प्रथममाह्निकम्—प्रमाणसामान्यपरीक्षणम्
मङ्गलाचरणम्
नमः शाश्वतिकानन्दज्ञानैश्वर्यमयात्मने ।
सङ्कल्पसफलब्रह्मस्तम्बारम्भाय शम्भवे ॥ १ ॥
विश्वं सृजन् करुणया परिपालयन् यः
विश्वक्रियासु यमयत्यखिलान्तरात्मा ।
विद्यास्वयंवरपतिर्विदधातु सोऽयं
विश्वस्य मङ्गलममेयमहाविभूतिः ॥
अनुगृह्णन्तु सद्भावपवित्रितजगत्त्रयाः ।
आघ्राय मञ्जुलं न्यायमञ्जर्याः सौरभं बुधाः ॥
इह खल्वनन्यसाधारणशेमुषीविभवसमाकृष्टसकलसुधीजनहृदयः श्रीमान् जयन्तभट्टः प्रारीप्सितप्रबन्धस्य निर्विघ्नपरिसमाप्तिप्रचयगमनाद्यर्थं स्वेष्टदेवतानमस्काररूपं मङ्गलमारचयति—नम इत्यादि । नात्र विकारार्थे मयट्, ब्रह्मणो निर्विकारत्वात्; किन्तु प्राचुर्यार्थे । ननु तर्हि ब्रह्मण्यज्ञानादयोऽपि प्रसज्येरन् । सुखप्रचुरजीवनतात्पर्येण प्रयुक्ते हि “सुखमयं जीवनम्” इत्यादौ
नमामि यामिनीनाथलेखाऽलङ्कृतकुन्तलाम् ।
भवानीं भवसन्तापनिर्वापणसुधानदीम् ॥ २ ॥
सुरासुरशिरोरत्नमरीचिखचिताङ्घ्रये ।
विघ्नान्धकारसूर्याय गणाधिपतये नमः ॥ ३ ॥
जयन्ति पुरजिद्दत्तसाधुवादपवित्रिताः ।
निदानं न्यायरत्नानां अक्षपादमुनेर्गिरः ॥ ४ ॥
ग्रन्थावतरणम्
अक्षपादमताम्भोधिपरिमर्षरसोत्सुकाम् ।
विगाहन्तामिमां सन्तः प्रसरन्तीं सरस्वतीम् ॥ ५ ॥
नानागुणरसास्वादखिन्नाऽपि विदुषां मतिः ।
आलोकमात्रकेणेममनुगृह्णातु नः श्रमम् ॥ ६ ॥
दुःखापेक्षयैव प्राचुर्यस्य सुखे बोधनात्—उच्यते—प्राचुर्यं हि द्विविधं—स्वसमानाधिकरणविजातीयाल्पत्वसापेक्षं, स्वव्यधिकरणसजातीयाल्पत्वसापेक्षं चेति । आद्यं सुखमयं जीवनमित्यादौ । तत्तु न प्रकृते । द्वितीयं च सूर्यप्रकाशप्राचुर्यतात्पर्यके “प्रचुरप्रकाशः सविता” इत्यादौ । न हि तत्र सूर्यगताप्रकाशांशापेक्षया सूर्यगतप्रकाशांशप्राचुर्यं बोध्यते; सूर्ये अप्रकाशांशस्यासम्भवात् । किन्तु सूर्यव्यतिरिक्तलौकिकसर्वतेजोगतप्रकाशापेक्षया सूर्यप्रकाशप्राचुर्यमेव । प्रकृतेऽपि जीवगतानन्दाद्यपेक्षया ब्रह्मानन्दस्य प्राचुर्यमेव मयडा बोध्यत इति न दोषः । ननु भोः ! सिद्धान्ते, ब्रह्मण्यानन्दस्याप्यनङ्गीकारात् कथमिदम् ? अत्यल्पमेतत्—किं “आनन्दो ब्रह्म” इत्यादिश्रुतिरेव सैद्धान्तिकैर्न श्रुता ? श्रुतापि न प्रमाणं वा ? युक्त एव तथा व्यपदेशः । निर्वाहस्तु स्वावसरे भविष्यति ॥ १ ॥ यामिनीनाथेत्यादि । ईश्वरस्यार्धनारीत्वात्, पार्वत्याः भवानीत्वाद्वा तथा वर्णनम् । चन्द्रकलायाः वामभाग एव सत्त्वेन अर्धनारीमूर्तौ पार्वत्या वामार्धगतत्वेन वा तथोक्तिः ॥ २ ॥ जयन्तीत्यादि । एतच्छलोकार्थः ग्रन्थकारेणैव ग्रन्थान्ते “न्यायोद्गारगभीरनिर्मलगिरा गौरीपतिस्तोषितो वादे येन” इत्यादिश्लोकेन किञ्चिदिव विवृतः । तथोक्तं शैवपुराणे उमासंहितायां द्वितीयाध्याये— गौतममधिकृत्य—“तुतोष, भगवानाह, ग्रन्थकर्ता भविष्यसि । वत्साक्षय्या
न्यायौषधिवनेभ्योऽयमाहृतः परमो रसः ।
इदमान्वीक्षकीक्षीरात् नवनीतमिवोद्धृतम् ॥ ७ ॥
कुतो वा नूतनं वस्तु वयमुत्प्रेक्षितुं क्षमाः ।
वचोविन्यासवैचित्र्यमात्रमत्र विचार्यताम् ॥ ८ ॥
तैरेव कुसुमैः पूर्वमसकृत्कृतशेखराः ।
अपूर्वरचने दाम्नि दधत्येव कुतूहलम् ॥ ९ ॥
यद्वा निर्गुणमप्यर्थं अभिनन्दन्ति साधवः ।
प्रणयिप्रार्थनाभङ्गसंविधानमशिक्षिताः ॥ १० ॥
तदियं वाङ्मयोद्यानलीलाविहरणोद्यतैः ।
विदग्धैः क्रियतां कर्णे चिराय न्यायमञ्जरी ॥ ११ ॥
अक्षपादप्रणीतो हि विततो न्यायपादपः ।
सान्द्रामृतरसस्यन्दफलसन्दर्भनिर्भरः ॥ १२ ॥
च ते कीर्तिः त्रैलोक्ये प्रभविष्यति । अक्षयं च कुलं तेऽस्तु महर्षिभिरलङ्कृतम् । भविष्यसि ऋषिश्रेष्ठ सूत्रकर्ता ततस्ततः । इत्येवं शङ्करात् प्राप वरं मुनिवरस्स वै । त्रैलोक्ये विततश्चासीत् पूज्यश्च यदुनन्दन ।” इति ॥ ४ ॥ न्यायौषधीत्यादि ॥ पूर्वोत्तरार्धे भिन्नवाक्ये ॥ ७ ॥ पूर्वश्लोकोक्तमेव समर्थयति—कुतो वेत्यादि ॥ ८ ॥ अनपूर्वत्वेऽनुपादेयता स्यादित्यत्राह—तैरेवेत्यादि ॥ ९ ॥ यद्वेत्यादि । साधवः—सुसंस्कृतमनस्काः निर्गुणमप्यर्थमभिनन्दन्ति । अशिक्षितास्तु— असंस्कृतमनसः प्रणयिप्रार्थनाभङ्गसंविधानमेवाभिनन्दन्तीत्यर्थः । अथ वा प्रणयिप्रार्थनाभङ्गसंविधानमित्यत्र विषयत्वरूपं कर्मत्वं द्वितीयार्थः । प्रणयिनां प्रार्थनाया भङ्गाचरणदिषये अशिक्षिताः—अनभिज्ञा इति साधवो विशेष्यन्ते साभिप्रायम् । यतस्तादृशाः साधवः अतो निर्गुणमप्यभिनन्दन्त्येवेति ॥ १० ॥ एवं साधूनभिनन्द्य स्वप्रार्थनां कथयति—तदियमित्यादिना ॥ ११ ॥ आक्षपादीयेषु कतिपयसूत्रेष्वेव कुतः पक्षपातः ? प्रतिसूत्रं कुतो न व्याख्याति भवान् ? इत्याशङ्कामपनुदति—अक्षपादेत्यादित्रिभिः श्लोकैः । गभीरं न्यायपादपं पङ्गुरहमारोढुं कथं प्रभवेयम् । तद्वैभवप्राग्भागगतातिशयं द्रष्टुमपि
वयं मृदुपरिस्पन्दाः तदारोहणपङ्गवः ।
न तद्विभूतिप्राग्भारमालोकयितुमप्यलम् ॥ १३ ॥
तदेकदेशलेशे तु कृतोऽयं विवृतिश्रमः ।
तमेव चानुगृह्णन्तु सन्तः प्रणयवत्सलाः ॥ १४ ॥
असङ्ख्यैरपि नात्मीयैः अल्पैरपि परस्थितैः ।
गुणैस्सन्तः प्रहृष्यन्ति चित्रमेषां विचेष्टितम् ॥ १५ ॥
परमार्थमावनाक्रमसमुन्मिषत्पुलकलाञ्छितकपोलम् ।
स्वकृतीः प्रकाशयन्तः पश्यन्ति सतां मुखं धन्याः ॥ १६ ॥
शास्त्राणामवश्याध्येयत्वम् इह प्रेक्षापूर्वकारिणः पुरुषार्थसम्पदमभिवाञ्छन्तः तत्साधनाधिगमोपायमन्तरेण तदवाप्तिममन्यमानाः तदुपायावगमनिमित्तमेव प्रथममन्वेषन्ते । दृष्टादृष्टभेदेन च द्विविधः पुरुषार्थस्य पन्थाः । तत्र दृष्टे विषये सुचिरप्ररूढवृद्धव्यवहारसिद्धान्वयव्यतिरेकाधिगतसाधनभावे भोजनादावनपेक्षितशास्त्रस्यैव भवति प्रवृत्तिः । न हि “मलिनः स्नायात्” “बुभुक्षितो वाऽश्रीयात्” इति शास्त्रमुपयुज्यते । अदृष्टे तु स्वर्गापवर्गमात्रे नैसर्गिकमोहान्धतमसविलुप्तालोकस्य लोकस्य शास्त्रमेव प्रकाशः । तदेव सकलसदुपायदर्शने दिव्यं चक्षुरस्मदादेः, न योगिनामिव योगसमाधिजज्ञानाद्युपायान्तरमपीति । तस्मादस्मदादेः शास्त्रमेवाधिगन्तव्यम् ॥ नालमहम् । अतस्तदेकदेश एव मम सर्वोऽपि परिश्रमो विश्राम्यति इति समुदितार्थः ॥ १४ ॥ परमार्थेत्यादि । परमार्थभावनाक्रमसमुन्मिषत्पुलकलाञ्छितकपोलं सतां मुखं स्वकृतीः प्रकाशयन्तो धन्याः पश्यन्ति । ये तु ग्रन्थकर्तारः, स्वग्रन्थोक्ततत्त्वार्थपरिशीलनविकसितं सतां निर्मत्सराणां मुखं पश्यन्ति, त एव धन्या इत्याशयः । निर्मत्सरा विद्वांसस्सुदुर्लभा इति यावत् ॥ १६ ॥
उपयुज्यत इति । स्वविषयप्रवर्तनायेति शेषः । स्नानभोजनादेः रागप्रासत्वादिति हेतुरूह्यः । योगसमाधिजेत्यादि । योगिनो ह्यतीन्द्रियं विद्यास्थानानि तच्च चतुर्दशविधं, यानि विद्वांसः चतुर्दशविद्यास्थानान्याचक्षते ॥ वेदाः तत्र वेदाश्चत्वारः । प्रथमोऽथर्ववेदः, द्वितीय ऋग्वेदः, तृतीयो यजुर्वेदः, चतुर्थः सामवेदः । एते चत्वारो वेदाः साक्षादेव पुरुषार्थसाधनोपदेशस्वभावाः, “अग्निहोत्रं जुहुयात् स्वर्गकामः” “आत्मा ज्ञातव्यः” इत्यादिश्रुतेः ॥ धर्मशास्त्राणि स्मृतिशास्त्रमपि मन्वाद्युपनिबद्धं अष्टकाशिखाकर्मप्रपाप्रवर्तनादिपुरुषार्थसाधनोपदेश्येव दृश्यते । अश्रूयमाणफलानामपि कर्मणां फलवत्ता विधिवृत्तपरीक्षायां वक्ष्यते—सर्वो हि शास्त्रार्थः पुरुषार्थपर्यवसायी न स्वरूपनिष्ठ इति ॥ धर्माधर्मादिकमपि पश्यन्तीति शास्त्रमर्यादा । न तथा वयमयोगिनः शक्नुम इत्यस्मदादेः शास्त्रमेव चक्षुरित्यर्थः ॥
विद्यास्थानानीति । साक्षात् परम्परया वा पुरुषार्थोपकारकाणि विद्यास्थानानीत्यर्थः । विद्यास्थानपदार्थः ग्रन्थकृताऽनुपदमेव प्रदर्श्यते ॥
अथर्ववेदस्य प्राथम्यं ग्रन्थकृतैव शब्दपरीक्षायां स्थापयिष्यते । अग्निहोत्रमित्यादि तु अनुमितश्रुतिवाक्यम्, अर्थानुकरणं वा । पूर्वोत्तरकाण्डयोरविशेषेण प्रामाण्यज्ञापनाय वाक्यद्वयमुपात्तम् ॥
स्मृतिशास्त्रं—धर्मशास्त्रम् । विधिवृत्तपरीक्षायामिति । पञ्चमाह्निके विध्यर्थविचारावसरे अश्रूमाणफलानामपि नित्यकर्मणां अन्ततः प्रत्यवायादिपरिहारो वा फलं वर्तत एवेति साधयिष्यते । अतः शास्त्रार्थस्सर्वोऽपि न स्वरूपतः पुरुषार्थः, किन्तु पुरुषार्थपर्यवसाय्येवेति ॥
पुराणेतिहासौ
इतिहासपुराणाभ्यामपि उपाख्यानादिवर्णनेन वैदिक एवार्थः प्रायः प्रतन्यते । यथोक्तम्— [म। भा। आ। १-२६५]
“
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।
विभेत्यल्पश्रुताद्वेदः मामयं प्रतरिष्यति इति ।
”
तदेवं वेदपुराणधर्मशास्त्राणां स्वत एव पुरुषार्थसाधनोपदेशस्वभावत्वाद्विद्यास्थानत्वम् ॥
अङ्गानि
अङ्गानि व्याकरणकल्पज्योतिशिशक्षाछन्दोनिरुक्तानि वेदार्थोपयोगिपदादिव्युत्पादनद्वारेण विद्यास्थानत्वं प्रतिपद्यन्ते । तेषामङ्गसमाख्यैव तदनुगामितां प्रकट्यति ॥
मीमांसा
विचारमन्तरेणाव्यवस्थितवेदवाक्यार्थानवधारणात् मीमांसा वेदवाक्यार्थविचारात्मिका वेदाकरस्येतिकर्तव्यतारूपमनुभवन्ती विद्यास्थानतां प्रतिपद्यते । तथा च भट्टः—
इतिहासपुराणाभ्यामिति । उपाख्यानादिवर्णनमुखेन वैदिकार्थप्रतिपादकत्वरूपार्थसामान्यात् “पुराणतर्कमीमांसा” “पुराणं धर्मशास्त्रं च” इत्यादौ पुराणपदं इतिहासमपि सङ्गृह्णातीति भावः । उपाख्यानवर्णनोपयोगितया इतरवर्णनादीनामपि प्रसक्तत्वात् प्राय इत्युक्तम् ॥
ननु व्याकरणादीनामपि धर्मशास्त्रादीनामिव स्वत एव पुरुषार्थोपदेशित्वं कुतो न स्यादिति शङ्कायामाह—तेषामिति ॥
अव्यवस्थितेति । “उदिते जुहोति” “अनुदिते जुहोति” “सदेव सौम्येदमग्र आसीत्” “असद्वा इदमग्र आसीत्” इत्यादिवाक्यानामित्यर्थः । “
धर्मे प्रमीयमाणे तु वेदेन कर आत्मना ।
इतिकर्तव्यताभागं मीमांसा पूरयिष्यति इति ॥
” अत एव सप्तममङ्गमिति न गण्यते मीमांसा; प्रत्यासन्नत्वेन वेदैकदेशभूतत्वात् । विचारसहायो हि शब्दः स्वार्थं निराकाङ्क्षं प्रबोधयितुं क्षमः ॥ न्यायविस्तरः न्यायविस्तरस्तु मूलस्तम्भभूतः सर्वविद्यानां, वेदप्रामाण्यरक्षाहेतुत्वात् । वेदेषु हि दुस्तार्किकरचितकुतर्कविप्लावितप्रामाण्येषु शिथिलितास्थाः कथमिव बहुवित्तव्ययायासादिसाध्यं वेदार्थानुष्ठानमाद्रियेरन् साधवः । किं वा स्वामिनि परिम्लाने तदनुयायिना मीमांसादिविद्यास्थानपरिजनेन कृत्यमिति । तस्मादशेषदुष्टतार्किकोपमर्दद्वारकदृढतरवेदप्रामाण्यप्रत्ययाधायिन्यायोपदेश— क्षममक्षपादोपदिष्टमिदं न्यायविस्तराख्यं शास्त्रं शास्त्रप्रतिष्ठाननिबन्धनं इति धुर्यं विद्यास्थानम् ॥ किं नाम विद्यास्थानत्वम् विद्यास्थानत्वं नाम चतुर्दशानां शास्त्राणां—पुरुषार्थसाधनज्ञानोपायत्वमेवोच्यते । वेदनं—विद्या, तच्च न घटादिवेदनं, अपि तु धर्म इत्यादि । धर्मप्रमितौ वेदाः करणम् । करणस्य इतिकर्तव्यताप्रकारं मीमांसा बोधयति । उद्यमननिपातनादीतिकर्तव्यतानमिज्ञस्य वास्यादिकरणं न हि फलाय कल्पेत । एवं वेदार्थनिर्णायकत्वादेव तस्या वेदैकदेशत्वमनुपदमुच्यते ॥
वेदप्रामाण्यशैथिल्येन मीमांसादीनां किमागतमित्यत्राह—किं वा स्वामिनीति । स्वामी—अङ्गी वेदः । शास्त्रप्रतिष्ठाननिबन्धनं—स्वेतरसर्वशास्त्रजीवनाधारभूतम् । धुर्यं—तत्कार्यनिर्वाहात् अग्रयम् ॥
न घटादिवेदनमिति । “एतत् ज्ञानमिति प्रोक्तं अज्ञानं यदतोऽन्यथा” [गी।] , “तत् ज्ञानमज्ञानमतोऽन्यदुक्तम्” [वि। पु।] इत्यादौ पुरुषार्थसाधन
पुरुषार्थसाधनवेदनं; विद्यायाः स्थानं—आश्रयः—उपाय इत्यर्थः । तच्च पुरुषार्थसाधनपरिज्ञानोपायत्वं कस्यचित् साक्षात्, कस्यचिदुपायद्वारेण । तानीमानि चतुर्दश विद्यास्थानानीत्याचक्षते । यथोक्तम्— [या-स्मृ। १-३]
“
पुराणतर्कमीमांसाधर्मशास्त्राङ्गमिश्रिताः ।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश इति ।
”
अन्यत्राप्युक्तम्—
“
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविंस्तरः ।
पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश इति ॥
”गौतमप्रणीतन्यायशास्त्रमेव विद्यास्थानगणपरिगणितम् पूर्वत्र तर्कशब्देनोपात्तं उत्तरत्र च न्यायविस्तरशब्देनैतदेव शास्त्रमुच्यते । न्यायः—तर्कः—अनुमानम्, सोऽस्मिन्नेव शास्त्रे व्युत्पाद्यते ॥
यतः—साङ्ख्यार्हतानां तावत् क्षपणकानां कीदृशमनुमानोपदेशकौशलं ? कियदेव तत्तर्केण वेदप्रामाण्यं रक्ष्यत इति नासाविह गणनार्हः ॥
बौद्धास्तु यद्यपि अनुमानमार्गावगाहननैपुणोद्धुरां कन्धरामुद्वहन्ति; तथाऽपि वेदविरुद्धत्वात्तत्तर्कस्य कथं वेदादिविद्या- ज्ञानस्यैव ज्ञानत्वेन, तदतिरिक्तस्याज्ञानत्वेन च वर्णनादित्याशयः । लोकेऽपि हि तत्तदसाधारणकार्यनिर्वाहकस्यैव तत्तद्वस्तुत्वेन निर्देशः । यथा सत्पुत्रः, असत्पुत्र इत्यादाविति भावः । धर्मस्य चेति । धर्मस्य च स्थानानीत्यन्वयः ॥
पूर्वत्र—पुराणतर्केत्यादिश्लोके । पूर्वत्र तर्कशब्देनोपात्तं एतदेव शास्त्रम् । उत्तरत्र च न्यायविस्तरशब्देनोच्यत इत्यन्वयः ॥
ननु तर्कावलम्बिषु साङ्ख्यार्हतबौद्धचार्वाकवैशेषिकनैय्यायिकेषु षट्सु षट्तर्कीति प्रसिद्धेषु सत्सु, न्यायशास्त्रमेव पुराणतर्केत्यादौ परिगण्यत इत्यत्र किं विनिगमकम् ? इत्यत्राह—यत इत्यादि । इह—विद्यास्थानेषु ॥
नैपुणोद्धुरां कन्धरामित्यादि । स्वस्यैव महातार्किकत्वामिमानेन उद्धृतग्रीवा गच्छन्तीति हास्योक्तिरियम् ॥
स्थानमध्ये पाठः । अनुमानकौशलमपि कीदृशं शाक्यानामिति पदे पदे दर्शयिष्यामः ॥
चार्वाकास्तु वराकाः प्रतिक्षेप्तव्या एव; कः क्षुद्रतर्कस्य तदीयस्येह गणनावसरः ?
वैशेषिकाः पुनरस्मदनुयायिन एवेत्येवमस्यां जनतासु प्रसिद्धायामपि षट्तर्क्यां इदमेव तर्कन्यायविस्तरशब्दाभ्यां शास्त्रमुक्तम् ॥
इयमेवान्वीक्षिकी चतसॄणां विद्यानां मध्ये न्यायविद्या गण्यते—
“आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती” इति ॥
आन्वीक्षिकीशब्दव्युत्पत्तिः
प्रत्यक्षागमाभ्यामीक्षितस्य अन्वीक्षणं—अन्वीक्षा; अनुमानमित्यर्थः; तद्व्युत्पादकं शास्त्रं आन्वीक्षिकी ॥
ननु चतस्रश्चेद्विद्याः तत्कथं चतुर्दश दर्शिताः—नैष विरोधः —वार्तादण्डनीत्योर्दृष्टैकप्रयोजनत्वेन सर्वपुरुषार्थोपदेशिविद्यावर्गे गणनानर्हत्वात्, त्रय्यान्वीक्षिक्योश्च तत्र निर्देशाच्चतुर्दशैव विद्याः ॥
यद्यपि चार्वाकाः प्रत्यक्षातिरिक्तं प्रमाणं नाभ्युपगच्छन्तीति प्रसिद्धं, तथापि स्वपक्षनिर्धारणाय तैरप्यपरित्याज्य एव तर्कः । अमुमाशयं सूचयति “वराक” शब्दः । वस्तुतस्तु सुशिक्षितचार्वाका अनुमानमपि प्रमाणमुररीकुर्वन्तीति स्वावसरे प्रकाशयिष्यते ॥
अस्मदनुयायिन इति । तथा च तेऽप्यत्र क्रोडीकृता एवेति भावः ॥
ननु “आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती । विद्याश्चतस्र एवैताः” इत्यादिवचने आन्वीक्षिक्या एव गणनात् कथं न्यायविस्तरस्य विद्यात्वमिति शङ्कायां, तयोः पदयोः पर्यायत्वं सव्युत्पत्तिप्रदर्शनं दर्शयति—इयमेवेत्यादिना । अन्वीक्षिक्यमिन्ना इयं न्यायविद्यैव चतसॄणां विद्यानां मध्ये गण्यते इत्यन्वयः ॥
कथमिति । चतस्र इति खलु वक्तव्यमित्यर्थः । दृष्टैकप्रयोजनत्वेनेति । लोकस्य जीवनहेतुप्रतिपादिका हि वार्ता, “वार्ता तु जीवनम्” इति मीमांसाशास्त्रेण नेदं शास्त्रं चरितार्थम् ननु वेदप्रामाण्यनिर्णयप्रयोजनश्चेन्न्यायविस्तरः कृतमनेन, मीमांसात एव तत्सिद्धेः । तत्र ह्यर्थविचारवत् प्रामाण्यविचारोऽपि कृत एव—सत्यम्—सत्वानुषङ्गिकः । तत्र मुख्यस्त्वर्थविचार एव । पृथक् प्रस्थाना हीमा विद्याः । सा च वाक्यार्थविद्या, न प्रमाणविद्येति । न च मीमांसकाः सम्यक् वेदप्रामाण्यरक्षणक्षमां सरणिमवलोकयितुं कुशलाः । कुतर्ककण्टकनिकरनिरुद्धसञ्चारमार्गाभासपरिभ्रान्ताः खलु ते इति वक्ष्यामः । न हि प्रमाणान्तरसंवाददार्ढ्यमन्तरेण प्रत्यक्षादीन्यपि प्रमाणभावं भजन्ते, किमुत तदधीनवृत्तिरेष शब्दः ? शब्दस्य हि समयोपकृतस्य बोधकत्वमात्रं स्वाधीनं, अर्थतथात्वेतरत्वपरिनिश्चये तु पुरुषमुखप्रेक्षित्वमस्यापरिहार्यम् । कामन्दकोक्तेः । तद्विघ्ननिवारणार्था च दण्डनीतिः । एवञ्चानयोः दृष्टार्थत्वं स्पष्टम् । विद्यास्थानानि तु सर्वपुरुषार्थसाधनोपदेशीनि इति भावः ॥
आनुषङ्गिक इति । प्रत्यक्षादिप्रमाणैरेव धर्मस्वरूपादिनिर्णयसम्भवे किं चेदार्थविचारेणेतिशङ्कायां तद्व्युदसनाय प्रमाणस्वरूपविचारं सङ्क्षेपतः कृत्वा वेदैकसमधिगम्यो धर्मः इत्येतावन्मात्रं तत्र प्राधान्येन विवक्षितम्, न त्वतिरिक्तमपि । एवञ्च जैमिनिसूत्रेषु प्रमाणस्वरूपादिकथनं एतच्छास्त्रसिद्धार्थानुवादमात्रमिति भावः । वाक्यार्थविद्येति । पदशास्त्रं व्याकरणं, वाक्यशास्त्रं मीमांसा, प्रमाणशास्त्रं न्याय इति हि प्रामाणिकी प्रसिद्धिरिति भावः । न च मीमांसका इत्यादि । कुतर्ककुशलवेदाप्रामाण्यवादिपुरुषव्याघ्रभीताः खलु मीमांसकमृगाः किङ्कर्तव्यतामूढाः स्वरक्षणाय द्राविडप्राणायामादिकमारचयन्तीति “अहो बत इमे श्रोत्रियाः” इत्यादिना तत्र तत्र निरूपयिष्यत इति भावः । किमुतेति । सर्वप्रमाणाग्रणीत्वेन प्रसिद्धमपि प्रत्यक्षं शुक्तिरजतादिज्ञाने अर्थं व्यभिचरत् स्वप्रमाण्ये तर्कमेव सहायमपेक्षते चेत् विप्रलम्भकादिभूयिष्ठे जगति सुलभप्रमादस्य शब्दस्य विषये हि सुतरां तर्कापेक्षा । तच्च शब्दप्रामाण्यं “यक्षानुरूपो बलिः” इतिन्यायेन कुतर्कनिराकरणक्षममहातार्किकैकसंरक्ष्यं, न केवलसाम्प्रदायिकेनेति वेदप्रामाण्यं तर्कशास्त्राधीनमेवेति । समयः—सङ्केतः, शक्तिरिति यावत् । अर्थतथात्वेतरत्वे—यथार्थत्वायथार्थत्वे ॥
तस्मादाप्तोक्तत्वादेव शब्दः प्रमाणीभवति, नान्यथेत्येतच्चास्मिन्नेव शास्त्रे व्युत्पादयिष्य ते ॥
ननु अक्षपादात् पूर्वं कुतो वेदप्रामाण्यनिश्चय आसीत् ? अत्यल्पमिदमुच्यते—जैमिनेः पूर्वं केन वेदार्थो व्याख्यातः ? पाणिनेः पूर्वं केन पदानि व्युत्पादितानि ? पिङ्गलात् पूर्वं केन छन्दांसि रचितानि ? आदिसर्गात्प्रभृति वेदवदिमा विद्याः प्रवृत्ताः । सङ्क्षेपविस्तरविवक्षया तु तांस्तान् तत्र तत्र कर्तॄनाचक्षते ॥
शास्त्राधिकारिणः
ननु वेदप्रामाण्यं निर्विचारसिद्धमेव साधवो मन्यन्ते—इति किमत्र विचारयत्नेन ? न—संशयविपर्यासनिरासार्थत्वात् । यस्य हि वेदप्रामाण्ये संशयाना विपर्यस्ता वा मतिः, तं प्रति शास्त्रारम्भः । न हि विदितवेदार्थं प्रति मीमांसा प्रस्तूयते । तदुक्तम्—
“नान्यतो वेदविद्भ्यश्च सूत्रवृत्तिक्रियेष्यते” इति ॥
नन्वित्यादि । अक्षपादैस्तर्कशास्त्रप्रणयनात्पूर्वे परीक्षकाः वेदप्रामाण्यादिकं कथमरक्षन् ? विनैवाक्षपादशास्त्रं तैः वेदप्रामाण्यसंरक्षणे सैव रीतिरिदानीमप्यनुस्रियतां, किमाक्षपादेन शास्त्रेणेति प्रश्नाशयः । एवं धार्ष्ट्यात्पृच्छन्तं प्रति प्रतिबन्दिमाह—जैमिनेरित्यादि । ऋजुं समाधानमाह—आदिसर्गादित्यादि ॥
निर्विचारसिद्धमेवेति । ये तु साधवश्शतशश्चालनेऽपि श्रद्धादार्क्ष्यात् वेदप्रामाण्ये न संशेरते, तान् प्रति तत्प्रामाण्यसाधनप्रयासो व्यर्थ एव । ये च मूर्खाश्शतशो बोधनेऽपि नास्तिक्यात् वेदप्रामाण्ये न श्रद्दधते, तान् प्रत्यपि तत्प्रयासो व्यर्थ एवेत्यधिकारिणोऽभावादनारम्भणीयं शास्त्रमित्याक्षेपाशयः । सत्यं मुनिरसौ निश्चितार्थेभ्यः नोपदिशति; किन्तु विपर्यस्तान् शिक्षयति युक्त्या, अज्ञसन्दिहानाबुद्धरतीति समाधानाशयः ॥
तदुक्तमिति । श्लोकवार्तिके [१-४-४३] भट्टपादैरिति शेषः । वार्तिकस्यायमर्थः । अन्यतः—प्रकारान्तरेण वेदविद्भयः—वेदार्थमवगतवद्भ्यः ।
भवति च चतुष्प्रकारः पुरुषः; अज्ञः, सन्दिग्धः, विपर्यस्तः, निश्चितमतिश्चेति । तत्र निश्चितमतिरेष मुनिः अमुना शास्त्रेण अज्ञस्य ज्ञानमुपजनयति, संशयानस्य संशयमुपहन्ति, विपर्यस्यतो विपर्यासं व्युदस्यतीति तान् प्रति युक्तः शास्त्रारम्भः ॥
कुतः पुनरस्य मुनेः निश्चितमतित्वं जातम् ? उच्यते—भवति तावदेष निश्चितमतिः; स तु तपःप्रभावाद्वा देवताराधनाद्वा शास्त्रान्तराभ्यासाद्वा भवतु । किमनेन ?
तत्रैतत् स्यात्, तत एव शास्त्रान्तरादस्मदादेरपि तत्त्वाधिगमो भविष्यतीति किमक्षपादप्रणीतेन शास्त्रेण ?—परिहृतमेतत्— सङ्क्षेपविस्तरविवक्षया शास्त्रप्रणयनस्य साफल्यात् । विचित्रचेतसश्च भवन्ति पुरुषा इत्युक्तम् । येषामित एवाज्ञानसंशयविपर्यया विनिवर्तन्ते, तान् प्रत्येतत्प्रणयनं सफलमितीदं प्रणीतवानाचार्यः ॥
तत्रेदमादिमं सूत्रम्—
प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयव— तर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजा— तिनिग्रहस्थानानां तत्त्वज्ञानान्निश्रेयसाधिगमः ॥ ॥ १-१-१ ॥ सूत्रस्य तद्वृत्तेर्वा प्रणयनं नेष्यते, किन्तु तद्व्यतिरिक्तान् प्रत्येवेति । भवति चेति । उद्योतकारैरप्युक्तं वार्तिके—“पुरुषः पुनश्चतुर्धा भिद्यते—प्रतिपन्नोऽप्रतिपन्नः सन्दिग्धो विपर्यस्तश्च” इति ॥
किमनेनेति । किमनेन काकदन्तपरीक्षणेनेत्यर्थः । ननु नेदं काकदन्तपरीक्षणं, अपि तु येनोपायेन स मुनिर्निश्चितमतिरासीत्तमेवोपायं वयमप्याश्रयेमहीति किमनेनशास्त्रेण इति प्रश्नाशयं स्फुटयति—तत्रैतत्स्यादिति । सङ्क्षेपेत्यादि । तावत्तत्त्वज्ञानोत्पादनक्षमः तपःप्रभावो देवताराधनं वा न सर्वेषां सुशकं; तदपेक्षया परकल्पिततडाकोपजीवनन्यायेनैतच्छास्त्राध्ययनमेव वरं, को हि सुमतिः सिद्धमन्नं परित्यज्य भिक्षामटेत्—इत्यप्युपलक्षणम् ॥
शास्त्रारम्भे अमिधेयप्रयोजनकथनमावश्यकम्
ननु किमर्थोऽयमादिवाक्यारम्भः ?
कोऽयं प्रश्नः ? शास्त्रं चेदारम्भणीयं क्रमवृत्तित्वाद्वाचः प्रथममवश्यं किमपि वाक्यं प्रयोक्तव्यम् । न ह्यादिवाक्यमकृत्वा द्वितीयादिवाक्यप्रणयनमुपपद्यत इति ग्रन्थकरणमेवाघटमानं स्यात् ॥
आह—न खल्वेवं न जाने ! किन्तु यदेव शास्त्रे व्युत्पाद्यत्वेन स्थितं तदेव व्युत्पाद्यताम् । किमादौ तदभिधेयप्रयोजनकीर्तनेन ?
उच्यते—
आदिवाक्यं प्रयोक्तव्यमभिधेयप्रयोजने ।
प्रतिपादयितुं श्रोतृप्रवाहोत्साहसिद्धये ॥ १७ ॥
अभिधेयफलज्ञानविरहास्तमितोद्यमाः ।
श्रोतुमल्पमपि ग्रन्थमाद्रियेरन् न सूरयः ॥ १८ ॥
को हि नाम विद्वान् अविदितविषये निष्प्रयोजने च कर्मणि प्रवर्तेत । आह च भट्टः— [श्लो। वा। १-१-१२] ।
“
सर्वस्यैव हि शास्त्रस्य कर्मणो वाऽपि कस्यचित् ।
यावत् प्रयोजनं नोक्तं तावत् तत् केन गृह्यते इति ॥
” प्रयोजनपरिज्ञानसम्भवाक्षेपपरिहारौ
ननु प्रयोजनपरिज्ञानमादौ श्रोतॄणां कुतस्त्यम् ? इति चिन्त्यम्—किमस्मादेव वाक्यात् ? उत युक्तितः ?
प्रष्टुराशयमजानन्निव पृच्छति—कोऽयमिति । प्रष्टुराशयं उद्धाटयति— आहेति । प्रमाणशास्त्रं खल्विदमित्युक्तं, तर्हि “प्रत्यक्षानुमान॥।” इति सूत्रेणैव प्रथमतो भाव्यं, कुतोऽत्र निःश्रेयसादिफलोपदेशस्य प्रसक्तिरित्याक्षेपाशयः । समाधत्ते—उच्यत इति । अभिधेयप्रयोजने प्रतिपादयितुं इत्यन्वयः । विरहात् अस्तमिता उद्यमा येषां ते तथा । उक्तार्थेऽभियुक्तोक्तिं संवादयति— आहेति । श्लोकवार्तिकारम्भ इति शेषः । इदं चोपलक्षणम्—“अभिधेयसम्बन्धप्रयोजनप्रतिपादनार्थत्वं प्रथमसूत्रस्य” इति तात्पर्यटीकाया अपि ॥
वाक्यं तावदनिश्चितप्रामाण्यं कथं प्रयोजननिश्चयाय प्रभवति । संशयाद्वा प्रवृत्तौ वेदार्थेऽपि तथैव स्यादिति शास्त्रमनारब्धव्यं स्यात् ॥
युक्तितः प्रयोजनावगमः शास्त्रे सर्वस्मिन्नधीते सति सम्भवति, नेतरथेति तदवगमपूर्विकायां प्रवृत्तौ इतरेतराश्रयः—शास्त्राधिगमात् प्रयोजनपरिज्ञानं, प्रयोजनपरिज्ञानाच्च शास्त्रश्रवणे प्रवृत्तिः—
उच्यते—आदिवाक्यादेव श्रोतुः शास्त्रप्रयोजनपरिज्ञानं; अर्थसंशयाच्च श्रवणे प्रवृत्तिः ।
वेदे ह्यसिद्धप्रामाण्ये महाक्लेशेषु कर्मसु ।
नानर्थशङ्कया युक्तं अनुष्ठानप्रवर्तनम् ॥ १९ ॥
अनिश्चितप्रामाण्यमिति । “न हि प्रमाणान्तरसंवाददार्ढ्यमन्तरेण प्रत्यक्षादीन्यपि प्रमाणभावं भजन्ते, किमुत तदधीनवृत्तिरेष शब्दः” इति खलूक्तम् । अतो आदिवाक्यश्रवणमात्रात् न प्रयोजननिर्णयो भवेदित्यर्थः । वेदार्थेऽपि तथैव स्यादिति । वेदप्रामाण्यनिश्चय एतच्छास्त्राधीन इति पूर्वमुक्तम् । एतच्छास्त्रे प्रामाण्यसंशयेऽपि यदि कश्चिदधीयीतेमं शास्त्रं, तर्हि वेदे प्रामाण्यनिश्चयाभावेपि तदर्थानुष्ठानायैव यतताम्, मध्ये किमनेन संशयग्रहग्रस्तप्रामाण्येन शास्त्रेणेत्याशयः । सर्वस्मिन्नधीत इति । न ह्यादिमवाक्यार्थज्ञानमात्रात् युक्तीनां अवगमः सम्भवति, किन्तु शास्त्राध्ययनानन्तरमेव युक्तिपरिज्ञानं भवेदिति । वेदे हीति । यद्यपि शास्त्राध्ययनारम्भकाले प्रयोजनज्ञानं निर्विचिकित्सं न जातमेव; अथाप्यापाततः प्रयोजनज्ञाने जाते प्रवृत्ताः पुरुषाः प्रामाण्यं तद्वैपरीत्यं वा स्वयमेव जानन्ति । वेदार्थानुष्ठानस्य तु अतिक्लेशसाध्यत्वात् न केवलमत्यायाससाध्ये तादृशे कर्मणि आपातप्रतीत्या बुद्धिमान् प्रवर्तेत इति तत्र प्रामाण्यनिश्चयः प्रथममावश्यकः । सुकरे तु शास्त्राध्ययने सामान्यतः प्रयोजनपरिज्ञानादपि प्रवृत्तिर्युक्तैवेति समाधानग्रन्थाशयः । वेदे प्रामाण्ये असिद्धे सति महाक्लेशमयेषु कर्मसु, निष्प्रयोजनत्वशङ्कायां अनुष्ठाने प्रवृत्तिर्न युक्तेत्यर्थः । महाक्लेशेष्विति बहुव्रीहिः ॥
बहुवित्तव्ययायासवियोगसुगमेऽध्वनि ।
प्रवृत्तिरुचितोदारफले लघुपरिश्रमे ॥ २० ॥
शृण्वन्त एव जानन्ति सन्तः कतिपयैर्दिनैः ।
किमेतत्सफलं शास्त्रं उत मन्दप्रयोजनम् ॥ २१ ॥
सूक्ष्मेक्षिका तु यद्यत्र क्रियते प्रथमोद्यमे ।
असौ सकलकर्तव्यविप्रलोपाय कल्पते ॥ २२ ॥
आर्तो हि भिषजं पृष्ट्वा तदुक्तमनुतिष्ठते ।
तस्मिन् सविचिकित्सस्तु व्याधेराधिक्यमाप्नुयात् ॥ २३ ॥
तेनादिवाक्याद्विज्ञाय साभिधेयं प्रयोजनम् ।
तत्सम्भावनया कार्यः तच्छास्त्रश्रवणादरः ॥ २४ ॥
उपादेयताज्ञानजनकमादिमवाक्यमिति पक्षः
यैरप्यादिवाक्यमित्थं व्याख्यायते किल—ऽअनन्वितपदार्थकं वाक्यमनुपादेयं—दशदाडिमादिवाक्यवत् । अन्वितपदार्थकमपि
बहुवित्तेत्यादि । बहुवित्तव्ययायासरहितत्वात्सुगमे, लघुपरिश्रमे, अथापि उदारफलेऽध्वनि शास्त्राभ्यासे प्रवृत्तिरुचिता । आपातप्रतीत्या प्रवृत्तेरनङ्गीकारे बाधकमाह—सूक्ष्मेक्षिका त्विति । प्रवृत्त्यारम्भकाल एव इदं सफलमेवेति सूक्ष्मविचारणापूर्वकनिर्णयः यदि सर्वत्रापेक्ष्येत तदा जगति किञ्चिदपि कार्यं न निर्वर्तेत । विप्रलोपः—विनाशः । इममेवार्थं दृष्टान्तेन विशदयति—आर्तो हीति । भिषजा औषधे उपदिष्टे प्रथममेव व्याधिर्निश्शेषं विनश्यत्येवेति न सर्वे प्रवर्तन्ते । अपि तु इदमपि भुञ्जाम इत्येव । रोगनिवृत्तौ च प्रामाण्यनिश्चय इत्यनुभवः । वैद्य एव संशयीत चेत् व्याधिरेव वर्धेत । एवं लोको निर्व्यापारः प्रसज्येत । अतः फलसम्भावनयाऽपि प्रवृत्तिरङ्गीकार्यैवेति ॥
प्रकारान्तरेण आदिमवाक्यं व्याकुर्वतां मतमुपन्यस्य समाधत्ते— यैरपीति । व्यापकानुपलब्ध्येति । यदुपादेयं तत् सप्रयोजनमिति
निष्प्रयोजनमनुपादेयमेव—सदसद्वायसदशनविमर्शवाक्यमिव । तदिह उपादेयताव्यापकप्रयोजनाद्यनुपलम्भादनादरणीयमिति व्यापकानुपलब्ध्या प्रत्यवतिष्ठमानः परः प्रयोजनाद्यभिधायिना आदिवाक्येन निवृत्ताशङ्कः क्रियत इति—तैरपि प्रयोजनप्रतिपादनमेवादिवाक्यस्यार्थ इत्युक्तं भवति । तत्प्रतिपादनेनैव व्यापकानुपलब्धिपरिहारादाशङ्का निवारिता भवतीति ॥
अर्थसंशायकतया प्रवर्तकत्वमादिवाक्यस्येति पक्षान्तरम्
यदपि प्रवृत्तिहेतोरर्थसंशयस्य, तर्कापरनाम्न औचित्यस्य वा समुत्पादनमादिवाक्येन क्रियत इति केचिदाचक्षते—तदपि प्रयोजनाभिधानद्वारकमेव । प्रयोजनविषयो हि संशयो वा सम्भावनाप्रत्ययो वा प्रवृत्त्यङ्गभूतस्तेनोत्पादनीय इति तदुत्पत्तौ प्रयोजनाभिधानमेवादिवाक्यस्य व्यापारः । संशयस्तु वस्तुवृत्तोपनत एव, पुरुषवचसां द्वैविध्यदर्शनात् । शौचसमाचारसाधुतादिना तु तस्मिन् सम्भावनाप्रत्ययोऽपि लोकस्य भवतीति । तस्मात् प्रयोजनप्रतिपादनार्थमेवादिवाक्यमिति सूक्तम् ॥
व्याप्तौ व्यापकस्य प्रयोजनस्याभावे व्याप्यस्योपादेयत्वस्यापि निवृत्तिरावश्यकी, व्यापकाभावे व्याप्याभावादिति ॥
सन्दिग्ध एवार्थे विचारावतारात्, एतच्छास्त्रप्रतिपाद्यार्थः पूर्वमेव निर्णीतश्चेत्प्रवृत्तिर्न भवेत् । आद्यवाक्येन अर्थे प्रदर्शिते तेन तदर्थे सन्दिहानाः तन्निर्णयाय, शास्त्रे प्रवर्तन्ते इति अर्थसंशय एवादिवाक्यकृत्यमिति मन्यतां मतमाह—यदपीति । आदिवाक्यश्रवणसमनन्तरं न संशयनैय्यत्यम्, तस्य कोटिद्वयोपस्थित्यधीनत्वादित्यतः—तर्केत्यादि । तथा च संशयाभावेऽपि सम्भावनाप्रत्ययो भवितुमर्हतीति भावः । वस्तुवृत्तोपनत इति । न तु आदिवाक्याधीन इति यावत् । समाचारः—सदाचारः । अपिशब्दस्तस्य सम्भावनाद्योतकः ॥
यच्च श्रोतृप्रवृत्त्यङ्गं तद्वक्तुं युक्तमादितः ।
न च प्रयोजनज्ञानादन्यदस्ति प्रवर्तकम् ॥ २५ ॥
अभिधेयकथनमपि तत्साध्यप्रयोजनोपपादनाय श्रोतृबुद्धिसमाधानाय च कर्तव्यमेव ॥
अर्थाक्षिप्तस्तु सम्बन्धः फलशास्त्राभिधेयगः ।
तन्निर्देशेन सिद्धत्वात् न स्वकण्ठेन कथ्यते ॥ २६ ॥
अभिधेयस्य शास्त्रस्य च वाच्यवाचकभावलक्षणः सम्बन्धः, शास्त्रार्थस्य निःश्रेयसस्य च साध्यसाधनभावलक्षणः सम्बन्धः तदाश्रयनिर्देशादेव सिद्धः ॥
षोडशपदार्थोद्देशः
अभिधेयास्तु प्रमाणादयो निग्रहस्थानपर्यन्ताः षोडश पदार्थाः प्रथमसूत्रे निर्दिष्टाः; तेषां स्वरूपमुपरिष्टाद्वक्ष्यते ॥
अर्थपरिच्छित्तिसाधनानि प्रत्यक्षादीनि प्रमाणानि ।
आदिमवाक्यप्रयोजनविचारमुपसंहरति—यच्चेति । श्रोतृप्रवृत्त्यङ्गं यत् तदेवादितो वक्तुं युक्तं, न च प्रयोजनज्ञानापेक्षयाऽतिरिक्तं किञ्चित् श्रोतृप्रवर्तकं वर्तते; अतः प्रयोजनकथनपरमेव प्रधानत आदिमवाक्यमिति निर्णय इति । नन्वेवमस्तु, अथापि “अभिधेयप्रयोजने प्रतिपादयितुमादिवाक्यम्” इति कथमित्यत्राह—अभिधेयकथनमपीति । तत्साध्यं—अभिधेयसाध्यं यत् प्रयोजनं तदुपपादनाय । नन्वेवं सम्बन्धोऽपि प्रथमं वक्तव्य एवेत्यत्राह— अर्थाक्षिप्तस्त्विति । स्वकण्ठेन—स्पष्टोक्त्या । तदाश्रयेति । तादृशविषयेत्यर्थः ॥
वक्ष्यत इति । परीक्ष्यत इत्यर्थः । तेन प्रमाणादिस्वरूपप्रतिपादनपराणां उत्तरवाक्यानां न विरोधः । अथ वा—“उपरिष्टात्” इत्यनेनोत्तरवाक्यसन्दर्भ एव विवक्षितः । तथा च प्रमाणादीनां स्वरूपमात्रमिदानीं कथ्यते, तत्परीक्षणं च पश्चादिति भावः । अर्थस्वरूपनिष्कर्षः—अर्थपरिच्छित्तिः ।
तत्परिच्छेद्यमात्मादि प्रमेयम् ।
नानार्थावमर्शः संशयः ।
हिताहितप्राप्तिपरिहारौ, तत्साधनं च प्रयोजनम् ।
हेतोः प्रतिबन्धावधारणं दृष्टान्तः ।
प्रमाणतोऽभ्युपगभ्यमानः सामान्यविशेषवानर्थः सिद्धान्तः ।
परार्थानुमानवाक्यैकदेशभूताः प्रतिज्ञादयोऽवयवाः ।
सन्दिग्धेऽर्थेऽन्यतरपक्षानुकूलकारणदर्शनात् तस्मिन् सम्भावनाप्रत्ययस्तर्कः ।
साधनोपलम्भजन्मा तत्त्वावबोधो निर्णयः ।
वीतरागकथा वस्तुनिर्णयफला वादः ।
विजिगीषुकथा तु पुरुषशक्तिपरीक्षणफला जल्पः ।
तद्विशेषो वितण्डा ।
अहेतवो हेतुवदाभासमानाः हेत्वाभासाः ।
अर्थविकल्पैर्वचनविघातः छलम् ।
हेतुप्रतिबिम्बनप्रायं प्रत्यवस्थानं जातिः ।
सत्यवस्त्वप्रतिभासः विपरीतप्रतिभासश्च निग्रहस्थानम् ॥
तत्परिच्छेद्यं—प्रमाणैः परिच्छेद्यं—निर्णेयम् । प्रतिबन्धः—व्याप्तिः । यस्मिन्नधिकरणे हेतोर्व्याप्तिर्निश्चीयते स दृष्टान्त इत्यर्थः । सामान्यविशेषवानिति । “सामान्यविशेषवदर्थाभ्यनुज्ञा सिद्धान्तः” इति वार्तिकमनुसृत्येदमुक्तम् । प्रत्येकमप्यवयवव्यवहारसत्वात्—एकदेशभूता इत्युक्तम् । तर्कफलभूतो निर्णयः । वितरागकथा इति लक्षणत् । वस्तुनिर्णयफल इति प्रयोजनवाक्यम् । न हि जल्पे वस्तुनिर्णयो नियमेन सम्भवति; प्रामाणिकोऽपि सन् अकस्मादप्रत्यवस्थाने जल्पे निगृह्यते, अत एवोक्तं पुरुषशक्तिपरीक्षणफला इति । विजिगीषुकथा इति विशेष्यवाचकम् । तद्विशेषः—जल्पविशेषः, विजिगीषुकथात्वात् पुरुषशक्तिपरीक्षणफलत्वाञ्च । स्वपक्षस्थापनाहीना वितण्डेति तु विशेषः ॥
सौत्रसमासकथनम्
तत्र वक्ष्यमाणलक्षणसूत्रनिर्देशानुसारेण कानिचित् एकवचनान्तानि, कानिचिद्वहुवचनान्तानि पदानि विगृहीतव्यानि । प्रमाणावयवहेत्वाभासानां बहुवचनेन विग्रहो दर्शयितव्यः, शेषाणामेकवचनेन; लक्षणसूत्रेषु तथा निर्देशात् । एवञ्चोद्देशलक्षणयोरेकविषयता नितरां दर्शिता भवति । इतरेतरयोगे द्वन्द्वस्समासः । प्रमाणादीनां तत्त्वमिति सम्बन्धमात्रे षष्ठी । तत्त्वस्य ज्ञानं, निःश्रेयसस्याधिगम इति कर्मणि षष्ठ्यौ, तत्त्वस्य ज्ञायमानत्वेन निःश्रेयसस्य चाधिगम्यमानत्वेन कर्मत्वात् ॥
सूत्रे समासासम्भवाशङ्का
नन्वेवं व्याख्यायमाने तत्त्वपदस्य प्रमाणादिपदसापेक्षत्वेनासमर्थत्वात् असमासः प्राप्नोति । सापेक्षमसमर्थं भवतीत्याहुः । न चेदं प्रधानं सापेक्षम्, येन भवति वै प्रधानस्य सापेक्षस्यापि
कानिचिदिति । प्रमाणप्रमेयेत्यादिसूत्रे विग्रहकाले प्रमाणावयवहेत्वाभासपदानि बहुवचनान्तानि, इतराणि तु एकवचनान्तानि च ग्राह्यानि, उत्तरत्र सूत्रकृता तथा निर्देशात् । सूत्रे कुतस्तथा निर्देश इति चेत्, तत्तत्तदवसरे स्पष्टीभविष्यति । एवं च—लक्षणसूत्रानुगुणवचनग्रहणेन च । उद्देशलक्षणयोः—उद्देशलक्षणवाक्ययोः ॥
ननु तत्त्वज्ञानादिति समासो न सम्भवति । तत्त्वपदस्य प्रमाणादिपदेन साकं सापेक्षत्वेन समासासम्भवात् । “समर्थः पदविधिः” इति खलु पाणिनीयं सूत्रम् । तत्र सामर्थ्यं नाम निराकाङ्क्षार्थप्रतिपादनक्षमत्वम् । “तत्त्वज्ञानात्” इति पदं च साकाङ्क्षतत्त्वपदघटितत्त्वेन न निराकाङ्क्षबोधजननक्षमम् । अतः “प्रमाण॥।निग्रहस्थानतत्त्वज्ञानात्” इति “प्रमाण॥।निग्रहस्थानानां तत्त्वानां ज्ञानात्” इति वा वक्तव्यम् । न हि राजन्यन्वयतात्पर्येण ऋद्धस्य राजमातङ्गाः इति प्रयोक्तुं युक्तमिति शङ्कते—नन्विति । ननु वृत्तिघटकेऽपि पुरुषेऽन्वयतात्पर्येण राजपुरुषः शोभन इति प्रयोगात् प्रकृतेऽपि तथाऽस्त्विति शङ्कते— न चेदमिति । इदं तत्त्वपदं सापेक्षमपि प्रधानमिति च न इत्यर्थः । तेन प्रकृते को लाभ इत्यत्राह—येनेति । येन—एवभङ्गीकारेण सापेक्षस्यापि
समास इति राजपुरुषः शोभन इतिवत् समस्यते; उत्तरपदार्थप्रधानत्वात् षष्ठीतत्पुरुषस्य । ज्ञानमेवात्र प्रधानं, तत्त्वमुपसर्जनम्; अतश्च ऋद्धस्य राज्ञः पुरुष इतिवदसमास एव युक्तः ॥
ननु ज्ञानमपि प्रमाणादिसापेक्षं भवत्येव, तद्विषयं हि तदिति— न—तत्त्वपदेनास्य निराकाङ्क्षीकृतत्वात्—, तत्त्वस्य ज्ञानमिति । तदि दानीं तत्त्वमेव सापेक्षं वर्तते—कस्य तत्त्वमिति । तस्मात्तत्त्वस्योपसर्जनस्य सतः सापेक्षत्वादसमास एव ॥ अत्र केषाञ्चित्समाधानम्, तद्दूषणं च इत्येवमभिशङ्कमानाः केचन—तत्त्वं च तत् ज्ञानं च इति कर्मधारयं व्याचचक्षिरे—तत्पुनरयुक्तम्—ज्ञानस्य स्वतस्तत्त्वातत्त्वविभागाभावात् । विषयकृतो हि ज्ञानानां तथाभावोऽतथाभावो वा । तदेतत् तत्त्वविषयज्ञानं भवति, न स्वतस्तत्त्वस्वभावम् ॥ स्वमतरीत्या समाससमर्थनम् किं पुनरिदं तत्त्वं नाम ? सतोऽसतो वा वस्तुनः प्रमाणपरिनिश्चितस्वरूपं शब्दप्रवृत्तिनिमित्तं तदित्युच्यते । तस्य भावस्तत्त्वमिति । तच्च ज्ञानेन निश्चीयते । तत् परिच्छिन्द्यत् ज्ञानं प्रधानस्य समासो भवत्येवेति । तत्पुरुषश्चोत्तरपदार्थप्र । अत उत्तरपदार्थभूतपुरुषेऽन्वयतात्पर्येण तथा प्रयोगो युज्यते, न त्वप्रधानभूतपूर्वपदार्थान्वयतात्पर्येणेत्यर्थः । दृष्टान्तं स्वयं प्रदर्श्य समाधत्ते—राजपुरुष इति । पुरुषपदार्थे शोभनान्वयतात्पर्येण युक्तोऽयं प्रयोगः । राजनि विशेषणान्तरान्वयतात्पर्येण तु न युक्तः । यथा ऋद्धस्य राज्ञः पुरुषः इति बोधतात्पर्येण ऋद्धस्य राजपुरुष इति प्रयोगः इति भावः ॥
तत्त्वमेव । अप्रधानभूतमिति शेषः ॥
तदेतदिति । तस्मात् एतत् तत्त्वज्ञानं तत्त्वविषयज्ञानमेव भवतीति घट्टकुट्यां प्रभातमित्यर्थः ॥
सत इत्यादि । तथा च भाष्यं, “किं पुनस्तत्त्वम् ? सतश्च सद्भावः, असतश्चासद्भावः” इति । परिच्छिन्द्यत्—विषयीकुर्वत्—निष्कर्षयदिति यावत् । ननु विषयपरिच्छेदकं चेत् ज्ञानं, तज्ज्ञानं केन परिच्छिद्येत ? यद्यन्येन, तर्ह्यनवस्था ।
तत्त्वज्ञानमित्युच्यते । ज्ञानस्यापि तद्रूपं ज्ञानान्तरपरिच्छेद्यमेव भवति । निर्णीततत्त्वाश्च प्रमाणादय इति व्यतिरेकनिर्देश एव युक्तः । न चासमासप्रसङ्गमात्रात् अन्यथा वर्णनमुचितम् । ईदृशानां समासानां सामर्थ्यानपायेन बहुशो दृष्टत्वात्—देवदत्तस्य गुरुकुलमिति । उपसर्जनं नोपसर्जनमिति न कारणमेतत् समासे । विग्रहवाक्यसमानार्थतया समासो भवति, सा चेह विद्यत एव । वैय्याकरणा अपि ईदृंशि पदानि समस्यन्त्येव । “अथ शब्दानुशासनं, केषां शब्दानाम् ? लौकिकानां वैदिकानां च” इति । तस्माद्यथाभाष्यमेव षष्ठीत्रयव्याख्यानमनवद्यम् ॥
यदि न केनापि, तर्हि विषयोऽपि तथैव भवतु । एवञ्च ज्ञानस्य विषयनैयत्याभावात् तस्य तत्त्वभावः स्वत एवेति तत्त्वविषयकमेव ज्ञानं तत्त्वज्ञानमिति न युक्तमिति शङ्कायामाह—ज्ञानस्यापीति । निराकरिष्यते निर्विषयकं ज्ञानं, परिहरिष्यते चानवस्था उत्तरत्रेति भावः । उपसर्जनमित्यादि । प्रधानमप्रधानं वेत्यर्थः । वैय्याकरणा अपीत्यादि । लौकिकानां वैदिकानां च शब्दानुशासनमिति खल्वन्वयो वक्तव्यः, अतः सति तात्पर्ये नैकदेशान्वयो दोष इत्यर्थः । यदि च केषां शब्दानामित्यत्रैव व्यस्तानुशासनपदान्तराध्याहारेण लौकिकानां वैदिकानामित्यादेः व्यस्ताभ्यां “शब्दानां” “अनुशासनं” इति पदाभ्यामन्वयान्नैष दोषः । उक्तं च तथा भाष्यप्रदीपे कैय्यटेन—“उत्तरपदार्थान्तर्गतस्यापि पूर्वपदार्थस्य बुध्या प्रविभागात् प्रत्यवमर्शः” इति चेत्; तर्हि किं तत्रैवाध्याहारः कर्तुं शक्यत इति विचारयतु भवान् । श्रुतानां शब्दानां गतिरस्माभिरुक्ता । अध्याहारस्तु सर्वत्र सुलभ इति भावः । अत्रेदमवधेयम्— प्रमाणादीनां तत्त्वानां ज्ञानादित्यत्र प्रमाणादीनां तत्त्वानामिति न समानाधिकरणे पदे; येन समासानुपपत्तिः स्यात्, परस्परं तयोरनन्वयश्च । किन्तु प्रमाणादिगतं यत् तत्त्वं याथात्म्यं, तस्य ज्ञानात् इत्यर्थो विवक्षितः । न हि यथा कथञ्चित् प्रमाणादिज्ञानं निःश्रेयसायालम्, किन्तु प्रमाणादिवस्तुयाथात्म्यज्ञानमेव । एवञ्च “चैत्रस्य गुरुकुलं” “शरैः शातितपत्रोऽयं” इत्यादाविव एकदेशान्वयो न दोषाय । समासघटकाप्रधानार्थेनाभेदान्वय एव विरुद्धः, “ऋद्धस्य राजमातङ्गाः” इत्यप्रयोगात् । न तु भेदसम्बन्धेनान्वयोऽपि । अतश्च प्रकृते न कोऽपि दोषः । एवं सामानाधिकरण्यभ्रमव्युदासायैव च भाष्यकारेण ऽप्रमाणादीनां तत्त्वस्य इत्येकवचनान्ततत्त्वपदं प्रयुक्तं इति । षष्ठीत्रयेति—“प्रमाणीदीनां तत्त्वस्य षोडशपदार्थतत्त्वज्ञानान्निःश्रेयसाधिगमोपपादनम्
ननु षोडशपदार्थतत्त्वज्ञानस्य कथं निश्रेयसाधिगमहेतुत्वमिति वक्तव्यम् । वेदप्रामाण्यसिद्ध्यर्थं चेदं शास्त्रमिति तावन्मात्रमेव व्युत्पाद्यतां, किं षोडशपदार्थकन्थाग्रन्थनेन—उच्यते—
१। आत्मापवर्गपर्यन्तद्वादशविधप्रमेयज्ञानं तावत् अन्यज्ञानानौपयिकमेव साक्षादपवर्गसाधनमिति वक्ष्यामः । तत्त्वज्ञानान्मिथ्याज्ञाननिरासे सति तन्मूलः संसारो निवर्तत इति प्रमेयं तावदवश्योपादेयम् ॥
२। तस्य तु प्रमेयस्यात्मादेरपवर्गसाधनत्वाधिगम आगमैकनिबन्धनः ॥
तस्य प्रामाण्यनिर्णीतिरनुमाननिबन्धना ।
आप्तोक्तत्वं च तल्लिङ्गमविनाभावि वक्ष्यते ॥ २७ ॥
प्रतिबन्धग्रहे तस्य प्रत्यक्षमुपयुज्यते ।
कोऽन्यस्सन्तरणे हेतुरनवस्थामहोदधेः ॥ २८ ॥
आयुर्वेदादिवाक्येषु दृष्ट्वा प्रत्यक्षतः फलम् ।
वचः प्रमाणमाप्तोक्तमिति निर्णीयते यतः ॥ २९ ॥
उपमानं तु क्वचित् कर्मणि सोपयोगं—इत्येवं चतुष्प्रकारमपि प्रमाणं प्रमेयवदुपदेष्टव्यम् ॥ ज्ञानं, निःश्रेयसस्याधिगमः” इति भाष्योक्तरीत्येति शेषः ॥
आत्मेति । यद्यपि प्रमाणान्येव प्रथमं उपादेयानि, अथापि प्रमाणानां प्रमेयसिद्धयर्थमेवोपादेयत्वेन प्रमेयशेषत्वात् प्रथमं प्रमेयमेवोपात्तम् ॥
अन्यज्ञानानौपयिकमेव—अद्वारकमेवेति यावत् ॥
तस्य—वेदस्य । अनुमाननिबन्धनेति । प्रामाण्यस्य परतस्त्वादिति शेषः । तल्लिङ्गं—प्रामाण्यलिङ्गम् । अविनाभावि—व्याप्तं, प्रामाण्यव्याप्तमित्यर्थः । कोऽन्य इत्यादि । “परश्शतपरिक्षोदात् परस्तादपि वादिभिः । उपलम्भबले स्थेयम्” इति ह्यभियुक्ताः । एवं उत्तरोत्तरोपजीव्यत्वेन शब्दानुमानप्रत्यक्षाणामुपादेयत्वेऽपि उपमानफलं किमित्यत्राह—क्वचिदिति । गवयालम्भादिचोदनार्थानुष्ठान इति ग्रन्थकार एव वक्ष्यति ॥
३। संशयादयस्तु पदार्था यथासम्भवं प्रमाणेषु प्रमेयेषु चान्तर्भवन्तोऽपि न्यायप्रवृत्तिहेतुत्वात् पृथगुपदिश्यन्ते । न्यायश्च वेदप्रामाण्यप्रतिष्ठापनपूर्वकत्वेन पुरुषार्थोपयोगित्वमुपयातीति दर्शितम् ॥
तत्र नानुपलब्धेऽर्थे न निर्णीते प्रवर्तते ।
किन्तु संशयिते न्यायः, तदङ्गं तेन संशयः ॥ ३० ॥
४। प्रयोजनमनुद्दिश्य न च न्यायं प्रयुञ्जते ।
५। दृष्टान्तः पुनरेतस्य सम्बन्धग्रहणास्पदम् ॥ ३१ ॥
६। सिद्धान्तोऽपि धर्मिप्रापणेनाश्रयासिद्धितामपोद्धरत् न्यायं प्रवर्तयति ॥
ननु संशयपदेन न्यायविषयं सन्दिग्धं धर्मिणमभिदधता आश्रयासिद्धिरपोद्धृतैव—सत्यम्—क्वचित्तु विषये संशयमन्तरेणापि न्यायप्रवृत्तिर्दर्शयिष्यत इति संशयितैकविषयन्यायनियमाभावात् सिद्धान्तोऽपि वक्तव्यः ॥
७। न्यायाभिधानेऽवयवाः परं प्रत्युपयोगिनः ।
परार्थमनुमानं च तदाहुर्न्यायवादिनः ॥ ३२ ॥
यथासम्भवमिति । तत्र संशयस्य बुद्धौ, प्रयोजनस्य फले, दृष्टान्तस्य यथायथमात्मादिषु, क्वचित् प्रमाणेष्वपि, सिद्धान्तस्यापि तथैव, अवयवस्य शब्दप्रमाणे, तर्कनिर्णययोः बुद्धौ, वादजल्पवितण्डानां शब्दे, हेत्वाभासानां यथासम्भबं, छलजात्योः शब्दे, निग्रहस्थानानां यथासम्भवं चान्तर्भावः । तथा च पदार्थो द्विविधः, प्रमाणं प्रमेयं चेति । अतः इतरेषां पृथक् ग्रहणमयुक्तमित्याक्षेपाशयः । सत्यम्; फलविशेषाभिप्रायेण पृथक्कथनमिति समाधानाशयः ॥
तत्रेत्यादि । सर्वथा अगृहीते, निर्णीते चार्थे न्यायः न प्रवर्तते, किन्तु संशयित एवार्थे न्यायः प्रवर्तते । तेन हेतुना संशयः तदङ्गं—न्यायाङ्गम् ॥
सिद्धान्तस्य पृथक् निर्देशमाक्षिपति—नन्विति । क्वचिदिति । श्रोत्रियोऽपि सन् श्रुत्युक्तार्थदार्ढ्याय विचारे प्रवर्तत एव । न हि तस्य श्रुत्युक्तार्थे संशयोऽस्तीति वक्ष्यते ॥
न्यायाभिधान इति । न्यायाभिधाने प्रसक्त इति यावत् ॥
ननु प्रतिज्ञोदाहरणाभ्यां तदभिधेयौ सिद्धान्तदृष्टान्तौ गम्येते एव; किं पृथगुपादानेन ?—न—यद्येवं हेत्वाख्येनावयवेन तदभिधेयसिद्धेरनुमानमपि पृथक् न वक्तव्यं स्यात् । एवं भवतु किं नश्छिन्नम्—मैवम्—अभिधेये न्याये निरूपणीये तदभिधायिनामवयवानामवसर इति तदर्थः पृथक् प्रतिपादनार्हो भवति । इतरथा अवयवमात्रोपदेश एव शास्त्रं समाप्येत ॥
८। तर्कः—संशयविज्ञानविषयीकृततुल्यकल्पपक्षद्वयेऽन्यतरपक्षशैथिल्यसमुत्पादनेन तदितरपक्षविषयं प्रमाणं अक्लेशसम्पद्यमानप्रतिपक्षव्युदासमनुगृह्णाति मार्गशुद्धिमादधान इति पृथगुपदिश्यते ।
प्रतिज्ञोदाहरणाभ्यां सिद्धान्तदृष्टान्तावित्यत्र यथासङ्ख्यमन्वयः । तदभिधेयसिद्धेरिति । व्याप्तस्यैव हेतुत्वादिति भावः । इष्टापत्तिरेव तत्रास्माकमित्याह—एवं भवत्विति । न्याये निरूपणीये—न्याये निरूपणीयत्वेन प्राप्ते तदानीमवयवाः प्रयोक्तव्याः; सिद्धान्ताद्यधीनप्रवृत्तिकत्वाच्च न्यायस्य सिद्धान्तादयः पृथग्वक्तव्या इत्यर्थः । तदभिधायिनां— तत्प्रतिपादकानाम् । पृथक्प्रतिपादनार्ह इत्यस्य प्रतिज्ञादिरिति शेषः । अवयवमात्रोपदेश इति । सर्वस्यापि शास्त्रार्थस्य न्यायवाक्य एव परिसमाप्तत्वादिति भावः ॥
अक्लेशसम्पद्यमानप्रतिपक्षव्युदासं इति क्रियाविशेषणं विधेयविशेषणं वा । मार्गशुद्धिमिति । प्रतिबन्धादिनिरसने प्रमाणप्रवृत्तिं सुलभां करोति तर्क इत्यर्थः । यथा—आत्मा नित्यः ? उतानित्यः ? इति संशये “प्रजापतिः प्रजा असृजत” “न जायते म्रियते वा” इत्याद्यागमानामुभयपक्षानुगुण्यादागमेनाप्यनिर्णये, हेतोरनुपलम्भेनानुमानस्याप्यप्रवृत्तौ, प्रत्यक्षस्य सुतरामप्रवृत्तौ च तर्क एव प्रमाणं प्रवर्तयति—यद्यात्माऽनित्यः स्यात् तर्हि कृतहानाकृताभ्यागमप्रसङ्गः, यदि नित्यः तर्हि स्वकृतं स्वयमुपभुञ्जयादिति तर्कानुगृहीतमनुमानं—आत्मा नित्यः विचित्रनियतफलभोक्तृत्वात्—इत्येवंविधं प्रवर्तते । तर्काननुगृहीतं तु दुर्बलमेव । अतश्च तर्कः स्वयं प्रमाणमभवदपि प्रमाणानुग्राहकः ।
स चाशयशुद्धिमुपदर्शयितुं वादे प्रयोक्ष्यते ॥
९। अन्यतराधिकरणनिर्णयमन्तरेण न पर्यवस्यति न्याय इति न्यायोपरमकारणत्वेन तस्य प्रवर्तको निर्णयः । इतरथा निरवसानमनासादितफलं को नाम न्यायमारभेत ॥ तत्त्वज्ञानपदेन न निर्णयलाभः ननु तत्त्वज्ञानपदेन गतार्थत्वान्न पृथक् वक्तव्यो निर्णयः । निर्णयो हि तत्त्वज्ञानमेव—अस्त्येतत्—किन्तु षोडशपदार्थतत्त्वज्ञानं प्रमाणान्तरकरणकमपि भवति । न तस्य न्यायोपरमहेतुत्वम् । एष तु साधनदूषणसरणिक्षोदजन्मा निर्णयः तदुपरमहेतुः पृथगुपादानमन्तरेण न लभ्यते ॥ ननु यदि न तर्कः स्वतन्त्रं प्रमाणं तर्हि “प्रमाणतर्कसाधनोपालम्भः” इति वादलक्षणे कथं विशेषणदानम् । प्रमाणैः तर्कैश्च स्वपक्षसाधनं परपक्षोपालम्भश्चेति खलु तदर्थः । अतश्च तर्कोऽपि स्वतन्त्रं प्रमाणमेवेति चेत् तत्राह— स चेति । विषयशुद्ध्यर्थमेव तर्कापेक्षा । न तु स स्वतन्त्रं प्रमाणम् । प्राधान्यात्तु तस्यापि सहपाठः । यदि तर्कोऽपि प्रमाणं, तर्हि सूत्रकारः प्रमाणं तर्कञ्च कथं पृथक् निर्दिशेत् । अतः वादेऽपि विषयशुद्ध्यर्थमेव तर्कः । वादसूत्रवार्तिकेऽप्ययमर्थः स्पष्टीकृतः उद्योतकारेण ॥
अन्यतराधिकरणनिर्णयं—अन्यतरसिद्धान्तनिर्णयम् । तस्य—न्यायस्य ॥
प्रमाणान्तरकरणकं—आप्तवाक्यजन्यम् । श्रुत्यादिवाक्यैरपि तत्त्वज्ञानं जातमेव, तद्दार्ढ्याय खलु न्यायमपेक्षते पुरुष इति न्यायेनैवाविकम्प्यो निर्णयो भवितुमर्हति । उक्तं च “आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः” इति । तदुपरमहेतुः—न्यायोपरमहेतुः । पदार्थतत्त्वज्ञानात् पदार्थतत्त्वनिर्णयः किञ्चिद्विशिष्यत इति पृथङ्निर्देश आवश्यक इत्यर्थः ॥
अनुमानपदेनापि न निर्णयलाभः
ननु अनुमानपदादेष तर्हि यथाभिलषितो लप्स्यते निर्णयः । प्रतिबद्धाल्लिङ्गाल्लिङ्गिनि ज्ञानमनुमानं; स एव च निर्णयः— तदयुक्तम्—अनुमानफलं निर्णयः, नानुमानम् । करणस्य प्रमाणत्वान्निर्णयोपादानमन्तरेण तदनुमानमफलमपर्यवसितं स्यात् ॥
तत्त्वज्ञानानुमानपदाभ्यामपि न निर्णयलाभः
उभाभ्यां तर्हि तत्त्वज्ञानानुमानपदाभ्यां अयमाक्षेप्स्यते निर्णयः; अनुमानस्य तत्त्वज्ञानान्तत्वात्—न—निर्णयोपादानाद्विना तदन्तत्वासिद्धेः; लिङ्गाभाससमुत्थतत्त्वज्ञानाभाससम्भवात् ॥
तत्त्वज्ञानानुमानसंशयपदैरपि न निर्णयलाभः
ननु संशयपूर्वकत्वादनुमानस्य सामर्थ्यात् निर्णयान्ततैव भविष्यति इति संशयानुमानतत्त्वज्ञानपदैर्गतार्थो निर्णयः— मैवम्—संशयपूर्वकत्वेऽप्यनुमानस्य तदाभासोपजनितनिर्णयाभाससम्भवात् ॥
नैष नियमः—संशयपूर्वकमनुमानमिति । तस्मादनुमानस्य विशिष्टनिर्णयावसानत्वलाभाय निर्णयपदमुपादेयमित्यलं प्रसङ्गेन ॥
अनुमानफलमिति । अनुमितिर्हि अनुमानफलं । अनुमितिरेव निर्णयरूपः, प्रत्यक्षानुमित्युपमितिशाब्दज्ञानानामेव निर्णयपदार्थत्वादिति ॥
गतार्थो निर्णय इति । संशयानन्तरं तर्कादिजन्मा हि निर्णयः न ह्याभासरूपः स्यादित्यभिमानः । तादृशमभिमानमेवापनुदति—मैवमिति ॥
तदाभासः—अनुमानाभासः; व्याप्तिभ्रम इति यावत् ॥
नैष नियम इति । “श्रोतव्यो मन्तव्यः” इत्युक्तश्रवणानन्तरभाविमननस्यानुमानात्मकस्य संशयपूर्वकत्वाभावादित्यर्थः । विशिष्टेति । उक्ततत्त्वज्ञानविलक्षणेत्यर्थः ॥
१०। वादे तु विचार्यमाणो न्यायः संशयच्छेदनेनाध्यवसितावबोधं अध्यवसिताभ्यनुज्ञां च विदधत् तत्त्वपरिशुद्धिमादधार्तीति वीतरागैः शिप्यसब्रह्मचारिभिस्सह वादः प्रयोक्तव्यः ॥
११-१२। जल्पवितण्डे तु दुष्टतार्किकोपरचितकपटदूषणाडम्बरसन्त्रास्यमानसरलमतिसमाश्वासनेन तद्धृदयस्थतत्त्वज्ञानसंरक्षणाय क्वचिदवसरे वीतरागस्याप्युपयुज्येते इति वक्ष्यामः ॥
१३। हेत्वाभासाः सम्यङ्न्यायप्रविवेकोपकारद्वारेण तदुपयोगिनः । हेत्वाभासस्वरूपावधारणे हि सति तद्विलक्षणतया हेतवस्सुखमवगम्यन्ते ॥
नन्वत्र विपर्ययो दृश्यते; हेत्ववगमे सति तदितरहेत्वाभासव्यवस्थापनात्—सत्यमेवम्—तथाऽपि प्रयोक्तुं परिहर्तुं च द्वयमपि ज्ञेयम् । हेतवः प्रयुज्यन्ते, हेत्वाभासाश्च परिह्रियन्त इति ॥
यच्च निग्रहस्थानपरिगणिता अपि हेत्वाभासाः पुनरुपदिश्यन्ते, तत् वादे चोदनीया भविष्यन्तीत्याशयेन ॥
वादस्य स्वरूपं तदावश्यकतोपपादनद्वारा सङ्क्षिप्य कथयति—वादे त्विति । अध्यवसितावबोधं—अध्ववसितरूपं अवबोधं—संशयोत्तरतत्त्वनिर्णयमिति यावत् । अध्यवसिताभ्यनुज्ञां—पूर्वमवगतार्थसंवादम् । चकारो वाऽर्थे ॥
ननु वादस्य कथञ्चिद्वीतरागैः परिग्रहेऽपि विजिगीषुकथारूपस्य जल्पस्य, स्वपक्षस्थापनाहीनपरपक्षदूषणरूपवितण्डायाश्च कथं वीतरागपरिग्राह्यत्वमित्यत्राह—जल्पवितण्डे त्विति । तथोक्तं—“तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थं कण्टकशाखावरणवत्” [४-२-५०] इति । तद्धृदयस्थेति । सरलमतिहृदयस्थेत्यर्थः ।
तदुपयोगिनः—सम्यङ्न्यायोपयोगिनः, तत्त्वज्ञानोपयोगिनो वा ॥
हेतवः—सद्धेतवः । चोदनीयाः—उद्भावनीयाः ॥
१४-१६। छलजातिनिग्रहस्थानानि जल्पवितण्डोपकरणानि । तेषामवधृतस्वरूपाणां स्ववाक्ये परिवर्जनं, क्वचिदवसरे प्रयोगः, परप्रयुक्तानां च प्रतिसमाधानं, इत्यादि शक्यक्रियम् । अतस्तान्यपि जल्पवितण्डाङ्गत्वात् ज्ञातव्यानीति पृथगुपदिश्यन्ते ॥
दुश्शिक्षितकुतर्कांशलेशवाचालिताननाः ।
शक्याः किमन्यथा जेतुं वितण्डाटोपपण्डिताः ॥ ३३ ॥
गतानुगतिको लोकः कुमार्गं तत्प्रतारितः ।
मा गादिति छलादीनि प्राह कारुणिको मुनिः ॥ ३४ ॥
तदेवमुपदेष्टव्याः पदार्थाः संशयादयः ।
तन्मूलन्यायनिर्णेयवेदप्रामाण्यसिद्धये ॥ ३५ ॥
तेनागमप्रमाणत्वद्वाराऽखिलफलप्रदा ।
इयमान्वीक्षिकी विद्या विद्यास्थानेषु गण्यते ॥ ३६ ॥
आह च भाष्यकारः—
“
प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम् ।
आश्रयस्सर्वधर्माणां विद्योद्देशे परीक्षिता ॥
” जल्पवितण्डोपकरणानि—जल्पवितण्डयोरुपकरणानि । क्वचिदिति । स चावसरः “दुष्टतार्किक” इत्यादिना अनुपदमेवोक्तः । जल्पवितण्डयोरावश्यकतामुपपादयति—दुश्शिक्षितेत्यादि । सुशिक्षित इतिवत् दुश्शिक्षित इति । दुश्शिक्षितानां कुतार्किकानां—ये कुतर्कांशलेशाः, तैः वाचालितानि “वाचालो बहुगर्हवाक्”, आननानि येषां तादृशाः वितण्डाटोपपण्डिताः अन्यथा— जल्पवितण्डे विना जेतुं शक्याः किम् ? न कथञ्चिदपीत्यर्थः । तत्प्रतारितः— वितण्डाटोपपण्डितवञ्चितः । तेनेत्यादि । सर्वपुरुषार्थरत्नाकरे वेदे प्रामाण्यस्थापनात् इयमपि विद्या अखिलपुरुषार्थसाधनमिति भावः ॥
प्रदीप इत्यादि । प्रमाणमेव खलु परीक्षकाणां चक्षुः । प्रमाणशास्त्रं चेदं सर्वविद्यानां भवति प्रदीपतुल्यम् । एवं अहरहःप्रवृत्तीनां सर्वासामपि अनुमानमूलत्वात् सर्वकर्मणामुपायः । भोजनादावपि हि ह्योदृष्टेष्टसाधनत्वनिश्चयात्प्रवर्तन्ते सर्वे । अत एव सर्वधर्माणां आश्रयः—आधारः—
इत्येष षोडशपदार्थनिबन्धनेन
निःश्रेयसस्य मुनिना निरदेशि पन्थाः ।
अन्यस्तु सन्नपि पदार्थगणोऽपवर्ग-
मार्गोपयोगविरहादिह नोपदिष्टः ॥ ३७ ॥
इति उद्देशसूत्रविवरणम्त्रेधा शास्त्रं प्रवर्तते त्रिविधा चास्य शास्त्रस्य प्रवृत्तिः—उद्देशः, लक्षणं, परीक्षा चेति । नामधेयेन पदार्थाभिधानमुद्देशः । उद्दिष्टस्य तत्त्वव्यवस्थापको धर्मो लक्षणम् । लक्षितस्य तल्लक्षणमुपपद्यते न वेति विचारः परीक्षा ॥ चतुर्थोऽपि प्रकारोऽत्रैवान्तर्भवति ननु च विभागलक्षणा चतुर्थ्यपि प्रवृत्तिरस्त्येव । भेदवत्सु प्रमाणसिद्धान्तच्छलादिषु तथा व्यवहारात्—सत्यम्—प्रथमसूत्रोद्दिष्टे भेदवति पदार्थे भवत्येव विभागः; उद्देशरूपानपायात्तु उद्देश एवासौ । सामान्यसञ्ज्ञया कीर्तनमुद्देशः, प्रकारभेदसञ्ज्ञया कीर्तनं विभाग इति । तथा चोद्देशतयैव तत्र तत्र भाष्यकारो व्यवहरति “अयथार्थः प्रमाणोद्देशः—”इत्याक्षेपे—“तस्माद्यथार्थ एव प्रमाणोद्देशः” इति समाधानमभिदधानः । तस्मात् त्रिविधैव प्रवृत्तिः ॥ सन्न्यायव्युत्पादनात् । तथोक्तं—“आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः” इति । अत इयं आन्वीक्षिकी विद्यास्थानेषु गण्यत इति । प्रकीर्तिता इति प्रायः पाठः । व्याख्याभेदास्तु वार्तिक-टीकादिषु द्रष्टव्याः ॥
अन्यः—द्रव्यगुणकर्मादिः ॥
सत्यमित्यादि । अयं भावः—सावान्तरभेदो हि पदार्थं उद्देशसूत्रे उद्दिष्टः । अतः उद्देशे विभागोऽप्यन्तर्भूत एव । किञ्च निर्विशेषं न सामान्यमिति न्यायात् भेदवानेव पदार्थो निर्दिश्यते । तदेवोपपादयति—सामान्येत्यादि । विभागस्याप्युद्देशरूपत्वे भाष्यसम्मतिमाह—तथा चेति । अयथार्थ इत्यादि । उद्देशादीनां क्रमः तत्रोद्देशः प्रथममवश्यं कर्तव्यः । अनुद्दिष्टस्य लक्षणपरीक्षानुपपत्तेः । सामान्यविशेषलक्षणयोरपि, पौर्वापर्यनियमोऽस्त्येव । अलक्षिते सामान्ये विशेषलक्षणावसराभावात् । परीक्षा तु लक्षणोत्तरकालभाविनीति तत्स्वरूपनिरूपणादेव गम्यते । विभागसामान्यलक्षणयोस्तु नास्ति पौर्वापर्यनियमः । पूर्वं वा सामान्यलक्षणं ततो विभागः, पूर्वं वा विभागः ततस्सामान्यलक्षणमुच्यत इति । तदिहोद्देशस्तावद्व्याख्यातः । अस्माभिस्तु लक्षणसूत्राण्येव व्याख्यास्यन्ते । परीक्षासूत्रसूचितं तु वस्तु सोपयोगलक्षणवर्णनावसर एव यथाबुद्धि दर्शयिष्यते; न पृथक् परीक्षासूत्रविवरणश्रमः करिष्यते । अत एव प्रथमसूत्रानन्तरं “दुःखजन्म—” इत्यादिद्वितीयसूत्रं लक्षणानौपयिकत्वान्नेह विवृतम् । अपवर्गपरीक्षाशेषभूतत्वात्तु तदवसर एव निर्णयिष्यते ॥ द्वितीयाध्यायद्वितीयाह्निकोपक्रमभाष्यमिदम् । अयमर्थः—“न चतुष्ट्वमैतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात्” इतिसूत्रमवतारयति भाष्यकारः—अयथार्थ इति । “प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि” इति निर्देशो न युक्तः, ऐतिह्यादीनां प्रमाणानां बहूनां सत्त्वात् । अतः पूर्वमुक्तः प्रमाणोद्देशः अयथार्थः—न वस्तुस्थित्यनुगुण इति भाष्यस्यार्थः । एवमाक्षेपे कॢप्तेष्वेव तेषामन्तर्भावमुक्त्वा उपसंहरति भाष्यकारः—तस्मादिति । अत्र बहूनां प्रमाणानां सत्त्वात् चत्वारि प्रमाणानीति विभागो न युक्त इति वक्तव्ये “प्रमाणोद्देशेः” इति कथनेन, उपसंहारेऽपि तथैव कथनेन च विभागोऽप्युद्देशविशेष एवेति भाष्यकाराशयः स्पष्ट इति भावः ॥
नास्तीत्यादि । आद्यस्योदाहरणं—“आप्तोपदेशः शब्दः” “स द्विविधो दृष्टादृष्टार्थत्वात्” इत्यादि । द्वितीयस्योदाहरणं—“प्रत्युक्षानुमानोपमानशब्दाः प्रमाणानि” इति । अनेन सूत्रेण विभागे प्रतिपादिते सामान्यलक्षणजिज्ञासायां प्रमाणपदावृत्त्या तत्पदं प्रमाणसामान्यपरं व्याख्यातं भाष्ये ॥
अस्माभिस्त्वित्यादि । अत एवोक्तमुपक्रमे—“तदेकदेशलेशे तु कृतोऽयं विवृतिश्रमः” इति । निर्णयिष्यते—णयधोतो रूपमिदम् ॥
प्रमाणसामान्यलक्षणविभागसूत्रं त्ववसरप्राप्तत्वादिदानीमेव विव्रियते—
प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि ॥ १-१-३ ॥
प्रमाणसामान्यस्वरूपलक्षणाक्षेपः
अत्रेदं तावद्विचार्यते—किं प्रमाणं नाम ? किमस्य स्वरूपम् ? किं वा लक्षणमिति ? ततः सूत्रं योजयिष्यते ॥
प्रमाणस्वरूपलक्षणकथनम्
तदुच्यते—अव्यभिचारिणीमसन्दिग्धामर्थोपलब्धिं विदधती बोधाबोधस्वभावा सामग्री प्रमाणम् । बोधाबोधस्वभावा सामग्री हि तस्य स्वरूपम् । अव्यभिचारादिविशेषणार्थोपलब्धिसाधनत्वं लक्षणम् ॥
सामग्रयाः प्रमाणत्वाक्षेपः
ननु च प्रमीयते येन, तत् प्रमाणमिति करणसाधनोऽयं प्रमाणशब्दः । करणं च साधकतमम् । तमबर्थश्चातिशयः । स चापेक्षिकः । साधकान्तरसम्भवे हि तदपेक्षयाऽतिशययोगात् किञ्चित्साधकतममुच्यते । सामग्र्याश्चैकत्वात् तदतिरिक्तसाधकान्तरानुपलम्भात् किमपेक्षमस्या अतिशयं ब्रूमः ॥
प्रमाणेत्यादि । सामान्यलक्षणं विभागं च प्रतिपादयत् सूत्रमित्यर्थः ॥
अव्यभिचारिणीमित्यादि । अव्यभिचारिणीमिति भ्रमव्यावृत्त्यर्थम् । असन्दिग्धामिति संशयव्यावृत्त्यर्थम् । अर्थोपलब्धिं विदधतीति घटादिव्यावृत्त्यर्थम् । बोधाबोधस्वभावेति । अबोधरूपं हीन्द्रियं प्रत्यक्षे करणम् । बोधरूपाणि हि अनुमानोपमानशब्दज्ञानानि अनुमित्युपमितिशाब्देषु यथासङ्ख्यं करणानि । उक्तवाक्यं विवेचयति—बोधेत्यादि ॥
“सामग्री प्रमाणम्” इत्युक्तिमाक्षिपति—नन्विति । सामग्र्याश्चैकत्वादिति । निखिलकारकसमुदायस्यैव सामग्रीपदार्थत्वात् तदतिरिक्तस्य
अपि च कस्मिन् विषये सामग्र्याः प्रमाणत्वम् ? प्रमीयमाणो हि कर्मभूतो विषयः सामग्र्यन्तर्भूतत्वात् सामग्र्येवेति करणतामेव यायात् । निरालम्बनाश्चेदानीं सर्वप्रमितयो भवेयुः, आलम्बनकारकस्य चक्षुरादिवत् प्रमाणान्तःपातित्वात् ॥
कश्च सामग्र्या प्रमेयं प्रमिमीते ? प्रमाताऽपि तस्यामेव लीनः । एवञ्च यदुच्यते “प्रमाता प्रमाणं प्रमेयं प्रमितिरिति चतसृषु विधासु तत्त्वं परिसमाप्यते” इति, तद्व्याहन्यते । न च लोकोपि सामग्र्याः करणभावमनुमन्यते तस्यां करणविभक्तिमप्रयुञ्जानः । न ह्येवं वक्तारो भवन्ति लौकिकाः, सामग्र्या पश्याम इति; किन्तु दीपेन पश्यामः, चक्षुषा निरीक्षामह इत्याचक्षते । तस्मान्न सामग्री कारणम्, अकारणत्वाच्च न प्रमाणमिति नेदं साधु प्रमाणस्वरूपम् ॥ सामग्र्याः करणत्वसिद्धान्तः अत्रोच्यते—यत एव साधकतमं करणं, करणसाधनश्च प्रमाणशब्दः, तत एव सामग्र्याः प्रमाणत्वं युक्तम्; तद्व्यतिरेकेण कारकान्तरे क्वचिदपि तमबर्थसंस्पर्शानुपपत्तेः । अनेककारकसन्निधाने तत्कारणत्वप्रसक्तेरेवाभावे न ह्यतिशय उपपादयितुं शक्येत । विदुषोर्हि द्वयोः कश्चनातिशेते, न तु विद्वदविदुषोः । प्रत्येकं तु कारणानां साधकत्वमेव नास्ति इति भावः ॥
निरालम्बना इति । कर्मकारकस्यापि सामग्रीगोष्ठीनिविष्टत्वेन सामग्र्याः करणत्वे कर्मणोऽपि करणत्वप्राप्त्या कथं ज्ञानं करणविषयकं स्यादिति ज्ञानं निरालम्बनं प्रसज्येतेत्यर्थः ॥
तस्यामेव—सामग्र्यामेव । तथा च प्रमातुरपि करणत्वमेव, न तु कर्तृत्वमिति भावः । यदुच्यत इति । उपोद्धातभाष्यार्थानुवादोऽयम् । अथ प्रतीतिविरोधमप्याह—न च लोकोऽपीति । अकारणत्वादिति । कारणत्वस्यैवाभावे किमुत करणत्वमिति भावः । करणं, अकरणत्वादित्येव वा पाठः ॥
तद्व्यतिरेकेण—सामग्रीव्यतिरेकेण । कारकान्तरे—प्रत्येकं कारके । अतिशयपदार्थं विवृण्वन् सामग्र्या एव साधकतमत्वमुपपादयति—अनेकेति । निखिलेत्यर्थः । यस्मिन् सति कार्यं निष्पद्यते, यस्मिन्नसति न, तदेव साधकतमं भवति । प्रत्येकं कारकाणां सत्वेऽपि कार्यं न हि निष्पद्यते ।
कार्यं घटमानं अन्यतरव्यपगमे च विघटमानं कस्मै अतिशयं प्रथच्छेत् ? न चातिशयः कार्यजन्मनि कस्यचिदवधार्यते, सर्वेषां तत्र व्याप्रियमाणत्वात् ॥
सन्निपत्त्यजनकत्वमतिशय इति चेन्न—आरादुपकारकाणामपि कारकत्वानपायात् । ज्ञाने च जन्ये किमसन्निपत्यजनकम् ? सर्वेषामिन्द्रियमनोऽर्थादीनामितरेतरसंसर्गे सति ज्ञाननिष्पत्तेः ॥
अथ सहसैव कार्यजननमतिशयः; सोऽपि कस्याञ्चिदवस्थायां करणस्येव कर्मणोऽपि शक्यते वक्तुं—यथा अविरलजलधरधाराप्रबन्धबद्धान्धकारनिवहे बहुलनिशीथे सहसैव स्फुरता विद्युल्लताऽऽलोकेन कामिनीज्ञानमादधानेन तज्जन्मनि सातिशयत्वमवाप्यते, एवमितरकारककदम्बसन्निधाने सत्यपि सीमन्तिनीमन्तरेण तद्दर्शनं न सम्पद्यते, आगतमात्रायामेव तस्यां भवतीति तदपि कर्मकारकमतिशययोगित्वात् करणं स्यात् ॥ कारकाणां समग्रभावे च निष्पद्यते कार्यम्, अतः कारकसाकल्यापरपर्यायसामग्र्येव करणमिति युक्तम् । प्रत्येकं कारकाणि कारणानि, तत्समुदायश्च करणमिति तु सारम् । कस्मा इति । सकलकारणसमवायान्तराऽन्यस्मै कस्मै इत्यर्थः । कस्यचिदिति । प्रत्येकं तु केनापि कारणेन कार्यं न जन्यते, सर्वमेलने सति जन्यते; तदा अतिशयः प्रत्येकं किन्निष्ठ इति न हि निर्णेतुं शक्यत इत्यर्थः ॥
सन्निपत्त्य—व्यापारोपरि भारं निधाय, व्यवधानेनेति यावत् । आरादुपकारकाणां—अद्वारकारणानाम् । अवान्तरापूर्वद्वारा परमापूर्वफलकं हि प्रोक्षणादि सन्निपत्योपकारकं, साक्षात्परमापूर्वफलकं च प्रयाजादि आरादुपकारकम् । अयं भावः—व्यापारवत्कारणस्यैव करणत्वात् व्यापाररूपातिशय एव तमबर्थः इति न युक्तम्; कारकत्वं हि क्रियावेशमन्तरा न सम्भवतीति सर्वत्रेदं समानम् । चक्रभ्रमणादीनां तु व्यापाराणां साक्षात् घटादिजनकानामपि कारकत्वमविशिष्टमिति व्यापारावेशमादाय वैलक्षण्यं दुर्वचमेवेति । ज्ञाने तु सुतरां तद्दुर्वचं वैलक्षण्यमित्याह—ज्ञाने चेति । इतरेतरेति । संयोगरूपव्यापारस्य द्विनिष्ठत्वेन इन्द्रियमेव करणं, घटादि च कर्म इति नियमासम्भव इति भावः ॥
करणस्य—करणत्वेन त्वत्सम्मतस्य । आदधानेनेति । विद्युल्लता लोकेनेत्यस्येदं विशेषणम् । तज्जन्मनि—कामिनीप्रत्यक्षोत्पत्तौ ॥
तस्मात् फलोत्पादाविनाभाविस्वभावत्वमवश्यतया कार्यजनकत्वमतिशयः । स च सामग्र्यन्तर्गतस्य न कस्यचिदेकस्य कारकस्य कथयितुं पार्यते । सामग्र्यास्तु सोऽतिशयः सुवचः । सन्निहिता चेत् सामग्री सम्पन्नमेव फलमिति सैवातिशयवती ॥
प्रमातृप्रमेययोः साधकतमत्वाभावान्न करणत्वम्
ननु मुख्ययोः प्रमातृप्रमेययोरपि तदविनाभावित्वमतिशयोऽस्त्येव, प्रमितिसम्बन्धमन्तरेण तयोस्तथात्वाभावात् । प्रमिणोतीति प्रमाता भवति, प्रमीयत इति च प्रमेयम्—सत्यमेतत्—किन्तु साकल्यप्रसादलब्धप्रमितिसम्बन्धनिबन्धनः प्रमातृप्रमेययोर्मुख्यस्वरूपलाभः । साकल्यापचये प्रमित्यभावात् गौणे प्रमातृप्रमेये सम्पद्येते । एवञ्च साकल्यमन्तरेण यदि प्रमितिरवकल्पेत भवेद्व्यभिचारः, न त्वसौ तथा दृश्यते इति प्रमित्यव्यभिचारात् साकल्यमेव सातिशयमिति तमवर्थयोगात् तदेव करणम् ॥
निष्कृष्टमतिशयस्वरूपं प्रदर्शयति—फलोत्पादेति । फलोत्पादाविनाभाविस्वभावत्वं यत् अवश्यतया कार्यजनकत्वं, तदेवातिशय इत्यर्थः । एकस्य कारकस्येति । एकस्यैव कारकस्येत्यर्थः । सैवातिशयवतीति । सामग्र्या एव फलोत्पादाविनाभाविस्वभावत्वादित्यर्थः ॥
तदविनाभावित्वमिति । प्रमितिरूपफलाविनाभावित्वमित्यर्थः । प्रमातुः प्रमातृत्वं, प्रमेयस्य प्रमेयत्वं च प्रमितिसम्बन्धनिबन्धनमेवेत्येतदुपपादयति—प्रमिणोतीतीति । तथा च प्रमातृप्रमेययोरपि साधकतमत्वात् करणत्वमापन्नमिति प्रमाणप्रमेयादिविभागः कथमित्यर्थः । साकल्यस्य— सामग्र्याः प्रसादात्—सामर्थ्यात् लब्धेत्यर्थः । गौणे इति । प्रमित्याश्रयः प्रमातृपदस्य मुख्यार्थः । यदा च प्रमितिरेव नोत्पन्ना तदा प्रमित्याश्रयत्वम् आत्मनो न सम्भवति; यथा सुषुप्त्यादौ । तत्र च भूतपूर्वगत्याद्याश्रयणेन प्रमातृत्वं गौणमेव वक्तव्यम्, अपचत्यपि देवदत्ते “पाचकोऽयम्” इत्यादिवदिति ॥
सामग्र्याः साधकतमत्वोपपादनम्
यत्तु किमपेक्षं सामग्र्याः करणत्वमिति—तत् अन्तर्गतकारकापेक्षमिति ब्रूमः । कारकाणां धर्मः सामग्री न स्वरूपहानाय तेषां कल्पते; साकल्यदशायामपि तत्स्वरूपप्रत्यभिज्ञानात् ॥
प्रत्येकापेक्षया सामग्री भिन्ना ? उताभिन्ना ?
ननु समग्रेभ्यः सामग्री भिन्ना चेत् कथं पृथङ्नोपलभ्यते ? अभेदे तु सर्वकारकाणि करणीभूतान्येवेति कर्तृकर्मव्यवहारोच्छेदप्रसङ्गः—मैवम्—समग्रसन्निधानाख्यधर्मस्य प्रत्यक्षमुपलम्भात् ।
करणत्वं—साधकतमत्वम् । अन्तर्गतेति । सामग्री नाम यावत्कारणसमुदायः । करणत्वं च तदन्तर्गतप्रत्येककारकापेक्षमित्यर्थः । ननु अन्वयव्यतिरेकवशात् सामग्रयाः करणत्वावधारणेऽपि प्रत्येककारकसत्त्वे कार्यानुत्पादेन व्यभिचारात् प्रत्येकं कारकाणां कारणत्वासम्भवेन न तदपेक्षः अतिशयः सामग्रया वक्तुं शक्य इत्यत्राह—कारकाणामिति । अयं भावः समग्राणां भावः खलु सामग्री । एवञ्च कारकाणां समुदायविशेषः सामग्री । समुदायश्च समुदाय्यनतिरिक्तः । ततश्च समुदायेषु विद्यमानो धर्मः न हि समुदायिनां कारणत्वं हन्ति । तथा सति प्रत्येकं कारणत्वाभावेन समुदितस्यापि कारणत्वं न स्यात् । किञ्च प्रत्येकं कारणत्वस्यैवाभावे तेषां कारकत्वमेव न स्यात्, कार्यनिर्वर्तकस्यैव कारकत्वात् । ननु प्रत्येकं कारकाणां कार्यव्यभिचारात् कथं तेषां कारणत्वावधारणमिति चेत्, लोक एव प्रष्टव्यः । पामरोऽपि हि तन्तूनां प्रत्येकं सतामपि पटकारणत्वं प्रत्येति । अतश्च यत्सत्त्वे यत्सत्त्वं, यदभावे यदभावः इति सहचारग्रहः सर्वानुभवसिद्धः । न हि तत्र यन्मात्रसत्वे यत्सत्त्वमित्यन्वयः । अतः प्रत्येकमपि कारणत्वं वर्तत एवेति ॥
समुदायसमुदायिनोर्भेदाभेदं विकल्प्य दूषयति—नन्विति । करणीभूतान्येवेति । सामग्र्याः करणत्वस्योपपादितत्वात् कारकाणां तदभिन्नत्वे कर्तृकर्मकारकादीनामपि करणकारकत्वापत्तिरितीतरकारकोच्छेदप्रसङ्ग इत्यर्थः । समुदायसमुदायिनोर्वैलक्षण्यं वर्तत एवेत्यभिप्रायेण समाधत्ते— मैवमित्यादि । ननु तर्हि तन्तुपटयोरिव यदि भेदस्तदाऽपसिद्धान्त इत्याशङ्कायां
पृथगवस्थितेषु हि स्थालीजलज्वलनतण्डुलादिषु न समग्रताप्रत्ययः; समुदितेषु तु भवतीत्यतः तन्तुपटलपरिघटितपटाद्यवयविवत् कारककलापनिष्पाद्यद्रव्यान्तराभावेऽपि समुदायात्मिका सामग्री विद्यत एवेति समुदाय्यपेक्षया करणतां प्रतिपद्यते । तस्मान्न परिचोदनीयमिदं कस्मिन् कर्मणि सामग्री करणमिति । समुदायिनां सामग्र्यवस्थायामपि स्वरूपानपायात् समुदायिविशेषे कर्मणि सामग्री करणम् । अत एव प्रमितेर्न निरालम्बनत्वम् ॥
एतेन प्रमात्रादिः पृथगुपदर्शित इति विधाचतुष्टयमपि समाहितम् ॥
यत्त्वभ्यधायि सामग्र्याः करणविभक्तिनिर्देशो न दृश्यत इति— तत्रोच्यते—सामग्री हि संहतिः । सा हि संहन्यमानव्यतिरेकेण न व्यवहारपदवीमवतरति तेन सामग्र्या पश्यामीति न व्यपदेशः ॥ —न तथाऽत्र, किन्तु सेनावनन्यायेन भेदव्यवहार इत्याह—तन्त्विति । द्रव्यान्तराभावेऽपि—सामग्रीरूपावयव्यन्ताराभावेऽपि । तथा च प्रत्येकविवक्षया इमे वृक्षा इति व्यवहारेऽपि बुद्धिविशेषविषयत्वकृतः इदं वनमिति यथा, तथा प्रकृतेऽपि प्रत्येकविवक्षया कर्मादि कारकतां प्रमितौ भजते । समुदायापेक्षया तु सामग्र्येव प्रमितिकरणमिति भावः । समुदायिविशेषे— समुदायघटककारकविशेषे ॥
एतेन—प्रत्येकं कर्मकारकताद्यनपायेन । विधाचतुष्टयम् । प्रमाणं, प्रमाता, प्रमेयं, प्रमितिरिति चतुष्टयम् ॥
करणविभक्तीति । सामग्र्या पश्यामीति निर्देश इत्यर्थः । तेनेत्यादि । सामग्र्याख्यातिरिक्तपदार्थस्याभावेन न तथा निर्देश इति भावः ॥
नन्वभ्युपगच्छामः—सामग्र्याः प्रत्येकानतिरेकात् सामग्र्या पश्यामीति न निर्देश इति; किन्तु—सामग्र्याः करणत्वमुक्तं, सामग्री च प्रत्येकाभिन्ना । ततश्च सामग्र्यन्तर्गतानां सर्वेषामपि करणत्वं प्राप्तम्; एवञ्च चक्षुषा पश्यामीतिवत् घटेन केषाञ्चिदेव करणत्वव्यवहारे हेतुः यस्तु दीपेन्द्रियाणां तृतीयानिर्देशः, स फलोपजननाविनाभाविस्वभावत्वाख्यसामग्रीसरूपसमारोपणनिबन्धनः । अन्यत्रापि च तद्रूपसमारोपेण स्थाल्या पचतीति व्यपदेशो दृश्यते एव । तस्मादन्तर्गतकारकापेक्षया लब्धकरणभावा सामग्री प्रमाणम् ॥ प्रकारान्तरेण करणस्वरूपनिरूपणम् अपरे पुनराचक्षते—सामग्री नाम समुदितानि कारकाणि । तेषां द्वैरूप्यमहृदयङ्गमम् । अथ च तान्येव पृथगवस्थितानि कर्मादिभावं भजन्ते, अथ च तान्येव समुदितानि करणीभवन्तीति कोऽयं नयः ? तस्मात् कर्तृकर्मव्यतिरिक्तम् अव्यभिचारादिविशेषणकार्थप्रमाजनकं कारकं करणमुच्यते । तदेव तृतीयया व्यपदिशन्तिदीपेन पश्यामि, चक्षुषा निरीक्षे, लिङ्गेन बुद्ध्ये, शब्देन जानामि, मनसा निश्चिनोमीति ॥
ननु त्रीण्येव कारकाण्यस्मिन् पक्षे भवेयुः—ज्ञानक्रियायां तावत् एवमेवैतत्, यथा भवानाह । पाकादिक्रियासु क्रियाश्रय- पश्यामि, इत्यपि व्यवहारः कुतो न ? इत्याशङ्क्य परिहरति—यस्त्वित्यादि । फलोपजननाविनाभावित्वाख्यः तमबर्थः यः अतिशयः तं दीपादावभ्यर्हिततमत्वात् आरोप्य लोके दीपेन पश्यामीत्यादिव्यपदेशः; विषये सत्यप्यन्धकारादौ प्रत्यक्षानुत्पत्त्या तत्रालोकस्याभ्यर्हिततमत्वात् । एवं आलोके सत्यपि चक्षुषो निमीलने न प्रत्यक्षमिति चक्षुषोऽभ्यर्हिततमत्वप्रतीत्या चक्षुषा पश्यामीति व्यवहारः । अत एव स्थाल्यां पचतीत्यत्र स्थालीसौष्टवादिविवक्षायां सत्यां स्थाल्या पचति, स्थाली पचति इति, काष्ठसौष्ठवविवक्षायां काष्टं पचतीत्यादिश्च प्रयोगः । अतो न दोष इति परिहाराशयः ॥
तेषां समुदायाभिन्नानां समुदायिनाम् । द्वैरूप्यमेवोपपादयति—अथ चेति । अथ चेति विरोधद्योतकम् ॥
त्रीण्येवेति । अपादानादीनामपि कर्तृकारकेणैव क्रोडीकारापत्तेरित्यर्थः । तथा च कर्तृ कर्म करणमिति त्रीण्येव कारकाणि भवेयुरिति । ज्ञानक्रियायां—
धारणाद्युपकारभेदपर्यालोचनया भवत्वधिकरणादिकारकान्तरव्यवहारः । प्रमितौ तु मनोदीपचक्षुरादेः न लक्ष्यते विशेष इति तत्सर्वं करणत्वेन सम्मतम् ॥
कस्तेषु तमवर्थ इति चेत् ? अस्ति कश्चित्—यदयं लोकः “अहं मया जानामि” “घटेन घटं जानामि” इति न कर्तृकर्मणी विस्मृत्यापि करणत्वेन व्यपदिशति, नयनमनोदीपशब्दलिङ्गानि तु तथा व्यपदिशति; सोऽयमेषां पश्यति कर्तृकर्मवैलक्षण्यं चक्षुरादीनाम् । तद्वैलक्षण्यमेव च तेषामतिशय इति । तदयमिह प्रमाणं, प्रमाता, प्रमेयं, प्रमितिरिति चतुर्वर्ग एव व्यवहारः परिसमाप्यते । तस्मात् कर्तृकर्मविलक्षणा संशयविपर्ययरहितार्थबोधविधायिनी बोधाबोधस्वभावा सामग्री प्रमाणमिति युक्तम् ॥ बौद्धसम्मतप्रमाणस्वरूपनिराकरणम् ये तु बोधस्यैव प्रमाणत्वमाचक्षते—न सूक्ष्मदर्शिनस्ते । बोधः खलु प्रमाणस्य फलं, न साक्षात्प्रमाणम् । करणार्थाभिधानो हि प्रमाणशब्दः, प्रमीयते अनेनेति प्रमाणम् । प्रमीयत इति कोऽर्थः ? प्रमा जन्यत इति । प्रमाणादवगच्छाम इति वदन्तो लौकिकाः ज्ञानरूपक्रियायाम् । यद्यपि ज्ञानं गुणः, अथापि जानामीत्यादिधातुवाच्यत्वात् क्रियात्वोक्तिः । ज्ञानस्थले हि आत्मन एवोपादानत्वेन, फलित्वेन, अधिकरणत्वेन च कर्मकरणकारकव्यतिरिक्तसर्वकारकत्वमात्मन एव ॥
तेषु—मनोदीपचक्षुरादिषु । कर्तृकर्मकारकातिरिक्तत्वात् करणस्य, सजातीयवस्त्वपेक्षयैव तमबर्थस्योपपादनीयत्वादित्यर्थः । अनुभवसाक्षिकोऽयं विशेष इत्यभिप्रायेणाह—यदयमित्यादि ॥
बोधस्यैवेति । प्रमा प्रमाणमिति पर्यायतया लोके प्रयोगात् ज्ञानस्य प्रामाण्यमित्यादिव्यवहाराच्च ज्ञानरूपमेव प्रमाणम् । तथा च बोधाबोधस्वभावेत्यसङ्गतमित्याशयः । उत्तरत्र प्रमाया अपि प्रमाणपदवाच्यत्वकथनादत्र साक्षादित्युक्तम् । अधिकमुत्तरत्र स्पष्टीभविष्यति ॥
करणस्यैव प्रामाण्यमनुमन्यन्ते । यस्तु प्रमा प्रमाणमिति प्रमाणशब्दः, स प्रमाणफले द्रष्टव्यः । तथा च संशयविपर्ययात्मकं अप्रमाणफलमपि ज्ञानं आत्ममनोऽनुमाने तद्विशेषणार्थपरिच्छेदे वा विशिष्टप्रमाजननात् प्रमाणतां प्रतिपद्यते । अव्यभिचारादिविशेषणोपपन्नमपि ज्ञानमफलजनकं अप्रमाणमेव । केवलप्रमास्वभावं प्रमाणाद्विभिन्नं फलमिति प्रत्यक्षलक्षणे वक्ष्यामः ॥
अथ व्यतिरिक्तफलजनकमपि बोधरूपमेव प्रमाणमुच्यते— तदयुक्तम्—सकलजगद्विदितबोधेतरस्वभावशब्दलिङ्गदीपेन्द्रियादिपरिहारप्रसङ्गात् । तस्मात् सामग्र्यनुप्रविष्टो बोधः विशेषणज्ञानमिव क्वचित्प्रत्यक्षे, लिङ्गज्ञानमिव लिङ्गिप्रमितौ, सारूप्यदर्शनमिवो-
यस्त्विति । कुत्रचित् प्रयुज्यत इति शेषः । प्रमाणफल इति । तथा च अन्नं प्राणा इतिवत् प्रमाणजन्यायां प्रमायां प्रमाणव्यपदेश उपचारादिति भावः । अस्य व्यवहारस्य मुख्यत्वे बाधकमप्याह—तथा चेति । ज्ञानेच्छादीनामात्मलिङ्गत्वेन, तत्र संशयविपर्ययज्ञानयोरप्यात्मानुमितिसाधनत्वेन तयोरपि प्रमाकरणत्वात् प्रमाणत्वप्रसङ्गः, सिद्धान्ते तु तदुभयव्यतिरिक्तत्वस्य प्रमाणलक्षणे निवेशितत्वान्न हानिरिति भावः । ज्ञानं इत्यस्य प्रमाणतां प्रतिपद्यत इत्यनेनान्वयः । ननु यदि प्रमाकरणमेव प्रमाणं, तदा कदाचिदनुमित्याद्यनुपधायकस्य व्याप्तिज्ञानादेः प्रमाणत्वं न स्यात्, तेन प्रमाया अजननादित्याशङ्कामिष्टापत्त्या परिहरति—अव्यभिचारादीत्यादिना ॥
व्यतिरिक्तेति । प्रमाणव्यतिरिक्तेत्यर्थः । अनुमित्यादिस्थले प्रमाणप्रमित्योः बोधरूपत्वं भवतामपि सम्मतमिति भावः । परिहारप्रसङ्गादिति । शब्दलिङ्गादीनां ज्ञानरूपत्वाभावेन प्रमाणपदवाच्यत्वाभावप्रसङ्ग इति यावत् । सामग्र्यनुप्रविष्ट इति । बोधाबोधात्मकत्वात् सामग्र्याः बोधोऽपि प्रमाणतां प्रतिपद्यते, न बोधमात्रमिति । बोध इति । अस्य प्रमाणतां प्रतिपद्यत इत्यग्रिमेणान्वयः । क्वचित्—विशिष्टप्रत्यक्षे ॥
पमाने, शब्दश्रवणमिव तदर्थज्ञाने प्रमाणतां प्रतिपद्यते । अत एव बोधाबोधस्वभावा सामग्री प्रमाणमित्युक्तम् ॥
बौद्धैकदेशिमतनिराकरणम्
अन्ये तु तुल्यसामग्र्यधीनयोः ज्ञानार्थयोः ग्राह्यगाहकभावं वदन्तः बोधं प्रमाणमभ्युपागमन् । क्षणभङ्गिषु पदार्थेषु सहकार्युपादानकारणापेक्षक्षणान्तरसन्ततिजननेन च लोकयात्रामुद्वहत्सु ज्ञानजन्मनि ज्ञानमुपादानकारणम्, अर्थः सहकारिकारणम्; अर्थजन्मनि च अर्थः उपादानकारणं, ज्ञानं च सहकारिकारणमिति—ज्ञानं च ज्ञानार्थजन्यम्, अर्थश्च अर्थज्ञानजन्यो भवतीत्येवमेकसामग्र्यधीनतया तमर्थमव्यभिचरतो ज्ञानस्य तत्र प्रामाण्यमिति ॥
तदिदमनुपपन्नम्—अफलजनकस्य प्रमाणत्वानुपपत्तेरित्युक्तत्वात् । अपि च कर्मणि ज्ञानं प्रमाणमिष्यते । यथोक्तम्—
“सव्यापारमिवाभाति व्यापारेण स्वकर्मणि” इति । स चायमर्थक्षणो ज्ञानसमकालः ततःपूर्वाभ्यां ज्ञानार्थलक्षणाभ्याम् उपजनित इति तत्कर्मतां प्रतिपद्यतां, न पुनः स्वसमानकालप्रसूतज्ञानक्षणकर्मतामिति ॥
ननु च तुल्यसामग्र्यधीनतया समानकालतया च तदव्यभिचारसिद्धौ सत्यां क्व कर्मत्वमुपयुज्यते ? हन्त तर्हि सहोत्पन्नयोः समानसामग्रीकयोः ग्राह्यग्राहकनियमः किङ्कृत इति वक्तव्यम् ?
कर्मणीति । ज्ञानस्य हि प्रामाण्यम् विषययाथार्थ्ये पर्यवस्यतीत्यर्थः । यथोक्तमिति । भवतैव प्रमाणसमुच्चये इति शेषः । तत्कर्मतां— पूर्वक्षणगतार्थक्षणकर्मकताम् । कारणस्य पूर्ववर्तित्वमेव, न समानकालिकत्वं इति भावः ॥
क्वोपयुज्यत इति । ज्ञानार्थयोस्तु अव्यभिचारः सिद्धः, तुल्यकालत्वात् तुल्यसामग्र्यधीनत्वाच्च । कर्मत्वं यत्किञ्चिन्निष्ठं भवतु, किमनया काकदन्तपरीक्षयेति भावः । सिद्धान्ती परीक्षायाः फलं विशदयति—हन्त तर्हीति ।
ज्ञानं स्वप्रकाशस्वभावमिति ग्राहम्, अर्थो जडात्मेति ग्राह्यम्— इति चेत्—अयमपि विशेषस्तुल्यकालयोः कुतस्त्यः ? उपादानसहकारिकारणभेदादिति चेत्, न—तस्य क्षणभङ्गभङ्गे निराकरिष्यमाणत्वात् ॥
बौद्धैकदेशिमतान्तरनिराकरणम्
येऽपि निराकारस्य बोधस्वरूपस्य नीलपीताद्यनेकविषयसाधारणत्वात्, जनकत्वस्य च चक्षुरादावपि भावेनातिप्रसङ्गात्, तदाकारत्वकृतमेव ज्ञानकर्मनियममवगच्छन्तः साकारं ज्ञानं प्रमाणमिति प्रतिपेदिरे तेऽपि विज्ञानाद्वैतसिषाधयिषयैवमभिदधानाः तन्निरासप्रसङ्ग एव निरसिष्यन्ते । न ह्येकमेव साकारं ज्ञानं ग्राह्यं ग्राहकं च भवितुमर्हतीति वक्ष्यते ॥
अर्थस्तु साकारज्ञानवादिनो न समस्त्येव । स ह्यनुमेयो वा स्यात् ? प्रत्यक्षो वा ? नानुमेयः; सम्बन्धग्रहणाभावात् ।
अर्थे हि सति साकारं निराकारं तदत्यये ।
नित्यानुमेयबाह्यार्थवादी ज्ञानं क्व दृष्टवान् ॥ ३८ ॥
पुनश्शङ्कते—ज्ञानमिति । अयमपि विशेष इति । तुल्यकालसामग्र्योर्मध्ये ज्ञानमेव स्वप्रकाशम् अर्थस्तु जड इति कथं निर्णय इति भावः । नन्वस्ति वैलक्षण्यं, ज्ञानमुपादानम्, अर्थः सहकारीति शङ्कते—उपादानेति ॥
तदाकारत्वेति । ज्ञानं यदाकारं भवति, स एव तत्र विषयः, ज्ञानस्य हि आकारो विषयाधीन इति कर्मत्वव्यवस्था भवतीत्याशयः । विज्ञानाद्वैतसिषाधयिषयेति । ज्ञानाकारान्यथानुपपत्त्याऽर्थाकारस्य कर्मणः सिद्धिरिति वदतां हि अयमाशयः । अर्थस्य प्रत्यक्षत्वनिराकरणपूर्वकमनुमेयत्वसमर्थनेन लोकेऽनास्थायां जातायाम्, अनन्तरं सम्बन्धानुपपत्त्यादिभिः अर्थस्यापह्नवे विज्ञानमेकमेवावशिष्येतेति भिक्षुपादप्रसरणन्यायेन विज्ञानाद्वैत एव हार्दोऽभिमान इति । वक्ष्यत इति । नवमाह्निक इति शेषः ॥
सम्बन्धग्रहणं—व्याप्तिग्रहणम् । उक्तमर्थमुपपादयति—अर्थ इति । अर्थो हि नित्यानुमेयः, एवं तर्हि ज्ञानस्य अर्थस्य च कुत्र व्याप्तिग्रहणं सम्म्भवेदित्यर्थः । सति—गृहीते सति ॥
नापि प्रत्यक्षोऽर्थः; आकारद्वयानुपलम्भात् । अभ्युपगमे चानवस्थाप्रसङ्गात् । अर्थाकारो हि निराकारज्ञानगम्यो न भवतीति ज्ञानेनाकारवता गृह्यते; सोऽयमिदानीं ज्ञानाकारोऽपि ग्राह्यत्वात् अन्येनाकारवता गृह्यते, सोऽप्यन्येनेति ॥
अथ वा अर्थो निराकारज्ञानग्राह्यतां नोपयातीति स्वग्राहके ज्ञानात्मनि समर्पितात्मा भवतीति साकारं ज्ञानमेवेदं सम्पन्नमिति पुनरर्थोऽन्यः कल्पनीयः, सोऽपि ग्राह्यत्वात् स्वग्राहकस्य साकारत्वसिद्धये तत्रैव लीयत इति साकारं ज्ञानमेवावशिष्यत इति पुनरन्योऽर्थ इति इत्थमनवस्था । प्रतिकर्मव्यवस्था तु जनकत्वनिबन्धना भविष्यति, वस्तुस्वभावस्यापर्यनुयोज्यत्वात् । साकारपक्षेऽपि पर्यनुयोगसाम्यमित्यादि सर्वं उपरिष्टात् सविस्तरमभिधास्यते । साकारपक्षेऽपि च न प्रमाणात् व्यतिरिक्तं फलमुपदर्शितमित्यसत्पक्ष एवायम् ॥
प्राकट्यलिङ्गेन ज्ञानमनुमीयते
शावरास्तु ब्रुवते—य एते बोधप्रामाण्यवादिनो विज्ञानादभिन्नमेव फलमभिदधति, ते बाढं निरसनीया भवन्त्येव; वयं तु विज्ञानात् भिन्नमेव फलं दृष्टताख्यम् अभ्युपगच्छामः । तेनैव तदनुमीयते
आकारद्वयं—अयमर्थाकारः, अयं ज्ञानाकार इति विषयं विषयिणं च न हि कश्चित् पृथगुपलभत इत्यर्थः । अनवस्थामेवोपपादयति—अर्थाकारो हीति ॥
प्रकारान्तरेणानवस्थामुपपादयति—अथ वेति ॥
निरसनीया इति । विज्ञानाद्वैतमतं त्वस्माकमपि निरसनीयमेव, क्रियारूपस्य बोधस्यैव फलत्वं तु न सम्भवतीत्यर्थः । दृष्टता—ज्ञातता प्राकट्याद्यपरपर्याया वस्तुवृत्तिधर्मः । तेन—विज्ञानफलेन प्राकट्येन तत्— विज्ञानमनुमीयते । कार्येण कारणानुमानादित्यर्थः । ननु ज्ञानस्य फलरूपत्वेन
ज्ञानं हि नाम क्रियात्मकं, क्रिया च फलानुमेया; ज्ञातृव्यापारमन्तरेण फलानिष्पत्तेः ॥
संसर्गोऽपि कारकाणां क्रियागर्भ एव भवति । तदनभ्युपगमे किमधिकृत्य कारकाणि संसृज्येरन् । न चासंसृष्टानि तानि फलवन्ति । क्रियावेशवशाच्च कारकं कारकं भवति । अपरथा हि तत् वस्तुस्वरूपमात्रमेव स्यात्, न कारकम् । ततश्च न फलार्थिभिरुपादीयेतेति व्यवहारविलोपः । तस्मात् यथा हि कारकाणि तण्डुलसलिलानलस्थाल्यादीनि सिद्धस्वभावानि साध्यं धात्वर्थमेकं पाकलक्षणमुररीकृत्य संसृज्यन्ते, संसृष्टानि च क्रियामुत्पादयन्ति, तथाऽऽत्मेन्द्रियमनोऽर्थसन्निकर्षे सति ज्ञानाख्यो व्यापार उपजायते । स च न प्रत्यक्षः; अर्थस्यैव बहिर्देशसम्बद्धस्य ग्रहणात्, आकारद्वयप्रति- तद्भिन्नत्वं फलस्य कथमित्यत्राह—ज्ञानं हीति । क्रियात्मकमिति । धात्वर्थत्वादिति भावः । पचतीतिवत् खलु जानातीति व्यपदेशः । फलानुमेयेति । चेतनस्यैन्द्रियकत्वाभावेन तत्क्रियाया अपि ऐन्द्रियकत्वं न सम्भवति । तथा च फलेनैवानुमेया ज्ञानरूपा चेतनक्रियेति क्रियारूपं ज्ञानं न फलं इत्यर्थः ॥
प्रकारान्तरेणापि ज्ञानस्य क्रियारूपत्वमुपपादयति—संसर्गोऽपीति । क्रियागर्भः—क्रियाद्वारक इति यावत् । नानाविधानां हि कारकाणां कारकत्वं क्रियावेशमन्तरा न सम्भवति, स्वरूपस्य पूर्वमेव सिद्धत्वात् । तत्रापि कर्तृकर्मकरणादिकारकाणां हि कारकत्वम् एकक्रियोद्देशमन्तरा न सम्भवति । एवमेव आत्मेन्द्रियमनःप्रभृतीनां कारकत्वम् एकक्रियावसानकमेव वाच्यं, सैव क्रिया ज्ञानमित्युच्यत इति समुदितार्थः । ततश्च—कारकाणां क्रियावेशाभावेन कारकत्वस्यैवाभावे । अस्तु ज्ञानस्य क्रियात्वं, ततः किमित्यत्राह—स चेति । अर्थो हि बाह्यः, ज्ञानं चान्तरं, तत्कथमुभयोरेकदा ग्रहणं स्यात् । किञ्च ज्ञानं खलु सविषयम् । भूतले घट इत्याद्यनुभवकाले, अयं ज्ञानांशः, अयं विषयांशः इति आकारद्वयाप्रतिभासात्, प्रतीयमानः आकारः घटादिः बाह्य एव स्यात्, बहिष्ठत्वेन भासमानत्वात् इति । ननु ज्ञातता नाम ज्ञानविषयता । एवं च ज्ञानरूपो व्यापारो
भासाभावात्, अगृहीतस्यापि तस्य चक्षुरादिवदुपायत्वात् परोक्षोऽपि चासौ विषयप्रकाशतालक्षणेन फलेन कल्प्यते । तदाह भाष्यकारः “न ह्यज्ञातेऽर्थे कश्चिद्बुद्धिमुपलभते, ज्ञाते त्वनुमानादवगच्छति” इति । वार्तिककृताऽप्युक्तम्— “
नान्यथा ह्यर्थसद्भावो दृष्टस्सन्नुपपद्यते ।
ज्ञानं चेन्नेत्यतः पश्चात प्रमाणमुपकल्प्यते ॥ इति ॥
” तदेष फलानुमेयो ज्ञातृव्यापारो ज्ञानादिशब्दवाच्यः प्रमाणम् । इन्द्रियादीनां तु तदुत्पादकतया इन्द्रियव्यापारे ज्ञानमुपचरति, न साक्षादिति ॥ ज्ञानस्य नित्यपरोक्षत्वनिरासः अत्र प्रतिविधीयते—अहो बत इमे केभ्यो बिभ्यतः श्रोत्रियाः परं किमपि वैक्लव्यमुपागताः ! न खलु नित्यं परोक्षं ज्ञानं यदि प्रत्यक्षतो न गृह्येत कथं तेन व्यापारेणार्थे ज्ञातताऽख्यं प्रत्यक्षं फलमुपजायेतेत्याशङ्कां परिहरति—अगृहीतस्यापीति । अयं भावः—ज्ञातता न ज्ञानविषयत्वरूपा, किन्तु ज्ञानजन्यः विषयनिष्ठः अतिशयविशेषः । तथा च ज्ञानस्यातीन्द्रियत्वेऽपि तज्जन्यज्ञाततायाः प्रत्यक्षत्वं युज्यत एव, यथाऽतीन्द्रियेणापि चक्षुषा घटादिचाक्षुषमिति । ननु स व्यापारः यदि सदा परोक्षः, तर्हि तत्सद्भाव एव किं मानमित्यत्राह—परोक्षोऽपीति । नित्यपरोक्षोऽपीत्यर्थः । नीलो घट इत्यादिप्रत्ययाद्यथा नैल्यादिर्घटधर्मः सिद्ध्यति, तथा घटो ज्ञात इति प्रत्ययात् घटे ज्ञातत्वरूपः कश्चनातिरिक्तो धर्मः सिद्धः । स च ज्ञानविषयत्वनिबन्धन इति कार्यभूतया ज्ञाततया कारणभूतं ज्ञानमनुमीयते । ज्ञातता, प्राकट्यं, प्रकाश इत्यवमादिः पर्याय इति । भाष्यकारः—शबरः । औत्पत्तिकसूत्रभाष्ये शून्यवादगतमिदम् । वार्तिककृता—कुमारिलेन । नान्यथेत्यादि । ज्ञानं न स्याच्चेत् दृष्टस्सन्नर्थसद्भावो अन्यथा—ज्ञानाभावे नोपपद्यते, इत्यतः पश्चात्—अर्थप्रकाशानन्तरमेव ज्ञाने प्रमाणं—प्राकट्याख्यमुपकल्पत इत्यन्वयः । अर्थप्रकाशान्यथाऽनुपपत्त्या ज्ञानं सिद्ध्यतीत्यर्थः ॥
बिभ्यत इति । भयं “कश्चायमियान् सन्त्रासः” इत्यत्र सूचयति । “अयं घटः” इत्यादौ आकारद्वयानुपलम्भात् ज्ञानाकारस्योभयसम्मतत्वात्
भवितुमर्हति, ज्ञातोऽर्थ इति क्वचित्तद्द्विशिष्टार्थप्रत्यवमर्शदर्शनात्; विशेषणाग्रहणे शुक्लः पट इतिवत् विशिष्टप्रतीतेरनुत्पादात् ॥
कश्चायमियान् सन्त्रासः ! विषयग्रहणकाले विज्ञानाग्रहणमात्रकेण बाह्यार्थनिह्नववादिनः शाक्याः शक्याः शमयितुम् ॥ ज्ञानं न क्रियारूपम् यत्तु क्रियास्वभावत्वात्तस्य परोक्षत्वं—तदयुक्तम्—न हि क्रियास्वभावं ज्ञानम् अपि तु फलस्वभावमेव ॥ क्रियारूपमपि ज्ञानं न नित्यपरोक्षम् अपि च क्रियाऽपि प्रत्यक्षद्रव्यवर्तिनी प्रत्यक्षैव भाट्टानां प्रत्यक्षश्चात्मा; तत् किमनेनापराद्धं, यदेतदीयक्रियाया अप्रत्यक्षत्वमुच्यते । न चोत्क्षेपणादिभेदभिन्नपरिस्पन्दात्मकव्यापारव्यतिरेकेण बाह्यकारकेष्वपि सूक्ष्मा नाम काचिदस्ति क्रिया । सा हि यदि नित्या जातिवत्, अथानित्या रूपवत् वस्तुधर्म इष्येत । तावतैव व्यवहारोपपत्तौ कल्पित एवार्थकारो न वास्तव इति बाह्यार्थमपलपन्तं प्रत्युत्तरयितुं खलु—ऽसत्यमेक एवाकार उपलभ्यते, परन्तु स आकारोऽर्थस्यैव, बहिष्टत्वेन प्रतीतेः; न तावता ज्ञानापलापः, तस्यानन्तरमनुमेयत्वात्— इत्युच्यते । किमर्थमेतावता ज्ञानस्य नित्यानुमेयत्वाङ्गीकरणम्, अर्थग्रहणकाले ज्ञानं न गृह्यत इत्युक्तिमात्रेणैव तत्पक्षनिरासात् । तर्हि ज्ञानं कदा गृह्यते इति चेदनुव्यवसायकाले इत्यन्यदेतत् । अतः बाह्यार्थसाधनबद्धकच्छैर्भाट्टैः सम्भ्रमादेव ज्ञानस्य नित्यपरोक्षत्वमङ्गीकृतमिति नर्मोक्तिगर्भदूषणसम्पिण्डितार्थः । विशेषणाग्रहणे—ज्ञानरूपविशेषणबुद्धेरभावे ॥
शाक्याः—बौद्धाः ॥
फलस्वभावमिति । इन्द्रियव्यापारादिनिर्वर्त्यात्मगतगुणरूपत्वादिति भावः ॥
क्रियारूपत्वेऽपि न परोक्षत्वं ज्ञानस्येत्याह—अपि चेति । प्रत्यक्ष इति । औत्पत्तिकसूत्रश्लोकवार्तिके आत्मवादे “अहम्प्रत्ययविज्ञेयो ज्ञाता नः सर्वदैव हि” इत्यादौ आत्मनः मानसप्रत्यक्षविषयत्वोक्तेरिति भावः । अनेन—ज्ञानेन । वस्तुधर्म इत्येतत् जातिवदित्यत्रापि सम्बध्यते ।
तत्र यदि नित्या, तर्हि सर्वदा वस्तुनः क्रियायोगात् सर्वदा फलनिष्पत्तिप्रसङ्गः । अथ कारकनिर्वर्त्या क्रिया, साऽपीदानीं कार्यत्वात् सव्यापारकारककार्या भवेदित्यनवस्था । निष्क्रियकारककार्यत्वे तु क्रियामिव फलमपि निष्क्रियाण्येव कारकाणि कुर्युरिति किं क्रियया ?
ननु करोतीति कारकम् । क्रियाऽऽवेशमन्तरेण च कारकत्वानुपपत्तिः—सत्यं, करोतीति कारकं, तत्तु फलमेव करोति, न क्रियाम् ॥
ननु करोतीति यद्ब्रूषे सेयमुक्तैव क्रिया भवति । चैत्रः कटं करोतीति चैत्रस्येव कटस्येव करोत्यर्थस्याप्रत्याख्येयत्वात्; तत्कृतमेव चैत्रादीनां कारकत्वम्—उच्यते—नातीन्द्रियक्रियायोगनिबन्धनः कारकभावः, क्रियाया अतीन्द्रियत्वेन तद्योगकृतकारकत्वानधिगमे व्यवहारविप्रलोपप्रसङ्गात् । क्रियाऽऽवेशकृतं हि तत्कारकत्वमनवगच्छन्तः कथं फलार्थिनस्तदुपाददीरन् ॥ अनवस्थेति । सूक्ष्मायाः क्रियाया अनित्यत्वेन, हेत्वपेक्षणात्; हेतावपि अतीन्द्रियसूक्ष्मक्रियाया अङ्गीकारस्यावश्यकत्वेनानवस्थाप्रसङ्गः । निष्क्रियेति । उपलभ्यमानक्रियाऽतिरिक्तसूक्ष्मक्रियाशून्येत्यर्थः ॥
क्रियाऽऽवेशमिति । न हि तूष्णीं स्थितः चैत्रादिः घटादिनिर्वर्तको भवति । न हि स्वयं क्रियाशून्यस्य क्रियानिर्वर्तकत्वरूपं कारकत्वं सम्भवतीत्यर्थः ॥
ननु फलं करोतीति सत्यं, परन्तु करोत्यर्थः या क्रिया, तदाश्रयत्वं कारकस्यावर्जनीयं खलु, कर्तरि लकारादित्यभिप्रायेण पुनश्शङ्कते—नन्वित्यादि । उक्तैव—अस्मदुक्तैव । चैत्रस्येवेति । एतस्मिन् हि वाक्ये चैत्रपदस्य कटपदस्य च यथा यः कश्चनार्थो वर्तते, तथा करोतिपदस्यापि कश्चनार्थो वर्तत एवेति तादृशक्रियानिर्वर्तकत्वात् कारकत्वमिति सिद्धमेवेति । तत्कृतं—करोत्यर्थभूतक्रियानिर्वर्तकत्वकृतम् । तथा च विषयत्वात् कर्मत्वं यथा, तथा तादृशक्रियाकर्तृत्वात् चैत्रोऽपि कर्ता भवति । क्रियाऽऽवेशाभावे निरतिशयत्वेन कर्तृकर्मव्यवहारः कथं स्यादित्याशयः ॥
मत्पक्षे कारकत्वं हि नास्ति किञ्चिदतीन्द्रियम् ।
कारकत्वं स्वरूपस्य सहकार्यादिसन्निधिः ॥ ३९ ॥
तावदेव विनिश्चित्य तदुपादीयतेऽर्थिभिः ।
तदेवोपाददानैश्च फलमप्यधिगम्यते ॥ ४० ॥
निर्व्यापारस्य सत्त्वस्य को गुणः सहकारिभिः ।
सव्यापारस्य सत्त्वस्य को गुणः सहकारिभिः ॥ ४१ ॥
अथ व्यापार एवैष सर्वैस्सम्भूय साध्यते ।
किं फलेनापराद्धं वः तद्धि सम्भूय साध्यताम् ॥ ४२ ॥
भौतिकक्रियैव करोत्यर्थः
यत्तु करोत्यर्थस्याप्रत्याख्येयत्वादित्युक्तं—तत्रोच्यते—परि स्पन्द एव भौतिको व्यापारः करोत्यर्थः । न हि वयं परिस्पन्दात्मकं परिदृश्यमानं व्यापारमपह्नुमहे, प्रतिकारकं विचित्रस्य ज्वलनादेर्व्यापारस्य प्रत्यक्षमुपलम्भात् । अतीन्द्रियस्तु व्यापारो नास्तीति ब्रूमहे ॥
भौतिकक्रियातिरिक्तक्रियासद्भावतदभावौ
ननु पाको नाम धात्वर्थः परिदृश्यमानज्वलनादिव्यापारव्यतिरिक्त एषितव्य एव, तमन्तरेण फलनिष्पत्तेरभावात् ।
सत्त्वस्येति । कारकस्येत्यर्थः; “द्रव्यासुव्यवसायेषु सत्त्वम्” । किं सहकारिसान्निध्याहितो व्यापारः कारकेष्वतिरिक्तोऽस्ति ? उत न ? आद्ये पूर्वं व्यापारस्यासत्त्वे सहकारिभिर्वा किं क्रियेत ? यदि स्वतः सव्यापारः, तदा सहकारिभिः किं कर्तव्यम् । अथ सर्वैस्सम्भूय व्यापारमात्रं जन्यते, तर्हि फलमेव जनयन्तु ते, किमन्तर्गडुनाऽतीन्द्रियेण व्यापारेणेत्यर्थः ॥
करोत्यर्थ इति । प्रयत्नविषये तु वक्तव्यमनुपदमेवोच्यते । अतीन्द्रियस्तु भूतनिष्ठः चेतननिष्टो वा व्यापारस्तु नास्त्येवेत्येतावदत्र वक्तव्यम् । अतीन्द्रियस्त्विति । ऐन्द्रियिकवस्तुवृत्तिरिति शेषः ॥
असति च तस्मिन् किमधिकृत्य कारकाणि संसृज्येरन्नित्युक्तम्— तदयुक्तम्—यं तमेकं धात्वर्थं साध्यं बुध्यसे, स किं समुदितसकलकारकसम्पाद्यः ? एकैककारकनिर्वर्त्यो वा ?
तत्राद्यपक्ष एकैकं भवेत्कारकमक्रियम् ।
एकैकनिष्क्रियत्वे च साकल्येऽपि कुतः क्रिया ॥ ४३ ॥
उत्तरस्मिन् पक्षे प्रत्येकमपि पाकक्रियायोगात् कारकान्तरनिरपेक्षादेकस्मात् कारकात् फलनिष्पत्तिप्रसङ्गः । न च तथाविधधात्वर्थपुरस्सरः कारकाणां संसर्गः ॥
क्रियानिमित्तसंसर्गवादिनो हि द्वयी गतिः ।
सत्यां क्रियायां सम्बन्धः ? सम्बन्धे सति वा क्रिया ॥ ४४ ॥
मेलनात् पूर्वसिद्धायां क्रियायां मेलनेन किम् ?
तथा च जन्येत फलं विभक्तैरपि कारकैः ॥ ४५ ॥
किमधिकृत्येति । पाकरूपैकक्रियोद्देशेन हि काष्टादीनां ज्वलनादीति भावः । तत्राद्यपक्ष इत्यादि । पाकादिरूपायाः क्रियाया हि कारकसमुदायसम्पाद्यत्वमुक्तम्, एवं तर्हि प्रत्येकं स्यात् । क्रियाशून्यत्वेनाकारकत्वे समुदितैरपि क्रिया न निर्वर्त्येत; न हि शतमप्यन्धाः पन्थानं पश्यन्तीति भावः ॥
उत्तरस्मिन् पक्षे—प्रत्येकमेव कारकैः पाकादिर्निर्वर्त्यत इति पक्षेः । तथाविधेति । काष्ठादिगतज्वलनाद्यतिरिक्तः अतीन्द्रियः पाकादिरूपः इत्यर्थः ॥
पाकादिक्रियानिमित्त एव कारकाणां मेलनमिति पक्षे, किं सिद्धया पाकादिक्रियया कारकाणि संसृज्यन्ते, उत असिद्धया—साध्यया क्रिययेति विकल्प्य दूषयति—क्रियानिमित्तेत्यादि । मेलनादिति । आद्ये पक्षे पाकादिक्रियायाः कारकमेलनात्पूर्वं सिद्धत्वात् मेलनवैयर्थ्यम् । तथा च निखिलकारकमेलनात्पूर्वमेव क्रियायाः सिद्ध्या प्रत्येकं कारकैः क्रियासिद्धिः स्वीकृता भवेत् ।
मेलनात्तु क्रियासिद्धौ पुनरेकैकमक्रियम् ।
तथा सति न काष्ठानि ज्वलेयुः पिठराद्विना ॥ ४६ ॥
ननु पिठराद्विना काष्ठानि ज्वलन्ति, न तु पचन्ति—मैवम् —सत्यपि पिठरे ज्वलन्त्येव काष्ठानि, नान्यत् कुर्वन्ति दृश्यन्ते । तस्मात् क्रियान्तराभावात् फलमेवोररीकृत्य कारकाणि संसृज्यन्ते ॥ फलमन्यत्, क्रिया चान्या ननु फलमपि सिद्धं चेत् कः सर्वेषां सिद्धस्वभावानां द्वितीयं विकल्पं प्रत्याह—मेलनात्त्विति । मेलनानन्तरमिति यावत् । न ज्वलेयुरिति । तण्डुलसलिलानलस्थाल्यादीनि हि मिलितान्येव क्रियानिर्वर्तकत्वात्कारकाणि भवेयुरिति प्रत्येकं सत्त्वे कारकत्वाभावात् क्रियाशून्यत्वापत्त्या विना तण्डुलादिकं काष्ठं न ज्वलेदित्यर्थः ॥
ननु पाकक्रिया अन्या, अन्या च ज्वलनक्रिया, तथा च प्रत्येकं काष्ठादि पाकनिरूपितकारकत्वशून्यमपि, ज्वलननिरूपितकारकत्वविशिष्टत्वात् प्रत्येकं ज्वलननिर्वर्तने न काऽप्यनुपपत्तिरिति शङ्कते—नन्विति । मैवमिति । पाकादिक्रियानिर्वर्तनकालेऽपि हि काष्ठानां प्रत्येकं सतां यादृशी ज्वलनक्रिया, न ततो विलक्षणा दृश्यत इति अतिरिक्तातीन्द्रियक्रियासिद्धिर्न भवत्येवेति ॥
नन्विति । अयं भावः—कारकैः फलमेव निर्वर्त्यते, न क्रियेति । सिद्धान्तेऽपि सिद्ध्यसिद्धिभ्यां व्यावातः समानः—किं सिद्धेन फलेन कारकाणां सम्बन्धः ? उतासिद्धेन ? आद्ये फलस्य सिद्धत्वात् कारकव्यापारवैय्यर्थ्यम् । अन्त्येऽस्मत्पक्षादविशेषः, प्रत्येकं कारकैः फलनिष्पत्त्यभावेन कारकत्वासम्भवात् । अतः उभयोः समानोऽयं दोष इति चेत्—सत्यं—परन्तु दोषस्य समानत्वेऽप्यतिरिक्तातीन्द्रियक्रियाङ्गीकरणं किमर्थमिति वक्तव्यम् ? यदि च तादृशक्रियाङ्गीकारे सर्वोऽपि दोषः सुपरिहरः स्यात्, अङ्गीकुर्मस्तदा तादृशीं क्रियाम् । “भक्षितेऽपि लशुने न शान्तो व्याधिः” इति न्यायेन तदङ्गीकारेऽपि दोषसाम्ये फलशून्यं तत् परित्यज्यताम्, कॢप्तेनैव यथा निर्वाहो भवेत् तथा उपायं उभावप्यावामन्विष्यावः । कोऽयमुपाय इति चेत् ? प्रत्येकस्य समुदायानति
सम्बन्धः ? फलं सिद्धं, कारकाणि सिद्धानीति सम्बन्धाभावः । साध्यं चेत् फलं, सैव क्रिया परिस्पन्दव्यतिरिक्तेति—मैवं वोचः— फलस्य क्रियात्वानुपपत्तेः । ओदनं हि फलं, न क्रिया; क्रियानाम्नि तु क्रियमाणे न विवदामहे ॥
पचतीत्यादौ पाकशब्दार्थः
ननु पाक इदानीं कः ? न च पचेर्वाच्यशून्यतैव युक्ता— उच्यते—समुदितदेवदत्तादिसकलकारकनिकरपरिस्पन्द एव विशिष्टफलावच्छिन्नः पाक इत्युच्यते; स एव हि पचेरर्थः । ता एव काष्ठपिठरादिक्रिया ज्वलनभरणादिस्वभावाः पृथक्तया व्यवस्थितः तथात्वेनैवावभासन्ते; समुदितास्तु सत्यः फलान्तरावच्छेदात् रूपान्तरेण पाकादिना परिस्फुरन्ति, व्यपदिश्यन्ते च । तथा च देवदत्तः पचतीतिवत् काष्ठानि पचन्ति, स्थाली
रेकेण समुदायेन फलनिर्वर्तने प्रत्येकमपि तत् कारकं भवेदेवेति । अतिरिक्ता तु क्रिया न सिद्धा । यदि सिद्धा स्यात् तदा कथञ्चिन्निर्वाहो वाच्यः । तद्धेतोरेव तद्धेतुत्वे मध्ये किं तेन ? इति न्यायेन कारकैः फलनिर्वतनमित्यङ्गीकार एव युक्तः, न तु मध्ये अतिरिक्ताया अतीन्द्रियायाश्च क्रियायाः सिद्धौ प्रमाणं पश्याम इति । ननु कारकैः साध्यं तु किञ्चिदुभयसम्मतम् । तत् फलमिति भवन्तो ब्रुवते, क्रियेति तु वयम् । अतः कुतोऽस्मासु प्रद्वेषः इति चेत्, नैवं सति वयं विवदामहे । कारकस्य फलस्य च मध्येऽप्रामाणिकीं अतिरिक्तां तु क्रियां नानुमन्यामह इति । सम्बन्धाभाव इति । सिद्धानि वस्तूनि निराकाङ्क्षाणि । साध्यानां हि सिद्धकारकापेक्षेत्यर्थः ॥
इदानीं—ज्वलनाद्यपेक्षयाऽतिरिक्तक्रियाया अनङ्गीकारे । पाकः क इति । पाकशब्दार्थः क इत्यर्थः । पचेः—पचधातोः । विशिष्टफलावच्छिन्नः— विकॢप्त्यादिरूपविलक्षणफलोद्दश्यकः । ननु यदि पचधातोरतिरिक्तोऽर्थो न स्यात् तदा देवदत्तः पचतीति पाकस्य देवदत्तक्रियात्वेन व्यवहारः कथम् ? काष्ठादि क्रियात्वं पाकस्य कुतो न स्यादिति शङ्कायां उभयोस्तौल्यमेवाङ्गीकरोति— तथा चेति । ननु देवदत्तः काष्ठैः स्थाल्यां तण्डुलं पचति इति प्रयोगात्
पचतीति व्यपदेशो दृश्यते । देवदत्तस्यापि । दर्वीविघट्टनादिरेव परिदृश्यमानस्तत्र व्यापारः, न ततोऽन्यः सूक्ष्मः ॥
आत्मनो न क्रिया
ननु देवदत्तादेर्भौतिको व्यापारः आत्मव्यापारपूर्वको भवितुमर्हति—नैतदेवम्—न ह्यात्मनो व्यापारः कश्चिदस्ति । इच्छाद्वेषपूर्वकप्रयत्नवशादेव स भौतिकव्यापारकरणतां प्रतिपद्यते ॥
तस्मात् कारकचक्रेण चलता जन्यते फलम् ।
न पुनश्चलनादन्यो व्यापार उपलभ्यते ॥ ४७ ॥
चलन्तो देवदत्ताद्याः तदनन्तरमोदनः ।
एतावर्द्दुश्यते त्वत्र न त्वन्या काचन क्रिया ॥ ४८ ॥
काष्ठादीनां करणत्वादिकं सर्वसम्मतम्, विवक्षाभेदेन तु काष्ठानि पचन्तीत्यादि प्रयोग इति पूर्वमेवोक्तम् । अत एव विविच्य प्रश्ने काष्ठानि ज्वलन्ति, न तु पचन्ती त्येवोच्यते, न तु कदाऽपि देवदत्तः न पचतीत्याशङ्कायामाह—देवदत्तस्यापीति । अयं भावः—देवदत्तः पचतीत्युक्ते देवदत्तो वा किं करोति ? दर्वीं विघट्टयति, काष्ठानि चालयति, अग्निं ज्वालयति; न त्वेभ्यो विलक्षणं पाकाख्यं किञ्चित्कर्म करोति । “स्वतन्त्रः कर्ता” इतरकारकाणां कर्त्रधीनत्वेन कर्तुः प्राधान्यात् देवदत्तनिष्ठत्वेन पाकस्य व्यवहारः । अत एव यत्र कर्तृवैशिष्ट्यं विना सामग्रीवैशिष्ट्यादेव फलनिष्पत्तिः, तादृशस्थले करणादीनामपि प्राधान्यविवक्षया काष्ठानि पचन्ति, असिः छिनत्ति, चक्षुः पश्यति इत्यादिव्यवहारः । अतश्च पाकादिर्नातिरिक्ता सूक्ष्मा क्रियेति ॥
भौतिकः—शारीरकः । अचेतनव्यापारस्य चेतनव्यापारपूर्वकत्वात् आत्मव्यतिरिक्तोऽतीन्द्रियो व्यापारः सिद्ध एवेत्यर्थः । न हीति । विभोरात्मनः परिस्पन्दलक्षणक्रियाया असम्भवादिति शेषः । सः—आत्मा । चलनं— क्रिया ॥
भावनाऽपि न पुरुषव्यापारः
एतेन भावनाख्यः करोत्यर्थः पुरुषव्यापारो वाक्यार्थ इति योऽभ्युपगतः—सोऽपि प्रत्युक्तो वेदितव्यः । न हि पुरुषव्यापारः कश्चिदुपलभ्यते । विशिष्टगुणसमवाय एवास्य कर्तृत्वम् । न च ज्ञानादयो गुणा एव व्यापारसञ्ज्ञावाच्याः, सिद्धस्वभावत्वात् ॥
ज्ञानं न क्रियारूपम्
ननु क्रियावचनो धातुरिति जानातेरपि क्रियैव वाच्या स्यात् । सा च क्रिया ज्ञानात्मा पुरुषव्यापारः—नायं नियमः क्रियावचनो धातुरिति । “गडि वदनैकदेशे” इत्यपि दर्शनात् ॥
अपि च “घटमहं जानामि” इत्यत्र भवतः किं प्रतिभासते । घटमिति तावद्विषयः, अहमित्यात्मा; जानामीति तु चिन्त्यं— क्रिमत्र प्रकाशत इति । न व्यापारः, परोक्षत्वात् । फलं यद्यत्र प्रकाशते—तदेव तर्हि धातुवाच्यमभ्युपगतं भवति । तस्मान्न क्रियात्मकं ज्ञानम् ॥
एतेन—अतीन्द्रियपुरुषव्यापारनिराकरणेन । अभ्युपगतः—भाट्टैरिति शेषः । पचतीत्यस्य खलु पाकं करोतीति विवरणम् । तेन आख्यातं करोतिसमानार्थकमुक्तम् । आख्यातस्य च अर्थभावनाख्यः पुरुषव्यापारोऽर्थः । स च न प्रयत्नपदवाच्यः गुणः, किन्तु क्रिया इति तेषां मतम् । विशिष्टगुणसमवाय एवेति । “प्रयते” इत्यनुव्यवसायनियामकाकारविशेषविशिष्टप्रयत्नाख्यगुणवत्त्वमेव पुरुषस्य कर्तृत्वम् । प्रयत्नश्च न क्रियारूपः, किन्तु गुण इति न पुरुषव्यापारः अतिरिक्तः सिध्यतीति । सिद्धस्वभावत्वादिति । क्रिया हि साध्यस्वरूपा । ज्ञानादयस्तु घटादिवत् सिद्धपदार्थस्वरूपाः । अतः यत्नः न क्रिया, किन्तु गुण एव ॥
गडि वदनैकदेश इति । यद्यपि वदनैकदेशक्रियैव धात्वर्थ इत्युक्तं वैयाकरणैः; अथापि “भू सत्तायां”, “अस भुवि” इत्यादौ सत्तादीनां सिद्धस्वरूपाणां धात्वर्थतायाः अवश्यवक्तव्यत्वेन प्रकृतेऽपि तथैवास्त्वित्याशयः ॥
क्रियाया एव धात्वर्थत्वमित्यत्र बाधकमप्याह—अपि चेत्यादि । परोक्षत्वादिति । भवत इति वर्तते ॥
यदि च क्रियात्मकं ज्ञानमभविष्यत्, न भाष्यकारः क्रियातः पृथगेनं निरदेक्ष्यत; निर्दिशति च “बुद्धिकर्मणी अपि हि प्रत्यभिज्ञायेते, ते अपि नित्ये प्राप्नुतः” इति तस्मात् अन्यत् ज्ञानं, अन्या च क्रियेति न क्रियास्वभावत्वान्नित्यं परोक्षं ज्ञानम् ॥
नित्यपरोक्षस्य ज्ञानस्यानुमेयत्वमपि न सम्भवति
यदि च नित्यपरोक्षो ज्ञातृव्यापारः, स तर्हि प्रतिबन्धाग्रहणादनुमातुमपि न शक्यः । क्रियाविशिष्टवाह्यकारकसिद्धान्तस्य निरस्तत्वात् ॥
आत्माद्यनुमाने का वार्ता ? इति चेत्—न—तत्र सामान्यतो व्याप्तिग्रहणस्य सम्भवादिति वक्ष्यामः । इह तु बाह्यकारकेष्वपि न तत्पूर्वकं फलं दृष्टमित्युक्तम् ॥
न चार्थापत्तिरपि ज्ञातृव्यापारकल्पनायैव प्रभवति; इन्द्रियार्थसन्निकर्षवशादेवार्थदृष्टताया घटमानत्वात् ॥
प्राकट्यस्वरूपपरिशीलनम्
का चेयमर्थस्य दृष्टता नाम ? किं दर्शनकर्मता ? किं वा प्रकाशस्वभावतेति ? तत्र दर्शनस्य परोक्षत्वात् कथं तत्कर्मता— अर्थस्य दृष्टता गृह्येत । विशेषणाग्रहणे विशिष्टप्रतीतेरनुत्पादात् । अर्थप्रकाशतायास्तु सर्वान् प्रत्यविशेषात् सर्वे सर्वज्ञाः स्युः ॥
प्रतिबन्धाग्रहणादिति । व्याप्तिग्रहणासम्भवादिति यावत् । ननु कुतोऽसम्भवः, विशेषतो दृष्टस्यानुमानस्याभावेऽपि सामान्यतोदृष्टानुमानस्य सम्भवादित्यत्राह—क्रियेति । ज्वलनभरणाद्यतिरिक्तायाः पाकादिक्रियाया निरस्तत्वात् तद्दृष्टान्तेन सामान्यतोदृष्टानुमानेनापि न साधनसम्भव इति भावः । वक्ष्वामः—सप्तमाह्निक इति शेषः । तत्पूर्वकम्—अतीन्द्रियक्रियापूर्वकम् ॥
यच्चोक्तं—“नान्यथा ह्यर्थसद्भावः” इत्यादि; तत्राह—न चेति ॥
विशेषणाग्रहणे विशेषणस्य—दर्शनस्य अतीन्द्रियत्वेन अग्रहणे । सर्वान् प्रत्यविशेषादिति । नीलादयो ह्यर्थधर्माः सर्वसमानाः, न हि
न स्युः, सम्बन्धितयोत्पादादिति चेत्—अकारणमेतत्— अर्थस्यैव हि प्रकाशत्वमतिशयः दीपादेरिव, न पुरुषनियमेन व्यवतिष्ठते ॥
न च द्वित्वादिना साम्यं तस्मिन् नियमदर्शनात् ।
प्रकाशे तु न दीपादौ सम्बन्धनियमः क्वचित् ॥ ४९ ॥
यदपेक्षाधिया जातं द्वित्वं तस्यैव तद्ग्रहः ।
संवेदनमपि प्राज्ञैः कस्यातिशय उच्यते ॥ ५० ॥
ज्ञातुश्चेदन्तराऽन्येन व्यापारेणास्य को गुणः ।
ननु नैव क्रियाशून्यं कारकं फलसिद्धये ॥ ५१ ॥
उक्तमत्र क्रिया ह्येषा यथादर्शनमिष्यताम् ।
ज्ञानं संवेदनं चेति विद्मः पर्यायशब्दताम् ॥ ५२ ॥
संवेदनं तु ज्ञानस्य फलत्वेन न मन्महे ।
अर्थातिशयपक्षे च सर्वसर्वज्ञता पुनः ॥ ५३ ॥
नीलो घटः कञ्चित्प्रति नीलः, अन्यं प्रत्यनीलो भवेत्; तद्वत् प्रकाशस्याप्यर्थधर्मत्वे सर्वान् प्रत्यविशेषप्रसङ्गेन सर्वे सर्वज्ञाः स्युः ॥
सर्वसर्वज्ञतापत्तिं परिजिहीर्षति—न स्युरिति । सम्बन्धितयोत्पादादिति । प्रकाशस्य सप्रतियोगिकपदार्थत्वात्, प्रकाशते इत्युक्ते कं प्रति, किं प्रकाशते इति सम्बन्धाकाङ्क्षाया नियतत्वेन सर्वान् प्रति नाविशेषप्रसङ्गः । यथा खलु पदार्थधर्मोऽपि द्वित्वादिः न सर्वैर्गृह्यते तथेत्यर्थः । न व्यवतिष्ठत इति । न हि दीपः एकं प्रति प्रकाशते, तदैवान्यं प्रति न प्रकाशत इत्यर्थः ॥
द्वित्वादिसाम्यं प्रकाशस्य परिहरति—न चेत्यादि । अयं भावः— द्वित्वादिकं तु अपेक्षाबुद्धिजन्यं वयमिच्छामः । अतस्तेषां पदार्थधर्मत्वेऽपि प्रकाशरूपत्वाभावात् न सर्वसाधारण्यम् । प्रकाशाख्यस्तु धर्मः यदि वस्तुनः स्यात् स कथमन्यस्याप्रकाशरूपः स्यात् इति ॥
केचित्तु प्रकाशस्थाने संवेदनाख्यमङ्गीकुर्वन्ति । तमपि पक्षं पूर्ववदेव विकल्प्य दूषयति—संवेदनमपीति । अन्तराऽन्येनेति । पुरुषसंवेदनयोर्मध्ये ज्ञानाख्यातिरिक्तव्यापारेण किं प्रयोजनमित्यर्थः ॥
भट्टपक्षात् विशेषश्च न कश्चित् कथितो भवेत् ।
नोभयातिशयोऽप्येषः दोषद्वितयसम्भवात् ॥ ५४ ॥
संवेदनं च तत् केन ग्राह्यं ज्ञानानुमापकम् ।
अनवस्था भवेदस्य ज्ञाने संवेदनान्तरात् ॥ ५५ ॥
स्वसंवेद्या च संवित्तिः उपरिष्टान्निषेत्स्यते ।
स्मृतिप्रमोषवादे च रजतस्मरणात्मिका ॥ ५६ ॥
कथं ते फलसंवित्तिः स्वप्रकाशा भविष्यति ।
नाभाति स्मृतिरूपेण न चाप्यनुभवात्मना ॥ ५७ ॥
न तृतीयः प्रकारोऽस्ति तत् कथं सा प्रकाशताम् ।
न च क्वचिदनाकारा संवित्तिरनुभूयते ॥ ५८ ॥
इयं संविदयं चार्थ इति नास्ति हि भेदधीः ।
अर्थाकारानुरक्ता तु यदि संवित् प्रकाशते ॥ ५९ ॥
भट्टपक्षादिति । संवेदनस्यार्थगतातिशयरूपत्वात् भाट्टसम्मतप्राकट्यस्थाने संवेदनं मूर्धाभिषिक्तं नान्यो विशेष इत्यर्थः । उभयं—ज्ञाता, विषयश्च । दूषणान्तरमाह—संवेदनमिति । ज्ञानानुमापकं तच्च संवेदनं केन ग्राह्यं इत्यन्वयः । यदि न केनापि, तर्हि लिङ्गज्ञानाभावान्नानुमानोदयः । यद्यन्येन, तर्ह्यनवस्था । यदि च स्वप्रकाशं, तत्तूत्तरत्र दूष्यते इति दूषणाशयः । उपरिष्टात्—विज्ञानाद्वैतनिरासावसरे प्रामाण्यस्वतस्त्वनिराकरणावसरे च । ज्ञानानां स्वप्रकाशत्वे बाधकमप्याह—स्मृतीति । भ्रमस्थले अख्यातिवादिनस्ते एवं वदन्ति—शुक्तिप्रत्यक्षं रजतस्मरणं चेति ज्ञानद्वयरूपमेव इदं रजतमिति ज्ञानम् । तत्र रजतस्मरणं न स्मृतित्वेन गृह्यते इत्यख्यातिरुपपद्यत इति । एतस्मिन् वादे स्मृतित्वस्याग्रहणं कथम् ? ज्ञानं खलु स्वप्रकाशम् । यदि च ज्ञानग्रहणेऽपि तद्गतं स्मृतित्वं न गृहीतं, तर्हि प्रामाण्यमपि तथेति युक्तम् । ननु स्मृतित्वाकाराग्रहणेऽपि स स्वप्रकाशा भवत्येवेति चेत्—न—निर्धर्मकस्य ज्ञानस्य भानासम्भवात् । स्मृतित्वं न गृहीतं, अनुभवत्वमपि न गृहीतं, तर्हि केनाकारेण तज्ज्ञानं भासते ? यदि ज्ञानत्वमात्रेण, तदा प्रामाण्यमपि न भासेत । किञ्च ज्ञानस्य सामान्यतो भानं तु न सम्भवति । निराकारज्ञानभानासम्भवात् । विषयोपरागे च तदधीनं स्मृतित्वप्रत्यक्षत्वादिकमपि भासेत ॥
ननु विषयोपरागातिरिक्तः ज्ञानाकार एव नास्ति । अतो विषयाकारेणैव
वाह्यार्थनिह्नवस्तर्हि त्वया सौगतवत् कृतः ।
स्वप्रकाशमते युक्तं न फलं संविदात्मकम् ॥
तस्मात् फलानुमेयस्य व्यापारस्य न मानता ॥ ६० ॥
गृहीतग्रहणेऽपि प्रामाण्यं वर्तत एव यदपि प्रमाणविशेषणमनधिगतार्थग्राहित्वमभिधीयते परैः— तदपि न साम्प्रतम्—प्रमाणस्य गृहीततदितरविषयप्रवृत्तस्य प्रामाण्ये विशेषाभावात् ॥
ननु गृहीतविषये प्रवृत्तं प्रमाणं किं कुर्यात् ? अगृहीतेऽपि किं कुर्यात् ? प्रमामिति चेत्; गृहीतेऽपि तामेव विधत्ताम् । कृतायां करणायोगादिति चेत्—न—प्रमान्तरकरणात् । प्रमान्तरकरणे किं फलमिति चेत्—प्रमान्तरकरणमेव फलम्; न च फलस्य फलं मृग्यम् । न च प्रयोजनानुवर्ति प्रमाणं भवति ॥ ज्ञानस्यापि भानम् । अतश्च न स्मृतित्वभानापादनप्रसक्तिरिति चेत् सौगतसन्दर्शितोऽयं पन्थाः न वैदिकादरणमर्हति । अर्थाकारातिरिक्तः ज्ञानाकारो यतः नोपलभ्यते, अतः ज्ञानाकारार्थाकारयोरैक्यं सिद्ध्येत् । तेन च भिक्षुपादप्रसरणन्यायेन सर्वसम्प्रतिपन्नज्ञानाकारेणैव निर्बाहे अर्थाकारः कल्पितोऽप्युपपद्यत इति बाह्यार्थनिह्नव एव तदुक्तदिशा सिद्धयेत् । अतः अर्थाकारातिरिक्तः स्मृतित्वाद्याकारः एषितव्य एव । ज्ञानानां स्वप्रकाशत्वे च स्मृतित्वस्यापि ग्रहणावश्यम्भावेन अख्याति [स्मृतिप्रमोष] वाद एव नावतिष्ठेतेति ज्ञानानां न स्वप्रकाशत्वं युक्तम् । न युक्तं च संवेदनप्राकट्याद्यनुमेयस्य ज्ञानस्य कियात्मकतेति ॥
परैः भाट्टैः । तथोक्तम्—“तस्मात् दृढं यदुत्पन्नं न च संवादमृच्छति । ज्ञानान्तरेण विज्ञानं तत्प्रमाणं प्रतीयताम्” ॥ [श्लो। वा। १-१-२ श्लो। ८०] इति । तदितरेति । अगृहीतेत्यर्थः ॥
नन्वस्ति विशेष प्रयोजनतदभावरूप इति शङ्कते—नन्विति । न च प्रबोजनानुवर्ति प्रमाणमिति । तथा च न पर्यनुयोगावकाश इत्यर्थः ॥
कस्य चैष पर्यनुयोगः ? न प्रमाणस्य, अचेतनत्वात् । पुंसस्तु सन्निहिते विषये करणे च सम्भवन्ति ज्ञानानीति सोऽपि किमनुयोज्यताम् ! किमक्षिणी निमील्य नास्से, कस्मात् दृष्टं विषयं पश्यसीति ? प्रमाणस्य तु न किञ्चिद्बाधं पश्यामः, येन तदप्रमाणमिति व्यवस्थापयामः । न च सर्वात्मना वैफल्यं, हेये अहिकण्टकवृकमकरविषधरादौ विषये पुनःपुनरुपलभ्यमाने मनस्सन्तापात् सत्वरं तदपहानाय प्रवृत्तिः; उपादेयेऽपि चन्दनघनसारहारमहिलादौ परिदृश्यमाने प्रीत्यतिशयः स्वसंवेद्य एव भवति ॥
धारावाहिविज्ञानानि समानविषयाण्येव
यच्चेदमुच्यते—
यत्रापि स्यात् परिच्छेदः प्रमाणैरुत्तरैः पुनः ।
नूनं तत्रापि पूर्वेण सोऽर्थो नावधृतस्तथा ॥
[श्लो। वा। १-१-२। श्लो। ७४]
इति तदपि न हृदयङ्गमम् । यतः—
प्रश्नानवसरमेवोपपादयति—कस्य चेति । किमक्षिणी निमील्य॥। पश्यसीति अनुयोज्यतां किम् ? इत्यन्वयः । बाधः—नेदं रजतमित्यादिवदुत्तरकालिकः । एतदुक्तं भवति—ज्ञानं न पुरुषतन्त्रम्, अपि तु करणतन्त्रम् । तथा च दृष्टेऽप्यर्थे चक्षुः पुनः ज्ञानमुत्पादयत्येव । तस्य च बाधाद्यदर्शनात् नाप्रामाण्यं वक्तुं शक्यम् । अन्यथा धारावाहिविज्ञानस्य प्रामाण्यं न स्यात् इति । अधिकमन्यत्र ॥
गृहीतग्राहिणोऽपि प्रयोजनमुपपादयति—न चेत्यादिना । “जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम्” इत्यादिना दोषानुदर्शनस्य वैराग्यहेतुत्वं भगवतोक्तम् । परिदृश्यमान इति । पुनःपुनरिति आवर्तते । तथा चोक्तं भगवता— “ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते” इति । स्वसंवेद्यः—आत्मसाक्षिकः ॥
यत्रापीति । यस्मिन् विषये उत्तरैः प्रमाणैः पुनः परिच्छेदः— विषयीकरणं स्याच्चेत्, तत्रापि पूर्वेण ज्ञानेन तथा—अन्ततः तत्कालवृत्तित्वादिना वा नूनं नावधृतः । उत्तरज्ञानविषयः कालादिः पूर्वज्ञाने न विषयो भवतीत्यनवगतार्थगन्तृत्वं धारावाहिज्ञानस्य वर्तत एवेत्याशयः ॥
नैवाधिकपरिच्छेदः प्रमाणैरुत्तरैर्ध्रुवम् ।
धारावाहिकबोधेषु कोऽधिकोऽर्थः प्रकाशते ॥ ६१ ॥
न हि स्वहस्ते शतकृत्वोऽपि परिदृश्यमाने केचन विशेषाः परिस्फुरन्ति ॥
ननु गृहीतेऽपि विषये प्रवर्तमानं प्रमाणं कदा विरमेत् ? न हि तस्य विरतौ कञ्चिदवधिमधिगच्छामः । प्रमोत्पादस्त्ववधिरनेन लङ्घित एव—उच्यते—विषयान्तरसम्पर्काद्वा श्रमाद्वा उपायसङ्क्षयाद्वा विरामो भविष्यति ॥
अनवस्थापि चेयं न मूलघातिनी । न ह्युत्तरोत्तरविज्ञानोपजननं विना प्रथमज्ञानोत्पादो विहन्यते ॥
मूलक्षतिकरीमाहुरनवस्थां हि दूषणम् ।
मूलसिद्धौ त्वरुच्याऽपि नानवस्था निवार्यते ॥ ६२ ॥
यदि चानुपलब्धार्थग्राहि मानमुपेयते ।
तदयं प्रत्यभिज्ञायाः स्पष्ट एव जलाञ्जलिः ॥ ६३ ॥
नैवेत्यादि । कालस्यातीन्द्रियत्वस्य साधयिष्यमाणत्वात् तत्तत्कालादिविषयत्वेन भेदोपपादनं न सम्भवत्येव । केचनेति । अपूर्वा इति शेषः ॥
लङ्घित एवेति । एकदा प्रमोत्पादनेनैव करणानि हि चरितार्थानि । पुनःपुनरुत्पादने तु अवसानमेव न स्यादिति भावः ॥
ननु एतावत्पर्यन्तं प्रमाऽनुवर्तत इति यदि न नियमः, कथं तर्हि व्यवस्था इति शङ्कायां एतादृश व्यवस्थाभावो न दोषायेति समाधत्ते— अनवस्थापीति । उपजननं विना—उपजननाभावे । उत्पन्नं हि ज्ञानमुत्पन्नमेव, न तस्योत्तरत्रानुवृत्त्याऽननुवृत्त्या वा विघातसम्भवः । यावत्कारणमनुवर्तताम्, का हानिरिति भावः । न हीति । योग्यविभुविशेषगुणा हि स्वानन्तरोत्पन्नविशेषगुणनाश्या इत्यर्थः ॥
जलाञ्जलिरिति । तत्तांशे गृहीतग्राहित्वात् इति भावः । तथा च क्षणभङ्ग एव सिद्ध्येदित्याशयः । विशिष्टवेषेणानधिगतार्थविषयकत्वमपि
यश्चेदानीन्तनास्तित्वप्रमेयाधिक्यलिप्सया ।
तस्याः प्रमाणतामाह सोऽपि वञ्चयतीव नः ॥ ६४ ॥
आविनाशकसद्भावात् अस्तित्वं पूर्वया धिया ।
स्पष्टमेव, तथा चाह चिरस्थायीति गृह्यते ॥ ६५ ॥
तस्मादनुपलब्धार्थग्राहित्वे त्यज्यतां ग्रहः ।
स्मृतेः प्रामाण्यवारणम् नन्वेतस्मिन् परित्यक्ते प्रामाण्यं स्यात् स्मृतेरपि ॥ ६६ ॥
न स्मृतेरप्रमाणत्वं गृहीतग्राहिताकृतम् ।
अपि त्वनर्थजन्यत्वं तदप्रामाण्यकारणम् ॥ ६७ ॥
स्मृतेरनर्थजत्वोपपादनम् ननु कथमनर्थजा स्मृतिः ? तदारूढस्य वस्तुनः तदानीमसत्त्वात् । कथं तर्हि भूतवृष्ट्यनुमानं नानर्थजम्; तत्र धर्मिणोऽनुमेयत्वात्, तस्य च ज्ञानजनकस्य तत्र भावात् । नद्याख्य एव धर्मी वृष्टिमदुपरितनदेशसंसर्गलक्षणेन धर्मेण तद्वाननुमीयते, विशिष्टसलिलपूरयोगित्वात् । स चानुमानग्राह्यो धर्मी विद्यत एवेति नानर्थजमनुमानम् ॥ नोपपादयितुं शक्यमित्याह यश्चेति । आहेति । लोक इति शेषः । इतिः मिन्नक्रमः ॥
एतस्मिन्—अनधिगतार्थगन्तृत्वरूपे विशेषणे । समाधत्ते—नेति ॥
अपवरकनिहितं घटं स्मृत्वा प्रवर्तमानस्यार्थलाभात् कथमनर्थजत्वं स्मृतेरित्याशङ्कते । नन्विति । समाधत्ते—तदारूढस्येति । स्मृतौ विषयीभूतस्येत्यर्थः । तदानीं—स्मरणकाले । तद्वान्—धर्मवान्—वृष्टिमदुपरितनदेशसंसर्गवान् इति यावत् । इयं नदी वृष्टिमदुपरितनदेशसंसर्गवती, कलुषात्यन्तवेगवत्परिपूर्णप्रवाहवत्त्वात्—इत्यनुमानाकारो बोध्यः ॥
प्रातिभं ज्ञानं अर्थजन्यमेव
कथं तर्हि प्रातिभं अनागतार्थग्राहि “श्वो मे भ्राताऽऽगन्ता” इति प्रत्यक्षमर्थजमिष्यते भवद्भिः ? तत्र देशान्तरे वर्तमानस्य भ्रातुः श्वोभाव्यागमनविशेषितस्यैव तथैव ग्रहणम्; तेन च रूपेण गृह्यमाणस्य सतस्तस्य ज्ञानजनकत्वमिति अर्थजमेव प्रातिभम् । स्मरणं तु निर्दग्धपित्रादिविषयमनपेक्षितार्थमेव जायमानं दृष्टमिति अन्यत्र देशान्तरस्थितार्थस्मरणे तदर्थसत्त्वमकारणमेव ॥
तस्मादनर्थजत्वेन स्मृतिप्रामाण्यवारणात् ।
अगृहीतार्थगन्तृत्वं न प्रमाणविशेषणम् ॥ ६८ ॥
समानतन्त्रोक्तत्वात्—भवद्भिरिति । तथा च काणादं सूत्रम्—“आर्षं सिद्धदर्शनं च वेदेभ्यः” [१-२] इति । अत्र भाष्यम्—ऽआम्नायविधातॄणामृषीणां अतीतानागतवर्तमानेष्वतीन्द्रियेष्वर्थेषु धर्मादिषु॥।धर्मविशेषवशाद्यत् प्रातिभं यथार्थनिवेदनं ज्ञानमुत्पद्यते तत् आर्षमित्याचक्षते । तत्तु प्रस्तारेण [बाहुल्येन] देवर्षीणाम् । कदाचिदेव लौकिकानाम्—यथा कन्यका ब्रवीति “श्वो मे भ्राताऽऽगन्तेति हृदयं मे कथयति” इति इति । प्रातिभं च ज्ञानं “प्रणिधानलिङ्गादिज्ञानानां॥।” [न्या। सू। ३-२-३३] इति सूत्रभाष्यदर्शनेन नैय्यायिकानामपि सम्मतमेव ॥
तथैव ग्रहणमिति । श्वोभाव्यागमनविशिष्टत्वेनैव देवदत्तस्य ग्रहणात् अर्थजमेव तज्ज्ञानमिति । नन्वेवं स्मृतेरपि अतीतकालादिविशिष्टघटादिरेव विषय इति तस्याः कथमनर्थजत्वमिति शङ्कायामाह—स्मरणन्त्विति । तथा च विशिष्टस्यैवानुमानम्; तत्र च धर्मिणः तदानीमपि सत्त्वात् नानर्थजं तत् । स्मृतिस्थले तु धर्म्यपि न तदानीमस्तीति अस्ति महान् भेद इति भावः ॥
ननु प्रत्यक्षमप्यसदर्थविषयकं दृश्यत एव शुक्तौ इदं रजतमित्यादि । अतः क्वचित् अर्थजन्यत्वाभावमात्रेण सर्वत्राप्रामाण्यसाधने प्रत्यक्षादीनामपि अप्रामाण्यं स्यात् । निर्दग्धपितृस्मरणेऽपि पिता भूतकालवृत्तित्वेनैव स्मर्यते । तत्काले च पिता आसीदेव । अतः कथं स्मृतेरनर्थजत्वं तदानीं पित्रभावमात्रेण इति शङ्कायामाह—अन्यत्रेति । अयं भावः—शुक्तिरजतादिभ्रमाणामपि अनधिगतार्थगन्तृत्वं प्रामाण्यस्वरूपं न जैमिनिसम्मतम्
शब्दस्यानुपलब्धेऽर्थे प्रामाण्यं चाह जैमिनिः ।
सर्वप्रमाणविषयं भवद्भिर्वर्ण्यते कथम् ॥ ६९ ॥
धर्मकीर्त्युक्तप्रमाणसामान्यलक्षणपरिष्करणम् अपरे पुनः—अविसंवादकत्वं प्रमाणसामान्यलक्षणमाचक्षते । तदुक्तम्—“प्रमाणमविसंवादि ज्ञानम्” इति ॥
अविसंवादकत्वं च प्रापकत्वमुच्यते । ज्ञानस्य प्रापकत्वं— सुखदुःखसाधनसमर्थपदार्थप्राप्तिपरिहारहेतुभूतायाः प्रवृत्तेर्निमित्तप्रदर्शकत्वमेव; ज्ञानप्रदर्शिते हि विषये प्रवृत्तौ सत्यां प्राप्ति- अर्थजत्वं ग्रन्थकृतैबोत्तरत्र निरूप्यते । अतो न तत्तौल्यं स्मृतेः । अत्रेदमवधेयम्— पूर्वानुभवमन्तरा स्मृतिः कदापि न जायत इति सम्प्रतिपन्नं सर्वेषाम् । अतः परमुखनिरीक्षणान्न स्मृतेः प्रमात्वम् । यद्यप्यनुमानादीनामपि पूर्वानुभवापेक्षाऽस्त्येव; अथापि अपूर्वार्थविषयकत्वात् न स्मृतितौल्यम् । एवं तर्हि अपूर्वार्थविषयकत्वमेव प्रमात्वमित्यङ्गीक्रियतामिति तु न युक्तम्—धारावाहिविज्ञानानामप्रमात्वप्रसङ्गात् । वस्तुतस्तु प्रमाणलक्षणे “अर्थोपलब्धिं विदधती” इति विशेषणदानेनैव स्मृतिहेतोः प्रमाणत्वव्यावृत्तिः । अत एव प्रमालक्षणेऽप्यनुभवपदनिवेशः । अतश्च स्मृतेरनुभवत्वाभावादेव न प्रमात्वम् । किं बहुना ! शाब्दज्ञानस्य सम्बन्धग्रहणपूर्वकत्वेन सम्बन्धग्रहणकाले प्रतिभातानामेव शाब्दबोधे भानात् अनधिगतार्थगन्तृत्वं शाब्दबोधादौ दुरुपपादमेव ॥
ननु “अर्थेऽनुपलब्धे तत्प्रमाणम्” इति जैमिनिभिः सूत्रणात् अनवगतार्थगन्तृत्वमेव प्रामाण्यं जैमिनिसम्मतमित्याशङ्कां वारयति—शब्दस्येति । वेदाख्यस्य शब्दप्रमाणस्य हि प्रामाण्यं तादृशं युक्तमेव, तत्तु न सर्वप्रमाणानुगतम् । शब्दसूत्र एव श्रवणादिति भावः ॥
धर्मकीर्तिना प्रमाणवार्तिके “प्रमाणमविसंवादि ज्ञानम्; अर्थक्रियास्थितिः । अविसंवादनम्” इति कथितम् । धर्मोत्तराचार्यैश्च न्यायबिन्दुटीकायां चेदं लक्षणं सम्यक् समर्थितम् । तत्सर्वमालोड्य स्वयं तत् अतिविशदयति— अपरे पुनरित्यादि ॥
सुखदुःखेत्यादि । सुखदुःखसाधनसमर्थेत्यस्य यथासङ्ख्यं पदार्थप्राप्तिपरिहारयोरन्वयः । निमित्तस्य प्रदर्शकत्वमित्यर्थः । अर्थप्रदर्शकत्वमेवोपपादयति—ज्ञानेति । नन्विदमसम्बद्धमुच्यते—“प्रमाणस्य प्रदर्शकत्वमेव
र्भवतीतिप्राप्तिं प्रति प्रमाणस्य प्रदर्शकत्वमेव व्यापारः । प्रदर्शयता हि तेन सोऽर्थः प्रापितो भवति, यथा हन्तव्यं प्रति राज्ञामाज्ञादानमेव हन्तृत्वम् । तदुक्तं “प्रापणशक्तिः प्रामाण्यम्” इति । लोकेऽपि च प्रदर्शितं वस्तु प्रापयतः प्रमाणत्वव्यवहारः ॥
तच्च प्रापकत्वं प्रत्यक्षानुमानयोरुभयोरप्यस्तीति प्रमाणसामान्यलक्षणम् ॥
तत्र प्रत्यक्षस्य वस्तुस्वलक्षणविषयत्वात् तस्य च क्षणिकत्वेन प्राप्त्यसम्भवेऽपि तत्सन्तानप्राप्तेः सन्तानाध्यवसायजननमेव प्रापकत्वम् । अनुमानस्य त्वारोपितार्थविषयत्वेऽपि मूलभूतवस्तुक्षणपारम्पर्यप्रभवत्वात् मणिप्रभामणिबुद्धिवत् तत्प्राप्त्या प्रापकत्वम् । व्यापारः” “अर्थप्रापकत्वं प्रामाण्यमिति च” इत्यत्राह—प्रदर्शयता हीति । लोकेऽपीति । शुक्तौ रजतज्ञानं हि प्रदर्शितं रजतं न प्रापयतीति अप्रमेत्युच्यत इति शेषः ॥
क्षणिकवादे प्रदर्शितस्य प्राप्तिर्न सम्भवत्येवेति शङ्कायामाह—तत्रेति । सन्तानाध्यवसायेति । ज्ञानस्य स्वलक्षणमात्रविषयकस्यैव प्रमात्वात् । अर्थस्य क्षणिकत्वेन प्राप्तिकाले दृष्टस्य नष्टत्वेन दृष्टस्य प्राप्त्यसम्भवेऽपि तत्सन्तानघटकवस्तुप्राप्तेः एकसन्तानविषयकाध्यवसायजननेनैव प्रापकत्वमित्यर्थः । आरोपितेति । धर्मः धर्मिणो भिन्नश्चेत् हिमबद्विन्ध्ययोरिव सम्बन्धानुपपत्तिः । अभिन्नश्चेत्सुतरां सम्बन्धानुपपत्तिः, सम्बन्धस्य द्विनिष्ठत्वात् । अतो धर्मधर्मिरूपवस्तुद्वयं नास्त्येव । किन्तु वस्तुस्वरूपं धर्मधर्मिभावादिकल्पनाहीनमेव । तदेव स्वलक्षणमित्युच्यते । प्रथमाक्षपातसमनन्तरं यत् ज्ञानं प्राथमिकं तत् स्वलक्षणमात्रविषयकं निर्विकल्पं प्रमाणञ्च । अनन्तरं च एकस्यां प्रमदातनौ कामिनीत्वादिकमिव वासनया आकाराः कल्प्यन्ते । वासनाधीनत्वादेव आकाराः मिथ्याः । तद्विषयत्वाच्च सविकल्पकमप्रमाणम् । अनुमानमपि सविकल्परूपत्वादारोपितार्थविषयकमप्रमाणं च इति तेषां मतम् । मणिप्रमेति । तथोक्तं प्रमाणवार्तिके—
“
मणिप्रदीपप्रभयोः मणिबुद्ध्याऽभिधावतोः ।
मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ॥
यथा, तथाऽयथार्थत्वेऽप्यनुमानतदाभयोः ।
अर्थक्रियाऽनुरोधेन प्रमाणत्वं व्यवस्थितम् ॥ इति ॥
”
तदिदमध्यवसितप्रापकत्वं प्रामाण्यं अध्यवसितस्यावस्तुत्वेऽपि तन्मूलवस्तुप्राप्त्या निर्वहति, यथाऽध्यवसितप्रापकं च प्रमाणमिति मतम् । अतश्च पीतशङ्खादिग्राहिणां शङ्खादिमात्रप्राप्तौ सत्यामपि न प्रामाण्यम्, यथाऽध्यवसितस्याप्राप्तेः । अवगतो हि पीतश्शङ्खः, प्राप्यते च श्वेत इति । तस्माद्यथाऽवगतार्थप्रापकत्वं—अविसंवादकत्वं प्रामाण्यमिति ॥
धर्मकीर्त्युक्तप्रमाणसामान्यलक्षणदूषणम्
तदेतदनुपपन्नम्—इदमेव तावद्भवान् व्याचष्टाम् ! किं प्रदर्शितप्रापकं प्रमाणम् ? उताध्यवसितप्रापकम् ?
तत्रानुमाने प्रदर्शनमेव नास्ति, का कथा तत्प्रापणस्य ! प्रत्यक्षे तु बाढं प्रदर्शनमस्ति, न तु प्रदर्शितं प्राप्यते; क्षणिकत्वेनातिक्रान्तत्वात् ॥
अध्यवसितप्रापकत्वमपि दुर्घटम् । अध्यवसायस्य भवन्मते वस्तुविषयत्वाभावात्; अवस्तुनश्च प्राप्तुमशक्यत्वात् । तदुक्तं भवद्भिः—यथाऽध्यवसायमतत्त्वत्वात्, यथातत्त्वं चानध्यवसायात् इति ॥
मूलभूतवस्तुप्राप्तिस्तु काकतालीयम् । न तु तदन्यतरेणापि प्रमाणेनापि स्पृष्टम्, यद्गत्वा प्राप्यते ॥
व्याचष्टाम् । चक्षिङ् व्यक्तायां वाचि, लोटि प्रथमैकवचनम् ॥
प्रदर्शनमेव नास्तीति । अनुमेयस्य वस्तुनः परोक्षत्वादिति भावः ॥
अतिक्रान्तत्वादिति । निर्विकल्पकस्य प्रमात्वेऽपि, न हि दृष्टमेव प्राप्तुं शक्यते, क्षणिकत्वाद्वस्तूनामित्यर्थः । वस्तुविषयत्वाभावादिति । तन्मते हि सविकल्पकगृह्यमाणं वस्तु न सत्यम् । विकल्पस्याप्रमात्वात् । यथेत्यादि । अध्यवसायगृहीतप्रकारेण हि वस्तु मिथ्या, यथाभूतं च वस्तु न विकल्पे भासत इत्यर्थः ॥
ननु तर्हि विकल्पाधीनप्रवृत्तावपि फलं लभ्यत एवेति शङ्कायामाह— मूलेति । अन्यतरेण—प्रत्यक्षेण, अनुमानेन वा ॥
सन्तानप्राप्त्या तत्प्राप्तिरित्यपि न युक्तम्—सन्तानस्य भेदाभेदविकल्पाभ्यामनुपपन्नत्वात् । एतच्च सविस्तरं क्षणभङ्गभङ्गे निरूपयिष्यते ॥
प्रमाणस्य सांवृतसत्यत्वनिरासः
ननु काल्पनिकेऽपि सन्ताने सति संवृत्त्या प्रमाणलक्षणमिदं निर्वक्ष्यते; यथोक्तं—ऽसांव्यवहारिकस्यैतत्प्रमाणस्य लक्षणम्,
अयं भावः—प्रभायां मणिबुद्धिवत् विकल्पानामर्थप्रापकत्वेन यदि प्रामाण्यमुपपाद्यते, तर्हि प्रभायां मणिबुद्धेरपि प्रमात्वप्रसङ्गः । न चेष्टापत्तिः; तर्हि शुक्तौ रजतमितिबुद्धेः अतस्मिंस्तद्विषयायाः प्रमात्वप्रसङ्गः । न च शुक्तिरजतबुद्धेः अर्थप्रापकत्वाभावान्न प्रमात्वमिति वक्तुं शक्यम्; “रङ्गरजतयोरिमे रजतरङ्गे” इत्यादिभ्रमस्थले रजतप्राप्तेः सत्त्वेन प्रमात्वप्रसङ्गः । न च यत् दृष्ट्वा रजतमिति प्रवर्तते तत्प्राप्तौ न रजतप्राप्तिः, रङ्गस्यैव प्राप्तेः । रजतप्राप्तिस्तु रजतस्याकस्मात्तत्र सन्निधानादाकस्मिकीति नार्थप्रापकत्वं रङ्गे रजतबुद्धेरिति वाच्यम्; प्रकृतेऽपि यां प्रभां दृष्ट्वा मणिरिति प्रवृत्तः, तत्र तत्प्राप्तिः—प्रभायाः प्राप्तिः, न तु मणिप्राप्तिः; मणिप्राप्तिस्त्वाकस्मिक्येवेति तुल्यम् । न च प्रभामणिबुद्धेरर्थप्रापकत्व नियतमेवेति आकस्मिकत्वं कथमिति शङ्क्यम्; अविनाभावकृतं तन्नैय्यत्यम्, न तु प्रभाज्ञानाधीनं तत् । अस्तु स एव विशेष इति चेत्, पीतशङ्खभ्रमात् प्रवृत्तौ शङ्खस्य प्राप्त्या कथं तस्य भ्रमत्वमुच्यते ? ननूक्तं तत्र कारणं यथाध्यवसिताऽप्रापकत्वात्, अध्यवसितः पीतः शङ्खः, प्राप्यते तु श्वेतः शङ्ख इति चेत्, प्रकृतेऽपि मणिप्रभायां मणिबुद्धौ महत्त्वादिविशिष्टः अध्ववस्यते, प्राप्यते चाणुर्मणिः । न हि मणितत्प्रभयोराकारभेद एव नास्ति, अनुभवविरोधात् । अतश्च यथाध्यवसितार्थप्रापकत्वं कस्यापि विकल्पस्य नास्त्येवेति भ्रमप्रमाविभाग एव न निर्बोढुं शक्य इति ॥
भेदाभेदेति । सन्तानः किं सन्तानिनो भिन्नः ? उताभिन्नः इति विकल्पाभ्यामित्यर्थः । अत्राद्येऽपसिद्धान्तः; अन्त्ये दोषापरिहारश्च ज्ञेयः ॥
ननु प्रमाणानां परमार्थसत्यत्वाभावेऽपि सांवृतसत्यत्वं वर्तते । द्विविधं हि सत्यम् । तथोक्तं बोधिचर्यावतारे—“संवृतिः परमार्थश्च सत्यद्वयमिदं मतम्” [बोधि। प्रज्ञापार। १] इत्यादि, इत्याशङ्कते—नन्विति ॥
वस्तुतस्त्वनाद्यविद्यावासनाऽऽरोपितग्राह्यग्राहकादिभेदप्रपञ्चं ज्ञानमात्रमेवेदमिति किं प्राप्यते ? को वा प्रापयतिऽ—इति ॥
सोऽयं पलायनप्रकार इव प्रस्तूयते—केयं संवृतिर्नाम ? साऽपि सती, असती वेति विकल्प्यमाना नैव व्यवहारहेतुर्भवति ॥
अविद्यावासनाकृतश्च न भेदव्यवहारः, किन्तु पारमार्थिक एवेति साधयिष्यते ॥
सांवृतसन्तानकल्पनामां वा जात्यवयविप्रभृतयोऽपि सांवृताः किमिति नेष्यन्ते ? वृत्तिविकल्पादिबाधकोपहतत्वादिति चेत्, सन्तानेऽपि समानः पन्था इति कदाशालम्बनमेतत् । तस्मादसम्भवि दर्शितप्रापकत्वमित्यलक्षणमेतत् ॥
अव्याप्तं च धर्मकीर्त्युक्तं प्रमाणलक्षणम्
अव्यापकं चेदं लक्षणम् । उपेक्षणीयविषयबोधस्याव्यभिचारादिविशेषणयोगेन लब्धप्रमाणभावस्याप्यनेनासङ्ग्रहात् ॥
पलायनेति । वादाहवाद्भीतस्येति शेषः । यस्तु वास्तविकं प्रमाणमपि नाभ्युपगच्छति स हि वादेऽनधिकृतः । तथोक्तम्—“सर्वथा सदुपायानां वादमार्गः प्रवर्तते । अधिकारोऽनुपायत्वान्न वादे शून्यवादिनः” [श्लो। वा। १-१-५ निरा। १२८] इति । अत्र उपायः—स्वपक्षसाधकं प्रमाणम् । तथा च वास्तविकप्रमाणानभ्युपगमप्रकटनं वादान्निवृत्तीच्छासूचकमिति भावः ॥
साधयिष्यते—नवमाह्निके ॥
उपेक्षणीयेत्यादि । ज्ञानं हानोपादानान्यतरपर्यवसाय्येवेति न नियमः । सामग्र्यधीनं हि ज्ञानं कदाचित् प्रवृत्तिनिवृत्त्यपर्यवसायि भवत्येव; तदेव उदासीनवस्तुविषयकबोध इत्युच्यते । तच्च नाप्रमाणं—व्यभिचाराद्यभावात्, कारणदोषाभावाच्च । अतस्तत् प्रमाणमेव । तत्र च अर्थप्रापकत्वापरपर्यायअर्थक्रियाकारित्वरूपाविसंवादाभावादव्याप्तिरिति ॥
ननु हेयः, उपादेयश्चेति विषयो द्विविध एव । “परस्परविरोधे तु न प्रकारान्तरस्थितिः” इति न्यायेन, अनुपादेयत्वे हेयत्वमेव स्यात् । अतश्च
ननु कोऽयमुपेक्षणीयो नाम विषयः ? स ह्युपेक्षणीयत्वादेव नोपादीयते चेत्, स तर्हि हेय एव, अनुपादेयत्वादिति—नैतद्युक्तम् —उपेक्षणीयविषयस्य स्वसंवेद्यत्वेनाप्रत्याख्येयत्वात् ॥
हेयोपादेययोरस्ति दुःखप्रीतिनिमित्तता ।
यत्नेन हानोपादाने भवतस्तत्र देहिनाम् ॥
यत्नसाध्यद्वयाभावात् उभयस्याप्यसाधनात् ।
ताभ्यां विसदृशं वस्तु स्वसंविदितमस्ति नः ॥
उपादेये च विषये दृष्टे रागः प्रवर्तते ।
इतरत्र तु विद्वेषः, तत्रोभावपि दुर्लभौ ॥
अनुपादेयत्वमात्रान्न हेयत्वम् यत्तु अनुपादेयत्वात् हेय एवेति—तदप्रयोजकम् । न ह्येवं भवति; यदेतन्नपुंसकं, स पुमान्, अस्त्रीत्वात्; स्त्री वा नपुंसकं, अपुंस्त्वादिति । स्त्रीपुम्भ्यामन्यदेव नपुंसकं, तथोपलम्भात् । एवमुपेक्षणीयोऽपि विषयो हेयोपादेयाभ्यामर्थान्तरं, तथोपलम्भादिति ॥ उदासीनः कश्चन विषयो हेयातिरिक्तो नास्त्येवेति शङ्कते—नन्वित्यादिना । एवं वादिनो मुखमनुभवप्रदर्शनेनाच्छादयति—नैतद्युक्तमित्यादिना । स्वसंवेद्यत्वेन—स्वानुभवसिद्धत्वेन ॥
उभयस्य—हानस्य, उपादानस्य च । ताभ्यां—हेयोपादेयाभ्याम् । इतरत्र—हेये । विद्वेषः—प्रवर्तत इत्याकर्षः । तत्र—उपेक्षणीये—उदासीने । उभावपि—रागः द्वेषश्च । पथि गच्छतः यत् तृणपर्णादिविषयकं ज्ञानं जायते, न तत्र नरस्येप्सा जिहासा वा भवतीत्यनुभवसिद्धमिदम् ॥
यत्त्विति । पथिगतं तृणपर्णादिकं हि पुरुषो नोपादत्ते, किन्तु जहात्येव । अतोऽनुपादेयत्वं हेयत्वरूपमेवेत्यर्थः । अर्थान्तरमिति । उपादित्सया यथोपादानं तथा जिहासया हानं स्यात् । उदासीने जिहासाया अभावात् न तत्र हानपदप्रयोगः । न हि परीक्षायामनुपविष्टः अनुत्तीर्णत्वेन व्यवहियते ॥
यदेतत् तृणपर्णादि चकास्ति पथि गच्छतः ।
न धीश्छत्रादिवत् तत्र न च काकोदरादिवत् ॥
तस्मादुपेक्षणीयज्ञानस्य तमप्रापयतोऽपि प्रामाण्यदर्शनात् न प्रापकत्वं तल्लक्षणम् ॥
अर्थप्रदर्शकत्वमात्रपर्यवसितं अर्थप्रापकत्वं तु ज्ञानस्य व्यभिचरितम्
ननु यावान् प्रमाणस्य व्यापारः प्रापणं प्रति ।
तावान् उपेक्षणीयेऽपि विषये तेन साधितः ॥
उक्तं हि—राज्ञामादेष्टृत्वमेव हन्तृत्वं, प्रदर्शकत्वमेव ज्ञानस्य प्रापकत्वमिति—मैवम्—
एवं प्रदर्शकत्वं स्यात् केवलं तस्य लक्षणम् ।
तच्च प्रचलदर्कांशुजलज्ञानेऽपि दृश्यते ॥
उपेक्षणीये विषये दृष्टान्तं प्रदर्शयति—यदेतदित्यादि । छत्रादिवत्पथि गच्छतः छत्रं उपादेयं हि भवति । काकोदरः—सर्पः । तं— उपेक्षणीयं विषयम् । तल्लक्षणं—प्रमाणलक्षणम् ।
नन्वित्यादि । प्रमाणभूतस्य सम्प्रतिपन्नस्यापि ज्ञानस्य अर्थप्रापकत्वं— अर्थप्रदर्शकत्वमेव । पुरुषस्तु स्वप्रयत्नादर्थं प्राप्नोति । एवञ्च उपेक्षणीयज्ञानस्यापि स्वविषयप्रदर्शकत्वं वर्तत एवेति नाव्याप्तिः प्रमाणलक्षणस्येति आक्षेपाशयः । प्रमाणस्य अर्थप्रापणं प्रति यावान् प्रदर्शनरूपः व्यापारः तावान् व्यापारः उपेक्षणीयेऽपि विषये तेन उपेक्षणीयज्ञानेन साधित इत्यन्वयः । दण्डयितरि राजनि अपराधिपुरुषहन्तृत्वं नाम वधादेष्टृत्वमात्रं, न तु साक्षात् हन्तृत्वम् । तथा प्रमाणस्य प्रापकत्वं अर्थप्रदर्शकत्वमात्रमेवेत्यर्थः ॥
एवमित्यादि । एवं सति तस्य—प्रमाणस्य प्रदर्शकत्वं केवलं लक्षणं स्यात् । न त्वर्थसत्यतायां निर्बन्धः स्यात् । तच्च लक्षणं मरीचिकाजलज्ञानेऽसदर्थविषयेऽपि समानमिति तत्रातिव्याप्तिः स्यात् । यदि च परम्परयाऽर्थप्राप्तिहेतुत्वमपि विवक्षितं, तदा उपेक्षणीयज्ञानेऽव्याप्तिः । सेयमुभयतःपाशा रज्जुरित्यर्थः ॥
अन्ततः स्वलक्षणज्ञानस्यापि प्रामाण्यं दुरुपपादम्
ननु तत्र विपरीताध्यवसायजननादप्रामाण्यम् । दर्शनं हि मरीचिस्वलक्षणविषयमेव सलिलाध्यवसायं तु जनयदप्रमाणीभवति । तथा ह्येकमेव दर्शनं अनुकूलेतरविकल्पोपजननतदनुत्पादभेदात् त्रिधा कथ्यते प्रमाणं, अप्रमाणं, प्रमाणं च न भवतीति । नीलज्ञानं हि नीलं प्रति प्रमाणम्; नीलमिदभित्यनुकूलविकल्पोपजननात् । नीलाव्यतिरेकि क्षणिकत्वमपि तेन गृहीतमेव । तत्र तु प्रमाणं न भवति, अनुकूलेतरविकल्पानुत्पादात् । स्थैर्ये तु तदप्रमाणं, विपरीताध्यवसायकलुषितत्वादिति ॥
यद्येवमस्मिन् प्रक्रमे सुतरामिदं प्रमाणलक्षणं दुस्स्थम्— सन्तानाध्यवसायः प्रापणं प्रति प्रमाणस्य व्यापार इति च वर्णितवानसि । अतश्च यथा मरीचिस्वलक्षणदर्शनमुदकाध्यवसायजननादप्रमाणम्, एवं स्वलक्षणदर्शनमपि तद्विपरीतसन्तानाध्यवसायजननादप्रमाणीभवेदिति । सन्ताने च काल्पनिके व्यवसिते दृश्याभिमुखः किमिति प्रवर्तते ?
ननु स्वलक्षणविषयं दर्शनं प्रमाणभूतं कथमप्रमाणं च भवतीत्याशङ्कायां आह—तथा हीति । अनुकूलेति । अनुकूलविकल्पः, इतरविकल्पश्चेत्यर्थः । हानोपादानप्रयोजकविकल्प इत्यर्थः । नीलं प्रतीति । स्वलक्षणांश इति यावत् । तन्मते स्वरूपातिरिक्तधर्मानङ्गीकारात् नीलाव्यतिरेकीति । अनुकूलेतरेति । अस्थिरमप्यनुकूलं भवति, स्थिरमपि प्रतिकूलं भवति । अतश्च क्षणिकत्वं नानुकूलप्रतिकूलविकल्पप्रयोजकमिति भावः । विपरीतेति । क्षणिकत्वविपरीतेत्यर्थः । क्षणिकत्वमेव वस्तूनां स्वरूपम् । तथा च एकमेव स्वलक्षणदर्शनं स्वलक्षणांशे प्रमाणं, स्थैर्यांशेऽप्रमाणं, क्षणिकत्वांशे तूदासीनमिति अंशभेदात्प्रामाण्याप्रामाण्ययोर्न विरोध इत्युक्तं भवति ॥
प्रक्रमः—प्रयत्न इति यावत् दृश्याभिमुख इति । स्वलक्षणं वस्तु दृश्यं, विकल्पविषयभूतं तु विकल्प्यम् । आद्यं सत्यं, द्वितीयं मिथ्या । एवञ्च विकल्पविषयस्य सन्तानस्य मिथ्यात्वात्, दृश्यस्य च क्षणिकत्वेनाति
दृश्यविकल्प्यावर्थावेकीकृत्य प्रवर्तते यदि वा ।
अविवेकात् प्राप्तिः स्यात्, प्रमाणमपि दूरतस्तस्याः ॥
तस्मान्न प्रापकं प्रमाणम् ॥
बौद्धाभिमतप्रमाणलक्षणदूषणोपसंहारः
अपि च प्राप्त्यप्राप्ती पुरुषेच्छामात्रहेतुके भवतः ।
अर्थप्रतीतिरेव प्रमाणकार्याऽवधार्यते तस्मात् ॥
मानस्य लक्षणमतः कथयद्भिस्तद्विशेषणं वाच्यम् ।
न पुनः प्रापणशक्तिः प्रामाण्यं कथयितुं युक्तम् ॥
साङ्ख्याभिमतप्रमाणलक्षणम् साङ्ख्यास्तु—बुद्धिवृत्तिः प्रमाणं इति प्रतिपन्नाः । विषयाकारपरिणतेन्द्रियादिवृत्त्यनुपातिनी बुद्धिवृत्तिरेव पुरुषमुपरञ्जयन्ती प्रमाणम् । तदुपरक्तो हि पुरुषः प्रतिनियतविषयद्रष्टा सम्पद्यते ॥ क्रान्तत्वात् दृश्यवस्तूद्देशेन प्रवृत्तिः कथं घटताम् । यदि च दृश्यस्य स्वलक्षणस्य, विकल्प्यस्य सन्तानस्य च भेदाग्रहात् पुरुषः प्रवर्तत इत्युच्यते, तदा अज्ञानात् प्रवृत्तिरुक्ता भवति । न चेष्टापत्तिः । ज्ञानस्यैव प्रवृत्तिहेतुत्वेन तस्याप्रामाणिकत्वादिति । तस्याः—अविवेकात्प्राप्तेः प्रमाणमपि दूरतः ॥
अपि चेत्यादि । ज्ञानं ह्यर्थं प्रदर्शयति, न तु प्रापयति । प्राप्त्यप्राप्ती तु पुरुषेच्छादिमूलकप्रयत्नमूलके भवतः । अतस्तावन्मात्रं लक्षणं वक्तव्यम् । एवं सति असदर्थप्रकाशकस्यापि मरीचिकाजलज्ञानादेः प्रामाण्यं स्यादित्युक्ते तद्वारणमात्रं वक्तव्यम्—उक्तश्च क्रमः अव्यभिचारिणीमर्थोपलब्धिं विदधती प्रमाणमिति । एतत्परित्यज्य प्रापणशक्तिः प्रामाण्यमित्यादिकं कथयितुं न युक्तम् । उक्तदूषणजालावतारादिति सङ्क्षेपः ॥
बुद्धिवृत्तीत्यादि । साम्यावस्थापन्नं गुणत्रयमेव प्रकृतिः । तद्विकारभूतं महत्तत्त्वमेव पुरुषसंसारापवर्गोदिहेतुः । तच्च महत्तत्त्वं सात्त्विकराजसतामसभेदात् त्रिविधम् । तत्र यदा सत्त्वसमुद्रेकस्तदा बुद्धितत्त्वसञ्ज्ञां लभते तन्निरासः तदेतदहृदयङ्गमम्—यो हि जानाति, बुध्यते, अध्यवस्यति, न तस्य तत्फलमर्थदर्शनं, अचेतनत्वान्महतः । यस्य चार्थदर्शनं न स जानाति, न बुध्यते, नाध्यवस्यति, इति भिन्नाधिकरणत्वं प्रमाणफलयोः । ज्ञानादिधर्मयोगः प्रमाणं पुंसि न विद्यते, तत्फलमर्थदर्शनं बुद्धौ नास्तीति ॥
अथ स्वच्छतया पुंसो बुद्धिवृत्त्यनुपातिनः ।
बुद्धेर्वा चेतनाकारसंस्पर्श इव लक्ष्यते ॥
एवं सति स्ववाचैव मिथ्यात्वं कथितं भवेत् ।
चिद्धर्मो हि मृषा बुद्धौ, बुद्धिधर्मश्चितौ मृषा ॥
साकारज्ञानवादाच्च नातीवैष विशिष्यते ।
त्वत्पक्ष इत्यतोऽमुष्य तन्निषेधान्निषेधनम् ॥
निरसिष्यते च सकलः कपिलमुनिप्रक्रियाप्रपञ्चोऽयम् ।
तस्मान्न तन्मतेऽपि प्रमाणमवकल्पते किञ्चित् ॥
प्रकाशहेतुत्वात् सत्त्वस्य; ज्ञानस्यापि तादृशत्वात् । इदं च बुद्धितत्त्वं इन्द्रियद्वारा बहिर्निर्गत्य विषयमुपसर्पत्, विषयमावृण्वत् विषयाकारपरिणतं भवति । एवं विषयाकारपरिणतेन्द्रियवृत्त्यनुसारिणी बुद्धिवृत्तिः सन्निहिते स्वच्छे पुरुषे प्रतिफलिता भवति । एवं प्रतिफलिता बुद्धिवृत्तिः प्रमाणम् । इदमेव प्रतिफलनं चिच्छायापत्तिः, पुरुषोपराग इत्यादिशब्दैर्व्यवह्रियते । एवं प्रतिफलने सति पुरुषः प्रमातेत्युच्यते इति तन्मतसङ्क्षेपः ॥
प्रमाणफलयोर्व्यधिकरणत्वात् अयःपिण्डौष्ण्यवत् प्रमातृत्वं मृषैव स्यादिति दूषयति—यो हीत्यादिना । यः—महान्—महत्तत्त्वमिति यावत् । तत्फलं— अध्यवसायफलम् । नाध्यवस्यतीत्यनन्तरं—निर्लिप्तत्वात्पुरुषस्य, अध्यवसायादयो हि महदपरपर्यायाया बुद्धेरेव धर्मा इति शेषः ॥
साकारज्ञानवादः—४१-४२ पुटयोः निरूपितः ॥
प्रमाणसामान्यलक्षणपरीक्षोपसंहारः
तीर्थान्तराभिहितरूपमतः प्रमाणं
नैवापवादरहितं प्रतितर्कयामः ।
तेनामलप्रमितिसाधनमिन्द्रियादि-
साकल्यमेव निरवद्यमुशन्ति मानम् ॥
इति प्रमाणसामान्यलक्षणपरीक्षा
प्रमाणविभागः
तच्चतुर्विधं प्रमाणम् । तदाह सूत्रकारः—
प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि ॥
इह हि भेदवतः प्रथमसूत्रोद्दिष्टस्य त्रयं वक्तव्यं—सामान्यलक्षणं, विभागः, विशेषलक्षणं च । तत्र विशेषलक्षणप्रतिपादकानि चत्वारि सूत्राणि भविष्यन्ति—“इन्द्रियार्थसन्निकर्षोत्पन्नम्॥।” इत्यादीनि । इह तु विभागसामान्यलक्षणे प्रतिपाद्येते ॥
एकेनानेन सूत्रेण द्वयं चाह महामुनिः ।
प्रमाणेषु चतुस्सङ्ख्यं तथा सामान्यलक्षणम् ॥
प्रमाणेयत्तानिर्णयः
प्रत्यक्षानुमानोपमानशब्दसन्निधाने प्रमाणश्रुतिरुच्चरन्ती चत्वार्येव प्रमाणानीति दर्शयति ।
तीर्थं—शास्त्रम् । अपवादरहितमित्यनन्तरं इतिकरणं द्रष्टव्यम्, विधेयविशेषणं वा । प्रतितर्कयामः—विभावयामः । अमलप्रमितिसाधनं—अव्यभिचार्यसन्दिग्धार्थप्रमितिसाधनं इन्द्रियादिसाकल्यमेव निरवद्यं मानमिति ॥
इह—अस्मिन् सूत्रे ॥
प्रत्यक्षानुमानोपमानशब्दसन्निधाने—प्रत्यक्षानुमानोपमानशब्दवाचकपदसमुदायसन्निधाने ॥
ननु न “चत्वारि प्रमाणानि” इति सङ्ख्यावचनः शब्दः श्रूयते; नापि प्रत्यक्षादीन्येवेत्यवधारणश्रुतिरस्ति । तत्कुत इयत्तानियमावगमः ?
शब्दशक्तिस्वभावादिति ब्रूमः । गर्गान् भोजय, यज्ञदत्तदेवदत्तावानय इति विना सङ्ख्याशब्दमेकवारं च भवत्येव द्वित्वादिनियमावगमः । एवमिहापि “प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि” इत्युक्ते सामर्थ्यात् न्यूनाधिकसङ्ख्याव्यवच्छेदोऽवधार्यते—इत्येवं तावत् विभागावगमः ॥
सामान्यलक्षणन्तु प्रमाणपदादेव समाख्यानिर्वचनसामर्थ्यसहितादवगम्यते ॥
प्रमीयते येन तत् प्रमाणमिति करणार्थाभिधायिनः प्रमाणशब्दात् प्रमाकरणं प्रमाणमित्यवगम्यते । तच्च प्रागेव दर्शितम् ॥
“प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम्” इति च मध्ये साध्यसाधनग्रहणमुपाददानः सूत्रकारः सर्वप्रमाणसाधारणं रूपमिदं परिभाषते—यत्साध्यसाधनस्य प्रमाकरणस्य प्रमाणत्वमिति ॥
न श्रूयते इत्यन्वयः ॥
शब्दशक्तिस्वाभाव्यादिति । असति बाधके सर्वं वाक्यं सावधारणमिति हि लौकिकाः परीक्षकाश्च । यदि चातिरिक्तं प्रमाणमभिमतं स्यात् तदा “आदि”प्रभृतिपदं प्रयुज्येतेति भावः । गर्गान्—गर्गगोत्रोद्भवान् । कपिञ्जलाधिकरणन्यायेन त्रयाणामेव बुद्धौ सन्निधानादित्यर्थः ॥
एवमित्यादि । ननु प्रमाणानीति बहुवचनं पञ्चत्वादीनामपि वाचकम् । उत्सर्गतस्तु त्रित्वं प्राप्तम् । एवं सति कथं चतुष्ट्वनियमः ? इति चेत्—उक्तमत्र प्रत्यक्षादिप्रमाणचतुष्टयवाचकपदचतुष्टयसन्निधानात् बहुत्वं चतुष्ट्वे विश्राम्यतीति ॥
समाख्यानिर्वचनम्—योगव्युत्पत्तिनिर्वचनम् ॥
पूर्वोक्तप्रमाणसामान्यलक्षणस्योत्सूत्रत्वशङ्कां निराकरोति—प्रमीयत इत्यादिना ॥
सर्वेति । उपमानप्रकरणेऽपि वक्ष्यति—“साध्यसाधनशब्देन करणस्य प्रमाणताम् । ब्रवीति, एतच्च मन्तव्यं सर्वत्र परिभाषितम्” इति ॥
अशुद्धप्रमितिविधायिनस्तु प्रामाण्यं प्रसज्यत इति स्मृतिसंशयविपर्ययजनकव्यवच्छेदाय प्रत्यक्षसूत्रात् अर्थोत्पन्नमिति अव्यभिचारीति व्यवसायात्मकमिति च पदत्रयमाकृष्यते, तद्धि प्रमाणचतुष्टयसाधारणम् । अर्थोत्पन्नपदेन फलविशेषणेन स्मृतिजनकम्, अव्यभिचारिपदेन विपर्ययाधायि, व्यवसायात्मकपदेन संशयजनकं प्रमाणं व्युदस्यते ॥
अतश्चैवमुक्तं भवति—अर्थविषयमसन्दिग्धं अव्यभिचारि च ज्ञानं येन जन्यते तत् प्रमाणं—इत्येवमेकस्मादेव सूत्रात् सामान्यलक्षणं विभागश्चावगम्यते ॥
एकस्यैव सूत्रस्य विभाग—सामान्यलक्षणपरत्वं युज्यत एव
ननु ! एकस्य सूत्रस्य विभागसामान्यलक्षणपरत्वेन वाक्यमेदः । अर्थैकत्वाच्चैकं वाक्यं युक्तम् ?
उच्यते—
श्रुत्यर्थद्वारकानेकवस्तुसूचनशालिषु ।
सूत्रेष्वनेकार्थविधेः वाक्यभेदो न दूषणम् ॥
प्रमाणान्तरसंस्पर्शशून्ये शब्दैकगोचरे ।
ननु प्रत्यक्षलक्षणसूत्रोक्तानां कथं इतरसाधारण्यम् ? इत्याशङ्कायामाह— तद्धीति । फलं—ज्ञानम् ॥
ननु सूत्रमिदं फलभूतज्ञानलक्षणपरम् । एवञ्चैषां विशेषणानां प्रमाणपरत्वं कथं व्याख्यायते—अव्यभिचारिणीं—अर्थोपलब्धिं विदधतीति—इति शङ्कायामाह—अतश्चेति । एवञ्च येनेतिपदाध्याहारेणायमर्थो लब्ध इत्यर्थः ॥
वाक्यभेदः । विभागार्थमेकवारं पठनीयं, सामान्यलक्षणार्थं च प्रमाणपदं पुनरिति वाक्यभेदः । तथोक्तं जैमिनिना—“अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे स्यात्” [जै। सू। २-१-४६] इति । प्रकृते च प्रत्यक्षानुमानोपमानशब्दाः; प्रमाणानि इति विभागे पूर्ववाक्यस्योत्तरपदाकाङ्क्षा नियतैवेति एकवाक्यतैव युक्तेति ॥
श्रुतीत्यादि । सूत्राणि खलु श्रुत्युक्तार्थविषयाणि; न त्वपूर्वं किञ्चिद्बोधयितुं प्रवृत्तानि । अतश्च सूत्राणि श्रुतिप्रतिपन्नार्थोपस्थापनद्वारा नानार्थसूचकानि भवन्त्येव । अतश्च श्रुतावेव वाक्यभेदादि दूषणं, न सूत्रे ॥
प्रमेये वाक्यभेदादिदूषणं किल दूषणम् ।
अर्थद्वयविधानं हि तत्रैकस्य न युज्यते ॥
सूत्रे वाक्यभेददोषाभावोपपादनम्
“राजा स्वाराज्यकामो वाजपेयेन यजेत” इति गुणविधिपक्षे— स्वाराज्यं प्रति यागो विधातव्यः, यागं प्रति च वाजपेयगुणो विधातव्यः—इत्येकस्य वाक्यस्य परस्परविरुद्धविध्यनुवादादिरूपापत्तेः अर्थद्वयविधानमतिदुर्घटम् ॥
इह पुनः प्रमाणान्तरपरिनिश्चितार्थसूचनचातुर्यमहार्घेषु सूत्रेषु नानार्थविधानं भूषणं भवति, न दूषणम् । अनेकार्थसूचनादेव सूत्रमुच्यते । एतदेव सूत्रकाराणां परं कौशलं, यत् एकेनैव वाक्येन स्वल्पैरेवाक्षरैः अनेकवस्तुसमर्पणम् । अध्याहारेण वा तन्त्रेण वा आवृत्त्या वा तमर्थं प्रत्याययिष्यति सूत्रमिदमिति न दोषः ॥
विभागसामान्यलक्षणयोः कथने न पौर्वापर्यनियमः
विभागसामान्यलक्षणयोर्विधाने पौर्वापर्यनियमो विशेषलक्षणवन्नास्तीति तन्त्रेण युगपदुभयाभिधानमपि न विरुद्ध्यते । विशेषलक्षणं अनुक्ते सामान्यलक्षणे वक्तुमयुक्तमिति तत्रैष नियमः । सामान्यलक्षणविभागयोस्तु यथारुचि प्रतिपादनम्—आदौ विभागः, ततः सामान्यलक्षणम्; आदौ वा सामान्यलक्षणं, ततो विभागः ।
ननु कुतस्तत्रैव वाक्यभेदो दोष इत्याशङ्कायामाह—अर्थद्वयविधानमिति । यत्र शब्देनैवार्थद्वयमवगन्तव्यं तत्र सकृदुच्चरितः शब्दः सकृदेवार्थं गमयतीति न्यायात् एकेनैव शब्देन उच्चरितेन युगपत् अर्थद्वयबोधनं न भवेत्, अतः अर्थान्तरबोधनाय वाक्यमावर्तनीयमिति भवति वाक्यभेदः । प्रकृते तु सूत्रपदैः प्रमाणान्तरावगतार्थसूचनमेव, न विधानमिति न वाक्यभेद इति भावः ॥
ननु सामान्यलक्षणकथनानन्तरमेव विभागो वक्तव्यः । सामान्यतो विदिते हि विभागशङ्का । एवञ्च एकेन सूत्रेणोभयमेकदा कथमवगन्तुं शक्यते ? इत्यत्राह—विभागेत्यादि । समान्यलक्षणविशेषलक्षणयोरेवायं नियमः ।
सिद्धान्तच्छलवदुभयं वा युगपदेव प्रतिपाद्यते—इति तन्त्रेण आवृत्त्या वा तदुपपादने न कश्चिद्दोष इति ॥
प्रमाणसङ्ख्याविषयविप्रतिपत्तिः
आस्तां तावदिदं सूत्रे तन्त्रावृत्त्यादिचिन्तनम् ।
चतुस्सङ्ख्या प्रमाणेषु ननु न क्षम्यते परैः ॥
न्यूनाधिकसङ्ख्याप्रतिषेधेन हि चत्वारि प्रमाणानि प्रतिष्ठाप्येरन्; स च दुरुपपादः । तथा हि—प्रत्यक्षमेवैकं प्रमाणमिति चार्वाकाः । प्रत्यक्षानुमाने द्वे एवेति बौद्धाः । प्रत्यक्षमनुमानमाप्तवचनं चेति त्रीणि प्रमाणानीति साङ्ख्याः । आधिक्यमपि प्रमाणानां मीमांसकप्रभृतयः प्रतिपन्नवन्तः । तत्कथं चत्वार्येव प्रमाणानीति विभागनियमः ? समाधानम् उच्यते—अनुमानप्रामाण्यं वर्णयन्तः बार्हस्पत्यं तावत् उपरिष्टात् प्रतिक्षेप्स्यामः । शब्दस्य चानुमानवैलक्षण्यं तल्लक्षणावसर एव वक्ष्यत इति शाक्यपथोऽपि न युक्तः ॥ न तु सामान्यलक्षणविभागयोरित्यर्थः । तत्र भहर्षिसंवादमेवाह—सिद्धान्तच्छलवदिति । सिद्धान्तस्य छलस्य च स्वरूपलक्षणपरसूत्रे यथा तथेत्यर्थः । व्यक्तीभविष्यतीदं तत्प्रकरणे ॥
आस्तामित्यादि । इदं तन्त्रावृत्त्यादिचिन्तनमित्यन्वयः । द्वे एवेति बौद्धा इति । यद्यपि वैशेषिका अपि कक्षीकर्तव्याः, तथापि न्यायवैशेषिकयोस्समानतन्त्रत्वस्य सम्मतत्वात्परित्यागः । मीमांसकप्रभृतय इति । प्रत्यक्षानुमानोपमानशब्दार्थापत्तयः पञ्चेति प्राभाकराः । तैस्सहानुपलब्धिरपीति षडिति भाट्टाः । एवं ब्रह्मविवर्तवादिप्रमुखाः प्रभृतिपदेन गृह्यन्ते ॥
अनुमानेति । उपरिष्टात्तावदनुमानप्रामाण्यं वर्णयन्तः वयं बार्हस्पत्यं प्रतिक्षेप्स्याम इत्यर्थः । उपरिष्टात् अनुमानप्रामाण्यसमर्थनेन चार्वाकमतं निरस्तं भविष्यतीति भावः । तल्लक्षणावसरे—शब्दलक्षणविचारावसरे ॥
अत्र बौद्धानामाक्षेपः, प्रमाणद्वैविध्यनिदानम्
नन्वेतत् भिक्षवो न क्षमन्ते—
ते हि प्रमेयद्वैविध्यात् प्रमाणं द्विविधं जगुः ।
नान्यः प्रमाणभेदस्य हेतुर्विषयभेदतः ॥
विषयश्च प्रत्यक्षपरोक्षभेदेन स्वलक्षणसामान्यभेदेन वा द्विविध एव । परस्परपरिहारव्यवस्थितात्मसु पदार्थेषु तृतीयराश्यनुप्रवेशाभावात् ॥
तृतीयविषयासत्त्वपरिच्छेद एव कुतस्य इति चेत्—प्रत्यक्षमहिम्न एवेति ब्रूमः । नीले प्रवर्तमानं प्रत्यक्षं नीलं नीलतया परिच्छिनत्तीति तावदविवाद एव । तदेव प्रत्यक्षमनीलमपि व्यवच्छिनत्ति, नीलसंविदि तस्याप्रतिभासात् । नीलज्ञानप्रतिभास्यं हि नीलं—इति तदितरदनीलमेव भवति ॥
तृतीयमपि राशिं अत एव तदपाकरोति । सोऽपि हि राशिः नीलसंविदि भाति ? न वा ?
ते हीत्यादि । तथोक्तं प्रमाणवार्तिके “मानं द्विविधं विषयद्वैविध्यात्, शक्त्यशक्तितः । अर्थक्रियायाम्” इति “अर्थक्रियासमर्थं यत् तदत्र परमार्थसत् । अन्यत् संवृतिसत् प्रोक्तं, ते स्वसामान्यलक्षणे” इति च । स्वसामान्यलक्षणे— स्वलक्षणं सामान्यलक्षणं चेत्यर्थः । स्वलक्षणं—प्रत्यक्षस्य, सामान्यं— अनुमानस्य च विषयः । सामान्यमेव सामान्यलक्षणमित्यप्युच्यते ॥
परिच्छेदः—निर्णयः । तस्य—अनीलस्य । ज्ञानं हि विषयं तदितरव्यावृत्तमेव गृह्णाति, विषयपरिच्छेदरूपत्वात् ज्ञानस्य । एवञ्च यानि वस्तूनि पुरतो भासन्ते तानि सर्वाणि प्रत्यक्षाणि, इतराणि तु परोक्षाणि जगदन्तर्गतं सर्वमपि एकस्य प्रत्यक्षं वा स्यात् परोक्षं वा । एतद्राशिद्वयानन्तर्भूतं हि किञ्चिदपि न वक्तुं शक्यमिति प्रत्यक्षपरोक्षरूपद्वैविध्यं सुस्थिरमिति सङ्ग्रहः । नीलमित्यभिलापसौकर्यात् सर्वप्रदर्शनार्थम् ॥
भाति चेन्नीलमेव स्यात् न प्रकारान्तरं तु तत् ।
नो चेत् तथाऽप्यनीलं स्यात् न प्रकारान्तरं हि तत् ॥
इदमेव हि नीलानीलयोर्लक्षणम्—यत् नीलज्ञानावभास्यत्वानवभास्यत्वे नाम ॥
एवं च प्रत्यक्षं स्वविषये प्रवृत्तं तं प्रत्यक्षतया व्यवस्थापयति, तत्राप्रतिभासमानं परोक्षतया, तृतीयमपि प्रकारं पूर्ववदेव प्रतिक्षिपतीति ॥
एवं स्वलक्षणसामान्यव्यतिरिक्तविषयनिषेधेऽप्येष एव मार्गोऽनुगन्तव्यः । एवं हि प्रत्यक्षेण स्वविषयः परिनिश्चितो भवति । तदुक्तं—तत् परिच्छिनत्ति, अन्यत् व्यवच्छिनत्ति, तृतीयप्रकाराभावं च सूचयतीत्येकप्रमाणव्यापारः इति ॥
अन्यथा विषयस्यैव स्वरूपापरिनिश्चयात् ।
क्वोपादानपरित्यागौ कुर्युरर्थक्रियार्थिनः ॥
तदुक्तम्—“अनलार्थ्यनलं पश्यन्नपि न तिष्ठेन्न प्रतिष्ठेत” इति ॥
भातीत्यादि । नीलमित्याकारे यद्यत् भासते तत्सर्वं नीलमेव खलु स्यात् । अनीलत्वे नीलमित्याकारासम्भवात् । धर्मधर्मिभेदस्तु नास्त्येव । यच्च तस्मिन् न भासते तदनीलमेवेति न प्रकारान्तरसम्भवः । प्रकारान्तरं— नीलानीलाभ्यामन्यः प्रकारः । इदमेवेति । विषयाकारः खलु ज्ञानाकारानुमेयः ॥
एष एवेत्यादि । प्रत्यक्षेण हि स्वलक्षणमात्रं गृह्यते, सामान्यं त्वनुमानविषयः । एवञ्च केचित् स्वलक्षणरूपाः, केचिच्च सामान्यरूपा इति तृतीया विधा वस्तुषु दुर्निरूपेत्यर्थः । अतश्चैकस्यैव प्रमाणस्य प्रवृत्तिः त्रिमुखा भवति । निरूपितं चेदं पूर्वमेव । तत्तद्वस्तुस्वरूपं स्वलक्षणशब्दार्थः । वस्तुद्वयाद्यनुगताकारः सामान्यशब्दार्थः । अन्यथा—एवमेकस्यैव प्रमाणस्य तथा व्यवच्छेदकत्वानङ्गीकारे । क्व—किमधिकृत्य हेयोपादानव्यवहारौ कुर्युः इत्यर्थः । अर्थक्रियार्थिनः इति कर्तृवाचकं पदम् ॥
उक्तमर्थं सदृष्टान्तं संवादयति—तदुक्तमिति । न तिष्ठेदित्यादि । अर्थपरिच्छेदाभावेन न निवर्तेत, नापि प्रवर्तेतेत्यर्थः ॥
निर्विकल्पस्य त्रिमुखत्वाभावेऽपि न दोषः
यद्यपि निर्विकल्पकं प्रत्यक्षं पुरोऽवस्थितवस्तुस्वलक्षणप्रदर्शनमात्रनिष्ठितव्यापारं अविचारकमेव—तथापि तत्पृष्ठभाविनां विकल्पानामेव च दर्शनविषये कृतपरिच्छेद-तदितरविषयव्यवच्छेदतृतीयप्रकाराभावव्यवस्थापनपर्यन्तव्यापारपाटवमवगन्तव्यम्, इतरथा व्यवहाराभावात् ॥
उक्तार्थेऽनुमानोपन्यासः
एवं च परस्परपरिहारव्यवस्थितस्वरूपपदार्थव्यवच्छेदिप्रत्यक्षप्रभावावगतविरोधित्वात् प्रत्यक्षेतरविषययोः तृतीयविषयासत्त्वपरिनिश्चयेऽनुमानमपि प्रवर्तितुमुत्सहते—विरुद्धयोरेकतरपरिच्छेदसमये द्वितीयनिरसनमवश्यं भाति, विरुद्धत्वादेव, शीतोष्णवत् । तृतीयविषयोऽपि तद्विरुद्ध एव, तद्बुद्धावप्रतिभासमानत्वात् ॥
ननु निर्विकल्पे स्वरूपमात्रमेव भासते, तत्कथं तेन इतरव्यवच्छेदादिकं कर्तुं शक्यमित्याशङ्कते—यद्यपीत्यादि । अविचारकमेव—अविमर्शात्मकमेव, प्रकारभानाभावादित्याशयः । व्यवहाराभावात्—व्यवहाराभावप्रसङ्गात् । व्यवहारः खलु ज्ञानाधीनः । ज्ञानं च ज्ञेयपरिच्छेदः । परिच्छेदश्च नियमेन त्रिमुखः ॥
एवञ्चेत्यादि । परस्पराभावरूपतया व्यवस्थितस्वरूपाणां पदार्थानां व्यवच्छेदकस्य प्रत्यक्षस्य प्रभावात् अवगतविरोधयोः प्रत्यक्षपरोक्षविषययोः, तृतीयविषयासत्त्वनिश्चये सति वक्ष्यमाणदिशा अनुमानमपि प्रवर्तितुमुत्सहत इत्यर्थः । तद्विरुद्ध एवेति । शीतमिति बुद्धौ यत् भासते तत् शीतमेव, यन्न भासते तत् तद्विरुद्धमेव, तच्चोष्णं वा स्यात्, अन्यद्वा स्यात्, परन्तु तत्, तद्विरुद्धं चेत्येतदपेक्षया तृतीया कोटिस्तु नास्त्येवेत्यर्थः ॥
तत्त्वतदन्यत्वाभ्यां तृतीयो राशिर्नास्त्येव
ननु न त्वं द्वितीयमिव तृतीयं कदाचिदपि विषयमग्रहीः ? ग्रहणे हि विषयद्वयवत् तस्यापि सत्त्वं स्यात् । अगृहीतस्य च विरोधमविरोधं वा कथं निश्चेतुमर्हसीति ॥
भोः साधो ! नात्र पृथक् ग्रहणमुपयुज्यते, तद्बुद्ध्यनवभासमात्रेणैव तद्विरोधसिद्धेः । विरुद्धं हि तदुच्यते, यत् तस्मिन् गृह्यमाणे न गृह्यते । तदिदमग्रहणमेव विरोधावहमिति न पृथग्ग्रहणमन्वेषणीयम् ॥
एवं इतरेतरपरिहारव्यवस्थितानामर्थानां न तृतीयो राशिरस्तीति सर्वथा सिद्धं विषयद्वैविध्यम् ॥
एवमेव सदसन्नित्यानित्यक्रमयौगपद्यादिषु प्रकारान्तरपराकरणमवगन्तव्यम् ॥
तत्र प्रत्यक्षे स्वलक्षणात्मनि विषये प्रत्यक्षं प्रवर्तते; परोक्षे तु सामान्याकारेऽनुमानमिति—
तृतीयराशिव्यवच्छेद इति न वक्तुं शक्यते, सिद्ध्यसिद्धिभ्यां व्याधातादिति शङ्कते—नन्विति । त्वं द्वितीयमिव तृतीयं विषयं कदाचिदपि नाग्रहीः किम् ? एवञ्च—अगृहीतस्य विरोधमविरोधं वा कथं निश्चेतुमर्हसि । यदि च तृतीयं कदाचिदग्रहीः, तर्हि ग्रहणे विषयद्वयवत् तृतीयमप्यङ्गीकर्तव्यमेव, गृहीतस्य निषेधायोगात् इत्याशङ्काऽभिप्रायः ॥
समाधत्ते—भोः ! साधो इति । पृथग्ग्रहणं—स्वातन्त्र्येण प्रतियोगिविधयाऽनुयोगिविधया वा ग्रहणम् । विशिष्याग्रहणेऽपि तद्विरुद्धत्वेन तद्व्यतिरिक्तं सर्वं क्रोडीक्रियत इत्यर्थः । तथा च तृतीयो राशिर्नास्तीत्युक्ते सर्वं राशिद्वयान्तर्भूतमित्येतावन्मात्रं विवक्षितमिति न दोष इति भावः ॥
इति विषयद्वयवेदने प्रमाणद्वयसिद्धे इत्युत्तरश्लोकेनैकं वाक्यम् ।
प्रमाणद्वयसिद्धे च विषयद्वयवेदने ।
वद कस्यानुरोधेन तृतीयं मानमिष्यताम् ॥
परोक्षे शब्दादीनां नावकाशः न चास्मिन्नेव परोक्षे सामान्यात्मनि विषयेऽनुमानमिव शब्दाद्यपि प्रमाणान्तरं प्रवर्तते इति वक्तुं युक्तम्, एकस्मिन् विषये विरोधविफलत्वाभ्यां अनेकप्रमाणप्रवृत्त्यनुपपत्तेः । पूर्वप्रमाणावगतरूपयोगितया तस्मिन् वस्तुनि पुनः परिच्छिद्यमाने प्रमाणमुत्तरमफलमेव स्यात् । एवं ह्याहुः—“अधिगतमर्थमधिगमयता प्रमाणेन पिष्टं पिष्टं स्यात्” इति । अन्यरूपतया तु तद्ग्रहणं उत्तरप्रमाणेन दुश्शकम्, आद्यप्रमाणविरुद्धत्वादिति ॥
अत एव न सम्प्लवमभ्युपगच्छन्ति नीतिविदः । एकस्मिन् विषये अनेकप्रमाणप्रवृत्तिः सम्प्लवः । स च तथाविधविषयनिरासादेव निरस्तः । न च प्रत्यक्षानुमाने परस्परमपि सम्प्लवेते; स्वलक्षणेऽनुमानस्य सामान्ये प्रत्यक्षस्य च प्रवृत्त्यभावात् ॥ प्रमाणेति । एवं विषयद्वैविध्यानुरोधेन प्रमाणद्वये सिद्धे सति, तृतीयविषयस्याभावेन कीदृशविषयानुरोधेन तृतीयं प्रमाणमङ्गीकर्तव्यमित्यधिक्षेपे ॥
नन्वास्तां विषयद्वैविध्यम् । अथापि प्रामाण्यद्वैविध्यं कुतः ? परोक्षमेव विषयमधिकृत्यानुमानस्येव शब्दस्यापि प्रवृत्तिसम्भवादिति शङ्कते—न चेति । समाधत्ते—एकस्मिन्निति । वैफल्यमुपपादयति—पूर्वेत्यादि । तस्मिन्— एकरूपवत्तया पूर्वमेव परिच्छिन्ने वस्तुनि पूर्वप्रमाणावगतरूपयोगितया पुनः परिच्छिद्यमाने सति उत्तरं प्रमाणमफलं स्यात् परिच्छेद्याभावादित्यर्थः । ननु पूर्वप्रमाणावगतरूपवत्त्वेन ग्रहणे खलु वैफल्यं, अन्यरूपतया ग्रहणे को दोष इति शङ्कायामाह—अन्यरूपतयेति । क्षणभङ्गवादिनामयं सिद्धान्तः स्मर्तव्यः ॥
एकत्र प्रमाणद्वयप्रवृत्तौ विरोधमुपपादयति—अत एवेति । तथाविधेति । प्रमाणद्वयप्रवृत्तियोग्येत्यर्थः ॥
सम्बन्धग्रहणापेक्षमनुमानं स्वलक्षणे ।
सजातीयविजातीयव्यावृत्ते वर्ततां कथम् ॥ ८० ॥
प्रत्यक्षमपि सद्वस्तुसंस्पर्शनियतव्रतम् ।
विकल्पारोपिताकारसामान्यग्राहकं कथम् ॥ ८१ ॥
यच्च शब्दोपमानादि प्रमाणान्तरमिष्यते ।
तदेवं सति कुत्रांशे प्रतिष्ठामधिगच्छतु ॥ ८२ ॥
वस्तु स्वलक्षणं तावत् प्रत्यक्षेणैव मुद्रितम् ।
ततोऽन्यदनुमानेन सम्बन्धापेक्षवृत्तिना ॥ ८३ ॥
नानाप्रमाणगम्यश्च विषयो नास्ति वास्तवः ।
तद्वानवयवी जातिरिति वार्तैकभद्रिका ॥ ८४ ॥
यदि च प्रत्यक्षविषये शब्दानुमानयोरपि वृत्तिरिप्यते तर्हि प्रत्यक्षसंवित्सदृशीमेव ते अपि बुद्धिं विदधाताम्; न चैवमस्ति । तदाहुः
समानविषयत्वे च जायते सदृशी मतिः ।
न चाध्यक्षविया साम्यं एति शब्दानुमानधीः ॥
उक्तमर्थमुपपादयति—सम्बन्धेत्यादि । सम्बन्धग्रहणापेक्षमनुमानं सजातीयविजातीयव्यावृत्ते स्वलक्षणे कथं वर्ततां—प्रवर्तताम् ? सद्वस्तुसंस्पर्शनियतव्रतं—सन्मात्रग्राहि प्रत्यक्षमपि कथं विकल्पारोपिताकारसामान्यग्राहकम् ? एवं सति, यच्च शब्दोपमानादि प्रमाणान्तरमिष्यते, तत्—प्रमाणान्तरं कुत्रांशे विषये प्रतिष्ठामधिगच्छतु इत्यन्वयः । मुद्रितमिति उत्तरार्धेऽप्यन्वेति, परिच्छिन्नमित्यर्थः । ननु “अन्यरूपतया तु तद्ग्रहणं उत्तरप्रमाणेन दुश्शकं, आद्यप्रमाणविरुद्धत्वात्” इत्युक्तिर्न युक्ता; कालभेदेन विरोधपरिहारात् । दृश्यते खलु अवयविजातिप्रभृतयः पदार्थाः कालद्वयसम्बन्धिनः एकदा प्रत्यक्षाः, अन्यदा चानुमानिकाः इति शङ्कायां तादृशं वस्त्वेव नास्तीत्याह—नानेत्यादि । तद्वान्—नानाप्रमाणसम्बन्धी, कालद्वयसम्बन्धी वा ॥
प्रत्यक्षसंवित्सदृशीमेव बुद्धिं ते अपि—शब्दानुमाने अपि विदधातामित्यन्वयः ॥
तेजोऽन्यदेव नक्षत्रशशाङ्कशकलादिषु ।
उद्धाटितजगत्कोशमन्यदेव रवेर्महः ॥
आह च—
अन्यदेवेन्द्रियग्राह्यमन्यः शब्दस्य गोचरः ।
शब्दात् प्रत्येति भिन्नाक्षो न तु प्रत्यक्षमीक्षते ॥
अपि च—
अन्यथैवाग्निसम्बन्धात् दाहं दग्धोऽभिमन्यते ।
अन्यथा दाहशब्देन दाहार्थः सम्प्रतीयते ॥
तस्मादुक्तेन वर्त्मना विषयद्वैविध्यनिश्चयात् न तृतीयं प्रमाणमस्ति, न च सम्प्लव इति ॥
प्रत्यक्षानुमानयोः प्रमाणत्वाविशेषेऽपि महान् विशेषो वर्तत इत्याह— तेज इति । नक्षत्रादितेजः अनुमानस्य, रवेर्महः प्रत्यक्षस्य च दृष्टान्तः । सूर्यालोकमध्यवर्तिनं हि अप्रसक्तसंशयं गृह्णाति । एवं प्रत्यक्षेण गृहीते स्वलक्षणे न सन्देहावकाशः, प्रकाराणामभानात् । नक्षत्रालोकमध्यवर्ति तु विकल्पितमेव गृह्येतेति भावः ॥
भिन्नाक्षः—अन्धः शब्दात् अर्थं यद्यपि अवगच्छति, परन्तु तमर्थं प्रत्यक्षतया नेक्षते । अतो परोक्षोऽर्थः परोक्ष एव, प्रत्यक्षश्च प्रत्यक्ष एवेति एकस्मिन्नर्थे न प्रमाणसम्प्लव इति । अन्यथैवेत्यादि । अग्निसम्बन्धात् दग्धः पुरुषः दाहं अन्यथैव केवलदाहशब्दार्थापेक्षया विलक्षणतयैवाभिमन्यते । दाहशब्देन तु दाहरूपः अर्थः अन्यथैव सम्प्रतीयते । दाहशब्दादुपस्थितः दाहरूपः अर्थः न शरीरव्यथादिकं करोति, अग्निसम्बन्धादनुभूतस्तु दाहरूपः अर्थः शरीरमतीव व्वथयतीति महान् भेदः प्रत्यक्षपरोक्षयोरिति भावः । दग्धः पुरुषः दाहं अन्यथैवाभिमन्यते, दाहशब्देन दाहरूपार्थस्तु अग्निसम्बन्धापेक्षया अन्यथैव सम्प्रतीयत इति वा अन्वयः । तस्मादिति । प्रत्यक्षत्वं परोक्षत्वं चार्थधर्मौ । प्रत्यक्षः सदा सर्वस्य प्रत्यक्ष एव । एवं परोक्षोऽपि । यथा नीलः सदा सर्वान् प्रति नील एव । अतो विषयद्वैविध्यात् प्रमाणं द्विविधमेवेति ॥ सिद्धान्तः अत्राभिधीयते—
यत्तावदिदमाख्यायि राश्यन्तरनिराकृतौ ।
प्रत्यक्षस्यैव सामर्थ्यं इत्येतन्नोपपद्यते ॥ ८५ ॥
पूर्वापरानुसन्धानसामर्थ्यरहितात्मना ।
भारः कथमयं बोढुं अविकल्पेन पार्यते ॥ ८६ ॥
विकल्पाः पुनरुत्प्रेक्षामात्रनिष्ठितशक्तयः ।
तेभ्यो वस्तुव्यवस्थायाः का कथा ? भवतां मते ॥ ८७ ॥
अथवा भवतु नाम नीलादाबुक्तेन प्रकारेण राश्यन्तरनिराकरणम् । प्रत्यक्षपरोक्षभावनिर्णये तु नैष प्रकार योजयितुं शक्यते । विषये हि प्रवृत्तं प्रत्यक्षं विषयस्वरूपमेव परिच्छिनत्ति, न पुनस्तस्य प्रत्यक्षतामपि । नीलमिदमिति हि संवेद्यते, न पुनः प्रत्यक्षमिदमिति । तथा हि—किमिदं विषयस्य प्रत्यक्षत्वम् नाम ? किमक्षविषयत्वम् ? उत अक्षजज्ञानविषयत्वमिति ? तत्राक्षविषयत्वं तावदन्वयव्यतिरेकसमधिगम्यमेव, न प्रत्यक्षगम्यम् । तथाऽऽह भट्टः [औत्पत्तिकसूत्रे अनुमानप्रकरणे श्लो। वा। ६०] — यद्यपीत्यादिना [पु। ७८] प्रदर्शिते समाधाने विद्यमानं दौर्बल्यं प्रदर्शयति— यत्तावदित्यादिना । भवतां हि मते निर्विकल्पकं असमर्थमेव इतरव्यवच्छेदे । सर्वमपि सविकल्पकन्तु अप्रमाणमेवेति केन वस्तुव्यवस्था ? इति सारम् । अविकल्पेन—निर्विकल्पकेन स्वलक्षणप्रत्यक्षेणेति यावत् ॥
वैभवेनाप्याह—अथवेति । अयं प्रत्यक्षः, अयं परोक्षः इति विषययोः प्रत्यक्षत्वपरोक्षत्वे अनुव्यवसायैकगम्ये; न तु प्रत्यक्षत्वपरोक्षत्वे विषयासाधारणधर्मौ । एवञ्च अक्षविषयत्वं अक्षजन्यज्ञानविषयत्वं वा प्रत्यक्षत्वं, तद्विलक्षणं च परोक्षत्वमिति वक्तव्यम् । तद्विषयकहानोपादानाद्यन्वयव्यतिरेकवशादेव इन्द्रियविषयत्वं निश्चेतुं शक्यम् । एवञ्च अक्षविषयत्वं विषयप्रतिभासकाले न गृहीतुं शक्येत । अक्षजन्यज्ञानविषयत्वमपि विषयप्रतिभासकाले न गृहीतुं शक्येत, विषयप्रतिभासकाले ज्ञानस्याप्रतिभासात् । ज्ञानस्य स्वप्रकाशत्व “
न हि श्रावणता नाम प्रत्यक्षेणावगम्यते ।
साऽन्वयव्यतिरेकाभ्यां ज्ञायते बधिरादिषु इति ॥
” अक्षजज्ञानकर्मत्वमपि प्रत्यक्षत्वं तदानीं परिच्छेत्तमशक्यमेव, विषयप्रतिभासकाले तत्प्रतिभासस्याप्रतिभासात् । तद्ग्रहणमन्तरेण च तत्कर्मताग्रहणासम्भवात् ॥ विषयभानदशायां ज्ञानं न भाति कथं पुनर्विषयग्रहणकाले तत्प्रतिभासस्याप्रतिभासः ? नैव युगपदाकारद्वितयं प्रतिभासते; इदं ज्ञानं, अयं चार्थः इति भेदानुपग्रहात् । एकश्चायमाकारः प्रतिभास्यमानः ग्राह्यस्यैव भवितुमर्हति, न ग्राहकस्येति वक्ष्यते ॥ ज्ञानाप्रतिभासेऽपि विषयप्रतिभासो युज्यत एव ननु च नागृहीतं ज्ञानमर्थप्रकाशनकुशलं भवति । आहुः—
“अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिद्ध्यति” इति ।
निरासपूर्वकं अनुव्यवसायवेद्यत्वं स्थापयिष्यते । एवञ्च प्रत्यक्षत्वपरोक्षत्वयोर्विषयधर्मत्वाभावात् तदादाय प्रमाणद्वैविध्यस्थापनं न शक्यमिति सम्पिण्डितार्थः । सा—श्रावणता । श्रोत्रेण शब्दे गृह्यमाणे तद्गतं श्रावणत्वं न गृहीतुं शक्यते । किन्तु अयं शब्दः श्रुतो न वा ? इति संशये अन्वयव्यतिरेकाभ्यामेव निर्णयः । अन्वयव्यतिरेकौ—प्रवृत्त्यप्रवृत्ती । बधिरादीत्यादिना अनवहितचित्तपरिग्रहः । तत्प्रतिभासस्य-ज्ञानप्रतिभासस्य । तद्ग्रहणं—ज्ञानग्रहणम् ॥
कथमिति । विषयप्रतिभासकाले विद्यमानस्य ज्ञानस्य कुतो न भानमित्यर्थः । अनुभवाभावादिति समाधत्ते—नैवेति । अस्तु आकारद्वयाग्रहणं, स अर्थस्यैवेति कथमित्यत्राह—न ग्राहकस्येति । वक्ष्यते— विज्ञानवादनिरासावसरे ॥
अप्रत्यक्षेत्यादि । प्रत्यक्षः उपलम्भः यस्येति बहुव्रीहिः, अनन्तरं नञ्समासः । घटादिविषयकोपलम्भः यस्य न प्रत्यक्षः तस्यार्थदर्शनमिति न सिद्ध्यत्येव । ज्ञानस्यैवानवभासे ज्ञानभास्यस्य विषयस्य प्रतिभासासम्भवादि
तदयुक्तम् । अप्रत्यक्षोपलम्भस्यैवार्थदृष्टिः प्रसिद्ध्यति । प्रत्यक्षोपलम्भस्य तु नार्थदृष्टिः । उपलम्भ एव प्रत्यक्ष इति, द्वितीयाकारानवभासात् कुतोऽर्थदृष्टिः ?
यदि च गृहीतं ज्ञानं अर्थं प्रकाशयेत् न द्वयीं गतिमतिवर्तेत । तद्धि ज्ञानं ज्ञानान्तरग्राह्यं वा भवेत्, स्वप्रकाशं वा । ज्ञानान्तरग्राह्यत्वे त्वनवस्था, मूलक्षतिकरी चेयमित्यन्धमूकं जगृत् स्यात् उपलम्भप्रत्यक्षतापूर्वकार्थप्रत्यक्षवादिनः । नापि स्वप्रकाशं ज्ञानं, ज्ञेयत्वात्, नीलपीतादिवत् । विस्तरतस्तु स्वप्रकाशं विज्ञानं विज्ञानवादिनिराकरणे निराकरिष्यामः ॥
न च ज्ञानस्याप्रत्यक्षतायां तदुत्पादानुत्पादयोरविशेषात् अज्ञत्वं सर्वज्ञत्वं वा परिशङ्कनीयम्; विज्ञानोत्पादमात्रेण ज्ञातुः ज्ञातृत्वसिद्धेः । विषयप्रकाशनस्वभावमेव ज्ञानमुत्पद्यत इति कथमुत्पन्नमनुत्पन्नान्न विशिष्यते ? यथा च नीलादिविषयज्ञानोत्पत्त्या अस्य ज्ञातृत्वं तथा सुखादिविषयज्ञानोत्पत्त्या भोक्तृत्वमिति तत्रापि नातिप्रसङ्गः ॥ त्यर्थः । तदयुक्तमित्यादि । आकारद्वयाननुभवात् यदि भासमानः आकारः ज्ञानस्य, तर्हि अर्थप्रतिभासो न स्यादेव । अतः ज्ञानभानशून्यवादशायामेवाथभानं भवेदिति सुष्ठूक्तं “अप्रत्यक्षोपलम्भस्यैवार्थदृष्टिः प्रसिद्ध्यति” इति ॥
अन्यथा दोषमाह—यदि चेत्यादि । प्रामाणिक्या अनवस्थाया अदोषत्वात् मूलक्षतिकरीति । व्यवद्दारप्रवृत्तिरूपमूलस्यैव क्षतिकरीत्यर्थः । ननु कथं ज्ञानस्य ज्ञेयत्वम् ? ज्ञानविषयत्वं हि ज्ञेयत्वम् ! एवञ्च आत्माश्रयादिः इति शङ्कायामाह—विस्तरस्त्विति ॥
विषयेति । तथा च विषयप्रकाशसद्भावान्नाविशेषप्रसङ्ग इत्यर्थः । ननु तर्हि सुखादेरपि स्वप्रकाशत्वं न स्यात् । सुखादिकं ह्युत्पन्नं सत् स्वयं भासत् इत्यनुभवसिद्धमिति शङ्कायां तत्रापि सुखादिज्ञानोत्पत्त्यैव सुखादिप्रकाशः इति समाधत्ते—यथा चेति ॥
तस्मात् विषयविज्ञानकाले तद्विज्ञानाग्रहणात् न तत्कर्मत्वकृतं विषयप्रत्यक्षत्वमवभासते, तदप्रतिभासे च न परोक्षव्यवच्छेदः, न च तृतीयप्रकारासत्त्वसूचनमिति कथं प्रत्यक्षं विषयद्वित्वसिद्धौ प्रमाणम् ?
विषयद्वैविध्यसाधकानुमानदूषणम्
यच्चानुमानमप्युक्तं विषयद्वयसिद्धये ।
तत् प्रत्यक्षपरिच्छिन्नतद्विरोधनिबन्धनम् ॥ ८८ ॥
विरोधबोधसामर्थ्यं प्रत्यक्षस्य च दूषितम् ।
तदग्रहे च तन्मूलमनुमानं न सिद्ध्यति ॥ ८९ ॥
एवञ्च विषयद्वित्वसाधनानुपपत्तितः ।
तत्कृतस्त्यज्यतामेष प्रमाणद्वित्वदोहदः ॥ ९० ॥
विषयद्वैविध्यमपि न प्रमाणद्वैविध्यनियामकम्
अथ वा सत्यपि विषयद्वैविध्ये, सामग्रीभेदात् फलभेदाच्च प्रमाणभेदो भवन् कथमपाक्रियते !
अन्ये एव हि सामग्रीफले प्रत्यक्षलिङ्गयोः ।
अन्ये एव च सामग्रीफले शब्दोपमानयोः ॥ ९१ ॥
इति वक्ष्यामः । तेन तद्भेदादपि प्रमाणभेदसिद्धेः न द्वे एव प्रमाणे ॥
तद्विज्ञानाग्रहणात्—विषयविषयकविज्ञानाग्रहणात् । तत्कर्मत्वकृतन्तादृशविज्ञानविषयत्वकृतम् ॥
यच्चानुमानमिति । “विरुद्धयोरेकतरपरिच्छेदसमये द्वितीयनिरसनं अवश्यं भाति, विरुद्धत्वादेव” इत्यनुमानमित्यर्थः । प्रत्यक्षपरिच्छिन्नेत्यादि । तेन सह विरोधः यत्र प्रत्यक्षेणैव परिच्छिन्नः, यथा वह्निजलादौ, तत्रैव भवदुक्तरीत्याऽन्यतरपरिशेषः । प्रकृते तु विषयग्रहणकाले प्रत्यक्षत्वादिधर्माणामग्रहणात् तयोर्विरोधोऽपि न गृहीत इति नानुमानप्रवृत्तिरित्यर्थः ॥
पुनरपि वैभवेनाह—अथ वेति । प्रत्यक्षलिङ्गयोः—प्रत्यक्षानुमानयोः । प्राचीनमते ज्ञायमानलिङ्गस्यैवानुमितिकरणत्वात् तथोक्तिः । यथा प्रत्यक्षानुमानयोः प्रमाणत्वाविशेषेऽपि सामग्रीफलयोर्भेदात् भेदः, तथा शब्दोपमाने अपि सामग्रीफलभेदात् भिद्येते एवेति वक्ष्यत इत्यर्थः ॥
साङ्ख्यसम्मतप्रमाणत्रित्वनिरासः
एतेन त्रीणि प्रमाणानीति साङ्ख्यव्याख्याताऽपि तत्सङ्ख्या प्रत्याख्याता; सामग्रीफलभेदेन उपमानस्य चतुर्थप्रमाणस्य प्रतिपादयिष्यमाणत्वात् ॥
प्रमाणसम्प्लवो न दोषः
यत्पुनः एकस्मिन् विषये अनेकप्रमाणप्रसरं निरस्यता सौगतेन सम्प्लवपराकरणमकारि—तदपि मतिमोहविलसितम्; असति सम्प्लवे अनुमानप्रामाण्यप्रतिष्ठापनानुपपत्तेः ॥
न ह्यविज्ञातसम्बन्धं लिङ्गं गमकमिष्यते ।
सम्बन्धधीश्च सम्बन्धिद्वयावगतिपूर्विका ॥ ९२ ॥
सामान्यात्मकसम्बन्धिग्रहणं चानुमानतः ।
तस्मादेव यदीष्येत व्यक्तमन्योन्यसंश्रयम् ॥ ९३ ॥
अनुमानान्तराधीना सम्बन्धिग्रहपूर्विका ।
सम्बन्धाधिगतिर्न स्यात् मन्वन्तरशतैरपि ॥ ९४ ॥
तेन दूरेऽपि सम्बन्धग्राहकं लिङ्गलिङ्गिनोः ।
प्रत्यक्षमुपगन्तव्यं तथा च सति सम्प्लवः ॥ ९५ ॥
साङ्ख्यव्याख्याता—साङ्ख्याभिहितेति यावत् ॥
न हीत्यादि । सम्बन्धः—व्याप्तिरूपः अनौपाधिकः सम्बन्धः । अयमर्थः— व्याप्यत्वेन ज्ञायमानं लिङ्गं हि अनुमितिकरणम् । व्याप्तिश्च सम्बन्धरूपा इत्युक्तम् । सा च द्विनिष्ठा । एवं तादृशसम्बन्धरूपप्रकारविशिष्टत्वात् तत् सामान्यरूपमेव, न तु स्वलक्षणरूपम् । सामान्यं चानुमानस्यैव विषयः । एतादृशसम्बन्धिद्वयज्ञानं किं अनेनैवानुमानेन गृह्यते ? उत अनुमानान्तरेण ? उत प्रत्यक्षेण ? आद्ये—अन्योन्याश्रयः, अनेनानुमानेन सम्बन्धिग्रहणे सत्यनुमानप्रवृत्तिः । अनुमानप्रवृत्त्यनन्तरमेव च सम्बन्धिज्ञानं इति । द्वितीये—अनवस्था । तृतीये—प्रमाणसम्प्लवः । यः सम्बन्धी अनुमानेन गृह्यते स एव प्रत्यक्षेणापि ग्राह्य इति प्रत्यक्षानुमानयोरेकविषयत्वात् इति ॥
बौद्धमते अनुमानोपपत्तिवर्णनम्, तन्निराकरणं च
तत्रैतत्स्यात्—अविदितसौगतकृतान्तानामेतच्चोद्यम् । ते हि—
विकल्पविषये वृत्तिमाहुः शब्दानुमानयोः ।
तेभ्यः सम्बन्धसिद्धौ च नानवस्था, न सम्प्लवः ॥ ९६ ॥
तथा हि—दर्शनसमनन्तरोत्पत्त्यवाप्तदर्शनच्छायाऽतुरज्यमानवपुषो विकल्पाः प्रत्यक्षायन्ते । तदुल्लिखितकाल्पनिकतदितरपरावृत्त स्वभावसामान्याकारप्रतिष्टोऽयमनुमानव्यवहारः पारम्पर्येण मणिप्रभामणिबुद्धिवत् तन्मूल इति तत्प्राप्तयऽवकल्पते, न पुनः प्रत्यक्षैकसमधिगम्यं वस्तु स्पृशतीति कुतः सम्प्लव ? कुतो वाऽनवस्था ?
तदेतद्वञ्चनामात्रम् । यो हि तादात्म्यतदुत्पत्तिस्वभाव प्रतिबन्ध इष्यते स किं वस्तुधर्मः ? विकल्पारोपिताकारधर्मो वा ? तत्र नायमारोपितधर्मो भवितुमर्हति । वस्तु वस्तुना जन्यते, वस्तु च
एतच्चाद्यम्—असति-सम्प्लवे अनुमानानुत्थित्याक्षेपः । तेभ्यः— विकल्पेम्य । दर्शनेत्यादि । प्रत्यक्षं निर्विकल्पसविकल्पभेदभिन्नम् । तत्र प्रथमाक्षसन्निपातजन्यं यत् निर्विकल्पकादिपदवाच्यं स्वलक्षणविषयकं ज्ञानं, तदेव मुख्यं प्रत्यक्षं, प्रमाणभूतं च । तदनन्तरक्षणादिषु तु जायमानं विकल्पशब्दवाच्यं सामान्यविषयकं ज्ञानं तु, प्रत्यक्षपदवाच्यस्वलक्षणज्ञानानुविधायित्वात् प्रत्यक्षपदवाच्यं न प्रमाणम् किन्तु विकल्परूपं तत् । अनुमानादिकमपि विकल्परूपमेव । अथापि—मणिप्रभायां मणिबुद्ध्या प्रवृत्तस्य परम्परया यथा मणिलाभः—तथा विकल्पात् प्रवर्तमानः पुरुषः तन्मूलभूतस्वलक्षणज्ञानविषयं वस्तु प्राप्नोति परम्परया, इति अनुमानस्य प्रत्यक्षस्य च विषयभेदात् न प्रमाणसम्प्लव इति भावः ॥
वञ्चनामात्रमिति । तादात्म्यतदुत्पत्तिरूपा व्याप्तिः किं वस्तुन एव धर्मः ? उत विकल्पविषयस्यावस्तुनः ? नान्त्यः—क्षणिकपरम्परायाः सत्यत्वेन कायकारणभावादेरवस्तुधर्मत्वासम्भवात् । अवस्तुनो हि कुतः कारणापेक्षा ? न हि रज्जुसर्पः कारणजन्यः । एवञ्च व्याप्तिः वस्तुधर्म एवेति वक्तव्यम् । तथा च वस्तु विकल्पविषयो न भवति, तद्धर्मः प्रतिबन्धः परं विकल्पेन गृह्यत इति डिम्भप्रलोमनमिति ॥
वस्तुस्वभावं भवेत् । तस्माद्वस्तुधर्मः प्रतिबन्धः । विकल्पैश्च वस्तु न स्पृश्यते, तत्प्रतिबन्धश्च निश्चीयत इति चित्रम् ॥
इदं च सुभाषितम् ! वस्तुनोः प्रतिबन्धः तादात्म्यादिः, गम्यगमकत्वं च विकल्पारोपितयोरपोहयोः; तदेवं अन्यत्र प्रतिबन्धः अन्यत्र तद्ग्रहणोपायः; अन्यत्र प्रतीतिः, अन्यत्र प्रवृत्तिप्राप्ती इति सर्वं कैतवम् । न च दृश्यसंस्पर्शशून्यात्मनां विकल्पानां दर्शनच्छाया काचन सम्भवति । इदन्ताग्राहित्वसंस्पष्टत्वाद्यपि वस्तुसंस्पर्शरहितमकिञ्चित्करं अप्रमाणत्वानपायात् ॥
अप्रमाणपरिच्छिन्नः प्रतिबन्धश्च, तत्त्वतः ।
न परिच्छिन्न एवेति ततो मिथ्याऽनुमेयधीः ॥ ९७ ॥
अथाभिमतमेवेदं बुद्ध्यारूढत्ववर्णनात् ।
हन्त ! तात्त्विकसम्बन्धसाधनव्यसनेन किम् ? ॥ ९८ ॥
उक्तमर्थं सोपालम्भं प्रकट्यति—इदं चेति । इदमिति किम् ? इत्यत्राह—वस्तुनोरित्यादि । अपोहयोरिति । विकल्पो हि सामान्यविषयकः, सामान्यं चापोहरूपमित्यत एवमुक्तम् । अन्यत्र प्रतिबन्धः— वस्तुनोर्व्याप्तिः । अन्यत्र तद्ग्रहणोपायः अवस्तुनो अपोहयोर्गम्यगमकभावः । अन्यत्र प्रतीतिः—अवस्तुविषयः विकल्पः । अन्यत्र प्रवृत्तिप्राप्ती—अवस्तु [सामान्य] विषयिणी प्रवृत्तिः । प्राप्तिस्तु वस्तुविषयिणीति । विकल्पानां दर्शनच्छायानुरञ्जनात् दर्शनपदवाच्यत्वमित्यंशं दूषयति—न चेति । जपाकुसुमादिर्हि स्वसम्बद्ध एव स्फटिके लौहित्यमापादयति । विकल्पानां तु दर्श-विषयवस्तुसम्बन्ध एव नास्ति । यदि स्यात् तदा प्रमाणसम्प्लवो जागरूकः । एवञ्च विन्ध्यहिमाचलयोरिव सर्वथा सम्बन्धशून्ययोः कथं छायानुवृतिरिति । ननु विकल्पे प्रकारभानेऽपि निर्विकल्पविषयस्य विशेष्यस्यापि भानात्—अस्ति दर्शनच्छायापत्तिर्विकल्पस्येत्यत्राह— इदन्तेति । इदन्ताया विकल्पे कलुषितत्वेन वस्तुरूपत्वं नास्त्येवेत्यर्थः ॥
अन्ततः अनुमानोपपादनमेव न शक्यमित्युपसंहरति—अप्रमाणेति ॥
अनुमाने प्रमाणसम्प्लवः सर्वथा दुर्वारः
यथा च सामान्यविषये प्रत्यक्षाभ्युपगममन्तरेण सम्बन्धग्रहणमघटमानमिति विसंष्ठुलमनुमानं, एवं अवगतसम्म्बन्धस्य द्वितीयलिङ्गदर्शनमपि दुरुपपादमिति ततोऽपि सम्प्लवापलापिनामनुमानमुत्सीदेत् ॥
न ह्यसाधारणांशस्य लिङ्गत्वमुपपद्यते ।
विना न चानुमानेन सामान्यमवगम्यते ॥ ९९ ॥
सैवानवस्था तत्रापि स एवान्योऽन्यसंश्रयः ।
स एव च विकल्पानां सामर्थ्यशमनक्रमः ॥ १०० ॥
अतः सम्बन्धविज्ञानलिङ्गग्रहणपूर्वकम् ।
अनुमानमनिह्नुत्य कथं सम्प्लवनिह्नवः ॥ १०१ ॥
विषयद्वैविध्याङ्गीकारेऽपि प्रमाणसम्प्लवः दुर्वारः
अपि च विषयद्वैविध्यसिद्धावपि प्रत्यक्षानुमाने एव परस्परमपि सम्प्लवेयाताम् । यतः—
प्रत्यक्षत्वं परोक्षोऽपि प्रत्यक्षोऽपि परोक्षताम् ।
देशकालादिभेदेन विषयः प्रतिपद्यते ॥ १०२ ॥
द्वितीयेति । महानसादौ व्याप्तिग्रहणकाले प्रथमं लिङ्गदर्शनम् । ततः पर्वतादौ तादृशव्याप्तिविशिष्टधूमदर्शनं द्वितीयमावश्यकम् । व्याप्तिरूपप्रकारशून्यो हि केवलधूमः न बहिमनुमापयेत् । अतश्च पुनरपि प्रमाणसम्प्लवो दुर्वार इति भावः ॥
एतदेवोपपादयति—न ह्यसाधारणेत्यादि । असाधारणांशः— स्वलक्षणमात्रम् । सामान्यं—व्याप्यत्वादिरूपम् । न हि महानसदृष्ट एव धूमः पर्वते वह्न्यनुमितिहेतुर्भवितुमलमिति यावत् । सैवेत्यादि । “न ह्यविज्ञातसम्बन्धं” इत्यादिनाऽभिहिता इत्यर्थः । अतश्चानुमानप्रामाण्यवादिनां प्रमाणसम्प्लवोऽवर्जनीय इत्युपसंहरति—अत इति । सम्बन्धविज्ञानलिङ्गग्रहणेति द्वन्द्वः । अधिकं पूर्वमेव निरूपितम् । अनिह्नुत्य—अङ्गीकृत्येति यावत् ॥
प्रत्यक्षत्वमित्यादि । परोक्षोऽपि विषयः प्रत्यक्षत्वं, प्रत्यक्षोऽपि विषयः परोक्षतां देशकालादिभेदेन प्रतिपद्यते । दूरात् धूमेन वह्निमनुमाय
क्षणभङ्गं निषेत्स्यामः सन्तानो यश्च कल्पितः ।
दर्शितप्राप्तिसिद्ध्यादौ सम्प्लवेऽपि स तादृशः ॥ १०३ ॥
जात्यवयविप्रभृतीनां स्थिराणां सत्त्वात्प्रमाणसम्प्लवः दुर्वारः यदपि जात्यादिविषयनिषेधमनोरथैः सम्प्लवपराकरणमध्यवसितं—तत्र जात्यादिसमर्थनमेवोत्तरीकरिष्यति ।
तावकैर्दूषणगणैः कालुष्यमपनीयते ।
तद्वानवयवी जातिरिति वार्तैव भद्रिका ॥ १०४ ॥
गृहीतग्राहित्वेऽपि नाप्रामाण्यम् यदपि विरोधवैफल्याभ्यां न सम्प्लव इत्युक्तं—तत्र वैफल्यं, अनधिगतार्थगन्तृत्वविशेषणनिवारणेनैव प्रतिसमाहितम् । विरोधोऽपि नास्ति; पूर्वज्ञानोपमर्देन “नेदं रजतम्” इतिवत् उत्तरविज्ञानानुत्पादात् । अनेकधर्मविसरविशेषितवपुषि धर्मिणि कदाचित् केनचित् कश्चिन्निश्चीयते धर्मविशेष इति को विरोधार्थः ? पर्वतं गच्छन् तमेव वह्निं प्रत्यक्षीकरोति । एवं जलान्तस्थः स्फटिकः परोक्षः स एव वहिःस्थः प्रत्यक्ष इति । ननु वस्तुनः प्रतिक्षणं भङ्गात् अनुमानविषयः अन्यः, अन्य एव च प्रत्यक्षस्येति कथं देशकालादिभेदेन सम्प्लवः ? इत्यत्राह— क्षणभङ्गमिति । किञ्च दर्शितप्राप्तिसिद्धीनां निर्वाहाय यदा सन्तानः कल्पितः, तदा तेनैव प्रमाणसम्प्लवः सिद्ध इत्याह—सन्तान इति ॥
“अवयवी जातिरिति वार्तैकभद्रिका” इत्युक्तं निराकरोति—यदपीति । तद्वान्—नानाप्रमाणगम्यत्वेनापनीतदोषः । अवयवी जातिश्चेति वार्ता साधीयस्येवेत्यर्थः ॥
प्रतिसमाहितमिति । अनधिगतार्थगन्तृत्वस्य प्रमाणलक्षणत्वे हि एकेन प्रमाणेनावगते प्रमाणान्तरप्रवृत्तिर्विफलेति दोषः, तच्च लक्षणं नास्माकमिति न दोष इति भावः । उपमर्दः—बाधः । विसरः—समुदायः । अनेकधर्मविशिष्टो हि धर्मी । स च कदाचिदेकाकारेण, कदाचिच्चाकारान्तरेण गृह्यत इति न विरोध इत्यर्थः ॥
समानविषयत्वेऽपि शब्दलिङ्गयोः विलक्षणप्रतीतिजनकत्वम्
यदपि प्रत्यक्षस्य शब्दलिङ्गयोश्च समानविषयत्वे सति सदृशप्रतीतिजनकत्वमाशङ्कितम्—तत्र केचिदाचक्षते—विषयसाम्येऽप्युपायभेदात् प्रतीतिभेदो भवत्येव; दूराविदूरदेशव्यवस्थितपदार्थप्रतीतिवत् ॥
अन्ये तु मन्यन्ते—नोपायभेदात् प्रतीतिभेदो भवति, अपि तु विषयभेदादेव । सन्निकृष्टविप्रकृष्टग्रहणेऽपि विषयौ भिद्येते । दूरात् सामान्यधर्ममात्रविशिष्टस्य धर्मिणो ग्रहणम्; अदूरात्तु सकलतद्गतविशेषसाक्षात्करणम् । तदिमाः प्रत्यक्षानुमानशब्दप्रमितयः प्रमेयभेदात् भिद्यन्ते ॥
विशेषधर्मसम्बद्धं वस्तु स्पृशति नेत्रधीः ।
व्याप्तिबोधानुसारेण तद्वन्मात्रं तु लैङ्गिकी ॥ १०५ ॥
शब्दात् तत्तदवच्छिन्ना वाच्ये सञ्जायते मतिः ।
शब्दानुवेधशून्या हि न शब्दार्थे मतिर्भवेत् ॥ १०६ ॥
“समानविषयत्वे च जायते सदृशी मतिः” इत्युक्तं प्रतिसमाधत्ते— यदपीति । उपायभेदात् इन्द्रिय—व्याप्तिज्ञान—सादृश्यज्ञान—शब्दरूपोपायभेदादित्यर्थ ॥
ननु एकस्यैव सतः वस्तुनः कथं सन्निकर्षविप्रकर्षभेदात् भेदः इत्यत्राह— दूरादिति । सकलेति । योग्यसकलेत्यर्थः ॥
प्रत्यक्षानुमानादीनां विविच्य विषयान् दर्शयति—विशेषेति । तद्वन्मात्रं—व्याप्त्यवगतधर्ममात्रविशिष्टधर्मिणं लैङ्गिकी मतिः स्पृशतीत्यन्वयः । तत्तदवच्छिन्ना—तत्तद्वाचकशब्दावच्छिन्ना । शब्देनार्थोपस्थितिवेलायां तत्तदर्थस्य तत्तच्छब्दवाच्यतयोपस्थितिरिति भावः । एतदेवोपपादयति— शब्देति । शब्दार्थे—शब्दोपस्थापितेऽर्थे ॥
ननु द्वितीयेऽस्मिन् पक्षे कथं सम्प्लवः ? प्रत्यक्षादीनां विषयव्यवस्थाया प्रत्यक्षादीनां विषयवैलक्षण्येऽपि सम्प्लवोऽप्यस्त्येव
कथं तर्हि तेषां सम्प्लवः ? सर्वत्र विषयभेदस्य दर्शितत्वात्— सत्यम्—धर्म्यभिप्रायेण सम्प्लवः कथ्यते । इमौ तु पक्षौ प्रत्यक्षलक्षणे विस्तरशो विचारयिष्येते । सर्वथा तावदस्ति प्रमाणानां सम्प्लव इति सिद्धम् ॥
भाष्योक्तप्रमाणसम्प्लवोदाहरणम्
तदुदाहरणं तु भाष्यकारः प्रदर्शितवान्—“अग्निराप्तोपदेशात् प्रतीयते, अमुत्रेति; प्रत्यासीदता धूमदर्शनेनानुमीयते; प्रत्यासन्नतरेण उपलभ्यते” इत्यादि ॥
भाष्योक्तप्रमाणव्यवस्थोदाहरणम्
क्वचित्तु व्यवस्था दृश्यते—यथा अग्निहोत्रं जुहुयात् स्वर्गकामःऽ इत्यस्मदादेरागमादेव ज्ञानं, न प्रत्यक्षानुमानाभ्याम् । स्तनयित्नुशब्दश्रवणात् तद्धेतुपरिज्ञानमनुमानादेव, न प्रत्यक्षागमाभ्याम् । स्वहस्तादौ प्रत्यक्षादेव प्रतीतिः, न शब्दानुमानाभ्याम् इति । तस्मात् स्थितमेतत्—प्रायेण प्रमाणानि प्रमेयमभिसम्प्लवन्ते, क्वचित्तु प्रमेये व्यवतिष्ठन्तेऽपीति ॥
प्रमाणसम्प्लवोपसंहारः
इत्युद्धृताखिलपरोदितदोषजात-
सम्पातभीतिरिह सम्प्लव एष सिद्धः ।
सर्वाश्च सौगतमनस्सु विरप्ररूढाः
भग्नाः प्रमाणविषयद्वयसिद्धिवाञ्छाः ॥ १०७ ॥
उक्तत्वात्, इति शङ्कते कथमिति । धर्म्यभिप्रायेणेति । धर्मभेदेन विषयव्यवस्थायामपि तत्तत्प्रमाणगम्यधर्मविशिष्टधर्मिणः सर्वत्रानुगतत्वादस्त्येव सम्प्लव इत्यर्थः । इमौ पक्षौ—केचित्पक्षः, अन्ये तु पक्षश्च ॥
अग्निरित्याद्यर्थानुवादमात्रम् ॥
व्यवतिष्ठन्त इति गन्धादौ विषये द्रष्टव्यम्, घ्राणैकग्राह्यत्वात् गन्धस्य ॥
सम्पातः—“धारा सम्पात आसारः” । इह—अस्मिन् सद्दर्शने । प्रमाणेति । प्रत्यक्षानुमानरूपप्रमाणद्वय—स्वलक्षणसामान्यरूपविषयद्वयसिद्धौ वाञ्छा येषां ते तथा ॥
प्रमाणसङ्ख्याधिक्यपरीक्षा
एवं तावत् न्यूनत्वं सङ्ख्यायाः परीक्षितम्, आधिक्यमिदानीं परीक्ष्यते ॥
तत्र अर्थापत्त्या सह प्रत्यक्षादीनि पञ्च प्रमाणानीति प्राभाकरः ॥
अभावेन सह षडिति भाट्टः ॥
सम्भवैतिह्याभ्यामष्टाविति केचित् ॥
अशक्य एव प्रमाणसङ्ख्यानियम इति सुशिक्षितचार्वाकाः ॥
अर्थापत्तेरतिरिक्तप्रमाणत्वम् ।
तत्र भाट्टास्तावदित्थमर्थापत्तिमाचक्षते दृष्टः श्रुतो वाऽर्थोऽन्यथा नोपपद्यत इत्यर्थान्तरकल्पना अर्थापत्तिः । दृष्ट इति—प्रत्यक्षादिभिः पञ्चभिः प्रमाणैः, श्रुत इति—कुतश्चन लौकिकाद्वैदिकाद्वा शब्दादवगतोऽर्थः; ततोऽन्यथाऽनुपपद्यमानार्थान्तरकल्पनाऽर्थापत्तिः—इत्येवं षट्प्रमाणप्रभवत्वेन षड्विधाऽसौ भवतीति ॥
पञ्चेति । तथाऽऽह शालिकनाथः प्रकरणपञ्चिकायाम्—“तत्र पञ्चविधं मानं प्रत्यक्षमनुमा तथा । शास्त्रं तथोपमानार्थापत्ती इति गुरोर्मतम्” इति ॥
अभावः—अनुपलब्धिः । षडिति । “प्रत्यक्षादेश्च षट्कस्य” “प्रमाणषट्कविज्ञातः” इत्यादि वार्तिकम् ॥
सुशिक्षितेति । प्रथा च “प्रत्यक्षमेकं चार्वाकाः” इति पूर्वमुक्तं तु अशिक्षितचार्वाकविषयमिति भावः ॥
दृष्ट इत्यादि—“यद्यपि दृष्टः श्रुतो वा” इत्यादिः भाष्ये दृश्यते । भाष्यं च भाट्टप्र भाकरसाधारणम् । अतः “भाट्टः” इत्युल्लेखः न युज्यत इव । अथापि भट्टानुयायिभिः पार्थसारथिमिश्रैः विरचितायां शास्त्रदीपिकायां भाष्यानुपूर्वीतौल्यदर्शनात् एतत्प्रकरणे शक्तिनिराकरणसंरम्भस्य दर्शनाच्च पार्थसारथ्यादिमतमेवात्र दूषितमिति प्रतिभाति । अतएव “भाट्टाः” इत्युक्तं, न तु “भट्टः” इति । गुरुमतं तु प्रत्येकं विचार्यते । नोपपद्यत इति । इतिशब्दः हेतुवचनः । दृष्टः श्रुतो वा इत्युक्तं विवृणोति—दृष्ट इतीति । ततः—श्रुतात् अर्थात् । अस्य “कल्पना” इत्यत्रान्वयः । षट्प्रमाणेति—प्रत्यक्षानुमानोपमानशब्दार्थापत्त्यनुपलब्धिरूपेति शेषः ॥
श्रुतार्थापत्तेः वैलक्षण्यम्
दृष्टवचनेनोपलब्धिवाचिना गतार्थत्वेऽपि श्रुतार्थापत्तेः पृथगभिधानं प्रमाणैकदेशविषयत्वेन प्रमेयविषयार्थापत्तिपञ्चकविलक्षणत्वात् ॥
प्रमाणषट्कपूर्विकाः षडर्थापत्तयः
तत्र प्रत्यक्षपूर्विका तावदर्थापत्तिः—प्रत्यक्षावगतदहनसंसर्गोद्गतदाहाख्यकार्यान्यथाऽनुपपत्त्या वह्नेर्दाहशक्तिकल्पना ॥
अनुमानपूर्विका—देशान्तरप्राप्तिलिङ्गानुमितमरीचिमालिगत्यन्यथाऽनुपपत्त्या तस्य गमनशक्तिकल्पना ॥
उपमानपूर्विका—उपमानज्ञानावगतगोपिण्डादिसारूप्यविशिष्टगवयादिप्रमेयाऽन्यथाऽनुपपत्त्या तस्य तज्ज्ञानग्राह्यत्वशक्तिकल्पना इति ॥
ननु दृष्ट इत्यत्र दर्शनपदं न प्रत्यक्षमात्रपरम्, अनुमानादिपरत्वस्यानुपदमेव वर्णितत्वात्; किन्तु प्रमाणसामान्यपरम् । एवञ्च शब्दस्यापि तेनैव गतार्थत्वात् दृष्टः श्रुतो वा इति विभागः किं निबन्धन इत्याशङ्क्य समाधत्ते— दृष्टेति । प्रमाणैकदेशविषयत्वेनेति । इतरत्र अर्थकल्पनम्, अत्र तु प्रमाणस्य शब्दस्य कल्पनमित्यर्थः । स्पष्टीकरिष्यते चेदमुपरिष्टात् ॥
“तत्र प्रत्यक्षतो ज्ञाताद्दाहाद्दहनशक्तता । वह्नेः—” इति श्लोकवार्तिकोक्तं मनसि कृत्वाऽऽह—प्रत्यक्षावगतेति । अस्य दाहाख्यकार्ये अन्वयः । अत एवास्याः प्रत्यक्षपूर्वकत्वम् ॥
“॥।अनुमितात् सूर्ये यानात् तच्छक्तियोग्यता” इत्युक्तं स्मृत्वाऽऽह— देशान्तरेति । देशान्तरप्राप्तिरूपात् लिङ्गात् अनुमिता या मरीचिमालेः— सूर्यस्य गतिः, तदन्यथानुपपत्त्येत्यन्वयः । तस्य—सूर्यस्य ॥
“गवयोपमिताया गोः तज्ज्ञानग्राह्यता मता” [श्लो-वा-अर्था।] इत्युक्त स्मरन्नाह—उपमानेति । उपमानज्ञानावगतं यत् गोपिण्डसारूप्यं, तद्विशिष्टगवयेत्यन्वयः । तस्य—गवयस्य । तज्ज्ञानग्राह्यत्वेति । गवयपदजन्यज्ञानविषयत्वेत्यर्थः ॥
तदिमास्तावदतीन्द्रियशक्तिविषयत्वादर्थापत्तयः प्रमाणान्तरम् । शक्तेः प्रत्यक्षपरिच्छेद्यत्वाऽनुपपत्तेः तदधीनप्रतिबन्धाधिगमवैधुर्येणानुमानविषयत्वायोगात् ॥
अन्वयव्यतिरेकौ हि द्रव्यरूपानुवर्तिनौ ।
शक्तिस्तु तद्गता सूक्ष्मा न ताभ्यामवगम्यते ॥ १०८ ॥
शब्दोपमानयोस्तु अत्र सम्भावनैव नास्तीति अर्थापत्तेरेवैष विषयः ॥
अर्थापत्तिपूर्विका यथा—शब्दकरणिकार्थप्रतीत्यन्यथाऽनुपपत्त्या शब्दस्य वावकशक्तिमवगत्य तदन्यथाऽनुपपत्त्या तस्य नित्यत्वकल्पना । सा चेयं शब्दपरीक्षायां वक्ष्यते ॥
अभावपूर्विका तु भाष्यकारेणोदाहृता—जीवतश्चैत्रस्य गृहाभावमवसाय तदन्यथाऽनुपपत्त्या बहिर्भावकल्पना—इति ॥
ननु कार्यदर्शनादर्शनाभ्यां शक्तेरनुमेयत्वसम्भवे कथमनुमानाविषयत्वम् ? इत्यत्राह—अन्वयेति । अयमर्थः—अन्वयव्यतिरेकदर्शनं च न शक्तिकार्ययोः सम्भवति । किन्तु द्रव्यस्वरूपकार्ययोरेव । न हि वह्निशक्तिसत्त्वे दाहः, तदभावे तदभावः इति वक्तुं शक्यते; शक्तेरतीन्द्रियत्वात् । अतश्च यथा प्रत्यक्षेण न शक्तिसिद्धि तथाऽनुमानेनापि; किन्त्वर्थापत्त्यैवेति । अत्रशक्तिसिद्धौ ॥
“अभिधानप्रसिद्ध्यर्थमर्थापत्त्यावबोधितात् । शब्दे बोधकसामर्थ्यात् तन्नित्यत्वप्रकल्पनम्” इति वार्तिकमनुसन्दधन्नाह—अर्थापत्तीति । तदन्यथानुपपत्त्या—वाचकत्वशक्तिमत्त्वान्यथाऽनुपपत्त्या । शब्देऽनित्ये तन्नाशे शक्तेरपि नाशात् कालान्तरे तत्पदात् शाब्दबोधानुपपत्तिरित्यादिकं शब्दनित्यत्वाधिकरणेऽभिधास्यत—इति वार्तिकोक्तं स्वयमप्यनुसरन् आह—सा चेयमिति ॥
भाष्यकारेण—शबरस्वामिना ॥
अर्थापत्तिः नानुमानम्
ननु दृष्टेन अदृष्टसिद्धेरनुमानमेवेदं स्यात्—नानुमानं—सामग्र्यभावात् । पक्षधर्मतादिसामग्र्या यज्ज्ञानमुत्पद्यते तदनुमानमिति तार्किकस्थितिः । सा चेह नास्ति । बहिर्भावविशिष्टे चैत्रे, चैत्रविशिष्टे बहिर्भावे वाऽनुमेये कस्य लिङ्गत्वमिति चिन्त्यम् । गृहाभावविशिष्टस्य वा चैत्रस्य ? चैत्राभावविशिष्टस्य वा गृहस्य ? गृहे चैत्राभावस्य वा ? तत्र चैत्रादर्शनस्य वा ? न चैषामन्यतमस्यापि पक्षधर्मत्वमस्ति । न हि गृहं वा, चैत्रो वा, तदभावो वा, तददर्शनं वा चैत्रस्य धर्मः, तद्वहिर्भावस्य वेत्यपक्षधर्मत्वादन्यतमस्यापि न लिङ्गत्वम् ॥
प्रमेयानुप्रवेशाच्च अर्थापत्तिर्नानुमानम्
अपि च प्रमेयानुप्रवेशप्रसङ्गादपि नेदमनुमानम् । तथा हि— आगमावगतजीवनस्य गृहाभावेन चैत्रस्य बहिर्भावः परिकल्प्यते, इतरथा मृतेनानैकान्तिको हेतुः स्यात् । अभावश्च गृहीतः सन् बहिर्भावमवगमयति, नागृहीतः; धूमवत् । अभावग्रहणं च
“ज्ञातसम्बन्धस्यैकदेशदर्शनात् एकदेशान्तरेऽसन्निकृष्टेऽर्थे बुद्धिरनुमानं” इति मीमांसकैर्लक्षणात् तार्किकेत्युक्तम् । “बहिर्देशविशिष्टेऽर्थे देशे वा तद्विशेषिते । प्रमेये, यो गृहाभावः पक्षधर्मस्त्वसौ कथम् ? तदभावविशिष्टं तु गृहं धर्मो न कस्यचित्—”इतिवार्तिकोक्तमुपपादयति—बहिर्भावेत्यादि । यद्यप्यर्थापत्तिसामान्यस्यैवानुमानानन्तर्भावो वर्णनीयः, अथापि अभावपूर्विकां दृष्टान्तीकृत्य शाबरभाष्येऽतिरिक्तत्वसाधनात् स एव क्रमोऽत्राप्यादृतः । बहिर्भावचैत्रयोः पक्षसाध्ययोर्विशेषणविशेष्यभावे विनिगमनाविरहेणानुमानद्वयमुपन्यस्तम् । एवमुत्तरप्रकरणं सर्वं श्लोकवार्तिकमनुसृत्यैव वर्णितमिति पृथक्पृथक् न वार्तिकं सर्वत्र प्रदर्श्यते, ग्रन्थविस्तरमियेत्यवगन्तव्यम् ॥
“जीवतश्च गृहाभावः पक्षधर्मोऽत्र कल्प्यते । तत्संवित्तिर्बहिर्भावं न चाबुध्वोपजायते—”इत्यादिवार्तिकोक्तमनुवदति—अपि चेत्यादिना । प्रमेयानुप्रवेशो नाम प्रमाणेन गम्यस्य प्रमेयस्य प्रमाण एव क्रोडीकरणम् । चैत्रः,
सकलसदुपलम्भकप्रमाणप्रत्यस्तमयपूर्वकम् । इह तु सदुपलम्भकमस्त्येव जीवनग्राहि प्रमाणम् । जीवनं हि क्वचिदस्तित्वमुच्यते । अप्रत्यस्तमिते तु सदुपलम्भके प्रमाणे कथमभावः प्रवर्तेत ? इति प्रवर्तमान एवासौ सदुपलम्भकं प्रमाणं पृथग्विषयमुपस्थापयति—बहिरस्य भावः, गृहे त्वभाव इति । तेन जीवतो बहिर्भावव्यवस्थापनपूर्वकगृहाभावग्रहणोपपत्तेः प्रमेयानुप्रवेशः ॥
अनुमाने तु धूमादिलिङ्गग्रहणसमये न मनागपि तदनुमेयदहनलिङ्ग्यनुप्रवेशस्पर्शो विद्यत इति ॥
ननु अर्थापत्तावपि किं प्रमेयानुप्रवेशो न दोषः ?—न दोष इति ब्रूमः—प्रमाणद्वयसमर्पितैकवस्तुविषयाभावभावसमर्थनार्थमर्थापत्तिः प्रवर्तमाना प्रमेयद्वयं परामृशत्येव, अन्यथा तद्धटनायोगात् । बहिर्वर्तते, गृहेऽसत्वादित्युक्ते मृते व्यभिचारात्, शास्त्राद्यवगतजीवनस्य गृहेऽसत्वादित्येव हेतुर्वाच्यः । गृहे अभावग्रहश्च प्रतियोगिग्राहकसर्वप्रमाणाप्रवृत्तावेव सम्भवेत् । आगमाद्यवगतत्वात् चैत्रसद्भावस्य प्रतियोगिग्राहकप्रमाणप्रवृत्त्या अभावाग्रहणे प्रसक्ते, गृहे चैत्रे प्रवर्तमानं अनुपलब्धिरूपं प्रमाणं, सत्त्वग्राहकं प्रमाणं अन्यविषयं नियोजयति, सत्त्वस्य बहिर्विषयत्वादिति । एवञ्च अनुमानेन निर्णेयः यः बहिःसद्भावरूपोऽर्थः स लिङ्गज्ञान एव विषयो भवत्येव । आगमात्तु सत्त्वं गृहीतं, अनुपलब्ध्या त्वसत्त्वं; न ह्युभयमेकस्य सम्भवति; नाप्यन्यतराप्रामाण्यं, तुल्यत्वात्, अतः इदं प्रमाणद्वयं विषयभेदेन परस्परविरोधं व्यवस्थापयति—गृहेऽभावः, बहिःसत्त्वमिति । एवञ्च हेतुज्ञानकाल एव साध्यस्यापि स्वयं व्यवस्थापनात् न प्रमाणान्तरापेक्षाऽस्तीति अर्थापत्तिर्नानुमानमिति । न ह्येवमनुमाने लिङ्गज्ञानकाल एव साध्यस्यापि भानम् । अतो विलक्षणेयमर्थापत्तिः ॥
“अन्यथानुपपत्तौ तु” इत्यादिना वार्तिकोक्तं वैलक्षण्यमुपपादयितुं स्वयमाक्षिपति—नन्विति । तत्रापि हि प्रमाणप्रवृत्तिकाल एव प्रमेयनिर्णयः उक्तरीत्याऽवर्जनीयः । ततश्च अर्थापत्त्या गम्यं किमन्यदस्तीत्यर्थः । प्रमाणद्वयं— भावाभावग्राहकं प्रमाणद्वयम् । परामृशत्येवेति । एतदुक्तं भवति—अयमेव
अतश्च येयमागमादनियतदेशतया क्वचिदस्तीति संवित्तिरभूत्, सैवेयं गृहाभावे गृहीते बहिरस्तीति संवित्तिरधुना संवृत्ता । तदतो वैलक्षण्यात् नानुमानमर्थापत्तिः ॥
अर्थापत्तिस्थले व्याप्तिग्रहणमपि न सम्भवति
अतश्चैवं—सम्बन्धग्रहणाभावात्—
भावाभावौ हि नैकेन युगपद्वह्निधूमवत् ।
प्रतिबद्धतया बोद्धुं शक्यौ गृहबहिःस्थितौ ॥ १०९ ॥
अन्यथाऽनुपपत्त्या च प्रथमं प्रतिबन्धधीः ।
पश्चाद्यद्यनुमानत्वं उच्यते, काममुच्यताम् ॥ ११० ॥
नन्वस्त्येव गृहद्वारे वर्तिनः सङ्गतिग्रहः ।
भावेनाभावसिद्धौ तु कथमेष भविष्यति ॥ १११ ॥
यत्र गृहे चैत्रस्य भावमवगम्य तदन्यथाऽनुपपत्त्या तदन्यदेशेषु नास्तित्वमवगम्यते—तत्र देशानामानन्त्यात् दुरधिगमः प्रतिबन्धः ॥ प्रवृत्तिक्रमः अर्थापत्तिप्रमाणस्य । अयमेव च विशेषोऽस्येतरप्रमाणेभ्यः । अत एवेयमतिरिक्तं प्रमाणमुच्यतेऽस्माभिः । अतोऽयमपर्यनुयोज्यः व्याप्त्यादिकमन्तराऽपि इन्द्रियं कथमर्थमवगमयतीत्यादिवत् । तत्तत्प्रमाणानामसाधारण्यं तु सर्वसम्मतमिति ॥
सम्बन्धग्रहणाभावात् इत्यस्य “प्रतिबद्धतया बोद्धुं न हि शक्यौ” इत्यनेनान्वयः । अन्यथेत्यादि । यदि च, प्रतिबन्ध [सम्बधः—व्याप्तिः] ग्रहणं प्रथमतः अर्थापत्त्यैव, ततश्चानुमानं प्रवर्तत इत्युच्यते—तदा सिद्धमर्थापत्तेरतिरिक्तत्वमित्यर्थः । तदेतदुक्तं वार्तिक—“तेन सम्बन्धवेलायां सम्बन्ध्यन्यतरो ध्रुवम् । अर्थापत्त्याऽवगन्तव्यः पश्चादस्त्वनुमानता” इति ॥
ननु सम्बन्धग्रहः अर्थापत्त्यैव सम्भवेदिति नायं निर्बन्धः । गृहद्वारे स्थितः पुरुषः बहिर्गच्छन्तं देवदत्तं पश्यन् युगपदेव देवदत्ते बहिर्भावं गृहेऽभावं च प्रत्यक्षेणैव गृह्णाति यदा तदा तयोः प्रत्यक्षेणैव सङ्गतिग्रहः सुलभ इति शङ्कते— नन्विति । समाधत्ते—भावेनेति । एष—सङ्गतिग्रहः ॥
उक्तमेवोपपादयति—यतेति । एवञ्चोक्तस्थलेऽर्थापत्तिमन्तरा निर्वाहेऽपि भावेनाभावनिर्णयस्थले अर्थापत्तिरेव शरणीकरणीयेति भावः ॥
अनग्निव्यतिरेकस्य निश्चये धूमस्य का वार्तेति चेत्—उच्यते— तत्र धूमज्वलनयोः अन्वयग्रहणसम्भवात् न व्यतिरेकग्रहणमाद्रियेरन् । भूयोदर्शनसुलभनियमज्ञानसम्पाद्यमानसाध्याधिगमनिर्वृत्तमनसां किमनग्निव्यतिरेकनिश्चयेन ? इह पुनरन्वयावसायसमय एव गम्यधर्मस्य दुरवगमत्वमुक्तं, अनन्तदेशवृत्तित्वात् ॥
अनुपलब्ध्या तन्निश्चय इति चेत्—न—मन्दिरव्यतिरिक्तसकलभुवनतलगततदभावनिश्चयस्य नियतदेशयाऽनुपलब्ध्या कर्तुमशक्यत्वात् । तेषु तेषु देशान्तरेषु परिभ्रमन् अनुपलब्ध्या तदभावं निश्चेष्यामीति चेत्—मैवम्—
गत्वा गत्वाऽपि तान् देशान् नास्य जानामि नास्तिताम् ।
कौशाम्ब्यास्त्वयि निष्क्रान्ते तत्प्रवेशादिशङ्कया ॥ ११२ ॥
तस्मादभूमिरियमसर्वज्ञानामित्यर्थापत्त्यैव तन्निश्चयः ॥
ननु इत्थममुमर्थमनुमानान्निश्चेष्यामः—देशान्तराणि, चैत्रशून्यानि, चैत्राधिष्ठितदेशव्यतिरिक्तत्वात्, तत्समीपदेशवदिति —न—प्रत्यनुमानोपहतत्वात्—देशान्तराणि, चैत्राव्यतिरिक्तानि, तत्समीपदेशव्यतिरिक्तत्वात्, चैत्राधिष्ठितदेशवत् इति । तस्मान्नियतदेशोपलभ्यमानपरिभितपरिमाणपुरुषशरीरान्यथाऽनुपपत्त्यैव तदितरसकलदेशनास्तित्वाबधारणं तस्येति सिद्धम् ॥
अनग्नीति । न ह्यनग्निः सर्वो देशः सुगमः । अग्निशून्यदेशव्यावृत्तताज्ञानाभावे च धूमे व्यभिचारसंशयः स्यादेवेति शेषः । तत्र व्यतिरेकव्याप्तेरन्वयव्याप्त्युपष्टम्भकत्वमेव, न स्वातन्त्र्येण वस्तुसाधकत्वमिति समाधत्ते— तत्रेति ॥
तन्निश्चयः—देशान्तरासत्त्वनिश्चयः । तत्प्रवेशः—कौशाम्बीप्रवेशः । न हि सकलं भुवनतलं युगपदेकेनास्मादृशेनोपलब्धुं शक्यमिति भावः । इयं—भावेनाभावसिद्धिः ॥
तत्समीपदेशव्यतिरिक्तत्वादिति । चैत्रशून्यत्वेनास्मदिन्द्रियादिगोचरदेशव्यतिरिक्तत्वादित्यर्थः ॥
श्रुतार्थापत्तिः
पीनो दिवा च नात्तीति साकाङ्क्षवचनश्रुतेः ।
तदेकदेशविज्ञानं श्रुतार्थापत्तिरुच्यते ॥ ११३ ॥
इहैवंविधसाकाङ्क्षवचनश्रवणे सति समुपजायमानं रजनीभोजनविज्ञानं, प्रमाणान्तरकरणकं भवितुमर्हति, प्रत्यक्षादेरसन्निधानात् । न प्रत्यक्षं क्षपाभक्षणप्रतीतिक्षमम्, परोक्षत्वात् । नानुमानं, अनवगतसम्बन्धस्यापि तत्प्रतीतेः । उपमानादेस्तु शङ्कैव नोदेति । तस्मात् शाब्द एव रात्रिभोजनप्रत्ययः ॥
शब्दश्च न श्रूयमाण इममर्थमभिवदितुमलम्, एकस्य वाक्यस्य विधिनिषेधरूपार्थद्वयसमर्थनशून्यत्वात् । अत्र च रात्र्यादिपदानामश्रवणात्; अपदार्थस्य वाक्यार्थत्वानुपपत्तेः । न च विभावरीभोजनलक्षणोऽर्थः दिवावाक्यपदार्थानां भेदः संसर्गो वा; येनायमपदार्थोऽपि प्रतीयेत् ॥
पीन इत्यादि । कुमारिलोऽप्याह—“पीनो दिवा न भुङ्क्ते चेत्येवमादिवचःश्रुतौ । रात्रिभोजनविज्ञानं श्रुतार्थापत्तिरुच्यते” इति । परन्तु प्रमेयमर्मविज्ञानचतुरो ग्रन्थकारः श्रुतार्थापत्तिप्रवृत्तिमूलं सूचयितुं पूर्वपक्षमलङ्कृत्य किञ्चिदन्यथा व्याचख्याविति बोद्धव्यम् । आकाङ्क्षा चात्र अर्थविषयिणी । क्षपाभक्षणं—रात्रिभोजनम् । सम्बन्धः—व्याप्तिः । शङ्कैव नोदेतीति । उपमानस्य शक्तिमात्रग्राहकत्वादिति शेषः । शाब्द एवेति । “तस्मात् वाक्यान्तरेणायं बुद्धिस्थेन प्रतीयते” इति वार्तिकमपि स्मर्तव्यम् ॥
ननु पदादनुपस्थितस्यापि संसर्गादेः वाक्यार्थत्वं सिद्धान्तेऽङ्गीक्रियते, एवं प्रकृतेऽप्यस्तु शाब्द एव बोधः इत्याशङ्क्य समाधत्ते—न चेत्यादिना । अपदार्थोऽपि, भेदः, संसर्गो वा वाक्यार्थो भवितुमर्हति, न तदतिरिक्तः रात्रिभोजनादिरित्यर्थः । भेदः-विशेषः, व्यक्तिविशेष इति यावत् । घटत्वादिशक्तानां घटादिपदानां “घटमानय” इत्यादौ व्यक्तिविशेषबोधकत्वं तात्पर्यवशात् इति व्यक्तिविशेषः परस्परसंसर्गश्च वाक्यार्थः सर्वैरभ्युपेयः । प्रकृते च रात्रिभोजनादिर्नान्यतररूप इति न शब्दस्तद्बोधक इति भावः ॥
तस्मात् कल्प्यागमकृतं नक्तमत्तीति वेदनम् ।
तद्वाक्यकल्पनायां च प्रमाणं परिचिन्त्यताम् ॥ ११४ ॥
नाऽध्यक्षमनभिव्यक्तशब्दग्रहणशक्तिमत् ।
न लिङ्गम्; अगृहीत्वाऽपि व्याप्तिं तदवधारणात् ॥ ११५ ॥
क्वचिन्नित्यपरोक्षत्वात् व्याप्तिबोधोऽपि दुर्घटः ।
विनियोक्त्री श्रुतिर्यत्र कल्प्या प्रकरणादिभिः ॥ ११६ ॥
विनियोक्त्री हि श्रुतिः सर्वत्र प्रकरणादौ वाक्यविद्भिरभ्युपगम्यते । यथोक्तम्—
“विनियोक्त्री श्रुतिस्तावत् सर्वेष्वेतेषु सम्मता” इति । तस्याश्च नित्यपरोक्षत्वात् दुरधिगमस्तत्र लिङ्गस्य प्रतिबन्धः । न च निशापदवचनस्य सत्ताऽनुमातुमपि शक्या, तस्यां साध्यायां भावाभावोभयधर्मकस्य हेतोरसिद्धविरुद्धानैकान्तिकत्वेनाहेतुत्वात् । न चात्र धर्मः कश्चिदुपलभ्यते; यस्तेन तद्वान्, पर्वत इवाग्निमान् अनुमीयते ॥
“तस्मात् वाक्यान्तरेणायं बुद्धिस्थेन प्रतीयते । तस्य चागमिकत्वेऽपि यत्तद्वाक्यं प्रतीयते । प्रमाणं तस्य वक्तव्यं प्रत्यक्षादिषु यद्भवेत् । न ह्यनुच्चारिते वाक्ये प्रत्यक्षं तावदिष्यते । नानुमानं न चेदं हि दृष्टं तेन सह क्वचित्” इत्यादिवार्तिकोक्तं परिष्कृत्यानुवदति—तस्मादित्यादि । तस्मात्—भेदसंसर्गातिरिक्तविषयकशाब्दबोधं प्रति पदजन्यपदार्थोपस्थितेः कारणत्वात् । अध्यक्षं अनभिव्यक्तशब्दग्रहणशक्तिमत् न इत्यन्वय । मीमांसकमते शब्दस्य नित्यत्वात् अभिव्यक्तस्यैव श्रोत्रेण ग्रहणात् तथोक्तिः । न लिङ्गं—नानुमानम् । प्राचीनमते ज्ञायमानलिङ्गस्यैव अनुमितिकरणत्वेनानुमानशब्दवाच्यत्वम् । अत्र हेतुः—अगृहीत्वेति । व्याप्तिमगृहीत्वाऽपीत्यन्वयः । कल्प्यतां व्याप्तिज्ञानमित्यत्राह—क्वचिदिति ॥
शब्दस्य कुत्रचित् नित्यपरोक्षत्वमेवोपपादयति—विनियोक्त्रीत्यादिना । यत्र—यद्विषये । प्रकरणादिभिः यद्विषयिणी विनियाक्त्री श्रुतिः कल्प्या, तस्याः श्रुतेर्नित्यपरोक्षत्वं सिद्धमेवेत्यर्थः । प्रकरणादिभिरित्यादिना लिङ्गवाक्यस्थानसमाख्यानां ग्रहणम् । उक्तमर्थमुपपादयति—विनियोक्त्री हीत्यादि । वाक्यविद्भिः—मीमांसकैः । विनियोक्त्रीत्यादि । श्रुतिलिङ्गवाक्य
न च दिवावाक्यं, तदर्थो वा निशावचनानुमाने लिङ्गतां प्रतिपत्तुमर्हति—
अश्रुते हि निशावाक्ये कथं तद्धर्मताग्रहः ।
श्रुते तु तस्मिन् तद्धर्मग्रहणे किं प्रयोजनम् ? ॥ ११७ ॥
दिवावाक्यपदार्थानां तिष्ठतु लिङ्गत्वं, अनुपपद्यमानतयाऽपि न निशावाक्यप्रत्यायकत्वमवकल्पते । पदार्थानां हि सामान्यात्मकत्वात् विशेषमन्तरेणानुपपत्तिः स्यात्, न वाक्यान्तरमन्तरेण । तस्मात् श्रूयमाणं वाक्यमेव तदेकदेशमन्तरेण निराकाङ्क्षप्रत्ययोत्पादकस्वव्यापारनिर्वहणसन्धिमनधिगच्छत् तदेकदेशमाक्षिपतीति सेयं प्रमाणैकदेशविषया श्रुतार्थापत्तिः ॥ प्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात् [जै। सू। ३-३-१४] इति सूत्रवार्तिकस्थोऽयं श्लोकः । एतेषु प्रकरणादिषु सर्वेष्वपि स्थलेषु श्रुतिस्तावत् विनियोक्त्री—विनियोजिका सम्मता इत्यन्वयार्थः । अयं भावः । विनियोजकप्रमाणेषु श्रुत्यादिषु मध्ये पूर्वपूर्वं प्रबलम् । उत्तरोत्तरं दुर्बलम् । लिङ्गादीनि हि न साक्षाद्विनियोजकानि, किन्तु श्रुतिकल्पनयैव । धर्मस्य चोदनालक्षणत्वेन श्रुत्येकसमधिगम्यत्वात् । एवञ्च सर्वत्रापि लिङ्गादिषु श्रुतिकल्पनैव । सा च श्रुतिर्नित्यानुमेयैवेति तद्विषयकव्याप्तिग्रहणं दुर्घटमेव । अत्र वार्तिके सर्वेष्वेतेष्विति दृष्ट्या “सर्वत्र प्रकरणादौ” इत्युक्तम् । यद्यपि लिङ्गादिष्वित्येव वक्तव्यं, प्राथम्यात्; अथापि प्रकरणसमाख्ययोः बलाबलविचारप्रकरणस्थत्वात् अस्य वार्तिकस्य, “प्रकरणादौ” इत्युक्तम् ॥
दिवावाक्यं, तदर्थो वा निशावाक्यानुमाने लिङ्गमिति विकल्प्य दूषयति— न चेत्यादिना । दिवावाक्यं—दिवा न भुङ्क्त इति वाक्यम् । तद्धर्मताग्रहः— निशावाक्यधर्मत्वेन ज्ञानं दिवावाक्यस्य कथम् ? इत्यर्थः । धर्मः—लिङ्गम् । यदि च निशाभोजनवाक्यं श्रुतम्, तर्हि तदनुमानं नोत्तिष्ठत्येवेति ॥
तदर्थो वा ? इति द्वितीयकल्पं प्रतिवक्ति—दिवावाक्यपदार्थानामिति । सामान्यं हि पदार्थः । विशेषश्च वाक्यार्थः । सामान्यानां विशेषं विनाऽनुपपद्यमानत्वात् विशेषप्रत्यायनायालं भवेद्वा तत्पदार्थः, न तु वाक्यापस्थापनाय । अतश्चात्र निशावाक्योपस्थितिः प्रमाणान्तराधीनैवेत्यर्थापत्तिसिद्धिरित्यर्थः ॥
श्रुतार्थापत्तिस्थले अर्थानुमानमपि न सम्भवति
ननु ! अर्थादेव कथमर्थान्तरं न कल्प्यते ? पीवरत्वं हि नाम भोजनकार्यमुपलभ्यमानं स्वकारणं भोजनं, अनलमिव धूमः समुपस्थापयतु । तच्च वचसा कालविशेषे निषिद्धं तदितरकालविशेषविषयं भविष्यतीति किं वचनानुमानेन ? वचनमपि नादृष्टार्थं, अपि तु अर्थगत्यर्थमेव । तत् अस्य साक्षादर्थस्यैव कल्प्यमानस्य को दोषः ? यद्व्यवधानमाश्रीयते—उच्यते—
शब्दप्रमाणमार्गेऽस्मिन् अनभिज्ञोऽसि वालक ।
प्रमाणतैव न ह्यस्य साकाङ्क्षज्ञानकारिणः ॥ ११८ ॥
पुरोऽवस्थितवस्त्वंशदर्शनप्राप्तिनिर्वृति ।
प्रत्यक्षादि यथा मानं न तथा शाब्दमिष्यते ॥ ११९ ॥
वाक्यार्थे हि समग्राङ्गपरिपूरणसुस्थिते ।
अविधाय धियं नास्य व्यापारः पर्यवस्यति ॥ १२० ॥
तावन्तं बोधमाधाय प्रामाण्यं लभते वचः ।
तदर्थवाचकत्वाच्च तद्वाक्यं वाक्यमिष्यते ॥ १२१ ॥
तच्च—भोजनं च । कालविशेषे—दिवा । तदितरकालः—रात्रिः । अर्थगतिः—अर्थावगतिः । वचनं खलु अर्थावगत्यर्थमेवापेक्षणीयं, अर्थावगतेरेवानुमानतः सिद्धौ मध्ये किं तेन ? इत्यर्थः । तत्—तस्मात् । अस्य— अनुमितेन शब्देनाभिधेयस्य ॥
समाधत्ते—उच्यत इति । न हीत्यादि । निराकाङ्क्षबोधजनकं वाक्यमेव प्रमाणम् । न तु यथाकथञ्चिद्यत्किञ्चिदर्थोपस्थापकम्, उन्मत्तवाक्यानामपि प्रामाण्यापत्तेः । प्रत्यक्षं तु पुरोवस्थितवस्तुनि सर्वांशानवगाहनेऽपि यावद्ग्रहणं प्रमाणं भवितुमर्हति । न तथा शब्दः । शब्दस्य व्यापारो हि यावताऽर्थपरिसमाप्तिः तावत्पर्यन्तं भवत्येव, एवं च श्रुतार्थापत्तिस्थले, श्रुतेन वाक्येन पूर्णस्य बोधस्यानिर्वाहात्, तद्वाक्यस्य प्रामाण्यरक्षणायैव वा वाक्यान्तरमेव कल्पनीयं, न त्वर्थमात्रं यथाकथञ्चित् । एवञ्च वाक्यान्तरकल्पनस्यैवावसरप्राप्तत्वे मध्ये तत्पूर्वं अर्थकल्पनायाः का प्रसक्तिः ? इति समुदितार्थः ।
शब्दैकदेशश्रुत्याऽतः तदंशपरिपूरणम् ।
कल्प्यं, प्रथममर्थस्य कुतस्तेन विना गतिः ? ॥ १२२ ॥
प्रायः श्रुतार्थापत्त्या च वेदः कार्येषु पूर्यते ।
तत्रार्थः कल्प्यमानस्तु न भवेदेव वैदिकः ॥ १२३ ॥
यो मन्त्रैरष्टकालिङ्गैः तद्विधिः परिकल्प्यते ।
श्रुतिर्लिङ्गादिभिर्या च कल्प्यते विनियोजिका ॥ १२४ ॥
विश्वजित्यधिकारश्च यागकर्तव्यताश्रुतेः ।
उत्पत्तिवाक्यं सौर्यादावधिकारविधिश्रुतेः ॥ १२५ ॥
तदंशेति । अश्रुतांशेत्यर्थः । कल्प्यमित्येतदनन्तरं एवञ्चेति शेषः । तेन विना—शब्देन विना अर्थस्य प्रथमं कुतः—केन प्रमाणेन गतिः—अवगतिः— निश्चय इति यावत् । ननु श्रुतार्थापत्तिस्थले कल्प्यमानस्यार्थस्य शाब्दरूपत्वानङ्गीकारे का हानिः ? इति शङ्कायां “प्रायशश्चानया वेदे व्यवहारो व्यवस्थितः । सोऽवैदिकः प्रसज्येत यद्येषा भिद्यते ततः” इति वार्तिकोक्तमेव समाधानमाह— प्राय इत्यादि । वार्तिकस्यायमर्थः—अनया—श्रुतार्थापत्त्यैव प्रायः सर्वोऽपि व्यवहारो वेदे वर्तते । केवलश्रौतार्थापेक्षया श्रुत्यर्थापत्तिसिद्धार्था एव वेदेषु बहवः । एवं स्थिते तेऽर्था यदि अनुमानगम्याः, तर्हि वेदगम्या न स्युः; तथा च तेषां धर्मत्वमपि न स्यात् । चोदनालक्षणत्वाद्धर्मस्येति । वैदिकः— वेदैकगम्यः ॥
पूर्वं “कार्येषु” इत्युक्तार्थे निदर्शनान्याह—यो मन्त्रैरित्यादि । अष्टकाश्राद्धलिङ्गभूतैः मन्त्रैः अष्टकाश्राद्धविधिः कल्पनीया । तथा च स्मृत्यधिकरणशाबरभाष्यम्—“अष्टकालिङ्गाश्च मन्त्रा वेदे दृश्यन्ते—तेषु वैदिकशब्दानुमानमिति” इति । श्रुतिरित्यादिः । अयमंशः पूर्वमेव “विनियोक्त्री श्रुतिस्तावत्” इत्यत्र विवृतः । विश्वजितीत्यादिः । विश्वजिदधिकरणे [४-३-५] “तस्मात् श्रुत्येकदेशः सः” इतिश्रुतिखण्डभाष्याद्युक्तोऽयमर्थः । अधिकारः—फलसम्बन्धः । फलमन्तरा कर्तव्यत्वविधिर्न सम्भवतीति फलविधिरनुमेयेति यावत् । सौर्यादाविति । “सौर्यं चरुं निर्वपेत् ब्रह्मवर्चसकामः” इत्यस्य कर्मस्वरूपबोधकोत्पत्तिविध्यभावे वैयर्थ्यमिति दर्शपूर्णमासादिविधे
ऐन्द्राग्नादिविकारेषु कार्यमात्रोपदेशतः ।
यश्च प्रकृतिवद्भावो विध्यन्त उपपाद्यते ॥ १२६ ॥
तदेवमादौ सम्बन्धग्रहणानुपपत्तितः ।
श्रुतार्थापत्तिरेवैषा निस्सपत्नं विजृम्भते ॥ १२७ ॥
तया श्रुत्यैकदेशश्च सर्वत्र परिकल्प्यते ।
अर्थकल्पनपक्षे तु न स्याद्वेदैकगम्यता ॥ १२८ ॥
इत्यर्थापत्तिरुक्तैषा षट्प्रमाणसमुद्भवा ।
अर्थापत्तिः न प्रमाणान्तरम्, किन्तु अनुमानमेव एषा विचार्यमाणा तु भिद्यते नानुमानतः ॥ १२९ ॥
प्रतिबन्धाद्विना वस्तु न वस्त्वन्तरबोधकम् ।
यं कञ्चिदर्थमालोक्य न यः कश्चित् प्रतीयते ॥ १३० ॥
प्रतिबन्धोऽपि नाज्ञातः प्रयाति मतिहेतुताम् ।
न सद्योजातबालादेः उद्भवन्ति तथा धियः ॥ १३१ ॥
रतिदेशेन कल्पनमित्युक्तं सप्तमचतुर्थपादे । ऐन्द्राग्नेत्यादि । “ऐन्द्राग्नमेकादशकपालं निर्वपेत् प्रजाकामः” इति विहिताया इष्टेः दर्शपूर्णमासोक्ताङ्गातिदेश इति “इष्टिषु दर्शपूर्णमासयोः प्रवृत्तिः स्यात्” [८-२-५] इत्यत्रोक्तम् । प्रकृतिवद्भावः—प्रकृतिवत् भावः स्वरूपावाप्तिरित्यर्थः । विध्यन्तशब्दस्त्वेवं भाषितः शबरस्वामिभिः—“दर्शपूर्णमासाभ्यां यजेत” इति विध्यादिः । विध्यन्तोऽपि “प्रधानविधिवर्जितं कृत्स्नं पौरोडाशिकं ब्राह्मणम्” इति [७-४-२०] । अर्थापत्तिपूर्वपक्षमुपसंहरति—इत्यर्थापत्तिरिति ॥
“भिद्यते नानुमानतः” इत्युक्तमाक्षिपति—प्रतिबन्धादित्यादि । यः कश्चित् अर्थ इति शेषः । न हि घटं पश्यन् पटं कश्चिन्निश्चिनोतीत्यर्थः । सद्योजातेति । न हि सद्यो जातो बालः धूमात् वह्निं प्रतिपत्तुमलम् । अतः अज्ञातः प्रतिबन्धः न निर्णयहेतुरित्यर्थः । तथा च पूर्वोदाहृतस्थले चैत्रस्य बहिर्भावादेः पूर्वमनवगतत्वेन कथं व्याप्तिग्रह इत्यर्थः । उक्तमर्थं
न विशेषात्मना यत्र सम्बन्धज्ञानसम्भवः ।
तत्राप्यस्त्येव सामान्यरूपेण तदुपग्रहः ॥ १३२ ॥
अपि च—तेन विना नोपपद्यत इति कल्पनमर्थापत्तिः । तेन विना नोपपद्यत इति च व्यतिरेकभणितिरियम् । व्यतिरेकश्च प्रतीतः, तस्मिन् सत्युपपद्यते इत्यन्वयमाक्षिपति । अन्वयव्यतिरेकौ च गमकस्य लिङ्गस्य धर्म इति कथमर्थापत्तिः नानुमानम् ? केवलव्यतिरेकी हेतुरन्वयमूल एव गमक इति वक्ष्यामः ॥ शक्तिकल्पकार्थापत्तिनिराकरणम् याश्च प्रत्यक्षादिपूर्विकाः शक्तिकल्पनायामर्थापत्तय उदाहृताः ताश्च शक्तेरतीन्द्रियाया अभावात् निर्विषया एव ॥
स्वरूपादुद्भवत् कार्यं सहकार्युपवृह्मितात् ।
न हि कल्पयितुं शक्तं शक्तिमन्यामतीन्द्रियाम् ॥ १३३ ॥
अतिरिक्तशक्तिसाधनम् ननु शक्तिमन्तरेण कारकं कारकमेव न भवेत् । यथा पादपं छेत्तुमनसा परशुरुद्यम्यते, तथा पादुकाद्यप्युद्यम्येत । प्रतिवक्ति—न विशेषात्मनेति । यद्विषये विशेषतो दृष्टं लिङ्गं न सम्भवति, तत्राऽपि सामान्यतो दृष्टेनैव तदुपपत्तिरित्यर्थः । “प्रतिबन्धाद्विना” इत्यारभ्यैव सिद्धान्तोपपादनं वा । सम्बन्धज्ञानं—व्याप्तिज्ञानम् ॥
यद्यप्यर्थापत्तौ नान्वयव्याप्तिसम्भवः, अथापि व्यतिरेकव्याप्तिरियमित्याह— अपि चेत्यादि । ननु अभावयोरेव परस्परं व्याप्तिः, तेन च प्रतियोगिनः कथं सिद्धिः ? न ह्यन्यत्र व्याप्तिः, अन्यस्य सिद्धिरित्युपपद्यते इति शङ्कायामाह— व्यतिरेकश्चेति । तथा च व्यतिरेकव्याप्तिरप्यन्वयदार्ढ्यायैवेति । तथैवोक्तं कुसुमाञ्जलौ उदयनाचार्यैरपि ॥
स्वरूपादित्यादि । सहकार्युपबृह्मितात् स्वरूपात्—कारणवस्तुनः उद्भवत् कार्यं अन्यां अतीन्द्रियां शक्तिं कल्पयितुं न हि शक्तमित्यन्वयः ॥
शक्तेरनभ्युपगमे हि द्रव्यस्वरूपाविशेषात् सर्वस्मात् सर्वदा सर्वकार्योदयप्रसङ्गः । तथा हि—विषदहनयोर्मारणे दाहे च शक्तावनिष्यमाणायां मन्त्रप्रतिबद्धायां स्वरूपप्रत्यभिज्ञायां सत्यामपि स्वकार्यौदासीन्यं यत् दृश्यते, तत्र का युक्तिः ? न हि मन्त्रेण स्वरूपसहकारिसान्निध्यं प्रतिबध्यते; तस्य प्रत्यभिज्ञायमानत्वात् । शक्तिस्तु प्रतिबध्यत इति सत्यपि स्वरूपे सत्स्वपि सहकारिषु कार्यानुत्पादो युक्तः ॥
किञ्च सेवाध्ययनादिसाम्येऽपि फलवैचित्र्यदर्शनात् अतीन्द्रियं किमपि कारणं कल्पितमेव धर्मादि भवद्भिः । अतः शक्तिरतीन्द्रिया तथाऽभ्युपगम्यतामिति ॥
शक्तेरतिरिक्तत्वनिराकरणम्
तदेतदनुपपन्नम्—यत्तावदुपादाननियमादित्युक्तं—तत्रोच्यते— न हि वयमद्य किञ्चिदभिनवं भावानां कार्यकारणभावमुत्थापयितुं
पादपच्छेदाय कथं पादुकोद्यमप्रसक्तिरिति शग्कायामाह—शक्तेरित्यादि । परशुपादुकयोरुभयोरपि पादपच्छेदनानुगुणशक्तिशून्यत्वाविशेषे कुतः पादुका नोद्यम्यते पादपच्छेदाय ? अतः शक्तिमत्त्वतदभावाभ्यामेव निर्वाहो वाच्य इत्यर्थः । मन्त्रेण प्रतिबद्धं विषदहनयोः स्वरूपमेव पूर्वस्वरूपापेक्षया भिन्नं कुतो न स्यादिति शङ्कायामाह—स्वरूपप्रत्यभिज्ञायां सत्यामपीति । स्वरूपेत्यादि । स्वरूपस्य सहकारिणो वा सान्निध्यमित्यर्थः । पूर्वं यादृशं स्वरूपं यादृशसहकारिसहकृतं दाहादिजनकमासीत्, मन्त्रादिप्रयोगानन्तरं तत्र स्वरूपे सहकारिषु वा सन्निहितानां “तदेवेदं” इति प्रत्यभिज्ञासत्वात् शक्तिनाशमन्तरा कार्यानुदयो न निर्वोढुं शक्य इति भावः । अतिरिक्तशक्त्यङ्गीकारे वा कथं प्रतीकारः ? इत्यत्राह—शक्तिस्त्विति ॥
सेवा—गुरुशुश्रूषा । फलवैचित्र्यं—ज्ञानतारतम्यं, शिष्यस्येति शेषः । अतः—उक्तन्यायात् । तथेति । यथा चेतने धर्मः अतीन्द्रियः अङ्गीकृतः, तथा अचेतनेऽपि कार्यानुकूलः कश्चनाङ्गीकार्य एव । अन्यथा धर्माधर्मावपि न सिद्ध्येतां इत्यर्थः ॥
उपादाननियमः पादपच्छेदनाय परशुरेवोपादीयते, न पादुकादीति नियमः । उपादानं—ग्रहणम् । न हीत्यादि । अयं भावः—अन्वयव्यतिरेकौ
शक्नुमः, किन्तु यथाप्रवृत्तमनुसरन्तो व्यवहरामः । न ह्यस्मदिच्छया आपः शीतं शमयन्ति, कृशानुर्वा पिपासाम् ॥
तत्र छेदनादावन्वयव्यतिरेकाभ्यां वा वृद्धव्यवहाराद्वा परश्वधादेरेव कारणत्वमध्यवगच्छाम इति तदेव तदर्थिन उपादद्महे, न पादुकादीति ॥ सर्वस्मात् सर्वदा सर्वोत्पत्तिप्रसङ्गवारणम् न च परश्वधादेः स्वरूपसन्निधाने सत्यपि सर्वदा कार्योदयः, स्वरूपवत् सहकारिणामप्यपेक्षणीयत्वात्, सहकारिसन्निधानस्य सर्वदाऽनुपपत्तेः । सहकारिवर्गे च धर्मादिकमपि निपतति; तदपेक्षे कार्योत्पादे कथं सर्वदा तत्सम्भवः ?
धर्माधर्मयोश्च जगद्वैचित्र्यकार्यवलेन कल्पनमपरिहार्यम् । तयोश्च न शक्तित्वादतीन्द्रियत्वम्; अपि तु स्वरूपमहिम्नैव; मनःपरमाण्वादिवत् ॥ हि कार्यकारणभावज्ञापकौ, न तु कार्यकारणभावकल्पकौ । यथानुभवं लोकः प्रवर्तते । एवञ्च शक्तेरभावेऽपि परशुरेव छेदनायोपादीयते, तथानुभवात् । अन्यथा छेदनानुगुणा शक्तिः परशुमेवाश्रयते, न पादुकामिति कुतः अवगतम् ? अनुभवात्तथेति चेत्, तेनैवानुभवेनोपादानादिकमप्यस्तु, मध्ये किं शक्तिकल्पनयेति ॥
अशक्तत्वाविशेषात् सर्वस्मात् सर्वदा कार्योत्पत्तिप्रसङ्ग इति दोषं परिहरति—न चेति । ननु यादृशाद्वह्नेः दाहः, तादृशादेव मन्त्रादिप्रतिबद्धात् न दाहः; तदानीं च स्वरूपं सहकारिसान्निध्यं च तदवस्थमेवेति कथं न दाह इति शङ्कायां, सहकारिषु कालेश्वरादृष्टानामतीन्द्रियाणामप्यन्तर्भावात्, तदन्यतमलोपः सम्भावनार्ह इति न तेन शक्तिसिद्धिरित्याह—सहकारिवर्गे चेति ॥
नन्वङ्गीकृतः अतिरिक्तः अतीन्द्रियः पदार्थः । तस्य शक्तिरिति वा धर्म इति वा यथेच्छं नाम क्रियताम् । न हानिरित्यत्राह—धर्माधर्मयोश्चेति । धर्माधर्मौ हि चेतनगतावतिशयौ जगद्वैचित्र्यान्यथाऽनुपपत्त्या सर्वैरप्यवश्यकल्प्यौ । तेनैव चेतनगतातिशयेन दाहादिप्रकृतकार्योत्पत्तेर्निर्बाहे भूतधर्मः शक्त्याख्यः अपूर्वः न कल्प्य इति भावः । ननु वयमप्यतीन्द्रियं सहकारिविशेषमेव शक्तिं ब्रूमः ? को विशेषः ? इत्यत्राह—तयोश्चेति ॥
यदपि विषदहनसन्निधाने सत्यपि मन्त्रप्रयोगात् तत्कार्यादर्शनम्,—तदपि न शक्तिप्रतिबन्धननिबन्धनम्; अपि तु सामग्र्यन्तरानुप्रवेशहेतुकम् ॥
ननु मन्त्रेण प्रविशता तत्र किं कृतम् ? न किञ्चित् कृतम्; सामग्र्यन्तरं तु सम्पादितम् । काचिद्धि सामग्री कस्यचित् कार्यस्य हेतुः ॥
स्वरूपं तदवस्थमेवेति चेत्; यद्येवं अभक्षितमपि विषं कथं न हन्यात् ?
तत्राऽऽस्यसंयोगाद्यपेक्षणीयमस्तीति चेत्, मन्त्राभावोऽप्यपेक्ष्यताम् । दिव्यकरणकाले धर्म इव मन्त्रोऽप्यनुप्रविष्टः कार्यं प्रतिहन्ति ॥
शक्तिपक्षेऽपि वा मन्त्रस्य को व्यापारः ? मन्त्रेण हि शक्तेर्नाशो वा क्रियते ? प्रतिबन्धो वा ? न तावत् नाशः; मन्त्रापगमे पुनस्तत्कार्यदर्शनात् ॥
सामग्र्यन्तरं—विपरीता सामग्री ॥
तत्र—कारणस्वरूपे । काचिदिति । काचिदेव मन्त्राद्यघटिता सामग्री दाहादिकार्यस्य हेतुः । मन्त्रघटने च मन्त्राद्यघटितसामग्री शिथिला, मन्त्रादिघटितसामग्र्यन्तरं चापतितम्, अतो न दाह इत्यर्थः ॥
तदवस्थमेवेति । न हि मन्त्रेण पूर्वतनसामग्रीस्वरूपे वैकल्यादिकमापादितम्; एवञ्च कुतो न दाहः इत्याशयः । अभक्षितमिति । विषस्य हि विनाशहेतुत्वं स्वरूपम्, एवं च अभक्षितं विषं कुतो न हन्ति ? यदि अभक्षिते हननशक्तिर्नास्ति, तर्हि शक्तिरेव न सिद्ध्येत्, अतः तत्र आस्यसंयोगोऽपि सहकारिसमुदायगतमङ्गीकर्तव्यम् । एवं प्रकृतेऽपि मन्त्राभावः सहकारिसमुदायघटकः । मन्त्रसन्निधाने च मन्त्राभावरूपसहकारिणः वैकल्यं जातम् । एवञ्च पूर्वतनसामग्री नष्टेति न दाहः । एवमेवोपपत्तौ किं अतीन्द्रियशक्तिकल्पनेनेत्यर्थः । एवमनङ्गीकारे शक्त्यङ्गीकारेऽपि न निर्वृतिरित्याह—शक्तिपक्षेऽपीति । पुनरिति । अयं भावः—ननु मन्त्रापगमे शक्तिः पुनरुत्पन्ना । एवं चोपपद्यते कार्यदर्शनमिति चेत्—पूर्वं प्रतिबन्धेन नष्टायाः शक्तेः
प्रतिबन्धस्तु स्वरूपस्यैव शक्तेरिवास्तु ॥
स्वरूपस्य किं जातम् ? शक्तेरपि किं जातम् ? कार्यौदासीन्यमिति चेत्, तदितरत्रापि समानम् ॥
स्वरूपमस्त्येव, दृश्यमानत्वात् इति चेत्; शक्तिरप्यस्त्येव, पुनः कार्यदर्शनेनानुमीयमानत्वादिति ॥ शक्तेः नित्यत्वानित्यत्वविकल्पनेन दूषणम् किञ्च शक्तिरभ्युपगम्यमाना पदार्थस्वरूपवन्नित्या अभ्युपगम्येत ? कार्या वा ? नित्यत्वे—सर्वदा कार्योदयप्रसङ्गः । सहकार्यपेक्षायां तु स्वरूपस्यैव तदपेक्षाऽस्तु, किं शक्त्या ? कार्यत्वे तु—शक्तेः पदार्थस्वरूपमात्रकार्यत्वं वा स्यात् ? सहकार्यादिसामग्रीकार्यत्वं वा ? पुनस्तत्रोत्पादे हेतुः वक्तव्यः । यदि कारणस्वरूपमात्रं शक्तेर्हेतुः; तर्हि प्रतिबन्धककालेऽपि कारणस्वरूपस्य शक्तिहेतोः सत्त्वे कथं तन्नाशः । यदि च प्रतिबन्धकाभावविशिष्टं स्वरूपमेव शक्तेर्हेतुः, तर्हि प्रतिबन्धकाभावविशिष्टं स्वरूपं कार्यस्यैव हेतुरङ्गीक्रियतां, किमन्तर्गडुना शक्त्या ? इति ॥
प्रतिबन्धकेन शक्तिर्न नाश्यते, किन्तु तस्याः कार्यौन्मुख्यमात्रं वार्यते इति द्वितीयकल्पं प्रतिवक्ति—प्रतिबन्ध इति । कारणस्वरूपमेव प्रतिबन्धकसमवहितं चेत् कार्यविमुखं भवतीति कल्प्यताम् । किमन्तर्गडुना शक्त्या ? इति भावः ॥
ननु स्वरूपं प्रतिबन्धेन नाशयितुं न शक्यम्, एवञ्च स्वरूपं प्रत्यकिञ्चित्कारिणा प्रतिबन्धेन कथं कार्यनिरोध इति शङ्कते—स्वरूपस्येति । एवमाक्षेपपरिहारौ शक्तिपक्षेऽपि तुल्यावित्याह—शक्तेरपीति । अतिरिक्तातीन्द्रियशक्तिकल्पनागौरवं परमवशिष्यत इति शेषः ॥
अनुमीयमानत्वादिति । शक्तिनाशपक्षस्त्वनुपदमेव प्रतिक्षिप्त इत्यर्थः ॥
नित्येत्यादि । अत्र नित्यत्वं न सदातनत्वं, असम्भवात् । किन्तु यावत्स्वरूपभावित्वमेव । “पदार्थस्वरूपवत्” इत्यनेनायमर्थः सूचितः । सहकार्यपेक्षायामिति । नित्याया अपि शक्तेः कार्यकरणार्थं सहकार्यन्तरापेक्षायामित्यर्थः । पदार्थस्वरूपमात्रेति । शक्त्युत्पत्तौ किं पदार्थस्वरूप
स्वरूपमात्रकार्यत्वे—पुनरपि सर्वदा कार्योत्पादप्रसङ्गः; सर्वदा शक्तेरुत्पादात् । सामग्रीकार्यत्वे तु कार्यमेव सामग्रीकार्यमस्तु, किं अन्तरालवर्तिन्या शक्त्या ?
अतिरिक्तशक्त्यङ्गीकारे अनवस्थाऽप्यपरिहार्या
अशक्तात् कारकात् कार्यं न निष्पद्यत इति चेत्; शक्तिरपि कार्यं, तदुत्पत्तावप्येवं शक्त्यन्तरकल्पनादनवस्था ॥
अनवस्थापरिहारशङ्का
आह—दृष्टसिद्धये ह्यदृष्टं कल्प्यते, न तु दृष्टविघाताय । शक्त्यन्तरकल्पनायां शक्तिश्रेणीनिर्माण एव क्षीणत्वात् कारकाणां कार्यविघातः स्यादिति एकैव शक्तिः कल्प्यते; तत् कुतोऽनवस्था ?
एवमपि शक्तिरन्यथासिद्धैव
अत्रोच्यते—यद्यदृष्टमन्तरेण दृष्टं न सिद्ध्यति, काममदृष्टं कल्प्यताम् । अन्यथाऽपि तदुपपत्तौ किं तदुपकल्पनेन ? दर्शिता चान्यथाऽप्युपपत्तिः ॥
मात्रं कारणम् ? उत तदतिरिक्ता सहकारिसामग्री ? आद्ये, यावत्स्वरूपं कार्योदयप्रसङ्गः । सहकार्यन्तरापेक्षायां प्रतिबन्धकाभावविशिष्टं स्वरूपं शक्तिं प्रति कारणमिति खलु वक्तव्यम् । तत् कार्यं प्रत्येव कारणमित्यङ्गीकारेणैवोपपत्तौ मध्ये किं शक्तिकल्पनयेत्यर्थः ॥
शक्तिरपीति । शक्तेरपि कारणाधीनत्वेन तादृशकारणस्यापि शक्तिमत्त्वावश्यम्भाव इति क्रमेणानवस्थेत्यर्थः ॥
अनवस्थां परिजिहीर्षति—दृष्टसिद्धय इति । कार्यनिर्वहणायैव कल्प्यमाना शक्तिस्तदनुरूपैव सिद्ध्यति । अनवस्थायां तु कथं तया कार्यं निरूह्येतेति धर्मिग्राहकप्रमाणादेवानवस्थापरिहार इति भावः ॥
दर्शिता चेति । “मन्त्राभावोऽप्यपेक्ष्यताम्” इत्यादिनेत्याशयः ॥
कल्प्यमानमपि चादृष्टं, तत् कल्प्यतां; यत् अनवस्थां नावहेत; धर्मादिवत् ॥
अपि च व्यापारोऽप्यतीन्द्रियः शक्तिवदिष्यते भवद्भिः; अन्यतरकल्पनयैव कार्योपपत्तेः किमुभयकल्पनागौरवेण ॥
शक्त्यनङ्गीकारेऽपि कारकाणां कारकत्वं निर्बहत्येव
शक्तमव्याप्रियमाणं न कारकं कारकमिति चेत्; तच्छक्तमिति तदा कथं जानामि ?
कार्यदर्शनात् ज्ञास्यामीति चेत्; व्यापारादेव कार्यं सेत्स्यति ॥
पादुकादेर्व्याप्रियमाणादपि न पादपच्छेदो दृश्यत इति चेत्; प्रत्यक्षस्तर्हि व्यापारः, नातीन्द्रियः; यतः कार्यदर्शनात्पूर्वमपि
तत्—तादृशम् । यथा कल्पने अनवस्था नापादयितुं शक्या तथेत्यर्थः ॥
ननूक्तं तथैव, धर्मिग्राहकमानादिति—इत्यत्राह—अपि चेति । उपपादितमेतत् पूर्वमेव ॥
ननूभयमप्यावश्यकमेव । न हि शक्तमपि कारकं क्रियावेशमन्तरा कार्यनिर्वर्तकम् । छेदनशक्तोऽपि परशुरुद्यमनादिरिक्तं कथं छेदकम् ? अत उभयमप्यावश्यकमेवेति शङ्कते—शक्तमिति । जानामि—जानीयां—श्रद्दध्यामिति यावत् । तत्—कारकं, अथवा तस्मिन् कार्ये शक्तमित्यर्थः । “कारकम्” इति पूर्ववाक्यादाकृष्टव्यम् । शक्तमव्याप्रियमाणमित्याद्यास्ताम् । प्रथमं “शक्तं” इति सिद्धौ उपरितनं सेत्स्यति । अतस्तदेव प्रथमं वक्तव्यं इत्यर्थः ॥
व्यापारादेवेति । कार्यदर्शनात् व्यापार एवानुमीयताम् । कथं तावता शक्तिसिद्धिरित्यर्थः ॥
ननु व्यापारादेव कार्यसिद्धिरनुभवविरुद्धा । व्यापृतादप्यशक्तात् पादुकादेः छेदनासम्भवात् । अतः शक्तिरप्यावश्यकीति शङ्कते—पादुकादेरिति । न दृश्यत इत्यन्वयः । तथा च पादपच्छेदानुगुणशक्तिः परश्वधादौ वर्तते, न पादुकादाविति कल्प्यमित्यर्थः । एवं तर्हि अतीन्द्रिया अतिरिक्ता च शक्तिः व्यापारश्चेत्युभयं न सिद्ध्येदेवेत्याह—प्रत्यक्षस्तर्हीति । व्याप्रियमाणत्वं हि उद्यमननिपातनादिक्रियान्वयित्वम् । तच्च प्रत्यक्षमेव । छेदनरूपकार्यस्यैव
व्याप्रियमाणत्वं ज्ञातमायुष्मता । कार्यानुमेयो हि व्यापारः कार्यं विना न ज्ञायेतैव । कार्यं त्वन्यतरस्मादपि घटमानं नोभयं कल्पयितुं प्रभवति—इत्यलं प्रसङ्गेन ॥
प्रकृतमनुसरामः । तस्मादतीन्द्रियायाः शक्तेरभावात् निर्विषया यथोदाहृताः ता अर्थापत्तयो भवन्ति ॥ सिद्ध्यन्त्यपि शक्तिः अनुमानेनैव, न त्वर्थापत्त्या अपि वा शक्तिरतीन्द्रिया अनुमानस्यैव विषयः । कार्यस्य कारणपूर्वकत्वेन व्याप्तिग्रहणात्, स्वरूपमात्रस्य च कारणत्वानिर्वहणात् अधिकं किमप्यनुमास्यते; सा शक्तिरिति ॥
शब्दनित्यत्वसिद्धौ तु याऽर्थापत्तिरुदाहृता ।
तस्याः शब्दपरीक्षायां समाधिरभिधास्यते ॥ १३४ ॥
अभावपूर्विकाया अर्थापत्तेरप्यनुमानान्तर्भावः अभावपूर्विकाऽप्यर्थापत्तिरनुमानमेव । जीवतो गृहाभावेन लिङ्गभूतेन बहिर्भावावगमात् । चैत्रस्य गृहाभावो धर्मी, बहिर्भावेन तत्रानिष्पत्त्या छेदनेन न हि तदनुमेयम् । एवञ्च कार्यानुमेयः अतीन्द्रियो व्यापारो नास्त्येव । परिदृश्यमानादप्यतिरिक्तेऽतीन्द्रियो व्यापारः अस्ति चेत्, अलं शक्तिकल्पनया । कार्यानुरोधेन कल्पनायां अन्यतरेणैव कार्यस्योपपत्तेः अन्यतरदेव सिद्ध्येत्, नोभयमपीति । सिद्धान्ते च अतीन्द्रियेणादृष्टादिनैव सर्वनिर्वाहात् शक्तिरनुपयुक्तैवेति ॥
शक्तिसाधनायार्थापत्तिरपि नावश्यकीत्याह—अपि वेति । कारणत्वानिर्वहणादिति । प्रतिबन्धकसमवधानकाले स्वरूपमात्रेण कार्यानुदयादिति भावः ॥
उदाहृतेति । अर्थापत्तिपूर्वकार्थापत्तिनिरूपणप्रकरणे [९६ पु।] इत्यर्थः । तस्याः समाधिरित्यन्वयः ॥
गृहाभावः—गृहे अभाव इत्यर्थः । चैत्रप्रतियोगिकः गृहानुयोगिकः अभाव इति यावत् । एवमुत्तरत्र मनुष्यगृहाभावत्वादित्यादावपि बोध्यम् । धर्मी—पक्षः । तथा च चैत्रप्रतियोगिकगृहानुयोगिकः अभावः, बहिर्गत
तद्वान् इति साध्यो धर्मः; जीवन्मनुष्यगृहाभावत्वात्, पूर्वोपलब्धैवंविधगृहाभाववत् । यथा धूमो धर्मी, वह्निमानिति साध्यो धर्मः; धूमत्वात्, पूर्वोपलब्धधूमवदिति ॥
अतश्च गृहादीनां लिङ्गत्वाशङ्कनं, अपाकरणं च आडम्बरमात्रम् ॥ प्रमेयानुप्रवेशदोषपरिहारः यत्पुनः प्रमेयानुप्रवेशदूषणमभ्यधायि—तदपि न साम्प्रतम् ॥
किं प्रमेयमभिमतमत्रभवताम् ? किं सत्तामात्रम् ? उत बहिर्देशविशेषितं सत्त्वम् ?
सत्तामात्रं तावदागमादेवावगतमिति न प्रमाणान्तरप्रमेयतामवलम्बते । बहिर्देशविशेषितं तु सत्त्वं भवति प्रमेयम् । तस्य तु तदानीमनुप्रवेशः कुतस्त्यः ? गृहाभावग्राहकं हि प्रमाणं गृह एव सदुपलम्भकप्रमाणावकाशमपाकरोति, न बहिस्सन्दसत्त्वचिन्तां प्रस्तौति ॥
मृतस्य जीवतो दूरे तिष्ठतः प्राङ्गणेऽपि वा ।
गृहाभावपरिच्छेदे न विशेषोऽस्ति कश्चन ॥ १३५ ॥
चैत्रप्रतियोगिकः, जीवन्मनुष्यप्रतियोगिकगृहानुयोगिकाभावत्वात्, यत्र जीवन्मनुष्यप्रतियोगिकगृहानुयोगिकाभावत्वं तत्र बहिर्गतमनुष्यप्रतियोगिकत्वं, यथा जीवन्मैत्रप्रतियोगिकगृहानुयोगिकाभावे इति अनुमानाकारनिष्कर्षः ॥
आगमात् ज्योतिश्शास्त्रादिरूपात्, लौकिकाद्वा आप्तोच्चरितात् । एवञ्च सत्त्वसामान्यं न पुनरनुमीयते, येन प्रमेयानुप्रवेशः आपाद्यते । बहिर्देशे सत्त्वं त्वनुमेयं भवति । अस्य त्वनुमानकाले कथमनुप्रवेशः ? इत्यर्थः । गृहाभावग्राहकमिति । गृहे अभावग्रहणं प्रति जीवनग्राहि प्रमाणं न हि बाधकम् । गृहेऽभावग्राहकस्य गृहे सत्त्वग्राहकेणैव विरोधः । अतः गृहेऽभावग्रहणकाले बहिस्सत्त्वरूपस्य प्रमेयस्य नानुप्रवेशप्रसङ्गः इति भावः ॥
गृहेऽभावग्रहणकाले बहिस्सदसत्त्वस्यासम्बन्धं उपपादयति—मृतस्येति । मृतस्य वा दूरे—देशान्तरे जीवतो वा प्राङ्गणे—बहिः यत्र कुत्रचित् तिष्ठतोऽपि वा
जीवनविशिष्टस्त्वसौ गृह्यमाणो लिङ्गतामश्नुते, व्यभिचारनिरासात् । न च विशेषणग्रहणमेव प्रमेयग्रहणम् । जीवनमन्यत्, अन्यच्च बहिर्भावाख्यं प्रमेयम् ॥
जीवनमन्यत्, अन्यश्च बहिर्भावः
ननु जीवनविशिष्टगृहाभावप्रतीतिरेव बहिर्भावप्रतीतिः । नैतदेवम्—जीवनविशिष्टगृहाभावप्रतीतेः बहिर्भावस्य प्रतीतिः, न तत्प्रतीतिरेव बहिर्भावप्रतीतिः न हि दहनाधिकरणे धूमप्रतीतिरेव दहनप्रतीतिः ॥
ननु धूमादन्य एव दहनः; इहापि गृहाभावजीवनाभ्यामन्य एव बहिर्भावः ॥
पर्वतहुतवहयोः सिद्धत्वात् मत्त्वर्थमात्रं तत्रापूर्वमनुमेयम्; एवमिहापि बहिर्देशयोगमात्रमपूर्वमनुमेयम् ॥
यदि तु तदधिकं प्रमेयमिह नेष्यते, तदा गृहाभावजीवनयोः स्वप्रमाणाभ्यामवधारणादानर्थक्यमर्थापत्तेः । तस्मात् प्रमेयान्तरसद्भावात् तस्य च तदानीमननुप्रवेशात् न प्रमेयानुप्रवेशो दोषः ॥ गृहेऽभावपरिच्छेदे न कश्चन विशेषोऽस्तीति । गृहे अभावग्राहकेण नैतेषां ग्रहणसम्भवः, प्रमाणान्तरावसेयानि तानीति भावः ॥
प्रमेयाननुप्रवेशमेव स्पष्टयति—जीवनेति ॥
नन्विति । तथा च जीवनविशिष्टगृहाभावबहिर्भावयोरविशेषात् जीवनग्रहणकाले बहिर्भावस्यापि ग्रहणात् प्रमेयानुप्रवेशो दुर्वार इति भावः । उभयमपि नैकं, किन्तु ज्ञाप्यज्ञापकभावापन्ने ते इत्याह जीवनेति ॥
ननु वह्निधूमयोः भेदसत्त्वात् धूमप्रतीतिरेव न दहनप्रतीतिरूपा । प्रकृते तु जीवनविशिष्टगृहाभाव बहिर्भावयोर्न विशेषोऽस्तीति शङ्कते— नन्विति । समाधत्ते—इहापीति ॥
पुनः शङ्कते—पर्वतेति । समाधत्ते—एवमिहापीति ॥
उभयोरभेदे अर्थापत्तिरपि निरर्थिकेत्याह—यदि त्विति । यदि
अर्थापत्तावपि च तुल्य एवायं दोषः, तत्राप्यर्थात् अर्थान्तरकल्पनाऽभ्युपगमात् । “दृष्टः श्रुतो वाऽर्थोऽन्यथा नोपपद्यते इत्यर्थकल्पना” [शा। भा। १-१-५] [शा। दी। १-१-५] इत्येवं ग्रन्थोपनिबन्धात् । तस्य तस्मात् प्रतीतिरिति यत्र व्यवहारः, तत्रावश्यं तत्प्रतीतौ तदनुप्रवेशो दोष एव । स्वभावहेताविव तद्बुद्धिसिद्ध्या तत्सिद्धेः प्रमाणान्तरवैफल्यादिति ।
प्रभाकरोक्तः अर्थापत्तेरतिरिक्तत्वसाधनप्रकारः
प्रभाकरास्तु प्रकारान्तरेणानुमानाद्भेदमत्राचक्षते । अनुमाने गमकविशेषणमन्यथाऽनुपपन्नम्, अनलं विना धूमो हि नोपपद्यते; इह तु विपर्ययः, गम्यो गमकेन विना नोपपद्यते । गम्यः— बहिर्भावः, स जीवतो गृहाभावं विना नोपपद्यते, गृहान्निर्गतो जीवन् बहिर्भवतीति ॥
जीवतो गृहाभावप्रतीतिरेव बहिर्भावप्रतीतिः स्यात्, तर्हि व्यर्थैवार्थापत्तिः; जीवनस्य शास्त्रेण गृहाभावस्यानुपलब्ध्या च ग्रहणात्, तदतिरिक्तस्य च ग्राह्यस्य प्रमेयस्यानङ्गीकारात् इत्यर्थः ॥
ननु वह्निधूमौ विलक्षणौ स्वतन्त्रौ पदार्थौ, प्रकृते तु धर्म्यैक्यमेवेत्यस्ति विशेष इति चेत् तत्राह—अर्थापत्तावपीति । अयं—प्रमेयानुप्रवेशः । अर्थादित्यादि । यदि चोभयोरभेदः तदा स्ववचनविरोधः अर्थादर्थान्तरकल्पनेति लक्षणकथनात् । अतश्चोभयोरर्थान्तरत्वापलपनेऽपसिद्धान्त एवेति । दोष एवेति । तस्मात् यस्य प्रतीतिः, तत् कारणभूतं तदेव कथं स्यादित्याशयः । स्वभावहेताविवेति । इदमुत्तरत्र व्यक्तीभविष्यति । तद्बुद्धीति । हेतुज्ञाने जाते तदेव यदि साध्यज्ञानरूपं स्यात् तदा साध्यस्य हेतुज्ञानकाल एव सिद्धत्वात् कुतः प्रमाणान्तरगवेषणमित्यर्थः ॥
गमकविशेषणं—गमकं-ज्ञापकं तद्रूपं विशेषणं-धर्मः हेतुः—ज्ञापको हेतुरिति यावत् । अन्यथा-साध्यं विना । गृहाभावमिति । गमकमिति शेषः । नोपपद्यत इति । धूमः खलु गमकमात्रं, न तु धूमाधीनो वह्निः,
भाष्यपप्येवं योजयन्ति—दृष्टः श्रुतो वार्थः अर्थकल्पना; अर्थान्तरं कल्पयतीत्यर्थः । यतः सा कल्पना प्रमेयद्वारिकाऽन्यथा पपद्यत इत्यर्थः । एवं गम्यगमकयोरनुपपद्यमानत्वविपर्ययात् मानात् प्रमाणान्तरमियमर्थापत्तिरिति बहिर्भावोऽन्यथानोपपद्यते, स च गम्य इति ॥
प्रभाकरपक्षप्रतिक्षेपः
एतदपि ग्रन्थवैषम्योपपादनमात्रं, न तु नूतनविशेषोत्प्रेक्षणम् । गम्ये तावदगृहीते सति तद्गतमनुपपद्यमानत्वं कथमवधार्येत ? गृहीते तु गम्ये किं तद्गतानुपपद्यमानत्वग्रहणेन ? साध्यस्य सिद्धत्वात् ॥
पुरा तद्गतमन्यथाऽनुपपद्यमानत्वं गृहीतमासीदिति चेत्— अहो ! महाननुमानाद्विशेषः । इदं हि पूर्वं प्रतिबन्धग्रहणमुक्तं स्यात् ॥ अयोगोलके व्यभिचारात् प्रकृते तु जीवतो गृहेऽभावः न केवलं गमकं, अपि तु एतदधीन एव बहिर्भाव इति अनुमानाद्विशेषः ॥
योजयन्तीति । तथा च बृहती—ननु च दृष्टः श्रुतो वाऽर्थोऽन्यथा नोपपद्यते इति गमकस्यान्यथाऽनुपपद्यमानतां दर्शयति । अग्रन्थज्ञो देवानां प्रियः । दृष्टः श्रुतो वाऽर्थोऽर्थकल्पना । किमिदमर्थकल्पनेति ? दृष्टः श्रुतो वाऽर्थोऽर्थान्तरस्य प्रमाणमित्यर्थः । अन्यथा नोपपद्यत इति केन सम्बन्ध्यते ? प्रमित्येति वदामः; अन्यथाऽनुपपद्यमानत्वमापादयन् अर्थान्तरं गमयति इति । अत्र नन्वित्यादिराक्षेपः, अग्रन्थज्ञ इत्यादिः समाधनम् । “कल्पनाशब्दोऽत्र प्रमितिपरः” इति ऋजुविमलायां शालिकनाथः । कल्पना—कल्पकः; प्रमितिरेव हि कल्पनापदार्थः । प्रमेयद्वारिका— जीवतो गृहेऽभावाधीना ॥
एतदपीत्यादि । बहिर्भावः जीवतो गृहेऽभावं विना नोपपद्यते इति कथने हि बहिर्भावज्ञानमप्यावश्यकमेव प्रथमम्, धर्मिण एवाज्ञाने तत्रानुपपद्यमानत्वरूपधर्मग्रहणासम्भवात् । पूर्वं तद्ग्रहणे तु अन्ततः व्याप्तिग्रहण एव पर्यवस्यतीति नास्त्यनुमानाद्विशेष इत्यर्थः ॥
अपि च बहिर्भावस्य गृहाभावं विनाऽनुपपत्तिरित्युक्ते तस्मिन् सति तस्योपपत्तिर्वक्तव्या । सा च का ? किमुत्पत्तिः ? ज्ञप्तिर्वा ?
यदि ज्ञप्तिः, सा चानुमानेऽपि । गम्यं गमकं विना नास्ति, तस्मिन् सत्यस्तीति समानः पन्थाः ॥
उत्पत्तिस्तु गृहाभावात् बहिर्भावस्य दुर्भणा ।
प्राक्सिद्धे हि गृहाभावे तदुत्पादः क्षणान्तरे ॥ १३६ ॥
कारणं पूर्वसिद्धं हि कार्योत्पादाय कल्पते ।
तेनैकत्र क्षणे जीवन् न गृहे न बहिर्भवेत् ॥ १३७ ॥
तस्माद्यत्किञ्चिदेतत् ॥
अर्थापत्तौ हेतोः कारकत्वमपीति पक्षान्तरनिराकरणम्
एवञ्च यदेके ज्ञप्त्युत्पत्तिकृतमिह वैलक्षण्यमुत्प्रेक्षितवन्तः— धूमेनाग्निर्गम्यत एव, गृहाभावेन बहिर्भावो जन्यतेऽपीति—तदपि प्रत्युक्तं भवति ॥
अर्थापत्तिस्थले व्याप्त्युपपादनम्
यत्तु सम्बन्धग्रहणाभावादित्युक्तं—तदपि न सुन्दरम्— मन्दिरद्वारवर्तिनस्तदुत्पत्तेः ॥
“यतः सा कल्पना प्रमेयद्वारिका” इत्यंशं दूषयति—अपि चेति । सा च—उपपत्तिश्च ॥
सम्मतमर्थं दूषयति—उत्पत्तिरिति । कारकहेतुहेतुमद्भावस्थले हि पूर्वक्षणे कारणम्, अनन्तरक्षण एव च कार्यमिति सम्प्रतिपन्नम् । प्रकृते तु एकस्मिन्नेव काले गृहावच्छेदेन अभावः, बहिरवच्छेदेन भाव इति भावाभावयोः न कालभेदः । अतः एकस्मिन्नेव क्षणे अनयोः न उत्पाद्योत्पादकभावसम्भव इत्यर्थः । तेनेति । गृहेऽभावस्य पूर्वसिद्धत्वाभावात् तेन बहिर्भावः नोत्पद्येतेति ॥
ज्ञप्तीति । ज्ञप्त्युत्पत्तिभ्यां कृतमित्यर्थः । प्राभाकरैः सम्मुग्धतया उक्तार्थस्यैव स्वेन विकल्प्य दूषणात् अस्य पक्षस्य स्वत एव निरास इति भावः ॥
उक्तमिति । पूर्वं ९९ पुटे द्रष्टव्यम् । तदुत्पत्तेः—सम्बन्धग्रहणोत्पत्तेः ॥
एतच्च स्वयमाशङ्क्य न तैः प्रतिसमाहितम् ।
उदाहरणमन्यत्तु व्यत्ययेन प्रदर्शितम् ॥ १३८ ॥
गृहभावेन बहिरभावकल्पनमिति, तत्रैतदेव वक्तव्यम् । इयमभावपूर्विका न भवत्येवार्थापत्तिः । षडर्थापत्तीः प्रतिज्ञाय इमामभावपूर्विकां अर्थापत्तिमुक्त्वा उपनैय्यायिककेसरिकटाक्षपातभीतां इह गहने हरिणीमिव यदुपेक्ष्य गम्यते—तदत्यन्तमत्रभवतामनार्थजनोचितं चेष्टितम् ॥
त्वदेकशरणां बालामिमामुत्सृज्य गच्छतः ।
कथं ते तर्कयिष्यन्ति मुखमन्या अपि स्त्रियः ! ॥ १३९ ॥
भावेनाभावकल्पना तु प्रत्यक्षपूर्विकैवार्थापत्तिः । तस्या अपि च न दुरवगमः सम्बन्धः । असर्वगतस्य द्रव्यस्य नियतदेशवृत्तेरक्लेशेन तदितरदेशनास्तित्वावधारणात् । अनग्निव्यतिरेकनिश्चये च धूमस्य भवतां का गतिः ? या तत्र वार्ता सैवेहापि नो भविष्यति ॥
न च भूयोदर्शनावगम्यमानान्वयमात्रैकशरणतया—
स्वयमाशङ्क्येति । “गृहद्वारि स्थितो यस्तु बहिर्भावं प्रकल्पयेत्” इत्यादिना वार्तिककृतेत्यर्थः । व्यत्ययेनेति । “यदैकस्मिन्नयं देशे न तदान्यत्र विद्यते” इतीति शेषः । अवतारितं चेदं भट्टोम्बेकेन—“उदाहरणान्तरपरिग्रहेण परिहारमाह” इति । इयमित्यादि । किन्तु भावपूर्विकैवेति शेषः । एवं प्रतिज्ञातदृष्टान्तपरित्यागिनं सोपहासमुपालभते—उपनैय्यायिकेत्यादि । गौतमादिमहर्षिभ्यस्तु भीतिः न्याय्येति उपहासः ॥
प्रत्यक्षपूर्विकैवेति । गृहे विद्यमानत्वस्य प्रत्यक्षत्वादित्यर्थः । इयमपि नार्थापत्तिः, अपि तु अनुमानमेवेत्याह—तस्या अपीति । तदितरेति । तादृशद्रव्यदेशेतरेत्यर्थः । अनग्नीति । अनग्नेर्व्यतिरेकः । व्यतिरेकव्याप्तिर्हि प्रकृतहेतोरेवोपोद्बलकः । तथा च वह्न्यभाववतो व्यावृत्त्यवगमरूपव्यतिरेकव्याप्तेरपि भवद्दृष्ट्याऽर्थापत्तिरूपत्वेन अनुमानस्याप्यर्थापत्तावेवान्तर्भावः स्यादिति ॥
अन्वयसहचारदर्शनमात्रेणानुमानप्रवृत्तेः व्यतिरेकव्याप्त्यभावेऽपि न क्षतिरिति शङ्कते—न चेति । अस्य कथयितुमुचितमित्यनेनान्वयः ।
यस्य वस्त्वन्तराभावो गम्यस्तस्यैव दुष्यति ।
मम त्वदृष्टिमात्रेण गमकाः सहचारिणः ॥ [श्लो। वा।]
इति कथयितुमुचितम् । अनिश्चितव्यतिरेकस्य साध्यनिश्चयाभावादिति दर्शयिष्यामः ॥
पक्षधर्मान्वयवत् व्यतिरेकोऽपि नागृहीतोऽनुमानाङ्गम् । बहिर्भावसिद्धौ चानुमानप्रयोगः स एव, यस्त्वया दर्शितः । तस्य तु प्रतिप्रयोगः प्रत्यक्षादिविरुद्धत्वात् हेत्वाभास एवेत्यलं प्रसङ्गेन ॥ श्रुतार्थापत्तिरप्यनुमानमेव श्रुतार्थापत्तिरपि वराकी नानुमानात् भिद्यते । वचनैकदेशकल्पनाया अनुपपन्नत्वात्, अर्थस्य च कार्यलिङ्गगम्यस्य सत्त्वात् । यथा क्षितिधरकन्धराधिकरणं धूममवलोक्य तत्कारणमनलमनुमिनोति भवान्, एवमागमात्पीनत्वाख्यं कार्यमवधार्य तत्कारणमपि भोजनमनुमिनोतु । कोऽत्र विशेषः । तत्कार्यतया भूयोदर्शनतः प्रतिपन्नत्वात् । लिङ्गस्य तु क्वचित् प्रत्यक्षेण ग्रहणम्, क्वचित् वचनतः प्रतिपत्तिरिति नैष महान् भेदः ॥ दर्शयिष्याम इति । अनुमानसूत्र इति शेषः ॥
ननु व्यतिरेकव्याप्तिः स्वरूपसत्येवालमित्यत्राह—पक्षधर्मेति । अन्यथा पक्षधर्मताया अपि ज्ञानमनपेक्षितं स्यादिति भावः । स एवेत्यादि । पूर्वपक्षकाले भवता प्रदर्शित एवास्मत्सम्मतः दूषणोद्धारात् निरवद्यः स्थापितः । अतस्तस्य प्रतिप्रयोगः निरवकाश इति भावः ॥
दृष्टार्थापत्तेरेवानुमानान्तर्भावे किमुत श्रुतार्थापत्तेरित्यमिप्रायेण आह— वराकीति । अर्थस्य चेति । कार्यरूपलिङ्गगम्यस्य अर्थस्य—पीनत्वाख्यस्य । विशेष इति । अनुमानादिति शेषः । ननु तत्र धूमस्य दर्शनमेव, अत्र तु पीनत्वस्य प्रतीतिः शब्दादित्यस्ति विशेषः इति शङ्कां वारयति—लिङ्गस्येति ॥
श्रुतार्थापत्तेरावश्यकत्वाक्षेपपरिहारौ
ननु वचनमपरिपूर्णमिति प्रतीतिमेव यथोचितां जनयितुमसमर्थम्—
किं “पीनो देवदत्तो दिवा न भुङ्क्ते” इत्यतो न भवति तत्पीनताप्रतीतिः ?
न न भवति, साकाङ्क्षा तु भवति । न च साकाङ्क्षप्रतीतिकारिणस्तस्य प्रामाण्यम्—इति तदेव तावत् पूरयितुं युक्तम् ॥
तदसत्—कस्यात्र साकाङ्क्षत्वम् ? किं शब्दस्य ? किं वा तदर्थस्य ? उत स्वित्तदवगमस्य । इति ॥
शब्दस्य तावदर्थनिरपेक्षस्य न काचिदाकाङ्क्षा, अनभिव्यक्तशब्दवत् ॥
अर्थस्तु साकाङ्क्षस्सन् अर्थान्तरमुपकल्पयतु; कोऽवसरो वचनकल्पनायाः ?
अवगमोऽप्यर्थविषय एव साकाङ्क्षो भवति, न शब्दविषयः श्रोत्रकरणकः । तस्मादवगमनैराकाङ्क्ष्यसिद्धये तदर्थकल्पनमेव
“प्रमाणतैव न ह्यस्य साकाङ्क्षज्ञानकारिणः” [१०४ पु।] इत्युक्तं स्मारयति— नन्विति । असमर्थमिति । तथा च निराकाङ्क्षबोधसिद्ध्यर्थं वाक्यान्तरापेक्षैवास्ति, पदजन्यपदार्थोपस्थितेरेव शाब्दबोधं प्रति कारणत्वादिति विशेषः । सिद्धान्ती शोधनाय पृच्छति—किमिति । पूर्वपक्षी समाधत्ते—न न भवतीति । भवत्येवेत्यर्थः । अस्तु निराकाङ्क्षबोधः अन्यसापेक्षः, अथापि सोऽर्थः शब्दादेवोपस्थापयितव्य इति कुत इत्यत्राह—तदेवेति । वचनमेवेत्यर्थः । पदजन्यपदार्थोपस्थितेरेव शाब्दबोधजनकत्वात् । न चायं शाब्दबोध एव नेति वाच्यम् पीनत्वाद्यर्थानां शब्दत एवोपस्थितत्वादिति भावः ॥
समाधत्ते—तदसदिति । अवगमस्य—ज्ञानस्य ॥
तदवगम इत्यत्र तृतीयकल्पे तच्छब्दार्थः किम् अर्थः ? उत शब्दः ? इति विकल्प्य दूषयति—अवगमोऽपीति । शब्दविषयः—शब्दविषयकः । इन्द्रियं खलु विद्यमानयथाभूतार्थग्राहि नाधिकमर्थमपेक्षत इति भावः । तस्मादित्यादि । न च पदजन्यपदार्थोपास्थित्यभावे कथं तस्य “पीनो देवदत्तः”
युक्तम् । वचनैकदेशकल्पनमपि अर्थावगतिसिद्ध्यर्थमेवेति तत्कल्पनमेवास्तु; किं सोपानान्तरेण ?
श्रुतार्थापत्तेरनुमानत्वेऽपि तद्गम्यार्थानां नावैदिकत्वम्
यत्तु कल्प्यमानस्यार्थस्यावैदिकत्वं प्राप्नोतीति—तत्र वचनकल्पनापक्षे सुतरामवैदिकः सोऽर्थः स्यात्; कल्प्यमानस्य वचनस्य वेदादन्यत्वात् ॥
श्रुतः, अनुमित द्विविधः, स वेद एवेति चेत्; श्रौतार्थः, श्रौतार्थानुमितः द्विविधः स वेदार्थ एव भविष्यतीति किं वचनसोपानान्तरकल्पनया ? तेन श्रूयमाणवेदवचनप्रतिपाद्यार्थसामर्थ्यलभ्यत्वादेव तस्य वेदार्थता भविष्यति । सर्वथा न वचनैकदेशविषया श्रुतार्थापत्तिः श्रेयसी । श्रुत्येकदेशकल्पनापक्षप्रतिक्षेपाच्च ॥ अर्थस्यातीन्द्रियत्वेऽपि व्याप्तिग्रहः सम्भवत्येव तदतीन्द्रियतया सम्बन्धग्रहणमघटमानमिति यदुक्तं—तदपि प्रत्युक्तम्—अर्थे तु सामान्येन सम्बन्धग्रहणमपि सूपपादम् । तत्र तत्र यज्यादेरर्थस्याधिकाराद्यर्थान्तरसम्बद्धस्य दृष्टत्वादिति ॥ इत्यादिशब्दजन्यज्ञाने भानमिति शङ्क्यम्—क एवमाह, तस्मिन्नेव बोधे रात्रिभोजनभानमिति । पार्ष्णिकस्तु स बोधः, न शाब्द इति ॥
श्रुतार्थापत्तिकल्पिकां भीतिमपनुदति—यत्त्वित्यादि । वेदादन्यत्वादिति । वेदस्यापौरुषेयत्वेन कल्पयितुमशक्यत्वादिति भावः ॥
शङ्कते—श्रुत इति । प्रकृतेऽपीदं तुल्यमित्याह—श्रौतार्थेत्यादि । तेनेत्यादि । भवता कल्पितेन शब्देन प्रतिपाद्यत्वापेक्षयाऽपि साक्षाद्वेदप्रतिपाद्यार्थसामर्थ्यलभ्यत्वमेव अर्थस्य वैदिकत्वं प्रापयेदिति भावः ॥
सामान्येनेत्यादि । विशेषतो दृष्टाऽनुमानाभावेऽपि सामान्यतोदृष्टानुमानं वर्तत एव । अन्यथा “विश्वजिता यजेत” इत्यादौ अधिकारविधिकल्पनैव न स्यात् इति भाव ॥
प्राभाकरोक्तश्रुतार्थापत्तिनिराकरणप्रकारः
प्राभाकरास्तु “दृष्टः श्रुतो वा” इतिभाष्यं “लौकिकमभिधानान्तरमेवेदमुपलब्धिवचनम्” इति वर्णयन्तः श्रुतार्थापत्तिं प्रत्याचक्षते । श्रूयमाणस्यैव शब्दस्य तावत्यर्थे सामर्थ्यमुपगच्छन्तः तमर्थं शाब्दमेव प्रतिजानते । वाक्यस्य दूराविदूरव्यवस्थितगुणागुणक्रियाद्यनेककारककलापोपरक्तकार्यात्मकवाक्यार्थप्रतीतौ इषोरिव दीर्घदीर्घो व्यापारः । अविरतव्यापारे च शब्दे सा प्रतीतिरुदेति, तद्व्यापारविरतौ नोदेति । तदुत्पादककारकाभावात् । वृद्धव्यवहारतश्च शब्देषु व्युत्पद्यमानो लोकः तथाभूतवाक्यव्यवहारिणो वृद्धान् पश्यन् वाक्यस्यैव तादृशवाक्यार्थे सामर्थ्यमवधारयति । तदनुवर्तीनि तु पदानि तस्मिन्नैमित्तिके निमित्तानि भवन्ति ॥
श्रुतार्थापत्तिगम्यस्यार्थस्य साक्षादेव वैदिकत्वं वदतां प्राभाकराणां मतमुपन्यस्यति—प्राभाकरास्त्वित्यादि । तथा हि बृहती—“दृष्टः श्रुतो वेति दर्शनश्रवणोपन्यासः किं कारणान्तरव्युदासाय ? नेति वदामः, उपलब्धोऽर्थ इत्यर्थः । श्रुतग्रहणमिदानीं किमर्थम् ? दृष्ट इत्येव वक्तव्यम्— उच्यते—अमिधानान्तरमेवेदमुपलब्धेर्वाचकम्” इति । अत्र शालिकनाथमिश्राः—“अस्यार्थः—दृष्टशब्दमात्रेण न सर्वपरिग्रह, किन्तु श्रुतशब्दसहितेन; तेन श्रुतग्रहणं नानर्थकम् । कथं पुनः श्रुतग्रहणरहितेन दृष्टशब्देनोपलब्धं नोच्यते—श्रूयताम्—दृष्टशब्देन यद्यप्युपलब्धिमात्रमुच्यते; तथाऽपि श्रुतशब्दसन्निधानात् गोबलीवर्दन्यायेन शब्दप्रमितव्यतिरिक्तमुच्यते । नन्वेतस्य गोबलीवर्दन्यायस्याश्रयणे किं प्रयोजनम् ? उच्यते—लौकिका वयम् । लोकश्चेत्थमपि व्यवहरमाणो दृश्यते । न च लोके पर्यनुयोगावकाशोऽस्ति अनादित्वात्” इति । लौकिका हि “न मयेदं दृष्टं श्रुतं वा” इति व्यवहरन्ति, न त्ववगतिपदप्रयोगमात्रेण तृष्यन्ति इत्याशयः । ननु श्रूयमाणस्यैव शब्दस्य कथं ततोऽप्यधिकबोधजनकत्वम् ? इत्यत्राह वाक्यस्येति । तथाविधेति । दूरादूरव्यवस्थितपदार्थबोधकेत्यर्थः । तदनुवर्तीनि—तादृशसामर्थ्याबधारणानुयायीनि । तस्मिन्नित्यादि । अर्थावगत्यर्थो हि शब्दः । अतश्च प्रधानभूतार्थावगतौ अप्रधानं शब्दः प्रधानानुरोध्येव भवेदित्यर्थः ॥
नैमित्तिकानुकूल्यपर्यालोचनया क्वचिदश्रूयमाणान्यपि तानि निमित्ततां भजन्ते—विश्वजिदादौ स्वर्गकामादिपदवत् ॥
क्वचित् श्रूयमाणान्यपि तदननुकूलत्वात् परित्यज्यन्ते— यस्योभयं हविरार्तिमार्च्छेत् इतिवत् ॥
क्वचिदन्यथास्थितानि तदनुरोधादन्यथैव स्थाप्यन्ते— प्रयाजशेषेण हवींष्यभिघारयति इतिवत् ॥
तस्मात् प्रथमावगतैकघनाकारवाक्यार्थानुसारेण सतामसतां वा पदानां निमित्तभावव्यवस्थापनात् अश्रूयमाणतथाविधैकदेशादपि वाक्यात् तदर्थावगतिसम्भवात् किं श्रुतार्थापत्त्या ? अत एव न सोपातव्यवहितं तस्यार्थस्य शाब्दत्वम्, साक्षादेव तत्सिद्धेः ॥
पदाश्रवणेऽपि अर्थोपस्थित्युपपादनम्
ननु अश्रूयमाणेषु निमित्तेषु कुतस्तदर्थमवगच्छामः ? अनवगच्छन्तश्च कीदृशं नैमित्तिकमवकल्पयामः ?—उच्यते—श्रुतेष्वपि पदेषु तेषां निमित्तभावो न स्वमहिम्नाऽवफल्पते, किन्तु नैमित्ति-
नैमित्तिकस्य यत् आनुकूल्यं, तत्पर्यालोचनया—कीदृशेन व्यापारवता नैमित्तिकं प्रधानं अनुकूलितं स्यादिति पर्यालोचनयेत्यर्थः ॥
यस्योभयमिति । श्रुतस्य विधिप्रत्ययस्यार्थः त्यज्यत इत्यस्योदाहरणमिदम् ॥
प्रयाजशेषेणेति । विधिप्रत्ययाश्रवणेऽपि तत्कल्पनाया उदाहरणमिदम् ॥
तस्मात्—शब्दस्य अर्थशेषत्वात् । एकघनेति । श्रुतेषु पदेषु अयमंशः अनेन पदेन प्रत्याय्यते—इति विवेचनमन्तरा शाब्दबोधस्य आहत्य तावत्पदजातत्वात् तावानप्यर्थः तच्छब्दगम्य एव, न तु कल्पितपदान्तरगम्य इत्यर्थः । सोपानं—कल्पितशब्दः ॥
कीदृशमिति । निमित्तभेदात् खलु प्रत्यक्षादिनैमित्तिकभेदः सिद्ध्यति । प्रकृते च निमित्तस्यैवाभावे नैमित्तिकं शाब्दमिति कथं निर्णयेतेत्यर्थः । स्वमहिम्ना—स्वरूपत इति यावत् । नैमित्तिकं—पदार्थस्मरणादि ।
कानुसारद्वारक इत्युक्तम् । एवमश्रुतेष्यपि भविष्यति । न यजौ करणविभक्तिं शृणुमः; न स्वर्गे कर्मविभक्तिम्; नाग्नचिदादिषु क्विप्प्रत्ययम्; नाधुनादिषु प्रकृतिम्; न समासतद्धितेषु यथोचितां विभक्तिम्, अपि च प्रतीम एव तदर्थम् ॥
एवं विश्वजिदादावपि “यजेत” इति नैमित्तिकबलादेव स्वर्गकामादिपदार्थं प्रत्येष्यामः । नियोगगर्भत्वाच्च विनियोगस्य लिङ्गादीनि श्रुतिकल्पनामन्तरेणापि नियोगव्यापारं परिगृह्य तेन वस्तुनि विनियोजकतां प्रतिपत्स्यन्ते ॥
एतन्मते मुख्यगौणादिव्यवहारनिर्वाहः
नन्वेवं सति सर्वत्र शब्दव्यापारसम्भवात् ।
मुख्यस्यापि भवेत् साम्यं गौणलाक्षणिकादिभिः ॥ १४० ॥
एवमित्यादि । पदाश्रवणेऽपि प्रकारान्तरेण उपस्थितस्यार्थस्य शाब्दबोधे भानसम्भवादिति भावः । अत्र दृष्टान्तान्याह—न यजावित्यादि । शृणुम इत्युत्तरवाक्येष्वप्यन्वेति । “स्वर्गकामो यजेत” इत्यादौ हि यागस्य करणत्वावगमकतृतीयाभावेऽपि करणत्वं बोध्यत एव; यागस्वर्गयोः साध्यसाधनभावस्य वेदैकगम्यत्वात् । एवं स्वर्गस्य भाव्यत्वमपि तत्रैव बोध्यते । “अग्निचित्” इत्यादौ च “अग्नौ चेः” इति क्विबो विधानेऽपि न शृणुम एव प्रत्ययम् । “अधुना” इत्यत्र च “अधुना” इति निपातनात् प्रत्ययमात्रमेव शिष्यते । किं बहुना लोकिकेष्वपि समासादिषु राजपुरुष इत्यादौ राजादिपदात् षष्ठ्याद्यभावेऽपि तदर्थप्रतीतिः परं वर्तत एव । अतः पदादनुपस्थितस्यापि शाब्दे भानं युज्यत एवेति प्रघट्टकार्थः ॥
एवं सति—पदादनुपस्थितस्यापि शाब्दबोधविषयत्वे । शब्दव्यापारः—अर्थोपस्थितिः । एवञ्च गौणस्य लाक्षणिकस्याप्यर्थस्य शाब्दबोधविषयत्वेन मुख्यापेक्षया को विशेषस्तयोः । एवं श्रुतिलिङ्गादीनामङ्गताग्राहकाणां प्रमाणानां परस्परविरोधे पूर्वपूर्वप्राबल्यं यत् भवद्भिर्वण्यते तदपि न स्यात् । तत्र अर्थोपस्थितिं प्रति श्रुतिकल्पनाया आवश्यकत्वेन पूर्वपूर्वप्रमाणमुत्तरोत्तरं कल्पयित्वा क्रमेण श्रुतिं कल्पयतीति वक्तव्यम् । एवञ्च यावत् अनन्तर
श्रुतिलिङ्गादिमानानां विरोधे यच्च वर्ण्यते ।
पूर्वपूर्वबलीयस्त्वं, तत् कथं वा भविष्यति ? ॥ १४१ ॥
उच्यते—सत्यपि सर्वत्र शब्दव्यापारे तत्प्रकारभेदोपपत्तेरेष न दोषः । न हि पदानां सर्वात्मना निमित्तभावमपहायैव नैमित्तिकप्रतीतिरुपप्लवते । तदपरित्यागाच्च तत्स्वरूपवैचित्र्यमनुवर्तत एव ॥
अन्यथा सिंहशब्देन मतिः केसरिणीसुते ।
अन्यथा देवदत्तादौ प्रतीतिरुपजन्यते ॥ १४२ ॥
गङ्गायां मज्जतीत्यत्र गङ्गाशब्दो निमित्तताम् ।
उपयाति यथा, नैवं घोषादिवसतौ तथा ॥ १४३ ॥
श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानामपि अर्थसन्निकर्षविप्रकर्षकृतोऽस्त्येव विशेष इति तत्रापि न विनियोगसाम्यम् ॥
श्रुतिलिङ्गादिभिर्योऽपि कल्पयेद्विनियोजिकाम् ।
तस्यापि तस्यास्तुल्यत्वात् बाध्यबाधकता कथम् ? ॥ १४४ ॥
प्रमाणं श्रुतिं कल्पयितुं प्रवर्तते, तावत्येव पूर्वप्रमाणेन श्रुतेः कल्पितत्वात् अनन्तरमप्रमाणं इति हि स्थितिः । एवञ्च वाक्यकल्पनां विनैवार्थोपस्थितिमात्रमेव यदि शाब्दबोधहेतुः, तर्हि कथं प्राबल्यदौर्बल्ये वर्णयितुं शक्येतेत्याक्षेपाशयः ॥
तत्प्रकारभेदेति । शब्दव्यापारप्रकारविशेषेत्यर्थः । विशेषश्चानुपदमेवोपपाद्यते । न हीत्यादि । न हि वयं सर्वेषामपि शाब्दबोधविषयाणामर्थानां यथाकथञ्चिदुपस्थितिं ब्रूमः । किन्त्वर्थैकदेशस्यैव । लक्षणास्थले हि अवाच्यानामप्यर्थानां बोधविषयत्वं सर्वसम्मतं, न तावता शक्तेरेव लोपः । बोधस्यानुभवसिद्धत्वे तदनुगुणा सामग्री यथाकथञ्चिदुपपादनीया परं, न तूत्पादनीया । एवञ्च न कोऽपि दोष इति ॥
मुख्यलाक्षणिकबोधयोर्विशेषमाह—अन्यथेत्यादि । “सिंहोऽयम्” इत्यत्र सिंहपदेन, “सिंहो देवदत्तः” इत्यत्र च तत्पदेन विलक्षणौ बोधौ सर्वानुभवसिद्धौ, एवं “गङ्गायां मज्जति” “गङ्गायां घोषः” इत्यादौ गङ्गापदाभ्याम् । वैलक्षण्यनियामकं च आनुभाविकस्मारकशक्तिभेदो वा अन्यद्वेत्यन्यदेतदिति ॥
एवमेव श्रुतिलिङ्गादिष्वप्यूह्यम् । अन्यथा भवन्मते वा कथं निर्बाह इत्याह—श्रुतीत्यादि । तस्यापि—लिङ्गादेरपि । तस्याः—श्रुतिकल्पनायाः सर्वैरपि श्रुतिरेव कल्प्यते चेत् कथं प्राबल्यदौर्बल्यनिर्णयः ? विलम्बा
अथ तत्कल्पने तेषां विदूरान्तिकवृत्तिता ।
स एवार्थगतो न्याय इति तत्कल्पनेन किम् ? ॥ १४५ ॥
ऐन्द्राग्नादिषु वैकृतेषु कर्मसु न प्राकृतविध्यन्तवचनानुमानम्, अपि तु चोदकव्यापारेण तस्यैव प्राप्तिः । वैकृतस्य विधेः काचिदाकाङ्क्षा चोदक इत्युच्यते ॥ अर्थाध्याहारेऽपि उपदेशातिदेशयोर्वैलक्षण्यम् नन्वेवमुभयत्र तदवगमाविशेषात् उपदेशातिदेशयोः को विशेषः ? न नियोगावगमे कश्चिद्विशेषः; किन्तूपदेशे यथोपदेशं कार्यम्, अतिदेशे तु यथाकार्यमुपदेश इत्येतयोर्विशेषः ॥
ननु यथाकार्यमुपदेशेऽनुपयुज्यमानकृष्णलचर्ववघातादेः प्राप्तिरेव न भवेदिति को बाधार्थः ?—न अखण्डमण्डलविध्यन्त- विलम्बाभ्यां निर्णयश्चेत् प्रकृतेऽपि तथाऽस्तु । श्रुत्या हि शीघ्रमेवाभिमतार्थोपस्थितिः, लिङ्गेन तु विमर्शपूर्वकत्वात् ततः किञ्चिद्विलम्बेन, वाक्येन तु ततोऽधिकविमर्शसापेक्षत्वात् ततः किञ्चिद्विलम्बेनेत्येवंरीत्याऽर्थोपस्थितौ विलम्बस्यानुभवसिद्धत्वात् । एवं विकृतिषु प्रकृत्यङ्गातिदेशस्थलेऽप्यङ्गानामेवातिदेशः, न तु तद्विधायकवाक्यानां, वैय्यर्थ्यात् । अग्निविधिर्हि स्वयमेवाङ्गानेवाक्षिपति, न तु तद्वाक्यान् । अतः सर्वत्रार्थस्यैवोपस्थितिः, न तु शब्दस्येति ॥
को विशेष इति । उभयत्रापि परमुखनिरीक्षाया अनावश्यकत्वादिति भावः । नियोगावगमे—विधिरूपार्थावगताविति यावत् । न हि साभ्यागन्तरि गृहिणि भुञ्जति उभयोः भोजनफले वैषम्यमिति । उपदेशस्थले उपदेशानुरोधेन कार्यत्वावगतिः, अतिदेशस्थले तु विध्या कार्यत्वावगतौ सत्यां कथम्भावाकाङ्क्षया अङ्गप्राप्तिरिति विशेषः ॥
नन्वेवं सति—दशमे बाधाध्याये अतिदेशप्राप्तकृष्णलचर्वुपयोग्यवघातादेः अनुपयोगात् बाध इत्युक्तिर्न सङ्गच्छते । अतिदेशाद्वाक्यप्राप्तौ सत्यां खलु अवहननप्राप्तिरिति तद्बाधवर्णनमावश्यकं, यदि च कार्यानुगुणैवोपदेशकल्पना तर्हि कृष्णलचर्ववहननस्य कार्यानुगुण्यं नास्तीति स्वयमेवाप्राप्तौ कुतो बाधावतारः ? इति शङ्कते—नन्विति । समाधत्ते—नेति । अखण्डेत्यादि । अखण्डं मण्डलं येषां विध्यन्तानामिति विग्रहः । विध्यन्तः—
काण्डप्राप्तेः । न ह्यंशांशिकया चोदकः प्रवर्तत इत्यलमनया प्रसक्तानुप्रसक्त्यागतशास्त्रान्तरगर्भकथाविस्तरप्रस्तावनया ॥
एवं श्रुतार्थापत्तिप्रतिक्षेप्तृप्रभाकरपक्षोपसंहारः
इति प्रसङ्गाद्व्याख्यातं लेशतो वाक्यविन्मतम् ।
एतस्य युक्तायुक्तत्वपरिच्छेदे तु के वयम् ! ॥ १४६ ॥
श्रुतार्थापत्तिरस्माकं दूषणीयतया स्थिता ।
तद्दूषणं च पूर्वोक्तवीथ्याऽनेन पथाऽस्तु वा ॥ १४७ ॥
आलङ्कारिकपक्षप्रतिक्षेपः
एतेन शब्दसामर्थ्यमहिम्ना सोऽपि वारितः ।
यमन्यः पण्डितम्मन्यः प्रपेदे कञ्चन ध्वनिम् ॥ १४८ ॥
विधेर्निषेधावगतिर्विधिबुद्धिर्निषेधतः ।
यथा—
भव धम्मिय वीसत्थो मा स्म पान्थ ! गृहं विश ॥ १४९ ॥
मानान्तरपरिच्छेद्यवस्तुरूपोपदेशिनाम् ।
शब्दानामेव सामर्थ्यं तत्र तत्र तथा तथा ॥ १५० ॥
अङ्ग इत्युक्तम् । कृत्स्नाङ्गसमुदायस्यैव प्राप्तेरित्यर्थः । अंशांशिकया— एकैकदेशेन । तथा चातिदेशकाले कृत्स्नमपि प्राप्नुयादेव; प्राप्त्यनन्तरमेव च उपयोगानुपयोगचिन्तया बाधाद्यवतारः, न तु पूर्वमेवेति ॥
श्रुतार्थापत्ते निरसनीयत्वेनैतत्पक्षस्यायुक्तताविचारे औदासीन्यादाह— के वयमिति ॥
सोऽपि—ध्वनिरपि । विधेर्निषेधावगतेरुदाहरणम्—भव धम्मियेति । अत्र “सिंहस्तत्रास्ति, विस्रब्धो मा भव” इति ध्वन्यते । “भव धम्मिय वीसत्यो सो सुणओ अज्ज मारिओ देण । गोलाण+ईकच्छकुडङ्गवासिणा दरिअसीहेण ॥” छाया—भव धार्मिक ! विस्रब्धः स शुनकोऽद्य मारितस्तेन । गोदावरीनदीकूललतागहनवासिना दृप्तसिह्येन ॥ निषेधतः विधिबुद्धेरुदाहरणं— मा स्म पान्थेति । “न कोऽप्यस्ति गृहे, रात्रिरियं गाढा च वार्षिकी । एकाकिन्यहमप्यस्मि” इत्याद्यपादत्रयम् । अत्र “गृहं विश” इत्यर्थः ध्वन्यते । ध्वनेः पार्थक्याभावे हेतुमाह—मानान्तरेति । शाब्दबोधे हि तात्पर्य
अथवा नेदृशी चर्चा कविभिः सह शोभते ।
विद्वांसोऽपि विमुह्यन्ति वाक्यार्थगहनेऽध्वनि ॥ १५१ ॥
तदलमनया गोष्ठ्या विद्वज्जनोचितया चिरं
परमगहनस्तर्कज्ञानामभूमिरयं नयः ।
प्रकृतमधुना तस्मात् ब्रूमो न भात्यनुमानतः
तनुरपि सतामर्थापत्तेर्विशेष इति स्थितम् ॥ १५२ ॥
अनुपलब्धेः प्रमाणान्तरत्वाक्षेपः आह—अभावस्तर्हि प्रमाणान्तरमस्तुः—
सत्परिच्छेदकं यत्र न प्रमाणं प्रवर्तते ।
तदभावमितौ मानं प्रमाणाभाव उच्यते ॥ १५३ ॥
ज्ञानमेव मुख्यं कारणम् । तात्पर्यनिर्णयवेलायामेव अर्थो निर्णीत एव । तत्प्रतिपादनाच्च शब्दानां तावदर्थबोधकत्वं शक्त्या लक्षणया वा अङ्गीकरणीयमेवेति कॢप्तशब्दवृत्तिभ्यामेव बोधनिर्वाह इति भावः । ननु यदि मानान्तरपरिच्छेद्यवस्तुस्वरूपोपदेशकत्वं शब्दानां तर्हि स्मृतेरिव शाब्दबोधस्यापि प्रमात्वं न स्यादिति चेत्—तुल्यमिदमनुमितावपि । तत्र व्याप्तिग्रहणवेलायामेव धूमत्वसामान्यात् वह्नित्वसामान्यस्यापि निश्चितत्वावश्यम्भावात् । यदि च सामान्यात्मना निश्चयेऽपि विशेषात्मनाऽनिश्चयात् पक्षधर्मताज्ञानात् व्यक्तिविशेषे विश्राम्यन्ती अनुमितिः न स्मृतिरूपा भवितुमर्हतीत्युच्यते, तर्हि प्रकृतेऽपि सैव रीतिः । “न हि प्रमाणान्तरसंवाददार्ढ्यमन्तरेण प्रत्यक्षादीन्यपि प्रमाणभावं भजन्ते” [पु। १०] इति कथितमप्यत्रानुसन्धेयम् । एतद्विचारस्य प्रकृतेऽनतिप्रयोजनकत्वात् सोपहासमुपसंहरति—अथवेति । तदलमित्यादि । अयं परमगहनो विषयः तर्कज्ञानामपि दुर्निर्णेय एवं । अनुभवशरणास्तु वयं अर्थापत्तेरनुमानात् तनुमपि विशेषं न प्रतीम इत्यर्थः ॥
अभावः—उपलम्भाभावः—अनुपलब्धिरिति यावत् । यत्र भूतलादौ सतो घटादेः परिच्छेदकं ज्ञापकं प्रमाणं न प्रवर्तते तत्र तादृशघटाभावप्रमितौ प्रमाणाभावः उपलम्भाभावः मानम् । प्रतियोग्यनुपलम्भ एव अभावोपलम्भे कारणमिति यावत् ॥
इह घटो नास्तीति घटं प्रति सदुपलम्भकप्रमाणप्रवृत्तिर्नास्तीति असौ प्रमाणाभावः घटाभावं परिच्छिनत्ति ॥
तत्र च घटविषयज्ञातृव्यापारानुत्पाद एव दृश्यादर्शनवाच्यः प्रमाणं, नास्तीति बुद्धिः फलम् ॥
अथ वा घटाभावग्राही ग्रहीतृव्यापार सदुपलम्भकप्रमाणाभावजनितो नास्तीति प्रत्ययस्वभावः प्रमाणम्, फलं तु हानादिज्ञानं भविष्यति । तदुक्तम्— “
प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते ।
साऽऽत्मऽपरिणामो वा विज्ञानं वाऽन्यवस्तुनि इति ।
” अन्यवस्तुशब्दन घटाभाव एवोक्तः ॥
स्वयं व्याकरोति—इहेत्यादि ॥
प्रमाणफले विविच्य दर्शयति—तत्र चेति । ज्ञातृव्यापार ज्ञानम् । अन्धकार घटाभावप्रत्यक्षानुदयात् योग्यानुपलब्धेरेव कारणत्वेन दृश् त्युक्तम् । दृश्यादर्शनं—योग्यानुपलब्धिः ॥
हातोपादानयोरेव मुख्यफलत्वात् “नास्तीति बुद्धिः फलम्” इति न स्वरसमित्यत आह—अथ वेति । घटाभावविषयकः प्रतियोग्यनुपलब्धिजन्यः नास्तीति प्रत्ययात्मकः यः ज्ञातृव्यापारः स एव प्रमाणम्, हानोपादानः साधनत्वात् इत्यर्थः ॥
प्रत्यक्षादेरिति । प्रत्यक्षानुमानोपमानशब्दार्थापत्तीनामनुत्पत्तिरेव अभावाख्यं प्रमाणमुच्यते । प्रमाणाभावः—प्रमाणरूप अभावः उपलम्भाभावो वा । ननु आत्मनः सर्वप्रमाणानुत्पत्तिः किंरूपा ? इत्यत्राह—सेति । भाट्टेः आत्मनो नित्यस्यापि सविकारत्वमङ्गीकृतम् । तथोक्तं “विक्रिया ज्ञानरूपाऽस्य न नित्यत्वे विरोत्स्यते” इति; “नानित्यशब्दवाच्यत्वमात्मनो विनिवार्यते । विक्रियामात्रवाचित्वे न ह्युच्छेदोऽस्य तावता” इति च । एवं च घटादिज्ञाने जाते आत्मनोऽपि घटज्ञातृरूपतया परिणामः घटादिज्ञानानुत्पत्तौ च तज्ज्ञातृरूपपरिणामो नास्तीति अपरिणामी आत्माऽवतिष्ठते इति । ननु तर्हि सुपुप्तिरेव स्यात् जाग्रद्दशायां यत्किञ्चिद्विषयभानस्य नियतत्वेन आत्मनः परिणामाभावो न वक्तुं शक्य इति चेदाह—विज्ञानं वेति । न सर्वथा परिणामाभावः । किन्तु यत्किञ्चिद्वस्तु भासत एव । किं तदन्यवस्त्वित्यत्राह—अन्यवस्तुशब्देनेति ॥
तत्र तावदिदं नास्तीति ज्ञानं न प्रत्यक्षजनितम्, इन्द्रियार्थसन्निकर्षाभावात् । सन्निकर्षो हि संयोगसमवायस्वभावः, तत्प्रभवभेदो वा संयुक्तसमवायादिरिह नास्त्येव । संयुक्तंविशेषणभावोऽपि न सम्भवति, कुम्भाभावस्य भूप्रदेशविशेषणत्वाभावात् । न ह्यसंयुक्तमसमवेतं वा किञ्चिद्विशेषणं भवति । संयुक्तस्य दण्डादेः समवेतस्य शुक्लगुणादेः तथाभावदर्शनात् । अभावश्च न केनचित्संयुज्यते, अद्रव्यभावात् । न क्वचित् समवैति, गुणादिवैलक्षण्यादिति ॥
यदि च संयुक्तविशेषणभावसन्निकर्षोपकृतं चक्षुरभावं गृह्णाति, तर्हि तदविशेषात् संयुक्तद्रव्यवृत्तीन् रसादीनपि गृह्णीयात् ॥
अयोग्यत्वान्न गृह्णातीति चेत्—तदभावमपि मा ग्रहीत्, अयोग्यत्वाविशेषात् । योग्यायोग्यत्वकृतग्रहणाग्रहणनियमवादे वा अभावस्य प्रत्यक्षाद्यगम्यत्वमुपपादयति—तत्र तावदिति । संयुक्तसमवायादिरित्यादिना अवशिष्टद्वयपरिग्रहः । नास्तीति । असम्भवादेवेत्यर्थः । विशेषणतायाः सन्निकर्षत्वं निराकरोति—संयुक्तविशेषणभाव इति । अद्रव्यभावात्—द्रव्यरूपत्वाभावात् । द्रव्ययोरेव खलु संयोगः ॥
बाधकमप्याह—यदि चेति । रसादीनपीति । घटाभावस्य चक्षुस्संयुक्तभूतलविशेषणत्वात् चक्षुषा ग्रहणं चेत् चक्षुस्संयुक्तखण्डशर्करादिविशेषणत्वात् रसादेरपि चक्षुषा ग्रहणं कुतो न स्यादित्यर्थः ॥
अयोग्यत्वाविशेषादिति । रसादिवत् चक्षुर्ग्रहणायोग्यत्वादित्यर्थः । ननु योग्यत्वायोग्यत्वे कार्यानुमेये । एवं चानुभवानुरोधात् अभावः चक्षुर्योग्य एव, रसादिश्च तदयोग्य इति कल्पयाम इत्यत्राह—योग्यायोग्यत्वेति । किम् ? इत्यधिक्षेपे । “योग्यं गृह्यते, अयोग्यं न गृह्यते” इत्येवं मुखपिधाने
योग्यतैव सन्निकर्षो भवतु; किं षट्कघोषेण ? तस्मान्न घटाभावज्ञानं चाक्षुषम् ॥
अभावस्यैन्द्रियकत्वनिरासः
ननु भूप्रदेशं च घटाभावं च विष्फारिते चक्षुषि निरीक्षामहे; निमीलिते तु तस्मिंस्तयोरन्यतरमपि न पश्यामः । तत्र समाने च तद्भावभावित्वे भूप्रदेशज्ञानं चाक्षुषम्, अभावज्ञानं तु न चाक्षुषमिति कुतो विशेषमवगच्छामः ?
बाढमवगच्छामः सन्निकर्षाभावादेव । न ह्यसन्निकृष्टं चक्षुरवगतिजन्मने प्रभवति ॥
तद्भावभावित्वं त्विदमन्यथासिद्धम्; विदूरदेशव्यवस्थितस्थूलज्वालावलीजटिलज्वलनगतभास्वररूपोपलम्भानुवर्तितद्गतोष्णस्पर्शज्ञानवत् । तत्र यथा रूपानुमीयमानस्पर्शवेदने नयनान्वयव्यतिरेकानुविधानमन्यथासिद्धम्, एवमिहापि भूप्रेदेशोपलम्भाविनाभाविनि कुम्भाभावग्रहणे तत्कृतमिन्द्रियान्वयव्यतिरेकानुविधानमिति न चाक्षुषो घटाभावप्रतिभासः । तदुक्तम्—
“
गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् ।
मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया इति ॥
” संयुक्तविशेषणतादिषड्विधसन्निकर्षवर्णनं किमर्थमित्यर्थः । तस्मात्—योग्यत्वायोग्यत्वकृतवैषम्यस्य दुर्वचत्वात् ॥
तद्भावभावित्वे—तस्य भावे सति भावित्वं इत्यन्वयः, अवधारणविवक्षया च तस्याभावे सत्यभावित्वमिति व्यतिरेकश्च लभ्यते, तथा च— चक्षुस्संयोगान्वयव्यतिरेकानुविधायित्व इति यावत् ॥
अवगतिजन्मने—ज्ञानोत्पादनाय ॥
विदूरेत्यादि । विदूरदेशव्यवस्थितः स्थूलज्वालावलीजटिलश्च यः ज्वलनः तद्गतभास्वररूपोपलम्भानुवर्ति यत् तद्गतोष्णस्पर्शज्ञानं तद्वदित्यर्थः । तादृशज्वलनदर्शनकाले एव तद्गतोष्णस्पर्शज्ञानं जायत एव, अथापि न तच्चाक्षुषं, एवमेव भूतलदर्शने सति घटाभावज्ञानमित्यर्थः । तत्कृतं—अविनाभावकृतम् ॥
स्वोक्तार्थे भट्टाचार्यसम्मतिमाह—तदुक्तमिति । वस्तु—अभावाधि
अतश्चैव असन्निहितस्यापि क्वचिद्ग्रहणम् । स्वरूपमात्रकेण गौरमूलकपलब्धवतः ततो देशान्तरं गतस्य तत्र केनचित् गर्गोऽस्ति वा ? नास्ति वा ? इति पृष्टस्य सत स्वरूपमात्रं गृहीतम् । गौरमूलकमनुस्मरतः तदानीमसन्निकृष्टंऽपि गर्गस्य भावे तदैव तस्य ज्ञानमुदेति । तत्र इन्द्रियकथापि नास्तीति न तस्य प्रत्यक्षत्वम् ।
अभावस्यानुमानागम्यत्वम्
न चानुमानगम्योऽयमभावः; भूप्रदेशस्य, तद्गतघटादर्शनस्य वा लिङ्गत्वानुपपत्तः । न भूप्रदेशो लिङ्गम्; अगृहीतसम्बन्धस्यापि तत्प्रतीतेः, अनैकान्तिकत्वात्, अपक्षधर्मत्वात्, तदधिकरणाभावानन्त्येन सम्बन्धग्रहणासम्भवाच्च । नापि घटादर्शनं लिङ्गम्;
करणभूतं वस्तु । एवञ्च प्रतियोगिस्मरणकालीनाधिकरणदर्शनाविनाभूतमपि अग्न्युष्णस्पशज्ञानवत् नैन्द्रियिकमभावज्ञानं, अपि तु मानसमेवेति ॥
एवं तद्भावभावित्वमभ्युपगम्य तस्यान्यथासिद्धिरुक्ता; वस्तुतस्तु तद्भावभावित्वमेव तस्य नास्तीत्याह—अतश्चेति । यत अभावज्ञानमधिकरण ज्ञानं च भिन्नप्रमाणजन्यम्, अत एव कुत्रचित् अधिकरणग्रहणव्यवधानेनाप्यभावग्रहणं दृश्यत इत्यर्थः । अत्र वार्तिकोक्तार्थे स्वयं दृष्टान्तमाह—स्वरूपमात्रणेत्यादि अभावरूपविशेषणग्रहणं विनेत्यर्थः—गौरमूलकमिति स्वपितामहग्रामस्य नाम—तथा च वक्ष्यति—“अस्मत्पितामह एव ग्रामकामः साङ्ग्रहणीं कृतवान्; स इष्टिसमाप्तिसमनन्तरमेव गौरमूलकं ग्राममवाप” इति । तत्र— देशान्तरे गर्गोऽस्ति वेति गौरमूलकग्राम इति शेषः । असन्निकृष्ट इति । इन्द्रियेणेति शेषः । तस्य—गर्गाभावस्य । “न च प्रातरवगतोऽभावस्तदा स्मर्यत इति वाच्यम्, प्रतियोगिनस्तदानीं कथञ्चिदपि बुद्धावनारोहात्” इति शास्त्रदीपिकावचनमपीह योजनीयम् ॥
ननु असकृत् घटयुक्तं भूतलं, तद्रहितं च तत् पश्यन् यदा शुद्धं भूतलं पश्यति तदा घटाभावमनुमिनोति भूयोदर्शनवशादिति शङ्कते—न चेति । लिङ्गं विकल्प्य दूषयति—भूप्रदेशस्यति अगृहीतेति । व्याप्तिज्ञानशून्यस्येत्यर्थः । तदसम्भवहेतुमाह—अनैकान्तिकत्यादिति । घटेन साकमपि भूतलस्य बहुशस्सहचारदर्शनादिति शेषः । अपक्षधर्मत्वात्— भूतलस्य भूतलधर्मत्वाभावात् । तदधिकरणेति । घटाभावाधिकरणेत्यर्थः ।
अपक्षधर्मत्वात् । घटादर्शनं घटस्य धर्मः, न तदभावस्य । घटाभावप्रतीतिं प्रति व्याप्रियमाणत्वात् तद्धर्मत्वमस्येति चेत्—न— इतरेतराश्रयप्रसङ्गात् । तद्धर्मत्वे सति लिङ्गप्रतीतिजनकत्वं, प्रतीतिजन्मनि सति तद्धर्मत्वमिति । असिद्धायां च घटाभावप्रतीतौ तद्धर्मताज्ञानमदर्शनस्य दुर्घटमेव । सिद्धायां तु किं पक्षधर्मताज्ञानेन ? साध्यप्रतीतेः सिद्धत्वात् ॥
अपि चेदमदर्शनाख्यं लिङ्गमविदितव्याप्ति कथमभावस्यानुमापकं भवेत् ? व्याप्तिग्रहणं च धूमाग्निवत् उभयधर्मिग्रहणपूर्वकम् । तत्र व्याप्तिग्रहणवेलायामेव तावत् कुतस्त्यमभावाख्यधर्मिग्रहणमिति चिन्त्यम् ॥
तत एवानुमानादिति यद्युच्यते, तदितरेतराश्रयम् । अनुमानान्तरनिबन्धने तु तद्ग्रहणेऽनवस्था ॥ घटस्य धर्म इति । घटस्य दर्शनमित्युक्ते हि दर्शने घटधर्मत्वं विषयीक्रियते, घटस्य रूपमितिवत् । एवं अदर्शनमपि तथैव विषयीक्रियत इत्यनुभवसिद्धमेतत् । ननु धर्मत्वं बहुविधं, यथा हि आत्मधर्मोऽपि ज्ञानं सम्बन्धान्तरेण घटधर्मो भवति, यथा वा वह्निव्याप्यो धूमः वह्निधर्मोऽपि भवति तथा घटाभावप्रतीतिजनकत्वादेव अदर्शनं घटाभावधर्मोऽपि भवितुमर्हत्येवेति शङ्कते—घटाभावेति ॥
उभयधर्मीति । व्याप्यव्यापकरूपधर्मीत्यर्थः । एवञ्च घटाभावरूपस्य व्यापकस्य घटादर्शनरूपस्य व्याप्यस्य च प्रथमं स्वरूपग्रहणमन्तरा व्याप्तिग्रहणमेव न सम्भवेत् । प्राथमिकं च तत् घटाभावज्ञानं केन प्रमाणेन जायत इति वक्तव्यम् । यदि तेनैवानुमानेन, तर्हि, अनुमानेन धर्मिग्रहणं, धर्मिग्रहणे चानुमानप्रवृत्तिरित्यन्योऽन्याश्रयः । यदि चानुमानान्तरेण तर्ह्यनवस्था । प्रत्यक्षस्य च प्रसक्तिर्वारितैवेति ॥
किञ्च घटादर्शनमपि घटदर्शनाभावरूपं, स च हेतुभूतः दर्शनाभावः केन गृह्यत इति यथोक्तदोषानतिपातः ॥
न चेदं शाब्दादिरूपं, तन्निमित्तानां शब्दादीनां सर्वथाऽप्रवृत्तः । अतः अभावः अभावाख्येन प्रमाणान्तरेणैव गम्य इति प्रघट्टकार्थः ॥
अदर्शनाख्यं लिङ्गमपि दर्शनाभावस्वभावमिति तत्स्वरूपपरिच्छेदचिन्तायामप्ययमेव पन्थाः । अतो दूरमपि गत्वा तदवगमसिद्धये प्रमाणान्तरमभावपरिच्छेदनिपुणमवगन्तव्यमिति तत एव तदवगमसिद्धेर्न तस्यानुमेयत्वम् ॥
न चेदं “इह घटो नास्ति” इति ज्ञानं शब्दोपमानार्थापत्त्यन्यतमनिमित्तमाशङ्कितुमपि युक्तमिति सदुपलम्भकप्रमाणातीतत्वादभावस्यैव भूमिरभाव इति युक्तम् ॥
अपि च प्रमेयं अनुरूपेण प्रमाणेन प्रमातुमुवितम्—
भावात्मके प्रमेये हि नाभावस्य प्रमाणता ।
अभावेऽपि प्रमेये स्यात् न भावस्य प्रमाणता ॥ १५४ ॥
न प्रमेयमभावाख्यं निह्नुतं बौद्धवत् त्वया ।
प्रमाणमपि तेनेदं अभावात्मकमिष्यताम् ॥ १५५ ॥
अभावाख्यातिरिक्तप्रमाणनिराकरणम्
अत्राभिधीयते—सत्यमभावः प्रमेयमभ्युपगम्यते, प्रत्यक्षाद्यवसीयमानस्वरूपत्वात्तु न प्रमाणान्तरमात्मपरिच्छित्तये मृगयते ।
अदूरमेदिनीदेशवर्तिनस्तस्य चक्षुषा ।
परिच्छेदः परोक्षस्य क्वचिन्मानान्तरैरपि ॥ १५६ ॥
भावात्मक इत्यादि । प्रमेये भावरूपे प्रमाणोऽपि भावरूप एव स्यात् । अभावः यदा प्रमेयः, तदा प्रमाणमप्यभावरूपम् । गन्धादिग्राहकाणामिन्द्रियाणां गन्धवत्त्वादिनाऽऽनुरूप्यस्य सम्मतत्वात् । अभावाख्यं प्रमेयं त्वतिरिक्तमङ्गीकृतम्, एवं सति तेन सहातिरिक्तं प्रमाणमप्यङ्गीकार्यमेव । दुःखं माऽस्तु, सुखं परं भवत्विति कोऽयं न्याय इति भावः ॥
सत्यमित्यादि । न वयं प्रमाणं विना प्रमेयमात्रमङ्गीकुर्मः, परन्तु प्रमाणेन कॢप्तातिरिक्तेनैव भाव्यमिति कुतो भर्त्सयति भवान् ? समीपस्थस्याभावस्येन्द्रियेण ग्रहणं, परोक्षस्य तु यथासम्भवमनुमानादिनाऽपि इति नातिरिक्तप्रमाणापेक्षेति ॥
तथा च “इह घटो नास्ति” इति ज्ञानमेकमेवेदम् “इह कुण्डे दधि” इति ज्ञानवत्, उभयालम्बनमनुपरतनयनव्यापारस्य भवति । तत्र भूप्रदेशमात्र एव नयनजं ज्ञानम्, इतरत्र प्रमाणान्तरजनितमिति कुतस्त्योऽयं विभागः ?
अत्राग्निरिति युक्तोऽयं अनक्षजः प्रतिभासः । धूमग्रहणानन्तरं अविनाभावस्मरणादिबुद्ध्यन्तरव्यवधानसम्भवात् । इह तु तथा नास्त्येव । अव्यवहितैव हि भूप्रदेशवत् घटनास्तिताऽवगतिरविच्छेदेनानुभूयते । न च क्षितिधराधिकरणपरोक्षाशुशुक्षणिवदनीक्षणविषयता भवत्यभावस्य; तद्व्यापारान्वयव्यतिरेकानुविधायित्वात् तत्प्रतीतेः । तत्र हि व्यापृताक्षोऽपि न पर्वतवर्तिनमनलमवलोकयितुमुत्सहते; इह तु घटाभावमपरिम्लाननयनव्यापार एव पश्यतीति चाक्षुषमभावज्ञानम्, तद्भावभावित्वानुविधानात् ॥
अभावाधिकरणयोरेकप्रमाणगम्यत्वमुपपादयति—तथा चेत्यादिना । “इह कुण्डे दधि” इति ज्ञानं हि विशेष्यविशेषणोभयविषयकं चाक्षुषमेव । एवं भूतले घटाभावः इत्यत्रापि उभयोरप्येकेन प्रमाणेन ग्रहणं युक्तम् । न ह्येकमेव ज्ञानं विशेष्यांशे चाक्षुषं विशेषणांशे मानसमिति सम्भवेत्, प्रमाणभेदे प्रमितिभेदावश्यम्भावात् । न वेदं विभिन्नमेव ज्ञानद्वयम्, अननुभवात् । अतः ज्ञानैक्ये अनुभवसिद्धे प्रमाणपरिशीलनायां विशेष्यग्रहणार्थमावश्यकेन चक्षुषैव विशेषणग्रहणमकामेनापि वाच्यमिति ॥
ननु यद्येकस्मिन्नेव ज्ञाने एकांशे परोक्षत्वं अपरांशेऽपरोक्षत्वं च नाङ्गीक्रियेत तर्हि “पर्वतो वह्निमान्” इति ज्ञानं कथम् ? तत्र हि पर्वतः अपरोक्षः, वह्निश्च परोक्षः । एवं प्रकृतेऽपि भूतलांशे ऐन्द्रियिकम्, अभावांशे अनैन्द्रियिकमिति कुतो न स्यादिति शङ्कायां, “पर्वतो वह्निमान्” इति विशिष्टमेकं ज्ञानं परोक्षमेव । पर्वतो धूमवान् इति पक्षधर्मताज्ञानं परमपरोक्षम् । अतो नानुपपत्तिरित्याह—अत्राग्निरित्यादि । इह—भूतलं घटाभाववदित्यत्र । तथा— बुद्ध्यन्तरव्यवधानम् । अनीक्षणविषयता—चक्षुरिन्द्रियाग्राह्यता । अपरिम्लानेति । अनुपरतेत्यर्थः । तद्भावभावित्वेति । अस्य अनन्यथासिद्धेत्यादिः ॥
न च दूरस्थितहुतवहरूपदर्शनपूर्वकस्पर्शानुमानवदिदमन्यथासिद्धं तद्भावभावित्वम् । तत्र हि बहुशः स्पर्शदर्शनकौशलशून्यत्वमवधारितं चक्षुषः, स्पर्शपरिच्छेदि च कारणान्तरं त्वगिन्द्रियमवगतम् ॥
अविनाभाविता च पुरा तथाविधयो रूपस्पर्शयोरुपलब्धेत्यनुमेय एवासौ स्पर्श इति युक्तं तत्रान्यथासिद्धत्वं चक्षुर्व्यापारस्य ॥
प्रकृते तु नेदृशः प्रकारः समस्ति । न चैकत्र तद्भावभावित्वमन्यथासिद्धमिति सर्वत्र तथा कल्प्यते । एवं हि रूपमपि चाक्षुपतामवजह्यात् ॥
वैभवेन अभावस्य चाक्षुषत्वसमर्थनम्
ननु नीरूपस्यासम्बद्धस्य च चाक्षुषत्वमभावस्यकथमभिधीयते ?
चक्षुर्जनितज्ञानवत्त्वाद्धि चाक्षुषत्वम्, न रूपवत्त्वेन । रूपवतामपि परमाणूनामचाक्षुषत्वात् । नीरूपस्यापि रूपस्य चाक्षुषत्वाच्च ॥
सम्बद्धमपि न सर्वं चाक्षुषम्, आकाशस्य तथात्वेऽपि तदभावात् ।
अनन्यथासिद्धत्वमेवाशङ्क्योपपादयति—न चेति । स्पर्शदर्शनकौशलं स्पर्शविषयकप्रत्यक्षजननसामर्थ्यम् ॥
तथाविधयोः—ज्वालाबलीजटिलेत्याद्युक्तविधयोः ॥
एवमिति । परमाणौ रूपसत्वेऽपि चक्षुषाऽग्रहणात् रूपं चाक्षुपे कारणं न स्यात् । यदि तत्राग्रहणमन्यथासिद्धं प्रकृतेऽपि तथा । तस्मादेकैव रीतिः सर्वत्र वक्तुमशक्येति भावः ॥
असम्बद्धस्येति । चक्षुषेति शेषः । एवमुत्तरत्र सर्वत्रापि ॥
चक्षुर्जतितेत्यादि । चक्षुषा गृह्यत इत्यस्मिन्नर्थे “शेषे” इति सूत्रात् शैषिकेऽणप्रत्यये खलु “चाक्षुषम्” इति पदनिष्पत्तिः । एवञ्च चक्षुरिन्द्रियजन्यज्ञानविषयत्वं चाक्षुषपदप्रवृत्तिनिमित्तम् । न तु रूपवत्त्वम्, अन्वयतो व्यतिरेकत्वश्च व्यभिचारात् इत्यर्थः ॥
एवं नीरूपस्य, असम्बद्धस्य—इत्युक्तयोः नीरूपत्वस्यान्यथासिद्धिमुक्त्वा द्वितीयस्य तामाह—सम्बद्धमपीति । विभोः खल्वाकाशस्य चक्षुस्सम्बन्धः अवर्जनीय इति भावः ॥
ननु असम्बद्धस्य चक्षुषा ग्रहणे दूरव्यवहितस्य विभीषणादेरपि चाक्षुषत्वप्रसङ्गः—उच्यते—भावे खल्वयं नियमः, यत् असम्बद्धस्य चक्षुषाऽग्रहणम्, अभावस्त्वसम्बद्धोऽपि चक्षुषा गृहीष्यते ॥
षट्प्रकारसन्निकर्षवर्णनमपि भावाभिप्रायमेव, सम्बद्ध हि यत् गृह्यते तत् षण्णां सन्निकर्षणामन्यतमेन सन्निकर्षेणेति ॥
प्राप्यकारित्वमपीन्द्रियाणां वस्त्वभिप्रायमेवोच्यते । तस्मादवस्तुत्वादभावस्य तेन सन्निकर्षमलभमानमपि नयनमुपजनयति तद्विषयमवगममिति न दोषः ॥
न चासम्बद्धत्वाविशेषात् देशान्तरादिषु सर्वाभावग्रहणमाशङ्कनीयम्, आश्रयग्रहणसापेक्षत्वादभावप्रतीतः; आश्रयस्य च सन्निहितस्यैव प्रत्यक्षत्वात् ॥
स्वपक्षेन अभावस्य प्रत्यक्षत्वोपपादनम्
अथवा संयुक्तविशेषणभावाख्यसन्निकर्षोपकृतं चक्षुरभावं ग्रहीष्यति । यथा समवायप्रत्यक्षत्ववादिनां पक्षे समवायामति ॥
विभीषणस्येदानीमपि लङ्कायां राज्यकरणस्य पुराणप्रसिद्ध्या विर्भाषणादेरित्युक्तम् । यद्वा दूरव्यवधानं कालतो देशतश्चेति कृत्वा तथोक्तम् । इन्द्रियसम्बन्धं विनाऽपि चाक्षुषत्वे देशान्तरकालान्तरव्यवहितस्यापि चाक्षुषत्वं स्यादित्यर्थः ॥
ननु यदि अभावः इन्द्रियसन्निकर्षं विनाऽपि गृह्येत तर्हि विशेषणताख्यसन्निकर्षः किमर्थमिति शङ्कायां, समवायप्रत्यक्षे तदुपयोक्ष्यते, एवञ्च षड्विधसन्निकर्षोऽपि भावविषयक एवेत्याह—षट्प्रकारेति । सम्बद्धमिति । इन्द्रियेणेति शेषः ॥
ननु तर्हि इन्द्रियाणां प्राप्यकारित्वं भज्येतेति कथं बौद्धपराकरणम् ? इति शङ्कायामाह—प्राप्यकारित्वमिति । वस्त्विति भावरूपेत्यादिः । भवति, अस्ति इति प्रतीतिविषयत्वमिति यावत् । अवस्तुत्वादिति । अभावरूपत्वादित्यर्थः । तेन—अभावेन ॥
देशान्तरादिष्वित्यादिना कालान्तरपरिग्रहः । आश्रयेति । निष्प्रतियोगिकः यथा वाऽभावो नास्ति, तथा निरनुयोगिकोऽपि नास्तीति भावः ॥
एवं वैभवेनोक्त्वा वस्तुगत्याऽऽह—अथवेति । पक्षे—नैय्यायिकपक्षे । तथा च प्रत्यक्षलक्षणसूत्रन्यायवार्तिकम्—“समवायेऽभावे च विशेषणविशेष्यभावात्” इति । समर्थितं चैतत् तात्पर्यटीकायां वाचस्पतिमिश्रैः ॥
संयुक्तविशेषणतासन्निकर्षस्यावश्यकत्वम्
ननु तदिदमसिद्धमसिद्धस्य दृष्टान्तीक्रियते—मैवम्— भवताऽपि द्रव्यगुणयोर्वृत्तेरपरिहार्यत्वात् । भेदबुद्ध्या सिद्धभेदयोः असम्बद्धयोश्च द्रव्यगुणयोरदर्शनात् अवश्यं काचिद्वृत्तिरेषितव्येति अलमर्थान्तरचिन्तनेन ॥
अभावस्य सम्बन्धोपपादनम्
यत्तूक्तं संयोगसमवाययोरभावात् अभावो न भूप्रदेशस्य विशेषणमिति—तदप्यसाधु—संयोगसमवायाभ्यामन्यस्यैव विशेषणविशेष्यभावनाम्नः सम्बन्धस्य अदूर एव प्रतीतिबलेन दर्शयिष्यमाणत्वात् ॥
संयुक्तविशेषणतायाः सन्निकर्षत्वे उक्तातिप्रसङ्गपरिहारः
यस्तु संयुक्तविशेषणभावे सन्निकर्षे रसादिभिरतिप्रसङ्ग उद्भावितः, सोऽयं संयुक्तसमवायाख्ये चक्षूरूपसन्निकर्षेऽपि समानो दोषः ॥
संयुक्तसमवायोऽपि तर्हि मा भूत् सन्निकर्षः; किं नश्छिन्नम् ? तत्किं असम्बद्धमेव रूपं गृह्णातु चक्षुः ! न हि संयुक्तसमवायादन्यः चक्षूरूपयोः सम्बन्धः ॥
असिद्धमिति । समवायस्यैव तन्मतेऽसिद्धत्वात् । वृत्तेः—सम्बन्धस्य । ननु भाट्टानामस्माकं द्रव्यगुणयोर्नात्यन्तभेदः, किन्तु भेदाभेदे एवेति शङ्कायां, तस्याः परिहारस्य बहुग्रन्थसाध्यत्वेन सङ्क्षेपात् परिहारमाह—भेदबुद्ध्यति । “घटः रूपवान्, न तु रूपम्” इति प्रतीतेरित्यर्थः ॥
अन्दूर इति । बौद्धाक्षेपप्रतिवचनावसर इत्यर्थः ॥
अतिप्रसङ्ग इति । चक्षुस्संयुक्तरसखण्डादौ रसस्य विशेषणत्वादित्यर्थः । चक्षूरूपेति । चक्षुषः रूपेण सहेत्यर्थः । चक्षुस्संयुक्तघटादिसमवायः रूपे रसे चाविशिष्टः, अथापि चक्षुषा रूपमेव गृह्यते न रस इति यथा, तथा प्रकृतेप्यस्त्वित्यर्थः ॥
ननु कं प्रत्युच्यते, न वयं संयुक्तसमवायमभ्युपगच्छामः—इति भावेन वक्ति—संयुक्तेति । प्रतिवक्ति—तत्किमिति । नन्वस्तु सम्बन्धः, स भवदुक्त एवेति कथमित्यत्राह—न हीति ॥
सन्निकर्षाणामावश्यकता
ननु ! अर्थग्रहणात्मको व्यापार एव चक्षुषः सन्निकर्षो योग्यता वा । तद्वशादेव रूपस्य तत् ग्राहकमुपेयते, न च संयुक्तसमवायादिनेति—स तर्हि व्यापारः, सा वा योग्यता कथमभावमपि प्रति तस्य न स्यात् । प्राप्यकारीणि चेन्द्रियाणि कारकत्वादिष्यन्ते, सन्निकर्षश्च निह्नूयते इति विप्रतिषिद्धम् ॥
तस्मात् षट्प्रकारा सन्निकर्षानुगामिनी योग्यता वक्तव्या, न योग्यतामात्र एव विश्रम्य स्थातव्यम् । यत्र योग्यता तत्र सन्निकर्षोऽप्यस्ति, न तु यत्र सन्निकर्षः तत्रावश्यं योग्यतेत्येवमभ्युपगच्छतां न रसाद्यतिप्रसङ्गचोदना धुनोति मनः । रसादेः सत्यपि सन्निकर्षे योग्यत्वाभावादग्रहणम् ॥
योग्यतामात्रवादेऽपि नाभावस्यास्त्ययोग्यता ।
भवद्भिर्वस्तुधर्मोऽस्य को वा नाभ्युपगम्यते ? ॥ १५७ ॥
सर्वोपाख्यवियुक्तत्वात् नास्त्येवेत्येष वोच्यताम् ।
अभावश्चाक्षुषज्ञानविषयो वाऽभ्युपेयताम् ॥ १५८ ॥
ननु इदमसङ्गतम्, अन्यस्यैव सन्निकर्षत्वात् । तथोक्तं—“व्यापारो न यदा तेषां तदा नोत्पद्यते फलम्” इति । उक्तं चात्रैव भट्टोम्बेकेन—“योग्यतालक्षण एव सन्निकर्षः, योग्यता च कार्यानुमेया” इति । तदिदं शङ्कते—नन्विति । समाधत्ते—स तर्हीति । तस्य—इन्द्रियस्य । प्राप्यकारीणीत्यादि । “सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां” इत्यनेन खलु इन्द्रियसंयोगः वस्तूनामुच्यते, संयोगश्चानेकविध इति सूचनाय “सम्प्रयोग” इति च; एवं सति कथं सन्निकर्षो निह्रूयत इति भावः ॥
षट्प्रकारा योग्यता इत्यन्वयः ॥
एवं सन्निकर्षेणैव योग्यताया उपपादनीयत्वेन सन्निकर्षावश्यकत्वमुक्त्वा केवलयोग्यतापक्षेऽपि नानुपपत्तिरित्याह—योग्यतामात्रवादेऽपीति । घटादेरिव सर्वोऽपि धर्मः तैरभावस्याङ्गीक्रियते । एवञ्च अभावस्यैतान् धर्मान् प्रतिषिध्य शशशृङ्गादिवत् निरुपाख्यत्वरूपावस्तुत्वमेवाङ्गीक्रियतां, चाक्षुषत्वं वाऽङ्गीक्रियताम्; न तु अभावं वस्तुरूपमङ्गीकृत्य तस्यानैन्द्रियिकत्वाङ्गीकरणं युक्तमित्यर्थः ॥ अभावस्याप्रत्यक्षत्वे पूर्वोक्तयुक्तिनिराकरणम्
यदपि—
स्वरूपमात्रं दृष्ट्वाऽपि पश्चात् किञ्चित् स्मरन्नपि ।
तत्राम्यनास्तितां पृष्टः तदैव प्रतिपद्यते ॥
इत्युक्तं—तदपि न युक्तम्—वस्त्वन्तरविविक्तगौरमूलकस्वरूपग्रहणसमय एव तत्रासन्निहितसकलपदार्थाभावग्रहणस्य मेचकबुद्ध्या सिद्धत्वात् इदानीं तद्गतगर्गाभावस्मरणं न तस्य परोक्षस्यानुभवः ॥
तथा हि—“तदानीं गर्गस्तत्र नासीत्” इत्येवं असौ स्मृत्वा सत्यवादी वदति, इदानीमस्तित्वनास्तित्वे प्रति संशेत एवासौ; गर्गस्य कुतश्चिदागतस्येदानीं तत्रास्तित्वसम्भवात् ॥
ननु ! न पूर्वं सर्वाभावग्रहणमनुभूतवानसौ गौरमूलके इति चेत्—अननुभूयमानमपि तदस्य बलात् कल्प्यतेऽभ्यस्तविषयेऽविनाभावस्मरणवत् । तथा हि—तेन तेनानुयुक्तः तस्य तस्याभावं स्मृत्वोत्तरमसौ सर्वेभ्य आचष्टे ॥ स्वरूपमात्रमित्यादि । एतत्तात्पर्यं पूर्वमेव [१३४ पुटे] विवृतम् । इत्युक्तमिति । कुमारिलभट्टपादैः श्लोकवार्तिक इति शेषः । वस्त्वन्तरविविक्तेति । “स्वरूपमात्रं” इति श्लोकखण्डार्थानुवादः । मेचकबुद्ध्या— अप्रातिस्विकबुद्ध्या । एवञ्च सामान्यतो गौरमूलके निखिलाभावग्रहणं पूर्वमेव जातम्, यदा च प्रतियोगिविशेषोपस्थिति तदा विशिष्य तदभावस्मरणम् । “निर्विशेषं न सामान्यम्” इति न्यायात् । पूर्वं गौरमूलकगतत्वेन खलु अभावमयं व्यवहरति, न तु व्यवहारकालेऽपि तत्र गर्गस्यासत्त्वं प्रतिज्ञ तुं प्रभवति । एवञ्च पूर्वगृहीताभावस्मरणमेवेदमित्यर्थः ॥
न पूर्वमनुभूतवानिति । पूर्वं गौरमूलके न हि सर्वाभावप्रत्यक्षं जातमित्यर्थः । अननुभूयमानं—अनुव्यवसायागम्यम् । तत्—सर्वाभावग्रहणम् । कथं अननुभूतस्य कल्पनं, न हि तदा निर्विकल्पकमासीत् । तस्य संस्काराहेतुत्वात् इत्यत्राह—अभ्यस्तेति । अनभ्यस्तविषये व्याप्तिस्मरण
ननु ! मेचकबुद्ध्या सकलाभावग्रहणे सहसैव सकलाभावस्मृतिरुपजायेत—मैवम्—यत्रैव प्रश्नादिस्मरणकारणमस्य भवति तदेव स्मरति, न सर्वमविद्यमानस्मरणनिमित्तम् । क्रमोपलब्धेष्वपि वर्णेषु युगपदन्त्यवर्णानुभवसमनन्तरं स्मरणम्, अन्यत्र तु युगपदुपलब्धेऽपि क्रमेण स्मरणं भविष्यतीति न मेचकबुद्धावयं दोषः ॥
किञ्च स्वरूपमात्रं दृष्टमिति वदता भवताऽपि मेचकज्ञानमभ्युपगतमेव; मात्रग्रहणेन तदन्याभावग्रहणसिद्धेः । एवं हि भवानेवाभ्यधात्—
“
अयमेवेति यो ह्येष भावे भवति निर्णयः ।
नैष वस्त्वन्तराभावसंवित्त्यनुगमादृते इति ॥
” तस्मात् गौरमूलकावगमसमय एव तत्रासन्निहितस्य गर्गादेरभावग्रहणात् नेदानीं परोक्षाभावग्रहणमभावकारणकमभ्युपगन्तव्यमिति प्रत्यक्षगम्य एवायमभावः ॥ परिशीलनादिभिः विलम्बः सम्भाव्येत । असकृदभ्यस्तविषये हि अनुमितिरपि प्रत्यक्षवदेव शीघ्रं जायते । एवं प्रकृतेऽपि पूर्वज्ञानस्य शीघ्रमुपजातत्वेन नानुभवः । यथा हि भावविषयेऽपि कदाचित् रथ्यायां गच्छन् गर्गं पश्यन्नपि तदानीमेव नास्य तज्ज्ञानानुभवः, देशान्तरे च पुरुषान्तरेण “किं गर्गः इतोऽगच्छत् ?” इति पृष्टः तदानीं गर्गं किञ्चिच्चिन्तनया प्रतिसन्धाय “आः सत्यं गतः” इति प्रतिवदति । तदानीं गर्गस्मरणमेव, न त्वपूर्वानुभव इति सर्वैरास्थेयमेव । एवं अयं न्यायः तुल्यः अभावविषयेऽपि इति ॥
यत्रेत्यादि । भूतले यदा घटो गृह्यते, तदा तदितरयावत्प्रतियोगिकाभावः सामान्यतो गृह्यत एव । अत एव कालान्तरे तत्र पट आसीद्वेति प्रश्ने तदा पटस्य विशिष्य प्रतियोगिन उपस्थित्या विशिष्य पटाभावः स्मर्यते इतीदं सर्वानुभवसिद्धमेवेति । अत्र दृष्टान्तमाह—क्रमेति । व्यतिरेकदृष्टान्तोऽयम् ॥
इदं तेषामप्यपरिहार्यमित्याह—किञ्चेति । अयमेवेति । अयमेवेति यः भावविषयक एष निर्णयः भवति, एष निर्णयः एवकारार्थत्वेन अभावस्यानुमेयत्वाभावः कुत्रचित्सम्मत एव यत्पुनरननुमेयत्वं “इह घटो नास्ति” इति प्रकृताभावविषयमभ्यधायि—तत् अस्माकमभिमतमेव ॥
कश्चित्पुनरसन्निकृष्टदेशवृत्तिरनुमेयोऽपि भवत्यभावः—यथा सन्तमसे सलिलधाराविसरसिक्तसस्यमूलमभिवर्षति देवे घनपवनसंयोगाभावोऽनुमीयते; यथा वा अर्थापत्तावुदाहृतं गृहाभावेन चैत्रस्य बाहेरभावकल्पनमिति ॥
आगमादप्यभावस्य क्वचिद्भवति निश्चयः ।
चोरादिनास्तिताज्ञानं अध्वगानामिवाप्ततः ॥ १५९ ॥
प्रमाणप्रमेययोरानुरूप्यं न नियतम् यत्पुनः—अनुरूपेण प्रमाणेन प्रमेयं प्रमीयते, प्रमेयत्वात्, भावात्मकप्रमेयवदिति—एतदप्यप्रयोजकं साधनम् ॥
अभावः पटलादीनां प्रत्यक्षस्य प्रपद्यते ।
विपक्षवृत्त्यभावश्च लिङ्गस्य सहकारिताम् ॥ १६० ॥
पुरुषोक्तिषु दोषाणामभावश्चोपयुज्यते ।
सामग्र्यन्तर्गतात् तस्मात् अभावादपि भावधीः ॥ १६१ ॥
वस्त्वन्तराभावग्रहणमन्तरा नैव भवति इत्यर्थः । एवञ्च स्वरूपमात्रं गृह्यते चेत् इतरत् किञ्चिदपि विशेषणं न गृहीतमेवेति मेचकबुद्ध्या यावदभावः गृह्यत एवेति ॥
केषाञ्चिदभावानामनुमेयत्वस्याप्युत्तरत्र वक्ष्यमाणत्वात् सामान्यतः अभावानुमेयत्वनिरासः नाभ्युपगन्तुं शक्य इत्यतः—प्रकृतेति । अभिमतमेवेति । “इह घटो नास्ति” इति प्रतीतेः प्रत्यक्षत्वादित्यर्थः ॥
सर्वथाऽनुमेयत्वसूचनाय—सन्तमस इति ॥
पटलः—नेत्ररोगविशेषः । प्रत्यक्षस्येति । उत्तरार्धगतं “सहकारितां” इति पदमत्राप्याकर्षणीयम् । विपक्ष इति । विपक्षावृत्तित्वं हि लिङ्गस्याङ्गम् । वेदे दोषाप्रसक्तेः—पुरुषोक्तिष्विति । लौकिकपुरुषोक्तिष्वित्यर्थः । दोषाणां—विप्रलम्भकत्वादीनाम् । तस्मात्—
अभावश्च क्वचिल्लिङ्गमिष्यते भावसंविदः ।
वृष्ट्यभावोऽपि वाय्वभ्रसंयोगस्यानुमापकः ॥ १६२ ॥
तस्माद्युक्तमभावस्य नाभावेनैव वेदनम् ।
न नाम यादृशो यक्षो वलिरप्यस्य तादृशः ॥ १६३ ॥
इति अभावाख्यप्रमाणनिरसनम्
बौद्धोक्ताभावनिराकरणप्रकारः
अत्र रक्तपटाः प्राहुः प्रमेये सति चिन्तनम् ।
युक्तं नाम प्रमाणस्य, तदेव त्वतिदुर्लभम् ॥ १६४ ॥
अभावो नाम प्रतीयमानो न त्वतन्त्रतया घटादिभावस्वरूपवदनुभूयते, अपि तु देशकालप्रतियोगिविशिष्टत्वेन । तथा ह्येवं प्रतीतिः “इदमिदानीमिह नास्ति” इति । स चेत्थमवगम्यमानोऽपि यदि तैः सम्बद्ध एव भवेदभावः, क एनं द्विष्यात् । न त्वसौ तत्सम्बद्धः । न हि देशेन कालेन प्रतियोगिना सहास्य कश्चित् सम्बन्धः, संयोगसमवायादेरनुपपत्तेः । न च सम्बन्धरहितमेव विशेषणं भवति ॥ विशेषणविशेष्यभावस्य सम्बन्धत्वनिराकरणम् ननु ! विशेषणविशेष्यभाव एव सम्बन्धः, किं सम्बन्धान्तरापेक्षया ?—मैवम्—सम्बन्धान्तरमूलकत्वेन तदवगमात् । संयुक्तं कारणात् । अभावेन भावानुमितौ दृष्टान्तमाह—वृष्टीति । अत्र गगनं, वाय्वभ्रसंयोगवत्, अत्र वृष्ट्यभावादिति । न नामेति । सर्वत्रेति शेषः ॥
रक्तपटाः—बौद्धाः । प्रमाणस्य चिन्तनमित्यन्वयः । तदेव— अभावरूपं प्रमेयमेव । अतन्त्रतया—स्वतन्त्रतया । इदमिति प्रतियोगि, इदानीमिति कालः, इहेत्यनुयोगि चोच्यते । तैः—देशकालप्रतियोगिभिः । संयोगेति । द्रव्ययोरेव संयोगात्, अवयवावयव्यादीनामेव समवायादित्यर्थः ॥
तदवगमात्—विशेषणविशेष्यभावावगमात् ॥
समवेत वा विशषण भवति; दण्डी देवदत्तः, नीलमुत्पलमिति । अतश्च न वास्तवः स्वतन्त्र एव विशेषणविशेष्यभावः सम्बन्धः ॥
पुरुषेच्छया विपर्यस्यन्तमप्येनं पश्यामः । विशेषणमपि विशेष्यीभवति, विशेष्यमपि विशेषणीभवतीति काल्पनिक एवायं सम्बन्धः, न वस्तुधर्मः ॥
अभावप्रतियोगिनोः प्रतियोगित्वं न सम्बन्धः
प्रतियोगिना सह नतरामभावस्य सम्बन्धः, असमानकालत्वात् । यदा हि घटः, न तदा तदभावः; यदा वा तदभावः, न तदा घट इति ॥
विरोधाख्यः सम्बन्धो भविष्यतीति चेत्, को विरोधार्थः ? यदि हि प्राक् सिद्धो घटाभावः आगत्य घटं विरुन्ध्यात् भवेदपि तद्विरोधी, घटमुद्गरयोरिव; न त्वेवमस्ति, तयोरसमानकालत्वात् । अभ्युपगमे वा घटतदभावयोः घटमुद्गरयोरिव वध्यघातुकयोः साहचर्यमनुभूयेत । घटाभावः किं कुर्वन् घटं विरुन्ध्यात् ? अकिञ्चित्करस्य विरोधित्वेऽतिप्रसक्तिः । अभावान्तरकरणे त्वनवस्था । मुद्गरादयो घटाभावस्य हेतवो न भवितुमर्हन्ति; भावस्य स्वत एव भङ्गुरत्वेन विनाशहेत्वनपेक्षत्वात् ॥
एवं—विशेषणविशेष्यभावम् । घटवत् भूतलमित्यत्र हि घटो विशेषणं, भूतलं विशेष्यं; भूतले घट इत्यत्र तु घटो विशेष्यः, भूतलं विशेषणमिति विपर्यासो दृश्यते । एवं घटाभाववत् भूतलमित्यादावपीत्यर्थः ॥
विरोधः—प्रतियोगिताऽपरपर्यायः । अभ्युपगम इति । समानकालिकत्वेत्यादिः । अतिप्रसक्तिः—पटाभावस्यापि घटेन साकं विरोधापत्तिः । ननु अभावं भावं करोति चेदुपलम्भाद्यापत्तिः, अभावकरणे तु को दोषः ? इत्यत्र ह—अभावान्तरेति । ननु मुद्गरेण खलु घटध्वंसो जन्यते, तेन घटध्वंसमुद्गरयोः कार्यकारणभावो वाच्यः । असम्बद्धयोश्च कार्यकारणभावो न स्यात् । एवञ्च भावाभावयोः सम्बन्धः सिद्ध एव । अथ तयोः कार्यकारणभाव एव सम्बन्धः, नातिरिक्त इति चेत्—प्रतियोग्यभावयोरपि निरूपकनिरूप्य— भावादिरेव यः कश्चित्सम्बन्धोऽस्तु । भावाभावयोस्तु सम्बन्धः अभ्युपगत एव इति शङ्कायां तयोः कार्यकरणभाव एव नास्तीति, न प्रतियोग्यभावयोः सम्बन्धो युज्यत इत्याह—मुद्गरादय इति । भङ्गुरत्वेन—प्रतिक्षणं नश्यमानत्वेन ॥
भावो विनश्वरात्मा चेत्, कृतं प्रलयहेतुभिः ।
अथाप्यनश्वरात्मा चेत्, कृतं प्रलयहेतुभिः ॥ १६५ ॥
तस्माद्विजातीयकपालादिसन्ततिजनन एव मुद्गरादिकारकव्यापारः; सामग्र्यन्तरानुप्रवेशे सति सन्तत्यन्तरोत्पादः, न पुनरभावस्य ततो निष्पत्तिः । स हि घटात् वस्त्वन्तरं चेत् किमायातम् ? यदसौ न पूर्ववदुपलभ्यते । तद्विरोधित्वादिति चेत्, प्रत्युक्तमेतत् । अनर्थान्तरत्वे तु घटस्यैव मुद्गरकार्यत्वं स्यात् ॥
परिणामवाद्युक्ताभावस्वरूपनिराकरणम्
ननु ! यानि मुद्गरेण कपालानि जन्यन्ते, स एव घटाभावः । हन्त तर्हि कपालास्फोटने सति घटाभावस्य विनष्टत्वात् घटस्योन्मज्जनं प्राप्नोति ॥
किञ्च अकिञ्चित्कराणि कपालानि घटस्याभाव इति यद्युच्यते, पटस्यापि तथोच्येरन् । किञ्चित्कारकत्वं तेषां पूर्ववत् प्रतिक्षेप्तव्यम् ॥
भाव इति । घटादिः यद्यनित्यस्वभावः, तर्हि नाशोऽपि स्वतो भविष्यत्येव । यद्यविनाशस्वभावः, तदा मुद्गरादयो वा किं कुर्युः ? अत उभयथाऽपि न विनाशकारणापेक्षेत्यर्थः ॥
तर्हि मुद्गरेण किं क्रियत इत्यत्राह—तस्मादिति । विजातीयेति । घटसन्तानात् विलक्षणस्य कपालसन्तानस्य जनन एव मुद्गरोपयोग इत्यर्थः । सः—घटनाशः । किमायातमिति । घटवत् घटनाशाख्यं स्वतन्त्रं वस्त्वन्तरं जातं चेत्, उभयमप्युपलभ्यतां कामम् । विरोधित्वान्नोभयोपलब्धिरिति चेत्, सः अनुपदमेव निरस्तः । घटनाशस्य घटादनर्थान्तरत्वे घटनाशको मुद्गरो घटहेतुः स्यात् । अतो नाशः न स्वतन्त्रः कश्चित्पदार्थः ॥
ननु घटस्य ध्वंसो नाम कपालावस्थाप्राप्तिरेव । सा च भवद्भिरप्यङ्गीकृता, एवञ्च कुतो विवादः ? इत्याशङ्कते—नन्विति ॥ समाधत्ते—हन्तेति । कपालावस्थैव यदि घटध्वंसरूपा, तर्हि कपालस्य नाशे घटध्वंसस्यापि नाशात् पुनर्घटोन्मज्जनं स्यात् । वयं तु ध्वंसमेव नाङ्गीकुर्म इति नास्माकं दोष इत्यर्थः ॥
अकिञ्चित्कराणि—अनिरूपकाणीति यावत् । तथा—नाशत्वेन ॥
अभावस्वरूपानुपपत्तिः
अपि चायमभावो भवनधर्मा वा स्यात् ? अभवनधर्मा वा ? भवनधर्मत्वे भावोऽसौ भवेत्, घटादिवत् । अभवनधर्मा तु यद्यभावोऽस्ति, स नित्य एवासौ तर्हि भवेत् ॥
अभावस्य सप्रतियोगिकत्वनिरासः
स चायमेकपदार्थसम्बन्धी वा स्यात् ? सर्वपदार्थसम्बन्धी वा ? तत्र एकभावसम्बन्धित्वे न तस्य नियमकारणमुत्पश्यामः । सर्वभावसम्बन्धित्वे तु सर्वपदार्थप्रतिकृलस्याभावस्य नित्यत्वात् नित्यसन्निहितत्वात् सकृदेव त्रैलोक्यलोपप्रसङ्गः । तस्मात् न नित्योऽनित्यो वा कश्चिदभावो नामास्ति ॥
अभावानभ्युपगमेऽपि न साङ्कर्यम्
ननु ! अभावानभ्युपगमे भावानामितरेतरसङ्करात् अखिलव्यवहारविप्लवः प्राप्नोति । यदाह—
“
क्षीरे दधि भवेदेवं दध्नि क्षीरं घटे पटः ।
शशे शृङ्गं पृथिव्यादौ चैतन्यं मूर्तिरात्मनि ॥ इति ॥
” प्रकारान्तरेणाभावं निराकरोति—स चेति । अभावः किं एकप्रतियोगिकः ? उत सर्वप्रतियोगिकः ? आद्ये—विनिगमनाविरहः, द्वितीये—सकृदेव सर्वाभावस्य सिद्ध्या त्रैलोक्यनिवृत्तिप्रसङ्ग इति भावः । अनित्यो वेति । अनित्यत्वे हि सार्वत्रिकस्य अभावव्यवहारस्य विलोपप्रसङ्ग इति भावः ॥
इतरेतरसाङ्कर्यमेवाह—क्षीर इत्यादि । श्लोकवार्तिकोऽयम् । अतिरिक्ताभाववादिशान्तरक्षितविरचिततत्त्वसङ्ग्रहेऽपि अयमर्थः प्रकारान्तरेण दृश्यते । यद्यभावाख्यः कश्चन पदार्थो न स्यात् तदा जगति विरोध एवोपपादयितुमशक्यः । विरोधस्याभावरूपत्वात् । एवञ्च विरोधाभावे च सर्वं सर्वरूपं स्यात् । क्षीरे हि दध्नः प्रागभावो वर्तते, यदि प्रागभावो न स्यात्, क्षीरे दधि स्यात् । एवं दध्नि क्षीरध्वंसो वर्तते, यदि ध्वंसो न स्यात्, तर्हि दध्न्यपि क्षीरं स्यात् । एवं घटे पटान्योन्याभावो वर्तते, यदि अन्योन्याभावो न स्यात्, तर्हि घटोऽपि पटः स्यात् । एवं शशे शृङ्गाभावो वर्तते, यद्यत्यन्ताभावो न स्यात्, तर्हि शशेऽपि शृङ्गं स्यात् । अतः भावानां साङ्कर्यवारणायाभावः अवश्यमङ्गीकरणीयः इति ॥
अभावाभ्युपगमे तु भावानामिन्तरेतराभावात् असङ्कीर्णता सेत्स्यति—तदेतदसाधु—स्वत एव भावानामसङ्कीर्णस्वभावत्वात् ॥
अभावकारणकसङ्करपरिहारकथने तु सुतरां विप्लवः—
भावो भावादिवान्यस्मात् अभावांशादपि ध्रुवम् ।
असङ्कीर्णोऽभ्युपेतव्यः स कथं वा भविष्यति ? ॥ १६६ ॥
अन्योन्यमप्यभावानां यद्यसङ्कीर्णता स्वतः ।
भावैः किमपराद्धं वः, परतश्चेत्, कुतो नु सा ? ॥ १६७ ॥
भावेभ्यो यद्युपेयेत भवेदन्योन्यसंश्रयम् ।
अभावान्तरजन्या चेत् अनवस्था दुरुत्तरा ॥ १६८ ॥
अभावस्वभावतायाश्च सर्वान् प्रत्यविशेषात् प्रतिषेध्यनिबन्धन एव तद्भेदः । प्रतिषेध्याश्च भावाः परस्परेण भिद्यमानास्तं भिन्दन्तीति प्रत्युत भावाधीनमभावानामसाङ्कर्यं वक्तुमुचितम्, न तु विपर्ययो युक्तः । तत् अखिलपदार्थव्यवस्याविसंष्ठुली भावभयादपि नाभावाभ्युपगमो युक्तः ॥
भाव इत्यादि । घटादिर्भावः अन्यस्मात् पटादिभावात् भिद्यते, तथा अभावादपि स भिद्यत एवेति वक्तव्यम्, अन्यथा भावाभावयोः साङ्कर्यप्रसङ्गः । अभावप्रतियोगिकान्योन्याभावाङ्गीकारे त्वनवस्था किञ्च घटाभावः पटाभावाद्भिद्यत एव । तयोरन्योन्याभावाङ्गीकारादनवस्था । यदि अभावस्थले अन्योन्याभावमन्तरा स्वत एव भेदव्यवहारनिर्बाहः, तर्हि भावयोरपि तथैव स्वतः असङ्कीर्णव्यवहारोऽस्तु । यद्यभावयोः परस्परभेदः प्रतियोगिभूतघटपटादिभेदादेव सिद्ध्यतीत्युच्यते—तर्ह्यन्योन्याश्रयः भावयोः घटपटयोः भेदो हि अभावात् सिद्ध्यति, अभावयोस्तु भावात् सिद्ध्यतीति । अतः स्वलक्षणस्वभावानां भावानां भेदः स्वत एवास्त्विति नातिरिक्ताभावसिद्धिः इत्यर्थः ॥
प्रत्युत विपर्यय एवेत्याह—अभावेति । प्रतियोगिनिरूप्या ह्यभावाः प्रतियोगिभेदादेव परस्परविलक्षणा वाच्याः, अभावानां निराकारत्वात् । प्रतियोगिनस्तु घटपटादयो विलक्षणाः स्वतः प्रत्यक्षत एव सिद्धाः । अतः अभावानां साङ्कर्यवारणाय भावा अङ्गीकार्या इति कथनं युज्येतापि, न तु भावानां असाङ्कर्याय अभावोऽङ्गीकार्य इति भावः ॥
अतिरिक्ताभावानभ्युपगमपक्षे नञर्थः
नन्वभावप्रतिक्षेपे नञः किं वाच्यं ? उच्यताम् ।
नैव शब्दानुसारेण वाच्यस्थितिरुपेयते ॥ १६९ ॥
बौद्धाः खलु वयं लोके सर्वत्र ख्यातकीर्तयः ।
विकल्पमात्रशब्दार्थपरिकल्पनपण्डिताः ॥ १७० ॥
क्वचिन्नामपदप्राप्तवृत्तिना जन्यते नञा ।
निषेधपर्युदस्तान्यविषयोल्लेखिनी मतिः ॥ १७१ ॥
क्वचित्त्वाख्यातसम्बन्धमुपेत्य विदधात्यसौ ।
तदुपात्तक्रियाऽऽरम्भनिवृत्त्युल्लेखमात्रकम् ॥ १७२ ॥
अभावानभ्युपगमेऽप्येकादशविधानुपलब्धिनिर्वाहः
ननु ! चानेन मार्गेण यद्यभावो निरस्यते ।
एकादशप्रकारैषाऽनुपलब्धिः क्व गच्छतु ॥ १७३ ॥
१। स्वभावानुपलब्धिर्यथा—नेह घटः, अनुपलब्धेः—इति ॥
बौद्धाः खलु वयमिति । बुद्ध्या परिकल्पितेन वस्तुनैव व्यवहारं निर्वहामः । अतो वयं बौद्धाः । अतः सर्वस्यापि शब्दस्यार्थः वास्तविक एवेति न नियमः । एवञ्च अभ वाख्यवस्तुन अभावेऽपि नञ्व्यवहारो युज्यत एवेत्यर्थः । एतदेवाह—क्वचिदित्यादि । नञर्थो हि द्विविधः; पर्युदासः, प्रतिषेधश्च । तत्र पर्युदासे—“न घटः पटः” इत्यादौ हि अन्योन्याभावो भासते । स च परस्परापोहरूप एवेति नातिरिक्तः । प्रतिषेधे—चैत्रः कटं न करोति इत्यादौ च क्रियानिवृत्तिरेव बोध्यते । सा च स्वरूपमेव कुत्रचित्, कुत्रचिच्च वस्त्वन्तररूपेति न ततोऽप्यभावसिद्धिरिति ॥
एकादशप्रकारेति । न्यायबिन्द्वादौ धर्मकीर्त्याद्युक्तेत्यर्थः । धर्मोत्तराचार्यैश्चेमा अनुपलब्धयः विशदं व्याख्याताः ॥
अत्र “स्वभाव” इत्यादौ “प्रतिषेध्यस्य” इत्यादिः । प्रतिषेध्यस्य यः स्वभाव इति । एवमेवोत्तरत्रापि । इह इति पक्षः, न घट इति साध्यः, अनुपलब्धेरिति हेतुः । धूमवह्न्योरिव घटस्य स्वेन साकं कार्यकारणभावाभावात् स्वभावानुपलब्धिः ॥
२। कारणानुपलब्धिर्यथा—नात्र धूमः, दहनानुपलब्धेः—इति ॥
३। व्यापकानुपलब्धिर्यथा—नात्र शिंशपा, वृक्षानुपलब्धेः— इति ॥
४। कार्यानुपलब्धिर्यथा—नात्र निरपवादा धूमहेतवः सन्ति, धूमानुपलब्धेः—इति ॥
५। स्वभावविरुद्धोपलब्धिर्यथा—नात्र शीतस्पर्शः, पावकोपलब्धेः—इति ॥
६। स्वभावविरुद्धकार्योपलब्धिर्यथा—नात्र शीतस्पर्शः, धूमोपलब्धेः—इति ॥
७। विरुद्धव्याप्तोपलब्धिर्यथा—न ध्रुवभावी भूतस्यापि भावस्य विनाशः, हेत्वन्तरापेक्षणात्—इति ॥
८। कार्यविरुद्धोपलब्धिर्यथा—नात्र शीतकारणमप्रतिबद्धसामर्थ्यमस्ति, ज्वलनोपलब्धेः—इति ॥
९। व्यापकविरुद्धोपलब्धिर्यथा—नात्र तुहिनस्पर्शः, कृशानुदर्शनात्—इति ॥
द्वितीये—धूमं प्रति दहनस्य कारणत्वात् कारणानुपलब्धिः ॥
तृतीये—शिंशपापेक्षया वृक्षः व्यापकः ॥
चतुर्थे—धूमकारणानां धूमः कार्यः । कारणे सति कार्येण भवितव्यमेवेति न निर्बन्धः, प्रतिबन्धकाद्यपवादे सति कार्यानुत्पत्तेः । अतः “अप्रतिबद्धसामर्थ्यानि” इति न्यायबिन्दूक्तमेव “निरपवादाः” इत्युक्तम् ॥
पञ्चमे—शीतस्पर्शविरुद्धत्वं पावकस्य ॥
षष्ठे—स्वभावविरुद्धस्य वह्नेः कार्यः धूमः ॥
सप्तमे—ध्रुवभावित्वविरुद्धेन अध्रुवभावित्वेन हेत्वन्तरापेक्षणं व्याप्तम् । एतद्विचारः क्षणभङ्गे भविष्यति ॥
अष्टमे—शीतकारणस्य यत् कार्यं शीतस्पर्शादि, तद्विरुद्धः ज्वलनः ॥
नवमे—तुहिनस्पर्शव्यापकशीतस्पर्शविरुद्धः कृशानुः ॥
१०। कारणविरुद्धोपलब्धिर्यथा—नैतस्यरोमहर्षदन्तवीणादिविशेषाः सन्ति, सन्निहितहुतवहविशेषात्—इति ॥
११। कारणविरुद्धकार्योपलब्धिर्यथा—प्रवृत्तदन्तवीणादिविशेषपुरुषाधिष्ठित एष देशो न भवति, धूमवत्त्वात्—इति ॥
सत्यम्, एकादशविधाऽनुपलब्धिरिहेष्यते ।
सा त्वसद्व्यवहारस्य हेतुः नाभावसंविदः ॥ १७४ ॥
अनुपलब्धेः स्वभावहेतावन्तर्भावो युज्यते
ननु ! अनुपलब्धेः स्वभावहेतावन्तर्भाव उक्तः, स्वभावहेतौ च साध्यसाधनयोरव्यतिरेक इष्यते । असद्व्यवहारश्च ज्ञानाभिधानात्मकत्वात् तत एव पृथमिति कथं तद्विषयतां यायात्—सत्यमेवम्— किन्तु नासद्व्यवहारस्तया साध्यते, अपि तु तद्योग्यता । योग्यता च न ततोऽर्थान्तरमिति न स्वभावहेतुत्वहानिः ॥
दशमे—रोमहर्षादिकारणशीतस्पर्शविरुद्धः हुतवहः ॥
एकादशे—दन्तवीणादिकारणविरुद्धस्य वह्नेः कार्यभूतः धूमः ॥
एकादशविधानुपलब्धिः असद्व्यबहारस्य हेतुरिष्यत इत्यन्वयः । अभावसंविदः—अभावाख्यप्रमेयनिर्णयस्य । बौद्धमते असद्व्यवहारस्येष्टत्वात् व्यवहारमात्रात् नार्थसिद्धिरित्यर्थः ॥
अन्तर्भाव इति । यद्यपि धर्मकीर्तिना हेतुबिन्दौ “त्रीण्येव च लिङ्गानि, अनुपलब्धिः स्वभावकार्ये चेति” इति अनुपलब्धिः पृथगुक्ता; अथापि उत्तरत्र तत्रैव “अत्र द्वौ वस्तुसाधनौ, एकः प्रतिषेधहेतुः” इत्युक्तम् । तेनैव प्रमाणवार्तिकेऽपि “स्वभावकार्यसिद्ध्यर्थं” इत्यादिना हेतुद्वैविध्यं प्रतिपाद्य “हेतुस्वभावव्यावृत्त्यैवार्थव्यावृत्तिवर्णनात् । सिद्धोदाहरणेत्युक्ताऽनुपलब्धिः पृथक् न तु” इत्युक्तम् । तदनुयायिना मोक्षाकरगुप्तेनाऽपि तर्कभाषायां; प्रथमं लिङ्गत्रैविध्यमुक्त्वा “ननु ! यद्यनुपलब्धेरपि तादात्म्यतदुत्पत्ती एव सम्बन्धौ, कथं तर्हि कार्यस्वभावाभ्यामनुपलब्धेर्भेदः ? प्रतिषेधसाधनात् भेदः, न वस्तुतः” इत्युक्त्वा पूर्वोक्तधर्मकीर्तिवाक्यमेव प्रमाणतयोपन्यस्तमिति ज्ञेयम् । तद्योग्यता—व्यवहारयोग्यता । ततः—वस्तुस्वभावात् ॥
ननु ! योग्यता भावात्मिका, अनुपलब्धिस्त्वभावस्वभावेति कथमनर्थान्तरत्वम् ?—नैतदेवम्—न ह्युपलब्धिप्रतिषेधात्मिकामभावस्वभावामनुपलब्धिमनुपलब्धिविदो वदन्ति, किन्तु प्रतिषेधपर्युदस्तवस्त्वन्तरोपलब्धिमेवार्थाभावस्वभावामिति ॥
अत एवेदमपि न चोद्यम्—अनुपलब्धेरभावात्मकत्वात् अनुपलब्ध्यन्तरपरिच्छेद्यत्वादनवस्थेति; यस्मात् वस्त्वन्तरोपलम्भात्मिकाऽनुपलब्धिः स्वसंवेद्यैवेति ॥
अनुपलम्भमात्रात् न अतीन्द्रियाणां अभावव्यवहारः सिद्ध्येत्
ननु ! अनुपलब्धेः असद्व्यवहारसिद्धौ अदृश्यस्यापि तथात्वं सिद्ध्येत्—न—दृश्यत्वविशेषणोपादानादुपलब्धिलक्षणप्राप्तस्यानुपलब्धेरसद्व्यवहारः, न यस्य कस्य चिदिति । तत्र—
घटादेः पूर्वदृष्टस्य दृश्यत्वपरिनिश्चयात् ।
असत्त्वव्यवहारो हि सिद्ध्यत्यनुपलब्धितः ॥ १७५ ॥
एकान्तानुपलब्धेषु विहायःकुसुमादिषु ।
दृश्यत्वयोग्यतायोगात् असत्त्वपरिनिश्चयः ॥ १७६ ॥
अनर्थान्तरत्वं—भावरूपाया योग्यताया इति शेषः । प्रतिषेधेत्यादि । प्रतिषेधेन पर्युदस्तं व्यावर्तितं यत् वस्त्वन्तरं तदुपलब्धिमेव पूर्ववस्त्वभावस्वभावामित्यर्थः । केवलभूतलोपलम्भ एव अभावोपलम्भ इति भावः ॥
स्वसंवेद्यैवेति । उपलम्भस्य ज्ञानरूपत्वेन तस्य स्वप्रकाशत्वादित्यर्थः ॥
अदृश्यस्य—अतीन्द्रियस्य पिशाचादेः । दृश्यत्वविशेषणेति । तथोक्तं हेतुबिन्दौ “प्रतिषेधसिद्धिरपि यथोक्ताया एवानुपलब्धेः” इति । व्याख्यातं च धर्मोत्तराचार्येण—“प्रतिषेधव्यवहारस्य सिद्धिः यथोक्ता यादृश्यनुपलब्धिः तत एव भवति” इति ॥
तदानीमदृश्यत्वाविशेषेऽपि घटगगनकुसुमपिशाचाद्यभावानां विशेषानाह—घटादेरित्यादि । कालान्तरे दृष्टस्यैव घटादेः इदानीमनुपलम्भादिदानीमसत्त्वमात्रं निश्चीयते, न तु सर्वदाऽसत्त्वम् । गगनकुसुमादेस्तु
पिशाचादेस्तु दृश्यत्वनिश्चयोऽनवधारणात् ।
न शक्योऽनुपलम्भेन कर्तुं नास्तित्वनिश्चयः ॥ १७७ ॥
तत्रापि त्वपिशाचोऽयं चैत्र इत्येवमादिषु ।
तादात्म्यप्रतिषेधेषु दृश्यत्वं नोपयुज्यते ॥ १७८ ॥
पिशाचेतररूपो हि चैत्रः प्रत्यक्षगाचरः ।
ताद्रूप्यनिश्चये तस्य किं फलं तद्विशेषणम् ॥ १७९ ॥
इत्यसद्व्यवहारस्य सिद्धेरनुपलब्धितः ।
न भाववदभावाख्यं प्रमेयमवकल्पते ॥ १८० ॥
बौद्धमतप्रतिक्षेपः अत्राभिधीयते—इदं तावत्सकलप्राणिसाक्षिकं संवेदनद्वयमुपजायमानं दृष्टं “इह घटोऽस्ति” “इह नास्ति” इति । तत्र विकल्पमात्रसंवेदनमनालम्बनम् ? आत्मांशाबलम्बनं वा ? इत्यादि यदभिलप्यते, तत् नास्तित ज्ञान इव अस्तिताज्ञानेऽपि समानम् । अतो द्वयोरपि प्रामाण्यं भवतु ! द्वयोरपि वा मा भूत् !
यत्तु—अस्तीति ज्ञानं प्रमाणम् इतरत्त्वप्रमाणमिति कथ्यते— तदिच्छामात्रम् । अस्तीतिज्ञानसमानयोगक्षेमत्वे च नास्तीतिज्ञानस्य विषयश्चिन्तनीयः ॥ सर्वदाऽनुपलम्भात् सर्वदाऽसत्त्वं निश्चीयते । पिशाचादेस्तु अस्मादृशैरनुपलम्भेऽपि माम्बिकयोगिप्रभृतिभिरुपलम्भात् अनुपलम्भमात्रान्न नास्तित्वं निश्चेतुं शक्यम् । एवमत्यन्ताभावस्थल एव प्रतियोगिदृश्यत्वमपेक्षितम्, अन्योन्याभावस्थले तुअनुयोगियोग्यत्वमेव । यथा “चैत्रः पिशाचो न” इत्यादौ हि पिशाचस्यादृश्यत्वेऽपि तद्भेदः चैत्रे सर्वैः गृह्यत एवेति सङ्क्षेपः ॥
विकल्पेत्यादि । अनालम्बन एव विकल्पः सर्वोऽपीति माध्यमिकाः, आत्माबलम्बन इति योगाचाराः । आत्मशब्दः स्वशब्दपर्यायः, नैरात्म्यवादिनो हि ते । स्वशब्दश्च संवेदनपरामर्शी । विषयस्य बाह्यत्वात् आत्मांशेत्युक्तम् । परन्तु “अस्ति” “नास्ति” इति ज्ञानद्वयमपि विकल्परूपमेव । एवं सति “अस्ति” इति प्रतीतिविषयः कल्पितो वाभावः अङ्गीक्रियते, “नास्ति” इति प्रतीतिविषय अभावः परं नेत्यतिविचित्रमेतदिति ॥
न भूतलमात्रं अभावः
ननु ! घटविविक्तभूतलोपलम्भभावे घटानुपलम्भ इत्युक्तम्— तदयुक्तम्—केयं घटविविक्तता ? सा भूप्रदेशादभिन्ना ? भिन्ना वा ? अभेदे भूप्रदेशाविशेषात् घटसन्निधानेऽपि “घटो नास्ति” इति प्रतिपत्तिर्जायेत । भेदेऽपि नाम्नि विवादः स्यात् ॥
भेदाभेदेन चिन्त्या च घटादपि विविक्तता ।
अभेदे घट एव स्यात् भेदे चाभाव एव सा ॥ १८१ ॥
तत् “इह घटो नास्ति” इति घटविविक्तभूतलालम्बनतायामस्याः संविदः, “इह” इति तावदस्मिन् संविदंशे देश आलम्बनमित्यविवाद एव, “इह घटोऽस्ति” इति भावप्रतीतिसमयेऽपि तत्र तदवभासाभ्युपगमात् । “घटो नास्ति” इत्यत्र तु यदवभासते, तत् न भूतलमात्रमेव; भावप्रतीतिसमयवत् तदतिरिक्तप्रतिभास-
पूर्वोक्तं [१५३ पुटे] आक्षिपति—नन्विति । विविक्तता, राहित्ये, कैवल्यं वा । घटविविक्तं भूतलभित्यत्र घटविविक्तताख्यः कश्चन धर्मः भूतले अङ्गीक्रियते उत नेति विकल्प्य, द्वितीये उभयोरभेदे घटकालेऽपि घटविविक्ततारूपभूतलसत्वात् “घटो नास्ति” इति व्यवहारापत्तिः; यदि च स अतिरिक्तो धर्मः तर्हि सिद्धः भूतलातिरिक्तः अभाव इत्याह—केयमित्यादिना ॥
प्रकारान्तरेणापि विकल्प्य दूषयति—भेदाभेदेनेति । घटात्, तद्विविक्तता, अतिरिक्ता ? न वा ? आद्ये अभावसिद्धिः । द्वितीये घट एव घटाभावरूपः स्यात् । न चेष्टापत्तिः; तर्हि घटे सत्येव घटाभावप्रतीत्यापत्तिः । भेदाभेदपक्षस्तु व्याहत एवेत्याशयः ॥
“इह घटो नास्ति” इत्यस्याः संविदः घटविविक्तभूतलालम्बनतायां सिद्धायामित्यन्वयः । “इह” इत्यस्य देशालम्बनत्वे प्रमाणं दर्शयति— इह घटोऽस्तीति । तदवभासेति । देशप्रतिभानेत्यर्थः । भावप्रतीतिसमयवविति “इह घटः” इत्यत्र यथा इहशब्दार्थापेक्षया घटशब्दार्थः पृथग्भूतः, तथा “इह न घटः” इत्यत्रापि इहशब्दार्थापेक्षया न घट इत्यंशः अतिरिक्त एवेति भावः ॥
स्यावश्यभावित्वात् । तदतिरिक्तं तु प्रतिभासमानं घटविविक्ततेति वा कथ्यतां, घटाभाव इति वा ! नात्र वस्तुनि विशेषः ॥
अभावप्रतीतिर्न मिथ्या
ननु ! “घटो नास्ति” इति विकल्पमात्रमेतत्—न—दर्शनानन्तरप्रवृत्तत्वेन विधिविकल्पतुल्यत्वात् ॥
यथाऽनुभवमुत्पत्तुमर्हन्ति किल कल्पनाः ।
प्रतिषेधविकल्पस्तु न विध्यनुभवोचितः ॥ १८२ ॥
अभावविकल्पाः भावविकल्पतुल्या एव
ननु ! नैव विकल्पानां वयं प्रामाण्यवादिनः ।
कामं विधिविकल्पानामपि मा भूत् प्रमाणता ॥ १८३ ॥
प्रामाण्यं दर्शनानां चेत् त्वधिकल्पानुसारतः ॥ १८४ ॥
वस्तुप्राप्त्या विधिविकल्पानां प्रमाणव्यवहार इति चेत्, इहापि तत्प्राप्त्यैव निषेधविकल्पानामस्तु प्रामाण्यव्यवहारः । किमत्र वस्तु प्राप्यत ? इति चेत्, तत्रापि—किं प्राप्यते ? नीलमिति चेत् !
प्रवृत्तन्वेन—उत्पन्नत्वेन । ननु कथमुभयोस्तौल्यम् ? घटोऽस्तीति विकल्पः अन्यः, अन्यश्च घटो नास्तीति—इति शङ्कायामाह—यथेति । यद्यपि प्रतिषेधविकल्पः, विधिविकल्पश्च विषयतो विलक्षण एव । अथाऽपि घटपटविकल्पयोरिव अनुभवत्त्वेन तौल्यमप्यनुभवसिद्धमेवापलपितुमशक्यमिति भावः ॥
नन्विति । तथा च प्रतिषेधविकल्पाः अर्थशून्या इत्यर्थः । समाधत्ते— काममिति । तथा च नीलादिकमपि न सिद्ध्येदित्यर्थः । शङ्कते—प्रामाण्यमिति । निर्विकल्पपृष्टभावित्वात् विधिविकल्पानां न प्रतिषेधविकल्पतौल्यमिति चेत्—प्रकृतेऽपि स समाधिः कुतो न स्यादिति समाधत्ते—इहापीति ॥
ननु विधिविकल्पैः प्रवर्तमानः घटादिकं वस्तु प्राप्नोतीति युक्तं विधिविकल्पानां प्रामाण्यमिति शङ्कते—वस्तुप्राप्त्येति । तत् प्रकृतेऽपि तुल्यमित्याह—इहेति । अत्र—अभावविकल्पाधीनप्रवृत्तिस्थले । तत्र—भावविकल्पाधीनप्रवृत्तिस्थले । नीलं—घटादि । ननु केयमभावप्राप्तिः ? को वा
सेयमभावस्यापि प्राप्तिर्भवत्येव । नीलं हि प्राप्यमाणं तदभावाविनाभूतपीतादिव्यवच्छिन्नरूपं प्राप्यते । सा चेयं तथाभूतनीलप्राप्तिर्भवन्ती इतराभावप्राप्तिरपि भवति, अन्यथा हि नीलयाप्तिरेव न स्यादिति । एतच्च लाक्षणिकं विरोधमाचक्षार्णर्भवद्भिरेवोपगतम् ॥
सुखदुःखसमुत्पत्तिरभावे शत्रुमित्रयोः ।
कण्टकाभावमालक्ष्य पदं पथि निधीयते ॥ १८५ ॥
प्रागुत्पत्तेर्घटाभावं बुद्ध्वा तत्कारणादरः ।
व्याध्यभावपरिच्छेदात् भैषज्यविनिवर्तनम् ॥ १८६ ॥
इहाभावप्रतिष्ठानव्यवहारपरम्पराम् ।
पश्यन् अभावं को नाम विह्नुवीत सचेतनः ॥ १८७ ॥
अभावः न निरुपाख्यः ननु ! नाजनकमालम्बनं भवति ज्ञानस्य । अभावस्तु सकलोपाख्यविनिर्मुक्तस्वरूप इति न ज्ञानजननपटुः । अतः कथं तदालम्बनम् ? उच्यते—सौगतानां तावत् न किञ्चिज्जनकं वस्तु प्रतिभासते । द्वित्रिक्षणावस्थितिप्रसङ्गेन क्षणभङ्गव्रतविलोपप्रसङ्गात् । अभावप्राप्तये यतते ? इत्यत्रानुभवं प्रमाणयति—नीलं हीति । अन्यथा—यदि नीलप्राप्तिः पीताद्यभावप्राप्तिरूपा न स्यात्, तर्हि नीलार्थं प्रवृत्तः पीतप्राप्तावपि तृप्येतेत्यर्थः । लाक्षणिकं विरोधमिति । लक्षणवाक्येष्वपि हि “कल्पनाऽपोढं” “अभ्रान्तं” इत्यादिपदैः लक्षणमपीतरव्यावृत्तिरूपमभ्युपगतमेव । एवञ्च सिद्धः इतरेतराभाव इत्यर्थः ॥
अभावानां भाववदेवार्थक्रियाकारित्वमप्यनुभवसिद्धमित्याह—सुखेत्यादि । शत्र्वभावः सुखकारणं, मित्राभावः दुःखकारणमित्यन्वयः । सचेतनः—विवेकी ॥
ननु ! लक्षणं इतरव्यावृत्तिरूपमेव । परन्तु व्यावृत्तेः तुच्छत्वेन न पदार्थत्वमिति शङ्कते—नन्विति । ज्ञानस्य अजनकं ज्ञानस्यालम्बनं न भवतीत्यन्वयः । अधिपतिसहकार्यालम्बनसमनन्तरप्रत्ययेषु आलम्बनप्रत्ययः विषयः, स एव ज्ञानजनक इति तन्मतम् । क्षणिकवादे जन्यजनकभाव एवानुपपन्न इति, कथं ज्ञानजनकत्वमर्थानामित्याह—उच्यत इत्यादिना । द्वित्रीति । कार्यक्षणे कारणसत्वस्यावश्यकत्वादिति भावः । उत्पत्त्यपेक्षया द्विक्षणत्वं,
उत्पद्यते च, अर्थज्ञानं च जनयति, जातेन तेन गृह्यते च—इत्यासां क्रियाणामेककालत्वाभावात् । तस्मात् अकारक एव भावः प्रतिभासते ॥
आकारार्पणपक्षं च प्रतिक्षेप्स्यामः । एवं भाववदभावोऽप्यजनकः प्रतिभासताम् ॥
अस्माभिस्तु भाववदभावोऽपि ज्ञानजननसमर्थ इप्यते । न हि निश्शेषसामर्थ्यरहितत्वमभावलक्षणम्; अपि तु नास्तीतिज्ञानगम्यत्वम् । सत्प्रत्ययगम्यो हि भाव इप्यते, असत्प्रत्ययगम्यस्त्वभाव इति । तदिदमुक्तम्—“सदसती तत्त्वम्” इति ॥ भावाभावयोर्विशेषः ननु ! भाववदेष ज्ञानजनकस्सन् अभावो न भावाद्विशिष्यते । अहो निपुणदर्शी देवानाम्प्रियः ! प्रतीतिभेदश्चास्ति ? न च प्रतीयमानौ भावाभावौ भिद्येते इति कथमेवं भवेत् ? अपि रे मूढ ! ज्ञानजनकत्वाविशेषेऽपि रूपरसौ कथं भिद्येते ? प्रतीतिभेदादिति चेत्; भावाभावावपि जनकत्वधर्मसामान्येऽपि प्रतीतिभेदादेव भिद्येयाताम् । न हि प्रतिभास्यभेदमन्तरेण प्रतिभासभेदो भवतीति भवताऽप्यभ्युपगतम् । यथोक्तम्— ज्ञानापेक्षया तु त्रिक्षणत्वमित्याह—उत्पद्यते चेत्यादि । अकारकः— अकिञ्चित्कारी । कारणतारहित इति यावत् ॥
ननु समाहितोऽयं दोषः धर्मकीर्तिना प्रमाणवार्तिके—“भिन्नकालं कथं ग्राह्यं ? इति चेत्; ग्राह्यतां विदुः । हेतुत्वमेव युक्तिज्ञाः ज्ञानाकारार्पणक्षमम्” इति—इत्यत्राह—आकारार्पणपक्षमिति ॥
उक्तमिति । न्यायभाष्य इति शेषः ॥
न विशिष्यत इति । उभयोरपि ज्ञानजनकत्वाविशेषादित्यर्थः समाधत्ते—अहो इति । देवानाम्प्रिय इति । “देवानाम्प्रिय इति च मूर्खे” इति वार्तिकादलुक् । न चेति । न भिद्यते इति च कथमित्यत्वयः । नीलप्रतीतेः पीताद्यभावप्रतीतिरूपताया उक्तत्वेन पीताभावस्यैव नीलरूपत्वेन भावातिरिक्तः अभावो नास्त्येव तन्मते । परन्तु विषयभेदमन्तरा प्रतीतिभेदस्य सर्वथा दुर्निरूप
प्रामाण्यं वस्तुविषयं द्वयोरर्थभिदां जगौ ।
प्रतिभासस्य चित्रत्वात्, एकस्मिंस्तदयोगतः ॥ इति ॥
तस्मात् “अस्ति” इति प्रतीतेरिव भावः, “नास्ति” इति प्रतीतेरभावो भूमिरित्यभ्युपगम्यताम् ॥
अथवा विज्ञानवाद एव सुम्पष्टमास्थीयताम् । अन्तरावस्थानं तु न साम्प्रतम् । अर्थक्रियासामर्थ्यमपि तस्य दर्शितमेव ॥
स्वज्ञानाख्यक्रियाशक्तिरमुष्य दुरपह्नवा ।
अर्थक्रियाऽन्यजन्या तु न भावेनापि जन्यते ॥ १८८ ॥
एवं च सति यः पूर्वं शक्तिवादोऽत्र वर्णितः ।
स प्रत्यक्षविरुद्धत्वात् कण्ठशोषाय केवलम् ॥ १८९ ॥
अभावस्य सम्बन्धोपपादनम् तथा, सम्बन्धाभावादिति यदुक्तम्—तत्र देशेन सह तावत् अभावस्य विशेषणविशेष्यभावः सम्बन्धः । स तु सम्बन्धान्तरमूल इति भावेऽयं नियमः, नाभावे ॥ त्वेन, यदि भावाभावप्रतीत्योर्भेदः तर्हि भावाभावयोरपि भेदः दुर्विवार एवेति सिद्धान्त्याशयः ॥
प्रामाण्यमिति । वस्तुविषयं प्रामाण्यं द्वयोरर्थयोर्भिदां जगौ—न्यरूपयत् । कुतः ? प्रतिभासस्य चित्रत्वात् इति । प्रतीतेर्भावः भूमिरिव इत्यन्वयः । भूमिः—विषयः ॥
विज्ञानातिरिक्तभावपदार्थमङ्गीकुर्वतो वैभाषिकस्य तव, प्रतीतिसाम्ये अभावानङ्गीकरणमयुक्तमित्याह—अथवेति । तस्य—अभावस्य । दर्शितमिति । “सुखदुःखसमुत्पत्तिः” इत्यादिना [पु। १५७] पूर्वमित्यर्थः ॥
ननु न सर्वेषामभावानां सुखदुःखाद्यर्थक्रियाकारित्वमनुभवसिद्धं—इति शङ्कायां—स्वविषयवज्ञानाख्यार्थक्रियाकारित्वमन्ततः सर्वेषामभावानां वर्तत एव । भावानामपि केषाञ्चिदेवमेव भवताऽपि वक्तव्यमित्याह—स्वज्ञानेति । अन्यजन्या—ज्ञानातिरिक्तकार्योपगद्या । एवमतिरिक्तोऽभाव, तस्य कारणत्वमपि यदा सिद्धं, तदा प्रतिबन्धकाभावस्य अभावरूपत्वेन कारणत्वासम्भवात् शक्तिसिद्धिरित्यपि न युज्यत इति स्मारयति—एवञ्चेति ॥
यद्वा भावेऽप्येष न नियमः । न ह्येवं भवति—यत् सम्बद्धं तत् विशेषणमेव । पादपीडिते, शिरसि वा धार्यमाणे दण्डे, “दण्डी” इति प्रत्ययानुत्पादात् । नाप्येवम्, यत् विशेषणं तत् सम्बन्द्धमेवेति; समवायस्य सत्यपि विशेषणत्वे सम्बन्धान्तराभावात् । तस्मात् सम्बन्धान्तररहितोऽपि, प्रतिबन्ध इव, वाच्यवाचकभाव इव, विशेषणविशेष्यभावः स्वतन्त्र एव सम्बन्धः तथाप्रतीतेरवधार्यते ॥
उभयोरुभयात्मकत्वात् कदाचित् कस्यचित् तथा प्रतिभासात् पुरुषेच्छानुवर्तनेन व्यत्ययप्रत्ययसत्त्वेऽपि न दोषः । तस्मात् विशेषणविशेष्यभाव एव सम्बन्धो देशेन भूतलादिना सहाभावस्य ॥
एवं कालेनापि सह स एव वेदितव्यः । क्रियया कर्तृस्थया वा गमनादिकया, कर्मस्थया वा भेदनादिकया सह संयोगाद्यभावेऽपि विशेषणविशेष्यभाव एव सम्बन्धः, तद्वदभावस्यापि भविष्यतीति ॥
प्रतियोगिना तु सह विरोधोऽस्य सम्बन्धः । अयमेव च विरोधार्थः, यदेकत्रोभयोरसमावेशः । अतश्चैकविनाशे न सर्वविनाशः; घटाभावस्य घटैकप्रतियोगिकत्वात् ॥
पादपीडिते इत्यस्य दण्डे इत्यनेनान्वयः । तस्मात्—विशेषणविशेष्यभावस्य सम्बन्धान्तरानधीनत्वेऽपि स्वतस्सम्बन्धत्वसम्भवात् । अत्र दृष्टान्तमाह—प्रतिबन्ध इति । वह्निधूमयोर्यथाव्याप्यव्यापकभावः तथा प्रकृतेऽपि । वह्निधूमयोः यद्यपि संयोगोऽस्ति तथापि स न व्याप्यव्यापकभावप्रयोजकः । तादृशोऽपि सम्बन्धः शब्दार्थयोर्नास्तीति विशेषः ॥
“पुरुषेच्छया विपर्यस्यन्तमप्येनं पश्यामः” [पु। १४६] इत्येतत्समाधत्ते— उभयोरिति । किमुत ! पुरुषापेक्षया दण्डो विशेषणं, रूपाद्यपेक्षया तु तदैव दण्डो विशेष्यः—“नीलदण्डवान् पुरुषः” इत्यादौ इत्यप्यूह्यम् ॥
१४८ पुटे उक्तं समाधत्ते अतश्चेति ॥
भवनधर्मैवाभावः
यत्तु—भवनधर्मा ? अभवनधर्मा वा ? इति विकल्पितम्—तत्र भवनधर्मैवाभावोऽभ्युपगम्यते । भवनधर्मत्वेऽपि चाभावो न भावान्न भिद्यते; प्रतिभासभेदस्य रूपरसादिषूपदर्शितत्वात् । भवनधर्मत्वं चास्य हेत्वन्वयव्यतिरेकित्वात् भवति । घटो हि मृत्पिण्डदण्डादीनिव जन्मनि, विनाशेऽपि मुद्गरादीननुवर्तते हेतून् ॥
विजातीयसन्ततिजननपक्षेऽपि सदृशसन्तानजनिकायाः शक्तेरभावः क्रियत एव । अन्यथा मुद्गराद्युपनिपातेऽपि विजातीयेव सजातीयसन्ततिरपि जायेत । सजातीयविजातीयोभयसन्ततिजननशक्तियुक्तो घट इति चेत्; मुद्गरादियोगात् पूर्वमपि कपालसन्ततिजननम्, तद्योगेऽपि वा सति घटसन्ततिजननमनियमेन दृश्येतेति । विजातीयक्षणोत्पादनस्वभावे च घटे मुद्गरादिवैय्यर्थ्यमेव स्यात् ॥
हेत्वन्वयव्यतिरेकित्वात्—हेतुसत्त्वे अभावसत्त्वं, हेत्वभावे अभावस्याप्यभाव इत्यन्वयव्यतिरेकवत्त्वात् । एवञ्च कारणाधीनत्वात् “भवति” इति प्रतीतिविषयत्वमप्यस्त्यभावे, “इदानीं घटध्वंस उत्पन्नः” इति प्रतीतेरिति ॥
ननु ! मुद्गरादीनां अभावजनकत्वं नास्ति, किन्तु विजातीयसन्तानजनकत्वमेवेति पूर्वमेव [१४७ पु।] उक्तम् । एवञ्चाभावः न हेतुजन्यः इत्यत्राह— विजातीयेति । सर्वस्यापि भावस्य स्वसदृशसन्तानारम्भकशक्तिमत्त्वमेव वक्तव्यम्; अन्यथा घटसन्तानात् पटसन्तानस्याप्युत्पत्त्यापत्तिः । एवञ्च घटसन्तानजनकशक्तिमतः घटक्षणात् कपालरूपविजातीयसन्तानोत्पत्तिकाले पूर्वविद्यमानायाः शक्तेरुपमर्दः अवश्यं वाच्यः । एवञ्च शक्तिनाशस्य मुद्गरहेतुकत्वं सिद्धमिति सिद्धमभावस्य हेतुजन्यत्वम् । न च सजातीयविजातीयोभयसन्तानजननशक्तिर्वर्तत एव घटादिक्षणस्येति उभयविधशक्तिसत्त्वादुभयं उपपद्यते, न तदर्थं अन्यतरशक्तिनाशः अपेक्षणीयः इति वाच्यम्; एवं तर्हि पूर्वं घटपरम्परा, अनन्तरं मुद्गरनिपातात्परमेव कपालपरम्परेति व्यवस्थैव दुर्वचा । न च मुद्गरनिपातात्परमेवेति न, किन्तु क्षणस्यैव एवं स्वभाव इति शङ्क्यम्; एवं तर्हि मुद्गरादीनां वैय्यर्थ्यापातः । सम्पूर्णस्वभाववादे च पूर्वोत्तरक्षणयोरपि कार्यकारणभावो न स्यादिति प्रघट्टकार्थः ॥
तदुत्पादस्वभावे हि न किञ्चिन्मुद्गरादिना ।
अतदुत्पादकत्वेऽपि न किञ्चिन्मुद्गरादिना ॥ १९० ॥
मुद्गरोपनिपाताच्च यद्युत्पन्नं क्षणान्तरम् ।
घटक्षणस्य किं वृत्तं ? येन नाभाति पूर्ववत् ॥ १९१ ॥
नन्वस्याभवनं वृत्तं, स एवार्थोऽयमुच्यते ।
घञा किमपराद्धे वः किं वाऽप्युपकृतं ल्युटा ॥ १९२ ॥
ननु ! उक्तं—न तस्य किञ्चिद्भवति, न भवत्येव केवलमिति— तदयुक्तम्—यदसौ न भवति स एवास्याभावः ॥
ननु ! स न, न तु तस्याभावः—मैवम्—स नेतिशब्दयोर्ज्ञानयोश्च विषयभेदात् । स इति ज्ञानस्य स्मर्यमाणो घटादिर्विषयः; नेति तु ज्ञानस्य अभावो भूमिरित्यलमलीकविदग्धविरचितविफलवक्रवचनविमर्देन ॥
तदुत्पादः—विजातीयसन्तत्युत्पादकत्वम् । अतदुत्पादकत्वेऽपि— विजातीयसन्तत्यनुत्पादकस्वभाववत्त्वेऽपि । उभयथा च मुद्गरव्यापारो व्यर्थ एवेत्यर्थः । मुद्गरेत्यादि । ननु मुद्गरेण कपालरूपक्षणान्तरं नूतनमुत्पादितम्; न तु पूर्वक्षणस्य, तच्छक्तेर्वा नाशः अनेन कृतः इति चेत् ? तर्हि घटक्षणः कुत्र गतः ? न कुत्रापीति चेत्, पूर्ववत् कुतो नोपलभ्यते ? ननु घट एतावत्पर्यन्तं भवन्नासीत्, इदानीमस्य अभवनमेव संवृत्तं, अतो नोपलभ्यत इति चेत्, अहो मेधाविन् ! घट्टकुट्ट्यां प्रभातम् !! “अभावः” इति घञन्तेन यं वयं अब्रूम, स एव “अभवनम्” इति ल्युडन्तेन त्वयोच्यत इति महान् भेदः ! इति भावः ॥
न तस्येति । घटस्य न किञ्चिद्भवति; घटो न भवतीत्येतावन्मात्रमित्यर्थः ॥
नन्विति । स नेत्येतावदेवोच्यते । न तु किञ्चिदस्तीति । अतः कथमभावसिद्धिरित्यर्थः । सैव प्रतीतिरभावसाधिकेत्याह—स नेतीति । ज्ञानभेदसाधकः शब्दभेदः इति सूचनाय, दृष्टान्ताय च—शब्दयोरिति ॥
एवमभावाख्यमतिरिक्तं प्रमेयं प्रसाधितम् । अथ तत्प्रमाणभूताया अनुपलब्धेरनुमानेऽन्तर्भावः न सम्भवत्येव, किन्तु अनुपलब्धिसहकृतेन्द्रिय बौद्धमतनिरासोपसंहारः
तस्मादित्थमभावस्य प्रमेयत्वोपपादनात् ।
न ह्यसद्व्यवहाराय कल्पन्तेऽनुपलब्धयः ॥ १९३ ॥
न स्वभावानुमाने च तदन्तर्भावसम्भवः ।
मेयं पृथगभावाख्यं अमूषामुपपादितम् ॥ १९४ ॥
कारणानुपलब्ध्यादेः बाढमस्त्वनुमानता ।
स्वभावानुपलब्धिस्तु प्रत्यक्षमिति साधितम् ॥ १९५ ॥
या चेयमेकादशानुपलब्धिवधूशुद्धान्तमध्ये विरुद्धव्याप्तोपलब्धिरुदाहृता—“न ध्रुवभावी भूतस्यापि भावस्य विनाशः, हेत्वन्तरापेक्षणात्” इति—सेयं इदानीमेव साध्वी दूषिता; विस्तरस्तु क्षणभङ्गपक्षे दूषयिष्यते ॥
प्राभाकरमतपरिशीलनम्
यैस्तु मीमांसकैः सद्भिरभावो नाभ्युपेयते ।
प्रमादेनामुना तेषां वयमप्यद्य लज्जिताः ॥ १९६ ॥
घटो हि न प्रतीयते, न तु तदभावः प्रतीयते इत्येवंवदद्भिरेभिर्दर्शनादर्शने एव पदार्थानां सदसत्त्वे इति कथितं स्यात् । एतच्चा- ग्राह्यत्वादभावस्य प्रत्यक्षत्वमेवेत्याह—न स्वभावानुमान इति । तत्र हेतुमाह—मेयमिति । अमूषां—अनुपलब्धीनाम् । केषाञ्चित्त्वभावानामनुमेयत्वमिष्टमेवेत्याह—कारणेति ॥
एवं कारणानुपलब्ध्यादेः अनुमानेऽन्तर्भावस्य, स्वभावानुपलब्धेः प्रत्यक्षरूपत्वस्य च कथनेन पूर्वोक्तैकादशानुपलब्धीनां सम्मतत्वं सिद्धमिव । एवं सति विरुद्धव्याप्तोपलब्ध्या क्षणिकत्वमपि भावानां सिद्ध्येत् इति चेत् तत्राह—या चेति । सेयं साध्वी इदानीमेव दूषिता इत्यन्वयः । ध्वंसस्य मुद्गरादिसापेक्षत्वस्य स्थापितत्वादिति शेषः ॥
यैः—प्रभाकराद्यैः । तेषां वैदिकमूर्धन्यत्वात्—सद्भिरिति ॥
दर्शनादर्शने इति । “न तु तदभावः प्रतीयते” इत्यनेन हि अभावाप्रतिपत्तिमात्रात् अभावापलापः प्रतीयते; तच्चायुक्तमिति भावः ॥
युक्तम्—दर्शनादर्शनाभ्यां हि सदसत्त्वे निश्चीयेते, न तु दर्शनादर्शने एव सदसत्त्वे ॥
न चाप्रतीतिमात्रेण तदभावनिबन्धनाः ।
व्यवहाराः प्रकल्पन्ते, मृदन्तरिततोयवत् ॥ १९७ ॥
खपुष्पस्य पिशाचस्य मृदन्तरितवारिणः ।
न खल्वनुपलभ्यत्वे विशेषः प्रतिभाति नः ॥ १९८ ॥
सर्वदाऽनुपलम्भो हि कुर्वन्नास्तित्वनिश्चयम् ।
विशिष्यते मृदन्तस्स्थसलिलानुपलब्धितः ॥ १९९ ॥
आगमाद्युक्तितश्चापि सत्त्वसम्भावनां गतः ।
सर्वदाऽनुपलब्धोऽपि न पिशाचः खपुष्पवत् ॥ २०० ॥
अनुपलब्धेः स्वतस्सिद्धत्वनिराकरणम्
अतश्च यदुच्यते—अनुपलब्धेः पुनः अनुपलब्धिरेवानुपलब्धिरिति—तद्भणितिमात्रम् । खपुष्पादेस्तु सविशेषणतयाऽनुपलब्ध्याऽभाव एव निश्चीयते, न तस्यानुपलब्धिमात्रम् ॥
तदप्रतीतिमात्रं न तदभावमवगमयितुमलमितीममर्थं सदृष्टान्तमुपपादयति—न चेत्यादि । ननु तर्हि अप्रतीयमानत्वाविशेषात् खपुष्पमपि सिद्ध्येत् इत्यत्राह—खपुष्पेत्यादि । “नः न खलु प्रतिभाति !” इति काकुः । खपुष्पस्य, पिशाचस्य, मृदन्तरितजलस्य चाप्रतीयमानत्वाविशेषेऽपि प्रतीतिषु विशेषः अनुभवसिद्ध एवेत्याह—सर्वदेत्यादि । खपुष्पादयो हि सर्वदाऽनुपलभ्यमानाः सन्तः नास्तीतिप्रतीतिविषया भवन्ति । मृदन्तरिततोयानुपलब्धिस्तु न तथेति अनुभवसिद्धो विशेष इत्यर्थः । सर्वदाऽनुपलम्भो हि नास्तित्वनिश्चयं कुर्वन्, मृदन्तरितसलिलानुपलब्धितः विशिष्यत इत्यन्वयः । एवं शब्दादिनाऽवगतसद्भावः पिशाचादिः सर्वदा चक्षुरादिभिरनुपलब्धोऽपि न खपुष्पतुल्यः । अतः अप्रतीतिसाम्येऽपि नाविशेषः एतेषामिति ॥
ननु ! “घटस्यैवानुपलब्धिः, न तु तदभावस्योपलब्धिः” इति वदता अनुपलब्धिः गृह्यत इति वक्तव्यम्; एवञ्च अभावः सिद्धः, अनुपलब्धेरभावरूपत्वात् । यद्यनुपलब्धिरेव न केनापि प्रमाणेन सिद्धः, तर्हि घटानुपलब्धेरग्रहणे घटोपलम्भप्रसङ्गः, इति शङ्कायां अनुपलब्धेः स्वत एव सिद्धिरिति यदुक्तं तत्प्रतिवदति—अतश्चेति । सविशेषणतया—विशिष्टत्वेन । आकाशं, पुष्पं च प्रत्येकं प्रसिद्धमेव, विशिष्टं त्वप्रसिद्धमित्यर्थः ॥
अभावानभ्युपगमे बाधकम्
अनिष्यमाणे चाभावे भावानां प्रतियोगिनि ।
नित्यतैषां प्रसज्येत न ह्येते क्षणिकास्तव ॥ २०१ ॥
मुद्गरादेश्च किं कार्यं ? कपालपटलीति चेत् ।
घटस्तर्ह्यविनष्टत्वात् स्वकार्यं न करोति किम् ? ॥ २०२ ॥
अदर्शनादिति चेत्;
तदानीमेव दृष्टस्य स्थिरस्यामुष्य किं कृतम् ?
सर्वेन्द्रियादिसामग्रीसन्निधानेऽप्यदर्शनम् ॥ २०३ ॥
तस्मात् तदभावकृतमेव तदानीं तस्यादर्शनम् ॥
स्वप्रकाशा च नास्तीति संवित्तिर्भवतां मते ।
न निरालम्बना चेयं, अस्तीति प्रतिपत्तिवत् ॥ २०४ ॥
विकल्पविषयाः शब्दा यथा शौद्धोदनेर्गृहे ।
गीयन्ते भवता नैवमिति नञ्वाच्यमुच्यताम् ॥ २०५ ॥
प्रतियोगिनि—विरोधिनि । एषां—भावानाम् । प्रागभावप्रध्वंसाभावयोरेव पूर्वोत्तरावधिरूपत्वेन, तयोरभावे पूर्वोत्तरावध्यभावसिद्ध्या भावानां नित्यत्वमेव स्यादिति । ननु अभावानभ्युपगमेऽपि बौद्धैर्यथा भावानां नित्यत्वं वारितं, तथा वयमपि [प्राभाकराः] वारयामः इत्यत्र, तर्हि तद्वदेव भावानां क्षणिकत्वमभ्युपगन्तव्यम् । ते हि अहेतुविनाशवादिनः वस्तूनां क्षणिकत्वं स्वभाव इति वदन्ति इत्याह—न ह्येत इति ॥
अदर्शनादिति । विद्यमानोऽपि घटः न किञ्चित्करोति, तत्कार्यस्यादर्शनादिति भावः । अदर्शनं किङ्कृतमित्यन्वयः । तथा च तत्सत्त्वे किं प्रमाणमिति भावः ॥
स्वप्रकाशा चेति । “नास्ति” इति संवित्तिरित्यन्वयः । गुरुमिः ज्ञानस्य स्वप्रकाशत्वमुच्यते । “अस्ति” इति प्रतिपत्तिः यथा न निरालम्बना, तथा “नास्ति” इति प्रतीतिरपि न निरालम्बना । अतश्च विषयो वक्तव्यः । न च बौद्धवत् असद्विषयत्वं वक्तुं शक्यम्, तर्हि वेदजन्यज्ञानस्यापि निर्विषयत्वसम्भवात् वेदस्यैवाप्रामाण्यापत्तेः । अतः नञ्वाच्यं किम् ? उच्यताम् ॥
प्रसिद्धिश्च परित्यक्ता, न चाभावः पराकृतः ।
उपेक्षितश्च भाष्यार्थः, इत्यहो नयनैपुणम् ॥ २०६ ॥
अलं च बहुनोक्तेन विमर्दोऽत्र न शोभते ।
महात्मनां प्रमादोऽपि मर्षणीयो हि मादृशैः ॥ २०७ ॥
तस्मात् “नास्ति” इति प्रत्ययगम्योऽभाव इति सिद्धम् ॥
अभावप्रभेदाः
स च द्विविधः—प्रागभावः, प्रध्वंसाभावश्चेति । चतुर्विध इत्यन्ये—इतरेतराभावः, अत्यन्ताभावः, तौ च द्वाविति ॥
षट्प्रकार इत्यन्ये—अपेक्षाभावः, सामर्थ्याभावः, ते च चत्वार इति ॥
प्रागभावादीनां स्वरूपाणि
तत्र च—
प्रागात्मलाभान्नास्तित्वं प्रागभावोऽभिधीयते ।
उत्पन्नस्यात्महानं तु प्रध्वंस इति कथ्यते ॥ २०८ ॥
न प्रागभावादन्ये तु भिद्यन्ते परमार्थतः ।
स हि वस्त्वन्तरोपाधिरन्योऽन्याभाव उच्यते ॥ २०९ ॥
प्रसिद्धिश्च परित्यक्तेति । तथा च बृहती—अस्ति चेयं प्रसिद्धिः मीमांसकानां “षष्टं किलेदं प्रमाणम्” इति । न चास्य ग्रन्थतो लोकतश्च प्रमाणताऽवसीयते । अतो न विद्मः प्रसिद्धेः किं बीजमिति॥।वटयक्षप्रसिद्धिवत् इति । “वटयक्षप्रसिद्धिवदिति । व्यामोहपूर्विकेयं प्रसिद्धिरिति यावत्” इति च पञ्चिका । “अलं” इत्यादिरुपहासोक्तिः ॥
द्विविधः—इति स्वमतेन । अनुपदमेतद्विब्रियते इतरेतराभावः—
अन्योन्याभावः ॥
अपेक्षाभावः—इदानीमत्र घटोऽस्ति, तत्र तु नास्ति—इत्येवं देशकालापेक्षया प्रतीयमानः । एतत्पक्षे वायौ रूपाभावादिरेव अत्यन्ताभावः । सामर्थ्याभावः—बीजादौ अङ्कुरकरणाकरणयोर्निर्वाहाय । तेन च कुर्वद्रूपत्वनिराकरणम् । एवं वह्नौ दाहतदभावनिर्वाहाय च । तेन च शक्तिनिराकरणम् ॥
आत्मलाभात् प्राक् इत्यन्वयः । अन्ये—प्रध्वंसात्यन्तान्योन्यापेक्षासामर्थ्याभावाः । उक्तमर्थमुपपादयति—स हीति । “अत्र न” इति
स एवावधिशून्यत्वात् अत्यन्ताभावतां गतः ।
अपेक्षाभावता तस्य देशोपाधिनिबन्धना ॥ २१० ॥
सामर्थ्यं पूर्वसिद्धं चेत् प्रध्वंसे तदभावधीः ।
नो चेत् तर्हि विशेषोऽस्य दुर्लभः प्रागभावतः ॥ २११ ॥
उत्पन्नस्य विनाशो वा तदनुत्पाद एव वा ।
अभावस्तत्त्वतः, अन्ये तु भेदास्त्वौपाधिका मताः ॥ २१२ ॥
तस्मादभावाख्यमिदं प्रमेयं, तस्येन्द्रियेण ग्रहणं च सिद्धम् ।
अतः प्रमाणेषु जगाद युक्तं चतुष्टमेषां मुनिरक्षपादः ॥ २१३ ॥
सम्भवैतिह्ये प्रमाणान्तरे ननु ! नाद्यापि चतुष्ट्वमेषामवतिष्ठते; सम्भवैतिह्ये इति द्वयोः प्रमाणान्तरभावात् ॥
सम्भवो नाम—समुदायेन समुदायिनोऽवगमः; सम्भवति खार्यां द्रोणः, सम्भवति शते सहस्रमिति ॥ प्रतीतिः प्रागभावः, “अयं न” इति प्रतीतिश्च अन्योन्याभावः इतीयानेव विशेषः । अवधिशून्यः—कालाद्यवधिशून्यः । समवायिकारणे प्रागभावप्रध्वंसयोः प्रतीतिः, इतरत्र च अत्यन्ताभावप्रतीतिः इति खलु विवेकः । तत्र समवायिकारणे आगामितायाः, गततायाश्च प्रतीत्या तावुभावभावौ अवधिमन्तौ । अत्यन्ताभावस्तु न तथा, न हि “भूतले घटो न” इत्यत्र भूतले घटोत्पत्तिः, तत्प्रध्वंसो वा; तयोरुपादानगतत्वात् । अतः अवधिशून्यः—अत्यन्ताभावः । अत एवेमं त्रैकालिकाभावं व्यवहरन्ति । यद्यप्येवं एषां अस्ति सूक्ष्मो भेदः, अथापि निषेधाधिकरणभेदादेव तदुपपत्तौ व्यर्थं पार्थक्यकल्पनमिति भावः । प्रागभावप्रध्वंसापेक्षयाऽत्यन्ताभाववैलक्षण्यरक्षणायैव “ध्वंसप्रागभावाधिकरणे नात्यन्ताभावः” इति प्राचीनाः । “तयोर्विरोधे मानाभावः” इति चनवीनाः । एषां दृष्ट्यैव त्रयाणामेकजातीयतासम्भवो ज्ञेयः । अपेक्षाभावश्चानुपदमेवोपपादितः । तस्य—प्रागभावस्य, अत्यन्ताभावात्मकप्रागभावस्य वा । निष्कृष्य वदति—उत्पन्नस्येत्यादि । प्रमेयं—सिद्धं इत्याकर्षः ॥
समुदायेनेति—अनेनास्यानुमानाद्वैलक्षण्यसिद्धिः । अनुमानं हि कार्यात् कारणादेः । न ह्यत्र तथा समुदायसमुदायिनोः वक्तुं शक्यमित्यभिमानः ॥
अनिर्दिष्टप्रवक्तृकप्रवादपरम्परा चैतिह्यम्; “इह वटे यक्षः प्रतिवसति” इति । न चायमागमः; आप्तस्योपदेष्टुरनिश्चयादिति ॥
सम्भवैतिह्ये अनुमानरूपे एव
तदिदमनुपपन्नम्—
भिन्नः सम्भव एष न ह्यनुभितेराख्यायि खार्यां खलु
द्रोणः सम्भवतीति सेयमविनाभावात् मतिर्लैङ्गिकी ।
ऐतिह्यं तु न सत्यमत्र हि वटे यक्षोऽस्ति वा नेति वा
को जानाति ? कदा ? क्व ? केन कलितं ? यक्षस्य कीदृग्वपुः ? ॥
सत्यमपि चागमात् पृथङ्नैतिह्यम्, उपदेशरूपत्वात् । आप्तग्रहणं सूत्रे न लक्षणायेति वक्ष्यामः ॥
प्रमाणसङ्ख्याविषये चार्वाकमतम्
चार्वाकधूर्तस्तु “अथातस्तत्त्वं व्याख्यास्यामः” इति प्रतिज्ञाय प्रमाणप्रमेयसङ्ख्यालक्षणनियमाशक्यकरणीयत्वमेव तत्त्वं व्याख्यातवान् । प्रमाणसङ्ख्यानियमाशक्यकरणीयत्वसिद्धये च प्रमितिभेदान् प्रत्यक्षादिप्रमाणानुपजन्यानीदृशानुपादर्शयत्
अनिर्दिष्टेति । “आप्तोपदेशः शब्दः” इति हि लक्षणम् । ऐतिह्यस्य च अनिर्दिष्टप्रवक्तृकत्वात् न आप्तोपदेशरूपशब्दप्रमाणतेत्यभिमानः ॥
भिन्न इति । अयं भावः—न हि सर्वत्र कारणात् कार्यानुमानमेव; इदं द्रव्यं पृथिवीत्वात्, रूपवान् रसात्—इत्याद्यनुमानानामपि दर्शनात् । अविनाभूतयोर्व्याप्तिः । अविनाभावश्च कार्यकारणभावतो वा नियतसामानाधिकरण्याद्वा, घटकघटितभावादिनेवेत्यन्यदेतत् । अतश्च सम्भवोऽप्यनुमानमेव ॥
ऐतिह्यस्थलेऽपि तादृशवाक्यस्य अर्थसाहित्ये शब्द एवान्तर्भावः, राहित्ये च न प्रमाणतैवेत्याह—ऐतिह्यमित्यादि ॥
अनिर्दिष्टप्रवक्तृकस्य ऐतिह्यस्य कथं आप्तोपदेशरूपशब्दत्वम् ? इत्यत्राह— आप्तग्रहणं त्विति । उत्तरत्र शब्दनिरूपणोपक्रम एवेदं स्पष्टीभविष्यति ॥
प्रमाणेत्यादि । प्रमाणानां प्रमेयाणां च सङ्ख्यानियमस्य लक्षणनियमस्य च अशक्यकरणीयत्वमित्यर्थः । प्रमाणानुपजीव्यान्—प्रमाणानधीनान् ॥
वक्राङ्गलिः प्रविरलाङ्गुलिरेष पाणिः
इस्यस्ति धीः तमसि मीलितचक्षुषो वा ।
नेयं त्वगिन्द्रियकृता, न हि तत्करस्थं
तत्रैव हि प्रमितिमिन्द्रियमादधाति ॥ २१५ ॥
दूरात्करोति निशि दीपशिखा च दृष्टा
पर्यन्तदेशविसृतासु मतिं प्रभासु ।
धत्ते धियं पवनकम्पितपुण्डरीक-
षण्डेऽनुवातभुवि दूरगतेऽपि गन्धे ॥ २१६ ॥
स एवम्प्रायसंवित्तिसमुत्प्रेक्षणपण्डितः ।
रूपं तपस्वी जानाति न प्रत्यक्षानुमानयोः ॥ २१७ ॥
वक्राङ्गुलिरित्यादि । चाक्षुषप्रत्यक्षानुपजीव्यत्वबोधनाय—तमसि मीलितचक्षुषो वा इति । वाकारः किं तमःपर्यन्तानुधावनेन इति धार्ष्ट्यार्थः । अस्तु धीः, किं तेन ? इत्यत्राह नेयमिति । अत्र हेतुमाह—न हीति । तत्करस्थं इन्द्रियं तत्रैव प्रमितिं न ह्यादधाति—इत्यन्वयः । एतदुक्तं भवति—निमीलितचक्षुषामप्यस्माकं “मम अङ्गुलिः बक्रः”, “ममाङ्गुली विरलौ” इत्यादिप्रतीतिरनुभवसिद्धा । दण्डादिषु हि हस्तस्पर्शवशात् वक्रत्वादिकं त्वगिन्द्रियग्राह्यं भवेदपि । अङ्गुलिः स्वगतं वक्रत्वं कथं स्वयं गृह्णीयात् । न हि चक्षुरिन्द्रियं आत्मन आश्रयं गोलकं गृह्णाति । अत इयं प्रतीतिर्दुर्निरूपैव । एवं “विरलौ अङ्गुली” इत्यत्रापि । वैरल्यं च हस्तान्तरेण स्पर्शमन्तराऽपि स्वयमेव भासत एव । एतदपि दुर्निरूपमेवेति ॥
एवं निशि दूरात् दृष्टा दीपशिखा च पर्यन्तदेशविसृतासु प्रभासु— विषयसप्तमी, मतिं करोति “अहो पर्यन्तप्रसृमरप्रभाभासुरेयं दीपशिखा” इति । तत्र पर्यन्तदेशस्य आकाशरूपस्य दूरादग्रहणेऽपि तत्र प्रसृमरत्वं तु तदैव गृह्यते । इयं च प्रतीतिः नानुमानरूपा; हेतुज्ञानादीनामदर्शनात् । अत इदमपि विलक्षणं प्रत्यक्षम् । एवं गन्धे घ्राणेन्द्रियेण गृहीते दूरगतेऽपि वाय्वनुकूलप्रदेशवर्तिनि पवनकम्पितपुण्डरीकवने—तद्विषये धियं धत्ते, पुरुष इति शेषः । न ह्यत्र घ्राणेन पुण्डरीकवनग्रहणं सम्भवीत्यर्थः । “सुरभि चार्वाकमतनिरासः
प्रत्यक्षाद्विरलकराङ्गुलप्रतीतिः
व्यापित्वादकुशलमिन्द्रियं न तस्याम् ।
आनाभेस्तुहिनजलं जनैः पिबद्भिः
तत्स्पर्शः शिशिरतरोऽनुभूयतेऽन्तः ॥ २१८ ॥
संयोगबुद्धिश्च यथा तदुत्था तथैव तज्जा तदभावबुद्धिः ।
क्रियाविशेषग्रहणाच्च तस्मात् आकुञ्चितत्वावगमोऽङ्गुलीनाम् ॥
पद्मामोदविदूरदीपकविभाबुद्धिः पुनर्लैङ्गिकी
व्याप्तिज्ञानकृतेति, का खलु मतिर्मानान्तरापेक्षिणी ।
सङ्ख्याया नियमः प्रमाणविषये नास्तीत्यतो नास्तिकैः
तत्सामर्थ्यविवेकशून्यमतिभिः मिथ्यैव विस्फूर्जितम् ॥ २२० ॥
इयत्त्वमविलक्षणं नियतमस्ति मानेषु नः
प्रमेयमपि लक्षणादिनियमान्वितं वक्ष्यते ।
अशक्यकरणीयतां कथयता तु तत्त्वं, सतां
समक्षममुनाऽऽत्मनो जडमतित्वमुक्तं भवेत् ॥ २२१ ॥
इति जयन्तभट्टकृतौ न्यायमञ्जर्या प्रथममाह्निकम्
चन्दनम्” इत्येवमादिज्ञानानामपीदमुपलक्षणम् । एवञ्च ज्ञानज्ञेययोर्व्यवस्थैव दुर्वचेति प्रमाणप्रमेयसङ्ङ्ख्यानियमः अशक्यकरणीय एवेति ॥
एतत्सर्वं समाधत्ते—प्रत्यक्षादिति । इन्द्रियं अकुशलं न, किन्तु समर्थमेवेत्यर्थः । चक्षुरिन्द्रियेण स्वाश्रयगतगुणाद्यग्रहणेऽपि त्वगिन्द्रियं स्वाश्रयगतजलादिसंयोगं गृह्णातीत्यनुभवसिद्धम् । तच्चेन्द्रियं शरीरव्यापकम् । अतश्च अङ्गुलिगतवैरल्यं तद्गतत्वमिन्द्रियं गृहीतुं समर्थमेव । त्वचो व्यापकत्वं साक्षात्स्वसंयुक्तग्राहकत्वं चोपपादयति—आनाभेरिति ॥
तदुत्था—त्वगिन्द्रियजन्या । “येनेन्द्रियेण यो गृह्यते तेनेव तदभावोऽपि गृह्यते” इति स्वाश्रयगतसंयोगाभावोऽपि त्वचैव गृह्यते । एवं त्वचा स्वाश्रयगतक्रियाग्रहणस्यापि सम्भवात् आकुञ्चितत्वग्रहणमपि त्वचैवेत्यर्थः ॥
तत्सामर्थ्यं—प्रमाणसङ्ख्यानियमनिश्चयसामर्थ्यम् ॥
अविलक्षणं—सर्वसम्मतम् । सतां समक्षमित्यन्वयः ॥
इति प्रथममाह्निकम्