प्रमाणमिष्यते । स्मरणानन्तरं च लिङ्गप्रतीतिर्भवन्ती नोपलभ्यानुवादेन भवेत्— “अयमग्निमान्” इति ॥

अपि च “तथा च कृतकः शब्दः” इति यत् उपनयवचनमवयवेषु पठ्यते, तस्य किं वाच्यं भविष्यति परामर्शापलापवादिनाम् । स्वप्रतिपत्तिवच्च परप्रतिपत्तिरवयवैर्जन्यते इति वक्ष्यामः । तस्मादप्रत्याख्येयः परामर्श इति ॥

कल्पनायां खलु दोषः । अनुभवात् सिद्धौ न वयं अपराधिन इत्याशयवान् शङ्कते—नन्विति । कुतः प्रमाणतां न प्रतिपद्येतेत्यत्र हेतुः—स्मरणजनकमिति । तत्—लिङ्गज्ञानम् । लिङ्गज्ञानं हि “एकसम्बन्धिज्ञानमपरसम्बन्धिस्मारकम्” इतिरीत्या स्वव्यापकत्वरूपसम्बन्धिनः वह्नेः स्मृतिजनकं सत् व्याप्तिस्मृतिजनकम् । स्मृतिजनकं च लिङ्गज्ञानं न प्रमाणं भवितुमर्हति, अनुभवजनकस्यैव प्रमाणत्वात् । विवेचितं चैतत् पूर्वमेव । अतः पूर्वोत्पन्नं लिङ्गज्ञानं न प्रमाणम् । किन्तु व्याप्तिस्मरणानन्तरमेव लिङ्गस्य प्रतीतिः कल्पनीया । सैव लिङ्गपरामर्श इत्युच्यत इति मध्ये परामर्शकल्पनमावश्यकमेवेति । उपलभ्येति । लिङ्गप्रतीतिः “अयमग्निमान्” इतिरीत्या अनुमेयं वस्तु पूर्वमेव प्रदर्शयन्ती न भवेत्, किन्तु “वह्निजातीयव्याप्यधूमजातीयवानयं” इत्येव भवेत् । न च तावता प्रकृतेष्टसिद्धिरिति भावः ॥

ननु परार्थानुमानमिदमुच्यते भवद्भिः । वयं तु स्वार्थानुमाने ब्रूमः इति चेत् तत्राह—स्वप्रतिपत्तिवच्चेति ॥ परामर्शस्य अनपेक्षता
अत्र वदन्ति—

न तावदन्तरा कश्चित् परामर्शोऽनुभूयते ।
अनुमेयमितेः पूर्वं ऊर्ध्वं च नियमस्मृतेः ॥ २ ॥

अत एवार्थमालोक्य विनैव हि दवीयसा ।
विलम्बेन व्यवस्यन्ति ग्रहणादिषु लौकिकाः ॥ ३ ॥

लिङ्गज्ञानं च विनश्यदवस्थमनुमेयप्रतीतौ व्याप्रियमाणं प्रमाणतां प्रतिपत्स्यते । तत्कृतैवोपलभ्यानुवादेन लिङ्गबुद्धिर्भविष्यति । तस्मात् कपित्थादिपदार्थदर्शनस्य परामर्शसोपानमनारोहत एवोपादेयज्ञानफलता वक्तुं युक्तेति ॥

अपि च अनुमेयविषये वह्न्यादौ सुखसाधनत्वानुस्मृतिकृतमुपादेयताज्ञानं तव न समस्त्येव । ततश्च तत्रापि “तथा चायं ज्वलनजातीयः” इतिपरामर्शो भवताऽभ्युपेय एव । स च किङ्करणकः ? इति निरूपणीयम् । न तावदिन्द्रियद्वारकः, पावकस्य परोक्षत्वात् । शब्दोपमाने त्वाशङ्कितुमपि तत्र न युक्ते ।

अनुमेयमितिः—अनुमेयविषये मितिः, अनुमितिरिति यावत् । दवीयसा—अधिकेन विलम्बेन विनैव—विलम्बं विनैव ग्रहणादिषु—उपादानादिषु, आदिना हानपरिग्रहः । तथा च प्रत्यक्षस्थले अनुमानस्थल इव न विलम्बोऽनुभूयत इति ऐन्द्रियिकमेवोपादेयताज्ञानम् । अन्यथा अनुमित्यधीनोपादेयताज्ञानात् प्रत्यक्षस्थले वैलक्षण्यं दुर्वचं स्यादिति ॥

तत्कृतैव—तादृशप्रमाणत्वकृतैव ॥

न समस्त्येवेति । प्रत्यक्षे प्रथमं वस्तुग्रहणमात्रं, सुखसाधनत्वनिर्णयश्च परामर्शाधीन इति यथोच्यते, तथा अनुमितिस्थलेऽपि अनुमानेन धर्मिमात्रं गृह्यते । इष्टसाधनत्वनिर्णयश्च पाश्चात्य इति खलु वक्तव्यम् । एवञ्चानुमित्या हानोपादानादिकं न स्यादेवेति । नन्वेतदिष्टमेव, यतः तत्रानुमानान्तरद्वारैव प्रवृत्त्यादिरित्यत्राह ततश्चेति । न युक्ते इति । शब्दस्योपस्थित्यभावेन, उपमानस्य शक्तिग्राहकत्वेन चेति शेषः । ननु अग्नेः परोक्षत्वेऽपि प्रत्यक्षो धूम एव प्रथमं वह्निं, ततस्तस्य सुखसाधनत्वं चावगमयतीति न दोष इति शङ्कते—
धूमाख्याल्लिङ्गादेव स उत्पद्यत इति चेत्—न—लिङ्गस्य परामर्शाविषयीकृतस्यानुमेयमितिजनननैपुण्यानभ्युपगमात् । धूमावमर्शस्य तदानीमतिक्रान्तत्वात् । तथा हि—प्रथमं लिङ्गज्ञानं, ततो व्याप्तिस्मरणम्, ततो धूमपरामर्शः, ततो वह्निज्ञानम्, तेन धूमपरामर्शस्य विनश्यत्ता, ततोऽग्नौ सुखसाधनत्वानुस्मरणम् । तदा च धूमपरामर्शस्य विनाश एवेति तस्मिन् विनष्टे न केवलो धूमस्तदानीमनलपरामर्शं जनयितुमुत्सहते ॥

अग्नौ सुखसाधनत्वानुस्मरणानन्तरं पुनः धूमज्ञानं इन्द्रियादुत्पद्यत इति चेत्—मैवम्—अननुभवात् । भवतु वा धूमज्ञानम्, तथाऽपि धूमज्ञानानन्तरं पुनर्व्याप्तिस्मृतिः पुनः धूमपरामर्शश्चावश्यं भवेत्, इत्यत्रान्तरे हुतभुजि सुखसाधनत्वानुस्मृतिरतिक्रान्तेति तत्सहायपरामर्शजन्यसुखसाधनत्वनिश्चयोत्पादो न स्यात् । सुखसाधनत्वानुस्मरणेन हि विनश्यदवस्थेन जन्यमानः प्रत्यक्षविषयोऽसौ दृष्ट इति ॥ धूमेति । लिङ्गस्य—लिङ्गस्वरूपस्य । अनभ्युपगमात् । परामृश्यमानलिङ्गस्यैवानुमितिकरणत्वात् इत्यर्थः । ननु प्रथममेव परामर्शस्य निष्पन्नत्वेन परामृश्यमानं लिङ्गमस्त्येवेति का हानिरित्यत्राह—धूमावमर्शस्येति । तदा— सुखसाधनत्वानुस्मरणकाले । केवलः—परामर्शाविषयः । अनलपरामर्शे— “तथा चायं ज्वलनजातीयः” इति परामर्शं उपादेयत्वहेतुभूतम् ॥

ननु पूर्वधूमज्ञानस्य नाशेऽपि ज्ञानान्तरं कल्प्यत इति शङ्कते— अग्नाविति । इन्द्रियादिति । न हि स्मरणस्य मध्ये सम्भवः, तस्योद्बोधकाद्यपेक्षत्वादित्याशयः । अननुभवात् पुनः ज्ञानान्तरस्याननुभवात् । ननु फलबलेन कल्प्यताम्, अनुभवस्त्वतिसूक्ष्मः विना शपथं न हि निरसितुं शक्य इत्यत्राह—भवतु वेति । व्याप्तिस्मृतिरिति । सुखसाधनत्वाकारविशिष्टवह्निव्याप्तिस्मृतिरित्यर्थः । अतिक्रान्तेति—सुखसाधनत्वानुस्मृत्यनन्तरं खलु पुनः धूमज्ञानादिपरम्परा कल्पितेति परामर्शकाले तादृशानुस्मृतिनाशोऽनिवार्य एवेति भावः ॥ परामर्शस्य अवसरोऽपि नास्ति
अथ मन्यसे न तदानीं पुनर्धूमज्ञानव्याप्तिस्मरणतत्परामर्शोत्पादादिज्ञानशृङ्खलाऽभ्युपेयते, किन्तु प्राक्तन एव धूमपरामर्शः कृशानौ सुखसाधनत्वानुस्मरणानन्तरं स्मरिष्यते; तेन स्मृतिविषयवर्तिना सता “तथा चायमग्निजातीयः” इति ज्वलनपरामर्शो जनयिष्यते इति—एतदप्ययुक्तम्—अग्निज्ञानानन्तरं युगपत्स्मरणद्वयोदयप्रसङ्गात्—तदैव सुखसाधनताऽनुस्मृतिः, तदैव धूमपरामर्शस्मृतिरिति । न हि क्रमोत्पादे किञ्चित्कारणमस्ति । ज्ञानयौगपद्यं च शास्त्रे प्रतिषिद्धम् ॥ परामर्शस्य दुर्घटता
भवतु वा क्रमोत्पादः; तथाऽपि स्मरणद्वयसमनन्तरमुपजायमानः पावकपरामर्शो नोपलभ्यानुवादेन जायते । क्रमपक्षेऽपि च वह्निज्ञानानन्तरं तद्गतसुखसाधनत्वानुस्मरणमेव पूर्वं भवेत्, ततो धूमपरामर्शस्मरणम्, तेन तस्य विनश्यत्ता, ततोऽग्नौ तज्जातीयत्वपरामर्शः, तेन सुखसाधनत्वस्मृतेर्विनाश एवेति पुनरपि सा विनष्टा

स्मृतिविषयवर्तिनेति । सुखसाधनत्वाकारविशिष्टेन चेत्यर्थः । स्मरणद्वयमित्युक्तं; किं तत् द्वयम् ? इत्यत्राह—तदैवेति । अग्निज्ञानानन्तरक्षण एवेत्यर्थः । अस्तु तर्हि क्रमेणैव स्मरणद्वयोत्पत्तिरित्यत्राह—न हीत्यादि । अग्निज्ञानानन्तरक्षणे सुखसाधनत्वस्मृतिस्तु सम्मत एव, धूमपरामर्शसंस्कारस्य सत्वेन धूमपरामर्शस्मृतिरपि तदैव भवेदिति कथं क्रमः नियम्यत इति । ननु अस्तु यौगपद्यं स्मृतिद्वयस्येत्यत्राह—ज्ञानेति । एतत्तत्त्वं च मनःप्रकरणे स्पष्टीभविष्यति ॥

ननु संस्कारस्य सत्त्वमात्रान्न स्मरणोत्पत्तिः; किन्तु उद्बोधकसमवधानादेव । अदृष्टादीनामप्युद्बोधककोटिप्रविष्टत्वेन तत्समवधानाऽसमवधाने कार्यानुमेये इति शङ्कायामाह—भवतु वेति । उपलभ्येति । अनुमितवह्निव्यक्त्यन्तर्भावेनेत्यर्थः । पूर्वं भवेदिति । अनलार्थिनः खलु धूमदर्शनात् वह्न्यनुमितिः । तस्य च प्रथमं सुखसाधनत्वस्मरणमेव जायेत । एवञ्च न प्रकृतेष्टसिद्धिरिति ।
सती सुखसाधनत्वनिश्चयजन्मनि न व्याप्रियेतेति । न च धूमलिङ्गानुमितवह्निज्ञानानन्तरं धूमस्मरणमुचितम्, अनलमुपलभ्य हि तद्गतसुखसाधनत्वमनुस्मरति लोकः, न धूममिति ।

तेनानुमानविषये परामर्शोऽतिदुर्घटः ।
प्रत्यक्षविषयेऽप्येवं, किमनेन शिखण्डिना ? ॥ ४ ॥

उपनयवाक्यस्य सार्थक्यम् यत्पुनः—उपनयवचनमभिधेयरहितमप्रयोज्यं प्रसज्यत इति परिचोदितम्—तत्—अवयविप्रसङ्ग एव [१० आह्निके] निरूपयिष्यामः । तस्मादन्तरावर्तिनः परामर्शज्ञानस्याभावात् आद्यमालोचनाज्ञानमेव हेयादिज्ञानफलं यथोक्तरीत्या भविष्यतीति ॥ सुखसाधनत्वनिश्चयः प्रत्यक्षरूपोऽपि भवत्येव ननु च ! प्रत्यक्षफलमिह मीमांस्यं वर्तते, स चायं सुखसाधनत्वाल्लिङ्गादुद्गम्यमानः आनुमानिक इति न प्रत्यक्षफलतामवलम्बते— सत्यमेतत्—किन्तु सम्बन्धग्रहणसमये सुखसाधनत्वनिश्चयः प्रत्यक्षजनितोऽपि समस्ति, यतोऽनुमानं प्रवर्तते; महानसादौ धूमाग्नि- निश्चयजन्मनि—निश्चयोत्पत्तौ । वस्तुतस्तु वह्निनिश्चयानन्तरं पुनः धूमस्मरणकल्पनमप्ययुक्तमित्याह—न चेति । उपसंहरति—तेनेति । एवमिति । अनुमानस्थले मध्ये परामर्शमन्तराऽपि प्रवृत्तिनिर्वाहे प्रत्यक्षस्थलेऽपि किं परामर्शकल्पनयेति भावः । शिखण्डिना—नपुंसकेन-प्रयोजनरहितेनेति यावत् । परामर्शेणेति शेषः ॥

अप्रयोज्यं—प्रयोक्तुमनर्हम् ॥

ननु अनुमानस्थले यथा तथा वाऽस्तु, प्रत्यक्षे तु न तथा वक्तुं शक्यमिति शङ्कते—नन्विति । प्रत्यक्षस्य फलमिति विग्रहः । न हि सुखसाधनत्वं प्रत्यक्षग्राह्यो धर्मः । प्रतिपुरुषं सुखस्य वैचित्र्येण, तस्य वस्तुधर्मत्वासम्भवात् । अतः पूर्वं तज्जातीयं वस्तु सुखसाधनत्वेनानुभूय तज्जातीयत्वलिङ्गात् खलु पुरोवर्तिनि सुखसाधनत्वं निश्चिनोति । अतस्तत्र परामर्शादिकमावश्यकमेवेति शङ्काशयः । सत्यमिति । अयमाशयः—कुत्रचित् प्रत्यक्षस्थलेऽनुमानात्सुखसाधनत्वनिश्चयेऽपि सर्वत्राप्येवमिति न निर्बन्धः । अन्यथा तादृशानुमितिहेतुभूतस्य व्याप्तिग्रहणस्यैव दुर्घटत्वात् । महानसादौ प्रत्यक्षतः
दर्शनवत् । अतः सम्बन्धग्रहणकालभाविनं सुखसाधनत्वनिश्चयं चेतसि विधाय भाष्यकारस्तत्फलत्वम्प्रत्यक्षज्ञानस्य वर्णितवान् इति ॥ प्रत्यक्षेण सुखसाधनत्वनिश्चयाक्षेपः, समाधानं च ननु ! सम्बन्धग्रहणकालेऽपि सुखसाधनत्वशक्तेरतीन्द्रियत्वात् कथं प्रत्यक्षगम्यता ? तज्जातीयत्वाल्लिङ्गादेव तदाऽपि तद्ग्रहणे इष्यमाणे ततः पुनः सम्बन्धग्रहणादनवस्था । सुखादेव कार्यात् तदा तदवगम इति चेत्, तदाऽपि नाज्ञातसम्बन्धमवगतिजननसमर्थमिति तत्सम्बन्धग्रहणवेलायामपि शक्तिग्रहणे प्रत्यक्षस्याक्षमत्वात् अनुमानान्तरापेक्षायामनवस्था तदवस्था—उच्यते— न खल्वतीन्द्रिया शक्तिः अस्माभिरुपगम्यते ।
यया सह न कार्यस्य सम्बन्धज्ञानसम्भवः ॥ ५ ॥

स्वरूपसहकारिसन्निधानमेव शक्तिः, सा च सुगमैव ॥ सिद्धान्ते शक्तेरैन्द्रियिकत्वसम्भवः ननु ! सहकारिणां मध्ये अदृष्टमप्यनुप्रविष्टम् । न च तत् प्रत्यक्षगम्यम्, अतीन्द्रियत्वाद्धर्मस्येति साऽपि न सुगमा शक्तिः— नैतत्—न धर्मादि शक्तित्वादतीन्द्रियम्; अपि तु तत् नैसर्गिकमेव । जगद्वैचित्र्येण तदनुमानं वक्ष्यामः । तदेवं तदितरसहकारिस्वरूप- गृहीतव्याप्तिकस्यैव पर्वतादौ वह्न्यनुमितिसम्भवः । यदि व्याप्तिग्रहणमप्यनुमानात्, तर्ह्यनवस्था । अतः यत्रकुत्रचित् सुखसाधनत्वं प्रत्यक्षेण गृह्यत एवेति वक्तव्यम् । तदभिप्रायेण भाष्यं प्रवृत्तमिति ॥

व्याप्त्याख्यसम्बन्धग्रहणकालेऽपि यद्यनुमानादेव सम्बन्धग्रहणं, तर्ह्यनवस्येति दूषणं न युक्तम्, यतः प्रत्यक्षेण सम्बन्धग्रहणमेव न सम्भवतीति शङ्कते— नन्विति । तदापि—सम्बन्धग्रहणकालेऽपि । ननु तज्जातीयत्वाल्लिङ्गान्न सुखसाधनत्वशक्त्यनुमानं, किन्तु सुखरूपकार्यादेव तत्कारणभूतशक्तेरनुमानं ब्रूम इति शङ्कते—सुखादेवेति । अक्षमत्वात्—शक्तेरतीन्द्रियत्वेनेति शेषः ॥

साऽपि—अनतिरिक्ताऽपि । अस्य शक्तिरित्यत्रान्वयः । तदितरेति । अदृष्टादिकं कार्यसामान्यकारणम् । न तस्य प्रत्येकानुमानेन कारणत्वं ग्राह्यम्,
सन्निधानात्मिकायाः शक्तेः प्रत्यक्षग्राह्यत्वसम्भवात् उपपन्नं तज्जातीयत्वलिङ्गस्य सम्बन्धग्रहणम् ॥ मानसप्रत्यक्षेण सुखसाधनत्वनिश्चयसम्भवः ननु ! कपित्थादिकार्यस्य सुखस्येदानीं न चक्षुर्ग्राह्यत्वमिति तत्सम्बन्धिग्रहणाभावात् कथं चाक्षुषप्रत्ययगम्यः सम्बन्धः ? न चाक्षुषगम्यः सम्बन्धः, किन्तु मानसप्रत्यक्षगम्यः ।

सुखादि मनसा बुध्द्वा कपित्थादि च चक्षुषा ।
तस्य कारणता तत्र मनसैवावगम्यते ॥ ६ ॥

मनसा सुखसाधनत्वग्रहणेऽतिप्रसङ्गपरिहारः ननु च ! मनसा कपित्थादेः सुखसाधनत्वग्रहणाभ्युपगमे बाह्यविषयप्रमितिषु मन एव निरङ्कुशं करणमिदानीं संवृत्तमिति कृतं चक्षुरादिभिः । अतश्च न कश्चिदन्धो वा बधिरो वा स्यात्— नैष दोषः—प्रथमप्रवृत्तसमनस्कवाह्येन्द्रियजनितविज्ञानविषयीकृतवपुषो वाह्यस्य वस्तुनो मनोग्राह्यत्वाभ्युपगमात्, तस्यैव नियामकत्वात् नोच्छृङ्खलमन्तःकरणं बाह्यविषये प्रवर्तते ॥ धर्मिग्राहकानुमानग्राह्यत्वात् । अतः तद्व्यतिरिक्तसहकारिसन्निधानमेवात्र ग्राह्यम् । तस्य च प्रत्यक्षत्वं सम्भवत्येवेति । सम्बन्धग्रहणमिति । प्रत्यक्षेणेति शेषः ॥

ननु कपित्थं हि चाक्षुषं, सुखं त्वचाक्षुषम् ? कथमुभयोः कार्यकारणभावरूपसम्बन्धः चक्षुर्गम्यः ? सम्बन्धिनोरग्रहणे च कथं सम्बन्धग्रहणमिति शङ्कते—नन्विति । ननु मानसत्वं वा कथम् ? सुखस्य मानसत्वेऽपि कपित्थस्य मानसत्वाभावात्, इत्यत्राह—सुखादीति ॥

कपित्थादेः—कपित्थादिनिष्ठस्य । कृतमित्यादि । सुखसाधनत्वं हि कपित्थधर्मः, अत एव बाह्य इति तस्य मनसा ग्रहणे, तद्वदेव सर्वमपि बाह्यं मनसा गृह्येत चेत् बाह्येन्द्रियाणि व्यर्थान्येवेति । अतश्चेति । चक्षुरिन्द्रियविनाशेऽपि मनसा रूपग्रहणे को वाऽन्धः स्यादित्यर्थः । समनस्केति । मनस्सहकृतेत्यर्थः । अयं भावः—मनः सर्वथा न बाह्ये विषये सर्वत्र सुखसाधनत्वं न मानसं भवितुमर्हति ननु च ! सम्बन्धग्रहणकाले यदि मानसेन प्रत्यक्षेण सुखसाधनत्वावधारणं, तर्हि तत्काल इव व्यवहारकालेऽपि मानसप्रत्यक्ष एव सुखसाधनत्वनिश्चयोऽस्तु, किं तज्जातीयत्वलिङ्गापेक्षणेनेति— मैवम्—शब्दलिङ्गेन्द्रियाद्युपरतौ केवलमन्तःकरणं करणं कल्प्यते, परिदृश्यमानायाः प्रतीतेरपह्नोतुमशक्यत्वात् । लिङ्गाद्युपायान्तरसम्भवे तु यदि मन एव केवलं कारणमुच्यते तन्मानसमेवैकं प्रमाणं स्यात्, न चत्वारि प्रमाणानि भवेयुरित्यलं प्रसङ्गेन ॥

तस्मात् सम्बन्धग्रहणकाले यत्तत्कपित्थादिविषयमक्षजं ज्ञानं तत् उपादेयादिज्ञानफलमिति भाष्यकृतश्चेतसि स्थितम् । सुखसाधनत्वज्ञानमेवोपादेयादिज्ञानमित्युक्तम् ॥ प्रमाण-फलयोरभेदवादिमतम् आह—किमर्थमयमीदृशः क्लेश आश्रीयते ? प्रमाणादभिन्नमेव फलमस्तु ! तदेव चक्षुरादिजनितं कपित्थादिपदार्थदर्शनं विषयप्रकाशेन व्याप्रियमाणमिवाभातीति करणमुच्यताम्, तदेव विषयानुभवस्वभावत्वात् फलमिति कथ्यताम् । इत्थं च प्रमाणफले न भिन्नाविकरणे भविष्यतः, अन्यत्र प्रमाणं, अन्यत्र फलमिति । तदुक्तम् [प्रमाणसमुच्चये—९] —

“सव्यापारप्रतीतित्वात् प्रमाणं फलमेव सत्” इति ॥ प्रवर्तत इति न वक्तुं शक्यम्, घटादिविषयकस्मरणादीनामनुपपत्तेः । अतः प्राथमिकग्रहणमेव केवलेन मनसा न सम्भवतीति वक्तव्यमिति प्रकृते न दोष इति ॥

व्यवहारकाले—हानोपादानादिव्यवहारकाले । गत्यन्तरासम्भव एवायं न्याय इत्याह—भैवमिति । इन्द्रियादीत्यादिना उपमानपरिग्रहः ॥

उपादेयादिज्ञानं—उपादेयत्व-हेयत्वप्रकारकज्ञानम् ॥

दिङ्नागोक्तमनुवदति—आहेति । ननु प्रमाणं च सिद्धरूपं, फलं तु साध्यस्वरूपम् । तदुभयमेकं कथं भवेत् ? इत्यत्राह—तदेवेति । अस्य दर्शनमित्यनेनान्वयः । विषयमुखतः दर्शनं करणं, स्वरूपतस्तु फलं भवतीत्यर्थः । सव्यापारेति । “प्रमाणत्वोपचारस्तु निर्व्यापारे न विद्यते”
तदिदमनुपपन्नम्—प्रमाणस्य स्वरूपहानिप्रसङ्गात् । करणं हि प्रमाणमुच्यते—प्रमीयते चानेनेति । न च क्रियैव क्वचित् करणं भवति । क्रियायां साध्यायां कारकं किमपि करणमुच्यते । तत्र यथा “दात्रेण चैत्रः शालिस्तम्बं लुनाति” इति कर्तृकर्मकरणानि क्रियातो भिन्नान्युपलभ्यन्ते, तथेहापि “चक्षुषा घटं पश्यति” इति दर्शनक्रियातः पृथग्भाव एव तेषां युक्तः, न दर्शनं करणमेवेति । प्रमा, प्रमाणमिति तु फले प्रमाणशब्दस्य साधुत्वाख्यानमात्रं; कृतिः, करणं इतिवत् ॥ प्रमाणफलयोः सामानाधिकरण्यं नाम किम् ? यत्तु—न भिन्नाधिकरणे प्रमाणफले इत्थं भविष्यतः इति— सेयमपूर्ववाचोयुक्तिः । किमत्राधिकरणं विवक्षितम् ? यदि ताव- इत्युत्तरार्धं ज्ञेयम् । अत्रैवं वृत्तिः—“व्यापारेण सह प्रतीतत्वादित्यर्थः । अत्र प्रमाणत्वोपचारनिमित्तं प्रमाणफलमेव भवतीति प्रमाणप्रतीतिः फलम् । अत्र बाह्यानां यथा प्रमाणात् फलं अर्थान्तरं तथा न भवति” इति । ज्ञानं विनाऽर्थस्य, अर्थं विना ज्ञानस्य चाननुभवात् अन्यतरपारिशेष्ये आवश्यके अन्तरङ्गेन ज्ञानेनैव सर्वनिर्वाहे, विषयाभिमुखं तदेव प्रमाणं, स्वामिमुखं तु फलमिति हार्द आशयः ॥

प्रमाणफलयोर्भेदं सनिदर्शनमुपपादयति—तदिदमित्यादि । क्रियातः— लवनरूपक्रियातः । तेषां—कर्तृकर्मकरणानाम् । ननु तर्हि करणार्थव्युत्पन्नस्य प्रमाणपदस्य प्रमापदस्य च समानो निर्देशः कथमित्यत्राह—प्रमेति । साधुत्वाख्यानमात्रमिति । फलेऽपि प्रमाणशब्दः प्रयुक्तः साधुरेव । न तावता फलकरणयोरभेदसम्भवः । व्युत्पत्तिवैचित्र्येण एकस्य पदस्यार्थद्वयसाधारण्येऽपि नार्थद्वयैक्यं सम्भवति । यथा—“स्त्रियां क्तिन्” इति सूत्रेण भावार्थक्तिनन्तः कृतिशब्दः, “ल्युट् च” इतिविहितभावार्थकल्युडन्तकरणशब्देन समानार्थकोऽपि करणार्थकल्युडन्तकरणशब्देन समानार्थो न हि भवति । तथा प्रकृतेऽपि भावार्थकल्युडन्तप्रमाणशब्दस्य भावार्थकाङन्तप्रमाशब्दस्य च समानत्वेऽपि करणार्थकल्युडन्तप्रमाणशब्दस्य न समानत्वमिति भावः ॥

यत्त्वित्यादि उक्तिदूषणम् । अयं सङ्ग्रहः—फलं करणं च भिन्नविषयकं न भवतीत्यर्थः ? उत भिन्नाश्रयं न सम्भवतीत्यर्थः ? आद्ये इष्टापत्तिः ।
द्विषयः ? तदस्त्येवैकविषयत्वम् । यद्विषयं हि दर्शनम्, स एव चक्षुरादेः करणस्य विषयः । आश्रयोऽस्त्वधिकरणमिति बौद्धगृहे तावदवाचको ग्रन्थः । क्षणिकत्वेन सर्वकार्याणां निराधारत्वात् ॥

अस्मत्पक्षे तु भिन्नाश्रययोरपि फलकरणभावः पाककाष्ठयोर्दृष्टः । तथा चक्षुर्ज्ञानयोरपि भविष्यतीति । क्वचित्तु भिन्नयोरपि ज्ञानयोः फलकरणत्वेन स्थितयोः लिङ्गलिङ्गिज्ञानयोरिव विशेषणविशेष्यज्ञानयोरिव चैकात्म्याश्रवत्वमस्ति । न त्त्वनेन समानाश्रयत्वेन प्रयोजनम्, चक्षुरादावनिर्वहणात् ॥

अथ एकफलनिष्पत्तौ व्यापारसमानाश्रयत्वमुच्यते, तदपि भवतु कारकान्तराणां; न तु फलस्वभावस्य ज्ञानस्य फलनिष्पत्तौ व्यापारः सम्भवति ॥

यदपि सव्यापारप्रतीतित्वादित्युच्यते—तदपि प्रमाणफलयोर्भिन्नतामेव सूचयति । न हि स्वरूपनिष्पत्तौ सव्यापारत्वमुपपद्यते; अपि तु पृथग्भूतफलनिर्वृत्तावेवेति ॥ इन्द्रियस्य ज्ञानस्य च एकविषयत्वात् । न द्वितीयः, बौद्धमते उभयाश्रयस्य एकस्य वस्तुनः अनङ्गीकारात् इति ॥

ननु व्यधिकरणयोः प्रमाप्रमाणयोर्वा साध्यसाधनभावः कथमित्यत्राह— अस्मत्पक्षे त्विति । एवं भिन्नाश्रययोः साध्यसाधनभावमुक्त्वा भिन्नविषययोः समानाश्रययोरपि तमाह—क्वचिदिति । एकात्म्येति । एकात्मवृत्तित्वमिति यावत् । किन्तु एतादृशं समानाश्रयत्वं निरुपयोगीत्याह—न त्वनेनेति । चक्षुरादामिति । भिन्नाधिकरणकर्याः चक्षुर्दर्शनयोः साधनसाध्यभावदर्शनादित्यर्थः ॥

व्यापारसमानाश्रयत्वमिति । चक्षुर्दर्शनयोः भिन्नाधिकरणत्वेऽपि तयोर्व्यापारस्य विषये समानत्वात् तत्कृतं सामानाधिकरण्यमस्त्येव । दर्शनस्य तु विषयत्वं सम्बन्धः, चक्षुषस्तु संयोगस्सम्बन्ध इति विशेषः ॥

भिन्नतामेवेति । सव्यापारत्वनिर्व्यापारत्ववैलक्षण्यस्य भवतैवोक्तत्वादित्याशयः ॥ प्रमाणफलयोरभेदः अनुभवविरुद्धः
ननु ! वस्तुस्थित्या फलमेव ज्ञानं, फलमपि तु भवत् विषयानुभवं प्रति व्यापृतमिति । अयि मुग्धबुद्धे ! विषयानुभव एव ज्ञानमुच्यते, न तु विषयानुभवः विषयानुभवे सव्यापारो भवति ॥

अथ मनुषे ? विषयाधिगमाभिमानः तस्मिन् सति भवतीति ? कोऽयमभिमानो नाम ? विषयानुभवात् भिन्नः ? अभिन्नो वा ? अभेदे सति, तस्मिन् सति भवतीत्यसङ्गता वाचो युक्तिः । भेदे त्वस्मन्मतानुप्रवेशः ॥

अपि च ज्ञानं विषयाधिगमे व्यापृतमिति कृत्वा विषयाधिगमाभिमानमुपजनयति ? उत विषयाधिगमस्वभावत्वादेव ? इति विचारे विषयाधिगमात् पृथग्भूतस्य तत्र व्याप्रियमाणस्यानुपलम्भात् विषयाधिगमस्वभावमेव ज्ञानमवधार्यते । तत्कृतश्चाभिमान इति फलमेव ज्ञानमवकल्पते न करणमिति । तथा च लोक फलत्वमेव ज्ञानस्यानुमन्यते, न करणत्वम् । तथा ह्येवं वदति, चक्षुषा पश्यामि, लिङ्गेन जानामीति; न तु ज्ञानेन जानामीति व्यपदिशन् कश्चिद्दृश्यते ॥

विषयानुभव एवेति । न हि निर्विषयं किञ्चित् ज्ञानं क्वचिद्दृष्टमित्यर्थः ॥

विषयाधिगमः—सविषयत्वम् । तस्मिन् सति—सविषयतादशायाम् । सविषयत्वं खलु ज्ञानस्य ज्ञानत्ववत् कश्चन धर्मः । एवञ्च सविषयत्वाभावेऽपि ज्ञानत्वं कुतो निवर्तेत । नैल्याभावेऽपि वटे घटत्ववत् अतश्च सविषयत्वकृतं प्रमाणत्वं, ज्ञानत्वकृतं फलत्वमिति सिद्धं सामानाधिकरण्यमिति बौद्धाशयः । सिद्धान्ते तु सविषयं वस्तु करणं, तदभिमानः फलं इति चेत्, सिद्धं करणफलत्वयोः वैयधिकरण्यमित्याशयः ॥

अपि च सविषयत्वं नैल्यादिवत् न निरूपितस्वरूपविशेषणधर्मः, किन्तु कम्बुग्रीवादिवत् स्वरूपनिरूपकधर्मः । अतस्तदभावे तत् ज्ञानमेव न स्यात् । अतः फलकरणयोरैक्यं न सम्भवत्येवेति चाह—अपि चेत्यादिना ॥

ननु ! सत्स्वपि चक्षुरादिषु विषयज्ञानमनुपजनयत्सु न करणं व्यपदिशति लोकः, जनयत्सु च व्यपदिशतीति लोके करणोत्पादकत्वादेव तेषां करणत्वव्यपदेशः, न साक्षात् करणत्वादिति— तदयुक्तम्—चक्षुराद्येव करणं, न तु तेनान्यत् करणमुपजन्यते । किं हि तदन्यत् करणम् ? ज्ञानमिति चेत्—कस्यां क्रियायां तत् करणमिति परीक्ष्यतामेतत् । न ह्यात्मन्येव किञ्चित्करणं करणं भवतीति ॥

यत्तु ज्ञानमनुपजनयति चक्षुरादौ न करणतामाचष्टे लोकः— तद्युक्तमेव । न हि क्रियोत्पत्तावव्याप्रियमाणं करणं कारकं भवति । तेन चक्षुरादेर्ज्ञानक्रियामुपजनयतः करणत्वम्, ज्ञानस्य तु फलत्वमेवेति युक्तस्तथा व्यपदेशः ॥

प्रमाणस्य प्रमाणत्वं तस्मादभ्युपगच्छताम् ।
भिन्नं फलमुपेतव्यं एकत्वे तदसम्भवात् ॥ ७ ॥

ननु “चक्षुषा पश्यामि” इति व्यवहारः घटाद्यनुभववेलायामेव । अतश्च चक्षुषः करणत्वं घटादिदर्शनाधीनं जातमित्यौपाधिकमेव चक्षुरादेः करणत्वमिति शङ्कते—नन्विति । यद्यपि ज्ञानजनकत्वकृतं चक्षुरादेः करणत्वं ज्ञानशेषत्वात् ज्ञानाधीनं, तथापि नेदमौपाधिकम् । साधनं हि स्वतः साध्यशेषभूतम् । दण्डादीनामपि हि घटकरणत्वं घटाधीनमेव, न तावता दण्डादेः करणत्वमेव औपाधिकमिति वक्तुं शक्यं इत्याशयवान् समाधत्ते—तदयुक्तमिति । न हीति । करणं किञ्चित् आत्मन्येव न हि करणं भवति इत्यन्वयः । अनुमितिदृष्ट्या करणभूतमपि लिङ्गज्ञानादिकं चक्षुरादिदृष्ट्या न करणं भवति, अपि तु चक्षुषः फलमेव धूमदर्शनम् । अतः स्वस्मिन् स्वं करणं न भवत्येवेत्यर्थः ॥

ननु तर्हि ज्ञानमजनयतः चक्षुरादेः करणत्वं न स्यात् । कार्यजनकं हि करणमिति शङ्कामिष्टापत्त्या परिहरति—यत्त्वित्यादि । पाकक्रियां कुर्वति सति पाचकोऽयमिति व्यवहारः इतरकाले तथा व्यवहारस्तु उपलक्षणतया, स्वरूपयोग्यतया वा नेय इति भावः ॥ प्रमाणप्रमेयप्रमितीनामभेदनिरासः
यस्तु मूढतरः प्रमाणप्रमेयफलव्यवहारमेकत्रैव ज्ञानात्मनि निर्वाहयितुमुद्यच्छति [प्रमाणसमुच्चये ११] — “ यदाभासं प्रमेयं तत् प्रमाणफलते पुनः ।
ग्राहकाकारसंवित्त्योः त्रयं, नातः पृथक् कृतम् ॥

” इति—तमपवर्गाह्निके ज्ञानाद्वैतदलनप्रसङ्गेन दुराचारं निर्भर्त्सयिष्यामह इत्यलं विस्तरेण । तस्मात् सुष्ठूक्तं—“यदा ज्ञानं प्रमाणं, तदा हानादिबुद्धयः फलम्” इति ॥ प्रत्यक्षलक्षणपरीक्षोपसंहारः
तदेवं फलविशेषणपक्षे “यतः” शब्दाध्याहारेण वाचकं सूत्रं— यत इन्द्रियार्थसन्निकर्षोत्पन्नत्वादिविशेषणविशेषितं ज्ञानाख्यं फलं भवति, तत् प्रत्यक्षमिति ॥ इन्द्रियार्थसन्निकर्षोत्पन्नम् इतिपदस्य प्रयोजनम्
तत्र इन्द्रियार्थसन्निकर्षोत्पन्नपदं अर्थानपेक्षजन्मनः स्मृत्यादिज्ञानस्य, अर्थजनितस्यापि च परोक्षविषयस्यानुमानादिज्ञानत्त्य व्यवच्छेदार्थम् । अतः तज्जनकस्य न प्रत्यक्षता प्रसज्यते ॥

ननु इन्द्रियार्थसन्निकर्षोत्पन्नमिन्द्रियगत्यनुमानमप्यस्ति । तद्धि इन्द्रियार्थसन्निकर्षेण लिङ्गभूतेन जन्यते, देशान्तरप्राप्त्येव तपनगमनानुमानमिति कथमनेन पदेनानुमानमपाक्रियते—

यस्तु मूढतरः—दिङ्नागादिः । यदाभासमिति । अत्र वृत्तिः—ऽयोगाचारास्तु बाह्यार्थमपलपन्तः ज्ञानस्यैवानादिवासनोपप्लावितः नीलपीतादिविषयाकारः प्रमेयम्, स्वाकारः प्रमाणम्, स्वसंवित्तिः फलमिति मन्यन्ते । यथाऽऽहुः—“यदाभासं॥॥॥पृथक्कृतम्” इति ॥

तज्जनकस्य—स्मृत्यादिजनकस्य । प्रत्यक्षता—प्रत्यक्षप्रमाणता ॥

लिङ्गभूतेनेति । लिङ्गस्यानुमितिकरणत्वादित्यर्थः । मदीयं चक्षुः, गमनशालि, दूरस्थेन घटेन संयुक्तत्वात्, इत्यनुमानाकारः । अत्र चानुमाने
नैतदेवम्—इन्द्रियेण स्वविषयसन्निकृष्टेन सता तत्रैव यद्विज्ञानमुत्पद्यते तत् इन्द्रियार्थसन्निकर्षोत्पन्नमिह ब्रूमहे । न चेदृशमिन्द्रियगत्यनुमानम् ॥

कुतो विशेषप्रतिलम्भ इति चेत्—उत्पन्नग्रहणादिति ब्रूमः । उत्पन्नग्रहणेन हि सन्निकर्षम्य कारकत्वं ख्याप्यते । तच्चापीन्द्रियविषयेऽर्थे ज्ञानमुत्पादयतो निर्वहति । इन्द्रियगत्यनुमाने तु न सन्निकर्षं कारकमाहुः, अपि तु ज्ञापकम् । अत एव स्वग्रहणसापेक्षः तदनुमानेऽ व्याप्रियते, न रूपादिप्रमिताविव तन्निरपेक्ष इति ॥ इन्द्रियार्थपदविवरणम् इन्द्रियाणि घ्राणरसननयनस्पर्शनश्रोत्राणि पृथिव्यादिभूतपञ्चकप्रकृतीनि वक्ष्यन्ते [८ आह्निके] । अर्थास्तु गन्धरूपरसस्पर्शशब्दाः गन्धत्वादिस्वजात्यवच्छिन्नाः, तदधिकरणानि पृथिव्यप्तेजांसि द्रव्याणि, तदधिष्ठानाः सङ्ख्यादयो गुणाः, उत्क्षेपणादीनि कर्माणि, तद्वृत्तीनि इन्द्रियार्थसन्निकर्ष एव हेतुरिति लिङ्गविधया इन्द्रियार्थसन्निकर्षजन्यत्वं एतदनुमाने वर्तत इत्यर्थः । तत्रैवेति । यत्र इन्द्रियं संयुक्तं, तद्विषयकं ज्ञानं अत्र विवक्षितम् । उक्तानुमाने तु इन्द्रियार्थयोः सन्निकर्षेण इन्द्रियगतेरनुमानं, न तु सन्निकर्षविषयस्येति । तथा च इन्द्रियार्थसन्निकर्षनिष्ठकारणतानिरूपितं यत् स्वविषयविषयकनिष्ठं कार्यत्वं तद्वदित्यर्थः ॥

विशेषेति । कार्यताविशेष इत्यर्थः । इन्द्रियार्थसन्निकर्षनिष्ठकारणतानिरूपितकार्यतावदिति सामान्यतोऽर्थस्तत्पदाद्भवति । तत् कथं कार्यतायां इन्द्रियविषयविषयकनिष्ठत्वं लभ्यते ? इति शङ्कःशयः । ख्याप्यत इति । उत्पत्तिशब्दस्य तादृशकार्य एव मुख्यत्वात् । ज्ञापकमिति । हेतुः द्विविधः कारकः, ज्ञापकश्च । आद्यः मुख्यः, दण्डात् घटः इत्यादौ । द्वितीयः गौणः, धूमात् वह्निमान् इत्यादौ । एवञ्च इन्द्रियार्थसन्निकर्षस्य मुख्यं हेतुत्वं कारकत्वरूपं स्वत प्राप्तमिति । अत एव—ज्ञापकत्वादेव । असौ—इन्द्रियार्थसन्निकर्षः ॥

भूतपञ्चकप्रकृतीनि—भूतपञ्चकसमवायिकारणकानि । अर्थाः—इन्द्रियविषयाः । पृथिव्यप्तेजांसीति । वायोः स्पर्शानुमेयत्वादेवमुक्तिः । तद्वृत्तीनि—
सामान्यानि, येषां स्पर्शनेन चक्षुषा ग्रहणं कणव्रतमते निरूपितं तेऽर्थाः । प्रागुक्तश्चाभावोऽप्यर्थ एव; विचार्य गम्यमानत्वात् ॥ सन्निकर्षभेदः सन्निकर्षस्त्विन्द्रियाणामर्थैः सह षट्प्रकारः । तत्र द्रव्यं चक्षुषा त्वगिन्द्रियेण वा संयोगात् गृह्यते । तद्गतो रूपादिर्गुणः संयुक्तसमवायात् । रूपत्वादिसामान्यानि संयुक्तसमवेतसमवायात् गृह्यन्ते । चक्षुषा संयुक्तं द्रव्यं, तत्र समवेतं रूपं, रूपे च समवेतं रूपत्वमिति । समवायाच्छब्दो गृह्यते । श्रोत्रमाकाशद्रव्यम्, तत्र समवेतः शब्दः । शब्दत्वं समवेतसमवायात् गृह्यते; श्रोत्राकाशसमवेते शब्दे तद्धि समवेतमिति । संयुक्तविशेषणभावादभावग्रहणं व्याख्यातम् [पु। १५०] । इह घटो नास्तीति— चक्षुषा संयुक्तो भूप्रदेशः, तद्विशेषणीभूतश्चाभाव इति ॥ सन्निकर्षसत्त्वे प्रमाणम् ननु ! सन्निकर्षावगमे किं प्रमाणम् ? व्यवहितानुपलब्धिरिति ब्रूमः । यदि ह्यसन्निकृष्टमपि चक्षुरादीन्द्रियं अर्थं गृह्णीयात्; व्यवहितोऽपि ततोऽर्थ उपलभ्येत, न चोपलभ्यते; तस्मादस्ति सन्निकर्षः ॥ अव्यवधानमात्रं न प्रत्यक्षप्रयोजकम् ननु ! अव्यवधानमेवास्तु, किं सन्निकर्षेण ?—मैवम्— द्रव्यगुणकर्मवृत्तीनि । स्पर्शनेन—त्वगिन्द्रियेण । विचार्य गम्यमानत्वादिति—घटोऽस्ति न वेति संशये निर्णयार्थं प्रवर्तमानः घटं तदभावं वा निश्चिनोति । अत्र यथा घटः पदार्थः, तथा घटाभावोऽपि पदार्थ एवेत्यर्थः ॥

आकाशद्रव्यं—आकाशरूपं द्रव्यम्; एवं “श्रोत्राकाश” इत्यत्रापि ॥

व्यवहितानुपलब्धिः—कुड्यादिव्यवहितवस्त्वनुपलब्धिः । सन्निकर्षाभावे कुड्यव्यवहितस्याप्युपलब्धिप्रसङ्गः । व्यवहितः—कुड्यादिनेति शेषः ॥

ननु तर्हि अव्यवधानमेव प्रत्यक्षत्वप्रयोजकं कल्प्यतां, किं सन्निकर्षेण ? न च कुड्यादिव्यवधानाभावेऽपि चक्षुर्निमीलनदशायां प्रत्यक्षापत्तिरिति शङ्क्यम्; पक्ष्मचर्मण एव तत्र व्यवधानत्वात् इति शङ्कते—नन्विति । चक्षुरुन्मीलनदशायां अनवधानात् प्रत्यक्षाभावस्तु मतद्वयेऽपि समान इति भावः ।
इन्द्रियाणां कारकत्वेन प्राप्यकारित्वात् । संसृष्टं च कारकं फलाय कल्पत इति कल्पनीयः संसर्गः । एतच्च इन्द्रियपरीक्षायां निपुणं निर्णेष्यते [८ आह्निके] इति नेह विविच्यते । रसस्पर्शनयोश्च स्पष्टं प्राप्यकारित्वमुपलभ्यते इति तत्सामान्यादिन्द्रियान्तरेष्वपि कल्पनीयमिति ॥

ननु ! एवं सत्यर्थाक्षिप्तः कारकत्वादेव सन्निकर्ष इति स्वकण्ठेन कस्मादुच्यते ? षड्विधत्वज्ञापनार्थमित्युक्तम् ॥

उत्पन्नग्रहणेन इन्द्रियार्थयोर्ज्ञानजनकत्वं दर्शयति । तत्र इन्द्रियं करणत्वेन जनकम्, अर्थस्तु कर्मत्वेन ॥

ननु ! अर्थस्य ज्ञानजनकत्वं कुतोऽवगम्यते ? तद्विषयज्ञानोत्पादादेव । स्वतस्साकारत्वस्य निराकृतत्वात् [४१-४२ पु।] । प्रकारान्तरेण प्रतिकर्मव्यवस्थाया असिद्धेः ॥

ननु ! प्रयोजनमेतत्, प्रमाणं पृष्टोऽसि, तद्ब्रूहि—उच्यते— एतदेव प्रमाणम्—अन्यस्यापि वीरणादेः कर्मकारकस्य कटादिकार्योत्पत्तौ प्रत्यक्षानुपलम्भप्रतिपन्नाभ्यामन्वयव्यतिरेकाभ्यां यथा कारकत्वेनेति । न हि क्रियावेशमन्तरा कारकत्वं निर्वहतीत्यर्थः । संसृष्टं— स्वविषयेणेति शेषः ।

ननु सन्निकर्षमन्तरा इन्द्रियाणां कारकत्वमेव यदि न भवति, तर्हि “इन्द्रियोत्पन्नम्” इत्येबालं, किमर्थं “इन्द्रियार्थसन्निकर्षोत्पन्नम्” इति—इति शङ्कते—नन्विति । सन्निकर्षः अर्थाक्षिप्त इत्यन्वयः । अर्थाक्षिप्तः— अर्थादेव सिद्धः—अन्यथाऽनुपपत्त्या सिद्ध इति यावत् । स्वकण्ठेन— स्ववाचकशब्देन । अत्र स्वशब्दः सन्निकर्षपरः । षड्विधत्वेत्यादि । प्रमेयानुरोधात् खलु इन्द्रियषट्ककल्पनमिति भावः ॥

अथ उत्पन्नपदप्रयोजनमाह—उत्पन्नप्रहणेनेति । तदनन्तरत्वादिकं विहायेति शेषः । एतेन अर्थानां काल्पनिकत्वं निरस्तमित्याशयः ॥

शङ्कते नन्विति । कुतः—कथम् ? तद्विषयेति । अर्थविषयकेत्यर्थः । प्रतिकर्मव्यवस्था—प्रतिनियतविषयव्यवस्था । एतद्विस्तरस्तु नवमाह्निके द्रष्टव्यः ॥

प्रमाणं पृष्टोऽसीति । न तु प्रयोजनमिति शेषः । वीरणं— तृणविशेषः । प्रत्यक्षानुपलम्भेति । दर्शनादर्शनेत्यर्थः । स्वानुभवैकवेद्यत्वे
कारणत्वमवधार्यते, तथाऽर्थस्यापि ज्ञानोत्पत्तौ । यथा हि देवदत्तार्थी कश्चित् गृहं गतः, तत्रासन्निहितं न पश्यति देवदत्तम्, क्षणान्तरे चैनमायान्तं पश्यति, तत्रान्वयव्यतिरेकाभ्यां देवदत्तसदसत्त्वानुवर्तिनौ ज्ञानोत्पादानुत्पादाववधार्य मानसेन प्रत्यक्षेण चन्दनसुखवदस्य तत्कारणतां प्रतिपद्यते ॥

ननु ! वीरणकटयोः पृथगुपलम्भात् युक्त एष न्यायः, अर्थस्तु ज्ञानात् पृथक् न कदाचिदुपलभ्यत इति दुरधिगमौ तत्रान्वयव्यतिरेकौ—उच्यते—अयमेव पृथगुपलम्भः, यदसन्निहितेऽर्थे न तद्विषयमबाधितं ज्ञानमुत्पद्यत इति । तदलमस्मिन्नवसरे ज्ञानवादगर्भचोद्योद्विभावयिषया; भविष्यत्येतदवसरे [९ आह्निके] इति ॥ उत्पन्न पदप्रयोजनम् यथा चेन्द्रियाणां करणानां अन्वयव्यतिरेकाभ्यां ज्ञानकारणत्वं, एवमर्थस्य कर्मणोऽपीत्युत्पन्नग्रहणेन दर्शितम् ॥ सुखादयोऽपि मानसप्रत्यक्षविषयाः ननु ! इन्द्रियार्थसन्निकर्षोत्पन्नपदेन सुखादिविषयं प्रत्यक्षं न सङ्गृहीतम्—न न सङ्गृहीतम्—मनस इन्द्रियत्वात्, सुखादेरर्थस्य चन्दनसुखदृष्टान्तः । अस्य—विषयस्य । यथा चन्दनसुखं मानसप्रत्यक्षवेद्यं, तथा विषयस्य प्रत्यक्षकारणत्वं स्वानुभवसिद्धमित्यर्थः ॥

“सहोपलम्भनियमात् अभेदो नीलतद्धियोः” इति वदन् पृच्छति— नन्विति । वीरणं—तृणविशेषः । यदि ज्ञानार्थयोर्भेदः, तर्हि कुत्रचित् ज्ञानं जातं अर्थं व्यभिचरेदिति भावेन—अबाधितमिति । यथा चेत्यादि । अर्थस्य ज्ञानजनकत्वं कथमवगम्यते ? इति पृच्छता हि, इन्द्रियाणां ज्ञानजनकत्वं सम्भवति इत्यङ्गीकृतम् । तत्र यत् प्रमाणं तदेवात्रापीति भावः ॥

न सङ्गृहीतमिति । सूत्रे “घ्राणरसनचक्षुस्त्वक्छ्रोत्राणि भूतेभ्यः” इति कथनात् एभिरिन्द्रियैः सुखादेरग्रहणात्, “इन्द्रियार्थसन्निकर्षजन्यत्वं” सुख
तद्ग्राह्यत्वात् । भौतिकघ्राणादीन्द्रियधर्मवैलक्षण्यात्तु मनसस्तद्वर्गे परिगणनं न कृतमिति ॥ सन्निकर्षाणामुपयोगप्रकारः तच्चेदं प्रत्यक्षं चतुष्टय-त्रय-द्वयसन्निकर्षात् प्रवर्तते । तत्र बाह्ये रूपादौ विषये चतुष्टयसन्निकर्षात् ज्ञानमुत्पद्यते—आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेनेति । सुखादौ तु त्रयसन्निकर्षात् ज्ञानमुत्पद्यते, तत्र चक्षुरादिव्यापाराभावात् । आत्मनि तु योगिनः द्वयोरात्ममनसोरेव संयोगात् ज्ञानमुपजायते; तृतीयस्य ग्राह्यस्य ग्राहकस्य वा तत्राभावात् । तस्मात् सुखादिज्ञानसङ्ग्रहात् इन्द्रियार्थसन्निकर्षोत्पन्नमिति युक्तमुक्तम् । आत्ममनसोस्तु सदपि ज्ञानजनकत्वमिह न सूत्रितम्, सर्वप्रमाणसाधारणत्वात् ॥ ज्ञानपदप्रयोजनम् ज्ञानग्रहणं विशेष्यनिर्देशार्थम् । तस्य हि इन्द्रियार्थसन्निकर्षोत्पन्नत्वादीनि विशेषणानि । तान्यसति विशेष्ये कस्य विशेषणानि स्युरिति ॥

अथवा सुखादिव्यावृत्त्यर्थं ज्ञानपदम् । इन्द्रियार्थसन्निकर्षोत्पन्नं हि सुखमपि भवति । तत्र तज्जनकं कारकचक्रं प्रमाणं मा भूत्, ज्ञानजनकमेव प्रमाणं यथा स्यादिति ज्ञानग्रहणम् ॥ प्रत्यक्षे नास्तीत्यव्याप्तिरित्यर्थः । ननु यदि मनः इन्द्रियं, तर्हि इन्द्रियसूत्रे कुतः न पठितमित्यत्राह—भौतिकेति । वैलक्षण्योपपादकतया भौतिकेपदम् ॥

आत्मेति । आत्ममनैन्द्रियार्थानां चतुर्णामत्र सन्निकर्षः । त्रयेति । आत्मा, मनः, सुखादिरिति त्रयं बोध्यम् । योगिन इति । यद्यप्यहम्प्रत्यये सर्वेषामपि स्वात्मा विषयीभवत्येव, अथापि यथाऽवस्थितात्मसाक्षात्कारः योगिनामेव । अन्यथा सर्वेषामपि तत्त्वज्ञानित्वप्रसङ्गः ॥

अव्याप्त्यतिव्याप्त्यसम्भवान्यतमवारणायैव पदप्रयोगः लक्षणवाक्ये युक्त इत्याशयेनाह—अथवेति । सुखमपि भवतीति । अन्ततः तस्यापि मनस्सन्निकर्षजन्यत्वादित्यर्थः ॥ सुखादीनां ज्ञानरूपत्वाक्षेपः
अत्र शाक्याश्चोदयन्ति—न ज्ञानपदेन सुखादिव्यवच्छेदः कर्तुं युक्तः, शक्यो वा; सुखादीनामपि ज्ञानस्वभावत्वात् । ज्ञानस्यैवामी भेदाः, सुखं दुःखं इच्छा द्वेषः प्रयत्न इति । कारणाधीनो हि भावानां भेदो भवितुमर्हति । समानकारणानामपि तु भेदेऽभिधीयमाने न कारणकृतं पदार्थानां नियतं रूपमिति तदाकस्मिकत्वप्रसङ्गः । तदुक्तम् [प्रमाणवार्तिकं—३-२५१] — “ तदतद्रूपिणो भावाः तदतद्रूपहेतुजाः ।
तत्सुखादि किमज्ञानं विज्ञानाभिन्नहेतुजम् इति ।

” तस्मात्, ज्ञानरूपाः—सुखादयः—तदभिन्नहेतुजत्वात्—इति ॥ सुखादीनां ज्ञानरूपत्वनिराकरणम्
तदिदमनुपपन्नम्—प्रत्यक्षविरुद्धत्वाद्धेतोः । सुखादिसंवेद्यमानमानन्दादिरूपतयाऽनुभूयते, ज्ञानं विषयानुभवस्वभावतयेति प्रत्यक्षसिद्धभेदत्वात् कथमभेदे अनुमानं क्रमते ?

सुखादिकं ज्ञानस्यैवाकारविशेष इति वादिनो बौद्धस्य मतमुपक्षिपति— अत्रेति । ज्ञानस्यैवामी भेदा इति । तथा च प्रमाणवार्तिकं—“सुखदुःखाभिलाषादिभेदा बुद्धय एव ताः” [३-४४९] इति । अत्र युक्तिमाह—कारणाधीन इति । नियतं रूपं—तत्तद्वस्तुप्रतिनियतः आकारः । तदाकस्मिकत्वप्रसङ्गः— कार्यवैलक्षण्यस्य निर्हेतुकत्वापत्तिः । तदतदिति । यथासङ्ख्यमन्वयः । तद्रूपहेतुजाः तद्रूपिणो भावाः, अतद्रूपहेतुजाः अतद्रूपिणो भावाश्च भवन्ति । मृत्पिण्डजातीयादुत्पन्नं मृज्जातीयं, तद्विजातीयाच्चोत्पन्नं कार्यं तद्विजातीयमेव भवति । एवञ्च यादृशेन कारणेन आत्ममनस्संयोगादिना ज्ञानमुत्पद्यते, तादृशेनैव कारणेनोत्पद्यमानं सुखादि अज्ञानं—ज्ञानविलक्षणं भवति किम् ? तदभिन्नहेतुजत्वात्—ज्ञानेन साकं अभिन्नहेतुजत्वात्; ज्ञानहेतुजातीयहेतुजन्यत्वादिति यावत् ॥

कार्ययोः वैलक्षण्यस्यानुभवसिद्धत्वात् तदभिन्नहेतुजत्वं नास्तीत्युपपादयति—सुखादीति । ज्ञानं हि बाह्यं विषयमपि क्रोडीकरोति, न तथा सुखम् ॥

अत एवेदमपि न वचनीयम्—एकमेवेदं संविद्रूपं हर्षविषादाद्यनेकाकारविवर्तं पश्यामः, तत्र यथेष्टं सञ्ज्ञाः क्रियन्तामिति— संविदो विषयानुभवस्वभावतयैव प्रतिभासात्, सुखादेश्च विषयानुभवस्वभावस्यानुस्यूतस्याप्रतिभासात् । ज्ञानमेव विषयग्रहणरूपं प्रकाशते; न सुखं, दुःखं वा ॥

यस्तु सुखज्ञानं दुःखज्ञानमिति प्रतिभासः, सः ज्ञानस्वभावमेदकृत एव, संशयज्ञानं विपर्ययज्ञानमितिवत्—उक्तमत्र— संशयविपर्ययादौ विषयानुभवस्वभावत्वमनुस्यूतमवभाति । संशयो हि विषयग्रहणात्मकोऽनुभूयते, अनिश्चितं तु विषयं गृह्णाति । विपर्ययोऽपि विषयग्रहणात्मक एव, विपरीतमसन्तं वा विषयं गृह्णाति । न तु विषयग्रहणस्वभावं सुखं दुःखं चानुभूयते । अतः अन्य एवायं ग्राह्यैकस्वभावः आन्तरो धर्मः सुखदुःखादिरिति घटज्ञानवद्विषयतयैव ज्ञानं भिनत्ति, न स्वभावभेदेन संशयज्ञानवदिति ॥ ज्ञानसुखादयः न स्वप्रकाशाः
तत्रैतत् स्यात्—स्वप्रकाशत्वात् सुखादेः न ग्राह्यैकस्वभावत्वम् । अतश्च ग्राह्यग्रहणोभयस्वभावत्वात् ज्ञानमेव तदिति—मैवं वोचः—स्वप्रकाशत्वं ज्ञानेऽपि प्रतिक्षिप्तम् [पु। ४१] , प्रतिक्षेप्स्यते [९ आह्निके] च । तत् कुतः सुखादौ भविष्यति । न हि ग्रहणस्वभावं कश्चित् सुखमनुभवति ज्ञानवदिति ॥

अत एव—ज्ञानसुखयोः सर्वथा विलक्षणत्वादेव । ननु न ज्ञानमेव सुखं, किन्तु ज्ञानस्याकारभेदः; अतः प्रतिभासभेदो युक्त इत्यत्राह—सुखादेरिति । यथा हि मृदाकारविशेषे घटे “मृदयम्” इति प्रतिभासः, तथा ज्ञानस्य आकारभूतं यदि सुखं, तर्हि विषयानुभवस्वभावं प्रतीयेतेत्यर्थः ॥

अनुस्यूताकारप्रतिभासं शङ्कते—यस्त्विति । समाधत्ते—उक्तमिति । ग्राह्यैकस्वभावः—विषयमात्ररूपः । अवधारणेन ज्ञानवत् विषयित्वं व्यवच्छिद्यते । घटज्ञानवदिति । सुखज्ञानमिति हि घटज्ञानमितिव्यवहारतुल्यमित्यर्थः ॥

स्वप्रकाशत्वस्यैव निर्वचनं—ग्राह्यग्रहणोभयस्वभावत्वादिति । विषयाणां घटादीनां ज्ञानेनैव भानम् । ज्ञानस्य तु स्वत एव । अतः ज्ञानं सुखादयः ज्ञानेनैव गृह्यन्ते ननु ! अस्य प्रकाशत्वानभ्युपगमे सुखादेरुत्पादानुत्पादयोरविशेषात् सर्वदा सुखित्वं, न कदाचिद्वा स्यात्—इति—

नैतदेवम्—उत्पन्नमेव सपदि सुखं गृह्यते ज्ञानेनेति कथमनुत्पन्नान्न विशिष्यते । प्रत्युत स्वप्रकाशसुखवादिनामेष दोषः, स्वप्रकाशसुखोत्पादात् तेनैव स्वप्रकाशेन सुखेनान्योऽपि सुखी स्यात्, स्वप्रकाशस्य दीपादेः सर्वान् प्रत्यविशिष्टत्वात् । क्वचित् सन्ताने स्वप्रकाशसुखोत्पादात् तेनैव स्वप्रकाशेन अन्योऽपि सुखी स्यात्, यस्यापि सुखं नोत्पन्नमिति ॥

किञ्च किमेकं एव ज्ञानं सर्वसुखदुःखाद्यशेषाकारभूषितमिष्यते ? उत किञ्चित्सुखात्मकं, किञ्चिद्दुःखात्मकमिति ?

आद्ये पक्षे, सर्वाकारखचितज्ञानोपजननादेकस्मिन्नेव क्षणे परस्परविरुद्धसुखदुःखादिधर्मप्रबन्धसंवेदनप्रसङ्गः ॥

उत्तरस्मिंस्तु, किञ्चित्सुखज्ञानं, किञ्चिद्दुःखज्ञानमिति यत्किञ्चिदसुखदुःखखचितं विषयानुभवस्वभावमपि ज्ञानमनुभूयमानमेषितव्य- विषयमिव आत्मानमपि विषयीकरोति । इदमेव स्वप्रकाशत्वम् । उत्पन्नं हि सुखं स्वयं गृह्यत एव ॥

अविशेषादिति । उत्पन्नस्य हि सुखादेः स्वतो भानं न सम्भवति, अस्वप्रकाशत्वात् । ज्ञानेन ग्रहणाङ्गीकारे तस्यापि ज्ञानस्य—अस्वप्रकाशत्वेन ज्ञानान्तरगवेषणात् अनवस्था । अतः उत्पादानुत्पादयोरविशेष एवेति । सुखित्वमिति । “स्यात्” इत्याकर्षः । कदाचिद्वा इत्यनन्तरं “सुखित्वं” इत्यनुषङ्गः । तथा च सदैकरूपत्वमेवात्मनः स्यादित्यर्थः ॥

ननु द्वित्वादिवद्भवतु, का हानिः ? इत्यत्राह—किञ्चेति ॥

आद्य इत्यादि । आद्यपक्षे एकमेव ज्ञानं; द्वितीये तु नानाज्ञानम् । किञ्चित् ज्ञानं सुखात्मकं, अन्यच्च किञ्चित् ज्ञानं दुःखात्मकमित्यर्थः ॥

असुखदुःखखचितं—सुखदुःखाखचितं—उदासीनस्वभावम् । एषितव्यमेवेति । सर्वमपि सुखदुःखान्यतरोपरक्तमेव भवतीति न हि प्रतिज्ञातुं
मेव । तच्च न स्वच्छम्; अपि तु केनचिद्धटादिना विषयेणोपरक्तं, अन्वयव्यतिरेकाभ्यां च घटाद्युपजननापायेऽपि बोधस्वभावमनुवर्तमानं प्रतीयते । तदिदानीं सुखज्ञानमप्यनुभूयमानं सुखेन विषयभावजुषा घटादिनेवोपरज्यते इति गम्यते, न स्वरूपेणैव सुखात्मकम्; ततो भिन्नरूपस्य बोधमात्रस्वभावस्य ज्ञानस्यान्यदा दृष्टत्वादिति । तस्मात् न बोधरूपाः सुखादयः ॥ ज्ञानसुखयोः सजातीयकारणजन्यत्वं नास्त्येव अभिन्नहेतुजत्वादिति चायमसिद्धो हेतुः; समवायिकारणस्यात्मनः, असमवायिकरणस्य चात्ममनस्संयोगस्य चाभेदेऽपि निमित्तकारणस्य सुखत्वज्ञानत्वादेर्भिन्नत्वात् ॥

ननु सुखोत्पादात्पूर्वमनाश्रयं सुखत्वसामान्यं कथं तत्र स्यात् ? कश्चास्य सुखहेतुभिः कारकैः संसर्गः ? असंसृष्टं वा कथं कारकं स्यात् ?—उच्यते—सर्वगतानि सामान्यानि साधयिष्यन्त [५ आह्निके] इति सन्ति तत्रापि सुखत्वादीनि । योग्यतालक्षण एव चैषां सुखहेतुभिः कारकैः संसर्गः, धर्माधर्मवत् । धर्माधर्मौ हि सर्वस्य प्राणिनां सुखदुःखहेतोः जायमानस्य शाल्यादेः कार्यस्य कारणम् । शक्यमिति भावः । स्वच्छं—विषयानुपरक्तम् । विषयानुपरक्तस्य ज्ञानत्वासम्भवादिति हेतुरूह्यः । अपि त्वित्यादि । एतदुक्तं भवति । ज्ञानं हि घटादिना विषयेणोपरक्तं घटज्ञानं, पटज्ञानं इत्यादिना व्यवह्नियते । घटज्ञाने पटस्य पटज्ञाने घटस्य चाविषयीकरणेनान्वयव्यतिरेकाभ्यां हि घटस्य ज्ञानस्य च भेदः सिद्ध्यत्येव । एवमेव हि सुखाद्युपरक्तं ज्ञानं सुखज्ञानमित्यनुभूयते । तत्रापि घट-ज्ञानयोरिव सुख-ज्ञानयोर्भेद आवश्यक एव, सुखदुःखानुपरक्तस्य ज्ञानस्यानुभवादिति । अन्यदा—सुखदुःखानुपरागकाले ॥

सुखत्वज्ञानत्वादेरिति । अयमाशयः—दण्डचक्रसलिलकुलालमृदादिभिस्सजातीयैरेव कारणैरुपजायमानोऽपि एको घटो भवति, अपरः मणिकः, अन्यः शरावः । तत्र हि स्वरूपभेदापादकः जातिभेद एव कार्यभेदनियामकः । तद्वदत्रापि । न च तत्र मृदयमित्येकाकारानुवृत्तिः दृश्यत एवेति वाच्यम्; द्रव्यसमवायिकारणके गुणे तादृशद्रव्यत्वानुवृत्तेरदर्शनात् इति ॥

सुखत्वसामान्यं—सुखत्वरूपा जातिः । तत्र—सुखरूपकार्योत्पत्तिस्थले एषां—सुखत्वादिजातीनाम् । सुखदुःखहेतोः शाल्यादेर्जायमानस्येत्यन्वयः ।
तयोश्च तत्कारणैः बीजक्षितिजलादिभिस्सह योग्यतैव संसर्गः । एवं सुखत्वादीनामपि स्यात् । तस्मात् निमित्तकारणभेदात् भिन्नानि ज्ञानसुखादीनि कार्याणि ॥

निमित्तकारणान्यत्वमपि कार्यस्य भेदकम् ।
विलक्षणा हि दृश्यन्ते घटादौ पाकजा गुणाः ॥ ८ ॥

अपि च ज्ञानमिच्छन्ति न सर्वे ज्ञानपूर्वकम् ।
सुखदुःखादि सर्वं तु विषयज्ञानपूर्वकम् ॥ ९ ॥

विषयानुभवोत्पाद्याः यत्रापि न सुखादयः ।
तत्रापि तेषामुत्पत्तौ कारणं विषयस्मृतिः ॥ १० ॥

क्वचित्तु सङ्कल्पोऽपि सुखस्य कारणतां प्रतिपद्यते । तस्मात् सर्वं सुखादि ज्ञानपूर्वकमेव ॥ तादृशशाल्याद्युत्पत्त्यर्थमिति भावः । यद्वा सुखदुःखहेतोरिति पञ्चम्यन्तम् । तयोः—धर्माधर्मयोः ॥

घटादाविति । पाकजगुणान् प्रति घटो हि समवायिकारणम् । अपि चेत्यादि । ज्ञानं हि स्वोत्पत्तौ पूर्वं घटादिविषयमपेक्षते, न ज्ञानान्तरम् । सुखमपि यदि ज्ञानरूपं तर्हि स्वोत्पत्तौ विषयमपेक्षेत । लोके तु सुखं पूर्वं अनुकूलत्वज्ञानमेवापेक्षते । एवञ्च सुखं, न ज्ञानरूपं, ज्ञानजन्यत्वादिति । ननु विषयज्ञाने जातेऽपि कुत्रचित् सुखानुत्पत्त्या न तयोः कार्यकारणभाव इति चेत्— सुखादीनां ह्युत्पत्तौ न विषयज्ञानमात्रं हेतुः, किन्त्वनुकूलत्वस्मरणमपि । एतदभावाच्च न विषयज्ञानमात्रात् सुखाद्युत्पत्तिरिति । यद्यपि सिद्धान्ते ज्ञानात् ज्ञानान्तरोत्पत्तिरिष्यते । अथापि न सर्वं ज्ञानं ज्ञानसापेक्षं, अनुव्यवसाय एक एव ज्ञानापेक्षः । सुखं तु सर्वं ज्ञानापेक्षमेवेत्यस्ति ज्ञानसुखयोर्विशेषः । नन्वेवमपि ज्ञानानां द्विक्षणावस्थायित्वनियमेन सर्वत्रापि पूर्वज्ञानापेक्षा उत्तरज्ञानस्य वर्तत एवेति चेत्—इदमपि धारावाहिज्ञानस्थल एव । न हि तत्रापि बौद्धमत इव ज्ञानात् ज्ञानान्तरोत्पत्तिः; किन्तु स्वकारणादेव । एवञ्च ज्ञानस्य न नियमेन ज्ञानान्तरापेक्षा, सुखस्य त्वस्त्येवेति ज्ञानसुखयोर्वैलक्षण्यं दुरपह्नवमिति । अनुपदमेव च स्पष्टीकृतं इदं ग्रन्थकारेण ॥

सङ्कल्पः—मनोवृत्तिः, अभिमान इति यावत् । ज्ञानपूर्वकमेव, न तु विषयपूर्वकमिति एवकारार्थः ॥

ज्ञानमपि ज्ञानपूर्वकमेवेति चेत्—न—उपरिष्टान्निराकरिष्यमाणत्वात् । न हि गर्भादौ मदमूर्छाद्यनन्तरं वा ज्ञानमुपजायमानं ज्ञानान्तरपूर्वकं भवतीति वक्ष्यामः [७ आह्निके] । तेन ज्ञानसुखादीनां वैलक्षण्योपपादनात् सुखादिनिवृत्त्यर्थं ज्ञानग्रहणमर्थवत् ॥ अव्यभिचारिपदेन न ज्ञानपदवैय्यर्थ्यम्
ननु ! एवमपि न ज्ञानग्रहणेन कृत्यम्, अव्यभिचारिपदादेव सुखादिव्यवच्छेदस्य सिद्धत्वात् । व्यभिचाराव्यभिचारौ हि ज्ञानस्य धर्मौ, न सुखादेः । अतस्तदुपादानात् तद्धर्मयोगि ज्ञानं लभ्यत एव । किं ज्ञानग्रहणेन ? नैतदेवम्—सुखस्यापि सव्यभिचारस्य दृष्टत्वात् । किं पुनस्सुखं व्यभिचारवत् दृष्टम् ? यदेतत् परदाराभिमर्शादिनिषिद्धाचरणसम्भवं सुखं, तद्व्यभिचारि ॥ ज्ञानवत् सुखमपि व्यभिचरितं अस्त्येव
ननु ! सुखस्य कीदृशो व्यभिचारः ? ज्ञानस्यापि कीदृशो व्यभिचारः ?

अतस्मिंस्तथाभावः—सुखस्यापि अतस्मिंस्तथाभाव एव ॥

किं परपुरन्ध्रीपरिरम्भसम्भवं सुखं सुखं न भवति ? किं शुक्तिकायां रजतज्ञानं ज्ञानं न भवति ?

ज्ञानं भवति, किन्तु मिथ्या—इदमपि सुखं भवति, किन्तु मिथ्या ॥

ज्ञानमपीति । बौद्धमते उत्तरज्ञानं प्रति पूर्वक्षणिकविज्ञानस्य कारणत्वात्, सिद्धान्तेऽपि कुत्रचित्तथाऽङ्गीकारादिति भावः ॥

तद्धर्मयोगि—व्यभिचाराव्यभिचारधर्मयोगि । किं—कीदृशम् ॥

लोके ह्यनुभूयमानं सुखं कदाप्यसुखं न भवतीति कथं सुखस्य व्यभिचार इति शङ्कां ज्ञानप्रतिबन्दिदानेन निराकरोति—नन्वित्यादिना । अत्र पूर्ववाक्यं आक्षेपः—उत्तरवाक्यं समाधानम् । एवमुत्तरत्रापि ॥

ननु ! न सुखं मिथ्या, तदपि ह्यानन्दस्वभावमेव—यद्येवं शुक्तिकायां रजतज्ञानमपि न मिथ्या, तदपि हि विषयानुभवस्वभावमेव ॥

ननु ! विषयानुभवस्वभावमपि तज्ज्ञानं विषयं व्यभिचरति— सुखमपि तर्हीदमानन्दस्वभावमपि स्वहेतुं विषयं व्यभिचरत्येव ॥

किमसुखसाधनेन तज्जनितम् ? ज्ञानमपि किं अज्ञानसाधनेन जनितम् ?

ननु ! ज्ञानं ज्ञानसाधनेन जनितं असत्येन प्रत्यक्षबाधितेन रजतादिना—सुखमपि सुखसाधनेन जनितं असत्येन तु शास्त्रबाधितेन परवनितादिना ॥

किं परवनितादि न सत्यम् ? तत्रापि ज्ञानजनकं न सत्यम् ?

असत्यं, प्रत्यक्षबाधितत्वात्; परवनिताद्यपि सुखसाधनमसत्यं, शास्त्रबाधितत्वात् ॥

ननु ! शास्त्रेण किमत्र बाध्यते ? ज्ञानेऽपि प्रत्यक्षेण किं बाध्यते ?

विषयो मिथ्येति ख्याप्यते; शास्त्रेणापि सुखस्य हेतुर्भिथ्येति ख्याप्यते ॥

किं स विषयस्सुखहेतुर्न भवति ? यथा त्वेष विषयः कलुषस्य ज्ञानस्य हेतुः, तथा सोऽपि कलुषस्य कटुविपाकस्य सुखस्य हेतुरिति तथाविधं सुखमपि व्यभिचारि भवत्येवेत्यलमतिकेलिना ॥

तस्मात् समानन्यायत्वात् सुखे व्यभिचारिताऽस्तीति अव्यभिचारिपदात् ज्ञानं न लभ्यते ॥

तदपि—परदारोपभोगजसुखमपि । ज्ञानसाधनेनेत्यस्य विशेषणं असत्येनेत्यादि । एवं सुखसाधनेनेत्यत्रापि ॥

ज्ञानजनकं—शुक्तिकादि । निरधिष्ठानस्तु भ्रमः नास्त्येव ॥

अलमिति । अयमत्र सारः । अन्यथाख्यातिरेव सिद्धान्ते, न त्वसत्ख्यातिः । एवञ्च शुक्तौ इदं रजतमित्यादौ रजतं न सर्वथा मिथ्या, आपणे सत्त्वात् । किन्तु तादात्विकप्रत्यक्षजनकत्वविशिष्टवेषेणैव मिथ्यात्वम् । एवञ्च परदारादेरपि बलवदनिष्टाननुबन्धित्वविशिष्टसुखसाधनत्वविशिष्टवेषेणापि तथात्वमेवेति ॥ व्यवसायात्मकम् इति पदेन सुखादिव्यावृत्तिशङ्का
अपर आह—किमनेन डिम्भकलहेन ? मा भूदव्यभिचारिपदात् स्य लाभः ! तथाऽपि व्यवसायात्मकपदात् लभ्यत एव ज्ञानम् । न हि सुखदुःखादयो व्यवसायात्मकाः भवन्ति, किन्तु ज्ञानमेव तथाविधमिति ॥

संशयव्यवच्छेदार्थं तत्पदमिति चेत्—सत्यम्—सुखादिव्यवच्छेदमपि कर्तुमलमेव भवति, व्यवसायात्मकत्वस्य सुखादिष्वसम्भवादिति ॥ ज्ञानपदप्रयोजननिगमनम्
तदेवं सिद्धेऽपि सुखादिव्यवच्छेदे कर्तव्यमेव ज्ञानग्रहणम्, विशेष्यनिर्देशार्थत्वात् । तस्य हि सर्वाण्यमूनि विशेषणान्युपात्तानि तदनुपादाने निरालम्बनानि भवेयुः । श्रोतुश्च बुद्धिर्न समाधीयेतेति । तेन बलाद्गम्यमानमेव कर्तव्यमेव ज्ञानग्रहणम् । अर्थाक्षिप्तस्यावचने प्रत्यक्षं प्रत्यक्षमित्येतावन्मात्रमभिधेयं स्यात्; अन्यदर्थाल्लभ्यत एव । तस्मात् धर्मिनिर्देशार्थं युक्तं ज्ञानपदम् ॥ अव्यपदेश्यपदप्रयोजनम्
शब्दानामर्थसंस्पर्शित्वं शाक्यमतनिरासेन साधयिष्यत [३ आह्निके] इति शब्दानुप्रवेशवशेन व्यपदेश्यं नाम ज्ञानमुपपद्यत इति तद्व्यवच्छेदार्थमव्यपदेश्यपदम् ॥

तथाविधं—व्यवसायात्मकम् ॥

तत्पदं—व्यवसायात्मकपदम् । २३० पुटे एतदुपपाद्यते । ततश्च प्रयोजनान्तराय तदुपात्तं, न तु सुखव्यावृत्तये इति भावः । अस्तु तत्, तेनैवेदमपि निरस्तं भवत्वित्याह—सत्यमिति । कर्तुभलमिति—तत्पदमित्याकर्षः ॥

उपात्तानि सर्वाण्यमूनि विशेषणानीत्यन्वयः । बलादेव गम्यमानमित्यन्वयः । न तु स्वरसतो टिति प्रतीयत इति भावः । एवकारः अप्यर्थको वा । यथाकथञ्चिदर्थात्प्राप्तिमात्रेण वैयर्थ्यापादने अनिष्टप्रसङ्गमाह— अर्थाक्षिप्तस्येति । अवचने आपाद्यमाने इति शेषः ॥ भाष्योक्तं अव्यपदेश्यपदप्रयोजनम्
तत्र वृद्धनैयायिकास्तावदाचक्षते—व्यपदिश्यत इति व्यपदेश्यं शब्दकर्मतापन्नं ज्ञानमुच्यते । यत् इन्द्रियार्थसन्निकर्षादुत्पन्नं सत् विषयनामधेयेन व्यपदिश्यते—रूपज्ञानं रसज्ञानमिति, तत् व्यपदेश्यं ज्ञानं प्रत्यक्षफलं प्रत्यक्षं मा भूदिति अव्यपदेश्यग्रहणम्— तदिदमनुपपन्नम्-न हि नामधेयव्यपदेश्यत्वमप्रामाण्यकारणं भवति । यदि हि तत् रूपज्ञानं रसज्ञानं च विषयाव्यभिचारि, निस्संशयं च तत् कथमप्रमाणफलमुच्यते । व्यभिचारादिदोषयोगे वा पदान्तरेण तत्प्रतिक्षेपात् किमव्यपदेश्यपदेन ?

प्रमाणफलं च तद्विज्ञानं इदानीं किम्प्रमाणप्रभवं भवतु ? न प्रत्यक्षफलम्, एतत्पदप्रतिक्षिप्तत्वात् । नानुमानादिजन्यम्, तद्वैलक्षण्यात् । नास्ति किञ्चित् पञ्चमं प्रमाणम् । असङ्ग्रहोऽस्य लक्ष्यस्य लक्षणेनेति प्रज्ञाप्रमादः । तस्मादपव्याख्यानमेतत् ॥

वृद्धनैयायिकाः—वात्स्यायनमहर्षयः । शब्दकर्मतापन्नं—नामधेयशब्देनाभिलप्यमानम् । अव्यपदेश्यग्रहणं इत्यनन्तरं इतिकरणं द्रष्टव्यम् । तथा च शब्दानुविद्धस्य प्रत्यक्षस्य वारणाय “अव्यपदेश्य” पदमिति भावः । पदान्तरेण—अव्यभिचारिपदेन ॥

ननु न तस्याप्रामाण्यमुक्तं, किन्तु तस्यात्रालक्ष्यत्वमात्रं चेत् तत्राह— प्रमाणफलमिति । किं प्रमाणेति । अयमर्थः—यदि चतत् ज्ञानं अव्यपदेश्यपदेन व्यावर्त्यते, तर्हीदं ज्ञानं किं रूपमिति वक्तव्यम् । प्रत्यक्षरूपत्वं तु निराकृतमेव । अनुमानादिरूपत्वं तु सुतरां न सम्भवति । अतः ज्ञानलक्षणाप्रत्यासत्तिवशात् शब्दस्य प्रत्यक्षे भानं तत्र वक्तव्यम् । एवञ्च “सुरभि चन्दनं” इतिवत् अलौकिकलौकिकसन्निकर्षाभ्यामुत्पन्नं एकं ज्ञानं तदिति वक्तव्यम् । तथा च तदपि लक्ष्यमेव अन्यत्र कुत्राप्यनन्तर्भावात् ॥

भाष्यकृतस्तु—सूत्रे इन्द्रियार्थसन्निकर्षपदोपादानेन इदं सूत्रं केवललौकिकसन्निकर्षजन्यप्रत्यक्षलक्षणपरमेव । न ह्यलौकिकः सन्निकर्षः इन्द्रियार्थसम्बन्धरूपः । अतश्च लौकिकालौकिकसन्निकर्षद्वयजन्यस्य शब्दानुविद्ध अव्यपदेश्यपदस्य मतान्तरेण प्रयोजनवर्णनम् व्यवच्छेद्यान्तरमव्पदेश्यपदस्य वर्णयाञ्चक्रुराचार्याः । शब्दार्थेषु स्थविरव्यबहारवः व्युत्पद्यमानो जनः संशयावगमसमये सञ्ज्ञोपदेशकादयं पनस उच्यत इति वृद्धोदीरितात् वाक्यात् पुरोवस्थितशाखादिमन्तमर्थं पनसशब्दवाच्यतया जानाति । तदस्य ज्ञानमिन्द्रियजमपि न केवलेन्द्रियकरणकं भवितुमुचितम्, असति सञ्ज्ञोपदेशिनि शब्दे तदनुत्पादात् । तेन शब्देन्द्रियाभ्यां सम्भूय जनितत्वात् उभयजमिदं ज्ञानं व्यपदेशाज्जातमिति व्यपदेश्यमुच्यते । तत् अव्यपदेश्यपदेन व्युदस्यते ॥

न चेदं पञ्चमं प्रमाणमवतरति, किन्तु शाब्दमिवैतदनुमन्यते लोकः तथा च—कथं पुनर्जानीते भवान् पनसोऽयमिति ? इति पृष्टः प्रतिवक्ति—“मम देवदत्तेनाख्यातं, पनसोऽयमिति” इति । न पुनरेवं विस्मृत्यापि व्रवीति “चक्षुषा मया प्रतिपन्नं, पनसोऽयमुच्यत इति” प्रत्यक्षस्य प्रमाणत्वेऽपि वा नात्र लक्ष्यत्वमिति तस्य अव्यपदेश्यपदेनैव व्यावृत्तिर्वक्तव्येत्याशयः । ननु तर्हि तस्य कुत्रान्तर्भाव इति चेत्, यत्र कुत्रापि वा यथावं भवतु । अन्यथा हि ईश्वरप्रत्यक्षस्य नित्यस्य इन्द्रियार्थसन्निकर्षजन्यत्वाभावेनाव्याप्त्यापत्त्या तस्यालक्ष्यतायां वाच्यायां, तस्य कुत्रान्तर्भाव इत्यपि प्रश्नः समुदेत्येव । समाधिस्तु तुल्यैव—इत्याशयः ॥

स्थविरः—वृद्धः । सञ्ज्ञोपदेशात्—सञ्ज्ञासञ्ज्ञिसम्बन्धज्ञापकात् । अस्य वाक्यादित्यत्रान्वयः । अयमत्र भावः—श्रुतपनसपदेन पुरुषेण वृक्षसामान्ये प्रत्यक्षतो गृहीते कोऽयं वृक्षः इति संशये सति विशेषसञ्ज्ञाबोधकशब्दश्रवणवशात् पनसशब्दवाच्यत्वप्रकारकं पुरोवर्तिवृक्षविशेष्यकं च “अयं पनसः” इति ज्ञानं जायते । नेदं केवलं प्रत्यक्षं, शब्दश्रवणस्याप्यपेक्षणात् । अतः शब्द-इन्द्रियोभयजज्ञानव्यावृत्त्यर्थं अव्यपदेश्यपदमिति ॥

ननु इन्द्रिय-संस्काराभ्यां जातं प्रत्यभिज्ञानं यथा प्रत्यक्षं, तथेदमपि कुतो न स्यात् ? यदिदं ज्ञानं न प्रत्यक्षं तर्हि कुत्रान्तर्भाव इति आशङ्क्य शाब्देऽन्तर्भावं वदति—न चेत्यादि । तथा च प्रतिवक्ति इत्यन्वयः ।
इति । तत् इन्द्रियान्वयव्यतिरेकानुविधाने सत्यपि शब्द एवात्र करणम् ॥

अत एव सूत्रकृता शब्दलक्षणं वर्णयता नेन्द्रियानुप्रवेशप्रतिषेधाय किमपि विशेषणमुपरचितम्; “उपदेशः शब्दः” इत्येतावदेव लक्षणमभिहितम् । अतश्चेन्द्रियानुप्रवेशेऽपि शाब्दतामस्य मन्यते सूत्रकारः ॥

इह पुनः अव्यपदेश्यविशेषणपदोषादानेन शब्दानुप्रवेशप्रतिषेधात् न प्रत्यक्षमेतत् ज्ञानम् । तस्मादेवंविधव्यपदेश्य वज्ञानव्यवच्छेदार्थमव्यपदेश्यपदमिति ॥ उक्तमतनिराकरणम् तदेतत् व्याख्यातारो नानुमन्यन्ते—यद्युभयजं ज्ञानं अव्यपदेश्यपदेन व्युदस्यते, तदपि नाप्रमाणम्, अप्रमाणलक्षणातीतत्वादिति, प्रमाणं भवत् कस्मिन् अनुविशतामिति चिन्त्यम्—

ननु ! शाब्दमिदं ज्ञानं तद्भावानुविधानतः ।
भवत्वक्षजमप्येतत् तद्भावानुविधानतः ॥ ११ ॥

शाब्दं चोभयजं चेति विरुद्धमभिधीयते ।
प्रमाणान्तरमेव स्यात् इत्थं तदपि पूर्ववत् ॥ १२ ॥

तत्—तस्मात् । शब्द एवेति । प्रत्यभिज्ञायां हि संस्कारसहकृतमिन्द्रियं करणमिति तत् प्रत्यक्षमुच्यते । तथाऽत्रापि इन्द्रियसहकृतः शब्द एव करणमिति शाब्द एवायम् ॥

अत एव—कुत्रचित् शाब्दबोधविशेषे अंशतः इन्द्रियस्याप्यपेक्षणादेव ॥

शब्देन्द्रियोभयजन्यं प्रदर्शितं ज्ञानं कथं शाब्दम् ? एवं सति तस्य प्रत्यक्षत्वमपि यदि निराक्रियते तर्हि पञ्चममेव ज्ञानमेतत् स्यात् । अत इदं प्रत्यक्षमेवेति न तद्व्यावृत्त्यर्थं अव्यपदेश्यपदोपादानमिति युक्तमिति समाधत्ते— तदेतदिति । अव्यपदेश्यपदेनेति । अव्यभिचारिपदेन वारणे हि तस्य व्यभिचारित्वात् अप्रामाण्यमिति स्यात् । नेदानीं, तस्याव्यभिचरितत्वात् ॥

पूर्वोक्तमनुवदति—नन्विति । तद्भावः—इन्द्रियसद्भावः । पूर्ववत्— भाष्यकारपक्षोक्तशब्दानुविद्धप्रत्ययवत् ॥

ननु ! लोकः शाब्दतामस्य व्यपदिशति—“देवदत्तेनाख्यातं पनसोऽयमिति” इति व्यवहारादित्युक्तम् । अहो ! लोकवत्सलः श्रद्दधानो महानुभावः ! न खलु लोकस्य व्यपदेशैकशरणा वस्तुस्थितयो भवन्ति । लोको हि यथारुचि व्यपदिशति । नानामुनिजनसाधारणमपि तीर्थं नन्दिकुण्डमिति किं न श्रुतवान् भवान् ?

हन्त ! तर्हि सूत्रकाराशयमनुसरन्तः शाब्दमिदं ज्ञानं प्रतिपद्यामहे; यदयं सूत्रकारः प्रत्यक्षे शब्दानुप्रवेशव्यवच्छेदाय विशेषणमिदमुपदिशति, शब्दे तु नेन्द्रियव्युदासाय किञ्चिद्विशेषणमुपादत्ते, स पश्यति कारणान्तरानुप्रवेशेऽपि शाब्दमेतत् ज्ञानमिति । उच्यते—

मनुवत् सूत्रकारोऽपि न धर्मस्योपदेशकः ।
येनैतदनुरोधेन तस्य ब्रूयाम शाब्दताम् ॥ १३ ॥

वस्तुस्थित्या तु निरूप्यमाणमिन्द्रियान्वयव्यतिरेकानुविधायित्वादिदं विज्ञानं न प्रत्यक्षफलतामतिवर्तते । ततश्च व्युदस्यमानं प्रमाणान्तरतामेव स्पृशेत् ॥ स्वमतेन अव्यपदेश्यपदप्रयोजनकथनम्
तस्मादुभयजज्ञानव्युदासानुपपत्तितः ।
व्याख्या भङ्ग्यन्तरेणास्य पदस्येयं विधीयते ॥ १४ ॥

असम्भवदोषव्यवच्छेदार्थमव्यपदेश्यपदोपादानम् । एवं हि परो मन्यते—सति लक्ष्ये लक्षणवर्णनमुचितम् । इह तु

अहो इत्यादि । तेन हि व्यवहारेण सञ्ज्ञासञ्ज्ञिसम्बन्धनिश्चयमात्रं, न तु पनसप्रत्यक्षं तज्जन्यमित्यबधेयम् । इदं च उत्तरत्र [२२० पु।] स्पष्टीभविष्यति ॥

सूत्रस्वारस्यानुरोधेनास्य शाब्दत्वं ब्रूम इति पूर्वोक्तमेवानुवदति— हन्तेत्यादि । सः—एवं वदन् सूत्रकारः । पश्यति—अभिप्रैतीति यावत् । मनुवदित्यादि । अयं भावः—शब्दैकसमधिगम्ये धर्मादौ शब्देन यथा बोध्यते, तथैव प्रतिपत्तव्यम् । प्रत्यक्षविषयवस्तुविषयकविचारे तु यथाप्रमाणं शब्दो नेय इति । व्युदस्यमानं—प्रत्यक्षेऽनन्तर्भाव्यमानम् ॥

लक्ष्यमाणं प्रत्यक्षमिन्द्रियार्थसन्निकर्षोत्पन्नं नाम न किञ्चिदस्ति । गौरित्यादिज्ञानानां शब्दावच्छिन्नवाच्यविषयत्वेन शाब्दत्वात् । इह हि विषयव्यतिरेकेण ज्ञानानामतिशयो दुरुपपादः, बोधस्वभावस्य सर्वान् प्रत्यविशिष्टत्वात् । तत्र यथा दण्डीति शुक्ल इति वा प्रत्ययो विशेषणावच्छिन्नविशेष्यविषयतया सातिशयत्वमश्नुते, तथा गौरित्यादिप्रत्ययोऽपि वाचकावच्छिन्नवाच्यविषयत्वात् सातिशयत्वं भजते; शब्दावच्छिन्नवाच्यविषयत्वाच्च शाब्द एष प्रत्ययः, तद्व्यतिरिक्तकरणकार्यत्वानुपपत्तेः ॥

न हीन्द्रियकरणकमिदं ज्ञानं भवितुमर्हति, चक्षुषो विशेषणाविषयत्वात्, विशेष्ये च श्रोत्रस्यासामर्थ्यात् । न च युगपदिन्द्रियद्वयद्वारकमेकमुत्पद्यमानं ज्ञानं क्वचित् दृष्टम् ॥

तत्रैतत्स्यात्—मानसमिदं ज्ञानं सुगन्धिबन्धूकबोधवद्भविष्यति । उक्तमत्र—शब्दलिङ्गादिकरणान्तरव्यापारविरतौ कार्यमुपजायमानं केवलमनःकरणमिति कल्प्यते, न तत्सम्भवेऽपि । तथा हि सति

अतिशयः—विशेषः । विशेषणेत्यादि । दण्डिनं शुक्लं च पुरुषं-दृष्ट्वा कदाचित् दण्डीति, कदाचित्तु शुक्ल इति बुद्धिर्जायते । तत्र बुद्ध्योर्भेदः न स्वरूपतः, उभयोरपि ज्ञानत्वात् । नापि विशेष्यभेदात्; तदभावात् । अत विशेषणभेदादेव । शब्दश्च सर्वत्र विशेषणतया भासत एव । एवञ्च शब्दावच्छिन्नविषयत्वात् ज्ञानानां शब्दैरेव सातिशयत्वं वक्तव्यमिति शाब्दमेव सर्वं ज्ञानम् इति ॥

ननु प्रत्यक्षे विषयस्यापि भानात्, तदंशे इन्द्रियापेक्षणात् प्रत्यक्षं तत् कुतो न स्यात् इत्यत्राह—न हीत्यादि । विशेषणाविषयत्वात्— शब्दाग्राहकत्वात् । विशेष्ये—घटादौ । ननु एवमपि विशेषणविशेष्ययोरुभयोरपि इन्द्रियग्राह्यत्वमस्त्येवेति इन्द्रियद्वयजन्यं तत् ज्ञानं कुतः प्रत्यक्षं न भवतीत्यत्राह—न चेति । युगपदिन्द्रियद्वयेन मनसस्सन्निकर्षासम्भवादित्यर्थः । “युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्” इति हि सूत्रम् ॥

शङ्कते—तत्रेति । मानसमिति । सुरभि चन्दनमित्यादिप्रतीतिरपि दृष्टान्ततया बोध्या । समाधत्ते—उक्तमिति । तत्सम्भवे—शब्दादिकरणान्तरसम्भवे । तथा हि सति—शब्दादिकरणान्तरसन्निधानेऽपि केवलमानस
मानसमेवैकं प्रमाणं स्यादिति । अस्ति चात्र शब्द एव करणम् । स हि सहस्रकिरणवदात्मानं च विषयं च प्रकाशयति इति । तस्मादिन्द्रियविषयेऽपि गौरित्यादिज्ञानमुत्पद्यमानं शाब्दमेवेत्यवधार्यते ॥ अतीतोऽपि शब्दः ज्ञानगोचरो भवेदेव ननु ! सङ्केतावगमसमये गौरित्यादिशब्दः श्रुत आसीत् । स इदानीमतिक्रान्त इति कथं तत्कृत एष प्रत्ययः स्यात्—उच्यते— तदानीमश्रूयमाणस्य शब्दस्य स्मृत्यारूढस्य तत्प्रत्ययहेतुत्वात् ॥ तच्छ्रुतावपि किं सर्वे वर्णाः प्रत्यक्षगोचराः ।
विशेषः कोऽन्त्यवर्णेन गृहीतेन स्मृतेन वा ॥ १५ ॥

तदेवं स्मृतिविषयीकृतशब्दजनित एष प्रत्यय इत्यभ्युपेतव्यः । यथा परोक्षेऽपि शब्द उच्चरित आत्मानं प्रकाशयति, अर्थं च; तथा प्रत्यक्षे विषये स एव स्मर्यमाणः आत्मानमर्थं च प्रकाशयतीति वाचकावच्छिन्नवाच्यप्रतिभासश्चैवंविधासु बुद्धिषु नूनमेषितव्यः । यथाऽऽह भट्टः—“सञ्ज्ञित्वं केवलं परम्” इति ॥

सञ्ज्ञित्वमिति मत्त्वर्थीयप्रत्ययान्तादुत्पन्नः भावप्रत्ययः सम्बन्धमाचष्टे । सञ्ज्ञासञ्ज्ञिसम्बन्धः सञ्ज्ञित्वमिति । ऽकृत्तद्धितसमासेषु त्वाङ्गीकारे । ननु विशेष्यांशे इन्द्रियस्यापेक्षणात् कथं “शब्द एव” इतीत्यत्राह—स हीति । एवदुक्तं भवति । शब्दो हि श्रूयमाणः अर्थमप्युपस्थापयेदेव । न तथा चक्षुः अर्थेन साकं शब्दमुपस्थापयेत् । एवञ्च शब्देनैव विषयभानस्यापि निर्वाहे माऽस्त्विन्द्रियापेक्षा । शब्दविवर्ता एव ह्यर्था इति ॥

तत्कृतः शब्दजन्यः । स्मृतेन शब्देन ज्ञानजनने मानसमेवेदं संवृत्तमित्यत्राह—तच्छ्रुतावपीत्यादि । अयमर्थः—शब्दा हि द्विक्षणावस्थायिनः । अन्तिमवर्णश्रवणकाले पूर्वपूर्ववर्णा नष्टा एव । एवञ्च नष्टानां वर्णानां स्मरणादेव बोधः सर्वत्र अनेकवर्णकपदस्थले वाच्य इति नायं दोष इति । परोक्षेऽपीति । विषय इति शेषः ॥

सम्बन्धाभिधानं भावप्रत्ययेनऽ [हरिटीका] इत्याभियुक्तस्मरणात् । सञ्ज्ञा च शब्दः । सोऽयं शब्दविशिष्टार्थप्रतिभास उक्तो भवति ॥

न च शब्दानुसन्धानरहितः कश्चित् प्रत्ययो दृश्यते, अनुल्लिखितशब्दकेष्वपि प्रत्ययेष्वन्ततः सामान्यशब्दसमुन्मेषसम्भवात्, तदुल्लेखव्यतिरेकेण प्रकाशात्मिकायाः प्रतीतेरनुत्पादात् । तथाऽऽह भर्तृहरिः— “ न सोऽस्ति प्रत्ययो लोके यश्शब्दानुगमादृते ।
अनुविद्धमिव ज्ञानं सर्वं शब्देन गृह्यते ॥ [वाक्यपदीयं-१-२४]

” इति । तस्मात् प्रत्यक्षस्य लक्ष्यस्याभावात् कस्येदं लक्षणमुपक्रान्तमिति असम्भवदोषमाशङ्क्याह सूत्रकारः—अव्यपदेश्यमिति ॥ अव्यपदेश्यपदेन शब्दानुवेधपक्षनिरासप्रकारः
यदिदं अविदितपदपदार्थसम्बन्धस्य ज्ञानमुत्पद्यते, विदितसम्बन्धस्यापि वा यत् प्रथमाक्षसन्निपातसमय एव ज्ञानमनुल्लिखितशब्दकं शब्दानुस्मरणे हेतुभूतमुपजायते, तत् अशब्दम्—अशब्दावच्छिन्नविषयमव्यपदेश्यमिन्द्रियार्थसन्निकर्षैककरणमविकल्पं प्रत्यक्षम् । न च शब्दकृता बुद्धीनां प्रकाशस्वभावता, स्वत एव

ननु अज्ञातवाचकपदानां बालानामपि घटादिप्रत्यक्षं जायत एव । तत् कथं सर्वत्र शब्दानुवेधः ? इत्यत्राह—न चेत्यादि । सामान्येति । अन्ततः वस्त्वादिशब्दानां भानादित्यर्थः । ननु वस्त्वादिपदमप्यजानानां स्तनन्धयानां, पश्वादीनां च प्रत्यक्षे का गतिरिति चेत्, तत्रापि सूक्ष्मः शब्दः भायात् कामम् । अथवा तेषां भ्रमादीनामिव लक्ष्यतैव मा भूत् । परीक्षकप्रत्यक्षस्यैव लक्ष्यत्वात् । अधिकमन्यत्र ॥

अविदितपदपदार्थसम्बन्धस्येति । स्तनन्धयादेरित्यर्थः । पूर्वोक्तदिशा परीक्षकाणां प्रत्यक्षमेव लक्ष्यभूतमित्यङ्गीकारेऽप्याह—विदितसम्बन्धस्यापीति । अशब्दावच्छिन्नविषयं—शब्दानवच्छिन्नवस्तुविषयकम् । अत एव—इन्द्रियार्थसन्निकर्षैककरणमिति । स्वत एव—शब्दानुवध
तासामेवंरूपत्वात् । न च निर्विकल्पकसमये यत्किञ्चिदिदमित्यादिसामान्यशब्दोल्लेखः कोऽपि कैश्चिदनुभूयते । तस्मात् गौरित्यादिज्ञानानां शाब्दत्वेऽपि तथाविधस्य ज्ञानस्य लक्ष्यस्य सद्भावात् न व्यर्थं लक्षणमित्येवमसम्भवदोषनिराकरणार्थमव्यपदेश्यपदमिति ॥ गौरित्यादिज्ञानानां न शाब्दत्वम् तदेतदाचार्या न क्षमन्ते । न गौरित्यादिज्ञानमिन्द्रियार्थसन्निकर्षोत्पन्नमपि इदं शाब्दमिति वक्तुं युक्तम् । न चात्र शब्दावच्छिन्नार्थः प्रकाशते, तथाविधार्थग्रहणे कारणाभावात् । विशेष्यार्थप्रमितौ तावत् शब्दः करणम् । विशेषणीभूतस्य तु शब्दस्य ग्रहणे किं करणमिति निरूप्यताम् । न श्रोत्रम्, विरम्यव्यापारासंवेदनात् । सम्बन्धग्रहणादूर्ध्वं च स्मर्यमाणशब्दयोजनया जायमाने गौरित्यादिज्ञाने श्रोत्रं करणमाशङ्कितुमपि न युक्तम् । नापि मनः बाह्यकरणनिरपेक्षं बाह्ये विषये धियमाधातुमलम्, अन्धाद्यभावप्रसङ्गात् ॥

ननु शब्द एव करणमित्युक्तम्, तत् किमपरकरणाशङ्कनेन ? मैवम्—एकस्य कारकस्य एकस्यामेव क्रियायां कर्मकरणभावानुपपत्तेः । सवितृप्रकाशवत् इति चेत्, न, क्रियाभेदात् । मन्तराऽपि । एवं रूपत्वात्—प्रकाशस्वरूपत्वात् । “अनुल्लिखितशब्दकेष्वपि” इत्युक्तं प्रतिवक्ति—न चेति । तथाविधस्य—शब्दाननुविद्धस्य प्रत्यक्षस्य ॥

“गौरित्यादिज्ञानानां॥।शाब्दत्वात्” इत्युक्तिरेवायुक्तेतिवादिनो मतमाह— तदेतदिति । न युक्तं इत्यन्वयः । विरम्येति । विशेष्यग्रहणाय प्रवृत्तस्य इन्द्रियान्तरव्यापारस्य विच्छित्तिं विना श्रोत्रेन्द्रियव्यापारो न हि भवेत्, विच्छित्तिस्तु नानुभूयत इत्यर्थः । आशङ्कितुमपीति । शब्दस्मरणे सर्वथा श्रोत्रानपेक्षणादित्यर्थः । अन्धादीति । विनैव चक्षुः मनसैव रूपादिग्रहणसम्भवादिति हेतुः ॥

कर्मकरणभावेत्यादि । शब्दो हि प्रतीतौ विशेषणतया भासते इति कर्मत्वं सिद्धम्, तर्हि तस्यैव करणत्वं कथमित्यर्थः । सवित्रिति । सूर्य
यत्रासौ करणं, न तत्र कर्म; यत्र वा कर्म, न तत्र करणमिति । घटादिविषयप्रमितिजन्मनि करणमेव तरणिप्रकाशः, न कर्म; तद्ग्रहणकाले तु कर्मैवासौ, न करणम् ॥

किं तर्हि तत्र करणमिति चेत्, केवलमेव चक्षुरिति ब्रूमः । आलोकग्रहणे चक्षुषः प्रकाशान्तरनिरपेक्षत्वात् कथमेवमिति चेत्, अपर्यनुयोज्या हि वस्तुशक्तिः । घटादिग्रहणे चक्षुरुद्योतमपेक्षते, नोद्योतग्रहण इति कमनुयुञ्ज्महे । सोऽयं सूर्यप्रकाशः प्रकाशान्तरनिरपेक्षचक्षुरिन्द्रियप्रथमगृहीतः चिरमवतिष्ठमानः तदिन्द्रियग्राह्य एव विषये गृह्यमाणे करणतामुपयातीति युक्तम् ॥

शब्दस्तु क्षणिकः श्रोत्रेन्द्रियग्राह्यः तदितरपरिच्छेद्ये विषये तदवगमक्रियायां करणीभूय, भूयस्तस्यामेव क्रियायां कथमिव कर्मभावमनुभवेत् । शब्दो हि धूमादिवदुपाय एव, नोपेयः । स उपायत्वात् प्रथमं गृह्यतां नाम; नोपेयग्रहणकाले पुनर्ग्रहणमर्हति— धूमवदेवेति । एवं स्मर्यमाणोऽपि शब्दो यत्रार्थप्रतीतिकारणं तत्रापि प्रथमं शब्दस्मरणं, ततः शब्दार्थसम्प्रत्ययो भवति । न तरां तत्रार्थप्रतीतिवेलायां शब्दग्रहणं सम्भाव्यते । तस्मात् नास्ति वाचकविशेषितवाच्यप्रतिभासः ॥ सन्निप्रकाशो हि स्वप्रत्यक्षे स्वयमेव हेतुः, एवञ्च स्वस्य कर्मत्वं करणत्वं च सिद्धमेवेति । क्रियाभेदमुपपादयति—यत्रेत्यादि । तद्ग्रहणकाले—प्रकाशग्रहणकाले । घटादिग्रहणकाले तु करणमेवेत्यर्थः ॥

तत्र—प्रकाशग्रहणे । केवलं—प्रकाशनिरपेक्षम् । कथमेवं—घटादयो हि प्रकाशसापेक्षेणेन्द्रियेण गृह्यन्ते, प्रकाशस्तु प्रकाशनिरपेक्षेणैवेन्द्रियेण गृह्यत इति कथमित्यर्थः । नन्वथाऽपि स्वग्रहणकाले कर्मणः प्रकाशस्य घटादिग्रहणं प्रति वा कथं करणत्वम् ? घटग्रहणकाल एव प्रकाशग्रहणस्यावश्यकत्वात् । एवञ्च प्रकाशघटयोः एकदैव ग्रहणेन प्रकाशस्य तदैव कर्मत्वं करणत्वं चावर्जनीयमिति शङ्कां, कालभेदेन क्रियाभेदमुपपादयन्नपाकरोति—प्रथमगृहीत इत्यादि ॥

शब्दे तु न तथा कालभेदेन क्रियाभेदोपपादनं सम्भवतीत्याह—शब्दस्तु क्षणिक इति ॥

अपि च गौरित्यादिज्ञानं इन्द्रियार्थसन्निकर्षान्वयव्यतिरेकानुविधायि प्रसभं तत्कथं शाब्दमित्युच्यते ॥

शब्दस्मरणसापेक्षं यस्योत्पादकमिन्द्रियम् ।
तदेव यदि ते शाब्दं अहो नैयायिको भवान् ! ॥ १६ ॥

ऐन्द्रियिकप्रत्यक्षेऽपि शब्दभानसम्भवः
ननु ! शब्दावच्छिन्नमर्थं न चक्षुःश्रोत्रयोः अन्यतरदपि करणं ग्रहीतुमलमित्युक्तम् । भोः साधो ! चक्षुरेवैनं ग्रहीष्यतीति कथं न ब्रूषे ?

ननु ! नाविषये युक्तमिन्द्रियस्य प्रवर्तनम् ।
तेन शब्दविशिष्टार्थज्ञानं नेन्द्रियजं ब्रुवे ॥ १७ ॥

मरीचिषु जलज्ञानं कथमिन्द्रियजं तव ?
तत्रापि हि न तोयेन सन्निकर्षोऽस्ति चक्षुषः ॥ १८ ॥

ननु ! च स्मृत्युपारूढं उदकं तत्र गृह्यते ।
इहापि स्मृत्युपारूढः शब्दः कस्मान्न गृह्यते ! ॥ १९ ॥

ननु ! शब्दो न नेत्रस्य कदाचिदपि गोचरः ।

प्रसभमुच्यते इत्यन्वयः । शब्दस्मरणसापेक्षमिन्द्रियं यस्योत्पादकमित्यन्वयः । नैयायिक इति । विचारचतुर इति यावत् । अथवा एकदेशिभिः पूर्वं “गौरित्यादिज्ञानानां शाब्दत्वेऽपि” इत्यनेन शब्दानुवेधस्य कुत्रचिदङ्गीकारादेकदेशी वा नैयायिकः ॥

पूर्वं “न हीन्द्रियकरणकमिदं” इत्यादिनोक्तमाशङ्क्य समाधत्ते— नन्वित्यादिना ॥

अविषये—स्वाविषये—स्वेन गृहीतुमशक्य इति यावत् । विशेष्यविशेषणयोरुभयोरपि इन्द्रियेण, तत्रापि एकेनैव ग्रहणमिति नायं नियम इति स्फुटयितुं सिद्धान्ती पृच्छति—मरीचिष्विति । पूर्वपक्षी समाधत्ते— नन्विति । ममापि तथैवेत्याह—तत्रापीति । स्मृत्युपारूढं—स्मृत्युपस्थापितम् । कदाचिदपीति । मरीचिर्हि चक्षुर्योग्यः, शब्दस्तु न तथेत्यस्ति वैषम्यमित्यर्थः । इदं वैषम्यमप्रयोजकं, चक्षुर्योग्यमपि सर्वं सर्वत्र न हि भासते, तत्र असतोऽपि घटस्य तत्र भानप्रसङ्गात् । अतः इन्द्रिय
असन्निहितमप्यम्बु किं वा भवति गोचरः ? ॥ २० ॥

ननु ! एकेन्द्रियवादः स्यात् चक्षुषा शब्दवेदने ।
अत्रापि सर्वबोधः स्यात् असन्निहितवेदने ॥ २१ ॥

प्रत्यक्षं इन्द्रियासन्निकृष्टवस्तुविषयकमपि भवति ननु च ! मरीचिजलज्ञानं भ्रान्तमिति कथमिह दृष्टान्तीक्रियते ?

कथमस्य भ्रान्तत्वम् ? किमनिन्द्रियजत्वात् ? उत व्यभिचारित्वात् ? तत्रानिन्द्रियजत्वेनास्य भ्रान्ततायां इन्द्रियार्थसन्निकर्षोत्पन्नपदेनैव निरासात् अव्यभिचारिपदमनुपादेयमिति । तदुपादानात् व्यभिचारित्वेनास्य भ्रान्तत्वमिति नूनमिदमिन्द्रियजमसन्निहितसलिलज्ञानमभ्युपगन्तव्यम् ॥ यथा चाविषये तस्मिन् नीरे नयनजा मतिः ।
तथा वाचकसंस्पृष्टे वाच्ये किमिति नेष्यते ? ॥ २२ ॥

यथा च तव कालादि नीरूपमपि चाक्षुषम् ।
तथा शब्दानुरक्तोऽपि किमित्यर्थो न चाक्षुषः ? ॥ २३ ॥

एवं हि इन्द्रियव्यतिरेकानुविधानमत्र न बाधितं भविष्यति ।

ननु ! चाक्षुषतां शब्दे न जीवन् वक्तुमुत्सहे ।
त्यजैनं वाचकोपेतवाच्यावगमदुर्ग्रहम् ॥ २४ ॥

सन्निकृष्टमेव भासत इति वक्तव्यम् । तच्च मरीचिषु शब्दे च समानम् । अतः ज्ञानलक्षणाप्रत्यासत्त्यैवोभयमपि निर्वाह्यमिति न पर्यनुयोगावकाश इति समाधत्ते—असन्निहितमित्यादिना ॥

अविषये—इन्द्रियासन्निकृष्टे । तस्मिन् नीरे—मरीचिकाजले । कालादीति । इदानीं घट इत्यादाविति शेषः । इन्द्रियेत्यादि । इन्द्रियाभावेऽपि जायमानत्वं न प्रत्यक्षत्वबाधकम् । विशेष्येन्द्रियसन्निकर्षेणैव प्रत्यक्षत्वनिर्वाहात्, प्रत्यभिज्ञावदिति । एवञ्च भ्रान्तिज्ञानस्य, इन्द्रियासन्निकृष्टभानांशमात्रे प्रकृतोदाहरणमिति भावः । “प्रसभमुष्यते” इति स्वोक्ति सत्यापयति—नन्विति । समाधत्ते—त्यजेति । दुर्ग्रहः—दुराग्रहः ॥ गौरयम् इत्यादिज्ञानानां शाब्दत्वासम्भवः
अपि चामुष्य शाब्दत्वे सम्बन्धग्रहणं कथम् ?
न चागृहीतसम्बन्धः शब्दो भवति वाचकः ॥ २५ ॥

निर्विकल्पकविज्ञानविषये न च तद्ग्रहः ।
शाब्दपक्षे तु निक्षिप्तं भवता सविकल्पकम् ॥ २६ ॥

सम्बन्धः शक्यते बोद्धुं न च मानान्तराद्विना ।
शाब्दज्ञानेन तद्बोधे भवेदन्योन्यसंश्रयः ॥ २७ ॥

न च शब्दोपरक्तेऽर्थे सम्बन्धं बुद्ध्यते जनः ।
गोशब्दवाच्यो गोशब्द इति हि ग्रहणं भवेत् ॥ २८ ॥

वाच्यस्य हि गवादेः गोशब्दविशेषितस्य वाच्यत्वात् वाच्योऽर्थ इव गोशब्दोऽपि वाच्यतामवलम्बते ॥

यदि च स्वानुरागेण वाचकात् वाच्यवेदनम् ।
लिङ्गादपि भवेत् बुद्धिः स्वावच्छेदेन लिङ्गिनि ॥ २९ ॥

अथ धूमान्वितत्वेन न वह्निरवगम्यते ।
इहापि शब्दयोगेन गवादिर्नैव गम्यते ॥ ३० ॥

सम्बन्धः—शक्तिः । निर्विकल्पेत्यादि । अयं भावः—सविकल्पकः सर्वोऽपि हि भवतां शब्दानुबिद्ध एव । तत्र शब्दस्य शक्तिग्रहणं न निर्विकल्पकेन, तस्य बालमूकादिविज्ञानसदृशत्वात् । नापि सविकल्पकान्तरेण, अनवस्थानात् । नापि तेनैव, आत्माश्रयात् । नापि वाक्यादिना सम्बन्धबोधः, सम्बन्धज्ञाने जाते वाक्यप्रयोगः, वाक्यप्रयोगे सति सम्बन्धज्ञानमित्यन्योन्याश्रयात् । अतः “गौरयं” इत्यादिः न शाब्दप्रत्यय इति । अनुभवविरोधश्च; वाच्यस्य—अर्थस्य हि गोशब्दविशेषितस्यैव भानमिति गोशब्दविशिष्टस्य गोशब्दवाच्यत्वे विशेषणस्य गोशब्दस्यापि गोशब्दवाच्यत्वप्रसङ्ग इति ॥

यदि चेत्यादि । वाचकात्—शब्दात् वाच्यस्य वेदनं—बोधनं स्वानुरागेण—स्वोपरक्तत्वेन—स्वावच्छिन्नत्वेनैव यदि इत्यन्वयः । शब्दः स्वावच्छिन्नमेवार्थं बोधयेद्यदीति शङ्कार्थः । प्रतिबन्द्या समाधत्ते—लिङ्गादपीति । शङ्कते—अथेति । समाधत्ते—इहापीति । ननु वाच्यत्वं हि वस्तुधर्मः, वस्तुनो वाच्यत्वात् । अतः वस्तुनो भाने तद्धर्मस्यापि भानं युक्तमिति नेयं,
न चास्ति वस्तुनो धर्मो वाच्यता नाम कश्चन ।
यदि स्यात्, निर्विकल्पेऽपि प्रतिभासेत रूपवत् ॥ ३१ ॥

अर्थासंस्पर्शिनः शब्दान् कथयन् दुष्टसौगतः ।
प्रत्यक्षास्त्रेण भेत्तव्यः स कथं हन्यते त्वया ॥ ३२ ॥

प्रत्यक्षविषये वृत्तिः शब्दानां भवतः कुतः ?
तेषां यद्विषये वृत्तिः तद्धि शाब्दीकृतं त्वया ॥ ३३ ॥

सर्वत्र वाचकभानाङ्गीकारे शब्दविवर्तवादावतारः स्यात् अपि च—विषयभेदेन प्रतिभासभेदो भवतीति दुराशया शब्दविशिष्टमर्थं निर्विकल्पात् सविकल्पस्य विषयमधिकं पश्यति भवान् ! अनेनैव च वर्त्मनाऽवतरन् परं शब्दाध्यासं न पश्यतीति कोऽयं व्यामोहः ? स त्वं वचनीयोऽसि संवृत्तः—मधु पश्यसि दुर्बुद्धे ! प्रपातं नैव पश्यसि इति ॥

तस्मात् गौरिति विज्ञानं प्रत्यक्षमवधार्यताम् ।
शब्दस्मरणसापेक्षचक्षुरिन्द्रियनिर्मितम् ॥ ३४ ॥

प्रतिबन्दी युक्तेतिशङ्कां परिहरति—न चेत्यादिना । रूपवत्—वस्तुस्वरूपवत् । अथवा, विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य कारणत्वात् प्राथमिके निर्विकल्पके नीलरूपादिग्रहणानन्तरमेव “नीलो घटः” इति प्रतीत्या, रूपपदं नीलादिपरं वा । अथ शब्दानुविद्धसर्वप्रत्ययवादे बाधकमाह—अर्थेति । अर्थशून्यस्यापि शशशृङ्गादिशब्दस्य दर्शनात्, सर्वोऽपि शब्दः तथा कुतो न स्यात् इति वादी बौद्धः—शब्दं विनाऽपि घटाद्यर्थानां प्रत्यक्षसिद्धत्वात् अर्थाः नापलपितुं शक्याः इति खलु निग्राह्यः । एवञ्च प्रत्यक्षसिद्धं कञ्चनार्थं प्रसाध्य तत्र शब्दप्रवृत्तिरुपवर्णनीया । प्रत्यक्षस्यापि भवता शाब्दत्वं यद्यङ्गीक्रियते, तर्हि शब्दप्रतीतिरेवार्थप्रतीतिर्जातेति शब्दातिरिक्तार्थसद्भावे भवता प्रमाणं दुरुपपादं स्यात् ॥

अनेनैवेति । यदि सविकल्पकं सर्वमपि शब्दानुविद्धमेव तर्हि तथैव वाक्यपदीयोक्तदीशा शब्दाध्यासप्रसङ्ग । त्यर्थः । प्रपातः—“प्रपातस्तु तटो
मानसत्वं तु यद्यस्य नेष्यते युक्तमेव तत् ।
तद्भावानुविधायित्वात् बाह्येन्द्रियजमेव तत् ॥ ३५ ॥

सविकल्पके शब्दानुवेधाभावे निर्विकल्पकादवैलक्षण्यापादनम् अत्र पुनः प्रवराः प्राहुः—ननु ! एवं गौरित्यादिबोधेषु वाचकावच्छिन्नवाच्यप्रतिभासे सर्वप्रकारमपाक्रियमाणे प्रथमाक्षसन्निपातसमयसमासादितसद्भावनिर्विकल्पकवेदनवैलक्षण्यं कथमेषां भवेत् । न हि विषयातिशयमन्तरेण प्रतिभासातिशयो भवितुमर्हति । दण्डीति दण्डविशिष्टः पुरुषः प्रतिभासते, इतरथा न केवलपुरुषप्रतीतेरेषा प्रतीतिर्विशिष्यत । उभयप्रतिभासेऽपि न दण्डपुरुषाविति प्रतीतेः । विशेषणविशेष्यभावस्य नियामकत्वात् ॥

पूर्वापरचिरक्षिप्रक्रमाद्यवगमेष्वपि ।
दिक्कालादिविशिष्टोऽर्थः स्फुरत्यतिशयग्रहात् ॥ ३६ ॥

प्रत्यक्षः किं स कालादिः ? प्रतीतिं पृच्छ, किं मया ?
गृह्यते तद्विशिष्टोऽर्थः, स च नेत्येतदद्भुतम् ॥ ३७ ॥

भृगुः” । मधुग्रहणलोभात् अधस्स्थितं महागर्तमपि न जानासीत्युपहासः । तद्भावः—बाह्येन्द्रियसद्भावः ॥

सर्वप्रकारं इति क्रियाविशेषणम् । विषयातिशयः—विषयवैलक्षण्यम् । एषा—दण्डविशिष्टपुरुषविषयिणी । न विशिष्येतेत्यन्वयः । दण्डपुरुषोभयविषयत्वमेव प्रत्येकविषयकप्रतीतेर्वैलक्षण्यमित्यपि न युक्तमित्याह—उभयेति । दण्डपुरुषाविति प्रतीतेः दण्ण्डीति प्रतीतिर्न विशिष्येतेत्यन्वयः । किं तर्हि तत्र नियामकमित्यत्राह—विशेषणेत्यादि ॥

पूर्वापरशब्दौ दैशिकपरत्वापरत्वपरौ । चिरक्षिप्रशब्दौ कालिकपरत्वापरत्वपरौ । क्रमः—कारणकार्ये । दिक्कालसमवायानां यथासङ्ख्यं निदर्शनम् । एतादृशप्रत्ययेष्वपि अन्ततः तत्तत्कालादीनां वा विशेषणतया भानादस्त्येव विषयवैलक्षण्यमिति । मयेति । पृष्टेनेति शेषः । कालादिविशिष्टोऽर्थः गृह्यते, स तु कालादिः न गृह्यत इत्येतदत्यद्भुतम् । विशेषणाग्रहणे कथं तद्विशिष्टबुद्धिः स्यादित्याशयः । दिक्कालयोः प्रत्यक्षत्वं वक्ष्यति अनुमानपरीक्षायाम् ॥ कालवत् समवायोऽपि प्रत्यक्षः
एतेन समवायेऽपि प्रत्यक्षत्वं प्रकासितम् ।
इहेति तन्तुसम्बन्द्धपटप्रत्ययदर्शनात् ॥ ३८ ॥

अयं पट इति प्रत्ययात् इह तन्तुषु पट इति विलक्षण एष प्रत्ययः । तन्तुपटसम्बन्धस्य विशेषणस्याप्रत्यक्षतायां न केवलपटप्रत्ययात् विशिष्येतेति ॥ सामग्रीभेदमात्रान्न प्रतीतिभेदः
अथ मतं—उपायभेदात् प्रतीतिभेदो भवति; दूराविदूरदेशव्यवस्थितस्थाण्वादिपदार्थप्रतीतिवत्, संस्कृतासंस्कृताक्षकरणविषयबोधवद्वेति—तदसाम्प्रतम्—उपायभेदेऽपि तद्भेदासिद्धेः । उपायो बुद्धावतिशयमादधाति, न विषये ॥

विषयावगतिसमये च न बुद्धिरवभातीति नैयायिकाः । तदयमतिशयः यदधिकरणः, सा न प्रतिभासते बुद्धिः; यच्च तदानीमवभासते विषयः, तत्रातिशयो नास्ति; दृश्यते चातिशयसंवेदनमिति सङ्कटः पन्थाः । न च दूराविदूरदेशवर्तिनि पदार्थे प्रतीतिरुपायभेदात् भिद्यते । साऽपि हि विषयभेदादेव भिद्यते ॥

केवल पटप्रत्ययादिति । एष प्रत्यय इत्यनुकर्षः ॥

सिद्धान्तिच्छायया-शङ्कते—अथ मतमिति । देशस्यापि प्रतीत्युपायत्वात्—दूरेत्यादि । भेदासिद्धिमुपपादयति—उपाय इति । वह्निविषयकमेव प्रत्यक्षमनुमानं च, न हि तत्र विषये विशेषः इत्यर्थः ॥

ननु बुद्ध्यधीनमेव विशेषं—अन्ततः प्रत्यक्षत्वपरोक्षत्वादिरूपं—विषये ब्रूमः—इति चेत्—तत्राह—विषयेति । न ह्येकस्मिन्नेव समये ज्ञानार्थयोः प्रतिभासः सम्भवी, अननुभवात् । लोके अयं घट इत्यादिप्रतिभासकाले, अयं अर्थस्य आकारः, अयं ज्ञानस्येति न विविच्यानुभूयते । अतोऽयमन्यतरप्रतिभास एवेति, अर्थप्रतीतिकाले न ज्ञानप्रतीतिः, ज्ञानप्रतीतिकाले च नार्थप्रतीतिः, आकारद्वयाप्रतीतेरिति अभ्युपगन्तव्यमित्यर्थः । इदं सर्वमभ्युपगम्योक्तमित्याह—न चेति ॥

दूराद्धि वस्तुसामान्यं धर्ममात्रोपलक्षितम् ।
अदूरतस्तु विस्पष्टविशेषमवसीयते ॥ ३९ ॥

यथा माधेन वर्णितम् [शिशुपालवधे १-३] —

चयस्त्विषामित्यवधारितं पुरा
ततः शरीरीति विभाविताकृतिम् ।
विभुर्विभक्तावयवं पुमानिति
क्रमादमुं नारद इत्यबोधि सः इति ॥

क्रियान्तराणां वैचित्र्ये यद्वा तद्वाऽस्तु कारणम् ।
भेदो ज्ञानक्रियायास्तु कर्मभेदनिबन्धनः ॥ ४० ॥

उपायभेदादेव निर्विकल्पकसविकल्पकवैलक्षण्यम्
तदेतदाचार्याः प्रतिसमादधते—न विषयभेदादेव प्रतिभासभेदः, किन्तु उपायभेदात् भवत्येव ॥

यच्च चोदितम्—विषयप्रतिभासकाले तत्प्रतिभासाप्रतिभासात् अतिशयवचने सङ्कटः पन्था इति—तदविदितनैयायिकदर्शनस्यैव चोद्यम् । ज्ञानोत्पाद एव विषयस्य प्रत्यक्षतेति नो दर्शनं, न ज्ञानग्रहणमिति । तत्र यथा पुरुष इति निरतिशयज्ञानमात्रोत्पादे तावन्मात्रविषयप्रत्यक्षता भवति, न तत्र ज्ञानं प्रकाशते, अगृह्यमाणेऽपि ज्ञाने विषय एव प्रतिभासते; एवं दण्डीति, शुक्लवासा इति विशेषणज्ञानाभ्युपायवशात् सातिशयप्रत्ययजनने तदग्रहणे स एव विषयोऽवभासते इति कियानेष सङ्कटः पन्थाः ! तथा च

धर्ममात्रेति । धर्मसामान्येत्यर्थः । ननु छेदनभेदनादिक्रियासु उपायाधीन एव भेदो दृष्ट इति शङ्कायामाह—क्रियान्तराणामिति ॥

उपायभेदादेव इत्यन्वयः ॥

तत्प्रतिभासेति । अर्थविषयकज्ञानप्रतिभासेत्यर्थः । न ज्ञानेति । ज्ञानं स्वयं गृहीतमेवार्थं प्रत्याययतीति नेत्यर्थः । एवञ्च ज्ञानाप्रतिभासेऽपि विषयप्रतिभासाङ्गीकारे न बाधकमित्यर्थः । तदेवोपपादयति—तत्रेति । निरतिशयेति । दण्डी पुरुष इति ज्ञानापेक्षयेत्यर्थः । तावन्मात्रेति । पुरुषमात्रेत्यर्थः । तदग्रहणे—प्रत्ययाग्रहणे । स एव—सातिशय एव—दण्डोपरक्त
दण्डीति पुरुषप्रवणैव मतिः । को दण्डी पुरुषः ? कः पुरुषो दण्डी ? इति सामानाधिकरण्येन निस्सन्दिग्धस्य पुंस एव प्रतिभासात् । एवं दण्डिनं भोजय, दण्डिने देहीति भोजनादिकार्ययोगित्वं न दण्डे दृश्यते, अपि तु पुंस्येव ॥ विशिष्टबुद्धेः विशेष्यप्रवणत्वम् ननु ! दण्डी पर्वतमारोहतीति दण्डेऽपि कार्यान्वयो दृश्यते लोके; वेदेऽपि “दण्डी मैत्रावरुणः प्रैषानन्वाह” इति प्रैषानुवञ्चनस्य वचनान्तरतः प्राप्तेः दण्डविधानार्थमेतद्वाक्यं भवति । यथा “लोहितोष्णीषा ऋत्विजः प्रचरन्ति” इति श्येनादौ ऋत्विजां प्रकृतिवद्भावेन प्राप्तानां लोहितोष्णीषविधानमात्रमेतत् भवति—उच्यते— भवत्वेवं, किन्तु, दण्डमबलम्ब्य पुरुषः पर्वतमाहति, न दण्डो निश्चेतनः । वेदेऽपि दण्डपाणिः पुरुषः प्रेषाननुभाषत, न दण्डः; न लोहिता उष्णीषाश्चरन्ति, किन्तु अन्यपदार्थीभूता ऋत्विज एवेति सर्वत्र विशेष्यप्रवणैव मतिः । उभयप्रतिपादने तु दण्डपुरुषाविति स्यात्, न दण्डीति ॥

विशेषणविशेष्यभावस्य नियामकत्वादिति चेत्, सेयं विशेष्यप्रवणा मतिरुक्तैव, भवति, विशेषणस्य विशेषणत्वेनैवोपसर्जनत्वात् । दण्डः अस्य अस्तीति पुरुष एवोच्यते, न दण्डपुरुषौ ॥

एवं पूर्वापरादिप्रत्ययाः, चिरक्षिप्रादिप्रत्ययाः, इह तन्तुषु पट इत्यादिप्रत्ययाश्च दिक्कालसमवायग्राहिणः । त इमे दिक्कालसमवायाः सामग्र्यन्तर्गतास्सन्तः प्रत्ययातिशयमादधति, न तद्विषयीभवन्ति पटादिद्रव्यवत् ॥ दण्ड्येवेति यावत् । पुरुषप्रवणैवेति । न तु दण्डप्रवणेत्यर्थः । तत्र प्रमाणमाह—को दण्डीत्यादि ॥

लोहितोष्णीषा इत्यस्य बहुव्रीहित्वात्—अन्यपदार्थीभूता इति । उभयप्रतिपादने—विशेषणविशेष्ययोरुभयोरपि समप्राधान्येन प्रतिपादने ॥

दिक्-काल-समवायाः—यथासङ्ख्यं उक्तप्रतीतित्रयविषयाः । सामग्र्यन्तर्गता इति । तेषां तत्र विषयत्वादित्यर्थः । न तद्विषयीभवन्ति— केवलघटप्रतीत्यपेक्षया “इह इदानीं घटः” इति प्रतीतेर्वैलक्षण्यात् ॥

एवं पतनाद्यनुमेयगुरुत्वादिकारणभेदजनिताः “गुरुः पाषाणः” इत्यादिप्रत्ययाः परोक्षविशेषणं विशष्यमवलम्बन्ते इत्यलं विस्तरेण ॥

तस्मात् गौरित्यादिज्ञानं न वाचकावच्छिन्नवाच्यविषयम् । अतश्च न शाब्दं तत् । अपि तु सुस्पष्टं प्रत्यक्षमेव । तस्मिंश्च लक्ष्ये सति लक्षणवैयर्थ्यशङ्काकरणाभावात् नासम्भवदोषनिराकरणार्थमव्यपदेश्यपदम् ॥ स्वमतेन अव्यपदेश्य पदप्रयोजनवर्णनम्
किमर्थं तर्हीदमस्तु ? उक्तमाचार्वैः—उभयजज्ञानव्यवच्छेदार्थमिति ॥ वाचकावच्छिन्नवाच्यविषयकं ज्ञानं शाब्दमेव
ननु ! तदपि प्रत्यक्षमेवेति; अनपोह्यमुक्तम् । पुरोवस्थितगवादिपदार्थस्वरूपमात्रग्रहणनिष्ठितसामर्थ्यमत्र प्रत्यक्षम् । गोशब्दवाच्यतायां तु सञ्ज्ञाकर्मोपदेशी शब्द एव प्रमाणम् ॥

यद्यपि शब्दार्थसम्बन्धपरिच्छेदे गत्यन्तरमपि सम्भवति; तथापि यत्र तावत् सञ्ज्ञिनं निर्दिश्य सञ्ज्ञा वृद्धैरुपदिश्यते—गोशब्दवाच्योऽयं, पनसशब्दवाच्योऽयमिति, तत्र तद्वाच्यतापरिच्छेदे स एव करणम् ॥ अत एव च लोकोऽपि शाब्दत्वमिह मन्यते ।
शब्दोपरचितापूर्वज्ञानातिशयतोषितः ॥ ४१ ॥

अतीन्द्रियस्यापि अनुमितस्य विशेषणतया भानं युक्तमित्याह—एवमिति । परोक्षविशेषणमिति बहुव्रीहिः । परोक्षार्थस्य प्रत्यक्षे भानं तु ज्ञानलक्षणया प्रत्त्यासत्त्या, मनसा वेति वक्ष्यते ॥

उभयजं—शब्देन्द्रियजं पूर्वमुपपादितं “अयं पनसः” इति ज्ञानम् ॥

अनपोह्यं—निह्नोतुमशक्यम् । अनपोह्यत्वं विषयांश एवेत्याह—पुर इति । पदाथस्वरूपेति । विशेष्यस्वरूपेति यावत् ॥

गत्यन्तरम्—ज्ञानलक्षणप्रत्यासत्तिरूपम्, मन एव वा । सः—शब्दः ॥

उभयजज्ञानं यदि न प्रत्यक्षं, तर्हि किंरूपमित्यत्राह—अत इत्यादि । शाब्दत्वे हेतुः—शब्दोपरचितेत्यादि । इदं च लोकस्य विशेषणम् ।
तच्छब्दवाच्यताज्ञप्तिः विना सञ्ज्ञोपदेशिनः ।
शब्दान्नेति स एवात्र सत्यप्यक्षे प्रकर्षभाक् ॥ ४२ ॥

अतः सूत्रकृताऽप्यत्र शब्दातिशयदर्शिना ।
व्यधायि तद्व्यवच्छेदः न तु धर्मोपदेशिना ॥ ४३ ॥

तस्मात् उभयजज्ञानव्यवच्छेदार्थमेवेदं पदमिति ॥ भाष्योक्तस्य अव्यपदेश्य पदप्रयोजनस्य समर्थनम् अन्ये तु मन्यन्ते—यदि सङ्केतग्रहणकाले भाविनः सञ्ज्ञोपदेशकवचनजनितस्योभयजज्ञानस्य व्यवच्छेदकमिदं वर्ण्यते पदम्, तदा तद्व्यवहारकालेऽपि यत् “अयं गौः” इति सङ्केतग्रहणकालानुभूतदेवदत्ताद्युदीरितसञ्ज्ञोपदेशकवचनस्मरणपूर्वकं विज्ञानमुत्पद्यते, तदप्युभयजमेवेति कथमनेन न व्युदस्यते ॥

ननु ! तत्र शब्दस्मरणं कारणं, न शब्दः । सङ्केतकालेऽपि शब्दस्मरणमेव कारणम् । न हि क्रमभाविनो वर्णा युगपदनुभवितुं पार्यन्ते । एतदेवोपपादयति—तदिति । सञ्ज्ञोपदेशिनः—वृद्धस्य शब्दाद्विना तच्छब्दवाच्यताज्ञप्तिः शब्दात् न, इति—इति हेतोरित्यन्वयः । प्रकर्ष इति । प्रकर्षो हि कालदेशपुरुषविशेषाद्यपेक्षक इत्यर्थः । तथा चायं शाब्द एवेति भावः । न तु धर्मोपदेशिनेति । धर्मो हि न तर्कनिर्णेयः । अतस्तत्र यथाशास्त्रज्ञवचनं अङ्गीकार एव युक्तः । अयं तु न तादृशः, अतोऽस्ति विचारस्यावकाश इति पूर्वं [पु। २०६] उक्तस्योत्तरमिदम् ॥

नन्वेवं सति, ज्ञानलक्षणप्रत्त्यासत्त्या शब्दोपस्थितौ तद्विशिष्टं यत् “गौरयम्” इत्यादिज्ञानं तदपि शाब्दमेव स्यात् । न ह्यनुपदमुक्तात् वृद्धोदीरितवाक्यविशेषणकादस्य विशेषः ! अतः तद्व्यवच्छेदार्थमेवेदं लक्षणमित्युच्यतामित्याशङ्कतां मतमाह—अन्ये त्विति । तद्व्यवहारः—सङ्केतव्यवहारः ॥

न शब्द इति । प्रकृते तु श्रूयमाण एव शब्दो विशेषणतामश्नुते, तत्र तु स्मृत इत्यस्ति विशेष इत्याशयः । पुनरप्यवैलक्षण्यमेवोपपादयति— सङ्केतेति । न हि पार्यन्त इति । शब्दानां द्विक्षणावस्थायित्वादित्याशयः ।
अन्त्यवर्णे तु गृह्यमाणे स्मर्यमाणे वा किं शब्दव्यापारो विशिष्यते ?

ननु ! व्यवहारकाले गवादिनामधेयपदमात्रमेव स्मर्यमाणमिन्द्रियेण सह सविकल्पप्रत्ययोदये व्याप्रियते । सङ्केतकाले तु सञ्ज्ञोपदेशिवृद्धवाक्यं—इति चेत्—मैवम्—व्यवहारकालेऽपि सञ्ज्ञोपदेशकं वृद्धवाक्यमेव स्मर्यते, तदस्मरणे तच्छब्दवाच्यताऽनवगमात् । “अस्य गौरिति नाम देवदत्तेनोपदिष्टमासीत्” इत्येवमनुस्मृत्य गोशब्दवाच्यतयैवं व्यवहरतीति वाक्यस्मरणजमेवेदं ज्ञानम्— तस्मादस्यापि तद्वाक्यं सञ्ज्ञाकर्मोपदेशकम् ।
हेतुतामुपयातीति शाब्दमेतदपीप्यताम् ॥ ४४ ॥

एवमस्त्विति चेत् शान्तमेवं सति तपस्विनाम् ।
नैयायिकानामुत्पन्नं प्रत्यक्षं सविकल्पकम् ॥ ४५ ॥

यत्र मार्गान्तरेणापि सङ्केतज्ञानसम्भवः ।
तत्राप्यनेन न्यायेन शाब्दता न निवर्तते ॥ ४६ ॥

नैयायिकानां च सविकल्पप्रत्यक्षमयाः प्राणाः । तस्मान्नोभयजस्य शाब्दत्वं ज्ञानस्य वक्तव्यम् ॥ ननु व्यवहारकाले कृत्स्नस्यापि शब्दस्य स्मरणं, प्रकृते तु अन्तिमवर्णोऽनुभूयत एवेत्याशङ्कायामाह—अन्त्यवर्णे त्विति । किं विशिष्यत इति । न हि अन्तिमवर्णग्रहणमात्रं बोधजनकं, किं तु तेन कृत्स्नवर्णस्मरणेन पदोपस्थित्या खलु बोधो निर्वाह्यः । तथा च को विशेष इत्याशयः ॥

पुनरपि सिद्धान्ती वैलक्षण्यमुपपादयति—नन्विति । तदस्मरणे— वृद्धवाक्यास्मरणे ॥

अस्य—प्रत्ययस्य । इष्टापत्तौ बाधकमाह—शान्तमिति । सविकल्पकं प्रत्यक्षं शान्तमित्यर्थः । कुत इत्यत्राह—यत्रेत्यादि । वाच्यत्वं हि केवलान्वयि । अतः सविकल्पकं सर्वं वाचकावच्छिन्नमेवेति शाब्दमेव स्यात् । सविकल्पकप्रत्यक्षहानौ च नैयायिकमतमेवोच्छिद्येत । नैयायिकाः खलु भेदवादिनः ।
सम्बन्धाधिगमस्तु नानाप्रमाणकः । तत्र स्वे स्वे विषये तत्तत्प्रमाणं प्रवर्तते । यथाऽऽहं भट्टः “सम्बन्धः त्रिप्रमाणकः” [श्लो। वा। सम्ब। परि—१४१] इति । तस्मान्नैकस्य शब्दस्य भारः आरोपणीयः । प्रत्यक्षं तु सङ्केतग्रहणकालेऽपि स्वविषयग्राहकमिति नोभयजज्ञानव्यवच्छेदपङ्क्षो निरवद्यः । तस्माद्वरं जरन्नैयायिककथितशब्दकर्मतापन्नज्ञानव्यवच्छेदपक्ष इति स एवाश्रीयताम् । तत्र तावत् कर्मणि कृत्ये कृते व्यपदेश्यशब्दो यथार्थतरो भवति ॥ शब्देन्द्रियजज्ञानस्य न पञ्चमप्रमाणत्वम् ननु ! तत्र चोदितं; न तादृशं ज्ञानमप्रमाणं, न पञ्चमं प्रमाणमिति—सत्यम्—अयन्तु तेषामाशयः । रूपादिविषयग्रहणाभिमुखं हि भेदश्च सविकल्पविषयः । निर्विकल्पस्य वस्तुद्वयविषयकत्वाभावात् । अतश्च सविकल्पप्रत्यक्षहानौ भेदवादिनो नैयायिकस्य प्राणोच्छेद एवेति ॥

नानाप्रमाणकः—प्रत्यक्षानुमानादिप्रमाणकः । ननु कथमेकस्मिन्नेव विषये एकदैव नानाप्रमाणप्रवृत्तिरित्यत्राह—स्वे स्वे इति । सम्बन्ध इति । अर्थानुवादोऽयम् । वृद्धव्यवहाराच्छक्तिग्रहणोपपादनप्रकरणगतमिदम् । तथा हि—“शब्दवृद्धाभिधेयांश्च प्रत्यक्षेणात्र पश्यति । श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेष्टया । अन्यथाऽनुपपत्त्या च बुद्ध्येच्छक्तिं द्वयाश्रिताम् । अर्थापत्त्याऽवबुद्ध्यन्ते सम्बन्धं त्रिप्रमाणकम्” इति वार्तिकम् । अयमर्थः—व्युत्पित्सुर्बालः, वाचकं शब्दं, तत्प्रयोक्तारं प्रयोजकवृद्धं, तदर्थं च गवादिकं प्रत्यक्षेणेव जानाति; तत्र शब्दं श्रोत्रेण, इतरौ चक्षुपेति विशेषः । अनन्तरं स एव व्युत्पित्सुः गवानयनादौ प्रवर्तमानस्य श्रोतुः—प्रयोज्यवृद्धस्य अर्थज्ञानं गवानयनादिव्यापारेणानुमिनोति । ततः अस्य शब्दस्यास्मिन्नर्थे शक्तिमन्तरा अर्थज्ञानमेव न स्यादित्यर्थापत्त्या वाच्यवाचकभावरूपां शक्तिं गृह्णाति । एवं शक्तिज्ञानस्य प्रत्यक्षअनुमान-अर्थापत्त्यधीनत्वेऽपि अर्थापत्तिरभ्यर्हिततम उपायः । न हि हेतूनां सर्वेषां दण्डचक्रभ्रमणादीनामेकरूपमेव हेतुत्वं सम्भवति । अत एव “त्रिप्रमाणकम्” इत्युक्तम् । अत्र यद्यपि अर्थापत्तिर्नातिरिक्तं प्रमाणं, अथापि प्रमाणमेवेति न विरोधः । भारः—शक्तिग्राहकत्वम् । जरन्नैयायिकाः— भाष्यकाराः । कृत्ये—“अर्हे कृत्यतृचश्च” इत्युक्तकृत्यप्रत्यये । यथार्थतरः—शब्दकर्मकत्वादन्वर्थः ॥

तेषां—भाष्यकाराणाम् ॥

तदक्षजं ज्ञानं प्रमाणं फलं वोच्यते । यदा तु तदेव शब्देनोच्यते रूपज्ञानं रसज्ञानमिति, तदा रूपादिज्ञानविषयग्रहणव्यापारलभ्यां प्रमाणतामपहाय शब्दकर्मतापत्तिकृतां प्रमेयतामेवावलम्बत इति न तस्यां दशायां तत्प्रमाणमिति कुतः पञ्चमप्रमाणप्रसङ्ग इति ॥ मतान्तरेण अव्यपदेश्य पदप्रयोर्जनवर्णनम्
अपर आह—सविकल्पकस्य शब्दसङ्कल्पकस्य शब्दसंसर्गसापेक्षजन्मनः प्रत्यक्षज्ञानस्य शाब्दतां पूर्ववदाशङ्क्य तस्यैवशाब्दतां दर्शयत्यव्यपदेश्यपदेन सूत्रकारः । प्रत्यक्षमेव तत् ज्ञानम्, इन्द्रियान्वयव्यतिरेकानुविधायित्वात्, अव्यपदेश्यं—अशाब्दमित्यर्थः ॥

स्पष्टत्वात् वाचकाभावात् इन्द्रियानुविधानतः ।
लोकस्य सम्मतत्वाच्च प्रत्यक्षमिदमिष्यते ॥ ४७ ॥

शब्दानुस्मृतिजत्वेऽपि न शाब्दं ज्ञानमीदृशम् ।
शब्दस्मृतिः सहायः स्यात् इन्द्रियस्य प्रदीपवत् ॥ ४८ ॥

निर्विकल्पकस्य सूत्रारूढत्वोपपादनम्
नन्वेवं सविकल्पस्य प्रत्यक्षत्वे प्रसाधिते ।
नेदानीं सङ्गृहीतं स्यात् प्रत्यक्षं निर्विकल्पकम् ॥ ४९ ॥

यस्तु शब्दानुवेधेन शाब्दत्वं सविकल्पके ।
कश्चिदाशङ्कते, तस्य प्रतिशब्दोऽयमुच्यते ॥ ५० ॥

यत्र शब्दानुवेधेऽपि प्रत्यक्षं ज्ञानमिष्यते ।
तत्र तत्स्पर्शशून्यस्य तथात्वे का विचारणा ॥ ५१ ॥

निर्विकल्पकवत्तस्मात् प्रत्यक्षं सविकल्पकम् ।
समग्रहीच्च तदिदम्पदेनानेन सूत्रकृत् ॥ ५२ ॥

स्पष्टत्वात्—इतरप्रमाणापेक्षया संशयावकाशविरलत्वात् स्पष्टत्वम् । वाचकाभावात्—वाचकभानरहितत्वात् । यस्त्विति । अस्य “आशङ्कते” इत्यनेनान्वयः । प्रतिशब्दः—प्रत्युत्तरम् । सविकल्पकस्यैव प्रत्यक्षत्वे निर्विकल्पकस्य प्रत्यक्षत्वं कैमुतिकसिद्धमित्याह—यत्रेति । यत्र—सविकल्पके । तत्र— निर्विकल्पके । तत्स्पर्शः—शब्दभानम् । निर्विकल्पकस्य प्रत्यक्षत्वं कैमुतिकसिद्धमिति तस्य दृष्टान्तत्वाभिधानम् ॥

इत्याचार्यमतानीह दर्शितानि यथाऽऽगमम् ।
यदेभ्यः सत्यमाभाति सभ्यास्तदवलम्ब्यताम् ॥ ५३ ॥

अव्यभिचारि पदप्रयोजनम्
अव्यभिचारिग्रहणं व्यभिचारिज्ञानव्यवच्छेदार्थम् । यथा— ग्रीष्मे तपति ललाटन्तपे तपने तन्मरीचिषु चतुरमूषरभुवमभिहत्य समुत्फलितेषु तरङ्गाकारधारिषु यत् वारिज्ञानं, तत् अतस्मिंस्तदितिग्रहणात् व्यभिचारि भवति । तत् अनेन पदेन व्यवच्छिद्यते, न तत् प्रत्यक्षमिति ॥

तत्र निर्विकल्पकमपि प्रथमनयनसन्निपातजं ज्ञानमुदकसविकल्पकज्ञानजनकं उदकग्राह्येव न यथा, तथा तथागताः कथयन्ति । मरीचिविषयमविकल्पकं ज्ञानं उदकविकल्पकजननात् अप्रमाणमिति । निर्विकल्पावस्थायामविचारयत एव प्रथमोन्मीलितचक्षुषो झटिति सलिलप्रतिभासात् ॥

चतुरं इति प्रतिफलनक्रियायाः विशेषणम्, अभिहननस्य वा । न तत् प्रत्यक्षमिति । प्रत्यक्षप्रमाणस्य खलु लक्षणमुच्यत इत्यर्थः ॥

ननु मरीचिषु प्रथमाक्षपातजं हि ज्ञानं निर्विकल्परूपं प्रमाणमेवेति कथमुच्यते तस्य व्यावृत्त्यर्थं अव्यभिचारीतिविशेषणमित्यत्राह—तत्रेति । प्रथमनयनसन्निपातजमपीत्यन्वयः । उदकग्राह्येव नेति । न ह्युदकेन साकं चक्षुषस्सन्निकर्षः, किन्तु मरीचिभिरेवेति हेतुः । ननु तर्हि मरीचिविषयकं तज्ज्ञानं कथमप्रमाणमित्यत्राह—मरीचीत्यादि । अन्यथा हि उदकसन्निकर्षजोदकज्ञानस्य मरीचिसन्निकर्षजोदकज्ञानस्य च वैलक्षण्यमेव दुर्वचं स्यादित्याशयः । वस्तुतस्तत्र निर्विकल्पमपि न मरीचिविषयकमित्याह— निर्विकल्पेति । अविचारयत इति प्रथमाक्षसन्निपातजत्वोपपादनाय ॥

अथवा वाचकोल्लेखपूर्विका अपि संविदः नैवेन्द्रियार्थजन्यत्वं जहति इत्युपपादितम् । तस्मात् सविकल्पकमविकल्पकं वा यत् अतस्मिंस्तदिति ज्ञानमुत्पद्यते तत् व्यभिचारि । तच्चेह व्यावर्त्यमिति ॥ इन्द्रियार्थसन्निकर्षोत्पन्नपदेनैव भ्रमव्यावृत्तिशङ्का, समाधानं च
ननु ! मरीचिषु जलज्ञानमविद्यमानसलिलावभासित्वात् अतिन्द्रियार्थसन्निकर्षजम् । अतश्चेन्द्रियार्थसन्निकर्षोत्पन्नपदेन तद्व्युदाससिद्धेः किमव्यभिचारिपदेन ? नैतदेवम्—

तस्येन्द्रियार्थजन्यत्वं सिद्धं तद्भावभावतः ।
न ह्यनुन्मीलिताक्षस्य मरौ सलिलवेदनम् ॥ ५४ ॥

अर्थोऽपि जनकस्तस्य, विद्यते नासतः प्रथा ।

भ्रमस्थले विषयभानप्रकारचिन्ता
तदालम्बनचिन्तां तु त्रिधाऽऽचार्याः प्रचक्रिरे ॥ ५५ ॥

कैश्चिदालम्बनं तस्मिन् उक्तं सूर्यमरीचयः ।
निगूहितनिजाकाराः सलिलाकारधारिणः ॥ ५६ ॥

तुष्यत्वित्यादिन्यायेनाह—अथवेति । वाचकोल्लेखेत्यादि । मरीचिकां पश्यन्नपि भ्रान्तः “उदकमिदं” इति खलु जानाति । अतः अतस्मिंस्तद्रूपत्वं दुरपह्नवमेवेत्याशयः ॥

तद्भावभावतः—इन्द्रियार्थसन्निकर्षे सत्येबोत्पादात् । किं ततः ? इत्यत्राह—अर्थोऽपीति । असदर्थविषयकत्वमेव कुतो न स्यादित्यत्राह— विद्यत इति । प्रथा-प्रकाशः, प्रतीतिरिति यावत् ॥

उक्तं इति विधेयप्राधान्यात्कथनम् ॥

ननु स्वासाधारणाकारतिरोभावमात्रेणान्याकारस्य कथं तत्र भानम् ? न हि सलिलेन्द्रियसन्निकर्षस्तत्रोपपादयितुं शक्य इति शङ्कायामाह—
तत्र तरङ्गादिसामान्यधर्मग्रहणे सति न स्थाणुपुरुषवत् उभयविशेषाः स्मरणपथमवतरन्ति । न च सन्निहितमरीचिविशेषाः स्मरणपथमवतरन्ति । किन्तु पूर्वोपलब्धविरुद्धसलिलवर्तिनो विशेषाः । तत्स्मरणाच्च स्थगितेषु स्वविशेषेषु मरीचयः स्वरूपमुपदर्शयितुमशक्नुवन्तः तोयरूपेणावभासन्ते ॥ मतान्तरेण भ्रमोपपादनम् अन्ये त्वालम्बनं प्राहुः पुरोऽवस्थितधर्मिणः ।
सादृश्यदर्शनोद्भूतस्मृत्युपस्थापितं पयः ॥ ५७ ॥

यत्र किल ज्ञाने यत् रूपमुपप्लवते, तत् तस्यालम्बनमुच्यते, न सन्निहितम्; भूप्रदेशस्य तदारम्भकाणां च परमाणूनां तदालम्बनत्वप्रसङ्गात् । इदं च सलिलावभासि विज्ञानम् । अतस्तदेवास्यालम्बनम् । तच्च नेह सन्निहितम् । न चैकान्तासतः खपुष्पादेः ख्यातिरवकल्पत इति देशान्तरादौ विद्यमानमेव सलिलं सदृशदर्शनप्रबुद्धसंस्कारोपजनितस्मरणोपारूढमिहावलम्बनीभवति ॥ तत्रेत्यादि । तरङ्गादीति । तरलत्वादीति वत् । ननु तर्हि संशयरूपत्वं कुतो न ? इत्यत्राह—न स्थाण्विति । अत्र नञः स्मरणपथमवतरन्तीत्यनेनान्वयः । मरीचेस्तथैव कुतो न भानम् ? इत्यत्राह—न चेति । पूर्वोपलब्धं यत् मरीचित्वं, तद्विरुद्धा ये सलिलवर्तिनो विशेषाः सलिलत्वादयः ते न स्मरणपथमवतरन्तीत्यन्वयः । तत्स्मरणात्—सलिलत्वादिस्मरणात् । स्थगितेषु—आच्छादितेषु । स्वविशेषेषु—मरीचित्वादिषु ॥

धर्मिणः इत्यस्य सादृश्यपदार्थेनान्वयः । ननु इन्द्रियसन्निकर्षस्तु मरीचेः, आलम्बनत्वं तु पयस इति कथं घटतामित्यत्राह—यत्रेत्यादि । अयं भावः—इन्द्रियसन्निकर्षमात्रं न ज्ञानविषयताप्रयोजकम्, पुरोवर्तिधर्म्यतिरिक्तानां भूप्रदेश-तदुपादानपरमाणूनां च इन्द्रियसन्निकर्षे सत्यपि ज्ञानाविषयत्वात् । “इदं जलम्” इत्येव खलु ज्ञानस्याकारः । अत्र “अयं देशो जलवान्” इति देशस्याप्यालम्बनत्वं कदाचित् सम्भवेत्, परमाणूनां तु तदपि तत्रैव पक्षान्तरोपपादनम् अन्यदालम्बनं चान्यत् प्रतिभातीति केचन ।
आलम्बनं दीधितयः तोयं च प्रतिभासते ॥ ५८ ॥

कर्तृकरणव्यतिरिक्तं ज्ञानजनकमालम्बनमुच्यत इति न परमाण्वादौ प्रसक्तिरिति । तदिदं पक्षत्रयमपि उपरिष्टान्निपुणतरं निरूपयिष्यते [३ आह्निके] ॥

तदेवं बाह्येन्द्रियार्थान्वयव्यतिरेकानुविधायिनां विभ्रमाणामिन्द्रियार्थसन्निकर्षोत्पन्नपदेन निरसितुमशक्यत्वात् युक्तमव्यभिचारिपदोपादानम् ॥ मानसविभ्रमाः ये तु—मानसाः विभ्रमाः बाह्येन्द्रियानपेक्षजन्मानः—तेषामिष्यत एवेन्द्रियार्थसन्निकर्षपदेन पर्युदसनमिति न तदर्थमव्यभिचारिपदोपादानम् । तद्यथा—

विरहोद्दीपितोद्दामकामाकुलितदृष्टयः ।
दूरस्थामपि पश्यन्ति कान्तामन्तिकवर्तिनीम् ॥ ५९ ॥

मानसविभ्रमहेतवः ननु ! एवम्प्रायेषु निरालम्बनेषु विभ्रमेषु कुतस्त्यः आकारः प्रतिभाति ? उच्यते— नेति । अतो यत् प्रकाशते तदेवालम्बनम् । प्रकृते च सलिलमेव प्रकाशत इति तदेबालम्बनम् । एवमालम्बनत्वे सिद्धे तस्योपस्थितिर्यथाकथञ्चित् वक्तव्येति स्मरणमेवोपस्थापकं कल्प्यत इति ॥

कर्तृकरणेति । एवञ्चास्मिन् मते यत् प्रकाशते तदेवालम्बनमिति न नियमः । एवञ्चात्र प्रथमपक्षे मरीचीनामेव विषयत्वं, तोयभानं तु ज्ञानाख्यप्रत्यासत्त्या । द्वितीयपक्षे तथैव प्रत्यासत्त्या तोयानामेव विषयत्वम् । तृतीयपक्षे तु विषयत्वं अन्यस्य, भानं चान्यस्येति नायं दोष इति विशेषः ॥

निरालम्बनेष्विति—मरीचिजलज्ञानादौ हि पुरोवस्थितासु मरीचिषु जलप्रतिभास इति साधिष्ठानकोऽयं भ्रमः । कामुककान्तादर्शनादौ कस्मिन् पुरोवर्तिनि कास्ताप्रतीतिः ? न हि निरधिष्ठानको भ्रमः सिद्धान्तेऽङ्गीकर्तुं शक्यते । शून्यवादावतारप्रसङ्गात् इति भावः ॥

आकारः स्मृत्युपारूढः प्रायेण स्फुरति भ्रमे ।
स्मृतेस्तु कारणं किञ्चित् कदाचित् भवति क्वचित् ॥ ६० ॥

क्वचित् सदृशविज्ञानं कामशोकादयः क्वचित् ।
क्वचित्तु दर्शनाभ्यासः तिमिरं चक्षुषः क्वचित् ॥ ६१ ॥

क्वचिन्निद्रा क्वचिच्चिन्ता धातूनां विकृतिः क्वचित् ।
अलक्ष्यमाणे तद्धेतौ अदृष्टं स्मृतिकारणम् ॥ ६२ ॥

बालस्येन्दुद्वयज्ञानमस्ति नास्तीति वेत्ति कः ।
अस्तित्वेऽपि स्मृतौ हेतुमदृष्टं तस्य मन्वते ॥ ६३ ॥

नूनं नियमसिद्ध्यर्थं जनकस्यावभासनम् ।
न चैकान्तासतो दृष्टा ज्ञानोत्पादनयोग्यता ॥ ६४ ॥

न च सन्निहितं वस्तु तत्रास्ति वनितादिकम् ।
तेनेदं स्मृत्युपारूढं अवभातीति मन्वते ॥ ६५ ॥

तत्राद्येन पदेनैताः स्वान्तःकरणसम्भवाः ।
निरस्ता भ्रान्तयोऽक्षादिसंसर्गरहितोदयाः ॥ ६६ ॥

याः पुनः पीतशङ्खादिमरुनीरादिबुद्धयः ।
अक्षजास्तद्व्युदासाय सूत्रे पदमिदं कृतम् ॥ ६७ ॥

स्मृत्युपारूढ इति । एवञ्च पुरोवर्तित्वांशे परं भ्रम इति भावः । अलक्ष्यमाण इति । तद्धेतौ-भ्रमहेतौ अलक्ष्यमाणे—प्रत्यक्षतोऽगृह्यमाणे अदृष्टं वा स्मृतिकारणं कल्पनीयमित्यर्थः । ननु बालस्य कथं पूर्वोक्तदोषाणां प्रसङ्गः ? कथं वा तस्य भ्रमोत्पत्तिः ? इत्यत्राह—बालस्येति । स्मृताविति । “आकारः स्मृत्युपारूढः” इत्यत्रोक्तायां भ्रमहेतुभूतायां स्मृतौ इत्यर्थः । नियमसिद्धयर्थं—कार्यकारणयोर्व्याप्तिसिद्धयर्थं अत्रापि जनकस्य—भ्रमहेतोः अवभासनं नूनमङ्गीकर्तव्यम् । अन्यथा कुत्रापि कार्यात् कारणानुमानं न स्यादित्यर्थः । ननु निरधिष्ठान एव वनितादिभ्रमः कुतो न स्यादित्यत्राह—न चेति । आद्येन पदेन—इन्द्रियार्थसन्निकर्षोत्पन्नपदेन । इदं पदं—अव्यभिचारिपदम् । एवञ्च भ्रमः द्विविधः—अन्तर्गताकारे बहिष्ठत्वविषयकः, बहिर्गत एव वस्तुनि आकारान्तरविषयक इति सर्वोऽपि भ्रमः सालम्बन एवेति ॥ व्यवसायात्मकदलप्रयोजनम्
दूरात् स्थाणुपुरुषसाधारणं धर्ममारोहपरिणाहरूपं उपलभमानस्य तयोरन्यतरत्र वर्तमानान् वक्रकोटरादीन् करचरणादीन् वा विशेषानपश्यतः समानधर्मप्रबुद्धसंस्कारतया चोभयवर्तिनोऽपि विशेषाननुस्मरतः पुरोऽवस्थितार्थविषयं स्थाणुर्वा पुरुषो वेति संशयज्ञानमुपजायते । तत् इन्द्रियार्थसन्निकर्षोत्पन्नत्वादिविशेषणयुक्तमपि न प्रत्यक्षफलम् । अतस्तद्व्यवच्छेदाय व्यवसायात्मकग्रहणम् ॥ इन्द्रियार्थसन्निकर्षोत्पन्नपदेन न संशयव्युदाससम्भवः
ननु ! मानसत्वात् संशयज्ञानस्य इन्द्रियार्थसन्निकर्षोत्पन्नग्रहणेन निरासः सिद्ध्यत्येव; किं पदान्तरेण ? तथा च भाष्यकारः— “स्मृत्यनुमानागमसंशयप्रतिभास्वप्नज्ञानोहसुखादिप्रत्यक्षं इच्छादयश्च मनसो लिङ्गानि” [न्या। भा। १-१-१६] इति वक्ष्यति । मैवम्—स्थाण्वादिसंशयस्य बाह्येन्द्रियान्वयव्यतिरेकानुविधायित्वात् । कश्चिद्धि मानसः संशयः समस्त्येव; यथा— दैशिकस्य ज्योतिर्गणकादेः एकदाऽन्यदा चासम्यगादिश्य तृतीये पदे पुनरादिशतः संशयो भवति—“किमयमस्मदादेशः संवदेत् ? उत विसंवदेत् ?” इति । स भाष्यकृतश्चेतसि

तयोः—स्थाणुपुरुषयोः । उभयवर्तिनोऽपि विशेषाननुस्मरत इत्यनेन भ्रमवैलक्षण्यमुक्तम् ॥

मानसत्वादिति । इन्द्रियेण धर्मिणि गृहीतायां साधारणधर्मयोः स्मरणे च पश्चाज्जायमानः संशयो मानसिक एव । न हि तत्र वस्तुद्वयेन साकमिन्द्रियसन्निकर्षो वर्तत इत्यर्थः । संशयस्य मानसत्वे संवादमाह—तथा चेति । कार्यात् खलु कारणानुमानमिदम् । तेन च संशयस्य मनःकारणकत्वमुक्तं भवतीत्यर्थः । बाह्येन्द्रियेति । तथा च चाक्षुष एवायं स्थाणुपुरुषसंशय इत्यर्थः । ननु तर्हि मानसः संशय एव नास्ति किम् ? इत्यत्राह— कश्चिदिति । दैशिकः—ग्रामीणः । भाष्यमप्येतद्विषयमित्याह—स भाष्यकृत
केवलमनःकरण इति स्थितः । यस्तु विष्फारिताक्षस्य “स्थाणुर्वा ? पुरुषो वा ?” इत्यादिः सम्पद्यते संशयः तमनिन्द्रियार्थसन्निकर्षजं को नामाचक्षीत ! अव्यभिचारिपदेनापि न संशयव्युदाससम्भवः ननु ! अतस्मिंस्तदिति ज्ञानं व्यभिचारि व्याख्यातम् । एकरूपं च पुरोऽवस्थितमर्थं अनेकरूपतया स्पृशति संशयः—“स्थाणुर्वा ? पुरुषो वा ?” इति । सोऽयमतस्मिंस्तथाभावात् विपर्यय एवेति पूर्वपदव्युदस्तत्वात् न पदान्तरव्यवच्छेद्यतामर्हतीति । नैतदेवम्— स्वरूपभेदात् कारणभेदाच्च । एकमेव विरुद्धमाकारमुल्लिखन् विपर्ययो जायते—स्थाणौ पुरुष इति, पुंसि वा स्थाणुरिति । अनियताकारद्वयोल्ल्खी तु संशयो भवति—स्थाणुर्वा स्यात् ? पुरुषो वेति । सोऽयं स्वरूपभेदः प्रत्यात्मसंवेद्यः ॥

कारणभेदश्च—विरुद्धविशेषस्मरणप्रभवो विपर्ययः—शुक्तिकायां सन्निहितायां रजतविशेषान्, मरीचिषु सन्निहितेषु सलिलगतविशेषाननुस्मरतः विपर्ययो भवति; उभयविशेषस्मरणजन्मा तु संशय इति—पदान्तरनिरसनीय एवायम् ॥ इति । एवं मानससंशयसत्वेऽपि संशयसामान्यस्य मानसत्वाभावात् इन्द्रियार्थसन्निकर्षोत्पन्नपदेन न व्युदासः ॥

नन्विदं अतस्मिंस्तदिति ज्ञानं कथं भवेत् । तत्र हि पुरोवर्तिनि स्थाणुत्वं पुरुषत्वं वा वर्तत एव खल्वित्यत्राह—एकेति । स्थाणुत्वपुरुषत्वान्यतरवत् तदन्यतराभावोऽपि तत्र वर्तत एव, तयोर्विरुद्धत्वादित्यतस्मिंस्तदिति ज्ञानमेव तदिति । स्वरूपभेदादिति । विपर्ययापेक्षयेति शेषः । एकमेवेति आकारविशेषणम् ॥

पदान्तरेत्यादि । अव्यभिचारिपदेन न संशयव्युदास इत्यर्थः । एतदुक्तं भवति । प्रतीतः आकारो यदि धर्मिणि नास्ति, तदा तत् ज्ञानं व्यभिचरितमित्युच्यते । संशयस्थले तु प्रतीतः एकः आकारः धर्मिण्यस्त्येवेति संशयः व्यभिचरित इति न वक्तुं शक्यत इति ॥ अव्यपदेश्यपदेनैव व्यवसायात्मकपदं न चरितार्थम्
ननु ! संशयविपर्यययोरपि निर्विकल्पयोरसम्भवात् अव्यपदेश्यपदेनैव प्रवरपक्षे प्रतिक्षेपः सिद्ध्येत् । पुरोऽवस्थितस्थाण्वादिधर्मिदर्शनमात्रमेव निर्विकल्पकमिन्द्रियव्यापारजम् । अनन्तरन्तु उभयान्यतरविशेषणस्मरणजन्मनोरुल्लिखितशब्दयोरेव संशयविपर्यययोरुत्पादः । तत्र विशेषस्मृत्यैव शब्दानुवेधस्याक्षेपात् । अतः पदद्वयमपि तद्व्युदासाय न कर्तव्यम् ॥

अत्रैतदेव तावद्वक्तव्यम् । प्रवरपक्षः प्रतिक्षिप्त एव, यतः शब्दानुवेधजातमपि प्रत्यक्षमुपपादितम् ॥ इन्द्रियार्थसन्निकर्षोत्पन्नपदेनापि न संशयविपर्ययव्युदाससम्भवः
ननु ! भवतु प्रवरपक्षः प्रतिक्षिप्तः । सदृशदर्शननिष्ठिते तु नयनव्यापारे, विशेषस्मृतेरूर्ध्वमुपजायमानौ संशयविपर्ययौ नेन्द्रियजाविति प्रथमपदेनैव निरस्तौ भवतः—तदसत्—स्मृतेरूर्ध्वमपी-

निर्विकल्पयोः—शब्दाननुविद्धयोः । प्रवरः—भाष्यकारः । “यदक्षपादः प्रवरो मुनीनां” इति वार्तिकोक्तेः तथा निर्देशः । असम्भवदोषनिरासकतया अव्यपदेश्यपदस्य स्वेन व्याख्यातत्वात् “प्रवरपक्षे” इत्युक्तम् । अव्यपदेश्यपदेन तयोर्निरासमेवोपपादयति—पुरोऽवस्थितेत्यादि । उभयान्यतरेति यथाक्रमं संशयविपर्ययाभिप्रायम् । अव्यपदेश्यपदेन संशयविपर्ययव्युदाससूचनाय—उल्लिखितशब्दयोरिति । उल्लिखितशब्दयोरित्यत्र प्रमाणमाह—तत्रेति । उपपादितं— [पूर्वं २०५, २१५ पुटे] । तथा च नानेन संशयव्यावृत्तिः ॥

नन्विति—यद्व्यप्यनुपदमेव संशयविपर्यययोरौन्द्रियिकत्वमुक्तं, तथाऽपि तदेवाक्षिप्यत इति मन्तव्यम् । पूर्वं हि इन्द्रियान्वयव्यतिरेकानुविधानात् ऐन्द्रियिकत्वमुक्तम् । इन्द्रियव्यापारस्तु सदृशदर्शने पर्यवस्यतीत्याक्षेपः । सदृशदर्शननिष्ठिते—सदृशदर्शन एव विश्रान्ते । एवञ्चानन्तरमिन्द्रियव्यापाराभावात् कथं तयोरिन्द्रियार्थसन्निकर्षजन्यत्वम् ? न हि संशयविपर्यययोः
न्द्रियव्यापारानुवृत्तेरित्युक्तत्वात् । एतच्चान्वयव्यतिरेकाभ्यामवगम्यते, निमीलितचक्षुषस्तदनुत्पादात् । न च तदानीमन्तःसङ्कल्परूपेणापि शब्दोल्लेखः । उत्पन्ने तु संशये विपर्यये च वाचकस्मरणं भविष्यतीति सम्यग्ज्ञानवत् संशयविपर्ययावपि शब्दोल्लेखशून्यौ संवेद्येते । विशेषस्मृतिस्तु विशेषविषयत्वात् तानेवाक्षिपतु । शब्दस्य किं वर्तते ? वाचकशब्दस्मृतिस्तु शब्दमुपस्थापयति । सा च न तावदुत्पन्नेति ॥

सम्यक्प्रत्ययवत्तस्मात् वाचकोल्लेखवर्जितौ ।
अक्षव्यापारजौ न स्तः न संशयविपर्ययौ ॥ ६८ ॥

ईदृशयोः कथमनयोराद्यपदव्युदसनीयता ? तस्मात् ।
तदपाकृतये युक्तं पदद्वयस्याप्युपादानम् ॥ ६९ ॥

प्रत्यक्षं इति पदव्याख्यानम् एवं लक्षणपदानि । लक्ष्यपदं तु “प्रत्यक्षम्” इति ज्ञानविशेषे रूढ्यैव प्रवर्तते; योगस्य व्यभिचारात् । प्रति गतमक्षं प्रत्यक्षमित्यक्षरार्थः । स चायं सुखादावपि सम्भवतीति रूढिरेव साधीयसी ॥ प्रकारतया भासमाने वस्तुनि इन्द्रियसम्बन्धोऽस्ति । अन्यथा व्याप्तिग्रहणकाले वह्नेरैन्द्रियिकत्वात् अनुमानेऽपि वह्नेरैन्द्रियिकत्वं स्यादिति भावः । स्मृतेरनन्तरमपि कुतः इन्द्रियव्यापारापेक्षेत्यत्र अनुभवं पृच्छेति वदति—एतच्चेति । तदनुत्पादात्—संशयविपर्यययोरनुत्पादात् । तयोः प्रकारांशे इन्द्रियसन्निकर्षाभावेऽपि, विशेष्यांशे अस्त्येव सः । ततश्च प्रत्यभिज्ञावत् तावपि प्रत्यक्षावेवेति न निराससम्भवः । सम्यग्ज्ञानं—शब्दाननुविद्धप्रमात्मकसविकल्पकज्ञानम् । तानेव—विशेषानेव । एवकारेण शब्दव्यवच्छेदः । अक्षव्यापारजौ न स्त इति न इत्यन्वयः ॥

व्यभिचारमेवोपपादयति—प्रति गतमिति । इन्द्रियसम्बद्धमित्यर्थः । सम्बन्धश्च जन्यजनकभावः । एवञ्च सुखादीनामपि मानसत्वादतिव्याप्तिः । बाह्येन्द्रियमात्रविवक्षायामात्मप्रत्यक्षादावव्याप्तिप्रसङ्गः ॥ सूत्रे प्रत्यक्षपदं यौगिकमपि स्यात्
अथवा ज्ञानपदस्य सूत्रे निर्देशात् योगपक्षोऽप्यस्तु । न चासौ दृश्यमानो निह्नोतुं युक्तः । योगरूढिस्तु नाम न सम्मतैव विदुषाम् । यत्रापि हि द्वयं दृश्यते तत्रापि शब्दप्रवृत्तौ प्रयोजकमेव भवति ॥

कथं पुनः अक्षं प्रति गतं ज्ञानमिष्यते ? न संयोगित्वेन; अञ्जनादेः प्रत्यक्षप्रसङ्गात् । न समवायित्वेन; अक्षवर्तिनां रूपादीनां तथात्वप्रसङ्गात् । न जनकत्वेन; अक्षारम्भकाणां परमाणूनामपि तथाभावप्रसक्तेः । तस्मात् जन्यत्वेनैव ज्ञानमक्षं प्रति गतमिति व्याख्येयम् ॥

अव्ययीवव्याख्यानं तु न युक्तम्; प्रत्यक्षः पुरुषः, प्रत्यक्षा स्त्री, इत्यादिव्यवहारदर्शनात्—इत्यलमतिप्रसङ्गेन ॥

अर्थपौष्कल्ये सम्भवति डित्थादिपदवत्केवलसाङ्केतिकत्वं न युक्तमित्यत आह—अथवेति । तर्हि सुखादौ कथं व्यभिचारवारणमित्यत्राह— ज्ञानपदस्येति । दृश्यमानः—प्रतीयमानः । ननु कुतः योगरूढयोर्विकल्पादरणं, अस्तु तयोस्समुच्चयेन बोध इत्यत्राह—योगरूढिस्त्विति । एतत्तत्वं शब्दप्रकरणे स्पष्टीभविष्यति । द्वयं—योगः रूढिश्च । प्रयोजकमेवेति । अन्यतरदिति शेषः । पङ्कजनिकर्तृत्वसाम्यात् भेकादिषु पङ्कजपदप्रयोगवारणाय परं रूढ्यपेक्षा, न त्वर्थबोधायेति । प्रति इत्यस्य विवरणं गतमिति ॥

प्रत्यक्षप्रसङ्गात्—प्रत्यक्षत्वप्रसङ्गात् । प्रत्यक्षपदवाच्यत्वप्रसङ्गादिति वा ॥

न युक्तमिति । अत्र—यद्यपि भाष्ये “अक्षस्याक्षस्य प्रतिविषयं वृत्तिः प्रत्यक्षम्” इति कथनादव्ययीभावपक्षः भाष्योक्त इति ग्रन्थकृदमिप्रैतीव; परन्तु वार्तिके, “नायं समासः, किन्तु स्वरूपकथनमात्रम् । समासे खलु द्वितीयैव स्यात्, न षष्ठी । अतः प्रतिगतमक्षं प्रत्यक्षमिति प्रादिसमासो द्रष्टव्यः” इत्युक्तमत्र स्मरणीयम् । प्रत्यक्षसूत्रे “यतः” शब्दाध्याहारः पूर्वमेवोक्तः ॥

तेनेन्द्रियार्थजत्वादिविशेषणगणान्वितम् ।
यतो भवति विज्ञानं तत् प्रत्यक्षमिति स्थितम् ॥ ७० ॥

इति विगतकलङ्कमस्य धीमान्
अकुरुत लक्षणमेतदक्षपादः ।
न तु पररचितानि लक्षणानि
क्षणमपि सूक्ष्मदृशां विशन्ति चेतः ॥ ७१ ॥

इति प्रत्यक्षसूत्रव्याख्यानप्रकरणम् परसम्मतप्रत्यक्षलक्षणपरीक्षा तत्र धर्मकीर्त्युक्तप्रत्यक्षलक्षणविचारः
यत्तावत् कल्पनाऽपोढमभ्रान्तमिति लक्षणम् ।
प्रत्यक्षस्य जगौ भिक्षुः तदत्यन्तमसाम्प्रतम् ॥ ७२ ॥

शब्दसंसर्गयोग्यार्थप्रतीतिः किल कल्पना ।
अस्याश्च केन दोषेण प्रामाण्यं न विषह्यते ॥ ७३ ॥

“न तु पररचितानि लक्षणानि” इत्युक्तमेव विवृणोति—यदित्यादि । यद्यपि दिङ्नागेन “प्रत्यक्षं कल्पनापोढं” इतिमात्रमुक्तम् । परन्तु एवं सति तिमिरादिदोषदूषितचक्षुषः प्रथमसन्निकर्षजन्मनां शुक्तिरजतादिज्ञानानां कल्पनापोढत्वादतिव्याप्तिरित्यालोच्य धर्मकीर्तिः अभ्रान्तपदं योजयामास । शुक्तिरजतज्ञानस्य भ्रान्तत्वात् निरासः । अभ्रान्तत्वमात्रोक्तौ अनुमानादावतिव्याप्तिः, तेषां भ्रमत्वव्यवहाराभावात् । अतः कल्पनापोढमिति । तेषां कल्पनारूपत्वेन व्युदासः । “स्वलक्षणमेव परमार्थसत् । तदेव प्रत्यक्षे विषयः । सामान्यलक्षणं तु अपरमार्थसत्, तच्चानुमानस्य विषयः” इति न्यायबिन्दुः । धर्मोत्तरचार्यस्तु “असत्यभ्रान्तग्रहणे गच्छद्वृक्षदर्शनादि कल्पनापोढत्वात् प्रत्यक्षं स्यात्” इत्याह ॥

भिक्षुः—बौद्धभिक्षुः धर्मकीर्तिः । जगाविति । न्यायबिन्दाविति [१-४] शेषः । शब्देत्यादि । “अभिलापसंसर्गयोग्यप्रतिभासा प्रतीतिःकल्पना” [१-५] इति न्यायबिन्दुवाक्यानुवादोऽयम् । इदं च न्यायबिन्दुवचनमेवं व्याख्यातं विकल्पानामप्रामाण्योपपादनम् ननु ! अभिलापसंसर्गयोग्यप्रतिभासत्वादपि कमन्यं दोषं मृगयते भवान् ! असदर्थविषयत्वमेवेदमुक्तं भवति, शब्दार्थस्य वास्तवस्याभावात् । स्वलक्षणस्य सजातीयेतरव्यावृत्तात्मनः सम्बन्धाधिगमसव्यपेक्षप्रवृत्तिना शब्देन विषयीकर्तुमशक्यत्वात् । तद्व्यतिरिक्तस्य वस्तुनोऽनुपलम्भात् ॥ धर्मोत्तराचार्येण—ऽअभिलप्यतेऽनेनेत्यभिलापः—वाचकः शब्दः । अभिलापेन संसर्गः अभिलापसंसर्गः—एकस्मिन् ज्ञानेऽभिधेयाकारस्याभिधानाकारेण सह ग्राह्याकारतया मिलनम् । ततो यदैकस्मिन् ज्ञानेऽभिधेयाभिधानयोः आकारौ सन्निविष्टौ भवतः, तदा संसृष्टे अभिधानाभिधेये भवतः । [तथा च वाच्यवाचकयोरेकज्ञानविषयत्वं संसर्ग इत्युक्तं भवति] । अभिलापसंसर्गाय योग्यः अभिधेयाकारप्रतिभासः—यस्यां प्रतीतौ सा तथोक्ता इति । अधिकं तत्रैव द्रष्टव्यम् ॥

कुतः उक्तस्य दोषत्वमित्यत्राह—असदर्थेत्यादि । स्वलक्षणज्ञानस्यातो वैलक्षण्यमाह—स्वलक्षणस्येति । निर्विकल्पविषयो वस्तुस्वरूपमात्रं— स्वलक्षणम् । तद्व्यतिरिक्तस्य—स्वलक्षणव्यतिरिक्तस्य । वस्तुनः—परमार्थभूतस्य । अत्र “यस्यार्थस्य सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदः तत् स्वलक्षणम् । तदेव परमार्थसत्” [१-१३] इति न्यायबिन्दूक्तं स्मर्तव्यम् । एतदुक्तं भवति । पुरोवर्तिनि वस्तुनि प्रथमाक्षसन्निपातसमनन्तरं यत् वस्तुस्वरूपमात्रविषयकं ज्ञानं तदेव निर्विकल्पं प्रमाणम् । अनन्तरं भासमानानां धर्माणां वासनाधीनत्वेन तद्विषयकं ज्ञानं सविकल्पमप्रमाणमेव, कल्पिताकारविषयत्वात् । तथोक्तम्—“परिव्राट्कामुकशुनामेकस्यां प्रमदातनौ । कुणपः कामिनी भक्ष्यमिति तिस्रो विकल्पनाः” इति । एवञ्च यञ्चिर्विकल्पं नामजात्याद्यगोचरं तदेव प्रमाणं चेत् नामजात्यादिगोचरं सविकल्पमप्रमाणमेवेति कल्पनापोढं प्रत्यक्षमिति । शिष्टदलप्रयोजनं तु स्पष्टीभविष्यति ॥

न चेन्द्रियार्थसन्निकर्षान्वयव्यतिरेकानुविधायिनी कल्पना बुद्धिः; तमन्तरेणापि भावात्, तस्मिन् सत्यपि च पूर्वानुभूतवाचकशब्दयोजनं विनाऽनुत्पादात् । यदि च इन्द्रियार्थसन्निकर्षः तज्जनको भवेत्, प्रथममेव तथाविधां धियं जनयेत्, न च जनयति । तदयं शब्दस्मृतेरूर्ध्वमपि न जनक इति मन्यामहे ॥

तदुक्तम्—

यः प्रागजनको बुद्धेः, उपयोगाविशेषतः ।
स पश्चादपि, तेन स्यादर्थापायेऽपि नेत्रधीः ॥ इति ॥

अपि च—सत्यपीन्द्रियार्थसंसर्गे स्मृत्यपेक्षायां सोऽर्थस्तयैव व्यवहितः स्यात् । आह च—

अर्थोपयोगेऽपि पुनः स्मार्तं शब्दानुयोजनम् ।
अक्षधीर्यद्यपेक्षेत सोऽर्थो व्यवहितो भवेत् ॥ इति ॥

भावादिति । शुक्तिरजतादिविकल्पानामुत्पत्तेरित्यर्थः । तस्मिन्— इन्द्रियार्थसन्निकर्षे । प्रथममेव—निर्विकल्पककाल एव । शब्दव्युत्पत्तेः पूर्वमेवेति वा । तथाविधां—अभिलापसंसर्गादिवतीम् ॥

यः प्रागित्यादि । यः इन्द्रियसन्निकर्षः प्राक्—वाचकशब्दोपस्थितेः पूर्वं बुद्धेः—विकल्पात्मिकाया अजनकः—जननासमर्थ इति यावत्; सः सन्निकर्षः पश्चादपि—शब्दस्मृत्यनन्तरमपि उपयोगाविशेषतः तदधीनोपयोगे विशेषाभावात् अजनक एव । अतः अर्थमन्तराऽपि विकल्प उदेतुं प्रभवत्येवेति । उपयोगः—उपकारः ॥

तथैव—स्मृत्यैव । अर्थोपयोगेऽपीति । अक्षधीः—प्रत्यक्षं अर्थे— विषये उपयोगेऽपि—अर्थग्रहणव्यापृतावपि, यदि मध्ये स्मार्तं शब्दस्मृत्यधीनं शब्दानुयोजनं—अभिलापसंसर्गं यद्यपेक्षेत, तर्हि अर्थः तया स्मृत्या व्यवहितो भवेदिति । तथा च शब्दस्मृत्या व्यवधानात् इन्द्रियं कथं सविकल्पं जनयेत् । स्मृत्यधीनं च सविकल्पं कथं वा प्रमाणं स्यादिति भावः ॥ विकल्पानामनिन्द्रियजत्वम्
सङ्केतस्मरणसहकारिसव्यपेक्षमक्षमीदृशीं बुद्धिं जनयतीति चेत्—न—व्यतिरिक्ताव्यतिरिक्तोपकारादिविकल्पैः सहकारिणो निरस्तत्वात् । किञ्च दण्डीत्यादिविकल्पविज्ञानं नेन्द्रियापातवेलायामेव जायते; किन्तु बहुप्रक्रियापेक्षम् । यदाह— [प्र। वा। ३-१४५]

विशेषणं विशेष्यं च सम्बन्धं लौकिकीं स्थितिम् ।
गृहीत्वा सकलं चैतत् तथा प्रत्येति नान्यथा ॥ इति ॥

ननु शब्दस्मरणस्य स्वातन्त्र्येण प्रत्यक्षकरणत्वं नास्त्येव, किन्तु सन्निकर्षवत् इन्द्रियसहकार्येवेति न तेन व्यवधानमिति शङ्कते—सङ्केतेति । व्यतिरिक्तेत्यादि । वस्तूनां क्षणिकत्वसाधनावसरे कथितोऽयं विचारो बौद्धैः । कुसूलस्थबीजैः अङ्कुराकरणात् क्षेत्रस्थबीजैरङ्कुरकरणाच्च करणाकरणयोरेकत्र विरोधात् कुसूलस्थबीजमन्यत्, क्षेत्रस्थबीजं चान्यदिति वक्तव्यम् । सहकारिसमवधानवशात् कुसूलस्थं बीजमेवाङ्कुरं जनयतीति तु न वक्तुं युक्तम् । सहकारिणः किं बीजस्योपकुर्वन्ति ? उत स्वातन्त्र्येणाङ्कुरं जनयन्ति ? उत किञ्चिदपि न कुर्वन्ति ? न तृतीयः, सहकारित्वासम्भवात् । न मध्यमः, बीजस्याकरणत्वं तदा ह्यापद्येत । न प्रथमः, सहकारिभिः सम्पाद्यमान उपकारः किं बीजस्वरूपादतिरिक्तः ? उत न ? यदि न, तर्हि बीजस्वरूपातिरिक्तोपकाराकरणात् व्यर्थाः सहकारिणः, बीजस्वरूपं हि पूर्वमेव सिद्धम् । यदि चातिरिक्तः, तर्हि ये सहकारिणः बीजातिरिक्तमुपकास्मतिशयं वा सम्पादयन्ति ते स्वातन्त्र्येण कार्यमेव निर्वर्तयन्तु, किं मध्ये बीजेन कर्तव्यम् । “तद्धेतोरेव तद्धेतुत्वे मध्ये किं तेन” इति न्यायात् । तथा चान्वयव्यतिरेकवशात् सहकारित्वेनाभिमतानामेव करणत्वं समायास्यतीति । अयं च न्यायः प्रकृतेऽपि तुल्य इति विकल्पाः नेन्द्रियजन्या इति । इन्द्रियापातः—प्रथमाक्षसन्निपातः । लौकिकीं स्थितिमिति । पादादिसुंयुक्ते सति दण्डे दण्डीति व्यवहाराभावात्, यादृशरीत्या सम्बन्धे विशिष्टव्यवहारः लोकसम्मतः तादृशवैलक्षण्यं चेति तात्पर्यम् । तथा— दण्डीत्यादिरीत्या ॥

न चेयतीं प्रक्रियां प्रथमनयनोपनिपातजातमविकल्पकं ज्ञानमुद्वोढुं क्षममित्याह— [प्र। वा। ३-१७४]

सङ्केतस्मरणोपायं दृष्टसङ्कलनात्मकम् ।
पूर्वापरपरामर्शशून्ये तच्चाक्षुषे कथम् इति ॥

विकल्पद्वैविध्यम्
तत्रैतत् स्यात्—द्विविधा विकल्पाः; छात्रमनोरथविरचिताः, इदन्ताग्राहिणश्च नीलमित्यादयः । तत्र पूर्वे मा भूवन् प्रमाणम् । कस्तेष्वर्थनिरपेक्षजन्मसु प्रामाण्येऽभिनिविशेत ! इदन्ताग्राहिणां त्वर्थाविनाभूतत्वात् कथं न प्रामाण्यम् ? इति—उच्यते—सर्व एवामी विकल्पाः परमार्थतोऽर्थं न स्पृशन्त्येव । स हि निर्विकल्पकेनैव सर्वात्मना परिच्छिन्नः । तदुक्तम्

एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् ।
कोऽन्यो नदृष्टो भागः स्यात् यः प्रमाणैः परीक्ष्यते इति ॥

इयतीं प्रक्रियामिति । विलम्बहेतुमिति यावत् । सङ्केतेत्यादि । नामविकल्पाभिप्रायेण सङ्केतस्मरणमत्रोक्तम् । सविकल्पकं हि सङ्केतस्मरणाद्युपायजन्यम् । चाक्षुषं तु पुरोवृत्तिस्वलक्षणवस्तुमात्रविषयकं, इन्द्रियसन्निकर्षः तावत्येव खलु विश्रान्तः । अतः नामादिकल्पनानां चाक्षुषे निर्विकल्पके कथमवकाश इत्यर्थः । उपायपदं नपुंसकलिङ्गेऽपि बौद्धसम्मतम् ॥

छात्राः—बाला इति यावत् । अमी विकल्पाः—छात्रमनोरथकल्पिताः इदन्ताग्राहिणश्च । सः—परमार्थभूतः अर्थः । सर्वात्मनेति । स्वरूपस्य निर्विकल्पेनैव गृहीतत्वात् स्वरूपातिरिक्तस्य च धर्मादेः कल्पितत्वात् न हि ज्ञातव्यान्तरमवशिष्यत इति भावः । एकस्येत्यादि । वस्तूनां स्वरूपं त्वेकरूपमेव, तच्च स्वरूपं प्रत्यक्षेण गृहीतम् । स्वरूपातिरिक्तं तु किञ्चिदपि नास्त्येव । अतश्च प्रत्यक्षेणागृहीतस्यांशस्य स्वरूपेऽसम्भवात् कुतः प्रमाणान्तरगवेषणमित्यर्थः । नदृष्टः इत्येकं पदम् ॥ कल्पनानामर्थासंस्पर्शित्वम्
यत्तु केषाञ्ञ्चिद्विकल्पानामिदन्ताग्राहित्वस्पष्टत्वादि रूपं तत् अर्थाविनाभाविनिर्विकल्पकदर्शनपृष्ठभावित्वावाप्ततच्छायासंसर्गज— नितं, न तु तेषामर्थस्पर्शः कश्चिदस्ति । अर्थात्मनो निर्विकल्पेनैव मुद्रितत्वात् ॥

तस्मादतात्त्विकाकारसमुल्लेखपुरस्सराः ।
न यथावस्तु जायन्ते कदाचिदपि कल्पनाः ॥ ७४ ॥

कल्पनाभेदाः
पञ्च चैते कल्पना भवन्ति—जातिकल्पना, गुणकल्पना, क्रियाकल्पना, नामकल्पना, द्रव्यकल्पना चेति । ताश्च क्वचिदभेदेऽपि भेदकल्पनात्, क्वचिच्च भेदेऽप्यभेदकल्पनात् कल्पना उच्यन्ते ॥

जातिजातिमतोर्भेदो न कश्चित्परमार्थतः ।
भेदारोपणरूपा च जायते जातिकल्पना ॥ ७५ ॥

इदमस्य गोर्गोत्वमिति न हि कश्चिद्भेदं पश्यति । तेनाभेदे भेदकल्पनैव ॥

एतया सदृशन्यायान्मन्तव्या गुणकल्पना ।
तत्राप्यभिन्नयोर्भेदः कल्प्यते गुणतद्वतोः ॥ ७६ ॥

तथा चाहुः—एष गुणी रूपादिभ्योऽर्थान्तरत्वेन नात्मानं नो दर्शयति; तेभ्यश्च व्यतिरेकं वाञ्छसीति चित्रम् ॥

पृष्ठभावित्वेति । निर्विकल्पकेण स्वरूपे गृहीते हि विकल्पानामवसरः । स्वरूपस्यैवाग्रहणे आकाराणां कुत्र कल्पना ? निरधिष्ठानस्य भ्रमस्यासम्भवात् । माध्यमिकातिरिक्तैः बौद्धैः निरधिष्ठानो भ्रमो नाङ्गीक्रियत इति स्मर्तव्यम् ॥

अस्य गोः इदं गोत्वं इत्यन्वयः । न हि कश्चिद्भेदं पश्यतीति । घटपटयोरिवेति भावः । यद्यपि भेदं व्यवहरति, तथापि न पश्यति । व्यवहारस्त्वन्यथासिद्ध इति भावः । एवमुत्तरत्रापि ॥

तेभ्यः—रूपादिभ्यः । व्यतिरेकं—स्वस्य गुणिन इति शेषः ॥

भेदारोपणरूपैव गुणवत्कर्मकल्पना ।
तत्स्वरूपातिरिक्ता हि न क्रिया नाम काचन ॥ ७७ ॥

गच्छति देवदत्त इति देवदत्तस्यैवान्यूनानतिरिक्तस्य प्रतिभासात् ॥

विभिन्नयोस्त्वभेदेन प्रवृत्ता नामकल्पना ।
चैत्रोऽयमित्यभेदेन निश्चयो नामनामिनोः ॥ ७८ ॥

चैत्र इत्ययं शब्दः, अयमित्यर्थः; कीदृशमनयोस्सामानाधिकरण्यम् ॥

एवं दण्ड्ययमित्यादिर्मन्तव्या द्रव्यकल्पना ।
सामानाधिकरण्येन भेदिनोर्ग्रहणात्तयोः ॥ ७९ ॥

विपर्यय इव बाधकप्रत्ययाभावेऽपि कल्पनानां मिथ्यात्वम्
ननु ! यद्यभेदे भेदं, भेदे चाभेदं आरोपयन्त्यः कल्पनाः प्रवर्तन्ते—तत्कथमासु बाधकः प्रत्ययो न जायते, शुक्तिकारजतबुद्धिवत्—उच्यते—यत्र वस्तु वस्त्वन्तरात्मनाऽवभासते तत्र

तत्स्वरूपेति । कर्मवद्वस्तुस्वरूपेत्यर्थः । अन्यूनानतिरिक्तस्येति । न हि तिष्ठतो देवदत्तात् गच्छन् देवदत्तः न्यूनः, अतिरिक्तो वा दृश्यते । “स एवायं देवदत्तः” इति प्रत्यभिज्ञा हि भवतां प्रमा इति भावः ॥

विभिन्नयोः इत्यत्रापि नामनामिनोरित्यस्याकर्षः । कीदृशं इत्यधिक्षेपे ॥

एवमिति । यद्यप्यत्र दण्डोऽयमिति न प्रतीतिः, किन्त्वयं दण्डीति । अथापि दण्ड एव खलु विशेषणं, अतोऽस्ति भेद इत्यभिमानः । इममेवोत्तरत्र [पु। २४९] निराकरोति ॥

यत्रेत्यादि । अयं भावः—व्यवहारदृष्ट्या भ्रमो हि द्विविधः—एकः— पुरोवर्त्येव एकं वस्तु वस्त्वन्तरात्मनाऽवभासते, यथा शुक्तिः रजततया । अपरस्तु—अविद्यमान एव विद्यमान इव । यथा केशोण्ड्रकादि । तत्राद्यः धर्माध्यासः, द्वितीयस्तु धर्मिण एव । तत्राद्ये बाधको युक्तः—नेदं रजतं,
बाधको भवति, मरीचिष्विव जलबुद्धौ । इह तु न जात्यादिवस्त्वन्तरमस्ति, यतो वस्त्वन्तरात्मनाऽस्य ग्रहो भवेत् । व्यक्तिविषया एवैते सामान्यादिविकल्पाः । तस्माद्वस्त्वन्तरानवभासिष्वेषु न बाधकः प्रत्ययो जायते । तस्मान्न विपर्ययात्मानो विकल्पाः ॥ विपर्ययाद्वैलक्षण्येऽपि विकल्पानामप्रामाण्यमेव न चैते प्रमाणम्, एतदुल्लिख्यमानस्य जात्यादेरपारमार्थिकत्वात् । अत एव प्रमाणविपर्ययाभ्यामयमन्य एव विकल्प इत्याचक्षत इत्यलं विस्तरेण ॥

एवमेताः प्रवर्तन्ते वासनामात्रनिर्मिताः ।
कल्पितालीकभेदादिप्रपञ्चाः पञ्चकल्पनाः ॥ ८० ॥

एवं च पश्यता तासां प्रामाण्यामोदमन्दताम् ।
भिक्षुणा लक्षणग्रन्थे तदपोढपदं कृतम् ॥ ८१ ॥

किन्तु शुक्तिरिति । द्वितीये न तथा ज्ञातुं शक्यते कस्याप्याकारस्यापरिशेषात् । यदा च सर्वविकल्पनिवृत्तिः, तदा त्वसौ परिनिर्वृत्त एव; न तदाऽपि बाधकप्रत्ययावकाश इति । व्यक्तिविषयाः—स्वरूपविषयाः । विपर्ययः— विपरीतभानम् । तथा च एकत्र विद्यमानमन्यथावभासते । अन्यत्र तु अविद्यमानमेव भासत इति न तयोस्साम्यमिति ॥

न चैतावता विकल्पाः प्रमाणानि—तौल्यनिषेधस्तु बाधकप्रत्ययवारणायेत्याह न चत इति । अयमाशयः—यत्र बाधकप्रत्ययोदयः तत्रैवाप्रामाण्यमिति न निर्बन्धः । यादृशभ्रमविशेषस्थले कान्तारमध्यसकृद्दृष्टरज्जुसर्पादौ— बाधकप्रत्यय एव नोदेति तेषां भ्रमत्वाभावप्रसङ्गात् । अतश्च असदर्थविषयत्वमेव भ्रमत्वमिति वक्तव्यम् । तच्च प्रकृतेऽपि तुल्यमिति । प्रमाणं— स्वलक्षणं निर्विकल्पात्मकम् । तथा सविकल्पकं—न शुक्तिरजतज्ञानतुल्यं, न वा स्वलक्षणज्ञानतुल्यम् । किन्तु उभयविलक्षणमेवेति । भेदादीत्यादिना अभेदपरिग्रहः । तदपोढपदं—कल्पनापोढपदम् । तथा च प्रत्यक्षप्रमाण —धर्मकीर्त्युक्तप्रत्यक्षलक्षणनिराकरणम्—सविकल्पकानां प्रामाण्यसाधनम् अत्र प्रतिविधीयते—तदिदं सङ्कीर्णप्रायमतिबहु विलपता भवता न नियतं किमपि विकल्पानामप्रामाण्यकारणमिति स्पष्टमावेदितम् । तदुच्यताम्—

किं शब्दार्थावभासित्वगर्भीकृतमसदर्थवाचित्वं तदप्रामाण्यकारणमभिमतम् ?

उत सङ्ङ्केतस्मृत्यपेक्षोपनतमनिन्द्रियार्थसन्निकर्षजत्वम् ?

उत विशेषग्रहणाद्यपेक्षावाप्तं बहुप्रयाससाध्यत्वम् ?

उत पूर्वापरपरामर्शशून्यचाक्षुषवैलक्षण्यवाचोयुक्तिसमर्पितं विचारकत्वम् ?

उत निर्विकल्पकपरिच्छिन्नवस्तुग्राहितानिबन्धनमधिगताधिगन्तृत्वम् ?

उत भेदाभेदसमारोपभणितमतस्मिंस्तदितिग्राहित्वम् ?

उत वृत्तिविकल्पादिवाधितसामान्यग्रहणसूचितं बाध्यत्वमेवेति ॥ लक्षणे विकल्पवारणाय कल्पनापोढपदम् । विपर्ययवारणाय अभ्रान्तपदं च मिक्षुणा धर्मकीर्तिना कृतमिति ॥

सङ्कीर्णेति । प्रमाणभूतनिर्विकल्पकवैलक्षण्यमुच्यते, उच्यते चाप्रमाणभूतभ्रमवैलक्षण्यमिति विकल्पानां प्रामाण्याप्रामाण्यसाङ्कर्यमुक्तं भवतीत्यर्थः । पूर्वापरेति । पूर्वापरपरामर्शशून्यं यत् चाक्षुषं—स्वलक्षणमात्रविषयकं निर्विकल्पं प्रमाणभूतं ज्ञानं तद्वैलक्षण्योपपादनसामर्थ्यात् प्राप्तं यत् विचारकत्वमित्यर्थः । वृत्तिविकल्पेति । अयमर्थः—सामान्यं स्वाश्रये किं कार्त्स्न्येन वर्तते ? उतैकदेशेन ? आद्ये घटत्वस्य एकस्यामेव घटव्यक्तौ परिसमाप्त्या घटान्तरे घटत्वं न स्यात् । नान्त्यः, सामान्यस्य निरवयवत्वात् । प्रत्येकं घटे घटत्वजात्येकदेशस्यैव सत्त्वेन यावद्धटत्वजातेरसत्त्वेन च तस्य विकल्पाप्रामाण्यापादकप्रथमहेतुनिरासः तत्र तावन्न शब्दसंसर्गयोग्यार्थग्रहणद्वारकमसदर्थग्राहित्वमेषामप्रामाण्यकारणमभिधातुं युक्तम्, शब्दार्थस्य वास्तवस्य [३ आह्निके] समर्थयिष्यमाणत्वात् ॥

कः पुनरसाविति चेत् ? य एव निर्विकल्पके प्रतिभासते ॥

किं निर्विकल्पके सामान्यादिकमवभासते ? बाढमवभासत इति [५ आह्निके] वक्ष्यामः ॥

अत एव वाध्यत्वमपि न प्रामाण्यापहारकारणमेषां वक्तव्यम्; वृत्तिविकल्पादेर्बाधकस्य [५ आह्निके] परिहरिष्यमाणत्वात् । बाधकान्तरस्य च नेदमिति प्रत्ययस्य शुक्तिकारजतज्ञानादिवत् भवतैवानभ्युपगमात् ॥ तत्रैव द्वितीयकल्पनिरासः नाप्य निन्द्रियार्थसन्निकर्षजन्यत्वं सङ्केतग्रहणकालानुभूतशब्दस्मरणापेक्षणादस्य वक्तव्यम्; सहकार्यपेक्षायामपि तद्व्यापाराविरतेः ॥ घटपदार्थतैव न स्यात् । न हि पटैकदेशभूततन्तुमति पुरुषे पटवानिति प्रतीतिः प्रमा भवेत् । अतः सामान्यस्यैव दुर्निरूपत्वेनावस्तुत्वात् तद्विषयको विकल्पः भ्रान्तिरेवेति । वृत्तिविकल्पादित्यत्रादिपदार्थः सामान्यप्रकरण एव द्रष्टच्यः ॥

असौ—शब्दार्थः ॥

एकोक्त्या सप्तमकल्पोऽपि दूषित एवेत्याह । अत एवेति । यतो निर्विकल्पेऽपि सामान्यादिकमवभासते तत एव सविकल्पस्यापि निर्विकल्पवदेव बाध्यत्वमपि न भवेदेवेति । वृत्तिविकल्पादेरिति । कार्त्स्येन वर्तते ? उतैकदेशेन वर्तते ? इत्यादिपूर्वोक्तविकल्पस्येत्यर्थः ॥

द्वितीयं दूषयति—नापीति । सहकारी शब्दस्मरणादिरूपः । तद्व्यापारः—इन्द्रियव्यापारः । पूर्वोक्त [पु। २३७] श्लोको विपरिणमय्य पटनीय
यः प्रागजनको बुद्धेः स लब्ध्वा सहकारिणम् ।
कालान्तरेण तां बुद्धिं विदधत् केन वार्यते ? ॥ ८२ ॥

व्यतिरिक्ताव्यतिरिक्तोपकारकरणादिविकल्पास्तु क्षणभङ्गभङ्गे [७ आह्निके] निराकरिष्यन्ते ॥

रूपग्रहणे च चक्षुषः प्रदीपाद्यपेक्षायां दुष्परिहारास्ते विकल्पाः । “न वै किञ्चिदेकं जनकम्” इति भवन्तोऽपि पठन्ति ! इति भवत्पक्षेऽपि तुल्यास्ते । यद्युभयोर्दोषः, न तेनैकश्चोद्यो भवति । तस्मात् “उपयोगाविशेषतः” इत्यसिद्धो हेतुः । अयमेवोपयोगविशेषः, यत् इन्द्रियालोकमनस्कारविषयवद्वाचकस्मरणमपि सामग्र्यन्तरमेतत्प्रत्ययजन्मनि व्याप्रियत इति न वाचकस्मरणजनितत्वेन स्मार्तत्वादप्रमाणं विकल्पः । रूपस्मृत्याख्यसमनन्तरप्रत्ययतिर्मितस्य निर्विकल्पस्य रूपज्ञानस्यापि तथात्वप्रसङ्गात् ॥ इत्याह—य इति । यः—हेतुः प्राक्—सहकारिसमवधानात् प्राक् बुद्धेरजनक आसीत्, स एव हेतुः सहकारिणं कालान्तरेण लब्ध्वा तामेव बुद्धिं विदधत् केन वारयितुं शक्यत इत्यर्थः ॥

ननु सहकारिणोऽप्यसम्भव उपपादितः—इत्यत्राह—व्यतिरिक्ताव्यतिरिक्तेति । इदं उपकारविशेषणम् ॥

सहकार्यपेक्षणमात्रात् करणत्वं नापैतीत्यत्र निदर्शनं प्रतिबन्दी चाह— रूपेत्यादि । अधिपतिसहकारिसमनन्तरालम्बनप्रत्ययाश्चत्वार्यपि ज्ञानसाधनानीति खलु तैरुय्यन्ते । तत्र दीपादयः सहकारिप्रत्ययाः भवन्मते कथं सहकारिणो भवेयुः इति । किञ्चिदेकं न वै जनकं इत्यन्वयः । एकमेव फलोपधायकं न भवति, किन्तु मिलितमेवेत्यर्थः । ते—उक्तविकल्पाः । इन्द्रियेत्यादि । अधिपत्यादीनां यथासङ्ख्यं अन्वयः । तत्र प्रकृते मनस्कारः समनन्तरप्रत्ययः रूपाद्यालोचनाज्ञाने । रूपस्मृतीति । न हि रूपाविषयकं चाक्षुषं किञ्चिदुदेतुमप्यलम् । रूपाप्रतीतौ हि वस्तु कथं प्रतीयेत । अतश्च रूपस्मृत्याख्यसमनन्तरप्रत्ययं विना निर्विकल्पोऽपि न भवेदेवेत्याशयः ॥ इन्द्रियसन्निकर्षस्य फलेनाव्यवधानोपपादनम्
यच्चेदमुच्यते—“सोऽर्थो व्यवहितो भवेत्” इति—तन्न विद्मः, कीदृशं व्यवधानमर्थस्येति । न हि दीपेन वा मनसा वा विज्ञानहेतुना कदाचिदर्थो व्यवधीयते । मनोवच्च वाचकस्मृतिरपि सामग्र्यन्तर्गता सती तत्प्रतीतौ व्याप्रियत इति कथमर्थं व्यवदधीत ॥

स्मृतिविषयीकृतः शब्दः तमर्थं व्यवधत्त इति चेत्—न— शब्दस्य तत्प्रकाशकत्वेन ज्ञानवत् दीपवद्वा व्यवधायकत्वाभावात् । न चेन्द्रियव्यापारतिरोधानं व्यवधानम्; तस्याधुनाप्यनुवर्तमानत्वात् ॥

यथा तद्भावभावित्वादाद्यं विज्ञानमक्षजम् ।
तथा तद्भावभावित्वादुत्तरं ज्ञानमक्षजम् ॥ ८३ ॥

न हि वाचकस्मरणान्तरं अक्षिणी निमील्य विकल्पयति— पटोऽयमिति ॥

अथ यावद्वाचकविज्ञानं हृदयपथमवतरति तावत्सोऽर्थः क्षणिकत्वादतिक्रान्त इति व्यवहित उच्यते—तदपि दुराशामात्रम् । क्षणभङ्गस्योपरिष्टान्निराकरिष्यमाणत्वात् [७ आह्निके] ॥

तत्प्रतीतौ—अर्थप्रतीतौ । व्याप्रियत इति । तथा च शब्दस्मरणस्यापि सामग्र्यन्तर्गतत्वेन तस्य व्यवधायकत्वं न सम्भवतीत्यर्थः ॥

व्यवधत्त इति । इन्द्रियसन्निकर्षादेरिति शेषः । अनुपदोक्तमजानानं प्रति तदेव स्पष्टयति—शब्दस्येति । तत्प्रकाशकत्वेन—अर्थप्रकाशकत्वेन । अव्यवधायकत्वे दृष्टान्तः—ज्ञानवद्दीपवदिति । ननु व्यवधानं इन्द्रियव्यापारव्यवच्छेद एवेत्याशङ्क्य समाधत्ते—न चेति ॥

तद्भावभावित्वात्—इन्द्रियान्वयव्यतिरेकानुविधायित्वात् । आद्यं विज्ञानं—निर्विकल्पकम् । उत्तरं—सविकल्पकमपि ॥

हृद्गतं प्रकाशयति—अथेति । यावत्तावच्छब्दौ कालावधिपरौ ॥

अपि च प्रदर्शितप्राप्त्यादिव्यवहारवत्सन्तानद्वारकमिहापि तद्ग्रहणं भविष्यतीति सर्वथा न व्यवधानम् । तदेवं समयस्मरणसापेक्षत्वेऽपि नेन्द्रियार्थसन्निकर्षोत्पन्नतामतिवर्तते सविकल्पकं विज्ञानमिति कथमप्रत्यक्षम् ? तृतीयविकल्पनिरासः
यत्पुनः विशेषणविशेष्यग्रहणादिसामग्र्यपेक्षत्वेन बहुप्रयाससाध्यत्वमप्रामाण्यकारणमभिधीयते—तदतीव सुभापितम् ! न हि बहुक्लेशसाध्यत्वं नाम प्रामाण्यमुपहन्ति । उक्तं च “न हि गिरिशृङ्गमारुह्य यद्गृह्यते तदप्रत्यक्षम्” इति । रसादिज्ञानापेक्षया च रूपादिज्ञानस्य दीपाद्यालोकाहरणप्रयाससाध्यत्वादप्रामाण्यं स्यात् ॥ चतुर्थविकल्पनिरासः
यदपि पूर्वापरपरामर्शरहितचाक्षुषविज्ञानवैपरीत्येन विकल्पज्ञानानां विचारकत्वादप्रामाण्यमुच्यते—तदपि न सम्यक् । सर्वत्र ज्ञानस्य विचारकत्वानुपपत्तेः । विचारको हि प्रमाता । स हि पश्यति, स्मरति, अनुसन्धत्ते, विचारयति, इच्छति, द्वेष्टि, यतते, गृह्णाति, जहाति, सुखमनुभवतीति वक्ष्यामः । अर्थं च स्पृशतो विज्ञानस्य विचारयतोऽपि कथमप्रामाण्यं स्यात् ॥

प्रदर्शितेति । इन्द्रियादिनेति शेषः । लोके ह्यभिमतमर्थं पश्यन् प्रवृत्तस्तमेव प्राप्नोतीति सर्वसिद्धम् । क्षणभङ्गे च तत्सन्तानैक्यान्निर्बाह्यम् । तत्र दृष्टस्यातिक्रान्तत्वेऽपि यथा सन्तानैक्यात् दृष्टस्यैव प्राप्तिरुच्यते भवद्भिः, तथा प्रकृतेऽप्यस्त्विति भावः । समयः—शक्तिः । वाचकशब्द इति यावत् ॥

रसादीति । रसादिप्रत्यक्षं हि विषयेन्द्रियसम्बन्धातिरिक्तं नापेक्षते, रूपप्रत्यक्षं तु तदतिरिक्तालोकादिसम्पादनमपेक्षत इति तस्याप्रामाण्यं स्यादिति ॥

सर्वत्रेति । ज्ञानं हि विचारात्मकं, न तु विचारकम्; विचारकस्तु पुरुष एवेत्यर्थः । अस्तु तर्ह्यौपचारिकमेव ज्ञानस्य विचारकत्वम्—इत्यत्राप्याह— अर्थं स्पृशत इति । अर्थजन्यस्येति यावत् ॥ पञ्चमविकल्पनिरासः
अथास्य निर्विकल्पेनैव सर्वात्मना स्पृष्टत्वात् पिष्टपेषणमयुक्तमिति सविकल्पमधिगतार्थग्राहित्वादप्रमाणमिति मन्यसे, तदपि न साधु—पूर्वमेव [पु। ५६] परिहृतत्वात् । न ह्यनधिगताधिगन्तृत्वं प्रामाण्यमित्युक्तम् । गृहीतग्रहणेऽपि प्रमाणस्य प्रमाणत्वानतिवृत्तेः ॥ षष्ठविकल्पनिरासः
यत्त्वभ्यधायि—भिन्नेष्वभेदं अभिन्नेषु च भेदं कल्पयन्त्यः कल्पनाः, अतस्मिंस्तद्ग्रहणे प्रामाण्यमवहजतीति—तद्युक्तम् अतस्मिंस्तद्ग्रहो भवत्यप्रमाणत्वकारणम्; तत्त्विह नास्ति । तस्य हि बाधकप्रत्ययोपसन्निपातान्निश्चयः । न च भवदुपवर्णितासु पञ्चस्वपि जात्यादिकल्पनासु बाधकं किञ्चिदस्तीति नातस्मिंस्तद्ग्राहिण्यः कल्पना भवन्ति ॥ जातिर्जातिमतो भिन्ना गुणी गुणगणात् पृथक् ।
तथैव तत्प्रतीतेश्च कल्पनोक्तिरबाधिका ॥ ८४ ॥

एतच्चोपरिष्टान्निर्णेष्यते ॥

द्रव्यनाम्नोऽतु भिन्नयोर्भेदेनैव प्रतीतिः, नाभेदकल्पना । न हि “देवदत्तशब्दोऽयम्” इत्येवं तद्वाच्यः प्रतीयते ॥

ननु “देवदत्तोऽयं” इति सञ्ज्ञासञ्ज्ञ्यभेदव्यवहारो दृश्यत एवेति चेत्—न, शब्दविशिष्टतद्वाच्यावगतिरेषा, न शब्दोऽस्यामर्थारूढोऽवभासते । न शब्दविवर्तरूपेणार्थः परिस्फुरति । किं तर्हि ?

कथमत्राप्रामाण्यकारणाभावनिश्चय इत्यत्राह—तस्येति । तस्य—अप्रामाण्यस्य ॥

तथैव—पृथक्त्वेनैव । अवाधिकेति । प्रामाण्यं प्रतीति शेषः ॥

घटस्य रूपं, गवि गोत्वमित्यादौ गुणगुणिनोः भेदप्रतीतावपि, नीलो घटः, गौः इत्यदिसामानाधिकरण्यप्रतीतिरप्यस्ति । द्रव्यनाम्नोस्तु तदपि नास्तीति कथं तत्र अभेदकल्पनेति “तु”शब्देन सूचितम् । दृश्यत इति । देवदत्तपदं हि तत्र
शब्दस्मृत्याख्यसामग्र्यसामर्थ्यातिशयोद्भवः ।
प्रत्ययातिशयः सोऽयं इत्येवं प्राक् प्रसाधितम् ॥ ८५ ॥

दण्ड्ययमिति द्रव्याभेदकल्पना तु मन्दमतिभिरेवोदाहृता । न हि दण्डोऽयमिति देवदत्ते प्रतीतिः, अपि तु दण्डीति । तत्र च प्रकृतिप्रत्ययौ पृथगेवोपलभ्येते—दण्डोऽस्यास्तीति दण्डीति । तदिह यथैव वस्तु तथैव तदवसाय इति नाभेदारोपः ॥

कर्मणि तु द्वयमपि नास्ति; नाभिन्ने भेदकल्पना; न च भिन्नेऽप्यभेदकल्पना ॥

क्रिया हि तद्वतो भिन्ना भेदेनैव च गृह्यते ।
चलतीत्यादिबोधेषु तत्स्वरूपावभासनात् ॥ ८६ ॥

तेन क्रियागुणद्रव्यनामजात्युपरञ्जितम् ।
विषयं दर्शयन्नैति विकल्पो नाप्रमाणताम् ॥ ८७ ॥

विपर्ययात्समुत्तीर्ण इति साधु सहामहे ।
प्रमाणात्तु बहिर्भूतं विकल्पं न क्षमामहे ॥ ८८ ॥

क्वचिद्वाधकयोगेन यदि तस्याप्रमाणता ।
निर्विकल्पेऽपि तुल्याऽसौ द्विचन्द्राद्यवभासिनि ॥ ८९ ॥

सञ्ज्ञाबोधकम् । प्राक्—अव्यपदेश्यपदकृत्यविचारावसरे ॥

प्रतीत्योर्बैलक्षण्यमुपपादयति—तत्रेति । तदवसायः—तज्ज्ञानम् ॥

कर्मणि त्विति । अयं गौः, नीलोऽयमित्यादौ सामानाधिकरण्यप्रतीतिर्वा वर्तते, कर्मणि तु तदपि नास्तीति सूचनाय तु शब्दः ॥

तत्स्वरूपेति । आश्रयातिरिक्तक्रियास्वरूपेत्यर्थः । धातोः क्रिया अर्थः, आख्यातस्य आश्रयः । न हि चलतीति प्रत्ययः सदाऽस्तीति क्रियातद्वतोर्भेद इत्यर्थः । विषयं दर्शयन् विकल्पः अप्रमाणतां नैति इत्यन्वयः । विपर्ययादिति । विकल्पोऽयं विपर्ययविलक्षण इति सम्मतमेव, अप्रामाण्यं तु नेत्यर्थः । द्विचन्द्रेति । तस्यापि प्रथमाक्षपातजत्वादित्यर्थः । ननु तर्हि
मनोराज्यविकल्पानां काममस्त्वप्रमाणता ।
यथावस्तु प्रवृत्तानां न त्वसावक्षजन्मनाम् ॥ ९० ॥

विकल्पा अपि स्वतन्त्राः न च निर्विकल्पपृष्ठभावित्वकृतमेषामेतद्रूपम्; विषयसंस्पर्शमन्तरेण स्वतस्स्वच्छरूपाणां ज्ञानानामेवमाकारत्वानुपपत्तेः किं निर्विकल्पपृष्ठभाविता करिष्यति ? तदनन्तरभाविनी हि स्मृतिरपि क्वचिद्दुश्यत एव; न च सा तच्छायावती इति दुराशामात्रमेतत् ॥

ननु निर्विकल्पकेनैव वस्तुसर्वस्वं गृहीतं एकस्यार्थस्वभावस्येति वर्णितम्—प्रतिविहितमेतत्—गृहीतग्रहणेऽपि प्रामाण्यानपायात् ॥ निर्विकल्पविषयवस्तुनि विप्रतिपत्तयः किञ्च किं निर्विकल्पकेन गृह्यत इत्येतदेव न जानीमः ॥

भवन्तो निर्विकल्पस्य विषयं सम्प्रचक्षते ।
सजातीयविजातीयपरावृत्तं स्वलक्षणम् ॥ ९१ ॥

भ्रान्तिज्ञानमेव नास्तीत्यत्राह—मनोराज्येति । कामुकस्य सर्वत्र कामिनीदर्शनरूपाणामित्यर्थः । एवं केषाञ्चित् स्वप्नानां च । यथावस्तु—वस्त्वनतिक्रम्य । असौ—अप्रमाणता ॥

निर्विकल्पसमनन्तरभावित्वकृतमेव विकल्पानां इदन्ताग्राहित्वादीति यदुक्तं तत्प्रत्याह—न चेति । एषां—सविकल्पानां । एतत्—स्पष्टत्वं इदन्ताग्राहित्वादि । विषयेति । अयमर्थः—तन्मते हि ज्ञानं स्वतो निराकारम् । विषयोल्लेखवशादेव साकारज्ञानानुभवः । एवञ्च विकल्पानां निर्विकल्पाधीनत्वेऽपि साकारत्वं विषयसम्बन्धाधीनमेव वक्तव्यमिति निर्विकल्पपृष्टभावित्वं किं वा तत्र करिष्यतीति विकल्पानां विषयसंस्पर्शोङ्गीकरणीय एवेति । निर्विकल्पपृष्टभाविनीषु स्मृतिषु इदन्ताग्राहित्वस्पष्टत्वादेरभावात् व्यभिचरितं चेदमित्याह—तदनन्तरेति । क्वचिदिति । यथा विशेषानवगाहि स्वरूपमात्रावगाहि निर्विकल्पं प्रथमं जायते, ततश्च तत्र विशेषभानादिकं; एवं स्मरणस्थलेऽपि कदाचित् प्रथमं स्वरूपमात्रस्मरणं, ततस्तत्र विशेषचिन्तन
महासामान्यमन्ये तु सत्तां तद्विषयं विदुः ।
वाग्रूपमपरे तत्त्वं प्रमेयं तस्य मन्वते ॥ ९२ ॥

मित्यनुभूयत एव तथा च निर्विकल्पानुभवाज्जायमानापि स्मृतिः न स्पष्टरूपा वा इदमिति ग्राहिणी बोपलभ्यत इति न निर्विकल्पपृष्ठभावित्वकृतं तदिति ॥

अन्ये त्विति । ब्रह्मविवर्तवादिन इत्यर्थः । श्लोकवार्तिके प्रत्यक्षसूत्रे भट्टपादैः—“अस्ति ह्यालोचनाज्ञानं प्रथमं निर्विकल्पकम्” इत्यारभ्य “महासामान्यमन्यैस्तु द्रव्यं सदिति चोच्यते । सामान्यविषयत्वं च प्रत्यक्षस्यैवमाश्रितम् । विशेषास्तु प्रतीयन्ते सविकल्पकबुद्धिभिः” इत्यादिनोक्तान्यपक्षप्रत्यभिज्ञानायैवात्रापि “महासामान्यमन्ये तु” इत्युक्तम् ॥

तच्च वार्तिकं न्यायरत्नाकरे पार्थसारथिमिश्रैः एवमवतारितम्— “वेदान्तिनस्तु महासामान्यमेव सत्ता-द्रव्यशब्दाभिलप्यं निर्विकल्पस्य विषयमाहुः” इति ॥

भट्टोम्बेकैश्च तात्पर्यटीकायां—“वेदान्तवादिनस्तु महासामान्यं निर्विकल्पस्य विषयमाहुः । तच्च केचित् सत्तामाहुः, अपरे द्रव्यमित्येतद्दर्शयति” इत्यवतारितम् ॥

काशिकायां सुचरितमिश्रैश्च “अद्वैतवादिनस्तु सन्मात्रविषयं निर्विकल्पकं प्रत्यक्षमित्याचक्षते, तदेतदुपन्यस्यति” इति स्पष्टमेवाभिहितम् ॥

अयञ्च पक्षः मण्डनमिश्रकृतब्रह्मसिद्धौ तर्ककाण्डान्ते “यथानुवृत्तव्यवहारसिद्धिं यथाऽवभासं कथयन्ति बाह्याः । तथैव भेदव्यवहारयोगं वदन्ति वेदान्तविवेकभाजः” इत्यत्र वर्णितः । बाह्याः बौद्धाः सकलव्यावृत्तं वस्त्वेव निर्विकल्पप्रत्यक्षविषय इति वदन्ति । वचन्तु सकलानुवृत्तं सत्तामात्रमेव तद्विषय इति वदामः इति तदर्थः ॥

सुरेश्वराचार्यैः बृहदारण्यकसम्बन्धवार्तिक [९१८] “वस्तुस्वरूपसंस्पर्शिचक्षुरादिभ्य उत्थितम् । भेदस्पृक् नाक्षजादि॥॥॥” इत्यत्रायमर्थ उक्तः । एतद्विस्तरश्च सङ्क्षेपशारीरकाद्वैतसिद्धयादिषु द्रष्टव्यः ॥

अयं च पक्षः प्रथमं हरिणा वाक्यपदीये उपक्षिप्तः । अपरे—शब्दविवर्तवादिनः । तथा ह्युक्तं हरिणा वाक्यपदीये—“अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरं । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः” इति । एवञ्च पूर्वोक्ताः ब्रह्मविवर्तवादिनः । हरिस्तु शब्दविवर्तवादीत्येतावानेव विशेषः । इतरत्सर्वमपि प्रायः तयोस्तुल्यम् ॥

केचिद्गुणक्रियाद्रव्यजातिभेदादिरूषितम् ।
शबलं वस्तु मन्यन्ते निर्विकल्पकगोचरम् ॥ ९३ ॥

प्रत्यक्षविषयेऽप्येताः चित्रं विप्रतिपत्तयः ।
परोक्षार्थे हि विमतिः प्रत्यक्षेणोपशाम्यति ॥ ९४ ॥

प्रत्यक्षे हि समुत्पन्ना विमतिः केन शाम्यति ?
इदं भाति न भातीति संविद्विप्रतिपत्तिषु ।
परप्रत्यायने पुंसां शरणं शपथोक्तयः ॥ ९५ ॥

केचित्—भाट्टाः । तथा च वार्तिकम्—“निर्विकल्पकबोधेऽपि द्व्यात्मकस्यैव वस्तुनः । ग्रहणं” इति [प्रत्यक्ष—११८] । अत्र न्यायरत्नाकरः— “द्व्यात्मकस्य—सामान्यविशेषात्मकस्येत्यर्थः । सामान्यावभासोऽपि प्रतीतिसिद्ध एव । न हि निर्विकल्पकेनागृहीतस्य सविकल्पकेनापि ग्रहणं सम्भवति । न वाऽगृहीते सामान्ये व्यक्त्यन्तरे प्रत्यभिज्ञा सम्भवति । तस्मात् सामान्यं विशेषश्च निर्विकल्पेऽपि प्रकाशत एव” इति ॥

एवमाकृतिवादे च—“यदा तु शबलं वस्तु युगपत् प्रतिपद्यते । तदाऽन्यानन्यभेदादि सर्वमेव प्रलीयते” इत्युक्तम् । एतच्च निर्विकल्पविषयमिति तद्व्याख्यायां उक्तम् । एतच्छलोकप्रत्यभिज्ञापनायैवात्रापि श्लोके “शबल” शब्दप्रयोगः । अधिकमुत्तरत्र द्रष्टव्यम् ॥

एवञ्च भाट्टैः जातिव्यक्त्योर्गुणगुणिनोश्च भेदाभेदापरपर्यायस्य तादात्म्यस्यैवाङ्गीकारात् निर्विकल्पे सामान्यविशेषोभयात्मकं वस्तु भासत इत्यङ्गीक्रियते । तथोक्तमाकृतिवादे—“तेन नात्यन्तभेदोऽपि स्यात्सामान्यविशेषयोः” इति । अत एव शतदूषिण्यां निर्विशेषविषयनिर्विकल्पभङ्गवादे—“जातिगुणादिविशिष्टमेव द्रव्यं निर्विकल्पे भासते । परन्तु जातिगुणाद्यात्मकमपि वस्तु न तथा निर्विकल्पे विविच्यते । विकल्पे तु तदेव जातिगुणाद्यात्मना विकल्प्यते” इति अभिहितम् । इदं च मतं कौमारिलानामिति तद्व्याख्यायां चण्डमारुते महाचार्यैरुक्तम् । अधिकमन्यत्र ग्राह्यम् ॥

परेति । एवं वादिषु विप्रतिपद्यमानेषु अनुभवे शरणीकरणीये सर्वेऽपि वादिनः स्वानुभवमपि तथा तथा आचक्षत इति अन्ततः शपथकरणमेवावशिष्यत
न तु शपथशरणा एव निरुद्यममास्महे । मार्गान्तरेणापि तत्प्रमेयं निश्चिनुमः ॥

निर्विकल्पानुसारेण सविकल्पकसम्भवात् ।
ग्राह्यं तदानुगुण्येन निर्विकल्पस्य मन्महे ॥ ९६ ॥

स्वलक्षणमात्रं न निर्विकल्पविषयः तत्र न तावत्सकलसजातीयव्यावृत्तं स्वलक्षणं प्रत्यक्षस्य विषयः ॥

गृहीते निर्विकल्पेन व्यावृत्ते हि स्वलक्षणे ।
अकस्मादेव सामान्यविकल्पोल्लसनं कथम् ? ॥ ९७ ॥

निर्विकल्पानुसारेण हि विकल्पाः प्रादुर्भवितुमर्हन्ति । अपि च—

विजातीयपरावृत्तविषया यदि कल्पना ।
व्यावृत्तिरूपं सामान्यं गृहीतं हन्त ! दर्शनैः ॥ ९८ ॥

इति । शपथोऽपि यदि क्रियेत तदा का गतिरिति चेत् तत्राह—न त्वित्यादि ॥

सकलेतरव्यावृत्तं स्वरूपमेव निर्विकल्पे भासते इत्युक्ते तत्र इतरपदार्थः— सजातीयो विजातीयश्च । तत्र सजातीयव्यावृत्ताकारभाने बाधकमाह— सजातीयेति । गृहीत इत्यादि । अयमर्थः । निर्विकल्पेन सकलेतरव्यावृत्तं रूपमेव गृह्यते, सामान्यं तु विकल्पस्यैव विषय इति खलु तव मतम् । अत्रेदं पृच्छामः—सामान्यं अन्यत्र कदापि गृहीतं अत्र विकल्पे भासते ? उत कुत्रापि न ? कुत्राप्यभातस्य भानं तु न सम्भवत्येव, न हि शशशृङ्गादिः कुत्रचिद्भासते । अन्यत्र भातं चेत्, किं विकल्पे ? उत निर्विकल्पे ? यदि विकल्पे तर्हि पुनरनवस्था । यदि निर्विकल्पे तर्हि सिद्धं नः समीहितमिति । “व्यावृत्ते स्वलक्षणमात्रे निर्विकल्पेन गृहीते सति सामान्यविषयविकल्पः आकस्मिक एव कथं स्यात्” इत्यर्थः ॥

अथ विजातीयव्यावृत्ताकारभाने दोषमाह—विजातीयेति । सामान्यं हि भवन्मते अन्यापोहरूपम् । तथा च निर्विकल्पे सामान्यभानमङ्गीकृतमेवेति । ननु
व्यावृत्तान्ननु नैवान्या व्यावृत्तिः परमार्थतः ।
व्यावृत्तग्रहणेनैव सुतरां तद्ग्रहो भवेत् ॥ ९९ ॥

सामान्यग्रहणेऽप्येवं तद्व्यापारावकल्पनात् ।
स्वलक्षणपरिच्छेदनिष्ठं तन्नावतिष्ठते ॥ १०० ॥

नापि सन्मात्रं निर्विकल्पस्य विषयः नापि सत्ताद्वैतवादिसम्मतसत्ताख्यो निर्विकल्पस्य विषयो युक्तः ॥

सत्ताग्रहणपक्षेऽपि विशेषावगतिः कुतः ।
सा भाति भेदस्पृष्टा चेत् सिद्धमद्वैतदर्शनम् ॥ १०१ ॥

न च भेदं विना सत्ता गृहीतुमपि शक्यते ।
नाविद्यामात्रमेवेदमिति च स्थापयिष्यते ॥ १०२ ॥

निर्विकल्पे सूक्ष्मशब्दानुवेधोऽप्ययुक्तः वाक्तत्त्वप्रतिभासोऽपि प्रतिक्षिप्तोऽनया दिशा ।

वस्तुनः सकलेतरव्यावृत्तत्वेपि तेनाकारेण वस्तु न गृह्यते, किन्तु व्यावृत्त्याश्रयं वस्तुमात्रमिति चेत् तत्राह—व्यावृत्तादिति । न हि स्वरूपातिरिक्तो धर्मो नामास्ति भवतामित्यर्थः । एवं चास्मिन् मतेऽपि सामान्यग्रहणेऽपि निर्विकल्पप्रवृत्तिसम्भवात् स्वलक्षणमात्रविषयकं निर्विकल्पकमिति न क्षोदक्षममिति ॥

विशेषेत्यादि । निर्विकल्पेन सामान्यं न गृह्यत एवेति पक्षे—अज्ञातस्य सामान्यस्य विकल्पेऽपि भानासम्भवादिर्यो दोष उक्तः, तादृशः प्रकृतेऽपि जागरूकः । निर्विकल्पेन विशेषाग्रहणे तर्हि केन विशेषो गृह्यत इति वक्तव्यम् । न केनापीति चेत् भानमेव न स्यात् । विकल्पेनैवेति चेदनवस्था । निर्विकल्पेनैवेति चेत् भेदविषयो निर्विकल्पः सिद्ध इति अद्वैतासिद्धिः । “सिद्धमद्वैतदर्शनं” इति नर्मोक्तिः । किञ्च समानानां भावस्यैव सामान्यरूपत्वात् व्यक्तिविशेषाणामग्रहणे तदाश्रितं सामान्यमपि न गृह्येत । न च भेदाः सन्त्येव, परन्तु कल्पितास्ते—इति चेत्, तदेतत् नवमाह्निके निराकरिष्यते ॥

अनया दिशेति । ब्रह्मविवर्तवादाभ्युपगतब्रह्मापरपर्यायमहासामान्यस्थानापन्नमेव शब्दतत्त्वमिति पूर्वमेवोक्तम् । एवञ्च शब्दतत्त्वमेकमेव सर्वानुगतं सत्यं निर्विकल्पविषयः । व्यक्तयस्तु मिथ्या एवेत्युक्तम् ।
कथं च चाक्षुषे ज्ञाने वाक्तत्त्वमवभासते ॥ १०३ ॥

अगृहीते तु सम्बन्धे गृहीते वाऽपि विस्मृते ।
अप्रबुद्धेऽपि संस्कारे वाचकावगतिः कुतः ? ॥ १०४ ॥

जात्यादिशबलितमपि न निर्विकल्पस्य विषयः चित्रताऽपि पृथग्भूतैर्धर्मैस्तत्समवायिभिः ।
जात्यादिभिर्यदीष्येत धर्मिणः काममस्तु सा ॥ १०५ ॥

तदात्मता तु नैकस्य नित्यं तत्त्वानुपग्रहात् ।
अंशनिष्कर्षपक्षे तु धर्मभेदो बलाद्भवेत् ॥ १०६ ॥

तथोक्तं च— [वाक्यपदीयो ३-३२] “सत्यासत्यौ तु यौ भावौ प्रतिभावं व्यवस्थितौ । सत्यं यत् तत्र सा जातिरसत्या व्यक्तयः स्मृताः । सम्बन्धिभेदात्सत्तैव भिद्यमाना गवादिषु । जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः । सा नित्या सा महानात्मा” इति । एवञ्च ब्रह्मविवर्तवादे प्रदर्शिता दोषा अत्रापि समानाः ॥

कथमिति । शब्दो हि श्रावण इति भावः । ननु ज्ञानलक्षणाप्रत्यासत्त्या शब्दभानं भवताप्यङ्गीकृतं, कः प्रद्वेषोऽस्मासु ? इत्यत्राह—अगृहीत इति । सत्यमङ्गीकृतमस्माभिः, विकल्पस्थले पूर्वमेव गृहीतशक्तिकस्य तद्युज्यते । न तु प्राथमिकल्प्रत्यये । विकल्पस्थलेऽपि, वाचकशब्दस्याज्ञाने, ज्ञातेऽपि संस्कारप्रमोषवशाद्विस्मरणे, सत्यपि संस्कारे उद्बोधकासमधाने वा कथं शब्दभानं स्यात् । सूक्ष्मशब्दभानादिकं तु स्फोटवादे विचार्यते ॥

चित्रतेत्यादि । अयमर्थः । एकस्मिन् धर्मिणि विद्यमानाः जातिगुणक्रियात्मका धर्माः प्रथमग्रहणेऽपि गृह्यन्त एव । परन्त्वयं धर्मी, अयं गुणः, इयं जातिः, इयं क्रियेति विविच्य न भासन्ते । अतस्तन्निर्विकल्पमित्युच्यते । धर्मधर्मिणोश्च भेदाभेदावेवेति पूर्वमेवोक्तम् । तत्र निर्विकल्पेऽभेदांशस्यैबौत्कट्यम् । तदनन्तरं च पुरुषापेक्षानुगुणं जातिः गुणो वा धर्मिणः पृथगुद्भूतं सत् गृह्यते । तथोक्तमाकृतिवादे—“भेदेभ्योऽनन्यरूपेण सामान्यं गृह्यते यदा । तदा विशेषमात्रेण वस्तु प्रत्यवभासते । तदुद्भूत्या च सामान्यं तद्भावानुगुणं स्थितम् । सदप्यग्राह्यरूपत्वादसद्वत्प्रतिभाति नः । विशेषानपि सामान्याद्यदा भेदेन बुध्यते । तदा सामान्यमात्रत्वमेवमेव प्रतीयते । यदा तु शबलं वस्तु युगपत्प्रतिपद्यते । तदान्यानन्यभेदादि सर्वमेव प्रलीयते” इति ॥

यत्र यत्र यदोद्भूतिः जिघृक्षा चेति कथ्यते ।
तदात्मकत्वं धर्माणामुच्यते चेत्यसङ्गतम् ॥ १०७ ॥

देशभेदस्तु धर्माणां अस्माभिरपि नेष्यते ।
धर्मी हि तेषामाधारो न पुनस्स तदात्मकः ॥ १०८ ॥

निर्विकल्पकविचारोपसंहारः
तस्माद्य एव वस्त्वात्मा सविकल्पस्य गोचरः ।
स एव निर्विकल्पस्य शब्दोल्लेखविवर्जितः ॥ १०९ ॥

अत्रैवं पृच्छ्यते—नामजात्यादिशबलं वस्तु निर्विकल्पे भासत इत्यत्र, किं धर्मिणोऽत्यन्तं भिन्नैः धर्मिणि वर्तमानैर्नामजात्यादिभिः शबलितं वस्तु ? उतात्यन्ताभिन्नैः तादृशैः ? उत भिन्नाभिन्नैः ? आद्येऽस्मदिष्टापत्तिः । द्वितीये तु अर्भिन्नयोर्धर्मधर्मिभावः कथम् ? न हि स्वयमेव धर्मः धर्मी च भवितुमर्हति । एवं च एकस्यैव धर्मिणः तत्त्वेन—धर्मात्मकत्वेनाग्रहणात् धर्माणां धर्म्यात्मकत्वं, धर्मिणो धर्मात्मकत्वं वा कथम् । नान्त्यः—भेदाभेदयोः परस्परविरुद्धत्वेनैकत्रासम्भवात् । ननु उपपादकांशभेदाद्विरोधं परिहरामः—तथोक्तं— “एवञ्च परिहर्तव्यः भिन्नाभिन्नत्वकल्पना । केनचित् द्व्यात्मनैकत्वं नानात्वं चास्य केनचित्” इति ॥

अत्र न्यायरत्नाकरः—“यत्तु अन्यानन्यतैव कथमेकस्येत्युक्तं तत्राह— एवञ्चेति । एतदेव दर्शयति—केनचिदिति । गोत्वं हि शाबलेयात्मना बाहुलेयाद्भिद्यते, स्वरूपेण च न भिद्यते । तथा व्यक्तिरपि गुणकर्मजात्यन्तरात्मना गोत्वाद्भिद्यते, स्वरूपेण च न भिद्यते । तथा व्यक्त्यन्तरादपि व्यक्तिर्जात्यात्मना न भिद्यते, स्वरूपेण च भिद्यते । अपेक्षाभेदाच्चाविरोधः” इत्यादि । तथा च को दोषः ? इति चेत्—एवं तर्हि अनुवृत्तांशव्यावृत्तांशभेदस्य सिद्धत्वाद्धर्मधर्मिभेद एव दृढीकृतो भवति । अपेक्षावशात् यत्र यस्य धर्मस्य उपादित्सा तस्य तत्रोद्भवः ग्रहणं चेत्युच्यते, अभेदश्च तयोरुच्यत इति विचित्रमिदम् । अतोऽयमपि पक्षो न युक्तः ॥

किमात्मकोऽसाविति चेद्यद्यदा प्रतिभासते ।
वस्तुप्रमितयश्चैव प्रष्टव्या न तु वादिनः ॥ ११० ॥

क्वचिज्जातिः क्वचिद्दूव्यं क्वचित्कर्म क्वचिद्गुणः ।
यदेव सविकल्पेन तदेवानेन गृह्यते ॥ १११ ॥

इह शब्दानुसन्धानमात्रमभ्यधिकं परम् ।
विषये न तु भेदोऽस्ति सविकल्पाविकल्पयोः ॥ ११२ ॥

अतः शब्दानुसन्धानवन्ध्यं तदनुबन्धि वा ।
जात्यादिविषयग्राहि सर्वं प्रत्यक्षमिष्यते ॥ ११३ ॥

तस्माद्यत्कल्पनापोढपदं प्रत्यक्षलक्षणे ।
भिक्षुणा पठितं तस्य व्यवच्छेद्यं न विद्यते ॥ ११४ ॥

अभ्रान्तपदप्रयोजनदूषणम्
अभ्रान्तपदस्यापि व्यावर्त्यं न किञ्चन तन्मते पश्यामः ॥

ननु ! तिमिर-आशुभ्रमण-नौयान-सङ्क्षोभाद्याहितविभ्रमं द्विचन्द्रअलातचक्र चलत्पादपादिदर्शनमपोह्यमस्य परैरुक्तम्—सत्यमुक्तम्,

ननु शब्दानुल्लेखिनी प्रतीतिः कीदृशी स्यादित्यत्र—अनुभवं पश्येति वदति—वस्त्वित्यादि ॥

इह—सविकल्पे । शब्दः—वाचकशब्दः । तस्मादिति—नामजात्यादिविषयकप्रत्यक्षस्यापि प्रत्यक्षप्रमाणत्वेन तद्व्यावृत्त्यर्थं कल्पनापोढपदमिति न युज्यत इत्यर्थः ॥

“तिमिराशुभ्रमणनौयानसङ्क्षोभाद्यनाहितविभ्रमं ज्ञानं प्रत्यक्षम्” इति न्यायबिन्दुः । अत्र “सङ्क्षोभः—वातपित्तश्लेष्मणाम् । तेन ज्वलितस्तभादिभ्रान्तिः” इति धर्मोत्तरटीका । सङ्क्षोभः—चित्तसङ्क्षोभ इति यावत् । द्विचन्द्र— इत्यादीनां यथासङ्ख्यमन्वयः । अलातं—अर्धदग्धकाष्ठः । तस्याशुभ्रमणेन अग्नौ चक्राकारभ्रान्तिविषयः चक्रं अलातचक्रमुच्यते । एवञ्च द्विचन्द्रभ्रमे तिमिरं दोषः, अलातचक्रभ्रमे आशुभ्रमणं, चलत्पादपभ्रमे नौयानं दोषः, आदिपदग्राह्यपिशाचभ्रमादौ सङ्क्षोभादिरिति ग्राह्यम् ॥

अयुक्तं तु—कल्पनाऽपोढपदेनैव तद्व्युदाससिद्धेः । तत्रापि निर्विकल्पकं ज्ञानं एकचन्द्रादिविषयमेव, विकल्पास्तु विपरीताकारग्राहिणो भवन्ति; यथा मरीचिग्राहिणि निर्विकल्पके सलिलावसायी विकल्प इति ॥ अभ्रान्तपदप्रयोजनसमर्थनं—तन्निराकरणं च
ननु ! तिमिरेण द्विधाकृतं चक्षुरेकतया न शक्नोति शशितं ग्रहीतुं इति निर्विकल्पकमपि द्विचन्द्रादिज्ञानम्—यद्येवं तरलतरङ्गादिसादृश्यरूषितं ऊषरे मरीचिचक्रं चक्षुषा परिच्छेत्तुमशक्यमिति तत्रापि निर्विकल्पकमुदकग्राहि विज्ञानं किमिति नेष्यते ? अभ्युपगमे वा सदसत्कल्पनोत्पातादिकृतः प्रमाणेतरव्यवहारो न स्यात् ॥ ज्ञानानां भ्रमत्वनिदानम्
अपि च न बाधकोपनिपातमन्तरेण भ्रान्तताऽवकल्पते ज्ञानानाम् । न च क्षणिकवादिमते वाध्यबाधकभावो बुद्धीनामुपपद्यत इत्यलं विमर्देन ॥

पूर्वोक्तं [पु। २३५] दलकृत्यं शङ्कते—नन्वित्यादि । तिमिरादिदोषदुष्टमपि चक्षुः प्रथमसन्निकृष्टं चन्द्रं गृह्णाति । दोषवशात् नयनद्वयगतरश्मिद्वयं स्वतन्त्रं चन्द्रसंयुक्तं पृथक्पृथक् चन्द्रं गृह्णाति । अतः द्वित्वप्रतिभासः । परन्तु प्रत्येकं प्रत्येकं यथावस्थितवस्तुग्रहणात् न तत्र कल्पनावकाशः । अतश्च कल्पनापोढत्वात् द्विचन्द्रभ्रमेऽतिव्याप्तिः । अतः अभ्रान्तपदम् । यद्यपि शुक्तिरजतादिज्ञानेऽप्यतिव्याप्तिर्वक्तुं शक्या, परन्तु कल्पनापोढपदेनैव तैभिरिकज्ञानस्य स्पष्टनिरस्यत्वप्रतीतये द्विचन्द्रज्ञानमुपात्तम् । समाधत्ते—यद्येवमिति । मरीचिज्ञानमपि अभ्रान्तपदेनैव वारयाम इति चेत्तत्राह—अभ्युपगम इति । तथा च अभ्रान्तपदेनापि व्यावृत्तिर्दुवचैव स्यात् । प्रथमाक्षसन्निपातप्रभवत्वेन निर्विकल्पवदेव हि तेषामपि प्रामाण्यमेव वक्तव्यं स्यादित्याशयः ॥

न चेति । ज्ञानानां क्षणिकत्वेन बाधकज्ञानकाले बाध्यं ज्ञानं स्वयमेव नष्टमिति कथमनयोर्बाध्यबाधकभाव इति भावः ॥

इति सुनिपुणबुद्धिर्लक्षणं वक्तुकामः
पदयुगलमपीदं निर्ममे नानवद्यम् ।
भवतु, मतिमहिम्नश्चेष्टितं दृष्टमेतत्
जगदभिभवधीरं धीमतो धर्मकीर्तेः ॥ ११५ ॥

साङ्ख्योक्तप्रत्यक्षलक्षणदूषणम्
श्रोत्रादिवृत्तिरपरैरविकल्पकेति
प्रत्यक्षलक्षणमवर्णि तदप्यपास्तम् ।
साम्यान्नयस्य, न च सिद्ध्यति बुद्धिवृत्त्या
द्रष्टृत्वमात्मन इति प्रतिपादितं प्राक् ॥ ११६ ॥

जैमिन्युक्तप्रत्यक्षलक्षणदूषणम्
“सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्तं विद्यमानोपलम्भनत्वात्” इत्येतत्सूत्रं जैमिनीयैः साक्षात्प्रत्यक्षलक्षण-

दिङ्नागस्तु “प्रत्यक्षं कल्पनापोढं” [प्रमाणसमुच्चये] इत्येतावन्मात्रं लक्षणमुक्तवान् । तत्र दोषं पश्यन् अभ्रान्तपदेन तत् परिष्कृतवान् धर्मकीर्तिरिति सुनिपुणबुद्धिरिति नर्मोक्तिः । नायं तदपराधः, किन्तु मतिवैभवस्येत्याह—भवत्विति ॥

श्रोत्रादीति । युक्तिदीपिकायां श्रोत्रादिवृत्तेः प्रत्यक्षप्रमाणत्वमुपपादितम् । सृष्टिप्रक्रियायां श्रोत्रेन्द्रियस्याद्यत्वात् तस्योत्कीर्तनम् । प्रमाणभूतप्रत्यक्षबोधनाय अविकल्पकपदम् । नयस्य साम्यात्—“न तु पररचितानि लक्षणानि क्षणमपि सूक्ष्मदृशां विशन्ति चेतः” इति न्यायस्य साम्यात् । दोषमप्याह—न चेत्यादि । प्राक्—६९—७० पुटयोरिदं द्रष्टव्यम् ॥

सदित्यादि । अत्र “तत्प्रत्यक्षं” इत्यन्तं लक्षणवाक्यम् । एतादृशं प्रत्यक्षं धर्मं प्रति अनिमित्तम्—अप्रमाणम्—प्रत्यक्षेण धर्मः ग्रहीतुं न शक्यत इत्यर्थः । तत्र हेतुः—विद्यमानेति । प्रत्यक्षं खलु वर्तमानमात्रग्राहकम्, धर्मस्तु अतीतः अनागतश्च वर्तते । तयोः कथं प्रत्यक्षेण ग्रहणं स्यात् । अतः विधिरेव [वेद एव] धर्मे प्रमाणं; नान्यदित्यर्थः ॥

परत्वेन न व्याख्यातम्; “चोदनालक्षणोऽर्थो धर्मः” इति प्रकृतप्रतिज्ञासङ्गत्यभावात् । अपि तु—धर्मं प्रति प्रत्यक्षमनिमित्तं, एवं लक्षणकत्वादिति अनुवादभङ्ग्या लक्षणे योजितम् । यथोक्तम्— “एवं सत्यनुवादत्वं लक्षणस्यापि सम्भवेत्” इति ।
[श्लो। वा। १-१-४-३९]

तदेतल्लक्षणवर्णने सूत्रयोजनमसमीचीनम्; अतिव्याप्तिदोषानतिवृत्तेः । तथा हि—इन्द्रियाणां सति सम्प्रयोगे पुरुषस्य जायमाना बुद्धिः प्रत्यक्षमिति सूत्रार्थः । तथा चातिव्याप्तिः—संशयविपर्ययबुद्ध्योरपि इन्द्रियसंयोगजत्वेन प्रत्यक्षत्वप्रसङ्गात् ॥

सङ्गत्यभावादिति । इदं नैकं सूत्रं, किन्तु तत् प्रत्यक्षमित्येकं लक्षणपरं—अन्यच्च भिन्नं सूत्रमिति व्याख्यातवन्तं भवदासं दूषयद्भिः भट्टपादैरपि “वर्ण्यते सूत्रभेदेन येन प्रत्यक्षलक्षणम् । तेन सूत्रस्य सम्बन्धो वाच्यः पूर्वप्रतिज्ञया” इति सङ्गत्यभाव एव दूषणमुक्तम् । धर्मविचारः खलु प्रतिज्ञातः, तस्य नेदं प्रत्यक्षलक्षणं साक्षात्सङ्गतमिति ॥

एवं लक्षणकत्वादिति—प्रत्यक्षस्येति शेषः । एवमिति । अस्य लक्षणवाक्यस्य अनुबादरूपत्वमपि सम्भवेत् । लोकसिद्धलक्षणानुवादेन धर्मे प्रत्यक्षस्य प्रमाणत्वमुच्यत इत्यर्थः । अनतिवृत्तेरिति । पार्थसारथिमिश्रैः न्यायरत्नाकरे “भवदासेन हि सता सम्प्रयोग इत्युक्तं, सम्प्रयोगशब्दश्च सकलसम्बन्धवचनो व्याख्यातः । अतस्तस्यानुमानादिषु आभासेषु चातिव्याप्तिर्भवति, नास्मद्व्याख्याने इत्युक्तं” न युक्तमित्यनेन सूचितम् ॥

सतीत्यादि । “सति इन्द्रियार्थसम्बन्धे” इति शाबरं भाष्यम् । यद्यपि अत्र—इदं वाक्यं न विग्रहपरं, किन्तु व्याख्यानमात्रम् । विग्रहस्तु संश्चासौ सम्प्रयोगश्च इत्येवेति “अविद्यमानसंयोगात् प्रत्यक्षत्वनिराकृतिः” [१-१-४, ३६] इति वार्तिके, तद्व्याख्यासु चाभिहितम्, परन्तु ग्रन्थकृतां सप्तमीतत्पुरुष एवात्र भाष्यकारसम्मत इति अभिप्रायः । “सप्तमीपक्ष एव न त्यज्यते” इत्यनुपदं वदन्ति च । अयमाशयो ग्रन्थकृताम्—इदं च सूत्रं न प्रत्यक्षलक्षणपरं, किन्तु धर्मे प्रत्यक्षाप्रवृत्तिनिरूपणपरमिति सम्मतमेव । धर्मे
अथ सत्सम्प्रयोग इति सतां सम्प्रयोग इति व्याख्यास्यते— तथाऽपि निरालम्बनविभ्रमा एवार्थनिरपेक्षजन्मानो निरस्ता भवेयुः, न सालम्बनौ संशयविपर्ययौ ॥

अथ सति सम्प्रयोग इति सप्तमीपक्ष एव न त्यज्यते; संशयविपर्ययच्छेदी च सम्प्रयोग इत्युपसर्गो वर्ण्यते । यथोक्तम्— “ सम्यगर्थे च संशब्दो दुष्प्रयोगनिवारणः ।
दुष्टत्वाच्छुक्तिकायोगो वार्यतामक्षजेक्षणात् ॥ इति ।

” [श्लो। वा। १-१-४-३९]

तथाऽपि प्रयोगसम्यक्त्वस्यातीन्द्रियत्वेन प्रत्यक्षानवगम्यत्वात् कार्यतोऽवगतिर्वक्तव्या । कार्यं च ज्ञानम् । न च तदविशेषितमेव प्रयोगस्य सम्यक्तामवगमयति । न च तद्विशेषणपरमिह पदमपि, प्रत्यक्षाप्रवृत्तौ हेतुः विद्यमानोपलम्भनत्वादिति । प्रत्यक्षस्य विद्यमानोपलम्भनत्वमेवासिद्धमित्याशङ्का “सत्सम्प्रयोगे” इत्यनेन वार्यत इति कथनमेव सुन्दरम् । इदं च कर्मधारयाश्रयणे कथं वा सिध्येत् ? आर्थिकं तदिति चेत्, ततो वरं शाब्दत्वकल्पनम् । असतां सम्प्रयोगस्यासम्भवात् सदिति व्यर्थमिति धर्मकीर्तिदूषणभीत्या कर्मधारयाश्रयणमपि न युक्तम्, सूत्रस्यानुवादकत्वेन लक्षणपरत्वाभावेनैव तन्मुखपिधानात् । कर्मधारयाश्रयणेऽपि हि सत्पदं व्यर्थमेव । “सम्प्रयोगे” इत्यस्य निमित्तसप्तमीत्वेन विद्यमानस्यैव निमित्तत्वसम्भवात् तेनैव विद्यमानत्वं लभ्येत । परमते अविद्यमानसम्प्रयोगजन्ययोगिप्रत्यक्षवारणाय तदिति वर्णनमपि न चारुतरम् । परमतदृष्टया लक्षणे विशेषणदानस्यासम्भवात् । अतः प्रकृतात्यन्तोपयुक्ततत्पुरुषाश्रयणमेव वरम् ॥

संशयविपर्ययाविति । एतयोः इन्द्रियार्थसन्निकर्षजन्यत्वं पूर्वं [पु। २३२-२३३] उपपादितम् ॥

दुष्प्रयोगः—असत्सन्निकर्षः । अतीन्द्रियत्वेनेति । शुक्तिरजतसत्यरजतसन्निकर्षयोर्हि वैलक्षण्यं न तदानीमनुभवसिद्धम् । अविशेषितं—दुष्टज्ञानवारकविशेषणासहितं, तत् ज्ञानम् । ज्ञानं सम्यक् चेत् कारणमपि सम्यक्, नो चेन्न—इत्येव वक्तव्यमित्यर्थः ॥

अक्षरमपि, मात्रामपि वा सूत्रे पश्यामः । सतां सम्प्रयोग इति च पदं निरालम्बनज्ञाननिवृत्तये वर्णितम् । “सति” इति तु सतिसप्तम्यैव गतार्थत्वादनर्थकम् ॥

लोकत एव कार्यविशेषावगमात् प्रयोगसम्यक्त्वमवगमिष्यामः इति चेत्—लोकत एव प्रत्यक्षस्य सिद्धत्वात् किं तल्लक्षणे सूत्रसामर्थ्ययोजनाक्लेशेन ॥ उपवर्षोक्तप्रत्यक्षलक्षणवर्णनम्
यदप्यत्र भगवान् वृत्तिकारः प्राह—यत् प्रत्यक्षं न तद्व्यभिचरति, “यत् व्यभिचारि न तत्प्रत्यक्षम् । किं तर्हि प्रत्यक्षम् ? तत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म सत् प्रत्यक्षम् । यद्विषयं ज्ञानं तेनैव सम्प्रयोगे इन्द्रियाणां पुरुषस्य बुद्धिजन्म सत्प्रत्यक्षम् । यत् अन्यविषयकं ज्ञानमन्यसम्प्रयोगे भवति न तत् प्रत्यक्षमिति—”इत्येवं तत्सतोर्व्यत्ययेन लक्षणमनपवादमवकल्पत इति—तदपि वृथाऽटाट्यामात्रम्; संशयज्ञानेन व्यभिचारानतिवृत्तेः । तत्र हि यद्विषयं ज्ञानं तेन सम्प्रयोग इन्द्रियाणामस्त्येव ॥

ननु ज्ञानं न तथा विशेष्यते । अथापि अर्थप्राप्त्यप्राप्तयोः लोकसिद्धत्वात् तदादायैव सन्निकर्षसदसत्त्वं निर्णेष्याम इति शङ्कते—लोकत एवेति । तर्हि प्रत्यक्षस्वरूपादिकमपि लोकत एव प्रतिपद्यतां, किं तल्लक्षणाद्यभिधानेनेति समाधानग्रन्थाशयः ॥

अनपवादं—असद्विषयकभ्रमव्यावृत्तम् । वृथाऽटाट्या-वृथाभ्रमणम् ॥ संशयस्येन्द्रियजन्यत्वोपपादनम्
ननु ! उभयविषयं ज्ञानम्; न चोभाभ्यां सम्प्रयुक्तमिन्द्रियम्— मैवम्—न हि धवखदिरवत् द्वावपि संशयसंविदि प्रतिभासेते । किं तु स्थाणुर्वा पुरुषो वेति अनिर्धारितैकतरपदार्थतत्त्वावमर्शी संशयो जायते । नूनं च तयोरन्यतरेणेन्द्रियं सम्प्रयुक्तमेवेति । उभयावमर्शित्वाच्च संशयस्य येन सम्प्रयुक्तं चक्षुः तद्विषयमपि तज्ज्ञानं भवत्येवेति नातिव्याप्तिः परिहृता भवति ॥ सूत्रस्यानुवादकत्वोपपादनं परैः
अथ ब्रूयुः—किमनेन परिक्लेशेन ? न लक्षण वर्णनमस्माकमभिमतम्, अनुवादपक्षनिक्षिप्तत्वात् । अपि तु लोकप्रसिद्धप्रत्यक्षानुवादेन धर्मं प्रत्यनिमित्तत्वमेव विधीयते ! न धर्मं प्रति प्रमाणं प्रत्यक्षं, विद्यमानोपलम्भनत्वात्—विद्यमानार्थग्राहित्वादित्यर्थः । धर्मश्च न वर्तमानः; त्रिकालानवच्छिन्नस्य तस्य “यजेत” “दद्यात्” “जुहुयात्” इत्यादिशब्देभ्यः प्रतीतेः ॥

तर्हि “सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम्” इति किमर्थो ग्रन्थ इति चेत्—न—विद्यमानोपलम्भनसमर्थनार्थत्वात् । यदि विद्यमानोपलम्भनत्वमसिद्धमिति परो ब्रूयात्—स वक्तव्यः—विद्यमानोपलम्भनं प्रत्यक्षं, सत्सम्प्रयोगजत्वादिति ॥

ननु यावद्विषयसंयोग एव विवक्षणीयः । अन्यथा हि भ्रमेऽपि धर्म्यंशे सन्निकर्षसत्त्वात् कथं वारणम् ? तथा च संशयव्युदास इति शङ्कते— नन्विति । ज्ञानं—संशयः । धवखदिरवदिति । समुच्चयात्मकज्ञान इव इति यावत् । तद्विषयमपीति । अन्यतरस्यैव प्रकारत्वेन तदंशे इन्द्रियसन्निकर्षोऽस्त्येव । अन्यथा प्रत्यभिज्ञाद्यपि न प्रत्यक्षं स्यादित्यर्थः ॥

यथार्थमाशयमनुवदति—अथेति । त्रिकालेति । न हि कालविशेष एव विधायको विधिरित्यर्थः । भूतो भविष्यंश्च धर्मो वर्तत एव ॥

किमर्थ इति । “प्रत्यक्षमनिमित्तं, विद्यमानोपलम्भनत्वात्” इत्येतावतैबोक्तार्थलाभादित्यर्थः ॥

प्रत्यक्षग्रहणमपि हेतुनिर्देशार्थमेव । सत्सम्प्रयोगस्यासिद्धतां ब्रुवन्ननेन प्रत्याख्यायते सत्सम्प्रयोगजं प्रत्यक्षं प्रत्यक्षत्वादिति । तदुक्तम् [श्लो। वा १-१-४-२१]

“प्रत्यक्षत्वमदोहेतुः शेषं हेतुप्रसिद्धये” इति ।

स्वातन्त्र्येणापि प्रत्यक्षत्वं धर्मग्राहकत्वनिषेधाय वक्तव्यम् । न धर्मग्राहि प्रत्यक्षं, प्रत्यक्षत्वात्, अस्मदादिप्रत्यक्षवत् इत्येवमन्यत्रैव सूत्रतात्पर्यात् नातिव्याप्त्यादिदोषावसर इहेति ॥ अनुवादकत्वेऽपि सूत्रस्य दोषकथनम्
तदेतदपि न प्रामाणिकमनोऽनुकूलम् । कतरस्य प्रत्यक्षस्य धर्मं प्रत्यनिमित्तत्वं प्रतिपाद्यते ? किमस्मदादिप्रत्यक्षस्य ? योगिप्रत्यक्षस्य वा ? तत्र अस्मदादिप्रत्यक्षस्य तथात्वे सर्वेषामविवाद एवेति किं तत्रेयता श्रमेण ! योगिप्रत्यक्षस्य तु भवतामसिद्धत्वात् कस्य धर्मं प्रत्यनिमित्तत्व प्रतिपादनम् ?

प्रत्यक्षेति । “तदनिमित्तम्” इत्येबालमित्यर्थः । अदोहेतु—सत्सम्प्रयोगजत्वे हेतुः । तथा हि व्याख्यातं मिश्रैः—“सत्सम्प्रयोगजत्वस्यैव कुतः सिद्धिरित्यत आह—प्रत्यक्षत्वमिति । तदेते त्रयः प्रयोगाः, प्रत्यक्षमनिमित्तं, विद्यमानोपलम्भनत्वात्; विद्यमानोपलम्भनत्वं च सत्सम्प्रयोगजत्वात्; सत्सम्प्रयोगजत्वं च प्रत्यक्षत्वादिति” इति । शेषं सूत्रं विद्यमानोपलम्भनत्वरूपहेतोरसिद्ध्याशङ्कायां हेतुसिद्ध्यर्थं प्रवृत्तमित्यर्थः । प्रत्यक्षत्वं—प्रत्यक्षलक्षणम् । प्रत्यक्षं न धर्मग्राहकं इति वक्तव्ये, कुत इति प्रश्ने, प्रत्यक्षस्यैवंरूपत्वादिति खलु वक्तव्यमित्यर्थः । अन्यत्रैव—लक्षणादन्यस्मिन्ननुवाद एव ॥

तथात्वे—प्रत्यक्षं प्रत्यप्रमाणत्वे । योगीति । तथोक्तं वार्तिके— “अस्मदादौ प्रसिद्धत्वाद्योग्यर्थमभिधीयते” [१-१-४-२१] इति ॥

एवं च धर्मिणोऽभावादाश्रयासिद्धतां स्पृशेत् ।
विद्यमानोपलम्भत्वप्रत्यक्षत्वादिसाधनम् ॥ ११७ ॥

परप्रसिद्ध्या तत्सिद्धिरिति चेत्—केयं प्रसिद्धिर्नाम ? प्रमाणमूला ? तद्विपरीता वा ? आद्ये पक्षे प्रमाणस्यापक्षपातित्वात् परस्येव तवापि सिद्धिर्भवतु । अप्रमाणमूलत्वे तुन कस्यचिदष्यसौ प्रसिद्धिः ॥

योगिज्ञानं परेषां यत् सिद्धं, तदनुभाषणे ।
प्रतिज्ञापदयोरेव व्याघातस्ते प्रसज्यते ॥ ११८ ॥

परैर्हि धर्मग्राहि योगिज्ञानमभ्युपगतम् । अतस्तदनुभाषणे धर्मग्राहकं न धर्मग्राहकमित्युक्तं स्यात् ॥

परसंसिद्धमूलं च नानुमानं प्रकल्पते ।
उक्तं भवद्भिरेवेदं निरालम्बनदूषणे ॥ ११९ ॥

धर्मिणः—उभयसम्प्रतिपन्नस्य पक्षस्य । लौकिकप्रत्यक्षस्य धर्मं प्रत्यप्रमाणत्वसाधने सिद्धसाधनम्; योगिप्रत्यक्षस्य भवदनभिमतत्वात् पक्षत्वमेव न सम्भवतीत्युभयथापि सूत्रं व्यर्थमित्यर्थः ॥

तवापीति । न हि प्रमाणसिद्धस्यापह्नवः केनापि कर्तुं शक्य इत्यर्थः ॥

व्याघात इति । परसम्मतं हि योगिप्रत्यक्षं धर्मग्रहणशक्तम्, तत्कथं परसम्मतं सिद्धवत्कृत्य तस्य धर्मग्राहकत्वमात्रं नाङ्गीक्रियत इत्यर्धजरतीत्यर्थः । एतदेवोपपादयति—परैर्हीत्यादि । तथोक्तं “अतीतानागतेऽप्यर्थे सूक्ष्मे व्यवहितेऽपि च । प्रत्यक्षं योगिनामिष्टं कैश्चित्” [श्लो। वा। १-१-४-२६] इत्यादि । परे—शाक्यार्हतादयः ॥

परसंसिद्धमूलं—परमतमात्रसिद्धपक्षकम् । उक्तमिति । तथा हि वार्तिकम्— [श्लो। वा। १-१-५-निरा। ४५] “अथापि रूढिरूपेण प्रत्ययः स्यात् तथापि तु । ग्राहकं वस्तु सिद्धं नः प्रत्ययोऽन्यस्य वस्तुनः । तमभ्युपेत्य पक्षश्चेत् अभ्युपेतं विरुध्यते” इत्यादि । अयं भावः । सर्वोऽपि प्रत्ययः मिथ्या,
साध्यसिद्धिर्यथा नास्ति परसिद्धेन हेतुना ।
तथैव धर्मिसिद्धत्वं परसिद्ध्या न युज्यते ॥ १२० ॥

सूत्रस्य तर्करूपत्वोपपादनं, तन्निराकरणञ्च तत्रैतत्स्यात्—प्रसङ्गसाधनमिदम् । प्रसङ्गश्च नाम परसिद्धेन परस्यानिष्टापादनमुच्यते । परस्य च विद्यमानोपलम्भनं सत्सम्प्रयोगजन्यं च प्रत्यक्षं सिद्धम् । अतस्तेनैव हेतुना धर्मानिमित्तत्वं तस्योपपाद्यत इति को दोषः ?—नैतदेवम्—

प्रसङ्गसाधनं नाम नास्त्येव परमार्थतः ।
तद्धि कुड्यं विना तत्र चित्रकर्मेव लक्ष्यते ॥ १२१ ॥

न हि नभःकुसुमस्य सौरभासौरभविचारो युक्तः ॥

अथापि किं न एतेन ! भवत्वेवं प्रसङ्गसाधनम् । तदपि तु व्याप्तिमूलं भवति ॥

न च सम्भवति व्याप्तिप्रतीतिरिह मादृशाम् ।
न धर्मग्राहि सर्वेषां प्रत्यक्षमिति वेत्ति कः ? ॥ १२२ ॥

प्रत्ययत्वात्, इत्यनुमाने पक्षत्वेन लोकप्रसिद्धः प्रत्यय एव विवक्षित इति कथनेऽपि अन्यस्य ग्राहकात् ज्ञानात् भिन्नस्य वस्तुनः ग्राहकं आत्मधर्मभूतं वस्त्वेव प्रत्ययशब्दार्थ इति अस्माकं प्रसिद्धम् । तस्यैव पक्षीकरणे च अभ्युपगमविरोधः—अस्माभिः अर्थग्राहकत्वेन प्रमाणत्वेन चाभिमतं प्रत्ययं पक्षत्वेनाङ्गीकृत्य पुनस्तस्य अर्थाविषयत्वादप्रामाण्यसाधनं व्याहतमिति । एवञ्च परपक्षसिद्धस्य पक्षीकरणं न युज्यत इति भवद्भिरेव कथितमिति प्रकृते परमतसिद्धस्य योगिप्रत्यक्षस्य पक्षीकरणं न युक्तम् । धर्मी—पक्षः ॥

प्रसङ्गेत्यादि । कन्दल्यामप्ययं पक्षः प्रस्तुत्य निरस्तः ॥

मादृशां—असर्वज्ञानाम् । प्रत्यक्षं हि ज्ञानं तत्तदात्ममात्रसाक्षिकम् । एवं स्थिते सर्वेषामपि प्रत्यक्षं न धर्मग्राहीति को वा वेत्ति ? यदि कश्चित् वेत्ति तर्हि स एव सर्वज्ञः योगिपदवाच्यः सञ्जातः । सर्वज्ञेन च तेन धर्मोऽपि तथैव गृह्येत ॥

मत्प्रत्यक्षमक्षमं धर्मग्रहण इति भवान्न जानीते, त्वत्प्रत्यक्षमपि न धर्मग्राहीति नाहं जाने, अन्यस्य प्रत्यक्षमीदृशमेवेति उभावप्यावां न जानीवहे ॥

त्वया तु यदि सर्वेषां प्रत्यक्षं ज्ञातमीदृशम् ।
तर्हि त्वमेव योगीति योगिनो द्वेक्षि किं वृथा ? ॥ १२३ ॥

प्रामाणिकस्थितिं तस्मादित्थं श्रोत्रिय ! बुध्यसे !
परोक्तेऽतीन्द्रिये ह्यर्थे मा वादीर्दूषणं पुनः ॥ १२४ ॥

प्रमाणसिद्धे हतशक्ति दूषणं
प्रमाणशून्येऽपि वृथा तदुक्तयः ।
निरस्य चोद्यव्यसनं तु मृग्यतां
अतीन्द्रिये वस्तुनि साधनं पुनः ॥ १२५ ॥

स चेत् पर्यनुयुक्तः सन् वक्तुं शक्नोति साधनम् ।
ओमिति प्रतिपत्तव्यं नो चेन्नास्त्येव तस्य तत् ॥ १२६ ॥

उक्तमेव विवृणोति—मत्प्रत्यक्षेति । उभाविति । स्वप्रत्यक्षस्य धर्मग्रहणासामर्थ्यात् तद्दृष्टान्तेन इतरेषामपि प्रत्यक्षं तादृशमेवेत्यनुमिनुमः—इति चेत् स्वेनावगतमेवान्येनाप्यवगम्येतेति वा, स्वेनानवगतमन्यस्याप्यनवगतमेवेति वा न वक्तुं शक्यमिति ग्रन्थकृदेव सप्तमाह्निके क्षणभङ्गे वक्ष्यति । यथा—“यदहं न वेद्मि तत् परोऽपि न वेदेति चेत्” इत्यादिना । बुध्यसे इति । अवगच्छेति यावत् ॥

सर्वेषां प्रत्यक्षं ईदृशमिति त्वया यदि ज्ञातं इत्यन्वयः ॥

प्रमाणसिद्धेऽर्थे दूषणमकिञ्चित्करं, प्रमाणशून्येऽपि तथेत्यर्थः । अयं भावः— अतीन्द्रियं तु वस्तु भवतामपि सम्मतम् । तत्र च प्रमाणं केवलं मृग्यम् । न त्वन्येनोक्ते प्रमाणे केवलदूषणकथनं युक्तम् । शब्दोऽपि हि लोकावगतसामर्थ्यः अत्यन्तलोकविलक्षणेऽतीन्द्रिये वस्तुनि कथं प्रमाणं स्यादिति ॥

स चेदिति । अतीन्द्रियसाधकं प्रमाणमवगन्तुमशक्तेन त्वया पृष्टः सः— यः कश्चित् तत्साधनं वक्ति चेत्, तूष्णीमभ्युपगम्य सन्तोष्टव्यमायुष्मता । यदि नाङ्गीकरोषि तर्हि अतीन्द्रियसाधनं न शक्यमेव ॥ योगिप्रत्यक्षे प्रमाणम्
आह—शिक्षिताः स्मः प्रामाणिकवृत्तम् । न दूषणं ब्रूमः । भवन्तमेवानुयुञ्ज्महे; तदेतर्हि कथ्यताम्—धर्माधिगमनिपुणयोगिप्रत्यक्षसिद्धौ किं प्रमाणमिति—इदमुच्यते—दर्शनातिशय एव प्रमाणम् । तथा ह्यस्मदादिरपेक्षितालोकोऽवलोकयति निकटस्थितमर्थबृन्दम् । उन्दुरुवैरिणस्तु सान्द्रतमतमःपङ्कपटलविलिप्तदेशपतितमपि सम्पश्यन्ति । सम्पातिनामा च गृध्रराजो योजनशतव्यवहितामपि दशरथनन्दनसुन्दरीं ददर्शेति श्रूयते रामायणे । सोऽयं दर्शनातिशयः शुक्लादिगुणातिशय इव तारतम्यसमन्वित इति गमयति परमपि निरतिशयमतिशयम् । अतश्च यत्रास्य परः प्रकर्षः, ते योगिनो गीयन्ते । दर्शनस्य च परोऽतिशयः सूक्ष्मव्यवहितविप्रकृष्टभूतभविष्यदादिविषयत्वम् ॥

स्वयमज्ञश्चेत् परोक्तमेव शरणीकर्तव्यमित्युक्तो वादी साबहेलनमधिक्षिपति—शिक्षिताः स्म इत्यादिना । अपेक्षितालोकः—आलोकरूपसहकारिविशिष्टः अस्मदादिरित्यर्थः । उन्दुरुवैरिणः—मार्जाराः । तत्सुस्वैरिण इति पाठे—राक्षसाः—इत्यर्थः । निशाचरा हि ते । परं—सर्वापेक्षया अन्तिमसीमवर्तिनम् । नन्वस्तु तथा । तथाऽपि सर्वदर्शित्वं कथं सिद्धमित्यत्राह—दर्शनस्येति । एतदुक्तं भवति । लोके कश्चिदेकं पश्यति, अन्यस्ततोऽधिकं, अपरश्च ततोऽप्यधिकमिति दर्शनं लोके तरतमभाबापन्नं दृष्टम् । तस्य च तारतम्यस्य कुत्रचिद्विश्रान्तिर्वाच्या । कतिपयदर्शित्वं तु सर्वसमानम् । अतः तादृशोऽतिशयो निरतिशयो न स्यात् । आपेक्षिककतिपयदर्शित्वप्रतिकोटि तु सर्वदर्शित्वमेव । तत्र यदि सर्वशब्दे सङ्कोचोऽङ्गीक्रियते तर्हि पुनस्सैव गतिः । अतः देशतः कालतः स्वरूपतश्च सङ्कोचरहितसर्वदर्शित्वमेव वक्तव्यमिति सिद्धं सूक्ष्मत्रिकालवर्तिसर्वदर्शित्वं केषाञ्चिदिति ॥ धर्मादयोऽपियोगिप्रत्यक्षविषयाः
ननु ! स्वविषयानतिक्रमेण भवतु तदतिशयकल्पना । धर्मस्तु चक्षुषो न विषय एव । तदुक्तम्— [श्लो। वा-१-१-२-११४] ऽ यत्राप्यतिशयो दृष्टः स स्वार्थानतिलङ्घनात् ।
दूरसूक्ष्मादिदृष्टौ स्यात् न रूपे श्रोत्रवृत्तिता ॥

“अपि च— येऽपि चातिशया दृष्टाः प्रज्ञामेधाबलैर्नृणाम् ।
स्तोकस्तोकान्तरत्वेन न त्वतीन्द्रियदर्शनात् ॥ इति ।

एतदयुक्तम्—यतः, यद्यपि नास्मदादिनयनविषयो धर्मः— तथापि योगीन्द्रियगम्यो भविष्यति । तथा हि—योजनशतव्यवहितं, अन्धकारान्तरितं वा नास्मदादिलोचनगोचरतामुपयाति, सम्पातिपृषदंशदृशोस्तु विषयो भवत्येव ॥ चक्षुषैव योगिनां धर्मग्रहणम्
नन्वेवमविषये प्रवृत्तं योगिनां चक्षुर्गन्धरसादीनपि गृह्णीयात् । यथोक्तम्— [श्लो। वा। १-१-२-११२] “ एकेन तु प्रमाणेन सर्वज्ञो येन कल्प्यते ।
नूनं स चक्षुषा सर्वान् रसादीन् प्रतिपद्यते इति ॥

” स्वं—तत्तदिन्द्रियाणि । श्रोत्रवृत्तिता—श्रोत्रस्य वृत्तिः—यस्मिन् तत् श्रोत्रवृत्ति, तस्य भावः । यद्विषयकप्रवृत्तिमत् श्रोत्रं तत्तेत्यर्थः । श्रोत्रग्राह्यतेति यावत् ॥

स्तोकस्तोकान्तरत्वेनेति । एकापेक्षयाऽन्यस्य पुरुषस्येन्द्रियाणां सन्नप्यतिशयः किञ्चित्किञ्चिदन्तरवानेव स्यात्, न तु अतीन्द्रियार्थग्रहणरूपादतिशयो महदन्तरो दृष्ट इत्यर्थः । व्यवहितं—इत्यस्य “वस्तु” इति विशेष्यम्, एवमुत्तरत्रापि ॥

प्रमाणेन—प्रमाकरणेनेन्द्रियेणेति यावत् । चक्षुषैव यदि सर्वं जानीयात् तर्हि रसादिग्राहकत्वमपि चक्षुष एव स्यादिति इन्द्रियव्यवस्थैव न स्यादिति ॥

नैतदेवम्—रसादिग्राहीण्यपि योगिनामिन्द्रियाणि चक्षुर्वदतिशयवन्त्येवेति न रसादिषु चक्षुर्व्यापारः परिकल्प्यते । धर्मेऽपि न तर्हि कल्पनीय इति चेत्—न—तस्य रसादिवत् तदविषयत्वाभावात् ॥

अपि च योगीन्द्रियाविषयत्वं धर्मस्य कथमवगतवान् भवान् ? अविषयत्वं तद्भावेऽपि तदनवगमादवगम्यते—यथा नयनसद्भावेऽपि शब्दाश्रवणात् तदविषयता शब्दस्यावसीयते—न चैवं योगिचक्षुषि सत्यपि धर्मस्याग्रहणं अवगन्तुं शक्नोति भवान्, उभयस्यापि भवतः परोक्षत्वात् इत्यविषयस्स तस्येति न ते वक्तुं युक्तमिति ॥ धर्मः योगिप्रत्यक्षविषय एव
ननु ! कर्तव्यतारूपः त्रिकालस्पर्शवर्जितः ।
चक्षुर्विषयतामेति धर्म इत्यतिसाहसम् ॥ १२७ ॥

नैतदिति । अयं भावः—चक्षुषैव रसादिग्रहणापादनं, योगिनां रसनेन्द्रियादीनामभावादुच्यते ? उत सतामपि तादृशशक्त्यभावात् । नाद्यः, इन्द्रियाणां सद्भावात् । अन्त्ये किं रसादिग्रहणशक्तिः पूर्वं विद्यमाना योगिनां नष्टा ? उतातीन्द्रियरसादिग्रहणशक्तिर्नास्तीति ? प्रथमे अस्मादृशामयोगिनामिन्द्रियस्य विद्यमानं सामर्थ्यमपि योगिनामिन्द्रियस्य नास्तीति चित्रमिदम् । द्वितीये चक्षुर्वदेव रसनादिकमपि योगप्रभावादतीन्द्रियरसादिग्रहणशक्तं वर्तत एवेति किं चक्षुष उपरि भारारोपणेनेति । तर्हीति । यथा लोके रसस्य चक्षुषा कुत्राप्यग्रहणात् योगिचक्षुषोऽपि तत्रासामर्थ्यकल्पना, तथैव धर्मस्य कुत्रापि चाक्षुषत्वादर्शनात् धर्मेऽपि असामर्थ्यकल्पनमेव न्याय्यमित्यर्थः । समाधत्ते—तस्येति । तदविषयत्वेति । चक्षुरविषयत्वस्यासिद्धेरिति भावः ॥

ननु चक्षुर्विषयत्वं वा कथं सिद्धमित्याशङ्कायां बाधकाभावादेव सिद्धमित्याह—अपि चेति । उभयस्य—योगिचक्षुषः धर्मस्य च ॥

त्रिकालेति । तथोक्तं [श्लो। वा। १-१-२-१३] “श्रेयस्साधनता ह्येषां नित्यं वेदात् प्रतीयते । ताद्रूप्येण च धर्मत्वं तस्मान्नेन्द्रियगोचरः” इति ॥

सत्यं साहसमेतत्ते मम वा चर्मचक्षुषः ।
न त्वेष दुर्गमः पन्था योगिनां सर्वदर्शिनाम् ॥ १२८ ॥

त्रिकालानवच्छिन्नोऽपि धर्मः प्रत्यक्ष एव
यच्च त्रिकालानवच्छिन्नो यजेतेत्यादिलिङादियुक्तशब्दैकशरणावगमो धर्मः कथं ततोऽन्येन प्रमाणेन परिच्छिद्यतामित्युच्यते— तदपि प्रक्रियामात्रम् । किमिव हि त्रिकालस्पर्शास्पर्शाभ्यां कृत्यम् ? यथा वयं गमनादिक्रियाणां देशान्तरप्राप्त्यादिप्रयोजनतां जानीमः—तथा अग्निहोत्रादिक्रियाणां स्वर्गादिफलतां ज्ञास्यन्ति योगिन इति किमत्र साहसम् ? अन्ततः धर्मादयो मनसा वा गृह्यन्त एव भावनाबलजप्रत्यक्षवत्
यदि हि बाह्येन्द्रियेष्वमर्षः, न तेष्वतिशयो विषह्यते, तदलमनुबन्धेन ॥

मनःकरणकं ज्ञानं भावनाभ्याससम्भवम् ।
भवति ध्यायतां धर्मे कान्तादाविव कामिनाम् ॥ १२९ ॥

मनो हि सर्वविषयं, न तस्याविषयः कश्चिदस्ति । अभ्यासवशाच्चातीन्द्रियेष्वप्यर्थेषु परिस्फुटाः प्रतिभासाः प्रादुर्भवन्तो दृश्यन्ते । यथाऽऽहुः [प्र। वा। ३-२८२] । “ कामशोकामयोन्मादचोरस्वप्राद्युपद्रुताः ।
अभूतानपि पश्यन्ति पुरतोऽवस्थितानिव ॥

” शरणं—उपायः । ततः—शब्दात् । यद्यपि अत्र त्रिकालानवच्छिन्नत्वमात्रं न धर्मस्य शब्दैकगम्यत्वे हेतुः, अनुमानस्यापि कालत्रयविषयत्वात्; किन्तु प्रत्यक्षागम्यत्व एव । अथापि सर्वथाऽप्रत्यक्षे नानुमानमपि प्रवर्तेतेत्याशयः । प्रक्रिया—उपपादनप्रकारः ॥

अनुबन्धः—दोषोत्पादनम् । “दोषोत्पादेऽनुबन्धः स्यात्” इति कोशः ॥ भावनाबलजप्रत्यक्ष धर्मप्रत्यक्षे दृष्टान्तो भवत्येव
ननु ! एतेषां मिथ्याज्ञानत्वात् न योगिविज्ञाने दृष्टान्तत्वं युक्तम्—न—स्फुटाबभासमात्रतया दृष्टान्तत्वोपपत्तेः । न हि शब्दघटयोरपि सर्वात्मनाऽतुल्यत्वम् । तत्र कामशोकादिभावनाभ्यासभुवां प्रतिभासानां बाधकवैधुर्यादप्रामाण्यं भविष्यति, नेतरेषाम्, तदभावात् । स्फुटाभासत्वं तूभयत्रापि तुल्यम् ॥ पत्यक्षस्यातिशः अतीन्द्रियार्थविषयत्वरूपो युक्त एव
ननु ! अभ्यासोऽपि क्रियमाणो नात्यन्तमपूर्वमतिशयमावहति, लङ्घनाभ्यासवत् । योऽपि हि प्रतिदिनमनन्यकर्मा लङ्घनमभ्यस्यति सोऽपि कतिपयपदपरिमितमवनितलमभिलङ्घयति; न तु पर्वतमम्बुधिं वेति—उच्यते—

लङ्घनं देहधर्मत्वात् कफजाड्यादिसम्भवात् ।
मा गात् प्रकर्षं, ज्ञाने तु तस्य कः प्रतिबन्धकः ॥ १३१ ॥

लङ्घनादौ तु पूर्वेद्युः प्रयत्नसमुपार्जितः ।
न देहेऽतिशयः कश्चिदन्येद्युरवतिष्ठते ॥ १३२ ॥

तत्र केवलमभ्यासात् प्रक्षये कफमेदसोः ।
शरीरलाघवं लब्ध्वा लङ्घयन्ति यथोचितम् ॥ १३३ ॥

एतेषां—कामशोकादिपीडितपुरुषदर्शनानाम् । ननु परस्परमत्यन्तविलक्षणयोर्यत्किञ्चित्माम्यमात्रेण यदि दृष्टान्तत्वं, तर्हि शब्दघटयोरपि यत्किञ्चिदंशे दृष्टान्तत्वप्रसङ्ग इति शङ्कामिष्टापत्त्या परिहरति—न हीति । यथा घटः अनित्यः तथा शब्दोऽप्यनित्य इति प्रतीतिस्सम्भवत्येवेत्यर्थः । बाधकवैधुर्यात्—बाधकप्रत्ययापहृतविषयत्वात् ॥

तस्य—प्रकर्षस्य । ज्ञानस्य महिमा तु निरवधिरित्यर्थः ॥

लङ्घनाभ्यासस्य दृष्टान्तत्वमेव न सम्भवतीत्याह—लङ्घनादाविति । अयं भावः । लङ्घनाभ्यासेन खलु शरीरे नातिरिक्तः अतिशय उत्पाद्यते । किन्तु
इह विज्ञानजन्यस्तु संस्कारो व्यवतिष्ठते ।
क्रमोपचीयमानोऽसौ परातिशयकारणम् ॥ १३४ ॥

यथाऽनुवाकग्रहणे संस्थाऽभ्यसनकल्पितः ।
स्थिरः करोति संस्कारः पाठस्मृत्यादिपाटवम् ॥ १३५ ॥

यथा वा पुटपाकेन शोध्यमानं शनैश्शनैः ।
हेम निष्प्रतिकाशं तद्याति कल्याणतां पराम् ॥ १३६ ॥

तथैव भावनाभ्यासात् योगिनामपि मानसम् ।
ज्ञानं सकलविज्ञेयसाक्षात्कारक्षमं भवेत् ॥ १३७ ॥

अस्मदादेश्च रागादिमलावरणधूसरम् ।
मनो न लभते ज्ञानप्रकर्षपदवीं पराम् ॥ १३८ ॥

प्रत्यहं भावनाभ्यासक्षपिताशेषकल्मषम् ।
योगिनां तु मनः शुद्धं कमिवार्थं न पश्यति ॥ १३९ ॥

यथा च तेषां रागादिप्रहाणमवकल्पते ।
तथाऽपवर्गचिन्तायां विस्तरेणाभिधास्यते ॥ १४० ॥

तदेवं क्षीणदोषाणां ध्यानावहितचेतसाम् ।
निर्मलं सर्वविषयं ज्ञानं भवति योगिनाम् ॥ १४१ ॥

शरीरलाघवप्रतिबन्धककफादिपरिहारमात्रं तेन क्रियते । प्रकृते तु निदिध्यासनवशादपूर्व एव संस्कारातिशय आत्मन्युत्पद्यते । यथा वेदमधीयानो वटुः पुनःपुनरावृत्त्या स्थिरतरं संस्कारं सम्पादयति तथेति । विज्ञानेति । विशिष्टं ज्ञानं विज्ञानम् । यथेति । संस्था—धारणा । अनुवाकग्रहणे सति धारणाभ्यासेन स्थिरीकृत संस्कारः पाठस्मृत्यादिषु पाटवं यथा करोतीत्यर्थः । निष्प्रतिकाशं—निस्समम् । निष्प्रतीकाशमिति वक्तव्ये “अपि माषं मषं कुर्यात् छन्दोभङ्गं न कारयेत्” इति न्यायात्तथोक्तम् ॥ अस्त्येवास्मदादीनामपि भविष्यद्विषयं प्रातिभं ज्ञानम्
अपि चानागतज्ञानमस्मदादेरपि क्वचित् ।
प्रमाणं प्रातिभं, श्वो मे भ्राताऽऽगन्तेति दृश्यते ॥ १४२ ॥

नानर्थजं, न सन्दिग्धं, न बाधविधुरीकृतम् ।
न दुष्टकारणं चेति प्रमाणमिदमिष्यताम् ॥ १४३ ॥

क्वचिद्वाधकयोगश्चेत् अस्तु तस्याप्रमाणता ।
यत्रापरेद्युरभ्येति भ्राता तत्र किमुच्यताम् ॥ १४४ ॥

काकतालीयमिति चेत्, न प्रमाणप्रदर्शितम् ।
वस्तु तत्काकतालीयमिति शङ्कितुमर्हति ॥ १४५ ॥

प्रातिभं ज्ञानं प्रमाणमेव
ननु ! अनर्थजमिदं ज्ञानं, भ्रातुस्तज्जनकस्य तदानीमसत्त्वात् । स्यादेतदेवं—यदि तदाऽस्तित्वेन भ्रातरं गृह्णीयात् । किन्तु भाविनमेनं गृह्णाति । भावित्वं च तदाऽस्यास्त्येवेति कथमनर्थजं तज्ज्ञानम् ॥

प्रशस्तपादभाष्यादिषूक्तं कालत्रयविषयकं प्रातिभं ज्ञानं प्रमाणभूतमिति, तदेतदाह—अपि चेति । “तत्तु प्रस्तारेण देवर्षीणां, कदाचिदेव लौकिकानां” इति भाष्यात् क्वचिदित्युक्तिः । अनर्थजं—अर्थाजन्यम् । बाधेत्यादि । बाधज्ञानापहृतविषयकमिति यावत् । एवमपि यस्मिन् शुक्तिरजतज्ञाने कारणान्तरवशात् बाध एव नोत्पन्नः तत्तौल्यं कुतो न स्यादित्यतः—न दुष्टेत्यादि । प्रातिभानुविधायिभ्रात्रागमनादिरूपं वस्तु प्रमाणप्रदर्शितमपि काकतालीयमिति शङ्कितुमपि नार्हतीत्यन्वयः । एवं सति सर्वेषामपि प्रमाणानां एवं शङ्कितुमर्हत्वात् शून्यवाद एव परिशिष्येतेत्यर्थः ॥

तज्जनकस्य—प्रातिभज्ञानजनकस्य । तथा च भ्रान्तिरूपमेवेदं प्रातिभं ज्ञानमिति भावः । यदीत्यादि । अन्यथा भूतवस्तुविषयकानुमानमपि तदानीमनर्थजन्यमेव स्यात्, एवं शब्दोऽपीति । अतश्च प्रातिभमर्थजन्यमेवेति न दोषः ॥

ननु ! भावितया ग्रहणमघटमानम् । भावित्वं हि नाम सावधिः प्रागभावः । अभावस्य च भावेन भ्रात्रा सह कः सम्बन्धः ? वस्त्ववस्तुनोर्विरोधात्—तदेतदसम्यक्—तद्देशसम्बन्धस्य तत्र प्रागभावः, न तु धर्मिणः । स हि विद्यत एव प्रागवगतः । स च कुतश्चित् भोजनोत्कण्ठादेः कारणात् स्मरणपदवीमुपारूढः श्वस्तनागमनविशिष्टत्वेन प्रतिभातीति प्रातिभस्य स एव जनक इति । तस्मादनर्थजत्वाभावात् प्रमाणं प्रातिभम् । प्रमाणं च सत् प्रत्यक्षमेव, न प्रमाणान्तरम्; शब्दलिङ्गसारूप्यनिमित्तानपेक्षत्वात् ॥ प्रातिभं प्रत्यक्षमेव
ननु ! प्रत्यक्षमपि मा भूत्, इन्द्रियानपेक्षत्वात्—मैवम्—मनस एव तत्रेन्द्रियत्वात् । पूर्वोत्पन्नचाक्षुषविज्ञानविशेषणस्य बाह्यस्य

अघटमानं भवतीति शेषः । अयं भावः—प्रागभावः खलु भविष्यतीति प्रतीतिगम्यः । एवं च भ्रातुर्भविष्यत्त्वेन ग्रहणे भ्रातृप्रागभाव एव सिध्यति । तथा च भ्राता तदानीं नास्तीत्यनर्थजत्वं सिद्धं प्रातिभस्येति । सावधिः— ज्ञातोत्तरावधिरिति यावत् । कस्सम्बन्ध इति । प्रतियोगित्वं तु नात्र वक्तुं शक्यम्, अभावग्रहणकाले प्रतियोगिनस्सत्त्वाऽसम्भवेन विवक्षितार्थासिद्धेः । प्रतियोगितयाऽन्वये हि प्रत्यक्षा प्रागभावप्रतीतिः, न तु प्रातिभं तत् । विशेषणविशेष्यभावेन खल्वत्रोपस्थितिरावश्यकी । तदा चोभयोरपि सत्त्वमावश्यकम् । तच्च न घटत एव प्रतियोगितयाऽन्वये । प्राक्—पूर्वकाले । अयमर्थः—न ह्यत्र भ्राता भविष्यति इति प्रतीतिः, किन्तु आगमिष्यति इति—भ्रातुरागमनं भविष्यतीत्यर्थः । एवञ्च नायं भ्रातृप्रागभावः, किन्तु भ्रात्रागमनप्रागभावः । तथा च एतद्देशसम्बन्धप्रागभावविशिष्टस्य भ्रातुरेव ग्रहणात्, विशेषणविशेष्ययोश्च तदानीं सत्वान्नानर्थजं प्रातिभमिति ॥

इन्द्रियेति । बाह्येन्द्रियेत्यर्थः । विशेषणविशेष्ययोस्सत्वेऽपि न हि चक्षुस्सन्निकर्षो वर्तत इत्यर्थः । ननु मनः बाह्यविषये न स्वतन्त्रम् । अन्यथा अन्धोऽपि, रूपं गृह्णीयादित्यत्राह पूर्वेति । न हि मनः अपूर्वं बाह्यं गृह्णाति,
वस्तुनो मनो ग्राहकमिति नान्धाद्यभाव इत्युक्तम् । शब्दाद्युपायान्तरविरतौ च जायमानमनवद्यं ज्ञानं मानसं प्रत्यक्षं भवति । सुरभि केतककुसुमम्, मधुरा शर्करेति ज्ञानवदित्यप्युक्तम् । अत एव नानियतनिमित्तकं ज्ञानं प्रतिभेति वक्तव्यम्; प्रत्यक्षनिमित्तत्वात् ॥ आर्षज्ञानमन्यत्, अन्या च प्रतिभा न चार्षं नाम ज्ञानं प्रतिभा; प्रत्यक्षातिरिक्तस्यार्षनाम्नः प्रत्ययस्याभावात् । “ऋषीणामपि यज्ज्ञानं तदप्यागमपूर्वकम्” इति किन्तु पूर्वावगतिजसंस्कारसचिवं सत् वस्तूपस्थापयतीति नोक्तदोष इत्यर्थः । प्रातिभस्य प्रामाण्ये सिद्धे, इतरानन्तर्भावाच्च तस्य प्रत्यक्षत्वं स्वतस्सिद्धमेवेति । प्रत्यक्षनिमित्तत्वादिति बहुब्रीहिः ॥

“आर्षं सिद्धदर्शनं च धर्मेभ्यः” [क। सू। ९-२] इति भाहर्षसूत्रम् । अत्र प्रशस्तपादाचार्याः ऽआन्नायविधा तॄणामृषीणां अतीतानागतवर्तमानेष्वतीन्द्रियेष्वर्थेषु धर्मादिषु ग्रन्थोपनिबद्धेष्वनुपनिबद्धेषु चात्ममनसोस्संयोगात् धर्मविशेषाच्च यत् प्रातिभं यथार्थनिवेदनं ज्ञानमुत्पद्यते तदार्षमित्याचक्षते । तत्तु प्रस्तारेण देवर्षीणां, कदाचिदेव लौकिकानां—यथा कन्यका ब्रवीति— “श्वो मे भ्राताऽगन्तेति हृदयं मे कथयति” इति, इति । अत्र “सिद्धदर्शनं न ज्ञानान्तरं” इत्यादिना सिद्धदर्शनं प्रत्यक्षानुमानान्यतरान्तर्भूतमेवेति वदतां प्रशस्तपादानां आर्षं अतिरिक्तं प्रमाणमिति सम्मतमिव भाति । न्यायकन्दल्यां श्रीधराचार्याश्च अत्र “तत् प्रत्यक्षार्षयोरन्यतरस्मिन्नन्तर्भूतं” इति वदन्त इममर्थं द्रढयन्ति । तदेतन्निराकरोति—न चेत्यादि । अयं भावः “आर्षं सिद्धदर्शनं च धर्मेभ्यः” इत्यत्रार्षं ज्ञानं प्रातिभमिति यदुक्तं तदिष्टमेव । परन्तु न तदतिरिक्तं प्रमाणम् । एकसूत्रनिर्दिष्टयोः चकारेण समुच्चितयोरुभयोर्मध्य एकस्यातिरिक्तत्वेऽन्यस्यानतिरिक्तत्वे च न सौत्रं विनिगमकं पश्यामः । अतस्सर्वोऽप्ययं प्रत्यक्षविशेष एवेति । ऋषीणामपीति । तथा च आर्षज्ञानस्य शब्दाद्यधीनत्वेऽपि शाब्दत्वं तु न सम्भवत्यवेति अन्ततः तत् मानसप्रत्यक्षरूपमेव वक्तव्यम् । अतश्च आर्षं प्रातिभं च प्रत्यक्षप्रभेद इत्यर्थः ॥

हि वदन्ति । आगमग्रहणं च निदर्शनार्थम् । अनुपायस्य ज्ञानस्य तेषामसत्त्वात् ॥ सिद्धदर्शनमपि न प्रतिभा
न च सिद्धदर्शनं प्रतिभा; अस्मदादेरपि भावात् । तस्मान्न प्रमाणान्तरं प्रातिभम्, अपि तु प्रत्यक्षमेव ॥ प्रत्यक्षमपि कालत्रयविषयकमस्त्येव
ननु ! प्रत्यक्षमपि नेदं भवति; तद्धि वर्तमानैकविषयम् । यथोक्तम्— [श्लो। वा। १-१-४-८४]

“सम्बद्धं वर्तमानं च गृह्यते चक्षुरादिना” इति ।

तथा—“एष प्रत्यक्षधर्मश्च वर्तमानार्थतैव यत्” इति च । मैवम्— अनागतग्राहिणः प्रत्यक्षस्य प्रदेशान्तरे स्वयमेवोक्तत्वात् ॥

“रजतं गृह्यमाणं हि चिरस्थायीति गृह्यते”इति च भवानेवावोचत् । तस्मात् प्रत्यक्षमनागतग्राहि “श्वो मे भ्राताऽऽगन्ता” इति सिद्धम् ॥

एवञ्चास्मदादीनामिवानागते भ्रातरि, योगिनां भविष्यति धर्मे प्रत्यक्षं प्रवर्त्स्यतीति । तस्मात् यत् सर्वज्ञनिषधाय कथ्यते—

“ यज्जातीयैः प्रमाणैस्तु यज्जातीयार्थदर्शनम् ।
भवेदिदानीं लोकस्य तथा कालान्तरेऽप्यभूत् ॥

” [श्लो। वा १-१-२-११३] इति—तदपास्तं भवति ॥ योगिनां सर्वज्ञत्वसम्भवाक्षेपपरिहारौ
तत्रैतत्स्यात्—सर्वज्ञता योगिनां किमेकेन ज्ञानेन ? बहुभिर्वा ?

कथ्यत इति । रूपग्राहकजातीयैः चक्षुरादिभिः यज्जातीयस्य वस्तुन इदानीं ग्रहणं कालान्तरेऽपि तत्तथैव स्यात् । प्रमाणस्वभावः सर्वदैकरूप एव इति वार्तिकार्थः । अतश्चातीन्द्रियार्थदर्शनं योगिनामपि न स्यादिति भावः ॥

तत्र—सर्वज्ञसिद्धौ । एतत्—आक्षेपजालम् । यद्यपीति शेषः ।
न तावदेकेन न ह्येकस्मिन् ज्ञाने परस्परविरोधिनोऽर्थाः शीतोष्णवदवभासन्ते ॥

नापि बहुभि—तानि हि क्रमेण वा भवेयुः ? युगपद्वा ? न युगपज्ज्ञानानि सम्भवन्ति; सूक्ष्मान्तःकरणसापेक्षत्वात् । क्रमभाविभिस्तु ज्ञानैरशेषत्रिभुवनकुहरनिहितनिखिलपदार्थसार्थसाक्षात्करणमेषां मन्वन्तरकोटिभिरपि दुर्घटमिति कथं सर्वज्ञा योगिनः ?

उच्यते—युगपदेकयैव बुद्ध्या सर्वत्र सर्वानर्थान् द्रक्ष्यन्ति योगिनः । यत्तु विरुद्धत्वादिति, तदप्रयोजकम्—विरुद्धानामपि नीलपीतादीनामेकत्र चित्रप्रत्ययेऽवभासनात् । एकत्र च मेचकप्रत्यये सन्निहितपदार्थव्यतिरिक्तसकलवस्त्वभावग्रहणस्य पूर्वं [पु। १४३] दर्शितत्वात् । शीतोष्णयोरपि क्वचिदवसरे भवति युगपदुपलम्भः—तद्यथा— प्रतपति हुतवहविस्फुलिङ्गनिकरानुकारिकिरणे तरुणोष्मणि ग्रीष्मे हिमशकलशिशिरपयसि सरसि निमग्नभिदघ्नदेहस्य पुंसः युगपदेव सरस्सलिलसूर्यातपवर्तिनौ शीतोष्णस्पर्शावनुभवपथमवतरतः ॥ न हीति । न हि नीलो घटः, पीतः पट इतिवत् नीलपीतो घट इति प्रतीतिः सम्भवतीत्यर्थः ॥

सूक्ष्मेति । “युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्” इति हि वक्ष्यत इत्यर्थः । क्रमेत्यादि । इदमुपलक्षणम्—अभ्युपगमे वा एतादृशं सर्वज्ञत्वं सर्वेषामपि सम्भवेदेव ॥

विरुद्धानामिति । वस्तुनोर्हि नीलपीतयोर्विरोधः, न तु ज्ञानेन साकं तयोः । समूहालम्बने अत्यन्तविरुद्धानामपि भानात् । अन्यथा “नीलपीत” इति वक्तुमप्यसम्भवात् । अतः ज्ञाने न कस्यापि विषयस्य विरोध इत्यप्यूह्यम् । युगपदिति । यद्यपि युगपत् ज्ञानद्वयं नाङ्गीक्रियत एव, अथापि अत्यन्तविरुद्धत्वेन ज्ञायमानयोः शीतोष्णयोरुभयोरपि एकज्ञानविषयत्वं न केवलं शाब्दादिधीमादायैबोपपादनीयं, ऐन्द्रियिकानुभवमादायापीति प्रतिपादनार्थमिदम् । शीतोष्णयोरुभयोरपि त्वगिन्द्रियग्राह्यत्वात् युगपदुभयविषयानुभवः सम्भवत्येव ॥ योगिनां सर्वज्ञत्वेऽपीश्वराद्विशेषः
ननु ! एकेन ज्ञानेन सर्वानर्थान् भूतभाविनः परोक्षानपि पश्यन्तो योगिनः कथमखिलत्रैलोक्यवृत्तान्तदर्शिनः सकलजगद्गुरोरीश्वराद्विशिष्येरन् । अस्ति विशेषः—ईश्वरस्य तथाविधं नित्यमेव ज्ञानं, योगिनां तु योगभावनाभ्यासप्रभवमिति ॥ अपूर्वमपि वस्तु भावनावशात् योगिप्रत्यक्षविषयः
ननु ! नादृष्टपूर्वेऽर्थे क्वचिद्भवति भावना ।
आगमात्तु परिच्छिन्ने धर्मे भावनयाऽपि किम् ? ॥ १४६ ॥

चोदनैव धर्मे प्रमाणमिति सावधारणप्रतिज्ञार्थः, प्रथममागमादवगतधर्मस्वरूपेषु सत्स्वपि योगिषु न विप्लवत एवेति—उच्यते— योगिष्वस्त्येवायं प्रकारः । पश्चादपि प्रवर्तमाने धर्मग्राहिणि प्रत्यक्षे चोदनैवेत्यवधारणं शिथिलीभवत्येव । अपि चेश्वरज्ञानं सांसिद्धिकमेव

विशिष्येरन्—मिद्येरन्, विलक्षणा भवेयुः । अस्तीति । एवञ्च ईश्वरज्ञानं नित्यं, स्वाभाविकं च; योगिज्ञानं तु अनित्यं, नैमित्तिकं चेति विशेष इति भावः ॥

नन्वित्यादि । भावना नाम अनुभवजन्या स्मृतिहेतुश्च । एवञ्चातीन्द्रियवस्तुविषयकानुभवस्य पूर्वमसम्भवेन कथं तद्भावना ? कथं वा ततो योगिनामपूर्ववस्तुप्रत्यक्षम् ? यदि च वेदादतीन्द्रियार्थज्ञानाधीना भावनेत्युच्यते, तर्हि धर्मादिः वेदादेव निर्णीतस्वरूप इति ततो भावनया किं प्रयोजनम् ? इत्यर्थः । न विप्लवत एवेति । एतादृशयोगिष्वङ्गीकृतेष्वपि चोदनैव धर्मे प्रमाणमिति प्रतिज्ञाया नोपरोधः । योगिमिर्हि प्रथमावगतये वेद एव शरणीकरणीयः सम्पन्न इत्यर्थः । शिथिलीभवत्येवेति । गृहीतग्राहित्वं न प्रामाण्यं व्याहन्तीत्युक्तं पूर्वमेव । एवञ्च वेदाधीनत्वेऽपि योगिप्रत्यक्षस्य धर्मे प्रामाण्यं वर्तत एवेति चोदनैव प्रमाणमिति भवदवधारणं व्याहतमेवेति । ननु प्रामाण्यमत्र स्वातन्त्र्येण विवक्षितम् । योगिनां धर्मप्रत्यक्षप्रामाण्यं तु वेदाधीनमेवेति न दोष इति शङ्कायामाह—अपि चेति । सांसिद्धिकमिति । तस्य नित्यसर्वज्ञत्वमन्यथा
धर्मविषयं वेदस्य कारणभूतं वक्ष्यामः । तस्मिन्नपि सति न चोदनैवेत्यवधारणार्थसिद्धिः ॥ जैमिनिसूत्रनिराकरणोपसंहारः तस्मात् “न धर्मग्राहकं योगिप्रत्यक्षं विद्यमानोपलम्भनत्वात्, सत्सम्प्रयोगजत्वात्” इत्यादिसाधनमप्रयोजकम् ॥

प्रमाणान्तरविज्ञातप्रमेयप्रतिपादकः ।
धर्मोपदेशकः शब्दः शब्दत्वात् घटशब्दवत् ॥ १४७ ॥

प्रत्यक्षः कस्यचिद्धर्मः प्रमेयत्वात् घटादिवत् ।
इत्यादयश्च सुलभाः सन्त्येव प्रतिहेतवः ॥ १४८ ॥

तेन निष्प्रतिघयुक्तिसाधितां योगबुद्धिमखिलार्थदर्शिनीम् ।
किं विडम्बयितुमुच्यते मुधा दुष्टहेतुनिकुरुम्बशम्बरम् ॥

तदित्थमपि जैमिनीयं सूत्रमसङ्गतार्थम् । लक्षणपरत्वं त्वस्य निरस्तमेव ॥ वैशेषिकसम्मतप्रत्यक्षलक्षणनिरासः यदपि कैश्चित् प्रत्यक्षलक्षणमुक्तं—“आत्मेन्द्रियमनोऽर्थसन्निकर्षाद्यदुत्पद्यते ज्ञानं तदन्यदनुमानादिभ्यः प्रत्यक्षम्” इति—तदपि त्रयद्वयसन्निकर्षजन्मनां सुखात्मादिज्ञानानां अव्यापकं, अतिव्यापकं च व्यभिचार्यादिबोधानामित्युपेक्षणीयम् ॥ न स्यादित्यर्थः । ननु ईश्वरो नास्माभिरङ्गीक्रियत इति अनभ्युपगतदूषणमित्यत्राह—वक्ष्याम इति ॥

प्रमाणान्तरेत्यादि । “अर्थं बुद्ध्वा शब्दरचना” इति खलु न्याय इति भावः । ननु तर्हि यदि शब्दः प्रमाणान्तरावगतमेवार्थं बोधयेत् तर्हि तस्य स्मृतितौल्यमेवेति कथं तस्यातिरिक्तप्रमाणत्वमिति चेत्—तदेतत् शब्दपरीक्षायां व्यक्तीभविष्यति ॥

सूत्रमपि इत्यन्वयः । नास्य लक्षणपरत्वासम्भवमात्रं, असङ्गतार्थकत्वमपीत्यर्थः ॥

आत्मेत्यादि । आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन, ततः प्रत्यक्षम्—इति क्रमादित्याशयः । त्रयद्वयेति । अर्थसन्निकर्षं वर्जयित्वा त्रयं सुखप्रत्यक्षे, अर्थेन्द्रियद्वयं वर्जयित्वा द्वयं आत्मप्रत्यक्षे कारणम् । व्य भिचार्यादीत्यादिना संशयपरिग्रहः । तेषामपीन्द्रियजन्यत्वमुक्तमेव ॥ साङ्ख्याभिमतप्रत्यक्षलक्षणदूषणम्
ईश्वरकृष्णस्तु “प्रतिविषयाध्यवसायो दृष्टम्” इति प्रत्यक्षलक्षणमवोचत् । तदपि न मनोज्ञम्—अनुमानादिज्ञानानामपि विषयाध्यवसायस्वभावत्वेनातिव्याप्तेः ॥ युक्तिदीपिकाकारप्रदर्शितव्याख्यानासामञ्जस्यम्
यत्तु राजा व्याख्यातवान्—“प्रतिराभिमुख्ये वर्तते, तेनाभिमुख्येन विषयाध्यवसायः प्रत्यक्षम्” इति—तदप्यनुमानादावस्त्येव । घटोऽयमितिवत् अग्निमान् पर्वत इत्याभिमुख्येनैव प्रतीतेः । स्पष्टता तु सर्वसंविदां स्वविषये विद्यत एवं ॥ इन्द्रियसन्निकर्षजन्यत्वमन्तरा नान्यत् प्रत्यक्षलक्षणम्
अथ मन्यसे ! सामान्यविहितस्य विशेषेण बाधात् अनुमानादिव्यावृत्तिः सेत्स्यति । सामान्येनाध्यवसाय उत्सृष्टः, स लिङ्गशब्दाभ्यां विशेषितः इति तदितरोऽध्यवसायः प्रत्यक्षमिति स्थास्यति । यद्येवं प्रत्यक्षलक्षणमिदानीमव्याकरणीयमेव । शब्दलिङ्गग्रहणे वर्णिते सति तद्वैलक्षण्यादेव प्रत्यक्षं ज्ञास्यत इति । तस्मादिन्द्रियार्थसन्निकर्षपदोपादानमन्तरेण नानुमानादिव्यवच्छेद उपपद्यत इति इदमपि न प्रत्यक्षलक्षणमनवद्यम् ॥

विषयेति । अध्यवसायो हि निर्णयः । तद्रूपत्वं चानुमानादेरप्यस्तीत्यर्थः ॥

प्रतिरिति । न ह्यनुमानादिकं विषयमभिमुखीकृत्य प्रवर्तते, किन्तु परोक्षं विषयमधिकृत्येति भावः । आभिमुख्येनैवेति । ज्ञानस्याभिमुख्यं नाम— विषयीकरणमेव । तच्च सर्वत्र वर्तत एवेति भावः ॥

उत्सृष्टः—उत्सर्गप्राप्तः । तथा च—प्रत्यक्षलक्षणे “दृष्टं” इति, अनुमानलक्षणे “लिङ्गं” इति, शब्दलक्षणं “शब्दः” इति च विशेष्यवाचकं पदम् । लिङ्गशब्दाभ्यां अनुमानशब्दयोः निर्देशात् दृष्टस्य प्रत्यक्षस्य वैलक्षण्यं सिद्धमेवेत्यर्थः । यदीत्यादि । दृष्टादिपदैरेव तद्व्यावृत्तिवर्णने तावदेव लक्षणमलं, प्रतिविषयेत्यादिविवरणमनपेक्षितमेव । यदि तेषां पदानां लक्ष्यमात्रपरत्वात्
अलमतिविस्तरेण परदर्शनगीतमतः
विगतकलङ्कमस्ति न हि लक्षणमक्षधियः ।
तदलमक्षपादमुनिनैव निबद्धमिदं
हरति मनांसि लक्षणमुदारधियाम् ॥ १५० ॥

इति प्रत्यक्षम् अथानुमानम् तत्पूर्वकं च त्रिविधमनुमानं पूर्ववच्छेषवत्सामान्यतो दृष्टं च ॥ ५ ॥

एवं प्रमाणज्येष्ठेऽस्मिन् प्रत्यक्षे लक्षिते सति ।
कथ्यतेऽवसरप्राप्तमनुमानस्य लक्षणम् ॥ १५१ ॥

तत्रानुमानस्वरूपं ब्रूमहे । ततस्तत्र सूत्रं योजयिष्यामः ॥

पञ्चलक्षणकाल्लिङ्गात् गृहीतान्नियमस्मृतेः ।
परोक्षे लिङ्गिनि ज्ञानं अनुमानं प्रचक्षते ॥ १५२ ॥

अत्रापि लिङ्गविषयं ज्ञानं, ज्ञानविषयीकृतं वा लिङ्गं प्रतिबन्धस्मरणसहितं प्रमाणम्; लिङ्गिज्ञानं फलम्, लिङ्गिज्ञानस्य वा प्रमाणतायां पूर्ववदुपादानादिज्ञानं फलमुपवर्णनीयम्; करणस्य हि प्रमाणत्वमिति स्थितमेवैतत् ॥ इतरत् लक्षणप्रतिपादकं आवश्यकमेवेत्युच्यते, तर्हि लक्षणमतिव्याप्तमेव । अतः इन्द्रियजन्यत्वादिकं निवेशनीयमेव ॥

विषयशुद्धिमन्तरा पठ्यमानं वाक्यं विपरीतमप्यर्थं बोधयेदिति मत्वाऽऽह— तत्रेति । पञ्चेति । पक्षसत्त्वादीनि पञ्चलिङ्गान्यनुपदमेव वक्ष्यन्ते । गृहीतादिति लिङ्गविशेषणम् । लिङ्गात्—लिङ्गज्ञाप्यायाः नियमस्मृतेरित्यर्थः । नियमस्मृतिसहकृतात् लिङ्गादिति वा । लिङ्गी—अविनाभाव [व्याप्त्याख्य] सम्बन्धेन लिङ्गविशिष्टः—साध्य इत्यर्थः ॥

अत्रापीति । प्रत्यक्षलक्षणे यथा, तथाऽत्रापि प्रमाणफले ज्ञेये ॥ लिङ्गशब्दनिर्वचनं, तस्य पञ्चलक्षणत्वं च
तत्र परोक्षोऽर्थो लिङ्ग्यते—गम्यतेऽनेनेति लिङ्गम् । तच्च पञ्चलक्षणम् । कानि पुनः पञ्चलक्षणानि ? पक्षधर्मत्वम्, सपक्षधर्मत्वम्, विपक्षाद्व्यावृत्तिः, अवाधितविषयत्वम्, असत्प्रतिपक्षत्वं चेति ॥

सिषाधयिषितधर्मविशिष्टो धर्मी पक्षः, तद्धर्मत्वं—तदाश्रितत्वमित्यर्थः ॥

साध्यधर्मयोगेन निर्ज्ञातं धर्म्यन्तरं सपक्षः, तत्रास्तित्वम् ॥

साध्यसंस्पर्शशून्यो धर्मी विपक्षः, ततो व्यावृत्तिः ॥

अनुमेयस्यार्थस्य प्रत्यक्षेणाऽऽगमेन वाऽनपहरणं अवाधितविषयत्वम् ॥

संशयबीजभूतेनार्थेन प्रत्यनुमानतया प्रयुज्यमानेनानुपहतत्वमसत्प्रतिपक्षत्वम् ॥

एतैः पञ्चभिर्लक्षणैरुपपन्नं लिङ्गं अनुमापकं भवति ॥ हेतुदोषाः
एतेषामेव लक्षणानां एकैकापायात् पञ्च हेत्वाभासा वक्ष्यन्ते ॥

पूर्ववदिति—“प्रमाणतायां सामग्र्याः” इत्यादिना पूर्वं [पु। १७४] उपपादितदिशेत्यर्थः ॥

लिगि-गताविति धातुः । गत्यर्थाश्च ज्ञानार्थकाः ॥

सिषाधयिषितो यो धर्मः—वह्न्यादिः, तद्विशिष्ट इत्यर्थः ॥

साध्यरूपधर्मवत्त्वेन निर्णीतमित्यर्थः ॥

अनपहरणमिति । विषयापहारो हि बाधः ॥

प्रत्यनुमानतया प्रयुज्यमानेन संशयबीजभूतेनार्थेन— [साध्यतदभावसाधारणत्वात्] अनुपहतत्वमित्यर्थः । तुल्यबलप्रत्यनुमानाभावः । अत्र “संशय”पदप्रयोगेन अबाधितत्ववैलक्षण्यम् ॥

यस्य पक्षधर्मता नास्ति—असावसिद्धो हेत्वाभासः । यथा— नित्यः शब्दः, चाक्षुषत्वात् ॥

साध्यविपर्ययव्याप्तस्तु विरुद्धः । स यथा—नित्यः शब्दः, कृतकत्वात्, आकाशवत् ॥

विपक्षेऽसत्त्वं यस्य नास्ति सोऽनैकान्तिकः । यथा—नित्यः शब्दः, प्रमेयत्वादिति ॥

यस्याबाधितविषयत्वं नास्ति स कालात्ययापदिष्टः । यथा— अनुष्णः, तेजोऽवयवी, कृतकत्वात्, घटवदिति ॥

यस्य निष्प्रतिपक्षता नास्ति स प्रकरणसमः । यथा— अनित्यः, शब्दः, नित्यधर्मानुपलब्धेः, घटवत्; नित्यः, शब्दः, अनित्यधर्मानुपलब्धेः, आकाशवदिति । सोऽयं एतेषु पञ्चसु लक्षणेष्वविनाभावो लिङ्गस्य परिसमाप्यते ॥ अबाधितत्वस्य पृथक् हेतुलक्षणताऽऽक्षेपः
ननु ! त्रिलक्षणके हेतावविनाभावः परिसमाप्यते । न च तथाविधे बाधा सम्भवति; बाधाविनाभावयोर्विरोधात् ॥

साध्यविपर्यय इति । सपक्षः साध्यवान्—तत्र सत्त्वस्य विरुद्धं— साध्याभाववत्येव सत्त्वमित्यर्थः । नैयत्यविवक्षणादनैकान्तव्यावृत्तिः । अनेन हेतोः नियमेन साध्याभावव्याप्तेरेव सत्त्वेन सपक्षसत्त्वं नास्तीत्युक्तम् । अविनाभावः-व्याप्तिः । परिसमाप्यते—निर्णीयत इति यावत् । प्रकरणसमप्रभृतिशब्दान् तदवसरे निर्वक्ष्यामः ॥

“त्रिरूपाल्लिङ्गात् यदनुमेये ज्ञानं तदनुमानं” [३-३] , “त्रैरूप्यं पुनर्लिङ्गस्यानुमेये सत्त्वमेव, सपक्ष एव सत्त्वं, असपक्षे चासत्त्वमेव निश्चितम्” [३-५] इत्यादिना न्यायबिन्दौ धर्मकीर्त्युक्तं उपक्षिपति—नन्विति । विरोधादिति । बाधायां सत्यां त्रिलक्षणकत्वस्यैवासम्भवादित्यर्थः ॥ बाधितत्वं पक्षस्यैव, न हेतोः
यच्चेदमग्न्यनुष्णत्वसाधने कृतकत्वं त्रिलक्षणमपि बाधकविधुरितविषयमित्युदाहृतम्—तत् असमीक्षिताभिधानम्; अत्र त्रैलक्षण्यानुपपत्तेः । पक्षधर्म एव तावदयं न भवति । प्रत्यक्षाद्यनिराकृतो हि पक्ष उच्यते । न चायमीदृश इत्यपक्ष एव । तद्धर्मो हेतुः कथं पक्षधर्मः स्यात् ॥

नाप्ययमन्वयी हेतुः; अन्वयग्रहणसमय एव तद्विप्लवावधारणात् । अन्वयो हि गृह्यमाणः सर्वाक्षेपेण—यद्यत् कृतकं, तत्तदनुष्णम्—इत्येवं गृह्यते । ततश्च तद्ग्रहणसमय एव—अयमुष्णोऽपि कृतक इति हृदयपथमवतरति तनूनपात्—इति कथमन्वयग्रहणम् ?

ननु कृतकत्वस्य वह्नौ सत्त्वात् कथमत्र पक्षधर्मताविरहः ? इत्याशङ्क्य वह्नेः पक्षत्वमेव न सम्भवतीति हेतोः पक्षवृत्तित्वं नास्त्येवेत्युपपादयति— यच्चेदमित्यादि । पक्षधर्मः—पक्षवृत्तिरिति यावत् । प्रत्यक्षादीति । तथोक्तं न्यायबिन्दौ—“स्वरूपेणैव स्वयमिष्टोऽनिराकृतः पक्षः” [३-३८] इति । व्याख्यातं च ग्रन्थकारेणैव—“यः साधयितुमिष्टोऽप्यर्थः प्रत्यक्षानुमानप्रतीतिस्ववचनैर्निराक्रियते, न स पक्षः” [४८] इति । धर्मोत्तराचार्योऽप्याह—“प्रत्यक्षादिभिरनिराकृतः” इति । अपक्ष इति । साध्यवत्तया गृहीते पक्षे सत्त्वं हि लक्षणम् । प्रकृते च वह्नौ अनुष्णत्वं प्रत्यक्षबाधितमेवेति कथं तस्य पक्षत्वमित्यर्थः । तथा च अयं बाधः पक्षदोष एव, न तु हेतुदोषः, हेतोस्तु पक्षधर्मत्वाभाव एव दोषः, न बाध इति ॥

ननु पक्षे साध्यस्यासिद्ध्या नैवं दूषयितुं शक्यमिति शङ्कायाम्—तर्ह्यत्र बाधाभावेऽस्य प्रसज्यमानं हेतुत्वं किमन्वयरूपम् ? उत व्यतिरेकरूपम् ? इति विकल्प्य दूषयति—नापीत्यादिना । सर्वाक्षेपेण—उत्सर्गतः—सर्वं क्रोडीकृत्येति यावत् । अयं तनूनपात् इत्यन्वयः । अयं भावः—यद्यत् कृतकं तत्तदनुष्णं यथा घटादि—इति खलु व्याप्तिर्ग्राह्या । तत्र कृतकसामान्यस्यैव व्याप्तौ भानमनुभवसिद्धम् । कृतकसामान्यान्तर्गते च वह्नावनुष्णत्वं प्रत्यक्षबाधितमेवेति यद्यत् कृतकं तत्तदनुष्णमिति व्याप्तेरुन्मेष एव नास्ति ।
यदि त्वनलमुत्सृज्य घटादावन्वयग्रहः ।
नान्तर्व्याप्तिर्गृहीता स्यात् साध्यसाधनधर्मयोः ॥ १५३ ॥

ततश्चेवंविधाद्धेतोः स्वसाध्यनियमोज्झितात् ।
साध्याभिलाष इत्येवं षण्डानुनयदोहदः ॥ १५४ ॥

अन्वयपूर्वकत्वाच्च व्यतिरेकग्रहणस्य तन्निराकरणे तदपाकरणमवगन्तव्यम् ॥

अपि च सिषाधयितधर्मवैपरीत्येन वह्नेः प्रत्यक्षतो निश्चयात् वस्तुवृत्तन स एव विपक्ष इति न ततो व्यतिरेकः कृतकत्वस्येति । तस्मात् त्रेलक्षण्यापायादेव हेत्वाभासोऽयमिति न रूपान्तरमबाधितविषयत्वमपेक्षते ॥ हेतोरबाधितत्वमपि दुरधिगमम् कथं चेदमबाधितत्वं निश्चीयते ?
न ह्यदर्शनमात्रेण बाधाविरहनिश्चयः ।
सर्वात्मना हि नास्तित्वं विद्युः कथमयोगिनः ॥ १५५ ॥

अनिश्चिते तदङ्गे च न हेतोर्हेतुता भवेत् ।
यथैव पक्षधर्मादिरूपाणामनुपग्रहे ॥ १५६ ॥

तस्मादबाधितत्वं रूपान्तरमवचनीयमिति ॥ अनुमितेस्तु न तसम् । एवं स्थिते कस्याहेतोर्हेतुत्ववारणायाबाधितत्वं पृथक् सम्पादनीयमिति ॥

ननु पक्षान्तर्भावेण कथं व्यभिचारापादनम् ? इति शङ्कायामाह— यदीति । अन्तर्व्याप्तिरिति । पक्षे साध्यसिध्यनुकूला व्याप्तिः इत्यर्थः । यो हेतुमान् स साध्यवान् इति व्याप्तौ यदि पक्षः सामान्यतो वा कदाचिदपि धर्मितया न भासेत, तर्हि प्रकृतसाध्यनिरूपितव्याप्त्यभावेन पक्षे साध्यसाधनासमर्थाद्धेतोः साध्यसाधनप्रयासः पुत्रावाप्तये षण्डानुनयप्रायासायेतेति । अन्वयेति । व्यतिरेकव्याप्तिरपि अन्वयव्याप्तिपोषणायैव ॥

वस्तुनः वृत्ते—शीलं स्वभाव इति यावत् ॥

नास्तित्वं—बाधाभावः । अयोगिनः—असर्वज्ञाः । तदङ्गं—हेतोरङ्गभूतेऽबाधितत्वे । यथा हेतोः पक्षवृत्तित्वादिज्ञानविरहे स हेतुरसाधकः, एवं सर्वोऽपि हेतुः अबाधितत्वस्य ग्रहीतुमशक्यतया असाधक एव स्यादिति ॥ अबाधितत्वं हेत्वङ्गमेव
अत्राभिधीयते—यदुक्तं—अन्वयग्रहणं सर्वाक्षेपेणेति तद्ग्रहणवेलायामेव सिषाधयिषितधर्मविपर्ययाध्यासितहुतवहस्वरूपपरिस्फुरणादन्वयशून्योऽयं हेतुरिति—तदहृदयङ्गमम् । अन्वयः सत्यं सर्वाक्षेपेण गृह्यते, न पुनः एकैकधर्मिसमुल्लेखेन । एवं हि तदानन्त्यात् अन्वयो गृहीतुमेव न शक्येत । अनुमानस्य च वैफल्यमित्थं भवेत्, अग्निमतां धूमवतां सर्वधर्माणां अन्वयावगमकाल एव गृहीतत्वात् ॥

धूमो हि यत्र यत्रेति सामान्येनैव गृह्यते ।
न पुनः पर्वतेऽरण्ये गृहे वेत्येवमिष्यते ॥ १५७ ॥

एवञ्च सत्याक्षेपवाचोयुक्तिरुपपन्ना भविष्यति ।
न चैवं सति वक्तव्यं षण्डानुनयमार्गणम् ।
न हि तद्वर्जमित्येवं व्याप्तिग्रहणमिष्यते ॥ १५८ ॥

तद्ग्रहणं—अन्वयग्रहणम् । तदानन्त्यात्—धर्मिणामानन्त्यात् । न शक्येतेति । वह्निधूमयोर्व्याप्तिर्हि—यो धूमवान् स वह्निमान् इति सामान्यत एव गृह्यते, न तु धूमवत् महानसं वह्निमत्, धूमवान् पर्वतो वह्निमान् इति प्रत्येकं धर्मिव्यक्तीनां भानपूर्वकम्, व्यक्तीनामानन्त्येन व्याप्तिग्रहणस्य दुर्लभत्वापत्तेः । एवं पर्वतादेः प्रातिस्विकत्वेन ग्रहणे तत्र वह्निमत्तायाः तदैव सिद्ध्याऽनुमानवैयर्थ्यं च । किन्तु पर्वतादिकं व्याप्तौ सामान्यतः धूमवत्त्वेन वह्निमत्त्वेनैव च क्रोडीक्रियते । व्याप्तिर्हि साध्यसाधनयोरेव, न तत्राधिकरणव्यक्तिविशेषभाननिर्बन्धः । एवञ्च प्रकृतेऽपि यद्यत् कृतकं तत्सर्वमनुष्णं दृष्टमिति व्याप्तौ न किञ्चिदपि बाधकमिति । इत्थं—भवदुक्तावेवानुमानवैयर्थ्यं, नास्मदुक्तरीतावित्यर्थः ॥

एवञ्चेत्यादि । एवं सति चेत्यन्वयः । पक्षादीनां सामान्याकारेण व्याप्तौ भानेनैव सर्वाक्षेपेण व्याप्तिर्गृह्यत इत्युक्तिर्निरूढैवेति को दोषः इत्यर्थः । तद्वर्जं—पक्षवर्जम् ॥

ननु यद्यपि व्याप्तिः ग्रहणकाले पर्वतादिपक्षवर्जं न गृह्यते । अथापि “यो धूमवान् स वह्निमान्” इति सामान्यतो व्याप्तिग्रहणे कथं पर्वताद्यधिकरणविशेषे वह्निविशेषस्य सिद्धिस्तया व्याप्त्या वक्तुं शक्येत, तथाऽग्रहणादिति
सामान्येन च व्याप्तिर्गृहीता सती सिषाधयिषितधर्म्यपेक्षया सैवान्तर्व्याप्तिरुच्यते—यैव च नगलग्नाग्न्यनुमानसमये तद्व्यतिरिक्तकान्तारादिप्रदेशवर्तिनी बहिर्व्याप्तिरभूत् सैव कालान्तरे कान्तारवर्तिनि वह्नावनुमीयमानेऽन्तर्व्याप्तिरवतिष्ठते । तदिहापि यत् कृतकं तदनुष्णमिति सामान्यतः परिच्छेदात् न तदानीमनलोन्मेष इति सिद्धोऽन्वयः ॥

व्यतिरेकोऽपि कार्ये तेजोऽवयविनि पक्षीकृते कृतकत्वस्य तेजःपरमाणुभ्यः ॥ शङ्कायामाह—सामान्येनेति । अयं भावः—यद्यपि व्याप्तिस्सामान्यत एव गृह्यते, अथापि “पर्वतो धूमवान्” इति पक्षधर्मताज्ञानानन्तरं खलु एकसम्बन्धिज्ञानविधया व्याप्तिस्मरणं जायते । तथा च स्मरणकाले सामान्यतः स्मृताऽपि व्याप्तिः पक्षधर्मताज्ञानबलात् प्रकृतपक्षादिविषयिणी विश्राम्यतीति सैव विशेषव्याप्तिरूपाऽपि पर्यवस्यतीति अधिकरणविशेषे साध्यविशेषनिर्णयो भवत्येवेति । अन्तर्व्याप्तिः—अन्तरङ्गभूता व्याप्तिः—विशेषव्याप्तिरिति यावत् । बहिर्व्याप्तिः—बहिरङ्गभूता व्याप्तिः—सामान्ययाप्तिरिति यावत् । तदानीं—सामान्यतो व्याप्तिग्रहकाले । अनलोन्मेषः—वह्नेः प्रातिस्विकतयोपस्थितिः । तथा च व्याप्तिग्रहणकाल एव वह्निविशेषाभानात् प्रत्यक्षबाधः पूर्वोक्तरीत्या न वक्तुं शक्य इत्यर्थः ॥

“अन्वयपूर्वकत्वाच्च व्यतिरेकग्रहणस्य” इत्याद्यपाकरोति—व्यतिरेकोऽपीति । “कृतकत्वस्य व्यतिरेकोऽपि सिद्धः” इत्यन्वयः ॥

ननु नित्यस्य तेजःपरमाणोरुभयबादिसम्प्रतिपन्नत्वे तत्र कृतकत्वस्य व्यतिरेकः सिद्धयेत्, ये तु नित्यं परमाणुं नाभ्युपगच्छन्ति वेदान्तिप्रभृतयः तैस्सह विवादे कः प्रतीकार इति चेत्, तर्हि चन्द्रे, तारकासु वा ज्योति व्यतिरेको ग्रहीष्यते, शास्त्रतः तेषां तेजोद्रव्यत्वस्य निर्णीतत्वात् । अथ यदि विधुतारकादयो न तेजांसि, अपि तु सहस्रकिरणमरीचिप्रतिफलनवशादालोकभानमात्रमित्युच्येत, तर्हि मा भवन्तु तानि तेजांसि । अथापि न नो हानिः । तदा हि विपक्ष इति कश्चिदेव नास्तीत्युक्तं भवति । तथा च विपक्षावृत्तित्वं हेतोस्सिद्धमेवेत्याह—
विधुतारकपरमाण्वनभ्युपगमे तु विपक्ष एव नास्तीति तदभावात् सुतरां तत्रावृत्तिर्भवतीति । न हि सपक्ष इव विपक्षे वृत्तिरिष्यते, येन यत्नतः तत्सिद्धये यतेत । अग्निरेव विपक्ष इति चेत्—मैवम्— न हि पक्ष एव विपक्षो भवितुमर्हति ॥ पक्ष इति कश्चन नास्त्येवेत्याक्षेपः ननु ! वस्तूनामद्विरूपत्वात् पक्षो नाम परमार्थतो नास्त्येव । साध्यधर्माधिकरणभूतश्चेत् सोऽर्थः, तत्सपक्ष एव; विपर्यये तु न विपक्षतामतिवर्तते । न च क्रमद्वययोगित्वं रूपद्वयरहितत्वं वा वस्तुनः समस्तीति ॥ विध्वित्यादि । अत्रेदमवधेयम्—यादृशपुरुषविशेषेणैतावता उष्णस्पर्श एव नानुभूतः तादृशेन पुरोवर्तिवह्निमधिकृत्यैवं प्रयोगे विपक्ष एव अप्रसिद्धः । परन्त्वस्मिन् प्रयोगे अनुष्णत्वं—स्पर्शगतजातिविशेष एव, न तूष्णत्वाभावरूपम्, उष्णस्पर्शस्यैव तेनाननुभूतत्वात् । यस्तु चन्द्रतारकादिषु परमाणौ वा शास्त्राच्चोष्णस्पर्शं निश्चिन्वन्नेव पुरोवर्तिभौमवह्निमधिकृत्य तथा प्रयुङ्क्ते, तदा परमाण्वादिकमेव विपक्ष इति । ननु यदि विपक्ष एव नास्ति तर्हि विपक्षावृत्तित्वं वा कथं प्रसिद्धयेत् ? इत्यत्राह—न हीति । दुष्टहेतुषु यत् प्रसिद्धं विपक्षवृत्तित्वं तदभावः प्रसिद्ध्येदेवेति भावः । ननु अनुष्णत्वसाधने तदभाववानग्निरेव विपक्ष इति, तस्मात् व्यावृत्तिः हेतोः कृतकत्वस्य नास्तीति कथं व्यतिरेकः ? इत्यत्राह—अग्निरेवेति । व्याप्तिज्ञानकाले न तत्र तदभावनिर्णयसम्भव इत्यनुपदमेवोक्तम् ॥

ननु लोके हि वस्तु कोटिद्वयान्तर्गतं, घटः—तद्भिन्नश्चेत्येवंरीत्या । तथा च प्रकृते वस्तुसामान्यं साध्यवद्वा भवेत्, साध्याभाववद्वा । एतदन्यतरकोटावेव सर्वमपि वस्त्वन्तर्भूतम् । तत्र साध्यवांश्चेत् सः सपक्ष एव, साध्याभाववांश्चेत् स विपक्ष एव । को हि नामेदानीं पक्षः तृतीयः परिशिष्यत इति शङ्कते—नन्विति । ननु कश्चन साध्यवानेव, अन्यश्च साध्याभाववानेव, एभ्यस्तृतीय उभयवान् कश्चन कुतो न स्यादित्यत्रोक्तं—वस्तूनामद्विरूपत्वादिति । तत्—तस्मात् । तथा चोभयात्मकमेकं न स्यादिति तृतीयो राशिर्नास्त्येव । ननूभयात्मकत्वस्य विरोधेन तृतीयराश्यसम्भवेऽपि उभयानात्मकत्वेनैव एको राशिरस्तु; अथवा कालभेदेन तत्तदभाववद्वस्त्वेको राशिरस्त्येवेति कथं राशिद्वयमेवेत्यत्राह—न चेति । अयं भावः—अस्तु कालभेदेनोभयात्मकत्वो पक्षः कश्चिदस्त्येव तदयुक्तम्—अनुमानोच्छेदप्रसङ्गात् । अद्विरूपत्वेऽपि वस्तूनां निसर्गविषयीकृतः अर्थः कश्चित् पक्ष एषितव्यः । तदभावे तदपेक्षस्वरूपयोः सपक्षविपक्षयोरप्यभावः स्यात् । तदस्य पक्षस्य सतो विपक्षत्वमारोप्य यत्तेन व्यभिचारचोदनं तेनाग्न्यनुमानमपि विप्लवेत ॥ पर्वते वह्न्यनुमानस्य वह्न्यनुष्णत्वानुमानस्य च वैलक्षण्यशङ्कापरिहारौ ननु ! पर्वतादिर्धर्मी न ज्वलनाख्यसाध्यधर्मशून्यतया तत्र निश्चितः । तेजोऽवयवी तु अनुष्णत्ववैपरीत्येन प्रत्यक्षतो निश्चित इति—तत्किमिदानीं पर्वतादिः अग्निमत्तया निश्चितः ? तथाभ्युपगमे वा किमनुमानेन ? पपादनम् । अथापि नैषः तृतीयो राशिः; तत्काले तु प्रथमराशिः, तदभावकाले तु द्वितीयो राशिरिति कुत इष्टसिद्धिः । उभयानात्मकत्वं तु शशशृङ्गादिवत्तुच्छत्वे विश्राम्येतेति स्मर्तुमप्ययोग्यम् । तथा च द्वैराश्यमेव सुप्रतिष्टितमिति पक्षो नाम कश्चिन्नास्त्येवेति ॥

अनुमानोच्छेदमेवोपपादयति—तदभाव इति । पक्षस्यैवाभाव इत्यर्थः । सपक्षेत्यादि । पक्षसदृशः खलु सपक्षः, पक्षविरुद्धश्च विपक्षः । एतदुभयं पक्षस्यैवाभावे कथं प्रतितिष्ठेतेत्यर्थः । अग्न्यनुमानमपीति । पर्वतो वह्निमान् धूमादित्यादावपि पक्षस्यैवाभावे तदनुमानमपि नावतिष्ठेतेत्यर्थः ॥

ननु वह्नेरनुष्णत्वं प्रत्यक्षबाधितं, पर्वते वह्निस्तु न तथेति वैलक्षण्यमस्त्येव । तथा चाद्यानुमानतौल्यं न वह्न्यनुमानादीनामिति शङ्कते— नन्विति । समाधत्ते—तत्किमिति । पर्वतो वह्निशून्यतया न निश्चित इति चेत्, तर्हि पर्वतो वह्निमत्त्वेन निश्चित इत्यायातम् । तथा च सिद्धसाधनम् इत्यर्थः । तथा—अग्निमत्त्वेन निश्चित इति ॥ पक्षानङ्गीकारे अनुमानोच्छेदः स्यात्
ननु ! न पर्वतोऽग्निमत्तया निश्चितः; नापि तद्वैपरीत्येन । किन्तु सन्दिग्ध एवास्ते । यद्येवं सन्दिग्धेऽपि विपक्षे वर्तमानो धूमादिरहेतुरेव स्यात् । निश्चितविपक्षवृत्तिवत् सन्दिग्धविपक्षवृत्तेरपि अहेतुत्वात् सर्वमनुमानमुत्सीदेत् । तस्मात् पक्षेण व्यभिचारचोदनमनुचितमिति व्यतिरेकवानेवायं हेतुः ॥ बाधः न पक्षमात्रदोषः, किन्तु हेतोरपि
यत्पुनरभिहितं—अनिराकृतपक्षवृत्तित्वमस्य नास्तीति— तत्सत्यम्—वयमप्यमुं पक्षं अध्यक्षवाधितमिच्छाम एव । स तु न पक्षमात्रपर्यवसितो बाधः, किन्तु हेतुमपि स्पृशति ॥

आस्त इति । प्रकृते तु वह्निः उष्णत्वेन निश्चित इति शेषः । समाधत्ते—यद्येवमिति । साध्यतदभाववत्त्वेन सन्दिग्धश्चेत् सः पक्षोऽपि भवितुमर्हति, तथा सन्दिग्धविपक्षोऽपि भवितुमर्हति । हेतोस्तद्वृत्तित्वज्ञानं च— हेतुः किं साध्यवद्वृत्तिः ? उत साध्याभाववद्वृत्तिःऽ इत्येवंरूपं पर्यवस्यति । अयं च व्यभिचारसंशय एव । तथा चेदृशदोषस्य सर्वत्र सम्भवात् अनुमानमेवोच्छिद्येतेति ॥

ननु पक्षे साध्यस्य सन्दिग्धत्वेऽपि न तस्य सन्दिग्धविपक्षत्वं सम्भवति, यतः सर्वमप्यनुमानमुच्छेद्येत । सन्दिग्धसाध्यवान् खलु पक्षः । स च संशयः सर्वत्र सुलभ एव । पक्षान्तर्भावेण व्यभिचारसंशयः साध्यसंशय एव पर्यवस्येत् । धूमः किं वह्निमत्पर्वते वर्तते ? उत वह्न्यभाववत्पर्वते ? इति संशये पर्वते वह्निसत्त्वे आद्यः पक्षः, वह्नेरसत्त्वे द्वितीयः पक्षः प्रत्यवतिष्ठेत । तथा च पर्वतो वह्निमान् ? उत न ? इत्याकारः पर्यवसन्नः । स च पक्षतारूप इति पक्षान्तर्भावेण व्यभिचारसंशयः गुण एव, न दोष इति चेत्, प्रकृतेऽपि इमं न्यायं पश्यतु भवानिति । पक्षेण—पक्षान्तर्भावे ॥

अनिराकृतेति । प्रत्यक्षाद्यबाधितेत्यर्थः । तथा च पक्षे साध्यः प्रत्यक्षबाधितः, न तु हेतुरिति बाधः न हेतुदोष इति भावः । सत्यं इत्यर्धाङ्गीकारे । अयं पक्षदोष इत्यभ्युपगच्छामः, हेतुदोषो न भवतीति तु नाभ्युपगच्छामः । पक्षनिष्ठोऽपि दोषः हेतुमपि दूषयेदेवेति । स तु बाधः इत्यन्वयः ॥

न हेतुनिरपेक्षात्मा पक्षो नामास्ति कश्चन ।
प्रसाधयितुमिष्टो हि हेतुना पक्ष उच्यते ॥ १५९ ॥

स न साधयितुं शक्यः प्रत्यक्षे प्रतियोगिनि ।
साध्यापहारद्वारेण हेतुर्भवति बाधितः ॥ १६० ॥

अबाधितानुमेयत्वमत एवास्य लक्षणम् ।
न तु हेतुरसिद्धोऽयं ज्वलने वृत्तिसम्भवात् ॥ १६१ ॥

अबाधितत्वं न दुरवगमम्
यत्त्वबाधितता ज्ञातुं शक्या नेति विकल्पितम् ।
पक्षस्यापि महाभाग ! कथं तां प्रतिपत्स्यसे ॥ १६२ ॥

प्रयत्ने क्रियमाणेऽपि यदि बाधा न दृश्यते ।
नास्त्येवेत्यवगन्तव्यं व्यवहारो हि नान्यथा ॥ १६३ ॥

अतस्त्रिलक्षणेऽपि हेतौ बाधसम्भवादबाधितत्वं रूपान्तरं वक्तव्यम् ॥

एतदेवोपपादयति—न हेत्वित्यादि । अयमर्थः—वह्निरनुष्णः कृतकत्वादित्यादौ यद्यपि पक्षे साध्यवत्त्वमेव प्रत्यक्षबाधितं, न तदानीं हेतोरुल्लेखः । अथापि पक्षसाध्याद्युल्लेखश्चानुमितिस्थल एव । अनुमितिश्च हेतुशरणैव । हेतौ प्रतिष्ठिते सर्वं प्रतिष्ठेत, तस्मिन्नप्रतिष्ठिते न किञ्चित्प्रतिष्ठेत । केनचिद्धेतुना कुत्रचिदधिकरणे कस्यचित्साध्यस्य साधनेऽभिमते खलु तत्र भवता प्रत्यक्षबाधाद्युत्कीर्तनम् ! तादृशदोषोत्कीर्तने च स दोषः बाधितसाध्यकत्वादिरूपः स्पृशत्येव हेतुम् । अन्यथा खलु अयं सद्धेतुव्यपदेशार्ह एव स्यात् । न हि एतदपेक्षयाऽतिरिक्तः असिद्ध्यादिस्तत्र हेतौ वर्तते । अतः अबाधितसाध्यकत्वं सद्धेतोरावश्यकमेवेति ॥

पक्षस्यापीति । न हि बाधस्य दोषत्वं नास्तीति भवानप्यवोचत्, किन्तु पक्षस्यायं दोष इत्येव । तथा च पक्षे अबाधितत्वज्ञानं भवताऽपि सम्पादनीयम् । तथा च “यश्चोभयोः समो दोषः तमेव त्वं ब्रवीषि माम्” । तत्त्वजिज्ञासुं प्रत्याह—प्रयत्न इति । नान्यथेति । सर्वत्रैवं संशये पुरुषप्रवृत्तिरेव न स्यात् । अतश्च “संशयात्मा विनश्यति” इति सत्यमुक्तम् ॥

एवञ्च यदुच्यते—बाधाविनाभावयोर्विरोधादिति—तत्कथञ्चिद्युक्तं, कथञ्चिदयुक्तम् । पञ्चलक्षणके लिङ्गे यः परिसमाप्तोऽविनाभावः तत्र नास्त्येव बाध इत्येवं युक्तमेतत् । त्रिलक्षणकलिङ्गाभिप्रायेण त्वयुक्तमिति ॥ आगमबाधितो हेतुः
एवमागमबाधितोऽपि हेतुर्द्रष्टव्यः । यथा—ब्राह्मणेन सुरा पेया अदुष्टत्वात्, क्षीरवदिति ॥ अनुमानेनानुमानस्य विरोधासम्भवः
ननु ! प्रत्यक्षागमविरुद्धवदनुमानविरुद्धमनुमानं कस्मान्नोदाह्रियते ? असम्भवादिति ब्रूमः—न ह्यनुमानविरुद्धमनुमानमवकल्पते । अनुमानयोर्हि तुल्यबलयोर्बाध्यबाधकभावः ? अतुल्यबलयोर्वा ? तत्र तुल्यबलयोस्तुल्यबलत्वादेव न बाध्यबाधकभावः । समाने हि वीर्ये किं कस्य बाधकम् ? बाध्यं वा ? अतुल्यबलत्वपक्षेऽपि—यत्कृतमल्पबलत्वमन्यतरस्य तत एव तदप्रामाण्यसिद्धेः किमनुमानबाधया ? तस्मान्नानुमानविरुद्धमनुमानं बुद्ध्यामहे ॥

अत एवानुमानविरुद्धमनुमानमपश्यता भाष्यकारेणोक्तम्— “यत्पुनरनुमानं प्रत्यक्षागमविरुद्धं न्यायाभासस्सः” [न्या। भा। १-१] इति ॥

कथञ्चिदित्यादि । “बाधाविनाभावयोर्विरोधः” इति सामान्यत उक्तिर्न दुष्यति; पञ्चलक्षणके हेतावुभयोर्मेलनासम्भवात्; त्रिलक्षणकहेत्वभिप्रायेणोच्यते चेत् वह्न्यनुष्णत्वानुमानादाबुभयं सम्भवतीति न विरोध इत्यर्थः ॥

आगमः—“ब्राह्मणो न सुरां पिबेत्” इत्यादिः ॥

यत्कृतमिति । प्रत्यक्षेणागमेन वोपोद्बलितत्वादेवानुमानस्य प्राबल्यं वक्तव्यम् । दौर्बल्यं च प्रत्यक्षागमविरोधादेव । तथा च प्रत्यक्षविरोधात् आगमविरोधाच्च प्राथमिकमनुमानं मृतमिति तेन किं कर्तुं शक्यम् ? असत्प्रतिपक्षत्वमपि हेत्वङ्गमेव
यत्र तु तुल्यबले द्वे अनुमाने निपततः स सत्प्रतिपक्षस्य विषयः इति । असत्प्रतिपक्षत्वं पञ्चमं लिङ्गलक्षणमुपदिश्यते ॥ परस्परविरुद्धहेतुद्वयसमावेशो भवत्येव
ननु ! वस्तूनाद्विरूपत्वात् कथमेकत्र धर्मिणि परस्परविरुद्धधर्मद्वयाक्षेपिप्रयोजकहेतुद्वयसन्निपातो भवेत् । अत एव विरुद्धाव्यभिचारी नाम न हेत्वाभास इहेष्यते । तदतिदुर्लभः सत्प्रतिपक्षो हेतुरिति कमपहर्तुं पञ्चममिदं हेतुलक्षणमुपदिश्यत इति— सत्यमेवम्—किन्तु संशयबीजं यत् विशेषाग्रहणं, तदन्यतरनिर्णयाय भ्रान्त्या प्रयुज्यमानं सत्प्रतिपद्यते—स्थाणुरयं पुरुषधर्मानुपलब्धेः, पुरुषोऽयं स्थाणुधर्मानुपलब्धेरिति । अन्यतरविषयानुपलम्भ एवायं

यत्रेति । नन्वनुपदमेवोक्तं तुल्यबलानुमानद्वयामेलनं, इदानीमस्ति तदित्युच्यत इति कथमिदम् ? उच्यते—अनुमानयोस्तुल्यबलत्वे बाध्यबाधकभावो नास्तीत्येतावदेवोक्तम्, न तु तादृशानुमानासम्भवः । ननु उभयोर्मेलने परस्परबाधः कथं न स्यादिति चेत्—न तत्र परस्परबाधः—किन्त्वनिर्णय एव । भाष्यकारोऽप्याह—“उभयपक्षसाम्यात् प्रकरणसमो निर्णयाय न प्रकल्पते” [न्या। भा। १-२-७] इति ॥

धर्मद्वयाक्षेपि—साध्यद्वयसाधनम् । अत एव—तादृशहेतुद्वयमेलनासम्भवादेव । प्राचीनबौद्धैः दिङ्नागादिभिः संशायकतया विरुद्धाव्यभिचारिणोऽङ्गीकारेऽपि, धर्मकीर्त्यादिभिरेव तन्निरासात् [न्या। विं। ३-११०] सर्वसम्प्रतिपन्नमेतदिति भावः । विरुद्धाव्यभिचारिशब्दश्च एवं निरुक्तः धर्मोत्तरेण—“विरुद्धं न व्यभिचरतीति विरुद्धाव्यभिचारी । विरुद्धश्चासौ अव्यभिचारी चेति वा” [न्या। बिं। ३-११०] इति । कन्दलीकारोऽपि “विरुद्धं प्रत्यनुमानं न व्यभिचरति— नातिवर्तते” [२४३ पु।] इत्याह । स्वसाध्यविरुद्धसाधकहेतुमानिति फलितार्थः । इदं विस्तरशः कन्दल्यां द्रष्टव्यम् । कमपहर्तुं—कं दोषं वारयितुम् । भ्रान्त्येति । अन्यतरधर्मस्य सद्भावावश्यकात् धर्मद्वयस्याप्यनुपलम्भः दोषमूलत्वात् भ्रान्तिरित्युच्यते । तथा च वस्तुनः अद्व्यात्मकत्वेऽपि अनुपलम्भस्य सम्भवात्, विशेषादर्शनात् संशयादिप्रसक्तिरिति भावः । अस्तु सर्वं !
संशयाधायी पक्षधर्मान्वयव्यतिरेकोपपत्तिभ्रमेण हेतुरिति प्रयुज्यमानः सत्प्रतिपक्षो भवतीति प्रकरणसमहेत्वाभासचिन्तायां विस्तरेण निरूपयिष्यते । पुरुषप्रज्ञाप्रमादमूलत्वाच्च वस्तुनो द्व्यात्मकत्वमिति तत्रैव वक्ष्यते ॥

लक्षणान्तरमतः कथनीयम्
प्रत्यनेकविकलत्वमवश्यम् ।
तेन लिङ्गमनुमानपथज्ञाः
पञ्चलक्षणकमभ्युपजग्मुः ॥ १६३ ॥

पञ्चलक्षणकाल्लिङ्गात् इतिपद्यस्थगृहीतात्इतिपदव्याख्यानम् पञ्चलक्षकाल्लिङ्गादिति व्याख्यातम् । व्याप्तिग्रहणसमयसमधिगतस्वरूपस्यापि लिङ्गस्य पुनर्धर्मिणि क्वचिदनवधृतवपुषो नास्याध्यवसायसाधनत्वमिति द्वितीयं लिङ्गदर्शनमेवापेक्षणीयमिति गृहीतादित्युक्तम् । लिङ्गं हि ज्ञापकं; न चक्षुरादिवत् कारकम् । ज्ञापकस्य चायं स्वभावः, यत् ज्ञातं अनु ज्ञापयतीति । व्याप्तिग्रहणकालगृहीतमेव व्याप्तिवत् स्मर्यमाणतथैव लिङ्गं लिङ्गिनं गमयिष्यतीति चेन्न—ग्रहणमन्तरेण व्याप्तिस्मृतेरप्यभावात् इत्यलं1 प्रसङ्गेन ॥ वस्तुनः कथं द्व्यात्मकत्वम् ? इत्यत्राह—पुरुषेति । वस्तुनः एकात्मकस्यैव पुरुषबुद्धिदोषवशात् द्व्यात्मकत्वप्रतिभासमात्रमित्यर्थः । तत्रैव—हेत्वाभासचिन्तायामेव [११ आह्निके] । लक्षणान्तरं—असत्प्रतिपक्षत्वरूपम् ॥

व्याप्तीत्यादि । महानसादौ वह्निव्याप्यत्वेन गृहीतस्यापि धूमस्य, पुनः कालान्तरे पर्वतादौ ग्रहणमन्तरा न वह्न्यनुमापकत्वं, ज्ञायमानं हि लिङ्गमनुमितिकरणम्, न स्वरूपसत्—इत्यतो गृहीतात् इत्युक्तमित्यर्थः । क्वचित् धर्मिणि—पक्षे । अनवधृतवपुषः—अनवगतस्येति यावत् । अध्यवसायः— अनुमितिः । द्वितीयं—व्याप्तिग्रहणकालिकं प्रथमं, पक्षधर्मताज्ञानकालिकं द्वितीयमित्यर्थः । अपेक्षणीयमेव इत्यन्वयः । यथा महानसादौ गृहीता व्याप्तिः कालान्तरे स्मृतैवानुमितिहेतुः, तथा धूमोऽपि स्मृत एवानुमितिहेतुः कुतो न स्यादित्याक्षिपति—व्याप्तीति । समाधत्ते—ग्रहणमिति । पूर्वं नियमस्मृतेः इत्यस्य व्याख्यानम् नियमस्मृतेरिति । विव्रियतां ! कोऽयं नियमो नाम ?

व्याप्तिः—अविनाभावः—नित्यसाहचर्यमित्यर्थः ॥ नियमो नाम कः ? आह—नैतावत्येव विरन्तुमुचितम् । तस्य तदविनाभावित्वमित्यत्र हि निमित्तमन्वेषणीयं तार्किकैः ॥ तादात्म्यतदुत्पत्तिभ्यां व्याप्तिनिरूपणम् तच्च तादात्म्यतदुत्पत्तिरूपमीक्षितवन्तो भिक्षवः । यो हि यदात्मा भावः स कथं तमुत्सृजति ? वृक्षात्मिकैव हि शिंशपा तेन वृक्षत्वमनुमापयति । सोऽयं स्वभावहेतुरुच्यते, वृक्षोऽयं शिंशपात्वात् इति । तत्र तादात्म्यं प्रतिबन्धः ॥ गृहीतायाः व्याप्तेः स्मृतौ उद्वोधकं खलु वक्तव्यम् । “एकसम्बन्धिज्ञानमपरसम्बन्धिस्मारकम्” इतिबिधया धूमज्ञानं स्वाधिनाभावसम्बन्धिनः वह्नेः स्मारकं भवतीति खलु व्याप्तिस्मृतिर्वक्तव्या । तत्र यदि धूमज्ञानमेव स्मृतिरूपं, तर्हि वह्निज्ञानमपि तादृशमेव स्यात् । तथा च अनुमितिः स्मृतिरूपा वक्तव्या— तच्च न युक्तमेव । पर्वते वह्नेः पूर्वमननुभूतत्वेनेदानीं स्मृतेरयोगात् । अतः धूमस्मरणान् न पर्वते वह्न्यनुमितिनिर्वाहः ॥

एतावत्येव—एवमुत्तरदान एव । तार्किकैरिति । न हि श्रद्धाजडास्तार्किका इति भावः ॥

भिक्षवः—धर्मकीर्त्यादयः । तथोक्तं प्रमाणवार्तिके धर्मकीर्तिना— “कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् । अविनाभावनियमः, दर्शनान्न नदर्शनात्” इति । अयमर्थः—अविनाभावस्य नियमः—निर्णयः, नियताविनाभावो वा, नियामकात्—तादृशनियमहेतुभूतात् कार्यकारणभावात् स्वभावाद्वा भवति । न तु कदापि अन्वयदर्शनात् व्यतिरेकदर्शनाद्वा भवति । व्यक्तीनामनन्तत्वेन असर्वज्ञदुर्ज्ञेयत्वेन अन्वयव्यतिरेकसहचारग्रहस्यासम्भवादिति भावः । यो हि भावः—पदार्थः यदात्मा—यादृशस्वभावकः । तं— स्वभावम् । तादात्म्यं प्रतिबन्धः—“द्रव्यं घटः” इत्यादौ सामान्य
कार्यं नाम कारणाधीनात्मलाभमेव भवति, न कारणानपेक्षमिति । तदुपलभ्यमानं तदनुमापयति—अग्निरत्र धूमात्—इति कार्यहेतौ तदुत्पत्तिः प्रतिबन्धः । एवं हि द्विविधं प्रतिबन्धमनुमेयाव्यभिचारनिबन्धनमनुक्त्वा केवलसाहचर्यनियममात्रवर्णनं यत् पादप्रसारिका सैवेति ॥

उच्यते—पादप्रसारिकैव साधीयसी स्थूलदृष्टिभिरवलम्बिता वरं, न सूक्ष्मदृष्टिभिः उत्प्रेक्षिताः तादात्म्यादिप्रतिबन्धाः ॥

तादात्म्ये तावद्गमकाङ्गे हेतुसाध्ययोरव्यतिरेके गम्यगमकभाव एव दुरुपपादः । न खल्वगृहीतं लिङ्गं लिङ्गिप्रतीतिमाधातुमर्हति । तत्र लिङ्गबुद्धौ लिङ्गी प्रतिभासते ? न वा ? अप्रतिभासे तद्वुद्ध्या तदग्रहणात् कथं तस्य तदात्मकत्वम् ? प्रतिभासे तु लिङ्गवत् प्रत्यक्ष एव सोऽर्थ इति किमनुमानेन ?

विपरीतसमारोपव्यवच्छेदार्थमनुमानमिति चेत्—तत्स्वरूपग्रहणे विपरीतारोपणावसराभावात् । न हि शिरःपाण्यादिविशेषदर्शने सति स्थाणुसमारोपः प्रवर्तते । तत्र तद्भेदादुपपद्येतापि । विशेषयोः तादात्म्यं सर्वसम्मतम् । विशेषे सति सामान्यं—यत्र घटत्वं, तत्र द्रव्यत्वमिति । इयं व्याप्तिर्धर्मयोः । एवं धर्मिणोर्व्याप्तिस्तु तादात्म्यमूलैव । यो घटः स द्रव्यमेवेति । यो विशेषात्मा स सामान्यात्माऽपि भवतीति यावत् ॥

तत्—कार्यम् । तत्—कारणम् । पादप्रसारिकैवेत्यादिः नर्मोक्तिः ॥

गमकाङ्गे—व्याप्तिनिश्चायकाङ्गभूते सति । अव्यतिरेके—सति चेति शेषः । उक्तमेवोपपादयति—न खल्विति । तदग्रहणात्—लिङ्गिनः—साध्यस्याविषयीकरणात् । प्रत्यक्ष एवेति । उभयोरभेदादित्यर्थः । एतदुक्तं भवति— हेतुसाध्ययोरभेदे, पक्षे हेतुदर्शनदशायामेव हेत्वभिन्नं साध्यमपि सिद्धमेव । तयोर्भेदे च तादात्म्याद्व्याप्तिरिति भग्नमेवेति ॥

विपरीतेति । अवृक्षत्वव्यवच्छेदार्थमित्यर्थः । ननु तत्र अवृक्षत्वमस्ति चेत् तन्न निषेद्धुं शक्यम्, नास्ति चेत् निषेधो व्यर्थ इति चेत्तत्रोक्तम्— समारोपेति । अरोपितं तत् व्यवच्छिद्यत इत्यर्थः । अभावस्थले सर्वत्रेय
न हि शिरःपाण्यादय एव पुरुष इति तद्ग्रहणेऽप्यपुरुषारोपः कामं भवेत् । इह वृक्षत्वशिंशपात्वयोरभेदात् शिंशपात्वग्रहणे सति का कथा वृक्षेतरसमारोपस्य !

अपि च वृक्षत्वग्रहणे सति सामान्यधर्मग्रहणात् विशेषानध्यवसायात् कदाचिदशिंशपारोपः स्यात्; न तु शिंशपात्वग्रहणे सति अवृक्षत्वसमारोपो युक्तः ॥

प्रमातुः शिंशपात्वं हि यस्य प्रत्यक्षगोचरः ।
परोक्षं तस्य वृक्षत्वमिति नातीव लौकिकम् ॥ १६४ ॥

किञ्च साध्यसाधनयोरव्यतिरेकात् यथा शिंशपात्वे च वृक्षत्वमनुमीयते तथा वृक्षत्वेनापि शिंशपात्वमनुमीयेत, तादात्म्याविशेषात् । तथा च प्रयत्नानन्तरीयकत्वेनानित्यत्वं साध्यते, तद्वदनित्य- मेव गतिः । भूतले घटोऽस्ति चेत् तन्न निषेध्यम्, नास्ति चेत् निषेधो व्यर्थः, अतश्च भूतले घटो नास्तीति प्रतीतिप्रयोगादयो विलुप्येरन् । अतः निषेधस्थले सर्वत्र प्रतियोगिप्रसक्तिः अरोपात्मिकैव । वस्तुतः अयमपि दृष्टान्तः प्रकृताननुगुण इत्याह—तत्रेति । अभेदादिति । यद्यपि सिद्धान्ते वृक्षत्वं परा जातिः, पृथिवीत्ववत्; शिंशपात्वं चापरा, घटत्ववत् इति तयोर्नाभेदः; तथापि जाति मनङ्गीकुर्वतां स्वलक्षणमात्रं वस्तुस्वरूपमभिदधतां वृक्षत्वर्शिशपात्वयोरुभयोरपि स्वरूपानतिरेकात्तयोरभेद एव । अत एव स्वरूपस्य तादात्म्यहेतुरिति व्यवहारः ॥

स्यात्—सम्भाव्येत । ननु घृतादौ घृतत्वे गृहीतेऽपि इयं पृथिवी ? उत जलम् ? इति संशयदर्शनात् विशेषग्रहणेऽपि संशयो युज्यत एवेत्यत्राह— प्रमातुरिति । नातीव लौकिकमिति । अत्यन्तं लोकविरुद्धमित्यर्थः । घृतादौ कदाचिद्धनीभावस्य, कदाचिद्द्रवत्वस्य च दर्शनाद्युज्यते संशयः इयं पृथिवी ? उत जलं इति । प्रकृते तु शिंशपां पश्यन् को वा तत्र वृक्षत्वे संशयीतेत्यर्थः ॥

शिक्षकपुरुषप्रमादात् कदाचित् कस्यचित् सामान्यमनवगतमपि स्यादित्यत आह—किञ्चेति । तादाम्यहेतुः खलु अयम् । प्रयत्नानन्तरीयकत्वम्—
त्वेनापि तत्साध्येत । ततश्च सपक्षव्याप्त्यव्याप्तिभ्यां कृतकत्वप्रयत्नानन्तरीयकत्वयोर्यो भेदः उक्तः स हीयेत ॥ व्याप्तेरद्विष्ठत्वम्, तादात्म्यस्य नियमे पर्यवसानं च ननु च ! अन्यः सम्बन्धः, अन्यश्च प्रतिबन्धः । द्विष्ठः सम्बन्धः, प्रतिबन्धस्तु परायत्तत्वलक्षणः । तत्र शिंशपात्वं वृक्षत्वे प्रतिबद्धम्, न वृक्षत्वं शिंशपात्वे । प्रयत्नानन्तरीयकत्वमपि अनित्यत्वे नियतम्, न त्वनित्यत्वं तत्रेति । तथा धूमस्याग्नौ प्रतिबन्धः, न त्वग्नेर्धूमे । सत्यमेवम्—किन्त्वेवमुच्यमाने नियम एवाङ्गीकृतो भवेत्, न तादात्म्यम् । तादात्म्ये हि यथा शिंशपा शिंशपां विना न दृश्यते तथा वृक्षत्वमपि शिंशपारहितं नदृश्येत, दृश्यते च खदिरादौ शिंशपारहितं वृक्षत्वं, विद्युदादौ च प्रयत्नानन्तरीयकत्वरहितमनित्यत्वमुपलभ्यत इति कथमभेदः ? [४-२०१] प्रयत्नानन्तरकालोत्पन्नत्वम् । अस्य स्वभावानुमानरूपत्वं प्रमाणवार्तिकधर्मोत्तरटीकादौ [न्या। वि। टी। २-२१] उपपादितम् । कृतकत्वेत्यादि । शब्दे अनित्यत्वेन कृतकृत्वसाधने सपक्षव्याप्तं, तत्रैव प्रयत्नानन्तरीयकत्वसाधने तत सपक्षे विद्युदादौ अव्याप्तं इति भेदः तत्र तत्रोक्तः ॥

ननु ! एकसम्बन्धिज्ञानविधया हेतोस्साध्योपस्थापकत्वेऽपि हेतुसाध्ययोर्वर्तमानः सम्बन्धः न संयोगादितुल्यः; येन हस्तिदर्शने हस्तिपस्मरणवत्, हस्तिपदर्शने हस्तिस्मरणवच्च, धूमदर्शनेन वह्न्युपस्थितिवत्, वह्निदर्शनेन धूमोपस्थितिराशङ्क्येत । किन्तु धूमादेव वह्न्यनुमितिः, न तु वह्नेर्धूमानुमितिरिति सम्प्रतिपन्नम् । एवञ्च प्रकृतेऽपि शिंशपात्वेन वृक्षत्वमात्रमेव सिद्ध्येत्, न तु वैपरीत्येनापीति शङ्कते—नन्विति । न त्विति । विद्युदादौ व्यभिचारात् इति हेतुः । पूर्वपक्ष्युक्तं व्याप्तेः संयोगादिवैलक्षण्यमङ्गीकरोति—सत्यमिति । शिंशपारहितं—शिंशपात्वं विनेति यावत् ॥

विना साधनधर्मेण साध्यधर्मोऽयमस्ति हि ।
दृष्टस्तद्व्यतिरेकेण तदात्मा चेति कैतवम् ॥ १६५ ॥

अथ विद्युदाद्यनित्यत्वादन्यदेव घटाद्यनित्यत्वं, यत् प्रयत्नानन्तरीयकत्वाभिन्नमुच्यते; तर्हि धर्मिभेदेन धर्माणां भेदेऽन्वयग्रहणानुपपत्तेः सर्वमनुमानमुत्सीदेत् । धूमाग्न्योस्तु कार्यकारणयोर्भेदात् युक्तं वक्तुम्—धूमस्याग्नौ प्रतिबन्धः, न त्वग्नेर्धूमे । इह तु साध्यसाधनयोरव्यतिरेकात् न तथा शक्यते वक्तुम् । तथाऽभिधाने वा नाव्यतिरेकः । सर्वथा तादात्म्यं वा त्यज्यताम्, वृक्षत्वानित्यत्वाभ्यां शिंशपात्वप्रयत्नानन्तरीयकत्वे वा अनुमीयताम्, नान्तराऽवस्थातुं शक्यते ॥ स्वभावहेतुकानुमानान्तरनिराकरणम्
यश्चायं—अनित्यः शब्दः कृतकत्वादिति स्वभावहेतुरुदाहृतः— स कथं स्वभावहेतुः ? इदं हि चिन्त्यताम् । अनित्यत्वं नाम

साध्यहेत्वोः पक्षविशेषणत्वात् “धर्मेण” इत्युत्कीर्तनम् । हि—यस्मात् साधनं विनापि साध्यं कुत्रचिद्वर्तते ततस्साधनव्यतिरेकेण वर्तमानः साधनस्वरूप इति वञ्चनामात्रमित्यर्थः । अन्वयः—यत्र धूमस्तत्राग्निरितिरूपः । अनुपपत्तेः—व्यक्तीनां व्याप्तौ भानासम्भवेन सामान्यत एव व्याप्तिग्रहणं वक्तव्यम् । न हि पर्वतीयधूमवह्न्योः व्याप्तिग्रहणसम्भवः । उत्सीदेत् । अयोगोलकादौ धूमव्यभिचारित्वेऽपि वह्नेः, तदतिरिक्तवह्नेरेव व्याप्तिरित्यपि वक्तुं शक्यतया सदसद्धेतुविभागस्य दुर्वचत्वादप्यनुमानप्रामाण्यमुत्सीदेदित्यपि बोध्यम् । धूमे इत्यनन्तरं इतिकरणं द्रष्टव्यम् ॥

उदाहृतः—न्यायबिन्द्वादौ [३-११] इति शेषः । ननु अनित्यत्वादयो हि स्वरूपरूपाः । अतः तस्य स्वभावहेतुत्वमिति चेत्—तत्राह—इदं हीति । कथमिति । धर्माणां स्वरूपरूपत्वेऽपि तन्निरूपकभेदाद्वाऽवश्यं भेदः एषितव्यः, नो चेत् सर्वपदानां पर्यायतैव स्यादिति भावः ॥

किमुच्यते ? किं च कृतकत्वम् ? इति । तत्रानित्यत्वं विनाशयोगः, उत्पत्तियोगश्च कृतकत्वम् । उत्पन्नस्य च भावस्य विनाशः; न तूत्पाद एव विनाश इति कथं साध्यसाधनयोरव्यतिरेकः ? परैः स्वभावहेतुकानुमानसम्भवसमर्थनम्
अत्र चोदयन्ति—विनाशयोगे ह्यनित्यत्वे विनाशी शब्द इति बुद्धिः स्यात्, नानित्य इति । एष्या च सा मिथ्या बुद्धिः, शिखरिण इव कृशानुविशेषितस्य विनाशवतः शब्दस्य गृहीतुमशक्यत्वात् ॥

अभावेन हि धर्मेण तद्वत्ता धर्मिणः कथम् ?
अभावग्रहवेलायां धर्मिणोऽनुपलम्भनात् ॥ १६६ ॥

अनित्यत्वमिति च भावप्रत्ययः कथमभावे भवेत् ? विरुद्धत्वात् । तस्मादुभयान्तपरिच्छिन्ना वस्तुसत्ताऽनित्यत्वमुच्यताम् । कृतकत्वमपि सत्तैव, कारणोत्पादिता धारा सती कथ्यत इति । एवञ्च सत्तैव साध्यं साधनं चेति सिद्धं स्वभावहेतुत्वम् ॥ सिद्धान्तिना तन्निराकरणम्
तदिदमनुपपन्नम् । साध्यसाधनयोस्तथात्वेनानवभासनात् । एवं ह्युच्यमाने शब्दः सत्तावान् सत्तावत्त्वादिति प्रतीतिः स्यात् । न चैवं दृश्यते । अपि तु—अनित्यः शब्दः, कृतकत्वादिति ॥

विनाशेति । अनित्यत्वस्य विनाशयोगरूपत्व इति यावत् । सा बुद्धिः मिथ्या इत्यन्वयः । तत्र हेतुं सदृष्टान्तमाह—शिखरिण इति । यथा वा वह्निरूपविशेषणविशिष्टः पर्वतः दृश्यते, तथा विनाशविशिष्टः शब्दः न हि गृह्यते, विशेष्यस्य नष्टत्वात् । अतः अभावग्रहवेलायां धर्मिणः शब्दस्य नष्टत्वेन धर्मिणः अभावाख्येन धर्मेण कथं वैशिष्ट्यम् ? विशेषणविशेष्ययोः समकालत्वाभावात् । भिन्नकालयोरपि विशेषणविशेष्यभावे व्यवहारसामान्यमुच्छृङ्खलं स्यादिति । विरुद्धत्वादिति । अभावे भावसत्ताया इति शेषः । अन्तः—अवधिः । पूर्वोत्तरावधिद्वयमिति यावत् । वस्तुसामान्यस्य क्षणिकत्वात्—धारा इत्युक्तम् ॥

तथात्वेन—अभिन्नत्वेन—यद्वा, सत्तारूपत्वेन ॥

अथोभयान्तपरिच्छिन्ना सत्ता साध्या, कारणनिर्वर्त्याऽऽश्रयसमवायिनी च साधनमुच्यते—तदेतदघटमानम्—विनाशरूपस्यान्तस्य तदानीमविद्यमानत्वेन सत्तापरिच्छेदकत्वाभावात् ॥

बुद्धिस्थेनाथ तेनास्याः परिच्छेदोऽभ्युपेयते ।
शब्दस्यैव परिच्छेदो विनाशेनास्तु तादृशा ॥ १६७ ॥

धर्मः समानकालोऽपि बुद्ध्यैव विषयीकृतः ।
तद्विशेषणतां याति तथा भाव्यपि यास्यति ॥ १६८ ॥

तदेवं विनाशी शब्द इति विशेषणविशेष्यभावसिद्धेः किं सत्तासाध्यकल्पनया ॥ अभावपदादपि भावप्रत्ययो युज्यत एव
यत्पुनरभिहितम्—अभावे भावप्रत्ययस्त्वतलादिर्न स्यादिति—तदत्यन्तानभिज्ञस्य चोद्यम् । शब्दप्रवृत्तिनिमित्तस्य तत्र भाव-

समवायिनीति । सत्तेति आकृष्यते । अयं भावः—सत्ताया ऐक्येऽपि अवच्छेदकभेदाद्भेदव्यवहारः । पूर्वौत्तरावध्यवच्छिन्ना सत्ता अनित्यत्वम् । मध्यकालावच्छिन्ना सत्ता कृतकत्वमिति । तदानीं—वस्तुसत्ताकाले । उत्पत्तिर्यद्यपि वस्तुन्यन्वेति । आद्यक्षणसम्बन्धस्यैवोत्पत्तिपदार्थत्वात् । सम्बन्धस्य च वस्तुनिष्टत्वात् । विनाशस्तु वस्तुकाले नास्त्येवेति तस्य कथं सत्तापरिच्छेदकत्वम् ?

शङ्कते—बुद्धिस्थेनेति । समाधत्ते—शब्दस्यैवेति । तदानीमसताऽपि बुद्धिस्थेन सत्त्वेन यदि विनाशस्य संस्पर्शः, तर्हि तादृशेनैव शब्देन विनाशस्य सम्बन्धोऽस्तु; किं बकबन्धनप्रयासेन ? अतीतेन धर्मिणा धर्मस्य यथा योगः, तथा भविष्यताऽपि धर्मेण धर्मिणोऽपि सम्बन्धोऽपि युज्यत एवेति । एवञ्चासमानकालिकयोरपि विशेषणविशेष्यभावसम्भवेन सत्तान्वेषणप्रयासो विफल एवेत्यर्थः ॥

प्रत्ययेनाभिधानात्—तस्य गुणस्य हि भावात् द्रव्ये तच्छब्दनिवेश इति । अभावेऽपि अभावत्वमिति दर्शनात् । तस्मात् बुद्धिस्थविनाशयोग एवानित्यत्वम् ॥

कृतकत्वमप्युत्पत्तियोग एव, न सत्ता । कारणोत्पादिताश्रयावच्छेदे तु तस्या इष्यमाणे धर्मिण एव तदवच्छेदो भवत्विति किं सोपानान्तरेण ॥ वस्तुभेदेन धर्मा अपि मिद्यन्त एवेत्याक्षेपः
ननूत्पादविनाशाख्यं न धर्मद्वयमन्वयि ।
यद्धटे, नास्ति तच्छब्दे; यच्च शब्दे, न तद्धटे ॥ १६९ ॥

गुणस्य—धर्मस्य । द्रव्ये—वस्तुनि । वस्तुनि विद्यमानं कञ्चन धर्मं निमित्तीकृत्य शब्दस्य प्रवृत्त्या—स धर्मः प्रवृत्तिनिमित्तमित्युच्यते । अभावे च अभावत्वधर्ममादाय अभावशब्दस्य प्रवृत्तिरिति को दोष इत्यर्थः ॥

कारणेत्यादि । कृतकत्वं हि नित्यात् धर्मिणं व्यावर्तयति । तत्र धर्मिनिष्ठायाः सत्तायाः कारणोत्पादितघटादिनिष्ठत्वमुपपाद्य, तादृशविलक्षणस्य सत्तायाः नित्येभ्यः व्यावर्तकत्वापेक्षया कृतकत्वं साक्षाद्धर्मिणमेव नित्येभ्यो व्यावर्तयतु, न तु तदवच्छिन्नसत्तावच्छेदात्—इत्यर्थः । युक्तं चैतत्—नैल्यपदेन नीलवृत्तिधर्मबोधने प्राप्ते, नीले घटे विद्यमानः गन्धादिरूपः धर्मः न हि नीलपदेन बोधयितुं शक्यः । भवद्दृष्ट्या तु कारणो पन्नघटवृत्तिसत्तायाः कृतकत्वपदार्थ वे हि नीलवृत्तिगन्धधर्ममपि नीलत्वपदं बोधयतु । अतः तत्तच्छब्दप्रवृत्तिनिमित्तभेदनिर्वाहाय धर्माणां साक्षादेव व्यावर्तकत्वं एषितव्यम् ॥

नन्वित्यादि । कृतकत्वादीनां साक्षात् व्यावर्तकत्वं दुर्वचमेव । सर्वानुगतं सत्तादिधर्मं व्यावर्त्य, तस्याः सत्तायाः विशिष्टवेषेणेतरव्यावर्तकत्वानङ्गीकारे, कृतकत्वं हि कृतके तद्धटे पर्याप्तम् । एवं अनित्यत्वमपि । तथा च यत् कृतकं, तदनित्यं इति सामान्यव्याप्तिर्न स्यात् । व्यक्तिभेदेन धर्मभेदात् । सत्ता तु सर्वानुगता ॥

यदि च—कृतकत्वमपि कृतकेषु सर्वेषु अनुगतं एकमेव । कृतकस्य वस्तुनः यो भावः तद्धि कृतकत्वं; तच्च कृतकेषु सर्वेषु स्यादेव । सर्वेषु तेषु कृतकशब्दप्रयोगे हि प्रवृत्तिनिमित्तमपि सर्वत्र स्यादेवेति व्याप्त्युपपद्यत इत्युच्यते
अथैक एव धर्मः सर्वभावसम्बन्धी इष्येत, तर्हि— एकभावसमुत्पादे सर्वोत्पादः प्रसज्यते ।
एकप्रलयकाले च सकलप्रलयो भवेत् ॥ १७० ॥

तस्मात् सत्तापक्ष एव वरम् ॥ धर्मिभेदेऽपि धर्माणामनुगतत्वं युक्तम् नैतदेवम्—धर्मिभेदेऽपि धर्माणां तुल्यरूपाणां अवभासात् ॥

न घटादिस्वरूपं हि नाश इत्यवकल्पते ।
येनानन्वयदोषः स्यात् तद्भेदोपनिबन्धनः ॥ १७१ ॥

एकत्वमपि धर्मस्य नास्ति सर्वेषु धर्मिषु ।
येनैकध्वंससमये सकलध्वंससङ्करः ॥ १७२ ॥

भिन्नत्वेऽपि च धर्माणां समानरूपत्वेनावभासमानत्वात् अन्वयग्रहणादिकार्याविरोधः । अत एव सामान्यमन्तरेणापि —तर्हि घटपटादिषु सर्वत्र विद्यमानं कृतकत्वं एकमेवेति, घटे उत्पन्ने घटगतकृतकत्वस्य उत्पत्त्या, पटगतकृतकत्वस्य तस्य चाभेदात् पटगतकृतकत्वमप्युत्पन्नमेवेति, एकस्य उत्पादे सर्वोत्पादः । एवं विनाशेऽपि । यद्यपि केवलस्य सत्वस्य सर्वत्रैक्यात् व्यावर्तकत्वं न सम्भवति, अथापि तत्सामग्र्यधीनस्वरूपविशेषणभेदात् विशिष्टवेषेण व्यावर्तकत्वसम्भवः । व्याप्तिस्तु सामान्यात्मनेति गत्यन्तराभावादङ्गीक्रियते—इति आहत्यार्थः ॥

तद्भेदः—धर्मिभेदः । एकत्वमपि नेति । “तुल्यरूपाणां धर्माणां” इति ह्यनुपदमुक्तम् । एतदेवोपपादयति—भिन्नत्वेऽपीत्यादि । अयं भावः— यद्यपि कृतकत्वादयो धर्माः आश्रयभेदेन भिद्यन्त एव, अतः न एकस्योत्पत्तौ सर्वोत्पत्तिप्रसङ्गादिः । व्याप्तिस्तु सर्वेषां कृतकत्वानां अनुगतैकरूपेण सम्भवः । अनुगतरूपं तु सर्वत्र जातिरेवेति न निर्बन्धः । घटवत्त्वेन रूपेण निखिलानां घटवद्भूतलानामुपस्थितौ हि घटवत्त्वमेवानुगतं रूपं, तच्च न जातिरूपम् । एवं प्रकृतेऽपि यत्र यत्र कृतकपदं प्रयुज्यते, तत्र सर्वत्रापि न कृतकपदभेदः । सर्वथा भेदे सति ककारादीनामप्यानन्त्यात्, सर्वो व्यवहारः उच्छिद्येत । यदा
समानधर्ममूलान्वयादिव्यवहारोपपत्तेः तत्र न सूत्रकारेण सामान्यग्रहणं कृतम् । अपि तु साधर्म्यग्रहणमुपात्तम्—उदाहरणसाधर्म्यात् साध्यसाधनं हेतुः साध्यसाधर्म्यात् तद्धर्मभावी दृष्टान्त उदाहरणम् इति । तेन विनाशोत्पादधर्मयोः साध्यसाधनभावात्, तयोश्च भेदात्, अनित्यः शब्दः कृतकत्वादिति न स्वभावहेतुरिति सिद्धम् ॥ कार्यानुमानमपि न सम्भवति कार्यहेतुरपि न सम्भवति । भवतां हि पक्षे क्षणयोर्वा कार्यकारणभावो भवेत् ? सन्तानयोर्वा ?

क्षणयोर्नेति वक्ष्यामः क्षणभङ्गनिराकृतौ ।
सम्भवन्नपि दुर्लक्षः सूक्ष्मत्वाच्च तयोरसौ ॥ १७३ ॥

धूमाग्निसन्तानयोस्तु अवास्तवत्वादेव नास्ति कार्यकारणभावः । अर्थक्रियाकारित्वमेव वस्तुत्वम् । यदि धूमः कार्यत्वादनलमनुमापयेत्—कटुमलिनगगनगामित्वादिधर्मैरपि तस्य गमको भवेत् । च पदानि अभिन्नानि, उच्चारणभेदमात्रं, तदा प्रवृत्तिनिमित्तमपि तदनुरूपमेव वक्तव्यम् । तदादाय व्याप्त्युपपत्तिः । सत्ताद्वारकपक्षे च यस्या अनुगतत्वं तस्याः न व्यावर्तकत्वं, यस्याश्च व्यावर्तकत्वं न तस्या अनुगतत्वमिति दोषः दुर्वार एव । सोपानान्तरकल्पनं परमवशिष्यत इति ॥

सम्भवन्नपीति । पूर्वोत्तरार्धयोः कार्यकारणभाव इति वर्तते । अथवा “असौ” इति धर्मी । तयोः—क्षणयोः ॥

धूमाग्निसन्तानयोः—धूमसन्तानस्याग्निसन्तानस्य च । अवास्तवत्वात्— मिथ्यात्वात् । अतिरिक्तस्य वास्तवस्य सन्तानस्याभावादिति भावः । अर्थेति । न्यायबिन्दौ स्वलक्षणस्वरूपमभिधाय “तदेव [स्वलक्षणमेव] परमार्थसत्” “अर्थक्रियासामर्थ्यलक्षणत्वाद्वस्तुनः” इति खलुक्तम् । सन्तानश्च न स्वलक्षणरूपः । कटुत्वं—श्वासरोधकत्वम् । धर्मैरिति—वैशिष्ट्यं तृतीयार्थः । तस्य—वह्नेः । कार्यं यादृशं दृष्टं, तादृशमेव कारणं हि तदनुमापयेत् । यथा नीलः पटो नील
न च कथञ्चित् तत्कार्यत्वं कथञ्चिदतत्कार्यत्वं च धूमस्योपपन्नम् । सर्वात्मकस्य तदन्वयव्यतिरेकानुविधाचिप्रभवत्वात् ॥

अथ सर्वात्मनाऽपि तत्कार्यत्वे—

धूमत्वमात्रमेवाग्निसहचारीति मन्यसे ।
सहचारित्वमेवास्तु तदुत्पत्तिकथा वृथा ॥ १७४ ॥

सिद्धान्ते कार्यलिङ्गकानुमानमुपपद्यत एव ननु भवद्भिरपि कार्यानुमानमङ्गीकृतमेव । यथा “शेषवत्” इति व्याख्यास्यते । यथाऽऽह कणव्रतः—“कार्यं कारणं संयोगि समवायि विरोधि चेति लैङ्गिकम्” [वै। सू। ९-२-१] इति—न—साहचर्योपलक्षणार्थत्वात् । धूमाग्न्योर्नदीपूरयोर्वा न कार्यकारणभावात् गमकत्वं यथोक्तन्यायेन; अपि तु नित्यसाहचर्यान्नियमादेवेति ॥ तन्तुमित्यर्थः । सर्वात्मकस्य—यावद्वस्तुस्वरूपस्य । धूमस्वरूपमेव सर्वं अन्वयव्यतिरेकाधीनवह्निहेतुकम् । न तत्रांशभेदो दृश्यते ॥

अपिः भिन्नक्रमः; तत्कार्यत्वेऽपीत्यन्वयः । धूमत्वेत्यादि । अयमर्थः— धूमस्वरूपमात्रस्यैव वह्नयधीनत्वेऽपि धूमत्वाकारमात्रं वह्निसहचरितं, न कटुत्वाद्याकारोऽपि । यस्मिन्नंशे सहचरितो गृह्यते, तदंशमात्रस्य कार्ये सिद्धिः, नातिरिक्तस्येति चेत्—एवं सति साहचर्यनियम एव शरणीकर्तव्य इति तेनैव व्याप्तिनिश्चयः । कार्यकारणभावनिर्णयार्थं भवताऽपि तस्यावश्यापेक्षणीयत्वादिति भावः ॥

कणव्रतः—कणादः । अनेन समानतन्त्रसंवादः प्रदर्शितः । साहचर्येति । यद्यपि कार्यानुमानमस्त्यस्माकं वस्तुस्वरूपपर्यालोचनया । गमकत्वं तु न कार्यकारणभावस्य, किन्तु तयोस्साहचर्यस्यैवेति न विरोध इत्यर्थः ॥

उपर्युक्तकणादसूत्रे विरोधिनोऽपि लिङ्गत्वमुक्तम् । तत् कथं घटताम् ? विरोधिनोस्साहचर्यासम्भवादिति शङ्कते—विरोधिनोरिति । उक्तमेवोपपादयति—विरोधिनोरिति । “परस्परविरोधे हि न प्रकारान्तरस्थितिः” इति न्यायादित्यर्थः । तयोः भावाभावयोः इत्यन्वयः ॥ कणादसूत्रसमर्थनम्
विरोधिनोः कथं साहचर्यमिति चेत्; सदसतोर्गम्यगमकभावात्, विरोधिनोरेकतरदर्शनात् अन्यतरस्याभावोऽनुमीयते । भावाभावयोश्च साहचर्यं तयोरस्त्येव । कणादसूत्रे कार्यादिग्रहणं चोपलक्षणम् ॥

अन्येषामपि हेतूनां भूम्नां जगति दर्शनात् ।
सूर्यास्तमयमालोक्य कल्प्यते तारकोदयः ॥ १७५ ॥

पूर्णचन्द्रोदयाद्वृद्धिरम्बुधेरवगम्यते ।
उदितेनानुमीयन्ते सरितः कुम्भयोनिना ॥ १७६ ॥

शुष्यत्पुलिनपर्यन्तविश्रान्तखगपङ्क्तयः ।
पिपीलिकाण्डसञ्चारचेष्टानुमितवृष्टयः ॥ १७७ ॥

भवन्ति पथिकाः पर्णकुटीरकरणोद्यताः ।
अन्येऽपि सौगतोद्गीतप्रतिबन्धद्वयोज्झिताः ॥ १७८ ॥

कियन्तो बत ! गण्यन्ते हेतवः साध्यबोधकाः ।
लोकप्रसिद्धाः तादात्म्यतदुत्पत्त्यवधीरणात् ॥ १७९ ॥

डिम्भहेवाकसदृशं स्वमत्या तत्समर्थनम् ।

अतश्च— तत्स्वभावस्तत्कार्यमित्यादि व्यसनमात्रकम् ॥ १८० ॥

केषामुपलक्षणमित्यत्राह—अन्येषामिति । अन्येषां—कारकहेतुभावरहितानामपि हेतूनां—ज्ञापकहेतूनाम् । शुष्यत्पुलिन॥।पङ्क्तयः इति विधेयविशेषणम् । अगस्त्योदये जलाशयाः प्रसन्ना भवन्तीति प्रसिद्धम् । प्रसादश्च जलस्यानाविलत्वं, तच्च वृष्टिशान्तौ भवेत् । अतः अगस्त्योदये सति वृष्ट्युपरतिरनुमीयत इति तात्पर्यम् ॥

सञ्चाररूपा चेष्टा इत्यर्थः । अन्येऽपीति । किं बहुना ! तादात्म्यतदुत्पत्तिरहिताः, केवलसाहचर्यमात्रशालिनो हेतवो बहवो वर्तन्त एव । कृत्तिकोदयाद्रोहिण्युदयादिरूपा इति तादात्म्यतदुत्पत्तिभ्यामेव व्याप्तिसिद्धिरिति न युक्तमिति सारम् । उपसंहरति—अतश्चेति ॥ बौद्धमते सर्वथा व्याप्तिग्रहः न सम्भवति
अपि च—

व्यावृत्त्योर्लिङ्गलिङ्गित्वं, प्रतिबन्धश्च वस्तुनोः ।
विकल्पैर्ग्रहणं तस्य, कथं सङ्गच्छतामिदम् ? ॥ १८१ ॥

उक्तं चैतत् प्रथम एवाह्निके [पु। ८८-८९] इत्यलं प्रसङ्गेन । तस्मादनुमितिहेतुः सम्बन्धः साहचर्यमिति सिद्धम् । न तु शौद्धोदनिशिष्यपरिकल्पितमुभयमप्येतत् ॥ साहचर्यं तु सहजमेव
यत्त्वभ्यधीयत परैः किमधीनमस्य
तत्साहचर्यमिति तत्र विधिः प्रमाणम् ।
तादात्म्यतज्जननयोरपि चैष तेषां
तुल्योऽनुयोग इति किं विफलैः प्रलापैः ॥ १८२ ॥

अनुमितिकाले व्याप्तेः स्मरणमेव, न त्वनुभवः
नियमो व्याख्यातः । स्मृतेरिति कोऽर्थः ? उच्यते—

नियमो हि गृहीतोऽङ्गं अनुमेयप्रमां प्रति ।
न नारिकेलद्वीपस्थो धूमादग्निं प्रपद्यते ॥ १८३ ॥

साध्यानुमितिवेलायां न चास्ति नियमग्रहः ।
नियमग्रहकाले च न साध्यमनुमीयते ॥ १८४ ॥

साहचर्यं—साहचर्यरूपः सम्बन्ध इत्यन्वयः । विधिः—नियतिः । वह्नेरौष्ण्यं, न जलस्येति कुतः ? इत्याक्षेपतुल्योऽयमिति भावः । अन्यथा— अनयोरेव तादात्म्यतदुत्पत्ती, नान्ययोरिति कथम् ? इत्येषः अनुयोगः तेषामपि तुल्य एवेति—“यश्चोभयोस्समो दोषः” इतिन्यायः स्मर्तव्य इति भावः ॥

नारिकेलद्वीपस्थ इति । सर्वथाऽननुभूत वह्निधूमस्वरूप इति यावत् । अस्तु व्याप्तेः ज्ञाताया एवानुमितिजनकत्वम् । व्याप्तिज्ञानं स्मरणरूपमेवेति कुतोऽयं निर्बन्धः ? इत्यत्राह—साध्येति । न चास्तीति । न हि तदानीं व्यापकः वह्न्यादिः प्रत्यक्षः । यत्र च महानसादौ व्याप्तेर्ग्रहणं, तत्र न वह्न्याद्यनुमितिः । अतोऽगत्या पर्वते वह्न्यनुमितिकाले व्याप्तेः स्मरणमेवेति ॥

तेन पूर्वगृहीतस्सन् इदानीं स्मृतिगोचरः ।
नियमः प्रतिपत्त्यङ्गं, तथाऽवगतिदर्शनात् ॥ १८५ ॥

द्वितीयलिङ्गदर्शने सत्यपि नियमस्मरणमन्तरेण साध्यप्रमितेरमुत्पादात् ॥

यत्रापि विषयेऽभ्यस्ते नैव सञ्चेत्यते स्मृतिः ।
तत्राप्यनेन न्यायेन बलात् सा परिकल्प्यते ॥ १८६ ॥

अनुमितिः स्मृतिरूपेति पक्षः
अत एव केचन प्रत्युत्पन्नकारणजन्यां स्मृतिमेवानुमानमुक्तवन्तः ॥ परोक्षे लिङ्गिनीतिपदप्रयोजनम्
प्रत्युत्पन्नं च कारणं कुत्रचिद्धर्मिणि धर्मान्तरसहचरितलिङ्गदर्शनमिति परोक्षे लिङ्गिनीत्युक्तम् ॥ साध्यविशिष्टपक्ष एवानुमेयः, न साध्यमात्रम्
तत्र लिङ्गी तावदुच्यते—धर्मविशिष्टो धर्मी साध्यः, स एव लिङ्गीति । न धर्मिमात्रं साध्यम्; पर्वतादिधर्मिणः सिद्धत्वात् । न

“तथाऽवगतिदर्शनात्” इत्येतद्विवृणोति—द्वितीयेति । ननु असकृदभ्यस्तविषये लिङ्गदर्शनादेवानुमितिः । यथा भोजनस्य तृप्तिसाधनत्वानुमितिः । बुभुक्षितः अन्नं पश्यन्नेव भोक्तुमारभते । न हि तत्र मध्ये पूर्वानुभूतान्नाद्युपस्थितिपूर्वकं व्याप्तिस्मरणमनुभवसिद्धं इति चेदाह—यत्रापीति । सञ्चत्यते— स्पष्टमनुभूयते । एवञ्च अभ्यासबलात् जायमानं ज्ञानं सुशीघ्रजातत्वात् अनुमितिवन्न भासते । वस्तुतस्तु स निर्णयः अनुमितिरूप एवेत्यर्थः ॥

केचनेति । “एके तावद्वर्णयन्ति, लिङ्गलिङ्गिसम्बन्धस्मृतिरनुमानमिति” इति न्यायवार्तिकं, वाचस्पतिना “आचार्यदेशीयमतमाह—एके तावदिति” इत्यवतारितं द्रष्टव्यम् ॥

तत्रेति । लिङ्गी इत्येतद्व्याख्यायते इत्यर्थः । धर्मः—साध्यः, धर्मी—
धर्ममात्रम्; अग्नेरपि यत्र तत्र सिद्धत्वात् । न च द्वयोस्साध्यत्वम्; स्वतन्त्रयोस्तयोरपि सिद्धत्वादेव । तस्मादेकस्य द्वयोर्वा स्वातन्त्र्येणानुमेयता नावकल्पते इत्यवश्यमन्यतरविशिष्टोऽन्यतरः साध्यो वक्तव्यः ॥ पक्षविशेष्यकानुमितिरेव स्वारसिकी तत्रापि तु धर्मविशिष्टो धर्मी साध्यो युक्तः, न धर्मिविशिष्टो धर्मः । तथा हि—देशविशिष्टे वह्नौ साध्ये षोडशविकल्पाः सम्भवेयुः । [१] सर्व एवाग्निः सर्वदेशविशिष्टः ? [२] अनिर्धारितदेशविशेषविशिष्टः ? [३] पूर्वानुभूतमहानसादिदेशविशिष्टः ? [४] सम्प्रत्युपलभ्यमानपर्वतादिदेशविशिष्टो वा ? अनुमेयः स्यात् ?

[५] अनिर्धारितविशेषो वा कश्चिदग्निः सर्वदेशविशिष्टः ? [६] अनिर्धारितदेशविशिष्टः ? [७] पूर्वानुभूतदेशविशिष्टः ? [८] परिदृश्यमानदेशविशिष्टो वाऽनुमेयः स्यात् ?

[९] पूर्वानुभूतो वाग्निः सर्वदेशविशिष्टः ? [१०] अनिर्धारितदेशविशिष्टः ? [११] प्राक्दृष्टदेशविशिष्टः ? [१२] उपलभ्यमानदेशविशिष्टः अनुमेयः स्यात् ?

[१३] एवं सिषाधयिषितो वाऽग्निः सर्वदेशविशिष्टः ? [१४] प्रागनुभूतदेशविशिष्टः ? [१५] इदानी नुभूयमानदेशविशिष्टो वाऽनुमेयः ? इति ॥

तत्रैते पञ्चदशपक्षाः प्रत्यक्षविरोधसिद्धसाधनत्वादिदोषोपहता इत्यनादरणीया एव ॥ पक्षः । अन्यतरेति । पर्वते वह्निः, पर्वतो वह्निमान्—इति द्वेधाऽप्यनुमितेः सम्मतत्वादित्यर्थः ॥

“सर्व एवाग्निः” इत्येतदुत्तरविकल्पत्रयेऽपि योज्यम् ॥

अनिर्धारितविशेष इति । विशेषश्चात्र तार्णत्वादिः, महानसीयत्वादिः, तद्व्यक्तित्वादिकं वा । इदं उत्तरविकल्पत्रयेऽपि सम्बध्यते ॥

प्रत्यक्षेत्यादि । अत्र आदिना व्याघातग्रहणम् । तत्राद्यपक्षपञ्चके
यश्च षोडशः पक्षः [१६] एतद्देशविशिष्ट एषोऽग्निरिति तत्रापि देशविशेषावच्छेदमन्तरेणैव वह्निरिति गृहीतुमेव न शक्यत एवेति प्रथमं देश एव गम्यते । तस्य च पूर्वप्रतिपन्नत्वात् इदानीमनवगतदहनविशिष्टस्यानुमातुं योग्यत्वात् स एव साध्यो युक्तः ॥

अपि चाग्नेः साध्यतायां अनुपलब्धतद्धर्मः कथमनुमापकः स्यात् ? अनुपलब्धे तु ज्वलने न तद्धर्मतया धूमो गृहीतुं पार्यते । उपलब्धे तु हुतभुजि भवदपि निष्फलमेव धूमस्य तद्धर्मताग्रहणम्; अनुमेयस्य तदानीमभावात् । तस्मादग्निविशिष्टः परिदृश्यमानो देश एव साध्यः । स च स्वरूपतः प्रत्यक्षोऽपि परोक्षधर्मविशिष्टतया अनुमेय इति धूमधर्मयोगात् अग्निधर्मवान् स एवानुमीयते । सोऽनुमानस्य विषयो लिङ्गीत्युच्यते । परोक्षग्रहणं चैतदभिप्रायमेव ॥ परोक्षे इति विशेषणमावश्यकम् क्वचित्तु व्याप्तिस्मरणसमनन्तरमेव प्रत्यासीदतः प्रमातुः झटिति समुन्मिषन्नकस्मादेव प्रत्यक्षीभवति विभावसुरिति न तद्विशिष्ट- प्रत्यक्षविरोधः स्पष्टः । सर्वदेशवृत्तित्वत्य एकस्मिन् वह्नौ, सर्वेषु वा वह्निषु बाधितत्वात् । षष्ठे सिद्धसाधनम् । सप्तमे अष्टमे च व्याघातः । नवमे बाधः । दशमे व्याहतिः । एकादशे सिद्धसाधनम् । द्वादशे व्याहतिः । त्रयोदशे चतुर्दशे च बाधः । पञ्चदशेऽसिद्धिः ॥

न शक्यत इति । विशिष्टवैशिष्ट्यावगाहिबुद्धौ विशेषणतावच्छेदकनिर्णयस्य कारणत्वादिति भावः । एवञ्च देश एव प्रथममवगतः, तदा च वह्निर्नानवगत इति अवगतस्य देशस्य विशेष्यत्वं अनवगतस्य वह्नेर्विधेयत्वमेव च युक्तमिति ॥

अनुमेयस्याभावात् अनुमेयत्वविशिष्टवह्नेरभावात् । तदानीं वह्नेः सिद्धत्वादित्यर्थः । ननु परिदृश्यमानस्य देशस्य कथमनुमेयत्वमित्यत आह— स चेति । “अरोगोऽयं निष्पन्नः” इत्यादौ तथा व्यवहारादिति भावः । एतदभिप्रायं—विशेषणस्य परोक्षत्वात् विशिष्टस्यापि परोक्षत्वतात्पर्यकम् ॥

तद्विशिष्टतया—साध्यविशिष्टतया । यत्र यवनिकाद्यन्तरितः यः पुरुषः धूमं पश्यन् यावत् व्याप्तिं स्मरति, तावदेव यवनिकापगमादिना वह्नीन्द्रिय
तयाऽपि धर्मिणः परोक्षत्वमवकल्पत इति तद्व्यावृत्तये परोक्षग्रहणम् । नित्यपरोक्षस्यापि2 चेश्वरादृष्टेन्द्रियादेरनुमेयतां वक्ष्यामः ॥

तस्माद्यथोचिताल्लिङ्गात् यथोक्तनियमस्मृतेः ।
यथोक्तलिङ्गिविज्ञानमनुमानमिति स्थितम् ॥ १८७ ॥

अनुमानप्रामाण्याक्षेपः ननु ! सत्यनुमानस्य प्रामाण्ये, लक्षणाश्रयः ।
कार्यो विचारः, न पुनः प्रामाण्यं तस्य युज्यते ॥ १८८ ॥

तथा चाहुः—प्रामाण्यस्यागौणत्वात् अनुमानादर्थनिश्चयो दुर्लभः । पक्षधर्मादिरूपं हि लिङ्गस्य बलाद्गौण्या वृत्त्या दर्शयितव्यम् । धर्मे हि साध्ये न हेतोः पक्षधर्मत्वम्, अग्निधर्मत्वात् धूमस्य । धर्मिणि साध्ये हेतोरनन्वयित्वम्, न हि यत्र धूमः तत्र पर्वत इत्यन्वयः । द्वये तु साध्ये द्वयमपि नास्ति । न हि दहनमहीध्रयोः धूमो धर्मः ॥ संयोगात् वह्निप्रत्यक्षं तत्र तस्य जायते । तत्राव्यवहितपूर्वक्षणे व्याप्तिस्मृतेस्सत्वेन तज्ज्ञानस्यानुमानत्ववारणाय परोक्षपदमित्यर्थः । ननु परोक्षत्वं चानुमितिकालिकमेव वक्तव्यम् । अन्यथा व्याप्तिस्मरणस्यैवासम्भवात् । एवञ्चातीन्द्रियवस्तुनः कदाऽप्यननुभवेन तत्र व्याप्तिस्मरणमेव कथमिति चेत् तत्राह— नित्येति । प्रसक्तमुपसंहरति—यथोचितादिति ॥

लक्षणाश्रयः—लक्षणविषयकः विचारः कार्यः—कर्तुमर्हः । अगौणत्वात्—यत् अगौणं तदेव किल प्रमाणम्, अन्यथा लौकिकलिपिपत्रताम्रशासनादीनामपि प्रमाणत्वप्रसङ्गः । प्रमाणज्ञापकत्वमात्रात् खलु तेषां प्रमाणत्वम् । अन्यथा प्रमाणेयत्तैव दुर्वचा स्यादिति भावः । अनुमानस्य गौणत्वमेव विस्तरशः उपपादयति—पक्षधर्मेत्यादि । धर्मे—केवलवह्न्यादौ । अग्निधर्मत्वादिति । एकसम्बन्धिविधया ह्यनुमानप्रवृत्तिः । तत्र वह्निव्याप्यत्वात् धूमस्य व्याप्तयाख्यसम्बन्धानुयोगित्वात् वह्निधर्मः धूम इत्युक्तिः । धर्मिणि—केवलपर्वतादौ । न हीत्यादि । वह्निव्याप्यो हि धूमः, न तु पर्वतव्याप्यः । संयोगसम्बन्धमात्रं तु गगनेऽप्यस्तीत्यप्रयोजकम् ॥

नाप्येवमन्वयः—यत्र धूमः तत्र पर्वताग्नी इति । धर्मविशिष्टे धर्मिणि साध्ये, तदुभयमघटमानमेव ॥

नाप्यग्निविशिष्टधराधरधर्मतया धूमः प्रथममुपलब्धुं शक्यते ॥

न चाप्येवमन्वयः—यत्र धूमः तत्राग्निमान् पर्वत इति । तस्मादवश्यं पक्षधर्मत्वान्वयव्यवहारसिद्धये धर्मविशिष्टे धर्मिणि रूढः पक्षशब्दः तदेकदेशे धर्मिणि गौण्या वृत्त्या वर्णनीयः । अन्वयप्रदर्शनसमये च तदेकदेशे तथैव योजनेऽतिगौणलक्षणत्वादिन्द्रियार्थसन्निकर्षजत्वादिवदगौणलक्षणत्वाभावादनुमानमप्रमाणम् ॥ व्याप्तिरपि दुर्ग्रहा
अपि च—

विशेषेऽनुगमाभावात् सामान्ये सिद्धसाधनात् ।
तद्वतोऽनुपपन्नत्वात् अनुमानकथा कुतः ? ॥ १८९ ॥

साहचर्यमपि न व्याप्तिग्राहकम्
साहचर्ये च सम्बन्धे विस्रम्भ इति मुग्धता ।
शतकृत्वोऽपि तद्दृष्टौ व्यभिचारस्य सम्भवात् ॥ १९० ॥

अघटमानमिति । वैशिष्ट्याभानात् इति हेतुः ॥

प्रथमं—एतदनुमानात् वह्नौ पर्वतीयत्वनिर्णयात् पूर्वम् ॥

न चेत्यादि । तत्र अग्निमान् पर्वत इत्युक्ते हि पर्वतस्याप्यधिकरणभूतमन्यत् भासेत । स चानुभवविरुद्धः । अन्वयः—यत्र धूमः तत्राग्निरिति । पक्षशब्द एव गौणश्चेत्, तमादाय हेतोः पक्षधर्मत्वं तु ततोऽपि गौणमापन्नमिति भावः । एतादृशपक्षधर्मत्वादि [पु। २८२] विशिष्टलिङ्गस्यानुमानरूपत्वे तु गौणमेव प्रमाणं तत् ॥

विशेष इत्यादि । पर्वतीयवह्निधूमयोर्न व्याप्तिग्रहसम्भवः । सामान्यतः यत् धूमवत्, तत् वह्निमदिति तु महानसादौ सिद्धमेव । अतः एतादृशवह्निव्याप्यधूमवान् पर्वत इति परामर्शोऽपि न घटत एवेति अनुमानकथैव गलहस्तिता ॥

मुग्धता—मौढ्यम् । सम्भवात्—पार्थिवत्वलोहलेख्यत्वयोः शतशः सहचारदर्शनेऽपि वज्रमणौ व्यभिचारात् । उक्तार्थे पूर्वपक्षिसम्मतिमाह—
देशकालदशाभेदविचित्रात्मसु वस्तुषु ।
अविनाभावनियमो न शक्यो वक्तुं, आह च ॥ १९१ ॥

अवस्थादेशकालादिभेदाद्भिन्नासु शक्तिषु ।
भावानामनुमानेन प्रसिद्धिरतिदुर्लभा ॥ १९२ ॥

व्याप्तिः असर्वज्ञैर्न गृहीतुं शक्या भवन्नप्यविनाभावः परिच्छेत्तुं न शक्यते ।
जगत्त्रयगताशेषपदार्थालोचनाद्विना ॥ १९३ ॥

न प्रत्यक्षीकृता यावद्धूमाग्निव्यक्तयोऽखिलाः ।
तावत्स्यादपि धूमोऽसौ योऽनग्नेरिति शङ्क्यते ॥ १९४ ॥

सर्वज्ञानां तु नानुमानापेक्षा ये तु प्रत्यक्षतो विश्वं पश्यन्ति हि भवादृशाः ।
किं दिव्यचक्षुषामेषामनुमानप्रयोजनम् ॥ १९५ ॥

सामान्यद्वाराऽपि न व्याप्तिग्रहसम्भवः सामान्यद्वारकोऽप्यस्ति नाविनाभावनिश्चयः ।
वास्तवं हि न सामान्यं नाम किञ्चन विद्यते ॥ १९६ ॥

आह चेति । देश-काल-अवस्थाभेदैः एकमेव वस्तु विविधविरुद्धविचित्रशक्तियुक्तं दृश्यते । एवं वस्तुस्वरूपे अनियते नियमरूपव्याप्तिः कथम् ? तेन भावानां—वस्तूनां सिद्धिश्च कथम् ?

उक्तमेवोपपादयति—न प्रत्यक्षीकृतेति । यथा अग्निमत्सु बहुषु सधूमेषु सत्स्वपि अयोगोलके व्यभिचारः, तथा धूमवति कुत्रचित् वह्निरपि व्यभिचरितः स्यादिति भावः ॥

भवादृशा इति नर्मोक्तिः । अनुमानेन प्रयोजनं किम् ? इत्यन्वयः ॥

ननु व्यक्तीनामनन्तत्वेऽपि सर्वव्यक्त्यनुगतसामान्यस्यैकस्य सत्त्येन यत्र धूमत्वविशिष्टं, तत्र वह्नित्वविशिष्टमितिरीत्या सामान्यद्वारैव व्याप्तिर्ग्रहीष्यते इति चेत् तत्राह—सामान्येति । तत्र हेतुमाह—वस्तवमिति । एतत्तत्त्वं सामान्यप्रकरणे व्यक्तीभविष्यति ॥ भूयोदर्शनेनापि न व्याप्तिनिश्चयः
भूयोदर्शनगम्याऽपि न व्याप्तिरवकल्पते ।
सहस्रशोऽपि तद्दृष्टौ व्यभिचारावधारणात् ॥ १९७ ॥

बहुकृत्वोऽपि वस्त्वात्मा तथेति परिनिश्चितः ।
देशकालादिभेदेन दृश्यते पुनरन्यथा ॥ १९८ ॥

भूयोदृष्ट्या च धूमोऽग्निसहचारीति गम्यताम् ।
अनग्नौ तु स नास्तीति न भूयोदर्शनाद्गतिः ॥ १९९ ॥

साहचर्यनियमोऽपि दुर्ग्रहः
न चापि दृष्टिमात्रेण गमकाः सहचारिणः ।
तत्रैव नियतत्वं हि तदन्याभावपूर्वकम् ॥ २०० ॥

नियमश्चानुमानाङ्गं गृहीतः प्रतिपद्यते ।
ग्रहणं चास्य नान्यत्र नास्तितानिश्चयं विना ॥ २०१ ॥

व्यभिचारेति । पार्थिवत्वलोहलेख्यत्वयोः शतशस्सहचारदर्शनेऽपि वज्रमणौ व्यभिचारात् । पूर्वं [श्लो। १९०] क्वचित्सहचारदर्शनं दूषितं, अद्य तु भूयोदर्शनमिति न पौनरुक्त्यम् । वस्तूनामस्थिरत्वादपि भूयोदर्शनं व्यभिचरत्येवेत्यप्याह—बहुकृत्व इति । बहुशः तथेति—तादृशशक्तिविशिष्टोऽयमितिरीत्या परिनिश्चितः ॥

एवं व्यतिरेकसहचारोऽपि न भूयोदर्शनेनावगन्तुं शक्य इत्याह— अनग्नाविति । गतिः—अवगतिः ॥

बहुषु उभयव्यतिरेकदर्शनेऽपि यत्र कुत्रचित् व्यभिचारे, भूयोदर्शनं निरुपयोगमेव । यावत्सम्भवं ग्रहणं त्वनुपयुक्तमित्याह—न चापीति । वास्तविकसहचारवतोः कुत्रचित्तथा ज्ञानमात्रान्न व्याप्तिनिश्चयः । न हि साहचर्यमात्रं व्याप्तिः, किन्तु नियतसाहचर्यमेव । नियमश्च ज्ञात एवानुमितिहेतुः, न तु स्वरूपतः । नियमज्ञानं च साध्याभाववति सर्वत्र हेतोरभावज्ञानादेव । अतश्च पूर्वोक्तदोषो दुरतिक्रम एव । ननु वह्निमति महानसादौ धूमदर्शनात् वह्न्यभाववति हदादौ धूमादर्शनात्
दर्शनादर्शनाभ्यां हि नियमग्रहणं यदि ।
तदप्यसत्, अनग्नौ हि धूमस्येष्टमदर्शनम् ॥ २०२ ॥

अनग्निश्च कियान् ? सर्वं जगज्ज्वलनवर्जितम् ।
तत्र धूमस्य नास्तित्वं नैव पश्यन्त्ययोगिनः ॥ २०३ ॥

तदेवं नियमाभावात् सति वा ज्ञप्त्यसम्भवात् ।
अनुमानप्रमाणत्वदुराशा परिमुच्यताम् ॥ २०४ ॥

अनुमानानां प्रामाण्यं दुर्निरूपमेव अनुमानविरोधोऽपि यदि चेष्टविघातकृत् ।
विरुद्धाव्यभिचारो वा सर्वत्र सुलभोदयः ॥ २०५ ॥

अत एवानुमानानामपश्यन्तः प्रमाणताम् ।
तद्विस्रम्भनिषेधार्थं इदमाहुर्मनीषिणः ॥ २०६ ॥

हस्तस्पर्शादिनान्धेन विषमे पथि धावता ।
अनुमानप्रधानेन विनिपातो न दुर्लभः ॥ २०७ ॥

अपि च—

यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः ।
अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥ २०८ ॥

अनुमानप्रामाण्यसमर्थनम् अत्राभिधीयते—किमयमनुमानस्वरूपाक्षेप एव क्रियते ? उत तत्तत्तार्किकोपलक्षिततल्लक्षणाक्षेपः ? इति ॥ वह्निमत्येव धूमो वर्तत इति नियमः ज्ञायत एवेत्यत्राह—दर्शनेति । कियान्— अनवधिक इत्यर्थः । तदेव विव्रियतेऽनन्तरपादेन । नैवेति । न हि तत्र सामान्यमुखेनापि ग्रहणं भवेत् । न हि अनग्नित्वं नाम कश्चनानुगतधर्मोऽस्ति, येन तत्पुरस्कारेण वा नियमो गृहीतः स्यादित्यर्थः ॥

एवमनुमानस्यासाधकत्वमुक्त्वा, बाधकत्वमपि तस्य न सम्भवतीत्याह— अनुमानविरोध इति । अनुमानस्यानुमानाद्विरोधाङ्गीकारे तु तादृशप्रत्यनुमानं सर्वत्र सुलभं इति पूर्वमेवोक्तम् [२९३ पु।] । अनुमानप्रधानेन— अन्धविशेषणमिदम् । यत्नत्यादि । अत्र “नैषा तर्केण मतिरापनेया” [कठ। २-९] “तर्काप्रतिष्ठानात्” [ब्र। सू। २-१-१६] इत्यादिकमप्यनुसन्धेयम् ॥

तत्रानुमानस्वरूपं चाशक्यनिह्नवमेव, सर्वलोकप्रसिद्धत्वात् ॥

अबलाबालगोपालहालिकप्रमुखा अपि ।
बुद्ध्यन्ते नियतादर्थात् अर्थान्तरमसंशयम् ॥ २०९ ॥

अनुमानापलापे तु प्रत्यक्षादपि दुर्लभा ।
लोकयात्रेति लोकाः स्युः लिखिता इव निश्चलाः ॥ २१० ॥

प्रत्यक्षदृष्टमपि पदार्थजातं तज्जातीयत्वलिङ्गव्यापारेण सुखसाधनं इतरकारणमिति वा निश्चित्य तदुपाददते, जहति वा लौकिकाः ॥ अनुमानलक्षणाक्षेपसमाधानम्
अथाविचारितरमणीयतैव तत्त्वं, न तु लक्षणनियमः शक्यक्रियस्तस्येति लक्षणाक्षेपोऽयमुच्यते—सोऽप्ययुक्तः । यतः—

यं कञ्चिदर्थमालोक्य यः कश्चिन्नावगम्यते ।
कञ्चिदेवाक्षिपत्यर्थमर्थः कश्चिदिति स्थितिः ॥ २११ ॥

तत्र वस्तुस्वभावोऽयमिति पादप्रसारिका ।
दृश्यते ह्यविनाभूतादर्थादर्थान्तरे मतिः ॥ २१२ ॥

अतो यद्दर्शनाद्यत्र प्रतीतिरुपजायते ।
तयोरस्त्यर्थयोः कश्चित् सम्बन्ध इति मन्महे ॥ २१३ ॥

तदात्मतातदुत्पत्ती न श्रद्दधति तद्विदः ।
साहचर्यं तु सम्बन्ध इति नो हृदयङ्गमम् ॥ २१४ ॥

हालिकः—हलं बहतीत्यर्थे ठक् । कृषीबलः—पामर इति यावत् । अनुमानमन्तरा केवलात् प्रत्यक्षात् लोकयात्राऽनिर्वाहमेवोपपादयति—प्रत्यक्षेति । इतरकारणं—दुःखसाधनम् । न हि पुरतोवर्त्यन्नस्य तृप्तिसाधनत्वं तदानीं प्रत्यक्षमिति शेषः ॥

अस्त्यनुमानं लोके, परन्तु तत्स्वरूपहेत्वादिकं त्वनिर्वचनीयमिति विकल्पं द्वितीयं प्रतिवक्ति—अथेति । यं कञ्चिदिति । न हि घटं दृष्ट्वा पटं प्रत्येति मनुजः, धूमं दृष्ट्वा तु वह्निं सर्वोऽपि प्रत्येत्येव । अतोऽस्त्यनयोर्विशेषः । स एवाविनाभाव इति व्याप्तिरिति चोच्यत इति भावः । तद्विदः—तयोस्सम्बन्ध
तस्मिन् सत्येव भवनं न विना भवनं ततः ।
अयमेवाविनाभावो नियमः सहचारिता ॥ २१५ ॥

किङ्कृतो नियमोऽस्यास्मिन्निति चेदेवमुत्तरम् ।
तदात्मतादिपक्षेऽपि नैष प्रश्नो निवर्तते ॥ २१६ ॥

ज्वलनाज्जायते धूमः न जलादिति का गतिः ?
एवमेवैतदिति चेत्, साहचर्येऽपि तत्समम् ॥ २१७ ॥

तर्कस्य यावान् विषयः स तावति निरूप्यते ।
वस्तुस्वभावभेदे तु न तस्य प्रभविष्णुता ॥ २१८ ॥

अयं च विषयो युक्तेः, यदुक्तं नियमाद्विना ।
नार्थादर्थान्तरे ज्ञानं अतस्तस्य प्रकल्पनम् ॥ २१९ ॥

ततः परं तु नियमोऽप्येष किङ्कृतः ? इति न युक्तिः प्रभवति । तादात्म्यतदुत्पत्त्योरनुपपन्नत्वात् । अतो नियम एव विरम्यते ॥

न च प्रतिभामात्रमानुमानिकी प्रमितिरिति वक्तुं युक्तम्; विदः । साहचर्यमेव विशिनष्टि—तस्मिन्निति । ततो विना—इत्यन्वयः । एष प्रश्नः—किङ्कृतस्तयोरेव तादात्म्यं तदुत्पत्तिश्चेति प्रश्नः । प्रतिपक्षी उत्तरं वदति—एवमिति । तथानुभवादिति भावः । तुल्योऽयं समाधिरस्माकमपीत्याह—साहचर्येऽपीति । ननु अनुमानप्रामाण्यं तर्कविरुद्धं, तर्काश्च पूर्वमुपपादिताः; इत्यत्राह—तर्कस्येति । स्वभावभेदः—स्वभावविशेषः । तर्कोऽपि सर्वत्र नैकरूपः प्रवर्तेत, न हि “यदि वह्निर्द्रव्यं तर्हि पृथिव्यादिवन्न दहेत्” इति तर्कः प्रवर्तितुमलम् । धर्मिग्राहकप्रमाणात् तत्तदसाधारणधर्मविशिष्टधर्मिसिद्धिं तर्को न निवारयेत् । नियममन्तरा एकज्ञानात् अन्यस्य ज्ञानं न भवतीति यदुक्तं, अयमेव युक्तेः—तर्कस्य विषयः । विधेयप्राधान्यात् पुल्लिङ्गत्वम् । तथा च न तर्कस्य निरबकाशत्वमित्यर्थः ॥

ततः परं—एवमनुभवान्नियमसिद्ध्यनन्तरम् ॥

ननु भोजनोत्कण्ठादेः भविष्यद्भ्रात्रागमनज्ञानं पूर्वमुक्तम्, न हि तत्र नियतसाहचर्यं शपथमन्तरेण शक्यम्, एवमेवानुमानमप्यनिर्वचनीयहेतुकमेव कुतो न स्यादित्यत्राह—न चेति । प्रतिभास्थलेऽथसत्यत्वनिर्बन्धो नास्ति
नियतात् कुतश्चिदेव वस्तुनि प्रतीतिदर्शनादित्युक्तत्वात् । नियमश्च यद्यगृहीत एव प्रतीत्यङ्गं भवेत्, नारिकेलद्वीपवासिभिरपि धूमदर्शनात् कृशानुरनुमीयेत । न चैवमस्तीति नियमग्रहणमपेक्षणीयम् ॥ मानसं व्याप्त्यवधारणम् यच्च विकल्पितं अशक्यं तद्ग्रहणमिति—तत्र केचिदाचक्षते— मानसं प्रत्यक्षं प्रतिबन्धग्राहीति । प्रत्यक्षानुपलम्भाभ्यां अनलसहचरितमनग्नेश्च व्यावर्तमानं धूममुपलभ्य विभावसौ नियतो धूम इति मनसा प्रतिपद्यते ॥

मनश्च सर्वविषयं केन वा नाभ्युपेयते ।
असन्निहितमप्यर्थमवधारयितुं क्षमम् ॥ २२० ॥

सामान्यद्वारा व्याप्तिः न च सकलत्रिभुवनविवरनिरुद्धधूमाग्निव्यक्तिसार्थसाक्षात्करणमुपयुज्यते, ज्वलनत्वादिसामान्यपुरस्सरतया व्याप्तिग्रहणात् ॥

यत्तूक्तं—सामान्यं वास्तवं नास्तीति—तत् शब्दार्थचिन्ताप्रसङ्गे प्रतिसमाधास्यते [४ आह्निके] ॥ अत्र त्वस्तीति प्रतिभातोऽनुमानमत्यन्तविलक्षणमित्यर्थः । नारिकेलद्वीपवासिभिः—कदाप्यदृष्टवह्निधूमस्वरूपैः ॥

प्रत्यक्षानुपलम्भाभ्यां—वह्निमत्येव दर्शनेन वह्न्यभाववत्वदर्शनेन च । उत्तरत्र यथासङ्ख्यमिदमन्वेति । अनलसहचरितं—इत्यस्य धूमं इत्यनेनान्वयः । विभावसौ नियतः—वह्निनिरूपितनियमवान् । ननु मनसः बहिर्विषयेऽस्वातन्त्र्यात् कथं प्रतिबन्धग्रहणं मानसमित्यत्राह—मनश्चेति । वह्निधूमयोः बाह्यत्वेऽपि तयोर्नियसज्ञानं आन्तरमेवेति भावः ॥

निरुद्धेति । अन्तर्गतेत्यर्थः ॥ यौक्तिकप्रत्यक्षात् व्याप्तयवधारणरूपपक्षः
अपरे पुनः योगिप्रत्यक्षकल्पं यौक्तिकं सम्बन्धग्राहि प्रत्यक्षं प्रतिपेदिरे किल । धूमत्वाग्नित्वसामान्यपुरस्कारेण व्याप्यव्यापकयोरन्वयो नाम गृह्यताम्, व्यतिरेकस्त्वनग्निभ्यः धूमस्य ग्रहीतव्यः । अनग्नयश्चातिवितताः । न च तेष्वनग्नित्वं नाम सामान्यमस्ति । तेन समस्तत्रैलोक्यान्तर्गताग्न्यनग्निगतान्वयव्यतिरेकग्राहिप्रत्यक्षव्यतिरेकेण न प्रतिबन्धोऽवधृतो भवेत् । अनवधृतश्च न प्रमाङ्गम् । अस्ति च प्रमेति युक्तिबलात् प्रतिबन्धग्राहकमेकस्मिन् क्षणे प्रत्यक्षमिदमशेषव्यक्तिविषयमसंवेद्यमानमपि कल्पितमिति यौक्तिकमुच्यते ॥ व्यतिरेकसहचारनिश्चयं विनापि व्याप्तिर्निर्णीयते
अन्ये पुनः अत एव तत्कल्पनाभयात् भूयोदर्शनपरिच्छिन्नसामान्यपुरस्सरान्वयमनपेक्षितव्यतिरेकनिश्चयमेव लिङ्गं गमकमभ्युपागमन् । यथोक्तम्— [श्लोक। वा। १-१-५, अनु। १३४-१३७]

“मम त्वदृष्टिमात्रेण गमकाः सहचारिणः” इति ॥

योगीति । योगिनो हि सर्वं साक्षात्कुर्वन्तीति श्रूयते । इन्द्रियासन्निकृष्टस्य कथं प्रत्यक्षत्वमिति शङ्कायां, कार्यानुरोधेन कारणस्य कल्पनीयतया योगप्रभावजनितमदृष्टविशेषं कारणमामनन्ति । एवमेवात्रापि “यत्र धूमस्तत्राग्निः” इति व्याप्तिः सर्वानुभवसिद्धा । अन्वयग्रहणं यद्यपि सामान्यद्वारा भवेत् । अनग्निष्वनुगतसामान्याभावात् व्यतिरेकग्रहणं तु न तथा भवेत् । दृश्यते त्वनुमितिः । व्याप्तिग्रहणस्यानुमितिमूलकत्वे त्वनवस्था । अतः गत्यन्तराभावात् फलबलेन युक्तिमूलकमेव व्याप्तिप्रत्यक्षं प्रथमतः कल्पनीयम् । न चैकस्मिन्नेव क्षणे युक्तिवशाद्वा सर्वव्यक्तिप्रत्यक्षं नानुभवसिद्धमिति शङ्क्यम् । ज्ञानस्यातिसूक्ष्मत्वेन दुर्विज्ञेयत्वादज्ञाततौल्यं भवेत् । ज्ञानद्वयादनुमितिस्थले यथा वा विशिष्टं ज्ञानं फलबलेन कल्प्यते तथात्राप्युपपद्यते । अतो यौक्तिकप्रत्यक्षगम्यः प्रतिबन्ध इति ॥

अत एवेत्यस्यैव प्रपञ्चः—तत्कल्पनाभयादिति । भूयोदर्शनपरिच्छिन्नः सामान्यपुरस्सरः अन्वयः यस्येति बहुब्रीहिः । अदृष्टिमात्रेण—
अयमाशयः—

भूयोदर्शनतस्तावत् उदेति मतिरीदृशी ।
नियतोऽयमनेनेति सकलप्राणिसाक्षिका ॥ २२१ ॥

तावता च गमकत्वमौत्सर्गिकं सिद्ध्यति । मीमांसकानां तु विपक्षे दर्शनं बाधकः प्रत्ययः । न च सोऽस्ति, नाद्य यावदनग्नौ धूमो दृष्टः । अनुत्पन्नेऽपि बाधके तदाशङ्कनमयुक्तमित्युक्तं तैः—

“दोषज्ञाने त्वनुत्पन्ने न शङ्क्या निष्प्रमाणता” इति ॥
[श्लो। वा। १-२-६०]

व्यतिरेकनिश्चयः आवश्यकः एतत्तु न चारु । व्यतिरेकनिश्चयमन्तरेण प्रतिबन्धग्रहणानुपपत्तेरित्युक्तत्वात् । ज्ञापकत्वाद्धि नियमः स्वग्रहणमपेक्षते । नियमश्चायमुच्यते—यत् तस्मिन् सति भवनं, ततो विना न भवनमिति । भूयोदर्शनतश्च तस्मिन् सति भवनमित्यन्वयमात्रपरिच्छेदादर्धगृहीतो नियमः स्यात्, ततो विना न भवनमित्यस्यार्थस्यापरिच्छेदादिति ॥ यत्र कुत्रचिद्वह्निधूमयोरदर्शनत एव, न तु अवह्निषु सर्वत्र तन्निर्णयः अपेक्षित इत्यर्थः । सहचारिणः—निर्णीतसाहचर्यमात्रबन्तः ॥

ननु व्यतिरेकानिश्चये कथं नियतसाहचर्यं गृह्येत । न हि साहचर्यमात्रं व्याप्तिः; व्यभिचारात् । अतः अन्वयग्रहणमात्रान्न प्रतिबन्धाबधारणमित्यत्राह—अयमाशय इति । औत्सर्गिकमिति । एतदुक्तं भवति । अनग्नीनां सर्वेषां दुर्ज्ञेयत्वेऽपि कुत्रचिद्ध्रदादौ व्यभिचारादर्शनात् तादन्मात्रव्यतिरेकग्रहसहकृतादन्वयग्रहादेव व्याप्तिः यावद्बाधं निर्णेष्यत एव । बाधस्य कुत्राप्यदर्शनात् गृहीता व्याप्तिस्तावत्पर्यन्तं तथैवावतिष्ठत इति । अयमेवार्थः विव्रियते—अनन्तरवाक्यैः ॥

उक्तमेवोपपादयति—ज्ञापकत्वादिति । ज्ञापकत्वं—एकसम्बधिज्ञानविधया इतरज्ञानजनकानां अयं स्वभावः—स्वयं ज्ञातानामेव ज्ञापकत्वमिति इत्यर्थः ॥ व्यतिरेकोऽपि गृहीतुं शक्यत एव
अपरे पुनः अनग्नित्वसामान्यमन्तरेणापि योगिप्रत्यक्षकल्पनामकुर्वन्त एव मानसप्रत्यक्षगम्यमन्वयव्यतिरेकमाहुः । धूमाग्निसामान्ये तावत्सहचरिते उपलब्धे, तद्वत्तदभावावपि सहचरितावुपलभ्येते एव । धूमत्वसामान्यस्यानग्नौ जलादावदर्शनात् । सर्वगतत्वेऽपि सामान्यानां वृत्तिभेदो नियामक इति वक्ष्यते ॥

यद्यपि चानग्नित्वाद्यभावसामान्यं नास्ति; तथाऽपि प्रतिषेध्याग्नित्वसामान्यानुगमसिद्ध्यैव तदभावानुगमग्रहणं सिद्ध्यति ॥ स्वपक्षेण व्याप्तिग्रहसमर्थनम्
सकलव्यक्तिविज्ञानमनङ्गं व्याप्तिनिश्चये ।
भावसामान्ययोर्यद्वत् तथैव तदभावयोः ॥ २२२ ॥

पूर्वोक्त [३२० पु।] पक्षात् वैलक्षण्यसूचनाय—योगिप्रत्यक्षेत्यादि । धूमाग्निसामान्ये—धूमाग्न्योः सामान्ये । तद्वत्—धूमत्ववह्नित्वद्वारैव । वह्न्यभावो नाम वह्नित्वावच्छिन्नप्रतियोगिकाभावः, एवं धूमाभावः—धूमत्वावच्छिन्नप्रतियोगिकः । एवञ्च भावयोरिवाभावयोरपि धूमत्वादिकमेवानुगमकं भवितुमर्हति । अनग्नौ जलादौ धूमत्वावच्छिन्नत्यादर्शने स व्यतिरेकः अन्वयवदेव वह्न्यभावधूमाभावादिकं सामान्यद्वारा क्रोडीकुर्यादेवेति । ननु धूमत्वादिकं सर्वगतमिति भवता सिद्धान्तः । अतश्च जलादौ कथं तदभावः, तदवच्छिन्नाभावो वा ? इत्यत्राह—सर्वगतत्वेऽपीति । जातेः सर्वगतत्वेऽपि समवायेन सा यत्र वर्तते तत्रैव स्वाभावप्रतीतिं निरुणद्धि, न तु स्वरूपतो यत्र वर्तते तत्र । समवायेन जातिः व्यक्तिष्वेव वर्तते । अतस्तत्र तत्प्रतीतिः, व्यक्तेर्जातिव्यञ्जकत्वात् । अन्यत्र तु व्यञ्जिकाया व्यक्तेरभावेन तदभावप्रतीतिरित्यादिकं तत्प्रकरणे वक्ष्यत [४ आह्निके] इत्यर्थः ॥

तद्वदित्याद्यनुपदोक्तं स्फुटयति—यद्यपीत्यादिना ॥

भावयोरिति वक्तव्ये, व्याप्तेस्सामान्यप्रधानकत्वेन भावसामान्ययोरित्युक्तम् । यथा अन्वयग्रहणकाले व्यक्तीनां प्रातिस्विकभानं नोपयुक्तं तथा
भावयोः साहचर्यं यत् अन्वयं तत् प्रचक्षते ।
व्यतिरेकं तु मन्यन्ते साहित्यं तदभावयोः ॥ २२३ ॥

साध्यसाधनभावस्तु भवेद्यत्राप्यभावयोः ।
तयोरेवान्वयस्तत्र व्यतिरेकस्तु भावयोः ॥ २२४ ॥

तदेवमभावान्वयवद्भावव्यतिरेकोऽपि प्रत्यक्षगम्यो भवत्येव ॥

इयानेव विशेषस्तु भावयोर्यादृशी ययोः ।
व्याप्यव्यापकता सैव व्यत्यस्ता तदभावयोः ॥ २२५ ॥

अभावयोस्तु गम्यगमकभावे भावयोर्व्याप्तिव्यत्ययो द्रष्टव्यः । एवञ्च प्रतिषेध्यानुगमपूर्वकसामान्याभावद्वयानुगमप्रत्ययोपपत्तेः अन्वयव्यतिरेकनिश्चयेऽपि न योगिप्रत्यक्षमुपयुज्यते; भावाभावसाहचर्यमवधार्य मनसा नियमज्ञानसिद्धेरित्यलं निर्वन्धेन ॥

तस्मात् नियमवत् तद्ग्रहणोपायोऽप्यस्तीति सिद्धम् ॥ व्यतिरेकग्रहणकालेऽपि तदनुपयुक्तमित्यर्थः । ननु “भावयोस्साहचर्यमन्वयः, अभावयोस्साहचर्यं व्यतिरेकः” इति न युक्तं; अभावसाध्यकस्थले वैपरीत्यव्यवहारादिति शङ्कायां आह—साध्येति । तथा च भावपदं साध्यहेतुपरं, अभावपदं च तदभावपरमिति भावः । धूमाभाववान् वह्न्यभावात् इत्यादौ यत्र वह्न्यभावः तत्र धूमाभावः इत्यन्वयः, यत्र धूमः तत्र वह्निरिति व्यतिरेकः; धूमाभावाभावादेः धूमादिरूपत्वात् । अभावान्वयवद्भावव्यतिरेकोऽपि इत्येतत् अभावसाध्यहेतुकस्थलाभिप्रायेणोक्तम् ॥

ययोर्भावयोः इत्यन्वयः । व्यत्यस्तेति । अन्वयस्थले हेतुः व्याप्यः, साध्यः व्यापकः । व्यतिरेकव्याप्तौ साध्याभावः व्याप्यः, हेत्वभावः व्यापकः, व्यापकाभावात् खलु व्याप्याभाव इत्यर्थः । एतदेवोपपाद्यतेऽनन्तरवाक्येन । प्रतिषेध्येति । प्रतियोगिनोः वह्निधूमयोः अनुगमात् तत्प्रतियोगिकयोरभावयोरप्यनुगतत्वसिद्ध्या अन्वयव्यतिरेकनिश्चयः सुलभ एव । परं तु व्यतिरेकसाहचर्यस्य प्रकृते आरोपात्मकत्वस्वारस्यात् तदंशे मानसमेव ज्ञानं विवक्षितम् ॥ पक्षधर्मताज्ञानस्यावश्यकत्वम्
गृहीते नियमे यावत्पुनः क्वचिद्धर्मिणि धूमादेर्लिङ्गस्य ग्रहणं न वृत्तं, तावन्न भवति लिङ्गिनोऽवगतिरिति सम्बन्धग्रहणकालापेक्षया द्वितीयं तल्लिङ्गदर्शनमपेक्षितव्यम् । सैवेयं पक्षधर्मतोच्यते । पक्षधर्मान्वयव्यतिरेकनिश्चये सत्यपि प्रत्यक्षागमविरोधेन प्रतिपक्षोपनिपातेन वा न गमकत्वमिति तदपरं लक्षणद्वयमुपदिष्टं— अबाधितविषयत्वं असत्प्रतिपक्षत्वं चेति । तदेवमनुभवसिद्धत्वात् अनुमानस्वरूपमिव तस्य लक्षणमपि तान्त्रिककथितमप्रत्याख्येयम् ॥

अपि च यदि तान्त्रिकविरचितमवाचकं लक्षणं तत् स्वयमनवद्यमावेद्यताम् । न तु तद्द्वेषेण लक्ष्यमप्यनुमानं निह्नोतुं युक्तम् ॥ पक्षपदस्य गौणत्वेऽपि प्रमाणस्य न गौणत्वम्
यत्पुनरभाणि [३१२ पु।] प्रमाणस्यागौणत्वादनुमानादर्थनिश्चयो दुर्लभ इति—तन्न बुद्ध्यामहे—न हि प्रमाणस्य किञ्चिद्गौणत्वमिह पश्यामः । पक्षधर्मादिपदानि यदि नाम व्याख्यातृभिः गौणानि प्रयुक्तानि किमेतावता प्रमाणं गौणीभवेत् !

शब्दान्तरेण हि तल्लक्षणाभिधाने न कश्चिद्गौणतादिप्रमादः ॥

क्वचिद्धर्मिणि—पर्वतादौ । द्वितीयं—प्रथमं केवलधूमदर्शनं, ततः व्याप्तिस्मृतिः, ततः व्याप्यस्य हेतोः प्रकृतपक्षवृत्तित्वानुसन्धानं वह्निव्याप्यधूमवांश्चायं इत्येवंरूपं द्वितीयम् । न गमकत्वं—नानुमापकत्वं, लिङ्गस्येति शेषः । तान्त्रिकः—तन्त्रं शास्त्रं सिद्धान्तं वा वेत्तीति । “तान्त्रिको ज्ञातसिद्धान्तः” इत्यमरः ॥

सिद्धान्तोक्तलक्षणस्य दुष्टत्वमभ्युपेत्याह—अपि चेति । अवाचकं— विवक्षितार्थबोधनाय नालम् । पूर्वमुक्त [३१६ पुटे] विकल्पः अत्र स्मर्तव्यः ॥

तन्न बुध्यामह इति । गौणत्वं मुख्यत्वं वा शब्दगतावतिशयौ, न त्वर्थनिष्टौ तौ । अतः अर्थस्य गौणत्वं नाम को दोष इति न जानीम इत्यर्थः ॥

ननु “गौणार्थः, मुख्यार्थः” इत्यादिव्यवहारात् शब्दवत् अर्थेऽपि गौणत्वमस्त्येवेत्यत्राह—शब्दान्तरेणेति । गौणवृत्त्या बोधितः अर्थः गौणः, अनुमानप्रामाण्यदूषणप्रतिवचनम् यदप्यवादि [पु। ३१३] —“विशेषेऽनुगमाभावात् सामान्ये सिद्धसाधनात्” इति—तदप्यसाधु—साध्यस्य मत्त्वर्थस्य दर्शितत्वात् ॥

यदपि “अवस्थादेशकालादिभेदात्” इत्यभ्यधायि [३१४-पु।] तदपि न भयावहम्—सम्यगवधृतायां व्याप्तौ विप्लवाभावात् । प्रमातुरेव तत्र तत्रापराधः, नानुमानस्येति ॥

यदपि व्याहारि [३१६ पु।] —विरुद्धानुमानविरोधयोः सर्वत्र सम्भवात् कुत्रचिच्च विरुद्धाव्यभिचारिण इष्टविघातकृतश्च सुलभत्वादिति—तदप्यालजालम्—प्रयोजकहेतौ प्रयुक्ते सत्येवम्प्रायाणामनवकाशत्वात् ॥

सद्वितीयप्रयोगास्तु न भवन्ति प्रयोजकाः ।
उत्प्रेक्षामात्रमूलत्वाद्धेत्वाभासा भवन्ति ते—इति वक्ष्यामः ॥

मुख्यवृत्त्या बोधितः मुख्यार्थ इति शास्त्रकारैः उपचारात् सङ्केताद्वा उच्यते, न तु गौणत्वादिरर्थधर्मः । “गङ्गायां घोषः” इत्युक्ते गौण्या योऽर्थः गङ्गातीरादिर्बोध्यते स एवार्थः “गङ्गातीरे घोषः” इत्यत्र मुख्यो भवति । अतः गौणत्वमुख्यत्वे नार्थधर्मौ, किन्तु शब्दधर्मावेव । एवं प्रकृतेऽपि पक्षपदस्थाने साध्यविशिष्टधर्मिपदप्रयोगे प्रमाणमगौणं भवति । अतः किमिदं दूषणम् !

साध्यस्येति । यद्यपि धूमसामान्याद्वह्निसामान्यं यत्र कुत्रचित्सिद्धम्, अथापि प्रकृतपक्षे वह्निसम्बन्धः असिद्ध इति तत्साधनमवशिष्यत एवेति । अयमेव सम्बन्धः “वह्निमान्” इत्यत्र मतुबा बोध्यते ॥

विरुद्धेति । यद्यप्ययं पूर्वं नोक्तः, अथापि सोऽपि तत्र अर्थसिद्ध इति भावः । आलजालं—अतिवाग्जालमिति यावत् । प्रयोजकहेतौ— अप्रयोजकशङ्कायां तद्वारकसत्तर्कविशिष्टसाधकहेतावित्यर्थः । सद्वितीयप्रयोगाः समानद्वितीयहेतुप्रयोगमात्रम् । अप्रयोजकत्वे हेतुः—उत्प्रेक्षेति । न हि द्वितीयहेतुप्रयोगमात्रेण हेतोस्सप्रतिपक्षत्वं, सद्धेतावपि तादृशहेत्वाभासप्रयोगसम्भवात् । किन्तु तुल्यबलत्व एव । उत्प्रेक्षामात्रमूलत्वात् प्रतिहेतोः अप्रयोजकशङ्कावारकतर्कासम्भवेन न ते प्रयोजकहेतवः ॥ विरुद्धाव्यभिचारी न सर्वत्र सुलभः
न विशेषविरुद्धश्च न चास्तीष्टविघातकृत् ।
हेतौ सुप्रतिबद्धे हि नैताः सन्ति विडम्बनाः ॥ २२७ ॥

तादृशा चानुमानेन पुंसोऽर्थमधिगच्छतः ।
नान्धेन तुल्यता हस्तस्पर्शानुमितवर्त्मना ॥ २२८ ॥

यत्नेनानुमितो योऽर्थः कुशलैरनुमातृभिः ।
अभियोगशतेनापि सोऽन्यथा नोपपाद्यते ॥ २२९ ॥

मतान्तरेणानुमानद्वैविध्यवर्णनम्
सुशिक्षिततराः प्राहुः—द्विविधमनुमानम्; किञ्चिदुत्पन्नप्रतीति, किञ्चिदुत्पाद्यप्रतीति । ईश्वराद्यनुमानं तूत्पाद्यप्रतीति ॥

तत्र धूमानुमानादेः प्रामाण्यं केन नेष्यते ?
अतो हि साध्यं बुद्ध्यन्ते तार्किकैरक्षता अपि ॥ २३० ॥

यत्त्वात्मेश्वरसर्वज्ञपरलोकादिगोचरम् ।
अनुमानं न तस्येष्टं प्रामाण्यं तत्त्वदर्शिभिः ॥ २३१ ॥

हेतौ समीचानव्याप्तिविशिष्टे सति एता विडम्बना न सन्ति—न सम्भवन्ति । अतश्च “हस्तस्पर्शादिनान्धेन” [३१६ पु।] इत्युक्तिर्न युक्तिमती । अतश्च “यत्नेनानुमितः” [३१६ पु।] इत्यादिश्लोकोऽपि किञ्चिद्व्यत्यस्य पठनीय इत्याह— यत्नेनेति । अभियोगः—कलहाह्वानम् ॥

द्विविधमित्यादि । अयमर्थः—कानिचिदनुमानानि स्वतस्सर्वेषामनुभवसिद्धानि—यथा धूमाद्वह्न्यनुमानम् । कानिचित्तु अन्येनोपदिष्टे एवमिदं स्यादिति प्रवृत्त्या भवन्ति—यथेश्वराद्यनुमानानि । न हीश्वरानुमानं आबालगोपालसिद्धम्; अत इदं उत्पाद्यप्रतीतिकम् । आद्यं तु उत्पन्नप्रतीतिकं प्रमाणमेव । द्वितीयं तु न प्रमाणम् । एतदेवानन्तरश्लोकैरुपपाद्यते । केन—पुरुषेण, हेतुना वा । अतः—धूमादेः । अस्यानुमानस्योत्पन्नप्रतीतिकत्वमुपपादयति—तार्किकैरिति । अक्षताः—अपीडिताः । “पतिं विश्वस्यात्मेश्वरं”, “यः सर्वज्ञः” इति श्रुतिं स्मरन्नाह—आत्मेश्वरेत्यादि । यत्तु ईश्वरपरलोकादिगोचरं अनुमानं, तस्य प्रामाण्यं तत्त्वदर्शिभिर्नेष्टम् । यतस्तद्विषये दुष्टतार्किककुशिक्षणमन्तरा ऋजुमतीनां अनुमितिर्न जायते ॥

ऋजूनां जायते तस्मात् न तावदनुमेयधीः ।
यावत्कुटिलितं चेतो न तेषां विटतार्किकैः ॥ २३२ ॥

उक्तपक्षनिराकरणम्
एवं तु कथयद्भिस्तैः परं नास्तिक्यमात्मनः ।
ख्याप्यते स्म, जडत्वं वा, नानुमानाप्रमाणता ॥ २३३ ॥

न हि सम्बन्धग्रहणोपायवैचित्र्यादप्रमाणता भवितुमर्हति ॥

आगमेनानुमानेन तर्कव्युत्पादनेन वा ।
प्रत्यक्षेण गृहीतो वा सम्बन्धो न विशिष्यते ॥ २३४ ॥

ईश्वराद्यनुमानानां तत्प्रसङ्गे सविस्तरम् ।
द्रढिमानं च वक्ष्यामः, इत्यलं बहुभाषितैः ॥ २३५ ॥

प्रमाणमुपगम्यतां तदनुमानमेवंविधैः
अविप्लुतपराक्रमं भवदुदीरितैर्दूषणैः ।
अनभ्युपगमे पुनर्विगतचेष्टिताः प्राणिनः
भवेयुरुपलोपमा इति हि पूर्वमावेदितम् ॥ २३६ ॥

अनुमानलक्षणपरसूत्रव्याख्यानम्
अथेदानीं सूत्रमनुसरामः । तत्पूर्वकमित्यादि । अनुमानमिति लक्ष्यनिर्देशः । तत्पूर्वकमिति लक्षणम् । तदिति सर्वनाम्ना प्रक्रान्तं प्रत्यक्षमवमृश्यते । तत् पूर्वं—कारणं यस्य तत् तत्पूर्वकम् ॥

नास्तिक्यं ईश्वरपरलोकानुमाननिराकरणात् । तेषामनुमानैकगम्यत्वं स्वावसरे निरूप्यते । उपायवैचित्र्यं—एकत्र स्वयङ्ग्रहात्, अन्यत्र तार्किकोपदेशाच्च । उपायवैचित्र्यमेबाह—आगमेनेत्यादि । आगमः—“वह्निव्याप्यो धूमः” इत्याप्तवाक्यरूपः, न्यायावयवरूपो वा । अनुमानं—धूमः वह्निव्याप्यः यावद्वह्नयधिकरणवृत्तित्वादित्यादिः । तर्कः—यदि धूमः वह्निव्याप्यो न स्यात् तर्हि वह्न्यभाववद्वृत्तिः स्यात् इत्यादिरूपः । एवंविधैर्दूषणैः इत्यन्वयः । पूर्वं—३१७ पुटे ॥

एतावत्युच्यमाने निर्णयोपमानादौ तत्पूर्वके प्रसङ्गो न व्यावर्तत इति तद्व्यावृत्तये द्विवचनान्तेन विग्रहः प्रदर्शयितव्यः, ते-द्वे प्रत्यक्षे पूर्वं यस्येति । यदेकं अविनाभाविप्रत्यक्षं व्याख्यातं, यच्च द्वितीयं लिङ्गदर्शनं, ते द्वे प्रत्यक्षे अनुमानस्यैव कारणम्, नोपमानादेः । तत्र प्रतिबन्धग्राहि प्रत्यक्षं स्मरणद्वारेण तत्कारणम्, लिङ्गदर्शनं तु स्वत एव ॥

ननु ! प्रत्यक्षमात्रस्य प्रकृतत्वात् प्रकृतावमर्शित्वाच्च सर्वनाम्नः कुतोऽयं विशेषप्रतिलाभः ? उच्यते—उदाहरणसाधर्म्यात् साध्यसाधनं हेतुरिति वक्ष्यते । हेतुरेव चानुमानं—यदिह लक्ष्यं निर्दिष्टम् । न चागृहीतमुदाहरणसाधर्म्यं तद्वैधर्म्यं वा साध्यसाधनं भवतीति तद्ग्रहणोपायोऽपेक्षितव्यः । प्रत्यक्षव्यतिरिक्ततदवगमोपायपरिकल्पने चानवस्थादूषणमसकृदभिहितमिति प्रत्यक्षस्यैव तदुपायत्वम् । अतोऽनुमानकारणभूतप्रत्यक्षापेक्षया प्रत्यक्षमात्रप्रक्रमेऽपि सर्वनाम्ना तद्विशेष आक्षिप्यते—यत् प्रतिबन्धग्राहि प्रत्यक्षम्, यच्च द्वितीयं लिङ्गदर्शनमिति ॥ नेदं लक्षणमतिव्याप्तम्
ननु ! प्रत्यक्षविशेषद्वयपूर्वकत्वमनुमानाभासेष्वपि सव्यभिचारविरुद्धादिषु सम्भवतीत्यतिव्याप्तिः—मैवम्—हेतुलक्षणे [न] साध्यसाधनग्रहणेन तत्प्रतिक्षेपात् । प्रतिबन्धस्वरूपं हि तत्रैव

निर्णयोपमानेति । दूरात् किञ्चित्पश्यन् सामान्यतस्तदवगत्य समीपं गतस्तन्निर्धारयति । तदेतन्निर्धारणं प्रत्यक्षपूर्वकमेव । एवमुपमानमपि सादृश्यदर्शनमूलकमेव । प्रसङ्गः—लक्षणस्येति शेषः, अतिप्रसङ्ग इति यावत् । ते इति । वार्तिकेऽप्येवमेव विगृहीतम् ॥

विशेषः—वैलक्षण्यं एतादृशविलक्षणप्रत्यक्षद्वयपूर्वकत्वरूपम् । हेतुरेवेति—परामृश्यमानं लिङ्गं हि करणम् । तदवगमः—साधर्म्यवैधर्म्यावगमः । अतः—प्रकृतत्वात् बुद्धिस्थत्वाच्च ॥

हेतुलक्षण इति । “उदाहरणसाधर्स्यात्साध्यसाधनं हेतुः” इतिसूत्रोक्त इत्यर्थः । हेत्वाभासानां साध्यसाधकत्वं नास्त्येवेति भावः । तत्र— हेतुसूत्रव्याख्यानावसरे । वस्तुतस्त्वतिव्याप्तिकथनस्यावकाश एव नास्तीत्याह—
निपुणमभिधास्यते; इह तु तद्ग्रहणोपायमात्रमुच्यते । सम्यक्प्रवृत्ते च प्रतिबन्धग्राहिणि प्रत्यक्षे व्याप्तिविप्लवाभावान्नानुमानाभासप्रसङ्गः । सामान्यलक्षणानुवादेन च विशेषलक्षणे वर्ण्यमाने तत एव प्रमाणाभासव्युदाससिद्धेः केवलमिदानीं समानजातीयोपमानादिव्यवच्छेदो व्रचनीय इति स एव तत्पूर्वकपदेनोपात्तः । “अर्थोत्पन्नमव्यभिचारि व्यवसायात्मकम्” इति फलविशेषणानां सर्वप्रमाणेष्वनुवृत्तेः ॥

युगपच्च क्वचिन्नास्ति व्यापारः शब्दलिङ्गयोः ।
अतो नाव्यपदेश्यत्वविशेषणमिहार्थवत् ॥ २३७ ॥

द्वयोरपि च शब्दलिङ्गयोः ज्ञापकत्वेन स्वरूपग्रहणापेक्षत्वात्, ज्ञानायौगपद्येन च युगपद्ग्रहणासम्भवात् ॥ नाप्यव्याप्तमिदं लक्षणम् ननु ! एवं निरस्यतामतिव्याप्तिः; अव्याप्तिस्तु कथं निरसिष्यते ? आगमादिपूर्वकाणां अनुमानानामसङ्ग्रहात् ॥ सामान्येति । तत एव—सामान्यलक्षणानाक्रान्तत्वादेव । व्यवच्छेदः केवलमित्यन्वयः ॥

ननु “अव्यपदेश्यं” इत्यस्य कुतोऽत्र नानुवृत्तिरित्यत्राह—युगपदिति । उक्तमेव विवृणोति—द्वयोरिति । अयमर्थः—प्रत्यक्षस्थले इन्द्रियं करणं, इन्द्रियं च न ज्ञातं सत् करणं, किन्तु स्वरूपसदेव । तथा च नामस्मरण— इन्द्रियरूपसामग्रीद्वयमेलनं तत्र सम्भवतीति “पनसोऽयं” इत्यादिशब्दविशेषणकं प्रत्यक्षं युज्यत इति तद्वारणायाव्यपदेश्यपदं प्रत्यक्षलक्षणे आवश्यकम् । अनुमितिशाब्दस्थले तु लिङ्गस्य शब्दस्य चोभयोः ज्ञातयोरेव करणत्वम् । तदा च नामस्मरणरूपं ज्ञानं न भवितुमर्हति, युगपत् ज्ञानद्वयानुत्पत्तेः इति तादृशज्ञानमेव नोत्पद्यत इति तद्विशेषणानुवृत्तिर्मास्तु ॥

आगमादीत्यादिना अनुमानपरिग्रहः । न हि तत्स्थले प्रत्यक्षद्वयपूर्वक वमनुमानेऽस्तीत्यर्थः ॥

तेष्वपि मूलभूतं प्रत्यक्षमेव कारणमिति केचिदाहुः । यथोक्तम् [श्लो। वा। १-१-५, अनु। १७०] — “ यत्राप्यनुमिताल्लिङ्गाल्लिङ्गिनि ग्रहणं भवेत् ।
तत्रापि मौलिकं लिङ्गं प्रत्यक्षादेव गम्यते इति ॥


यद्वा प्राधान्याभिप्रायेण प्रत्यक्षपूर्वकत्वमुच्यते, न नियमार्थमिति नाव्याप्तिः ॥ प्रत्यक्षानुमानागमपूर्वकाण्यप्यनुमानानि सन्ति
तानीति वा पुनः तावदवबोधाय विग्रहः कर्तव्यः । तानि— प्रत्यक्षादीनि पूर्वं यस्येति । यद्यपि प्रत्यक्षमेव लक्ष्यत्वेन प्रस्तुतम्; तथापि व्यवच्छेद्यतयाऽनुमानादीनामपि प्रकृतत्वं न वार्यते ॥ तत्पूर्वकपदार्थशोधनम्
अत्र चोदयन्ति । तदिति करणावमर्शो वा स्यात्, फलावमर्शो वा । करणावमर्शे इन्द्रियादिकरणपूर्वकं ज्ञानं तत्फलं तत्पूर्वकं चानुमानमिति पूर्वशब्दस्य द्विः पाठः स्यात् । स चाश्रुतः

मौलिकं—मूले भवं, प्राथमिकमिति यावत् ॥

ननु यथाकथञ्चित्प्रत्यक्षमूलकत्वं सर्वप्रमाणसाधारणम्; प्रत्यक्षं हि सर्वज्येष्ठम् । अतो नेदमनुमानासाधारणमित्यत आह—यद्वेति । अयमाशयः— तत्पदं यद्यपि प्रत्यक्षपरं, अथापि इतरप्रमाणानामपि तदुपलक्षकं, प्राधान्यात्तु तदुपात्तम् । नात्र तस्य लक्षणेऽपि प्रवेशः ॥

लक्षणवाक्यघटकस्य लक्षणघटनमेव वरमित्यत आह—तानीति । तावदवबोधाय—तावद्विवक्षितार्थलाभाय । यद्यपीति । तत्पदं प्रकृतपरामर्शि— तत्र लक्ष्यत्वेन प्रत्यक्षं प्रकृतं, इन्द्रियार्थसन्निकर्षपदव्यवच्छेद्यतयाऽनुमानं प्रकृतं, अव्यपदेश्यपदव्यवच्छेद्यतया शब्दोऽपि प्रकृत इति तत्पदेन तेषां ग्रहणं भवत्येवेति । तथा च तत्पदं बुध्या प्रकृतस्य परामर्शकमित्युक्तं भवति ॥

करणेत्यादि—प्रत्यक्षपदं हि करणवाचि, फलवाचि चेति पूर्वमेवोक्तं, प्रकृतत्वमप्युभयोरस्ति । अतस्तत्पदग्राह्यं किमिति भवत्येव संशयः । द्विः पाठ इति । अनुमानं हि व्याप्तिज्ञानं, तच्च इन्द्रियपूर्वकलिङ्गदर्शनपूर्वकम्, न त्विन्द्रियपूर्वकम् । एवं च इन्द्रियपूर्वकपूर्वकमिति “पूर्वक” पदस्य द्विः पाठ
कल्पनीयः । फलावमर्शे तु प्रत्यक्षफलपूर्वकमनुमानफलं भवेत्, नानुमानमिति तत्पूर्वकशब्दस्य फलवचनस्यानुमानशब्देन करणवाचिना सह सामानाधिकरण्यं न स्यात्—तत्पूर्वकमनुमानमिति । प्रत्यक्षफलेन हि लिङ्गदर्शनेन परोक्षार्थप्रतिपत्तिरुपजन्यते; सा चानुमानफलं, नानुमानमिति—उच्यते—उभयथाऽपि न दोषः । करणावमर्शे तावत् इन्द्रियादिकरणपूर्वकं तत्फलं लिङ्गदर्शनं यत् तदेव परोक्षार्थप्रतिपत्तौ करणमनुमानमिति न द्विः पूर्वकशब्दस्य पाठ उपयुज्यते । फलेऽप्यवमृश्यमाने प्रत्यक्षफललिङ्गदर्शनपूर्वकं यत् अविनाभावस्मरणं तदनुमानं करणमेव, ततः परोक्षार्थप्रतिपत्तेः ॥

यदुक्तं [३०९ पु।] —प्रत्युत्पन्नकारणजन्या स्मृतिरनुमानमिति, तत्र स्पष्टमेव सामानाधिकरण्यम् ॥ सौत्रं अनुमानपदं अनुमितिपरं वा फले वाऽनुमानशब्दं वर्णयिष्यामः—अनुमितिः अनुमानमिति ॥ आवश्यक इति । अनुमानफलं—अनुमितिः । अनुमितेः प्रत्यक्षपूर्वकत्वव्यपदेशः सर्वसम्प्रतिपन्नः । अतः अनुमानं प्रत्यक्षपूर्वकपूर्वकं इति कथने सामानाधिकरण्यमबाधितम् । प्रत्यक्षपदस्य फलपरत्वे लिङ्गदर्शनस्यैव प्रत्यक्षपदार्थत्वं वक्तव्यं—तत्पूर्विका चानुमितिरेव, नानुमानमिति “तत्पूर्वकमनुमानं” इति बाधितमिति ॥

उभयथापीति । अयमर्थः—तत्पदस्येन्द्रियपरत्वे अनुमानपदं लिङ्गदर्शनपरं, ज्ञायमानलिङ्गस्यानुमितिकरणत्वेन लिङ्गज्ञानस्याप्यनुमितिकरणत्वानपायात् । उक्तं च तथा [पु। २८२] । तत्पदस्य प्रत्यक्षज्ञानपरत्वे लिङ्गदर्शनं तत्पदार्थः, तत्पूर्वकं च व्याप्तिस्मरणं, तदेवानुमानपदवाच्यमिति न कश्चिद्दोषः ॥

स्पष्टमेवेति । स्मृतेः प्रत्यक्षज्ञानपूर्वकत्वात् ॥

व्याप्तिस्मृतेः करणत्वस्य “अन्ये तु”पक्ष एवोक्तत्वात्, स्वमते परामृश्यमानलिङ्गस्यैव करणत्वात् प्रत्यक्षपदस्य ज्ञानपरत्वे “तत्पूर्वकमनुमानं” इति सामानाधिकरण्यहानिः स्वपक्षे—इत्यत आह—फले वेति । भावार्थकप्रत्य
यतश्शब्दं वाऽध्याहरिष्यामः—प्रत्यक्षफलपूर्वकं परोक्षार्थप्रतिपत्तिरूपं फलं यतो भवति तदनुमानमिति ॥ तत्पूर्वकं इत्येतावदेव लक्षणपरम् अत्र हि प्रथमं लिङ्गदर्शनं, ततः प्रतिबन्धस्मरणं, ततः केषाञ्चिन्मते परामर्शज्ञानं, ततः साध्यार्थप्रतीतिः, ततः प्रत्यक्षलक्षणावसरवर्णितेन क्रमेण हेयादिज्ञानमितीयति प्रतीतिकलापे यथोपपत्ति कार्यकारणभावो वक्तव्य इत्येवं तत्पूर्वकपदमेव केवलं अनुमानलक्षणक्षममिति गुरवो वर्णयाञ्चक्रुः ॥ सर्वं सूत्रं लक्षणपरमिति अन्ये अन्ये पुनः उपमानाद्यतिव्याप्तिव्युदासाय त्रिविधग्रहणं व्याख्यातबन्तः । “तत्पूर्वकमनुमानम्” इत्युच्यमाने सति उपमानादौ प्रसङ्ग इति त्रिविधग्रहणम् ॥

लिङ्गं वक्ष्यमाणकार्यादिभेदाद्वा त्रिविधं, पक्षधर्मादिरूपत्रययोगाद्वा त्रिरूपं त्रिविधमुच्यते । लिङ्गे च त्रिविधे सति तदालम्बनं ज्ञानमुपचारात् त्रिविधमभिधीयते । तेन प्रत्यक्षपूर्वकं त्रिविधलिङ्गालम्बनज्ञानमनुमानमित्युक्ते सति नातिव्याप्तिः ॥ यान्तत्त्वेऽनुमानपदमेवानुमितिपरमिति सामानाधिकरण्यमुपपद्यत इति ॥

अनुमानपदस्य करणे प्रसिद्ध्यनुरोधादाह—यत इति ॥

“लिङ्गविषयं ज्ञानं, ज्ञानविषयीकृतं वा लिङ्गं प्रमाणं” [पु। २८२] इति स्वेन कथनात्—केषाञ्चित् इति । गुरवः—भाष्यकारादयः ॥

प्रसङ्गः—अतिप्रसङ्गः । तेषामपि सादृश्यदर्शनमूलकत्वादित्यर्थः ॥

कार्यादीति । कार्यानुमानं, कारणानुमानं, सामान्यतोदृष्टानुमानमित्यर्थः । पक्षधर्मेत्यादि । पक्षे सत्त्वं, सपक्षे सत्त्वं, विपक्षेऽसत्त्वमित्यर्थः । नन्वनेन लिङ्गे त्रैविध्य उक्तं, न त्वनुमाने—इति चेदाह—लिङ्गे चेति । तदालम्बनं—तद्विषयकम् । ज्ञायमानलिङ्गस्यानुमानत्वे तु नायं क्लेशः । नातिव्याप्तिः । उपमानस्य लिङ्गाविषयकत्वात् ॥ सूत्रादेव हेतोस्निविधत्वलाभः
ननु ! पूर्ववदादिभिः शब्दैः कार्यादिभेदवर्णनं ज्ञास्यामः । पक्षधर्मादिरूपत्रयं तु कथमेभिः शब्दैः प्रतिपाद्यत इति । अत्राहुः— वादादिकथात्रयेऽपि पूर्वमुपादीयमानत्वात् पक्षः पूर्वशब्देनोच्यते; सोऽस्यास्त्याश्रयत्वेनेति पूर्ववत् लिङ्गमित्येवमनेन पदेन पक्षधर्मत्वमुक्तं भवति । पक्षे उपयुक्ते सति शेषः सपक्षो भवति । सोऽस्यास्त्याश्रयत्वेनेति शेषवत् । एवमनेन सपक्षे वृत्तिरुक्ता भवति । सामान्यतोदृष्टमित्यनेन विपक्षात् व्यावृत्तं लिङ्गमुच्यते । कथम् ? अकारप्रश्लेषात् सामान्यतः अदृष्टमिति । तिष्ठतु तावद्विशेषः, सामान्यतोऽपि न दृष्टम् । क्वेति ? पक्षसपक्षयोर्वृत्तेरुक्तत्वात् परिशेषात् विपक्षे सामान्यतोऽपि न दृष्टमित्यवतिष्ठते । इत्थं त्रिरूपं लिङ्गं एभिः शब्दैरुक्तं भवति । तदालम्बनं ज्ञानमनुमानम् ॥ सूत्रस्य सर्वस्यापि लक्षणपरत्वं न युक्तम्
तदेवं लक्षणे कश्चित् सर्वं सूत्रमयोजयत् ।
एवं तु ख्यापितं न स्यात् सूत्रकारस्य कौशलम् ॥ २३८ ॥

किञ्च पञ्चलक्षणमिह शास्त्रे अभ्युपगम्यते इति त्रिरूपे तस्मिन् वर्ण्यमाने कालात्ययापदिष्टप्रकरणसमयोः प्रसङ्गो न व्यावर्तत इति । तस्मात् तत्पूर्वकपदमेव लक्षणप्रतिपादनार्थमनवद्यम् ॥

ज्ञास्याम इति । पूर्ववदिति कारणेन कार्यानुमानं, शेषवदिति कार्येण कारणानुमानं, एवं कार्यकारणभावरहितस्थले रूपेण रसानुमानादि सामान्यतोदृष्टं—इत्यादिरीत्या भाष्यादिषु तथा वर्णितम् । कथात्रय इति । वादः, जल्पः, वितण्डा चेति कथा त्रिविधा वक्ष्यते । उपयुक्ते—निरूपिते । उक्तादन्यः खलु शेषः । तदर्थलाभप्रकारमाह—तिष्ठत्वित्यादि । विशेषः—पक्षवृत्तित्वादिः ॥

सर्वं सूत्रं लक्षणे अयोजयत् इत्यन्वयः । एवं त्वित्यादि । अनुमानप्रभेदादीनां वक्तव्ये, उपमानादिव्यावृत्तेः अस्मदुक्तदिशा सुलभत्वे च तदर्थं एतावत्पदप्रयोगः सूत्रकारस्य न युक्त इत्यर्थः ॥

न व्यावर्तत इति । यद्यपि वाचस्पतिमिश्रैः—तात्पर्यटीकायां विपक्षव्यतिरेकात् असत्प्रतिपक्षत्वाबाधितविषयत्वयोः सङ्ग्रहो वर्णितः, अथापि
त्रिविधग्रहणं तस्य विभागप्रतिपादकम् ।
भेदाः पूर्ववदित्यादिग्रन्थेन कथितास्त्रयः ॥ २३९ ॥

तत्पूर्वकपदोद्गीतनिर्मलन्यायलक्षणः ।
परिम्लानादरोऽन्यत्र सूत्रकृद्वाक्यलाघवे ॥ २४० ॥

“त्रिविधं” इत्युक्तिस्तदा विरुद्ध्येतैव, पञ्चविधत्वात् हेतोः । विधाशब्दश्च विभाग एव स्वरसः । पूर्वोक्तदोषस्तु वर्तत एवेदानीमपि इत्युपेक्षितम् ॥

एवं लक्षणपरं “तत्पूर्वक”पदं व्याख्यातम् । अथ शिष्टे सूत्रे “त्रिविध”पदं विभागप्रतिज्ञापरं, शिष्टं विभागपरमित्याचष्टे—त्रिविधेति । त्रयः भेदाः कथिता इत्यन्वयः ॥

अत्र भाष्यं—“विभागवचनादेव त्रिविधमिति सिद्धे त्रिविधवचनं महतो महाविषयस्य न्यायस्य लघीयसा सूत्रेणोपदेशात् परं वाक्यलाघवं मन्वानस्यान्यस्मिन् वाक्यलाघवेऽनादरः । तथा चायमित्थम्भूतेन वाक्यविकल्पेन प्रवृत्तः सिद्धान्ते छले शब्दादिषु च बहुलं समाचारः शास्त्रे” इति । अयमर्थः—“पूर्ववत् शेषवत् सामान्यतो दृष्टं च” इति विभागवाक्यादेव “अनुमानं त्रिविधं” इति स्पष्टमवगम्यमाने “त्रिविधं” इति सङ्ख्यावाचकशब्दग्रहणपूर्वकमभिधानं किमर्थम् ? इति चेत्—अतिक्लिष्टस्यानुमानलक्षणस्य “तत्पूर्वकं” इति सूक्ष्मपदेन लक्षणात् तत्स्मरणजहर्षवशात् इदमत्यल्पं गौरवं गौरवत्वेन न मेने सूत्रकारः । एतादृशेन वाक्यविन्यासेनैवास्मिन् शास्त्रे सिद्धान्तादिलक्षणपरेषु समाचारः—विचाररीतिः बहुलं प्रवृत्तो दृश्यते इति । एतत्सर्वमभिप्रेत्याह—तत्पूर्वकेत्यादि । “तत्पूर्वक” इत्येकेनैव पदेन कथितं निर्मलं—निर्दोषं यत् महतो न्यायस्य—अनुमानाख्यस्य लक्षणं येन, सः सूत्रकृत् अन्यस्मिन् वाक्यलाघवे परिम्लप्नादरः इत्यर्थः ॥

एतेन—पूर्ववदादिवाक्यमभ्युपेत्य त्रिविधपदपरित्यागलाघवापेक्षया त्रिविधपदेनैव विवक्षितार्थलाभे पूर्ववदादिपदपरित्यागलाघवस्य महत्त्वात्, तत्परं भाष्यं व्याचख्युर्वाचस्पतिमिश्राः—“त्रिविधमिति विभागवचनादेव त्रिविधे पूर्ववदादौ सिद्धे किमर्थं पूर्ववदाद्युपादानम्” इति—तदेतद्ग्रन्थकारेणोपेक्षितं मन्तव्यम् । “त्रिविधं” इत्येतावन्मात्रात् नार्थपूर्तिर्भवेत्—विभागजिज्ञासाया अशान्तत्वात् । नापि “त्रिविधं” इतिपदं विभागवाक्यं, किन्तु तत्प्रतिज्ञापरम् । अतो नेदं भाष्यानुगुणमपि—इत्यादिर्हेतुरत्रोह्यः । एवं वैभवेन प्रवृत्तं भाष्यं
विभागवचनात्सिद्धं त्रैविध्यं स्वगिरा भवेत् ।
तथा च शब्दसिद्धान्तच्छलेष्वेवमदीदृशत् ॥ २४१ ॥

पूर्ववदनुमानम् पूर्ववदिति । यत्र कारणेन कार्यमनुमीयते—यथा जलधरोन्नत्या भविष्यति वृष्टिरिति ॥ पूर्ववत् पदस्य कारणपरत्वाक्षेपः अत्र चोदयति—पूर्वं हि कारणमुच्यते । पूर्वमस्यास्तीति पूर्ववत् कार्यं वक्तुं युक्तम् । तेन कार्यात् कारणानुमानमिहोदाहर्तव्यम्, न कारणात् कार्यानुमानम् ॥ कारणेन कार्यमनुमातुमप्यशक्यम् न च कारणेन कार्यमनुमातुमपि पार्यते । कार्यस्य तावत् पक्षत्वमयुक्तम्; सिद्ध्यसिद्धिविकल्पानुवृत्तेः । सिद्धे हि कार्ये किमन्यदनुमेयम् ! असिद्धे खपुष्पवन्न पक्षत्वम् ॥

अपि च अस्ति—कार्यं—कारणस्यास्तित्वात् इति व्यधिकरणो हेतुः; अनित्यः शब्दः—काकस्य कार्ष्ण्यादितिवत् ॥ उक्त्वा हार्दं भावमाह—विभागेति । विभागवचनात् सिद्धमेव त्रैविध्यं स्वगिरा कण्ठत उक्तं भवेत्—अन्यथा “इतोऽपि विभागान्तरं स्याद्वा” इति संशयानतिवृत्तेः । तथैव सूत्रकारशैल्यपि दृश्यते—“आप्तोपदेशः शब्दः” “स द्विविधः दृष्टादृष्टार्थत्वात्”, “तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः” “स च तुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात्”, “वचनविघातः अर्थविकल्पोत्पत्त्या छलम्” “तत् त्रिविधं वाक्छलं सामान्यच्छलमुपचारच्छलं चेति” इत्यादौ नियमार्थं त्रिविधादिग्रहणम् ॥

मेघस्यौन्नत्यं नाम कार्याव्यबहितप्राक्कालीनावस्थाविशेष एव ॥

पूर्वं—पूर्वपदार्थः । कार्यं अनन्तरं, कारणं हि पूर्वं भवतीति भावः ॥

“अत्र कारणस्य सत्त्वात् कार्येणापि भाव्यं” इति खलु वक्तव्यम् । अतः कार्यं—अस्तित्ववत् कारणस्य सत्त्वादिति वक्तव्यं, तदपि न सम्भवतीत्याह—अपि चेति ॥

सत्तायां च साध्यायां भावधर्मस्य हेतोरसिद्धत्वम्, अभावधर्मस्य विरुद्धत्वम्, उभयधर्मस्यानैकान्तिकत्वमिति कथं साधयितुं शक्यते ? तदुक्तम्— “ नासिद्धे भावधर्मोऽस्ति, व्यभिचार्युभयाश्रयः ।
धर्मो विरुद्धोऽभावस्य, सा सत्ता साध्यते कथम् ? इति ॥


न च कारणमात्रस्य हेतुत्वं युक्तम्, विना च प्रतिबन्धादिना व्यभिचारसम्भवात् । कारणविशेषश्च न कश्चिद्विपश्चिताऽपि निश्चेतुं शक्यः । चलदचलविपुलवपुषामुत्पलदलमलीमसत्विषामपि पयोमुचाममुक्तपयसामुपरमदर्शनात् ॥

यदि त्वन्त्यदशावर्ति कारणं लिङ्गमिष्यते ।
व्याप्तिस्मरणवेलायां कार्यप्रत्यक्षता भवेत् ॥ २४२ ॥

सौगतमते कारणात्कार्यानुमानसम्भवः
ननु ! सौगतैरपि कारणात् कार्यानुमानमङ्गीकृतमेव । “ हेतुना यः समग्रेण कार्योत्पादोऽनुमीयते ।
अर्थान्तरानपेक्षित्वात् स स्वभावोऽनुवर्णितः ॥ इति [प्र। वा। १-८] ॥

” अथ हेतुदोषानाह—सत्तायामित्यादि । सत्तायाः साध्यत्वेनासिद्धत्वात् सत्तायाः हेतोरपि सत्तारूपत्वात् स्वरूपासिद्धिः । अभावधर्मत्वे तु साध्याभावव्याप्तत्वाद्विरुद्धः । उभयधर्मत्वे साधारणानैकान्त्यम् ॥

हेतुभूतं कारणमपि न निर्वक्तुं शक्यमित्याह—न चेति । न हि मृत्पिण्डवत्सु देशेषु सर्वत्र घटस्योत्पत्तिः सम्भाव्यते । निश्चेतुमशक्यत्वमेवाह— चलदिति । चलदचलवत् विपुलपरिणामवतां नीलरोचिषामपि मेघानां अमुक्तपयसां सतामेवोपरमदर्शनात् । उपरमः—अवर्षणम् । तथा ह्याभाणकोऽपि—“अश्वप्लुतं वासवगर्जितं च स्त्रीणां च चित्तं पुरुषस्य भाग्यम् । अवर्षणं चाप्यतिवर्षणं च देवो न जानाति कुतो मनुष्यः” इति ॥

ननु कार्याव्यवहितप्राक्काले कारणं यादृग्रूपविशिष्टं स्यात्, तादृग्रूपविशिष्टस्यैव कारणस्य कार्यानुमापकत्वमिष्टमिति चेत्—तत्राह—यदि त्विति । प्रत्यक्षता भवेत्—तदानीं कार्यस्योत्पन्नत्वात् ॥

समग्रेणेति । समग्रात् खलु हेतोरनन्तरस्मिन्नेव क्षणे कार्योऽवर्जनीयः, कारणान्तरानपेक्षणात् । कारणान्तरापेक्षायां हि समग्रत्वमेव न स्यात् ॥

अग्रन्थज्ञो देवानां प्रियः ! उत्पाद्यतेऽस्मादित्युत्पादो योग्यता कथ्यते । सा चात्रानुमेया; अत एव तस्याः वस्तुनोऽनन्यत्वात् स्वभावानुमानमिदमिष्यते “स स्वभावोऽनुवर्णितः” इति ॥ सिद्धान्ते कारणात् कार्यानुमानसमर्थनम्
अत्राहुः—सर्वमिदमविदितानुमानप्रयोगक्रमस्य दुर्मतेश्चोद्यम् । न कार्यमत्र पक्षीक्रियते । न सत्ता साध्यते । न व्यधिकरणो हेतुः प्रयुज्यते । अपि तु पयोधरा एव धर्मिणः अदूरकालभाविन्या वृष्ट्या तद्वन्तः साध्यन्ते विशिष्टोन्नतिरूपधर्मादियोगेनेति न पूर्वकथितदोषावसरः ॥

यथा अग्निमानयं धूमः बहुलपाण्डुतादिधर्मयोगित्वात्— महानसावधृतधूमवदिति धूम एवाग्निमत्तयाऽनुमीयते । एवं समनन्तरोत्पादितवृष्टयोऽमी जीमूताः, सातिशयोन्नत्यादिधर्मयोगित्वात्, पूर्वोपलब्धपर्जन्यवत् इति जलधरा एव भविष्यद्वृष्टिमत्तयाऽनुमीयन्ते । यथाऽऽह भट्टः— [श्लो। वा। १-१-५-४७] “ तस्माद्धर्मविशिष्टस्य धर्मिणः स्यात् प्रमेयता ।
सा देशस्याग्नियुक्तस्य, धूमस्यान्यैश्च कल्पिता इति ॥

” देवानाप्रियः—“देवानाम्प्रिय इति मूर्खे” इति निपातः । देवानां क्रीडासक्तत्वेन मूर्खत्वात् तत्प्रियस्यापि मूर्खत्वमिति कैय्यटः । देवानां प्रियस्य छागस्याज्ञत्वाद्वा तथा । योग्यता—सामर्थ्यम् । तस्याः—योग्यतायाः ॥

तद्वन्तः—वृष्टिमन्तः, कीदृशवृष्टिमन्तः—अदूरकालभाविन्या वृष्ट्या वृष्टिमन्तः । अनुमानाकारस्त्वनुपदमुच्यते ॥

कार्यस्य सिद्धप्रायत्वात्—समनन्तरोत्पादितेति । पूर्वोपलब्धेति । एतत्पूर्वमनुभूतेत्यर्थः । सा देशस्येति । अत्र न्यायरत्नाकरः—“सा च देशस्यैव, धर्मित्वादित्याह—सा देशस्येति । नैय्यायिकास्तु धूममेव धर्मीकृत्य तस्यैवाग्निविशिष्टस्यानुमेयतामाहुरित्याह—धूमस्येति” ॥ कारणात् कार्यानुमानोपपादनम्
यत्तु—पूर्वं कारणमुच्यत इति—तत्सत्यम् । पूर्वमस्यास्तीति पूर्ववत्—कारणगतमुन्नतत्वादिधर्मजातमुच्यते; तदेव लिङ्गमिति ग्रन्थदोषोऽपि न कश्चित् । न च कारणमात्रस्य हेतुत्वं ब्रूमः, येनास्य विधुग्प्रत्ययोपनिपातादिकृतः व्यभिचारः स्यात् । अपि च विशिष्टमेव कारणं हेतुः । न च कारणविशेषो दुरवगमः;

गम्भीरगर्जितारम्भनिर्भिन्नगिरिगह्वराः ।
रोलम्बगबलव्यालतमालमलिनत्विषः ॥ २४३ ॥

तुङ्गत्तटिल्लतासङ्गपिशङ्गोत्तुङ्गविग्रहाः ।
वृष्टिं व्यभिचरन्तीह नैवम्प्रायाः पयोमुचः ॥ २४४ ॥

अनभ्युपगमे चैवमनुमानस्य जीवितम् ।
न स्यात् धूमविशेषाणामपि बोद्धुमशक्तितः ॥ २४५ ॥

कारणगतेत्यादि । “पूर्वमस्यास्ति” इत्यत्र षष्ठ्याः सम्बन्धसामान्यमर्थः—सम्बन्धश्च धर्मधर्मिणोः । अतश्च धर्मसम्बन्धी यथा धर्मी, तथा धर्मिसम्बन्धी धर्मो भवति । तथा च विशेष्यतया धर्मिविशिष्टः धर्मः पूर्ववत्पदार्थ इति भावः । ग्रन्थदोषः—शब्ददोषः । विधुरप्रत्ययः—विरोधिसामग्री । स्वरूपमात्रस्य कारणत्वे हि विरोधिसामग्रीकालेऽपि तस्मात् कार्यं स्यात् । बयं तु न तथा ब्रूमः । कारणमात्रं न फलोपधायकं, अपि तु किञ्चिद्रूपविशिष्टमेवेत्यर्थः । अपि च—अपि तु ॥

विशेषस्य सुगमत्वमेबाह—गम्भीरेत्यादि । आरम्भः—उपक्रमः । कार्ष्ण्ये दृष्टान्ताः—रोलम्बादयः । गबलः—महिषशृङ्गः । तुङ्गत् इति क्विबन्तः, बिजृम्भन्त्य इत्यर्थः । अस्य सर्वस्यापि पयोमुचः इति विशेष्यम् । न स्यादित्यादि । धूमाद्वह्न्यनुमानं सर्वानुभवसिद्धम् । धूमोत्पत्त्यनन्तरक्षणे वह्नेर्निर्बाणेऽपि उपरिदेशे धूमोपलम्भात् वह्न्यनुमितौ जातायां तत्र वह्नेर्नष्टत्वेन व्यभिचारात् धूमाद्वयनुमितिर्वा कथं भवेत् । अतः कारणान्तरमूलकः क्वाचित्कव्यभिचारः न दोषाबह इति कारणात् कार्यानुमानमपि भवत्येव ॥ अनुमेयस्य परोक्षत्वम्
यदपि कार्यप्रत्यक्षत्वमाशङ्कितम् [पु। ३५९] —तदप्ययुक्तम्— न हि वृष्ट्यनुमानसमय एव शिरसि सलिलकणाः पतन्तः पयोदमुक्ता दृश्यन्ते ॥

“परोक्षे लिङ्गिनि ज्ञानमनुमानम्” इति च विशेषणोपादानात् यत्र तत्र न तदानीमेव वृष्टिः प्रत्यक्षीभवति, तदुदाहरणं भविष्यति ॥

अपि च अनुपजातावयवक्रियतयाऽनाशङ्क्यमानविनाशेऽन्त्यतन्तौ जातया क्रियया पटनिष्पत्त्यनुमाने क्रियमाणे न पटप्रत्यक्षता; कालव्यवधानसम्भवात् । तथा हि—एकतस्तावदन्त्यतन्तौ क्रिया-

पयोदमुक्ताः सलिलकणाः इत्यन्वयः । कालस्यातिसूक्ष्मत्वात् किञ्चिदिव व्यवधानमपि सम्भाव्यमेवेति भावः ॥

वस्तुतस्त्वेतदाशङ्काया अवसर एव नास्तीत्याह—परोक्ष इति । यत्र तत्र—यत्र क्वचित् । यद्वा—“यत्र न तदानीमेव वृष्टिः प्रत्यक्षीभवति तत्र” इत्यन्वयः । अयमर्थः—न हि स्वशीर्षोपरि मेघं पश्यत एवेदमनुमानं—अनुमानस्य परोक्षविषयकत्वेन दूरोन्त्तादृशमेघं दृष्ट्वा वृष्ट्यनुमानात् । अतश्चानुमितिकाले न वृष्टिप्रत्यक्षम् ॥

ननु स्वशीर्षोपरि मेघं पश्यतोऽप्यनुमानमनुभवसिद्धम् । मार्गे गच्छन् स्वोपरि कृष्णमेघं पश्यन्, अचिराद्भविष्यद्वृष्टिमनुमिमानः शीघ्रं गच्छति, निवर्तते वा । अनुमानकाले वृष्टेरभावात् तदानीं परोक्षविषयकत्वं निर्बाधम् । अतश्च अनुमानकाले कार्यप्रत्यक्षापत्तिरूपो दोषो दुरपह्नव एव । न चैतद्दोषः प्रथमकल्पेऽनुपदमुक्ते नास्तीति स एवास्त्विति वक्तुं शक्यं; कार्यसमर्थस्य कारणस्य कालक्षेपायोगात् । यदा सामग्री सम्पूर्णा तदा तदनन्तरक्षणे कार्यं भवेदेव यावत्पर्यन्तं कार्यं न दृश्यते तावत् सामग्री न मिलितेत्येव वक्तव्यम् । ततश्च व्यवधानपक्षोऽपि न साधीयान्—इति शङ्कायां सदृष्टान्तं तं साधयति— अपि चेत्यादिना । अन्त्यतन्तौ क्रियोत्पत्तावपि अवयव्यन्तरे पटनाशकक्रियोत्पद्येत चेत् पटस्यैव नाशः स्यादित्यतः—अनुपजातेत्यादि । एकतः—
दर्शनम्, अविनाभावस्मरणम्, परामर्शज्ञानम्, अनुमेयप्रतीतिरिति त्रिचत्वारः क्षणाः । अन्यतस्तु—क्रिया, क्रियातो विभागः, विभागात्पूर्वसंयोगनिवृत्तिः, तत उत्तरसंयोगोत्पादः, ततः पटनिष्पत्तिः । निष्पन्ने पटे क्षणान्तरे रूपादिगुणारम्भः—रूपादिजन्मनि पटस्य समवायिकारणत्वात् कारणस्य कार्यादवश्यं पूर्वकालभावित्वम्, अतो निष्पन्नोऽपि नूनमेकस्मिन् क्षणे नीरूपः पटो भवतीति न तदैव प्रत्यक्षः—ततः क्षणान्तरे रूपोत्पादात् रूपवद्द्रव्यमिन्द्रियसन्निकर्षात् प्रत्यक्षं भविष्यतीति अतिवहव एते क्षणाः । अतो न कार्यप्रत्यक्षत्वम् ॥ अनुमित्युत्पत्तौ । मध्ये परामर्शाङ्गीकारपक्षे चत्वारः क्षणाः, तदनङ्गीकारे तु त्रयः । अन्यतः—पटप्रत्यक्षोत्पत्तौ । निष्पन्न इति । पटस्य निष्पत्तिमात्रादपि न तत्प्रत्यक्षं, चाक्षुषप्रत्यक्षे रूपस्य कारणत्वेन तत्र रूपोत्पादस्यावश्यकत्वात् इत्यर्थः । क्षणान्तरे—पटोत्पत्त्यनन्तरक्षणे । ननु नेदमनुभवसिद्धम्, पटः उत्पन्नः, तत्र रूपं त्वनिष्पन्नमिति । तादृशस्य पटस्य केनापि कुत्राप्यदर्शनात् । उत्पन्नः खलु पटः पटत्वविशिष्ट इव रूपादिविशिष्ट एवोत्पद्येत । अतः पटोत्पत्त्यनन्तरक्षण एव रूपोत्पत्तिर्न युक्तेत्यत्राह—रूपादिजन्मनीति । अयं भावः—कार्यसामान्यं प्रति द्रव्यं समवायिकारणं, अतश्च पटगतरूपं प्रति पट एव समवायिकारणम् । कारणत्वं च नियतपूर्ववृत्तित्वम् । ततश्च पटरूपोत्पत्तेः पूर्वक्षणे पटेन भाव्यमेव । “तादृशस्य पटस्य कुत्राप्यदर्शनात्” इत्युक्तिरतिरमणीया ! रूपशून्यं पटं को वा पश्येत् ? ननु पूर्वक्षणे तन्तवः अनन्तरं पटः, अनन्तरं पटे रूपं, अनन्तरं पटेन्द्रियसन्निकर्षः, अनन्तरं पटप्रत्यक्षं इतीयति क्रमे तन्तुकालानन्तरं मध्यकाले पटस्याप्रत्यक्षत्वेऽऽपादिते कः समाधिः । न हि मध्ये किञ्चित्कालं पट एव न दृश्यत इत्यनुभवसिद्धमेतदिति चेत्; एकस्मिन् क्षणे उत्पलपत्रशतभेदन इव कालस्यातिसूक्ष्मत्वेन मध्येऽन्तरालाग्रहणोपपत्तेः । अतः “उत्पन्नं द्रव्यं क्षणमगुणं निष्क्रियं च तिष्ठति” इति सुष्ठूक्तम् । अतिबहवः—अष्टौ । एवञ्च अनुमितिश्चतुर्थक्षणे जायते, प्रत्यक्षस्तु अष्टमक्षणे जायते । अनुमितिक्षणे पटस्याभावाञ्च न तत्प्रत्यक्षापत्तिः । अयमेव न्यायः कार्यस्थले सर्वत्र द्रष्टव्य इति ॥

नापि विधुरप्रत्ययादिना कार्यानुत्पत्तिः । अनुत्पन्नावयवक्रियत्वविशेषणोपादानेन तद्विनाशाशङ्कनात् । क्रियातश्चोत्तरोत्तरकार्याणामवर्श्य भावित्वात् ॥ कारणात् योग्यतानुमानं न साधु
यदपि “हेतुना यः समग्रेण” इत्यादिना योग्यताऽनुमानं व्याख्यातम्—तदप्यसाधु—स्वभावानुमानस्य निरस्तत्वात् । लोकश्च कारणादविकलात् कार्यमेव कल्पयति, न योग्यतामित्यलं प्रसङ्गेन ॥ शेषवत्पदव्याख्यानम्
शेषवदिति—यत्र कार्येण कारणमनुमीयते—यथा नदीपूरेणोपरितने देशे वृष्टिरिति । अत्रापि वृष्टिमदुपरितनदेशसंसर्गलक्षणो नदीधर्मः तद्धर्मेणैव विशिष्टेन पूर्णतादिनाऽनुमीयते । वृष्टिमत्पृष्ठदेशसंसृष्टा इयं नदी—फेनिलकलुषत्वादिविशिष्टषूरोपेतत्वात्— पूर्वोपलब्धैवंविधधुनीवत् ॥

अयं देशो वा वृष्टिविशिष्टदेशान्तरसंसृष्टः विशिष्टनदीपूरवत्त्वेनानुमीयत इति प्राक्तनवैयधिकरण्यादिचोद्यचक्रस्येहापि नास्ति प्रसरः ॥

तद्विनाशाशङ्कनादिति । तेन हि विशेषणेन विरोधिसामग्र्यभावः प्रदर्शितः इत्यर्थः । ननु भवता विशेषणदाने किं विरोधिसामग्री बिभ्येत् ? इत्यत्राह—क्रियात् इति । क्रियायाः क्षणचतुष्टयावस्थाननियमेन स्वकार्यस्य चावश्यनिर्वर्तनीयत्वेन मध्ये क्रियान्तरं न प्रविशेत् । एकस्यां हि शाखायां क्रियायामुत्पन्नायां क्रियायाश्चलनरूपत्वेन विभागपूर्वसंयोगनाशोत्तरसंयोगाः अनतिक्रमणीया एव । ननु तत्क्रियाया अव्यवहितपूर्वक्षणे विरोधिक्रियायां सत्यां कः प्रतीकारः ? इति चेत्, विरोधिक्रियाया अपि क्षणचतुष्टयावस्थानेन उक्तयुक्तीनां तुल्यत्वात् ॥

अनुमीयते—इत्यनन्तरं तत् शेषवदिति पूरणीयम् । “सिद्धे हि कारणे नानुमेयं, असिद्धे खपुष्पवन्नानुमेयं” इत्यादिदूषणाभासं स्मरन्नाह—अत्रापीति । तद्धर्मेणैव—नदीधर्मेणैव ॥

विशिष्टेति । फेनिलकलुषत्वादिविशिष्टेत्यर्थः ॥

फलतत्त्वियं वाचो युक्तिः—कार्येण कारणमनुमीयते कारणेन कार्यमनुमीयत इति; परमार्थतस्तु धर्मीं धर्मवत्त्वेन धर्मवाननुमीयत इति स्थितिः । यदाह भट्टः [श्लो। वा। १-१-५ अनु। २४] — “ स एव चोभयात्माऽयं गम्यो गमक एव च ।
असिद्धेनैकदेशेन गम्यः सिद्धेन बोधकः इति ॥

” ननु सूत्रभाष्यादौ, “कारणात् कार्यानुमानं पूर्ववत्, कार्यात् कारणानुमानं शेषवत्” इति कथ्यते; भवता तत्तद्धर्मविशिष्टस्य धर्मिणः, देशस्य वाऽनुमानं तदित्युच्यत इति कथमिदमिति शङ्कायामाह—फलत इति । धर्मीत्यादि । कश्चिद्धर्मी केनचिद्धर्मेण किञ्चिद्धर्मवाननुमीयत इत्यर्थः । स एवेत्यादि । सोऽयं पक्ष एव उभयात्माहेतुविशिष्टस्वरूपः साध्यवत्स्वरूपश्चेति स एव गम्यः गमकश्च । एकस्यैव कथमुभयमित्यत्राह—असिद्धेनेति । असिद्धेनैकदेशेन—धर्मेण, विशिष्टवस्तुन एकदेशो हि विशेषणम्, सः गम्यः—साध्यः, सिद्धेन चैकदेशेन—धर्मेण सः बोधकः—गमकः । अतश्च “एकदेशविशिष्टश्च धर्म्येवात्रानुमीयते” [२७ श्लो।] ॥

अत्र “रोधोपघातसादृश्येभ्यो व्यभिचारादनुमानमप्रमाणम्” [२-२-३७] “नैकदेशत्राससादृश्येभ्योऽर्थान्तरभावात्” [३७] इत्यत्र महर्षिणा यदनुमानपरीक्षणं कृतं तदत्रैव प्रसक्तत्वात्प्रदर्श्यते, न हि ग्रन्थकारेण सूत्रक्रम आद्रियते— सूत्रयोश्चायमर्थः—कार्यात् कारणानुमानं न घटते । तद्धि, नदीपूरेण, पिपीलिकाण्डसञ्चारेण मयूररुतेन वा वृष्ट्यनुमानम् । एतत्सर्वं व्यभिचरितमेव । नदीप्रबाहस्योपरिदेशे सेतुबन्धादिनिरोधादपि वृष्टिशून्यकाले प्रवहेत् नदी । नीडोपघातादपि पिपीलिकाण्डसञ्चारो दृश्यते । मयूरवत् मनुष्येण कूजनमपि सम्भवेत् । अतो व्यभिचरितत्वात् कार्येण कारणानुमानं न सम्भवतीति प्रथमसूत्रार्थः ॥

अत्र प्रतिविधीयते द्वितीयसूत्रेण—नेति । कुतः ? प्रकृतानुमानहेतुभूतस्य नदीपूरस्य, पिपीलिकाण्डसञ्चारस्य, मयूरवाशितस्य च व्यभिचारिभ्यः एकदेशत्राससादृश्येभ्यो विलक्षणत्वात् । रोधोपघाताज्जातः खलु प्रबाहः एकदेशः—अल्पः, यावान् यथा च प्रभूतवर्षात् नदी प्रवहति न तथा रोधेन । वृष्टेः प्राक् पिपीलिकाण्डसञ्चारः यादृशः न तादृशः सार्वत्रिकः त्रासात् भवति । कार्यानुमाने दोषोद्धारः यत्तु सेतुभङ्गहिमविलयनादिनाऽपि नदीपूरोपपत्तिर्दृष्टेति— तत्राप्युच्यते—

आवर्तवर्तनाशालिविशालकलुषोदकः ।
कल्लोलविकटास्फालस्फुरत्फेटच्छटाञ्चितः ॥ २४६ ॥

वहद्बहलशैवालवनशाद्बलसङ्कुलः ।
नदीपूरविशेषोऽपि शक्येत न न वेदितुम् ॥ २४७ ॥

प्रमातुरपराधोऽयं विशेषं यो न पश्यति ।
नानुमानस्य दोषोऽस्ति प्रमेयाव्यभिचारिणः ॥ २४८ ॥

रोधोपघातसादृश्यव्यभिचारनिबन्धनम् ।
अनुमानाप्रमाणत्वमतो वक्तुमसाम्प्रतम् ॥ २४९ ॥

पारम्पर्येण वृष्टिश्च नदीपूरस्य कारणम् ।
पतद्धनपयोबिन्दुसन्दोहस्यन्दनक्रमात् ॥ २५० ॥

यादृशं मयूरवाशितं, न तादृशं पुरुषस्य । मन्दमतिमिरेषां वैलक्षण्याग्रहणे पुरुषस्यापराधोऽयं न हेतोः । अतः विलक्षणात् कार्यात् कारणानुमानं युक्तमेवेति द्वितीयसूत्रार्थः ॥

तदेतत्सर्वं सङ्गृह्णाति—त्त्वित्यादि । प्रतिरुद्धस्य जलस्य प्रवहणहेतुः उक्तः—सेतुभङ्गः । एवमन्यदप्यूह्यमित्याह—हिमेत्यादि । सेतुभङ्गप्राबाहापेक्षया प्रवर्षजवृष्टेर्वैलक्षण्यमाह—आवर्तेत्यादि । वर्तना—स्थितिः । ननु वृष्टेः प्रवाहस्य च कार्यकारणभावो नास्त्येव । वर्षणं नाम आकाशात् जलकणिकापतनम् । तस्य च कथं महाप्रबाहहेतुत्वम् । वृष्टिः खलु भूप्रदेशे । तस्मात्प्रसृतानां कुल्यादीनां नद्यां पतने नदी प्रवहते । अतः उभयोः कार्यकारणभावाभावात् कथमेतदनुमानम् ? इत्यत्राह—पारम्पर्येणेति । पारम्परिकत्वमात्रान्न कारणत्वहानिः, व्यवहाराधीनत्वात् कार्यकारणभावस्य । व्यवहरति च तथैव सर्वोऽपि लोक इत्यर्थः ॥ सामान्यतोदृष्टपदव्याख्यानम्
सामान्यतोदृष्टं तु—यत् अकार्यकारणभूताल्लिङ्गात् तादृशस्यैव लिङ्गिनोऽनुमानम्—यथा कपित्थादौ रूपेण रसानुमानम् । रूपरसयोः समवायिकारणमेकं कपित्थादिद्रव्यम्, न तु तयोरन्योन्यं कार्यकारणभावः ॥

शाक्यदृष्ट्याऽपि वर्तमानयोः क्षणयोः इतरेतरकार्यकारणता न सम्भवत्येव ॥

धर्मिणश्च रूपवत्त्वेन रसवत्ताऽनुमानात् असिद्ध्यादिचोद्यानां पूर्ववदनवकाशो वक्तव्यः ॥ भाष्यप्रदर्शितसामान्यतोदृष्टानुमानविमर्शः
यत्पुनर्भाष्यकारेण भास्करस्य देशान्तरप्राप्त्यागत्यनुमानमुदाहृतं—तदयुक्तम्—देशान्तरप्राप्तेर्गतिकार्यत्वात् कार्येण कारणानुमानं शेषवदेवेदं स्यात् ॥

तादृशस्य—कार्यकारणभावशून्यस्य ॥

शाक्येत्यादि । धर्मधर्मिभावमनभ्युपगच्छतोऽपि बौद्धस्य रूपक्षणरसक्षणयोः परस्परं कार्यकारणभावो न सम्मत इति चेत्, धर्म्यतिरिक्तं धर्ममभ्युपगच्छतां सैद्धान्तिकानां का कथेति भावः ॥

धर्मिण इत्यादि । कश्चिद्धर्मी केनचिद्धर्मेण किञ्चिद्धर्मवानेवानुमीयत् इत्यादि पूर्वमेवोक्तम् ॥

गत्यनुमानं—एकस्मिन् देशे दृष्टस्य देशान्तरे दर्शनं तद्वस्तुनः क्रियामनुमापयति । प्रातः पूर्वदिशि दृष्टस्य सूर्यस्य सायं पश्चिमदिशि दर्शनं सूर्यस्य देशान्तरप्राप्तिमूलकं, तच्च गतिपूर्वकमिति—सूर्यः गतिमान् पूर्वकालिकदर्शनावच्छेदकदेशभिन्नदेशावच्छेदेन दर्शनविषयत्वात्—इत्यनुमानं भाष्ये उक्तम् ॥

अपि च देशान्तरप्राप्तिर्देशान्तरसंयोगः । न च दशशतांशोर्देशान्तरेण शैलादिना संयोगः सम्भवति । नभसा तु भवन्नपि दिशा वा दुर्लक्ष्यः, प्रत्यक्षेतरवृत्तित्वात्; पवनवनस्पतिसंयोगवत् मातृगर्भसंयोगवद्वा ॥

अथ देशान्तरे तरणिदर्शनं हेतुरुच्यते, तस्यापि गतिकार्यता पारम्पर्येण विद्यत एव—गत्या प्राप्तिः, प्राप्त्या च तत्र दर्शनमिति ॥

अथ देशान्तरे तपनदर्शनं पक्षीकृत्य दर्शनत्वेन च, दर्शनशब्दवाच्यत्वेन वा तस्य गतिपूर्वकत्वमनुमीयते—देशान्तरे दिवाकरदर्शनं गतिपूर्वकम्, देशान्तरदर्शनत्वात्—तच्छब्दवाच्यत्वाद्वा, देवदत्तदेशान्तरदर्शनवदिति; तथापि पारम्पर्येण गतिकार्यता न निवर्तत एव । न हि दर्शनत्वं गोत्वादिवत् सामान्यमस्ति; किन्तु भावप्रत्ययेनात्र दर्शनोत्पादिका शक्तिरुच्यते । सा च नातीन्द्रिया

वस्तुतः सूर्यस्य देशविशेषप्राप्तेर्हेतुत्वमेवासम्भवीत्याह—अपि चेति । दशशतांशुः—सहस्रकिरणः सूर्यः । उदयाचलाद्यभिप्रायेण—शैलादिनेत्युक्तम् । अयमर्थः—अत्र देशपदार्थः भूविशेषः ? उताकाशः ? उत दिक् ? नाद्यः तयोस्सम्बन्धाभावात् । नान्त्यौ, आकाशदिशोरतीन्द्रियत्वेन संयोगिनोरन्यतरस्यातीन्द्रियत्वे तत्संयोगस्याप्यतीन्द्रियत्वात् । वायुवृक्षसंयोगवत्, मातृगर्भसंयोगवद्वा । तथा च देशान्तरप्राप्तेरतीन्द्रियत्वेन न तेन सूर्यगत्यनुमानं सम्भवेत् । नभसा दिशा वा तु—इत्यन्वयः ॥

अथेति । देशपदार्थः यः कोऽपि भवतु, देशान्तरे दृष्टस्य देशान्तरे दर्शनं तु दुरपह्नवमित्यर्थः ॥

पूर्वोक्तदिशा देशान्तरस्यैवातीन्द्रियत्वे देशान्तरदर्शनमप्यसम्भवीत्यतः— दर्शनशब्दवाच्यत्वेनेति । न ह्यत्र गतिपूर्वकत्वस्य दर्शनस्य च कार्यकारणभावोऽस्ति, दर्शनं प्रतीन्द्रियादेरेव कारणत्वादिति भावः । गतिकार्यतेति । हेतुभूतस्य दर्शनत्वस्येति शेषः । पारम्पर्येण गतिकार्यत्वं दर्शनत्वस्योपपादयति— न हीति । दर्शनत्वं—देशान्तरे दिनकरदर्शनम् । तथा च ज्ञानत्वं प्रत्यक्षत्वं वा जातिरूपं भवेदपि, देशान्तराधिकरणकदिनकरविषयकचाक्षुषत्वरूपं
नित्या काचित्; अपि तु स्वरूपसहकारिस्वभावैवेति दृश्यमानं स्वरूपमपि शक्तिवर्गे पतति । दृश्यमानं च देशान्तरप्राप्त्यात्मकमिति गतिकार्यम् ॥

एवं दर्शनशब्दवाच्यत्वेऽपि हेतूकृते वक्तव्यम् । गत्या देशान्तरप्राप्तिर्जन्यते, तया तत्र दर्शनम्, तेन शब्दप्रयोगः, स एव वाच्यत्वमिति भावप्रत्ययेनोक्तः । तस्मात् सर्वथा गतिकार्यत्वानपायात् शेषवदेवेदमनुमानम् ॥

तदेतद्भाष्यकारीयमुदाहरणमीदृशम् ।
रूपाद्रसानुमानं तु तस्माद्युक्तमुदाहृतम् ॥ २५१ ॥

अकार्यकारणप्रायहेतूनां च प्रदर्शितः ।
भदन्तकलहेऽस्माभिरुदाहरणविस्तरः ॥ २५२ ॥

प्रकारान्तरेण सूत्रव्याख्यानम् एवं तावन्मतुब्व्याख्यया त्रैविध्यमनुमानस्य वर्णितम् । एतत्तु फल्गुप्रायमिव मन्यन्ते । नियमात्मकसम्बन्धबलादेव लिङ्गस्य गमकत्वमुक्तम्, न कार्यादिस्वरूपेण । तत्किमीदृशत्रैविध्येन दर्शितेनेति वतिप्रत्ययमाश्रित्यान्यथा व्याचक्षते ॥ तादृशदर्शनत्वं तु नीलघटत्वादिवत् न जातिः, अन्यथा देवदत्तदेशान्तरदर्शनत्वादीनामपि जातिरूपताप्रसङ्गः ॥

शेषवदेवेति । वाचस्पतिमिश्रोऽप्येवमेवाह । परन्तु सूर्यगतेः नित्यातीन्द्रियत्वेन न कदापि तत्र गतिदेशान्तरप्राप्त्यादीनां कार्यकारणभावः गृहीतुं शक्य इत्येतावन्मात्रेण तस्य सामान्यतोदृष्टत्वमुक्तं भाष्ये । उत्तरत्रापि [पु। ३४८] इदं द्रष्टव्यम् ॥

भदन्तकलहे—बौद्धमतनिराकरणे [पु। ३०७] ॥

न कार्यादीति । तादात्म्यतदुत्पत्तिभ्यामनुमानं बौद्धानामेव, तत्तु खण्डितमेवेति वस्तुगस्या सन्नपि कार्यकारणभावः प्रकृतेऽनुपयुक्त एवेत्यर्थः ॥

पूर्ववदिति । अत्र सम्बन्धग्रहणकाले लिङ्गलिङ्गिनोः प्रत्यक्षतः स्वरूपमवधार्य पुनस्तादृशैव लिङ्गेन तादृगेव लिङ्गी गम्यते, तत् पूर्वेण तुल्यं वर्तत इति पूर्ववदनुमानम् । यथा—महानसे धूमाग्नी सहचरितौ दृष्ट्वा पुनः पर्वते धूमाग्न्यनुमानम् ॥ पूर्ववत् इत्यत्र वति प्रत्ययोपपादनम्
ननु ! प्रत्यक्षप्रतीत्या विषयगतसकलविशेषसाक्षात्करणक्षमया तुल्या नानुमानिकी मतिरिति कथं क्रियातुल्यत्वम् ? तदभावात् कथं वतिः ? सत्यमेवम्—तथाऽपि वह्नेरेव तादृशस्य वैलक्षण्यापादकविशेषावच्छिन्नस्य लिङ्गेन ग्रहणात् अदूरविप्रकर्षेण क्रियातुल्यत्वमुपपत्स्यते ॥

पूर्वेणेति—तथा च “तेन तुल्यं क्रिया चेद्वतिः” इति हि वतिः ॥

ननु “क्रिया चेत्” इति सूत्रणात् क्रियाप्रयुक्ततौल्यमेव तत्र विवक्षितम् । प्रकृते च प्रत्यक्षस्य विषयप्रकाशनक्रिया यादृशी न तादृशी अनुमानस्य । प्रत्यक्षं हि स्वविषयं विशदतममुपस्थापयेत्, अनुमानं तु विशदतस्मेव । प्रत्यक्षस्यापरोक्षज्ञानत्वात् प्रत्यक्षेण वह्निग्रहणकाले तद्गतपरिमाणरूपस्पर्शसङ्ख्यादिविशिष्टो भासते, न तथाऽनुमाने । अनुमानं हि परोक्षप्रमितिजनकम् । अतस्तुल्यक्रियत्वाभावान्न तुल्यार्थे वतिः प्रकृते युज्यते इति शङ्कते—नन्विति । सत्यमिति । अयं भावः—पुरोवस्थितधर्मिणि यावन्तो धर्मा वर्तन्ते ते सर्वेऽपि न प्रत्यक्षेऽपि भासन्ते । अतीन्द्रियाणां गुरुत्वादीनां तत्र भानासम्भवात् । ऐन्द्रियिकेष्वपि न सर्वे भासन्ते, किन्तु पुरुषापेक्षानुगुणमेव । न हि वह्निप्रत्यक्षत्वस्थले सर्वत्र तद्गततार्णत्वादिकमपि भासते । एवञ्च यावदपेक्षितधर्मविशिष्टो धर्मी प्रत्यक्षे भासते । अनुमितावपि तादृश एव भासते । प्रत्यक्षदृष्टवह्निसजातीयवह्निः खल्वनुमेयः । एवञ्च प्रत्यक्षानुमानयोरिदमेकमेव परं वैलक्षण्यं, आद्यं अपरोक्षजनकं, द्वितीयं परोक्षजनकम् । एवं स्वरूपवैलक्षण्ये सत्यपि विषयप्रकाशनांशे नात्यन्तवैलक्षण्यम्, संशयविपर्ययाद्यतीतप्रमारूपत्वादुभयोरपि । अतश्च प्रत्यक्षानुमानयोः विप्रकर्षः—वैलक्षण्यं विषयप्रकाशनांशे—नातीव वर्तत इति पूर्ववत्—प्रत्यक्षतुल्यं अनुमानं भवत्येव ॥ शेषवत्पदव्याख्यानम्
शेषवन्नाम् परिशेषः । स च प्रसक्तप्रतिषेधे अन्यत्राप्रसङ्गात् शिष्यमाणे सम्प्रत्ययः । यथा—क्वचित्प्रदेशे धूमेनाग्निमात्रेऽनुमिते, किमिन्धनोऽयमग्निः इति विमर्शे प्रसक्तानां तृणपर्णकाष्ठादीनां अप्रसङ्गाच्च गोमयेन्धनोऽग्निः परिकल्प्यते । यथा वा—शब्दे द्रव्यकर्मत्वप्रतिषेधात् सामान्यादावप्रसङ्गाच्च गुणत्वानुमानं वक्ष्यते ॥ सामान्यतोदृष्टपदव्याख्यानम्
सामान्यतोदृष्टं तु—यत्र सम्बन्धकालेऽपि लिङ्गिस्वरूपमप्रत्यक्षं—नित्यपरोक्षमेव सामान्यतो व्याप्तिग्रहणादनुमीयते—यथा शब्दाद्युपलब्ध्या श्रोत्रादि करणम् । इन्द्रियाणामतीन्द्रियत्वात् न कदाचित् प्रत्यक्षगम्यत्वम् । अथ च छेदनादिक्रियाणां परश्वधादिकरणपूर्वकत्वेन व्याप्तिग्रहणात् शब्दाद्युपलब्धिक्रियाणां करणपूर्वकत्वमनुमीयते ॥ अनुमानानां प्रत्यक्षपूर्वकत्वेऽपि त्रिविधत्वोपपादनम्
अत्र “वति”व्याख्याने चोदयन्ति । पूर्ववदेवमेकमनुमानमुक्तं स्यात्, न त्रिविधम् । यतो न तावदनवगतव्याप्तिकं लिङ्गं

अग्निमात्रे—अग्निसामान्ये । गोमयं—“गोश्च पुरीपे” इति मयट् । प्रकृते शुष्कं गोमयं—करीषो विवक्षितः । अयं परिशेषः प्रत्यक्षमूलक एव बहुल इत्यतो दृष्टान्तान्तरमाह—द्रव्येत्यादि । शब्दो गुणः द्रव्यादिषट्कानात्मकत्वे सति पदार्थत्वात् इति परिशेषानुमानम् । तत्र, शब्दो न द्रव्यं, एकद्रव्यसमवेतत्वात्; न कर्म स्वसजातीयशब्दान्तरजनकत्वात्; न सामान्यादिः जातिमत्त्वात् इत्यनुमानं ज्ञेयम् । विस्तरस्तु तत्प्रकरणे वक्ष्यते ॥

सम्बन्धकाले—सम्बन्धग्रहणकाले । सम्बन्धः—व्याप्तिः । कदाचित्—कदाचिदपि । छेदनादि परश्वधादि इति निदर्शनार्थम् । तथा च क्रियाणां करणपूर्वकत्वनियमादित्यर्थः । क्रिया—धात्वर्थः ॥

एवं—“पूर्ववत्”पदस्य एवं व्याख्याने । पूर्वोक्तं सर्वमप्यनुमानं
गमकं भवति । विशेषाणामनन्तत्वेन च तदन्वयव्यतिरेकयोर्दुरवगमत्वात् सर्वत्र सामान्येनैव व्याप्तिग्रहणम् । यच्चेत्थं व्याप्तिज्ञानं तत्तुल्यं त्रितयेऽपि । अतः सर्वं पूर्ववदेव स्यात्; वतेः सर्वत्र सम्भवात् ॥

तदेतदयुक्तम्—अवान्तरविशेषस्य सुस्पष्टस्य भावात् । “व्याप्तिपूर्वकमनुमानम्” इत्येतावता यद्येकविधमुच्यते—तत्सत्यमेवं प्रकारमेवेदम् । तस्मिन् सत्यपि तु साम्ये भेदान्तरसम्भवात् त्रैविध्यमस्य प्रतिपाद्यते ॥

तथा हि—धूमज्वलनयोः पूर्वं प्रत्यक्षेण ग्रहणात् इदानीं तेनैव धूमेन स एवाग्निरनुमीयत इति पूर्ववदिदमनुमानमुच्यते—यत् प्रत्यक्षपूर्वकमिति प्रसिद्धम् ॥ प्रत्यक्षपूर्वकमेव दृष्टम्, पूर्वदर्शनानुरोधेनैवानुमानप्रवृत्तेः सर्वं पूर्ववदेवेति इतरे अनुमाने नावशिष्येते इत्यर्थः । ननु पूर्ववदनुमानं वह्निधूमादिव्यक्तिविषयकं, सामान्यतोदृष्टं तु न व्यक्त्याश्रितं, किन्तु सामान्याश्रितमित्यस्ति विशेष इति चेत् तत्राह—विशेषाणामिति । वह्निधूमव्यक्तीनामसर्वज्ञदुर्विज्ञेयत्वेन तत्रापि व्याप्तिः सामान्याश्रितैवोपपादिता पूर्वमेव ॥

अवान्तरेत्यादि । अयं भावः—“पूर्ववत्” पदेन प्रत्यक्षपूर्वकत्वमात्रं नोच्यते; तस्य सामान्यलक्षणरूपत्वेन अनुमानत्रयानुगतत्वात् । किन्तु प्रत्यक्षपूर्वकत्वेऽपि किञ्चित्किञ्चिद्वैलक्षण्यात् विभागः प्रदर्शितः । विभागस्थले सर्वत्रापि खल्वेवमेव । तत्र यज्जातीययोर्व्याप्तिदर्शनं तज्जातीयस्यैव साध्यस्य सिद्धिः पूर्ववदित्युच्यते । महानसे दृष्टजातीयस्यैव वह्नेः पर्वतेऽनुमानात् । नात्र साध्यं सर्वदाऽतीन्द्रियम्; व्याप्तिग्रहणवेलायां, पर्वतसमीपगमने वा प्रत्यक्षमेव तत् । सामान्यतोदृष्टानुमाने तु साध्यं सर्वदाऽतीन्द्रियमेव, दृष्टसजातीयमपि न । न हि वास्यादीनां छेदनकरणत्वं यादृशं तादृशमेव उपलब्धिकरणत्वं श्रोत्रस्य । छेदनक्रियातोऽत्यन्तविलक्षणा हि ज्ञानरूपक्रिया । अतस्तत्र दृष्टसजातीयत्वं नास्त्येव । न हि यो धूमवान् स वह्निमान् इतिवत् यः शब्दसाक्षात्कारः सः श्रोत्रकरणकः इति हेतुसाध्यव्यक्तयोर्व्याप्तिरवगन्तुं शक्यते, श्रोत्रेन्द्रियस्यातीन्द्रियत्वात् । तथा च पूर्ववदनुमाने व्यक्त्योरेव व्याप्तिः, अनुगमकतया तु सामान्यं प्रविशते । सामान्यतोदृष्टानुमाने तु सामान्यमेव पुरतो भाति, आश्रयतया परं व्यक्तिभानमिति अनुभववैलक्षण्यमस्तीति । परिशेषानुमानस्य वैलक्षण्यं तु स्पष्टमेव ॥

ननु ! धूमान्तरेण वह्न्यन्तरानुमानं किं न प्रत्यक्षपूर्वकम् ? क एकमाह—न पूर्ववदिति ! कथं तर्हीदमुच्यते—तेनैव धूमेनेति ? जात्यभिप्रायमेतदुच्यते, न व्यक्त्यभिप्रायम् ॥

ननु ! सामान्यतस्तर्हि तत्परिच्छेदात् सामान्यतोदृष्टमेवेदं स्यात्—न—सामान्यतोदृष्टस्य नित्यपरोक्षानुमेयैकविषयत्वात् ॥

प्रसक्तप्रतिषेधादिना च नियतसाध्यपरिच्छेदहेतुः परिशेषानुमानमुच्यते—यथा गोमयेन्धनदहनानुमानमुदाहृतम्, शब्दे वा गुणत्वकल्पनम् ॥

सामान्यतोदृष्टं तु नित्यपरोक्षविषयमुदाहृतमेव श्रोत्राद्यनुमानम् । तदेवं भेदसम्भवात् त्रिविधमनुमानमिति युक्तम् ॥ एकस्मिन्नपि विषये त्रिविधानुमानसम्भवः
आस्तां वा उदाहरणभेदः । एकत्राप्युदाहरणे त्रैविध्यमभिधातुं शक्यते । यथा—इच्छादिकार्यं-आश्रितम्-कार्यत्वात्-घटवत् इत्याश्रयमात्रे साध्ये पूर्ववदनुमानम् । प्रसक्तशरीरेन्द्रियाद्याश्रयप्रति-

“तेनैव धूमेन” इत्यादेस्तद्व्यक्तिपरत्वं भ्राम्यन् पृच्छति—नन्विति ॥

अत्र आदिपदेन अन्यत्राप्रसङ्गस्य ग्रहणम्, प्रतिषेधमात्रं तु तुच्छस्यापि वर्तते । यथेत्यादि । अयं वह्निः गोमयेन्धनः, तृणाद्यजन्यत्वे सति इन्धनजन्यत्वात्; शब्दः, गुणः, द्रव्याद्यनात्मकत्वे सति प्रमेयत्वात् इत्यादौ हि हेतुसाध्यव्यक्त्योर्व्याप्तिरेव नास्ति, नापि अतीन्द्रियसाध्यकत्वम् । परिशेषत्वरूपं तु तत्प्रकरणे [१० आह्निके] परीक्ष्यते ॥

इच्छादीति । इच्छादिकं आत्माश्रितं आत्मव्यतिरिक्तानाश्रितत्वे सति आश्रितत्वात् इति परिशेषानुमाने विशेष्यासिद्धिवारणाय—इच्छादि, आश्रितं, कार्यत्वात् घटवत् इति प्रयोगे इदं पूर्ववदनुमानम् । अत्र—यदितरानाश्रयत्वे सति आश्रितत्वं यत्र तत्र तदाश्रितत्वं, कपालेतरानाश्रितः आश्रितश्च घटः कपालाश्रितः इति व्याप्तेः प्रयोगात् सामान्यतोदृष्टमपि भवति, विशेषव्याप्तेर्दुर्वचत्वात्, साध्यनिविष्टः आत्मा हि अतीन्द्रियः । यद्यपि तत्तदात्मा तस्य तस्य प्रत्यक्षः, अथापि आत्मसामान्यस्यैव साध्ये निविष्टत्वात्तदती
षेधेन विशिष्टाश्रयकल्पने तदेव परिशेषानुमानम् । अनुमेयस्य नित्यपरोक्षत्वात् तदेव सामान्यतोदृष्टं च ॥

तर्हि परिशेषानुमानस्य सामान्यतोदृष्टस्य च को विशेषः ? उच्यते—परिशेषानुमानप्रवृत्तावन्यः पन्थाः; सामान्यतोदृष्टस्यान्यः । इच्छादिकार्यं देहादिविलक्षणाश्रयम्—शरीरादिषु बाधकप्रमाणोपपत्तौ सत्यां कार्यत्वादिति सामान्यतोदृष्टस्य क्रमः । परिशेषानुमानस्य त्वित्थं प्रवृत्तिः—इच्छादेराश्रयत्वेन प्रसक्तानि शरीरेन्द्रियमनांसि निषिध्यन्ते, दिक्कालादौ च तत्प्रसङ्गो नास्ति, तत्पारिशेष्यादात्मैव तदाश्रय इति । परिशेषानुमाने च सर्वत्र नैष नियमः— साध्यस्यातिपरोक्षत्वमिति;—गोमयाग्निकल्पनादिदर्शनात् । सामान्यतोदृष्टं तु नित्यपरोक्षविषयमेवेति सूक्तं त्रैविध्यम् ॥ प्रभाकरोक्तसामान्यतोदृष्टानुमानम् अपरे पुनः अदृष्टस्वलक्षणविषयं शक्तिक्रियानुमानं सामान्यतोदृष्टमुदाहरन्ति; देवदत्तादावपि क्रियायाः परोक्षत्वात् । न्द्रियत्वम् । विशिष्टाश्रयः—आत्मरूपः ॥

को विशेष इति । हेतुसाध्यव्यक्त्योर्व्याप्त्यग्रहणेन पूर्ववतो वैलक्षण्यसत्त्वेऽपि सामान्यतोदृष्टान्न विशेषः, अतीन्द्रियसाध्यकस्य तौल्यादित्यर्थः । अन्यः पन्था इत्यादि । प्रसक्तप्रतिषेधः परिशेषानुमानस्यासाधारणं कृत्यम् । तेन शिष्यमाणे सम्प्रत्ययश्च । सामान्यतोदृष्टे तु अन्यप्रसक्तिरेव न इति विशेषः ॥

शबरस्वामिना—“तत्तु द्विविधं; प्रत्यक्षतो दृष्टसम्बन्धं, सामान्यतो दृष्टसम्बन्धं च” इत्युक्तं भाष्ये । एतद्व्याख्यातृभिः प्रभाकरमिश्रैः बृहत्यां—“अदृष्टस्वलक्षणविषयमनुमानमस्ति क्रियादिषु” इत्युक्तम् । बृहतीव्याख्यातृभिः शालिकनाथैश्च— “क्रियादिषु क्रियायां शक्तौ च” इत्यनेन बृहत्युक्तेन “आदि”पदेन शक्तेस्सङ्ग्रहः प्रदर्शितः । प्रकरणपञ्चिकायां च अयमर्थः विस्तरेण निरूपितः । एतत्सर्वमालोढ्याह—अपरे पुनरिति । स्वलक्षणं—स्वासाधारणं स्वरूपम् । ननु भाष्ये “सामान्यतोदृष्टसम्बन्धं यथा—देवदत्तस्य गतिपूर्विकां देशान्तरप्राप्तिमुपलभ्यादित्यगतिस्मरणम्” इति कथनात् देवदत्तक्रियायाः प्रत्यक्षत्वमुक्तम् । तत् कथं क्रियाया अनुमेयत्वम् ? इत्यत्राह—देवदत्तादावपीति । “सङ्ख्या
चलतीति प्रत्यये हि न देवदत्तस्वरूपातिरिक्तक्रियातत्त्वप्रतिभासः ॥

य एव देवदत्तात्मा तिष्ठत्प्रत्ययगोचरः ।
चलतीत्यपि संवित्तौ स एव प्रतिभासते ॥ २५३ ॥

अविरलसमुल्लसत्संयोगविभागप्रबन्धविषयत्वाच्चलतीतिप्रत्ययस्य न सर्वदा तदुत्पादः ॥

कथं तर्हि नित्यपरोक्षे क्रियास्वलक्षणेऽनुमानं क्रमत इति चेत् ? कार्यस्य कादाचित्कत्वेन कारणपूर्वकत्वात् परिदृश्यमानस्य द्रव्यस्वरूपस्य कारणत्वे सर्वदा कार्योत्पादनप्रसङ्गात् सर्वदा तत्स्वरूपसद्भावात्, न च सर्वदा कार्यमुत्पद्यत इति तदतिरिक्तक्रियानुमानम् ॥ भावात्” [१-१-२०] इति सूत्रभाष्ये “बुद्धिकर्मणी” इति प्रकृत्य “न हि ते प्रत्यक्षे” इति स्पष्टं बुद्धेरिव कर्मणोऽप्यप्रत्यक्षत्वमुक्तम् । भाष्यकारोऽपि आद्यानुमाने “प्रत्यक्षत” इति विशेषयन्निदं द्रढयति । अतश्च प्रकृते देवदत्तक्रियाऽप्यनुमेयैव भाष्यकारसम्मता । लोके सर्वैर्निश्चितत्वात् तस्या दृष्टान्तत्वेनोपादानम् । अत्र च “उपलभ्य” इति पदं देशान्तरप्राप्तिमात्रेऽन्वेति । “धूमाद्वह्निमुपलभ्य” इत्यादाविवानुभवसामान्यपरं वा । अतः कर्माप्रत्यक्षमित्येव भाष्यकारसम्मतमिति । ननु लोके क्रियाविषयिणी चलतीत्यादिप्रतीतिर्दृश्यते । भाष्यकारो वा अनुभवविरुद्धं कथं ब्रूयादित्यत्र—कर्मप्रत्यक्षत्वं युक्तिविरुद्धमित्याह—चलतीत्यादि । न हि चलतीति प्रत्ययमात्रेण देवदत्ते उपचयो वाऽपचयो वा कश्चन अतिरिक्तो विशेषो दृश्यते । अतः देवदत्ते कर्म न प्रत्यक्षम् । किन्तु तस्य तद्धस्तादेर्वा देशान्तरप्राप्तिः प्रत्यक्षा, तया च क्रियाऽनुमीयत इति ॥

ननु यदि तिष्ठच्चलद्देवदत्तयोर्न कोऽपि विशेषः तर्हि तिष्टत्यपि देवदत्ते चलतीति प्रत्ययापत्तिः—इत्यत्राह—अविरलेति । एकस्यां क्रियायामुत्पन्नायां हि क्रिया, क्रियातो विभागः, ततः पूर्वसङ्गोगनाशः, तत उत्तरदेशसंयोग इति शृङ्खलाऽवर्जनीया । अत उक्तं अविरलेति प्रबन्धेतिच । एवञ्च विभागोत्तरदेशसंयोगादिकं परं प्रत्यक्षं, न तु तदतिरिक्ता काचित्क्रिया प्रत्यक्षा । उत्तरदेशसंयोगश्च उत्तरदेशप्राप्तिरेव । अतस्सुष्ठूक्तं देशान्तरप्राप्त्या क्रियाऽनुमीयत इति । नित्यं परोक्षे इत्यर्थः । एवं तर्हि क्रियाया अनङ्गीकारे वा का हानिः—इति भावः । समाधत्ते—कार्यस्येत्यादि । देशान्तग्प्राप्तिरूपस्येति शेषः । द्रव्यस्वरूपस्य—द्रव्यस्वरूपमात्रस्य । तथा च उत्तरदेश
एवं शक्तावपि द्रष्टव्यम् । क्रियाशक्तिस्वरूपस्य च नित्यपरोक्षत्वात् तददृष्टस्वलक्षणविषयमनुमानमुच्यते, न तु विशेषविषयम्; विशेषव्याप्तिग्रहणस्यासम्भवादिति ॥ क्रियायाः प्रत्यक्षत्वम् तदिदमनुपपन्नम्—परिस्पन्दरूपस्योत्क्षेपणादिभेदवतः कर्मणश्चलत्यादिप्रतीतौ प्रकाशमानत्वेन प्रत्यक्षत्वात् न तस्य नित्यानुमेयत्वम् । संयोगविभागालम्बनत्वे तु संयुज्यते, विभज्यते, इति प्रतीतिः स्यात्, न चलतीति; यथाविषयं प्रत्ययोत्पादात् । संवेदनानुसारिणी च विषयव्यवस्था । अन्यथा घटप्रत्ययेऽपि पटस्यालम्बनता स्यात् । संयोगविभागालम्बनत्वे सति तिष्ठत्यपि चलत्प्रत्ययः प्राप्नोति; तत्रापि संयोगविभागसम्भवात् । स्थाणौ च श्येनसंयोगविभागवति चलतीतिप्रतिभासो भवेत् । अविरलतदुपजननप्रबन्धेऽपि भूतभाविनोः संयोगविभागयोः परोक्षत्वात् संयोगविभागादिहेतुतयैव क्रिया सिद्ध्यतीति भावः । क्रियाशक्ति—इत्यत्र दृष्टान्ततया क्रियोपादानम् ॥

एवं क्रियाया अतीन्द्रियत्वं प्राभाकरानुसारेण पूर्वपक्षितम् । कुमारिलभट्टैस्तु—“प्रत्यक्षदृष्टः सम्बन्धः गतिप्राप्त्योस्तथैव हि” [१३८ श्लो।] इत्यादिना क्रियायाः प्रत्यक्षत्वमुक्तम् । तत्र सुचरितमिश्रैर्बह्व्यो युक्तयः प्रदर्शिताः । तद्रीत्यैव सिद्धान्तेऽपि क्रियायाः प्रत्यक्षत्वं साधयितुमुपक्रमते—तदिदमित्यादि । चलत्यादिप्रतीतौ—चलतीत्यादिप्रतीतौ । संयोगविभागालम्बनत्वे— चलतीतिप्रत्ययस्येति शेषः । घटप्रत्यये—घटोल्लेखिप्रत्यये । तत्रापीति । तिष्ठत्यपि वस्तुनि भूतकालिकयोः संयोगविभागयोस्सत्त्वादित्यर्थः । ननु तयोर्वर्तमानत्वमावश्यकमिति चेत् तदाप्याह—स्थाणाविति । ननु सकृत्तयोरुत्पत्तिमात्रान्न चलतीतिप्रतीतिः, किन्तु निरन्तरतत्परम्परोत्पत्तावेव— इति चेत् तत्राह—अविरलेति । तादृशप्रबन्धे चलतिप्रत्ययविषयत्वेनाङ्गीकृतेऽपीत्यर्थः । अथवा अविरलः तादृशप्रबन्धः—अनुवृत्तिः यस्मिन् इति बहुब्रीहिः । वस्तुनि तयोस्सम्भवेऽपि अतीतानागतयोर्ग्रहणं न सम्भवतीति भावः । एतादृशाविरलसंयोगाद्युत्पत्तिरपि सर्वन्त्र शपथमात्रनिर्णेयेति सूचनाय—अपि
वर्तमानयोर्ग्रहणम् । तौ च चलित्वाऽपि स्थिते देवदत्ते स्त इति तत्रापि कथं न चलतीति प्रत्ययः ॥

निरन्तरं च संयोगविभागश्रेणिदर्शनात् ।
भूमावपि भवेद्बुद्धिः चलतीति मनुष्यवत् ॥ २५४ ॥

क्रिया न संयोगविभागरूपा अथ मनुषे—यत्क्रियाजन्यत्वं संयोगविभागयोः—तत्रैव चलतीत्यादिबुद्धिः, नान्यत्र । देवदत्तक्रियया च तौ जन्येते, न निष्क्रियया भूम्येति न तस्यां तथा प्रत्ययः । यद्येवं—क्रियान्वयव्यतिरेकानुविधानात् क्रियालम्बन एवायं प्रत्ययः, न संयोगविभागालम्बनः । तदालम्बनत्वे हि तयोर्द्वयवृत्तित्वाविशेषात् विशेषे कारणं वाच्यम्; येन पुरुष एवायं प्रत्ययः, न भूमाविति । देवदत्तक्रियाजन्यत्वेन तु न विशेषः; यतः क्रियायाः परोक्षत्वे सति तदेव न विद्मः—किमसौ देवदत्ताश्रया क्रिया ? किं वा भूम्याश्रितेति ? संयोगविभागकार्यानुमानस्योभयत्रापि तुल्यत्वात् । न च देवदत्ते गच्छति भूमौ, अनवरतवहद्वहलसंयोगविभागवत्यपि वा तरङ्गिणीतीरपाषाणे शब्दः । आस्तां वर्तमानयोरेवेत्यादि । तथा च किं प्रवृते ? इत्यत्राह—तौ चेति । पूर्वं “अपि”शब्देन सर्वत्र तदसम्भवे सूचिते, यत्र सम्भवेत्तत्र तथास्तु इति वदन्तं प्रत्याह—निरन्तरमिति । असङ्ख्येयजङ्गमवर्गसङ्कुले भूतले न तद्दुर्लभं, चलतीति प्रतीतिस्तु नास्ति । अतस्तावन्मात्रविषयत्वं न तत्प्रतीतेरिति ॥

प्राणिसंयोगादिना भूम्यादौ चलतीतिप्रत्ययाभावं समर्थयति—अथेत्यादिना । यत्क्रियेति—यदीयक्रियेत्यर्थः । समाधत्ते—यद्येवमिति । द्वयेति । संयोगविभागौ हि द्विनिष्ठौ । विशेषे—देवदत्त एव चलतिप्रत्ययः, न भूमावित्यत्र । ननूक्तं यदीया क्रिया, तत्रैव चलतिप्रतीतिरितीति चेत् तत्राह— देवदत्तेति । अयं भावः—क्रिया ह्यतीन्द्रिया तव, सा च संयोगविभागानुमेया । संयोगविभागौ तु द्विनिष्ठौ । हेतुभूतौ तौ एकत्रैव क्रियामनुमापयतः, न तूभयत्रेत्यत्र न किञ्चिद्विनिगमकम् । क्रियायास्त्वनुमेयत्वान्न विनिगमकत्वम् । अतोऽगत्या क्रियायाः प्रत्यक्षत्वमेवाङ्गीकरणीयमिति । “न विद्मः” इत्यत्रोक्तं वेदनं विवृणोति—किमसाविति । तरङ्गिणीत्यादि । नदीप्रवाहाधीनजल
चलतीति प्रत्ययो दृष्टः । तस्मात् क्रियाविषय एव चलतीतिप्रत्ययः, न संयोगविभागालम्बनः ॥

संयोगविभागाग्रहणेऽपि च निरालम्बे विहायसि विहरति विहङ्गमे चलतीति संवेदनं दृश्यते । न च गगनसंयोगः प्रत्यक्षः, प्रत्यक्षेतरवृत्तित्वात्, गन्धवहमहीरुहसंयोगवत् ॥

विततालोकावयव्याकाशः, तत्संयोगश्च पत्रिणः प्रत्यक्ष इति चेत्—नैतदेवम्—

तमालनीलजीमूतसमूहपिहिताम्बरे ।
निशीथे सान्धकारेऽपि चलत्खद्योतदर्शनात् ॥ २५५ ॥

न तत्रालोकावयवी कश्चन तिमिरावयवी वा विद्यते इति केन संयोगो गृह्यते ? विभागो वा ? संयोगविभागा हि अनवरतं तत्तीरगते पाषाणे वर्तन्ते ॥

अथ चलतीति प्रत्ययस्य संयोगविभागालम्बनत्वमपि न सम्भवतीत्याह— संयोगेति । संयोगविभागयोर्द्विनिष्ठत्वेन तत्र द्वितीयं वस्त्वेवैन्द्रियिकं नास्तीति सूचनाय—निरालम्ब इत्युक्तम् ॥

ननु तत्र पक्षिणि क्रिया हि भवतोऽपि सम्मता । क्रियायां जातायां हि विभागसंयोगाववर्जनीयाविति पूर्वं भवतैवोक्तम् । तथा च तत्र संयोगविभागयोरभावो न वक्तुं शक्यते । एवं सति “निरालम्बे” इति कथमिति चेत्— अस्ति तत्र संयोगादिः आकाशप्रदेशेन सह । परन्त्वाकाशस्यातीन्द्रियत्वेन संयोगप्रत्यक्षासम्भवात् संयोगप्रत्यक्षहेतुभूतस्य संयोगाधारस्य प्रत्यक्षद्रव्यस्याभावात् निरालम्बत्वम् । तथा च तत्र क्रियातः संयोगविभागानुमानम्, न तु संयोगविभागाभ्यां क्रियानुमानमिति द्रष्टव्यम् । एतदेवोच्यते—न चेत्यादिना । नन्वस्ति तत्राप्यालोकः प्रत्यक्षः इति शङ्कते—विततेति । परमाणुरूपाणामालोकानामतीन्द्रियत्वेन—अवयवीत्युक्तम् । नक्षत्रालोकस्याप्यसम्भवद्योतनाय—तमालेत्यादि । आलोकावयवी—चलत्खद्योतालोकसंयोगाश्रयः । ननु तिमिरेण सहास्ति संयोगः खद्योतप्रकाशस्येति चेत् तत्राह—तिमिरेति । तिमिरं खल्वभावरूपमित्यर्थः ॥

भूकम्पोत्पाते च जाते चलति वसुमतीति मतिरस्ति; न तत्र संयोगविभागौ गृह्येते, बहुलनिशीथे च न तराम् । तस्मान्न संयोगाद्यालम्बना चलतीति मतिः, अपि तु क्रियालम्बनैवेति ॥

न च नित्यपरोक्षा क्रियाऽनुमातुमपि शक्या, कार्यस्य कारणपूर्वकत्वेन भवन्मते सम्बन्धग्रहणानुपपत्तेः । न हि ते द्रव्यस्वरूपं कारणम्; अपि तु क्रियाविशिष्टम् । क्रियायाश्च परोक्षत्वान्न तदाविष्टद्रव्यग्रहणं सुघटमिति कारणत्वाग्रहणात् घटादावपि दुर्घटा व्याप्तिप्रतीतिः ॥

आत्माऽनुमाने तु नायं दोषः; घटादेः कार्यस्याश्रितस्य प्रत्यक्षमुपलम्भात् । तस्मान्न कार्यानुमेया क्रिया ॥ संयोगेनापि क्रिया नानुमातुं शक्या
न च संयोगानुमेया; “संयोगान्तं कर्म” इतिन्यायात् । वर्तमानायाः क्रियायास्तेनानुमातुमशक्यत्वात् । क्रियाऽनुमान-

ननु आलोकादीनां रूपादिवत् स्वपरनिर्वाहकत्वं सर्वसम्मतम् । न हि दीपप्रत्यक्षे दीपान्तरमपेक्ष्यम् । अतः खद्योतालोकस्यापि स्वपरनिर्वाहकत्वमस्तीति उपपद्यते तत्प्रत्यक्षं इति चेत् तत्राह—भूकम्पेति । भूकम्परूपः उत्पातः—महाभूतविकारः । ननु तत्रापि गृहमहीरुहभेदनादिदर्शनात् संयोगविभागप्रत्यक्षं शक्यशङ्कमित्यत्राह—बहुलनिशीथ इति । कृष्णपक्षरात्रौ, धनान्धकारे वेत्यर्थः ॥

तन्मते क्रियाऽनुमानमप्यसम्भवीत्याह न चेति । “भवन्मते” इत्यनेन सूचितं विशेष विशदयति—न हीति । “द्रव्यस्वरूपस्य कारणत्वे सर्वदा तदुत्पादप्रसङ्गः” इत्यादि [पुट ३५२] खलूक्तमित्यर्थः । ननु तर्हि नित्यातीन्द्रियस्यात्मनः कथमनुमानं भवन्मते ? इत्यत्राह—आत्मानुमान इति । न हि तत्र हेतुसाध्ययोर्व्याप्तिरदृष्टा । आश्रितत्वसामान्यस्य साध्यत्वेन कार्यत्वसामान्यस्य च हेतुत्वेन तयोः घटादौ प्रत्यक्षतस्सहचारदर्शनात् युज्यत आत्मानुमानमिति ॥

संयोगविभागात्मकदेशान्तरप्राप्त्या क्रियानुमानं निरस्य केवलसंयोगेन क्रियानुमानं दूषयति—न चेति । संयोगान्तं कर्मेति । उत्तरदेशसंयोगोत्पत्त्यां सत्यां क्रियाकार्यं निर्वृत्तमिति क्रियोपरमः सम्मतः इत्यर्थः । संयोगाननुमेयत्वे हेतुः—वर्तमानाया इति । क्रिया हि संयोगोत्पत्त्या उपरता ।
वादश्च सामान्यलक्षणे [पु। ४५] विस्तरेण निरस्तः ॥ अतीन्द्रियशक्त्यनुमानमपि न समीचीनम् एतेन शक्त्यनुमानमपि व्युदस्तं वेदितव्यम् । पुरा च सविस्तरमतीन्द्रियशक्तिनिराकरणं [पु। १०७-११४] कृतमेव ॥

तेनादृष्टक्रियाशक्तिस्वलक्षणमिति क्षमम् ।
नेदं सामान्यतोदृष्टं इति पूर्वोक्तमेव सत् ॥ २५६ ॥

इति मतुपि वतौ वा प्रत्यये वर्ण्यमाने
त्रिविधमिदमिहोक्तं युक्तमेवानुमानम् ॥
परकविरचितानां लक्षणानां त्वमुष्मिन्
सति न भवति शोभा भास्वतीवेन्दुभासाम् ॥ २५७ ॥

संयोगदर्शनकाले तु क्रिया नास्त्येव । प्रतीतिस्तु “चलति” इति वर्तमानकालिकीं क्रियां प्रदर्शयतीति भावः । तथा च क्रियाकाले संयोगस्यानुत्पत्तेः संयोगकाले क्रियाया नाशाच्च वर्तमानकालिकक्रियानुमानं दुर्घटम् ॥

एतेन—चलतीति प्रतीतिः क्रियाविषयिण्येव, न संयोगविभागविषयिणी । अतश्च न पूर्वोक्त [पुट। ३५३] दोषावकाशः । ज्ञानानुमेयत्ववादिनां भाट्टानां मते “अहं ज्ञानवान्” इति प्रतीतिर्यथाऽनुमितिरूपा तथा चलतीति प्रतीतिरप्यनुमितिरूपैव । अतश्च “संयुज्यते” इत्यादिप्रतीतितो बैलक्षण्यं उक्तप्रतीतेस्सुलभमिति न कोऽपि दोष इति—निरस्तम्; क्रियाया अनुमेयत्वे चलतीति वर्तमानताप्रतीतेर्दुर्घटत्वात् ॥

एतेन—नित्यातीन्द्रियानुमानासम्भवोपपादनेन । क्षमम्—समर्थं—निरवद्यं—क्षोदक्षममिति यावत् । मतुपीति—सूत्रघटकपूर्ववत्पद इत्यूह्यम् । लक्षणानां शोभा—इत्यन्वयः ॥

एतावता सौत्रमनुमानलक्षणं साङ्गमुपवर्णितम् । अथ प्रत्यक्षपरीक्षायामिवात्रापि परसम्मतान्यनुमानलक्षणानि कुतो न दूष्यन्ते ? इति शङ्कायां आह—
बौद्धोक्तप्रतिबन्धदूषणदिशा तल्लक्षणं दूषितम्
भूयोदृष्टमितान्वयैकशरणं शोच्यं पुनः शाबरम् ।
साङ्ख्यानां तु कुतोऽनुमानघटनोपादानरूपा यतः
तेषां जातिरसौ च तद्विकृतिवद्भिन्नेति दुःस्थोऽन्वयः ॥

बौद्धेत्यादि । “नान्तरीयकार्थदर्शनं तद्विदोऽनुमानम्” इति दिङ्नागः । यमन्तरा यो न भवति स नान्तरीयकः, तादृशार्थविज्ञानं—तद्विदः—तादृशनान्तरीयकत्वज्ञानवतः यज्जायते तदनुमान मेत्यर्थः । “त्रिरूपाल्लिङ्गात् यत् अनुमेये ज्ञानं तदनुमानम्” [न्या। वि।] इति धर्मकीर्तिः । पक्षसत्त्वादिकं त्रैरूप्यं पूर्वमेव वर्णितम् । एतल्लक्षणद्वयमपि अविनाभावगर्भितम् । स च तादात्म्यतदुत्पत्तिभ्यां उक्तः । तादात्म्यतदुत्पत्तिनिबन्धनाविनाभावस्य निरस्तत्वादेव तन्मूलकं तदीयलक्षणमपि निरस्तमेव, पृथक् न दूष्यत इत्यर्थः । भूयोदृष्टं— भूयोदर्शनम् । शावरमिति । “अनुमानं ज्ञातसम्बन्धस्य एकदेशदर्शनात् एकदेशान्तरेऽसन्निकृष्टेऽर्थे बुद्धिः” इति शाबरभाष्यम् । अत्र सम्बन्धश्च व्याप्तिरूपा । “भूयोदर्शनगम्या च व्याप्तिः” [श्लो। वा।] । एवं सत्यन्वयव्याप्तिमात्रमुक्तं स्यात् । न चान्वयमात्राद्व्याप्त्यवधारणं सम्भवति । किन्तु व्यतिरेकोपोद्बलितादन्वयात् इत्युक्तम् [३२१-पु।] । अतश्चैतदपि न समीचीनम् । सिद्धान्ते तु “तत्पूर्वकं” इति सामान्यत उक्तम् । तेन चान्वयव्यतिरेकदर्शने क्रोढीकृते इति न दोषः । साङ्ख्यानामिति । अनुमानघटना कुतः ? सर्वथा न सम्भवतीत्यर्थः । तत्र हेतुः—यतः तेषां जातिः उपादानरूपा इति । अस्तु तथा । ततः किमित्यत्राह—असौ जातिः तद्विकृतिवत् उपादानजन्यविकृतिवत् भिन्नेति अन्वयः—व्याप्त्यनुगमः दुस्स्थः । एतदुक्तं भवति—व्यक्तीनामननुगतत्वेन व्याप्तेर्दुर्ग्रहत्वे प्राप्ते जातिरेवानुगमिका वक्तव्या । निरूपितं चैतत्पुरस्तादेव । साङ्ख्यमते च जातिर्नाम न काचिदतिरिक्ताऽस्ति । अनुगतव्यवहारश्च उपादानद्रव्यनिबन्धनः तन्मते ॥

ननूपादानस्य मृदः ऐक्येऽपि घटशरावादिनानाविधकार्यदर्शनात् घटशरावादिषु एक एवानुगतधर्मः स्यात् । तथा च अयं घटः, अयं शराव इति विविक्तप्रतीतिः कथमिति चेत्; अतिरिक्तजातिवादे वा एकमृत्पिण्डारब्धे घटे शरावे च घटत्वशरावत्वयोः प्रतिनियमः कथमिति वक्तव्यम् । आकृतिभेदादिति चेत्; आकृतिः किं करोति ? इति वक्तव्यम् । कार्यभेदमिति चेत् तदस्माकमपि अनुमानं कालत्रयविषयम् इदमिदानीं चिन्त्यते । यदेतदिन्द्रियादिसन्निकर्षजत्वादिना लक्षितमस्मदादिप्रत्यक्षं तत्किल प्रायशो वर्तमानकालविशिष्टवस्तुविषयम् । एवमिदमनुमानमपि किं तद्गोचरमेव ? किं वा कालान्तरपरिच्छेदेऽपि क्षमम् ? इति । तदुच्यते—त्रिकालविषयमनुमानमिति । कस्मात् ? त्रैकाल्यग्रहणात् । त्रिकालयुक्ता अर्था अनुमानेन गृह्यन्ते । भूता नदीपूरेण वृष्टिरनुमीयते; सैव भविष्यन्ती मेघोन्नत्या; धूमेन वर्तमानोऽग्निरिति ॥

अतश्च यन्मीमांसकैरुच्यते—चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवञ्जातीयकमर्थं शक्नोत्यवगमयितुं, नान्यत् किञ्च इति—तदयुक्तम्—चोदनावत् प्रमाणान्तरस्याप्येवं जातीयकविषयत्वोपपत्तेः । प्रत्यक्षमपि योगिनां त्रिकालविषयमुक्तम् । अस्मदादीनामपि क्वचित्—इति ॥ तुल्यम् । सुखदुःखमोहात्मकं हि जगत् आहरणधारणादिकार्यभेदविशिष्टमेव दृश्यते । तादृशकार्यानुगमाच्च अनुगतव्यवहारो निर्वहतीति न कापि हानिरिति ॥

एवञ्चैतस्मिन् मते सुखदुःखमोहात्मकोपादानद्रव्यमेव जातिस्थानापन्नं वक्तव्यम् । सुखदुःखादिकार्याणां तद्धेतुभूतसत्त्वादिगुणानां च तत्तद्व्यक्तावेव पर्याप्तत्वेन विकृतिवत् नानात्वमेवेति नानुगमकत्वं तेषां सम्भवतीति अनुगतव्याप्तिग्रहः सर्वथा न सम्भवत्येवेति ॥

“सद्विषयं प्रत्यक्षं, सदसद्विषयं चानुमानं । कस्मात् ? त्रैकाल्यग्रहणात्” इति भाष्यं स्मरन् परीक्षामुपक्रमते—इदमित्यादि । योगिप्रत्यक्षस्य प्रतिभायाश्च त्रिकालविषयत्वस्य पूर्वं [२७७ पु।] स्थापितत्वात्—प्रायश इति ॥

एवमनुमानस्य त्रिकालविषयत्वेन चोदनासूत्रशाबरभाष्यं स्वयं गलितमित्याह—अतश्चेति । शाबरभाष्ये उपरितनवाक्यानन्तरं “नेन्द्रियम्” इति वर्तते । तच्च “नान्यत्किञ्च” इत्यस्यैव सनिदर्शनविवरणपरं व्याख्यातं “प्रदर्शनार्थमत्रोक्तमिन्द्रियं” इत्यनेन भट्टपादैः । तदपि न युक्तमित्याह—प्रत्यक्षमपीति । अतश्च “अतीतानागतेऽप्यर्थे सूक्ष्मे व्यवहितेऽपि च । प्रत्यक्षं योगिनामिष्टं कैश्चित्” इति पूर्वपक्षवार्तिकोक्तमेव साधीय इत्युक्तं भवति । क्वचित्—प्रतिभायाम् ॥ कालसद्भावाक्षेपः
अत्र चोदयन्ति । काले सति त्रैकाल्यग्रहणं चिन्त्यम्; स एव तु दुरुपपादः । तदभावे कस्य वर्तमानादिविभागो निरुप्यते ?

न तावद्गृह्यते कालः प्रत्यक्षेण घटादिवत् ।
चिरक्षिप्रादिबोधोऽपि कार्यमात्राबलम्बनः ॥ २५९ ॥

न चामुनैव लिङ्गेन कालस्य परिकल्पना ।
प्रतिबन्धो हि दृष्टोऽत्र न धूमज्वलनादिवत् ॥ २६० ॥

प्रतिभासातिरेकस्तु कथञ्चिदुपपत्स्यते ।
प्रचितां काञ्चिदाश्रित्य क्रियाक्षणपरम्पराम् ॥ २६१ ॥

न चैष ग्रहनक्षत्रपरिस्पन्दस्वभावकः ।
कालः कल्पयितुं युक्तः क्रियातो नापरो ह्यसौ ॥ २६२ ॥

तदभावे—कालस्यैवाभावे । ननु चिरक्षिप्रादिप्रतीतिरेव काले प्रमाणमित्यत्राह—न तावदिति । रूपवतो घटादेः प्रत्यक्षत्वं युज्यते, न त्वरूपस्य कालस्य । उक्तप्रतीतिस्तु कालोपाधित्वेन भवत्सम्मतकार्यवस्तुविषयतयाऽन्यथासिद्धः । कालाङ्गीकर्तृमतेऽपि विभोः कालस्याखण्डत्वेन उपाधिमन्तरा क्षणादिव्यवहारो न निर्वहेत । ततश्च तद्धेतोरेव तद्धेतुत्वे मध्ये किं तेन ? ननु कार्यस्वरूपस्य भानकाले सर्वत्र कालव्यबहाराभावात् ततोऽतिरिक्तं किञ्चित् तादृशव्यवहारनियामकमनुमास्यामः इत्यत्राह—न चामुनेति । चिरक्षिप्रादिव्यबहारः कालविषयकः, कालातिरिक्ताविषयकत्वे सति सविषयत्वात् । स व्यवहारः कालातिरिक्तद्रव्यस्वरूपाद्यविषयकः, परस्परविलक्षणप्रतीतिविषयत्वात्—इत्याद्यनुमानमत्र ग्राह्यम् । धूमेति—नित्यातीन्द्रियेऽनुमानाप्रवृत्तेरित्यर्थः । प्रतीतिस्त्वन्यथासिद्धेत्युक्तम् । ननु स्वरूप-कालप्रतीत्योर्वैलक्षण्यमनुभवसिद्धमित्यत्राह—प्रतिभासेति । तत्तद्विशेषणभेदात् यथा एक एव घटः नीलः, महान्, एकः इत्यादिप्रतिभासहेतुर्भवति तथा प्रकृतेऽपि युज्यते । ननु कोऽयं विशेषणभेदः प्रकृते इति चेत्—सूक्ष्मा क्रियैव । उक्तं खल्वनुपदमेव—“तद्धेतोरेव तद्धेतुत्वे मध्ये किं तेन कालेन” इति । ननु क्रिया क्षणचतुष्टयमात्रपरिमिता । ततोऽधिकव्यवहारः कथमिति चेत्, प्रतिक्षणमुपचीयमानक्रियापरम्परयैवेति गृह्यताम् । काल इति । अतिरिक्त इति
मुहूर्तयामाहोरात्रमासर्त्वयनवत्सरैः ।
लोके काल्पनिकैरेव व्यवहारो भविष्यति ॥ २६३ ॥

यदि त्वेको विभुर्नित्यः कालो द्रव्यात्मको मतः ।
अतीतवर्तमानादिभेदव्यवहृतिः कुतः ? ॥ २६४ ॥

कालः प्रत्यक्षगम्यः इति पक्षः एवमाक्षिप्ते सति—

प्रत्यक्षगम्यतामेव केचित् कालस्य मन्वते ।
विशेषणतया कार्यप्रत्यये प्रतिभासनात् ॥ २६५ ॥

क्रमेण, युगपत्, क्षिप्रं, चिरात् कृतमितीदृशाः ।
प्रत्यया नावकल्पन्ते कार्यमात्रावलम्बनाः ॥ २६६ ॥

न हि विषयातिशयमन्तरेण प्रतिभासातिशयोऽवकल्पते ॥ शेषः । सूर्यादिग्रहाणां अश्विन्यादिनक्षत्राणां परिस्पन्दाधीनः दिनादिव्यवहारः । तेषां परिस्पन्दो नाम क्रियैव । ततश्चातिरिक्तः कालः कुत्र सिद्ध इति । अतिरिक्तकालाङ्गीकारेऽपि मूहूर्तादिव्यवहारस्य पूर्ववदेव निर्बाह्यत्वेन भक्षितेऽपि लशुने न शान्तो व्याधिरित्याह—यदि त्विति । कालस्याविभुत्वेऽनेकत्वेऽनित्यत्वे च तदङ्गीकरणमेव निरर्थकमिति भावः । कुत इति । यद्युपाधिमिः, तर्ह्युक्तः “भक्षितेऽपि” इति न्यायः ॥

केचिदिति । “कालश्चैको विभुर्नित्य प्रविभक्तोऽपि गम्यते । वर्णवत् सर्वभावेषु व्यज्यते केनचित् क्वचित्” इति [श्लो। वा। १-१-६ शब्द ३०३] कुमारिलः । अत्र पार्थसारथिः—“ननु नायं कालः स्वातन्त्र्येण गम्यते । ततः किमस्य सद्भावे प्रमाणम् ? अत आह—सर्वेति । भावेषु गृह्यमाणेषु तद्विशेषणतया केनचित्पूर्वत्वेनापरत्वेन वा गृह्यते । इदं पूर्वं, इदमुत्तरं इति प्रत्ययः भावमात्रमनालम्बमानः वस्त्वन्तरमवस्थापयति, स एव कालः” ॥

विषयेति—क्रियादीनां तद्विषयत्वं तूत्तरत्र निराक्रियते ॥ अरूपस्यापि कालस्य प्रत्यक्षत्वम्
अरूपो नन्वयं कालः कथं गृह्येत चक्षुषा ?
रूपमेव तवारूपं कथं गृह्येत चक्षुषा ? ॥ २६७ ॥

कथं वा रूपवन्तोऽपि परोक्षाः परमाणवः ?
तस्मात् प्रतीतिरन्वेष्या किं निमित्तपरीक्षया ? ॥ २६८ ॥

ननु ! द्रव्येऽयं नियमः, न रूपादौ । द्रव्येऽपि नायं नियमः, यत् रूपवत् तत् प्रत्यक्षमिति—येन परमाणूनां तथाभावः स्यात् । किन्तु यत् प्रत्यक्षं, तत् रूपवदिति । तदुक्तम्—“त्रयाणां प्रत्यक्षत्वरूपवत्त्वद्रवत्वादीनि” [प्रश-भा-द्रव्य] इति ॥

नेदं दैविकं वचनं—यदनतिक्रमणीयम् । न च वचनेन प्रत्यक्षत्वमप्रत्यक्षत्वं वा व्यवस्थाप्यते । प्रत्यक्षत्वं हि ऐन्द्रियिकप्रतीतिविषयत्वमुच्यते । तच्चेदस्ति कालस्य, नीरूपस्यापि प्रत्यक्षता केन वार्यते ! रूपवत्त्वं तद्द्रव्याणामस्तु, तथा दर्शनात् ॥

अरूपमिति । न हि रूपे रूपान्तरं वर्तते । अथापि तत् प्रत्यक्षमेव । रूपवतामपि परमाण्वादीनां अप्रत्यक्षत्वेन, अरूपाणामपि रूप-सङ्ख्यादीनां प्रत्यक्षत्वेन प्रत्यक्षत्वाप्रत्यक्षत्वयोः प्रतीतिरेव शरणीकर्तव्या ॥

द्रव्यचाक्षुष एव रूपं कारणं, न तु रूपादिगुणचाक्षुषे इति शङ्कते— नन्विति । परमाण्वाद्यप्रत्यक्षत्वं समर्थयति—द्रव्येऽपीति । धूमवान् वह्निमानिति कथिते—न हि वह्निमान् धूमवान् इत्यपि सम्भवतीति भावः । उक्तार्थे प्रशस्तपादाचार्यसम्मतिमाह—तदुक्तमिति । अत्र पृथिव्यप्तेजसामेव प्रत्यक्षत्वकथनात् कालादीनामप्रत्यक्षत्वं सिद्धम् । अत्र चात्मादिषु वारणाय प्रत्यक्षपदं बाह्यप्रत्यक्षपरं व्याख्यातं कन्दल्यां श्रीधरेण ॥

इदं—प्राशस्तपादिकम् । तद्द्रव्याणां—रूपवद्द्रव्याणां । कार्यकारणभावनिर्णये अनुभव एव हि प्रमाणमित्यर्थः । कालस्य प्रत्यक्षत्वेऽनुभव
न चानुद्धाटिताक्षस्य क्षिप्रादिप्रत्ययोदयः ।
तद्भावानुविधानेन तस्मात् कालस्तु चाक्षुषः ॥ २६९ ॥

स्वतन्त्र एव तर्हि घटादिवत् कस्मान्न गृह्यते काल इति चेत्— वस्तुस्वभाव एष न पर्यनुयोगार्हः । रूपिद्रव्यविशेषणतां गतस्य तस्य ग्रहणम्, न दण्डादिवत् स्वतन्त्रस्यापीति । गगनादेस्त्वन्यविशेषणतयाऽपि न ग्रहणमस्तीति तस्याप्रत्यक्षत्वम्, न त्वरूपत्वात् ॥ प्रत्यक्षे रूपं अप्रयोजकम् अथ वदेत्—विशेषणस्यापि रूपवत एव दण्डादेः चक्षुषा ग्रहणम्, न कालादेरिति—तदयुक्तम्—अरूपस्यापि सामान्यादेः विशेषणस्य चक्षुषा ग्रहणात् । द्रव्ये नियम इति चेत्; उक्तमत्र, यदेव नयनकरणकावगमगोचरे सञ्चरति तदेव चाक्षुषं रूपवदरूपं वा, द्रव्यमद्रव्यं वेति ॥ माह—न चेति । तद्भावः—चक्षुरिन्द्रियसद्भावः । तथा च कालो यदि न चाक्षुषस्तर्हि निमीलिताक्षस्यापि चिरक्षिप्रादिप्रत्ययापत्तिः ॥

ननु यदि कालः प्रत्यक्षः तदा स्वातन्त्र्येण तत्प्रत्यक्षं स्यात् प्रत्यक्षद्रव्यत्वात्, घटादिवत् । न च भूतलं घटवदित्यादौ घटादेरपि विशेषणतयैव भानमस्तीति शङ्क्यम्; सर्वत्र भूतलभानानियमात् । भूतलभानेऽपि घटप्रत्यक्षं प्रति तद्भानस्याप्रयोजकत्वात् । कालस्तु कदाऽपि न स्वतन्त्रः प्रत्यक्षो दृष्ट इति कालो न प्रत्यक्षद्रव्यमिति शङ्कते—स्वतन्त्र इति । ननु अरूपवतामपि प्रत्यक्षत्वे गगनस्यापि प्रत्यक्षत्वापत्तिरिति शङ्कायां, भवन्मते रूपवतां परमाण्वादीनामप्रत्यक्षत्वाद्रूपवत्वमात्रं यथा न प्रत्यक्षप्रयोजकं तथास्माकं अरूपवत्त्वमपि न प्रत्यक्षप्रयोजकम् । प्रतीतिरेव प्रत्यक्षत्वाप्रत्यक्षत्वे प्रमाणमिति वदति— गगनादेस्त्विति ॥

उक्तमिति । अयं भावः—चाक्षुषप्रत्यक्षं प्रति रूपं कारणमित्युक्ते सामान्ये व्यभिचारे आपादिते “द्रव्यचाक्षुषं प्रति” इति सङ्कोचे किं प्रमाणम् ? यद्यनुभवः, तर्हि कालप्रत्यक्षत्वस्याप्यनुभवात् “कालभिन्नद्रव्यचाक्षुषं प्रति” इति सङ्कोचः क्रियताम्, न हि भवदिच्छैव नियामिकेति ॥

एवं “गुरु द्रव्यम्” इति कार्तस्वरादौ प्रतिभासात् गुरुत्वमपि प्रत्यक्षं, न पतनानुमेयमेव ॥

तस्मात् स्वतन्त्रभावेन विशेषणतयाऽपि वा ।
चाक्षुषज्ञानगम्यं यत् तत्प्रत्यक्षमुपेयताम् ॥ २७० ॥

अत एव प्रत्यक्षः कालः । एवं समानन्यायत्वात् पूर्वापरादिप्रत्ययगम्या दिगपि प्रत्यक्षा वेदितव्येति ॥ कालस्यानुमेयत्वपक्षः
अन्ये मन्यन्ते—दण्डी देवदत्तः, नीलमुत्पलं इतिवद्विषयातिरेकस्याग्रहणात् प्रत्ययातिशयस्य च परोक्षकालपक्षेऽपि तत्कारणकस्योपपत्तेरनुमेय एव कालः ॥

ननु प्रतीतिमात्राद्यदि प्रत्यक्षत्वं तर्हि “गुरु द्रव्यम्” इत्यादिप्रत्ययात् गुरुत्वमपि प्रत्यक्षं स्यात् इति शङ्कामिष्टापत्त्या परिहरति—एवमिति । एवकारेण प्रत्यक्षत्वमपि कुत्रचिदिति सूचितम् । अतश्च प्राथमिकगुरुत्वग्रहणस्यानुमानाधीनत्वेऽपि असकृदनुभूतस्थले तत्प्रत्यक्षमपि भवतीति सूचितम् । उक्तन्यायं दिश्यप्यतिदिशति—एवमिति । “पूर्वस्यां घटः” इस्यादिप्रतीतेस्सत्वादिति शेषः ॥

स्वसिद्धान्तमाह—अन्य इति । विषयातिरेक इति । केवलदेवदत्तप्रतीत्यपेक्षया दण्डी देवदत्त इत्यादौ देवदत्तस्वरूपातिरिक्तो विषयः दण्डादिर्यथा स्पष्टमवभासते तथा कालादिर्नातिरिक्तः स्पष्टमवभासत इति कालो न प्रत्यक्ष इत्यर्थः । ननु चिरक्षिप्रादिप्रतीतिस्सर्वसिद्धा । नेयं प्रतीतिः स्वरूपमात्रालम्बना, स्वरूपभानकाले सर्वत्र तथाऽनवभासात् । अतश्चातिरिक्तकालविषयकत्वं तादृशप्रतीतीनां सिद्धमिति चेत्; तत्राह—प्रत्ययेति । अयं भावः । अस्ति चिरक्षिप्रादिप्रतीतिविषयः द्रव्यस्वरूपातिरिक्तः कालः । न हि वयं कालमेव निषेधयामः, किन्तु तत्प्रत्यक्षतामेव । स च कालः अनुमेयोऽपि प्रतीताववभसितुमीष्ट एव । न हि प्रत्ययविषयः सर्वोऽपि प्रत्यक्षविषयः । “ज्ञातो घटः” इत्यादिषु अनुमितस्यापि ज्ञानस्य भानदर्शनात् । अतः कालोऽस्ति, परन्त्वनुमेयस्य इति । तत्कारणकस्य—परोक्षकालकारणकस्य । इदं प्रत्ययातिशयविशेषणम् ॥

अप्रत्यक्षत्वमात्रेण न च कालस्य नास्तिता ।
युक्ता पृथिव्यधोभागचन्द्रमःपरभागवत् ॥ २७१ ॥

अप्रतिभासमानोऽपि कालः संस्कार इवेन्द्रियसहचरितः प्रत्यभिज्ञां क्षिप्रादिप्रतीतिं जनयिष्यति । कृतश्च प्रत्यक्षलक्षणे [पु। २१७-२१८] महान् कलिः—किं विषयभेदादेव प्रतिभासभेदः ? उतोपायभेदादपि ? इति । तदलं पुनस्तद्विमर्देन ॥ कालस्यातिरिक्तत्वसाधनम्
प्रमाणमिति निर्णीतं प्रत्यक्षं सविकल्पकम् ।
तस्मान्न कल्पनामात्रं चिरक्षिप्रादिसंविदः ॥ २७२ ॥

न चासां परिदृश्यमानकारणविनिर्मितत्वमुपपद्यते; क्रियमाणस्य पटादेः कार्यस्य, तदुत्पादकस्य च तन्तुतुरीवेमशलाकाकुविन्दादिकारणबृन्दस्य साम्येऽपि क्वचित्तूर्णं कृतम्, क्वचिच्चिरेण कृतमिति प्रतिभासभेददर्शनात् निमित्तान्तरं चिन्तनीयम् ॥

ननु एकस्मिन्नेव प्रत्यये विशेष्यस्य द्रव्यस्य प्रत्यक्षत्वं, विशेषणस्य कालस्यानुमेयत्वमिति कथं घटतामित्यत्राह—अप्रतिभासमान इति । इन्द्रियसहचरितः संस्कारः प्रत्यभिज्ञामिव इत्यन्वयः । इदमुक्तं भवति—क्षिप्रं गच्छतीति ज्ञानं न सांशं, येन विशेष्यांशः विशेषणांश इति व्यवह्नियेत; किन्तु संस्कार—इन्द्रियजन्यप्रत्यभिज्ञेव विशिष्टमेकं ज्ञानम् । सामग्रीद्वयजन्यं ज्ञानं कथमेकं भवतीत्यादिकं तु पूर्व [पुट। २१८] मेव विचारितम् । कलिः—कलहः ॥

द्रव्यकल्पनावत् कालकल्पनाया अपि अप्रमाणत्वेन कालासिद्धिं ब्रुवन्तं सौगतं प्रत्याह—प्रमाणमिति । आसां—चिरक्षिप्रादिसंविदाम् । परिदृश्यमानकारणं—क्रियादिरूपम् । चिरक्षिप्रनिर्वर्त्यमानयोः पटयोः न हि क्रियावर्गे न्यूनाधिकभावः वक्तुं शक्यः, सामग्रीतौल्यात् । अतः चिरक्षिप्रादिप्रतीतिः क्रियातिरिक्तनिबन्धनैव वाच्येति ॥ न देवदत्तादिक्रियालम्बनाः चलतीत्यादिप्रत्ययाः
ननु ! परिस्पन्दादिक्रियाभेद एवात्र निमित्तम् । कश्चित्परिस्पन्दश्चतुरः, कश्चिन्मन्थर इति क्वचित् क्षिप्रबुद्धिः, क्वचिच्चिरबुद्धिरिति— नैतच्चारु—परिस्पन्दगतयोरपि चातुर्यमान्थर्ययोर्निमित्तान्तरकार्यत्वात् । परिस्पन्देऽपि—चिरेण गच्छति, शीघ्रं धावतीति चिरक्षिप्रादिप्रतीतिर्दृश्यते ॥ न सूर्यादिपरिस्पन्दालम्बनाः चलतीत्यादिप्रत्ययाः
आह—न देवदत्तादिपरिस्पन्दनिबन्धनाः क्रमाक्रमादिप्रत्ययाः, किन्तु ग्रहनक्षत्रादिपरिस्पन्दनिबन्धनाः । स एव च ग्रहतारादिपरिस्पन्दः काल इत्युच्यते । तत्कृत एवायं यामाहोरात्रमासादिव्यवहारः । तस्य स्वत एव भेदादौपाधिकभेदकल्पनाक्लेशो न भविष्यति । भेदपरिच्छेदे नालिकाप्रहरादिरुपायः—इयती नालिका, इय-

ननु क्रियावर्गसाम्येऽपि क्रियास्वरूपेऽस्ति विशेषः प्रत्यक्षसिद्धः इति शङ्कते—नन्विति । क्रिययोर्विशेषमुपपादयति—कश्चिदिति । अलसः पुरुषः यावदेकवारं हस्तं चालयति तावत्येव चतुरः चतुःपञ्चवारं हस्तं चालयति । अतश्च क्रियासाम्येऽपि चतुरालसपुरुषाधीनः क्षिप्रचिरादिव्यवहार इति नातिरिक्तकालसिद्धिरित्यर्थः । परिस्पन्देत्यादि । अयमर्थः—सत्यं पुरुषाधीनः चिरक्षिप्रादिभेद इति । परन्त्विदमत्र वदतु भवान् । चतुरः अलस इति पुरुषभेदः किमधीन इति । यावदेकवारं पदं निक्षिपत्यलसः, तावच्चतुःपञ्चवारं पदं निक्षिपति चतुर इति स्वलु तन्निरूपणीयम् । अत्र यावत्तावच्छब्दार्थः कः ? यदि स्वरूपातिरिक्तः कालो नाम न स्यात् परिमितकाले चतुःपञ्चपदनिक्षेपात् शैघ्र्यं, तावत्येव च काले एकपदनिक्षेपात् चिरत्वं चोपपादनीयं कथमुपपाद्येत ? अतः क्रियातिरिक्तोऽस्ति काल इति ॥

ननु भावानभिज्ञो भवान् । चिरक्षिप्रादिप्रतीतानां न परिदृश्यमानक्रियाविषयत्वं ब्रूमः । किन्तु सूर्यादिपरिस्पन्दादिविषयत्त्वम् । एकस्माद्देशात् देशान्तरं गच्छति सवितरि, तदैव कश्चित् क्रोशमेकं गच्छति । अन्यस्तु क्रोशद्वयमिति चिरक्षिप्रप्रत्ययौ स्यातामिति शङ्कते—आहेति । ननु तर्हि कुतः
न्मुहूर्तम्, इयान् प्रहर इति । तत्रैकस्मिन् मुहूर्ते प्रहरे वा निर्वर्त्त्यमानेषु बहुषु कार्येषु युगपदिति भवति मतिः; मुहूर्तान्तरापेक्षेषु क्रमेणेति । तस्मात् ग्रहादिपरिस्पन्द एव तैस्तैर्निमित्तैरुपलक्ष्यमाणप्रमाणः काल इति । कालविदश्च ज्योतिर्गणकास्त एवैनं बुध्यन्ते ॥

तदसाम्प्रतम् चन्द्रादिग्रहपरिच्छेदेऽपि क्रमादिप्रतीतिदर्शनात् ॥ चिरेणास्तं गतो भानुः शीतांशुः शीघ्रमुद्गतः ।
उदिताविव दृश्येते युगपद्भौमभार्गवौ ॥ २७३ ॥

इति दृश्यते प्रतिभासः । न च ग्रहान्तरपरिस्पन्दकारणक एष शक्यते वक्तुं; अनवस्थाप्रसङ्गात् । तस्मान्न ग्रहादिपरिस्पन्दः कालः, किन्तु वस्त्वन्तरम्, यत्कृतोऽयं क्रमाक्रमादिव्यवहारः ॥ कालः स्वपरनिर्वाहकः ननु ! भवत्कल्पितोऽपि कालः किं स्वत एव क्रमाक्रमस्वभावः ? हेत्वन्तराद्वा ? स्वतस्तस्य तत्स्वभावत्वे कार्यस्यैव पटादेः परिदृश्यमानस्य तत्स्वाभाव्यं भवतु ! किं कालेन ? हेत्वन्तरपक्षे त्वनवस्था, तस्यापि हेत्वन्तरापेक्षत्वादिति— कोऽपि क्रियाकालपदौ पर्यायेण न व्यवहरति ? इति शङ्कायामाह— तेस्तैरित्यादि । एकस्यैव प्रदेशस्य पुरुषबुद्धिकल्पितोपाधिभेदैः नल्वक्रोशगव्यूत्यादिविलक्षणव्यवहारवदिति शेषः । ननु कानि तानि निमित्तान्युपाधिभूतानीत्यत्राह—कालविद इति ॥

चिरेणेति । वसन्तर्तौ अहःप्रमाणाधिक्यात् चिरेण सूर्यास्तमयः । हेमन्तर्तौ रात्रिप्रमाणाधिक्यात् शीघ्रं चन्द्रोदयः ॥

अथ “इदानीमेकः क्षणः गतः” इत्यादौ कालस्यापि कालान्तरसम्बन्धः प्रतीयते । तथा चानवस्था । एकस्यैव स्वपरनिर्वाहकत्वे तत् क्रियादीनामेवास्त्विति शङ्कते—नन्विति ॥

तदेतद्बालिशचोद्यम्—शुक्लगुणादावप्येवं वक्तुं शक्यत्वात् । गुणस्य स्वतः शुक्लस्वभावत्वे द्रव्यस्यैव तद्भवतु ! किं गुणेन ? गुणान्तरकल्पने त्वनवस्थेति ॥

अथ तत्र तथा दर्शनात् नेदं चोद्यम्; तदिहापि समानम् । कार्येषु पटादिषु निमित्तान्तरकृतः क्रमादिव्यवहारः, निमित्तान्तरे निमित्तान्तरं न मृग्यमिति । तस्मादस्ति युगपदादिव्यवहारहेतुः कालः ॥

अतश्चैवम्—

दृष्टः परापरत्वस्य दिक्कृतस्य विपर्ययः ।
युवस्थविरयोः सोऽपि विना कालं न सिद्ध्यति ॥ २७४ ॥

दूरतरदिगवच्छिन्नो देवदत्तादिः पर इति प्रतिभासते, निकटदिगवच्छिन्नस्तु अपर इति । ते एते दिक्कृते परत्वापरत्वे विपरिवर्तमाने दृश्येते । दूरस्थो हि युवा अपर इत्युच्यते, निकटस्थोऽपि स्थविरः पर इति । तदत्र न कालव्यतिरिक्तं कारणमुपपद्यते इत्यतोऽनुमीयते कालः ॥

तथा दर्शनात्—द्रव्यस्वरूपातिरिक्ततया दर्शनात् । कार्यस्यैव स्वपरनिर्वाहकत्वे हेतुमाह—कार्येष्विति । दर्शनस्यान्यथाऽनुपपत्त्या तदुपपादकपदार्थान्तरनिर्णयसमये निर्णीयमानः स पदार्थः सर्वाक्षेपसमाधानसमर्थशक्ति विशेषविशिष्ट एव निर्णीयेत । विनिगमनाविरहात् दृष्टेषु वस्तुषु अतिशयाङ्गीकारासम्भवाच्च परिदृश्यमानानां तदुपपादकत्वं न सम्भवति । यथा ईश्वरानुमानादौ । अतः कार्याणां स्वपरनिर्वाहकत्वं न सम्भवति । सिध्यंस्तु कालः तादृश एव सिध्यति ॥

कालसद्भावे प्रमाणान्तरमप्याह—दृष्ट इति । दिक्कृतस्य परापरत्वस्य विपर्ययः युवस्थविरयोर्दृष्ट इत्यन्वयः । विपर्ययमेवोपपादयति—दूरतरेत्यादिना । दूरस्थ इत्यादि । देशापेक्षया परः युवा कालापेक्षया अपरः । देशापेक्षया अपरोऽपि स्थविरः कालापेक्षया परः । अतः वस्तुस्वरूपाद्यतिरिक्तः काल एवितव्य एव ॥ कालः एक एव
स चायमाकाशवत् सर्वत्रैकः कालः । यथाऽऽकाशलिङ्गस्य शब्दस्य सर्वत्राविशेषात् विशेषलिङ्गाभावाच्चैकः, तथा ॥

सर्वत्र तद्व्यवहाराद्विभुः । अवयवाश्रयानुपलम्भात् निरवयवः, अनाश्रितश्च । अनाश्रितत्वादेव द्रव्यम् । अत एवावयवविभागादिनाशकारणानुपपत्तेर्नित्य इति ॥ एकस्यापि कालस्य वर्तमानादिभेदोपपत्तिः
ननु ! एवञ्चैकत्वात् कालस्य कुतो वर्तमानादिविभागः ? तदभावात् कथं त्रिकालविषयमनुमानमुच्यते ?—उच्यते—न तात्त्विकः कालस्य भेदो वर्तमानादिः । किन्त्वसन्नप्यसौ व्यवहारसिद्धये केनचिदुपाधिना कल्प्यते ॥ कालोपाधिः
कः पुनरसावुपाधिः ? क्रियेति ब्रूमः । ननु तस्या अपि न स्वतो वर्तमानादिभेदः; तद्भावे वा सैव तथा भवतु ! किं कालेन ?— मैवम्—उत्पत्तिस्थितिनिरोधयोगिफलावच्छेदेन नानाक्षणपरम्परात्मिका क्रियेत्युच्यते, सा वर्तमानादिभेदवती च । तथा हि— स्थाल्यधिश्रयणात् प्रभृति आतदवतरणादुत्पद्यमानौदनाख्यफला-

एक इति । कार्यानुगेधादनुमाने एकत्वेऽपि कार्योपपत्ते इति हेतुरूह्यः ॥

अवयवाश्रयः—अवयवरूपः आश्रयः । अत एव—अवयवानाश्रितत्वादेव । विभागादि—आदिना नाशपरिग्रहः ॥

तदभावात्—विभागाभावात् । तात्त्विकः—तत्त्वकृतः । एक एव क्षणः स्वपूर्वक्षणापेक्षया भविष्यन्निति, स्वापेक्षया वर्तमान इति, अनन्तरक्षणापेक्षया भूत इति च व्यवह्नियते । अतो भूतत्वादिः न स्थिरो धर्मः, किन्तु बुध्यपेक्ष एवेति न काले भेदः ॥

तथा—भवदभिमतकालस्थानापन्नः । उत्पत्तीत्यादि । क्रियायामपि अस्ति सूक्ष्मो भेदः । एका ह्युत्पन्ना क्रिया द्वितीयक्षणे विभागं, ततः पूर्वसंयोगनाशं, ततः उत्तरदेशसंयोगं चोत्पाद्य पञ्चमे क्षणे नश्यति । नैतेष्वन्य
वच्छेदात् क्रिया वर्तमानोच्यते “पचति” इति; तदवच्छेदात् घटाकाशवत् कालोऽपि तावान् वर्तमान इत्युच्यते । अभिनिर्वृत्तफलावच्छेदात्मा परिस्पन्दसन्ततिरतीता भवति—“अपाक्षीत्” इति; तदवच्छेदात् कालोऽप्यतीत उच्यते । अनारब्धफलावच्छेदात् भविष्यन्ती क्रियोच्यते “पक्ष्यति” इति; तथा कालोऽपीत्येवमौपाधिकः काले वर्तमानादित्रयव्यवहारः ॥ वर्तमानकालसमर्थनम् अतश्च यदुच्यते—वृक्षात् पततः पर्णस्य भूतभविष्यन्ताबध्वानौ दृश्येते, न वर्तमानः । तस्माद्वर्तमानः कालो नास्तीति—तदसम्बद्धम्—अध्वव्यङ्ग्यत्वाभावात् कालस्य । न ह्यध्वव्यङ्ग्यः कालभेदः । किन्तु यथोक्तक्रमेण क्रियाव्यङ्ग्य एवेति । क्रियापरिकल्पितभेदनिबन्धनश्चायं क्षणलवकाष्ठाकलानालिकामुहूर्तयामाहोरात्रमासर्त्वयनसंवत्सरयुगमन्वन्तरकल्पव्यवहार इत्यलं प्रसङ्गेन ॥ तमं परित्युक्तुं शक्यम् । एवञ्च एकस्या एव क्रियायाः स्थितिकाले मध्ये अवान्तरसूक्ष्मभेदात्, ततः—ततः इति अस्ति भेदः । अत एतावती दीर्घशरीरा क्रिया न क्षणोपाधिर्भवितुमर्हति । तत्राप्यवान्तरभेदात् अतीतादिभेदः सहजः । अतः तत्रातीतादिव्यवहारः उपाध्यन्तरेण चेदनवस्था । येन उपाधिना परिच्छिन्ना क्रियेत्युच्येत, तत्स्थाने काल एव भवतु । अतः सर्वत्र एतादृशव्यबहाराय कल्प्यः कालः अखण्डः कल्पयितुं शक्यः । क्रियायास्तु अखण्डत्वं अनुभवविरुद्धम् । अतः सार्वदिकसार्वत्रिकव्यवहारहेतुः कालः अतिरिक्त एव ॥

अथ “वर्तमानाभावः पततः पतितपतितव्यकालोपपत्तेः” [न्या-सू-२-१-४०] इतिसूत्रोक्तं विचारं प्रदर्शयति—अतश्चेत्यादि । “वृक्षात्” इत्यस्य स्थाने “वृन्तात्” इति भाष्ये क्वचित् पाठः । वृन्तात्प्रच्युतस्य भूमिं प्रत्यासीदतः फलस्य वृक्षस्य च मध्ये यो देशः—अध्वा सः भूतः, फलस्य भूमेश्च मध्ये यो देशः—अध्वा स भविष्यन्, एतदतिरिक्तः देशो न हि कश्चित् तृतीय उपलभ्यते । अतः वर्तमानकाल इति कश्चिन्नास्त्येवेति पूर्वपक्ष्याशयः । “नाध्वव्यङ्ग्यः कालः, किं तर्हि ? क्रियाव्यङ्ग्यः” इति भाष्यमनुसृत्याह—अध्वेति । भूतभविष्यन्निर्देशश्च कालभेदपरिज्ञानस्य प्रयोजनम् तिथ्यादिभेदावधारणं च वैदिककर्मप्रयोगाङ्गम्, “पौर्णमास्यां पौर्णमास्यां यजेत” “अमावास्यायाममावास्यायां च” इति । एवं वसन्ताद्युतुभेदोऽपि तदङ्गम्; “वसन्ते ब्राह्मणोऽग्नीनादधीत, ग्रीष्मे राजन्यः, शरदि वैश्यः, वर्षासु रथकारः” इति ॥ ऋत्वादिभेदः स चायमृतुतिथ्यादिविभागः क्रिययैव ज्योतिश्शास्त्रोपदिष्टविशिष्टराशिसंसृष्टचन्द्रादिग्रहगतया लक्ष्यते, लौकिकेन च लक्ष्मणा तेन तेनेति । तद्यथा—

चञ्च्वग्रचुम्बिताताम्रचूताङ्कुरकदम्बकैः ।
कथ्यते कोकिलैरेव मधुर्मधुरकूजितैः ॥ २७५ ॥

दिवाकरकरालातपातनिर्दग्धवीरुधः ।
मार्गास्समल्लिकामोदा भवन्ति ग्रीष्मशंसिनः ॥ २७६ ॥

शिखण्डिमण्डलारब्धचण्डताण्डवडम्बरैः ।
प्रावृडाख्यायते मेघमेदुरैर्मेदिनीधरैः ॥ २७७ ॥

मौक्तिकाकारविस्तारितारानिकरचित्रितम् ।
शरत्पिशुनतां याति यमुनाम्भोनिभं नभः ॥ २७८ ॥

आयामयामिनीभोगसफलाभोगविभ्रमाः ।
हेमन्तमभिनन्दन्ति सोष्माणस्तरुणीस्तनाः ॥ २७९ ॥

मध्यस्थवर्तमानापेक्षयैव । तथा च तादृशफलस्य यो देशः तदपेक्षयैव वर्तमानकालसिद्धिः । अन्यथा वर्तमानकालस्याप्यभावे तयोरप्यभाव एव । न च तर्हि मा स्तां तौ इति शङ्क्यम्—क्षणभङ्गभङ्गेन वर्तमानमात्रस्यासिद्धेः ॥

मेदिनीधराः—पर्वताः । शरत्पिशुनतां—शरत्कालसूचकत्वम् । आयामेति । हेमन्तर्तौ हि रात्रिपरिमाणः अहः परिमाणापेक्षयाऽधिकः । आभोगः—परिपूर्णता ॥

आस्कन्दनदलत्कुन्दकलिकोत्करदन्तुराः ।
वदन्ति शिशिरं वाताः तुषारकणकर्कशाः ॥ २८० ॥

तस्मादेकोऽप्ययं कालः क्रियाभेदाद्विभिद्यते ।
एतेन सदृशन्यायात् मन्तव्या दिक् समर्थिता ॥ २८१ ॥

दिशोऽतिरिक्तत्वम्
पूर्वपश्चिमादिप्रत्ययानां केवलवृक्षादिप्रत्ययवैलक्षण्येन कारणान्तरानुमानात् । दिग्लिङ्गाविशेषादेकत्वेऽपि दिशो दशविधाः । प्रदक्षिणावर्तपरिवर्तमानमार्तण्डमण्डलमरीचिनिचयचुम्ब्यमानकाञ्चनाचलकटकसंयोगोपाधिकृतः पूर्वपश्चिमादिभेदः कल्प्यते—पूर्वा, पूर्वदक्षिणा, दक्षिणा, दक्षिणपश्चिमा, पश्चिमा, पश्चिमोत्तरा, उत्तरा, उत्तरपूर्वा, अधस्तनी, ऊर्ध्वा चेति । देवतापरिग्रहवशाच्च पुनरेषैव दिक दशधोच्यते—ऐन्द्री, आग्नेयी, याम्या, नैरृती, वारुणी, वायव्या, कौबेरी, ऐशानी, नागीया, ब्राह्मी चेति ॥ दिक्कालयोरेकत्वे प्रमाणम्
ननु च ! येनैव प्रत्ययेन प्रत्यक्षेण लिङ्गेन वा सता दिक्कालाववगम्येते तेनैव तयोर्भेदग्रहणात्कथमेकत्वम् ? तदवगमसमय एव तथा भेदप्रतिभासात्—उक्तमत्र—सर्वत्र तत्प्रत्ययाविशेषादिति ॥

व्यत्ययदर्शनाच्च—यैवैकत्र पूर्वा दिक्, सैवान्यत्र दक्षिणेति गृह्यते—“प्राग्भागो यः सुराष्ट्राणां, मालवानां स दक्षिणः—”इति ॥

कालेऽपि चिरक्षिप्रादिविभागश्चाव्यवस्थित एव दृश्यते—यो हि अनागत इति परिस्फुरति कालः, स एव वर्तमानो भवति, भूतो

दिग्लिङ्गेति । सर्वत्र हि प्राच्यादिव्यवहार एकरूप एव दृश्यत इत्यर्थः । नागीया—नागसम्बन्धिनी । ब्राह्मी—ब्रह्मसम्बन्धिनी । नागलोको हि सर्वाधस्ताद्वर्तते, ब्रह्मलोकश्च सर्वोपरिष्टादिति पुराणप्रसिद्धिः ॥

कालदिशोरेकत्वं धर्मिग्राहकप्रमाणविरुद्धमिति शङ्कते—नन्विति । सर्वत्रेति । न हि दिग्व्यवहारे देशभेदेन वैलक्षण्यं दृष्टमित्यर्थः ॥

व्यत्ययेति । तथा च प्राक्त्वादिकस्य प्रतिनियतत्वाभावोऽपि दिगैक्यगमकः ॥

भवति च । तथ च चिरमपि शीघ्रीभवति, शीघ्रमपि चिरीभवति । तस्मात्तद्भेदोऽप्यौपाधिक इति सिद्धम् ॥

समानतन्त्रे दिक्कालौ वैतत्येन विचिन्तितौ ।
तन्नेह लिख्यते, लोके द्वेष्या हि बहुभाषिणः ॥ २८२ ॥

सिद्धः कालश्चाक्षुषो लैङ्गिको वा
तन्नानात्वं सिद्धमौपाधिकं च ।
तस्माद्युक्तं निश्चिकाय त्रिकाल-
ग्राहीत्येवं सूत्रकारोऽनुमानम् ॥ २८३ ॥

इत्यनुमानपरीक्षा अथोपमानम् उपमानलक्षणम्
अनुमानानन्तरमुपमानं विभागसूत्रे पठितमिति तत्क्रमेण तस्य लक्षणमुच्यते—

प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम् ॥ १-१-६ ॥

चिरमिति । चतुरपुरुषस्य गमनक्रियापेक्षया मन्दक्रियायाश्चिरत्वेऽपि इयं मन्दतरपुरुषक्रियापेक्षया शीघ्रा भवतीति चिरत्वशीघ्रत्वादि वा अतीतानागतत्वादि वा न प्रतिनियतमिति दिक्कालावेकैकावेव ॥

समानतन्त्रे—वैशेषिकदर्शने ॥

विभागसूत्र इति । तत्र वा उपमानस्य शब्दात्प्रथमं निर्देशे किं बीजमिति चेत्—अत्र केचित्—सूचीकटाहन्यायेन अल्पग्रन्थत्वादुपमानस्य प्राथम्यम् । न च तावता प्रत्यक्षापेक्षयाऽपि प्रथमं निर्देशापत्तिशङ्कासम्भवः; प्रत्यक्षानुमानयोः सर्वप्रमाणमूर्धन्यत्वात्, बहुबादिसम्मतत्वाच्च न तत्र क्रमे विवादः इति वदन्ति । वस्तुतस्तु प्रत्यक्षानुमानयोर्यथोपजीव्योपजीवकभावः क्रमनियामकः स एव प्रत्यक्षोपमानयोः, शब्दोपमानयोरपि । उपमानं हि शक्तिग्राहकं प्रमाणम्, न हि शक्तिज्ञानमन्तरा शाब्दबोधसम्भवः । अतः शब्दात्पूर्वं तन्निर्देशः । एवं उपमानप्रवृत्तेः सादृश्यदर्शनादिमूलकत्वात् प्रत्यक्षानुमानोपजीवकत्वमप्यस्तीति तदनन्तरं उपमाननिर्देशः ॥

अत्र वृद्धनैयायिकास्तावदेवमुपमानस्वरूपमाचक्षते—सञ्ज्ञासञ्ज्ञिसम्बन्धप्रतीतिफलं प्रसिद्धेतरयोः सारूप्यप्रतिपादकमतिदेशवाक्यमेवोपमानम् । गवयार्थी हि नागरिकोऽनवगतगवयस्वरूपस्तदभिज्ञमारण्यकं पृच्छति “कीदृक् गवयः ?” इति । स तमाह “यादृशो गौस्तादृशो गवयः” इति । तदेतद्वाक्यमप्रसिद्धस्य प्रसिद्धेन गवा सादृश्यमभिदधत्तद्द्वारकमप्रसिद्धस्य गवयसञ्ज्ञाभिधेयत्वं ज्ञापयतीत्युपमानमुच्यते ॥ उपमानस्य शब्दप्रमाणातिरिक्तत्वम्
ननु ! शब्दस्वभावत्वादस्य “आप्तोपदेशः शब्दः” इत्यनेन गतार्थत्वान्नेदं प्रमाणान्तरं भवेत् । न च सञ्ज्ञासञ्ज्ञिसम्बन्धपरिच्छेदफलत्वेन प्रमाणान्तरता वक्तव्या; फलवैचित्र्येण प्रमाणानन्त्यप्रसङ्गात् । लौकिकानि हि वचनानि वैदिकानि च विधिनिषेधबोधकानि नानाफलान्यपि भवन्ति, न शब्दतामतिक्रामन्ति

उच्यते—यत्र शब्दप्रत्ययादेव, तत्प्रणेतृपुरुषप्रत्ययादेव वा अर्थतथात्वमुपायान्तरानपेक्षमवगम्यते, स आगम एव; तत एव

वृद्धनैयायिकाः—भाष्यकाराः । प्रसिद्धेतरयोः—प्रसिद्धस्य गोः, अप्रसिद्धस्य गवयस्य च । तद्द्वारकं—सादृश्यज्ञानोत्पादनद्वारेत्यर्थः ॥

“तद्द्वारकं” इत्यनेन सूचितमर्थमजानानाः “तस्यागमाबहिर्भावात्” [श्लो। वा। उप। २।] इत्याहुः । तदलङ्करोति—नन्विति । अस्य—अर्थबोधनस्य । प्रमाणानन्त्यप्रसङ्गमेवोपपादयति—लौकिकानीति । हानोपादानादिनानाफलकानि खलु वाक्यानि । अतः फलभेदान्न प्रमाणभेदः ॥

उच्यत इत्यादि । सत्यं अतिदेशवाक्यस्मरणात् या सादृश्यप्रतीतिः स शाब्दः । उपमितिस्तु तदुत्तरोद्भवा तादृशसादृश्यविशिष्टगवयपिण्डविषयिणी प्रतीतिः । गवयपिण्डस्याननुभूतत्वात् नेयं स्मृतिः । तद्विषये शब्दस्याव्यापृतेः न शाब्दी । शब्दः खलु सादृश्योद्बोधनमात्रे विश्राम्यति । अतः इयं प्रमितिरतिरिक्तैवेति प्रमाणमप्यतिरिक्तमेवेति सारम् । शब्दप्रत्ययादिति स्वतःप्रामाण्यपक्षे । तत्प्रणेतृपुरुषप्रत्ययादिति स्वपक्षे । प्रणेता उच्चारयिता ॥

तदर्थप्रतीतेः । यत्र तु पुरुषः प्रतीत्युपायमपरमुपदिशति, तत्र तत एवोपायात्तदर्थावधारणम् । उपायमात्रावगमे तु शब्दव्यापारः ॥

यथा परार्थानुमाने—अग्निमानयं पर्वतः, धूमवत्त्वात्, महानसवदिति । अत्र हि न पुरुषोपदेशविश्वासादेव शैलस्य कृशानुमत्तां प्रतिपत्ता निमित्तान्तरनिरपेक्षः प्रतिपद्यते; अपि तु तदवबोधकधूमाख्यलिङ्गसामर्थ्यादेव । तदिह यद्याटविको नागरिकाय गवयार्थिने तदवगमोपायं प्रसिद्धसाधर्म्यं नाभ्यधास्यत्, तर्हि तदुपदेश आगम एवान्तरभविष्यत् । तदुपदेशात्तु तत एव तदर्थावगम इति सत्यपि शब्दस्वभावत्वे प्रमाणान्तरमेवेदम् । प्रतिपत्ताऽपि नागरिको नारण्यकवाक्यादेव तं प्राणिनं गवयशब्दवाच्यतया बुद्ध्यते; किन्तु सारूप्यं प्रसिद्धेन गवा तस्य पश्यति ॥

किमारण्यकवाक्येन न सम्प्रत्ययो नागरकस्य—न ब्रूमो न सम्प्रत्यय इति; किन्तु सारूप्यमुपायान्तरं तदवगतावसावुपदिष्टवानिति ततोऽवगतिर्भवन्ती न निह्नोतुं शक्यत इति न शाब्दी सा प्रतीतिः, अपि त्वौपमानिकीति वचनमपि भवदिदमुपमानं प्रमाणान्तरमिति युक्तम् । भाष्याक्षराण्यपि चैतत्पक्षसाक्ष्यच्छायामिव वदन्ति लक्ष्यन्ते । तानि तु ग्रन्थगौरवभयान्न योज्यन्ते—इत्यलं प्रसङ्गेन ॥

निमित्तान्तरं—परामर्शादिकम् । नाभ्यधास्यत्, किन्तु विना सादृश्योपदेशं “अयं गवयपदवाच्यः” इत्यभ्यधास्यत्—इति शेषः ॥

“नारण्यकवाक्यादेव” इत्युक्तं शृण्वन् पृच्छति—किमित्यादि । तदवगतौ—सञ्ज्ञासञ्ज्ञिसम्बन्धावगतौ—गवयावगतौ वा । ततः—सारूप्यरूपादुपायान्तरात् शब्दविलक्षणात् । वदन्तीव लक्ष्यन्ते इत्यन्वयः । “यथा गौरेवं गवयः इत्युपमाने प्रयुक्ते” इत्यादिभाष्यमत्र द्रष्टव्यम् ॥

अयं च भाष्यकारपक्षः कुमारिलैः—“कीदृग्गवय इत्येवं पृष्टो नागरिकैर्यदि । ब्रवीत्यारण्यको वाक्यं यथा गौर्गवयस्तथा ॥ एतस्मिन्नुपमानत्वं प्रसिद्धम्” [श्लो। वा। १-१-५ उप। १] इत्यत्रोपपादितः । अनुपदमुच्यमानः वार्तिकपक्षस्तु—“श्रुतातिदेशवाक्यानामारण्ये गवये मतिः । या सोपमानं केषाञ्चित् गोसादृश्यानुरञ्जिता” [६] इत्यत्रोक्तः ॥ उपमानस्वरूपे वार्तिकपक्षः
अद्यतनास्तु व्याचक्षते—श्रुतातिदेशवाक्यस्य प्रमातुरप्रसिद्धे पिण्डे प्रसिद्धपिण्डसारूप्यज्ञानमिन्द्रियजं सञ्ज्ञासञ्ज्ञिसम्बन्धप्रतिपत्तिफलमुपमानम् । तद्धीन्द्रियजनितमपि धूमज्ञानमिव तदगोचरप्रमेयप्रमितिसाधनात् प्रमाणान्तरम् । श्रुतातिदेशवाक्यो हि नागरकः कानने परिभ्रमन् गोसदृशं प्राणिनमवगच्छति । ततो वनेचरपुरुषकथितं “यथा गौस्तथा गवयः” इतिवचनमनुस्मरति; स्मृत्वा च प्रतिपद्यते—“अयं गवयशब्दवाच्यः” इति । तदेतत्सञ्ज्ञासञ्ज्ञिसम्बन्धज्ञानं तज्जन्यमित्युपमानफलमित्युच्यते ॥

प्रत्यक्षं तावदेतस्मिन् विषये न कृतश्रमम् ।
वनस्थगवयाकारपरिच्छेदफलं हि तत् ॥ १ ॥

अनुमानं पुनर्नात्र शङ्कामप्यधिरोहति ।
क्व लिङ्गलिङ्गिसम्बन्धः ? क्व सञ्ज्ञासञ्ज्ञिता मतिः ॥ २ ॥

आगमादपि तत्सिद्धिः न वनेचरभाषितात् ।
तत्कालं सञ्ज्ञिनो नास्ति गवयस्य हि दर्शनम् ॥ ३ ॥

न्यायवार्तिके तट्टीकायां चोक्तं भट्टानूदितपक्षमुपक्षिपति—अद्यतनास्त्विति । अतिदेशवाक्यार्थस्मरणसहकृतं पुरोवर्तिनि गवये यत्सादृश्यप्रत्यक्षं तदुपमानमित्यर्थः । ननु तर्हि तत् सादृश्यदर्शनं प्रमाणफलं, न तु प्रमाणं, इन्द्रियजन्यत्वादित्यत्राह—तद्धीति । तदगोचरेति । धूमज्ञानाविषयेत्यर्थः । तथा च धूमप्रत्यक्षं स्वविषयापेक्षया फलरूपमपि स्वाविषयवह्निप्रतिपत्तौ यथा प्रमाणं तथा प्रकृतेऽपीत्युक्तं भवति ॥

अस्मिन् पक्षे—“प्रत्यक्षो गवयस्तावत् सादृश्यस्मृतिरत्र तु” इत्यनेन भट्टपादोक्तं बौद्धोक्तं च दूषणं प्रत्याह—प्रत्यक्षमिति । न हि गवयप्रमितिं फलं वदामः । वनस्थगवयप्रमितिस्तु प्रत्यक्षरूपा । सञ्ज्ञासञ्ज्ञिसम्बन्ध परिच्छेदफलं तूपमानमुच्यते । अतो नेदं प्रत्यक्षमित्यर्थः । तत्—प्रत्यक्षम् । वनेचरभाषितात् आगमादित्यन्वयः । तत्कालं वनेचरभाषणकाले । सञ्ज्ञिनो गवयस्येत्यन्वयः ॥

सञ्ज्ञासञ्ज्ञिनोश्च परिच्छेदे सति तत्सम्बन्धः सुशको भवति नान्यथा । अत एव प्रत्यक्षपूर्वकं सञ्ज्ञाकर्मेत्याचक्षते ॥ उपमानविषये दिङ्नागादिबौद्धानामाक्षेपः
एतदाक्षिपति—

ननु ! नागरकप्रश्नमनुरुध्य वनेचरः ।
ब्रूतेऽतिदेशकं वाक्यं यथा गौर्गवयस्तथा ॥ ४ ॥

अस्यायमर्थः, यस्य त्वं गोसादृश्यं निरीक्षसे ।
तमेव गवयं विद्याः स चायं सञ्ज्ञिनो ग्रहः ॥ ५ ॥

सम्बन्धकरणं चेह विशेषेषु न युज्यते ।
आनन्त्यात्, किन्तु सामान्ये, तच्चत्थमवधारितम् ॥ ६ ॥

प्रत्यक्षपूर्वकं सञ्ज्ञाकर्मेति न हि वैदिकी ।
चोदना, किं त्ववच्छेदः सञ्ज्ञिनोऽत्र विवक्षितः ॥ ७ ॥

ननु वनेचरभाषणकाले सञ्ज्ञिनो गवयस्याप्रत्यक्षत्वेऽपि गवयपदगवययोः सञ्ज्ञासञ्ज्ञिपरिज्ञानं कुतो न भवति ? अतीन्द्रियार्थविषयकशब्दप्रयोगः शाब्दयोधश्च सर्वानुभवसिद्धः । अतः उपमानप्रमाणेन किं फलं साधनीयमवशिष्यते ? इत्याशङ्कायामाह—सञ्ज्ञेत्यादि । परिच्छेदे—प्रत्यक्षतः परिच्छेदे । एतत्तत्त्वं तु उत्तरत्र [३८९ पुटे] व्यक्तीभविष्यति । आचक्षते— तथा च वाचस्पतिमिश्राः—“यावदयमसौ गवय इति साक्षात्प्रतीते सम्बन्धिनि सञ्ज्ञां न निवेशयति तावदयं परिप्लुतमतिः प्रमाता कश्चित् खलु “द्रक्ष्यामि तादृशं पिण्डं, यत्र गवयसञ्ज्ञां प्रतिपत्स्ये” इति प्रमोत्सुक एवोदीक्षते” इति ॥

प्रमाणसमुच्चये दिङ्नागोक्तं अनुवदति—एतदाक्षिपतीति । अस्य— वनेचरवाक्यस्य । स चायमिति । तथा चाप्तवाक्यस्यापि शक्तिग्राहकत्वात् सिद्धः शक्तिग्रहः । शक्तिरेव च सम्बन्धः । अत उपमानस्य कृत्यमेव नास्तीत्यर्थं । ननु वनेचरेण सामान्यतः कथनेऽपि गवयविशेषे सम्बन्धग्रहणं गवयदर्शनकाल एवानुभवसिद्धं, तदेतदुपमानफलमिति चेत्, तत्राह— सम्बन्धकरणमिति । विशेषेषु—व्यक्तिषु । आनन्त्यात्—व्यक्तीनामिति शेषः । इत्थं—“यस्य गोसादृश्यं निरीक्षसे त्वं तमेव गवयं विद्याः” इत्यर्थकारण्यकवाक्यात् । वैदिकी चोदना इत्यन्वयः । अवच्छेदः—अवधारणं,
स तु प्रत्यक्षतो वाऽस्तु, प्रमाणान्तरतोऽपि वा ।
स्मर्यमाणेऽपि चार्थेऽस्ति सङ्केतकरणं क्वचित् ॥ ८ ॥

योऽसौ तत्र त्वया दृष्टः प्राणी स रुरुरुच्यते ।
क्वचित्तु कैश्चिन्निर्दिश्य परोक्षमुपलक्षणैः ॥ ९ ॥

सञ्ज्ञिनं व्यहर्तारः तत्र सञ्ज्ञां नियुञ्जते ।
दन्तुरो रोमशः श्यामो वामनः पृथुलोचनः ॥ १० ॥

यस्तत्र चिपिटग्रीवस्तं चैत्रमवधारयेः ।
एवमत्रापि गोपिण्डसारूप्येणोपलक्षिते ॥ ११ ॥

वाच्ये वाचकसम्बन्धबोधनं नैव दुर्घटम् ।
अथ सोपप्लवा वाक्यात् बुद्धिरित्यभिधीयते ॥ १२ ॥

उपप्लवोऽपि सम्बन्धे न कश्चिदनुभूयते ।
यस्त्वस्ति गवयाकारं प्रति कीदृगसाविति ॥ १३ ॥

सोऽपि प्रत्यक्षतो दृष्टे गवये विनिवर्तते ।
प्रत्यक्षागमसिद्धेऽर्थे तस्मान्मानान्तरेण किम् ? ॥ १४ ॥

पूर्वं गृहीतस्यैव दृढीकरणमिति यावत् । किं बहुना ? प्रमाणकोठ्यप्रविष्टया स्मृत्याऽपि सम्बन्धदृढीकरणं दृश्यत इत्याह—स्मर्यमाणोऽपीति । रुरुः— कृष्णसारमृगः । उच्यते इत्यनन्तरं “इत्यादौ” इति शेषः । एवं “अवधारयेः” इत्यनन्तरमपि । सर्वथाऽदृष्टचरेऽपि सम्बन्धनिर्णयो युज्यत एवेत्याह— क्वचिदिति । दन्तुरः—उन्नतदन्तः । चिपिटग्रीवः—नतनासाविशिष्टग्रीवः । आरण्यकवाक्यात् सोपप्लवा बुद्धिः, उपमानात्तु निरुपप्लवा भवतीत्येतदपि न युक्तमित्याह—अथेति । यस्त्विति । आरण्यकवाक्यश्रवणात् जातेऽपि सञ्ज्ञासञ्ज्ञिनिर्णये गवयाकारं प्रति य उपप्लवः—“कीदृगसौ स्यात्” इत्युपप्लवोऽस्ति, सः न सम्बन्धविषयकः । किन्तु विस्मयहेतुकदर्शनौत्सुक्यमूलकः । तच्चौत्सुक्यं गवयदर्शने निवर्तते । अतोऽत्र उपमानस्यातिरिक्तस्यावसर एव नास्तीत्यर्थः ॥ उक्ताक्षेपसमाधानम्, उपमानस्य शब्दातिरिक्तत्वं च
अत्राहुः—नाटविकरटितात् वाक्यात् विस्पष्टः सञ्ज्ञासञ्ज्ञिसम्बन्धप्रत्ययो भवितुमर्हति, सञ्ज्ञिनस्तदानीमप्रत्यक्षत्वात् । यद्यपि गोसारूप्यविशिष्टतया तदवगम उपपादितः; तथाऽपि सोपप्लवैव भवति तदानीं बुद्धिः ॥

न निराकाङ्क्षताबुद्धिस्तदानीमुपजायते ।
तदुत्पादनपर्यन्तः शब्दव्यापार इष्यते ॥ १५ ॥

न चासौ निर्वहत्यत्र वाच्यसंवित्त्यपेक्षणात् ।
शब्देन तदनिर्वाहात् न स्वकार्यं कृतं भवेत् ॥ १६ ॥

सम्बन्धप्रतिपत्तिश्च सामान्ये यद्यपीष्यते ।
तदप्यविदितव्यक्ति न सम्यगवधारितम् ॥ १७ ॥

गवयाकारवृत्तिश्च तदानीं बुद्ध्युपप्लवः ।
सम्बन्धेऽपि द्व्यधिष्ठाने दधाति श्यामलां धियम् ॥ १८ ॥

आटम्बिकः—आरण्यकः । विस्पष्टः—निरुपप्लवः । उपपादितः— आरण्यकवाक्यादिति शेषः ॥

निराकाङ्क्षतेति । वाक्यजन्यज्ञाने निराकाङ्क्षताबुद्धिर्न जायत इत्यर्थः । तदुत्पादनं—निराकाङ्क्षताबुद्ध्युत्पादनम् । श्यामलां—सकलङ्कां, सोपप्लवामिति यावत् ॥

अयमत्र प्रघट्टकार्थः—आरण्यकवाक्यात् सामान्यतः अर्थप्रतिपत्तावपि आकारविषयकजिज्ञासायाः सत्त्वात् निराकाङ्क्षः प्रत्ययो न भवेत् । गवयदर्शनानन्तरं जायते च सः । स च न शब्दकरणकः, शब्दव्यापारः खलु पूर्वमेवोपरतः । नैन्द्रियिकः, गवयस्यैन्द्रियिकत्वेऽपि सम्बन्धनिर्णयस्यानैन्द्रियिकत्वात् । आदौ सामान्यतः शक्तिग्रहेऽपि न स निरुपप्लवः । सामान्यस्याकारव्यङ्ग्यत्वेन आकारजिज्ञासायां सत्यां तदभिव्यङ्ग्यसामान्यस्यापि स्पष्टं प्रतीत्यसम्भवात् । सामान्यस्यास्पष्टत्वेन च द्विनिष्ठः सञ्ज्ञासञ्ज्ञिसम्बन्धोऽप्यस्पष्ट एव स्यात् । अतः गवयप्रत्यक्षानन्तरमेव निरुपप्लवः सम्बन्धनिर्णयः शक्यः ।
प्रत्यक्षपूर्वकं तस्मात् सञ्ज्ञाकर्मेति गीयते ।
क्वचित्तदेव प्रत्यक्षं स्मृतिद्वारेण कारणम् ॥ १९ ॥

पूर्वदृष्टे कुरङ्गादौ सम्बन्धो दर्शितो यथा ।
चैत्रे प्रत्यक्षवत् सिद्धिः दन्तुरादिविशेषणैः ॥ २० ॥

इह पुनरतिदेशवचनसमये गोसादृश्यमात्रोपदेश्ये सत्यपि सञ्ज्ञिनि न निवर्तत एवोपप्लवः; प्रमाणान्तरपरिच्छेदसापेक्षकसञ्ज्ञिरूपोपदेशात् ॥ उपमानस्य प्रत्यक्षाद्वैलक्षण्यम् यत्र गोसादृश्यं पश्यसीति प्रत्यक्षादेव तर्हि स उपप्लवो विरंस्यतीति चेत्—न—प्रत्यक्षस्येन्द्रियसन्निकर्षादिस्वभावस्य सञ्ज्ञासञ्ज्ञिसम्बन्धबोधकरणासमर्थत्वात् ॥

प्रत्यक्षफलमेतत्तु समर्थं, सत्यमिष्यते ।
तस्यैव च वयं ब्रूम उपमानप्रमाणताम् ॥ २१ ॥

यथा प्रत्यक्षफलमपि धरणिधरकुहरभुवि धूमदर्शनमनिन्द्रियविषयविभावसुबोधसाधनत्वादनुमानम्, एवं गोसारूप्यविशेषितविपिनगतगवयपिण्डदर्शनमध्यक्षफलमपि तदनवगतसञ्ज्ञा- अतः प्रत्यक्षपूर्वक एव सर्वत्र निरुपप्लवः सम्बन्धनिर्णयः । प्रत्यक्षप्रमितिपूर्वकत्वात् न प्रत्यक्षत्वम् । प्रत्यक्षपूर्वकं ह्यनुमानादि न हि प्रत्यक्षम् । अतः प्रत्यक्षागमाभ्यां विलक्षणमुपमानम् ॥

प्रकृते उक्तस्थलद्वयवैलक्षण्यमाह—इहेति । गोसादृश्येत्यादि । गोसादृश्यमात्रं उपदेश्यं यस्य तावन्मात्रपरिज्ञेये सति वस्तुनीत्यर्थः ॥

पश्यतीति—एतदर्थकत्वात् अतिदेशवाक्यस्येत्यर्थः ॥

ननु यद्यपि इन्द्रियसन्निकर्षादिरूपं प्रत्यक्षं न सम्बन्धबोधने समर्थं, अथापि तत्फलभूतं [तज्जन्यं] यत् सादृश्यदर्शनं—सादृश्यविशिष्टपिण्डदर्शनं वा तत् सञ्ज्ञाकरणसमर्थं—उपप्लवनिराकरणसमर्थं—भविष्यतीति शङ्कते—प्रत्यक्षेति । प्रत्यक्षफलं त्वित्यन्वयः । तत्रेष्टापत्तिमाह—सत्यमिति । विशिष्टमेकं वाक्यं वा । सत्यमित्यर्धाङ्गीकारे । साध्यमंशमाह—तस्यैवेति ॥

सर्वांशे अनुमानं दृष्टान्तयन् अतिरिक्तप्रमाणतामुपमानस्याह—यथेत्यादिना । तदनवगतेति । उक्तपिण्डदर्शनानवगतेत्यर्थः ॥

सञ्ज्ञिसम्बन्धबोधविधानादुपमानमुच्यते । यथा च तत्र पूर्वावगतधूमाग्निप्रतिबन्धस्मरणं सहकारितामुपैति, तथेहापि पूर्वश्रुतारण्यकवाक्यार्थस्मरणम् । यथा च तत्र व्याप्तिवेलायामनालीढविशेषा बुद्धिरधुना पक्षधर्मताबलाद्विशेषे व्यवतिष्ठते—अत्राग्निरिति, तथाऽत्राप्यनवगतवाच्यविशेषात् वाक्यात् बुद्धिरिदानीं वाच्यविशेषे दृष्टे निरुपप्लवा जायते—अयं स गवयशब्दाभिधेय इति ॥ उपमानस्यानुमानाद्वैलक्षण्यम्
नैतावताऽनुमानमेवेदमित्याशङ्कनीयम्; अनपेक्षितपक्षधर्मान्वयव्यतिरेकादिसामग्रीकस्य तत्प्रत्ययोत्पादात् ॥

तस्मादयं स गवयो नामेत्येवंविधा मतिः ।
उपमानैकजन्यैव, न प्रमाणान्तरोद्भवा ॥ २२ ॥

न चैषा नास्ति, सन्दिग्धा, बाध्यते, कल्पनामात्रं वेति । सर्वथैतस्याः प्रमितेः साधनमुपमानं प्रमाणमिति सिद्धम् ॥

तदिदमाह—“प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम्” ॥

एवं सर्वात्मनाऽनुमानसाम्ये तर्ह्यनुमानमेवेदमिति “प्रत्यक्षेणाप्रत्यक्षसिद्धेः” इत्यादिसूत्रोक्तामाशङ्कामुपक्षिपति—नैतावतेति । “नाप्रत्यक्षे गवये प्रमाणार्थमुपमानस्य पश्यामः” इतिसूत्रोक्तं सिद्धान्तमाह—पक्षेत्यादि । पक्षधर्मताज्ञानं, अन्वयव्यतिरेकव्याप्तिज्ञानं चेत्यर्थः । उक्तं भट्टपादैरपि “न चैतस्यानुमानत्वं पक्षधर्माद्यसम्भवात्” इति । उक्तसूत्रस्य चायमर्थः—उपमानस्य प्रमाणार्थं— प्रमाणप्रयोजनं सञ्ज्ञासञ्ज्ञिसम्बन्धपरिच्छेदरूपं अप्रत्यक्षे गवये न पश्याम इति । एवञ्च पक्षधर्मताज्ञानाभाव उक्तो भवति ॥

ननु वाक्यश्रवणकाले गवयस्याप्रत्यक्षत्वेऽपि गवयदर्शनकाले पक्षधर्मताज्ञानं भवेदिति चेत्—तत्रोक्तं—व्याप्तिज्ञानाभावादिति । न हि तदानीं लिङ्गप्रत्यक्षमस्तीति भावः ॥ सूत्रार्थवर्णनम्
प्रसिद्धसाधर्म्यादिति कर्मधारयः, तृतीयासमासः, बहुब्रीहिर्वा । प्रसिद्धं च तत् साधर्म्यं, प्रसिद्धेन गवा वा साधर्म्यं गवयस्य, प्रसिद्धं वा साधर्म्यं यस्य सः प्रसिद्धसाधर्म्यो गवयः—तस्मात् प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम् । साध्यः—सञ्ज्ञासञ्ज्ञिसम्बन्धः, तस्य साधनं बोधनम्; सञ्ज्ञासञ्ज्ञिसम्बन्धज्ञानं वा साध्यं, तस्य साधनं—जननमित्यर्थः । एवं प्रसिद्धसाधर्म्यज्ञानमुपमानं, फलं सञ्ज्ञासञ्ज्ञिसम्बन्धज्ञानमित्युक्तं भवति ॥

साध्यसाधनशब्देन करणस्य प्रमाणताम् ।
ब्रवीति, एतच्च मन्तव्यं सर्वत्र परिभाषितम् ॥ २३ ॥

अत एव मध्ये लिखितमिदं—यदुभयतः प्रमाणलक्षणानि व्याप्स्यतीति ॥

कर्मधारय इति । भाष्ये तृतीयासमासः प्रदर्शितः, वार्तिके बहुब्रीहिः । वार्तिके तृतीयासमासस्यानिषेधात् सोऽपीष्ट एव वार्तिककृत इति टीका । एवं समासद्वयेन साकं स्वाभिमतः कर्मधारयोऽपि क्रोडीकृतः । साध्य इति । साध्यपदस्य सञ्ज्ञासञ्ज्ञिसम्बन्धपरत्वे तस्य साधनं—बोधनम्; सञ्ज्ञासञ्ज्ञिसम्बन्धज्ञानपरत्वे तस्य साधनं—जननमित्यर्थः ॥

पदान्तरं विहाय साध्यसाधनपदप्रयोगफलमाह—साध्येति । साधकतमं हि करणमिति भावः । ननु तर्हि इतरप्रमाणलक्षणसूत्रेष्वेवमनिर्देशात् तेषां प्रमाणत्वं न स्यादिति शङ्कायां इदं पदं इतरसूत्रेष्वपि सम्बध्यत इति महर्षिणो मतमित्याह—एतच्चेति । कथमिदमवगम्यत इत्यत्राह— अत एवेति । चतुर्षु प्रमाणेषु मध्यगतमनुमानं, उपमानं च । अनुमानस्य प्रमाणत्वे शाक्यानां न विप्रतिपत्तिरिति उपमानसूत्रे तत्पदं निवेशितम् । तच्च देहलीदीपन्यायेन पूर्वोत्तरतः सम्बध्यत इति भावः ॥

अत्यन्तप्रायसाधर्म्यविकल्पादिनिबन्धनः ।
क्षिप्तः सूत्रकृता साक्षादुपमानस्य विप्लवः ॥ २४ ॥

येन सदृशप्रतीतिर्जन्यते तत्सादृश्यमिति किमत्यन्तसादृश्यादिविकल्पैः ॥ सामान्यमेव न सादृश्यम्
अभिन्नप्रत्यये हेतुर्यथा सामान्यमुच्यते ।
सदृशप्रत्यये हेतुः तथा सादृश्यमुच्यते ॥ २५ ॥

उपमानप्रमाणप्रयोजनाक्षेपः
ननु ! उपमानलक्षणमस्मिन् मोक्षशास्त्रे क्वोपयुज्यते ? आगमात्तावत् आत्मज्ञानं मोक्षसाधनं सेतिकर्तव्यताकमवगम्यते, अनुमानादागमप्रामाण्यनिश्चयः, प्रत्यक्षादनुमानस्य व्याप्तिपरिच्छेद इति त्रयमेवोपदेष्टव्यम् ॥

अधिकं सूत्रभाष्ययोर्व्यक्तमित्याह—अत्यन्तेति । अत्र आदिना एकदेशसाधर्म्यविकल्पपरिग्रहः । तथा च सूत्रं “अत्यन्तप्रायैकदेशसाधर्म्यादुपमानासिद्धिः” इति । अत्र भाष्यम्—“अत्यन्तसाधर्म्यादुपमानं न सिध्यति, न चैवं भवति—यथा गौरेवं गौरिति । प्रायसाधर्म्यादुपमानं न सिध्यति, न हि भवति यथाऽनड्वानेवं महिष इति । एकदेशसाधर्म्यादुपमानं न सिध्यति— न हि सर्वेण सर्वमुपमीयते, यत्किञ्चित्साधर्म्यस्य सर्वत्र सत्त्वात्” इति । अतश्च साधर्म्यं निर्वक्तुमशक्यमिति भावः । अत्र प्रतिबक्ति—“प्रसिद्धसाधर्म्यादुपमानसिद्धेः यथोक्तदोषानुपपत्तिः” इति । भाष्यम्—“न साधर्म्यस्य कृत्स्नप्रायाल्पभावमाश्रित्योपमानं प्रवर्तते । किं तर्हि ? प्रसिद्धसाधर्म्यात् साध्यसाधनभावमाश्रित्य प्रवर्तते । यत्र चैतदस्ति, न तत्रोपमानं प्रतिषेद्धुं शक्यम् । तस्माद्यथोक्तदोषो नोपपद्यत इति” इति । तथा च साधर्म्येयत्तायां लोक एव प्रमाणमिति भावः ॥

सामान्यमेव न सादृश्यम्, विजातीययोरपि मुखचन्द्रयोस्सादृश्यदर्शनात् । न च तत्रान्ततो द्रव्यत्वादिकमेव सामान्यमस्तीति शङ्क्यम्, मुखघटयोस्सादृश्यादर्शनादित्याह—अभिन्नेति । भिन्नयोरिति शेषः । सदृशेति । न हि सादृश्यप्रतीतिस्थले समानजातिमत्त्वनिर्बन्ध इत्यर्थः ॥ उपमानप्रमाणप्रयोजनम्
सत्यमेवम् । उपमानमपि क्वचित् गवयालम्भादिचोदनार्थानुष्ठाने सोपयोगम् । अनवगतगवयस्वरूपे तदालम्भाभावात् । यथा मुद्गस्तम्भः तथा मुद्गपर्णीति मुद्गपर्ण्याद्यौषधिपरिज्ञानेऽपि तदुपयोगि भवति ॥

सर्वानुग्रहबुद्ध्या च करुणार्द्रमतिर्मुनिः ।
मोक्षोपयोगाभावेऽपि तस्य लक्षणमुक्तवान् ॥ २६ ॥

ननु ! एवं सति यागौषधाद्युपयोगि अन्यदपि बहूपदेष्टव्यं स्यात्—न—प्रमाणशास्त्रत्वादस्य; प्रमाणमेवार्थपरिच्छित्तिसाधनमिहोपदिश्यते । तच्चतुर्विधमेव, न न्यूनम्, अधिकं वेति निर्णीतम् । प्रमेयं तु मोक्षाङ्गमेवोपदिश्यत इत्यलं प्रसङ्गेन ॥ मीमांसकसम्मतोपमानस्वरूपम्
जैमिनीयास्त्वन्यथोपमानस्वरूपं वर्णयन्ति—यदश्रुतातिदेशवाक्यस्य वने गवयपिण्डदर्शनानन्तरं नगरं गतं गोपिण्डमनुस्मरत एतेन सदृशो गौरिति ज्ञानं—तदुपमानम् । तस्य विषयः सम्प्रत्यवगम्यमानगवयसादृश्यविशिष्टः परोक्षो गौः, तद्वृत्ति वा

भाष्यसूचितं प्रयोजनमाह—यथा मुद्ग इति । मोक्षोपयोगाभावेऽपीति । साक्षादिति शेषः । अत एवानुपदं “यागौषधादि” इत्याशङ्कासङ्गतिः ॥

एवं सति—साक्षात् मोक्षोपयोगाभावेऽप्युपदेशे । प्रमेयं त्विति । तथा चास्ति व्यवहारः “न्यायशास्त्रं प्रमाणशास्त्रम्, वैशेषिकं प्रमेयशास्त्रम्” इति अत एवानयोः समानतन्त्रत्वम् ॥

जैमिनीया इति । अत्रेदं शाबरभाष्यं—“उपमानमपि सादृश्यं असन्निकृष्टेऽर्थे बुद्धिमुत्पादयति, यथा गवयदर्शनं गोस्मरणस्य” इति । अश्रुतातिदेशवाक्यस्य—अश्रुतातिदेशवाक्यस्यापि । अत एवेत्थं वार्तिकं—“श्रुतातिदेशवाक्यत्वं न चातीवोपयुज्यते । येऽपि ह्यश्रुततद्वाक्याः तेषामेव भवत्ययम् । प्रत्यक्षदृष्टगोत्वानां वने गवयदर्शिनाम्” इति । अतश्च अतिदेशवाक्यं न नियतमित्यर्थः । एतेनेत्यादि—तथा च वार्तिकं । “तस्माद्यत्स्मर्यते तत्स्यात्
गवयसादृश्यम् । अत एव न तज्ज्ञानं प्रत्यक्षजन्यम्; परोक्षगोपिण्डविषयत्वात् । अश्रुतातिदेशवाक्यस्य भावान्न शाब्दम् ॥

न च स्मरणमेवेदं प्रमेयाधिक्यसम्भवात् ।
गवयेन हि सादृश्यं न पूर्वमवधारितम् ॥ २७ ॥

भूयोऽवयवसामान्ययोगो यद्यपि मन्मते ।
सादृश्यं, तस्य तु ज्ञप्तिः गृहीते प्रतियोगिने ॥ २८ ॥

उपमानं नानुमानम् न चानुमानिकमिदं ज्ञानम्; अनपेक्षितपक्षादिधर्मकस्य भावात् । न च गवयगतं सारूप्यं तत्र लिङ्गम्, अपक्षधर्मत्वात् । सादृश्येन विशेषितम् । प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम्” इति । अत्र न्यायरत्नाकरः—“यस्मादेव प्रत्यक्षे गवये न किञ्चिदुपमानस्य प्रमेयमस्ति, तस्मात्स्मर्यमाणैव गौर्गवयसादृश्यविशिष्टा, तद्विशिष्टं वा सादृश्यं उपमानस्य प्रमेयम्” इति । तथा च गोसदृशो गवय इति ज्ञानं उपमानं सिद्धान्ते । मीमांसकमते तु गवयसदृशो गौरिति ज्ञानमिति बोध्यम् । “अत एव” इत्यस्यैव प्रपञ्चः—परोक्षेत्यादि । भावात्—उत्पत्तेः ॥

प्रमेयाधिक्यमेवाह—गवयेनेति । गवयनिरूपितसादृश्यविशिष्टगोरेव स्मरणम् । तत्र गवयस्य पूर्वमदृष्टत्वेन तत्सादृश्यविशिष्टत्वेनापूर्वत्वं वर्तत एव । तथोक्तं “विशिष्टस्यान्यतोऽसिद्धेरुपमानप्रमाणता” इति । ननु कथं पूर्वं सादृश्याज्ञानम् ? भवन्मते हि सादृश्यं “भूयोऽवयवसामान्ययोगः” [श्लो। वा। उप। १८] । तच्च गोः प्रत्यक्षकाले गृहीतमेवेत्यत्राह—भूय इत्यादि । तस्येति । तादृशावयवसन्निवेशः गृहीत एव पूर्वं, अथापि सादृश्यस्य सप्रतियोगिकत्वेन गवयापरिज्ञाने गवयसादृश्यं कथमिव गृहीतं स्यादित्यर्थः ॥

बौद्धाः पुनः उपमानमनुमानेऽन्तर्भावयन्ति । तदेतन्मतं वार्तिककारः— “न चैतस्यानुमानत्वं पक्षधर्माद्यसम्भवात्” इत्यादिना निराचकार । तदेतदनुवदति—न चेति । यद्यपि उपमानस्यातिरिक्तत्वं पूर्वमेव प्रसाधितम् । अथापि प्रकारभेदसत्त्वात्पुनरप्याह—अनपेक्षितेत्यादि । पक्षधर्मताज्ञानादिरहितस्येति यावत् । अपक्षधर्मत्वादिति । गवयगतं हि सादृश्यं गवये स्यात्,
नापि गोगतम्; असिद्धत्वात्, प्रतिज्ञार्थैकदेशत्वाच्च । विषाणाद्यवयवजातमपि न गोगतं लिङ्गम्; इदानीं वनस्थस्य तद्ग्रहणाभावात्; अगृहीतस्य च लिङ्गत्वानुपपत्तेः । गवयगतमपि तदलिङ्गमेघ; पूर्ववदपक्षधर्मत्वात् । तस्माद्गवयसादृश्यविशेषितनगरगतपरोक्षगोपिण्डज्ञानं काननवर्तिनः प्रमातुः प्रमाणान्तरं भवतीति अभ्युपगन्तव्यम् ॥ मीमांसकसम्मतोपमानपरिशीलनम् तदिदमनुपपन्नम्—एवंविधप्रतीत्यभावात् ॥
प्रसिद्धेन हि सादृश्यं अप्रसिद्धस्य गम्यते ।
गवा गवयपिण्डस्य, न तु युक्तो विपर्ययः ॥ २९ ॥

तथा हि—अश्रुतातिदेशको नागरकः कानने परिभ्रमेन्नदृष्टपूर्वं गोसदृशं प्राणिनमुपलभमान एवं बुद्ध्यते; ब्रवीति च—ऽअहो नु न तु गवीत्यर्थः । असिद्धत्वात्—उपमानात्पूर्वमिति शेषः । कथमसिद्धत्वं, भूयोऽवयववत्त्वस्य सादृश्यस्य सिद्धत्वादित्यत्राह—प्रतिज्ञेति । गौः—पुरोवृत्तिपिण्डसदृशा—एतन्निरूपितसादृश्यवत्त्वादित्युक्ते, सादृश्यस्य भूयोऽवयवसामान्ययोगरूपस्य सिद्धत्वेऽपि गवयनिरूपितत्वस्यासिद्धत्वेन हेतुत्वं न सम्भवतीति । प्रतिज्ञार्यैकदेशत्वादिति बहुब्रीहिगर्भः । ननु तर्हि विशेषणं त्यक्त्वा विषाणादिभूयोऽवयसामान्यवत्त्वमेव हेतुरस्तु । पुरोवर्तिनि पिण्डे दृष्टे नगरस्थे गवि विषाणाद्यवयवस्मरणे च जाते हि सादृश्यप्रतीतिरनुभवसिद्धा । न च विषाणाद्यवयवेषु गवयीयावयवसारूप्यप्रतीतिमन्तरा कथं गवये सादृश्यधीजनकत्वं भूयोवयववखज्ञानस्येति वाच्यम्—सत्यमस्त्यवयवेषु सारूप्यबुद्धिः । नैतत्साध्यम्, अवयविगतं हि तत् साध्यम् । तथा च गवयवावयवसदृशावयववत्त्वाद्गवयवसादृश्यमनुमीयत इति न कापि हानिरित्यत्राह—विषाणादीति । तद्ग्रहणाभावात्— वनस्थस्य खलु गौः परोक्षः । उपमानस्य स्वार्थत्वेन परार्थानुमानरूपत्वं तु न सम्भक्त्येवेत्यत्र शेषः ॥

गवयपिण्डस्य गवा सादृश्यं लोके प्रसिद्धम् । न तु गवयेन सादृश्यं गोरिति विपर्ययो न युक्तः । श्रुतातिदेशचाक्यस्य “कश्चन प्राणी” इत्यनिर्धारितविशेषः प्रत्ययो न भवति, किन्तु “गवयोऽयं” इत्येवेत्यतः—अश्रुतेत्यादि ॥

गवा सदृश एष कश्चन प्राणीऽ इति । न त्वनेन सदृशो गौरिति ज्ञानमभिधानं वा कस्य चिदस्तीति । अतः प्रमितेरेवाभावात् किं प्रमाणचिन्तया ?

भवतु वैषा बुद्धिः—“अनेन सदृशो गौः” इति; तथाऽपि स्मृतित्वान्न प्रमाणफलम् ॥ मीमांसकसम्मतमुपमानं स्मरणरूपमेव
ननु ! गोपिण्डमात्रे सत्यं स्मृतिरेवैषा । सम्प्रत्यवगतगवयसादृश्यविशिष्टत्वं तु तस्य पूर्वमनुपलब्धमधुनैव गम्यते इति न तस्मिन्नेषा स्मृतिः—मैवम्—गवयसादृश्यस्यापि तत्र पूर्वं ग्रहणात् ॥

ननु ! अनवगतगवयेन गवि गवयसादृश्यमवगतमिति चित्रम्—न चित्रम्—व्यक्तितिरस्कृतस्य ग्रहणात् ॥

ननु ! इदमपि चित्रतरम् । गृहीतं च व्यक्तितिरस्कृतं चेति । व्यक्तिर्हि ग्रहणमेव, तत्तिरस्कारे च नास्त्येव ग्रहणम्—उच्यते—

गोपिण्डमात्रे—विशेष्यांशमात्रे । तथोक्तं वार्तिके—“प्रत्यक्षेणावबुद्धेऽपि सादृश्ये गवि च स्मृते । विशिष्टस्यान्यतोऽसिद्धेरुपमानप्रमाणता” इति । पूर्वं ग्रहणादिति । “प्रत्यक्षेणावबुद्धेऽपि सादृश्ये” इति वदता सादृश्यग्रहणमङ्गीकृतमेवेति भावः ॥

ननु गवयगतं गोसादृश्यं प्रत्यक्षमित्युक्तम् । गोगतं गवयसादृश्यं तु उपमानविषय इत्याह—नन्विति । व्यक्तीति । तद्व्यक्त्या तिरस्कृतस्येत्यर्थः । अयं भावः—सादृश्यं नाम भूयोऽवयवसामान्ययोग इति भवन्मतं, तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वमित्यस्माकम् । उभयथापि वस्तुग्रहणकाले स्वरूपतः सादृश्यं गृहीतमेव । परन्तु तद्ग्रहणस्य व्यक्तिविश्रान्तत्वेन सादृश्यप्रत्ययो न जायते । सादृश्यप्रतीतिर्हि प्रतियोगिग्रहणसापेक्षा । एवं तदा सादृश्यप्रतीत्य भावात् सादृश्यं व्यक्तितिरस्कृतमित्युच्यते । यथा तमसः तेजोऽभावरूपत्वेऽपि तेजोरूपप्रतियोग्युपस्थित्यपेक्षयाऽभावरूपः प्रकाशते, नान्यथेत्युच्यते, तथा प्रकृतेऽपि गृहीतमपि सादृश्यं प्रतियोग्युपस्थित्यपेक्षया तथा व्यवह्नियते । अन्यदा तु स्वरूपत इति सादृश्यमपि पूर्वं गृहीतमेवेति ॥

नैतदपि चित्रतरम् । तथा हि—वने गवयमालोक्य नागरिको न करेणुमनुस्मरति, न करभम्, न तुरङ्गम्; अपि तु विशिष्टमेव पिण्डम् । न च निर्निबन्धनमेवेदं विशिष्टविषयस्मरणमुत्पत्तुमर्हति । तस्मात् यत्रैव परिदृश्यमानपिण्डसादृश्यं पूर्वमवगतं स एव पिण्डोऽस्मिन् दृश्यमाने स्मरणपथमवतरति, नेतर इति । सादृश्यग्रणमसंवेद्यमानमप्यभ्यस्तविषयाविनाभावस्मृतिवत् बलात्परिकल्प्यते । पूर्वं च गवयग्रहणाद्विना गवयसदृशीयं गौरिति ग्रामीणस्यानुभवो न भवतीति व्यक्तितिरस्कृतं तत्सादृश्यग्रहणमुच्यत इति न किञ्चिच्चित्रम् । तस्मात् स्मृतिरेवेयम्—तथा हि प्रतीतिः “अनेन सदृशो गौर्मया नगरे दृष्टः” इति । न तु “अद्यैतत्सदृशो गौर्दृश्यते” इति बुद्धिः ॥ प्रतियोग्यग्रहणेऽपि सादृश्यग्रहणसम्भवः
ननु ! प्रतियोगिग्रहणाद्विना कथं ग्राम्यस्य सादृश्यग्रहणम् ? अत्र भवतैवात्मनः प्रतिकूलमभिहितम् [श्लो। वा। उप। ३५] —

सामान्यवच्च सादृश्यं एकैकत्र समाप्यते ।
प्रतियोगिन्यदृष्टेऽपि तस्मात्तदुपलभ्यते ॥ ३० ॥

स च भूयोऽवयवसामान्ययोगोऽगृहीतगवयवेनापि नागरकेण ग्रहीतुं शक्यते ॥

नागरिकः—अदृष्टपूर्वगवय इति यावत् । एवं सर्वत्र । विशिष्टमिति । विलक्षणावयवसन्निवेशविशिष्टमित्यर्थः । यत्रैव—पिण्ढ इति शेषः । ननु व्यक्तिग्रहणेऽपि सादृश्यप्रतीतिर्न दृश्यत इत्यत्राह—सादृश्येति । भावस्त्वनुपदमेवोक्तः । प्रतीतिः—स्मृतिरिति यावत् ॥

किममिहितं प्रतिकूलमित्यत्राह—सामान्यवदिति । एवञ्च प्रतियोग्यज्ञानेऽपि सादृश्यग्रहणं भवतैवोपपादितमित्यर्थः । अतिरिक्ताभावानङ्गीकर्तृमते अन्योन्याभावरूपा जातिः, प्रतियोगिग्रहणे सत्यन्योन्याभावरूपतया, तदभावे च स्वरूपतो गृह्यत इत्युच्यते । सोऽयं न्यायः अत्रापि स्मर्तव्यः ॥

अथ तदा तद्ग्रहणेऽपि सति न तस्य सदृशप्रत्ययः—न तर्हि भूयोऽवयवसामान्ययोगः सादृश्यम्; किन्तु सदृशप्रत्ययहेतुः सादृश्यम् । यथोक्तम्—“सादृश्यं सदृशप्रत्ययहेतुत्वमेव” । भूयोऽवयवसामान्ययोगे च तल्लक्षणे चित्रादावव्याप्तिः । अतिव्याप्तिश्च, प्राण्यन्तरेषु विसदृशेष्वपि तदवयवसामान्यानां खुरादीनां भावात् । भूयस्त्वं तु कियत्तेषामिति न विद्मः । यावता सादृश्यप्रत्ययोत्पत्तिरिति चेत्, तर्हि सदृशप्रत्ययहेतुत्वमेव सादृश्यमस्त्विति युक्तम् । तस्मात् गवयदर्शनात्पूर्वमपि गव्यनभिव्यक्तसादृश्यग्रहणोपपत्तेः स्मृतिरेवेयम् ॥ मीमांसकसम्मतोपमानस्य फलाभावः
अथ मतं यथा नैयायिकानां अतिदेशवाक्यवेलायां सोपप्लवा सञ्ज्ञासञ्ज्ञिसम्बन्धबुद्धिः उपमानान्निरुपप्लवीभवति, एवमियमपि— योऽसौ पूर्वं व्यक्तितिरस्कृता गवि गवयसादृश्यबुद्धिरभूत्, सेदानीं उपमानाद्व्यक्तीभविष्यतीति ॥

नैतदस्ति—गवयग्राहिणा प्रत्यक्षेणैव तत्स्पष्टतासिद्धेः । यथा भवद्भिर्नैयायिका उक्ताः [श्लो। वा। उप। ९] —

“अथ त्वधिकता काचित् प्रत्यक्षादेव सा भवेत्” इति—

तथा नैयायिका अपि युष्मान् वक्ष्यन्ति ॥

सादृश्यस्यान्यादृशत्वेऽपि नास्माकं हानिरित्याह—अथेति । अव्याप्तिरिति । गोगवययोर्निरुच्यमानसादृश्यापेक्षया अव्याप्त्यतिव्याप्ती ज्ञेये । तस्मात्—एवं प्रतियोगिस्मरणमन्तरापि सादृश्यप्रतीतेः सम्भवात् ॥

ननु स्वरूपतः सादृश्यं यद्यपि गृह्यताम् । प्रतियोगिस्मरणवेलायामेव सादृश्यामिव्यक्तिर्भवतीति भवतैवोक्तम् । तर्हि तदेवोपमानप्रयोजनमस्त्विति शङ्कते—अथेति । सोपप्लवा—व्यक्तिविशेषापरिज्ञानात् । स्पष्टतासिद्धेः— व्यक्तिविशेषस्य दृष्टत्वादित्यर्थः । तथेत्यादि । “पूर्ववाक्यार्थविज्ञानान्नाधिक्यं गवये यदि । स्मरणादविशिष्टत्वात् सङ्गतेर्न प्रमाणता” इति पूर्वतनवार्तिकम् । सङ्गतिः—संवादः—अनुवादः । अतिदेशवाक्यादनधिकार्थत्वे अनुवादरूपत्वाद
ननु ! वनस्थप्रमातुर्गवयविषयं प्रत्यक्षं कथं ग्रामवर्तिनि गवि सादृश्यबुद्धेः स्पष्टतामादधीत ? किं कुर्मः ? तद्दर्शनानन्तरं सुस्पष्टतत्सादृश्यविशिष्टगोपिण्डस्मरणात् ॥ मीमांसकोक्तोपमानस्य प्रमाणान्तरत्वासम्भवः ननु ! अत एवेदमुपमानं प्रमाणान्तरमुच्यते, प्रत्यक्षस्य सन्निहितगवयस्वरूपमात्रनिष्ठत्वात् । परोक्षे च गवि गवयसादृश्यप्रत्ययस्य विस्पष्टस्यान्यतोऽसिद्धेरिति । उक्तमत्र—स्मृतिरेवेयम्, तथाऽवभासनात् । अनधिगतार्थग्राहि च प्रमाणमुपगच्छन्ति भवन्तः ॥ मीमांसकोक्तमुपमानमन्ततोऽनुमानमेव भवतु वा स्मृतिविलक्षणेयं प्रतीतिः । तथाऽप्यनुमानजन्यत्वात् न प्रमाणान्तरमाविशति । स्मर्यमाणो गौः धर्मी, एतत्सदृश इति साध्यो धर्मः, एतदवयवसामान्ययोगित्वात्, सन्निहितद्वितीयगवयपिण्डवत् । तदसन्निधाने सामान्येन व्याप्तिर्दर्शयितव्या— यत्र यदवयवसामान्ययोगित्वं तत्र तत्सादृश्यम्, यथा यमयोरिति । विशिष्टस्य तद्योगस्य हेतुत्वान्नानैकान्तिकत्वम् । सामान्ययोगोऽन्यः, प्रमाणमुपमानं, अधिकार्थत्वे प्रत्यक्षमित्यर्थः । अयं दोषः भवताऽपि स्मर्तव्य इत्यर्थः ॥

सादृश्यबुद्धेः—पूर्वं गवि स्वरूपतोऽवगताया इति शेषः । कथं आदधीत इत्यन्वयः । तथा च इदानीं गोरप्रत्यक्षत्वेऽपि तत्स्मरणादेव पूर्वं गृहीतं सादृश्यं स्पष्टीकृतं भवतीति ॥

अत एवेत्यस्यैव विवरणम्—प्रत्यक्षस्येत्यादि ॥

इयं प्रतीतिः—अनेन सदृशो गौरिति प्रतीतिः । सन्निहितेति । सम्प्रतिपन्नेति यावत् । तत् इति द्वितीयपिण्डपरम् । यमयोः—यमलयोर्भ्रात्रोः । ननु गवयगतपादशृङ्गाद्यवयवसामान्ययोगो महिषादावप्यस्तीति व्यभिचरितोऽयं हेतुरिति शङ्कायां, अस्य दोषस्य सर्वमतसाधारण्येन विलक्षणस्यावयवसामान्ययोगस्यैव विवक्षणीयतया न व्यभिचार इत्याह—विशिष्टस्येति । नन्वेवमपि हेतुसाध्ययोरैक्यादसिद्धिस्सिद्धसाधनं वेत्यत्राह—सामान्येति । तादृश
अन्यच्च सादृश्यमित्युक्तत्वात् न प्रतिज्ञार्थैकदेशो हेतुः । अव्युत्पन्नस्यऽ नारिकेलद्वीपवासिनः, बालस्य वा तत्प्रत्ययानुत्पादात् न व्याप्तिनैरपेक्ष्येण सा प्रतीतिरिति वक्तव्यम् । तस्मादित्थमनुमानजन्यत्वात् स्मृतित्वाद्वा पूर्वोक्तादसम्भवादेव वा नेयमवगतिरुपमानकार्येति सिद्धम् ॥ मीमांसकोक्तस्योपमानप्रयोजनस्यानुवादः कश्चास्य भवदुपमानस्य स्वतन्त्रोपयोगः ? एवं ह्याहुर्भवन्तः— [श्लो। वा। शब्द। ७] “ अपरीक्षामिषेणापि लक्षणानि वदन्नयम् ।
न स्वतन्त्रोपयोगित्वनिरपेक्षाणि जल्पति ॥

” प्रतीतेर्व्याप्तिजन्यत्वे प्रमाणमाह—अव्युत्पन्नस्येति । वृद्धोऽप्यव्युत्पन्नः कश्चित्, व्युत्पन्नोऽपि गवयगन्धरहितदेशान्तरवासी कश्चित्, एतद्देशवास्यपि बालः कश्चित् । एषां तादृशप्रतीत्यनुदयात् न शब्दं, न प्रत्यक्षं, किन्त्वनुमानमेवेदमित्यर्थः ॥

स्वतन्त्रः—वेदः । क एवमाह ? वेदोपयोग्येवात्र निरूप्यत इति । अत्राह—अपरीक्षेति । अत्र स्वतन्त्रपदार्थः वेद इति पार्थसारथिमिश्रैः सुचरितमिश्रैश्चामिहितम् । अत्रेदमितिवृत्तम्—“चोदनालक्षणोऽर्थो धर्मः” इत्यनेन धर्मस्य श्रुत्येकसमधिगम्यत्वे कथिते, प्रत्यक्षादीनां कुतस्तत्र प्रमाणत्वासम्भव इति शङ्कायां प्रत्यक्षादीनामेवंलक्षणकत्वान्न तानि धर्मे प्रमाणीभवितुमर्हन्तीति स्थापनाय प्रत्यक्षादीनां लक्षणानि कथनीयान्यापतितानि । तत्र प्रत्यक्षस्यानुमानस्य च लक्षणं कथितम् । शब्दस्य लक्षणे वक्तव्ये भाष्यकारस्तु शब्दसामान्यस्य लक्षणमनुक्त्वा शब्दविशेषस्य शास्त्रस्यैव लक्षणं वदति—“शास्त्रं च शब्दविज्ञानादसन्निकृष्टेऽर्थे विज्ञानम्” इति । तदिदमसङ्गतम्, शब्दसामान्यलक्षणस्यैव वक्तव्यत्वात् । न च वाच्यं—भाष्यकारः ऐदम्पर्येण न प्रमाणविचारे प्रवृत्तवान् । श्रुतेरेव प्रकृतविचारणीयत्वस्थापनाय प्रत्यक्षादीनामपरीक्षणीयत्वं कथनीयं संवृत्तमिति प्रमाणनिरूपणैदम्पर्याभावात् नायं महान् दोष इति-इति शङ्कायामाह— अपरीक्षेत्यादि । यद्यप्यपरीक्षणीयत्वार्थमेव प्रत्यक्षादीनि लक्षितानि । अथापि न भाष्यकारः स्वैरं वदति । किन्तु वेदविचारस्य प्रकृतत्वात् तदुपयोग्येव विषयो निरूपणीयः, नानुपयोगीति शास्त्रलक्षणमुक्तवान् इति । एवञ्चात्र मीमांसकोक्तप्रयोजनवर्णनम् ननु ! उक्त एवोपयोगः सौर्ये चरौ द्रव्यदेवतासारूप्यादाग्नेयविध्यन्तलाभः । “आग्नेयोऽष्टाकपालः” इत्युपदिष्टदृष्टादृष्टेतिकर्तव्यताकलापतया निराकाङ्क्षो विधिः । “सौर्यं चरुं निर्वपेत् ब्रह्मवर्चसकामः” इत्यत्र प्रधानमात्रोपदेशाद्विध्यादिरस्ति, न तु विध्यन्तः—इतिकर्तव्यताऽभिधानम् । न चानितिकर्तव्यताकं कर्म प्रयोगयोग्यम् । अतः किमियमितिकर्तव्यताजातमिह गृह्यतामित्यपेक्षायां चरुपुरोडाशयोर्ब्रीह्याद्यौषधसाध्यत्वेन द्रव्यसादृश्यात्सूर्याग्न्योश्च तेजस्वितया देवतयोः सारूप्यादाग्नेयेतिकर्तव्यता सौर्ये क्रियत इत्युपमानाद्गम्यते ॥

अपि च क्वचिच्चोदितद्रव्यादावलभ्यमाने प्रतिनिध्युपादानेन कर्मसमापनात् प्रतिनिधिमात्रोपादाने प्राप्ते ब्रीहिसदृशनीवारोपा- वेदोपयोग्येव निरूप्यत इति प्रतिज्ञातम् । तथा चोपमानस्य कः वेदोपयोगः ? इति वक्तव्यम् ॥

विध्यन्तः—अङ्गम् । कर्मस्वरूपबोधकः उत्पत्तिविधिः विध्यादिः । स च अङ्गविधौ निराकाङ्क्षः । अतः अङ्गविधिः विध्यन्तः । जैमिनिसूत्रे “विध्यन्तो वा प्रकृतिवत्” इत्यादावयं शब्दः प्रयुक्तः । अधिकं भाष्ये द्रष्टव्यम् । इति विधिः इत्यन्वयः । सारूप्यादिति । “यस्य लिङ्गमर्थसंयोगात्” “ऐकार्थ्याद्बा नियम्येत” [जै। सू। ८-१-२८] इति सूत्रभाष्ययोः अयं न्यायः प्रदर्शितः । पार्थसारथिमिश्रैः शास्त्रदीपिकायां “सादृश्यविशेषात्त्वेकदेवत्ये सौर्यादौ एकदेवत्यस्याग्नेयस्य प्रवृत्तिः” इत्युक्तम् । खण्डदेवेनापि भाट्टदीपिकायां सौर्यादिषु “औषधद्रव्यकत्वविशिष्टैकदेवताकत्वरूपविशेषसादृश्यादाग्नेयविकारत्वम्” इत्युपपादितम् ॥

प्रयोजनान्तरमप्याह—अपि चेति । क्वचित्—दर्शपूर्णमासादौ । चोदितद्रव्यं—ब्रीह्यादि । प्रतिनिधिः—नीवारादिः । प्रतिनिधिमात्रं—प्रतिनिधिसामान्यम् । अयं च न्यायः—“सामान्यं तच्चिकीर्षा हि” [जै। सू। ६-३-२७] इत्यत्र दर्शितः । अयमर्थः—विहितस्य ब्रीह्यादेरलाभे तत्प्रतिनिधित्वेन स्वैरं यत्किञ्चित् गृहीतुं शक्यं, नियामकाभावात् इति चेत्—न—सामान्यं
दानमुपमानात्प्रतीयत इति । तदाह [श्लो। वा। उप। ५२, ५३] — “ भिन्नानुमानादुपमेयमुक्ता
सौर्यादिवाक्यैर्न सहायि दृष्टम् ।
सादृश्यतोऽग्न्यादियुतं कथं नु
प्रत्याययेदित्युपयुज्यते नः ॥
प्रतिनिधिरपि चैवं ब्रीहिसादृश्ययोगात्
भवति तदपचारे यत्र नीवारजातौ ।
तदपि फलमभीष्टं लक्षणस्योपमायाः
प्रकृतिरपि च गौणैर्बाध्यते यत्र चान्यैः ॥

”मीमांसकोक्तोपमानप्रयोजनपराकरणम् तदेतदसमञ्जसम्—“प्रसिद्धेनाप्रसिद्धस्य सादृश्यमवगम्यते” इत्येषभवद्भिरुत्सृष्टः पन्थाः । विपर्ययस्त्वाश्रितः ॥

यदप्यदृष्टेन नूतनेनाप्रसिद्धेन गवयेन वाक्यसिद्धस्य गोः सादृश्यमुपमानात् प्रतीयत इति—तदिहापि निर्ज्ञातेतिकर्तव्यताकेन गोवत्प्रसिद्धेनाग्नेयेन सौर्यस्य गवयवदप्रसिद्धस्य सादृश्यमवगम्यते; सादृश्यमेव नियामकं तत्र, यतस्सामान्यविषयिणी हि चिकीर्षा । सर्वेषां शब्दानामाकृतिपरत्वात् । आकृतेरमूर्तत्वेन क्रियान्वयानर्हत्वेन तदाश्रयस्य ब्रीह्यादिद्रव्यस्य ग्रहणम् । तत्र पूर्णावयवसामान्ययोगः ब्रीहौ, ततः किञ्चिन्न्यूनतद्योगः नीवारे । इतरत्र च ततोऽपि न्यूनसामान्ययोगः । एवश्च नीवाराणां सदृशतमत्वात् तेषामेव ग्रहणम् । अधिकमन्यत्र ॥

उक्तार्थद्वयं श्लोकवार्तिकेन संवादयति—तदाहेति ।

उत्सृष्टः—परित्यक्तः । अथवा उत्सर्गेण प्रापितः—उपदिष्टः । अप्रसिद्धगवयसादृश्यं गवि गृह्यते इति खलूपमानफलं भवद्भिरुक्तम् । इदानीं च प्रसिद्धाग्नेयसादृश्यं सौर्ये वर्ण्यत इति विपर्ययः ॥

विपर्ययमेवोपपादयति—यदिति । उक्तमिति शेषः । यत् इति यथेत्यर्थकं वा । एवं उत्तरत्र “तत्” इत्यत्रापि । गवयेन अस्य सादृश्येनान्वयः । एवमुत्तरत्र “आग्नेयेन” इत्यत्रापि । निर्ज्ञातेति । सम्यक्
न तु गवयेन गोः—सौर्येणाग्नेयस्य । तदिह यस्य विध्यन्तार्थिता; न तत्रोपमानात्सादृश्यावगमः; यत्र वा तदवगमः, न तत्रेतिकर्तव्यताऽर्थित्वम् ॥ अन्ततः मीमांसकोक्तमुपमानं स्मृतिरेव ननु ! सौर्ये विध्यन्तार्थिनि प्रतीयमाने द्रव्यदेवतासारूप्यादेराग्नेयः स्मरणपथमवतरतीति तत एवासौ विध्यन्तमधिगच्छतीति— —एवमपि स्मरणमात्रात् सिद्धेऽर्थे किमुपमानेन ? आग्नेयस्मरणादेव तदितिकर्तव्यता सौर्ये उपादास्यते । स्मृतिविशेष एव विषयाधिक्यादुपमानमुच्यते इति चेत्, प्रतिविहितमेतदित्यलं प्रसङ्गेन ॥ मीमांसकसम्मतोपमानस्य वैयर्थ्यम् किञ्चोपमानप्रतिपादितार्थः
न चोदनालक्षणतां बिभर्ति ।
तस्मान्न युज्येत ततोऽधिगन्तुं
आग्नेयविध्यन्तविशेषलाभः ॥ ३१ ॥

प्रतिनिधिरपि चैवं नास्ति नीवारजातेः
न हि भवदुपमानात् ब्रीहिसादृश्यबुद्धिः ।

ज्ञातेत्यर्थः । “न तु” इत्यनन्तरं “भवन्मते” इति शेषः । ननु तावता प्रकृते का हानिः ? इत्यत्राह—तदित्यादि । अङ्गापेक्षा हि सौर्येष्टेः—सादृश्यग्रहणं तु आग्नेये, अप्रसिद्धसादृश्यं खलु प्रसिद्धे गृह्यत इति भवन्मतम् ॥

ननु सौर्यसादृश्यस्याग्नेये प्रतीतौ तुल्यवित्तिवेद्यतया आग्नेयसादृश्यं सौर्ये उपस्थाप्यत एवेति अङ्गलाभः सम्भवतीति शङ्कते—नन्विति । विषयाधिक्यादिति । उपपादितमिदं पूर्वं [३८४-३८५ पुटे] प्रतिविहितमिति । पूर्वं [पुट। ३८५] इति शेषः ॥

प्रथमदृष्टान्ते बाधकमप्याह—किञ्चेति । उपमानप्रमाणादेव विध्यन्तलाभे तस्य कथं चोदनैकगम्यत्वमित्यर्थः । ततः—उपमानात् ॥

द्वितीयदृष्टान्तस्याप्यसाङ्गत्यमाह—प्रतिनिधिरिति । प्रतिनिधित्वमित्यर्थः । न हीति । अप्रसिद्धसादृश्यं खलु प्रसिद्धे ग्राह्यं भवताम् ।
भवति तु मतिरेषा ब्रीहयस्तत्सदृक्षाः
इति, न च फलमस्याः किञ्चिदस्ति प्रतीतेः ॥ ३२ ॥

स्वमतोपसंहारः भवत्यङ्गं यागे क्वचन गवयालम्भनमतः
तदाकारज्ञाने प्रतिनिधिविवेके च कृतिनाम् ।
उपायत्वं युष्मत्कथितमुपमानं न भजते;
परिग्राह्यं तस्मात् प्रवरमुनिगीतं सुमतिभिः ॥ ३३ ॥

इत्युपमानम्॥ इति द्वितीयमाह्निकम् ॥ तत्सदृक्षाः—नीवारसदृशाः । नीवारसादृश्यं ब्रीहिषु गृह्यते चेत् नीवारप्रति निधित्वेन ब्रीहिर्गृह्येत । अधिकावयवसामान्ययोगः ब्रीहिषु, ततो न्यूनः नीवारेषु इत्युच्यते । एवं सति ब्रीहिसादृश्यमेव नीवारेषु गृह्येत । वर्ण्यते च भवद्भिरुपमान वैपरीत्येनेति ॥

अतश्च प्रसिद्धसादृश्यमप्रसिद्धे उपपादयतां सैद्धान्तिकानां मत एव प्रतिनिधिग्रहणादिकं सूपपादमित्युपसंहरति—भवतीत्यादि ॥


  1. २९३ पुटे द्रष्टव्यम् । ↩︎

  2. ३०९ पुटे द्रष्टव्यम् । ↩︎