[[न्यायमञ्जरी ग्रन्थिभङ्गव्याख्यायुता Source: EB]]
**॥ श्रीः ॥
न्यायमञ्जरी
प्रमाणप्रकरणम्
[प्रथमाह्निकम्]**
नमः शाश्वतिकानन्दज्ञानैश्वर्यमयात्मने।
सङ्कल्पसफलब्रह्मस्तम्बारम्भाय शम्भवे ॥ 1 ॥
नमामि यामिनीनाथलेखालङ्कृतकुन्तलाम्।
भवानीं भवसन्तापनिर्वापणसुधानदीम् ॥ 2 ॥
सुरासुरशिरोरत्नमरीचिखचिताङ्घ्रये।
विघ्नान्धकारसूर्याय गणाधिपतये नमः ॥ 3 ॥
जयन्ति पुरजिद्दत्तसाधुवादपवित्रिताः।
निदानं न्यायरत्नानामक्षपादमुनेर्गिरः ॥ 4 ॥
अक्षपादमताम्भोधिपरिमर्षरसोत्सुकाम्।
विगाहन्तामिमां सन्तः प्रसरन्तीं सरस्वतीम् ॥ 5 ॥
नानागुणरसास्वादखिन्नाऽपि विदुषां मतिः।
आलोकमात्रकेणेममनुगृह्णातु नः श्रमम् ॥ 6 ॥
न्यायैषधिवनेभ्योऽयमाहृतः परमो रसः।
इदमान्वीक्षिकीक्षीरान्नवनीतमिवोद्धृतम् ॥ 7 ॥
कुतो वा नूतनं वस्तु वयमुत्प्रेक्षितुं क्षमाः।
वचोविन्यासनैचित्र्यमात्रमत्र विचार्यताम् ॥ 8 ॥
तैरेव कुसुमैः पूर्वमसकृत्कृतशेखराः।
अपूर्वरचने दाम्नि दधत्येव कुतूहलम् ॥ 9 ॥
यद्वा निर्गुणमप्यर्थमभिनन्दन्ति साधवः।
प्रणयिप्रार्थनाभङ्गसंविधानामशिक्षिताः ॥ 10 ॥
तदियं वाङ्मयोद्यानलीलाविहरणोद्यतैः।
विदग्धैः क्रियतां कर्णे चिराय न्यायमञ्जरी ॥ 11 ॥
अक्षपादप्रणीतो हि विततो न्यायपादपः।
सान्द्रामृतरसस्यन्दफलसन्दर्भनिर्धरः ॥ 12 ॥
वयं मृदुपरिस्पन्दास्तदारोहणपङ्गवः।
न तद्विभूतिप्राग्भारमालोकयितुमप्यलम् ॥ 13 ॥
तदेकदेशलेशे तु कृतोऽयं विवृतिश्रमः।
तमेव चानुगृह्णन्तु सन्तः प्रणयवत्सलाः ॥ 14 ॥
असङ्ख्यैरपि नात्मीयैरल्पैरपि परस्थितैः।
गुणैः सन्तः प्रहृष्यन्ति चित्रमेषां विचेष्टितम् ॥ 15 ॥
परमार्थभावनाक्रमसमुन्मिषत्पुलकलाञ्छितकपोलम्।
स्वकृतीः प्रकाशयन्तः पश्यन्ति सतां मुखं धन्याः ॥ 16 ॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%न्यायमञ्जरीग्रन्थिभङ्गः%
नमोऽनवसितासक्तचित्क्रियाशक्तिसम्पदे।
विष्णवे त्रिजगद्व्यापिपरमाश्चर्यमूर्तये ॥ 1 ॥
सङ्कल्पितफलावाप्तिकल्पपादपमञ्जरीम्।
स्वान्तस्तापतमःशान्त्यै मातृकां नौमि चण्डिकाम् ॥ 2 ॥
मधुरासु प्रसन्नासु ग्रन्थयोऽतिरसास्वपि।
%जयन्तो%क्तिषु दृश्यन्ते क्वचिदिक्षुलतास्विव ॥ 3 ॥
सुकुमाराशयाः केचित् सन्ति तद्भङ्गविक्लवाः।
अतस्तेभ्यो व्यधत्तेमं भङ्गं %श्रीशङ्करात्मजः% ॥ 4 ॥
प्राप्य %चक्रधरश्च%क्रमिव सर्वविदः श्रुतम्।
%शशाङ्क%धरतोऽभे%द्यभेदा%हितोद्यमः ॥ 5 ॥
%नमः शाश्वतिकानन्दे%ति। आनन्दः सुखम्। ज्ञानम् अखिलार्थदृक् संवित्। ऐश्वर्यम् अणिमाद्यष्टगुणयोगः। शाश्वतिकानि नित्यानि च तान्यानन्दज्ञानैश्वर्याणि शाश्वतिकानन्दज्ञानैश्वर्याणि, तानि प्रकृतानि प्राचुर्येण प्रस्तुतानि यस्य स शास्वतिकानन्दज्ञानैश्वर्यमयः, तादृगात्मा यस्य। प्राचुर्यं द्विविधम्–सततावियोगो बाहुल्यञ्च। तदत्र सततावियोगापेक्षया मयट्। नित्यत्वं चैषामीश्वरसिद्धौ(1) वक्ष्यति। ब्रह्मण आरभ्य स्तम्बपर्यन्तश्चतुर्दशविधो भूतग्रामो ब्रह्मस्तम्बः। सङ्कल्पेन सफलः। सह फलेन स्वसंवेदनलक्षणेन वर्तत इति सफलः। सफलो यो ब्रह्मस्तम्बस्तस्य य आरम्भस्तन्निष्पत्त्यर्थश्चेष्टाविशेषः। स सफलब्रह्मस्तम्बारम्भः। सङ्कल्प एवेच्छाविशेष एव सफलब्रह्मस्तम्बारम्भो यस्य। न पुनरिच्छाजनितप्रयत्नपूर्वकोऽस्मदादीनामिव कार्यविशेषारम्भो भगवत इति स्तुतिर्गुणातिशयाभिधानरूपा। विचित्रसुखदुःखसंवेदनस्य यद्यपि कर्मकृत्वं प्राणिनाम्, तथापीश्वरेच्छानिरपेक्षाणां तेषां न तत्र सामर्थ्यमिति वक्ष्यति। तथा चागमोऽपि–“अज्ञो जन्तुरनीशोऽयम्” इति।
आरभ्यते वा येनारम्भः प्रयत्नः, सफलब्रह्मस्तम्बविषयारम्भः प्रयत्नः सङ्कल्प एव यस्येति। न तु सङ्कल्पादन्यः प्रयत्नस्तस्यास्ति, यद् वक्ष्यति ईश्वरसिद्धौ `प्रयत्नश्चास्य सङ्कल्पविशेष एव’ इति। यत् प्रयत्नेन सिद्ध्यति, तस्य सत्यसङ्कल्पत्वाद् भगवतः सङ्कल्पेनैव सिद्धिरिति ततोऽन्यस्य प्रयत्नस्य कल्पना निष्प्रमाणिकेति वक्ष्यमाणस्य तात्पर्यम्।
%अन्ये% व्याचक्षते सङ्कल्पलक्षणेन फलेन सफलः सप्रयोजनो ब्रह्मस्तम्बारम्भो यस्य। स्वभावप्रवृत्तं सङ्कल्पमात्रमेव फलं प्रयोजनं प्रवर्तकं जगत्सर्गे भगवतः, पूर्णकामत्वेनान्यस्यापेक्षणीयस्याभावात्।
तथा चाह भगवान् व्यासः–
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन।
नानवाप्तमवाप्तव्यं प्रवर्ते चाथ कर्मणि॥
फलस्य च प्रवर्तकत्वमग्रे प्रतिपादयिष्यते। यदि वा सङ्कल्पेन सम्पद्यतामिदम् इत्येवंरूपेण सत्यसङ्कल्पत्वाद् भगवतः सफलो निष्पत्तिलक्षणेन फलेन फलवान् ब्रह्मस्तम्बारम्भो यस्य। फलान्तराभिसन्धिनापि हि प्रवर्तमानानां कर्मस्वारम्भसमये समारभ्य निष्पत्तेरेवेष्यमाणत्वात् फलत्वं दृष्टम्, इष्टलक्षणत्वात् फलस्य। तथा हि कीर्त्यादिफलकामा ग्रन्थादि चिकीर्षन्तो ग्रन्थनिष्पत्तिरूपावान्तरफलनिष्पत्तये नमस्कारादि कुर्वन्तो दृश्यन्ते। स्तम्बः स्थावरस्तृणगुल्मादिकः, तत्पर्यन्तं हि प्राणिनः कर्मवशात् संसरन्ति।
तथा च स्थावरानधिकृत्याह %मनुः–%
एतदन्तास्तु गतयो ब्रह्माद्याः समुदाहृताः।
घोरेऽस्मिन् भूतसंसारे नित्यं सततयायिनि ॥ इति।
यद्यपि चास्मिन् दर्शने स्थावराणामचैतन्यम्, तथापि चेतनावत् सहचरितत्वात् सृष्टौ चेतनावदुपचारस्तेषाम्, `दण्डिनो गच्छन्ति’ इतिवत्। यथा दण्डरहिता अपि दण्डिसाहचर्याद् दण्डिन इत्युपचर्यन्त इति।
%संविधानामशिक्षिता% इति। ण्यन्ताच्छिक्षतेः स्वकर्मणि क्तः।
न्यायमञ्जरी :–
%शास्त्रमेव स्वर्गापवर्गप्रतिपादकम्%
इह प्रेक्षापूर्वकारिणः पुरुषार्थसम्पदमभिवाञ्छन्तस्तत्साधनाधिगमोपायमन्तरेण तदवाप्तिममन्यमानास्तदुपायावगमनिमित्तमेव प्रथममन्वेषन्ते। दृष्टादृष्टभेदेन च तद्द्विविधः पुरुषार्थस्य पन्थाः। तस्य दृष्टे विषये रुचिः प्ररूढवृद्धव्यवहारसिद्धान्वयव्यतिरेकाधिगतसाधनभावे भोजनादावनपेक्षितशास्त्रस्यैव भवति प्रवृत्तिः `न हि मलिनः स्नायात्’, `बुभुक्षितो वाऽश्नीयात्’ इति शास्त्रमुपयुज्यते। अदृष्टे तु स्वर्गापवर्गमात्रे नैसर्गिकमोहान्धतमसविलुप्तालोकस्य लोकस्य शास्त्रमेव प्रकाशः। तदेव सकलसदुपायदर्शने दिव्यं चक्षुरस्मदादेर्न योगिनामिव योगसमाधिजज्ञानाद्युपायान्तरमपीति। तस्मादस्मदादेः शास्त्रमेवाधिगन्तव्यम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%योगसमाधिजे%ति। योगो द्विविधः–सम्प्रज्ञातोऽसम्प्रज्ञातश्च। योग एव क्रमेण समाध्यवस्थामसम्प्रज्ञातत्वलक्षणां सम्प्राप्तो योगसमाधिः। केवलयोगग्रहणे क्रियमाणे सम्प्रज्ञातेऽपि स प्रत्ययः स्यादिति समाधिग्रहणम्। समाधिशब्दे तु योगशब्दं विनोक्ते यमनियमादियोगाङ्गाष्टकमध्यवर्तिनि योगाङ्गे समाधौ प्रसङ्गो न निवर्तत इत्युभयग्रहणेनाभूष्टार्थप्रतिपादनान् नास्ति पौनरुक्त्यम्। योगसमाधिशब्दयोर्हि पर्यायतया पौनरुक्त्यमाशङ्कते, तदेव नास्ति। यदा आत्मादेर्यथाभूतेन स्वरूपेण सम्यक् प्रकर्षेण ज्ञानम्, तदा सम्प्रज्ञातो योगः सबीजः समाधिर्भण्यते। यदा तु विपर्ययोऽभ्यासक्रमेण स्वरूपेणाप्यात्मनः सम्प्रज्ञाताभावः, तदाऽसम्प्रज्ञातो योगो निर्बीजः समाधिः। योगाङ्गस्य पुनः समाधेर्लक्षणम् “तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः” इति। तच्छब्देनात्र सूत्रे “तत्र प्रत्ययैकतानता ध्यानम्” इति प्राक्सूत्रनिर्दिष्टं ध्यानं परामृष्टम्।
न्यायमञ्जरी :–
%शास्त्रविभागः%
तच्च चतुर्दशविधम्, यानि विद्वांसश्चतुर्दशविद्यास्थानान्याचक्षते। तत्र वेदाश्चत्वारः। प्रथमोऽथर्ववेदः, द्वितीय ऋग्वेदः, तृतीयोयजुर्वेदः, चतुर्थः सामवेदः। एते चत्वारो वेदाः साक्षादेव पुरुषार्थसाधनोपदेशस्वभावाः, `अग्निहोत्रं जुहुयात् स्वर्गकामः’, `आत्मा ज्ञातव्यः’ इत्यादिश्रुतेः। स्मृतिशास्त्रमपि मन्वाद्युपनिबद्धमष्टकाशिखाकर्मप्रपाप्रवर्तनादिपुरुषार्थसाधनोपदेश्येव दृश्यते। अश्रूयमाणफलानामपि कर्मणां फलवत्ता विधिवृत्तपरीक्षायां वक्ष्यते, सर्वो हि शास्त्रार्थः पुरुषार्थपर्यवसायी, न स्वरूपनिष्ठ इति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%सर्वो हि शास्त्रार्थ% इति। सर्वः काम्यनित्यादिः शास्त्रार्थः पुरुषार्थे स्वर्गप्रत्यवायपरिहारादौ पर्यवस्यति। न स्वरूपनिष्ठः, यथा प्राभाकरा नित्यान् कर्तव्यत्वादेव कर्तव्यानाहुः, न पुरुषार्थहेतुत्वेन, काम्यैरविशेषप्रसङ्गः, स्यादिति वदन्तः।
न्यायमञ्जरी :–
%इतिहासादीनां विद्यास्थानत्वविचारः%
इतिहासपुराणाभ्यामपि उपाख्यानादिवर्णनेन वैदिक एवार्थः प्रायेण प्रतन्यते।
यथोक्तम्–
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्।
बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ॥ इति।
तदेवं वेदपुराणधर्मशास्त्राणां स्वत एव पुरुषार्थसाधनोपदेशस्वभावत्वाद् विद्यास्थानत्वम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%इतिहासपुराणाभ्यामपी%ति। तयोर्हि वेदविहितमेव क्वचित् तत्प्रतिषिद्धम्, क्वचिद् विशिष्टपुरुषाचरणद्वारेण विशिष्टफलप्रदत्वेन प्रदर्शितम्, `इदं कर्मामुना समाचरितम्, सोऽप्येवंरूपेणानिष्टेन फलेन योगं प्राप’ इति वैदिक एवार्थो विशिष्टपुरुषानुष्ठानतत्फलकीर्तनेन प्रतन्यते। यथा दशरथादेर्वेदोदितां पुत्रेष्ट्यादिक्रियामनुष्ठितवतो रामभरतादिपुत्रजन्मप्रवर्तनम्; नहुषादेश्च ब्राह्मणावगूरणादिनिषिद्धाचरणेनाजगरत्वाप्त्याद्यनिष्टफलकीर्तनम्। तथा च लोके व्याधिता न तथा वैद्योपदिष्टौषधादिसेवने प्रवर्तते, यथा पार्श्वस्थोक्ताः `इदमौषधं सेव्यताम्, अस्मिन् हि सेविते ममान्यस्य चैष व्याधिराश्वेव विनष्ट इति।
%वेदं समुपबृंहयेत्% इति। वैदिकानि विधिवाक्यानि पौराणिकैरैतिहासिकेश्च तत्फलपरैरुपाख्यानैर्विमिश्रयेदित्यर्थः। न च सम्यग् मदभिधेयानुष्ठेयसारूप्याद् मया वेदेन करणभूतेनानुष्ठेयत्वेन प्रतिपादित इति बुद्ध्या गृहीत्वा प्रतरिष्यति प्रतरणेनानुष्ठाने त्रैकाल्यासिद्धेर्हेतोरहेतुसमः। अहेतुसमादीनां प्रत्यवस्थानानां हेतुप्रतिबिम्बनरूपत्वाभिप्रायं प्रायोग्रहणम्।
न्यायमञ्जरी :–
%वेदाङ्गानां विद्यास्थानत्वम्%
अङ्गानि व्याकरणज्योतिःशिक्षाच्छन्दोनिरुक्तानि वेदार्थोपयोगिपदादिव्युत्पादनद्वारेण विद्यास्थानत्वं प्रतिपद्यन्ते। तेषामङ्गसमाख्यैव तदनुगामितां प्रकटयति।
न्यायमञ्जरी :–
%मीमांसायाः पृथग् विद्यात्वम्%
विचारमन्तरेणाव्यवस्थितवेदवाक्यार्थानवधारणान्मीमांसा वेदवाक्यार्थविचारात्मिका वेदाकरस्येतिकर्तव्यतारूपमनुबिभ्रतीति विद्यास्थानतां प्रतिपद्यते।
तथा च भट्टः–
धर्मे प्रमीयमाणे तु वेदेन करणात्मना।
इतिकर्तव्यताभागं मीमांसा पूरयिष्यति॥
अत एव सप्तममङ्गमिति न गण्यते मीमांसा, प्रत्यासन्नत्वेन वेदैकदेशभूतत्वात्। विचारसहायो हि शब्दः स्वार्थं निराकाङ्क्षं प्रबोधयितुं क्षमः।
न्यायमञ्जरी :–
%न्यायविस्तरस्य विद्यामूलत्वम्%
न्यायविस्तरस्तु मूलस्तम्भभूतः सर्वविद्यानाम्, वेदप्रामाण्यहेतुत्वात्। वेदेषु हि तार्किकरचतकुतर्कविप्लावितप्रामाण्येषु शिथिलितास्थाः कथमिव बहुवित्तव्ययायासादिसाध्यं वेदार्थानुष्ठानमाद्रियेरन् साधवः? किं वा तदानीं स्वामिनि परिम्लाने तदनुयायिना मीमांसादिविद्यास्थानपरिजनेन कृत्यमिति? तस्मादशेषदुष्टतार्किकोपमर्दद्वारकदृढतरवेदप्रामाण्यप्रत्ययाधायिन्यायोपदेशक्षमम् अक्षपादोपदिष्टमिदं न्यायविस्तराख्यं शास्त्रं प्रतिष्ठाननिबन्धनमिति परं विद्यास्थानम्।
न्यायमञ्जरी :–
%विद्यास्थानस्वरूपविचारः%
विद्यास्थानत्वं नाम चतुर्धशानां शास्त्राणां पुरुषार्थसाधनज्ञानोपायत्वमेवोच्यते। वेदनं विद्या। तच्च न घटादिवेदनमपि तु पुरुषार्थसाधनवेदनम्। विद्यायाः स्थानमाश्रय उपाय इत्यर्थः। तच्च पुरुषार्थसाधनपरिज्ञानोपायत्वं कस्यचित् साक्षात्कारेण, कस्यचिदुपायद्वारेणेति तानीमानि चतुर्दशविद्यास्थानानीत्याचक्षते।
यथोक्तम्–
पुराणतर्कमीमांसाधर्मशास्त्राङ्गमिश्रिताः।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ इति।
अन्यत्राप्युक्तम्–
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः।
पुराणं धर्मशास्त्रञ्च विद्या ह्येताश्चतुर्दश ॥ इति।
न्यायमञ्जरी :–
%वेदप्रामाण्यसाधकानामेव न्यायविस्तरपदवाच्यत्वम्%
पूर्वत्र तर्कशब्देनोपात्तमुत्तरत्र च न्यायविस्तरशब्देनैतदेव शास्त्रमुच्यते। न्यायस्तर्कोऽनुमानं सोऽस्मिन्नेव व्युत्पाद्यते। यतः सांख्यार्हतानां तावत् क्षपणकानां कीदृशमनुमानोपदेशकौशलम्, कियदेव तत्तर्केण वेदप्रामाण्यं रक्ष्यत इति नासाविह गणनार्हः। बौद्धास्तु यद्यपि अनुमानमार्गावगाहननैपुण्याभिमानोद्धुरां कन्धरामुद्वहन्ति तथाऽपि अनुमानमार्गावगाहननैपुण्याभिमानोद्धुरां कन्धरामुद्वहन्ति, तथाऽपि वेदविरुद्धत्वात् तत्तर्कस्य कथं वेदादिविद्यास्थानस्य मध्ये पाठः? अनुमानकौशलमपि कीदृशं शाक्यानामिति पदे दर्शयिष्यामः। चार्वाकास्तु वराकाः प्रतिक्षेप्तव्या एवेति कः क्षुद्रतर्कस्य तदीयस्येह गणनावसरः।
न्यायमञ्जरी :–
%वैशेषिकास्तु न्यायविस्तरानुयायिनः%
वैशेषिकाः पुनरस्मदनुयायिन एवेत्येवमस्यां जनतासु प्रसिद्दायामपि षट्तर्क्यामिदमेव तर्कन्यायविस्तरशब्दाभ्यां शास्त्रमुक्तम्।
न्यायमञ्जरी :–
%न्यायविस्तरस्यैवान्वीक्षिकीपदवाच्यत्वम्%
इयमेवान्वीक्षिकी चतसॄणां विद्यानां मध्ये न्यायविद्या गण्यते। “आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती” इति। प्रत्यक्षागमाभ्यामीक्षितस्यान्वीक्षणमन्वीक्षा अनुमानमित्यर्थः। तद्व्युत्पादकं शास्त्रमान्वीक्षिकम्।
न्यायमञ्जरी :–
%विद्यास्थानानां चतुर्दशत्वनिर्णयः%
ननु चतस्रश्चेद् विद्याः, कथं चतुर्दश दर्शिताः? नैष विरोधः, वार्तादण्डनीत्योर्दृष्टैकप्रयोजनत्वेन सर्वपुरुषार्थोपदेशविद्यावर्गे गणनानर्हत्वात्। त्रय्यान्वीक्षिक्योश्च तत्र निर्देशाच्चतुर्दशैव विद्याः।
न्यायमञ्जरी :–
%मीमांसान्यायविस्तरयोः प्रस्तानभेदः%
ननु वेदप्रामाण्यनिर्णयप्रयोजनश्चेन्न्यायविस्तरः कृतमनेन, मीमांसात एव तत्सिद्धेः। तत्र ह्यर्थविचारवत् प्रामाण्यविचारोऽपि कृत एव। तस्यम्, स त्वानुषङ्गिकः। तत्र मुख्यस्त्वर्थविचार एव। पृथक्प्रस्थाना हीमा विद्याः।
न्यायमञ्जरी :–
%प्रस्थानभेदवशान्मीमांसाया वेदप्रामाण्यरक्षणाक्षमत्वम्%
सा च वाक्यार्थविद्या, न प्रमाणविद्येति।
न च मीमांसकाः सम्यग् वेदप्रामाण्यरक्षणक्षमां सरणिमवलोकयितुं कुशलाः। कुतर्ककण्टकनिकरनिरुद्धसञ्चरमार्गाभासपरिभ्रान्ताः खलु त इति वक्ष्यामः। न हि प्रमाणान्तरसंवाददार्ढ्यमन्तरेण प्रत्यक्षादीन्यपि प्रमाणभावं भजन्ते, किमुत तदधीनवृत्तिरेष शब्दः। शब्दस्य हि समयोपकृतस्य बोधकत्वमात्रम्। तस्मादाप्तोक्तत्वादेव शब्दः प्रमाणीभवति, नान्यथेत्येतच्चास्मिन्नेव शास्त्रे व्युत्पादयिष्यते।
न्यायमञ्जरी :–
%न्यायविस्तरादिविद्यानामादिसर्गतः प्रवृत्तिः%
नन्वक्षपादात् पूर्वं कुतो वेदप्रामाण्यनिश्चय आसीत्? अत्यल्पमिदमुच्यते। जैमिनेः पूर्वं केन वेदार्थो व्याख्यातः? पाणिनेः पूर्वं केन पदानि व्युत्पादितानि? पिङ्गलात् पूर्वं केन च्छन्दांसि रचितानि? आदिसर्गात् प्रभृति वेदवदिमा विद्याः प्रवृत्ताः, संक्षेपविस्तरविवक्षया तु तांस्तांस्तत्र कर्तॄनाचक्षते।
न्यायमञ्जरी :–
%शास्त्रारम्भहेतुः%
ननु वेदप्रामाण्यं निर्विचारसिद्धमेव साधवो मन्यन्त इति किमत्र विचारयत्नेन? न संशयविपर्यासनिरासार्थत्वात्। यस्य हि वेदप्रामाण्ये संशयाना विपर्यस्ता वा मतिस्तं प्रति शास्त्रारम्भः। न हि विदितवेदार्थं प्रति मीमांसा प्रस्तूयते। तदुक्तम् “नान्यतो वेदविद्भ्यश्च सूत्रवृत्तिक्रियेष्यते” इति।
न्यायमञ्जरी :–
%उपदेष्टव्यनिर्णयः%
भवति च चतुष्प्रकारः पुरुषः-अज्ञः, सन्दिग्धः, विपर्यस्तो, निश्चितमतिश्चेति। तत्र निश्चितमतिरेष मुनिरमुना शास्त्रेणाज्ञस्य ज्ञानमुपजनयति, संशयानस्य संशयमुपहन्ति, विपर्यस्यतो विपर्यासं व्युदस्यतीति तान् प्रति युक्तः शास्त्रारम्भः।
न्यायमञ्जरी :–
%शास्त्रप्रणेतुस्तत्त्वज्ञत्वम्%
कुतः पुनरस्यर्षेरपि निश्चितमतित्वं जातम्? उच्यते-भवति तावदेष निश्चतमतिः। स तु तपःप्रभावाद् वा देवताराधनाद् वा शास्त्रान्तराभ्यासाद् वा भवतु, किमनेन? तत्रैतत् स्यात् तत एव शास्त्रान्तरादस्मदादेरपि तत्त्वाधिगमो भविष्यतीति किमक्षपादप्रणीतेन शास्त्रेण? परिहृतमेतत्, संक्षेपविस्तरविवक्षया शास्त्रप्रणयनस्य साफल्यात्। विचित्रचेतसश्च भवन्ति पुरुषा इत्युक्तम्। येषामित एवाज्ञानसंशयविपर्यया विनिवर्तन्ते तान् प्रत्येतत्प्रणयनं सफलमितीदं प्रणीतवानाचार्यः।
न्यायमञ्जरी :–
%तत्रेदमादिसूत्रम्%
“प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः।”
प्रथममूत्रं प्रयोजनीयं न वा?
ननु किमर्थोऽयमादिवाक्यारम्भः? कोऽयं प्रश्नः? शास्त्रं चेदारम्भणीयं क्रमवृत्तित्वाद् वाचः प्रथममवश्यं किमपि वाक्यं प्रयोक्तव्यम्। न ह्यादिवाक्यमकृत्वा द्वितीयादिवाक्यप्रणयनमुपपद्यत इति ग्रन्थकरणमेवाघटमानं स्यात्।
न्यायमञ्जरी :–
%शास्त्रादावभिधेयादिवर्णनप्रयोजनम्%
आह - न खल्वेवं न जाने, किन्तु यदेव शास्त्रे व्युत्पाद्यत्वेन स्थितं तदेव व्युत्पाद्यताम्, किमादौ तदभिधेयप्रयोजनकीर्तनेन? उच्यते।
आदिवाक्यं प्रयोक्तव्यमभिधेयप्रयोजने।
प्रतिपादयितुं श्रोतृप्रवाहोत्साहसिद्धये॥
अभिधेयफलज्ञानविरहास्तमितोद्यमाः।
श्रोतुमल्पमपि ग्रन्थमाद्रियन्ते न सूरयः॥
को हि नाम विद्वानविदितविषये निष्प्रयोजने च कर्मणि प्रवर्तते?
न्यायमञ्जरी :–
आह च भट्टः–
सर्वस्यैव हि शास्त्रस्य कर्मणो वाऽपि कस्यचित्।
यावत्प्रयोजनं नोक्तं तावत् तत्केन गृह्यते ॥ इति।
न्यायमञ्जरी :–
%प्रयोजनज्ञानादेव शास्त्रे प्रवृत्तिः%
ननु प्रयोजनपरिज्ञानमादौ श्रोतॄणां कुतस्त्यमिति चिन्त्यताम्। किमस्मादेव वाक्यात्, उत युक्तितः? वाक्यं तावदनिश्चितप्रामाण्यं कथं प्रयोजननिश्चयाय प्रभवति? संशयाद्वा प्रवृत्तो वेदार्थेऽपि तथैव स्यादिति शास्त्रमनारब्धव्यं स्यात्। युक्तितः प्रयोजनावगमः शास्त्रे सर्वस्मिन्नधीते सति सम्भवति, नेतरथेति तदवगमपूर्विकायां प्रवृत्तावितरेतराश्रयः। शास्त्राधिगमनात् प्रयोजनपरिज्ञानम्, प्रयोजनपरज्ञानाच्च शास्त्रश्रवणे प्रवृत्तिः। उच्यते। आदिवाक्यादेव श्रोतुः शास्त्रप्रयोजनपरिज्ञानम्, अर्थसंशयाच्च श्रवणे प्रवृत्तिः।
वेदे ह्यसिद्धप्रामाण्ये महाक्लेशेषु कर्मसु।
नानार्थशङ्कया युक्तमनुष्ठानप्रवर्तनम्॥
बहुवित्तव्ययायासवियोगसुगमेऽध्वनि।
प्रवृत्तिरुचितोदारफले लघुपरिश्रमे॥
शृण्वन्त एव जानन्ति सन्तः कतिपयैर्दिनैः।
किमेतत्सफलं शास्त्रमुत मन्दप्रयोजनम्॥
सूक्ष्मेक्षिका तु यद्यत्र क्रियते प्रथमोद्यमे।
असौ सकलकर्तव्यविप्रलोपाय कल्पते॥
आर्तो हि भिषजं पृष्ट्वा तदुक्तमनुतिष्ठति।
तस्मिन् सविचिकित्सस्तु व्याधेराधिक्यमाप्नुयात्॥
तेनादिवाक्याद् विज्ञाय साभिधेयं प्रयोजनम्।
तत्सम्भावनया कार्यस्तच्छास्त्रश्रवणादरः॥
यैरप्यादिवाक्यमित्थं व्याख्यायते किलानन्वितपदार्थकं वाक्यमनुपादेयम्, दशदाडिमादिवाक्यवत्; अन्वितपदार्थकमपि निष्प्रयोजनमनुपादेयमेव सदसद्वायसदशनविमर्शवाक्यमिव; तदिहोपादेयताव्यापकप्रयोजनाद्यनुपलम्भादनादरणीयत्वमिति व्यापकानुपलब्ध्या प्रत्यवतिष्ठमानः प्रयोजनाद्यभिधायिनाऽऽदिवाक्येन निवृत्ताशङ्कः क्रियत इति; तैरपि प्रयोजनप्रतिपादनमेवादिवाक्यस्यार्थ इत्युक्तं भवति। तत्प्रतिपादनेनैव व्यापकानुपलब्धिपरिहारादाशङ्का निवारिता भवतीति।
यदपि प्रवृत्तिहेतोरर्थसंशयस्य तर्कापरनाम्न औचित्यस्य वा समुत्पादनमादिवाक्येन क्रियत इति केचिदाचक्षते, तदपि प्रयोजनाभिधानद्वारकमेव। प्रयोजनविषयो हि संशयो वा, सम्भावनाप्रत्ययो वा, प्रवृत्त्यङ्गभूतस्तेनोत्पादनीय इति तदुत्पत्तौ प्रयोजनाभिधानमेवादिवाक्यस्य व्यापारः। संशयस्तु वस्तुवृत्तोपनत एव, पुरुषवचसां द्वैविध्यदर्शनात्। शौचसमाचारसाधुतादिना तु तस्मिन् सम्भावनाप्रत्ययोऽपि लोकस्य भवतीति। तस्मात् प्रयोजनप्रतिपादनार्थमेवादिवाक्यमिति सूक्तम्।
यच्च श्रोतृप्रवृत्त्यङ्गं तद्वक्तुं युक्तमादितः।
न च प्रयोजनज्ञानादन्यदस्ति प्रवर्तकम्॥
अभिधेयकथनमपि तत्साध्यप्रयोजनोपपादनाय, श्रोतृबुद्धिसमाधानाय च कर्तव्यमेव।
अर्थाक्षिप्तस्तु सम्बन्धः फलशास्त्राभिधेयगः।
तन्निर्देशेन सिद्धत्वान्न स्वकण्ठेन कथ्यते॥
न्यायमञ्जरी :–
%अनुबन्धचतुष्टयवर्णनम्%
अभिधेयस्य शास्त्रस्य वाच्यवाचकभावलक्षणः सम्बन्धः, शास्त्रार्थस्य निःश्रेयसस्य च साध्यसाधनभावः सम्बन्धः, तदाश्रयनिर्देशादेव सिद्धः।
न्यायमञ्जरी :–
%अभिधेयस्वरूपवर्णनम्%
अभिधेयास्तु प्रमाणादयो निग्रहस्थानपर्यन्ताः षोडश पदार्थाः प्रथमसूत्रे निर्दिष्टाः। तेषां स्वरूपमुपरिष्टाद् वक्ष्यते। अर्थपरिच्छित्तिसाधनानि प्रत्यक्षादीनि प्रमाणानि। तत्परिच्छेद्यमात्मादि। नानार्थावमर्शः संशयः। हिताहितप्राप्तिपरिहारौ तत्साधनञ्च प्रयोजनम्। हेतोः प्रतिबन्धावधारणं दृष्टान्तः। प्रमाणतोऽभ्युपगम्यमानः सामान्यविशेषवानर्थः सिद्धान्तः। परार्थानुमानवाक्यैकदेशभूताः प्रतिज्ञादयोऽवयवाः। सन्दिग्धेऽर्थेऽन्यतरपक्षानुकूलकारणदर्शनात् तस्मिन् सम्भावनाप्रत्ययस्तर्कः। साधनोपालम्भजन्मा तत्त्वावबोधो निर्णयः। वीतरागवस्तुनिर्णयफलो वादः। विजिगीषुकथा पुरुषशक्तिपरीक्षणफला जल्पः। तद्विशेषो वितण्डा। अहेतवो हेतुवदवभासमाना हेत्वाभासाः। अर्थविकल्पैर्वचनविघातश्छलम्। हेतुप्रतिबिम्बनप्रायं प्रत्यवस्थानं जातिः। सत्यवस्त्वप्रतिभासो विपरीतप्रतिभासश्च निग्रहस्थानम्। तत्र वक्ष्यमाणलक्षणसूत्रनिर्देशानुसारेण कानिचिदेकवचनान्तानि पदानि विग्रहे ग्रहीतव्यानइ। प्रमाणावयवहेत्वाभासानां बहुवचनेन विग्रहो दर्शयितव्यः, शेषाणामेकवचनेन लक्षणसूत्रेषु तथा निर्देशात्। एवञ्चोद्देशलक्षणयोरेकविषयता नितरां दर्शिता भवति। इतरेतरयोगे द्वन्द्वः समासः।
न्यायमञ्जरी :–
%प्रथमसूत्रार्थविचारः%
प्रमाणादीनां तत्त्वमिति सम्बन्धमात्रे षष्ठी। तत्त्वस्य ज्ञानं निःश्रेयसस्याधिगम इति कर्मणि षष्ठ्यौ, तत्त्वस्य ज्ञायमानत्वेन निःश्रेयसस्य चाधिगम्यमानत्वेन कर्मत्वात्।
नन्वेवं व्याख्यायमाने तत्त्वप्रमाणादिपदसापेक्षत्वेनासमर्थत्वादसमासः प्राप्नोति, सापेक्षमसमर्थं भवतीत्याहुः। न चेदं प्रधानं सापेक्षम्, येन भवति वै प्रधानस्य सापेक्षस्यापि समास इति। `राजपुरुषः शोभनः’ इतिवत् समस्येत। उत्तरपदार्थप्रधानत्वात् षष्ठीतत्पुरुषस्य ज्ञानमेवात्र प्रधानं तत्त्वमुपसर्जनम्। अतश्च `ऋद्धस्य राज्ञः पुरुष’ इतिवदसमास एव युक्तः।
ननु ज्ञानमपि प्रमाणादिसापेक्षं भवत्येव, तद्विषयं हि तदिति। न, तत्त्वपदेनास्य निराकाङ्क्षीकृतत्त्वात्। तत्त्वस्य ज्ञानमिति, तदिदानीं तत्त्वमेव सापेक्षं वर्तते, कस्य तत्त्वमिति। तस्मात् तत्त्वस्योपसर्जनस्य सतः सापेक्षत्वादसमास एवेत्येवमभिशङ्कमानाः केचन `तत्त्वं च तज्ज्ञानं च’ इति कर्मधारयं व्याचचक्षिरे। तत्पुनरयुक्तम्, ज्ञानस्य स्वतस्तत्त्वातत्त्वविभागाभावात्। विषयकृतो हि ज्ञानानां तथाभावः, अतथाभावो वा? तदेतत् तत्त्वविषयज्ञानं भवति, न स्वतस्तत्त्वस्वभावम्। किं पुनरिदं तत्त्वं नाम? सतोऽसतो वा वस्तुनः प्रमाणपरिनिश्चितस्वरूपम्, शब्दप्रवृत्तिनिमित्तं तदित्युच्यते। तस्य भावस्तत्त्वमिति। तच्च ज्ञानेन निश्चीयते। तत्परिच्छिन्दज्ज्ञानं तत्त्वज्ञानमित्युच्यते। ज्ञानस्यापि तद्रूपं ज्ञानान्तरपरिच्छेद्यमेव भवति। निर्णेयतत्त्वाच्च प्रमाणादय इति व्यतिरेकनिर्देश एव युक्तः। न चासमासप्रसङ्गमात्रादन्यथावर्णनमुचितम्, ईदृशानां समासानां सामर्थ्यानपायेन बहुशो दृष्टत्वात्, देवदत्तस्य गुरुकुलमिति। उपसर्जनं नोपसर्जनमिति। न कारणमेतत्, समासे विग्रहवाक्यसमानार्थतया समासो भवति, सा चेह विद्यत एव। वैयाकरणा अपि ईदृंशि पदानि समस्यन्त्येव, “अथ शब्दानुशासनम्। केषां शब्दानाम्? लौकिकानां वैदिकानाञ्चेति”। तस्माद् यथाभाष्यमेव षष्ठीत्रयव्याख्यानमनवद्यम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%निर्णेयतत्त्वाच्चे%ति। प्रमाणादीनां तत्त्वस्यैवात्र निर्णीयमानत्वात् तत्त्वस्य ज्ञानमिति व्यतिरेकनिर्देश एव युक्त इत्यर्थः।
%उपसर्जनं नोपसर्जनमि%ति। `इदमुमसर्जनमतः पदान्तरसापेक्षं न समस्यते, इदन्तु नोपसर्जनं प्रधानम्, अतः पदान्तरसापेक्षमपि समस्यते’ इति न कारणम्। विग्रहवाक्यसमानार्थतेति वोच्यते। तर्हि विशेषतो गृह्यते निश्चीययते समासार्थः। तथा हि–`राजपुरुषः’ इत्यादौ किं `राज्ञः पुरुषः’ आहोस्वित् `राजा पुरुषो यस्य’ अथ `राजा चासौ पुरुषश्च’ इत्याद्याः शङ्काः `राज्ञ पुरुषः’ इत्यनेन निवर्तन्ते। तेन विग्रहवाक्येन तुल्यार्थता यत्र तत्र समासः। `राजपुरुषः शोभनः’ इत्यत्र `राज्ञः पुरुषः शोभनः’ इति विग्रहवाक्यासभानार्थतया समासो न, प्रधानस्य सापेक्षत्वात्। `ऋद्धस्य राज्ञः पुरुषः’ इत्यसमासः, नोपसर्जनस्य सापेक्षत्वात्। शब्दानुशासनमित्यत्र शब्दानामनुशासनमिति समासः, केषां शब्दानामित्येतत्सापेक्षस्यापि `शब्द’शब्दस्य, अन्यथा समासे गुणीभूतस्य केषामिति प्रत्यवमर्शो न स्यात्।
न्यायमञ्जरी :–
%शास्त्रप्रतिपाद्यविचारः%
ननु षोडशपदार्थतत्त्वज्ञानस्य कथं निःश्रेयसाधिगमहेतुत्वमिति वक्तव्यम्। वेदप्रामाण्यसिद्ध्यर्थञ्चेदं शास्त्रमिति तावन्मात्रमेव व्युत्पाद्यताम्, किं षोडशापदार्थकन्थाग्रन्थनेन? उच्यते। आत्मापवर्गपर्यन्तद्वादशविधप्रमेयज्ञानं तावदन्यज्ञानानौपयिकमेव साक्षादपवर्गसाधनमिति वक्ष्यामः। तत्त्वज्ञानान्मिथ्याज्ञाननिरासे सति तन्मूलः संसारो निवर्तत इति, प्रमेयं तावदवश्योपदेश्यम्। तस्य तु प्रमेयस्यात्मादेरपवर्गसाधनत्वाधिगम आगमैकनिबन्धनः।
तस्य प्रामाण्यनिर्णीतिरनुमाननिबन्धना।
आप्तोक्तत्वञ्च तल्लिङ्गमविनाभावि वक्ष्यते॥
प्रतिबन्धग्रहे तस्य प्रत्यक्षमुपयुज्यते।
कोऽन्यस्सन्तरणे हेतुरनवस्थामहोदधेः॥
आयुर्वेदादिवाक्येषु दृष्ट्वा प्रत्यक्षतः फलम्।
वचःप्रमाणमाप्तोक्तमिति निर्णीयतां यतः॥
उपमानन्तु क्वचित् कर्मणि सोपयोगमित्येवं चतुष्प्रकारमपि प्रमाणं प्रमेयवद् उपदेष्टव्यम्। संशयादयस्तु पदार्था यथासम्भवं प्रमाणेषु प्रमेये चान्तर्भवन्तोऽपि न्यायप्रवृत्तिहेतुत्वात् पृथगुपदिश्यन्ते। न्यायश्च वेदप्रामाण्यप्रतिष्ठापनपूर्वकत्वेन पुरुषार्थोपयोगित्वमुपयातीति दर्शितम्–
तत्र नानुपलब्धेऽर्थे न निर्णीते प्रवर्तते।
किं तु संशयिते न्यायस्तदङ्गं तेन संशयः॥
प्रयोजनमनुद्दिश्य न च न्यायं प्रयुञ्जते।
दृष्टान्तः पुनरेतस्य सम्बन्धग्रहणास्पदम्॥
सिद्धान्तोऽपि धर्मप्रापणेनाश्रयासिद्धतामपोद्धरन्न्यायं प्रवर्तयति।
ननु संशयपदेन न्यायविषयं सन्दिग्धं धर्मिणमभिदधताऽऽश्रयासिद्धिरपोद्धृतैव। सत्यम्। क्वचित् तु विषये संशयमन्तरेण न्यायप्रवृत्तिर्दर्शयिष्यत इति संशयितैकविषयन्यायनियमाभावात् सिद्धान्तोऽपि वक्तव्यः।
न्यायाभिधानेऽवयवाः परं प्रत्युपयोगिनः।
परार्थमनुमाऩञ्च तदाहुर्न्यायवादिनः॥
ननु प्रतिज्ञोदाहरणाभ्यां तदभिधेयौ सिद्धान्तदृष्टान्तौ गम्येत एव, किं पृथगुपादानेन? यद्येवं हेत्वाख्येनावयवेन तदभिधेयसिद्धेरनुमानमपि पृथङ् न वक्तव्यं स्यात्। एवं भवतु किं नश्छिन्नम्? मैवम्, अभिधेये न्याये निरूपणीये तदभिधायिनामवयवानामवसर इति तदर्थः प्रथमं व्युत्पादनार्हो भवति, इतरथा अवयवमात्रोपदेश एव शास्त्रं समाप्येत।
तर्कः संशयविज्ञानविषयीकृततुल्यकल्पपक्षद्वयान्यतरपक्षशैथिल्यसमुत्पादनेन तदितरपक्षविषयं प्रमाणमक्लेशसम्पद्यमानप्रतिपक्षव्युदासमनुगृह्णाति मार्गशुद्धिमादधान इति पृथगुपदिश्यते। स चाशयशुद्धिमुपदर्शयितुं वादे प्रयोक्ष्यत इत्यन्यतराधिकरणनिर्णयमन्तरेण न पर्यवस्यति। न्यायोपरमकारणत्वेन तस्य प्रवर्तको निर्णयः, इतरथा निरवसानमनासादितफलं को नाम न्यायमारभेतः।
ननु तत्त्वज्ञानपदेन गतार्थत्वान्न पृथग् वक्तव्यो निर्णयः, निर्णयो हि तत्त्वज्ञानमेव। अस्त्येतत्, किं तु षोडशपदार्थतत्त्वज्ञानं प्रमाणान्तरकरणकमपि भवति। न तस्य न्यायोपरमहेतुत्वम्, एष तु साधनदूषणसरणिक्षोदजन्मा निर्णयस्तदुपरमहेतुः पृथगुपादानमन्तरेण न लभ्यते।
नन्वनुमानपदादेव, तर्हि यथाभिलषितो लप्स्यते निर्णयः? तदयुक्तम्। अनुमानफलं निर्णयः, नानुमानम्। करणस्य प्रमाणत्वान्निर्णयोपादानमन्तरेण तदनुमानमफलमपर्यवसितं स्यात्। उभाभ्यां तर्हि तत्त्वज्ञानानुमानपदाभ्यामयमाक्षेप्स्यते निर्णयः, अनुमानस्य तत्त्वज्ञानान्तत्वात्? न निर्णयोपादानाद् विनातदन्तत्वासिद्धेः, लिङ्गाभाससमुत्थतत्त्वज्ञानाभाससम्भवात्।
ननु संशयपूर्वकत्वादनुमानस्य सामर्थ्यान्निर्णयान्ततेव भविष्यतीति संशयानुमानतत्त्वज्ञानैर्गतार्थो निर्णयः? मैवम्; संशयपूर्वकत्वेऽप्यनुमानस्य तदाभासोपजनितनिर्णयाभाससम्भवात्। न चैष नियमः संशयपूर्वकमनुमानमिति। तस्मादनुमानस्य विशिष्टनिर्णयावसानत्वलाभाय निर्णयपदमुपादेयमित्यलं प्रसङ्गेन।
वादे तु विचार्यमाणे न्यायः संशयच्छेदनेनाध्यवसितावबोधम्, अध्यवसिताभ्यनुज्ञातञ्च विदधत् तत्त्वपरिशुद्धिमादधातीति वीतरागैः शिष्यसब्रह्मचारिभिः सह वादः प्रयोक्तव्यः।
जल्पवितण्डे तु दुष्टतार्किकोपरचितकपटदूषणाडम्बरसन्त्रास्यमानसरलमतिसमाश्वासनेन तद्धृदयस्थतत्त्वज्ञानसंरक्षणतया हेतवः सुखमवगम्यन्ते।
नन्वत्र विपर्ययो दृश्यते, हेत्ववगमे सति तदितरहेत्वाभासव्यवस्थापनात्। सत्यमेवम्, तथाऽपि प्रयोक्तुञ्च द्वयमपि ज्ञेयम्, हेतवः प्रयुज्यन्ते हेत्वाभासाश्च परिह्रियन्त इति। यच्च निग्रहस्थानपरिगणिता अपि हेत्वाभासाः पुनरुपदिश्यन्ते तद्वादे चोदनीया भविषय्न्तीत्याशयेन।
छलजातिनिग्रहस्थानानि जल्पवितण्डोपकरणानि। तेषामवधृतस्वरूपाणां स्ववाक्ये परिवर्जनम्, क्वचिदवसरे प्रयोगः, परप्रयुक्तानाञ्च प्रतिसमाधानमित्यादि शक्यक्रियम्, अतस्तान्यपि जल्पवितण्डाङ्गत्वाद् ज्ञातव्यानीति पृथगुपदिश्यन्ते।
दुःशिक्षितकुतर्कांशलेशवाचालिताननाः।
शक्याः किमन्यथा जेतुं वितण्डाटोपपण्डिताः॥
गतानुगतिको लोकः कुमार्गं तत्प्रतारितः।
मा गादिति च्छलादीनि प्राह कारुणिको मुनिः॥
तदेवमुपदेष्टव्याः पदार्थाः संशयादयः।
तन्मूलन्यायनिर्णेयवेदप्रामाण्यसंविदे॥
तेनागमप्रमाणत्वद्वाराखिलफलप्रदा।
इयमान्वीक्षिकी विद्या विद्यास्थानेषु गण्यते॥
आह च भाष्यकारः–
प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम्।
आश्रयः सर्वधर्माणां विद्योद्देशे परीक्षितेति॥
इत्येष षोडशपदार्थनिबन्धनेन निःश्रेयसस्य मुनिना निरदेशि पन्थाः।
अन्यस्तु सन्नपि पदार्थगणोऽपवर्गमार्गोपयोगविरहादिह नोपदिष्टः॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%उपमानं तु क्वचित् कर्णि सोपयोगं% `गवयमालभेत’ इत्यादौ।
%संशयमन्तरेण न्यायप्रवृत्तिरि%ति। यदा कार्यान्तरप्रयुक्तो देशान्तरं गच्छन् सहसैव धूमावलोकनादग्निमनुमिनीते, तदा संशयं विनापि न्यायप्रवृत्तेरुपलम्भः।
%स चाशयशुद्धिमुपदर्शयितुमि%ति। तर्कस्य प्राङ्नीत्या यद्यपि स्वतः साधनभावो नास्ति, तथाप्याशयशुद्धिं वीतरागत्वं प्रकटयितम्। तर्कक्रमेण स्वार्थानुमानकाले यथाप्रतिपन्नः स्वयमसावर्थस्तथैव परस्य प्रतिपाद्यते, वीतरागकथान्वाद् वादस्येति।
%संशयानुमानतत्त्वज्ञानैरि%ति। संशये सति यदनुमानं तत उत्पद्यते यत् तत्त्वज्ञानम्, तन्निर्णयस्वभावमेवेति।
%आह च भाष्यकार% इति। %भाष्यकारो% हि–सेयमान्वीक्षिकी प्रमाणादिपदार्थैः प्रविभज्यमानेत्येतत्सापेक्षत्वं श्लोकमिमं पपाठ–%प्रदीपः सर्वविद्यानामि%ति। सेयमान्वीक्षिकी %विद्योद्दे%शाख्ये %नीतिशास्त्र%प्रकरणे परीक्षिता। या सर्वविद्यानां मध्ये प्रदीप इव प्रदीपो वेदप्रामाण्यकारणस्य तदर्थाधिगमोपायस्य च न्यायस्य प्रकाशनात्। उपायः सर्वकर्मणाम्। सुखावाप्तिदुःखपरिहारार्थेषु कर्मसु प्रवृत्तिरनुमानात्तत्साधनत्वनिश्चये सति यतो भवति, अतोऽनुमानव्युत्पादकत्वादियं सर्वकर्मणां प्रवृत्तावुपायः। अश्रयः सर्वधर्माणाम्। धर्मस्वरूपमागमैकसमधिगम्यम्। आगमो न्यायापेक्षः सम्यग्धर्मावबोधको भवति, नान्यथा। यदाह–
आर्षं धर्मोपदेशञ्च वेदशास्त्राविरोधिना।
यस्तर्केंणानुसन्धत्ते स धर्मं वेद नेतरः॥
इत्यतस्तदधीनत्वाद् धर्मावबोधस्याश्रयः सर्वधर्माणामित्युक्तम्।
न्यायमञ्जरी :–
%शास्त्रप्रवृत्तिप्रकार_%
त्रिविधा चास्य शास्त्रस्य प्रवृत्तिरुद्देशो लक्षणं परीक्षेति। नामधेयेन पदार्थाभिधानमुद्देशः। उद्दिष्टस्य तत्त्वव्यवस्थापको धर्मो लक्षणम्। लक्षितस्य तल्लक्षणमुपपद्यते न वेति विचारः परीक्षा।
ननु च विभागलक्षणा चतुर्थ्यपि प्रवृत्तिरस्त्येव, भेदवत्सु प्रमाणसिद्धान्तच्छलादिषु तथाव्यवहारात्। सत्यम्। प्रथमसूत्रोपदिष्टे भेदवति पदार्थे भवत्येव विभागः, उद्देशरूपानपायात्तु उद्देश एवासौ। सामान्यसञ्ज्ञया कीर्तनमुद्देशः, प्रकारभेदसञ्ज्ञयाकीर्तनं विभाग इति। तथा चोद्देशतयैव तत्र तत्र भाष्यकारो व्यवहरति `अयथार्थः प्रमाणोद्देशः’ इत्याक्षेपे, तस्माद् `यतार्थ एव प्रमाणोद्देशः’ इति च समाधानमभिदधानः। तस्मात्त्रिविधैव प्रवृत्तिः। तत्रोद्देशः प्रथममवश्यं कर्तव्योऽनुद्दिष्टस्य लक्षणपरीक्षानुपपत्तेः। सामान्यविशेषलणयोरपि पौर्वापर्यनियमोऽस्त्येव, अलक्षिते सामान्ये विशेषलक्षणावसराभावात्। परीक्षा तु लक्षणोत्तरकालभाविनीति तत्स्वरूपनिरूपणादेव गम्यते। विभागसामान्यलक्षणयोस्तु नास्ति पौर्वापर्यनियमः, पूर्वं वा सामान्यलक्षणं ततो विभागः पूर्वं वा विभागस्ततः सामान्यलक्षणनमुच्यत इति। तदिहोद्देशस्तावद्व्याख्यातः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%अयथार्थः प्रमाणोद्देश% इति। `न चतुष्ट्वमैतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात्’ इत्यस्य विभागाक्षेपसूत्रस्यावतरणिकायाम् `अयथार्थः प्रमाणोद्देशः’ इति %भाष्यकृद्% विभागमुद्देशशब्देन व्याजहार।
न्यायमञ्जरी :–
%प्रकृतग्रन्थे निरूपणीयं वस्तु%
अस्माभिस्तु लक्षणसूत्राण्येव व्याख्यास्यन्ते। परीक्षासूत्रसूचितं तु वस्तु सोपयोगलक्षणवर्णनावसरे एव यथाबुद्धि दर्शयिष्यते, न पृथक् परीक्षासूत्रविवरणश्रमः करिष्यते।
प्रथमसूत्रानन्तरं `दुःखजन्मे’त्यादि द्वितीयं सूत्रं लक्षणानौपयिकत्वान्नेह विवृतम्, अपवर्गपरीक्षाशेषभूतत्वात्तु तदवसर एव निर्णेष्यते, प्रमाणसामान्यलक्षणम्, विभागसूत्रे त्ववसरप्राप्तत्वादिदानीमेव विव्रियते–
%“प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि”॥ इति%
न्यायमञ्जरी :–
%प्रमाणपदार्थविचारः%
अत्रेदं तावद्विचार्यते, किं प्रमाणं नाम? किमस्य स्वरूपम्? किं वा लक्षणमिति? ततस्तत्र सूत्रं योजयिष्यते। तदुच्यते। अव्यभिचारिणीमसन्दिग्धामर्थोपलब्धिं विदधती बोधाबोधस्वभावा सामग्री प्रमाणम्। बोधाबोधस्वभावा हि तस्य स्वरूपम्। अव्यभिचारादिविशेषणार्थोपलब्धिसाधनत्वं लक्षणम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%बोधाबोधस्वभावे%ति। विशेषणज्ञानादेर्बोधस्वभावस्य तत्रानुप्रवेशाद् बोधाबोधस्वभावेत्युक्तम्।
न्यायमञ्जरी :–
%प्रमाणपदनिरुक्तिविचारः%
ननु च प्रमीयते येन तत्प्रमाणमिति करणसाधनोऽयं प्रमाणशब्दः। करणञ्च साधकतमम्, तमवर्थश्चातिशयः, स चापेक्षिकः, साधकान्तरसम्भवे हि तदपेक्षयातिशययोगात् किञ्चित्साधकतममुच्यते। सामग्र्याश्चैकत्वात्तदतिरिक्तसाधकान्तरानुपलम्भात् किमपेक्षमस्या अतिशयं ब्रूमः? अपि च कस्मिन्विषये सामग्र्याः प्रमाणत्वम्। प्रमीयमाणो हि कर्मभूतो विषयः, सामग्र्यन्तरीभूतत्वात्सामग्र्येवेति करणतामेव यायात्। निरालम्बनाश्चेदानीं सर्वप्रमितयो भवेयुरालम्बनकारकस्य चक्षुरादिवत्प्रमाणान्तःपातित्यात्। कश्च सामग्र्या प्रमेयं प्रमिमीते? प्रमातापि तस्यामेव लीनः। एवञ्च यदुच्यते `प्रमाता प्रमाणं प्रमेयं प्रमितिरिति। चतसृषु विधासु तत्त्वं परिसमाप्यते’ इति तद् व्याहन्यते। न च लोकोऽपि सामग्र्याः करणभावमनुमन्यते तस्यां करणविभक्तिमप्रयुञ्जानः। न ह्येवं वक्तारो भवन्ति लौकिकाः `सामग्र्या पश्याम’ इति, किन्तु `दीपेन पश्यामः’ चक्षुषा निरीक्षामह इत्याचक्षते। तस्मान्न सामग्री करणम्, अकरणत्वाच्च न प्रमाणमिति नेदं साधु प्रमाणस्वरूपम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%चतसृषु विधास्वि%ति। तत्त्वं परिसमाप्यते, अर्थः परिसमाप्तो भवति; नाधिकापेक्षोपयुज्यत इत्यर्थः।
न्यायमञ्जरी :–
%करणस्वरूपविचारः%
अत्रोच्यते–यत एव साधकतमं करणं करणसाधनश्च प्रमाणशब्दः, तत एव सामग्र्याः प्रमाणत्वं युक्तम्। तद्व्यतिरेकेण कारकान्तरे क्यचिदपि तमबर्थसंस्पर्शानुपपत्तेः। एनेककारकसन्निधाने कार्यं घटमानमन्यतरव्यपगमे च विघटमानं कस्मा अतिशयं प्रयच्छेत्? न चातिशयः कार्यजन्मनि कस्याचिदवधार्यते, सर्वेषां तत्र व्याप्रियमाणत्वात्। सन्निपत्यजनकत्वमतिशय इति चेन्न। आरादुपकारकाणामपि कारकत्वानपायात्। ज्ञाने च जन्ये किमसन्निपत्य जनकम्? सर्वेंषामिन्द्रियमनोऽर्थादीनामितरेतरसंसर्गे सति ज्ञाननिष्पत्तेः। अथ सहसैव कार्यजननमतिशयः, सोऽपि कस्याञ्चिदवस्थायां करणस्येव कर्मणोऽपि शक्यते वक्तुम्। अविरलजलधरधाराप्रबन्धबद्धान्धकारनिवहे बहुलनिशीथे सहसैव स्फुरता विद्युल्लतालोकेन कामिनीज्ञानमादधानेन तज्जन्मनि सातिशयत्वमवाप्यते। एवमितरकारककदम्बसन्निधाने सत्यपि सीमन्तिनीमन्तरेण तद्दर्शनं न सम्पद्यते। आगतमात्रायामेव तस्यां भवतीति तदपि कर्मकारकमतिशययोगित्वात्करणं स्यात् तस्मात्फलोत्पादाविनाभाविस्वभावत्वमवश्यतया कार्यजनकत्वमतिशयः। स च सामग्र्यन्तर्गतस्य न कस्यचिदेकस्य कारकस्य कथयितुं पार्यते, सामग्र्यास्तु सोऽतिशयः सुवचः। सन्निहिता चेत्सामग्री, सम्पन्नमेव फलमिति सैवातिशयवती।
ननु मुख्ययोः प्रमातृमेययोरपि तदविनाभावित्वमतिशयोऽस्त्येव, प्रमितिसम्बन्धमन्तरेण तयोस्तथात्वाभावात्। प्रमिणोतीति प्रमाता भवति, प्रमीयते इति च प्रमेयम्। सत्यमेतत्। किन्तु साकल्यप्रसादलब्धप्रमितिसम्बन्धनिबन्धनः प्रमातृप्रमेययोर्मुख्यस्वरूपलाभः, साकल्यापचये प्रमित्यभावाद् गौणे प्रमातृप्रमेये सम्पद्येते, एवञ्च साकल्यमन्तरेण प्रमितितमबर्थयोगात्तदेव करणम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%सन्निपत्य जनकत्वमि%ति। अन्यकारकव्यापाराव्यवधीयमानव्यापारत्वं सन्निपत्य जनकत्वम्। फलोत्पादाविनाभाविस्वभावो यावन्न भवति, तावत् कथमवश्यतया कार्यजनको भवेत्, ताद्रूप्यं च सामग्रीतो नान्यस्येति।
%ननु मुख्ययोः प्रमातृप्रमेययोरि%ति। तत्कालं प्रमामकुर्वन्नपि योग्यतया यः प्रमातेति भण्यते स गौणः, यस्तु तत्कालमेव प्रमाजन्मनि व्याप्रियते स मुख्यः। एवं प्रमेयमपि।
न्यायमञ्जरी :–
%सामग्रीविचारः%
यत्तु किमपेक्षं सामग्र्याः करणत्वमिति? तदन्तर्गतकारकापेक्षमिति ब्रूमः। कारकाणां धर्मः सामग्री न स्वरूपहानाय तेषां कल्पते, साकल्यदशायामपि तत्त्वरूपप्रत्यभिज्ञानात्।
ननु समग्रेभ्यः सामग्री भिन्ना चेत्कथं पृथङ् नोपलभ्यते? अभेदे तु सर्वकारकाणि करणीभूतान्येवेति कर्तृकर्मव्यवहारोच्छेदप्रसङ्गः। मैवम्। समग्रसन्निधानाख्यधर्मस्य प्रत्यक्षमुपलभ्भात्। पृथगवस्थितेषु हि स्थालीजलज्वलनतण्डुलादिषु न समग्रताप्रत्ययः। समुदितेषु तु भवतीत्यतस्तन्तुपटलपरिघटितपटाद्यवयविवत्कारककलापनिष्पाद्यद्रव्यान्तराभावेऽपि समुदायात्मिका सामग्री विद्यत एवेति समुदाय्यपेक्षया करणतां प्रतिपद्यते। तस्मान्न परिचोदनीयमिदं कस्मिन्कर्मणि सामग्री करणमिति। समुदायिनां सामग्र्यवस्थायामपि स्वरूपानपायात् समुदायिविशेषे कर्मणि सामग्री करणम्। अत एव न प्रमितेर्निरालम्बनत्वम्। एतेन प्रमाता पृथगुपदर्शिंत इति विधाचतुष्टयमपि समाहितम्।
यत्त्वभ्यधायि सामग्र्याः करणविभक्तिनिर्देशो न दृश्यत इति, तत्रोच्यते। सामग्री हि संहतिः, सा हि संहन्यमानव्यतिरेकेण न व्यवहारपदवीमवतरति। तेन सामग्रीं पश्यामीति न व्यपदेशः। यस्तु दीपेनद्रियाणां तृतीयार्निर्देशः स फलोपजननाविनाभाविस्वभावत्वाख्यसामग्रीसरूपसमारोपणनिबन्धनः। अन्यत्रापि च तद्रूपसमारोपणे स्थाल्या पचतीति व्यपदेशा दृश्यत एव। तस्मादन्तर्गतकारकापेक्षया लब्धकरणभावा सामग्री प्रमाणम्।
अपरे पुनराचक्षते, सामग्री नाम समुदितानि कारकाणि, तेषां द्वैरूप्यमहृदयङ्गमम्, अथ च तानि पृथगवस्थितानि कर्मादिभावं भजन्ते, अथ च तान्येव समुदितानि करणीभवन्तीति कोऽयं नयः? तस्मात्कर्तुकर्मव्यतिरिक्तमव्यभिचारादिविशेषणकार्थप्रमाजनकं कारकं करणमुच्यते? तदेव च तृतीयया व्यपदिशन्ति। दीपेन पश्यामि, चक्षुषा निरीक्षे, लिङ्गेन बुध्ये, शब्देन जानामि मनसा निश्चिनोमीति।
ननु त्रीण्येव कारकाण्यस्मिन् पक्षे भवेयुः ज्ञानक्रियायां तावदेवमेवैतद्यथा भवानाह। पाकादिक्रियासु क्रियाश्रयसाधारणाद्युपकारभेदपर्यालोचनया भवत्वधिकरणादिकारकान्तरव्यवहारः। प्रमितौ तु मनोदीपचक्षुरादेर्न लक्ष्यते विशेष इति तत्सर्वं कारणत्वेन सम्मतम्। कस्तेषु तमबर्थ इति चेत्, अस्ति कश्चिद् यदयं लोकोऽहं मया जानामि’ `घटेन घटं जानामि’ इति न कर्तृकर्मणी विस्मृत्यापि करणत्वेन व्यपदिशति। नयनमनोदीपशब्दलिङ्गादीनि तु तथा व्यपदिशति। सोऽयमेषां पश्यति कर्तृकर्मवैलक्षण्यं चक्षुरादीनाम्। तद्वैलक्षण्यमेव च तेषामतिशय इति तदयमिह प्रमाणं प्रमाता प्रमेयं प्रमितिरिति चतुर्वर्गेणैव व्यवहारः परिसमाप्यते। तस्मात्कृर्तृकर्मविलक्षणा संशयविपर्ययरहितार्थावबोधविधायिनी बोधाबोधस्वभावा सामग्री प्रमाणमिति युक्तम्।
न्यायमन्ञरीग्रन्थिभङ्गव्याख्या :–
%कारककलापनिष्पाद्यद्रव्यान्तराभावेऽपी%ति। विजातीयानां द्रव्यारम्भकत्वादर्शनादिति भावः।
%तस्मात् कर्तृकर्मविलक्षणा संशयविपर्ययरहितार्थावबोधविधायिनी बोधाबोधस्वभावा सामग्री प्रमाणमिति युक्तमि%त्यत्र सामग्रीशब्दः समग्रप्रधानो द्रष्टव्यः। कर्तृकर्मव्यतिरिक्तं जनकं यत् तत् प्रमाणमित्यर्थः। अन्यथा ह्युपक्रमे कर्तृकर्मव्यतिरिक्तस्य कारकमात्रस्योदाहरणप्रदर्शनेन प्रमाणत्वं प्रतिज्ञायोपसंहारे सामग्र्यास्तत्प्रतिपादनेनोपक्रमोपसंहारयोर्विरोधः स्यात्। %एतच्च यथोपलब्धपाठानुसरणेन व्याख्यात%म्। %स्पष्टगमनिकाप्रायं चेत् पाठान्तरं क्वचिद् भवेत्, तत् सैव गमनिकाऽस्तु। एवमन्यत्रापि पाठानिश्चये द्रष्टव्यम्।%
न्यायमञ्जरी :–
%ज्ञानस्यैव प्रमाणत्वं न वेति विचारः%
ये तु बोधस्यैव प्रमाणत्वमाचक्षते न सूक्ष्मदर्शनास्ते। बोधः खलु प्रमाणस्य फलं न साक्षात्प्रमाणम्। करणार्थाभिधानो हि प्रमाणशब्दः प्रमीयतेऽऽनेनेति प्रमाणम्। प्रमीयते इति कोऽर्थः? प्रमा जन्यते इति, प्रमाणादवगच्छाम इति च वदन्तो लौकिकाः करणस्यैव प्रामाण्यमनुमन्यन्ते। यस्तु प्रमा प्रमाणमिति प्रमाणशब्दः स प्रमाणफले द्रष्टव्यः। तथा च संशयविपर्ययात्मकं प्रमाणाद्धि भिन्नं फलमिति ज्ञानमात्ममनोऽनुमाने, तद्विशेषणार्थपरिच्छेदे वा, विशिष्टप्रमाणजननात्प्रमाणतां प्रतिपद्यते। अव्यभिचारादिविशेषणोपपन्नमपि ज्ञानमफलजनकमप्रमाणमेव प्रमाणमुच्यते।
तदयुक्तम्। सकलजगद्विदितबोधेतरस्वभावशब्दलिङ्गदीपेन्द्रियादिपरिहारप्रसङ्गात्। तस्मात्सामग्र्यनुप्रविष्टबोधो विशेषणज्ञानमिव क्वचित्प्रत्यक्षे, लिङ्गज्ञानमिव लिङ्गिप्रमितौ, सारूप्यदर्शनमिवोपमाने, शब्दश्रवणमिव तदर्थज्ञाने, प्रमाणतां प्रतिपद्यते। अत एव बोधाबोधस्वभावा सामग्री प्रमाणमित्युक्तम्।
न्यायमन्ञरीग्रन्थिभङ्गव्याख्या :–
%तथा च संशयविपर्ययात्मकमि%ति। यदा करणसाधनेन प्रमाणशब्देन लोके व्यवहारः एवं सति फलस्य प्रमारूपस्याप्रामाण्यं सिध्यति। फलप्रमाणपक्षे पुनः संशयज्ञानस्य, प्रमाणलक्षणविरहाद् यदत् क्वचित् सिद्धं प्रामाण्यं `संशयितोऽयमर्थः’ इत्यादौ विशेषणत्वेन तद्धीयते। फलान्तराजनकत्वेन च यदप्रामाण्यमकारकस्य फलस्य, तदपि न परिगृहीतं भवतीति तात्पर्यम्।
ननु फलात्मकत्वेन तस्यार्थाधिगमे व्यापृतत्वात् प्रमाणत्वं भविष्यति, तन्नेत्याह–“प्रमाणाद्धि भिन्नं फलम्” इति।
न्यायमञ्जरी :–
%निराकारज्ञानवादिवैभाषिकमतम्%
अन्ये तुल्यसामग्र्याधीनयोर्ज्ञानार्थयोर्ग्राह्यग्राहकभावं वदन्तो बोधं प्रमाणमभ्युपागमन्, क्षणभङ्गिषु पदार्थेषु सहकार्युपादानकारणापेक्षक्षणान्तरसन्ततिजननेन च लोकयात्रामुद्वहत्सु ज्ञानजन्मनि ज्ञानमुपादानकारणम्, अर्थः सहकारिकारणम्, अर्थजन्मनि चार्थ उपादानकारणम्, ज्ञानं सहकारिकारणमिति, ज्ञानञ्च ज्ञानार्थजन्यमर्थश्चार्थज्ञानजन्यो भवतीत्येवमेकसामग्र्यधीनतया तमर्थमव्यभिचरतो ज्ञानस्य तत्र प्रामाण्यमिति।
न्यायमन्ञरीग्रन्थिभङ्गव्याख्या :–
%अन्ये तुल्यसामग्र्यधीनयोरि%ति। अजनकोऽप्यर्थः सहभाविज्ञानेन गृह्यत इति %निराकारज्ञानवा%दिनां %वैभाषिकाणां% दर्शनम्। अजनकस्य च ग्राहकत्वेऽन्यस्यापि तत्कालभाविनोऽर्थक्षणस्य तज्ज्ञानं किमिति न ग्राहकमित्यतिप्रसङ्गनिवारणाय तुल्यसामग्र्यधीनयोरित्युक्तम्। एकसामग्र्युत्पन्नत्वेन तस्यैव तद् ग्राहकम्, नान्यस्य; यथैतद्ग्रहणे तुल्यसामग्र्यधीनत्वं तस्य नियामकमस्ति तथाऽनय्ग्रहणे न किञ्चिदस्तीत्यर्थः। पूर्वभावीस्वसन्तानगतसदृशक्षण उपादानकारणम्। यदुक्तम्–
“सभागहेतुः स्वसन्तानभुवो क्षणाः।” इति।
तदन्यः सहकारिकारणम्। तथा चाहुः–
“ततोऽन्ये कारणं हेतुः सहभूर्ये मिथः फलाः।” इति।
यत्पुनर्द्वितीयमुपादानकारणलक्षणं कृतम्–`यदुत्पत्तौ यत्सन्ताननिवृत्तिस्तत्तस्योपादानकारणम्’ इति तद् विसदृशोत्पादाभिप्रायम्। तथाहि–घटोत्पत्तौ मृत्पिण्डसन्ताननिवृत्तिः; अनुत्पन्ने हि घटे मृत्पिण्डक्षणा एव सन्तानेनोत्पद्यन्ते घटे तूत्पन्ने घटक्षणा इति।
न्यायमञ्जरी :–
%साकारज्ञानवादिनां सौत्रान्तिकानां मतम्%
तदिदमनुपपन्नम्, अफलजनकस्य प्रमाणत्वापत्तेरित्युक्तत्वात्। अपि च कर्मणि ज्ञानं प्रमाणमिष्यते। यथोक्तम्,
`सव्यापारमिवाभाति व्यापारेण स्वकर्मणेति’।
स चायमर्थक्षणो ज्ञानसमकालस्ततः पूर्वाभ्यां ज्ञानार्थक्षणाभ्यामुपजनित इति तत्कर्मतां प्रतिपद्यतां न पुनःस्वसमानकालप्रसूतज्ञानक्षणकर्मतामिति।
ननु च तुल्यसामग्र्यधीनतया समानकालतया च तदव्यभिचारसिद्धौ क्व कर्मत्वमुपयुज्यते? हन्त तर्हि सहोत्पन्नयोः समानसामग्रीकयोर्ग्राह्यग्राहकनियमः किं कृत इति? कर्त्तव्यं ज्ञानं प्रकाशस्वभावमिति ग्राहकम्। अर्थो जडात्मेति ग्राह्यमिति चेदयमपि विशेषस्तुल्यकारणयोः कुतस्त्यः? उपादानसहकारिकारणभेदादिति चेन्न। तस्य क्षणभङ्गभङ्गे निराकारयिष्यमाणत्वात्।
न्यायमन्ञरीग्रन्थिभङ्गव्याख्या :–
%अपि च कर्मणि ज्ञानं प्रमाणिष्यत% इति। कर्म हि विषयो भण्यते, विषयश्च स भवति यमालम्ब्य भूतमभूतं ज्ञानं सत्तां प्रतिलभते। न चायं न्यायः सहोत्पद्यमानयोरस्ति। अत्रैव सामान्येन %बौद्धदर्श%नमात्राश्रयणेन ज्ञापकमाह–%यथोक्तम्, सव्यापारमिवाभाती%ति। ननु च %साकारज्ञानवादि%नामिदं वचनम्। तथा च पूर्वमर्धम्–`दधानं तच्च तामात्मन्यर्थाधिगमनात्मना’ इति। अस्यार्थ–तज्ज्ञानं तामर्थरूपतां दधानं सद् यदा स्वकर्मणि स्वस्मिन् विषये ग्राह्ये नियतार्थग्रहणलक्षणेन व्यापारेण सव्यापारं नियतार्थग्रहणलक्षणव्यापारयोगीवाभाति। तस्मात् सैवार्थाकारता प्रमाणम्, तद्वशान् नीलस्येदं पीतस्येदमिति नियतनीलाद्यर्थग्रहणवदिव ज्ञानं लक्ष्यत इति तात्पर्यम्। %बौद्धमते% निर्व्यापारत्वात् सर्वधर्माणाम् `इव’शब्दोपादानम्। एवं च %वैभाषिकमते% इदं दूषणं कथं सङ्गच्छते? सत्यम्। किन्तु स्वस्मिन् विषये ज्ञानस्य प्रामाण्यं तैरपीष्यते। अत एव तन्मतसंवादिन एव श्लोकाकारस्योपन्यासः कृतः। अथवा %वैभाषिकै%रनिष्यमाणमपि बलादेतदङ्गीकार्यम्, अन्यथा निर्विषयत्वे ज्ञानस्य %योगाचारदर्शना%पत्तिप्रसङ्गात्।
न्यायमञ्जरी :–
%तत्र विज्ञानवादिमतम्%
ये हि निराकारस्य बोधरूपस्य नीलपीताद्यनेकविषयसाधारणत्वाज् जनकत्वस्य च चक्षुरादावपि भावेनातिप्रसङ्गात्तदाकारकृतमेव ज्ञानकर्मनियममवगच्छन्तः साकारविज्ञानं प्रमाणमिति प्रतिपेदिरे, तेऽपि विज्ञनाद्वैतसिषाधयिषयैवमभिदधानास्तन्निरासप्रसङ्ग एव निरसिष्यन्ते। न ह्येकमेव साकारं ज्ञानं ग्राह्यं ग्राहकञ्च भवितुमर्हतीति वक्ष्यते। अर्थस्तु साकारज्ञनवादिनो न समस्त्येव। स ह्यनुमेयो वा स्यात्प्रत्यक्षो वा? नानुमेयः सम्बन्धग्रहणाभावात्।
अर्थे हि सति साकारं निराकारं तदत्यये।
नित्यानुमेयबाह्यार्थवादी ज्ञानं क्व दृष्टवान्॥
नापि प्रत्यक्षोऽर्थः, आकारद्वयप्रतीत्यभावात्, अभ्युपगमेचानवस्थाप्रसङ्गात्। अर्थाकारो हि निराकारज्ञानगम्यो न भवतीति ज्ञानेनाकारवत्ता गृह्यते। सोऽयमिदानीं ज्ञानाकारोऽपि ग्राह्यत्वादन्येनाकारवता गृह्यते सोऽप्यन्येनेति। अथ वा अर्थो निराकारज्ञानगम्यो न भवतीति स्वग्राहके ज्ञानात्मनि समर्पितात्मा भवतीति साकारं ज्ञानमेवेदं सम्पन्नमिति पुनरन्योऽर्थः कल्पनीयः। सोऽपि ग्राह्यत्वात्स्वग्राहकस्य साकारत्वसिद्धये तत्रैव लीयत इति साकारं ज्ञानमेवावशिष्यत इति पुनरन्योऽर्थ इतीत्थमनवस्था प्रतिकर्मव्यवस्था तु जनकत्वनिबन्धना भविष्यति, वस्तुस्वभावस्यापर्यनुयोज्यत्वात्। साकारपक्षेऽपि पर्यनुयोगसाम्यमित्यादि सर्वमुपपरिष्टात् सविस्तरमभिधास्यते। साकारपक्षेऽपि च न प्रमाणाद्व्यतिरिक्तं फलमुपदर्शितमित्यसत्पक्ष एवायम्।
न्यायमन्ञरीग्रन्थिभङ्गव्याख्या :–
%अथ वा अर्थो निराकारज्ञानगम्यो न भवती%त्यादिना अनुमानादर्थव्यवस्थापनेऽप्यनवस्थामाह–%पुनरन्योऽर्थः कल्पनीय% इति। साकारस्य ज्ञानस्याकारजनकोऽर्थोऽप्रतीयमानोऽप्यनुमानेन कार्यलिङ्गरूपेण कल्प्यते। तस्य कल्प्यमानस्य यद् ग्राहकं कार्यलिङ्गजमनुमेयज्ञानं तन्निराकारं कथं ग्राहकं स्यात्? अतस्तत्र तेनाकारोऽर्पणीय इति पुनरपि ज्ञानाकार एव संवृत्तः। पुनश्च तेन कार्येणान्योऽर्थः कल्पनीय इत्यनवस्था।
%वस्तुस्वभावस्यापर्यनुयोज्यत्वादि%ति। यदि ब्रूयात् तुल्ये कारकत्वे कथमर्थस्यैव प्रतिभास्यत्वं न चक्षुरादेरिति, तत्रोत्तरम्-`वस्तुस्वभावोऽयम्’ इति। तथा च भवद्भिरपि पर्यनुयुक्तैः `तुल्ये जनकत्वे कथमर्थस्यैवाकारग्राहि ज्ञानम्, नाक्षाणाम्’ इति वस्तुस्वभावोऽयम्, इत्येवोत्तरं देयम्।
न्यायमञ्जरी :–
%तत्रैव भाट्टमतम्%
शाबरास्तु ब्रुवते य एते बोधप्रामाण्यवादिनो विज्ञानादभिन्नमेव फलमभिदधति ते बाढं निरसनीया भवन्त्येव। वयं तु विज्ञानाद्भिन्नमेव फलमर्थदृष्टताख्यमभ्युपगच्छामः। तेनैव तदनुमीयते। ज्ञानं हि नाम क्रियात्मकम्। क्रिया च फलानुमेया। ज्ञातृव्यापारमन्तरेण फलानिष्पत्तेः संसर्गोऽपि कारकाणां क्रियागर्भ एव भवति। तदनभ्युपगमे किमधिकृत्य कारकाणि संसृज्येरन्। न चासंसृष्टानि तानि फलवन्ति। क्रियावेशवशाच्च कारकं कारकं भवति। अपरथा हि तद्वस्तुस्वरूपमात्रमेव स्याद् न कारकम्। ततश्च न फलार्थिभिरुपादीयेतेति व्यवहारविप्रलोपः। तस्माद्यथा हि कारकाणि तण्डुलसलिलानलस्थाल्यादीनि सिद्धस्वभावानि साध्यं धात्वर्थमेकं पाकलक्षणमुररीकृत्य संसृज्यन्ते, संसृष्टानि च क्रियामुत्पादयन्ति, तथात्मेन्द्रियमनोऽर्थसन्निकर्षे सति ज्ञानाख्यो व्यापार उपजायते। स च न प्रत्यक्षः, अर्थस्यैव बहिर्देशसम्बद्धस्य ग्रहणादाकारद्वयप्रतिभासाभावादगृहीतस्यापि तस्य चक्षुरादिवदुपायत्वात्परोक्षोऽपि चासौ विषयप्रकाशतालक्षणेन फलेन कल्प्यते। तदाह भाषय्कारः `न ह्यज्ञातेऽर्थे कश्चिद्बुद्धिमुपलभते, ज्ञाते त्वनुमानादवगच्छती’ति। वार्त्तिककृताऽप्युक्तम्।
नान्यथा ह्यर्थसद्भावो दृष्टः सन्नुपपद्यते।
ज्ञानञ्चेन्नेत्यतः पश्चात्प्रमाणमुपकल्प्यते ॥ इति।
तदेष फलानुमेयो ज्ञानव्यापारो ज्ञानादिशब्दवाच्यः प्रमाणम्। इन्द्रियादीनां तदुत्पादकतया ज्ञानमुपचरति न साक्षादिति।
न्यायमन्ञरीग्रन्थिभङ्गव्याख्या :–
%शाबरा% इत्यादिना %भाट्टं% पक्षमुपक्रमते। %ज्ञातृव्यापारमन्तरेणे%ति। निःसंरम्भावस्थापरिहारेण विषयौन्मुख्यलक्षणा ससंरम्भावस्थाऽत्र ज्ञातृव्यापारः। %नान्यथा ह्यर्थसद्भाव% इति। दृष्टत्वविशिष्टार्थसद्भावोऽन्यथानुपपद्यमानो ज्ञानं पश्चात् कल्पयतीत्यर्थदर्शनकाले ज्ञानावेदकप्रमाणाभावान्नाकारद्वयोपलम्भचोद्यप्रसङ्गावकाशः। %पश्चात् प्रमाणमुपकल्प्यते%। ज्ञानग्राहकं प्रमाण…(अग्रे ग्रन्थस्त्रुटितः)
न्यायमञ्जरी :–
%तन्मतखण्डनम्%
अत्र प्रतिविधीयते। अहो बत इमे केभ्यो विभ्यतः श्रोत्रियाः परं किमपि वैक्लव्यमुपागताः। न खल्वनित्यं परोक्षं ज्ञानं भवितुमर्हति, ज्ञातोऽर्थ इति क्वचित्तद्विशिष्टार्थप्रत्यवमर्शदर्शनाद्, विशेषणाग्रहणे शुक्लः पट इतिवद्विशिष्टप्रतीतेरनुत्पादात्। कश्चायमियान्सन्त्रासः, विषयग्रहणकाले विज्ञानाग्रहणमात्रकेण बाह्यार्थनिह्नववादिनः शाक्याः शक्याः शमयितम्। यत्तु क्रियास्वभावत्वात्तस्य परोक्षत्वम्, तदयुक्तम्। न हि क्रियास्वभावं ज्ञानमपि तु फलस्वभावमेव। अपि च क्रियाऽपि प्रत्यक्षद्रव्यवर्त्तिनी प्रत्यक्षैव। भट्टानां प्रत्यक्षश्चात्मा। तत्किमनेनापराद्धं यदेतदीयक्रियाया अप्रत्यक्षत्वमुच्यते। न चोत्क्षेपणादिभेदभिन्नपरिस्पन्दात्मकव्यापारव्यतिरेकेण बाह्यकारकेष्वपि सूक्ष्मा नाम काचिदस्ति क्रिया। सा हि, यदि नित्या जातिवद्, अथानित्या रूपवद्वस्तुधर्म इष्येत। तत्र यदि नित्या तर्हि सर्वदा वस्तुनः क्रियायोगात्सर्वदा फलनिष्पत्तिप्रसङ्गः। अथ कारकनिर्वर्त्या क्रिया, सापीदानीं कार्यत्वात् सव्यापारकारककार्या भवेदित्यनवस्था। निष्क्रियकारककार्यत्वे तु क्रियामिव फलमपि निष्क्रियाण्येव कारकाणि कुर्युरिति किं क्रियया?
न्यायमञ्जरी :–
%प्रसङ्गात् कारकपदार्थविचारः%
ननु करोतीति कारकं क्रियावेशमन्तरेण कारकत्वानुपपत्तेः। सत्यम्, करोतीति कारकं तत्तु फलमेव करोति न क्रियाम्।
ननु करोतीति यद् ब्रूषे सेयमुक्तैव क्रिया भवति, चैत्रः कटं करोतीति चैत्रस्येव कटस्येव करोत्यर्थस्याप्रत्याख्येयत्वात् तत्कृतमेव चैत्रादीनां कारकत्वम्। उच्यते नातीन्द्रियक्रियायोगनिबन्धनः कारकभावः, क्रियाया अतीन्द्रियत्वेन तद्योगकृतकारकत्वानधिगमे व्यवहारविप्रलोपप्रसङ्गात्। क्रियावेशकृतं हि तत्कारकत्वमनवगच्छन्तः कथं फलार्थिनस्तदुपाददीरन्।
मत्पक्षे कारकत्वं हि नास्ति किञ्चिदतीन्द्रियम्।
कारकत्वस्वरूपस्य सहकार्यादिसन्निधिः॥
तावदेव विनिश्चित्य तदुपादीयतेऽर्थिभिः।
तदेवोपाददानैश्च फलमप्यधिगम्यते॥
निर्व्यापारस्य सत्त्वस्य को गुणः सहकारिभिः।
सव्यापारस्य सत्त्वस्य को गुणः सहकारिभिः॥
अथ व्यापार एवैष सर्वैः सम्भूय साध्यते।
किं फलेनापराद्धं वस्तद्धि सम्भूय साध्यताम्॥
न्यायमञ्जरी :–
%तत्रैव धात्वर्थविचारः%
यत्तु करोत्यर्थस्याप्रत्याख्येयत्वादित्युक्तं तत्रोच्यते परिस्पन्द एव भौतिको व्यापारः करोत्यर्थः। न हि वयं परिस्पन्दात्मकं परिदृश्यमानं व्यापारमपह्नुमहेप्रतिकारकं विचित्रस्य ज्वलनादेर्व्यापारस्य प्रत्यक्षमुपलभ्भात्। अतीन्द्रियस्तु व्यापारो नास्तीति ब्रूमहे।
ननु पाको नाम धात्वर्थः परिदृश्यमानज्वलनादिव्यापारव्यतिरिक्त एषितव्य एव, तमन्तरेण फलनिष्पत्तेरभावात्। असति च तस्मिन् किमधिकृत्य कारकाणि संसृज्येरन् इत्युक्तम्, तदयुक्तम्। यं तमेकं धात्वर्थं साध्यं बुध्यते स किं समुदितसकलकारकसम्पाद्यः, एकैककारकनिर्वर्त्त्यो वा।
तत्राद्यपक्ष एकैकं भवेत्कारकमक्रियम्।
एकैकनिष्क्रियत्वे च साकल्येऽपि कुतः क्रिया॥
उत्तरस्मिन्पक्षे प्रत्येकमपि पाकक्रियायोगात्सकारकान्तरनिरपेक्षादेकस्मात्कारकात्फलनिष्पत्तिप्रसङ्गः। न च तथाविधधात्वर्थपुरःसरः कारकाणां संसर्गः।
क्रियानिमित्तसंसर्गवादिनो हि द्वयी गतिः।
सत्यां क्रियायां सम्बन्धः सम्बन्धे सति वा क्रिया॥
मिलनात् पूर्वसिद्धायां क्रियायां मिलनेन किम्।
तथा च जन्येत फलं विभक्तैरपि कारकैः॥
मिलनात्तु क्रियासिद्धौ पुनरेकैकमक्रियम्।
तथा सति न काष्ठानि ज्वलेयुः पिठराद्विना॥
काष्ठानि ज्वलन्ति, न तु पचन्ति। मैवम्। सत्यपि पिठरे ज्वलन्त्येव काष्ठानि नानय्त्कुर्वन्ति दृश्यन्ते। तस्मात्क्रियान्तराभावात्फलमेवोररीकृत्य कारकाणि संसृज्यन्ते।
ननु फलमपि सिद्धं चेत् कः सर्वेषां सिद्धस्वभावानां सम्बन्धः? फलं सिद्धं कारकाणि च सिद्धानीति सम्बन्धाभावः। साध्यञ्चेत्फलम् सैव क्रिया परिस्पन्दव्यतिरिक्तेति। मैवंवोचः फलस्य क्रियात्वानुपपत्तेः। ओदनं हि फलं न क्रिया। क्रियानाम्नि तु क्रियमाणे न विवदामहे।
ननु पाक इदानीं कः? न च `पचे’र्वाच्यशून्यतैव युक्ता। उच्यते। समुदितदेवदत्तादिसकलकारकनिकरपरिस्पन्द एव विशिष्टफलावच्छिन्नः पाक इत्युच्यते। स एव हि पचेरर्थः। ता एव काष्ठपिठरादिक्रिया ज्वलनभरणादिस्वभावाः पृथक्तया व्यवस्थितास्तथात्वेनैवावभासन्ते। समुदितास्तु सत्यः फलान्तरावच्छेदाद्रूपान्तरेण पाकादिना परिस्फुरन्ति व्यपदिश्यन्ते च। तथा च देवदत्तस्यापि दर्वीविघट्टनादिरेव परिदृश्यमानस्तत्र व्यापार आत्मव्यापारपूर्वको भवितुमर्हति। नैतदेवम्, न ह्यात्मनो व्यापारः कश्चिदस्ति इच्छाद्वेषपूर्वकप्रयत्नवशादेव स भौतिकव्यापारकरणतां प्रतिपद्यते।
तस्मात्कारकचक्रेण चलता जन्यते फलम्।
न पुनश्चलनादन्यो व्यापार उपलभ्यते॥
चलन्तो देवदत्ताद्यास्तदनन्तरमोदनः।
एतावद् दृश्यते त्वत्र न त्वन्या काचन क्रिया॥
एतेन भावनाख्यः करोत्यर्थः, पुरुषव्यापारो वाक्यार्थ इति योऽभ्युपगतः सौऽपि प्रत्युक्तो वेदितव्यः। न हि पुरुषव्यापारः कश्चिदुपलभ्यते विशिष्टगुणसमवाय एवास्य कर्तृत्वम्। न च ज्ञानादयो गुणा एव व्यापारसंज्ञा वाच्याः, सिद्धस्वभावत्वात्।
न्यायमञ्जरी :–
%ज्ञानस्य क्रियात्वविचारः%
ननु क्रियावचनो धातुरिति जानातेरपि क्रियैव वाच्या स्यात् सा च क्रिया ज्ञानात्मा पुरुषव्यापारः। नायं नियमः क्रियावचनो धातुरिति, `गडि वदनैकदेशे’ इत्यपि दर्शनात्। अपि च घटमहं जानामीत्यत्र भवतः किं प्रत्यवभासते? घटमिति तावद्विषयः, अहमित्यात्मा, जानामीति तु चिन्त्यम्, किमत्र प्रकाशत इति, न व्यापारः, परोक्षत्वात्। फलं तु यद्यत्र प्रकाशते तदेव तर्हि धातुवाच्यमभ्युपगतं भवति। तस्मान्न क्रियात्मकं ज्ञानम्। यदि च क्रियात्मकं ज्ञानमभविष्यन्न भाष्यकारः क्रियातः पृथगेनं निरदेक्ष्यत। निर्दिशति च `बुद्धिकर्मणी अपि हि प्रत्यभिज्ञायेते, ते अपि नित्ये प्राप्नुत’ इति। तस्मादन्यज् ज्ञानमन्या च क्रियेति। न क्रियास्वभावत्वान्नित्यपरोक्षं ज्ञानम्। यदि च नित्यपरोक्षो ज्ञानव्यापारः स तर्हि प्रतिबन्धाग्रहणादनुमातुमपि न शक्यः, क्रियाविशिष्टबाह्यकारकदृष्टान्तरस्य निरस्तत्वात्। आत्माद्यनुमाने का वार्त्तेति चेन्। तत्र सामान्यतो व्याप्तिग्रहणस्य सम्भवादिति वक्ष्यामः। इह तु बाह्यकारकेष्वपि न तत्पूर्वकं फलं दृष्टमित्युक्तम्। न चार्थापत्तिरपि ज्ञातृव्यापारकल्पनायैव प्रभवति इनद्रियार्थसन्निकर्षवशादेवार्थदृष्टताया घटमानत्वात्। का चेयमर्थदृष्टता नाम? किं दर्शनकर्मता? किं वा प्रकाशस्वबावतेति? तत्र दर्शनस्य परोक्षत्वात्कथं तत्कर्मताऽर्थस्य दृष्टत्वाद् गृह्येत, विशेषणाग्रहणे विशिष्टप्रतीतेरनुत्पादात्। अर्थप्रकाशतायास्तु सर्वान् प्रत्यविशेषात्सर्वे सर्वज्ञाः स्युः। न स्युः, सम्बन्धितयोत्पादादिति चेत्। अकारणमेतत्। अर्थस्यैव हि प्रकाशत्वमतिशयो दीपादेरिव, न पुरुषनियमेन व्यवतिष्ठते।
न च द्वित्वादिना साम्यं तस्मिन् नियमदर्शनात्।
प्रकाशे तु न दीपादौ सम्बन्धनियमः क्वचित्॥
यदवेक्षाधियो जातं द्वित्वमस्यैव तद्ग्रहः।
संवेदनमपि प्रज्ञैः कस्यातिशय उच्यते॥
ज्ञातुश्चेदन्तरान्येन व्यापारेणास्य को गुणः।
ननु नैव क्रियाशून्यं कारकं फलसिद्धये॥
उक्तमत्र क्रिया ह्येषा यथादर्शनमिष्यताम्।
ज्ञानं संवेदनं वेति विद्यः पर्यायशब्दताम्॥
संवेदनं तु ज्ञानस्य फलत्वेन न मन्महे।
अर्थातिशयपक्षे तु सर्वसर्वज्ञता पुनः॥
भट्टपक्षाद्विशेषश्च न कश्चित्कथितो भवेत्।
नोभयातिशयोऽप्येष दोषद्वितयसम्भवात्॥
संवेदनञ्च तत्केन ग्राह्यं ज्ञानानुमापकम्।
अनवस्था भवेदस्य ज्ञाने संवेदनान्तरात्॥
स्वसंवेद्या च संवित्तिरुपरिष्टान्निषेत्स्यते।
स्मृतिप्रमोषवादे च रजतस्मरणात्मिका॥
कथं ते फलसंवित्तिः स्वप्रकाशा भविष्यति।
नाभाति स्मृतिरूपेण न चाप्यनुभवात्मना॥
न तृतीयः प्रकारोऽस्ति तत्कथं सा प्रकाशताम्।
न च क्वचिदनाकारा संवित्तिरनुभूयते॥
इयं संविदयञ्चार्थ इति नास्ति ह्यभेदधीः।
अर्थाकारानुरक्ता तु यदि संवित्प्रकाशते॥
बाह्यार्थनिह्नवस्तर्हि त्वया सौगतवत्कृतः।
स्वप्रकाशमते युक्तं न फलं संविदात्मकम्॥
तस्मात्फलानुमेयस्य न व्यापारस्य मानता।
न्यायमन्ञरीग्रन्थिभङ्गव्याख्या :–
%नाभाति स्मृतिरूपेण%, प्रमोषाभावप्रसङ्गात्। %न चाप्यनुभवात्मना।% स्मृतेरनुभवात्मना प्रकाशे %विपरीतख्यातवादा%पत्तेः।
न्यायमञ्जरी :–
%प्रामाण्यपदार्थविचारः%
यदपि प्रमाणविशेषणमनधिगतार्थग्राहित्वमभिधीयते परैस्तदपि न साम्प्रतम्, प्रमाणस्य गृहीतेतदितरविषयप्रवृत्तस्य प्रामाण्ये विशेषाभावात्।
ननु गृहीतविषये प्रवृत्तं प्रमाणं किं कुर्यात्? प्रमामिति चेद् गृह्येतापि तामेव विधातुम्। कृतायाः करणायोगादिति चेन्न। प्रमान्तरकरणात्। प्रमान्तरकरणे किं फलमिति चेत्प्रमान्तरकरणमेव फलम्। न च फलस्य फलं मृग्यम्। न च प्रयोजनानुवर्ति प्रमाणं भवति, कस्य चैष पर्यनुयोगः, न प्रमाणस्याचेतनत्वात्। पुंसस्तु सन्निहिते विषये करणे च सम्भवन्ति ज्ञानानीति सोऽपि किमनुयोज्यताम्। किमक्षिणी निमील्य नास्से कस्माद् दृष्टं विषयं पश्यसीति। प्रमाणस्य तु न किञ्चित् बाध्यं पश्यामो येन तदप्रमाणमिति व्यवस्थापयामः। न च सर्वात्मनः वैफल्यम्, हेये हि कण्टकवृकमकरविषधरादौ विषये पुनः पुनरुपलभ्यमाने मनःसन्तापात्सन्वरं तदपहानाय प्रवृत्तिः। उपादेयेऽपि चन्दनघनसारहारमहिलादौ परिदृश्यमाने प्रीत्यतिशयः स्वसंवेद्य एव भवति। यच्चेदमुच्यते।
यत्रापि स्यात्परिच्छेदः प्रमाणैरुत्तरैः पुनः।
नूनं तत्रापि पूर्वेण सोऽर्थो नावधृतस्तथा॥ इति।
तदपि न हृदयङ्गमम्, यतः
नैवाधिकपरिच्छेदः प्रमाणैरुत्तरैर्ध्रुवम्।
धारावाहिषु बोधेषु कोऽधिकोऽर्थः प्रकाशते॥
न हि स्वहस्ते शतकृत्वोऽपि दृश्यमाने केचन विशेषाः परिस्फुरन्ति।
ननु गृहीतेऽपि विषये प्रवर्त्तमानं प्रमाणं कदा विरमेन् न तस्य विरतौ कञ्चिदवधिमवगच्छामः, प्रमोत्पादस्त्ववधिरनेन लङ्घित एव। उच्यते। विषयान्तरसम्पर्काद्वा, प्रमादाद्वा, उपायसंक्षयाद्वा, विरामो भविष्यति। अनवस्थाऽपि चेयं न मूलविघातिनी। न ह्युत्तरोत्तरविज्ञानोपजननं विना प्रथमज्ञानोत्पादो विहन्यते।
मूलक्षतिकरीमाहुरनवस्थां हि दूषणम्।
मूलसिद्धौ त्वरुच्याऽपि नानवस्था निवार्यते।
यदि चानुपलब्धार्थग्राहि मानमुपेयते॥
तदयं प्रत्यभिज्ञायाः स्पष्टएव जलाञ्जलिः।
यश्चेदानीन्तनास्तित्वप्रमेयाधिक्यलिप्सया।
तस्याः प्रमाणतामाह सोऽपि वञ्चयतीव नः॥
आ विनाशकसद्भावादस्तित्वं पूर्वया धिया।
स्पष्टमेव तथा चाह चिरस्थायीति गृह्यते॥
तस्मादनुपलब्धार्थग्राहित्वे त्यज्यतां ग्रहः।
नन्वेतस्मिन्परित्यक्ते प्रामाण्यं स्यात् स्मृतेरपि॥
न्यायमन्ञरीग्रन्थिभङ्गव्याख्या :–
%धारावाहिष्वि%ति। धारया अविच्छेदेन वहन्ति यानि तानि धारावाहीनि।
%चिरस्थायीति गृह्यत% इति। अनिमेषदृष्टेरन्तरान्तरा त्रुट्यत्स्वभावपदार्थानवधारणात् चिरस्थायित्वग्रहः। तथा चाह–
`रजतं गृह्यमाणं हि चिरस्थायीति गृह्यते’ इति।
न्यायमञ्जरी :–
%स्मृतेरप्रामाण्ये हेतुविचारः%
न स्मतेरप्रमाणत्वं गृहीतग्राहिताकृतम्।
अपि त्वनर्थजन्यत्वं तदप्रामाण्यकारणम्॥
ननु कथमनर्थजा स्मृतिः? तदारूढस्य वस्तुनः तदानीमसत्त्वात्। कथं तर्हिं भूतवृष्ट्यनुमानं नानर्थजम्? तत्र धर्मिणोऽनुमेयत्त्वात् तस्य च ज्ञानजनकस्य तत्र भावात्। नद्याख्य एव धर्मी वृष्टिमदुपरितनदेशसंसर्गलक्षणेन धर्मेण तद्वाननुमीयते विशिष्टसलिलपूरयोगित्वात्। स चानुमानग्राह्यो धर्मी विद्यत एवेति नानर्थजमनुमानम्। कथं तर्हि प्रातिभमनागतार्थग्राहि `श्वो मे भ्राताऽऽगन्ते’ति प्रत्यक्षमर्थजमिष्यते भवद्भिः? तत्र देशान्तरे विद्यमानस्य भ्रातुः श्वो भाव्यागमनविशेषः तस्यैव तथैव ग्रहणम्, तेन च रूपेण गृह्यमाणस्य सतस्तस्य ज्ञानजनकत्वमित्यर्थजमेव प्रातिभम्। स्मरणं तु निर्दग्धपित्रादिविषयमनपेक्षितार्थमेव जायमानं दृष्टमित्यन्यत्र देशान्तरस्थितार्थस्मरणे तदर्थसत्त्वमकारणमेव।
तस्मादनर्थजत्वेन स्मृतिप्रामाण्यवारणात्।
अगृहीतार्थगन्तृत्वं न प्रमाणविशेषणम्॥
शब्दस्यानुपलब्धेऽर्थे प्रामाण्यञ्चाह् जैमिनिः।
सर्वप्रमाणविषयं भवद्भिर्वर्ण्यते कथम्॥
न्यायमन्ञरीग्रन्थिभङ्गव्याख्या :–
%प्रामाण्यञ्चाह जैमिनिः।% `औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य ज्ञानमुपदेशोऽव्यतिरेकश्चार्थेऽनुण्लब्धे तत् प्रमाणं बादरायणस्यानपेक्षत्वाद्’ इति।
न्यायमञ्जरी :–
%प्रमाण्यस्वरूपे मतान्तरं तन्निरासश्च%
अपरे पुनरविसंवादकत्वं प्रमाणसामान्यलक्षणमाचक्षते। तदुक्तम् प्रमाणमविसंवादकत्वञ्च प्रापकत्वमुच्यते। ज्ञास्य च प्रापकत्वं सुखदुःखसाधनसमर्थपदार्थप्राप्तिपरिहारभूतायाः प्रवृत्तेर्निमित्तं प्रदर्शकत्वमेव। ज्ञानप्रदर्शिते हि विषये प्रवृत्तौ सत्यां प्राप्तिर्भवतीति प्राप्तिं प्रति प्रमाणस्य प्रदर्शकत्वमेव व्यापारः। प्रदर्शयता हि तेन सोऽर्थः प्रापितो भवति यथा हर्तव्यं प्रति राज्ञामाज्ञादानमेव हर्तृत्वम्। तदुक्तम् प्रापणशक्तिः प्रामाण्यमिति। लोकेऽपि च प्रदर्शितं वस्तु प्रापयतः प्रमाणत्वव्यवहारः। तच्च प्रापकत्वं प्रत्यक्षानुमानयोरुभयोरप्यस्तीति प्रमाणसामान्यलक्षणम्। तत्र प्रत्यक्षस्य वस्तुस्वलक्षणविषयत्वात् तस्य च क्षणिकत्वेन प्राप्त्यसम्भवेऽपि तत्सन्तानप्राप्तेस्सन्तानाध्यवसायजननमेव प्रापकत्वम्। अनुमानस्य त्वारोपितार्थविषयत्वेऽपि मूलभूतवस्तुक्षणपारम्पर्यप्रभवत्वान्मणिप्रभामणिबुद्धिवत्तत्प्राप्त्या प्रापकत्वम्। तदिदमध्यवसितप्रापकत्वं प्रामाण्यम्, अध्यवसितस्याऽवस्तुत्वेऽपि तन्मूलवस्तुप्राप्त्या निर्वहति। यथाऽध्यवसितप्रापकश्च प्रमाणमिति मतम्। अतश्च पीतशङ्खादिग्राहिणां शङ्खादिमात्रप्राप्तौ सत्यामपि न प्रामाण्यम्। यथा अवगतस्याप्राप्तेरवगतो हि पीतः शङ्खः, प्राप्यते च श्वेत इति। तस्माद्यथावगतार्थप्रापकत्वमविसंवादकत्वं प्रामाण्यमिति।
तदेतदनुपपन्नम्, इदमेव तावद्भवान् व्याचष्टां किं प्रदर्शितप्रापकं प्रमाणमुताध्यवसितप्रापकमिति? तत्रानुमाने तावत्प्रदर्शनमेव नास्ति का कथा तत्प्रापणस्य। प्रत्यक्षे तु बाढं प्रदर्शनमस्ति न तु प्रदर्शितं प्राप्यते, क्षणिकत्वेनातिक्रान्तत्वात्। अद्यवसितप्रापणमपि दुर्घटम्, अध्यवसायस्य भवन्मते वस्तुविषयत्वाभावादवस्तुनश्च प्राप्तुमशक्यत्वात् तदुक्तं भवद्भिः “यथाध्यवसायमतत्त्वाद् यथातत्त्वं चानध्यवसायादिति।” मूलभूतवस्तुप्राप्तिस्तु काकतालीयम्, न तु तदन्यतरेणापि प्रमाणेन स्पृष्टम्, यद्गत्वा प्राप्यते। सन्तानप्राप्त्या तत्प्राप्तिः, इत्यपि न युक्तम्। सन्तानस्य भेदाभेदविकल्पाभ्यामनुपपद्यमानत्वात्। एतच्च सविस्तरं क्षणभङ्गभङ्गे निरूपयिष्यते।
ननु काल्पनिकेऽपि सन्ताने सति संवृत्या प्रमामलक्षणमिदं निर्वक्ष्यति यथोक्तं सांव्यवहारिकस्यैतत्प्रमाणस्य लक्षणम्, वस्तुतस्त्वनाद्यविद्यावासनारोपितग्राह्यग्राहकादिभेदप्रपञ्चं ज्ञानमात्रमेवेदमिति। किं प्राप्यते? को वा प्रापयतीति? सोऽयं पलायनप्रकार इव प्रस्तूयते। केयं संवृत्तिर्नाम? साऽपि सत्यसती वेति। विकल्प्यमाना वैन व्यवहारहेतुर्भवति। अविद्यावासनाकृतश्च न भेदव्यवहारः, किं तु पारमार्थिक एवेति साधयिष्यते। सांवृत्तसन्तानकल्पनायां वा जात्यवयविप्रभृतयोऽपि सांवृत्ताः किमिति नेष्यन्ते? वृत्तिविकल्पादिबाधकोपहतत्वादिति चेत्। सन्तानेऽपि समानः पन्था इति कदाशालम्बनमेतत्। तस्मादसंभवि दर्शितप्रापकत्वमित्यलक्षणमेतत्। अव्यापकञ्चेदं लक्षणम्, उपेक्षणीयविषयबोधस्याव्यभिचारादिविशेषणयोगेन लब्धप्रमाणभावस्याप्यनेनासंग्रहात्।
ननु कोऽयमुपेक्षणीयो नाम विषयः? स ह्युपेक्षणीयत्वादेव नोपादीयते चेत्। स तर्हि हेय एवानुपादेयत्वादिति। नैतद्युक्तम्, उपेक्षणीयविषयस्य स्वसंवेद्यत्वेनाप्रत्याख्येयत्वात्।
हेयोपादेययोरस्ति दुःखप्रीतिनिमित्तता।
यत्नेन हानोपादाने भवतस्तत्र देहिनाम्॥
यत्नसाध्यद्वयाभावादुभयस्यापि साधनात्।
ताभ्यां विसदृशं वस्तु स्वसंविदितमस्ति नः॥
उपादेये च विषये दृष्टे रागः प्रवर्तते।
इतरत्र तु विद्वेषस्तत्रोभावपि दुर्लभौ॥
यत्तु अनुपादेयत्त्वाद्धेय एवेति। तदप्रयोजकम्। न ह्येवं भवति `यदेतन्नपुंसकं स पुमान् अस्त्रीत्वात्’ `स्त्री वा नपुंसकमपुंस्त्वादि’ति। स्त्रीपुंसाभ्यामन्यदेव नपुंसकं तथोपलभ्यमानत्वात्। एवमुपेक्षणीयोऽपि विषयो हेयोपादेयाभ्यामर्थान्तरं तथोपलम्भादिति।
यदेतत्तृणपार्णादि चकास्ति पथि गच्छतः।
न धीश्छत्रादिवत्तत्र काकोदुम्बरवन्न च॥
तस्मादुपेक्षणीयज्ञानस्य तमप्रापयतोऽपि प्रामाण्यदर्शनान्न प्रापकत्वं तल्लक्षणम्।
ननु यावान् प्रामाण्यस्य व्यापारः प्रापणं प्रति, तावानुपेक्षणीयज्ञानस्य तमप्रापयतोऽपि प्रामाण्यविषपे तेन साधितः। उक्तं हि राज्ञामादेष्टृत्वमेव हर्तृत्वम्, प्रदर्शकत्वमेव ज्ञानस्य प्रापकत्वमिति, मैवम्।
एवं प्रदर्शकत्वं स्यात् केवलं तस्य लक्षणम्।
तच्च प्रचलदर्कांशुजलज्ञानेऽपि दृश्यते॥
ननु तत्र विपरीताध्यवसायजननादप्रामाण्यम्, दर्शनं हि मरीचिस्वलक्षणविषयमेव सलिलावसायन्तु जनयदप्रमाणीभवति। तथा ह्येकमेव दर्शनमनुकूलतदितरविकल्पोपजननतदनुत्पादभेदात् त्रिधा कथ्यते-प्रमाणम्, अप्रमाणम्, प्रमाणं न भवतीति। नीलज्ञानं हि नीलं प्रति प्रमाणम्, नीलमिदमित्यनुकूलविकल्पोपजननात्। नीलाव्यतिरेकि क्षणिकत्वमपि तेन गृहीतमेव, तत्र तु प्रमाणं न भवतीत्यननुकूलविकल्पानुत्पादात्। स्थैर्ये तु तदप्रमाणं विपरीतावसायकलुषितत्वादिति। यद्येवमस्मिन्प्रक्रमे सुतरामिदं प्रमाणलक्षणं दुःश्थम्। सन्तानाध्यवसायः, प्रापणं प्रति प्रमाणस्य व्यापार इति च वर्णितवानसि। अतश्च यथा मरीचिस्वलक्षणदर्शनमुदकाध्यवसायजननादप्रमाणम्, एवं स्वलक्षणदर्शनमपि तद्विपरीतसन्तानाध्यवसायजननादप्रमाणीभवेदिति। सन्ताने च काल्पनीके व्यवसिते दृश्याभिमुखः किमिति प्रवर्त्तते? दृश्यविकल्प्यावर्थावेकीकृत्य प्रवर्त्तते। यदि वा अविवेकात् प्रवृत्तस्य प्राप्तिः स्यात् प्रमाणमपि दूरतस्तस्याः। तस्मान्न प्रापकं प्रमाणम्,
अपि च प्राप्त्यप्राप्ती पुरुषेच्छामात्रहेतके भवतः। अर्थप्रतीतिरेव प्रमाणकार्या अवधार्यते मानस्य लक्षणमतः कथयद्भिस्तद्विशेषणं वाच्यम्। न पुनः प्रापणशक्तिः प्रामाण्यं कथयितुं युक्तम्।
५
न्यायमन्ञरीग्रन्थिभङ्गव्याख्या :–
%प्रापणशक्तिः प्रामाण्यमि%ति। यद्यपि तस्य ज्ञानस्य साक्षात् प्रापकत्वं नास्ति, प्राप्तेरिच्छादिनिबन्धनत्वात्, तथापि प्राङ्नीत्या प्रदर्शकत्वमेव प्रापणशक्तिः। प्राप्तौ सामर्थ्यं प्रापकत्वम्। तथासति च तदेव प्रामाण्यमित्यर्थः। %सन्तानप्राप्तेः सन्तानाध्यवसायजननमेवे%ति। यो हि प्रापयितुं शक्यः स प्रवृत्तिविषयो भवति, यश्च प्रवृत्तिविषयः सोऽवश्यम् `इदमिदानीमिह’ इत्यवसेयः। तच्चाध्यवसेयत्वं प्राप्यस्य क्षणस्य तदानीमसम्वात् तत्रासम्भवत्प्राप्यक्षणावयवबूतक्षणपरम्परात्मके सन्तान एव युज्यत इति प्राप्यत्वाकारः सन्तानाध्यवसायोऽवश्यमेषितव्यः।
नन्वध्यवसायो विकल्पस्तस्य चारोपितार्थग्राहित्वात्। कथं बाह्यविषयत्वम्? उच्यते। प्रत्यक्षपृष्ठभावी हि विकल्पोऽविद्यानुभववासनावशादतद्व्यावृत्त्यात्मनारोपितमाकारं गृह्णन्नुत्पद्यते। यदेव च तस्यारोपिताकारग्रहणं स एव बाह्याध्यवसायः। बाह्यस्यातद्व्यावृत्तेन रूपेणातद्व्यावृत्तिरूपविकल्पाकारसादृश्यात्। तस्मिन् गृहीते बाह्योऽध्यवसित इत्यभिमानात् प्रतिबिम्बे गृहीते मुखमध्यवसितमितिवद्। न पुनर्विकल्पः स्वमाकारं गृहीत्वा ततो बाह्यमध्यवस्यति, क्षणिकत्वहानेः।
`कथमन्यः क्षणो गृह्यतेऽन्यश्च प्राप्तते’ इत्यत्र सौगता एवं समर्थयन्ते। प्रत्यक्षेण यः क्षणो गृह्यते सोऽवश्यमन्यक्षणजननस्वभावो गृह्यते, यथा भवद्भिरुक्तम्।
%`रजतं% गृह्यमाणं हि चिरस्थायीति गृह्यते’ इति।
तदेवं वर्तमानक्षणग्रहणकालेऽनागताः क्षणा अगृहीता अपि तेन क्षणेनाक्षिप्ता इति नास्त्यगृहीतप्राप्तिः।
अपरे त्वाहुः। सन्तानगतस्य क्षणविवेकस्यार्वाग्दर्शनेन कर्तुमशक्यत्वान्नीलं यदा सन्तानान्तरव्यावृत्तेन रूपेण सामान्येन गृह्यते, तदा सर्व एव क्षणा गृहीता भवन्ति, सर्वेषां सन्तानान्तरव्यावृत्तत्वेनाविशेषात्। अनुमानात्तु विशेषः; अनुमानं विजातीयव्यावृत्तिमात्रविषयम्, इदन्तु सजातीयविजातीयव्यावृत्तविषयमित्यास्तां तावदिदम्। %अनुमानस्य त्वारोपितार्थविषयत्वेऽपी%ति। अनुमानग्राह्यस्य सामान्याकारस्य वक्ष्यमाणनीत्या प्रत्यक्षग्राह्यक्षणवद् बहिरसत्त्वादारोपितत्वं वह्निप्रतिबद्धधूमप्रदर्शनद्वारेणोत्पत्तेर्मूलभूतवस्तुक्षणपारम्पर्यप्रभवत्वम्, मणिप्रभामणिबुद्धिवत्। तदुक्तम्–
मणिप्रदीपप्रभयोर्मणिबुद्ध्याभिधावतोः।
मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति॥
लिङ्गलिङ्गिधियोरेवं पारम्पर्येण वस्तुनि।
प्रतिबन्धात् तदाभासशूनय्योरप्यवञ्चनम्॥ इति।
%अध्यर्वासतस्यावस्तुत्वेऽपी%ति। प्रत्यक्षेणाध्यवसितो यः सन्तानः सोऽवस्तु यद्यपि तथापि, तदध्यवसायजनकं दर्शनं वस्तूभूतस्वलक्षणप्रभवम्, अनुमेयाकाराध्यवसायश्च वस्त्वात्मकमूलभूताग्निप्रतिबद्धधूमक्षणदर्शनप्रभव इति।
%अनुमाने तावत् प्रदर्शनमेव नास्ति,% वस्तुतोऽवस्तुविषयत्वात् तस्येति शेषः।
%यथाध्यवसायमतत्त्वादि%ति। यथा अध्यवसायः स्थितस्तथा पदार्थतत्त्वं न स्थितम्, अध्यवसायस्यावस्तुविषयत्वात्। यथा च सजातीयविजातीयव्यावृत्तं तत्त्वं स्थितम् तथा अध्यवसातुमशक्यमित्यर्थः।
%संवृत्या प्रमाणलक्षणमि%ति। सदृशक्षणसन्ततेरदृष्टानत्रालायाः समुत्पादात् तदेकत्वग्राहिणी बुद्धिस्तत्त्वसंवरणात् संवृत्तिः। %सांव्यवहारिकस्य% लोकव्यवहारप्रयोजनस्य, तेनैव तत्त्वव्यवस्थायाः कर्तुं शक्यत्वात्।
%यत्नसाध्यद्वयाभावदि%ति। यत्नेन हानं यत्नेन चोपादानं यत्नसाध्यद्वयम्। %उभयस्य% तुल्यकालहानोपादानस्य।
%न धीश्छत्रादिवदि%ति। छत्राख्यः शाकभेदः। %काकोदुम्बरः% कपिकच्छुः। अन्ये तु काकोदरवदिति पठन्तः काकोदरं सर्पं व्याचक्षते।
%ननु यावान् प्रमाणस्य व्यापार% इत्युपेक्षणीयमङ्गीकृत्याह।
%अनुकूलतदितरविकल्पोपजननतदनुत्पादभेदादि%ति। अनुकूलविकल्पजननात् %प्रमाणम्,% तदितरस्य अननुकूलस्य विकल्पस्य जननादप्रमाणम्, अजननात् प्रमाणं न भवति। %अप्रमाणमि%ति पर्युदासवृत्त्या प्रमाणविरुद्धं गृह्यते, धर्मप्रतिषेधेनाधर्मवत्। %प्रमाणं न भवतीति% तु प्रसज्यप्रतिषेधसमाश्रयणेन प्रमाणरूपताया एव निषेधः। %स्थैर्ये तु तदप्रमाणं विपरीतावसायकलुषितत्वादि%ति। क्षणिकताग्राहिप्रमाणेन क्षणिक इति योऽवसायो जन्यते तदपेक्षयैवमुक्तम्। %दृश्यविकल्प्यावर्थावेकीकृत्ये%ति। एकीकरणं कैश्चिदभेदग्रहणं व्याख्यातम्। तद्ग्राहकमानाभावात् तद्दूषयित्वा परैर्भेदाग्रहणं दृश्यविकल्प्ययोरेकीकरणमुक्तम्; तदनेन सूचितम्–%यदि वा अविवेकात् प्रवृत्तस्य प्राप्तिरि%ति। %दूरतस्तस्या% इति। दर्शनं ततो व्यवसायस्तत इच्छा, अन्यानि च मध्ये ज्ञानानि ततः प्राप्तिरिति प्राप्तेरतिदूरगत्वं प्रमाणस्य।
%अर्थप्रतीतिरेव प्रमाणकार्या अवधार्यते,% यतस्ततः सैव तस्य प्रमाणस्य विशेषणं युक्तम् `अर्थप्रतीतिजनकं प्रमाणम्’ इति। प्रमाणकार्यत्वाभावात् कथं तद्विशेषणत्वम् `प्रापकं प्रमाणम्’ इत्युक्तमित्यर्थः। अतोऽर्थप्रतीतिजनकं प्रमाणम्, नार्थप्रापकमिति।
न्यायमञ्जरी :–
%प्रमाणलक्षणविषये सांख्यमतनिरासः%
सांख्यस्तु बुद्धिवृत्तिः प्रमाणमिति प्रतिपन्नः विषयाकारपरिणतेन्द्रियवृत्त्यनुपातिना बुद्धिवृत्तिरेव पुरुषमुपरञ्जयन्ती प्रमाणम्। तदुपरक्तो हि पुरुषः प्रतिनियतविषयद्रष्टा सम्पद्यते।
तदेतदहृदयङ्गमम्। यो हि जानाति बुद्ध्यतेऽध्यवस्यति न तस्य तत्फलमर्थदर्शनमचेतनत्वान्महतः। यस्य चार्थदर्शनं न स जानाति न बुद्ध्यते नाध्यवस्यतीति भिन्नाधिकरणत्वं प्रमाणफलयोः। ज्ञानादिधर्मयोगः प्रमाणं पुंसि न विद्यते, तत्फलमर्थदर्शनं बुद्धौ नास्तीति।
अथ स्वच्छतया पुंसो बुद्धिवृत्त्यनुपातिता।
बुद्धेर्वा चेतनाकारसंस्पर्श इव लक्ष्यते॥
एवं सति स्ववाचैव मिथ्यात्वं कथितं भवेत्।
चिद्धर्मो हि मृषा बुद्धौ बुद्धिधर्मश्चितौ मृषा॥
साकारज्ञानवादाच्च नातीवैष विशिष्यते।
त्वत्पक्ष इत्यतोऽमुष्य तन्निषेधान्निषेधनम्॥
निरसिष्यते च सकलः कपिलमुनिप्रक्रियाप्रपञ्चोऽयम्।
तस्मान्न तन्मतेऽपि प्रमाणमवकल्पते किञ्चित्॥
न्यायमन्ञरीग्रन्थिभङ्गव्याख्या :–
%विषयाकारपरिणतेन्द्रिये%ति। विषयाकारपरिणतानामिन्द्रियाणां या वृत्तिर्विषयनिर्भासः प्रतिभासः, स च निर्भासो निर्विकल्पकरूपः, तदनुपातिनी तन्निर्बासा या बुद्धिवृत्तिर्निश्चयात्मिका सा सविकल्पकज्ञानरूपा।
%यो हि जानाति बुद्ध्यत% इति। ज्ञानबोधाध्यवसायानां %साङ्ख्यै%र्बुद्धिवृत्तिरूपतयाभ्युपगमात्। तथाहि धर्मादिगुणाष्टकमध्येऽतीतविप्रकृष्टादिविषयोऽवगम आत्मविषयो वा बुद्धिगतो ज्ञानशब्देन निरुक्तः, अध्यवसायशब्देन चार्थनिश्चयः, बोधशब्देन चाध्यवसायजनको व्यापार इति। %अचेनत्वान्महत% इति। अचेतनत्वञ्च विकारित्वादिसमनुगमात्। %पुंसो बुद्धिवृत्त्यनुपातिता% अवस्थाया धारित्वम्। %साकारज्ञानवादच्चे%ति। अत्रापि बुद्धिवृत्तेर्विषयाकारनिर्भासपरिणामलक्षणाया अभ्युपगमात्।
न्यायमञ्जरी :–
%स्वमते प्रमाणलक्षणं तद्बेदाश्च%
तीर्थान्तराभिहितरूपमतः प्रमाण नवापवादरहितं प्रतितर्कयामः।
तेनामलप्रमितिसाधनमिन्द्रियादिसाकल्यमेव निरवद्यमुशन्ति मानम्॥
तच्चतुर्विधं प्रमाणं तदाह सूत्रकारः, `प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि।’
इह हि भेदवतः प्रथमं सूत्रोद्दिष्टस्य त्रयं वक्तव्यम्, सामान्यलक्षणम्, विभागो, विशेषलक्षणञ्च। तत्र विशेषलक्षणप्रतिपादकानि चत्वारि सूत्राणि भविष्यन्तीन्द्रियार्थसन्निकर्षोत्पन्नम् इत्यादीनि। इह तु विभागसामान्यलक्षणे प्रतिपाद्येते।
एकेनानेन सूत्रेण द्वयञ्चाह महामुनिः।
प्रमाणेषु चतुःसङ्ख्यं तथा सामान्यलक्षणम्॥
प्रत्यक्षानुमानोपमानशब्दसन्निधाने प्रमाणश्रुतिरुच्चरन्ती चत्वार्येव प्रमाणानीति दर्शयति।
ननु न `चत्वारि प्रमाणानि’ इति संख्यावचनः शब्दः श्रूयते। नापिप्रत्यक्षादीन्येवेत्यवधारणश्रुतिरस्ति। तत्कुतः इयत्तानियमावगमः? शब्दशक्तिस्वभावादिति ब्रूमः। `गर्गांस्त्रीन् भोजय’ `यज्ञदत्तदेवदत्तावानये’ति विना संख्याशब्दमेवकारञ्च भवत्येव त्रित्वद्वित्वनियमावगमः। एवमिहापि प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानीत्युक्ते सामर्थ्यान्न्यूनाधिकसंख्याव्यवच्छेदोऽवधार्यत इत्येवं तावद्विभागावगमः।
सामान्यलक्षणन्तु प्रमाणपदादेव समाख्यानिर्वचनसामर्थ्यसहितादवगम्यते `प्रमीयते येन तत्प्रमाण’मिति करणार्थाभिधायिनः प्रमाणशब्दात् प्रमाकरणं प्रमाणमवगम्यते। तच्च प्रागेव दर्शितम्। `प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानमि’ति च मध्ये साध्यसाधनग्रहणमुपाददानः सूत्रकारः सर्वप्रमाटणसाधारणं रूपमिदं परिबाषते यत्, साध्यसाधनस्य प्रमाकरणस्य प्रमाणत्वमिति। अशुद्धप्रमितिविधायिनस्तु प्रामाण्यं प्रसज्यत इति स्मृतिसंशयविपर्ययजनकव्यवच्छेदाय प्रत्यक्षमूत्रदर्थोत्पन्नमित्यव्यभिचारीति व्यवसायात्मकमिति च पदत्रयमाकृष्यते। तद्धि प्रमाणचतुष्टयसाधारणम्। अर्थोत्पन्नपदेन फलविशेषणेन स्मृतिजनकम्, अब्यभिचारिपदेन विपर्ययाधायि, व्यवसायात्मकपदेन संशयजनकं प्रमाणं व्युदस्यते। अतश्चैवमुक्तं भवति अर्थविषयमसन्दिग्धमव्यभिचारि च ज्ञानं येन जन्यते तत्प्रमाणमित्येवमेकस्मादेव सूत्रात् सामान्यलक्षणं विबागश्चावगम्यते।
नन्वेकस्य सूत्रस्य विबागसामान्यलक्षणपरत्वेन वाक्यभेदः। अर्थैकत्वाच्चैकं वाक्यं युक्तम्। उच्यते
श्रुत्यार्थद्वारकानेकवस्तुसूचनशालिषु।
सूत्रेष्वनेकार्थंविधेर्वाक्यभेदो न दूषणम्॥
प्रमाणान्तरसंस्पर्शशून्ये शब्दैकगोचरे।
प्रमेये वाक्यभेदादिदूषणं किल दूषणम्॥
अर्थद्वयविधानं हि तत्रैकस्य न युज्यते।
`राजा स्वाराज्यकामो वायपेयेन यजेते’ति गुणविधिपक्षे स्वाराज्यं प्रति यागो विधातव्यः, यागञ्च प्रति वाजपेयगुणो विधातव्यः, इत्येकस्य वाक्यस्य परस्परविरुद्धविध्यनुवादादिरूपापत्तेरर्थद्वयविधानमतिदुर्घटम्। इह पुनः प्रमाणान्तरपरिनिश्चितार्थसूचनचातुर्यमहार्घेषु सूत्रेषु नानार्थविधानं भूषणं भवति न दूषणम्। अनेकार्थसूचनादेव सूत्रमुच्यते। एतदेव सूत्रकाराणां परं कौशलं यदेकेनैव वाक्येन स्वल्पैरेवाक्षरैरनेकवस्तुसमर्पणम्। अध्याहारेण वा तन्त्रेणावृत्त्या वा तमर्थं प्रत्याययिष्यति सूत्रमिदमिति न दोषः। विभागसामान्यलक्षणयोर्विधाने पौर्वापर्यनियमो विशेषणलक्षणवन्नास्तीति। तन्त्रेण युगपदुभयाभिधानमपि न विरुध्यते। विशेषलक्षणेऽनुक्ते सामान्यलक्षणविभागयोस्तु यथारुचि प्रतिपादनमादौ विभागस्ततः सामान्यलक्षणम्, आदौ वा सामान्यलक्षणं ततो विभागः। सिद्धान्तच्छलवदुभयं वा युगपदेव प्रतिपाद्यत इति तन्त्रेणावृत्त्या वा तदुपपादने न कश्चिद्दोष इति।
न्ययमञ्जरीग्रन्थिभङ्गव्याख्याः–
%समाख्यानिर्वचनसामर्थ्यसहितादि%ति। समाख्यायाः समनुगताया आक्यायाः प्रमाणमित्यस्या यन्निर्वचनं `प्रमीयतेऽनेन’ इति व्युत्पत्तिस्तस्य यत् सामर्थ्यं शक्तिविशेषस्तस्तत्सहितात् सापेक्षात्।
%राजा स्वाराज्यकाम% इति। स्वेनात्मना राजते अन्यानभिभूयेति स्वराट्, तस्य तद् विदीयते, द्रव्यदेवतात्मककारकसम्पाद्यत्वाद् यागस्य। %परस्परविरुद्धविध्यनुवादादिरूपापत्ते%….तस्माद्धि स्वाराज्यं प्रति यागस्य विधानाद् विधेयत्वम्, तत्सिद्ध्यर्थमुपादानादुपादेयत्वम्, तदर्थत्वेनावगमाद् गुणत्वम्। यदा तु गुणस्तत्र विधीयते तदा यागस्यानुवादादनूद्यमानत्वम्, गुणस्य विधातुमुद्दिष्टत्वादुद्देश्यत्वम्, तदर्थत्वेन गुणस्यावगमात् प्रधानत्वम्। तदेवं विधेयत्वमुपादेयत्वं गुणत्वमिति त्रिकमनूद्यमानत्वं निर्देश्यत्वं प्रधानत्वमिति त्रिकेण विरुध्यते। %तन्त्रेणावृत्त्या% वेति। यत्र द्वावर्थिनावर्थे युगपदेकं शब्दं प्रयोक्तुं प्रभवतस्तत्र तन्त्रव्यवहारः, यथैकं दीपं युगपद् बहवश्चिन्तकाश्छात्राः प्रयुञ्जते, यत्र तु युगपत् प्रयोक्तुमसामर्थ्यं तत्र तन्त्रप्रत्यनीकभूता आवृत्तिः, यथा असहभोजिनामेकंपात्रंयुगपद् भुजिक्रियायामधिकरणभावमप्रतिपद्यमानं क्रमेण प्रतिपद्यते। आवृत्तौ हि पूर्वार्थसिद्धिसापेक्षत्वादुत्तरार्थसिद्धेर्युगपत् प्रयोक्तृत्वाभावः।
न्यायमञ्जरी :–
%प्रमाणचातुर्विध्ये शङ्का%
आस्तां तावदिदं सूत्रे तन्त्रावृत्त्यादिचिन्तनम्।
चतुःसङख्या प्रमाणेषु ननु न क्षम्यते परैः॥
न्यूनाधिकसङ्ख्याप्रतिषेधेन हि चत्वारि प्रमाणानि प्रतिष्ठाप्येरन्। स च दुरुपपादः। तथाहि प्रत्यक्षमेवैकं प्रमाणमिति चार्वाकाः। प्रत्यक्षानुमाने द्वे एवेति बौद्धाः। प्रत्यक्षमनुमानमाप्तवचनञ्चेति त्रीणि प्रमाणानीति साङ्ख्याः। आधिक्यमपि प्रमाणानां मीमांसकप्रभृतयः प्रतिपन्नवन्तः। तत्कथं चत्वार्येव प्रमाणानीति विभागनियमः?
उच्यते। अनुमानप्रामाण्यं वर्णयन्तो बार्हस्पत्यं तावदुपरिष्टात्प्रतिक्षेप्स्यामः। शब्दस्य चानुमानवैलक्षण्यं तल्लक्षणावसर एव वक्ष्यत इति, शाक्यपथोऽपि न युक्तः।
न्यायमञ्जरी :–
%शक्यमते प्रमाणद्वैविध्यम्%
नन्वेतद्भिक्षवो न क्षमन्ते।
ते हि प्रमेयद्वैविध्यात् प्रमाणं द्विविधं जगुः।
नान्यः प्रमाणभेदस्य हेतुर्विषयभेदतः॥
विषयश्च प्रत्यक्षपरोक्षभेदेन स्वलक्षणसामान्यभेदे वा द्विविध एव, परस्परपरिहारव्यवस्थितात्मसु पदार्थेषु तृतीयराश्यनुप्रवेशाभावात्। तृतीयविषयासत्त्वपरिच्छेद एव कुतस्त्य इति चेत्? प्रत्यक्षमहिम्न एवेति ब्रूमः। नीले प्रवर्त्तमानं प्रत्यक्षं नीलं नीलतया परिच्छिनत्तीति तावदविवाद एव। तदेव च प्रत्यक्षमर्नालमपि व्यवच्छिनत्ति नीलसंविदि तस्याप्रतिभासात्। नीलज्ञानप्रतिभास्यं हि नीलमिति तदितरदनीलमिव भवति। तृतीयमपि राशिम् अत एव तदपाकरोति, सोऽपि हि राशिर्नीलसंविदि भाति वा न वा।
भाति चेन्नीलमेव स्यान्न प्रकारान्तरन्तु तत्।
नो चेत्तताऽप्यनीलं स्यान्न प्रकारान्तरं हि तत्॥
इदमेव हि नीलानीलयोर्लक्षणं यन्नीलज्ञानावभास्यत्वानवबास्यते नाम। एवञ्च प्रत्यक्षं स्वविषये प्रवृत्तं तं प्रत्यक्षतया व्यवस्थापयति। तत्राप्रतिभासमानं परोक्षतया तृतीयमपि प्रकारं पूर्ववदेव प्रतिक्षिपतीत्येवं स्वलक्षणसामान्यव्यतिरिक्तविषयानिषेधेऽप्येष एव मार्गोऽनुगन्तव्यः। एवं हि प्रत्यक्षेण स्वविषयः परिनिश्चितो भवति तदुक्तम्, `तत्परिच्छिनत्ति, अन्यद्व्यवच्छिनति, तृतीयप्रकाराभावञ्च सूचयती’त्येकप्रमाणव्यापारः.
अन्यथा विषयस्यैव स्वरूपापरिनिश्चयात्।
क्वोपादानपरित्यागौ कुर्युरर्थक्रियार्थिनः॥
तदुक्तम् `अनलार्थ्यनलं पश्यन्नपि न तिष्ठेन्न प्रतिष्ठेते’ति। यद्यपि निर्विकल्पकं प्रत्यक्षं पुरोऽवस्थितवस्तुस्वलक्षणम्, प्रदर्शनमात्रनिष्ठितव्यापारमविचारकमेव, तथापि तत्पृष्ठभाविनां विकल्पानामेव च दर्शनविषये कृतपरिच्छेदतदितरविषयव्यवच्छेदतृतीयप्रकाराभावव्यवस्थापनपर्यन्तव्यापारपाटवमवगन्तव्यमितरथा व्यवहाराभावात्। एवञ्च परस्परं परिहारव्यवस्थितस्वरूपपदार्थव्यवच्छेदिप्रत्यक्षप्रभावावगतविरोधात् प्रत्यक्षेतरविषययोस्तृतीयविषयासत्त्वपरिनिश्चयेऽनुमानमपि प्रवर्त्तितुमुत्सहते। विरुद्धयोरेकतरपरिच्छेदसमये द्वितीयनिरसनमवश्यं भाति विरुद्धत्वादेव शीतोष्णवत्। तृतीयविषयोऽपि तद्विरुद्ध एव तद्बुद्धावप्रतिभासमानत्वात्।
ननु न त्वं द्वितीयमिव तृतीयं कदाचिदपि विषयमग्रहीः, ग्रहणे हि विषयद्वयवत्तस्यापि सत्त्वं स्यात्। अगृहीतस्य च विरोधमविरोधं वा कथं निश्चेतुमर्हसीति। भोः साधो! नात्र पृथग्ग्रहणमुपयुज्यते, तद्बुद्ध्यनवभासमात्रेणैव तद्विरोधसिद्धेः। विरुद्धं हि तदुच्यते यत्तस्मिन् गृह्यमाणे न गृह्यते। तदिदमग्रहणमेव विरोधावहमिति न पृथग्ग्रहणमन्वेषणीयम्। एवमितरेतरपरिहारव्यवस्थितानामर्थानां न तृतीयो राशिरस्तीति सर्वथासिद्धं विषयद्वैविध्यम्। एवमेव सदसन्नित्यानित्यक्रमयौगपद्यादिषु प्रकारान्तरपराकरणमवगनत्व्यम्। तत्र प्रत्यक्षे स्वलक्षणात्मनि विषये प्रत्यक्षं प्रवर्त्तते। परोक्षे तु सामान्याकारेऽनुमानमिति।
प्रमाणद्वयसिद्धे च विषयद्वयवेदने।
वद कस्यानुरोधेन तृतीयं मानमिष्यताम्॥
न चास्मिन्नेव परोक्षे सामान्यात्मनि विषयेऽनुमानमिव शब्दाद्यपि प्रमाणान्तरं प्रवर्त्तत इति वक्तुं युक्तम्, एकत्र विषये विरोधविफलत्वाभ्यामनेकप्रमाणप्रवृत्त्यनुपपत्तेः। पूर्वप्रमाणावगतरूपयोगितया तस्मिन्वस्तुनि पुनः परिच्छिद्यमाने प्रमाणमुत्तरमफलम्। एवं ह्याहुः `अधिगतमर्थमधिगमयता प्रमाणेन पिष्टं पिष्टं स्यादि’ ति। `अन्यरूपतया तु तद्ग्रहणमुत्तरप्रमाणेन दुःशक्यम्, आदिप्रमाणविरुद्धत्वात्’ इति। अत एव न संप्लवमभ्युपगच्छन्ति नीतिविदः। एकस्मिन् विषयेऽनेकप्रमाणप्रवृत्तिः संप्लवः। स च तथाविधविषयनिरासादेव निरस्तः। न च प्रत्यक्षानुमानेऽपि परस्परं संर्लवेते, स्वलक्षणेऽनुमानस्य, सामान्ये च प्रत्यक्षस्य प्रवृत्त्यभावात्।
संबन्धग्रहणापेक्षमनुमानं स्वलक्षणे।
सजातीयविजातीयव्यावृत्ते वर्ततां कथम्॥
प्रत्यक्षमपि सद्वस्तुसंस्पर्शनियतव्रतम्।
विकल्पारोपिताकारसामान्यग्राहकं कथम्॥
यच्च शब्दोपमानादिप्रमाणान्तरमिष्यते।
तदेवं सति कुत्रांशे प्रतिष्ठामधिगच्छतु॥
वस्तु स्वलक्षणं तावत्प्रत्यक्षेणैव मुद्रितम्।
ततोऽन्यदनुमानेन संबन्धापेक्षवृत्तिना॥
नानाप्रमाणगम्यश्च विषयो नास्ति वास्तवः।
तद्वानवयवी जातिरिति वार्तैकभद्रिका॥
यदि च प्रत्यक्षविषये शब्दानुमानयोरपि वृत्तिरिष्यते तर्हि प्रत्यक्षसंवित्सदृशीमेव तेऽपि बुद्धिं विदध्यातां, न चैवमस्ति। तदाहुः
समानविषयत्वे च जायते सदृशी मतिः।
न चाध्यक्षधिया साम्यमेति शब्दानुमानधीः॥
तेजोऽन्यदेव नक्षत्रशशाङ्गशकलादिषु।
उद्घाटितजगत्कोशमन्यदेव रवेर्महः॥
अपि च
अन्यदेवेन्द्रियग्राह्यमन्यः शब्दस्य गोचरः।
शब्दात्प्रत्येति भिन्नाक्षो न तु प्रत्यक्षमीक्ष्यते॥
आह च
अन्यथैवाग्निसम्बन्धाद्दाहं दग्धोऽभिमन्यते।
अन्यथा दाहशब्देन दाहार्थः सम्प्रतीयते॥
तस्मादुक्तेन वर्त्मना विषयद्वैविध्यनिश्चयान्न तृतीयं ग्रमाणमस्ति। न च संप्लव इति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%तदक्तम् अनलार्थ्यनलमि%ति। अनलस्यापि तत्र प्रतिभासान्न तिष्ठेदन्यस्यापि च प्रतिभासान्न प्रतिष्ठेत न गच्छेत्; अनलार्थिनस्तदन्यप्रतिभासे कथं प्रस्तानं स्यादिति। %इतरथा व्यावहाराभावादि%ति। यावत् तदितरव्यवच्छेदेन जलेऽजलरूपताया अभावेन जलमेवेति विकल्पेन न निश्चीयते तावत् तदर्थिनां तत्र प्रवृत्तिरूपो व्यावहारः कथ स्यादिति।
न्यायमञ्जरी :–
%शाक्यमतखण्डनम्%
अत्राभिधीयते
यत्तावदिदमाख्यायि राश्यन्तरनिराकृतौ।
प्रत्यक्षस्यैव सामर्थ्यमित्येतन्नोपपद्यते॥
पूर्वापरानुसन्धानसामर्थ्यरहितात्मना।
भारः कथमयं वोढुमविकल्पेन पार्यते॥
विकल्पाः पुनरुत्प्रेक्षामात्रनिष्ठितशक्तयः।
तेभयो वस्तुव्यवस्थायाः का कथा भवतां मते॥
अथ वा, भवतु नाम नीलादावुक्तेन प्रकारेण राश्यन्तरनिराकरणम्।
परोक्षनिर्णये तु नैष प्रकारो योजयितुं शक्यते। विषये हि प्रवृत्तं प्रत्यक्षं विषयस्वरूपमेव परिच्छिनत्ति, न पुनस्तस्य प्रत्यक्षतामपि। नीलमिदमिति हि संवेद्यते न पुनः प्रत्यक्षमिदमिति। तथा हि किमिदं विषयस्य प्रत्यक्षत्वं नाम? किमक्षविषयत्वम्? उताक्षजज्ञानविषयत्वमिति? तत्राक्षविषयत्वं तावदन्वयव्यतिरेकसमधिगम्यमेव, न प्रत्यक्षगम्यम्। तथाह भट्टः
न हि श्रावणता नाम प्रत्यक्षेणावगम्यते।
नान्वयव्यतिरेकाभ्यां ज्ञायते बधिरादिषु॥ इति।
अक्षजज्ञानकर्मत्वमपि प्रत्यक्षत्वं तदानीं परिच्छेत्तुमशक्यमेव, विषयप्रतिभासकाले तत्प्रतिभासस्याप्रतिभासात्। तद्ग्रहणमन्तरेण च तत्कर्मताग्रहणासम्भवात् कथं पुनर्विंषयग्रहणकाले तज्ज्ञानस्यानवभासः? नैव युगपदाकारद्वितयं प्रतिभासते, इदं ज्ञानमयञ्चार्थ इति भेदानुपग्रहात्। एकश्चायमाकारः प्रतिभासमानो ग्राह्यस्यैव भवितुमर्हति, न ग्राहकस्येति वक्ष्यते।
ननु च नागृहीतं ज्ञानमर्थप्रकाशनकुशलं भवतीत्याहुः `अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यतीति’। प्रत्यक्षोपलम्भस्य नार्थदृष्टिरुपलम्भ एव प्रत्यक्ष इति द्वितीयाकारानवभासात्कुतोऽर्थदृष्टिः? यदि च गृहीतं ज्ञानमर्थं प्रकाशयेन्न द्वयीं गतिमतिवर्त्तेत। तद्धि ज्ञानं ज्ञानान्तरग्राह्यं वा भवेत्, स्वप्रकाशं वा? ज्ञानान्तरग्राह्यत्वे त्वनवस्था मूलक्षतिकरी चेयमित्यन्धमूकं जगत्स्यादुपलम्भप्रत्यक्षतापूर्वकार्थप्रत्यक्षवादिनः। नापि स्वप्रकाशं ज्ञानम्, ज्ञेयत्वान्नीलपीतादिवत्। विस्तरतस्तु स्वप्रकाशं विज्ञानं विज्ञानबादिनिराकरणे निराकरिष्यामः।
न च ज्ञानस्याप्रत्यक्षतायां तदुत्पादानुत्पादयोरविशेषादज्ञत्वम्, सर्वत्रत्वं वा परिशङ्कनीयम्, विज्ञानोत्पादमात्रेण ज्ञातुर्ज्ञातृत्वसिद्धेः। विषयप्रकाशस्वभावमेव ज्ञानमुत्पद्यत इति कथमुत्पन्नमनुत्पन्नान् न विशिष्यते? यथा च नीलादिविषयज्ञानोत्पत्त्या अस्य ज्ञातृत्वम्, तथा सुखादिविषयज्ञानोत्पत्त्या भोक्तृत्वमिति तत्रापि नातिप्रसङ्गः। तस्माद्विषयविज्ञानकाले तद्विज्ञानग्रहणान्न तत्कर्मत्वकृतं विषयप्रत्यक्षत्वमवभासते। तदप्रथिभासे च न परोक्षव्यवच्छेदो न च तृतीयप्रकारासत्त्वसूचनमिति, कथं प्रत्यक्षं विषयद्वित्वसिद्धौ प्रमाणम्।
यच्चानुमानमप्युक्तं दिषयद्वयसिद्धये।
तत्प्रत्यक्षपरिच्छिन्नतद्विरोधनिबन्धनम्॥
विरोधबोधसामर्थ्यं प्रत्यक्षस्य च दूषितम्।
तदग्रहे च तन्मूलमनुमानं न सिध्यति॥
एवञ्च विषयद्वित्वसाधनानुपपत्तितः।
तत्कृतस्त्यज्यतामेष प्रमाणद्वित्वदोहदः॥
अथ वा सत्यपि विषयद्वैविध्ये सामग्रीभेदात् फलभेदाच्च प्रमाणभेदो भवन् कथमपाक्रियते?
अन्य एव हि सामग्रीफले प्रत्यक्षलिङ्गयोः।
अन्य एव च सामग्रीफले शब्दोपमानयोः॥
इति वक्ष्यामः।
तेन तद्भेदादपि प्रमाणभेदसिद्धेर्न द्वे एव प्रमाणे। एतेन त्रीणि प्रमाणानीति सांख्यव्याख्यातापि तत्संख्या प्रत्याख्याता, सामग्रीफलभेदेनोपमानस्य चतुर्थप्रमाणस्य प्रतिपादयिष्यमाणत्वादिति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या–
%उत्प्रेक्षामात्रनिष्ठितशक्तय% इति। बहिरसन्नप्याकारोऽविद्योपप्लवाद् विकल्पैरुत्प्रेक्ष्यते समुल्लिख्यते। तावत्येव च विकल्पानां व्यापारपरिनिष्ठा दृष्टा, न पुनर्वस्तुदर्शनेऽपि। तथाहि-समस्तेन्द्रियन्द्रियवृत्तिव्यापारनिरोधे विकल्पयन्त %उत्प्रेक्षाम%ह इति वक्तारो भवन्ति, न तु पश्याम इति। %ज्ञायते बधिरादिष्वि%ति। सति श्रवणेन्द्रिये ग्रहणाच्छ्रावणः शब्दः, बधिरादिषु च श्रवणेन्द्रियवैकल्यादसति श्रवणे ग्रहणाभावादिति। %अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिद्ध्यति।% अप्रत्यक्ष उपलम्भो यस्यार्थस्य तस्य दृष्टिर्दर्शनं न प्रसिद्ध्यतीत्यर्थः। सापेक्षेणाप्यर्थशब्देन गमकत्वात् समासः।
न्ययमञ्जरी :–
%प्रमाणसंप्लवसमर्थनम्%
यत्पुनरेकस्मिन् विषयेऽनेकप्रमाणप्रसरं निरस्यता सौगतेन संप्लवपराकरणमकारि तदपि मतिमोहविलसितम्। असति संप्लवेऽनुमानप्रामाण्यप्रतिष्ठापनानुपपत्तेः।
न ह्यविज्ञातसम्बन्धं लिङ्गं गमकमिष्यते।
सम्बन्धधीश्च सम्बन्धिद्वयावगतिपूर्विका॥
सामान्यात्मकसम्बन्धिग्रहणञ्चानुमानतः।
तस्मादेव यदीष्येत व्यक्तमन्योन्यसंश्रयम्॥
अनुमानान्तराधीना सम्बन्धिग्रहपूर्विका।
सम्बन्धाधिगतिर्न स्यान्मन्वन्तरशतैरपि।
तेन दूरेऽपि सम्बन्धग्राहकं लिङ्गलिङ्गिनोः।
प्रत्यक्षमुपगन्तव्यं तथा सति च संप्लवः॥
तत्रैतत्स्यादविदितसौगतकृतान्तानामेतच्चोद्यम्। ते हि–
विकल्पविषये वृत्तिमाहुः शब्दानुमानयोः।
तेभ्यः सम्बन्धसिद्धौ च नानवस्था न संप्लवः॥
तथा हि दर्शनसमनन्तरोत्पत्त्यवाप्तदर्शनच्छायाऽनुरज्यमानवपुषो विकल्पाः प्रत्यक्षायन्ते। तदुल्लिखितकाल्पनिकतदितरपरावृत्तिस्वभावसामान्याकारप्रविष्टोऽयमनुमानव्यवहारः। पारम्पर्येण मणिप्रभामणिबुद्धिवत्त् तन्मूल इति तत्प्राप्तयेऽवकल्पते। न पुनः प्रत्यक्षैकसमधिगम्यं वस्तु स्पृशति इति कुतः संप्लवः? कुतो वाऽनवस्था?
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%दर्शनसमनन्तरोत्पत्त्यवाप्तदर्शनच्छाये%ति। यथाअर्थजत्वाद्, दर्शनं देशकालाद्यवच्छिन्नस्य इदन्तयार्थस्य ग्राहकं तथा दर्शनानन्तरमुत्पद्यमानो विकल्पोऽपि तच्छायाधारित्वादर्थप्रतिभासी भवन् प्रत्यक्षायते, यथा लाक्षानुरक्तस्फटिकशकलसमनन्तरवृत्तिस्फटिकशकलान्तरमपि लाक्षानुरक्तमिव प्रतिभासते तथा अर्थनिर्भासार्थजदर्शनाव्यवहितोत्पत्तिर्विकल्पोऽयर्थनिर्भास इवेत्यर्थः। %सामान्याकारप्रविष्ट% इति। विकल्पारोपितयोरेव ह्याकारयोः प्रतिबन्धग्रहस्तादृशस्यैव चानुमेयतेति।
न्यायमञ्जरी :–
%प्रमाणसंप्लवसमर्थनम्%
तदेतद्वञ्चनामात्रम्, यो हि तादात्म्यतदुत्पत्तिस्वभावः प्रतिबन्ध इष्यते स किं वस्तुधर्मो, विकल्पारोपिताकारधर्मो वा। तत्र नायमारोपितधर्मो भवितुमर्हति। वस्तु वस्तुना जन्यते वस्तु च वस्तुस्वभावं भवेत्। तस्माद्वस्तुधर्मः प्रतिबन्धः। विकल्पैश्च वस्तु न स्पृश्यते। तत्प्रतिबन्धश्च निश्चीयते इति चित्रम्। इदञ्च स्वभाषितं वस्तुनोः प्रतिबन्धस्तादात्म्यादि गम्यगमकत्वञ्च विकल्पारोपितयोरपोहयोस्तदेवमन्यत्र प्रतिबन्धोऽन्यत्र तद्ग्रहणोपायोऽन्यत्र प्रतीतिरन्यत्र प्रवृत्तिप्राप्ती इति सर्वं कैतवम्। न च दृश्यसंस्पर्शशून्यात्मनां विकल्पानां दर्शनच्छाया काचन सम्भवति, इदन्ताग्राहित्वस्पष्टत्वाद्यपि वस्तुस्पर्शरहितमकिञ्चित्करम्, अप्रमाणत्वानपायात्।
अप्रमाणपरिच्छिन्नः प्रतिबन्धश्च तत्त्वतः।
न परिच्छिन्न एवेति ततो मिथ्याऽनुमेयधीः॥
अथाभिमतमेवेदं बुद्ध्यारूढत्ववर्णनात्।
हन्त तात्त्विकसम्बन्धसाधनव्यसनेन किम्॥
यथा च सामान्यविषये प्रत्यक्षाभ्युपगममन्तरेण संबन्धग्रहणमघटमानमिति विसंष्ठुलमनुमानम्, एवमवगतसम्बन्धस्य द्वितीयलिङ्गदर्शनमपि दुरुपपादमिति ततोऽपि संप्लवापलापिनामनुमानमुत्सीदेत्।
न ह्यसाधारणांशस्य लिङ्गत्वमुपपद्यते।
विना न चानुमानेन सामान्यमवगम्यते॥
सैवानवस्था तत्रापि तदेवान्योन्यसंश्रयम्।
स एव च विकल्पानां सामर्थ्यशमनक्रमः॥
अतः सम्बन्धविज्ञानलिङ्गग्रहणपूर्वकम्।
अनुमानमनुह्नुत्य कथं संप्लवनिह्नवः॥
अपि च विषयद्वैविध्यसिद्धावपि प्रत्यक्षानुमान एव परस्परमपि संप्लवेयाताम्। यतः
प्रत्यक्षत्वं परोक्षोऽपि प्रत्यक्षोऽपि परोक्षताम्।
देशकालादिभेदेन विषयः प्रतिपद्यते॥
क्षणभङ्गं निषेत्स्यामः सन्तानो यश्च कल्पितः।
दर्शितप्राप्तिसिद्ध्यादौ संप्लवेऽपि स तादृशः॥
यदपि जात्यादिविषयनिषेधनमनोरथैः संप्लवपराकरणमध्यवसितं तत्र जात्यादिसमर्थनमेवोत्तरीकरिष्यते।
तावकैर्दूपणगणैः कालुष्यमपनीयते।
तद्वानवयवी जातिरिति वार्तैकभद्रिका॥
यदपि विरोधवैफल्याभ्यां न संप्लव इत्युक्तम् तत्र वैफल्यमनधिगतार्थगन्तृत्वविशेषणादिवारणेनैव प्रतिसमाहितम्। विरोधोऽपि नास्ति पूर्वज्ञानोपमर्देन नेदं रजतमितिवदुत्तरविज्ञानानुत्पादात्। अनेकधर्मविसरविशेषितवपुषि धर्मिणि कदाचित् केनचित् कश्चिन्निश्चीयते धर्मविशेष इति को विरोधार्थः?
यदपि प्रत्यक्षस्य शब्दलिङ्गयोश्च समानविषयत्वे सति सदृशप्रतीतिजनकत्वमाशङ्कितम्, तत्र केचिदाचक्षते विषयसाम्येऽप्युपायभेदात् प्रतीतिभेदो भवत्येव, दूराविदूरदेशव्यवस्थितपदार्थप्रतीतिवत्।
अन्ये तु मन्यन्ते नोपायभेदात् प्रतीतिभेदो भवति अपि तु विषयभेदादेव सन्निकृष्टविप्रकृष्टग्रहणेऽपि विषयौ भिद्येते। दूरात् सामान्यधर्ममात्रविशिष्टस्य धर्मिणो ग्रहणमदूरात्तु सकलविशेषसाक्षात्करणम्। यदिमाः प्रत्यक्षानुमानशब्दप्रमितयः प्रमेयभेदाद्भिद्यन्ते।
विशेषधर्मसंबद्धं वस्तु स्पृशति नेत्रधीः।
व्याप्तिबोधानुसारेण तद्वन्मात्रन्तु लैङ्गिकी॥
शब्दात्तु तदवच्छिन्ना वाच्ये सञ्जायते मतिः।
शब्दानुवेधशून्या हि न शब्दार्थे मतिर्भवेत्॥
कथं तर्हि तेषां संप्लवः, सर्वत्र विषयभेदस्य दर्शितत्वात्? सत्यम्, धर्म्यभिप्रायेण संप्लवः कथ्यते। इमौ तु पक्षौ विचारयिष्येते। सर्वथा तावदस्ति प्रमाणानां संप्लव इति सिद्धम्।
तदुदाहरणन्तु भाष्यकारः प्रदर्शितवान् `अग्निराप्तोपदेशात् प्रतीयतेऽमुत्रेति प्रत्यासीदता धूमदर्शनेनानुमीयते प्रत्यासन्नतरेण उपलभ्यते’ इत्यादि। क्वचित्तु व्यवस्था दृश्यते यथा `अग्रिहोत्रं जुहुयात् स्वर्गकामः’ इत्यस्मदादेरागमादेव ज्ञानं न प्रत्यक्षानुमानाभ्याम्। स्तनयित्नुशब्दश्रवणात्तद्धेतुपरिज्ञानमनुमानादेव, न प्रत्यक्षागमाभ्याम्। स्वहस्तौ द्वौ इति तु प्रत्यक्षादेव प्रतीतिर्न शब्दानुमानाभ्यामिति। तस्मात्स्थितमेतत् प्रायेण प्रमाणानि प्रमेयमभिसंप्लवन्ते, क्वचित्तु प्रमेये व्यवतिष्ठन्तेऽपीति।
इत्युद्धृताखिलपरोदितदोषजात-
सम्पातभीतिरिह संप्लव एष सिद्धः।
सर्वाश्च सौगतमनःसु चिरप्ररूढ़ा
भग्नाः प्रमाणविषयद्वयसिद्धिवाञ्छाः॥
एवं तावन्न्यूनत्वं सङ्ख्यायाः परीक्षितम्, आधिक्यमिदानीं परीक्ष्यते।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%अन्यत्र प्रतिबन्धो% वस्तुनोः। %अन्यत्र तद्ग्रहणोपायो%ऽन्वयव्यतिरेकलक्षणः विकल्पारोपितधूमसामान्यस्य तदारोपितेनैव वह्न्याकारेण, तयोर्ग्रहीतुं शक्यत्वात्; न धूमस्वलक्षणस्याग्निस्वलक्षणेन, तयोरन्यत्रावृत्तेः। %अन्यत्र प्रवृत्तिप्राप्ती,% बाह्ये बाह्योन्मुखतया प्रवृत्तेस्तस्यैव च प्राप्तेः। कतवं द्यूतकारवृत्तम् असमीक्ष्याभिधानात्।
%बद्ध्यारूढत्ववर्णनादि%ति। “सर्व एवायमनुमानानुमेयव्यवहारो बुद्ध्यारूढेन धर्मधर्मिन्यायेन सिद्ध्यति” इति वर्णनात्। बुद्धिरत्र विकल्पज्ञानमभिप्रेता।
%द्वितीयलिङ्गदर्शनम्%। सम्बन्धग्रहणकालापेक्षया पर्वतादौ।
ननु क्षणिकत्वेन विनष्टत्वात् कथं स एव प्रत्यक्षः परोक्षो भवेदिति। तन्नेत्याह %क्षणभङ्गं निषेत्स्याम% इति। यथा दर्शनविषयीकृतस्य स्वलक्षणस्य प्राप्यस्य चान्यत्वेऽपि सन्तानापेक्षयैकत्वमभ्युपगम्य प्रदर्शितप्रापकत्वं प्रत्यक्षस्य भण्यते, तद्वत् क्षणिकत्वेऽप्येकसन्तानापेक्षयैकविषयत्वं प्रत्यक्षानुमानयोः किमिति नेष्यत इति भावः।
%शब्दात्तु तदवच्छिन्ना वाच्ये सञ्जायते मतिरि%ति वक्ष्यमाणप्रवरमतेनाह।
%स्तनयित्नुशब्दश्रवणात्% तद्धेतोर्वाय्वभ्रसंयोगविभागादेः परिज्ञानम्।
न्यायमञ्जरी :–
%प्रमाणानामाधिक्यपरीक्षणम्%
तत्रार्थापत्त्या सह प्रत्यक्षादीनि पञ्च प्रमाणानीति प्रभाकरः। अभावेन सह षडिति भाट्टः। सम्भवैतिह्याभ्यामष्टाविति केचित्। अशक्य एव प्रमाणसङ्ख्यानियम इति सुशिक्षितचार्वाकाः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%सुशिक्षितचार्वाका उद्भटादयः।%
न्यायमञ्जरी :–
%अर्थापत्तेः प्रमाणान्तरत्वम्%
तत्र भाट्टास्तावदित्थमर्थापत्तिमाचक्षते। दृष्टः श्रुतो वार्थोऽन्यथा नोपपद्यत इत्यर्थान्तरकल्पनार्थापत्तिः। दृष्ट इति प्रत्यक्षादिभिः पञ्चभिः प्रमाणैरुपलब्धः। श्रुत इति कुतश्चन लौकिकाद् वैदिकाद्वा शब्दादवगतोऽर्थः, ततोऽन्यथानुपपद्यमानादर्थान्तरकल्पनार्थापत्तिरित्येवं षट्प्रमाणप्रभवत्वेन षड्विधाऽसौ भवतीति। दृष्टवचनेनोपलब्धिवाचिना गतार्थत्वेऽपि श्रुतार्थापत्तेः पृथगभिधानम्, प्रमाणैकदेशविषयत्वेन प्रमेयविषयार्थापत्तिपञ्चकविलक्षणत्वात्।
तत्र प्रत्यक्षपूर्विका तावदर्थापत्तिः, प्रत्यक्षावगतदहनसंसर्गोद्गतदाहाख्यकार्याऽन्यथाऽनुपपत्त्या वह्नेर्दाहशक्तिकल्पना। अनुमानपूर्विका देशान्तरप्राप्तिलिङ्गानुमितमरीचिमालिगत्यन्यथाऽनुपपत्त्या तस्य गमनशक्तिकल्पना। उपमानपूर्विका उपमानज्ञानावगतगवयसारूप्यविशिष्टगोपिण्डादिप्रमेयाऽन्यथाऽनुपपत्त्या तस्य तज्ज्ञानग्राह्यत्वशक्तिकल्पनेति। तदिमास्तावदतीन्द्रियशक्तिविषयत्वादर्थापत्तयः प्रमाणान्तरम्, शक्तेः प्रत्यक्षपरिच्छेद्यत्वानुपपत्तेः, तद्धीनप्रतिवन्धाधिगमवैधुर्येणानुमानविषयत्वायोगात्।
अन्वयव्यतिरेकौ हि द्रव्यरूपानुवर्तिनौ।
शक्तिस्तु तद्गता सूक्ष्मा न ताभ्यामवगम्यते॥
शब्दोपमानयोस्त्वत्र सम्भावनैव नास्तीत्यर्थापत्तेरेवैष विषयः। अर्थापत्तिपूर्विका यथा शब्दरणिकार्थप्रतीत्यन्यथानुपपत्त्या शब्दस्य वाचकशक्तिमवगत्य तदन्यथाऽनुपपत्त्या तस्य नित्यत्वकल्पना। सा चेयं शब्दपरीक्षायां वक्ष्यते। अभावपूर्विका तु भाषय्कारेणोदाहृता जीवतश्चैत्रस्य गृहाभावमवसाय तदन्यथानुपपत्त्या बहिर्भावकल्पनेति।
ननु दृष्टेन सिद्धसिद्धेरनुमानमेवेदं स्यात्। नानुमानं सामग्र्यभावात्। पक्षधर्मतादिसामग्र्या यज्ज्ञानमुपजन्यते तदनुमानमिति तार्किकस्थितिः। सा चेह नास्ति बहिर्भावविशिष्टे चैत्रे चैत्राभावविशिष्टे बहिर्भावेऽनुमेये कश्य लिङ्गत्वमिति चिन्त्यम्. गृहाभावविशिष्टस्य वा चैत्रस्य चैत्राभावविशिष्टस्य वा गृहस्य, गृहचैत्राभावस्य वा, चैत्रादर्शनस्य वा। न चैषामन्यतमस्यापि पक्षधर्मत्वमस्ति। न हि गृहं वा, चैत्रो वा, तदभावो वा, तददर्शनं वा चैत्रस्य धर्मः, तद्बहिर्भावस्य वेत्यपक्षधर्मत्वादन्यतमस्यापि न लिङ्गत्वम्।
अपि च प्रमेयानुप्रवेशप्रसङ्गादपि नेदमनुमानम्। तथा ह्यागमावगतजीवनस्य गृहाभावेन चैत्रस्य बहिर्भावः परिकल्प्यते। इतरथा मृतेनानैकान्तिको हेतुः स्यात्। अभावश्च गृहीतः सन् बहिर्भावमवगमयति नागृहीतो धूमवत्। अभावग्रहणञ्च सकलसदुपलम्भकप्रमाणप्रत्यस्तमयपूर्वकम्, इह तु सदुपलम्भकमस्त्येव जीवनग्राहि प्रमाणम्। जीवनं हि क्वचिदस्तित्वमुच्यते। अप्रत्यस्तमिते तु सदुपलम्भके प्रमाणे कथमभावः प्रवर्त्तत इति, प्रवर्तमान एवासौ सदुपलम्भकं प्रमाणं पृथग्विषयमुपस्थापयति, बहिरस्य भावो गृहे त्वभाव इति। तेन जीवतो बहिर्भावव्यवस्थापनपूर्वकगृहाभावग्रहणोपपत्तेः प्रमेयानुप्रवेशः। अनुमाने तु धूमादिलिङ्गग्रहणसमये न मनागपि तल्लिङ्गतदनुमेयदहनलिङ्ग्यनुप्रवेशस्पर्शो विद्यत इति।
नन्वर्थापत्तावपि किं प्रमेयानुप्रवेशो न दोषः? न दोष इति ब्रूमः। प्रमाणद्वयसमर्पितैकवस्तुविषयाभावभावसमर्थनार्थमर्थापत्तिः प्रवर्त्तमाना प्रमेयद्वयं परामृशत्येव, अन्यथा तत्संघटनायोगात्। अतश्च येयमागमादनियतदेशतया क्वचिदस्तीति संवृत्तिरूत्सैवेयं गृहाभावे गृहीते बहिरस्तीति संविदधुना संवृत्ता। तदतो वैलक्षण्यान्नानुमानमर्थापत्तिः। अतश्चैवं सम्बन्धग्रहणाभावात्।
भावाभावो हि नैकेन युगपद्वह्निधूमवत्।
प्रतिबन्धतया रोद्धं शक्यौ गृहबहिःस्थितौ॥
अन्यथानुपपत्त्या च प्रथमं प्रतिबन्धधीः।
पश्चाद्यद्यनुमानत्वमुच्यते काममुच्यताम्॥
नन्वस्त्येव गृहद्वारे वर्त्तिनः सङ्गतिग्रहः।
भावेन भावसिद्धौ तु कथमेष भविष्यति॥
यत्र गृहे चैत्रस्य भावमवगम्य तदन्यथानुपपत्त्या तदन्यदेशेषु नास्तित्वमवगम्यते तत्र देशानामानन्त्याद् दुरधिगमः प्रतिबन्धः। अनग्निव्यतिरेकनिश्चये धूमस्य का वार्तेति चेद्उच्यते। तत्र धूमज्वलनयोरन्वयग्रहणसम्भवान्न व्यतिरेकग्रहणमाद्रियेरन् भूयोदर्शनसुलभनियमज्ञानसम्पाद्यमानसाध्याधिगमननिर्वृतमनसां किमनग्निव्यतिरेकनिश्चयेन? इह पुनरन्वयावसायसमय एव गन्यधर्मस्य दुरवगमत्वमुक्तम्, अनन्तदेशवृत्तित्वात्। अनुपलब्ध्या तन्निश्चय इति चेद्। न। मन्दिरव्यतिरिक्तसकलभुवनतलगततदभावनिश्चयस्य नियतदेशयानुपलब्ध्या कर्त्तुमशक्यत्वात्। तेषु तेषु देशान्तरेषु परिभ्रमन्ननुपलब्ध्या तद्भावं निश्चेष्यामीति चेन् मैवम्
गत्वा गत्वापि तान्देशान्नास्य जानामि नास्तिताम्।
कौशाम्ब्यास्त्वयि निष्क्रान्ते तत्प्रवेशादिशङ्कया॥
तस्मादभूमिरियम्, असर्वज्ञानामित्यर्थापत्त्यैव तन्निश्चयः।
नन्वित्त्थममुमर्थमनुमानान्निश्चेष्यामः, देशान्तराणि चैत्रशून्यानि चैत्राधिष्ठितव्यतिरिक्तत्वात् तत्समीपदेशवदिति। न। प्रत्यनुमानोहत्वात्। देशान्तराणि चैत्राव्यतिरिक्तानि तत्समीपदेशव्यतिरिक्तत्वाच्चैत्राधिष्ठितदेशवदिति। तस्मान्नि यतदेशोपलभ्यमानपरिमितपरिमाणपुरुषशरीरान्यथानुपपत्त्यैव तदितरसकलदेशनास्तित्वावधारणं तस्येति सिद्धम्।
पीनो दिवा च नात्तीति साकाङ्क्षवचनश्रुतेः।
तदेकदेशविज्ञानं श्रुतार्थापत्तिरुच्यते॥
इहैवंविधसाकाङ्क्षवचनश्रवणे सति समुपजायमानं रजनीभोजनविज्ञानं प्रमाणान्तरकरणकं भवितुमर्हति, प्रत्यक्षादेरसन्निधानात्। न प्रत्यक्षं क्षपाभक्षणप्रतीतिक्षमं परोक्षत्वात्। नानुमानमनवगतसम्बन्धस्यापि तत्प्रतीतेः। उपमानादेस्तु शङ्कैव नास्ति। तस्माच्छाब्द एव रात्रिभोजनप्रत्ययः। शब्दश्च न श्रूयमाण इममर्थमभिवदितुमलम्, एकस्य वाक्यस्य विधिनिषेधरूपार्थंद्वयसमर्थनशून्यत्वात्। अत्र च रात्र्यादिपदानामश्रवणादपदार्थस्य च वाक्यार्थत्वानुपपत्तेः। न च विभावरीभोजनलक्षणोऽर्थो दिवावाक्यपदार्थानां भेदः संसर्गो वा, येनायमपदार्थोऽपि प्रतीयते।
तस्मात्कल्प्यागमकृतं नक्तमत्तीति वेदनम्।
तद्वाक्यकल्पनायान्तु प्रमाणं परिचिन्त्यताम्॥
नाध्यक्षमनभिव्यक्तशब्दग्रहणशक्तिमत्।
न लिङ्गमगृहीत्वापि व्याप्तिं तदवधारणात्॥
क्वचिन्नित्यपरोक्षत्वाद्व्याप्तिबोधोऽपि दुर्घटः।
विनियोक्त्री श्रुतिर्यत्र कल्प्या प्रकरणादिभिः॥
विनियोक्त्री हि श्रुतिः सर्वत्र प्रकरणादौ वाक्यविद्भिरभ्युपगम्यते। यथोक्तं `विनियोक्त्री श्रुतिस्तावत्सर्वेष्वेतेषु सम्मतेति’। तस्याश्च नित्यपरोक्षत्वाद् दुरधिगमस्तत्र लिङ्गस्य प्रतिबन्धः। न च निशापदवचनस्य सत्तानुमातुमपि शक्या। तस्यां साध्यायां भावाभावोभयधर्मकस्य हेतोरसिद्धविरुद्धानैकान्तिकत्वेनाहेतुत्वात्। न चात्र धर्मः कश्चिदुपलभ्यते यस्येन तद्वान् पर्वत इवाग्निमाननुमीयते। न च दिवावाक्यं तदर्थोऽपि निशावचनानुमाने लिङ्गतां प्रतिपत्तुमर्हति।
अश्रुते हि निशावाक्ये कथं तद्धर्मताग्रहः।
श्रुते तस्मिंस्तु तद्धर्मग्रहणे किं प्रयोजनम्॥
दिवावाक्यपदार्थानां तिष्ठतु लिङ्गत्वम्, अनुपपद्यमानतयापि न निशावाक्यप्रत्यायकत्वमवकल्पते। पदार्थानां हि सामान्यात्मकत्वाद्विशेषमन्तरेणानुपपत्तिः स्यान् न वाक्यान्तरमन्तरेण। तस्माच्छ्रूयमाणं वाक्यमेव तदेकदेशमन्तरेण निराकाङ्क्षप्रत्ययोत्पादकस्वव्यापारनिर्वहणं सन्धिमनधिगच्छत्तदेकदेशमाक्षिपतीति। सेयं प्रमाणैकदेशविषया श्रुतार्थापत्तिः।
नन्वर्थादेव कथमर्थान्तरं न कल्प्यते। पीवरत्वं हि नाम भोजनकार्यमुपलभ्यमानं स्वकारणं भोजनमनलमिव धूमः समुपस्थापयतु। तच्च वचसा कालविशेषे निषिद्धं तदितरकालविशेषविषयं भविष्यतीति किं वचनानुमानेन? वचनमपि नादृष्टार्थमपि तु अर्थगत्यर्थम्व। तदस्य साक्षादर्थस्यैव कल्प्यमानस्य को दोषो यद्व्यवधानमाश्रीयते। उच्यते
शब्दप्रमाणमार्गेऽस्मिन्ननभिज्ञोऽसि बालक।
प्रमाणतैव न ह्यस्य साकाङ्क्षज्ञानकारिणः॥
पुरोऽवस्थितवस्त्वंशदर्शनप्राप्तिनिर्वृतिः।
प्रत्यक्षादि यथा मानं न तथा शाब्दमिष्यते॥
वाक्यार्थे हि समग्रांशे परिपूरणसुस्थिते।
अभिधाय धियं नास्य व्यापारः पर्यवस्यति॥
तावन्तं बोधमाधाय प्रामाण्यं लभते वचः।
तदर्थवाचकत्वाच्च तद्वाक्यं वाक्यमिष्यते॥
शब्दैकदेशश्रुत्यातस्तदंशपरिपूरणम्।
कल्प्यं प्रथममर्थस्य कुतस्तेन विना गतिः॥
प्रायः श्रुतार्थापत्त्या च वेदः कार्येषु पूर्यते।
तत्रार्थः कल्प्यमानस्तु न भवेदेव वैदिकः॥
या मन्त्रैरष्टकालिङ्गैस्तद्विधः परिकल्प्यते।
श्रुतिलिङ्गादिभिर्या च कल्प्यते विनियोजिका॥
विश्वजित्यधिकारश्च यागकर्तव्यताश्रुतेः।
ऐन्द्राग्न्यादिविकारेषु कार्यमात्रोपदेशतः।
यश्च प्रकृतिवद्भावो विध्यन्त उपपाद्यते॥
तदेवमादौ सम्बन्धग्रहणानुपपत्तितः।
श्रुतार्थापत्तिरेवैषा निःसपत्नं विजृम्भते॥
तया श्रुत्यैकदेशश्च सर्वत्र परिकल्प्यते।
अर्थकल्पनपक्षे तु न स्याद्वेदैगम्यता॥
इत्यर्थापत्तिरुक्तैषा षट्प्रमाणसमुद्भवा।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%तस्य तज्ज्ञानग्राह्यत्वे%ति। तस्य गोपिण्रडस्य तज्ज्ञानग्राह्यत्वमुपमानज्ञानग्राह्यत्वम्।
%तदन्यथानुपपत्त्ये%ति। वाचकशक्तिरेव नित्यत्वं विना नोपपद्यते, सम्बन्धज्ञानकालगृहीतस्य ववहारकालेऽसत्त्वात्।
%प्रमेयानुप्रवेशप्रसङ्गादि%ति। जीवतो यो गृहाभावः स लब्धात्मभावः पक्षधर्मत्वासादनद्वारेण हेतुतां प्रतिपद्ते, तस्य तु गृहाभावस्य जीवनविशिष्टस्य बहिर्भावं विनात्मलाभ एव नास्ति, तदाक्षेपेणैवात्मलाभात्, इत्यनुमानप्रमेयस्य लिङ्गग्रहणसमय एव–तद्ग्रहणं विना लिङ्गग्रहणाभावाद् गृहीतत्वेन प्रमेयानुप्रवेशिता। इमामेवोत्तरग्रहन्थेनाबिव्यनक्ति।
%प्रमाणद्वयसमर्पिते%ति। प्रमाणद्वयेनागमाभावाख्येनैकदेवदत्तविषयौ यौ भावाभावौ विरुद्धौ समर्पितौ तयोः समर्थनार्थमविरोधेनावस्थानार्थम्। %प्रमेयद्वयं परामृशत्येवे%ति। प्रमेयद्वयमागमाभावसम्बन्धि भावाभावात्मकं परामृशत्युपपादकत्वेन, योऽभावः स गृहे, यस्तु भावः स बहिरिति। %अन्यथा तत्संघटनायोगादि%ति। एकवस्तुविषययोर्भावाभावयोः संमीलनाया अभावादित्यर्थः। एवमर्थापत्तेर्व्यापारं प्रदर्श्य फलतस्तु तस्य नियमांश एव पर्यवसानमिति दर्शयितुमाह–%अतश्च येयमागमादि%ति। पूर्वं ह्यनियतदेशतया प्रतिपत्तिरभूत्, गृहाभावे तु कुतश्चित्प्रमाणादवगते संविन्नेति नियतदेशतयोत्पादात्। एवं च सति यद्यपि जीवतो गृहाभावेनात्मलाभसमय एवाक्षिप्तो बहिर्भावस्तथापि नियमस्य पूर्वमनवगतस्यावगमादस्ति पृथक् प्रमेयलाभः, आक्षिप्तबहिर्भावस्य लब्धात्मलाभस्य गृहतो बहिरस्तीति नियमावगतिपर्यन्तत्वात्। %तदतो वैलक्षण्यादि%ति। न ह्यनुमाने गमकं गम्माक्षोपपूर्वकमात्मानमासाद्य नियमांशे व्याप्रियत इत्यर्थः। तदुक्तम् `धूमावगमवेलायां नाग्न्यधीनं हि किञ्चन’ इति।
%न च विबावरीभोजनलक्षणोऽर्थ% इति। एकस्मिन् क्रियापदे प्रयुक्ते सर्वकारकाक्षेपसिद्धिः, कारकपदे बा प्रयुक्त एकस्मिन् सर्वक्रियाक्षेपात् कारकपदं क्रियापदश्च कारकान्तरक्रियान्तरव्यावृत्तय उपादीयते। यथा `गामानय’ इति गामित्यनेनैव क्रियामात्राक्षेपाद् आनयेति बधानेत्यादिव्यावृत्त्यर्थं कल्प्यते। तस्माद् भेदो वाक्यार्थ इति %भेदवाक्यार्थवादि%मतम्। न च परस्परासंसृष्टावन्यतो भेत्तुं शक्यौ। अतः संसर्गप्रतीतिस्तत्रास्ति। साकाङ्क्षाणां वा परस्परसम्बन्धात् संसर्गो वाक्यार्थः; अर्थान्तरादभिन्नयोश्च संसर्गो नोपपद्यत इत्ति भेदप्रतीतिस्तत्रास्ति।
%विनियोक्त्री श्रुतिर्यत्र कल्प्या प्रकरणादिभि%स्तत्र व्याप्तिबोधोऽपि दुर्घट इति सम्बन्धः। प्रकरणादिभिरिति लिङ्गादिप्रमाणपञ्चकपरिग्रहः। कश्चित्तु `व्रीहिनवहन्ति’ इति द्वितीयाश्रुतितोऽपि `व्रीह्यर्थोऽवघातः’ इति श्रुत्यन्तरकल्पनमिच्छति। लिङ्गेन श्रुतिकल्पनं यथा `बर्हिर्देवसदनं दामि’ इति मनत्रस्याभिधानसामर्थ्यलक्षणेन लिङ्गेन बर्हिर्लवनमनेन मन्त्रेण कर्तव्यमिति श्रुतेः परिकल्पनम्। तथाहि देवाः सीदन्त्यस्मिन्निति देवसदनं बर्हिर्दामि लुनामीत्यभिधानसामर्थ्यम्। वाक्याद् यथा `अरुणयैकहायन्या सोमं क्रीणाति’ इति श्रुत्या क्रयार्थयोररुणैकहायन्योर्वाक्यादेकक्रियासम्बन्धनिबन्धनादेकहायनीद्रव्यारुणगुणयोः परस्परसम्बन्धावगमकश्रुतिपरिकल्पनम्। %प्राभाकरास्तु% वाक्योदाहरणम् `अरुणया क्रीणाति’ इत्येवमाहुः; क्रीणातिपदारुणपदसम्बन्धात्मकाद् वाक्यादस्मादेवारुणायाः क्रयार्थत्वं प्रतीयते, न तृतीयया श्रुत्या। सा हि कारकमात्रे अक्रियाशेषेऽपि दृष्टा। यथा `गोदोहनेन पशुकामस्य प्रणयेत्’ इति फलार्थत्वादप्रणायनार्थस्यापि गोदोहनस्य कारकतयैव प्रणयनेन सम्बन्धः, न प्रणयनशेषतया। यथा च शाल्यर्थं कुल्यानां प्रणीतानां य आचमनपानादिना सम्बन्धो नासावाचमनादिशेषतया अपि तु कारकत्वेन, एवं तृतीयाया अतच्छेषभूतेऽपि प्रयोगदर्शनान्न ततः शेषत्वनिश्चयः, किन्तु पदान्तरसम्बन्धात्मकवाक्यादेव। अतोऽत्र `अरुणया क्रीणाति’ इति न तृतीययैव शेषत्वप्रतिपत्तिः, अपि तु क्रीणातिपदसमभिव्याहारात्मकाद् वाक्यादेवेत्याहुः। प्रकरणात् `समिधो यजति’ इत्यादीनां प्रयाजादीनां दर्शपूर्णमासप्रकरशे श्रवणात् तादर्थ्यप्रतिपादकश्रुतिकल्पनम्। स्थानाद् यथा `दब्धिर्नामास्य दब्धोऽहं भ्रातृव्यं दभेयम्’ इति मन्त्रस्योपांशुयाजस्य स्थाने क्रमे सन्निधावाम्नातस्य प्रकरणात् सकलदर्शपूर्णमासार्थत्वे प्राप्ते स्थानाद् देशसाम्यादुपांशुयाजार्थभावगमकश्रुतिपरिकल्पनम्। अनाम्नातकर्तृकेषु पुरोडाशादिषु पदार्थेष्वाध्वर्यवमित्यादिसमाख्यया अध्वर्य्वादिकर्तृकत्वप्रतिपादयितृश्रुतिकल्पनं यत् तत् समाख्यायाः।
%भावाभावोभयधर्मकस्ये%ति। यदाह
नासिद्धे भावधर्मोऽस्ति व्यभिचार्युभयाश्रयः।
धर्मो विरुद्धोऽभावस्य सा सत्ता साध्यते कथम्॥ इति।
%वाक्यार्थे हि समग्रांशे%। वाक्यार्थो हि देवदत्तस्य पीनताख्येन धर्मेण कालविशेषावच्छिन्नस्वकारणभूतभोजननिषेधसहितेन संसर्गः। स यदि रात्रौ न भुङ्क्ते कदा तर्हि भुङ्क्ते?, भोजनं विना च कथं पीन इति सापेक्षत्वाद् दुःस्थितो न समग्रैरपेक्षितैरंशैः परिपूरितः, यदा सुस्थितो निराकाङ्क्षो भवति तदाऽसौ वाक्येन प्रतिपादितो भवति। भावतस्तु निराकाङ्क्षस्य प्रतिपादकं वाक्यमुच्यते। यदाहुः
साकाङ्क्षावयवं भेदे परानाकाङ्क्षशब्दकम्।
क्रियाप्रधानं गुणवदेकार्थं वाक्यमुच्यते॥
समग्रांशपरिपूरणदुःस्थित इति तु पाठे समग्रांशानां परिपूरणाय परिपूरयितुं परिपूरणनिमित्तं दुस्थित इति तु पाठे स्पष्ट एवार्थः। %या मनत्रैरष्टकालिङ्गैरि%ति।
यां जना अबिनन्दन्ति रात्रिं धेनुमिवायतीम्।
संवत्सरस्य या पत्नी सा नो अस्तु मुमह्गली॥
`अष्टकायै सुराधसे स्वाहा’ इत्यादयो मन्त्रा अष्टकादिकर्मविशेषप्रकाशका दृश्यन्ते, न चाविहितस्य प्रकाशनमस्ति; विहितानां कर्मणां प्रयोगकाले मन्त्रैः प्रकाशनात्। अतो मन्त्रप्रकाशनान्यथानुपपत्तितः `अष्टकाः कर्तव्या’ इति वैदिकविधिपरिकल्पनम्। %श्रुतिलिङ्गादिभिर्या चे%ति प्राग्व्याख्यातम्। %विश्वजित्यधिकारश्चे%ति। `विश्वजिता यजेत’ इति हि तत्र श्रूयते, यजेत यागः कर्त्तव्य इति। स च निष्फलः, कथं कर्तव्य इति? तत्कर्तव्यतासिद्धये फलाक्षेपः, तच्चाधिकारनिमित्तत्वादधिकारशब्देनोक्तं फलम्। अथवा `विश्वजिता यजेत’ इति केवला प्रेरणा श्रूयते। सा च प्रेर्यं विना कस्येति तस्या अुपपत्त्या स्वर्गकाम इति प्रेर्यसमर्पकपदपरिकल्पनम्। यागस्य कर्तव्यता तद्विषयप्रेरणावशाद् भवति। अधिक्रियत इत्यधिकारः स्वर्गकामः प्रेर्यस्तस्य कल्पना। सौर्यं चरु निर्वपेत् ब्रह्मवर्चसकामः’ इति अत्र ब्रह्मवर्चसं प्रति सौर्यस्य चरोर्विधानं श्रूयते। न चानवगतस्वरूपस्यात्र विधानं सम्भवति। अतोऽधिकारविध्यन्यथानुपपत्त्या कर्मस्वरूपावगमकस्योत्पत्तिविधिकल्पनम्। दर्शपूर्णमासयोर्हि `आग्नेयोऽष्टाकपालो भवति’ इत्यादिवाक्येभ्योऽवगतस्वरूपयोः स्वर्गं प्रति `दर्शपूर्णमासाभ्यां यजेत स्वगंकामः’ इति विधानात्। `ऐन्द्राग्नं चरु निर्वपेत् प्रजाकामः’ इत्यादौ कार्यमात्रं भावनामात्रं करणम्, फलञ्च आग्नेयेन चरुणा भावयेदिति निर्दिष्टम्। कथमंशस्तु नोपदिष्टः। न चानुपकृतं करणं भवतीति करणरूपतान्यथानुपपत्त्या `प्रकृतिवद् विकृतिः कर्तव्या’ इति कल्प्यते। उपदिष्टेतिकर्तव्यताकं कर्म प्रकृतिः, अनुपदिष्टेतिकर्तव्यताकं तु विकृतिः। विध्यन्त इतिकर्तव्यता।
न्यायमञ्जरी :–
%अर्थापत्तेः प्रमाणान्तरतानिरासः%
एषा विचार्यमाणा तु भिद्यते नानुमानतः॥
प्रतिबन्धाद्विना वस्तु न वस्त्वन्तरबोधकम्।
यत्किञ्चिदर्थमालोच्य न च कश्चित्प्रतीयते॥
प्रतिबन्धोऽपि नाज्ञातः प्रयाति मतिहेतुताम्।
न सद्योजातबालादेरुद्भवन्ति तथाधियः॥
न विशेषात्मना यत्र सम्बन्धज्ञानसम्भवः।
तत्राप्यस्त्येव सामान्यरूपेण तदुपग्रहः॥
अपि च तेन विना नोपपद्यत इति च व्यतिरेकभणितिरियम्। व्यतिरेकश्च प्रतीतः, तस्मिन् सत्युपपद्यत इत्यन्वयमाक्षिपति। अन्वयव्यतिरेकौ च गमकस्य लिङ्गस्य धर्म इति कथमर्थापत्तिर्नानुमानम्? केवलव्यतिरेकी हेतुरन्वयमूल एव गमक इति वक्ष्यामः।
न्यायमञ्जरी :–
%अतीन्द्रियशक्तेर्निविषयत्वप्रदर्शनम्%
याश्च प्रत्यक्षादिपूर्विकाः शक्तिकल्पनायामर्थापत्तय उदाहृतास्ताश्च शक्तेरतीन्द्रियाया अभावान् निर्विषया एव।
स्वरूपादुद्भवत्कार्यं सहकार्युपबृंहितात्।
न हि कल्पयितुं शक्तं शक्तिमन्यामतीन्द्रियाम्॥
ननु शक्तिमन्तरेण कारकमेव न भवेत्। यथा पादपं छेत्तुमनसा परशुरुद्यम्यते तथा पादुकाद्यपि उद्यम्येत। शक्तेरनभ्युपगमे हि द्रव्यस्वरूपाविशेषात्सर्वस्मात् सर्वदा कार्योदयप्रसङ्गः। तथा हि विषदहनयोर्मारणे दाहे च शक्तावनिष्यमाणायां मन्त्रप्रतिबद्धायां स्वरूपप्रत्यभिज्ञायां सत्यामपि कार्यौदासीन्यं यद् दृश्यते तत्र का युक्तिः? न हि मन्त्रेण स्वरूपसहकारसान्निध्यं प्रतिबन्धते, तस्य प्रत्यभिज्ञायमानत्वात्। शक्तिस्तु प्रतिबन्धत इति सत्यपि स्वरूपे सत्स्वपि सहकारिषु कार्यानुत्पादो युक्तः। किञ्च सेवाद्यर्जनादिसाम्येऽपि फलवैचित्र्यदर्शनादतीन्द्रियं किमपि कारणं कल्पितमेव धर्मादिर्भवद्भिः, अतः शक्तिरतीन्द्रिया तथाभ्युपगम्यतामीति।
तदेतदनुपपन्नम्। यत्तावदुपादाननियमादित्युक्तम्, तत्रोच्यते न हि वयमद्यकिञ्चिदभिनवं भावानां कार्यकारणभावमुत्थापयितुं शक्नुमः, किन्तु यथाप्रवृत्तमनुसरन्तो व्यवहरामः। न ह्यस्मदिच्छया आपः शीतं शमयन्ति कृशानुर्वा पिपासाम्। तत्र च्छेदनादावन्वयव्यतिरेकाभ्यां, वृद्धव्यवहाराद्वा, परश्वधादेरेव कारणत्वमध्यवगच्छाम इति तदेव तदर्थिन उपादद्महे न पादुकादीति। न च परश्वधादेःस्वरूपसन्निधाने सत्यपि सर्वदा कार्योदयः स्वरूपवत् सहकारिणामप्यपेक्षणीयत्वात्, सहकार्यादिसन्निधानस्य सर्वदानुपपत्तेः। सहकारिवर्गे च धऱ्मादिकमपि निपतति, तदपेक्षे च कार्योत्पादे कथं सर्वदा तत्सम्भवः? धर्माधर्मयोश्च वैचित्र्यं कार्यबलेन कल्पनमपरिहार्यम्। तयोश्च न शक्तित्वादतीन्द्रियत्वम्। अपि तु स्वरूपमहिम्नैव, मनःपरमाण्वादिवत्।
यद्यपि विषदहनसन्निधाने सत्यपि मन्त्रप्रयोगात्तत्कार्यादर्शनम्, तदपि न शक्तिप्रतिबन्धननिबन्धनमपि तु सामग्र्यन्तरानुप्रवेशहेतुकम्।
ननु मन्त्रिणा प्रविशता तत्र किं कृतम्? न किञ्चित्कृतम्। सामग्र्यन्तरन्तु सम्पादितम्, काचिद्धि सामग्री कस्यचित्कार्यस्य हेतुः। स्वरूपं तदवस्थमेवेति चेद्। यद्येवमभक्षितमपि विषं कथं न हन्यात्? तत्रास्य संयोगाद्यपेक्षणीयमस्तीति चेन्मन्त्राबावोऽप्यपेक्ष्यताम्। दिव्यकरणकाले धऱ्म इति मन्त्रोऽप्यनुप्रविष्टः कार्यंप्रतिहन्ति। शक्तिपक्षेऽपि वा मन्त्रस्य को व्यापारः? मन्रेण हि शक्तेर्नाशो वा क्रियते, प्रतिबन्धो वा। न तावन्नाशः, मन्त्रापगमे पुनस्तत्कार्यदर्शनात्। प्रतिबन्धस्तु स्वरूपस्यैव शक्तेरिवास्तु। स्वरूपस्य किं जातम्? कार्यौदामीन्यमिति चेत् तदितरतोपि समानम्। स्वरूपमस्त्येव दृश्यमानत्वादिति चेच्छक्तिरप्यस्ति पुनः कार्यदर्शनेनानुमीयमानत्वादिति।
किञ्च शक्तिरभ्युपगम्यमाना पदार्थस्वरूपवन्नित्याभ्युपगम्येत, कार्या वा? नित्यत्वे सर्वदा कार्योदयप्रसङ्गः। सहकार्यपेक्षायान्तु स्वरूपस्यैव तदपेक्षास्तु किं शक्त्या? कार्यत्वे तु शक्तेः पदार्थस्वरूपमात्रकार्यत्वं वा स्यात् सहकार्यादिसामग्रीकार्यत्वं वा। स्वरूपमात्रकार्यत्वे पुनरपि सर्वदा कार्योत्पादप्रसङ्गः, सर्वदा शक्तोरुत्पादात्। सामग्रीकार्यत्वे तु कार्यमस्तु किमन्तरालवर्तिन्या शक्त्या? अशक्तात्कारकात्कार्यं न निष्पद्यत इति चेच्छक्तिरपि कार्यं तदुत्पत्तावप्येवं शक्त्यन्तरकल्पनादनवस्था। आह दृष्टसिद्धये ह्यदृष्टं कल्प्यते न तु दृष्टविघाताय। शक्त्यन्तरकल्पनायां शक्तिश्रेणीनिर्माण एव क्षीणत्वात् कारकाणां कार्यविघातः स्यादित्येकैव शक्तिः कल्प्यते। तत्कुतोऽनवस्था?
अत्रोच्यते यद्यदृष्टमन्तरेण दृष्टं न सिद्ध्यति काममदृष्टं कल्प्यताम्। अन्यथाऽपि तु तदुपपत्तौ किं तदुपकल्पनेन? दर्शिता चान्यथाप्युपपत्तिः। कल्प्यमानमपि चादृष्टं तत्कल्प्यतां यदनवस्थां नावहेत धर्मादिवत्। अपि च व्यापारोऽप्यतीन्द्रियः शक्तिवदिष्यते भवद्भिः, अन्यतरकल्पनयैव कार्योपपत्तेः किमुभयकल्पनागौरवेण? शक्तमव्याप्रियमाणं न कारकम्, कारकमिति चेत्तच्छक्तमिति। तथा कथं जानामि, कार्यदर्शनाज्ज्ञास्यामीति चेद्व्यापारादेव कार्यं सेत्स्यति। पादुकादेर्व्याप्रियमाणादपि न पादपच्छेदो दृश्यत इति चेत् प्रत्यक्षस्तर्हि व्यापारो नातीन्द्रियो, यतः कार्यदर्शनात्पूर्वमपि व्याप्रियमाणत्वं ज्ञातमायुष्मता। कार्यानुमेयो हि व्यापारः कार्यं विना न ज्ञायेतैव। कार्यं त्वन्यतरस्मादपि घटमानं नोभयं कल्पयितुं प्रभवतीत्यलं प्रसङ्गेन प्रकृतमनुसरामः।
तस्मादतीन्द्रियायाः शक्तेरभावान्निर्विषया यथोदाहृतास्ता अर्थापत्तयः।
व्याप्तिग्रहणात् स्वरूपमात्रस्य च कारणत्वानिर्वहणाददिकं किमप्यनुमास्यते। सा शक्तिरिति।
शब्दनित्यत्वसिद्धौ तु यार्थापत्तिरुदाहृता।
तस्याः शब्दपरीक्षायां समाधिरभिधास्यते॥
न्यायमञ्जरी :–
%अभावपूर्विकार्थापत्तिखण्डनम्%
अभावपूर्विकाप्यर्थापत्तिरनुमानमेव। जीवतो गृहाभावेन लिङ्गभूतेन बहिर्भावावगमात्। चैत्रस्य गृहाबावो धर्मी बहिर्भावेन तद्वानिति साध्यो धर्मः जीवन्मनुष्यगृहाबावत्वात् पूर्वोपलब्धैवंविधगृहाभाववत्। यथा धर्मी वह्रिमानिति साध्योऽर्थः धूमत्वात् पूर्वोपलब्धधूमवदिति। अतश्च गृहादीनां लिङ्गत्वाशङ्कनम् अपाकरणञ्चाडम्बरमात्रम्।
यत्पुनः प्रमेयानुप्रवेशदूषणमभ्यधायि, तदपि न साम्प्रतम्। किं प्रमेयमभिमतमत्र भवताम्? किं सत्तामात्रम्, उत बहिर्देशविशेषितं सत्त्वम्। सत्तामात्रं तावदागमादेवावगतमिति न प्रमाणान्तरप्रमेयतामवलम्बते। बहिर्देशविशेषितं तु सत्त्वं भवति प्रमेयम्, तस्य तु तदानीमनुप्रवेशः कुतस्त्यः? गृहाभावग्राहकं हि प्रमाणं गृह एव सदुपलम्भकप्रमाणावकाशमपाकरोति, बहिर्न सदसत्त्वचिन्तां प्रस्तौति।
वृद्धस्य जीवतो दूरे तिष्ठतः प्राङ्गणेऽपि वा।
गृहाभावपरिच्छेदे न विशेषोऽस्ति कश्चन॥
जीवनविशिष्टस्त्वसौ गृह्यमाणो लिङ्गतामश्नुते व्यभिचारनिरासात्। न च विशेषणग्रहणमेव प्रमेयग्रहणम्। जीवनमन्यदन्यच्च बहिर्भावाख्यं प्रमेयम्।
ननु जीवनविशिष्टगृहाभावप्रतीतिरेव बहिर्भावप्रतीतिः? नैतदेवम्। जीवनविशिष्टगृहाभावप्रतीतेर्बहिर्भावः प्रतीतः। न तत्प्रतीतिरेव बहिर्भावप्रतीतिः न हि दहनाधिकरणधूमप्रतीतिरेव दहनप्रतीतिः। किन्तु धूमादन्य एव दहनः। इहापि गृहाभावजीवनाभ्यामन्य एव बहिर्भावः। पर्वतहुतवहयोः सिद्धत्वान्मत्वर्थमात्रं तत्रापूर्वमनुमेयम्। एवमिहापि बहिर्देशयोगमात्रमपूर्वमनुमेयम्। यदि तु तदधिकं प्रमेयमिह नेष्यते तदा गृहाभावजीवनयोः स्वप्रमाणाभ्यामवधारणादानर्थक्यमर्थापत्तेः। तस्मात्प्रमेयान्तरसद्भावात्तस्य च तदानीमननुप्रवेशान्न प्रमेयानुप्रवेशो दोषः। अर्थापत्तावपि च तुल्य एवायं दोषः। तत्राप्यर्थादर्थान्तरकल्पनाभ्युपगमात्। दृष्टः श्रुतो वार्थोऽन्यथा नोपपद्यत इत्यर्थकल्पनेत्येव ग्रन्थोपनिबन्धात्, तस्य तस्मात्प्रतीतिरिति तत्र व्यवहारः, तत्रावाच्यतत्प्रतीतौ तदनुप्रवेशो दोष एव, स्वभावहेताविव तद्बुद्धिसिद्ध्या तत्सिद्धेः प्रमाणान्तरवैफल्यादिति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%स्वभावहेताविवे%ति। वृक्षोऽयं शिंशपात्वादित्यत्र यावदेव शिंशपाख्यो भावो गृहीतस्तावदेव वृक्षत्वमपि, तत्स्वभावो गृहीत एव। तद्ग्रहणे तस्याग्रहणात् तत्स्वभावतैव न स्यादित्यर्थः।
न्यायमञ्जरी :–
%प्रभाकरमतेऽर्थापत्तिसमर्थनम्%
प्राभाकरास्तु प्रकारान्तरेणानुमानाद्भेदमत्राचक्षते। अनुमाने गमकविशेषणमन्यथानुपपन्नमनलं विना धूमो हि नोपपद्यते। इह तु विपर्ययः, गम्यो गमकेन विना नोपपद्यते। गम्यो बहिर्भावः, स जीवतो गृहाभावं विना नोपपद्यते। “गृहान्निर्गतो जीवन् बहिर्भवतीति” भाष्यमप्येवं योजयन्ति। दृष्टः श्रुतो वार्थोऽर्थकल्पना अर्थान्तरं कल्पयतीत्यर्थः। यतः सा कल्पना प्रमेयद्वारिकाऽन्यथा नोपपद्यते, कल्प्यमानोऽर्थोऽन्यथा नोपपद्यते स च गम्य इति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%भाष्यमप्येवं योजयन्ती%ति। दृष्टः श्रुतो वार्थोऽर्थकल्पना अर्थस्य कल्पकः, कस्यार्थस्येत्यपेक्षायां योऽन्यता नोपपद्यते तस्येति योजना प्रभाकरपक्षे। ननु समासान्तर्गतेनार्थशब्देन कथमन्यथा नोपपद्यत इत्यस्य सम्बन्धः, तत्र गुणीभूतत्वादर्थशब्दस्य। नैवम्, कल्पनाशब्देनापि सम्बन्धेऽन्यथा नीपपद्यत इत्यस्यायमेवार्थो लभ्यते यतः। इदमेवाह यतः सा कल्पना प्रमेयद्वारिकेति। प्रमेयद्वारिका प्रमेयमुखेन अन्यथा नोपपद्यते, प्रमेयस्यान्यथानुपपद्यमानत्वात्, `साऽन्यथा नोपपद्यते’ इत्युच्यते न साक्षादित्यर्थः। तदेवाह `कल्प्यमानोऽर्थोऽन्यथा नोपपद्यते’ इति।
न्यायमञ्जरी :–
%प्रभाकरमतखण्डनम्%
एतदर्पि ग्रन्थवैषम्योपपादनमात्रम्, न तु नूतनविशेषोत्प्रेक्षणम्। गम्ये तावदगृहीते सति तद्गतमनुपपद्यमानत्वं कथमवधार्येत? गृहीते तु गम्ये किं तद्गतानुपपद्यमानत्वग्रहणेन? साध्यस्य सिद्धत्वात्। पुरा तद्गतमन्यथाऽनुपपद्यमानत्वं गृहीतमासीदिति चेद्। अहो महाननुमानाद्विशेषः। इदं हि पूर्वं प्रतिबन्धग्रहणमुक्तं स्यात्।
अपि च बहिर्भावस्य गृहाभावं विनाऽनुपपत्तिरिति उक्ते तस्मिन्सति तस्योपपत्तिर्वक्तव्यः। सा च का? किमुत्पत्तिर्ज्ञप्तिर्वा? यदि ज्ञप्तिः, सा चानुमानेऽपि गम्यं गमकं विना नास्ति तस्मिन्सत्यस्तीति समानः पन्थाः।
उत्पत्तिस्तु गृहाभावाद् बहिर्भावस्य दुर्भणा।
प्राक् सिद्धे हि गृहाभावे तदुत्पादः क्षणान्तरे॥
कारणं पूर्वसिद्धं हि कार्योत्पादाय कल्पते।
तेनैकत्र क्षणे जीवन्न गृहे न बहिर्भवेत्॥
तस्माद्यत्किञ्चिदेतत्।
न्यायमञ्जरी :–
%अर्थापत्तेः स्वरूपान्तरखण्डनम्%
एवञ्च यदेके ज्ञप्त्युत्पत्तिकृतमिह वैलक्षण्यमुत्प्रेक्षितवन्तो धूमेनाग्निर्गम्यत एव, गृहाभावेन बहिर्भावो जन्यतेऽपीति, तदपि प्रत्युक्तं भवति।
यत्तु सम्बन्धग्रहणाभावादित्युक्तम्, तदपि न सुन्यरम्। (मन्दिराशुद्धम द्वारवर्त्तिनस्तदुत्पत्तेः?)।
एतच्च स्वयमाशङ्क्य न तैः प्रतिसमाहितम्।
उदाहरणमन्यत्तु व्यत्ययेन प्रदर्शितम्॥
गृहभावेन बहिरभावकल्पनमिति तत्रैव, तदेव। तदेव वक्तव्यम्। इयमभावपूर्विका न भवत्येवार्थापत्तिः। षडर्थापत्तीः प्रतिज्ञायेमामभावपूर्विकामर्थापत्तिमुत्कोपनैयायिककटाक्षपातभीतामिह गहने हरिणीमिव यदुपेक्ष्य गम्यते तदत्यन्तमत्रभवतामनार्यजनोचितं चेष्टितम्।
त्वदेकशरणां बालमिमामुत्सृज्य गच्छतः।
कथं ते तर्कयिष्यन्ति मुखमन्या अपि स्त्रियः॥
भावेनाभावकल्पना तु प्रत्यक्षपर्विकैवार्थापत्तिः। तस्याऽपि च न दुरवगमः सम्बन्धः। असर्वगतस्य द्रव्यस्य नियतदेशवृत्तेरक्लेशेन तदितरदेशनास्तित्वावधारणात्। अनग्निव्यतिरेकनिश्चये च धूमस्य, भवतां का गतिः? या तत्रवार्त्ता, सैवेहापि नो भविष्यति। न च बूयोदर्शनावगम्यमानान्वयमात्रैकशरणतया।
यस्य वस्त्वन्तराभावो गम्यस्तस्यैव दुष्यति।
मम त्वदृष्टिमात्रेण गमकाः सहचारिणः॥
इति कथयितुमुचितम्। अनिश्चितव्यतिरेकस्य साध्यनिश्चयाभावादिति दर्शयिष्यामः। पक्षधर्मान्वयव्यतिरेकोऽपि नागृहीतोऽनुमानाह्गम्। बहिरभावसिद्धौ चानुमानप्रयोगः स एव यस्त्वया दर्शितः। प्रतिपक्षप्रयोगः प्रत्यक्षादिविरुद्धत्वाद्धेत्वाबास एवेत्य प्रसङ्गेन।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%उदाहरणमन्यत् तु व्यत्ययेन प्रदर्शितमि%ति। तथाह
गृहद्वारि स्थितो यस्तु बहिर्भावं प्रकल्पयेत्।
यदा तस्मिन्नयं देशे न तदान्यत्र विद्यते॥ इति।
वार्त्तिकं भाष्योदाहृतार्थापत्तेः प्रत्यक्षेणापि हि बहिर्भावं प्रतिपद्य गृहाभावेन सह सम्बन्धग्रहणादर्थापत्तिपूर्वकत्वाभावादनुमानेऽन्तर्भावमाह। इमञ्चान्तर्भावमनिराकृत्यैवोदाहरणान्तरं चित्ते विधायाह
“तदाप्यविद्यमानत्वं न सर्वत्र प्रतीयते।
न चैकदेशनास्तित्वात् व्याप्तिर्हेतोर्भविष्यति॥” इति
गृहव्यवस्थितं चैत्रमुपलभ्य तस्मिन्नेव काले तदन्यथानुपपत्त्यैव सर्वत्राभावमुपलभ्य तस्य गृहव्यवस्थितदेवदत्तभावेनाविनाभावग्रहणे तत्रार्थापत्तिपूर्वकत्वमेव सम्बन्धग्रहणस्य। ननु चैत्राधिष्ठितदेशव्यतिरिक्तसमीपदेशे चैत्रस्याभावेनाभावं प्रतिपद्याभावेनाविनाभावग्रहणात् किमुच्यतेऽर्थापत्तिपूर्वकत्वमित्याशङ्क्याह–`चैकदेशनास्तित्वात्’ इति। चैत्राधिष्ठितव्यतिरिक्तानन्तदेशगतो ह्यभावो भावस्य सम्बन्धी, न सन्निकृष्टव्यतिरिक्तदेशगत एव। तस्य च प्रमाणान्तरेणाभावेनाप्यवगमाभावादर्थापत्तिपूर्वकत्वम्। दृश्यस्य ह्यनुपलब्धिरूपेणआभावेनाभावः सिद्ध्यति। न च विप्रकृष्टदेशे दृश्यतास्तीति एकदेशनास्तित्वमात्रात् केवलान्न हेतोरुत्तरकालमभावानुमापकस्य गृहसद्बावस्य व्याप्तिग्रहोऽस्तीत्यर्थः। इत्थमेत%दुम्बेका%दिदृष्ट्या वार्त्तिकव्याख्यानम्, तदनुयायिना ग्रन्थकृतापि तदेवानुसृत्योक्तम्। तत्त्वतस्तु `तदाप्यविद्यमानत्वम्’ इति वार्त्तिकं व्याख्यायमानं प्रकृतोदाहरणसमर्थनेऽपि सङ्गच्छते। तदा ह्ययमर्थः तदापीत्यस्य यदापि द्वारि स्थितस्तदापि दृश्यानुपलम्भादभावो गृहे सिध्यतु, न पुनः सर्वत्र प्रतीयते, दृश्यत्वाभावात्, अतः सर्वत्राभावनिश्चयेऽर्थापत्तेरेव व्यापारः। अयं भावः–गृहे यदा न तदा, बहिरित्येवं व्याप्तौ गृहीतायां गृहेऽदर्शनाद् बहिर्भावः सिद्ध्यति, न चैवमर्थापत्तिं विना व्याप्तिग्रहः सम्भवति, दूरदेशे अभावस्याप्यवगन्तुमशक्यत्वात्; अतोऽर्थापत्त्या एकदेशभावान्यथानुपपत्तिरूपया देशान्तरेऽप्यभावकल्पनेति। ननु भावस्याभावेन सह सम्बन्धग्रहणाद् भावलिङ्गेनैवाभावावगतिरित्याह `न चैकदेशनास्तित्वाद् गृहाभावाद् गृहीतात् कारणात् सर्वाभावैर्हेतोर्लिङ्गस्य व्याप्तिसिद्धिः’। अयमर्थः भावाख्यं लिङ्गमभावावगतौ येन सह गृहीतसम्बन्धं तस्यैव गमकं भवितुमर्हति, गृहाभावेन च तस्य सम्बन्धग्रहो वृत्तोऽतस्तस्यैव गमकं भवतु; न च गृहाबावेन सह व्यप्तिर्गृहीता या सर्वा भावैः सह व्याप्तिः सिद्ध्यति, अतिप्रसङ्गादित्यलमप्रकृताभिधानेन ममत्वदृष्टिमात्रेणेति। अस्य पूर्वमर्धम् `यस्य वस्त्वन्तराभावो गम्यस्तस्यैव दुष्यति’ इति। अस्यार्थः-यस्य वादिनो बौद्धस्य वस्त्वन्तराभावोऽनग्निव्यावृत्तिलक्षणोऽनुमानगम्यस्तस्य तत्तद्देशानवगमरूपो दोषः। यावत् सर्वानग्निव्यावृत्तान् देशान् नावगच्छति तावद् व्यतिरेकग्रहो न सिद्ध्यतीत्येवंरूपः। ननु चाग्न्याद्यभावेऽपि धूमादिव्यतिरेकि (अवाच्यान्यक्षराणि) त्र वाक्यस्यैव तत्प्रतिपत्तिहेतोर्व्यापारः। कार्यं हि तेन प्रतिपाद्यम्। निराकाङ्क्षस्य च तस्य प्रतिपादितं भवति इति तात्पर्यम्।
न्यायमञ्जरी :–
%श्रुतार्थापत्तिखण्डनम्%
श्रुतार्थापत्तिरपि वराकी नानुमानाद्भिद्यते। वचनैकदेशकल्पनाया अनुपपन्नत्वाद् अर्थस्य च कार्यलिङ्गस्य सत्त्वात्। यथा क्षितिधरकन्दराधिकरणं धूममवलोक्य तत्कारणमनलमनुमिनोति भवान्, एवमागमात्पीनत्वाख्यं कार्यमवधार्य तत्कारणमपि भोजनमनुमिनोति। कोऽत्र विशेषः? तत्कार्यतया भूयोदर्शनतः प्रतिपन्नत्वात्। लिङ्गस्य तु क्वचित्प्रत्यक्षेण ग्रहणम्, क्वचिद्वचनतः प्रतिपत्तिरिति, नैष महान्भेदः,।
ननु वचनमपरिपूर्णमिति प्रतीतिमेव यथोचितां जनयितुमसमर्थम्। किं `पीनो देवदत्तो दिवा न भुङ्क्ते’ इत्यतो न भवति तत्पीनताप्रतीतिः? न। न भवति साकाङ्क्षा तु भवति, न च साकाङ्क्षप्रतीतिकारिणस्तस्य प्रामाण्यमिति तदेव तावत्पूरयितुं, युक्तम्। तदसत्-कस्यात्र साकाङ्क्षत्वम्? किं शब्दस्य? किं वा तदर्थस्य, ? उत स्वित्तदवगमस्येति। शब्दस्य तावदर्थनिरपेक्षस्य न काचिदाकाङ्क्षानभिव्यक्तशब्दवत्। अर्थस्तु साकाङ्क्षः सन्नर्थान्तरमुपकल्पयतु, कोऽवसरो वचनकल्पनायाः। अवगमोऽप्यर्विषय एव साकाङ्क्षो भवति, न शब्दविषयः श्रोत्रकरणकः। तस्मादवगमनैराकाङ्क्ष्यसिद्धये तदर्थकल्पनमेव युक्तम्। वचनैकदेशकल्पनमप्यर्थावगतिसिद्ध्यर्थमेवेति तत्कल्पनमेवास्तु किं सोपानान्तरेण।
यत्तु कल्प्यमानस्यावैद्कत्वमर्थस्य प्राप्नोतीति? तत्र वचनकल्पनापक्षे सुतरामवैदिकः सोऽर्थः स्यात्, कल्प्यमानस्य वचनस्य वेदादन्यत्वात्, श्रुतोऽनुमितश्च द्विविधः स वेद एवेति चेत्, श्रौतार्थः श्रौतार्थानुमितो द्विविधः स वेदार्थ एव भविष्यतीति किं वचनसोपानान्तरकल्पनया? तेन श्रूयमाणवेदवचनप्रतिपाद्यार्थसामर्थ्यलभ्यत्वादेव तस्य वेदार्थता भविष्यति। सर्वथा न वचनैकदेशविषया श्रुतार्थापत्तिः श्रेयसी। श्रुत्येकदेशकल्पनापक्षप्रतिक्षेपाच्च तदतीन्द्रियतया सम्बन्धग्रहणमघटमानमिति यदुक्तं तदपि प्रत्यक्तम्। अर्थे तु सामान्येन सम्बन्धग्रहणमपि सूपपादम्। तत्र तत्र यज्यादेरर्थस्याधिकाराद्यर्थान्तरासंबद्धस्य दृष्टत्वादिति।
प्राभाकरास्तु `दृष्टः श्रुतो वेति’ भाष्यं लौकिकमभिधानान्तरमेवेदमुपलब्धिवचनमि’ति वर्णयन्तः श्रुतार्थापत्तिं प्रत्याचक्षते। श्रूयमाणस्यैव शब्दस्य तावत्यर्थे सामर्थ्यमुपगच्छन्तः तमर्थं शाब्दमेव प्रतिजानते वाक्यस्य दूराविदूरव्यवस्थितगुणागुणक्रियाद्यनेककारककलापोपरक्तकार्यात्मकवाक्यार्थप्रतीताविषोरिव दीर्घदीर्घो व्यापारः। अविरतव्यापारे च शब्दे सा प्रतीतिरुदेति। तद्व्यापारविरतौ नोदेति तदुत्पादककारकाभावात्। बृद्धव्यवहारतश्च शब्देषु व्युत्पाद्यमानो लोकस्तथाभूतवाक्यव्यवहारिणो वृद्धान् पश्यन्वाक्यस्य च तादृशवाक्यार्थे सामर्थ्यमवधारयति। तदनुवर्त्तीनि तु पदानि तस्मिन्नैमित्तिके निमित्तानि भवन्ति। नैमित्तिकानुकूल्यपर्यालोचनया क्वचिदश्रूयमाणान्यपि तानि निमित्ततां भजन्ते, विश्वजिदादौ स्वर्गकामादिपदवत् क्वचिच्छ्रूयमाणान्यपि तदननुकूलत्वात्परित्यज्यन्ते, `यस्योभयं हविरार्त्तिमार्च्छेदि’तिवत्,। क्वचिदन्यथा स्थितानि तदनुरोधादन्यथैव स्थाप्यन्ते `प्रयाजशेषेण हर्वीष्यभिघारयती’तिवत्, तस्मात्प्रथमावगतैकघनाकारवाक्यार्थानुसारेण सतामसतां वा पदानां निमित्तभावव्यवस्थापनादश्रूयमाणतथाविधैकदेशादपि वाक्यात्तदर्थावगतिसम्भवात् किं श्रुतार्थापत्त्या? अत एव च न सोपानव्यवहितं तस्थार्थस्य शाब्दत्वम्, साक्षादेव तत्सिद्धेः। न च श्रूयमाणेषु निमित्तेषु कुतस्तदर्थमवगच्छामः, अनवगच्छन्तश्च कीदृशं नैमित्तिकमवकल्पयामः।
उच्यते श्रुतेष्वपि पदेषु तेषां निमित्तबावो न स्वमहिम्नावकल्पते किन्तु नैमित्तिकानुसारद्वारक इत्युक्तम्। एवमश्रुतेष्वपि भविष्यति, न यजौ करणविभक्तिं शृणुमो, न स्वर्गे कर्मविभक्तिं, नाग्निचिदादिषु क्विप्प्रत्ययं, नाधुनादिषु प्रकृत्तिं, न समासतद्धितेषु यथोचितां विभक्तिमपि च प्रतीम एव तदर्थम्। एवं विश्वजिदादावपि यजेतेति नैमित्तिकबलादेव स्वर्गकामादिपदार्थं प्रत्येष्यामः। नियोगगर्भत्वाच्च विनियोगस्य, लिङ्गादीनि श्रुतिकल्पनामन्तरेणापि नियोगव्यापारपरिगृहीते वस्तुनि विनियोजकतां प्रतिपत्स्यन्ते।
नन्वेवं सति सर्वत्र शब्दव्यापारसम्भवात्।
मुख्यस्यापि भवेत्साम्यं गौणलाक्षणिकादिभिः॥
श्रुतिलिङ्गादिमानानां विरोधो यश्च वर्ण्यते।
पूर्वपूर्वबलीयस्त्वं तत्कथं वा भविष्यति॥
उच्यते सत्यपि सर्वत्र शब्दव्यापारे तत्प्रकारभेदोपपत्तेरेष न दोषः. न हि पदानां सर्वात्मना निमित्तभावमपहायैव नैमित्तिकप्रतीतिरुपप्लवते। तदपरित्यागाच्च तत्स्वरूपवैचित्र्यमनुवर्त्तत एव।
अन्यथा सिंहशब्देन मतिः केसरिणीसुते।
अन्यथा देवदत्तादौ प्रतीतिरुपजन्यते॥
गङ्गायां मज्जतीत्यत्र गङ्गाशब्दो निमित्तताम्।
उपयाति यथा नैवं घोषादिवसतौ तथा॥
श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानामप्यर्थसन्निकर्षविप्रकार्षकृतोऽस्त्येव विशेष इति तत्रापि न विनियोगसाम्यम्।
श्रुतिलिङ्गादिभिर्योऽपि कल्पयेद्विनियोजिकाम्।
तस्यापि तस्यास्तुल्यत्वाद् बाध्यबाधकता कथम्॥
अथ तत्कल्पने तेषां विदूरान्तिकवृत्तिता।
स एवार्थगतो न्याय इति तत्कल्पनेन किम्॥
ऐन्द्राग्न्यादिषु वैकृतेषु कर्मसु न प्राकृतविध्यन्तवचनानुमानम्, अपि तु चोदकव्यापारेण तस्यैव प्राप्तिः, वैकृतस्य विधेः काचिदाकाङ्क्षा चोदक इत्युच्यते।
नन्वेवमुभयत्र तदवगमाविशेषादुपदेशातिदेशयोः को विशेषः? न नियोगावगमे कश्चिद्विशेषः, किन्तूपदेशे, यथीपदेशं कार्यमतिदेशे तु यथाकार्यमुपदेश इत्येव तयोर्विशेषः।
ननु यथाकार्यमुपदेशेऽनुपयुज्यमानकृष्णलचर्ववघातादेः प्राप्तिरेव न भवेदिति को बाधार्थः? न अखण्डमण्डलविघ्यन्तकाण्डप्राप्तेः, न ह्यंशांशिकया चोदकः प्रवर्त्तते, इत्यलमनया प्रसक्तानुप्रसक्त्यागतशास्त्रान्तरगर्भकथाविस्तरप्रस्तावनया।
इति प्रसङ्गाद् व्याख्यातं लेशतो वाक्यविन्मतम्।
एतस्य युक्तायुक्तत्वपरिच्छेदे तु केवलम्॥
श्रुतार्थापत्तिरस्माकं दूषणीयतया स्थिता।
तद्दूषणंच पूर्वोक्तवीथ्यानेन पथास्तु वा॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%दूराविदूरे%ति दूरव्यवस्थिता गुणीभूता अङ्गभूता याः क्रियाः, अदूरव्यवस्थिता अगुणबूताश्च प्रधानक्रियाः। दूरव्यवस्थितत्वं भिन्नवाक्योपादानत्वम्। तथाहि `आग्नेयोऽष्टाकपालो भवति’ इत्यादिभिर्वाक्यैः प्रधानक्रिया उपात्ताः, `समिधो यजति’ इत्यादिभिस्तु गुणक्रियाः। एतत्तु `दर्शपूर्णमासाभ्यां यजेत स्वर्गकामः’ इत्यधिकारवाक्यापेक्षयोत्पत्तिवाक्यानाभुक्तम्। क्वचित्तु अदूरव्यवस्थिता एकवाक्योपात्ता गुणागुणक्रियाः। तद्यथा “एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामोह्येतेन यजेत” इति। अथ हि वारवन्तीयकरणं गुणक्रिया अन्यस्योत्पत्तिवाक्यस्याभावात्, यागश्च प्रधानक्रियानेनैवापात्ता। आदिग्रहणाद् द्रव्यदेवतातद्विशेषणादीनामवरोधः। एवमादिनानेकेन कारककलापेनोपरक्तः कार्यान्तराद् व्यवच्छिन्नः कार्यात्मा यो वाक्यार्थः। अथवा गुणक्रिया द्रव्यं प्रति गुणत्वेन स्थिता द्रव्यचिकीर्षकत्वेन व्यवस्थिता या अवघातादयः, याश्चागुणक्रिया नियोगार्थाः समिदादयस्ताः। दूरव्यवस्थिता विकृतिषु प्रकरणान्तरोपात्तत्वेन, अदूरव्यवस्थिताश्चैकप्रकरणत्वेन प्रकृतिषु; अन्यत् समानम्। कारकत्वन्तु क्रियाद्रव्यादीनां साक्षात् पारम्पर्येण च; नियोगसंपत्तेस्तदधीनत्वात्, न पुनर्घटादाविव मृदादीनां प्रवृत्तिविषयत्वेन कारकत्वम्। प्रवृत्तिप्रयोजनं हि नियोगो, न प्रवृत्तिविषय इति प्राभाकराः तत्सिद्धये हि धात्वर्थे प्रवर्तन्ते, न तु तत्रैवेति। %तदनुवर्तीनि तु पदानि तस्मिन्नैमित्तिके निमित्तानि भवन्ती%ति ह्यस्यायमाशयः यदि पदानां वाक्यार्थावधृतौ सामर्थ्यमन्यतोऽवधृतं स्यात् तदा तदनुसारितया वाक्यार्थप्रत्ययोऽपि भवेत्; यदा पुनर्वाक्यार्थस्य कार्यरूपस्य प्रवृत्तिलक्षणेन व्यवहारेणावगमात् तत्रावापोद्वापाभ्यां पदानां निमित्तत्वमवगम्यते तदा यथावगतनिमित्तनैमित्तिकानुसरणादेव। यथा पदानां निमित्तत्वं सङ्गच्छते तथा अवगन्तव्यम्। अत एव वाचकत्वादन्यन्निमित्तत्वम्। वाचकत्वं सम्बन्धग्रहणसापेक्षत्वेन, निमित्तत्वं पुनस्तस्मिन्निरपेक्षत्वेन वाक्यार्थावगमं प्रति। अन्यथा प्रथमश्रुताद् वाक्यादर्थप्रतिपत्तिर्न स्यात्। %नैमित्तिकानुकूल्यपर्यालोचनये%ति। नैमित्तिकं नियोगानुकूल्यम्, अधिकारिणि सति तस्य सम्पत्तिसिद्धेः। %क्वचिच्छ्रूयमाणान्यपी%ति। दर्शपूर्णमासयोः `ऐन्द्रं पञ्चशरावमोदनं निर्वपेत्’ इति। यस्य हविरार्तिमार्च्छेत् हविर्यागायोग्यतां व्रजेदिति। हविरार्तिगमननिमित्ता पञ्चशरावौदनकर्तव्यता प्रतीयते। हविषश्चार्तिङ्गतस्य विधेयपञ्चशरावप्रवणत्वेन प्रतीतस्योभयविशेष्यत्वाश्रयणे तु स्वार्थत्वपरार्थत्वलक्षणं विरुद्धं रूपद्वयं प्रसज्यते। हविश्चेदार्तिमार्च्छेत् तच्चोभयमित्युभयपदेन च विशेष्यत्वे हविषोऽभिधानावृत्तिलक्षणो वाक्यभेदः प्रसज्यते। हविरार्तिमार्च्छेदित्येकवारमुच्चारितं हविरिति तच्चेद्धविरुभयमिति पुनरुच्चारयितव्यंप्रसज्यते। तत उद्देश्यत्वाद् ग्रहाद्येकत्ववद् विशेषणाविवक्षा। तस्माद्धविरार्तिकमननिमित्तैव पञ्चशरावौदनकर्तव्यता। उभयपदन्तु श्रुतमपि न विवक्षितम्। उभयमुभयात्मकं यदेतद्धविः प्रक्रान्तमित्यनुवादमात्रतयैव समन्वयो न विवक्षितत्वेनेति यावत्। यथा यावेतावुभौ चाण्डालौ पश्यसि तौ न स्प्रष्टव्यौ, यदि स्पृशेः तत् स्नायाः इति अत्रैकचाण्डालस्पर्शेऽपि स्नानादुभावित्यस्याविवक्षा। यथा च यद्येतावुभौ व्याधितौ स्यातां तर्दाषधं देयमित्येकस्यापि व्याधितत्वे ओषधदानम्।
%क्वचिदन्यथा स्थितानी%ति। `प्रयाजशेषेण हवींष्यभिघारयेत्’ [?] इत्यत्र शेषवाचोयुक्त्यैव प्रयाजशेषस्य कर्मान्तरं प्रति गुणत्वं न सम्भवति, प्रयाजार्थत्वेन गृहीतस्याज्यस्य यच्छेषं तदपि प्रयाजार्थमेव, अतस्तस्याज्यार्थताकरणस्यासम्भवात् प्रतिपत्तिकर्मतैव न्याय्या। प्रतिपत्तिकर्मत्वे च प्रयाजशेषस्य प्रतिपाद्यमानत्वात् प्रधानत्वेन द्वितीयानिर्देश एव युक्तः। `कृष्णविषाणाणां चात्वाले प्रास्यति’ इति [?] कृष्णविषाणाया इव हविषां चाधारत्वेन सप्तमीति निर्देश एव युक्तश्चात्वाल इतिवत्। तेन प्रयाजशेषं हविंष्वभिधारयेदिति प्रतिपत्तिकर्मत्वेन वाक्यार्थानुगुण्यात् समन्वयो युक्तः। प्रतिपत्तिरेव हि तदा प्रयाजशेषस्याज्यस्य दृष्टार्था। अतः परं हि जुह्वामाज्यभागार्थमाज्यं ग्रहीतव्यम्, तत्परार्थेनाज्येनामिश्चितं कर्तव्यमवश्यं तच्छेषं परित्यक्तव्यम्। परित्याग एव च विशिष्टेन रूपेण प्रतिपत्तिः, यथेश्वरशिरोवृतस्य मालादेर्विशिष्टे प्रदेशे त्यागो न यत्र तत्र। समिदादयः पञ्चाङ्गयागाः प्रयाजाख्याः। %अत एव च न सोपानव्यवहितमि%ति। श्रुतार्थापत्तिरत्र सोपानम्।
%न यजौ करणविभक्तिमि%ति। `स्वर्गकामो यजेत’ इत्येतावत् तावच्छ्रूयते, न तु यागः करणम्, स्वर्गः फलमिति; तथापि वाक्यार्थभूतनियोगसामर्थ्यलभ्यमेतद् उभयो रूपम्। तथाहि स्वर्गकामो यागानुष्ठाने नियुज्यते। स च तत्रान्यदिच्छत्यन्यत् करोतीति न्यायात् कथं प्रवर्तेत? न च यागेऽप्रवृत्तौ नियोगः सम्पत्तिं लभत इति नियोग एव स्वसिद्धये यागस्य करणत्वं स्वर्गस्य च फलत्वं व्यवस्थापयति; सोऽयमाधिकारिक एवानयोः सम्बन्धो न श्रूयमाणविभक्तिकृत इति। %नियोगगर्भत्वाच्च विनियोगस्ये%ति। योऽयं विनियोगः शेषभावः श्रुत्यादिना प्रमाणेनावधातादीनां प्रतिपाद्यतेऽत्यन्तपारार्थ्यलक्षणस्तादर्थ्येनानुष्ठानपर्यन्तः स नियोगगर्भो नियोगपेक्षाकृतः, न पुनः श्रुत्यादीनामेव तथाविधे तस्मिन् सामर्थ्यम्। `सक्तून् जुहोति’ इत्यादौ होमकृतस्य सक्तुसंस्कारस्य नियोगेनानपेक्षितत्वात् सत्यपि द्वितीया श्रुतिर्न होमस्य सक्त्वर्थतामनुष्ठानपर्यन्तां दर्शयति। `गोदोहनेन पशुकामस्य प्रणयेत्’ इति प्रणयनं प्रति श्रुतापि गोदोहनस्य करणता नियोगेन तथानपेक्षणात् फलं प्रति नीयते। `कृष्णलमवहन्ति’ इत्यत्र तुप्रत्युतावघातार्थता कृष्णलस्य नियोगवशादेव। नियोगेन चं स्वसाधनसंस्कारकत्वेनावघातस्यापेक्षणात् यवेष्वश्रुतोऽप्यवघातः क्रियते। अत एव द्वारतादर्थ्ये श्रुत्यादीनां व्यापारमाहुः। नियोगेन स्वसिद्ध्यर्थमाक्षिप्रानामवघातादीनां श्रुत्यादयो द्वारमुपायं प्रदर्शयन्ति, अवघातेन चेन्नियोगस्योपकर्तव्यं तत्तदीयव्रीह्युपकारद्वारेणोपकुर्विति। %नियोगव्यापारपरिगृहीते वस्तुनी%ति। नियोगस्य व्यापार उपादानात्मा, तत्प्रयुक्ताक्षेपापरपर्यायग्राहकव्यापारेण परिगृहीतं सर्वं नियोगार्थत्वेन व्यवस्थापितम्। अयं भावः। अनुष्ठानसिद्ध्यर्थं वा प्रयाजादीनां प्रकरणादिभिः श्रुत्यन्तरकल्पनं तादर्थ्यसिद्धये वा? न तावद् अनुष्ठानसिद्ध्यर्थं नियोगव्यापारपरिग्रहादेव तत्सिद्धेः। अथ तादर्थ्यसिद्धये, तदपि न, विनापि श्रुत्यन्तरकल्पनं श्रुत्यादिभिरर्थानामेव शेषशेषिभावप्रतिपादनस्य कर्तुं शक्यत्वादिति।
%गौणलाक्षणिकादिभिरि%ति। अभिधेयाविनाभूतः पदार्थो यदा कार्ययोगित्वेन विवक्ष्यते तदा अभिधेयाविनाभावाल्लक्षणात आगतो लाक्षणिको, यथा `गह्गायां घोषः प्रतिवसति’ इति घोषप्रतिवसनलक्षणेन कार्येण तट एव लक्ष्यमाण; सम्बध्यते। `सिंहो माणवकः’ इत्यादौ तु सिंहजात्याभिधेयया लक्ष्यमाणो यः शौर्यलक्षणो गुणः, स गुणोऽर्थोवच्छेदकोऽन्यस्य, अत एत्र गुणादवच्छेदकादायातो गौण इत्युच्यते। अत्र हि तेन गुणेन शौर्यंलक्षणेन लक्ष्यमाणेन योऽवच्छिद्यते देवदत्तः स कार्ययोगी, न पुनर्गुणः, लक्षणायान्तु लक्ष्यमाण एव कार्ययोगीति विशेषः। अत एव यस्यासावच्छेदकत्वेन गुणो विवक्ष्यते तस्य विशेष्यस्य देवदत्तादेरवश्यं प्रयोगो गौणे; न तु लक्षणायां तटेन लक्ष्यमाणेनान्यदवच्छिद्यते, अत एव तत्रावच्छेद्यस्याप्रयोगः। यथाह “गौणे हि प्रयोगो न लक्षणायाम्” इति [?]प्रभाकरोपाध्यायः। गौणलाक्षणिकादिभिरित्यादिग्रहणं लक्षितलक्षणाद्यर्थम्। %श्रुतिलिङ्गादिमानानामि%ति श्रुतिलिङ्गयोर्विरोधे यथा `निवेशनः सङ्गमनो वसूनाम्’ इति मन्त्रो लिङ्गादभिधानसामर्थ्यादिन्द्रप्रकाशनसमर्थ इति यावदिन्द्रोपस्थाने विनियुज्यते तावच्छ्रुत्या `ऐन्द्र्या गार्हपत्यनुपतिष्ठते’ इति गार्हपत्ये विनियोगाल्लिङ्गं बाध्यते, क्लृप्तस्यकल्प्यमानापेक्षया बलवत्त्वात्। उपतिष्ठत इति `उपान्मन्त्रकरणे’ इति आत्मनेपदप्रयोगादभिधानं विवक्षितम्, तत्प्रत्येव मन्त्रस्य करणत्वात्। तेनोपतिष्ठेताभिदध्यात् स्तुवीतेत्यर्थः। लिङ्गवाक्ययोर्विरोधे यथा `स्योनं ते सदनं कृणोमि, घृतस्य धारया सुशेवं कल्पयामि, तस्मिन् सीद अमृते प्रतितिष्ठ, व्रीहीणां मेध सुमनस्यमानः’ इति मन्त्रं प्रति संशयः। किं सकलोऽयं मन्त्रः पुरोडाशार्थे बर्हिष उपस्तरणे पुरोडाशासादने च प्रयोक्तव्यः? उत कल्पयाम्यन्तः उपस्तरणे `तस्मिन् सीद’ इत्यादिः पुरोडाशासाधन इति? सर्वेषां पदानामस्मिन् मन्त्रे साकाङ्क्षत्वादेकवाक्यत्वादुभायत्र प्रयोग इति वाक्यसामर्थ्यात् प्राप्तः, लिङ्गस्याभिधानसामर्थ्यस्य बलीयस्त्वात् कल्पयास्यन्तस्योपस्तरणे विनियोगोऽपरस्यासादने। `तस्मिन् सीद’ इत्यादेरप्योकवाक्यत्वाद् यावदुपस्तरणप्रकाशनसामर्त्यं कल्प्यते तावत् क्लृप्तसामर्थ्येन कल्पयाम्यन्तेनोपस्तरणस्य प्रकाशितत्वान्न कल्पनां लभते, एवं `स्योनं ते सदनं कृणोमि’ इत्यादेरप्येकवाक्यताबलाद् यावत् पुरोडाशासादनप्रकाशनसामर्थ्यं कल्प्यते तावत् तस्मिन् सीद’ इति क्लृप्तपुरोडाशासादनप्रकाशनसामर्थ्योपहतत्वान्नैव कल्पनासम्भवः। एकवाक्यतया ह्यभिधानसामर्थ्यं यावत् कल्प्यते तावत् क्लृप्तेन बाधितत्वाद् विप्रकर्षः। वाक्यप्रकरणयोर्विरोधे यथा-`अग्निरिदं हविरजुषतावीवृधत महो ज्यायोऽक्रात, अग्निषीमाविदं हविरजुषेतामवीवृधेतां महो ज्यायोऽक्राताम्, इन्द्राग्नी इदं हविरजुषेतामवीवृधेतां महो ज्यायोऽक्राताम्’ इत्यादि सूक्तवाकनिगदः। तत्र पौर्णमासीदेवता अमावास्यादेवताश्च समाम्नाताः परस्परेणैकवाक्यतां नाभ्युपयन्ति। यत्र लिङ्गसामर्थ्यात् पौर्णमासीप्रयोगादिन्द्राग्नीशब्दः उत्क्रष्टव्योऽमावास्यायां च प्रयोक्तव्यः पौर्णमासीदेवता अमावास्यादेवताश्च समाम्नाताः परस्परेणैकवाक्यतां नाभ्युपयन्ति। तत्र लिङ्गसामर्थ्यात् पौर्णमासीप्रयोगादिन्द्राग्नीशब्दः उत्क्रष्टव्योऽमावास्यायां च प्रयोक्तव्यः पौर्णमास्यामिन्द्राग्न्योर्देवतयोरभावात् कं प्रकाशयत्वेष शब्दस्तत्र प्रयुज्यमान इति। इतिकृत्वा तत उत्कृष्य तत्र तयोर्देतयोरभावादसान्नाय्ययाजिनः सम्भवात् तत्रामावास्यायां प्रयोक्तव्यः। तस्य यः शेषः `अवीवृधेतां महो ज्यायोऽक्राताम्’ इति स किं यावत्कृत्वः समाम्नातस्तावत्कृत्व उभयोः पौर्णमास्यामावास्ययोः प्रयोक्तव्यः प्रकरणस्य बलवत्त्वात्, अथ येनेन्द्राग्नीशब्देन सहैकवाक्यतां प्राप्तो यत्रासौ तत्रैव प्रयोक्तव्यो वाक्यस्य बलीयस्त्वादिति? तत्र प्रकरणवशाद् यावत् सर्वैः सहैकवाक्यता कल्यते तावदिन्द्राग्नीशब्देन क्लृप्तयैकवाक्यतया प्रकरणं बाध्यत इति विप्रकर्षः। क्रमप्रकरणयोर्विरोधे यथा, राजसूयप्रकरणेऽभिषेचनीयस्य क्रमे शौनःशेपाद्युपाख्यानमाम्नातम्, तत्किं प्रकरणवशात् सर्वार्थमाहोस्वित् क्रमाम्नानादभिषेचनीयार्थमिति? तत्र क्रमाम्नातेन यावत् सन्निधानबलोद्भूताकाङ्क्षाकृतैकवाक्यताऽभिषेचनीयेन सहास्य कल्प्यतेऽभिषेचनीयस्य पृथक्प्रयोजकशक्तिबललब्धप्रकरणभावकल्पनया तावत् क्लृप्तयैवाधिकारविधेः प्रकरणशक्त्यैकवाक्यतेति विप्रकर्षः। क्रमसमाख्ययोर्विरोधे यथा पौरोडाशिकमिति समाम्नाते काण्डे सान्नाय्यक्रमे `शुन्धध्वं दैव्याय कर्मणे’ इति शुन्धनार्थो मन्त्रश्चाम्नातः। स किं समाख्यासामर्थ्यात् पुरोडाशपात्राणां शुन्धने विनियोक्तव्योऽथ सान्नाय्यपात्राणां सन्निधिरिति? तत्र यावत् पौरोडाशिकमिति समाख्याबलात् पुरोडाशसन्निधिं धर्माणां कल्पयित्वा पुरोडाशार्थत्वं प्रतिपाद्यते तावत् क्लृप्तसान्नाय्यसन्निधानबलेनैव सान्नाय्यार्थत्वस्य प्राप्तत्वान्न समाख्यया सन्निधिकल्पनाद्वारेण पुरोडाशार्थत्वकल्पनमिति विप्रकर्षः। सान्नाय्ये दधिपयसी।
%अथ तत्कल्पने तेषां विदूरान्तिकवृत्तिते%ति। लिङ्गं हि साक्षादेव श्रुतिं कल्पयति, वाक्यं पुनर्लिङ्गमभिधानसामर्थ्यमकल्पयित्वा न श्रुतिकल्पनायां प्रभवतीति दूरान्तिकवृत्तिता; एतच्च प्राक् स्पष्टीकृतमेव।
%वैकृतस्य विधेः काचिदाकाङ्क्षे%ति। `प्राकृतविधिना दृष्टादृष्टसाधनोपकारवता सम्पन्नम्, अहमपि च विधिः, मयापि च तथाविधसाधनोपकारवता सम्पत्तव्यम्’ इति याकाङ्क्षा सा चोदको धर्माक्षेपकः पदार्थः।
%यथोपदेशं कार्यमि%ति। अस्यार्थः किं धर्मा यथोपदेशं ये यत्सम्बन्धेन श्रुत्यांदिभिः प्रमाणैरुपदिष्टास्ते तैः सम्बन्धमनुभूय पश्चात् कार्येण नियोगेन सम्बध्यन्ते आहोस्विद् यथाकार्यमुपदेशः प्रथमं कार्येण नियोगेन सम्बध्य पश्चाच्छ्रुत्यादिकृतस्तेषां परस्परसम्बन्ध इति। अनेन च किं यजिप्रयुक्ता धर्मा उतापूर्वप्रयुक्ता इति भाष्यकृता यः संशयः सप्तमाद्ये कृतः स व्याख्यातः। तत्र यदि यथोपदेशं कार्यमिति पक्षस्तदा प्रथ तावद् यजिना सर्वे धर्माः सम्बन्ध्यन्ते तत्सम्बन्धविधानार्थं च यजिरुद्देश्यो यजित्वमात्रेण, न तु विशिष्टनियोगसाधनत्वविशिष्टः, परार्थस्य सतः प्राधान्येनोद्देष्टुमशक्यत्वाद् विशिष्टानुवादे वाक्यभेदप्रसङ्गाच्च। तस्माद् यथोद्देशस्य ग्रहादेरेकत्वस्याविवक्षा प्राग्वद् विशेषश्चौद्देश्यत्वादेवोभयपदविशेष्यत्वाभावः। तथाच निर्विशेषणं यजिमात्रमुद्दिश्य प्रयाजादिधर्मविधानम्। तच्च यजिमात्रं प्राकृतवैकृतेषु सर्वयागेषु समानमिति सर्व(सातृकात्र खण्डिता)व्येत्यतिदेशककल्पनया विकृतिषु धर्मप्राप्तिश्चिन्तनीया। अतश्च नारब्धव्य उत्तरः षट्कः। अथ नु….न तदा प्रतिकरणमपूर्वशब्दाभिधेयानां कार्याणां नियोगानां भेदाद् ये धर्मा येन कार्येण..शब्दान्तरादिप्रमाणवशसादितभेदत्वेन भिन्नत्वात्। अतश्च दर्शपूर्णमासकार्यसम्बन्धित्वेन ते व्यः उत्तरः षट्कः अतिदेशतश्च प्राप्तौ। उक्तम् `प्रकृतिवद् विकृतिः कर्तव्या’ इति। तत्र यजौ श्रूयन्ते त्वाच्चापूर्वस्य तेनैव प्रथमं धर्माणां सम्बन्धः स एवात्मानं साधियितुं करणमि….त्यादिकृतः पश्चात् परस्परसम्बन्ध इति किं यथोपदेशं कार्यमथ यथाकार्यमुपदेश इति….शयः. यथाकार्वमुपदेशे हि व्यवस्था धर्माणां तत्र यत्र न विहितास्तत्र कार्योपकाराकाङ्क्षा….इति चोदकस्तं पदार्थमसावाक्षेप्तुमर्हति येन कार्यस्योपकारः कश्चित् कर्तुं शक्यते न च….लकृतेनावघातेन कश्चिदुपकारो जनयितुं शक्यतेप्रकृताविव दृष्टस्य तुषकणविमो ….णाः कृष्णलास्तेषामवघातेन किमिव क्रियेत? अतः प्राप्त्यभावादेव कृष्णलेष्वर्थलोपादक(रणम्?)….भावे कीदृसी बाधना।
%अखण्डमण्डलविघ्यन्तकाण्डप्राप्तेर्न ह्यंशांशिकया चोदकः प्रवर्तः प्रवर्तत% इति। न….[अ]खण्डमण्डलविध्यन्तकाण्डप्राप्तेरिति तत्र ग्रन्थकृता तावदनेनैवाभिप्रायेणातिप्रसङ्गमाशङ्क्य %अलमनये%त्यादिनोपसंहृतम्। इदं त्वत्रोत्तरम्, प्रकृतौ विधिर्दृष्टाष्टोपकारवत्साधनसिद्ध्या सम्पन्नस्तत्रायमपि वैकृतो विधिरुपकारमेवापेक्षते न तु तज्जनकान् पदार्थान्, प्राकृतस्य विधेरुपकारापेक्षित्वदर्शनात्। स च प्राकृत उपकारोऽपेक्षासमये विभागेनापेक्षितुं न शक्यते. उपकारजनका हि विभक्ताः, न तु तैर्जन्यते यो महोपकारः। अतस्तेन महोपकारेणाविभक्तेन कथं विभागेन पदार्था आक्षेप्तुं पार्यन्ते? यथावनशब्दादविभागेन वृक्षाणां प्रतीतौ न धवानर्थिना तत्प्रतीतिसमये धवत्यागः शक्यक्रियः, एवमविभक्तोपकारापेक्षातो धर्माणामाक्षेपे नानुपयुक्तानां परित्यागः शक्यक्रिय इति। इममेव चार्थं हृदि विनिवेश्याह %न ह्यंशांशिकया चोदकः प्रवर्तत% इति।
न्यायमञ्जरी :–
%ध्वनिकारसम्मतध्वनितस्यार्थत्वनिरासः%
एतेन शब्दसामर्थ्यमहिम्ना सोऽपि वारितः।
यमन्यः पण्डितम्मन्यः प्रपेदे कञ्चन ध्वनिम्॥
विधेर्निषेधावगतिर्विधिबुद्धिर्निषेधतः।
यथा
भम धम्मिअ वीसत्थो पान्थ मा मे गृहं विश॥
मानान्तरपरिच्छेद्यवस्तुरूपोपदेशिनाम्।
शब्दानामेव सामर्थ्यं तत्र तत्र तथा तथा॥
अथ वा नेदृशी चर्चा कविभिः सह शोभते।222222
विद्वांसोऽपि विमुह्यन्ति वाक्यार्थगहनेऽध्वनि॥
तदलमनया गोष्ठ्या विद्वज्जनोचितया चिरम्।
परमगहनस्तर्कज्ञानामभूमिरयं नयः।
प्रकृतमधुना तस्माद् ब्रूमो न भात्यनुमानत-
स्तनुरपि सतामर्थापत्तेर्विशेष इति स्थितम्॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%एतेन पण्डितम्मन्य% इति %आनन्दवर्नाचार्यं ध्वनिकारं% परामृशति। स हि यस्मिन् काव्यप्रभेदे वाच्यवाचकौ प्रकरणादेसहायौ वाच्यदशोत्तीर्णस्य प्रतीयमानस्य प्राधान्येन स्थितस्य व्यञ्जकतां प्रतिपद्येते तं काव्यप्रभेदं ध्वनिमाह। यथा च व्याकरणमूलत्वात् सर्वविद्यानां प्रथमैर्विद्वद्भिर्वैयाकरणैः श्रूयमाणेषु वर्णेषु स्फोटाभिव्यञ्जकत्वात् ध्वनिशब्दः प्रयुक्तस्तयामुनापि तादृशे व्यञ्जकत्वसामान्याद् ध्वनिशब्द एव प्रयुक्तः। आह च।
“यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थौ।
व्यङ्क्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः”॥ इति॥
अस्योदाहरणं–%भम धम्मिअ% इत्यादि।
भम धम्मिअ वीसत्थो सो सुणओ अज्ज मारिओ तेण।
गोलाणइकच्छकुडङ्गवासिणा दरिअसीहेण॥
भ्रम धार्मिक विश्रब्धः स शुनकोऽद्य मारितस्तेन।
गोलानदीकच्छलताकुञ्जवासिना दृप्तसिंहेन॥
कच्छः कूलभागः। कुडङ्गं लतागहनम्। अत्र च यद्यपि कदाचिदविनयवत्या चौर्यसुरतक्रीडासु प्रच्छायतया सवंस्वभूतानि गोदावरीकूलवर्तीनि लतागेहानि प्रत्यहं पुष्पावचयार्थमागतेन धार्मिकेण चोर्यमाणसौभाग्यानि रक्षन्त्या वैदग्ध्याद् भयोपन्यासपूर्वं तत्र तस्य भ्रमणपरिहारायैवमुक्तम्, तथाप्यञ्जसा प्रव्रजितस्य शुनो भयमाशङ्कमानस्य सिंहेन तस्य व्यापादनमुपन्यस्य भयनिवृत्तिं कृत्वा भ्रमणं विधीयत इति विधेर्वाच्यता। अथ च विधिरूपवाच्यार्थोत्थापनाङ्गभूतेन दृप्तसिंहकर्तृकश्वव्यापादनलपणेन वाच्येनार्थात्मना वाक्येनैवमर्थाभिधानव्यवधानेन व्यञ्जकेनामुना सम्भूय द्वाभ्यां प्रकरणाभिधातृप्रतिपत्तिविशेषपर्यालोचनसहायाभ्यां `तत्र मा भ्रमीः’ इति निषेधावगतिः क्रियते, विधिनिषेधयोश्च युगपद् वाच्यदशोपारोहासम्भवादेकस्य वाच्यत्वमपरस्य प्रतीयमानत्वम्। अत्र च यद्यपि स्वत एव भ्रमणप्रवृत्तेरप्रवृत्तप्रकर्तनात्मकविध्यर्थाभावान्न मुख्यं विधित्वं तथापि स्वरससिद्धाया अपि भ्रमेः श्वभयान्निवृत्तायस्तन्निवारणेन यः प्रतिप्रसवः स एव विधिशब्देन निर्दिष्टः।
`तरुण्येकाहमेवास्मि सार्धं दृक्छ्रुतिहीनया। श्वश्वा चिरगतो भर्ता’ इत्येवंप्रायश्लोकैकदेशोऽयं %`पान्थ! मा मे गृहं विश’% इति। एतद् %एतेने%त्यादिना निराकुरुते। अयमाशयः। वेदे शब्दनिबन्धनत्वादर्थव्यवस्थायास्तत्र यथाशब्दमर्थव्यवस्थाऽस्तु, लोके पुनर्ज्ञातमर्थं परं प्रतिपादयितुं शब्दान् प्रयुञ्जते ज्ञानञ्च प्रमाणान्तरात्। तत् शब्दप्रतिपादितं वस्तु यदि प्रमाणान्तरेण न विरुध्यते तद्यथावगतमेव ग्राह्यम्, विरोधे तु न, यथा अविरोधो भवति तथा तस्यार्थो व्यवस्थाप्यः। तथाहि यथा “गङ्गायां घोषः” इति लक्षणायां स्रोतोरूपस्यार्थस्याधारत्वानुपलम्भात् प्रमाणान्तरानुगुण्येन तटप्रतिपादन एव पर्यवस्यति शब्दव्यापारः, यथा च गौणे `सिंहो माणवकः’ इत्यादौ द्वयोरपरजात्योर्विरुद्धयोरेकत्र समावेशासम्भवाद् गुणविशेष एव शौर्यलक्षणे प्रतिपादनशक्तिः सिंहशब्दस्य, एवमत्र यद्यपि विधावभिधानशक्तिः पर्यवसिता तथापि तात्पर्यशक्तेरपर्यवसानाद् विधौ च पदार्थानन्वयाद् मा भ्रमीरिति निषेध एव झगिति वाक्यार्थतयावभासते। ततोऽत्र यद्यपि श्वव्यापादनोपन्यासेन भयनिवृत्तिं कृत्वा भ्रमणमेव विधीयते तथापि दृप्तपदविशेषितसिंहपदार्थपर्यालोचनायां सदर्पपञ्चाननबाधिताध्वप्रतिपादनेन सुतरां भयहेतूपन्यासाद् विरुद्धकारणोपलम्भाद् भ्रमणविधिर्न वाक्यार्थतामुपगन्तुमलम्, प्रत्युत तन्निषेधस्यैवोद्भूतनिमित्तत्वमिति तस्यैव वाक्यार्थतोपारोहः। यद्यपि साक्षाल्लोटा प्रतिपाद्यमानो विधिः श्रूयते तथाप्यनन्वयवलाद् भ्रमेत्यनेन विपरीतलक्षणया भ्रमणनिषेध एव प्रतिपाद्यते। दृश्यते च विपरीतलक्षणयापि व्यवहारः। तथाहि चन्द्रदर्शस्वभावाममावास्यां दर्शशब्देन विपरीतलक्षणया प्रतिपादयन्ति। अपि च, अस्ति तावदेवंप्रायाद् वाक्यादित्थम्भूतनैमित्तिकावगतिः, अस्याञ्चावगतौ यथा निमित्तानां निमित्तत्वमवकल्प्यते तथा कल्प्यमिति। एतदेव चेतसि निधाय `एतेन पण्डितम्मन्यः’ इत्यत्र `एतेन’ इति सर्वनाम प्रयुक्तम्। युक्तञ्च प्रतीयमानार्थप्रतिपत्तेः शाब्दत्वमेव, अन्यथेदृशमर्थमवगम्य प्रतिपत्तुः `उत्प्रेक्षितो मयायमर्थो न तु शब्दात् प्रतिपन्नः’ इति प्रतीतिः स्यात्, अस्ति च शाब्दत्वेन प्रतीतिः, अतः शब्द एवायम्। यस्य तु यथाश्रुतग्राहिणो विधिमात्रप्रतीत्यैव संतोषः सोऽनवधारितवाक्यार्थ एव। यदाहुः `गन्तव्यं दृश्यतां सूर्यः’ इत्युक्ते बहिर्निःसृत्य प्रविश्य यो ब्रूयाद् `दृष्टः सूर्यो निर्मलः प्रकीर्णरश्मिः’ इति, न तेन यथोक्तं कृतमित्युच्यते, कालविशेषोपलिप्सानिबन्धनत्वाद् वाक्यस्येति। तथा
काकेब्यो रक्ष्यतां सर्पिरिति बालोऽस्य चोदितः।
उपघातपरे वाक्ये न श्वादिभ्यो न रक्षति॥
एवञ्चैवमादौ सर्वत्र नैमित्तिकावगतिपूर्वकत्वेन निमित्तानां निमित्तत्वव्यवस्थापनान्न निमित्तस्वरूपमात्राश्रयणेन व्यवहारः प्रवर्तनीयः। आह च
स्तुतिनिन्दाप्रधानेषु वाक्येष्वर्थो न तादृशः।
पदानां प्रविभागेन यादृशः परिकल्प्यते॥
तदित्थंस्थिते न्यायस्य समानत्वाद् यथा `रसायनोपयोगादमृतो जायते’ `दध्युपयोगात् पृथिव्यां निमज्जति’ इत्यत्र `दीप्ताग्निर्मन्दाग्निश्च भवति’ इत्ययमर्थस्तात्पर्यशक्त्या वाक्यार्थस्तथा सर्वत्र व्यङ्ग्याभिमतोऽर्थात्मा वाक्यतात्पर्यशक्तिक्रोडीकृतत्वाद् वाक्यार्थ एव। `पान्थ मा मेगृहं विश’ इत्यत्र निषेधं प्रति कारणोपन्यासो यः कृतः स विरुद्धत्वात् विधिमेव पर्यवस्थापयतीति विधिरेव वाक्यार्थ इत्यलमतिप्रसङ्गेन। %तत्र तत्र% लक्षणादौ। %तथा तथा% तेनैव प्रकारेण लक्षणाद्यात्मकव्यापारसमाश्रयेण।
न्यायमञ्जरी :–
%अभावस्य प्रमाणान्तरत्वम्%
आह अभावस्तर्हि प्रमाणान्तरमस्तु।
सत्परिच्छेदकं यत्र न प्रमाणं प्रवर्तते।
तदभावमितौ मानं प्रमाणाभाव उच्यते।
`इह घटो नास्ती’ति घटं प्रति सदुपलम्भकप्रमाणप्रवृत्तिर्नास्तीति, असौ प्रमाणाभावो घटाभावं परिच्छिनत्ति। तत्र च घटविषयज्ञातृव्यापारानुत्पाद एव दृश्यादर्शनशब्दवाच्यः प्रमाणम्, नास्तीति बुद्धिः फलम्।
अथ वा घटाभावग्राही ग्रहीतृव्यापारः सदुपलम्भकप्रमाणाभावजनितो नास्तीति प्रत्ययस्वभावः प्रमाणम्, फलन्तु हानादिज्ञानं भविष्यति तदुक्तम्।
प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते।
सात्मनोऽपरिणामो वा विज्ञानं वान्यवस्तुनि॥ इति।
अन्यवस्तुशब्देन घटाभाव उक्तः। तत्र तावदिदं नासीति ज्ञानं न प्रत्यक्षजनितमिन्द्रियार्थसन्निकर्षाभावात्। सन्निकर्षो हि संयोगसमवायस्वभावः तत्प्रभावभेदो वा। संयुक्तसमवायादिरिह नास्त्येव। संयुक्तविशेषणभावोऽपि न सम्भवति कुम्भाभावस्य भूप्रदेशविशेषणत्वाभावात्। न ह्यसंयुक्तमसमवेतं वा किञ्चिद्विशेषणं भवति, संयुक्तस्य दण्डादेः समवेदस्य शक्लगुणादेस्तथाभावदर्शनाद्। अभावश्च न केनचित्संयुज्यते अद्रव्यभावात्, न क्वचित्समवैति गुणादिवैलक्षण्यादिति। यदि च संयुक्तविशेषणभावसन्निकर्षोपकृतं चक्षुरभावं गृह्णाति तर्हि तदविशेषात्संयुक्तद्रव्यवर्तीन् रसादीनपि गृह्णीयात्, तदभावमपि मा ग्रहीदयोग्यत्वाविशेषात्। योग्यायोग्यत्वकृतग्रहणाग्रहणनियमवादे वा योग्यतैव सन्निकर्षो भवति, किं षट्कघोषणेन? तस्मान्न घटाभावज्ञानं चाक्षुषम्।
ननु भूप्रदेशाञ्च घटाभावञ्च विस्फारिते चक्षुषि निरीक्षामहे। निमीलिते तु तस्मिंस्तयोरन्यतरमपि न पश्यामः। तत्र समाने च तद्भावभावित्वे भूप्रदेशज्ञानं चाक्षुषम्, अभावज्ञानन्तु न चाक्षुषमिति कुतो विशेषमवगच्छामः? बाढम्, अवगच्छामः, सन्निकर्षाभावादेव। न ह्यसन्निकृष्टं चाक्षुरवगतिजन्मने प्रभवति। तद्भावभावितं त्विदमन्यथासिद्धम्, विदूरदेशे व्यवस्थितस्थूलज्वालावलीजटिलज्वलनगतभास्वररूपापलम्भानुवर्त्तितद्गतोष्णस्पर्शज्ञानवत्। तत्र यथा रूपानुमीयमानस्पर्शवेदने नयनान्वयव्यतिरेकान्वयविधानमन्यथासिद्धम्, एवमिहापि भूप्रदेशोपलम्भाविनाभाविनि कुम्भाभावग्रहणे तत्कृतमिन्द्रियान्वयव्यतिरेकान्वयविधानमिति न चाक्षुषो घटाभावप्रतिभासः। तदुक्तम्
गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम्।
मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया॥ इति।
अतश्चैवमसन्निहितस्यापि क्वचिद् ग्रहणदर्शनात्, स्वरूपमात्रकेण गौरमूलकमुपलब्धवतस्ततो देशान्तरं गतस्य तत्र केनचिद् गर्गोऽस्ति वा नास्ति वेति पृष्स्य सतः स्वरूपमात्रं गृहीतं गौरमूलकमनुस्मरतः तदानीमसन्निकृष्टेऽपि गर्गस्याभावे तदैव तस्य ज्ञानमुदेति, तत्रेन्द्रियकथापि नास्ति इति न तस्य प्रत्यक्षत्वम्, चानुमानगम्योऽयमभावः। भूप्रदेशस्य तद्गतघटादर्शनस्य वा लिङ्गत्वानुपपत्ते र्न भूप्रदेशो लिङ्गम्, अगृहीतसम्बन्धस्यापि तत्प्रतीतेः, अनैकान्तिकत्वाद् अपक्षधर्मत्वात्, तदधिकरणभावानन्त्येन सम्बन्धग्रहणासम्भवाच्च। नापि घटादर्शनं लिङ्गम्, अपक्षधर्मत्वाद्, घटादर्शनं घटस्य धर्मो न नदभावस्य। घटाभावप्रतीतिं प्रति व्याप्रियमाणत्वात्तद्धर्मत्वमस्येति चेत् न, इतरेतराश्रयप्रसङ्गात्। तद्धर्मत्वे सति लिङ्गप्रतीतिजनकत्वम्, प्रतीतिजन्मनि सति तद्धर्मताज्ञानमदर्शनस्य दुर्घटमेव। सिद्धायान्तु किं पक्षधर्मताज्ञानेन, साध्यप्रतीतेः सिद्धत्वात्।
अपि चेदमदर्शनाख्यं लिङ्गमविदितव्याप्ति कथमभावस्यानुमापकं भवेत्? व्याप्तिग्रहणञ्च धूमाग्निवदुभयधर्मिग्रहणपूर्वकम्। तत्रव्याप्तिग्रहणवेलायामेव तावत् कुतस्त्यमभावाख्यधर्मिग्रहणमिति चिनत्यम्। ततएवानुमानादिति यद्युच्यते तदितरेतराश्रयम्। अनुमानान्तरनिबन्धने तु तद्ग्रहणेऽनवस्था अदर्शनाख्यलिङ्गमपि दर्शनाभावस्वभावमिति तत्स्वरूपपरिच्छेदचिन्तायामपि अयमेव पन्थाः। अतो दूरमपि गत्वा तदवगमसिद्धये प्रमाणान्तरमभावपरिच्छेदनिपुणमवगन्तव्यमिति, तत एव तदवगमसिद्धेर्न तस्यानुमेयत्वम्। न चेदमिह घटो नास्तीति ज्ञानं शब्दोपमानार्थापत्त्यन्यतमनिमित्तमाशङ्कितुमपि युक्तमिति, सदुपलम्भकप्रमाणातीतत्वादभावस्यैव भूमिरभाव इति युक्तम्,
अपि च प्रमेयमनुरूपेण प्रमाणेन प्रमातुमुचितम्।
भावात्मके प्रमेये हि नाभावस्य प्रमाणता।
अभावेऽपि प्रमेये स्यान्न भावस्य प्रमाणता॥
न प्रमेयमभावख्यं निह्नतं बोधयत्त्वया।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%दृश्यादर्शनशब्दवाच्य% इति। दृश्यस्य दर्शनयोग्यस्य यददर्शनं तच्छब्दाभिलप्यः
%सात्मनोऽपरिणामो वेति।% घटज्ञातृतालक्षणावस्थानाविर्भावोऽत्रापरिणामो विवक्षितः।
%गृहीत्वा वस्तुसद्भावम्।% वस्तुनः शुद्धस्य भूतलस्य सत्ताम्। %स्मृत्वा च प्रति योगिनं% घटम्। निमीलिताक्षस्यापि भावात् सतोऽप्यक्षस्यानपेक्षणम्।
%गौरमूलकमुपलब्धवत% इति। गौरमूलकाख्योग्रन्थकृदभिजनग्रामः। %अनैकान्तिकत्वात्% सत्यपि घटे भूतलस्योपलम्त्भा
%अनुमानान्तरनिबन्धने तु तद्ग्रहणेऽनवस्थे%ति। येनापि हि लिङ्गेन घटाभावं गृहीत्वा तस्य घटाभावस्य घटादर्शनेन सह सम्बन्धो गृह्यते,तेनापि घटाभावेन सह गृहीतसम्बन्धेनैव सता घटाभावः प्रतिपाद्यः, अतस्तस्याप्यनुमानान्तरगृहीतेनाभावेन सह सम्बन्धो ग्राह्यः, तस्याप्यनुमानान्तरगृहीतेनेत्यनवस्था।
न्यायमञ्जरी :–
%अभावस्य प्रमाणान्तरतानिरासः%
अत्राभिधीयते, सत्यम् अभावः प्रमेयमभ्युपगम्यते, प्रत्यक्षाद्यवसीयमानस्वरूपत्वान् न प्रमाणान्तरमात्मपरिच्छित्तये मृगयते।
अदूरमेदिनीदेशवर्त्तिनस्तस्य चक्षुषः।
परिच्छेदः परोक्षस्य क्वचिन्मानान्तरैरपि॥
तथा `चेह घटो नास्ती’ति ज्ञानमेकमेवेदम्, `इहकुण्डे दधी’ति ज्ञानवद् उभयालम्बनमनुपरतनयनव्यापारस्य भवति। तत्र भूप्रदेशमात्र एव नयनजं ज्ञानमितरत्र प्रमाणान्तरजनितमिति कुतस्त्योऽयं विभागः? अत्राग्निरिति युक्तोऽयमनक्षजः प्रतिभासः, धूमग्रहणानन्तरमविनाभावस्मरणादिबुद्ध्यन्तरव्यवधानसम्भवात्। इह तु तथा नास्त्येव, अव्यवहितैव हि भूप्रदेशवद् घटनास्तितावगतिरविच्छेदेनानुभूयते। न च क्षितिधराधिकरणपरोक्षाशुशुक्षणिवदनीक्षणविषयता भवति, भावस्य तद्व्यापारान्वयव्यतिरेकानुविधानात्तत्प्रतीतेः। तत्र हि व्यापृताक्षोऽपि न पर्वतवर्त्तिनमनलमवलोकयितुमुत्सहते। इह तु घटाभावमपरिम्लाननयनव्यापार एव पश्यतीति चा क्षूषमभावज्ञानम्, तद्भावभावित्वविधानात्। न च दूरव्यवस्थितहुतवहरूपदर्शनपूर्वकस्पर्शानुमानवदिदमन्यथासिद्धं तद्भावभावित्वम्। तत्र हि बहुशः स्पर्शदर्शनकौशलशून्यत्वमवधारितं चक्षुषः, स्पर्शपरिच्छेदि च करणान्तरं त्वगिन्द्रियमवगतम्। अविनाभाविता च पुरा तथाविधयो रूपस्पर्शयोरुपलब्धेत्यनुमेय एवासौ स्पर्श इति युक्तं तत्रान्यथासिद्धत्वं चक्षुर्व्यापारस्य। प्रकृते तु नेदृशः प्रकारः समस्ति। न चैकत्र तद्भावभावित्वमन्यथासिद्धमिति सर्वत्र तथा कल्प्यते। एवं हि रूपमपि चाक्षुषतामवजह्यात्।
ननु नीलूपस्यासम्बद्धस्य च चाक्षुषत्वमभावस्य कथमभिधीयते? चक्षुर्जनितज्ञानविषयत्वाच्चाक्षुषत्वम्, न रूपवत्त्वेन, रूपवतामपि परमाणूनामचाक्षुषत्वात्। सम्बद्धमपि न सर्वं चाक्षुषमाकाशस्य तथात्वेऽपि तदभावात्।
नन्वसम्बद्धस्य चक्षुषा ग्रणे दूरव्यवहितस्य विभीषणादेरपि चाक्षुषत्वप्रसङ्गः? उच्यते, भावे खल्वयं नियमो यदसम्बद्धस्य चक्षुषा अग्रहणम्। अभावस्त्वसम्बद्धोऽपि चक्षुषा ग्रहीष्यते। षट्प्रकारसन्निकर्षवर्णनमपि भावाभिप्रायमेव। सम्बद्धं हि यद् गृह्यते तत् षण्णां सन्निकर्षाणामन्यतमेव सन्निकर्षेणेति। प्राप्यकारित्वमपि इन्द्रियाणां वस्त्वभिप्रायमेवोच्यते। तस्मादवस्तुत्वादभावस्य तेन सन्निकर्षमलभमानमपि नयनमुपजनयति तद्विषयमवगममिति न दोषः। न चासम्बद्धत्वाविशेषाद् देशान्तरादिषु सर्वाभावग्रहणमाशङ्कनीयम्, आश्रयग्रहणसापेक्षत्वादभावप्रतीतेः। आश्रयस्य च सन्निहितस्यैव प्रत्यक्षत्वात्। अथवा संयुक्तविशेषणभावाख्सन्निकर्षोपकृतं चक्षुरभावं ग्रहीष्यति, यथा समवायप्रत्यक्षत्ववादिनां पक्षे समवायमिति।
ननु तदिदमसिद्धमसिद्धस्य दृष्टान्तीक्रियते। मैवम्, भवतापि द्रव्यगुणयोर्वृत्तेरपरिहार्यत्वात्। भेदबुद्ध्या सिद्धभेदयोरसम्बद्धयोश्च द्रव्यगुणयोरदर्शनादवश्यं काचिद् वृत्तिरेषितव्येत्यलमर्थान्तरचिन्तनेन।
यत्तूक्तं संयोगसमवाययोरभावादभावो न भूप्रदेशस्य विशेषणमिति, तदप्यसाधु। संयोगसमवायाभ्यामन्यस्यैव विशेषविशेष्यभावनाम्नः सम्बन्धस्यादूर एव प्रतीतिबलेन दर्शयिष्यमाणत्वात्।
यस्तु संयुक्तविशेषणभावे सन्निकर्षे रसादिभिरतिप्रसङ्ग उद्भावितः सोऽयं संयुक्तसमवायाख्ये चक्षूरूपसन्निकर्षेऽपि समानो दोषः। संयुक्तसमवायोऽपि तर्हि मा भूत् सन्निकर्षः? किं नश्छिन्नम्। तत्किमसम्बद्धमेव रूपं गृह्णातु चक्षुः? न हि संयुक्तसमवायादन्यश्चक्षूरूपयोः सम्बन्धः।
नन्वर्थग्रहणात्मको व्यापार एव चक्षुषः सन्निकर्षो योग्यता वा, तद्वशादेव रूपस्यतद्ग्राहकत्वमुपेयते न संयुक्तसमवायादिनेति। स तर्हि व्यापारः, सा वा योग्यता, कथमभावमपि प्रति तस्य न स्यात्? प्राप्यकारीणि चेन्द्रियाणि कारकत्वादिष्यन्ते सन्निकर्षश्च निह्णुयते इति विप्रतिषिद्धम्। तस्मात् षट्प्रकारा सन्निकर्षानुगामिनी योग्यता वक्तव्या, न योग्यतामात्र एव विश्रम्य स्थातव्यम्। यत्र योग्यता तत्र सन्निकर्षोऽप्यस्ति, न तु यत्र सन्निकर्षस्तत्रावश्यं योग्यतेति। एवमभ्युपगच्छतां न रसाद्यतिप्रसङ्गचोदना धुनोति। मनोरसादेः सत्यपि सन्निकर्षे योग्यत्वाभावादग्रहणम्।
योग्यतामात्रवादेऽपि नाभावस्यास्त्ययोग्यता।
भवद्भिर्वस्तुधर्मोऽस्य को वा नाभ्युपगम्यते॥
सर्वोपाख्यावियुक्तत्वान्नास्त्येवेत्येष वोच्यताम्।
अभावश्चाक्षुषज्ञानविषयो वाऽभ्युपेयताम्॥
यदपि स्वरूपमात्रं दृष्टञ्च पश्चात् किञ्चित्स्मरन्नपि।
तत्रान्यनास्तितां पृष्टस्तदैव प्रतिपद्यते॥
इत्युक्तं तदपि न युक्तम्। वस्त्वन्तरविविक्तगौरमूलकस्वरूपग्रहणसमय एव तत्रासन्निहितसकलपदार्थाभावग्रहणस्य मेचकबुद्ध्या सिद्धत्वाद् इदानीं तद्गतगर्गाभावस्मरणं न तस्य परोक्षस्यानुभवः. तथा हि तदानीं गर्गस्तत्र नासीदित्येवमसौ स्मृत्या सत्यवादी स्मरति, इदानीं त्वस्तित्वनास्तित्वे प्रति संशेते एवासौ, गर्गस्य कुतश्चिदागतस्येदानीं तत्रास्तित्वसम्भवात्।
ननु न पूर्वं सर्वाभावग्रहणमनुभूतवानसौ गौरमूलके, अननुभूयमानमपि तदस्य बलात्कल्प्यते, अभ्यस्तविषयेऽविनाभावस्मरणवत्। तथा हि तेन तेनानुयुक्तस्तस्य तस्याभावं स्मृत्वोत्तरमसौ सर्वेभ्य आचष्टे।
ननु मेचकबुद्ध्या सकलाभावग्रहणे सहसैव सकलाभावस्मृतिरुपजायेत? मैवम्, यत्रैव प्रश्नादिस्मरणकारणमस्य भवति तदेव स्मरति न सर्वमविद्यमानस्मरणनिमित्तम्। अन्त्र तु युगपदुपलब्धेष्वपि वर्णेषु युगपदन्त्यवर्णानुभवसमनन्तरं स्मरणम्, अन्यत्र तु युगपदुपलब्धेष्वपि क्रमेण स्मरणं भविष्यतीति न मेचकबुद्धावयं दोषः। किञ्च स्वरूपमात्रं दृष्टमिति वदता भवतापि मेचकज्ञानमभ्युपगतमेव, मात्रग्रहणेन तदन्याभावग्रहणसिद्धेः। एवं हि भवानेवाभ्यधात्
अयमेवेति यो ह्येष भावे भवति निर्णयः।
नैष वस्त्वन्तराभावसंवित्त्यनुगमाद् विना॥
इति। तस्माद् गौरमूलकावेशसमय एव तत्रासन्निहितस्य गर्गादेरभावग्रहणान्नेदानीं परोक्षाभावग्रहणमभावकारणमभ्युपगन्तव्यमिति, प्रत्यक्षगम्य एवायमभावः।
यत्पुनरननुमेयत्वम् `इह घटो नास्ती’ति प्रकृताभावविषयमभ्यधायि तदस्माकमभिमतम्। कश्चित्पुनरसन्निकृष्टदेशवृत्तिरनुमेयोऽपि भवत्यभावः। यथा सन्तमसे सलिलधाराविसरसिक्तसस्यमूलमभिवर्षति देवे घनपवनसंयोगाभावोऽनुमीयते। यथा वार्थापत्तावुदाहृतं गृहभावेन चैत्रस्य बहिरभावकल्पनमिति।
आगमादप्यभावस्य क्वचिद्भवति निश्चयः।
चौरादिनास्तिताज्ञानमध्वगानामिवाप्ततः॥
यत्पुनरुक्तमनुरूपेण प्रमाणेन प्रमेयं प्रमीयते प्रमेयत्वाद्भावात्मकप्रमेयवदिति, एतदप्यप्रयोजकं साधनम्।
अभावः पटलादीनां प्रत्यक्षं प्रतिपद्यते।
विपक्षे वृत्त्यभावश्च लिङ्गस्य सहकारिताम्॥
पुरुषोक्तिषु दोषाणामभावश्चोपयुज्यते।
सामग्र्यन्तर्गतात्तस्मादभावादपि भावधीः॥
अभावशच् क्वचिल्लिङ्गमिष्यते भावसंविदः।
वृष्ट्यभावोऽपि वाय्वभ्रसंयोगस्यानुमापकः॥
तस्माद्युक्तमभावस्य नाभावेनैव वेदनम्।
न नाम यादृशो यक्षो बलिरप्यस्य तादृशः॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%सम्बद्धमपि न सर्वं चाक्षुषमि%ति। चक्षुरश्मीनां मूर्तत्वादवश्यंबाव्याकाशेन संयोगः, सर्वमूर्तद्रव्यसंयोगित्वात् तस्य।
%तदिदमसिद्धमिति।% मीमांसकानां हि समवायोऽसिद्धः, स कथं तेषां दृष्टान्तीभवेत्। तथाहि त आहुः
नचाप्ययुतसिद्धानां सम्बन्धित्वेन कल्पना।
नानिष्पन्नस्य सम्बन्धो निष्पत्तौ युतसिद्धता॥ इत्यादि।
%चक्षूरूपसन्निकर्षेऽपि समानो दोषः॥% रसेनापि सह चक्षुषः संयुक्तसमवायसम्भवात्।
%योग्यता वे%ति। नियतार्थविज्ञानहेतुरतीन्द्रियो नियतविज्ञानात्मककार्यानुमेयो योग्यतात्मकः सम्बन्धः।
%नास्त्येवेत्येष वोच्यताम्।% नास्त्येवैष इति वोच्यतामिति सम्बन्धः।
%मेचकबुद्ध्ये%ति। मयूरग्रीवाया वर्णे यथा व्यक्तितिरस्कृतानेकवर्णसम्भवे मेचकव्यवहार एवं व्यक्तितिरस्कृताखिलाभावग्राहिण्यामपि बुद्धौ मेचकतामात्रग्रहणेन तदन्याभावग्रहणसिद्धिरिति। यदि ह्यन्येऽपि पदार्था दृष्टा- स्युस्तदा कथं स्वरूपमात्रेण दृष्टः स्यात्। न ह्यन्यैः सह दृष्टः स्वरूपमात्रेण दृष्टो भवति।
%नैष वस्त्वन्तराभावसंवित्त्यनुगमाद् विनेति।% यावद् वस्त्वन्तराभावसंवित्तिमसौ नानुगच्छति नापेक्षते तावदसौ न भवतीत्यर्थः।
न्यायमञ्जरी :–
%बौद्धमतेऽभावस्यावस्तुत्वम् ततश्चाप्रमाणत्वम्%
अत्र रक्तपटाः प्राहुः प्रमेये सति चिन्तनम्।
युक्तं नाम प्रमाणस्य तदेव त्वतिदुर्लभम्॥
अभावो नाम प्रतीयमानो न स्वतन्त्रतया घटाभावस्वरूपवदनुभूयतेऽपि तु देशकालप्रतियोगिविशिष्टत्वेन। तथा ह्येवं प्रतीतिरिदमिदानीमिह नास्तीति स चेत्थमवगम्यमानोऽपि यदि तैः सम्बद्ध एव भदेदभावः क एनं द्विष्यात्? न त्वसौ तत्सम्बद्धः। न हि देशे न कालेन प्रतियोगिना सहास्य कश्चित्सम्बन्धः, संयोगसमवायादेरनुपपत्तेः। न च सम्बन्धरहितमेव विशेषणं भवति।
न्यायमञ्जरी :–
%प्रसङ्गात् विशेषणविशेष्यभावसम्बन्धस्वरूपविचारः%
ननु विशेषणविशेष्यभाव एव सम्बन्धः, किं सम्बन्धान्तरापेक्षया? मैवम् सम्बन्धान्तरमूलत्वेन तदवगमात्। संयुक्तं, समवेतं वा विशेषणं भवति दण्डी देवदत्तो नीलमुत्पलमिति। अतश्च न वास्तवः स्वतन्त्र एव विशेषणविशेष्यभावः। सम्बन्धः पुरुषेच्छया विपर्यस्यन्तमप्येनं पश्यामः। विशेषणमपि विशेष्यीभवति विशेष्यमपि विशेषणीभवतीति काल्पनिक एवायं सम्बन्धो न वस्तुधर्मः, प्रतियोगिना सह नतरामभावस्य सम्बन्धोऽसमानकालत्वात्। यदा हि घटो न तदा तदभावः, यदा वा तदभावो न तदा घट इति। विरोधाख्यसम्बन्धो भविष्यतीति चेत्, को विरोधार्थः? यदि हि प्राक्सिद्धो घटाभाव आगत्य घटं विरुन्ध्याद् भवेदपि तद्विरोधो घटमुद्गरयोरिव, न त्वेवमस्ति तयोरसमानकालत्वात्। अभ्युपगमे वा घटतदभावयोरिव वध्यघातकयोः साहचर्यमनुभूयते। घटाभावः किं कुर्वन् घटं विरुन्ध्याद्? अकिञ्चित्करस्य विरोधित्वेऽतिप्रसक्तिः। अभावान्तरकरणेऽनवस्था। मुद्गरादयो घटस्य नाभावहेतवो भवितुमर्हन्ति, भावस्य स्वत एव भङ्गुरत्वेन विनाशहेत्वनपेक्षत्वात्।
भावो विनश्वरात्मासौ कृतं प्रलयहेतुभिः।
अथाप्यनश्वरात्मासौकृतं प्रलयहेतुभिः॥
तस्माद्विजातीयकपालादिसन्ततिजनन एव मुद्गरादिकारकव्यापारः। सामग्र्यन्तरानुप्रवेशे सति सन्तत्यन्तरोत्पादो, न पुनरभावस्य ततो निष्पतिः। सहि घटाद्वस्त्वनत्रं चेत् किमायातम्? यदसौ न पूर्ववदुपलभ्यते, तद्विरोधित्वादिति चेत् प्रत्युक्तमेतत्। अनर्थान्तरत्वे तु घटस्यैव मुद्गरकार्यत्वं स्यात्।
ननु यानि मुद्गरेण कपालानि जन्यन्ते स एव घटाभावः। हन्त तर्हि कपालस्फोटने सति घटाभावस्य विनष्टत्वाद् घटस्योन्मज्जनं प्राप्नोति। किञ्चाकिञ्चित्कराणि कपालानि घटस्याभाव इति यद्युच्यते, पटस्यापि तथोच्येरन्। किञ्च कारकत्वं तेषां पूर्ववत् प्रतिक्षेप्तव्यम्। अपि चायमभावो भवनधर्मा वा स्याद् अभवनधर्मा वा? भवनधर्मत्वे भावोऽसौ भवेद्, घटादिवत्। अभवनधर्मा तु यद्यभावोऽस्ति स नित्य एवासौ तर्हि भवेत्। स चायमेकपदार्थसम्बन्धी वा स्यात् सर्वपदार्थसम्बन्धी वा? तत्रैकभावसम्बन्धित्वे न तस्य नियमकारणमुत्पश्यामः। सर्वभावसम्बन्धित्वे तु सर्वपदार्थप्रतिकूलस्याभाववस्य नित्यत्वान्नित्यः सन्नित्यो वा कश्चिदभावो नामास्ति।
नन्वभावानभ्युपगमे भावानामितरेतरसङ्करादखिलव्यवहारविप्लवः प्राप्नोति, यदाह
क्षीरे दधि भवेदेवं दध्नि क्षीरं घटे पटः।
शशे शृङ्गं पृथिव्यादौ चैतन्यं मूर्त्तिरात्मनि॥ इति।
अभावाभ्युपगमे तु भावानामितरेतराभावादसङ्कीर्णस्वभावत्वाद् अभावकारणकसङ्करपरिहारकथने तु सुतरां विप्लवः।
भावो भावादिवान्यस्मादभावांशादपि ध्रुवम्।
असङ्कीर्णोऽभ्युपेतव्यः स कथं वा भविष्यति॥
अन्योन्यमपि भावानां यद्यसह्कीर्णता स्वतः।
भावैः किमपराद्धं वा परतश्चेत्कुतो नु सा॥
भावेभ्यो यद्युपेयेन भवेदन्योन्यसंश्रयम्।
अभावान्तरजन्या चेदनवस्था दुरुत्तरा॥
अभावस्वभावतायाश्च सर्वान् प्रत्यविशेषात्प्रतिषेधयनिबन्धन एव तद्भेदः। प्रतिषेध्याश्च भावाः परस्परेण भिद्यमानास्तं भिन्दन्तीति। प्रत्युत भावाधीनमभावानामसाङ्कर्यं वक्तुमुचितम्, न तु विपर्ययो युक्तः, तदखिलपदार्थव्यवस्थाविसंष्ठुलीभावभयादपि नाभावाभ्युपगमो युक्तः।
नन्वबावप्रतिक्षेपे नञः किं वाच्यमुच्यताम्।
न वै शब्दानुसारेण वस्तुस्थितिरुपेयते॥
बौद्धाः खलु वयंलोके सर्वत्र ख्यातकीर्त्तयः।
विकल्पमात्रशब्दार्थपरिकल्पनपण्डिताः॥
क्वचिन्नामपदप्राप्तवृत्तिना जन्यते नञा।
निषेधपर्युदस्तात्मविषयोल्लेखिनी मतिः॥
क्वचित्त्वाख्यातसम्बन्धमुपेत्य विदधात्यसौ।
तदुपात्तक्रियारम्भनिवृत्त्युल्लेखमात्रकम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%अभावान्तरकरण एत्वनवस्थे%ति। तदपि ह्यभावान्तरं क्रियमाणं घटविरोधित्वात् किञ्चित्करमभ्युपेतव्यम्, तच्च यद्यभावान्तरं कुर्यात् तदानवस्थेति।
%अथाप्यनश्वरात्मासौ कृतं प्रलयहेतुभिः,% नित्यस्य नाशयितुमशक्यत्वात्।
%मूर्तिरात्मनी%ति। महत्परिमाणादन्यत् परिमाणान्तरम्।
%भावो भावादिवान्यस्मादि%ति। यथा भावोऽन्यस्माद् भावादितरेतराभाववशाद् भिद्यते तथा इतरेतराभावाद्भिद्यतेऽभावो न वा? न भिद्यते चेद् भावाभावसङ्करप्रसह्गः। अथ भिद्यते, स्वतः अभावान्तरवशाद् वा? स्वतश्चेद् भावानामपि स्वत एवास्तु भेदः। अभावान्तरवशाच्चेदनवस्था। असह्कीर्णाभाववशाद् भावानामसह्करस्तद्वशाच्चाभावासङ्कर इत्याशङ्क्याह %भवेदन्योन्यसंश्रयमिति।% अभावान्तरजन्यत्वे च परस्परमन्यासङ्करस्य तस्याप्यभावान्तरजन्या असह्करता चेदनवस्था दुरुत्तरेति तदेवाह %अभावान्तरजन्या चेदनवस्था दुरुत्तरे%ति।
%न वै शब्दानुसारेण वस्तुस्थितिरुपेयते।% शब्दानामर्थासंस्पर्शित्वात्।
न्यायमञ्जरी :–
%एकादशविधानुपलब्धिनिरूपणम्%
ननु चोनेन मार्गेण यदि भावो निरस्यते।
एकादशप्रकारैषानुपलब्धिः क्व गच्छतु॥
स्वभावानुपलब्धिर्यथा नेह घटोऽनुपलब्धेरिति। कारणानुपलब्धिर्यथा नात्र धूमो दहनानुपलब्धेरिति। कार्यानुपलब्धिर्यथा नात्र निरवादा धूमहेतवः सन्ति धूमानुपलब्धेरिति। व्यापकानुपलब्धिर्यथा नात्र शीतस्पर्शः पावकोपलब्धेरिति। स्वभावविरुद्धोपलब्धिर्यथा नात्र सीतस्पर्शः पावकोपलब्धेरिति। स्वभाविरुद्धकार्योपलब्धिर्यथा नात्र शीतस्पर्शो धूमोपलब्धेरिति। विरुद्धव्याप्तोपलब्धिर्यथा नाध्रुवभावी भूतस्यापि भावस्य विनाशो हेत्वन्तरापेक्षणादिति। कार्यविरुद्धोपलब्धिर्यथा नात्र तुहिनस्पर्शः कृशानुदर्शनादिति. कारणविरुद्धोपलब्धिर्यथा नैतस्य रोमहर्षदन्तवीणादिविशेषाः सन्ति सन्निहितहुतवहाधिष्ठितविशेपादिति। कारणविरुद्धकार्योपलब्धिर्यथा प्रवृत्तदन्तवीणादिविशेषपुरुषाधिष्ठित एष देशो भवति धूमवत्त्वादिति।
सत्यमेकादशविधाऽनुपलब्धिरिहेष्यते।
सा त्वसद्व्यवहारस्य हेतुर्नाभावसंविदः॥
नन्वनुपलब्धेः स्वभावहेतावन्तर्भाव उक्तः। स्वभावहेतौ च साध्यसाधनयोरव्यतिरेक इष्यते। असद्व्यवहारश्च ज्ञानाबिधानात्मकत्वात्तत एव पृथगिति कथं तद्विषयतं यायात्? सत्यमेवम्। किन्तु नासद्व्यवहारस्तया साध्यतेऽपि तु तद्योग्यता। योग्यता च न ततोऽर्थान्तरमिति न स्वभावहेतुत्वहानिः।
ननु योग्यता भावात्मिकानुपलब्धिस्त्वभावस्वभावेति, कथमनर्थान्तरत्वम्। नैतदेवम्। नह्युपलब्धिप्रतिषेधात्मिकामभावस्वभावामनुपलब्धिमनुपलब्धिविदो वदन्तु, प्रतिषेधपर्युदस्तवस्त्वन्तरोपलब्धिमेवार्थाभावस्वभावामिति। अत एवेदमपि न चोद्यम्, अनुपलब्धेरभावात्मकत्वादनुपलब्ध्यन्तरपरिच्छेद्यत्वादनवस्थेति। यस्माद्वस्त्वन्तरोपलम्भात्मिकाऽनुपलब्धिः स्वसंवेद्यैवेति।
नन्वनुपलब्धेरसद्व्यवहारसिद्धावदृष्टस्यापि तथात्वं सिध्येद्। न। दृश्यत्वविशेषणोपादानादुपलब्धिलक्षणप्राप्तस्यानुपलब्धेरसद्व्यवहारो, न यस्य कस्यचिदिति। तत्र
घटादेः पूर्वदृष्टस्य दृश्यत्वपरिनिश्चयात्।
असत्त्वव्यवहारो हि सिध्यत्यनुपलब्धितः॥
एकान्तानुपलब्धेषु विहायःकुसुमादिषु।
पिशाचादेस्तु दृश्यत्वयोग्यतानवधारणात्॥
न शक्योऽनुपलम्भेन कर्तुं नास्तित्वनिश्चयः।
तत्रापि त्वपिशाचोऽयं चैत्र इत्येवमादिषु॥
तादात्म्यप्रतिषेधे च दृश्यत्वं नोपयुज्यते।
पिशाचेतररूपो हि चैत्रः प्रत्यक्षगोचरः॥
ताद्रूप्यनिश्चये तस्य किं फलं तद्विशेषणम्।
इत्यसद्व्यवहारस्य सिद्धेरनुपलब्धितः॥
न भाववदभावाख्यं प्रमेयमवकल्पते।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%स्वभावानुपलब्धिरि%ति। घटस्य प्रतिषेध्यस्य दृश्यस्य यः स्वभाव आत्मीयं रूपं तस्यानुपलब्धिः। अत्र च दृस्यस्येति विशेषणं कर्तव्यमन्यथा सन्तमसव्यवस्थितस्य घटादेरनुपलब्धिमात्रेणाभावव्यवहारः स्यात् स्वबावासिद्धेः। %कार्यानुपलब्धिरि% ति। ननु च नावश्यं कारणानि कार्यवन्ति भवन्तीति वह्निश्च स्याद् धूमश्च न भवदिति तन्नेत्याह-%निरपवादे%ति धूमजन्मन्यप्रतिहतसामर्थ्या इत्यर्थः।
तादृशश्च धूमागुपलम्भेनावस्यमभावसिद्धेः। %व्यापकानुपलब्धिरिति%। शिंशपास्वरूप प्रतिबद्धो धर्मो तादृशश्च वृक्षत्वाख्यस्तस्य व्यापकस्तस्यानुपलम्भाच्छिंशपाया अभावः। %स्वभावविरुद्धोपलब्धिरि%ति। प्रतिषेध्यस्य शीतस्पर्शस्य स्वभावेन स्बात्मना यो विरुद्धोऽग्निस्तस्योपलब्धेः शीतस्पर्शाभावः। %स्वबावविरुद्धकार्योपलब्धिरि%ति। निषेध्यस्य शीतस्पर्शस्य स्वभावेनात्मना यो विरुद्धोऽग्निस्तस्य कार्यं धूमस्तदुपलम्भाच्छीतस्पर्शाभावः। %विरुद्धव्याप्तोपलब्धिरि%ति। ध्रुवभावित्वाभावः। ध्रुवभावित्वस्य हेत्वन्तरापेक्षित्वं विरुद्धम्। न हि लाक्षादिद्रव्यान्तरापेक्षो वर्णो ध्रुवो भवतीति। ध्रुवमवश्यं भवतीति ध्रुवभावी भूतस्यापिकृतकस्यापियस्यावश्यं(अत्र टीकाग्रःथो नष्टः)।
%अनुपलब्धेरभावात्मकत्वादि%ति। यता घटाभावोऽबावत्वादनुपलब्ध्या परिच्छिद्यते तथा अनुपलब्धिरप्यभावत्वादेवानुपलब्ध्यन्तरेण परिच्छेद्येति।
%उपलब्धिलक्षणप्राप्तस्ये%ति। उपलब्धेर्लक्षणं जनिका सामग्री, तां प्राप्तो जनकत्वेन तदन्तःप्रविष्ट उपलब्धिलक्षणप्राप्तो दृश्य इत्यर्थः। तत्कालमदृश्यत्वेऽपि एकज्ञानसंसर्गिणो भूतलादेर्दृश्यत्वाद् योग्यतया च दृश्यत्वसमारोपः। यदि दृशय्स्यानुपलब्ध्या अभावनिश्चयः, नादृश्यस्य, तदा नभःकुसुमादेरदृश्यत्वादनुपलब्ध्या अभावनिश्चयो न स्यादित्याशङ्क्याह %एकान्तानुपलब्धेष्वि%ति। तेष्वपि दृश्यत्वयोग्यताया योगाद् युज्यमानत्वादितरकुसुमवदित्यर्थः। %पिशाचादेस्तु दृश्यत्वयोग्यतानवधारणादि%ति। तदनवधारणन्तु स्वभावविप्रकृष्टत्वेन पिशाचादीनाम्। त्रिविधा चादृश्यता भवति स्वबावविप्रकर्षेण यथा पिशाचादीनाम्, देशविप्रकर्षेण यथा मेर्वादीनाम्, कालविप्रकर्षेण यथा रामादीनाम्। अतो नास्तित्वनिश्चयस्तत्र कर्तुमशक्यः, सन्देह एव तत्रेत्यर्थः। यदि तर्हि अदृश्यस्यानुपलब्ध्या अभावनिश्चयो न सिद्ध्यति, तदा `अपिशाचोऽयं चैत्रः’ इत्यस्यामपि प्रतीतावभावनिश्चयो न स्यात्, अदृश्यत्वात् पिशाचस्य, ततश्च पिशाचापिशाचरूपतया चेत्रं प्रति सन्देह एव स्यादित्याशङ्क्याह %त्तरापि त्वपिशाचोऽयमि%ति। अयमाशयः–यत्र पदार्थस्य स्वरूपेणासत्त्वं साध्यते तत्रानुपलब्दिमात्रस्य व्यभिचारात् सविशेषणया तया साध्यम्, अन्यस्य मानान्तरस्य तथाविधासत्त्वसिद्धावव्यापारात्। यत्र तु पररूपेणासत्त्वं साध्यते तत्रयदेव प्रत्यक्षं प्रमाणं परस्य रूपं निश्चिनोति चैत्रादेस्तदेव पिशाचादिरूपतामपि तस्य व्यवच्छिनत्ति। यो हि पदार्थों येन रूपेणोपलभ्यते तदेव तस्य रूपम्, चैत्रश्च स्वेन रूपेणोपलभ्यमानः कथं पिशाचः स्यात्। अतः प्रत्यमहिमत एव तस्यापिशाचरूपत्वसिद्धेः किं दृश्यत्वविशेषणापेक्षया। यत्र तु संयोगित्वेन विवक्षा `चैत्राधिष्ठिते प्रदेशे पिशाचो नास्ति’ इत्यादौ तत्र संदेह एव युक्तः, परमाण्वादिवददृश्यपदार्थसम्बन्धेऽपि प्रदेशप्रतिपत्तेरविशेषदर्शनात्, न त्विह तथा। यो ह्यतदात्मा प्रत्यक्षेणोपलभ्यते कथमसौ तदात्मा स्यात्। यथा नीलवस्तु पीतं न भवतीत्यत्र नानुपलब्धेर्व्यापारः, प्रत्यक्षत एव तत्सिद्धेः। पीतसम्बन्धाभावे तु तस्य निश्चयेऽनुपलब्धेरेव व्यापारः, तथा प्रकृतेऽपीति। %पिशाचेतररूप% इति। पिशाचादितरद्रूपं स्वबावौ यस्य। %किंफलं तद्विशेषणम्।% तदनुपलब्धेर्विशेषणं दृश्यत्वं किंफलं न क्वचिदुपयुज्यत इत्यर्थः।
न्यायमञ्जरी :–
%अभावस्य वस्तुत्वसाधनम्%
अत्राभिधीयते, इदं तावत्सकलप्राणिसाक्षिकं संवेदनद्वयमुपजायमानं दृष्टम्, इह घटोऽस्ति, इह नास्तीति। तत्र विकल्पमात्रसंवेदनमनालम्बनमात्मांशावलम्बनं वेत्यादि यदभिलप्यते, तन्नास्तिताज्ञान इवास्तित्वज्ञानेऽपि समानम् अतो द्वयोरपि प्रामाण्यं भवतु द्वयोरपि वा मा भूत्। यत्त्वस्तीति ज्ञानं प्रमाणमितरदप्रमाणमिति कथ्यते तदिच्छामात्रम्। अस्तीति ज्ञानसमानयोगक्षेमत्वे च नास्तीति ज्ञानस्य विषयश्चिन्तनीयः।
ननु घटविविक्तभूतलोपलम्भभावे घटानुपलम्भ इत्युक्तं तदयुक्तम्। केयं घटविविक्तता? सा भूप्रदेशादभिन्ना, भिन्ना वा। अभेदे भूप्रदेशाविशेषाद् घटसन्निधानेऽपि घटो नास्तीति प्रतिपत्तिर्जायेत। भेदे तु नाम्नि विवादः स्यात्।
भेदाभेदे न चिन्त्या च घटादपि विविक्तता।
अभेदे घट एव स्याद्भेदे चाभाव एव सा॥
तदिह घटो नास्तीति घटविविक्तभूतलालम्बनतायामस्याः स्वसंविद इहेति तावदस्मिन्संविदंसशे देश आलम्बनमित्यविवाद एव। इह घटोऽस्तीति बावप्रतीति समयेऽपि तत्र तदवभासाभ्युपगमात्। घटो नास्तीत्यत्र तु यदवभासते तन्न भूतलमात्रमेव, भावप्रतीतिसमये तदतिरिक्तप्रतिभासस्यावश्यम्भावित्वात्। तदतिरिक्तन्तु प्रतिभासमानं घटविविक्ततेति वा कथ्यताम्, घटाभाव इति वा, नात्र वस्तुनि विशेषः।
ननु घटो नास्तीति विकल्पमातर्मेतत्। न। दर्शनानन्तरप्रवृत्तत्वेन %विधि%विकल्पतुल्यत्वात्।
यथानुभवमुत्पत्तुमर्हन्ति किल कल्पनाः।
प्रतिषेधविकल्पस्तु न विध्यनुभवोचितः॥
ननु नैव सिकल्पानां वयं प्रामाण्यवादिनः।
कामं विधिविकल्पानामपि मा भूत्प्रमाणता॥
प्रामाण्यं दर्शनानाञ्चेत्त्वविकल्पानुसारतः।
इहापि तेषामेवास्ति तद्विकल्पानुसारतः॥
वस्तुप्राप्त्या विधिविकल्पानां प्रामाण्यव्यवहार इति चेद्, इहापि तत्प्राप्त्यैव निषेधविकल्पानामस्तु प्रामाण्यव्यवहारः। किमत्र वस्तु प्राप्यत इति चेत्तत्रापि किं प्राप्यते? नीलमिति चेत्, सेयमभावस्यापि प्राप्तिर्भवत्येव। नीलं हि प्राप्यमाणं तदभावाविनाभूतपीतादिव्यवच्छिन्नरूपं प्राप्यते। सा चेयं तथाभूतनीलप्राप्तिर्भवन्तीतराभावप्राप्तिरपि भवत्यन्यथा हि नीलप्राप्तिरेव न स्यादिति। एतच्च लाक्षणिकं विरोधमाचक्षाणैर्भवद्भिरेवोपगतम्।
सुखदुःखसमुत्पत्तिरभावे शत्रुमित्रयोः।
कण्टकाभावमालक्ष्य पदं पति निधीयते॥
प्रागुत्पत्तेर्घटाभावं बुद्ध्वा तत्कारणादरः।
व्याध्यभावपरिच्छेदाद्भैषज्यविनिवर्त्तनम्॥
इहाभावप्रतिष्ठानव्यवहारपरम्पराम्।
पश्यन्नभावं को नाम निहणुवीत सचेतनः॥
ननु नाजनकमालम्बनं भवति, ज्ञानस्याभावस्तु सकलोपाख्याविनिर्मुक्तस्वरूप इति न ज्ञानजननपटुः। अतः कथं तदालम्बनम्? उच्ते सौगतानां तावन्न किञ्चिज्जनकं वस्तु प्रतिभासते, द्वित्रिक्षणावस्थितिप्रसङ्गेन क्षणबङ्गव्रतविलोपप्रसह्गात्। उत्पद्यते चार्थज्ञानञ्च जनयति, जातेन तेन गृह्यते चेत्यासां क्रियाणामेककालत्वाभावात्। तस्मादकारक एव भावः प्रतिभासते, आकारार्पणपक्षञ्च प्रतिक्षेप्स्यामः। एवं भाववदभावोऽप्यजनकः प्रतिभासताम्। अस्माभिस्तु भाववदभावोऽपि ज्ञानजननसमर्थ इष्यते। न हि निःशेषसामर्थ्यरहितत्वमभावलक्षणम्। अपितु नास्तीति ज्ञानगम्यत्वम्। सत्प्रत्ययगम्यो हि भाव इष्यते, असत्प्रत्ययगम्यस्त्वभाव इति। तदिदमुक्तं `सदसती तत्त्वम्’ इति।
ननु भाववदेष ज्ञानजनकः सन्नभावो न भावाद्विशिष्यते। अहो निपुणदर्शी देवानाम्प्रियः। प्रतीतिभेदश्चास्ति। तत्र प्रतीयमानौ बावाभावौ न भिद्येते इति कथमेवं भवेद्? अपि रे मूढं! ज्ञानजनकत्वाविशेषेऽपि रूपरसौ कथं भिद्येते, प्रतीतिभेदादिति चेद्? भावाभावावपि जनकत्वधर्मसामान्येऽपि प्रतीतिभेदादेव भिद्येयाताम्। न हि प्रतिभास्यभेदमन्तरेण प्रतिभासभेदो भवतीति भवताप्यभ्युपगतम्।
प्रामाण्यं वस्तुविषयं द्वयोरर्थभिदां जगौ।
प्तिभासस्य भिन्नत्वादेकस्मिंस्तदयोगतः॥ इति
तस्मादस्तीति प्रतीतेरेव भावः। नास्तीति प्रतीतेरभावो भूमिरित्यभ्युपगम्यतामअ। अथ वा विज्ञानवाद एव सुस्पष्टमास्तीयताम्। अन्तरावस्थानन्तु न साम्प्रतम्। अर्थक्रियासामर्थ्यमपि तस्य दर्शितमेव।
स्वज्ञानाख्यक्रियाशक्तिरमुष्य दुरपह्नवा।
अर्थक्रियान्यजन्या तु न भावेनापि जन्यते॥
एवञ्च सति यः पूर्वं शक्तिवादोऽत्र वर्णितः।
स प्रत्यक्षविरुद्धत्वात् कण्ठशोषाय केवलम्॥
तथा सम्बन्धाबावादिति यदुक्तं तत्र देशेन सह तावदभावस्य विशेषणविशेष्यभावः सम्बन्धः। स तु सम्बन्धान्तरमूल इति भावेऽयं नियमो, नाभावे। न च भावेऽप्येष नियमो। न ह्येवं भवति यत्सम्बद्धं तद्विशेषणमेव। पादपीडिते, शिरसि वा धार्यमाणे दण्डे, दण्डीति प्रत्ययानुत्पादात्। नाप्येवं यद्विशेषणं तत्सम्बद्धमेवेति, समवायस्य सत्यपि विशेषणत्वे सम्बन्धान्तराभावात्। तस्मात्सम्बन्धान्तररहितोऽपि प्रतिबन्ध इव, वाच्यवाचकभाव इव, विशेषणविशेष्यभावः स्वतन्त्र एव सम्बन्धस्तथाप्रतीतेरवधार्यते। उभयोरुभयात्मकत्वात् कदाचित् कंस्यचित्तथा प्रतिभासात् पुरुषेच्छानुवर्त्तनेन व्यत्ययप्रत्ययत्वेऽपि न दोषः। यस्माद्विशेषणविशेष्यभाव एव सम्बन्धो देशे भूतलादिना सहाभावस्य सम्बन्धः। एवं कालेनापि सह स एव वेदितव्यः। क्रियया कर्तृस्थया वा गमनादिकया कर्मस्थया वा भेदनादिकया सह संयोगाद्यभावेऽपि विशेषणविशेष्यभाव एव सम्बन्धः। तद्वदभावस्यापि भविष्यतीति। प्रतियोगिना तु सह विरोधोऽस्य सम्बन्धः। अयमेव च विरोधार्थो यदेकत्रोभयोरसमावेशः। अतश्चैकविनाशे न सर्वविनाशो, घटाभावस्य घटैकप्रतियोगित्वात्।
यत्तु भवनधर्मा अभवनधर्मा वेति विकल्पितम्, तत्राभवनधर्मैवाभावोऽभ्युपगम्यते। भवनधर्मत्वेऽपि चाभावो न भावान्न भिद्यते, प्रतिभासभेदस्य रूपरसादिषूपदर्शित्वात्। भवनधर्मत्वञ्चास्य हेत्वन्वयव्यतिरेकित्वाद्भवति। घटो हि मृत्पिण्डदण्डदीनिव जन्मनि, विनाशेऽपि मुद्गरादीननुवर्त्तते हेतून्। विजातीयसन्ततिजननपक्षेऽपि सदृशसन्तानजनिकायाः शक्तेरभावः क्रियत एव, अन्यथा मुद्गराद्युपनिपातेऽपि विजातीयेव सजातीयसन्ततिरभिजायेत। सजातीयविजातीयोभयसन्ततिजननशक्तियुक्तो घट इति चेद्? मुद्गरादियोगात् पूर्वमपि कपालसन्ततिजननम्, तद्योगेऽपि वा सति घटसन्ततिजननम्, अनियमेन दृश्येतेति विजातीयक्षणोत्पादनस्वभावे च घटे मुद्गरादेर्वैयर्थ्यमेव स्यात्।
तदुत्पादस्वबावे हि न किञ्चिन्मुद्गरादिना।
अतदुत्पादकत्वेऽपि न किञ्चिन्मुद्गरादिना॥
मुद्गरोपनिपाताच्च यद्युत्पन्नं क्षणान्तरम्।
घटक्षणस्य किं वृत्तं येन नाभाति पूर्ववत्॥
नन्वस्याभवनं वृत्तं स एवार्थोऽयमुच्यते।
घञा किमपराद्धं वा किं वाप्युपकृतं ल्युटा॥
ननूक्तं `न तस्य किञ्चिद्भवति न भवत्येव केवलमि’ति। तदयुक्तम्। यदसौ न भवति स एवास्याभावः।
ननु स न, न तु तस्याभावः। मैवम्। `स नेति’शब्दयोर्ज्ञानयोश्च विषयभेदात्। स इति ज्ञानस्य स्मर्यमाणो घटादिर्विषयः। `ने’ति तु ज्ञानस्याभावो भूमिरित्यलमलीकविदग्धविरचितविफलवक्रवचनविमर्देन।
तस्मादित्थमभावस्य प्रमेयत्वोपपादनात्।
न ह्यसद्यवहाराय कल्पन्तेऽनुपलब्धयः॥
न स्वभावानुमाने च तदन्तर्भावसम्भवः।
मेयं पृथगबावाख्यममूषामुपपादितम्॥
कारणानुपलब्ध्यादेर्बाढमस्त्वनुमानता।
स्वावानुपलब्धिस्तु प्रत्यक्षमिति साधितम्॥
या चेयमेकादशानुपलब्धिवधूशुद्धान्तमध्ये विरुद्धव्याप्तोपलब्धिरुदाऽहृता नाध्रुवभावी भूतस्यापि भावस्य विनाशो हेत्वन्तरनपेक्षणादिति, सेयमिदानी मेव साध्वी दूषिता। विस्तरतस्तु क्षणभङ्गभङ्गे दूषयिष्यते।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%अनालम्बनम्%। असदाकारनिष्ठत्वाद् यथाह धर्मोत्तरः। %आत्मालम्बनम्%। स्वाकारालम्बनं यथाह धर्मकीर्तिः।
%भेदाभेदे न चिन्त्या चे%ति। यथा प्रदेशाद् घटविविक्तता किं भिन्ना आहोस्विद् अभिन्ना तद्वद् घटादपि सा किं भिन्ना विविक्तता आहोस्विद् अभिन्नेति।
%कामं विधिविकल्पानामपि मा भूत् प्रमाणते%ति। दर्शनानां प्रामाण्यदायिनो विकल्पा न स्वतः प्रमाणमिति बौद्धाभिप्रायः। तत्राप्याह नैयायिकः %प्रामाण्यं दर्शनानां चेदि%ति।
%लाक्षणिकं विरोधमिति।% लक्ष्यते व्यावृत्तत्वेन वस्तु वस्त्वन्तराद् येन तल्लक्षणमसाधारणं पदार्थानां स्वरूपम्, तत्प्रयोजनं यस्यासौ लाक्षणिकः परस्परपरिहारस्थिततालक्षणो विरोधः। तद्वशाद्धि पदार्थानां परस्परासंकीर्णस्वरूपलाभः।
%`सदसती तत्त्वम्’% इति सच्चासच्चेत्यविपरीतरूपेण गृह्यमाणं तत्त्वमित्यर्थः।
%प्रामाण्यं वस्तुविषयमि%ति। द्वयोरपि प्रत्यक्षानुमानयोर्वस्तुप्राप्तिपर्यन्तप्रमाणव्यापारत्वाद् वस्तुविषयत्वम्। ग्राह्यभेदस्तर्हि कथमुक्तमष् आचार्यदिग्नागेनेत्याह %अर्थभिदां% ग्राह्यभेदं %जगौ% कथितवानाचार्यो दिङ्नागः। कथम्? %प्रतिभासस्य भिन्नत्वादि%ति। प्रतिभासत इति प्रतिभास आकारस्तस्यार्थक्रियाकारित्वेनार्थक्रियाकारित्वाभावेन च प्रत्यक्षग्राह्यस्यानुमानग्राह्यस्य च स्फुटास्फुटत्वे भिन्नत्वात्। %एकस्मिन्% पुनर्ग्राह्ये %तयोः% स्फुटास्फुटयोराकारयो%रयोगात्% असम्भवादिति। यद्यपि वस्तुनिष्ठत्वभुभयोस्तथापि ग्राह्याकारभेदाद् विषयभेदः; एकस्य हि स्वलक्षणं ग्राह्यमपरस्य सामान्यम्।
%प्रतिबन्ध इवे%ति। प्रतिबन्धो गम्यस्य गमकायत्तता। %क्रियया कर्तृस्थये%ति। `देवदत्तेन गम्योऽयं ग्रामः’ इत्यादौ। `कुशूलभेत्ताऽयं चैत्रः’ इत्यादौ तु %कर्मस्थया।%
%यैस्तुमीमांसकैः सद्भिरि%ति। प्राभाकरान् निर्दिशति। ते हि ज्ञानञ्च सालम्बनमिच्छन्ति, शब्दञ्च बाह्यार्थविषयम्। अथ च नास्तीति प्रत्ययं शब्दञ्च निर्विषयमाहुः।
%घटो हि न प्रतीयत% इति। घटस्यादर्शनमात्रमेव तत् केवलम्, न पुनर्घटाभावस्यात्र प्रतिभास इत्यर्थः। अदर्शनादेव चास्तित्वासिद्धिः। यैव चास्तित्वासिद्धिः सैव नास्तित्वसिद्धिः। कः पुनरस्य बौद्धपक्षाद् प्राभाकरस्य पक्षस्य विशेषः? अयं विशेषः बौद्धपक्षेऽनुपलब्ध्या अभावव्यवहारः साध्यः, स च सविकल्पकज्ञानस्वभावः, विकल्पप्रतिभासि न च बाह्यमिति तेषां मतम्। प्राभाकराणान्तु विकल्पस्य बाह्यवस्तुविषयत्वात् तथाविधे व्यवहारेऽनुपलब्ध्याभ्युपगम्यमाने बलाद् अभावालम्बनत्वमायातीति तेषां व्यवहारो भूतलघटयोर्वैविक्त्यस्थापनामयः, पुरुषेच्छाकृतः, केवलभूतलदर्शने घटस्मरणे च सति पश्चाद् `भूतलमेव प्रत्यक्षेण गृहीतं न घटः’ इत्येवंरूपो यो भवति, स एव विवक्षितः, न ज्ञानस्वभाव इति। %दर्शनादर्शने एवे%ति। `घटो हि न प्रतीयते, न तु तदभावः प्रतीयते’ इत्येवं वदद्भिरेवमभ्युपगतं भवति `घटानुपलम्भव्यतिरेकेणान्यद् घटस्यासत्त्वं नास्ति, स एवासत्त्वम्’ इति।
%खपुष्पस्य पिशाचस्ये%ति। खपुष्पस्य दृश्यत्वाद् अनुपलब्ध्या अभावनिश्चयः, पिशाचस्य मृदन्तरितवारिणश्च दृश्यत्वाभावान्नास्त्यभावनिश्चय इति व्यवस्था। सा अनुपलब्धिमात्रान्नास्तिताव्यवहारिणां भवतां मते विघटते। मृदन्तरितवारिणः सर्वदानुपलम्भाभावात् कथमविशेष इत्याह–%सर्वदानुपलम्भोऽपी%ति। एतदुक्तं भवति किल भवतैवमुच्यते सर्वदा यो नोपलभ्यते तस्याप्रतीतिमात्रेण नास्तित्वनिश्चयो भवति, मृदन्तरितवारिणश्च कदाचिदुपलम्भेन सर्वदानुपलम्भासिद्धेः। तस्याप्रतीतिमात्रान्नास्तित्वनिश्चयः कथं सिध्येदित्यतः सर्वदानुपलम्भस्तस्य नास्तीति तस्य न नास्तितानिश्चयः’ इति तदयुक्तम्, अनेन क्रमेण पिशाचस्यापि नास्तितानिश्चयप्रसक्तेरिति। भवत्विति चेत्, तन्नेत्याह %आगमाद् युक्तितश्चापी%ति। आगमादवगतो नियतशरीरावच्छिन्नो यः पिशाचस्तेनावश्यमदृश्येन नियते क्वचिद् देशे भाव्यम्। अयमपि च विवादास्पदं देशो नियतदेश एव, अत्रापि पक्षे तस्यावस्थितिः सम्भाव्यत इति सम्भावनायुक्तिः।
%अनुपलब्धे पुनरनुपलब्धिरेवे%ति एवमस्याष्टीकाया अवतरणम्, सतोऽपि घटादेरनुपलब्धिदर्शनात् कथमीश्वरादेरनुपलब्धिमात्रान्नास्तितानिश्चयः, अतः सन्देह एव युक्तः। न च `इह घटो नास्ति’ इतिवदुपलब्धिलक्षणप्राप्तत्वं तस्य, येन नास्तितानिश्चयः स्यात्, तस्मान्नारिततासन्देह एव तस्य प्राप्त इत्याशङ्क्याह `उपलब्धिविषये ह्यनुपलब्धिः कारणान्तरमपेक्षते, अनुपलब्धे पुनरनुपलब्धिरेवानुपलब्धिः’ इति। अस्यार्थः। सतोऽपि घटस्यानुपलब्धिदर्शनादुपलब्धघटादिविषयानुपलब्धिर्नास्तितानिश्चये कारणान्तरमुपलब्धिलक्षणप्राप्तत्वमपेक्षते, अनुपलब्धे पुनरीश्वरादौ यानुपलब्धिः सैवानुपलब्धिः, सैव नास्तिताव्यवहारसाधनी, न तत्र दृश्यत्वादेः कारणान्तरस्यापेक्षोपयुज्यत इति यावत्। ननु यदि सर्वदानुपलम्भादपि न नास्तितानिश्चयः पिशाचादेस्तर्हि खपुष्पादेरपि न प्राप्नोतीत्याशङ्क्याह %अपुष्पादेस्त्वि%ति। नानुपलब्धिमात्रं केवलं तत्र व्याप्रियत इत्यर्थः।
%उपेक्षितश्च भाष्यार्थ% इति। `अबावोऽपि प्रमाणाभावो नास्तीत्यस्यासन्निकृष्टस्यार्थस्य’ इति बाषय्स्याभावात्मकप्रमाणप्रमेयप्रतिपादकत्वात्।
न्यायमञ्जरी :–
%वस्तुत्वेन सिद्धस्याभावस्य भेदाः%
स च द्विविधः। प्रागभावः, प्रध्वंसाभावश्चेति। चतुर्विध इत्यन्ये। इतरेतराभावः, अत्यन्ताभावश्च तौ च द्वाविति। षट्प्रकार इत्यन्ये। अपेक्षाभावः सामर्थ्याभावः, ते च चत्वार इति। तत्र च
प्रागात्मलाभान्नास्तित्वं प्रागभावोऽभिधीयते।
उत्पन्नस्यात्महानन्तु प्रध्वंस इति कथ्यते॥
न प्रागभावादन्ये तु भिद्यन्ते परमार्थतः।
स हि वस्त्वन्तरोपाधिरन्योन्याभाव उच्यते॥
स एवावधिशून्यत्वादत्यन्ताभावतां गतः।
अपेक्षाभावता तस्य देशोपाधिनिबन्धना॥
सामर्थ्यं पूर्वसिद्धञ्चेत् प्रध्वंसे तदभावधीः।
नो चेत्तर्हि विशेषोऽस्य दुर्लभः प्रागभावतः॥
उत्पन्नस्य विनाशो वा तदनुत्पाद एव वा।
अभावस्तत्त्वतोऽन्ये तु भेदास्त्वौ पाधिका मताः॥
तस्मादभावाख्यमिदं प्रमेयं तस्योन्द्रियेण ग्रहणञ्च सिद्धम्।
अतः प्रमाणेषु जगाद युक्तं चतुष्टवमेतन्मुनिरक्षपादः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%स हि वस्त्वन्तरोपाधिरि%ति। यदा स्वकारण एवानुत्पत्तिस्तदा प्रागभावः, यदा तु स्वकारणादन्यत्रानुत्पत्तिस्तदेतरेतराभावः, `इह देशे काले वा इदं नास्ति’ इत्यपेक्षाभावः। स्वकारणाद्धि वस्त्वन्तरमुपादधिरवच्छेदकमितरस्माद् यस्य।
न्यायमञ्जरी :–
%सम्भवैतिह्ययोः प्रमाणान्तरत्वखण्डनम्%
ननु नाद्यापि चतुष्ट्वमेवमवतिष्ठते सम्भवैतिह्य इति द्वयोः प्रमाणान्तरभावात्। सम्भवो नाम समुदायेन समुदायिनोऽवगमः। सम्भवति खार्यां द्रोणः, सम्भवति सहस्रे शतमिति। अनिर्दिष्टप्रवक्तृकं प्रवादपरम्परा चैतिह्यम्। इह वटे यक्षः प्रतिवसतीति। न चायमागमः, आप्तस्योपदेष्टुरनिश्चयादिति। तदनुपपन्नम्।
भिन्नः सम्भव एष न ह्यनुमितेराख्यायि खार्यां खलु
द्रोणः सम्बवतीति सेयमविनाभावान्मतिर्लैह्गिकी।
एतिह्यन्तु न सत्यमत्र हि वटे यक्षोऽस्ति वा नेति वा
को जनाति कदा च केन कलितं यक्षस्य कीदृग्वपुः॥
सत्यम्। अपि चागमात्पृथङ्नैतिह्यमुपदेशरूपत्वात्। आप्तग्रहणं सूत्रे न लक्षणायेति वक्ष्यामः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%आख्यायि `खार्यां खलु द्रोणः सम्भवति’% इति %आख्यायि% आख्यातं केनचित्। अत आगमात् सम्बन्धग्रहणमत्र।
%आप्तग्रहणं सूत्र% इति। तत्रह्युपदेश इत्युक्ते लक्षणमविनिश्चितं स्यात्। न ह्युपदेशमात्रस्याव्यभिचारादिविशिष्टप्रमाजनकत्वं सम्भवीति कथं तस्यैवंरूपता निश्चीयेतेत्यविनिश्चितत्वमायातं लक्षणस्य, आप्तग्रहणन्तु तद्विनिश्चयाय कृतम्, अस्त्याप्तसम्बध्युपदेश एवंरूप इत्येवमर्थम्, %न लक्षणायेति। चार्वाकधूर्तस्त्विति। उद्भटः।% स हि %लोकायतमूत्रेषु% विवृत्तिं कुर्वन् `अथातस्तत्त्वं व्याख्यास्यामः’ `पृथिव्यापस्तेजोवायुरिति’ सूत्रद्वयं यथाश्रुतार्थत्यागेनान्यथा वर्णयामास। प्रथमसूत्रे तत्त्वपदेन प्रमाणप्रमेयसङ्ख्यालक्षणनियमाशक्यकरणीयतामाह, द्वितीयसूत्रमपि प्रमेयानियमप्रतिपादकं तेन व्याख्यातम्। तत्र हि `पुथिव्यापस्तेजोवायुरिति’ य `इति’शब्दः स एवंप्रायप्रमेयान्तरोपलक्षणत्वेन तस्याभिमतः।
न्यायमञ्जरी :–
%प्रमाणसंख्याविषये चार्वाकमतसमालोचनम्%
चार्वाकधूर्त्तस्तु `अथातस्तत्त्वं व्याख्यास्यामः’ इति प्रतिज्ञाय प्रमाणप्रमेयसंख्यालक्षणनियमाशक्यकरणीयत्वमेव तत्त्वं व्याख्यातवान्। प्रमाणसंख्यानियमाशक्यकरणीयत्वसिद्धये च प्रमितिभेदान् प्रत्यक्षादिप्रमाणानुपजन्यान् ईदृशानुपादर्शयन्।
वक्राङ्गुलिः प्रविरलाङ्गुलिरेष पाणि-
रित्यस्ति धीस्तमसि मीलितचक्षुषो वा।
नेयं त्वगिन्द्रियकृता न हि तत्करस्थं
तत्रैव हि प्रमितिमिन्द्रियमादधाति॥
दूरात्करोति निशि दीपशिखा च दृष्टा
पर्यन्तदेशविसृतासु मतिं प्रभासु।
धत्ते धियं पवनकम्पितपुण्डरीक-
षण्डोऽनुवातभुवि दूरगतेऽपि गन्धे॥
स एवंप्रायसंवित्तिसमुत्प्रेक्षणपण्जितः।
रूपं तपस्वी जानाति न प्रत्यक्षानुमानयोः॥
प्रत्यक्षाद् विरलकराङ्गुलिप्रतीति-
र्व्यापित्वादकुशलमिन्द्रियं न तस्याम्।
आनाभेस्तुहिनजलं जनैः पिबद्भि-
स्तत्स्पर्शः शिशिरतरोऽनुभूयतेऽन्तः॥
संयोगबुद्धिश्च यथा तदुत्था
तथैव तज्जा तदभावबुद्धिः।
क्रियाविशेषग्रहणाच्च तस्मा-
दाकुञ्चितत्वावगमोऽङ्गुलीनाम्॥
पद्मामोदविदूरदीपकविभाबुद्धिः पुनर्लैङ्गिकी
व्याप्तिज्ञानकृतेति का खलु मतिर्मानान्तरापेक्षिणी।
संख्याया नियमः प्रमाणविषये नास्तीत्यतो नास्तिकै-
स्तत्सामर्थ्यविवेकशून्यमतिभिर्मिथ्यैव विस्फूर्जितम्॥
इयत्त्वमविलक्षणं नियतमस्ति मानेषु नः
प्रमेयमपि लक्षणादिनियमान्वितं वक्ष्यते।
अशक्यकरणीयतां कथयतान्तु तत्त्वं सतां
समक्षममुनात्मनो जडमतित्वमुक्तं भवेत्॥
इति श्रीजयन्तभट्टकाकृतायां न्यायमञ्जर्यां प्रथममाह्निकम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%न हि तत्करस्थं तत्रैवे%ति। न हि चक्षुः स्वगोलक एव प्रतीतिं जनयेदित्यभिप्रायः। %व्यापित्वादकुशलमिन्द्रियमि%ति। अस्यार्थः न हि त्वग्गतमेवेन्द्रियं तत्रैव त्वचि प्रतितीमादधाति इति ब्रूमो येन चक्षुषि तथा अदर्शनादयुक्ततोच्येत, किन्त्वन्तर्गतं व्यापि यदिन्द्रियं तद् बहिस्त्वग्गतस्य वक्राङ्गुलित्वादेः क्रियाविशेषावगमं जनयद् ग्राहकम्। नन्वन्तर्गतस्य त्वगिन्द्रियस्य ग्राहकत्वं क्व दृष्टमित्याह %आनाभेस्तुहिनजलमि%ति। ननु द्रव्यान्तरेण संयोगोऽङ्गुलीनामन्तस्त्वगिन्द्रियेण गृह्यतां नाम अन्तःप्रविष्टेनेवोदकेन, विरलाङ्गुलित्वन्तु संयोगाभावः कथं गृह्येतेत्याह %संयोगबुद्धिश्चे%ति। यथा संयुक्ता अङ्गुल्य इमा इति चाक्षुषी बुद्धिरवं विरला अङ्गुल्य इति, चक्षुष एव तत्रापि व्यापाराविशेषात्। एवं सन्तमसे यथा अङ्गुलिसंयोगग्राहि त्वगिन्द्रियं तथा तत्संयोगाभावरूपविरलताग्राह्यपि तदेव भविष्यतीत्यर्थः। आकुञ्चितत्वस्य तर्हि वक्रत्वापरपर्यायस्य कथं तेन ग्रहणमिति। तत्राप्याह %क्रियाविशेषग्रहणादि%ति। तस्मात् त्वगिन्द्रियादेव क्रियाविशेषस्याङ्गुलिगतस्याकुञ्चनाख्यस्य कर्मविशेषस्य विशेषणभूतस्यावगमः। आकुञ्चिता अङ्गुल्य इति विशेष्यज्ञानं यत् तत् तज्जमेव। यथा चक्षुषा चैत्रगतं चलनमुपलभ्य चलत्ययं चैत्र इति विशेष्यज्ञानं चाक्षषमेवमिदमपीति सिद्धम्।
भट्टश्रीशङ्करात्मजश्रीचक्रधरकृते
न्यायमञ्जरीग्रन्थिभङ्गे प्रथममाह्निकम्॥
द्वितीयमाह्निकम्
न्यायमञ्जरी :–
%तत्र प्रत्यक्षलक्षणम्%
एवं प्रमाणानां सामान्यलक्षणे विभागे च निर्णीते सति अधुना विशेषलक्षणवर्णनावसर इति सकलप्रमाणमूलभूतत्वेन पूर्वपठितत्वेन च ज्येष्ठत्वात् प्रथमं प्रत्यक्षस्य लक्षणं प्रतिपादयितुमाह
%इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् ॥ 4 ॥%
प्रत्यक्षमिति लक्ष्यनिर्देशः। इतरल्लक्षणम्। समानासमानजातीयव्यवच्छेदो लक्षणार्थः। समानजातीयं प्रमाणतया अनुमानादि, विजातीयं प्रमेयादि, ततो व्यवच्छिन्नं प्रत्यक्षस्य लक्षणमनेन सूत्रेणोपपाद्यते।
न्यायमञ्जरी :–
%प्रत्यक्षलक्षणे सूत्रितार्थविषये पूर्वपक्षः%
अत्र चोदयन्ति इन्द्रियार्थसन्निकर्षोत्पन्नत्वादिविशेषणैः स्वरूपं वा विशिष्यते, सामग्री वा, फलं वा। तत्र स्वरूपविशेषणपक्षे यद् एवंस्वरूपं ज्ञानं तत्प्रत्यक्षमिति तत्स्वरूपस्य विशेषितत्वात् फलविशेषणानुपादानाच्च लक्षणमव्याप्त्यतिव्याप्तिभ्यामुपहतं स्यात्। अव्याप्तिस्तावद् अतथाविधस्वरूपस्य, बोधस्येन्द्रियादेश्च निर्मलफलजनकतया लब्धप्रमाणभावस्यापि प्रामाण्यं नोक्तं भवेत्। अतिव्याप्तिश्च तथाविधस्वरूपस्यापि ज्ञानस्याकारस्य वा, संस्कारकारिणो वा, स्मृतिं जनयतो वा, संशयमादधानस्य वा, विपर्ययमुत्पादयतो वा प्रमाणत्वं प्राप्नोति, फलस्याविशेषितत्वात्। तद्विशेषणाभिधाने पुनरश्रुतसूत्रान्तराध्याहारप्रसक्तिः। अव्याप्तिश्च तदवस्थैवेति न स्वरूपविशेषणपक्षः। नापि सामग्रीविशेषणपक्षः। तत्र हीन्द्रियार्थसन्निकर्षोत्पन्नमिति इन्द्रियार्थसन्निकर्षोपपन्नं सामग्र्यमिति व्याख्यातव्यम्। अव्यपदेश्यमव्यभिचारि व्यवसायात्मकं ज्ञानमिति च तज्जनकत्वादुपचारेण तथा साकल्यं वर्णनीयमिति क्लिष्टकल्पना। फलविशेषणपक्षोऽपि न सङ्गच्छते। ज्ञानप्रत्यक्षयोः फलकरणवाचिनोः सामानाधिकरण्यप्रसङ्गात्। प्रमाणलक्षणप्रस्तावात् प्रत्यक्षं फलमिति कथमैकाधिकरण्यम्। तस्मात् पक्षत्रयस्याप्ययुक्तियुक्तत्वात् पक्षान्तरस्याप्यसम्भवादयुक्तं सूत्रमिति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
घोरे जगज्जलनिधौ भवतो ययामी
मज्जन्ति न स्मृतिपथप्रतिपन्नयापि।
सा काप्यचिन्त्यचरितस्य विचित्ररूपा
शक्तिर्जयत्युडुपखण्डभृतो भवस्य॥
प्रज्ञोन्मेषपटु प्रपञ्चय वचो बौद्ध, त्वमप्युद्भटा-
श्चार्वाक स्वविकल्पजालजटिलाः स्वैरं गिरः स्फारय।
रे मीमांसक साङ्ख्य जैन भवतां यत् सम्मतं ब्रूहि तत्
स्वातन्त्र्यान्मम रोचते न हि त्र्यक्षादृतेऽन्यः प्रभुः॥
ॐ नमः शिवाय। %अतथाविधस्वरूपस्ये%ति। संशयविपर्ययात्मकस्येत्यर्थः।
%अव्याप्तिश्च तदवस्तैवे%ति। संशयादेस्तथाविधफलजनकत्वेऽप्यप्रामाण्यप्रसक्तेः।
न्यायमञ्जरी :–
%तत्र सिद्धान्तपक्षः%
अत्रोच्यते। स्वरूपसामग्रीविशेषणपक्षौ तावद्यथोक्तदोषोपहतत्वान्नाभ्युपगम्येते। फलविशेषणपक्षमेव संमन्यामहे। तत्र च यद् वैयधिकरण्यं चोदितम् तद्यतः शब्दाध्याहारेण परिहरिष्यामः। यत एवं यद्विशेषणविशिष्टं ज्ञानाख्यं फलं भवति तत्प्रत्यक्षमिति सूत्रार्थः। इत्थञ्च न क्वचिदव्याप्तिरतिव्याप्तिर्वा। न काचित् क्लिष्टकल्पना। यतःशब्दाध्याहारमात्रेण निरवद्यलक्षणोपवर्मनसमर्थसूत्रपदसङ्गतिसम्भवात्।
न्यायमञ्जरीः–
%करणं फलं वा प्रत्यक्षपदार्थः?%
ननु समानाधिकरण एव ज्ञानप्रत्यक्षपदे कथं न व्याख्यायेते? किं यतःशब्दाध्याहारेण? उक्तमत्र करणस्य प्रमाणत्वाज्ज्ञानस्य च तत्फलत्वात् फलकरणयोश्च स्वरूपभेदस्य सिद्धत्वात्। तदत्र
प्रमाणतायां सामग्र्यास्तज्ज्ञानं फलमिष्यते।
तस्य प्रमाणभावे तु फलहानादिबुद्धयः॥
न्यायमञ्जरी :–
%अलोचनज्ञानस्य हानादिफलकत्वे शङ्का%
ननु स्मृत्याद्यनेकबुद्धिव्यवधानसम्भवात् कथमिन्द्रियार्थसन्निकर्षोत्पन्नमालोचनाज्ञानं हानादिफलं भवेत्? तथा हि कपित्थादिजातीयमर्थमिन्द्रियादिसन्निकर्षादिसामग्रीत उपलभ्य तद्गतं सुखसाधनत्वमनुस्मरति `एवञ्जातीयकेन मम पूर्वं सुखमुपजनितमभूदिति’ ततः स्मृत्यन्तरं परामर्शज्ञानमस्योपजायते `अयञ्च कपित्थजातीय’ इति, परामर्शानन्तरं सुखसाधनत्वनिश्चयो भवति तस्मादेष सुखसाधनमिति, तत उपादेयज्ञानमुत्पद्यते, यत एष सुखसाधनं कपित्थादिजातीयः पदार्थस्तस्मादुपादेय इति। अत्रान्तरे प्रथमस्येन्द्रियार्थसन्निकर्षजन्मनः कपित्थालोचनज्ञानस्य नामापि नाशिष्यत इति कथमस्य तत्फलत्वमिति।
न्यायमञ्जरी :–
%तत्र न्यायवार्त्तिकटीकाकर्तू रुचिकारप्रभृतीनां मतम्%
अत्राचार्यास्तावदाचक्षते `साधु चोदितम्’। सत्यम्, ईदृश एवायं ज्ञानानां क्रमः। न वयं प्रथमालोचनज्ञानस्य उपादानादिषु प्रमाणतां ब्रूमः। तथा हि प्रथममिन्द्रियार्थसन्निकर्षोत्पन्नमालोचनज्ञानमिन्द्रियार्थसन्निकर्षादिसामग्रीस्वभावस्य प्रत्यक्षस्य प्रमाणस्य फलमेव, न तु स्वयं प्रमाणतां प्रतिलभते, स्मृतिजनकत्वात्। तदनन्तरं हि सुखसाधनत्वस्मृतिर्भवतीति, सेयमनुस्मृतिरप्रमाणफलमपि सती प्रत्यक्षप्रमाणं सम्पद्यते। तथा `अयं कपित्थादिजातीय’ इतीन्द्रियविशेषपरामर्शोत्पत्तौ इन्द्रियार्थसन्निकर्षेण सह व्याप्रियमाणत्वात् स पुनः परामर्शप्रत्ययः प्रत्यक्षजनितो धूमज्ञानवदनुमानं प्रमाणमुच्यते, परोक्षस्याग्नेरिव सुखसाधने सामर्थ्यस्य ततोऽवगतेः। यद्यपि न काचिदतीन्द्रिया शक्तिरस्मन्मते विद्यते, तथापि स्वरूपसहकार्यादिदृष्टकारणसमूहसन्निधानस्वभावमपि सामर्थ्यमतीन्द्रियमेव। तस्मादेष कपित्थादिजातीयोऽर्थः सुखसाधनमिति वह्निमत्पर्वतप्रतीतिवत्तज्जातीयलिङ्गकमानुमानिकमिदं ज्ञानम्। तदिदमनुमानफलमपि सुखसाधनत्वनिश्चयात्मकंज्ञानमिन्द्रियविषये कपित्थादावृपादेयज्ञानमिन्द्रियार्थसन्निकर्षेण सह जनयत्प्रत्यक्षं प्रमाणं भवति। तदेव च हृदिव्यवस्थाप्य भाष्यकृद् बभाषे `यदा ज्ञानं वृत्तिस्तदा हानोपादानोपेक्षाबुद्धयः प्रमितिरिति’।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%अत्राचार्यास्तावदि%ति। वक्ष्यमाणत्याख्यातृमतापेक्षया तावच्छब्दप्रयोगः। इह च सर्वत्राचार्यशब्देन उद्द्योतकरविवृतिकृतो रुचिकारप्रभृतयो विवक्षिताः, व्याख्यातृशब्देन च भाष्यविवरणकृतः प्रवरप्रभृतय इति। %यदा ज्ञनं वृत्तिरि%ति। भाष्यकृता हि “अक्षस्याक्षस्य प्रतिविषयं या वृत्तिः सा प्रत्यक्षम्” इत्यभिधाय “वृत्तिस्तु सन्निकर्षो ज्ञानं वा” इत्युक्तम्, “यदा ज्ञानं वृत्तिः” इत्याद्यभिहितम्। इन्द्रियस्य हि विषयं प्रति वृत्तित्तिर्व्यापारः,कदाचित् तेन सन्निकर्षोऽथवा तद्विषयज्ञानजननमिति।
न्यायमञ्जरी :–
%तत्रैव वात्स्यायनभाष्यविवरणकाराणां प्रवरप्रभृतीनां मतम्%
व्याख्यातारस्तु ब्रुवते,नायमीदृशो ज्ञानानां क्रमः। आद्यम्, आलोचनाज्ञानंसुखसाधनत्वानुस्मृतिमुपजनयतीति सत्यम्। स्मृत्या च तस्य विनश्यत्ता। विनश्यदवस्थञ्चेन्द्रियविषये कपित्थादौ सुखसाधनत्वनिश्चयमादधाति। सुखसाधनत्वज्ञानमेव चोपादेयज्ञानमुच्यते नान्यत्, परामर्शस्तु न कश्चिदन्तराले इति किमसंवेद्यमानक्षनकन्थाकल्पनेनेति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%स्मृत्या च तस्य विनश्यत्ता।% स्मृतेर्ज्ञानरूपत्वाज्ज्ञानस्य च ज्ञानान्तरविरोधित्वात्
न्यायमञ्जरी :–
%हानादिफलके प्रत्यक्षे चक्षुःसन्निकृष्टे उपादेयतास्मरणात्मकपरामर्शस्याप्रत्याख्येयत्वम्%
ननु परामर्शज्ञानमनुभूयत एव, न तु कल्प्यते। धूमज्ञानानन्तरमविनाभावं यत्र धूमस्तत्राग्निरित्यनुस्मृत्य परामृशति तथा चायं धूम इति। असति तु परामर्शे न लिङ्गज्ञानं लिङ्गिनि प्रमाणतां प्रतिपद्येत। स्मरणजनकं हि तत्। न च स्मृतिजनकं प्रमाणमिष्यते। स्मरणानन्रञ्च लिङ्गप्रतीतिर्भवन्ती नोपलभ्यानुवादेन भवेद् अयमग्निमानिति। अपि च तथा च कृतकः शब्द इति यदुपनयवचनमवयवेषु पठ्यते तस्य किं, वाच्यं भविष्यति परामर्शापलापवादिनाम्? स्वप्रतिपत्तिवच्च परप्रतिपत्तिरवयवैर्जन्यत इति वक्ष्यामः। तस्मादप्रत्याख्येयः परामर्श इति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%उपलभ्यानुवादेने%ति। स्मरणानन्तरं परामर्शानभ्युपगमे धूमज्ञान्तरविरोधित्वात् स धूमोऽग्निमानित्युपलब्धधूमानुवादेन प्रतीतिः स्यात् नत्वयं धूमोऽग्निसानित्युपलभ्य मानधूमानुवादेनेत्यर्थः। यदा धूम एवाग्निमत्तया साध्यते तदैवम्, यदा तु पर्वतस्तदापि स धूमवान् प्रदेशोऽग्निमानिति स्यान्न त्वयमिति।
न्यायमञ्जरी :–
%तत्र सिद्धान्तः%
अत्र वदन्ति न तावदन्तरा कश्चित्परामर्शोऽनुभूयते।
अनुमेयमितेः पूर्वमूर्ध्वञ्च निगमे स्मृतेः॥
अत एवार्थमालोक्यविनैव हिदवीयसा।
बिलम्बेन व्यवस्न्ति ग्रहणादिषु लौकिकाः॥
लिङ्गज्ञानञ्च विनश्यदवस्थमनुमेयप्रतीतौ व्याप्रियमाणं प्रमाणतां प्रतिपत्स्यते। तत्कृतैवोपलभ्यानुवादेन लिङ्गिबुद्धिर्भविष्यति। तस्मात् कपित्थादिपदार्थदर्शनस्य परामर्शसोपानमनारोहत एवोपादेयत्रानफलता वक्तुं युक्तेति।
अपि च अनुमेयविषये वह्न्यादौ सुखसाधनत्वानुस्मृतिकृतमुपादेयताज्ञानं तव न समस्त्येव। ततश्च तत्रापि `तथा चायं ज्वलनजातीय’ इति परामर्शो भवताऽभ्युपेय एव। स च किंकरणक इति निरूपणीयम्। न तावदिन्द्रियद्वारकः, पावकस्य परोक्षत्वात्, शब्दोपमाने त्वाशङ्कितुमपि तत्र न युक्ते। धूमाख्याल्लिङ्गादेव स उत्पद्यत इति चेन्न। लिङ्गस्य परामर्शाविषयीकृतस्यानुमेयमितिजनननैपुणानभ्युपगमात्। धूमावमर्शस्य च तदानीमतिक्रान्तत्वात्। तथा हि प्रथमं लिङ्गज्ञानम्, ततो व्याप्तिस्मरणम्, ततो धूमपरामर्शः, ततो बह्निज्ञानम्, तेन धूमपरामर्शस्य विनश्यत्ता, ततोऽग्नौ सुखसाधनत्वानुस्मरणम्, तदा च धूमपरामर्शस्य विनाशएवेति। तस्मिन् विनष्टे न केवलो धूमस्तदानीमनलपरामर्शं जनयितुमुत्सहते।
अग्नौ सुखसाधनत्वानुस्मरणानन्तरं पुनर्धूमज्ञानमिन्द्रियादुत्पद्यत इति चेन् मैवम् अननुभवात्। भवतु वा धूमज्ञानं तथापि धूमज्ञानानन्तरं पुनर्व्याप्तिस्मृतिः, पुनर्धूमपरामर्शश्चावश्यं भवेद् इत्यत्रान्तरे हुतभुजि सुखसाधनत्वानुस्मृतिरतिक्रान्तेति तत्सहायपरामर्शज्ञानजन्यसुखसाधनत्वनिश्चयोत्पादो न स्यात्। सुखसाधनत्वानुस्मरणेन हि विनश्यदवस्थेन जन्यमानः प्रत्यक्षविषयेऽसौदृष्ट इति।
अथ मन्यसे, न तदानीं पुनर्धूमज्ञानव्याप्तिस्मरणतत्परामर्शोत्पादादिज्ञानशृङ्खलाभ्युपेयते, किं तु प्राक्तन एव धूमपरामर्शः कृशानौ सुखसाधनत्वानुस्मरिष्यते, तेन स्मृतिविषयवर्त्तिना सता `तथा चायमग्निजातीय’ इति ज्वलनपरामर्शो जनयिष्यत इति, एतदप्ययुक्तम्। अग्निज्ञानानन्तरं युगपत् स्मरणद्वयोदयप्रसङ्गात् तदैव सुखसाधनतानुस्मृतिः तदैव धूमपरामर्शस्मृतिरिति। न हि क्रमोत्पादे कञ्चित् कारणमस्ति, ज्ञानयौगपद्यञ्च शास्त्रे प्रतिषिद्धम्। भवतु वा क्रमोत्पादः, तदापि स्मरणद्वयसमनन्तरमुपजायमानः पावकपरामर्शो नोपलभ्यानुवादेन जायते। क्रमपक्षेऽपि च वह्निज्ञानानन्तरं तद्गतसुखसाधनत्वानुस्मरणमेव पूर्वं भवेत्, ततो धूमपरामर्शस्मरणम्, तेन तस्य विनश्यत्ता, ततोऽग्नौ तज्जातीयत्वपरामर्शः, तेन सुखसाधनत्वस्मृतेर्विनाश एवेति पुनरपि सा विनष्टा सती सुखसाधनत्वानुस्मृतेर्निश्चयजन्मनि न व्याप्रियेतेति। न च धूमलिङ्गानुमितवह्निज्ञानानन्तरं धूमस्मरणमुचितम्, अनलमुपलभ्य हि तद्गतसुखसाधनत्वमनुस्मरति लोको न धूममिति।
तेनानुमानविषये परामर्शोऽतिदुर्घटः।
प्रत्यक्षविषयेऽप्येवं किमनेन शिखण्डिना॥
यत्पुनरुपनयवचनमभिधेयरहितमप्रयोज्यं प्रसज्यत इति परिचोदितम्, तदवयवप्रसङ्ग एव निरूपयिष्यामः। तस्मादन्तरावर्त्तिनः परामर्शज्ञानस्याभावादाद्यमालोचनाज्ञानमेव हेयादिज्ञानफलं यथोक्तरीत्या भविष्यतीति।
ननु च प्रत्यक्षफमिह मीमांस्यं वर्त्तते। स चायं सुखसाधनत्वनिश्चयः तज्जातीयत्वाल्लिङ्गादुद्गम्यमान आनुमानिक इति न प्रत्यक्षफलतामवलम्बते। सत्यमेतत्, किन्तु सम्बन्धग्रहणसमये सुखसाधनत्वनिश्चयः प्रत्यक्षजनितोऽपि समस्ति ततोऽनुमानं प्रवर्त्तते, महानसादौ धूमाग्निदर्शनवत्। अतः सम्बन्धग्रहणकालभाविनं सुखसाधनत्वनिश्चयं चेतसि निधाय भाष्यकारस्तत्फलं प्रत्यक्षज्ञानस्य वर्णितवानिति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
ननु वह्निज्ञानानन्तरं धूमपरामर्शस्मरणम्, ततोऽग्नौ सुखसाधनत्वस्मरणम्, तेन धूमपरामर्शस्मरणस्य विनश्यत्ता, ततो विनश्यदवस्थपरामर्शसहितात् सुखसाधनत्वस्मरणादग्नौ तज्जातीयत्वपरामर्शः, तस्माद् विनश्यदवस्याच्च सुखसाधनत्वानुस्मरणात् सुखसाधनत्वनिश्चयो भविष्यतीत्याशङ्क्याह %न च धुमलिङ्गानुमितवह्निज्ञानानन्तरमि%ति।
%किमनेन शिखण्डिने%ति। अकिञ्चित्करत्वं परामर्शस्याह। यथा भीष्मवधः किरीटिनैव सम्पादितो मध्येत्वकिञ्चिकरः शिखण्डी कृत इति।
%पुनः सम्बन्धग्रहणापेक्षणादनवस्थे%ति। तज्जातीयत्वस्य लिङ्गस्य ते। सह गृहीतसम्बन्धस्य तद्गमकत्वम्। न च सुखसाधनत्वस्यान्यथाग्रहणं सम्भवतीति पुनस्तस्मादेव लिङ्गात् तदवगमे तावत्सम्बन्धग्रहणापेक्षित्वं यावज्जातमात्रस्यसुखहेतुत्वावगमः। तत्रापि जन्मान्तरे लिङ्गलिङ्गिनोरविनाभावग्रहणे जातमात्रस्यापि तस्मादेव लिङ्गादवगतिः, जन्मान्तरेऽप्येवमेवेत्यनवस्था।
%न खल्वतीन्द्रिया शक्तिरि%ति। ननु यद्यतीन्द्रिया नाभ्युपगम्यते शक्तिः कथं तर्ह्यदृष्टस्य शक्तित्वमिति। तत्राह %न धर्मादेः शक्तित्वादतीनद्रियत्वमि%ति।
न्यायमञ्जरी :–
%सम्बन्धस्य प्रत्यक्षगम्यत्वविचारः%
ननु कपित्थादिकार्यस्य सुखस्येदानीं न चक्षुर्ग्राह्यत्वमिति सम्बन्धिग्रहणाभावात् कथं चाक्षुषप्रत्ययगम्यः सम्बन्धः? न चाक्षुषप्रत्यक्षगम्यः सम्बन्धः, किन्तु मानसप्रत्यक्षगम्यः।
सुखादि मनसा बुद्ध्वा कपित्थादि च चक्षुषा।
तस्य कारणता तत्र मनसैवावगम्यते॥
ननु च मनसा कपित्थादेः सुखसाधनत्वग्रहणाभ्युपगमे बाह्यविषयप्रमितिषु मन एव निरङ्कुशं करणमिदानीं संवृत्तमिति कृतं चक्षुरादिभिः, अतश्च न कश्चिदन्धो बधिरो वा स्यात्?
नैष दोषः प्रथमप्रवृत्तसमनस्कबाह्येन्द्रियजनितविज्ञानविषयीकृतवपुषा वाह्यस्य वस्तुनो मनोग्राह्यत्वाभ्युपगमात् तस्यैव नियामकत्वान्नाशृह्ख्लमन्तःकरणं बाह्यविषये प्रवर्त्तते।
ननु च सम्बन्धग्रहणकाले यदि मानसेन प्रत्यक्षेण सुखसाधनत्वावधारणम्, तर्हि तत्काल इव व्यवहारकालेऽपि मानसप्रत्यक्ष एव सुखसाधनत्वनिश्चयोऽस्तु, किं तज्जातीयत्वलिङ्गापेक्षणेनेति? मैवम्। शब्दलिङ्गेन्द्रियाद्युपरतौ केवलमन्तःकरणं करणं कल्प्यते,परिदृश्यमानायाः प्रतीतेरपह्नोतुमशक्यत्वात्। लिङ्गाद्युपायान्तरसम्भवे तु यदि मन एव केवलं कारणमुच्यते, तन्मानसमेवैकं प्रमाणं स्यान् न चत्वारि प्रमाणानि भवेयुरित्यलं प्रसङ्गेन।
तस्मात्सम्बन्धग्रहणकाले यत्तत्कपित्थादिविषयमक्षजं ज्ञानं तदुपादेयादिज्ञानफलमिति, भाष्यकृतश्चेतसि स्थितम्। सुखसानत्वज्ञानमेवोपादेयादिज्ञानमित्युक्तम्।
न्यायमञ्जरी :–
%प्रमाणतत्फलयोरभेदशङ्कानिरासः%
आह किमर्थमयमीदृशः क्लेश आश्रीयते? प्रमाणादभिन्नमेव फलमस्तु। तदेव चक्षूरादिजनितं कपित्थादिपदार्थदर्शनं विषयप्रकाशेन व्याप्रियमाणमिवाभातीति करणमुच्यताम्। तदेव विषयानुभवस्वभावत्वात् फलमिति कथ्यताम्। इत्थञ्च प्रमाणफले न भिन्नाधिकरणे भविष्यतः, अन्यत्र प्रमाणमन्यत्र फलमिति। तदुक्तम् `सव्यापारप्रतीतत्वात् प्रमाणं फलमेव सत्’ इति।
तदिदमनुपपन्नम्, प्रमाणस्य स्वरूपहानिप्रसङ्गात्। करणं हि प्रमाणमुच्यते प्रमीयते चानेनेति। न च क्रियैव क्वचित् करणं भवति। क्रियायां साध्यायां कारक किमपि करणमुच्यते। तत्र यथा दात्रेण चैत्रः शालिस्तम्भं लुनातीति कर्तृकर्मकरणानि क्रियातो भिन्नान्युपलभ्यन्ते, तथेहापि चक्षुष। घटं पश्यतीति दर्शनक्रियातः पृथग्भाव एव तेषां युक्तो न दर्शनं करणमेवेति। प्रमा प्रमाणमिति तु फले प्रमाणशब्दस्य साधुत्वाख्यानमात्रं कृतिः करणमितिवत्।
यत्तु न भिन्नाधिकरणे प्रमाणफले इत्थं भविष्त इति सेयमपूर्ववाचोयुक्तिः। किमत्राधिकरणं विवक्षितम्? यदि तावद्विषयस्तदस्त्येवैकविषयत्वम्। यद्विषयं हि दर्शनं स एव चक्षुरादेः करणस्य विषयः। आश्रयोऽस्त्वधिकरणमिति बौद्धगृहे तावदवाचको ग्रन्थः, क्षणिकत्वेन सर्वकार्याणां निराधारत्वात्। अस्मत्पक्षे तु भिन्नाश्रययोरपि फलकरणभावः पाककाष्ठयोर्दृष्टः। तथा चक्षुज्ञनियोरपि भविष्यतीति। क्वचित्तु भिन्नयोरपि ज्ञानयो- फलकरणत्वेन स्थितयोर्लिङ्गलिङ्गिज्ञानयोरिव विशेषणविशेष्यज्ञानयोरिव चैकात्माश्रयत्वमस्ति। नत्वनेन समानाश्रयत्वेन प्रयोजनं चक्षुरादावनिर्वहणात्। अथैकफलनिष्पत्तौ व्यापारः समानाश्रयत्वमुच्यते, तदपि भवतु कारकान्तराणाम्, न तु फलस्वभावस्य ज्ञानस्य फलनिष्पत्तौ सम्यापारत्वमुपपद्यते, अपि तु पृथग्बूतफलनिर्वृत्तावेवेति।
ननु वस्तुस्थित्या फलमेव ज्ञानमुच्यते, न तु विषयानुभवः, विषयानुभवे स व्यापारो भवति। अथ मनुषे विषयाधिगमाभिमानस्तस्मिन् सति भवतीति, कोऽयमभिमानो नाम? विषायानुबवाद्भिन्नः, अभिन्नोवा। अभेदे सति तस्मिन् सति भवतीत्यसङ्गता वाचोयुक्तिः। भेदे त्वस्मन्मतानुप्रवेशः। अपि च ज्ञानं विषयाधिगमे व्यापृतमिति कृत्वा विषयाधिगमाभिमानमुपजनयत्युत विषयाधिगमस्वभावत्वादेवेति विचारे विषयाधिगमात् पृथग्भूतस्य तत्र व्याप्रियमाणस्यानुपलम्भाद्विषयाधिगमस्वभावमेव ज्ञानमवधार्यते तत्कृतश्चाभिमान इति, फलमेव ज्ञानसवकल्पते न करणमिति। तथा च लोकः फलत्वमेव ज्ञानस्यानुमन्यते न करणत्वम्। तथा ह्येवं वदति `चक्षुषा पश्यामि’ `लिङ्गेन जानामी’ति न तु ज्ञानेन जानामीत्येवं व्यपदिशन् कश्चिद् दृश्यते।
ननु च सत्स्वपि चक्षूरादिषु विषयज्ञानमनुपजनयत्सु न करणतां व्यपदिशति लोको, जनयत्सु च व्यपदिशतीति, लोके करणोत्पादकत्वादेव तेषां करणत्वव्यपदेशो न साक्षात्करणत्वादिति।
तदयुक्तम्। चक्षुराद्येव करणम्, न तु तेनान्यत्करणमुपजन्यते। किं हि तदन्यत्करणम्? ज्ञानमिति चेत्, कस्यां क्रियायां तत्करणमिति परीक्ष्यतामेतत्। न ह्यात्मन्येव किञ्चित् करणं करणं भवतीति। यत्तु ज्ञानमजनयति चक्षुरादौ न करणतामाचष्टे लोकस्तद्युक्तमेव। न हि क्रियोत्पत्तावव्याप्रियमाणं करणं कारकं भवति। तेन चक्षुरादेर्ज्ञानक्रियामुपजनयतः करणत्वम्, ज्ञानस्य फलत्वमेवेति युक्तस्तथाव्यपदेशः।
प्रमाणस्य प्रमाणत्वं तस्मादभ्युपगम्यताम्।
भिन्नं फलमुपेतव्यमेकत्वे तदसम्भवात्॥
यस्तु मूढतरः प्रमाणप्रमेयफलव्यवहारमेकत्रैव ज्ञानात्नि निर्वाहयितुमुद्यच्छति
यदाभासं प्रमेयं तत्प्रमाणफलते पुनः।
ग्राहकाकारसंवित्त्योस्त्रयं नातः पृथक् कृतम्॥ इति।
तमपवर्गाह्निके ज्ञानाद्वैतदलनप्रसङ्गेन दुराचारं निर्भर्त्सयिष्यामह इत्यलं विस्तरेण।
तस्मात् सुष्ठूक्तं `यदा ज्ञानं प्रमाणं तदा हानादिबुद्धयः फलमि’ति, तदेवं फलविशेषणपक्षे `यतः’ शब्दाध्याहारेण वाचकं सूत्रम्, यत इन्द्रियार्थसन्निकर्षोत्पन्नत्वादिविशेषणविशेषितं ज्ञानाख्यं फलं भवति तत्प्रत्यक्षमिति। तत्रेन्द्रियार्थसन्निकर्षोत्पन्नपदमर्थानपेक्षजन्मनः स्मृत्यादिज्ञानस्य, अर्थजनितस्यापि च परोक्षविषयस्यानुमानादिज्ञानस्य व्यवच्छेदार्थम्। अतस्तज्जनकस्य न प्रत्यक्षता प्रसज्यते।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%इत्थञ्च प्रमाणफले न भिन्नाधिकरणे भविष्त% इति। अनेन लोकप्रसिद्ध्यानुगुण्यमस्य पक्षस्य दर्शयति। लोके हि परशुनिपातस्य करणस्य छिदेश्च फलस्यैकवृक्षगतत्वेन दर्शनात्, इहापि तत्रैव ज्ञाने करणत्वं फलत्वञ्चेति। %सव्यापारप्रतीतत्वादि%ति। नियार्थाधिगमे सव्यापारस्य नियतार्थपरिच्छेदाख्यव्यापारवतः प्रतीतत्वादुपलब्धत्वात् फलमेव सत् प्रमाणमिति भण्यते। इदमेव हि दात्रादेः करणस्य करणत्वं यत् क्रियायां व्यापृतत्वम्। नन्वर्थपरिच्छेदात्मकत्वाज्ज्ञानस्य कथं स्वात्मन्येव व्यापृतत्वोक्तिः? अस्त्येतत्, किन्तु यदा अर्थाकारानुकारि ज्ञानमुत्पद्यते तदैवमुपचर्यते। यथा पितृसदृशमपत्यमुपलभ्य पितुरनेन रूपं गृहीतमिति लोको व्यपदिशति, अथ च नानेन किञ्चिद्रूपं गृहीतम्; एवं नियतार्थाकारं नमुपलभ्यार्थग्रहणे व्यापृतवमर्थोंऽनेन गृहीतम् इत्येवं कल्पयति। यदाह
यथा फलस्य हेतूनां सदृशात्मतयोद्भवात्।
हेतुरूपग्रहो लोकेऽक्रियावत्त्वेऽपि दृश्यते॥ इति॥
%कृतिः करणमि%ति। यथा भावे सिद्ध्यतोऽपि करणशब्दस्य, न कारकस्याधिकारे ग्रहणमिति भावः।
%विषयाधिगमाभिमान% इति। अधिगतोऽयं मया घट इत्येवंरूपोऽत्राभिमानो विवक्षितः।
%यदाबासं प्रमेयं तदि%ति। आभासत इत्याभासो ग्राह्याकारः। य आबासो यस्मिंस्तद् यदाभासम्; यस्तत्र ज्ञाने ग्राह्याकारः प्रतिभाति तत् प्रमेयमित्यर्थः।
न्यायमञ्जरी :–
%प्रत्यक्षलक्षणेऽतिव्याप्तिनिरासः%
नन्विन्द्रियार्थसन्निकर्षोत्पन्नमिन्द्रियगत्यनुमानमप्यस्ति, तद्धीन्द्रियार्थसन्निकर्षेण लिङ्गभूतेन जन्यते देशान्तरप्राप्त्येव तदनगमनानुमानम् इति कथमनेन पदेनानुमानमपाक्रियते?
नैतदेवम्। इन्द्रियेण स्वविषयसन्निकृष्टेन सता तत्रैव यद्विज्ञानमुत्पद्यते तदिन्द्रियार्थसन्निकर्षोत्पन्नमिह ब्रूमहे, न चेदृशमिन्द्रियगत्यनुमानम्। कुतो विशेषप्रतिलम्भ इति चेद्, उत्पन्नग्रहणादिति ब्रूमः। उत्पन्नग्रहणेन हि सन्निकर्षस्य कारकत्वं ख्याप्यते, तच्चापीन्द्रियविषयेऽर्थे ज्ञानमुत्पादयतो निर्वहति, इन्द्रियगत्यनुमाने तु न सन्निकर्षं कारकमाहुरपि तु ज्ञापकम्। अत एव स्वग्रहणसापेक्षस्तदनुमानेऽसौ व्याप्रियते न रूपादिप्रमिताविव इतरनिरपेक्ष इति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%इन्द्रियगत्यनुमानमप्यस्ती%ति। न हि गोलकस्थस्येन्द्रियस्यासत्यां गतौ बाह्येन विषयेण सन्निकर्ष उपपद्यत इति सन्निकर्षात् तद्गत्यनुमानम्।
न्यायमञ्जरी :–
%प्रत्यक्षलणघटकपदार्थनिर्वचनम्%
इन्द्रियाणि घ्राणरसननयनस्पर्शनश्रोत्राणि पृथिव्यादिभूतपञ्चकप्रकृतिनी वक्ष्यन्ते।
अर्थास्तु गन्धरूपरसस्पर्शशब्दगन्धत्वादिस्वजात्यवच्छिन्नाः, तदधिकरणानि पृथिव्यप्तेजांसि द्रव्याणि, तदधिष्ठानाः संख्यादयो गुणाः, उत्क्षेपणादीनि कर्माणि, तद्वृत्तीनि सामान्यानि, येषां स्पर्शनेन चक्षुषा ग्रहणं कणव्रतमते निरूपितं तेऽर्थाः, प्रागुक्तश्चाभावोऽप्यर्थ एव,विचार्य गम्यमानत्वात्।
सन्निकर्षस्त्विन्द्रियाणामर्थैः सह षट्प्रकारः। तत्र द्रव्यं चक्षुषा, त्वगिन्द्रियेण वा संयोगाद् गृह्यते। तद्गतो रूपादिर्गुणः संयुक्तसमवायात्। रूपत्वादिसामान्यानिसंयुक्तसमवेतसमवायाद् गृह्यन्ते। चेक्षुषा संयुक्तं द्रव्यम्, तत्र समवेतः शब्दः। शब्दत्वं समवेतसमवायाद् गृह्यते, श्रोत्राकाशसमवेते शब्दे तद्धि समवेतमिति। संयुक्तविशेषणभावादभावग्रहणं व्याख्यातम्। इह घटो नास्तीति चक्षुषा संयुक्तो भूप्रदेशस्तद्विशेषणीभूतश्चाभाव इति।
न्यायमड्जरी :–
%सन्निकर्षस्यावश्यकत्वम्%
ननु सन्निकर्षावगमे किं प्रमाणम्? व्यवहितानुपलब्धिरिति ब्रूमः। यदि ह्यसन्निकृष्टमपि चक्षुरादीन्द्रियमर्थं गृह्णीयाद् व्यवहितोऽपि ततोऽर्थ उपलभ्यते, न चोपलभ्यते, तस्मादस्ति सन्निकर्षः।
नन्वव्यवधानमेवास्तु किं सन्निकर्षेण? मैवम्। इन्द्रियाणां कारकत्वेन प्राप्यकारित्वात्, संसृष्टञ्च कारकं फलाय कल्पत इति कल्पनीयः संसर्गः। एतच्चेन्द्रियपरीक्षाप्रसङ्गे निपुणं निर्णेष्यत इति नेह विविच्यते। रसनस्पर्शनयोश्च स्पष्टं प्राप्यकारित्वमुपलभ्यत इति तत्सामान्यान्द्रियान्तरेष्वपि कल्पनीयमिति।
नन्वेवं सत्यर्थाक्षिप्तः कारकत्वादेव सन्निकर्ष इति स्वकण्ठेन कस्मादुच्यते? षड्विधत्वज्ञापनार्थमित्युक्तम्। उत्पन्नग्रहणेन इन्द्रियार्थयोर्ज्ञानजनकत्वम् अर्थस्य कर्मत्वेन।
नन्वर्थंस्य ज्ञानजनकत्वं कुतोऽवगम्यते? तद्विषयज्ञानोत्पादाद्। एवमाकारस्य निराकृतत्वात् प्रकारान्तरेण प्रतिकर्मव्यवस्थाया असिद्धेः।
ननु प्रयोजनमेतत्, प्रमाणं पृष्टोऽसि, तद् ब्रूहि। उच्यते। एतदेव प्रमाणम्, अन्यस्यापि वीरणादेः कर्मकारकस्य कटादिकार्योत्पत्तौ प्रत्यक्षानुपलम्भप्रतिपन्नाभ्यामन्वयव्यतिरेकाभ्यां यथा कारणत्वमवधार्यते तथार्थस्यापि ज्ञानोत्पत्तौ। यथा हि देवदत्तार्थी कश्चित् तद्गृहं गतस्तत्रासन्निहितं न पश्यति देवदत्तं क्षणान्तरे चैनमायातं पश्यति तत्रान्वयव्यतिरेकाभ्यां देवदत्तसदसत्त्वानुवर्त्तिनौ ज्ञानोत्पादानुत्पादाववधार्य मानसेन प्रत्यक्षेण चन्दनसुखवदस्य तत्कारणतां प्रतिपद्यते।
ननु वीरणकटयोः पृथगुपलम्भाद्युक्त एव न्यायः। अर्थो ज्ञानात् पृथङ् न कदाचिदुपलभ्यत इति दुर्गमौ तत्रान्वयव्यतिरेकौ। उच्यते। अयमेव पृथगुपलम्भो यदसन्निहितेऽर्थे न तद्विषयमबाधितं ज्ञानमुत्पद्यत इति। तदलमस्मिन्नवसरे ज्ञानवादगर्भचोद्योद्विभावयिषया, भविष्यत्येतदवसर इति। यथा चेन्द्रियाणां करणानामन्वयव्यतिरेकाभ्यां ज्ञानकारणत्वम् एवमर्थस्य करणेऽपीत्युपन्नग्रहणेन दर्शितम्।
न्यायमञ्जरी :–
%प्रत्यक्षलक्षणेऽव्याप्तिनिरासः%
नन्विन्द्रियार्थसन्निकर्षोत्पन्नपदेन सुखादिविषयं प्रत्यक्षं न संगृहीतम्? न न संगृहीतम्, मनस इन्द्रियत्वात् सुखादेरर्थस्य तद्ग्राह्यत्वात्, भौतिकघ्राणादीन्द्रियधर्मवैलक्षण्यात्तु मनसस्तद्वर्गे परिगणनं न कृतमिति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%घ्राणादीन्द्रियधर्मवैलक्षण्यादि%ति। नित्यत्वानियतविषयत्वादिना वैलक्षण्यम्।
न्यायमञ्जरी :–
%प्रत्यक्षप्रवृत्तिकारः%
तच्चेदं प्रत्यक्षं चतुष्टयत्रयद्वयसन्निकर्षात् प्रवर्त्तते। तत्र बाह्ये रूपादौ विषये चतुष्टयसन्निकर्षाज् ज्ञानमुत्पद्यते, आत्मा मनसा संयुज्यते मन इन्द्रियेण इन्द्रियमर्थेनेति। सुखादौ तु त्रयसन्निकर्षाज्ज्ञानमुत्पद्यते, तत्र चक्षुरादिव्यापाराभावात्। आत्मनि तु योगिनो द्वयोरात्ममनसोरेव संयोगाज्ज्ञानमुपजायते, तृतीयस्य ग्राह्यस्य ग्राहकस्य तत्राभावात्। तस्मात् सुखादिज्ञानसंग्राहादिन्द्रियार्थसन्निकर्षोत्पन्नमिति युक्तमुक्तम्। आत्ममनसोस्तु सदपि ज्ञानजनकत्वमिह न सूत्रितं सर्वप्रमाणसाधारणत्वादिति।
न्यायमञ्जरी :–
%प्रत्यक्षलक्षणे ज्ञानपदसार्थक्यम%
ज्ञानग्रहणं विशेष्यनिर्देशार्थम्, तस्य हीन्द्रियार्थसन्निकर्षोत्पन्नत्वादीनि विशेषणानि। तानि असति विशेष्ये कस्य विशेषणानि स्युरिति।
अथ वा सुखादिव्यावृत्त्यर्थ ज्ञानपदोपादानम्। इन्द्रियार्थसन्निकर्षोत्पन्नं हि सुखमपि भवति तत्र तज्जनकं कारकचक्रं प्रमाणं मा भूत्, ज्ञानजनकमेव प्रमाणं यथास्यादिति ज्ञानग्रहणम्।
न्यायमञ्जरी :–
%शाक्यमते सुखादेरपि ज्ञानरूपत्वम्%
अत्र शक्याश्चोदयन्ति न ज्ञानपदेन सुखादिव्यवच्छेदः कर्त्तुं युक्तः, शक्यो वा, सुखादिनामपि ज्ञानस्वभावत्वात्। ज्ञानस्यैवामी भेदाः सुखं दुःखमिच्छा द्वेषः प्रयत्न इति। कारणाधीनो हि भावानां भेदो भवितुमर्हति। समानकारणानामपि तु भेदेऽभिधीयभाने न कारणकृतंपदार्थानां नियतं रूपमिति तदाकस्मिकत्वप्रसह्गः। तदुक्तम्
तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः।
तत्सुखादि किमज्ञानं विज्ञानाबिन्नहेतुजम्॥ इति।
तस्माज् ज्ञानरूपाः सुखादयः, तदभिन्नहेतुजत्वादिति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%तदतद्रूपिणो भावा% इति। तद्रूपिणस्तद्रूपवन्तः शाल्यङ्कुराः, अतद्रूपिणश्चातद्रूपवन्तो यवाङ्कुराः। शाल्यङ्कुरा यवाङ्कुराश्च कथमेकरूपा अनेकरूपाश्चेत्यर्थः। एवं गूढाशयेन पृष्टे स्पष्टमुत्तरमाह तदतद्रूपहेतुजाः। तद्रूपैरेकरूपैः शालिबीजैर द्रूपैर्भिन्नरूपैश्च यवबीजैर्जनिता इति। परः स्वाभिप्रायमाह %तत्सुखादि किमज्ञानं विज्ञानाभिन्नहेतुजमि%ति।
न्यायमञ्जरी :–
%सुखादेर्ज्ञानातिरिक्तत्वम्%
तदिदमनुपपन्नम् प्रत्यक्षविरुद्धत्वाद्धेतोः। सुखादि संवेद्यमानमानन्दादिरूपतयाऽनुभूयते, ज्ञानं विषयानुभवस्वभावतयेति, प्रत्यक्षसिद्धभेदत्वात् कथमभेदेऽनुमानं क्रमते। अत एव इदमपि न वचनीयम् `एकमेवेदं संविद्रूपं हर्षविषादाद्यनेकाकारविवर्त्तं पश्यामस्तत्र यथेष्टं सञ्ज्ञाः क्रियन्तामि’ति। संविदो विषयानुभवस्वभावतयैव प्रतिभासात्, सुखादेश्च विषयानुभवस्वभावानुस्यूतस्याप्रतिभासात्, ज्ञानमेव विषयग्रहणरूपं प्रकाशते, न सुखं दुःखं वा। यस्तु सुखज्ञानं दुःखज्ञानमिति प्रतिभासः स ज्ञानस्वभावभेदकृत एव संशयज्ञानं विपर्ययज्ञानमितिवत्, उक्तमत्र संशयविपर्ययादौ विषयानुभवस्वभावत्वमनुस्यूतमवभाति। संशयो हि विषयग्रहणात्मकोऽनुभूयते, अनिश्चितं तु विषयं गृह्णाति। विपर्ययोऽपि विषयग्रहणात्मकं एव विपरीतमसन्तं वा विषयं गृह्णाति। न तु विषयग्रहणस्वभावं सुखं दुःखञ्चानुभूयते। अन्य एवायं ग्राह्यैकस्वभाव आन्तरो धर्मः सुखदुःखादिरिति, घटज्ञानवद् विषयतयैव ज्ञानं भिनत्ति, न स्वभावभेदेन संशयवदिति। तत्रैतत्स्यात्।
स्वप्रकाशत्वात् सुखादेर्न ग्राह्यैकस्वभावत्वम्, अतश्च ग्राह्यग्रहणोभयस्वभावत्वाज् ज्ञानमेव तदिति। मैवं वोचः। प्रकाशत्वं ज्ञानेऽपि प्रतिक्षिप्तं प्रतिक्षेप्स्यते, तत्कुतः सुखादौ भविष्यति? न हि ग्रहणस्वभावं कश्चित् सुखमनुभवति ज्ञानवदिति
नन्वस्य प्रकाशत्वानभ्युपगमे सुखादेरुत्पादानुत्पादयोरविशेषात् सर्वदासुखित्वं न कदाचिद्वा स्यादिति। नैतदेवम्। उत्पन्नमेव सपदि सुखं गृह्यते ज्ञानेनेति कथमनुत्पन्नान्न विशिष्यते? प्रत्युत स्वप्रकाशसुखवादिनामेष दोषः, स्वप्रकाशस्य दीपादेः सर्वान् प्रत्यविशिष्टत्वात्। क्वचित् सन्ताने स्वप्रकाशसुखोत्पादात् तेनैव स्वप्रकाशेन सुखेनान्योऽपि सुखी स्याद् यस्यापि सुखं नोत्पन्नमिति। किञ्च किमेकमेव ज्ञानं सर्वसुखदुःखाद्यशेषाकारभूषितमिष्यते, उत किञ्चित्सुखात्मकं, किञ्चिद् दुःखात्मकं ज्ञानमिति? आद्ये पक्षे सर्वाकारखचितज्ञानोपजननादेकस्मिन्नेव क्षणे परस्परविरुद्धसुखदुःखादिधर्मप्रबन्धवेदनप्रसङ्गः, उत्तरस्मिंस्तु किञ्चित् सुखज्ञानं किञ्चिद्दुःखज्ञानमिति यत् किञ्चित्सुखदुःखचितं विषयानुभवस्वभावमपि ज्ञानमनुभूयमानमेषितव्यमेव। तच्च न स्वच्छम्, अपि तु केनचिद्घटादिनाविषयेणोपरक्तमन्वयव्यतिरेकाभ्याञ्च घटाद्युपजननापायेऽपि बोधस्वभावमनुवर्त्तमानं प्रतीयते। तदिदानीं सुखज्ञानमप्यनुभूयमानं सुखेन विषयभावजुषा घटादिनेवोपरज्यत इति गम्यते, न स्वरूपेणैव सुखात्मकम्, ततो भिन्नरूपस्य बोधमात्रस्वभावस्य ज्ञानस्यान्यदा अदृष्टत्वादिति। तस्मान्न बोधरूपाः सुखादयः। अभन्नहेतुजत्वादिति चायमसिद्धो हेतुः, समवायिकारणस्यात्मनोऽसमवायिकारणस्यात्ममनःसंयोगस्याभेदेऽपि निमित्तकारणस्य सुखत्वज्ञानत्वादेर्भिन्नत्वात्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%एकमेवेदमि%ति। हर्षविषादादिरनेकाकारो विवर्तः परिणामो यस्य।
%न स्वभावभेदेन संशयवदि%ति। यथा संशयरूपत्वेनोभयकोटिस्पृश्यस्वभावेनानुभयकोटिस्पृशो ज्ञानान्तराद् विशिष्यते `संशयात्मकमेतज्ज्ञानं न व्यवसायात्मकम्’ इति तथा न सुखज्ञानम्, अपि तु विषयकृत एव तस्य भेदः `सुखस्य ज्ञानम्’ इति।
%तच्च न स्वच्छमि%ति। यदि हि विषयानुरागरहितस्य बोधमात्रस्यानुभवनं स्यात् तदा आत्मीयेन सुखात्मनापि स्वरूपेण तस्यानुभवो युज्येतेत्यभिप्रायः। %अन्वयव्यतिरेकाभ्याञ्चे%ति। अयं भावः। सुखादयोग्राह्याः, न च ग्राह्यरूपमेव ग्राहकम्। यदि हि ग्राह्यरूपमेव ग्राहकं स्यात् तदा `गटो मया ज्ञातोऽधुना पटं जानामि’ इत्यादौ ग्राह्यरूपानुवृत्तिवद् ग्राहकरूपानुवृत्तिरपि नोपलभ्येट, उपलभ्यते च बोधरूपोऽनुवर्तमानो ग्राहकाकारः, ततोऽवसीयते ग्राह्येणोपरक्तमेव ज्ञानं न ग्राह्यरूपमिति। सत्यपि घटे कदाचिदभावाद्, असत्यपि च तस्मिन् पटादौ भावात्, ततो व्यावृत्तरूपमिति विलक्षणबोधरूपता प्रतीयत इति। %अन्यदा अदृष्टत्वादि%ति। यदि सुखमेव ज्ञानं स्यान्न सुखस्य ज्ञानम्, तदा तदनन्तरभाविनि ज्ञाने बोधरूपतावत् सुखरूपताप्युनूवर्तेत। `अन्यदा वा दृष्टत्वात्’ प्राङ्नीत्या यदा ग्राह्यद् भिन्नं बोधस्वभावं ज्ञानमुपलब्धं तद्वदत्रापि भवतु, अस्यापि ग्राह्यत्वात्।
न्यायमञ्जरी :–
%कार्योत्पत्तेः पूर्वमाश्रयाभावान्निराश्रयंसुखत्वादि न कारकं स्यात्%
ननु सुखोत्पादात् पूर्वमनाश्रयं सुखत्वसामान्यं कथं तत्रस्यात्? कश्चापि सुखहेतुभिः कारकैः संसर्गः? असंसृष्टञ्च कथं कारकं स्यात्?
उच्यते। सर्वसर्वगतानि सामान्यानि साधयिष्यन्त इति सन्ति तत्रापि सुखत्वादीनि। योग्यतालक्षण एव चैषां सुखहेतुभिः कारकैः संसर्गः धर्माधर्मवत्। धर्माधर्मौ हि सर्वस्य प्राणिनां सुखदुःखहेतोर्जायमानस्य शाल्यादेः कार्यस्य कारणम्। तयोश्च तत्कारणैर्बीजक्षितिजलादिभिः सह योग्यतैव संसर्गः। एवं सुखत्वादीनामपि स्यात्। तस्मान्निमित्तकारणभेदद्भिन्नानि ज्ञानसुखादीनि कार्याणि।
निमित्ततारणन्यत्वमपि कार्यस्य भेदकम्।
विलक्षणा हि दृश्यन्ते घटादौ पाकजा गुणाः॥
अपि च ज्ञानमिच्छन्ति न सर्वे ज्ञानपूर्वकम्
सुखदुःखादि सर्वन्तु विषयज्ञानपूर्वकम्॥
विषयानुभवोत्पाद्या यत्रापि न सुखादयः।
तत्रापि तेषामुत्पत्तौ कारणं विषयस्मृतिः॥
क्वचित्तु सङ्गुल्पोऽपि सुखस्य कारणतां प्रतिपद्यते। तस्मात् सर्वं सुखादि ज्ञानपूर्वकमेव। ज्ञानमपि ज्ञानपूर्वकमेवेति चेद, उपरिष्टान्निराकरिष्यमाणत्वात्। न हि गर्भादौ, मदमूर्छाद्यनन्तरं वा ज्ञानमुपजायमानं ज्ञानान्तरपूर्वकं भवतीति। वक्ष्यामः। तेन सुखादीनां वैलक्ष्यण्योपपादनात् सुखादिव्यवच्छेदस्य सिद्धत्वात्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%योग्यतालक्षण एवे%ति। नियतसुखादिकार्यगम्यः सम्बन्धविशेषो योग्यताख्यः।
%विलक्षणा हि दृश्यन्त% इति। समवायिकारणानां परमाणूनामग्निसंयोगस्य चासमवायिकारणस्याभेदेऽपि रूपत्वरसत्वादिनिमित्तकारणभेदात् पाकजानां रूपरसादीनां वैलक्षण्यं भेदः।
%क्वचित्तु सङ्कल्पोऽपी%ति। यत्र भाविनं स्त्र्यादिसङ्गमं चित्ते सङ्कल्पयति।
न्यायमञ्जरी :–
%अव्यबिचारिपदादेव ज्ञानव्यवच्छेदः?%
व्यभिचाराव्यभिचारौ हि ज्ञानस्य धर्मौ न सुखादेरतस्तदुपादानात्तद्धर्मयोगि ज्ञानं लभ्यत एव, किं ज्ञानग्रहणेन? नैतदेवम्, सुखस्यापि सव्यभिचारस्य दृष्टत्वात्. किं पुनः सुखं व्यभिचारवद् दृष्टम्? यदेतत् परदाराभिमर्शादिनिषिद्धाचरणसम्भवं सुं तद् व्यभिचारि।
ननु सुखस्य कीदृशो व्यभिचारः? ज्ञानस्यापि कीदृशो व्यभिचारः? अतस्मिंस्तथाबावः। सुखस्यापि अतस्मिंस्तथाभाव एव। किं परपुरन्ध्रिपरिरम्भसम्भवं सुखं सुखं न भवति? किं शुक्तिकायां रजतज्ञानं ज्ञानं न भवति? ज्ञानं तद्भवति किं तु मिथ्या। इदमपि सुखं भवति किं तु मिथ्या।
ननु न सुखं मिथ्या, तदपि ह्यानन्दस्वभावमेव। यद्येवं शुक्तिकायां रजतज्ञानमपि न मिथ्या, तदपि हि विषयानुभवस्वभावमेव।
ननु विषयानुभवस्भावमपि तज्ज्ञानं विषयं व्यभिचरति। सुखमपि तर्हि इदमानन्दस्वभावमपि विषयं व्यभिचरत्येव। किमसुखसाधनेन तज्जनितम्? ज्ञानमपि किमज्ञानसाधनेन जनितम्?
ननु ज्ञानं ज्ञानसाधनेन जनितम् असत्येन प्रत्यक्षबाधितेन रजतादिना। सुखमपि सुखसाधनेन जनितम् असत्येन तु शास्त्रबाधितेन परवनितादिना। किं परवनितादि न सत्यम्। तत्रापि ज्ञानजनकं सत्यम्, असत्यं प्रत्यक्षबाधितत्वात्? परवनिताद्यपि सुखसाधनम् असत्यं शास्त्रबाधितत्वात्।
ननु शास्त्रेण किमत्र बाध्यते? ज्ञानेऽपि प्रत्यक्षेण किं बाध्यते? विषयो मिथ्येति ख्याप्यते। शास्त्रेणापि सुखस्य हेतुर्मिथ्येति ख्याप्यते। किं स विषयः सुखहेतुर्न भवति? यथा त्वेषयः कलुषस्य ज्ञानस्य हेतुस्तथा सोऽपि कलुषस्य कटुविपाकस्य सुखस्य हेतुरिति तथाविधं सुखमपि व्यभिचारि भवत्येवेत्यलमतिकेलिना। तस्मात् समानन्यायत्वात् सुखेऽव्यभिचारितास्तीत्यव्यबिचारिपदाज्ज्ञानं न लभ्यते।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%आनन्दस्वभावमपि विषयं व्यभिचरत्येवे%ति। सुखजनकमत्र विषयत्वेन विवक्षितम्, सुखस्य तदालम्बनत्वेनोत्पादात्।
न्यायमञ्जरी :–
%व्यवसायपदेनैव ज्ञानलाभसम्भवे तद्ग्रहणे हेतुप्रदर्शनम्%
अपर आह। किमनेन डिम्भकलहेन। मा भूदव्यभिचारिपदाज्ज्ञानस्य लाभस्तथापि व्यवसायात्मकपदाल्लभ्यत एव ज्ञानम्। न हि सुखदुःखादयो व्यवसायात्मका भवन्ति, किन्तु ज्ञानमेव तथाविधमिति। संशयव्यवच्छेदार्थञ्च तत्पदमिति चेत्। सत्यम्। सुखादिव्यवच्छेदमपि कर्तुमलमेव भवति व्यवसायात्मकत्वस्य सुखादिष्वसम्भवादिति। तदेवं सिद्धेऽपि सुखादिव्यवच्छेदे कर्त्तव्यमेव ज्ञानग्रहणम्, विशेष्यनिर्देशार्थत्वात्। तस्य हि सर्वाण्यमूनि विशेषणान्युपात्तानि तदनुपादाने निरालम्बनानि भवेयुः, श्रोतुश्र्च बुद्धिर्न समाधीयेतेति। तेन बलाद् गम्यमानमपि कर्त्तव्यमेव ज्ञानग्रहणम्। अर्थाक्षिप्तस्यावचने प्रत्यक्षं प्रत्यक्षमित्येतावन्मात्रमभिधेयं स्याद्, अन्यदर्थालभ्यत एव। तस्माद्धर्मिनिर्देशार्थं युक्तं ज्ञानपदम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%प्रत्यक्षं प्रत्यक्षमित्येतावन्मात्रमभिधेयमि%ति। सामान्यलक्षणापेक्षित्वाद् विशेषलक्षणस्य। अक्षं प्रति गतं जन्यत्वे प्रत्यक्षम्। तत्र यतः प्रमाणात् फलमुत्पद्यते तत् प्रमाणं प्रत्यक्षम्। तच्च फलं ज्ञानमव्यभिचारि व्यवसायात्मकञ्च भविष्यति; तथाविधफलजनकस्यैव प्रमाणत्वस्य सामान्यलक्षणे प्रतिपादितत्वात्।
न्यायमञ्जरी :–
%अव्यपदेशय्पदसार्थक्यविचारः%
शब्दानामर्थसंस्पर्शित्वं शाक्यमतनिरासेन साधयिष्यत इति शब्दानुप्रवेशवशेन व्यपदेश्यं नाम ज्ञानमुपपद्त इति तद्व्यवच्छेदार्थमव्यपदेश्यपदम्।
न्यायमञ्जरी :–
%तत्र वृद्धनैयायिकमतनिरासेन रुचिकारादिमतम्%
तत्र वृद्धनैयायिकास्तावदाचक्षते, व्यपदिश्यत इति व्यपदेश्यं शब्दकर्मतापन्नं ज्ञानमुच्यते। यदिन्द्रियार्थसन्निकर्षादुत्पन्नं सद्विषयनामधेयेन व्यपदिश्यते रूपज्ञानं रसज्ञानमिति तद्व्यपदेश्यं ज्ञानं प्रत्यक्षफलं मा भूदित्यव्यपदेश्यग्रहणम्।
तदिदमनुपपन्नम्, न हि नामधेयव्यपदेश्यत्वमप्रामाण्यकारणं भवति, यदि हि तद्रूपज्ञानं रसज्ञानञ्चविषयाव्यभिचारि निःसंशयञ्च तत्कथमप्रमाणफलमुच्यते? व्यभिचारादिदोषयोगे वा पदान्तरेण तत्प्रतिक्षेपात् किमव्यपदेश्यपदेन? प्रमाणफलञ्च तद्विज्ञानमिदानीं किं प्रमाणप्रभवं भवन् न प्रत्यक्षफलम्, व्यवसायपदमार्गतेनत्वात् इत्यर्थः एवत्पदप्रक्षिप्तत्वात्? नानुमानादिजन्यं तद्वैलक्षण्यात्, नास्ति किञ्चित् पञ्चमं प्रमाणम्। असङ्ग्रहोऽस्य लक्ष्यस्य लक्षणेनेति प्रज्ञाप्रमादः। तस्मादपव्याख्यानमेतदिति व्यवच्छेद्यान्तरमव्यपदेश्यपदस्य वर्णयाञ्चक्रुराचार्याः, शब्दार्थेषु स्थविरव्यावहारतो व्युत्पद्यमानो जनः संशयापगमसमये संज्ञोपदेशकाद् `अयं पनस उच्यते’ इति वृद्धोदीरिताद्वाक्यात् पुरोऽवस्थितशाखादिमन्तमर्थं पनसशब्दवाच्यतया जानाति। तदस्यज्ञानमिन्द्रियजनमि न केवलेन्द्रियकरणकं भवितुमुचितम्, असति संज्ञोपदेशिनि शब्दे तदनुत्पादात् तेन शब्देन्द्रियाभ्यां सम्भूय जनितत्वादुभयजमिदं ज्ञानं व्यपदेशाज्जातमिति व्यपदेश्यमुच्यते। तदव्यपदेश्यपदेन व्युदस्यते। न चेदं पञ्चमं प्रमाणमवतरति किन्तु शाब्दमेवैतदनुमन्यते लोकः। तथा च `कथं पुनर्जानीते भवान् पनसोऽयमि’ति पृष्टः प्रतिवक्ति `मम देवदत्तेनाख्यातं पनसोऽयमि’ति। पुनरेवं विस्मृत्यापि ब्रवीति `चक्षुषा मया प्रतिपन्नं पनसोऽयमुच्यते’ इति। तदिन्द्रियान्वयव्यतिरेकानुविधाने सत्यपि शब्द एवात्र करणम्। अत एव सूत्रकृता शब्दलक्षणं वर्णयता नेन्द्रियानुप्रवेशप्रतिषेधाय किमपि विशेषणमुपरचितम्। `उपदेशः शब्दः’ इत्येतावदेव लक्षणमभिहितम्। अतश्चेन्द्रियानुप्रवेशेऽपि शाब्दतामस्य मन्यते सूत्रकारः। इह पुनरव्यपदेश्यविशेषणपदोपादानेन शब्दानुप्रवेशप्रतिषेधान्न प्रत्यक्षफलमेतज् ज्ञानम्। तस्मादेवंविधव्यपदेश्यविज्ञानव्यवच्छेदार्थमव्यपदेश्यपदमिति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%शब्दकर्मतापन्नं ज्ञानमि%ति। `रूपज्ञानम्’ इत्यादेः शब्दस्य कर्मतामभिधेयतामापन्नम्।
न्यायमञ्जरी :–
%रुचिकारादिमते प्रवरादिनामरुचिप्रदर्शनम्%
तदेतद् व्याख्यातारो नानुमन्यन्ते। यद्युभयजं ज्ञानमव्यपदेश्यपदेन व्युदस्यते तदपि नाप्रमाणम् अप्रमाणलक्षणातीतत्वादिति। प्रमाणं भवत् कस्मिन्ननुनिविशतामिति चिन्त्यम्।
ननु शाब्दमिदं ज्ञानं तद्भावानुविधानतः।
भवत्वक्षजमप्येतत् तद्भावानुविधानतः॥
शाब्दञ्चोभयञ्चेति विरुद्धमभिधीयते।
प्रमाणान्तरमेव स्यादित्थं तदपि पूर्ववत्॥
ननु लोकः शाब्दतामस्य व्यपदिशति `देवदत्तेनाख्यातं पनसोऽयमि’ति व्यवहारादित्युक्तम्। अहो लोकवत् सः श्रद्दधानो महानुभावः। न खलु लोकस्य व्यपदेशैकशरणा वस्तुस्थितयो भवन्ति। लोको हि यथारुचि व्यपदिशति नानामुनिजनसाधारणमपि तीर्थं नन्दिकुण्डमिति किं न श्रुतवान् भवान्? हन्त तर्हि सूत्रकाराशयमनुसरन्तः शाब्दमिदं ज्ञानं प्रतिपद्यामहे, यदयं सूत्रकारः प्रत्यक्षे शब्दानुप्रवेशव्यवच्छेदाय विशेषमिदमुपदिशति, शब्दे तु नेन्द्रियव्युदासाय किञ्चिद्विशेषणमुपादत्ते। स पश्यति करणान्तरानुप्रवेशेऽपि शाब्दमेतज् ज्ञानमिति। उच्यते
मनुवत्सूत्रकारोऽपि न धर्मस्योपदेशकः।
येनैतदनुरोधेन तस्य ब्रूयाम शाब्दताम्॥
वस्तुस्थित्या तु निरूप्यमाणमिन्द्रियान्वयव्यतिरेकानुविधायित्वादिदं विज्ञानं न प्रत्यक्षफलतामतिवर्त्तते। ततश्च व्युदस्यमानं प्रमाणान्तरमेव स्पृशेत्।
तस्मादुभजयज्ञानव्युदासानुपपत्तितः।
व्याख्या भङ्ग्यन्तरेणास्य पदस्येयं विधीयते॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%नन्दिकुण्डमि%ति। तीर्थविशेषाख्या।
न्यायमञ्जरी :–
%संज्ञेल्लेखिप्रत्यक्षस्य शाब्दत्वम्%
असम्भवदोषव्यवच्छेदार्थमव्यपदेश्यपदोपदानम्। एवं हि परो मन्यते सति लक्ष्ये लक्षणवर्णनमुचितम्, इह तु लक्ष्यमाणं प्रत्यक्षमिन्द्रियार्थसन्निकर्षोत्पन्नं नाम न किञ्चिदस्ति, गौरित्यादिज्ञानानां शब्दावच्छिन्नवाच्यविषयत्वेन शाब्दत्वात्, इह हि विषयव्यतिरेकेण ज्ञानानामतिशयो दुरुपपादः, बोधस्वभावस्य सर्वान् प्रत्यविशिष्टत्वात्. तत्र यथा `दण्डी’ति `शुक्लः’ इति वा प्रत्ययो विशेषणावच्छिन्नविशेष्यविषयतया सातिशयत्वमश्नुते तथा गौरित्यादिप्रत्ययोऽपि वाचकावच्छिन्नवाच्यविषयत्वात् सातिशयत्वं भजते। शब्दावच्छिन्नवाच्यविषयत्वाच्च शाब्द एष प्रत्ययः, तद्व्यतिरिक्तकरणकार्यत्वानुपपत्तेः। न हीन्द्रियकरणमिदं ज्ञानं भवितुमर्हति, चक्षुषो विशेषणाविषयत्वाद् विशेष्य च श्रोत्रस्यासामर्थ्यात्। न च युगपदिन्द्रियद्वयद्वारकमेकमुत्पद्यमानं ज्ञानं क्वचिद् दृष्टम्, तत्रैतत् स्यात्। मानसमिदं ज्ञानं सुगन्धिबन्धूकबोधवद् भविष्यति, उक्तमत्रशब्दलिङ्गादिकरणान्तरव्यापारविरतौ कार्यमुपजायमानं केवलमनः करणमिति कल्प्यते। न। तत्सम्भवेऽपि तथा हि सति मानसमेवैकं प्रमाणं स्यादिति। अस्ति चात्र शब्द एव करणम्। स हि सहस्रकिरणवदात्मानञ्च विषयञ्च प्रकाशत इति, तस्मादिन्द्रियविषयेऽपि गौरित्यादिज्ञानमुत्पद्यमानं शाब्दमेवेत्यवधार्यते।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%यथा दण्डीति शुक्ल इति।% केवलपुरुषपटप्रत्ययापेक्षयात्र सातिशयत्वम्।
न्यायमञ्जरी :–
%शाब्दिकसिद्धान्तबलेन प्रत्ययामात्रस्य शाब्दत्वसमर्थनम्%
ननु सह्केतावगमसमये गौरित्यादिशब्दः श्रुत आसीत्, स इदानीमतिक्रान्त इति कथं तत्कृत एष प्रत्ययः स्यात्? उच्यते। तदानीमश्रूयमाणस्य शब्दस्य स्मृत्यारूढस्य तत्प्रत्ययहेतुत्वात्,
तच्छ्रुतावपि किं सर्वे वर्णाः प्रत्यक्षगोचराः।
विशेषः कोऽन्त्यवर्णेन गृहीतेन स्मृतेन वा॥
तदेवं स्मृतिविषयीकृतशब्जनित एष प्रत्यय इत्यभ्युपेतव्यः। यथा परोक्षेऽपि शब्द उच्चरित आत्मानं प्रकाशयत्यर्थञ्च तथा प्रत्यक्षे विषये स एव स्मर्थमाण आत्मानमर्थञ्च प्रकाशयतीति वाचकावच्छिन्नवाच्यप्रतिभासश्चैवंविधासुबुद्धिषु नूनमेषितव्यः, यथाह वृद्धः `सञ्ज्ञित्वं केवलं परम्’ इति। सञ्ज्ञित्वमितिमत्वर्थीयप्रत्ययान्तादुत्पन्नो भावप्रत्ययः सम्बन्धमाचष्टे सञ्ज्ञार्साञ्ज्ञसम्बन्धः सञ्ज्ञित्वमिति, कृत्तद्धितसमासेषु सम्बन्धाभिधानमित्यभियुक्तस्मरणात्, सञ्ज्ञा च शब्दः, सोऽयं शब्दविशिष्टार्थप्रतिभास उक्तो भवति। न च शब्दानुसन्धानरहितः कश्चित् प्रत्ययो दृश्यते, अनुल्लिखितशब्दकेष्वपि प्रत्ययेष्वन्ततः सामान्यशब्दसमुन्मेषसम्भवात् तदुल्लेखव्यतिरेकेण प्रकाशात्मिकायाः प्रतीतेरनुत्पादात्। तथाह भर्तृहरिः
न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते।
अनुविद्धमिव ज्ञानं सर्वं शब्देन गृह्यते॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
ननु वाचकः स उच्यते यो वाचकत्वेन गृहीतः। सङ्केतकालभावी च वाचकत्वेन गृहीतः। स चोदानीं नास्तीत्याह %ननु सङ्केतावगमसमय% इति।
%`संज्ञित्वं केवलं परम्’%इति।
`यथा रूपादयो भिन्नाः प्राक्ठब्दात् स्वात्मनैव तु।
गम्यन्ते तद्वदेवेदं संज्ञित्वं केवलं परम्॥’ इति परिपूर्णं वार्त्तिकम्। यद्वद्रूपादयः सम्बन्धग्रहणात् पूर्वं विविक्ततया शब्दविविक्तेन रूपेणोपलभ्यन्ते तद्वद् गोत्वाद्यपि, सविकल्पकज्ञाने केवलं संज्ञित्वं प्रतिभारात इति वार्तिकार्थः। अनेन तु `संज्ञित्वमिति वदता `वाचकविशिष्टवाच्यप्रतिभासः सविकल्पकज्ञानजन्य’ इत्यभ्युपगतं बलाद् भवति’ इत्यभिप्रायेण ज्ञापकतयोपन्यस्तम्। %कृत्तद्धितसमासेषु सम्बन्धाभिधानम्।% `पाचकत्वौपगवत्वराजपुरुषत्वादौ कृत्तद्धितसमासेषु सम्बन्धाभिधानमन्यत्र रूञ्यभिन्नरूपाव्यभिचरितसम्बधेभ्य’ इति परिपूर्णं वार्तिकम्। तेन सत्यपि कृच्छब्दत्वेकुम्भकारत्वमित्यादौ न सम्बन्धाभिधानम्, जातिरेव तत्र `त्व’प्रत्ययाभिधेया; रूढिशब्दत्वात् संज्ञाशब्दत्वादस्य। शुक्लगुणव्याप्तः शुक्ल इति मत्वर्थीयप्रत्ययलोपपक्षे शुक्लस्य भावः शुक्लत्वमिति न गुणसम्बन्धाभिधानम्, अपि तु द्रव्यादभेदरूपेणास्य शुक्लशब्दस्य प्रवृत्तेर्गुणमात्रवाचित्वमेव। एवं सतो भावः सत्तेत्यत्र पदार्थानां सत्तासम्बन्धेनाव्यबिचारान्न तत्सम्बन्धोऽभिधेयोऽपि तु सत्तैव।
न्यायमञ्जरी :–
%निर्विकल्पकस्य शब्दानुगमशून्यत्वादव्यपदेश्यत्वम्%
तस्मात् प्रत्यक्षस्य लक्ष्यस्यासद्भावात् कस्येदं लक्षणमुपक्रान्तमिति असम्भवदोषमाशङ्क्याह सूत्रकारः अव्यपदेश्यमिति। यदिदमविदितपदपदार्थसम्बन्धस्य ज्ञानमुत्पद्यते, विदितसम्बन्धस्यापि वा यत् प्रथमाक्षसन्निपातसमय एव ज्ञानमनुल्लिखितशब्दकं शब्दानुस्मरणे हेतुभूतमुपजायते तदशाब्दम्, अशब्दावच्छिन्नविषयमव्यपदेश्यमिन्द्रियार्थसन्निकर्षैककरणमविकल्पं प्रत्यक्षम्। न च शब्दकृता बुद्धीनां प्रकाशस्वभावता, स्वत एव तासामेवंरूपत्वात्, न च निर्विकल्पकसमये यत् `किञ्चिदिदमि’त्यादिसामान्यशब्दोल्लेखः कोऽपि कैश्चिदनुभूयते। तस्माद् गौरित्यादिज्ञानानां शाब्दत्वेऽपि तथाविधस्य ज्ञानस्य लक्ष्यस्य सद्भावान्न व्यर्थं लक्षणमित्येवमसम्भवदोषनिराकरणार्थमव्यपदेश्यपदमिति,
न्यायमञ्जरी :–
%प्रत्यक्षस्याशाब्दत्वे रुचिकारादिसम्मतिः%
तदेतद् आचार्या न क्षमन्ते। न गौरित्याज्ञानमिन्द्रियार्थसन्निकर्षोत्पन्नमपीदं शाब्दमिति वक्तुं युक्तम्। न चात्र शब्दावच्छिन्नार्थः प्रकाशते, तथाविधार्थग्रहणे करणाभावाद्। विशेषार्थप्रमितौ तावच्छब्दः करणम्, विशेषणभूतस्य तु शब्दस्य ग्रहणे किं करणमिति निरूप्यताम्। न श्रोत्रं, विरम्य व्यापारसंवेदनात्, सम्बन्धग्रहणादूर्ध्वञ्च स्मर्यमाणशब्दयोजनया जायमाने गौरित्यादिज्ञाने श्रोत्रंकरणमाशङ्कितुमपि न युक्तम्, नापि मनो बाह्यकरणनिरपेक्षं बाह्ये विषये धियमाधातुमलम् अन्धाद्यभावप्रसङ्गात्।
न्यायमञ्जरी :–
%प्रत्यक्षे शब्दस्य न करणत्वम्%
ननु शब्द एव करणमित्युक्तं तत् किमपरकरणाशङ्कनेन? मैवम् एकस्य कारकस्यैकस्यामेव क्रियायां कर्मकरणभावानुपपत्तेः। सवितृप्रकाशवदिति चेन् न। क्रियाभेदाद् यत्रासौ करणं न तत्र कर्म, यत्र वा कर्म न तत्र करणमिति। घटादिविषयप्रमितिजन्मनि करणमिति चेत्? केवलमेव चक्षुरिति ब्रूमः, आलोकग्रहणे चक्षुषः। प्रकाशान्तरनिरपेक्षत्वात्। कथमेवमिति चेद्। अपर्यनुयोज्या हि वस्तुशक्तिः। घटादिग्रहणे चक्षुरुद्द्योतमपेक्षते न उद्द्योतग्रहण इति कमनुयुञ्ज्महे। सोऽयं सूर्यप्रकाशः प्रकाशान्तरनिरपेक्षचक्षुरिन्द्रियप्रथमगृहीतः चिरमवतिष्ठमानस्तदिन्द्रियग्राह्य एक विषये गृह्यमाणे करणतामुपयातीति युक्तम्। शब्दस्तु क्षणिकः श्रोत्रेन्द्रियग्राह्य एक विषये गृह्यमाणे करणतामुपयातीति युक्तम्। शब्दस्तु क्षणिकः श्रोत्रेन्द्रियग्राह्यस्तदितरपरिच्छेदे विषये तदवगमक्रियायां करणीभूय भूयस्तस्यामेव क्रियायां कथमिव कर्मभावमनुभवेत्। शब्दो हि धूमादिवदुपाय एव नोपेयः। स उपायत्वात् प्रथमं गृह्यतां नाम न उपेयग्रहमकाले पुनर्ग्रहणमर्हति धूमवदेवेति। एवं स्मर्यमाणोऽपि शब्दो यत्रार्थप्रतीतिकारणम्, तत्रापि प्रथमं शब्दस्मरणं ततः शब्दार्थसम्प्रत्ययो भवति, नतरां तत्रार्थप्रतीतिवेलायां शब्दग्रहणं सम्भाव्यते। तस्मान्नास्ति वाचकविशेषितवाच्यप्रतिभासः। अपि च गौरित्यादिज्ञानमिन्द्रियार्थसन्निकर्षान्वयव्यतिरेकानुविधायि प्रसभं तत्कथं शाब्दमित्युच्यते?
शब्दस्मरणसापेक्षं यस्योत्पादकमिन्द्रियम्।
तदेव यदि ते शाब्दमहो नैयायिको भवान्॥
ननु शब्दावच्छिन्नमर्थं न चक्षुःश्रोत्रयोरन्यतरदपि करणं ग्रहीतुमलमित्युक्तम्, भोः साधो चक्षुरेवैनं ग्रहीष्यतीति कथं न ब्रूषे?
ननु नाविषये युक्तमिन्द्रियस्य प्रवर्त्तनम्।
तेन शब्दविशिष्टार्थज्ञानं नेन्द्रियजं ब्रुवे॥
मरीचिषु जलज्ञानं कथमिन्द्रियजं तव।
तत्रापि हि न तोयेन सन्निकर्षोऽस्ति चक्षुषः॥
ननु च स्मृत्युपारूढमुदकं तत्र गृह्यते।
इहापि स्मृत्युपारूढः शब्दः कस्मान्न गृह्यते॥
ननु शब्दो न नेत्रस्य कदाचिदपि गोचरः।
असन्निहितमप्यम्बु किं वा भवति गोचरः॥
नन्वेकेन्द्रियवादः स्याच्चक्षुषा शब्दवेदने।
अत्रापि सर्वबोधः स्यादसन्निहितवेदने॥
ननु च मरीचिजलज्ञानं भ्रान्तमिति कथमिह दृष्टान्तीक्रियते? कथमस्य भ्रान्तत्वम्? किमनिन्द्रियजत्वादुत व्यभिचारित्वात्। तत्रानिन्द्रियजत्वेनास्य भ्रान्ततायामिन्द्रियार्थसन्निकर्षोत्पन्नपदेनैव निरासदव्यभिचारिपदमनुपादेयमिति। तदुपादानात्तु व्यभिचारित्वेनास्य भ्रान्तत्वमिति नूनमिदमिन्द्रियजमसन्निहितसलिलज्ञानमभ्युपगन्तव्यम्।
यथा चाविषये तस्मिन्नीरे नयनजा मतिः।
तथा वाचकसंस्पृष्टे वाच्येकिमिति नेष्यते॥
यथा च तव कालादि नीरूपमपि चाक्षुषम्।
तथा शब्दानुरक्तोऽपि किमित्यर्थो न चाक्षुषः॥
एवं हीन्द्रियव्यतिरेकानुविधानमत्र न बाधितं भविष्यति।
ननु चाक्षुषतां शब्दे न जीवन् वक्तुमुत्सहे।
त्यजैनं वाचकोपेतवाच्यावगमदुर्ग्रहम्॥
अपि चामुष्य शाब्दत्वे सम्बन्धग्रहणं कथम्।
न चागृहीतसम्बन्धः शब्दो भवति वाचकः॥
निर्विकल्पकविज्ञानविषये न च तद्ग्रहः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%भोः साधो चक्षुरेवैनं ग्रहीष्यतीति कथं न ब्रूष% इति। अनेन वरं चाक्षुषत्वमस्याभ्युपगम्यतां न त्वत्यन्तासम्बध्यमानं शाब्दत्वमिति। प्रौढवादितया स्वयंशब्दविशष्टार्थप्रतिभासम्–अभ्युपगमेनापि प्रतिपादयति।
%निर्विकल्पकविषये न च तद्ग्रहः।% निर्विकल्पके शब्दविशिष्टस्यार्थस्य तद्वाच्यस्य अप्रतिभासात्, चक्षुषः शब्दाविषयत्वात्। %शाब्दज्ञानेन तद्बोध% इति। शब्दात् तदनुरक्तार्थप्रत्यये तेनार्थेन शब्दस्य सम्बन्धग्रहणम्, गृहीतसम्बन्धश्च शब्दोऽर्थं प्रत्याययतीतीतरेतराश्रयता।
न्यायमञ्जरी :–
%सविकल्पकस्यापि शब्दत्वखण्डनम्%
शाब्दपक्षे तु निक्षिप्तं भवता सविकल्पकम्॥
सम्बन्धः शक्यते बोद्धुं न च मानान्तराद् विना।
शाब्दज्ञानेन तद्बोधे भवेदन्योन्यसंश्रयम्॥
न शब्दोपरक्तेऽर्थे सम्बन्धं बुध्यते जनः।
गोशब्दवाच्यो गोशब्द इति हि ग्रहणं भवेत्॥
वाच्यस्य हि गवादेर्गोशब्दविशेषितस्य वाच्यत्वाद् वाच्योऽर्थ इव गोशब्दोऽपि वाच्यतामवलम्बते।
यदि च स्वानुरागेण वाचकाद् वाच्यवेदनम्।
लिङ्गादपि भवेद् बुद्धिः स्वावच्छेदेन लिङ्गिनि॥
अथ धूमान्वितत्वेन न वह्निरवगम्यते।
इहापि शब्दयोगेन गवादिर्नैव गम्यते॥
न चास्ति वस्तुनो धर्मो वाच्यता नाम कश्चन।
यदि स्यान्निर्विकल्पेऽपि प्रतिभासेत रूपवत्॥
अर्थासंस्पर्शिनः शब्दान् कथयन् दुष्टसौगतः।
प्रत्यक्षास्त्रेण हन्तव्यः स कथं त्वया॥
तेषां यद्विषये वृत्तिस्तद्धि शाब्दीकृतं त्वया॥
अपि च विषयभेदेन प्रतिभासभेदो भवतीति दुराशया शब्दविशिष्टमर्थं निर्विकल्पात् सविकल्पस्य विषयमदिकं पश्यति। भवान् अनेन वर्त्मना अवतरन् परं शब्दाध्यासं न पश्यतीति कोऽयं व्यामोहः? स त्वं वचनीयोऽसि संवृत्तः `मधु पश्यसि दुर्बुद्धे प्रपातं नैव पश्यसि’ इति।
तस्माद्गौरिति विज्ञानं प्रत्यक्षमवधार्यताम्।
शब्दस्मरणसापेक्षचक्षुरिन्द्रियनिर्मितम्॥
मानसत्वं तु यत्तस्य नेष्यते युक्तमेव तत्।
तद्भावानुविधायित्वाद् बाह्येन्द्रियजमेव तत्॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%प्रत्यक्षास्त्रेण हन्तव्य% इति। अयं भावः। `यदि अर्थासंस्पर्शिनः शब्दास्तत्प्रत्यक्षमप्यर्थासंस्पर्शि प्राप्तम्, तत्समानविषयत्वाच्छब्दानाम्’ इत्युक्ते प्रत्यक्षस्यार्थासंस्पर्शित्वानभ्युपगमान्निवर्तेत बौद्धः। तत्र निर्विकल्पकं तावत् समाविषयं न भवति वाच्यताविशिष्टार्थप्रतिभासस्य भवन्मते शब्दजत्वात्, तादृशस्य चार्थस्य निर्विकल्पकाविषयत्वात्; सविकल्पकञ्च न प्रत्यक्षं तवेत्।
%अनेन वर्त्मना अवतरन्तं शब्दाध्यासमि%ति। विलसति गौरयमित्यादिके शब्दोल्लेखेनोत्पद्यमाने ज्ञाने सामान्यादयोऽवभासन्ते, असति तु शब्दोल्लेखेन ज्ञाने नावभासन्ते। अतः शब्दवशादवभासमानास्ते कथं न शब्दाकाराः स्युः। अतः शब्दाकारा एवामी सामान्यादयोऽर्था अध्यस्ताः प्रतिभासन्ते न पुनर्बहिः सन्ति। यथा रक्तः स्फटिकमणिरिति प्रतीतिः सति लाक्षासन्निधाने समुत्पद्यतेऽन्यथा नेति तद्वशाल्लाक्षारूपाध्यारोपः स्फटिके कलयते। एवं शब्दवशात् समुत्पद्यमानानां सामान्यादिप्रत्ययानां शब्दाकारसामान्यादिरूपाध्यारोपोऽर्थे कल्प्यतामिति पर्यनुयुक्तैर्भवद्भिरिदमेवोत्तरं वक्तुम् सक्यम्, सविकल्पके ज्ञाने शब्दरहितस्यार्थस्यावभासनम्, शब्दस्तु तत्र चक्षुरादिवदुपाय एव, न तु सोऽपि तत्र प्रतिभासतेऽतः प्रतिभासमानानां सामान्यादीनां कथमप्रतिभासमानशब्दाकारताकल्पना सम्भवतीति। तदिदानीमित्थं शब्दविशिष्टार्थप्रतिभासेऽङ्गीकियमाणे विघटते। कथम्? अर्थवच्छब्दस्यापि यदि प्रतिभासोऽभ्युपगम्यते तदानीं शब्दस्याप्रतिभासमानत्वे यत् शब्दाकारत्वनिराकरणं सामान्यादीनां कृतं तन्नैव कर्तुं शक्यत इति। पुनरनेन मार्गेणावतरन् केन वार्यते शब्दाध्यास इति। एवञ्चेदं शब्दाध्यासपक्षावतरणं विश्वरूपटीकातो व्यपदेश्यपदं व्याचक्षाणैः भदृश्रीशशाङ्कधरपादैर्व्याख्यातम्। ग्रन्थकारस्त्वपवर्गाह्निके स्वाभिप्रायेण शब्दाध्यासस्वरूपं प्रपञ्चयिष्यति। शब्दाकारस्य सामान्यादेरर्थे न्यासः समारोपः शब्दाध्यासः।
%चयस्त्विषामि%ति। विभुर्हरिरम्बरात् खादवतरन्तं मुनिं क्रमान्नारद इत्यनेन विशेषेणाबोधि बुद्धवान्। यः पूर्वं दूरतयास्पष्टग्रहणाभावे सति त्विषां चयस्तेजसां पिण्डइत्यवधारितः, पुनः किञ्चिन्निकटतया शरीरितया ज्ञाताकारम्, ततोऽपि नैकट्यादवयवविभागावबोधात् पुंस्त्वेन निर्ज्ञातम्, ततोऽप्यतिनैकट्यान्नारद इत्येवमबोधि। %स एव विषयोऽवभासते% अविशिष्ट एव बासत इत्यर्थः। %निःसन्धिबन्धनस्य% शुद्धपुरुषप्रत्ययप्रतिभास्यादविभास्यादविभक्तस्वरूपस्य।
न्यायमञ्जरी :–
%रुचिकारादिमते उपायभेदात् प्रतिभासभेदसमर्थनम्%
क्रियान्तराणां वैचित्र्ये यद्वा तद्वाऽस्तु कारणम्।
भेदो ज्ञानक्रियायास्तु कर्मभेदनिबन्धनः॥
तदेतदाचार्याः प्रतिसमादधते न विषयभेदादेव प्रतिभासभेदः। किन्तूपायभेदाद्भवत्येव। यच्च चोदितं विषयप्रतिभासकाले तत्प्रतिभासाप्रतिभासादतिशयवचने सङ्कटः पन्था इति तदविदितनैयायिकदर्शनस्यैव चोद्यम्। ज्ञानोत्पाद एव विषयस्य प्रत्यक्षतेति नो दर्शनम्, न ज्ञानग्रहणमिति। तत्र यथा पुरुष इति निरतिशयज्ञानमात्रोत्पादे तावन्मात्रविषयप्रत्यक्षता भवति न तत्र ज्ञानं प्रकाशते, अगृह्यमाणेऽपि ज्ञाने विषय एव प्रतिभासते, एवं `दण्डी’ति `शुक्लवासा’ इति विशेषणज्ञानाभ्युपायातिशयवशात् सातिशयप्रत्ययजनने तद्ग्रहणे स एव विषयोऽवबासत इति कियानेष सङ्कटः पन्थाः? तथा च `दण्डीति’ पुरुषप्रवणैव मतिः, को दण्डी? पुरुषः, कः पुरुषः? दण्डीति, सामानाधिकरण्येन निःसन्धिबन्धनस्य पुंस एव प्रतिभासात्। एवं दण्डिनं भोजय, दण्डिने देहीति भोजनादिकार्ययोगित्वं न दण्डे, अपि तु पुंस्येव।
ननु `दण्डी पर्वतमारोहती’ति दण्डेऽपि कार्यान्वयो दृश्यते लोके, वेदेऽपि `दण्डी मैत्रावरुणः प्रैषानन्वाहेति’ प्रैषानुवचनस्य वचनान्तरतः प्राप्तेर्दण्डविधानार्थमेतद्वाक्यं भवति। यथा `लोहितोष्णीषा ऋत्विजः प्रचरन्ती’ति श्येनादौ ऋत्विजां प्रकृतिवद्भावेन प्राप्तानां लोहितोष्णीषविधानमात्रमेतद्भवति? उच्यते। भवत्वेवं, किन्तु दण्डमवलम्ब्य पुरुषः पर्वतमारोहति, न दण्डो निश्चेतनः। वेदेऽपि दण्डपाणिः पुरुषः प्रैषाननुभाषते न दण्डः। न लोहिता उष्णीषाः प्चरन्ति किन्तु अन्यपदार्थीभूता ऋत्विज एवेति सर्वत्र विशेष्यप्रवणैव मतिः। उभयप्रतिभाने तु दण्डपुरुषाविति स्यान्न दण्डीति, विशेषणविशेष्यभावस्य नियामकत्वादिति चेत्? सेयं विशेष्यप्रवणा मतिरुक्तैव भवति, विशेषणस्य विशेषणत्वेनैवोपसर्जनत्वाद् दण्डोऽस्यास्तीति पुरुष एवोच्यते न दण्डपुरुषौ। एवं पूर्वापरादिप्रत्ययाश्चिरक्षिप्रादिप्रत्यया इह तन्तुषु पट इत्यादिप्रत्ययाश्च दिक्कालसमवायग्राहिणः, त इमे दिक्कालसमवायाः सामग्र्यन्तर्गताः सन्तः प्रत्ययातिशयमादधति, न तद्विषये भवन्ति पटादिद्रव्यवत्। एवं पतनाद्यनुमेयगुरुत्वादिकारणभेदजनिता `गुरुः पाषाण’ इत्यादिप्रत्ययाः परोक्षविशेषणं विशेष्यमवलम्बन्त इत्यलं विस्तरेण।
तस्माद् गौरित्यादिज्ञानं न वाचकावच्छिन्नवाक्यविषयम्। अतश्च न शाब्दं तत्, अपि तु सुस्पष्टं प्रत्यक्षमेव। तस्मिश्च लक्षिते सति लक्षणवैयर्थ्याशङ्काकरणाभावान्नासम्भवदोषनिराकारणार्थमव्यपदेश्यपदम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%प्रैषानुवचनस्य वचनान्तरतः प्राप्तेरि%ति। `मैत्रावरुणः प्रैष्यति चानु चाऽऽह’ इति वचनान्तरेण यत् प्राप्तं प्रैषानुवचनं तदनूद्य दण्डित्वं विधीयते, यत् प्रैषानुवचनं मैत्रावरुणेर्नीत्वजा कर्तव्यं तद् दण्डिना यजमानतः प्राप्तदण्डहस्तेन कर्तव्यम्। पशुयागेऽध्वर्युणा अग्नये छागस्य वपाया मेदसः प्रेष्येति, एवं प्रेषितो मैत्रावरुणो यत् `होतर्यज’ इति प्रतिप्रेषणं करोति तत् प्रैषानुवचनम्, तदेव `प्रैष्यति चानु चाऽऽह’ इत्यत्र प्रैष्यतीत्यनेन विहितम्, न केवलमेवंभूतं प्रैषानुवचनमसौ करोतीति यावदनु चाह अन्वाह च अनुवाक्यमप्यसावेव पठतीत्यर्थः। %प्राप्तानामि%ति। सोमप्रकृतित्वाद् एवंबूतानामव्यक्तयागानां श्येनादीनां प्रकृति वद्भावात् षोडश ऋत्विज प्राप्ता एव; तान् प्राप्ताननूद्य लोहितोष्णीषता तेषां विधीयत इति।
न्यायमञ्जरी :–
%रुचिकारादिमतेऽव्यपदेश्यपदावश्यकता%
किमर्थं तर्हीदमस्तु? उक्तमाचार्यैः उभयजज्ञानव्यवच्छेदार्थमिति। ननु तदपि प्रत्यक्षमेवेति अनपोह्यमुक्तम्। पुरोऽवस्थितगवादिपदार्थस्वरूपमात्रग्रहणनिष्ठितसामर्थ्यमत्र प्रत्यक्षम्, गोशब्दवाच्यतायान्तु संज्ञाकर्मोपदेशी शब्द एव प्रमाणम्। यद्यपि शब्दार्थसम्बन्धपरच्छेदे गत्यन्तरमपि सम्भवति तथापि यत्र तावत् संज्ञिनं निर्दिश्य सञ्ज्ञा वृद्धैरुपदिश्यते `गोशब्दवाच्योऽयं’ `पनसशब्दवाच्योऽयमि’ति तत्रतद्वाच्यतापरिच्छेदे स एव कारणम्।
अत एव च लोकोऽपि शाब्दत्वमभिमन्यते।
शब्दोपरचितापूर्वज्ञानातिशयतोषितः॥
तच्छब्दवाच्यताज्ञप्तिर्विना संज्ञोपदेशिनः।
शब्दान्नेति स एवात्र सत्यप्यक्षे प्रकर्षभाक्॥
अतः सूत्रकृताप्यत्र शब्दातिशयदर्शनाद्।
व्यधायि तद्व्यवच्छेदो न तु धर्मोपदेशिना॥
तस्मादुभयजज्ञानव्यवच्छेदार्थमेवेदं पदमिति।
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%संज्ञाकर्मोपदेशी%ति। संज्ञासंज्ञिसम्बन्धक्रिया संज्ञाकर्म। %गन्यन्तरमपि सम्भवती%ति। यत्र वृद्धोक्त वाक्यमुपलभ्य परः प्रवर्ततेऽन्यश्च तटस्थ एव शब्दार्थे व्युत्पद्यते %`अमुष्मा%च्छब्दादवगतादत्रायं प्रवृत्तः, तन्नूनमस्यायमर्थः’ इत्यादिप्रकारेण।
न्यायमञ्जरी :–
%तत्र केषाञ्चित् पूर्वपक्षः%
अन्ये मन्यन्ते यदि सङ्केतग्रहणकाले भाविनः संज्ञोपदेशकवचनजनितस्योभयजज्ञानस्य व्यवच्छेदकमिदं वर्ण्यते पदम्, तदा तद्व्यवहारकालेऽपिः यदयं गौरिति सङ्केतग्रहणकालानुभूतदेवदत्ताद्युदीरितसंज्ञोपदेशकवचनस्मरणपूर्वकं विज्ञानमुत्पद्यते तदप्युभयजमेवेति कथमवनेन न व्युदस्यते?
ननु तत्र शब्दस्मरणं कारणं न शब्दः, सङ्केतकालेऽपि शब्दस्मरणमेव कारणम्। न हि क्रमभाविनो वर्णा युगपदनुभवितुं पार्यन्ते, अन्त्यवर्णे तु गृह्यमाणे स्मर्यमाणे वा किं शब्दव्यापारो विशिष्यते?
ननु व्यवहारकाले गवादिनामधेयपदमात्रमेव स्मर्यमाणमिन्द्रियेण सह सविकल्पप्रत्ययोदये व्याप्रियते। सह्केतकाले तु संज्ञोपदेशिवृद्धवाक्यमिति चेत्, मैवम्। व्यवहारकालेऽपि संज्ञोपदेशकं वृद्धवाक्यमेव स्मर्यते तदस्मरणे तच्छब्वाच्यतानवगमात्। `अस्य गौरिति नाम देवदत्तेनोपदिष्टमासीदि’ त्येवमनुस्मृत्य गोशब्दवाच्यतयैवं व्यवहरतीति वाक्यस्मरणजमेवेदं ज्ञानम्।
तस्मादस्यापि तद्वाक्यं संज्ञाकर्मोपदेशकम्।
हेतुतामुपयातीति शाब्दमेतदपीष्यताम्॥
एवमस्त्विति चेच्छान्तमेवं सति तपस्विनाम्।
नैयायिकानामुत्पन्नं प्रत्यक्षं सविकल्पकम्॥
यत्र मार्गान्तरेणापि सङ्केतज्ञानसम्भवः।
तत्राप्यनेन न्यायेन शाब्दता न निवर्तते॥
नैयायिकानाञ्च सविकल्पप्रत्यक्षमयाः प्राणाः, तस्मान्नोभयजस्य शाब्दत्वं ज्ञानस्य वक्तव्यम्। सम्बन्धाधिगमस्तु नानाप्रमाणकः। तत्र स्वे स्वे विषये तत्तत् प्रमाणं प्रवर्तते, यथाह भट्टः “सम्बन्धस्त्रिप्रमाणक” इति। तस्मान्नैकस्य शब्दस्य भार आरोपणीयः। प्रत्यक्षन्तुसङ्केतग्रहणकालेऽपि स्वविषयग्राहकम्। इदानीमपि व्यवहारकालेऽपि तत्स्वविषयग्राहकमिति नोभयजज्ञानं व्यवच्छेदपक्षो निरवद्यः। तस्माद् वरं जरन्नैयायिककथितशब्दकर्मतापन्नज्ञानव्यवच्छेद एवाश्रीयताम्, तत्र तावत्कर्मणि कृत्ये कृते व्यपदेश्यशब्दो यथार्थतरो भवति।
ननु तत्र चोदितं न तादृशं ज्ञानमप्रमाणम्, न पञ्चमं प्रमाणमिति। सत्यम्। अयन्तु तेषामाशयः, रूपादिविषयग्रहणाभिमुखं हि तदक्षजं ज्ञानं प्रमाणं वा फलं वोच्यते। यदा तु तदेव शब्देनोच्यते रूपज्ञानं रसज्ञानमिति तदा रूपादिज्ञानविषयग्रहणव्यापारलभ्यां प्रमाणतामपहाय शब्दकर्मतापत्तिकृतां प्रमेयतामेवावलम्बत इति न तस्यां दशायां तत्प्रमाणमिति कुतः पञ्चमप्रमाणप्रसङ्ग इति।
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%एवमस्त्विति चेच्छान्तमि%ति। शान्तम्, मा भूदेवम्, अमङ्गलमेतदित्यर्थः। %तत्राप्यनेन न्यायेन शाब्दता न निवर्तत% इति। तत्रापि यस्मादन्यं वृद्धं प्रत्युदीरिताद् वृद्धवाक्याद् यत्रार्थे तस्य व्युत्पत्तिर्ज्ञाता, तदर्थग्रहणकाले तस्य वाक्यस्य स्मरणात्।
%सम्बन्धस्त्रिप्रमाणक% इति।
शब्दवृद्धाभिधेयांस्तु प्रत्यक्षेणैव पश्यति।
श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेष्टया॥
अन्यथानुपपत्त्या च वेत्ति शक्तिं द्वयाश्रिताम्।
अर्थापत्त्यावबुध्यन्ते सम्बन्धं त्रिप्रमाणकम् ॥ इति॥
चेष्टया प्रवृत्तिनिवृत्तिलक्षणया। अनुमानेनानुमानभूतया। प्रमाणत्रयावगम्यत्वेऽपि सम्बन्धस्यार्थापत्तेः साक्षाद् व्यापारादितरयोस्तदुपकारत्वेन `अर्थापत्त्यावबुध्यन्ते’ इत्युक्तम्।
न्यायमञ्जरी :–
%केषाञ्चिदपरेषां मतेऽव्यपदेश्यपदसार्थक्यम्%
अपर आह, सविकल्पकस्य शब्दसह्कल्पकस्य शब्दसंसर्गसापेक्षजन्मनः प्रत्यक्षज्ञानस्य शाब्दतां पूर्ववदाशभ्क्य तस्यैवाशाब्दतां दर्शयति अव्यपदेश्यपदेन सूत्रकारः, प्रत्यक्षमेव तज्ज्ञानमिन्द्रियान्वयव्यतिरेकानुविधायित्वादव्यपदेश्यमशाब्दमित्यर्थः।
स्पष्टत्वाद् वाचकाभावादिन्द्रियानुविधानतः।
लोकस्य सम्मतत्वाच्च प्रत्यक्षमिदमिष्यते॥
शब्दानुस्मृतिजत्वेऽपि न शाब्दं ज्ञानमीदृशम्।
शब्दस्मृतिः सहायः स्यादिन्द्रियस्य प्रदीपवत्॥
नन्वेवं सविकल्पस्य प्रत्यक्षत्वे प्रसाधिते।
नेदानीं संगृहीतं स्यात्प्रत्यक्षं निर्विकल्पकम्॥
यत्तु शब्दानुवेदेन शाब्दत्वं सविकल्पके।
कश्चिदाशङ्कते तस्य प्रतिशब्दोऽयमुच्यते॥
यत्र शब्दानवेधेऽपि प्रत्यक्षं ज्ञानमिष्यते।
तत्र तत्स्पशशून्यस्य तथात्वे का विचारणा॥
निर्विकल्पकवत्तस्मात् प्रत्यक्षं सविकल्पकम्।
समग्रहीच्च तदिदं पदेनानेन सूत्रकृत्॥
इत्याचार्यमतानीह दर्शितानि यथागमम्।
यदेभ्यः सत्यमाभाति सभ्यास्तदवलम्ब्यताम्॥
न्यायमञ्जरी :–
%अव्यभिचारिपदसार्थक्यम्%
अव्यभिचारिग्रहणं व्यभिचारिज्ञानव्यवच्छेदार्थम्। यथा ग्रीष्मे तपति ललाटन्तपे तपने तन्मरीचिषु चतुरमूषरभुवमभिहत्य समुत्फलितेषु तरङ्गाकारधारिषु यद् वारिधिज्ञानं तदतस्मिंस्तदिति ग्रहणाद् व्यभिचारि भवति तदनेन पदेन व्यवच्छिद्यते न तत्प्रत्यक्षमिति। तत्र च निर्विकल्पकमपि प्रथमनयनसन्निपातजज्ञानमुदकसविकल्पकज्ञानजनकमुदकग्राह्येव न यथा, तथा तथागताः कथ यन्ति मरीचिविषयमविकल्पकं ज्ञानमुदकसविकल्पकजननादप्रमाणमिति निर्विकल्पावस्थायामविचारयत एवं प्रथमोन्मीलितचक्षुषो झगिति सलिलप्रतिभासात्। अथवा वाचकोल्लेखपूर्विका अपि संविदः नैवेन्द्रियार्थजन्यत्वं जहतीत्युपपादितम्, तस्मात् सविकल्पकमविकल्पकं वा यदतस्मिंस्तदिति ज्ञानमुत्पद्यते तद्व्यभिचारि, तच्चेह व्यावर्त्त्यमिति।
ननु मरीचिषु जलज्ञानमविद्यमानसलिलावभासित्वादनिन्द्रियार्थसन्निक्रषजमतश्चेन्द्रियार्थसन्निकर्षोत्पन्नपदेन तद्व्युदाससिद्धेः, किमव्यभिचारिपदेन? नैतदेवम्,
तस्येन्द्रियार्थजन्यत्वं सिद्धं तद्भावभावतः।
न ह्यनुन्मीलिताक्षस्य मरौ सलिलवेदनम्॥
अर्थोऽपि जनकस्तस्य विद्यते नासतः प्रथा।
तदालम्बनचिन्तां तु त्रिधाचार्याः प्रचक्रिरे॥
कैश्चिदालम्बनं तस्मिन्नुक्तं सूर्यमरीचयः।
निगूहितनिजाकारा- सलिलाकारधारिणः॥
तत्र तरङ्गादिसामान्यधर्मग्रहणे सति न स्थाणुपुरुषवदुभयविशेषाः, न च सन्निहतमरीचिविशेषाः स्मरणपथमवतरन्ति किन्तु पूर्वोपलब्धविरुद्धसलिलवर्तिनो विशेषाः, तत्स्मरणाच्च स्थगितेषु स्वविशेषेषु मरीचयः स्वरूपमुपदर्शयितुमशक्नुवन्तस्तोयरूपेणावभासन्त।
न्यायमञ्जरी :–
%आलम्बनपदार्थविचारः%
अन्येत्वालम्बनं प्राहुः पुरोऽवस्थितधर्मिणः।
सादृश्यदर्शनोद्भूतस्मृत्युपस्थापितं पयः॥
यत्र किल ज्ञाने यद्रूपमुपप्लवते तत्तस्यालम्बनमुच्यते, न सन्निहितम्। न चैकान्तासतः खपुष्पादेः ख्यातिरवकल्पत इति देशान्तरादौ विद्यमानमेव सलिलं सदृशदर्शनप्रबुद्धसंस्कारोपजनितस्मरणोपारूढम् इहावलम्बनीभवति।
अन्यदालम्बनञ्चान्यत् प्रतिभातीति केचन।
आलम्बनं दीधितयस्तोयञ्च प्रतिभासते॥
कर्तृकरणव्यतिरिक्तं ज्ञानजनकमालम्बनमुच्यत इति न परमाण्वादौ प्रसक्तिरिति। तदिदं पक्षत्रयमप्युपरिष्टान्निपुणतरं निरूपयिष्यते। तदेवं बाह्येन्द्रियामशक्यत्वाद् युक्तमव्यभिचारिपदोपादानम्।
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%कर्त-करणव्यतिरिक्तं ज्ञानजकमि%ति। ज्ञानजन्मनि कारकत्रयव्यापारोपलम्भाच्छुक्तिकायाः कर्तृकरणरूपतानन्वयादवश्यं कर्मतया विषयत्वेनालम्बनत्वेनान्वयो वाच्य इति।
न्यायमञ्जरी :–
%विभ्रमवारणार्थमव्यभिचारिपदमिति शङ्कायाः समाधानम्%
यत्तु मानसा विभ्रमा बाह्येन्द्रियानपेक्षजन्मानः, तेषां सत्यमिष्यत एवेन्द्रियार्थसन्निकर्षपदेन पर्युदसनमिति न तदर्थमव्यभिचारिपदोपादानम्। तद्यथा
विरहोद्दीपितोद्दामकामाकुलितदृष्टयः।
दूरस्थामपि पश्यन्ति कान्तामन्तिकवर्त्तिनीम्॥
नन्वेवम्प्रायेषु निरालम्बनेषु विभ्रमेषु कुतस्त्य आकारः प्रतिभाति? उच्यते
आकारः स्मृत्युपारूढः प्रायेण स्फुरति भ्रमे।
स्मृतेस्तु कारणं किञ्चित् कदाचिद्भवति क्वचित्॥
क्वचित् सदृशविज्ञानं कामशोकादयः क्वचित्।
क्वचित् कुदर्शनाभ्यासश्चक्षुषस्तिमिरं क्वचित्॥
क्वचिन्निद्रा क्वचिच्चिन्ता धातूनां विकृतिः क्वचित्।
अलक्ष्यमाणे तद्धेतावदृष्टं स्मृतिकारणम्॥
बालस्येन्दुद्वयज्ञानमस्ति नास्तीति वेत्ति कः।
अस्तित्वेऽपि स्मृतौ हेतुमदृष्टं तस्य मन्वते॥
नूनं नियमसिद्ध्यर्थं जनकस्यावभासनम्।
न चैकान्तासतो दृष्टा ज्ञानोत्पादनयोग्यता॥
न च सन्निहितं वस्तु तत्रास्ति वनितादिकम्।
तेनेदं स्मृत्युपारूढमवभातीति मन्वते॥
तत्राद्येन पदेनैताः स्वान्तःकरणसम्भवाः।
निरस्ता भ्रान्तयोऽक्षादिसंसर्गरहितोदयाः॥
याः पुनः पीतशङ्खादिमरुनीरादिबुद्धयः।
अक्षजास्तद्व्युदासाय सूत्रे पदमिदं कृतम्॥
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%क्वचित् सदृशविज्ञानमि%ति। यथा मरीचिषु जलज्ञाने। %कामशोकादयः% पुरोऽविस्थितस्त्र्यादिदर्शने।
%कुदर्शनाभ्यासो% बोद्धादिदर्शनाभ्यास आत्मादौ नास्तिताज्ञाने। %चक्षुषस्तिमिरं% द्विचन्द्रादिज्ञाने। %निद्रा% स्वप्नज्ञाने। %चिन्ता% यमर्थं चिन्तयति तत् प्रत्यक्षतया पुरोऽवस्थितमिव गृह्णाति। %धातूनां% पित्तादीनां %विकृतिः% शर्करादेस्तिक्ततादिज्ञाने। ननु जाततैमिरिकस्येहजन्मनि घटादिगतस्य द्वित्वस्याऽननुभवात् स्मरणाभावाद् द्विचन्द्रादिज्ञानानुत्पाद इत्याशङ्क्याह–%अलक्ष्यमाणे तद्धेतावि%ति। इदमेवोत्तरश्लोकेन `बालस्येन्दुद्वयज्ञानमस्ति नास्ति’ इत्यादिना व्यनक्ति। यद्यपीहजन्मनि नानुभवस्तथापि जन्मान्तरानुभूतस्य अदृष्टवशादनुस्मरणमिति तात्पर्यम्। अलक्ष्यमाणे वा स्कशिरश्छेदादावनुभवाभावाददृष्टस्य कारणता। ननु जाततैमिरिकस्यापि तिमिरमेव मिथ्याज्ञाने हेतुः। सत्यम्, तत्तु तिमिरं द्वित्वस्मरणद्वारेण जनकम्, तस्य स्मरणं चानुभूते भवति, न च जातमात्रस्येहजन्मन्यनुभवोऽरित। अथ तिमिरमेव जन्मान्तरानुभूतस्मरणहेतुः कस्मान्न कल्यते। न, दृष्टस्य हेतोर्जन्मान्तरानुभूतस्मरणसामर्थ्यकल्पनायामननुभूतरजतस्यापीहजन्मनि शुक्तिकायां सादृश्यजनितजन्मान्तरानुभूतरजतस्मरणे सति रजतज्ञानं स्यात्, न च दृश्यते। अतोऽदृष्टमेव जन्मान्तरानुभूतरमरणजनकत्वेन कारणं कल्प्यम्, यत्र कार्यञ्च दृश्यते। अतोऽदृष्टमेव जन्मान्तरानुभूतरमरणजनकत्वेन कारणं कल्प्यम्, यत्र कार्यञ्च दृश्यते न च तदनुगुणकारणं तत्र सर्वत्रादृष्टस्यैव कारणत्वात्, अग्नेरूर्ध्वज्वलनादौ। नन्विदमत्र कारणमिदं चात्रेत्यत्र किं प्रमाणम्? तदाह–%नूनं नियमसिद्ध्यर्थमि%ति। यदि हि अजनकं प्रतिभासेत तदजनकत्वाविशेषाद् यत्किञ्चित् प्रतिभासेत; शिक्तिकायां घटोऽपि प्रतिभासेत, रजतवत् तस्याप्यजनकत्वादिति।
न्यायमञ्जरी :–
%व्यवसायपदसार्थक्यम्%
दूरात् स्थाणुपुरुषसाधारणं धर्ममारोहपरिणाहरूपमुपलभमानस्य तयोरन्यतरत्र वर्त्तमानान् वक्रकोटरादीन् करचरणान् वा विशेषानपश्यतः समानधर्मप्रबुद्धसंस्कारतया चोभयवर्तिनोऽपि विशेषाननुस्मरतः पुरोऽवस्थितार्थविषयं स्थाणुर्वा पुरुषो वेति संशयज्ञानमुपजायते तद् इन्द्रियार्थसन्निकर्षोत्पन्नत्वादिविशेषणयुक्तमपि न प्रत्यक्षफलम्। अतस्तद्व्यवच्छेदाय व्यवसायात्मकग्रहणम्।
न्यायमञ्जरी :–
%संशयमानसत्ववादिमते शङ्का तत्समाधानञ्च%
ननु मानसत्वात् संशयज्ञानस्य इन्द्रियार्थसन्निकर्षोत्पन्नग्रहणेन निरासः सिद्ध्यत्वेवेति कि पदान्तरेण? तथा च भाष्यकारः स्मृत्यनुमानागमसंशयप्रतिभास्वप्नज्ञानोहसुखादिप्रत्यक्षमिच्छादयश्च मनसो लिङ्गानीति वक्ष्यति।
मैवम्, स्थाण्वादिसंशयस्य बाह्येन्द्रियान्वयव्यतिरेकानुविधायित्वात्। कश्चिद्धि मानसः संशयः समस्त्येव यथा आदेशिकस्य ज्योतिर्गणकादेरेकदा अन्यदा चासम्यगादिश्य तृतीये पदे पुनरादिशतः संशयो भवति `किमयमस्मदादेशः संवदेदुत विसंवदेदि’ति स भाष्यकृतश्चेतसि केवलमनःकरण इति स्थितिः। यस्तु विस्फारिताक्षस्य स्थाणुर्वा पुरुषो वेत्यादिः संपद्यते संशयस्तम्, अनिन्द्रियार्थसन्निकर्षजं को नामाचक्षीत।
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%स्मृत्यनुमानागमे%ति। स्मृत्यादीनां बाह्यकरणव्यापारोपरमेऽयुपलम्भात्, अकरणस्य चात्मनस्तज्जन्मनि बाह्यविषयज्ञान इव सामर्थ्यादर्शनात् करणं कलयम्, तच्च मन इति।
न्यायमञ्जरी :–
%संशयविपर्यययोरपाकरणार्थमव्यभिचारिपदमितिविचारः%
नन्वतस्मिंस्तदिति ज्ञानं व्यभिचारि व्याख्यातम्। एकरूपञ्च पुरोऽवस्थितमर्थमनेकरूपतया स्पृशति संशयः स्थाणुर्वा पुरुषो वेति सोऽयमतस्मिस्तथाभावाद्विपर्यय एवेति पूर्वपदव्युदस्तत्वान्न पदान्तरव्यवच्छेद्यतामर्हतीति। नैतदेवम्, स्वरूपभेदात् कारणभेदाच्च। एवमेव विरुद्धमाकारमुल्लिखन् विपर्ययो जायते स्थाणौ पुरुष इति पुंसि वा स्थाणुरिति, अनियताकारद्वयोल्लेखी तु संशयो भवति स्थाणुर्वा स्यात्पुरुषो वेति। सोऽयं स्वरूपभेदः प्रत्यात्मसंवेद्यः। कारणभेदात्तु विरुद्धविशेषस्मरणप्रभवो विपर्ययः, शुक्तिकायां सन्निहितायां रजतविशेषानुस्मरणान्मरीचिषु सलिलगतविशेषाननुस्मरतो विपर्ययो भवति। उभयविशेषस्मरणजन्मा तु संशय इति पदान्तरनिरसनीय एवायम।
न्यायमञ्जरी :–
%तत्रैव प्रवरपक्षीयाशङ्का तत् समाधानञ्च%
ननु संशयविपर्यययोरपि निर्विकल्पयोरसम्भवादव्यपदेश्यपदेनैव प्रवरपक्षे प्रतिक्षेपः सिद्ध्येत्, पुरोऽवस्थितस्थाण्वादिधर्मिदर्शनमात्रमेव निर्विकल्पकमिन्द्रियव्यापारजम्, अनन्तरन्तूभयान्यतरविशेषस्मरणजन्मनोरुल्लिखितशब्दयोरेव संशयविपर्यययोरुत्पादः, तत्र विशेषस्मृत्यैव शब्दानुवेधस्याक्षेपात्, अतः पदद्वयमपि तद्व्युदासाय न कर्त्तव्यम्। अत्र तदेव तावद्वक्तव्यम् प्रवरपक्षः प्रतिक्षिप्त एव यतः शब्दानुवेधजातमस्ति प्रत्यक्षमुपपादितम्।
न्यायमञ्जरी :–
%संशयविपर्यययोरपि अव्यपदेश्यत्वमेव%
ननु भवतु प्रवरपक्षः प्रतिक्षिप्तः सदृशदर्शननिष्ठिते तु नयनव्यापारे विशेषस्मृतेरूर्ध्वमुपजायमानौ संशविपर्ययौ नेन्द्रियजाविति प्रथमपदेनैव निरस्तौ भवतः। तदसत् स्मृतेरूद्र्ध्वमपीन्द्रियव्यापारानुवृत्तेरित्युक्तत्वात्, एतच्चान्वयव्यतिरेकाभ्यामवगम्यते निमीलितचक्षुषस्तदनुत्पादात्, न च तदानीमन्तः सङ्गल्परूपेणापि शब्दोल्लेखः, उत्पन्ने तु संशये विपर्यये च वाचकस्मरणं भविष्यतीति सम्यग्ज्ञानवत् संशयविपर्ययावपि शब्दोल्लेखशून्यौ संवेद्येते, विशेषस्मृतिस्तु विशेषविषयत्वात् तानेवाक्षिपतु शब्दस्य किं वर्त्तते वाचकशब्दस्मृतिस्तु शब्दमुपस्थापयति, सा च न तावदुपपन्नेति।
सम्यक्प्रत्ययवत्तस्माद्वाचकोल्लेखवर्जितौ।
अक्षव्यापारजन्मानौ स्तः संशयविपर्ययौ॥
ईदृशयो- कथमनयोराद्यपदव्युदसनीयता, तस्मात् तदपाकृतये युक्तं पदद्वयस्याप्युपादानम्, एवं लक्षपदानि व्याख्यातानि।
न्यायमञ्जरी :–
%प्रत्यक्षपदस्य यौगिकत्वादिविचारः%
लक्ष्यपदन्तु प्रत्यक्षमिति ज्ञानविशेषे रूढ्यैव प्रवर्त्तते, योगस्य व्यभिचारात्. प्रतिगतमक्षं प्रत्यक्षमित्यक्षरार्थः, स चायं सुखादावपि सम्भवतीति रूढिरेव साधीयसी। अथवा ज्ञानपदस्य सूत्रे निर्देशाद् योगपक्षोऽप्यस्तु न चासौ दृश्यमानो निह्नोतुं युक्तः। योगरूढिस्तु न सम्मतैव विदुषाम्। यत्रापि हि द्वयं दृश्यते तत्रापि शब्दप्रवृत्तौ प्रयोजकमवे भवति, कथं पुनरक्षं प्रतिगतं ज्ञानमिष्यते, न संयोगित्वेन अञ्जनादेः प्रत्यक्षप्रसङ्गात्, न समवायित्वेन अक्षवर्तिनां रूपादीनां तथात्वप्रसङ्गात्, न जनकत्वेन अक्षारम्भकाणां परमाणूनामपि तथाभावप्रसक्तेः, तस्माज्जन्यत्वेनैव ज्ञानमक्षं प्रतिगतमिति व्याख्येयम्। अव्ययीभावव्याख्यानन्तु न युक्तं प्रत्यक्षः पुरुषः प्रत्यक्षा स्त्रीत्यादिव्यवहारदर्शनादित्यलं प्रसङ्गेन।
तेनेन्द्रियार्थजत्वादिविशेषणगणान्वितम्।
यतो भवति विज्ञानं तत्प्रत्यक्षमिति स्थितम्॥
इति विगतकलङ्कमस्य धीमानकुरुत लक्षणमेतदक्षपादः।
न तु पररचितानि लक्षणानि क्षणमपि सूक्ष्मदृशां विशन्ति चेतः॥
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%योगरूढिस्तु न सम्मतैवे%ति। या पङ्कजादिषु काश्चिदभ्युपगता तस्या दूषणं स्वयमायाह–%यत्रापि हि द्वयं दृश्यत% इत्यादिना। %अव्ययीभावव्याख्यानमि%ति। अक्षमक्षं गतं प्रत्यक्षमिति वीप्सायामव्ययीभावः। `प्रत्यक्षेण प्रत्यक्षादिति दर्शनात्’ इति नापपाठः, एतथोरव्ययीभावेऽपि सम्भवात्। `अपञ्चम्याः’ इति पञ्चम्या अमादेशप्रतिषेधात्, `तृतीयासप्तम्योर्बहुलम्’ इति च तृतीयासप्तम्योर्बहुलवचनात्। अतः `प्रत्यक्षस्य प्रत्यक्षयोः’ इत्यादि पठनीयम्। ननु च प्रतिगतमक्षं प्रत्यक्षम् `अत्यादयः क्रान्ताद्यर्थे द्वितीयया’ इति तत्पुरुषाश्रयणात् परवल्लिङ्गतायां प्रत्यक्षो बोध इत्यादि न स्यात्। उच्यते, `द्विगुप्राप्तापन्नालंगतिसमासेषु’ परवल्लिङ्गतानिषेधादभिधेयलिङ्गतैव भवति, प्राप्तो जीविकां प्राप्तजीविक इतिवत्।
न्यायमञ्जरी :–
%धर्मकीर्त्तिसंस्कृतदिङ्नागीयप्रत्यक्षलक्षमम्%
यत्तावत् कल्पनापोढमभ्रान्तमिति लक्षणम्।
प्रत्यक्षस्य जगौ भिक्षुस्तदत्यन्तमसाम्प्रतम्॥
शब्दसंसर्गयोग्यार्थप्रतीतिः किल कल्पना।
अस्याश्च केन दोषेण प्रामाण्यं न विषह्यते॥
नन्वभिलापसंसर्गयोग्यप्रतिभासत्वादपि हि कम् अन्यं दोषं मृगयते भवान्, असदर्थविषयत्यागे तत्त्वमुक्तं भवति शब्दार्थस्य वास्तवस्याभावात्, स्वलक्षणस्य सजातीयेतरव्यावृत्तात्मनः सम्बन्धाधिगमसव्यपेक्षप्रवृत्तिना शब्देन विषयीकर्तुमशख्यत्वात्, तद्व्यतिरिक्तस्य वस्तुनोऽनुपलम्भात्। न चेन्द्रियार्थसन्निकर्षान्वयव्यतिरेकानुविधायिनी कल्पनाबुद्धिः, तमन्तरेणापि भावात्, तस्मिन् सत्यपि च पूर्वानुभूतवाचकशब्दयोजनं विनानुत्पादात्। यदि चेन्द्रियार्थसन्निकर्षस्तज्जनको भवेत् प्रथममेव तथाविधां धियं जनयेन्, न च जनयति, तदयं शब्दस्मृतेरूर्ध्वमपि न जनक इति मन्यामहे। तदुक्तम्,
यः प्रागजनको बुद्धेरुपयोगाविशेषतः।
स पश्चादपि तेन स्यादर्थाभावेऽपि नेत्रधीः ॥ इति।
अति च सत्यपीन्द्रियार्थसंसर्गे स्मृत्यपेक्षया सोऽर्थस्तयैव व्यवहितः स्यात्, आह च
अर्थोपयोगेऽपि पुनः स्मर्याच्छब्दानुयोजनम्।
अक्षधीर्यद्यपेक्षेत सोऽर्थो व्यवहितो भवेत्॥ इति।
सङ्केतस्मरणसहकारिसव्यपेक्षमक्षमीदृशीं बुद्धिमुपजनयतीति चेद्, न, व्यतिरिक्ताव्यतिरिक्तोपकारादिविकल्पैः सहकारिणो निरस्तत्वात्, किञ्च दण्डीत्यादिविकल्पविज्ञानं नेन्द्रियापातवेलायामेव जायते किन्तु बहुप्रक्रियापेक्षम्, यदाह।
विशेषणं विशेष्यञ्च सम्बन्धं लौकिकीं स्थितिम्।
गृहीत्वा सकलञ्चैतत्तथा प्रत्येति नान्यथेति॥
न चेयतीं प्रक्रियां प्रथमनयनोपनिपातजातमविकल्पकं ज्ञानमुद्बोढुं क्षममित्याह
सङ्केतस्मरणोपायं दृष्टसङ्कल्पनात्मकम्।
पूर्वापरपरामर्शशून्यं तच्चाक्षुषं कथम्॥
तत्रैतत्स्यात्, द्विविधा विकल्पाः छात्रमनोरथविरचिताः इदन्ताग्राहिणश्च नीलमित्यादयः। तत्र पूर्वे मा भूवन् प्रमाणं कस्तेष्वर्थनिरपेक्षजन्मसु प्रामाण्येऽभिनिवेशः? इदन्ताग्राहिणां त्वर्थाविनाभूतत्वात् कथं न प्रामाण्यमिति उच्यते, सर्वं एवामी विकल्पाः परमार्थतोऽर्थं न स्पृशन्त्येव स हि निर्विकल्पकेनैवासर्वात्मना परिच्छिन्नः। तदुक्तम्
एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम्।
कोऽन्यो न दृष्टो भागः स्याद् य प्रमाणैः परीक्ष्यते॥ इति।
यत्तु केषाञ्चिद्विकल्पानामिदन्ताग्राहित्वस्पष्टत्वादिरूपं तदर्थाविनाभाविनिर्विकल्पकदर्शनपृष्ठभावित्वावाप्ततच्छायासंसर्गजनितं न तु तेषामर्थस्पर्शः कश्चिदस्ति अर्थात्मनो निर्विकल्पेनैव मुद्रितत्वात्।
तस्मादतात्त्विकाकारसमुल्लेखपुरःसराः।
न यथावस्तु जायन्ते कदाचिदपि कल्पनाः॥
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%अभिलापसंसर्गेति।% इभिलप्यतेऽनेन ह्यभिलापः शब्दस्तेन संसर्गः सम्बन्धस्तद्योग्यः सामान्याकारः प्रतिभासतेऽस्यामित्यभिलापसंसर्गयोग्यप्रतिभासा। बालो हि यदा स्तनं पूर्वोपलब्धस्तनैक्येन न गृह्णाति न तदा रोदनादिपरिहारेण तत्र मुखमर्पयति, अतः शब्दसंसर्गाभावेऽपि तद्याग्यत्वात् प्रतिभास्यस्य तद्ग्राहिज्ञानस्य कल्पना त्वसिद्धये योग्यग्रहणम्। %तमन्तरेणापि भावात्,% आभोगादाविति शेषः; आभोगादौ हि इन्द्रियसम्बन्धं विनापि नानार्थकल्पना जायन्ते।
%यः प्रागजनक% इति। योऽर्थः प्रथमेन्द्रियसन्निकर्षकाले सविकल्पकस्य न जनकः स पश्चादप्यजनक एव। तस्य हि तज्जन्मन्युपयोगो योग्यदेशावस्थितत्वम्, स च प्रागप्यस्ति; प्राक् चेदजनकः स पश्चादप्यजनक एव। अतो%ऽर्थाभावेऽपि नेत्रधीः।% नेत्रधीरूपतया भवदभिमता सविकल्पिका बुद्धिर्भवेदिति।
%अर्थोपयोगेऽपीति।% अर्थस्योपयोगेऽपि योग्यदेशावस्थितत्वेऽपि यदि स्मर्यमाणशब्दसंपर्कमपेक्षेत तज्ज्ञानम्, तदा सोऽर्थो व्यवहितो भवेत्। स्मरणजन्मन्येव तस्य व्यापृतत्वात् तज्जन्मनि पुनरव्यापारणं व्यवधानम्।
%लौकिकीं स्थितिमि%ति। हस्तस्थदण्डे दण्डी न पादाद्याक्रान्तेऽपीति सङ्कल्प्य संयोज्यैकत्र तथा प्रत्येति दण्डीति उच्यते।
ननु तथाविधे दण्डीत्यादौ कल्पनाज्ञाने यदुपलब्धं रूपम् कीदृक् तदुपलब्धमित्यह %सङ्केतस्मरणोपायमि%ति। %दृष्टसङ्कलनात्मकं% पूर्वदृष्यस्य दृश्यमानेन सह संयोजनात्मकम्।
%एकस्यार्थस्वबावस्ये%ति। एकस्य निर्भागस्य। %प्रमाणैरि%ति। सविकल्पकैः प्रत्यक्षैर्भवदभिमतैरनुमानैश्च। यदि हि प्रत्यक्षेणैवानित्यत्वादिसकलविशेषच्छुरतः शब्दो गृहीतस्तत् `अनित्यः शब्दः कृतकत्वात्’ इत्यनुमानेन किं कार्यमित्यर्थः।
न्यायमञ्जरी :–
%तन्मते कल्पनापञ्चकं सोदाहरणम्%
पञ्च चैताः कल्पना भवन्ति, जातिकल्पना गुणकल्पना क्रियाकल्पना नामकल्पना द्रव्यकल्पना चेति। ताश्च क्वचिदभेदेऽपि भेदकल्पनात् क्वचिच्च भेदेऽप्यभेदकल्पनात् कल्पना उच्यन्ते।
जातिजातिमतोर्भेदो न कश्चित् परमार्थतः।
भेदारोपणरूपा च जायते जातिकल्पना॥
इदमस्य गोर्गोत्वमिति न हि कश्चिद्भेदं पश्यति तेनाभेदे भेदकल्पनैव।
एतया सदृशन्यायान्मन्तव्या गुणकल्पना।
तत्राप्यभिन्नयोर्भेदः कल्प्यते गुणतद्वतोः॥
तथा चाहुः, एष गुणी रूपादिभ्योऽर्थान्तरत्वेन नात्मानं नो दर्शयति तेभ्यश्च व्यतिरेकं वाञ्छसीति चित्रम्।
भेदारोपणरूपैव गुणवत्कर्मकल्पना।
तत्स्वरूपातिरिक्ता हि न क्रिया नाम काचन।
गच्छति देवदत्त इति देवदत्तस्यैवान्यूनानतिरिक्तस्य प्रतिभासात्।
विभिन्नयोस्त्वभेदेन प्रवृत्ता नामकल्पना।
चैत्रोऽयमित्यभेदेन निश्चयो नामनामिनोः॥
चैत्र इत्ययं शब्दः, अयमित्यर्थः, कीदृशमनयोः सामानाधिकरण्यम्?
एवं दण्ड्ययमित्यादिर्मन्तव्या द्रव्यकल्पना।
सामानाधिकरण्येन भेदिनोर्ग्रहणात्तयोः॥
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%जातिजातिमतोर्भेदो न कश्चिदि%ति। न व्यक्तेर्व्यतिरिक्ता जातिरुपलभ्यते, तदुक्तम्–`अयं गौः’ इति हि लौकिकाः प्रतिपद्यन्ते, न `इदं गोत्ववद् द्रव्यम्’ इति भेदेन।
%आत्मानं नो दर्शयति,% एषोऽहमस्माद् व्यतिरिक्त इति।
न्यायमञ्जरी :–
%कल्पनाज्ञानस्याप्रमाणत्वाविपर्ययत्वाबाधितत्वञ्च%
ननु यद्यभेदे भेदं भेदे चाभेदमारोपयन्त्यः कल्पनाः प्रवर्त्तन्ते तत्कथमासु बाधकः प्रत्ययो न जायते शुक्तिकारजतबुद्धिवद्? उच्यते, यत्र वस्तु वस्त्वन्तरात्मनाऽवभासते तत्र बाधको भवति मरीचिष्विव जलबुद्धौ, इह तु न जात्यादिवस्त्वन्तरमस्ति यतो वस्त्वन्तरात्मनास्य ग्रहो भवेत्। व्यक्तिविषया एवैते सामानाधिकरण्यवैयधिकरण्यविकल्पाः तस्माद्वस्त्वन्तरानवभासिष्वेषु न बाधकः प्रत्ययो जायते तस्मान्न विपर्ययात्मानो विकल्पाः, न चैते प्रमाणम्, एतदुल्लिख्यमानस्य जात्यादेरपारमार्थिकत्वात् अत एव प्रमाणविपर्ययाभ्यामयमन्य एव विकल्प इत्याचक्षते इत्यलं विस्तरेण।
एवमेताः प्रवर्त्तन्ते वासनामात्रनिर्मिताः।
कल्पितालीकभेदादिप्रपञ्चाः पञ्च कल्पनाः॥
एवञ्च पश्यता तासां प्रामाण्यामोदमन्दताम्।
भिक्षुणा लक्षणग्रन्थे तदपोढपदं कृतम्॥
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
ननु ज्ञानानां निर्विषयत्वाभावाद् भिन्नसामान्याभावे कथं सामान्याकारज्ञानादय इत्याशङ्क्याह–%व्यक्तिविषया एवैत% इति।
न्यायमञ्जरी :–
%तन्मतखण्डने कल्पनाया अप्रामाण्यत्वनिरासः%
अत्र प्रतिविधीयते, तदिदं संकीर्णप्रायमतिबहुविलपता भवता न नियतं किमपि विकल्पनानामप्रामाण्यकरणमिति स्पष्टमावेदितं तदुच्यताम्, किं शब्दार्थावभासित्वगर्भीकृतमसदर्थवाचित्वं तदप्रामाण्यकारणमभिमतमुत सङ्केतस्मृत्यपेक्षोपनतमनिन्द्रियार्थसन्निकर्षजत्वमुत विशेषणग्रहणाद्यपेक्षावाप्तं बहुप्रयाससाध्यत्वमुत पूर्वापरपरामर्शशून्यचाक्षुषवैलक्षण्यवाचोयुक्तिसमर्पितं विचारकत्वम् उत निर्विकल्पकपरिच्छिन्नवस्तुग्राहितानिबन्धनमधिगताधिगन्तृत्वम् उत भेदाभेदसमारोपभिणितमतस्मिंस्तदिति ग्राहित्वम् उत वृत्तिविकल्पादिबाधितसामान्यग्रहणसूचितं बाध्यत्वमेवेति। तत्र तावन्न शब्दार्थस्य वास्तवस्य समर्थयिष्यमाणत्वात्। कः पुनरसाविति चेद्, य एव निर्विकल्पके प्रतिभासते। किं निर्विकल्पके सामान्यादिकमवभासते? बाढमभासत इति वक्ष्यामः। अत एव बाध्यत्वमपि न प्रामाण्यापहारकारणमेषां वक्तव्यम्, वृत्तिविकल्पादेर्बाधस्य परिहरिष्यमाणत्वात्। बाधकान्तरस्य च नेदमिति प्रत्ययस्य शुक्तिकारजतज्ञानादिवद् भवतैवानभ्युपगमात्। नाप्यनिन्द्रियार्थसन्निकर्षजन्यत्वं सङ्कत्रहणकालानुभूतशब्दस्मरणापेक्षणादस्य वक्तव्यम्, सहकार्यपेक्षायामपि तद्व्यापाराविरतेः।
यः प्रागजनको बुद्धेः स लब्ध्वा सहकारिणम्।
कालान्तरेण तां बुद्धिं विदधत् केन वार्यते॥
व्यतिरिक्ताव्यतिरिक्तोपकारकरणादिविकल्पास्तु क्षणभङ्गभङ्गे निराकरिषय्न्ते। रूपग्रहणे च चक्षुषः प्रदीपादेरपेक्षायां दुष्परिहारास्ते विकल्पाः। न वै किञ्चिदेकं जनकमिति भवन्तोऽपि पठन्ति, भवत्पक्षेऽपि तुल्यास्ते। यद्युभयोर्दोषो न तेनैकश्चोद्यो भवति। तस्मादुपयोगाविशेषादिन्द्रियालोकमनस्कारविषयवद् वाचकस्मरणमपि सामग्र्यन्तर्गतम् एतत्प्रत्ययजन्मनिव्याप्रियत इति न वाचकस्मरणजनितत्वेन स्मार्त्तत्वादप्रमाणं विकल्पः, रूपस्मृत्याख्यसमनन्तरप्रत्ययनिर्मितस्य निर्विकल्पस्य रसज्ञानस्यापि तथात्वप्रसङ्गात्।
यच्चेदमुच्यते सोऽर्थो व्यवहितो भवेदिति, तन्न विद्मः कीदृशं व्यवधानमर्थस्येति। न हि दीपेन वा मनसा वा विज्ञानहेतुना कदाचिदर्थो व्यवधीयते, मनोवच्च वाचकस्मृतिरपि सामग्र्यन्तर्गता सती तत्प्रतीतौ व्याप्रियत इति कथमर्थं व्यवदधीत। स्मृतिविषयीकृतः शब्दस्तमर्थं व्यवधत्त इति चेन्न, शब्दस्य तत्प्रकाशकत्वेन ज्ञानवद् दीपवद्वा व्यवधायकत्वाभावात्। न चेन्द्रियव्यापारतिरोधानं व्यवधानम्, तस्याधुनाप्यनुवर्त्तमानत्वात्।
यथा तद्भावभावित्वादाद्यविज्ञानमक्षजम्।
तथा तद्भावभावित्वादुत्तरं ज्ञानमक्षजम्॥
न हि वाचकस्मरणानन्तरमक्षिणी निमील्य विकल्पयति पटोऽयमिति।
अथ यावद् वाचकविज्ञानं हृदयपथमवतरति तावत् सोऽर्थः क्षणिकत्वादतिक्रान्त इति व्यवहित उच्यते, तदपि दुराशामात्रम्, क्षणभङ्गस्योपरिष्टान्निराकरिष्यमाणत्वात्।
अपि च प्रदर्शितप्राप्त्यादिव्यवहारवत् सन्तानद्वारकमिहापि तद्ग्रहणं भविष्यतीति सर्वथा न व्यवधानम्। तदेवं समयस्मरणसापेक्षत्वेऽपि नेन्द्रियार्थसन्निकर्षोत्पन्नतामतिवर्त्तते सविकल्पकं विज्ञानमिति कथमप्रत्यक्षम्? यत्पुनर्विशेषणविशेष्यग्रहणादिसामग्र्यपेक्षत्वेन बहुप्रयाससाध्यत्वमप्रामाण्यकारणमभिधीयते तदतीव सुभाषितमअ। न हि बहुक्लेशसाध्यत्वं नाम प्रामाण्यमुपहन्ति। उक्तञ्च न हि गिरिशृङ्गमारुह्य यद् गृह्यते तदप्रत्यक्षमिति, रसादिज्ञानापेक्षया च रूपज्ञानस्य दीपाद्यालोकाहरणप्रयाससाध्यत्वादप्रामाण्यं स्यात्।
यदपि पूर्वापरपरामर्शरहितचाक्षुषविज्ञानवैपरीत्येन विकल्पज्ञानानां विचारकत्वादप्रामाण्यमुच्यते तदपि न सम्यक्, सर्वत्र ज्ञानस्य विचारकत्वानुपपत्तेः। विचारको हि माता स हि पश्यति स्मरत्यनुसन्धत्ते विचारयतीच्छति द्वेष्टि यतते गृह्णाति जहाति सुखमनुभवतीति वक्ष्यामः। अर्थञ्च स्पृशतो विज्ञानस्य विचारयतो ऽपि कथमप्रामाण्यं स्यात्?
अथास्त निर्विकल्पकेनैव सर्वात्मना स्पृष्टत्वात् पिष्टपेषणमयुक्तम्, इति सविकल्पमपि अधिगतार्थग्राहित्वादप्रमाणमिति मन्यसे, तदपि न साधु, पूर्वमेव परिहृतत्वात्।न ह्यानधिगताधिगन्तृत्वं प्रामाण्यमित्युक्तम्, गृहीतग्रहणेऽपि प्रमाणस्य प्रमाणत्वानतिवृत्तेः।
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%न तेनैकश्चोद्यो भवति।% नासौ दोष एकस्य वाच्यः। %इन्द्रियालोकमनस्कारे%ति। मनस्कारः समनन्तरप्रत्ययः।
न्यायमञ्जरी :–
%सामान्यतः कल्पनाया बाधितत्वनिरासः%
यत्त्वभ्यधायि भिन्नेष्वभेदमभिन्नेषु च भेदं कल्पयन्त्यः कल्पना अतस्मिंस्तद्ग्रहे प्रामाण्यमवजहतीति तद्युक्तम्। अतस्मिंस्तद्ग्रहो भवत्यप्रमाणत्वकारणम्। तत्त्विह नास्ति। तस्य हि बाधकप्रत्ययोपसन्निपातान्निश्चयः। न च भवदुपवर्णितसुपञ्चस्वपि जात्यादिकल्पनासु बाधकं किञ्चिदस्तीति नातस्मिंस्तद्ग्राहिण्यः कल्पना भवन्ति।
जातिर्जातिमतो भिन्ना गुणी गुणगणात् पृथक्।
तथैव तत्प्रतीतेश्च कल्पनोक्तिरबाधिका॥
एतच्चोपरिष्टान्निर्णेष्यते। द्रव्यनाम्नोस्तु भिन्नयोर्भेदेनैव प्रतीतिर्नाभेदकल्पना। न हि देवदत्तशब्दोऽयमित्येवं तद्वाच्यावगतिरेषा। न शब्दोऽस्यामर्थारूढोऽवभासते। न शब्दविवर्त्तरूपेणार्थः परिस्फुरति। किं तर्हि?
शब्दस्मृत्याख्यसामग्र्यसामर्थ्यातिशयोद्भवः।
प्रत्ययातिशयः सोऽयमित्येवं प्राक् प्रसाधितम्॥
दण्ड्ययमिति द्रव्याभेदकल्पना तु मन्दमतिभिरेवोदाहृता। न हि दण्डोऽयमिति देवदत्ते प्रतीतिः, अपि तु दण्डीति। तत्र च प्रकृतिप्रत्ययौ पृथगेवोपलभ्येते दण्डोऽस्यास्तीति दण्डी, तदिह यथैव वस्तु तथैव तदवसाय इति नाभेदारोपः। कर्मणि तद्द्वयमपि नास्ति नाभिन्ने भेदकल्पनं न च भिन्नेऽप्यभेदकल्पना॥
क्रियाहि तत्त्वतो भिन्ना भेदेनैव च गृह्यते।
चलतीत्यादिबोधेषु तत्स्वरूपावभासनात्॥
तेन क्रियागुणद्रव्यनामजात्युपरञ्जितम्।
विषयं दर्शयन्नेति विकल्पो नाप्रमाणताम्॥
विपर्ययात् समुत्तीर्ण इति साधु सहामहे।
प्रमाणात्तु बहिर्भूतं विकल्पं न क्षमामहे॥
क्वचिद् बाकयोगेन यदि तस्याप्रमाणता।
निर्विकल्पेऽपि तुल्योऽसौ द्विचन्द्राद्यवभासिनि॥
मनोराज्यविकल्पानां काममस्त्वप्रमाणता।
यथावस्तुप्रवृत्तानां न त्वसावक्षजन्मनाम्॥
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%न शब्दोऽस्यामर्थारूढोऽवभासते% इत्यध्यासपक्षः। स्वरूपादप्रच्युतस्यासत्याकारोपग्रहो %विवर्तः।% स्वप्न इत्यविज्ञातस्य स्वापाकारापरित्यागेनासत्यगजाश्वाकारोपग्रहः
न्यायमञ्जरी :–
%निर्विकल्पकपृष्ठभावित्वेऽपि सविकल्पकस्य प्रामाण्यम्%
न च निर्विकल्पकपृष्ठभावित्वकृतमेषामेतद्रूपम्, विषयसंस्पर्शमन्तरेण स्वतः स्वच्छरूपाणां ज्ञानानामेवमाकारत्वानुपपत्तेः, किं निर्विकल्पकपृष्ठभाविता करिष्यति? तदनन्तरभाविना हिस्मृतिरपि क्वचिद् दृश्यत एव, न च सा तच्छायावतीति दुराशामात्रमेतत्।
ननु निर्विकल्पकेनैव वस्तुसर्वस्वं गृहीतमेकस्यार्थस्वभावस्येति वर्णितम्, प्रतिविहितमेतद्, गृहीतग्रहणेऽपि प्रामाण्यानपायात्।
न्यायमञ्जरी :–
%निर्विकल्पकस्य ग्राह्ये विषये मतान्तराणि%
किञ्च किं निर्विकल्पकेन गृह्यते इत्येतदेव न जानीमः।
भवन्तो निर्विकल्पस्य विषयं सम्प्रचक्षते।
सजातीयविजातीयपरावृत्तं स्वलक्षणम्॥
महासामान्यमन्ये तु सत्तां तद्विषयं विदुः।
वाग्रूपमपरे तत्त्वं प्रमेयं तस्य मन्वते॥
केचिद् गुणक्रियाद्रव्यजातिभेदादिरूषितम्।
शबलं वस्तु मन्यन्ते निर्विकल्पकगोचरम्॥
प्रत्यक्षविषयेऽप्येताश्चित्रं विप्रतिपत्तयः।
परोक्षार्थे हि विमतिः प्रत्यक्षेणोपशाम्यति॥
प्रत्यक्षे हि समुत्पन्ना विमतिः केन शाम्यति।
इदं भाति न भातीति संविद्विप्रतिपत्तिषु॥
परप्रत्यायने पुंसां शरणं शपथोक्तयः।
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%महासामान्यमन्ये त्वि%ति। ब्रह्मविदां हि सद्रूपताथाः सर्वत्राव्यभिचारात् सैव पारमार्थिकी प्रत्यक्षग्राह्या न भेदाः, तेषामपारमार्थिकत्वात्, यथा घटादौ मृद्रूपतैव सत्यं न विकाराः, तेषामादावन्ते चासत्त्वेनासद्भिस्तुल्यत्वात्। तथाच श्रुतिः `वाचारम्भणं नामधेयं विकारो मृत्तिकेत्येव सत्यम्’इति। मृद्रूपतापि यदापगच्छति तदा सन्मात्रमनुल्लिखितविशेषमवतिष्ठत इति तदेव सन्मात्रं सत्यम्। न च भेदः प्रत्यक्षस्य विषयः, तस्येतरेतराभावरूपत्वेन प्रत्यक्षाविषयत्वात्, तदुत्तरकालभाविनान्तु विशेषग्राहिणां विकल्पानामप्रामाण्यात्। %वाक्तत्त्वमपर% इति। यथा हि ब्रह्मविदां सर्वत्र सद्रूपताया अव्यभिचारेण परमार्थसत्त्वान्निर्विकल्पकग्राह्यत्वमभिमतं ततैव शाब्दैरपि सर्वत्र प्रत्यये शब्दरूपताया अनुगमात् तस्या एवासत्याकारोपग्रहरूपविवर्तरूपत्वात् रूपादीनां परमार्थासत्त्वाद् वाक्तत्त्वं शब्दतत्त्वं सैव प्रत्यक्षविषयत्वेनोक्ता। तथाहि भेदानां तद्विवर्ततया तैरसत्क्त्वं प्रतिपादितम्। यदाहुः
अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम्।
विवर्ततेऽर्थबावेन प्रक्रिया जगतो यतः॥
यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः।
सङ्कीर्णमिव मात्राभिश्चित्राभिः प्रतिपद्यते॥
तथेदममलं ब्रह्म निर्विकारमविद्यया।
कलुषत्वमिवापन्नं भेदरूपं प्रतीयते।
न्यायमञ्जरी :–
%स्वमते निर्विकल्पकग्राह्यप्रमेयविषये शङ्का तत्समाधानञ्च%
न तु शपथशरणा एव निरुद्यममास्महे। मार्गान्तरेणापि तत्प्रमेयं निश्चिनुमः।
निर्विकल्पानुसारेण सविकल्पकसम्भवात्।
ग्राह्यं तदानुगुण्येन निर्विकल्पस्य मन्महे॥
तत्र न तावत् सकलसजातीयविजातीयव्यावृत्तं स्वलक्षणं प्रत्यक्षस्य विषयः।
गृहीते निर्विकल्पेन व्यावृत्ते हि स्वलक्षणे।
अकस्मादेव सामान्यविकल्पोल्लसनं कथम्॥
निर्विकल्पानुसारेण हि विकल्पाः प्रादुर्भवितुमर्हन्ति। अपि च
विजातीयपरावृत्तिविषया यदि कल्पना।
व्यावृत्तिरूपं सामान्यं गृहीतं हन्त दर्शनैः॥
व्यावृत्तान्ननु नैवान्या व्यावृत्तिः परमार्थतः।
व्यावृत्तग्रहणेनैव सुतरां तद्ग्रहो भवेत्॥
सामान्यग्रहणेऽप्येवं तद्व्यापारविकल्पनात्।
स्वलक्षणपरिच्छेदनिष्ठं तन्नावतिष्ठते॥
नापि सत्ताद्वैतवादिसम्मतसत्ताख्यो निर्विकल्पस्य विषयो युक्तः।
सत्ताग्रहणपक्षेऽपि विशेषावगतिः कुतः।
सा भाति भेदस्पृष्टा चेत् सिद्धमद्वैतदर्शनम्॥
न च भेदं विना सत्ता ग्रहीतुमपि शक्यते।
नाविद्यामात्रमेवेदमिति च स्थापयिष्यते॥
वाक्तत्त्वप्रतिभासोऽपि प्रतिक्षिप्तोऽनया दिशा।
कथञ्च चाक्षुषे ज्ञाने वाक्तत्त्वमवभासते॥
अगृहीते तु सम्बन्धे गृहीते वापि विस्मृते।
अप्रबुद्धेऽपि संस्कारे वाचकावगतिः कुतः॥
चित्रतापि पृथग्भूतैर्धर्मैस्तत्समवायिभिः।
जात्यादिभिर्यदीष्येत धर्मिणः काममस्तु सा॥
तदात्मता तु नैकस्य नित्यं तत्त्वानुपग्रहात्।
अंशनिष्कर्षपक्षे तु धर्मभेदो बलाद् भवेत्॥
यस्य यत्र यदोद्भूतिर्जिघृक्षा चेति कथ्यते।
तदात्मकत्वं धर्माणामुच्यते चेत्यसंगतम्॥
देशभेदस्तु धर्माणामस्माभिरपि नेष्यते।
धर्मी हि तेषामाधारो न पुनः स तदात्मकः॥
तस्माद् य एव वस्त्वात्मा सविकल्पस्य गोचरः।
स एव निर्विकल्पस्य शब्दोल्लेखविवर्जितः॥
किमात्मकोऽसाविति चेद् यद्यदा प्रतिभासते।
वस्तुप्रमितयश्चैव प्रष्टव्या न तु वादिनः॥
क्वचिज्जातिः क्बचिद् द्रव्यं क्वचित् कर्म क्वचिद् गुणः।
यदेव सविकल्पेन तदेवानेन गृह्यते॥
इदं शब्दानुसन्धानमात्रमभ्यधिकं परम्।
विषये न तु भेदोऽस्ति सविकल्पाविकल्पयोः॥
अतः शब्दानुसन्धानबन्ध्यं तदनुबन्धि वा।
जात्यादिविषयग्राहि सर्वं प्रत्यक्षमिष्यते॥
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%विजातीयपरावृत्तिविषया यदि कल्पने%ति। अयं भावः सजातीयविझातीयव्यावृत्तिरूपं हि स्वलक्षणम्, तन्नागृहीतायां सजातीयविजातीयव्यावृत्तौ प्रत्यक्षेण गृहीतं भवति। गृहीतञ्चेद् विजातीयव्यावृत्तिरपि सामान्यरूपतया भवदभिमता गृहीतैवेति कथं स्वलक्षणैकविषयं निर्विकल्पकम्?
शबलं वस्तु निर्विकल्पकग्राह्यं ये मन्येन्ते तान् प्रत्याह %चित्रतापि पृथग्भूतैरिति। नित्यं तत्त्वानुपग्रहात्%। `गोर्गोत्वम्’ इत्याद्यपि दर्शनात्। अथ तादात्म्येऽपि धर्मधर्मिणोर्बुद्ध्या निष्कृष्य पृथक्कृत्य अंशा धर्मा व्यपदिश्यन्ते `गोर्गोत्वम्’ इत्यादौ तदाह %अंशनिष्कर्षपक्षे त्वि%ति। न ह्यसति भेदे निष्कर्षः कर्तुं शक्योतेत्यभिप्रायः। अथ मन्येत केनांशनिष्कर्षपक्षोऽभ्युपगत इति तदाह %यस्य यत्र यदोद्भूतिरि%ति।
यस्य यत्र यदोद्बूतिर्जिघृक्षा वोपजायते।
चेत्यतेऽनुभवस्तस्य तेन च व्यपदिश्यते॥
इति भट्टश्लोकः। तत्रोद्भवः प्रमेयधर्मः, जिघृक्षा प्रमातृधर्मः। यदा सजनं गृहमसकृदुपलब्धवतो निर्जनगृहदर्शनं तदा `नास्त्यत्र कश्चित्’ इत्येवंरूपज्ञानजननयोग्यस्याभावांशस्योद्भवः, यदा त्वपूर्वमेव प्रदेशविशेषं पश्यति तदा `कोऽत्रास्ते’ इत्येवंरूपप्रतीतिसमर्थस्य भावांशस्योद्भवः। अयमसौ भावाभावांशयो- प्रमेयधर्मयोरुद्भवः। जिघृक्षा तु यदा निर्जनप्रदेशार्थी तदा अभावांशस्य ग्रहणम्। यदा तु शीताद्यार्तो गृहं मृगयते तदा भावांशस्येति। चेत्यतेऽनुभवस्तस्यैवांशस्य, तत्प्रकटताया एवोद्भवात्; तेनैव चांशेनासौ पदार्थो व्यपदिश्यत इति।
न्यायमञ्जरी :–
%दिङ्नागधर्मकीर्त्त्योः प्रत्यक्षलक्षणखण्डनम्%
तस्माद् यत् कल्पनापोढपदं प्रत्यक्षलक्षणे।
भिक्षुणा पठितं तस्य व्यवच्छेद्यं न विद्यते॥
अभ्रान्तपदस्यापि व्यावर्त्यं न किञ्चन तन्मतेन पश्यामः।
ननु तिमिराशुभ्रमणनौयानसंक्षोभाद्याहितविभ्रमं द्विचन्द्रालातचक्रचलत्पादपादिदर्शनमपोह्यमस्य परैरुक्तम्, सत्यम्। उक्तमयुक्तम्। कल्पनापोञपदेनैव तद्व्युदाससिद्धेः। तत्रापि निर्विकल्पकं ज्ञानमेकं चन्द्रादिविषयमेव। विकल्पास्तु विपरीताकारग्राहिणो भवन्ति यथा मरीचिग्राहिणि निर्विकल्पके सलिलावसायी विकल्प इति।
ननु तिमिरेण द्विधाकृतं चक्षुरेकतया न शक्नोति शशनं ग्रहीतुमिति निर्विंकल्पकमपि द्विचन्द्रज्ञानम्। यद्येवं तरङ्गादिसादृश्यरूषितमूषरे मरीचिचक्रं चक्षुषा परिच्छेत्तुमशक्यमिति तत्रापि निर्विकल्पकमुदकग्राहि विज्ञानं किमिति नेष्यते? अभ्युपगमे वा सदसत्कल्पनोत्पातादिकृतः प्रमाणेतरव्यवहारो न स्यात्। अपि च न बाधकोपनिपातमन्तरेण भ्रान्ततावकल्पने ज्ञानानाञ्च क्षणिकवादिमते बाध्यबाधकभावो बुद्धीनामुपपद्यत ित्यलं विमर्देन।
इति सुनिपुणबुद्धिर्लक्षणं वक्तुकामः
पदयुगलमपीदं निर्ममे नानवद्यम्।
भवतु मतिमहिन्मश्चेष्टितं दृष्टमेत-
ज्जगदभिभवधीरं धीमतो धर्मकीर्त्तेः।
श्रोत्रादिवृत्तिरपरैरविकल्पिकेति
प्रत्यक्षलक्षणमवर्णि तदप्यपास्तम्।
साम्यान्न यस्य न च सिद्ध्यति बुद्धिवृत्त्या
दृष्टत्वमात्मन इति प्रतिपादितं प्राक्॥
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%तिमिराशुभ्रमणे%ति। संक्षोभो वातादिसम्ब्धी ज्वलत्स्तम्भादिदर्शनहेतुः। तिमिराशुभ्रमणनौयानसंक्षोभैराहितो विभ्रमो यत्र।
%भवतु मतिमहिम्न% इति। भवतु आस्तां तावत्। यदेतम्
न्यायमार्गतुलारूढं जगदेकत्र यन्मतिः।
जयेत् तस्य क्व गम्भीरा वाचोऽहं जडधीः क्व च॥
इत्यादि स्तुतिवाक्यैरर्चटादिरचतैर्जगदभिभवधीरं चेष्टितं धर्मकीर्तेः सम्बन्धिनो मतिमहिम्नः कथ्यते तदेतद् दृष्टमिति योजना, न किञ्चिदेतदिति तात्पर्यम्। %साम्यान्न यस्येति।% तैरप्यविकल्पिकेत्यभिहितत्वात्।
न्यायमञ्जरी :–
%जैमिनीयसूत्रस्य सत्सम्प्रयोग इत्यादेः प्रत्यक्षलक्षणत्वखण्डनम्%
`सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्तं विद्यमानोपलम्भनत्वादि’त्येतत्सूत्रं जैमिनीयैः साक्षात् प्रत्यक्षलक्षणपरत्वेन न व्याख्यातम्, “चोदनालक्षणोऽर्थो धर्मः” इति प्रकृतप्रतिज्ञासङ्गत्यभावात्, अपि तु धर्मं प्रति प्रत्यक्षमनिमित्तम्, एवंलक्षणकत्वादित्यनुवादत्वं लक्षणस्यापि सम्भवेदिति। तदेतल्लक्षणवर्णने सूत्रयोजनमसमीचीनम्, अतिव्याप्तिदोषानतिवृत्तेः। तथा हीन्द्रियाणां सत्सम्प्रयोगे सति पुरुषस्य जायमाना बुद्धिः प्रत्यक्षमितिसूत्रार्थः, तथा चातिव्याप्तिः संशयविपर्ययबुद्ध्योरपि इन्द्रियसंप्रयोगजत्वेन प्रत्यक्षत्वप्रसङ्गात्।
अथ सत्सम्प्रयोग इति सतां सम्प्रयोग इति व्याख्यायते तथाऽपि निरालम्बनं विभ्रमा एवार्थनिरपेक्षजन्मानो निरस्ता भवेयुर्न सालम्बनौ संशयविपर्ययौ।
अथ सति सम्प्रयोग इति सत्सप्तमीपक्ष एव न त्यज्यते संशयविपर्ययच्छेदी च सम्प्रयोग इत्युपसर्गो वर्ण्यते यथोक्तम्
सम्यगर्थे च संशब्दो दुष्प्रयोगनिवारणः।
दुष्टत्वाच्छुक्तिकायोगो वार्यतां रजतेक्षणात्॥ इति।
तथापि प्रयोगसम्यक्त्वस्यातीन्द्रियत्वेन प्रत्यक्षानवगम्यत्वात् कार्यतोऽवगतिर्वक्तव्या, कार्यं च ज्ञानं न च तद्विशेषितमेव प्रयोगस्य सम्यक्तामवगमयति। न च तद्विशेषणपरमिह पदमप्यक्षरमपि मात्रामात्रमपि वा सूत्रे पश्यामः। सतां प्रयोग इति च परं निरालम्बनविज्ञाननिवृत्तये वर्णितम्, सतीति तु सप्तम्यैव गतार्थत्वादनर्थम्। लोकत एव कार्यविशेषावगमात् प्रयोगसम्यक्त्वमवगमिष्याम इति चेल्लोकत एव प्रत्यक्षस्य सिद्धत्वात् किं तल्लक्षे सूत्रसामर्थ्ययोजनाक्लेशेन।
यदप्यत्रभवान् वृत्तिकारः प्राह यद् व्यभिचारि न तत्प्रत्यक्षम्, यत्प्रत्यक्षं यद्विषयं ज्ञानमन्यसम्प्रयोगे भवति न तत्प्रत्यक्षमित्येवं तत्सतोर्व्यत्ययेन लक्षणमनपवादमवकल्पत इति तदपि वृथाटाट्यामात्रम्, संशयज्ञानेन व्यभिचारानतिवृत्तेः। तत्र हि यद्विषयं ज्ञानं तेन सम्प्रयोगे इन्द्रियाणां पुरुषस्य बुद्धिजन्म सत् प्रत्यक्षं तदन्यविषयं ज्ञानमन्यसम्प्रयोगे भवति न तत्प्रत्यक्षमस्त्येव।
ननूभयविषयं ज्ञानं न चोभाभ्यां सम्प्रयुक्तमिन्द्रियम्, मैवम् न हि धवखदिरवत् द्वावपि संशयसंविदि प्रतिभासेते, किन्तु स्थाणुर्वा पुरुषो वेत्यनिर्धारितैकतरपदार्थतत्त्वावमर्शी संशयो जायते, नूनं च तयोरन्यतरेणेन्द्रियं सम्प्रयुक्तमेवेति उभयावमर्शित्वाच्च संशयस्य येन सम्प्रयुक्तं चक्षुस्तद्विषयमपि तज्ज्ञानं भवत्येवेति नातिव्याप्तिः परिहृता भवति।
अथ ब्रूयुः किमनेन परिक्लेशेन, न लक्षणवर्णनमस्माकमभिमतम्, अनुवादपक्षनिक्षिप्तत्वात्। अपि तु लोकप्रसिद्धप्रत्यक्षानुवादेन धर्मं प्रति अनिमित्तत्वमेव विधीयते. न धर्मं प्रति प्रमाणं प्रत्यक्षं विद्यमानोपलम्भनत्वात्, विद्यमानार्थग्राहित्वादित्यर्थः। धर्मश्च त्रिकालानवच्छिन्नः, तस्य यजेत दद्यात् जुहुयाद् इत्यादिशब्देभ्यः प्रतीतेः। तर्हि सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमिति किमर्थो ग्रन्थ इति चेन्न, विद्यमानोपलम्भनत्वमसिद्धमिति परो ब्रूयात् स वक्तव्यः विद्यमानोपलम्भनं प्रत्यक्षं सत्सम्प्रयोगजत्वादिति। प्रत्यक्षग्रहणमपि हेतुनिर्देशार्थमेव, सत्सम्प्रयोगस्यासिद्धतां व्रुवन्ननेन प्रत्याख्यायते, सत्सम्प्रयोगजं प्रत्यक्षं प्रत्यक्षत्वादिति। तदुक्तम्, “प्रत्यक्षत्वमदो हेतुः शेषहेतुप्रसिद्धये” इति। स्वातन्त्रेयणापि प्रत्यक्षत्वं धर्मग्राहकत्वनिषेधाय वक्तव्यम्। न धर्मग्राहि प्रत्यक्षं प्रत्यक्षत्वादस्मदादिप्रत्यक्षवदित्येवमन्यत्रैव सूत्रतात्पर्यान्नातिव्याप्त्यादिदोषावसर इहेति।
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
`चोदनालक्षणोऽर्थो धर्मः’ इति %प्रकृतप्रतिज्ञासङ्गत्यभावादि%ति। चोदनैव धर्मे प्रमाणं न प्रत्यक्षादि, यतस्तदेवंलक्षणकं प्रसिद्धमित्येवंलक्षणानुवादेन प्रकृतसङ्गतिर्भवेन्न लक्षणविधानेन `एवंरूपं यत् तत् प्रत्यक्षं बोद्धव्यम्’ इति। `एवं सत्यनुवादत्वं लक्षणस्यापि सम्भवेत्’; एवंसति `सम्यगर्थे हि संशब्दो दुष्प्रयोगनिवारणः’ इत्यादिप्रकारप्रतिपादने।
%निरालम्बनविभ्रमाः% स्वप्नादिज्ञानानि।
%अथ सति संप्रयोग% इति `इति’ सप्तमीपक्ष एवेति। संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्मेति क्रियमाणे संप्रयोग इति किं सप्तम्यधिकरणे, उभयस्य च भावेन भावलक्षण इति सन्देहः स्यात्। अधिकरणसप्तमीपक्षे हि संप्रयोगविषयं यद् ज्ञानं तत् प्रत्यक्षं स्यान्न संप्रयुज्यमानघटादिविषयमिति, तन्निवृत्त्यर्थः सच्छब्दोपादानम्। सति संप्रयोगे सम्प्रयोगे सतीत्यर्थः। तथा चाह–
सप्तसम्यैव हि लभ्येत सदर्थः कल्पना पुनः।
परेषां वारणीयेति जैमिनिना कृतः। इति।
शुक्तिकायोगो दुष्टत्वात् `सं’ शब्देन वार्यते। कथं तस्य दुष्टत्वमिति चेत् तदाह %रजतेक्षणादि%ति।
%यदप्यत्रभवानि%ति। अत्रभवान् पूज्यो वृत्तिकार उपवर्षः, तत्कृतसत्तच्छब्दव्यत्ययपक्षे सच्छब्दः शोभनपर्यायः `सत्प्रत्यक्षं शोभनं प्रत्यक्षम्’ इत्यर्थः।
%धर्मशच् त्रिकालाऽनवच्छिन्न% इति। यजेतेत्यादौ हि विधिर्भावनायाः कार्यत्वमवगमयति, तेन च कार्यात्मना रूपेण सैव भावना धर्मैः, तच्चास्याः कालत्रयासंस्पृष्टं रूपम्। अयजत यजते यक्ष्यत इति धर्मे कालत्रयासंस्पर्शेन तत्प्रतीतेः. न च खपुष्पादिवत् कालत्रयासंस्पर्शाद् असत्त्वमाशङ्क्यम्, यतो न खपुष्पादीनां कालत्रयासंस्पर्शकृतमसत्त्वम्, अपि तु उपलम्भकप्रमाणाभावनिबन्धनम्। %प्रत्यक्षत्वमदो हेतुः शेषहेतुप्रसिद्धये% इति। अस्य परमर्द्धम् `अस्मदादौ प्रसिद्धत्वाद् योग्यर्थमभिधीयते’ इति।
न्यायमञ्जरी :–
%लौकिकालौकिकप्रत्यक्षयोर्धर्माग्राहित्वसाधने दोषः%
तदेतदपि न प्रामाणिकमनोनुकूलम्। कतरस्य प्रत्यक्षस्य धर्मं प्रत्यनिमित्तत्त्वं प्रतिपाद्यते? किमस्मदादिप्रत्यक्षस्य योगिप्रत्यक्षस्य वा। तत्रास्मदादिप्रत्यक्षस्य तथात्वे सर्वेषामविवाद एवेति किं तत्रेयता श्रमेण? योगिप्रत्यक्षस्य तु भवतामसिद्धत्वात् कस्य धर्मं प्रत्यनिमित्तत्वप्रतिपादनम्?
एवञ्च धर्मिणोऽभावादाश्रयासिद्धतां स्पृशेत्।
विद्यमानोपलम्भत्वप्रत्यक्षत्वादिसाधनम्॥
परैर्हि धर्मग्राहि योगिज्ञानमभ्युपगतम्, अतस्तदनुभाषणे धर्मग्राहकं न धर्मग्राहकमिति उक्तं स्यात्।
परसंसिद्धमूलञ्च नानुमानं प्रकल्पते।
उक्तं भवद्भिरेवेदं निरालम्बनदूषणम्॥
साध्यसिद्धिर्यथा नास्ति परसिद्धेन हेतुना।
तथैव धर्मिसिद्धत्वं परसिद्ध्या न युज्यते॥
तत्रैतत् स्यात् प्रसह्गसाधनमिदं प्रसङ्गश्च नाम परप्रसिद्धेन परस्यानिष्टापादनमुच्यते, परस्य च विद्यमानोपलम्भनं सत्सम्प्रयोगजन्यं च प्रत्यक्षं प्रसिद्धम्, अतस्तेनैव धर्मेण हेतुना धर्मानिमित्तत्त्वं तस्योपपद्यत इति को दोषः? नैतदेवम्
प्रसङ्गसाधनं नाम नास्त्येव परमार्थतः।
तद्धि कुड्यं विना तत्र चित्रकर्मेण लक्ष्यते॥
न हु नभःकुसुमस्य सौरभासौरभविचारो युक्तः, अथापि किं न एतेन भवत्विदं प्रसङ्गसाधनम्।
तदत्रापि न तु व्याप्तिप्रतीतिरिह मादृशाम्।
न धर्मग्राहि सर्वेषां प्रत्यक्षमिति वेत्ति कः॥
मत्प्रत्यक्षमक्षमं धर्मग्रहणे इति भवान्न जानीते, त्वत्प्रत्यक्षमपि न धर्मग्राहीति नाहं जाने, अन्यस्य प्रत्यक्षमीदृशमेवेत्युभावप्यावां न जानीवहे।
त्वया तुयदि सर्वेषां प्रत्यक्षं ज्ञातमीदृशम्।
तर्हि त्वमेव योगीति योगिनो द्वेक्षि किं वृथा॥
प्रामाणिकस्थितिं तस्मादित्थं श्रोत्रिय बुध्यसे।
परोक्तेऽतीन्द्रिये ह्यर्थे मा वादीर्दूषणं पुनः॥
प्रमाणसिद्धे हतशक्तिदूषणं प्रमाणशून्येऽपि वृथा तदुक्तयः।
निरस्य चोद्यव्यसनन्तु मृग्यतामतीन्द्रिये वस्तुनि साधनं पुनः॥
स चेत् पर्यनुयुक्तः सन् वक्तुं शक्नोति साधनम्।
ओमिति प्रतिपत्तव्यं नो चेन्नास्त्येव तस्य तत्॥
न्यायमञ्जरी :–
%मीमांसकानभिमतयोगिप्रत्यक्षसाधनम्%
आह शिक्षिताः स्मः, प्रामाणिकवृत्तं न दूषणं ब्रूमो भवन्तमेवानुयुञ्ज्महे तदेतर्हि कथ्यतां धर्माधिगमनिपुणयोगिप्रत्यक्षसिद्धौ किं प्रमाणमिति। इदमुच्यते, दर्शनातिशय एव प्रमाणम्। तथा ह्यस्मदादिरपेक्षितालोकोऽवलोकयति निकटस्थितमर्थवृन्दम्, उन्दुरवैरिणस्तु सान्द्रतमतमः पङ्कपटलविलिप्तदेशपतितमपि संपश्यन्ति, संपातिनामा च गृध्रराजो योजनशतव्यवहितामपि दशरथनन्दनसुन्दरीं ददर्शेति रामायणे श्रूयते, सोऽयं दर्शनातिशयः शुक्लादिगुणातिशय इव तारतम्यसमन्वित इति गमयति परमपि निरतिशयमतिशयम्। अतश्च यत्रास्य परः प्रकर्षस्ते योगिनो गीयन्ते। दर्शनस्य च परोऽतिशयः सूक्ष्मव्यवहितविप्रकृष्टभूतभविष्यदादिविषयत्वम्।
ननु स्वविषयानतिक्रमेण भवतु तदतिशयकल्पना, धर्मस्तु चक्षुषो न विषय एव। यगुक्तम्
यत्राप्यतिशयो दृष्टः स स्वार्थानतिलङ्घनात्।
दूरसूक्ष्मादिदृष्टौ स्यान्न रूपे श्रोत्रवृत्तिता॥
अपि च
येऽपि चातिशया दृष्टाः प्रज्ञामेधाबलैर्नृणाम्।
स्तोकस्तोकान्तरत्वेन न त्वतीन्द्रियदर्शनादिति॥
एतदयुक्तम्। यतो यद्यपि नास्मदादिनयनविषयो धर्मस्तथापि योगीन्द्रियगम्यो भविष्यति। तथाहि योजनशतव्यवहितमन्धकारान्तरितं वा नास्मदादिलोचनगोचरतामुपयाति सम्पादिवृषदंशदृशोस्तु विषयो भवत्येव।
नन्वेवमविषये प्रवृत्तं योगिनां चक्षुर्गन्धरसादीनपि गृह्णीयात्? यथोक्तम्
एकेन तु प्रमाणेन सर्वज्ञो येन कल्प्यते।
नूनं स चक्षुषा सर्वान् रसादीन् प्रतिपद्यते॥ इति।
नैतदेवम्। रसादिग्राहीण्यपि योगिनामिन्द्रियाणि चक्षुर्वदतिशयवन्त्येवेति न रसादिषु चक्षुर्व्यापारः परिकल्प्यते। धर्मेऽपि न तर्हि कल्पनीय इति चेद्, न, तस्य रसादिवत्तदविषयता शब्दस्याभावात्।
अपि च योगीन्द्रियाविषयत्वं धर्मस्य कथमवगतवान् भवान्? अविषयत्वं तद्भावेऽपि तदनवगमादवगम्यते। यथा नयनसद्भावेऽपि शब्दाश्रवणात् तदविषयता शब्दस्यावसीयते। न चैव योगिचक्षुषि सत्यपि धर्मस्याग्रहणमवगन्तुं शक्नोति भवान् उभयस्यापि भवतः परोक्षत्वादिति, विषयः स तस्य नेति नैव वक्तुं युक्तमिति।
ननु कर्त्तव्यतारूपस्त्रिकालस्पर्शवर्जितः।
चक्षुर्विषयतामेति धर्म इत्यतिसाहसम्॥
सत्यं साहसमेतत्ते मम वा चर्मचक्षुषः।
नत्वेष दुर्गमः पन्था योगिनां सर्वदर्शिनाम्॥
यच्च त्रिकालानवच्छिन्नो यजेतेत्यादिलिङादियुक्तशब्दैकशरणावगमो धर्मः कथं ततोऽन्येन प्रमाणेन परिच्छिद्यतामित्युच्यते तदपि प्रक्रियामात्रम्। किमिव हि त्रिकालस्पर्शास्पर्शाभ्यां कृतम्? यथा वयं गमनादिक्रियाणां देशान्तरप्राप्त्यादिप्रयोजनतां जानीमस्तथाग्निहोत्रादिक्रियाणां स्वर्गादिफलतां ज्ञास्यन्ति योगिन इति किमत्र साहसम्? यदि हि बाह्येन्द्रियेष्वमर्षो, न तेष्वतिशयो विषह्यते तदलमनुबन्धेन।
मनःकरणकं ज्ञानं भावनाभ्याससम्भवम्।
भवति ध्यायतां धर्मे कान्तादाविव कामिनाम्॥
मनो हि सर्वविषयम्, न तस्याविषयः कश्चिदस्ति। अभ्यासवशाच्चातीन्द्रियेष्वप्यर्थेषु परिस्फुटाः प्रतिभासाः प्रादुर्भवन्तो दृश्यन्ते। यथाहुः
कामशोकाभयोन्मादचौरस्वप्नाद्युपद्रुताः।
अभूतानपि पश्यन्ति पुरतोऽवस्थितानिव॥ इति।
नन्वेतेषां मिथ्याज्ञानत्वान्न योगिविज्ञाने दृष्टान्तत्वं युक्तम्। न स्फुटाभासमात्रतया दृष्टान्तत्वोपपत्तेः। न हि शब्दघटयोरपि सर्वात्मना तुल्यत्वमअ। तत्र कामशोकादिभावनाभ्यासभुवां प्रतिभासानां बाधकवैधुर्यादप्रामाण्यं भविष्यति नेतरेषां तदभावात्। स्फुटाभासत्वन्तूभयत्रापि तुल्यम्।
नन्वभ्यासोऽपि क्रियमाणो नात्यन्तमपूर्वमतिशयमावहति लङ्घनाभ्यासवत्। योऽपि हि प्रतिदिनमनन्यकर्मा लङ्घनमभ्यस्यति सोऽपि कतिपयपदपरिमितमवनितलमभिलङ्घयति, न तु पर्वतमम्बुधिं वेति। उच्यते
लह्घनं देहधर्मत्वात् कफजाड्यादिसम्भवात्।
मा गात् प्रकर्षं, ज्ञाने तु तस्य कः प्रतिबन्धकः॥
लङ्घनादौ तु पूर्वेद्युः प्रयत्नसमुपार्जितः।
न देहेऽतिशयः कश्चिदन्येद्युरवतिष्ठते॥
तत्र केवलमभ्यासात् प्रक्षये कफमेदसोः।
शरीरलाघवं लब्ध्वा लङ्घयन्ति यथोचितम्॥
इह विज्ञानजन्यस्तु संस्कारो व्यवतिष्ठते।
क्रमोपचीयमानोऽसौ परातिशयकारणम्॥
यथानुवाकग्रहणे संस्थाभ्यासोपकल्पितः।
स्थिरः करोति संस्कारः पाठस्मृत्यादिपाटवम्॥
यथा वा पुटपाकेन शोध्यमानं शनैः शनैः।
हेमनिष्प्रतिकाशं तद् याति कल्याणातां पराम्॥
तथैव भावनाभ्यासाद् योगिनामपि मानसम्।
ज्ञाने सकलविज्ञेयसाक्षात्कारे क्षमं भवेत्॥
अस्मदादेश्च रागादिमलावरणधूसरम्।
मनो न लभते ज्ञानप्रकर्षपदवीं पराम्॥
प्रत्यूहभावनाभ्यासक्षपिताशेषकल्मषम्।
योगिनान्तु मनः शुद्धं कमिवार्थं न पश्यति॥
यथा च तेषां रागादि प्रमाणमवकल्पते।
तथापवर्गचिन्तायां विस्तरेणाभिधास्यते॥
तदेवं क्षीणदोषाणां ध्यानावहितचेतसाम्।
निर्मलं सर्वविषयं ज्ञानं भवति योगिनाम्॥
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%उन्दुरवैरिणो% मार्जाराः। %रामायणे श्रूयते% इति। रामायणोक्त्या प्रामाणिकत्वमस्यार्थस्य दर्शयति, तस्यच प्रमाणत्वं प्रमाणभूते प्रमाणभूते भारते तदर्थसंकीर्तनात्। शिष्टैश्च शिष्टस्मृतित्वेन परिग्रहादिति। %तारतम्यसमन्वित% इति। तथाहि ये तारतम्यसमन्वितास्ते परातिशययोगिनो दृष्टा, यथाणुत्वमहत्त्वादयः परिमाणविशेषाः परमाणुत्वपरममहत्त्वलक्षणे परस्मिन्नतिशये प्रकर्षे विश्रान्ताः।
%यत्राप्यतिशय% इति। सोऽतिशयः स्वार्थानतिलङ्घनात्। स्वार्थं स्वविषयमनतिलङ्घ्य दूरगं सूक्ष्मं वा स्वार्थं गृह्णातु, न पुना रूपे ग्रहणं श्रोत्रव्यापारादित्यर्थः।
%वृषदंशो% मार्जारः। %सम्पातिः% गृध्रराजः।
%कामशोकभयोन्मादे%ति। कामशोकभयैर्यो जनित उन्मादश्चित्तवैकृत्यम्। स च चौरस्वप्नश्च तदादिभिरुपप्लुताः। यत्रस्वप्ने चौरं दृष्ट्वा सहसैव प्रबुद्धः शस्त्राण्युद्यच्छति स चौरस्वप्न इति धर्मोत्तरो व्याचष्टे। %संस्थाभ्यासोपकल्पित% इति। एकस्यैव पदादेर्दशकृत्व आद्युच्चारणमभ्यासार्थः, संरथा अध्येतृप्रसिद्धा। %निष्प्रतिकाशमि%ति। निर्गतं प्रतिकाशमन्यसादृश्यं यस्मात् तन्निष्प्रतिकाशम् अनन्यसदृशमित्यर्थः। %प्रत्यूहभावनाभ्यासे%ति। रागादीनां मिथ्याज्ञानमूलानां प्रत्यूहो मूलविरोधित्वेन विरुद्धो यस्तत्त्वज्ञानाख्यस्तस्य। %प्रमाणमिदमिष्यतामि%ति। एवम्भूतस्य भवद्भिः प्रमाणतयाभ्युपगमात्। तदुक्तम्
`तत्रापूर्वार्थविज्ञानं निश्चितं बाधवर्जितम्।
अदुष्टकारणारब्धं प्रमाणं लोकसम्मतम्॥’ इति॥
न्यायमञ्जरी :–
%प्रातिभज्ञानस्वरूपादिविचारः%
अपि चानागतं ज्ञानमस्मदादेरपि क्वचित्।
प्रमाणं प्रातिभं `श्वो मे भ्रातागन्ते’ति दृश्यते॥
नानर्थजं न संदिग्धं न बाधविधुरीकृतम्।
न दुष्टकारणञ्चेति प्रमाणमिदमिष्यताम्॥
क्वचिद् बाधकयोगश्चेदस्तु तस्याप्रमाणता
यत्रापरेद्युरभ्येति भ्राता तत्र किमुच्यताम्॥
काकतालीयमिति चेन्न प्रमाणप्रदर्शितम्।
वस्तु तत् काकतालीयमिति भवितुमर्हति॥
नन्वनर्थजमिदं ज्ञानं भ्रातुः, तज्जनकस्य तदानीमसत्त्वात्. स्यादेतदेवम् यदि तदास्तित्वेन भ्रातरं गृह्णीयात्, किन्तु भाविनमेनं गृह्णाति, भावित्वञ्च तदस्यास्त्येवेति कथमनर्थजं तज्ज्ञानम्?
ननु भावितया ग्रहणघटमानम्। भावित्वं हि नाम सावधिः प्रागभावः। अभावस्यच भावेन भ्रात्रा सहकः सम्बन्धः, वस्त्ववस्तुनोर्विरोधात्? तदेतदसम्यक्। तद्देशसम्बन्धस्य तत्र प्रागभावो न भ्रातुर्धर्मिणः, स हि विद्यत एव प्रागभावतः। स च कुतश्चिद्भोजनोत्कण्ठादेः कारणात् स्मरणपदवीमुपारूढः श्वस्तनागमनविशिष्टत्वेन प्रतिभातीति प्रातिभस्य स एव जनक इति। तस्मादनर्थजत्वाभावात् प्रमाणं प्रातिभम्। प्रमाणञ्च सत् प्रत्यक्षमेव, न प्रमाणान्तरम्, शब्द-लिङ्ग-सारूप्य-निमित्तानपेक्षत्वात्।
ननु प्रत्यक्षमपि नेदं भवति तद्धि वर्त्तमानैकविषयम्, यथोक्तम् `सम्बद्धं वर्त्तमानञ्च गृह्यते चुरादिने’ति, तथा एषः प्रत्यक्षधर्मश्च वर्तमानार्थतयैवेति। मैवम्। अनागतग्राहिणः प्रत्यक्षस्य प्रदेशान्तरे स्वयमेवोक्तत्वात्। `रजतं गृह्यमाणं हि चिरस्थायीति गृह्यते’ इति भवानेवावोचत्, तस्मात् प्रत्यक्षमनागतग्राहि `श्वो मे भ्राता आगन्ते’ति सिद्धम्।
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%न भ्रातुर्धर्मिण% इति। तत्र देशे भ्रातुरसत्त्वम्, न स्वरूपेणेत्यर्थः।
%अत एव नानियतनिमित्तकमि%ति। अनियतनिमित्तकत्वान्निर्निमित्तत्वम्, अतश्चाप्रामाण्यं प्रातिभस्येति तेषामभिप्रायः. ननु च आर्षाख्यस्य ज्ञानविशेषस्य प्रत्यक्षादिविलक्षणस्य धर्मविशेषाद् ऋषीणां कदाचिच्चास्मदादीनामुत्पद्यमानस्य प्रतिभात्वमुक्तम्, अतस्तस्याः कर्थं प्रत्यक्षत्वमित्याह–%न च सिद्धदर्शनमि%ति।
%चिरस्थायीति गृह्यत% इति। चिरस्थायित्वं हि भाविकालसत्त्वम्, तत् कथं प्रत्यक्षेण गृह्येतेति भावः।
न्यायमञ्जरी :–
%योगिनः सर्वज्ञा न वेति विचारः%
एवञ्च अस्मदादीनामिवानागते भ्रातरि योगिनां भविष्यति धर्मे प्रत्यक्षं प्रवर्त्स्यतीति। तस्माद् यत् सर्वज्ञनिषेधाय कथ्यते
यज्जातीयैः प्रमाणैस्तु यज्जातीयार्थदर्शनम्।
भवेदिदानीं लोकस्य तथा कालान्तरेऽप्यभूदिति॥
तदपास्तं भवति। तत्रैतत्स्यात्। सर्वज्ञता योगिनां किमेकेन ज्ञनेन बहुभिर्वा? न तावदेकेन, न ह्येकस्मिन् ज्ञाने परस्परविरोधिनोऽर्थाः शीतोष्णवदवभासते। नापि बहुभिः, तानि हि क्रमेण वा भवेयुर्युगपद्वा? न युगपज्ज्ञानानि सम्भवन्ति सूक्ष्मान्तकरणसापेक्षत्वात्। क्रभभाविभिस्तु ज्ञानैरशेषत्रिभुवनकुहरनिहितनिखिलपदार्थसार्थसाक्षात्करणमेषं मन्वन्तरकोटिभिरपि दुर्घटमिति कथं सर्वज्ञा योगिनः? उच्यते, युगपदेकयैव बुद्ध्या सर्वत्र सर्वान् अर्थान् द्रक्ष्यन्ति योगिनः।
यत्तु विरुद्धत्वादिति तदप्रयोजकम्, विरुद्धानामपि नीलपीतादीनामेकत्र चित्रप्रत्यये भासनात्, एकत्र च मेचकप्रत्यये सन्निहितपदार्थव्यतिरिक्तसकलवस्त्वभावग्रहणस्य पूर्वं दर्शितत्वात्। शीतोष्णयोरपि क्वचिदवसरे भवति युगपदुपलम्भः। तद् यथा प्रतपति हुसवहविस्फुलिङ्गनिकरानुकारिकिरणे तरुणोष्मणि ग्रीष्मे हिमशकलशिशिरपयसि सरसि निमग्ननाभिदध्नदेहस्य पुंसो युगपदेव सरःसलिलसूर्यातपवर्तिनौ शीतोष्णस्पर्शावनुभवपथमवतरतः।
नन्वेकेन ज्ञानेन सर्वान् अर्थान् भूतभाविनः परोक्षानपि पश्यन्तो यौगिनः कथमखिलत्रैलोक्यवृत्तान्तदर्शिनः सकलजगद्गुरोरीश्वराद् विशिष्येरन्? अस्ति विशेष ईश्वरस्य तथाविधं नित्येव ज्ञानम्, योगिनान्तु योगभावनाभ्यासप्रभवमिति।
ननु नादृष्टपूर्वेऽर्थे क्वचिद् भवति भावना।
आगमात्तु परिच्छिन्ने धर्मे भावनयापि किम्॥
चोदनैव धर्मे प्रमाणमिति सावधारणप्रतिज्ञार्थः प्रथममागमादवगतधर्मस्वरूपेषु सत्स्वपि योगिषु न विप्लवत एवेति। उच्यते। योगिष्वस्त्येवायं प्रकारः। पश्चादपि प्रवर्त्तमाने धर्मग्राहिणि प्रत्यक्षे चोदनैवेत्यवधारणं शिथिलीभवत्येव।
अपि चेश्वरज्ञानं सांसिद्धिकमेव धर्मविषयं वेदस्य कारणभूतं वक्ष्यामः। तस्मिन्नपि सति न चोदनैवेत्यवधारणार्थसिद्धिः। तस्मान्न धर्मग्राहकं योगिप्रत्यक्षं विद्यमानोपलम्भनत्वात् सत्सम्प्रयोगजत्वादित्यादिसाधनमप्रयोजकम्।
प्रमाणान्तरविज्ञातप्रमेयप्रतिपादकः।
धर्मोपदेशकः शब्दः शब्दत्वाद् घटशब्दवत्॥
प्रत्यक्षः कस्यचिद् धर्मः प्रमेयत्वाद् घटादिवत्।
इत्यादयश्च सुलभाः सन्त्येव प्रतिहेतवः॥
तेन निष्प्रतिघयुक्तिसाधितां योगबुद्धिमखिलार्थदर्शिनीम्।
किं विडम्बयितुमुच्यते मुधा दुष्टहेतुनिकुरुम्बशम्बरम्॥
तदित्थमपि जैमिनीयं सूत्रमसङ्गतार्थम्, लक्षणपरत्वन्त्वस्य निरस्तमेव।
यदपि कैश्चित् प्रत्यक्षलक्षणमुक्तम्, आत्मेन्द्रियमनोऽर्थसन्निकर्षाद् यदुत्पद्यते ज्ञानं तदन्यदनुमानादिभ्यः प्रत्यक्षमिति, तदपि त्रयद्वयसन्निकर्षजन्मनां सुखात्मादिज्ञानानामव्यापकमतिव्यापकञ्च व्यभिचार्यादिबोधानामित्युपेक्षणीयम्।
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%निष्प्रतिघयुक्तिरिति।% निष्प्रतिघा युक्तिर्निर्बाधमनुमानम्। %“आत्मेन्द्रियमनोऽर्थसन्निकर्षाद् यद् उत्पद्यते ज्ञानं तदन्यद् अनुमानादिभ्यः प्रत्यक्षम्”% इति वैशेषिकोक्तं प्रत्यक्षलक्षणम्। तत्र आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेनेति यः सन्निकर्षस्तस्मात्। इन्द्रियगतिज्ञानमानुमानिकं यत् तथा `अयं पनसः’ इति वोभयजं ज्ञानं प्रत्यक्षं प्रसज्यत इति तद्व्यवच्छेदाय `अन्यदनुमानादिभ्यः’ इति विशेषणम्।
न्यायमञ्जरी :–
%सांख्यकारिकोक्तप्रत्यक्षलक्षणखण्डनम्%
ईश्वरकृष्णस्तु `प्रतिविषयाध्यवसायो दृष्टमि’तिप्रत्यक्षलक्षणमवोचत्। तदपि न मनोज्ञम्, अनुमानादिज्ञानानामपि विषयाध्यवसायस्वभावत्वेनातिव्याप्तेः। यत्तु राजा व्याख्यातवान् `प्रतिराभिमुख्येवर्त्तते, तेनाभिमुख्येन विषयाध्यवसायः प्रत्यक्षमिति तदप्यनुमानादावस्त्येव, घटोऽयमितिवदग्निमान् पर्वत इत्याभिमुख्येनैव प्रतीतेः। स्पष्टता तु सर्वसंविदां स्वविषये विद्यत एव। अथ मन्यसे सामान्यविहितस्य विशेषेण बाधादनुमानादिव्यावृत्तिः सेत्स्यति, सामान्येनाध्यवसाय उत्सृष्टः स लिङ्गशब्दाभ्यां विशेषित इति तदितरोऽध्यवसायः प्रत्यक्षमिति स्थास्यति। यद्यवं प्रत्यक्षलक्षणमिदानीमव्याकरणीयमेव, शब्दलिङ्गग्रहणे वर्णिते सति तद्वैलक्षण्यादेव प्रत्यक्षं ज्ञास्यत इति। तस्मादिन्द्रियार्थसन्निकर्षोत्पन्नपदोपादानमन्तरेण नानुमानादि व्यवच्छेद उपपद्यत इति इदमपि न प्रत्यक्षलक्षणमनवद्यम्।
अलमतिविस्तरेण परदर्शंनगीतमतो
विगतकलङ्कमस्ति न हि लक्षणमक्षधियः।
तदमलमक्षपादमुनिनैव निबद्धमिदं
हरति मनांसि लक्षणमुदारधियाम्॥
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%राजा व्याख्यातवानि%ति। राजा राजवार्तिंककारः। %सामान्यविहितस्ये%ति अध्यवसायमात्रस्य प्रत्यक्षत्वे उत्सर्गत्वात् प्राप्ते लिङ्गशब्दजाध्यवसायस्य लिङ्गशब्दविषयत्वेन प्रतिपादनात् तदितरस्य प्रत्यक्षतेति तात्पर्यम्।
न्यायमञ्जरी :–
%अनुमानलक्षणपरीक्षणम्%
एवं प्रमाणज्येष्ठेऽस्मिन् प्रत्यक्षे लक्षिते सति।
कथ्यतेऽवसरप्राप्तमनुमानस्य लक्षणम्॥
न्यायमञ्जरी :–
%तत्पूर्वंकञ्च त्रिविधमनुमानं पूर्ववच्छेषवत् सामान्यतोदृष्टञ्च ॥ 5 ॥%
तत्रानुमानस्वरूपं ब्रूमहे ततस्तत्र सूत्रं योजयिष्यामः।
पञ्चलक्षणकाल्लिङ्गाद् गृहीतान्नियमे स्मृतेः।
परोक्षे लिङ्गिनि ज्ञानमनुमानं प्रचक्षते॥
अत्रापि लिङ्गविषयं ज्ञानं ज्ञानविषयीकृतं वा लिङ्गं प्रतिबन्धस्मरणसहितं प्रमाणम्। लिङ्गज्ञानं फलम्। लिङ्गिज्ञानस्य वा प्रमाणतायां पूर्ववदुपादानादिज्ञानं फलमुपवर्णनीयम्। करणस्य हि प्रमाणत्वमिति स्थितमेवैतत्। तत्र परोक्षोऽर्थो लिङ्ग्यते गम्यतेऽननेति लिङ्गम्। तच्च पञ्चलक्षणमअ। कानि पुनः पञ्च लक्षणानि? पक्षधर्मत्वम्, सपक्षधर्मत्वम्, विपक्षाद्व्यावृत्तिरबाधितविषयत्वमसत्प्रतिपक्षत्वञ्चेति। सिषाधयिषितधर्मविशिष्टो धर्मी पक्षः, तद्धर्मत्वं तदाश्रितत्वमित्यर्थः। साध्यधर्मयोगेन निर्ज्ञातं धर्म्यन्तरं सपक्षस्तत्रास्तित्वम्। साध्यधर्मसंस्पर्शशून्यो धर्मी विपक्षः, ततो व्यावृत्तिः। अनुमेयस्यार्थस्य प्रत्यक्षेणागमेन वानपहरणमबाधितविषयत्वम्। संशयबीजभूतेनार्थेन प्रत्यनुमानतया प्रयुज्यमानेनानुपहतत्वम्, असत्प्रतिपक्षत्वम्। एतैः पञ्चभिर्लक्षणैरुपपन्नं लिङ्गमनुमापकं भवति। एतेषामेव लक्षणानामेकैकापायात्, पञ्च हेत्वाभासा वक्ष्यन्ते। यस्य पक्षधर्मता नास्त्यसावसिद्धो हेत्वाभासः, यथा नित्यः शब्दः चाक्षुषत्वात्। साध्यविपर्ययव्याप्तस्तु विरुद्धः, स यथा नित्यः शब्दः कृतकत्वाद् आकाशवत्. सपक्षे सत्त्वं यस्य नास्ति सोऽनैकान्तिकः, यथा नित्यः शब्दः प्रमेयत्वादिति। यस्याबाधितविषयत्वं नास्ति स कालात्ययापदिष्टः, यथा अनुष्णस्तेजोऽवयवी कृतकत्वाद् घटवदिति। यस्य निष्प्रतिपक्षता नास्ति स प्रकरणसमः, यथा अनित्यः शब्दो नित्यधर्मानुपलब्धेः घटवत्, नित्यः शब्दोऽनित्यधर्मानुपलब्धेराकाशवदिति। सोऽयमेतेषु पञ्चसु लक्षणेष्वविनाभावो लिङ्गस्य परिसमाप्यते।
ननु च त्रिलक्षणके हेतावविनाभावः परिसमाप्यते, न च तथाविधे बाधः सम्भवति, बाधाविनाभावयोर्विरोधात्। यच्चेदमग्न्यनुष्णत्वसाधने कृतकत्वं त्रिलक्षणमपिबाधकविधुरितविषयमित्युदाहृतं तदसमीक्षिताभिधानम्, अत्र त्रैलक्षण्यानुपपत्तेः। पक्षधर्म एव तावदयं न भवति, प्रत्यक्षाद्यनिराकृतो हि पक्ष उच्यते, न चायमीदृश इत्यपक्ष एव, तद्धर्मो हेतुः कथं पक्षधर्मः स्यात्? नाप्ययमन्वयी हेतुरन्वयग्रहणसमय एव तद् विप्लवावधारणात्। अन्वयो हि गृह्यमाणः सर्वाक्षेपेण यद् यत् कृतकं तत्तदनुष्णमित्येवं गृह्यते। ततश्च तद्ग्रहणसमय एवायमुष्णोऽपि कृतक इति हृदयपथमवतरति तनूनपादिति कथमन्वयग्रहणम्?
यदि त्वनलमुत्सृज्य घटादावन्वयग्रहः।
नान्तर्व्याप्तिर्गृहीता स्यात् साध्यसाधनधर्मयोः॥
ततश्चैवंविधाद्धेतोः स्वसाध्यनियमोज्झिष्टात्।
साध्याभिलाष इत्येवं षण्ढानुनयदोहदः॥
अन्वयपूर्वकत्वाच्च व्यतिरेकग्रहणस्य तन्निराकरणे तदपाकरणमवगन्तव्यम्। अपि च सिषाधयिषितधर्मवैपरीत्येन वह्नेः प्रत्यक्षतो निश्चयाद् वस्तुवृत्तेन स एव विपक्ष इति न ततो व्यतिरेकः कृतकत्वस्येति। तस्मात् त्रैलक्षण्यापायादेव हेत्वाभासोऽयमिति न रूपान्तरमबाधितविषयत्वमपेक्षते। कथञ्चेदमबाधितत्वं निश्चीयते?
न ह्यदर्शनमात्रेण बाधाविरहनिश्चयः।
सर्वात्मना हि नास्तित्वं विद्युः कथमयोगिनः॥
अनिश्चेति तदङ्गे च न हेतोर्हेतुता भवेत्।
यथैव पक्षधर्मादिरूपाणामनुपग्रहे॥
तस्मादबाधितत्वं रूपान्तरमवचनीयमिति।
अत्राभिधीयते। यदुक्तम् अन्वयग्रहणं सर्वाक्षेपेणेपि तद्ग्रहणवेलायामेवसिषाधयिषितधर्मविपर्ययाध्यासितहुतवहस्वरूपपरिस्फुरणादन्वयशून्योऽयं हेतुरिति तदहृदयङ्गमम्। अन्वयः सत्यं सर्वाक्षेपेण गृह्यते न पुनरेकैकधर्मिसमुल्लेखेन। एवं हि तदानन्त्यादन्वयो ग्रहीतुमेव न शक्यते, अनुमानस्य च वैफल्यमित्थं भवेदग्निमतां धृमवतां सर्वधर्मिणामन्वयावगमकाल एव गृहीतत्वात्।
धूमो हि यत्र यत्रेति सामान्येनैव गृह्यते।
न पुनः पर्वतेऽरण्ये गृहे वेत्येवमिष्यते॥
एवञ्च सत्याक्षेपवाचोयुक्तिरुपपन्ना भविष्यति।
न चैवं सति वक्तव्यं षण्ढानुनयमार्गणम्।
न हि तद् वर्जमित्येवं व्याप्तिग्रहणमिष्यते॥
सामान्येन च व्याप्तिर्गृहीता सती सिषाधयिषितधर्म्यपेक्षायां सैवान्तर्व्याप्तिरुच्यते। यैव च नगलग्नाग्न्यनुमानसमये तद्व्यतिरिक्तकान्तारादिप्रदेशवर्त्तिनी बहिर्व्याप्तिरभूत् सैव कालान्तरे कान्तारवर्त्तिनि वह्नावनुमीयमानेऽन्तर्व्याप्तिरवतिष्ठते। तदिहापि यत्कृतकं तदनुष्णमिति सामान्यतः परिच्छेदान्न तदानीमनलोन्मेष इति सिद्धोऽन्वयः। व्यतिरेकोऽपि कार्ये तेजोऽवयविनि पक्षीकृते कृतकत्वस्य तेजःपरमाणुभ्यो विधुतारकपरमाण्वनभ्युपगमे तु विपक्ष एव नास्तीति तदभावात् सुतरां तत्रावृत्तिर्भवतीति। न हि सपक्ष इव विपक्षे वृत्तिरिष्यते येन यत्नतः तत्सिद्धये यतेत। अग्निरेव विपक्ष इति चेन्, मैवम्। न हि पक्ष एव विपक्षो भवितुमर्हति।
ननु वस्तूनामद्विरूपत्वात् पक्षो नाम परमार्थतो नास्त्येव साध्यधर्माधिकरणभूतश्चेत् सोऽर्थस्तत् सपक्ष एव, विपर्यये तु न विपक्षतामतिवर्त्तते। न च क्रमद्वययोगित्वं रूपद्वयरहितत्वं वा वस्तुनः समस्तीति। तदयुक्तम्। अनुमानोच्छेदप्रसङ्गात्। अद्विरूपत्वेऽपि वस्तूनां निसर्गविषयीकृतोऽर्थः कश्चित् पक्ष एषितव्यः, तदभावे तदपेक्षस्वरूपयोः सपक्षविपक्षयोरप्यभावः स्यात्। तदस्य पक्षस्य सतोऽपि सपक्षत्वमारोप्य यत्तेन व्यभिचारचोदनं तेनाग्न्यनुमानमपि विप्लवेत।
ननु पर्वतादिर्धर्मी न ज्वलनाख्यसाध्यधर्मभून्यतया तत्र निश्चितः, तेजोऽवयवी त्वनुष्णत्ववैपरीत्येन प्रत्यक्षतो निश्चित इति, तत् किमिदानीं पर्वतादिरग्निमत्तयानिश्चितः, तथाभ्युपगमे वा किमनुमानेन?
ननुनपर्वतोऽग्निमत्तयानिश्चितो नापि तद्वैपरीत्येन, किन्तु सन्दिग्ध एवास्ते। यद्येवं सन्दिग्धेऽपि विपक्षे वर्त्तमानो धूमादिरहेतुरेव स्यान्निश्चितविपक्षवृत्तिवत् सन्दिग्धविपक्षवृत्तेरप्यहेतुत्वात् सर्वमनुमानमुत्सीदेत्। तस्मात् पक्षेण व्यभिचारचोदनमनुचितमिति व्यतिरेकवानेवायं हेतुः। यत्पुनरभिहितम्। अनिराकृतपक्षवृत्तित्वमस्य नास्तीति, तत् सत्यम्। वयमप्यमुं पक्षमध्यक्षबाधितमिच्छाम एव, यत्तु न पक्षमात्रपर्यवसितो बाधः किन्तु हेतुमपि स्पृशति।
न हेतुनिरपेक्षात्मा पक्षो नामास्ति कश्चन।
प्रसाधयितुमिष्टो हि हेतुना पक्ष उच्यते॥
स न साधयितुं शक्यः प्रत्यक्षे प्रतियोगिनि।
साध्यापहारद्वारेण हेतुर्भवति बाधितः॥
अबाधितानुमेयत्वमत एवास्य लक्षणम्।
ननु हेतुरसिद्धोऽयं ज्वलने वृत्तिसम्भवात्॥
यत्तु बाधितता ज्ञातुं शक्या नेति विकल्पितम्।
पक्षस्यापि महाभाग कथं तां प्रतिपत्स्यसे॥
प्रयत्ने क्रियमाणेऽपि यदि बाधा न दृश्यते।
नास्त्येवेत्यवगन्तव्यं व्यवहारो हि नान्यथा॥
अतस्त्रिलक्षणेऽपि हेतौ बाधसम्भवादबाधितत्वं रूपान्तरं वक्तव्यम्। एवञ्च यदुच्यते बाधाविनाभावयोर्विरोधादिति तत् कथञ्चिद् युक्तं कथञ्चिदयुक्तम्। पञ्चलक्षणके लिङ्गेयः परिसमाप्तोऽविनाभावस्तत्र नास्त्येव बाध इत्यवं युक्तमेतत्। त्रिलक्षणकलिङ्गाविनाभावाभिप्रायेण त्पयुक्तमेतदित्यलं प्रसङ्गेन।
नियमस्मृतेरिति, विव्रियतां कोऽयं नियमो नाम? व्याप्तिरविनाभावो नित्यसाहचर्यमित्यर्थः।
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%बाधाविनाभावयोर्विरोधादि%ति। अविनाभावेन साध्यप्रतिबद्धं साधनं ख्याप्यते, बाधयातु साध्यं विनापि साधनस्य सद्भाव इति ज्ञाप्यत इति विरोधः।
%एवञ्च सत्याक्षेपवाचोयुक्तिरि%ति। अन्यथा हि परामर्श एव स्यान्नाक्षेपः। अप्रतीयमानस्य हि कल्पनमाक्षेप इति।
%तदभावात् सुतरां तत्रावृत्तिरि%ति। तथा चाह
तस्माद् वैधर्म्यदृष्टान्ते नेष्टोऽवश्यमिहाश्रयः।
तदभावेऽपि तन्नेति वचनादपि तद्गतेः।
%ननु वस्तूनामद्विरूपत्वादि%ति। कथं हि यत् साध्यधर्माधिकरणतया लब्धसपक्षव्यपदेशं तद्विपर्ययेण चासादितविपक्षभावं तदेव तथाविधं पक्षव्यपदेशं लभेतेत्यर्थः।
%संदिग्धविपक्षवृत्तेरि%ति। श्यामोऽयं तत्पुत्रत्वादिति संदिग्धविपक्षवृत्तिः। यद्यपि दृश्यमानेषु तत्पुत्रेषु श्यामत्वदर्शनात् सपक्षवृत्तित्वमस्य तथाप्यदृश्यमानेषु कदाचिदश्यमेष्वपि तत्पुत्रत्वं भवेदिति तत्प्रुत्रत्वस्य विपक्षे अश्यामे च वृत्तिः सन्दिग्धा। %व्यतिरेकवानेवायं हेतुरि%ति। न सन्दिग्धविपक्षवृत्तिरित्यर्थः।
%व्यवहारो हि नान्यथे%ति। यत्ने क्रियमाणेऽपि यन्नोपलभ्यते तच्चेन्नास्तितया निश्चीयते तदा सर्पाद्यभावनिश्चयनिबन्धनो व्यवहारो न स्यात्। %अत एव विरुद्धाव्यबिचारि%ति(1)। अत एव वस्तुनोऽद्विरूपत्वादेव परैरिष्टोऽपि भवद्भिर्विरुद्धाव्यभिचारी नेष्यत इति।
{1. अतःपरं `अत एव विरुद्धाव्यभिचारीति’ ग्रन्थप्रतीकष्टिप्पण्यां वर्त्तते परन्तु तादृशीग्रन्थपंक्तिर्न दृश्यतेऽत्र।}
न्यायमञ्जरी :–
%व्याप्तिग्रहोपाये शाक्यमतम्%
आह नैतावत्येव विरन्तुमुचितम्, तस्यतदविनाभावित्वमित्यत्र हि निमित्तमन्वेषणीयं तार्किकैः। तच्च तादात्म्यतदुत्पत्तिरूपमीक्षितवन्तो भिक्षवः। यो हि यदात्मा भावः स कथं तमुत्सृजति? वृक्षात्मिकैव हि शिंशपा तेन वृक्षत्वमनुमापयति, सोऽयं स्वभावहेतुरुच्यते वृक्षोऽयं शिशपात्वादिति। तत्र तादात्म्यं प्रतिबन्धः, कार्यञ्च नाम कारणाधीनात्मलाभमेव भवति न कारणानपेक्षमिति, तदुपलभ्यमानं तदनुमापयत्यग्निरत्र धूमादिति। कार्यहेतौ तदुत्पत्तिः प्रतिबन्धः। एवं हि द्विविधं प्रतिबन्धमनुमेयाव्यभिचारनिबन्धनमनुक्त्वा केवलसाहचर्यनियममात्रवर्णनं यत् प्रसारिका सैवेति।
न्यायमञ्जरी :–
%शाक्यमतखण्डनम्%
उच्यते। पादप्रसारिकैव साधीयसी स्थूलदृष्टिभिरवलम्बिता, परं न सूक्ष्मदृष्टिभिरुत्प्रेक्षितास्तादात्म्यादिप्रतिबन्धाः। तादात्म्ये तावद् गमकाङ्गे हेतुसाध्ययोरव्यतिरेके गम्यगमकभाव एव दुरुपपपादः। न खल्वगृहीतं लिह्गं लिङ्गिप्रतीतिमाधातुमर्हति। तत्र लिङ्गबुद्धौ लिङ्गं प्रतिभासते न वा? अप्रतिभासे तद्बुद्ध्या तदग्रहणात् कथं तस्य तदात्मकत्वम्? प्रतिभासे तु लिङ्गवत् प्रत्यक्ष एव सोऽर्थ इति किमनुमानेन? विपरीतसमारोपव्यवच्छेदार्थमनुमानमिति चेद्? न। तत्स्वरूपग्रहणए विपरीतारोपणावसराभावात्। न हि शिरःपाण्यादिविशेषदर्शने सति स्थाणुसमारोपः प्रवर्त्तते। तत्र तद्भेदादुपपद्येतापि न हि शिरःपाण्यादय एव पुरुष इति। तद्ग्रहणेऽप्यपुरुषारोपः कामं भवेत्। इह वृक्षत्वग्रहणे सति सामान्यधर्मग्रहणाद् विशेषानध्यवसायात् कदाचिदशिंशपारोपः स्यात्, न तु शिंशपात्वग्रहणे सति अवृक्षत्वसमारोपो युक्तः।
प्रमातुः शिंशपात्वं हि यस्य प्रत्यक्षगोचरः।
परोक्षं तस्य वृक्षत्वमिति नातीव लौकिकम्॥
किञ्च साध्यसाधनयोरव्यतिरेकाद् यथा शिंशपात्वेन वृक्षत्वमनुमीयते तथा वृक्षत्वेनापि शिंशपात्वमनुमीयेत तादात्म्याविशेषात्। तथा च प्रयत्ननान्तरीयकत्वेनानित्यत्वं साध्यते तद्वद् अनित्यत्वेनापि तत्साध्येत। ततश्च सपक्षव्याप्त्यव्याप्तिभ्यां कृतकत्वप्रयत्ननान्तरीयकत्वयोर्यो भेद उक्तः स हीयेत।
ननु चान्यः सम्बन्धोऽन्यश्च प्रतिबन्धः। द्विष्ठः सम्बन्धः प्रतिबन्धस्तु परायत्तत्वलक्षणः। तत्र शिंशपात्वं वृक्षत्वे प्रतिबद्धं न वृक्षत्वं शिशपात्वे। प्रयत्ननान्तरीयकत्वमप्यनित्यत्वे नियतं न त्वनित्यत्वं तत्रेति। तथा धूमस्याग्नौ प्रतिबन्धो न त्वग्नेर्धूमे, सत्यमेवम्, किन्त्वेवमुच्यमाने नियम एवाङ्गीकृतो भवेद् न तादात्म्यम्। तादात्म्ये हि यथा शिंशपात्वं शिंशपां विना न दृश्ते तथा वृक्षत्वमपि शिंशपारहितं न दृश्यते। दृश्यते च खदिरादौ शिंशपारहितं वृक्षत्वम्, विद्युदादौ च प्रयत्ननान्तरीयकत्वरहितमनित्यत्वमुपलभ्यते इति कथमभेदः?
विना साधनधर्मेण साध्यधर्मोऽयमस्ति हि।
दृष्टस्तद्व्यतिरेकेण तदात्मा चेति कैतवम्॥
अथ विद्युदाद्यनित्यत्वादन्यदेव घटाद्यनित्यत्वं यत्प्रयत्ननान्तरीयकत्वाभिन्नमुच्यते तर्हि धर्मिभेदेन धर्माणां भेदेऽन्वयग्रहणानुपपत्तेः सर्वमनुमानमुत्सीदेत्। धूमाग्न्योस्तु कार्यकारणयोर्भेदाद्युक्तं वक्तुं धूमस्याग्नौ प्रतिबन्धो न त्वग्नेर्धूमे। इह तु साध्यसाधनयोरव्यतिरेकान्न तथा शक्यते वक्तम्, तथाभिधाने वा नाव्यतिरेकः, सर्वदा तादात्म्यं वा त्यज्यतां वृक्षत्वानित्यत्वाभ्यां शिंशपात्वप्रयत्ननान्तरीयकत्वे अनुमीयेताम् नान्तरावस्थातुं लभ्यते। यश्चायमनित्यः शब्दः कृतकत्वादिति स्वभावहेतुरुदाहृतः स कथं स्वभावहेतुः? इदं हि चिन्त्यताम्, अनित्यत्वं नाम किमुच्यते? किञ्च कृतकत्वमिति। तत्रानित्यत्वं विनाशयोगः, उत्पत्तियोगश्च कृतकत्वम्। उत्पन्नस्य च भावस्य विनाशो न तु उत्पाद एव विनाश इति, कथं साध्यसाधनयोरव्यतिरेकः? अत्र चोदयन्ति, विनाशयोगे ह्यनित्यत्वे विनाशी शब्द इति बुद्धिः स्यान्नानित्य इति, एष्या च मिथ्याबुद्धिः शिखरिण एव कृशानुविशेषितस्य विनाशवतः शब्दस्य ग्रहीतुमशक्यत्वात्।
अभावेन हि धर्मेण तद्वत्ता धर्मिणः कथम्।
अभावग्रहवेलायां धर्मिणोऽनुपलम्भनात्॥
अनित्यत्वमिति च भावप्रत्ययः कथमभावे भवेद्, विरुद्धत्वात्। तस्मादुभयान्तपरिच्छिन्ना वस्तुसत्ता अनित्यत्वमुच्यताम्। कृतकत्वमपि सत्तैव कारणोत्पादिताधारा सती कथ्यत इति। एवञ्च सत्तैव साध्यं साधनञ्चेति सिद्धं स्वभावहेतुत्वम्। तदिदमनुपपन्नम्। साध्यसाधनयोस्तथात्वेनानवभासनात्। एवं ह्युच्यमाने शब्दः सत्तावान् सत्तावत्त्वादिति प्रतीतिः स्यात्, न चैवं दृश्यते, अपि तु अनित्यः शब्दः कृतकत्वादिति। अथोभयान्तपरिच्छिन्ना सत्ता साध्या कारणनिर्वर्त्त्याश्रयसमवायिनी च साधनमित्युच्यते, तदेतदघटमानम्। विनाशरूपस्यान्तस्यतदानीमविद्यमानत्वेन सत्तापरिच्छेदकत्वाभावात्।
बुद्धिस्थेनाथ तेनास्याः परिच्छेदोऽभ्युपेयते।
शब्दस्यैव परिच्छेदो विनाशेनास्तु तादृशा॥
धर्मः समानकालोऽपि बुद्ध्यैव विषयीकृतः।
तद्विवशेषणतां याति तथा भाव्यपि यास्यति॥
तदेवं विनाशी शब्द इति विशेषणविशेष्यभावसिद्धेः किं सत्तासाध्यकल्पनया। यत्पुनरभिहितम् अभावे भावप्रत्ययस्त्वतलादिर्नस्यादिति, तदत्यन्तानभिज्ञस्य चोद्यम्, शब्दप्रवृत्तिनिमित्तस्य तत्र भावप्रत्ययेनाभिधानात्, यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेश इति, अभावेऽपि अभावत्वमिति दर्शनात्। तस्माद् बुद्धिस्थविनाशयोग एवानित्यत्वम्, कृतकत्वमपि उत्पत्तियोग एव न सत्ता। कारणीत्पादिताश्रयावच्छेदे तु तस्या इष्यमाणे धर्मिण एव तदवच्छेदो भवत्विति किं सोपानान्तरेण?
ननूत्पादविनाशाख्यं न धर्मद्वयमन्वयि।
यद् घटेनास्ति तच्छब्दे यच्च शब्दे न तद् घटे॥
अथैक एव धर्मः सर्वभावसम्बन्धी इष्येत तर्हि
एकभावसमुत्पादे सर्वोत्पादः प्रसज्यते।
एकप्रलयकाले च सकलप्रलयो भवेत्॥
तस्मात् सत्तापक्ष एव वरम्। नैतदेवम्। धर्मिभेदेऽपि धर्माणां तुल्यरूपाणामवभासात्।
न घटादिस्वरूपं हि नाश इत्यवकल्पते।
येनानन्वयदोषः स्यात् तद्भेदोपनिबन्धनः॥
एकत्वमपि धर्मस्य नास्ति सर्वेषु धर्मिषु।
येनैकध्वंससमये सकलध्वंससङ्करः॥
भिन्नत्वेऽपि च धर्माणां समानरूपत्वेनावभासमानत्वादन्वयग्रहणादिकार्यविरोधः, अत एव सामान्यमन्तरेणापि समानधर्ममूलान्वयादिव्यवहारोपपत्तेः। तत्रन सूत्रकारेण सामान्यग्रहणं कृतम्, अपि तु साधर्म्यग्रहणमुपात्तमु, `उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः’ `साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्तर उदाहरणमिति। तेन विनाशोत्पादधर्मयोः साध्यसाधनभावात्, तयोश्च भेदाद् अनित्यः शब्दः कृतकत्वादिति न स्वभावहेतुरिति सिद्धम्। कार्यहेतुरपि न सम्भवति। भवतां हि पक्षे क्षणयोर्वा कार्यकारणभावो भवेत् सन्तानयोर्वा?
क्षणयोर्नेति वक्ष्यामः क्षणभङ्गनिराकृतौ।
सम्भवन्नपि दुर्लक्ष्यः सूक्ष्मत्वाच्च तयोरसौ॥
धूमाग्निसन्तानयोस्तु अवास्तवत्वादेव नास्ति कार्यकारणभावः। अर्थक्रियाकारित्वमेव वस्तुत्वम्। यदि धूमः कार्यत्वादनलमनुमापयेत् कटुमलिनगगनगामित्वादिधर्मैरपि तस्य गमको भवेत्। न च कथञ्चित् तत्कार्यत्वं कथञ्चिदतत्कार्यत्वञ्च धूमस्योपपन्नम्, सर्वात्मकस्य तदन्वयव्यतिरेकानुविधायिप्रभवत्वात् अथ सर्वात्मनापि तत्कार्यत्वे।
धूमत्वमात्रमेवाग्निसहचारीति मन्यते।
सहचारित्वमेवास्तु तदुत्पत्तिकथा वृथा॥
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%विपरीतसमारोपव्यवच्छेदार्थमि%ति। यो हि द्राघीयसीषु शिंशपासु प्रवृत्तवृक्षव्यवहारो लघ्व्यां शिंशपायामवृक्षत्वमारोपयति तस्यासौ आरोपोऽनेन व्यवच्छिद्यते “वृक्षोऽयं शिंशपात्वात्”। शिंशपात्वप्रतिबद्धं वृक्षत्वं न द्राघीयस्त्वादिप्रतिबद्धमित्यर्थः।
%अथ विद्युदाद्यनित्यत्वादि%ति। यदनित्यत्वं प्रयत्नान्तरीयकत्वप्रतिबद्धं न तत् ततोऽन्यत्र विद्युदादाविति नास्ति तस्य ततोऽन्यत्र विद्युदादाविति नास्ति तस्य ततोऽन्यत्र वृत्तिरिति।
%अनित्यत्वमि%ति भावाभिधायीति। `तस्य भावस्त्वतलौ’ इति त्वप्रत्ययस्य भावाभिधायित्वम्, न चाभावस्य भावोऽस्तीति विरुद्धम्। %तस्मादुभयान्ते%ति। प्रागभावप्रध्वंसाभावविशिष्टवस्त्वाधारा सत्ता उभयान्तपरिच्छिन्नेत्यभिधीयते।
%विनाशेनास्तु तादृशा% भाविना।
%विनाशी शब्दः% अनित्यः शब्द इति। `%यस्य गुणस्य हि भावात् द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलादयः%’ इत्यत्र द्रव्यशब्देन विशेष्यमुक्तम्, गुणशब्देन तु तत्र शब्दस्य प्रवृत्तिनिमित्तमात्रमुक्तमिति मन्यते, तच्चाबावेऽपि किञ्चिदरित यद्वशादभावत्वमिति भवति, तच्च भाववैलक्षण्यादि किञ्चिदवश्यकल्प्यमित्यभिप्रायः। %धर्मिण एव तदवच्छेदो भवत्वि%ति। कारणोत्पादावच्छिन्नो धर्म्येव कृतकः, तस्य च यः कारणत उत्पादस्तदेव कृतकत्वमिति।
%एक एव धर्म% इति। उत्पादाख्यो विनाशाख्यश्च।
%न सूत्रकारेण सामान्यग्रहणं कृतमि%ति। `उदाहरणसामान्यात् साध्यसाधनहेतुः’ इति हि क्रियमाणे न घटाख्योदाहरणसामान्यघटत्वं शब्देऽस्तीत्यहेतुत्वं स्यात्।
न्यायमञ्जरी :–
%साहचर्यस्यैवानुमितिहेतुत्वस्थापनाम्%
ननु भवद्भिरपि कार्यानुमानमङ्गीकृतमेव यथा शेषवदिति व्याख्यास्यते, यथाह कणव्रतः `कार्यं कारणं संयोगि समवायि विरोधि चेति लैङ्गिकमि’ति, न साहचर्योपलक्षणार्थत्वात्, धूमाग्न्योर्नदीपूरयोर्वा न कार्यकारणभावाद् गमकत्वं यथोक्तेन न्यायेन, अपि तु नित्यसाहचर्यान्नियमादेवेति। विरोधिनोः कथं साहचर्यंमिति चेत्, सदसतोर्गम्यगमकभावाद् विरोधिनोरेकतरदर्शनादन्यतरस्याभावोऽनुमीयते, भावाभावयोश्च साहचर्यं तयोरस्त्येव, कणादसूत्रे कार्यादिग्रहणञ्चोपलक्षणम्।
अन्येषामपि हेतूनां भूम्नां जगति दर्शनात्।
सूर्यास्तमयमालोक्य कल्प्यते तारकोदयः॥
पूर्णचन्द्रोदयाद् वृद्धिरम्बुदधेरवगम्यते।
उदितेनानुमीयन्ते सरितः कुम्भयोनिनः॥
शुष्यत्पुलिनपर्यन्तविश्रान्तखगपङ्क्तयः।
पिपीलिकाण्डसञ्चारचेष्टानुमितवृष्टयः॥
भवन्ति पथिकाः पर्णकुटीरकरणोद्यताः॥
अन्येऽपि सौगतोद्गीतप्रतिबन्धद्वयोज्झिताः।
कियन्तो बत गण्यन्ते हेतवः साध्यबोधकाः॥
लोकप्रसिद्धतादात्म्यतदुत्पत्त्यवधीरणात्।
डिम्भहेवाकसदृशं स्वमत्या तत्समर्थनम्॥
अतश्च तत्स्वभावकालस्तत्कार्यमित्यादि व्यसनमात्रम्, अपि च
व्यावृत्त्योर्लिङ्गलिङ्गित्वं प्रतिबन्धश्च वस्तुनोः।
विकल्पैर्ग्रहणं तस्य कथं सङ्गच्छतामिदम्॥
उक्तञ्चैतत् प्रथमे एवाह्निके इत्यलं प्रसङ्गेन।
तस्मादनुमितिहेतुः सम्बन्धः साहचर्यमिति सिद्धम्, न तु शौद्वौदनिशिष्यपरिकल्पितमुभयमप्येतत्।
यत्त्वभ्यधीयत परैः किमधीनमस्य
तत्साहचर्यमिति तत्र विधिः प्रमाणम्।
तादात्म्यतज्जननयोरपि चैष तेषां
तुल्योऽनुयोग इति किं विफलैः प्रलापैः॥
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%कार्यं कारणमि%त्यादि। `अस्येदं कार्यं कारणं संयोगि समवायि विरोधि चेति लैङ्गिकम्’ इति सूत्रम्। अस्यार्थः अस्येदं कार्यमिति कार्यदर्शनाद् यत् कारणे ज्ञानमुत्पद्यते तल्लैङ्गिकमानुमानिकम्; एवं कारणादिदर्शनात् कार्य कारण संयोग्यन्तर-समवाय्यन्तरविरोध्यन्तरेषु यज्ज्ञानं तल्लैङ्गिकम्। कार्यात् नदीपूरादुपरि देशे वृष्टेरनुमानम्, कारणाद् विशिष्टाया मेघोन्नतेर्भाविन्या वृष्टेः। संयोगिनो धूमादग्नेः, समवायिन उष्णस्पर्शाद् वारिस्थस्य तेजसः, विरोधिनो र्विस्फुर्जनविशिष्टाहेर्नकुलस्य।
%अतश्च तत्स्वभावः काल% इति। सूर्यास्तमयादिः कालोऽत्यासन्नतारकोदयस्वभाव इति भावात् स्वभावानुमानात् स्वभावहेतुतेति त आहुः।
%तादात्म्यतज्जननयोरपी%ति। वृक्षत्वशंशपात्वयोरग्निधूमयोश्च यत् तादात्म्यं तदुत्पत्तिश्च ते किंकृते इति।
न्यायमञ्जरी :–
%नियमस्वरूपनिर्देशानन्तरं स्मृतिस्वरूपविचारः%
नियमो व्याख्यातः। स्मृतेरिति कोऽर्थः? उच्यते
नियमो हि गृहीतोऽङ्गमनुमेयप्रमां प्रति।
न नारिकेलद्वीपस्थो धूमादग्निं प्रपद्यते॥
साध्यानुमितिवेलायां न चास्ति नियमग्रहः।
नियमग्रहकाले च न साध्यमनुमीयते॥
तेन पूर्वगृहीतः सन्निदानीं स्मृतिगोचरः॥
नियमः प्रतिपत्त्यङ्गं तथावगतिदर्शनात्।
द्वितीयलिङ्गदर्सने सत्यपि नियमस्मरणमन्तरेण साध्यप्रमितेरनुत्पादात्।
यत्रापि विषयेऽभ्यस्ते नैव सञ्चेत्यते स्मृतिः।
तत्राप्यनेन न्यायेन बलात् सा परिकल्प्यते॥
अत एव केचन प्रत्युत्पन्नकारणजन्यां स्मृतिमेवानुमानमुक्तवन्तः। प्रत्युत्पन्नश्च कारणं कुत्रचिद्धर्मिपरोक्षस्यापि चेश्वरादृष्टेन्द्रियादेरनुमेयतां वक्ष्यामः।
तस्माद् यथोचिताल्लिङ्गाद् यथोक्तनियमस्मृतेः।
यथोक्तलिङ्गिविज्ञानमनुमानमिति स्थितम्॥
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%अत एवे%ति। अविनाभावस्मृतिं विनानुमेयप्रतीतेरनुत्पादाद्धेतोः। नन्वविनाभावसम्बन्धस्मरणस्यानुमानत्वे केवलसंस्कारजन्यस्यापि हेतुत्वप्रसङ्ग इत्याशङ्क्याह-%प्रत्युत्पन्नकारणे%ति। प्रत्युत्पन्नं वर्तमानम्। धूमस्य सन्निहितस्य दर्शनाद् उत्पन्नाविनाभावस्मृतिः `यत्र धूमस्तत्राग्निः’ इत्येवंरूपा `इहैव च धूमोऽतोऽत्रैवाग्निना भाव्यम्’ इत्यस्यां प्रतीतौ पर्यवस्यति, न तु केवलसंस्कारजनितेत्यभिप्रायः।
%षोडश विकल्पा इति।% (2) तथा चोक्तम्
{2. अतोऽनन्तरं ग्रन्थिभङ्गधृतप्रतीकद्वयोपजीवका। षोडशावेकल्पा इति `तत्र देशाविशेषावच्छेद’ इत्यादि च ग्रन्थपंक्तिर्न दृश्यते।}
सर्वोऽनिर्धारितः पूर्वः सैलस्थोऽग्निश्चतुर्विधः।
प्रत्येकं साध्यते सर्वपूर्वानिर्धारिताद्रिभिः॥
विशिष्ट इति। एवं चत्वारोऽग्नयः प्रत्येकं चतुर्धा भिद्यमानाः षोडश भवन्ति। तत्रैते पञ्चदश पक्षाः। तत्र प्रथमः पक्षः `सर्वोऽग्निरग्निमात्रं सर्वत्र यत्र कचन विद्यते’ इति सिद्धसाध्यतया इष्टम्, विनाऽपि धूमदर्शनमस्यार्थस्य लाभादिति, अत्र हि सर्वशब्दः प्रकृतापेक्षः। `अनिर्धारितः पूर्वोपलब्ध इहोपलभ्यमानश्च य स सर्वः सर्वस्मिन्ननिर्धारिते देशे पूर्वत्रेह भवत्येव’ इति द्वितोये तृतीये चतुर्थे प्रत्यक्षादिविरोधः; न हि सर्वोऽग्निः शशशृङ्गवदनिर्धारित एकस्मिन् देशे, पूर्वानुभूते रसवत्याख्ये, समुपलभ्यमाने चाद्रौ सम्भवति। पञ्चमः प्रत्यक्षविरुद्धः, `अनिर्धारितोऽग्निः सर्वत्र देशे विद्यते’ इति। न ह्यनिर्धारितस्य कस्यचिदग्नेरव्यापकत्वात् सर्वत्रावरथानसम्भवः, रसवत्यादौ च निर्धारितस्यापि दर्शनात्। षष्ठे च `अनिर्धारितोऽग्निरनिर्धारितदेशे विद्यते’ इति सिद्धसाध्यतयैव कस्यचिदग्नेरवश्यं क्वचिद्देशे भावात्। `अनिर्वारितोऽग्निः पूर्वत्र रसवत्यां विद्यते’ इति सप्तमे तथा `अनिर्धारितोऽग्निरिह पर्वते विद्यते’ इति अष्टमे च प्रत्यक्षविरोधः, उभयत्र निर्धारितस्य दर्शनात्। `पूर्वोऽग्निः सर्वत्र विद्यते’ इति नवमेऽपि प्रत्यक्षविरोध एव, तस्य तद्देशं प्रत्यागमनाभावादव्यापकत्वात् सर्वत्र वृत्त्यभावात्। तथा `पूर्वोऽग्निरनिर्धारिते देशे विद्यते’ इति दशमेऽपि प्राग्वत् प्रत्यक्षविरोध एव। पूर्वोऽग्निः पूर्वत्र विद्यते’ इति एकादशे सिद्धसाध्यता, अवश्यं यस्तत्र स तत्र भवतीति। एतत् तु अचिरदृष्टाभिप्रायेणोक्तम्, न तु पूर्वोऽग्निरवश्य सर्वदा वा तत्र सग्भवतीति। `पूर्वोऽग्निरिहाद्रौ विद्यते’ इति द्वादशे असर्वगतत्वात् तस्यान्यत्र वृत्त्यसम्भवात् प्रत्यक्षविरोधः। एवं `शैलस्थोऽग्निः सर्वत्र विद्यते’ इति त्रयोदशेऽपि द्वादशवत् प्रत्यक्षविरोध एव। स एव शैलस्थोऽग्निरनिर्धारिते क्वचिद्देशे विद्यते’ इति चतुर्दशे स एव। `स एव पूर्वस्मिन् देशे विद्यते’ इति च पञ्चदशे तस्याग्नेरसर्वगतत्वेनान्यत्र सञ्चाराभावात् प्रत्यक्षादिविरुद्धतैव।
%तत्र देशविशेषावच्छेद% इत्यादि। अयं भावः। स्वरूपेण गृहीतस्योत्पलादेर्नीलादि अवच्छेदकम्। न च देशग्रहणमन्तरेणआग्निग्रहणं समस्तीति देशग्रह उत्पलग्रह इव प्राक्पश्चादग्निग्रहो नीलत्वग्रहवदिति बलादायातमग्नेरेव विशेषणत्वम्। न ह्यगृहीत उत्पले तस्य नीलत्वसम्बन्धः प्रतिपादयितुं शक्यते। विशेष्यत्वेन हि ग्रहणं विशेषणग्रहणात् परतः, स्वरूपेण तु पूर्वमेवेति।
न्यायमञ्जरी :–
%अनुमानप्रामाण्यपरीक्षायां पूर्वपक्षः%
ननु सत्यनुमानस्य प्रामाण्ये लक्षणाश्रयः।
कार्यो विचारो न पुनः प्रामाण्यं तस्य युज्यते॥
तथा चाहुः प्रमाणस्यागौणत्वादनुमानार्थनिश्चयो दुर्लभः। पक्षधर्मादिरूपं हि लिङ्गस्य बलाद् गौण्या वृत्त्या दर्शयितव्यम्। धर्मे हि साध्ये न हेतोः पक्षधर्मत्वम्, अग्निधर्मत्वाद् धूमस्य धर्मिणि साध्ये हेतोरनन्वयित्वम्। न हि यत्र धूमस्तत्र पर्वत इत्यन्वयः। द्वये तु साध्ये द्वयमपि नास्ति, न हि दहनमहीध्रयोर्धर्मो धूमः। नाप्येवमन्वयः यत्र धूमस्तत्र पर्वताग्नी इति। धर्मविशिष्टे धर्मिणि साध्ये तदुभयमघटमानमेव, नाग्निविशिष्टधराधरधर्मतया धूमः प्रथममुपलब्धुं शक्यते, न चाप्येवमन्वयो यत्र धूमस्तत्राग्निमान् पर्वत इति। तस्मादवश्यं पक्षधर्मत्वान्वयव्यवहारसिद्धये धर्मविशिष्टे धर्मिणि रूढः पक्षशब्दस्तदेकदेशे धर्मिणि गौण्या वृत्त्या वर्णनीयः, अन्वयप्रदर्शनसमये च तदेकदेशे तथैव योजनेऽतिगौणलक्षणत्वादिन्द्रियार्थसन्निकर्षजत्वादिवदगौणलक्षणत्वाभावादनुमानमप्रमाणम्।
अपि च
विशेषेऽनुगमाभावात् सामान्ये सिद्धसाधनात्।
तद्वतोऽनुपपन्नत्वाद् अनुमानकथा कुतः॥
साहचर्ये च सम्बन्धे विस्रम्भ इति मुग्धता।
शतकृत्वोऽपि तद्दृष्टौ व्यभिचारस्य सम्भवात्॥
देशकालदशाभेदविचित्रात्मसु वस्तुषु।
अविनाभावनियमो न शक्या वस्तुमाह च॥
अवस्थादेशकालानां भेदाद्भिन्नासु शक्तिषु।
भावानामनुमानेन प्रसिद्धिरतिदुर्लभा॥
भवन्नप्यविनाभावः परिच्छेत्तुं न शक्यते।
जगत्त्रयगताशेषपदार्थालोचनाद् विना॥
न प्रत्यक्षीकृता यावद् धूमाग्निव्यक्तयोऽखिलाः।
तावत् स्यादपि धूमोऽसौ योऽनग्नेरिति शङ्क्यते॥
ये तु प्रत्यक्षतो विश्वं पशय्न्ति हि भवादृशः।
किं दिव्यचक्षुषामेषामनुमानप्रयोजनम्॥
सामान्यद्वारकोऽप्यस्ति नाविनाभावनिश्चयः।
वास्तवं हि न सामान्यं नाम किञ्चन विद्यते॥
भूयोदर्शनगम्यापि न व्याप्तिरवकल्पते।
सहस्रशोऽपि तद्दृष्टे व्यभिचारावधारणात्।
बहुकृत्वोऽपि वस्त्वात्मा तथेति परिनिश्चितः।
देशकालादिभेदेन दृश्यते पुनरन्यथा॥
भूयो दृष्ट्वा च धूमोऽग्निसहचारीति गम्यताम्।
अनग्नौ तु स नास्तीति न भूयोदर्शनाद् गतिः॥
न चापि दृष्टिमात्रेण गमकाः सहचारिणः।
तत्रैव नियतत्वं हि तदन्याभावपूर्वकम्॥
नियमश्चानुमानाङ्गं गृहीतः प्रतिपद्यते।
ग्रहणञ्चास्य नान्यत्र नास्तितानिश्चयं विना॥
दर्शनादर्शनाभ्यां हि नियमग्रहणं यदि।
तदप्यसदनग्नौ हि धूमस्येष्टमदर्शनम्॥
अनग्निश्च कियान् सर्वं जगज्ज्वलनवर्जितम्।
तत्र धूमस्य नास्तित्वं नैव पश्यन्त्ययोगिनः॥
तदेवं नियमाभावात् सति वा ज्ञप्त्यसम्भवात्।
अनुमानप्रमाणत्वदुराशा परिमुच्यताम्॥
अनुमानविरोधो वा यदि चेष्टविघातकृत्।
विरुद्धाव्यभिचारो वा सर्वत्र सुलभोदयः॥
अत एवानुमानानामपश्यन्तः प्रमाणताम्।
तद्विस्रम्भनिषेधार्थमिदमाहुर्मनीषिणः॥
हस्तस्पर्शादिनान्धेन विषमे पथि धावता।
अनुमानप्रधानेन विनिपातो न दुर्लभः॥
अपि च
यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः।
अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते॥
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%प्रमाणस्यागौणत्वादि%ति। प्रमाणं प्रत्यक्षादि अगौणम्, उपचारानाश्रयणेन तल्लक्षणपदानां व्याख्यानात्।
%सामान्ये सिद्धसाधनादि%ति। व्याप्तिग्रहणसमय एव धूममात्रस्याग्निमात्रेण व्याप्तिग्रहणादत्रापि धूममात्रमग्निमात्रेण व्याप्तं गृहीतमेव, इति स्मृतिमात्रमिदानीं न त्वपूर्वं किञ्चिदित्यर्थः।
%अवस्थादेशकालानामि%ति। गुडूच्यादेरभिनवजातस्यान्या शक्तिरन्या चिरजातस्य, तथा वत्सदेशजातस्यानुपदेशप्रभवाच्छक्तिभेदः, वसन्तादिगृहीतस्य च शरदाद्यृत्वन्तरोद्भूतात्।
%अनुमानविरोधो वा यदी%ति। यत्र बलीयसा दुर्बलस्य विषयोऽपह्रियते तत्रानुमानविरोधव्यवहृरः, यत्र तूभयोः प्रयोगः समकक्षतया संशयापादकस्तत्र विरुद्धाव्यभिचारिता, यत्पुनः प्रयुक्तं सदभिमतं धर्मं विहन्ति तदिष्टविघातकृत् यथा `चक्षुरादयः परार्थाः संघातत्वात्, शयनादिवत्’ इत्यत्र शरीररूपसंघातपरार्थत्वेन शयनादीनां दर्शनादिष्टासंहतरूपात्मार्थत्वासिद्धेरिष्टविघातकारित्वम्।
न्यायमञ्जरी :–
%अनुमानलक्षणे आक्षेपनिरासः%
अत्राभिधीयते, किमयमनुमानस्वरूपाक्षेप एव क्रियते, उत तत्तत्तार्किकोपलक्षिततल्लक्षणाक्षेप इति। तत्रानुमानस्वरूपञ्चाशक्यनिह्नवमेव सर्वलोकप्रसिद्धत्वात्।
अबलाबालगोपालहालिकप्रमुखा अपि।
बुध्यन्ते नियतादर्थादर्थान्तरमसंशयम्॥
अनुमानापलापे तु प्रत्यक्षादपि दुर्लभा।
लोकयात्रेति लोकाः स्युर्लिखिता इव निश्चलाः॥
प्रत्यक्षदृष्टमपि पदार्थजातं तज्जातीयत्वलिङ्गव्यापारेण सुखसाधनम् इतरकारणमिति वा निश्चित्य तदुपाददते जहति वां लौकिकाः। अथाविचारितरमणीयतैव तत्त्वं न तु लक्षणनियमः शक्यक्रियस्तस्येति लक्षणाक्षेपोऽयमुच्यते? सोऽप्ययुक्तः, यतः,
यं कञ्चिदर्थमालोक्य यः कश्चिन्नावगम्यते।
कञ्चिदेवाक्षिपत्यर्थमर्थः कश्चिदिति स्थितिः॥
तत्र वस्तुस्वभावोऽयमिति पादप्रसारिका।
दृश्यते ह्यविनाभूतादर्थादर्थान्तरे मतिः॥
अतो यद्दर्शनाद यत्र प्रतीतिरुपजायते।
तयोरस्त्यर्थयोः कश्चित् सम्बन्ध इति मन्महे॥
तदात्मतातदुत्पत्ती न श्रद्दधति तद्विदः।
साहचर्यन्तु सम्बन्ध इति नो हृदयङ्गमम्।
तस्मिन् सत्येव भवनं न विना भवनं ततः।
अयमेवाविनाभावो नियमः सहचारिता॥
किकृतो नियमोऽस्यास्मिन्निति चेदेवमुत्तरम्।
तदात्मतादिपक्षेऽपि नैष प्रश्नो निवर्त्तते॥
ज्वलनाज्जायते धूमो न जलादिति का गतिः।
एवमेवैतदिति चेत् साहचर्येऽपि तत्समम्॥
यद् यस्य यावान् विषयः स तावति निरूप्यते।
वस्तुस्वबावभेदे तु न तस्य प्रभविष्णुता॥
अयञ्च विषमो युक्तेर्यदुक्तं नियमाद् विना।
नार्थादर्थान्तरे ज्ञानमतस्तस्य प्रकल्पनम्॥
ततः परन्तु `नियमोऽप्येष किंकृत’ इति न युक्तिः प्रभवति, तादात्म्यतदुत्पत्त्योरनुपपन्नत्वात्। अतो नियम एव विरच्यते।
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%यद् यस्य यावान् विषय% इति। पूर्वोक्तमेव दृढ्यति यद् यस्माद् यस्य युक्त्यादेर्यावान्नियमो विषयः स युक्त्यात्मा तावदिष्टविषये निरूप्यते प्रवर्त्यते।
न्यायमञ्जरी :–
%अनुमितिहेतुस्वरूपविचारः%
न च प्रतिभामात्रमानुमानिकी प्रमितिरिति वक्तुं युक्तम्, नियतात् कुतश्चिदेव वस्तुनि प्रतीतिदर्शनादित्युक्तत्वात्,। नियमश्च यदि अगृहीत एव प्रतीत्यङ्गं भवेन्नारिकेलद्वीपनिवासिभिरपि धूमदर्शनात् कृशानुरनुमीयेत, नचैवमस्तीति नियमग्रहणमपेक्षणीयम्।
यच्च विकल्पितम् `अशक्यं तद्ग्रहणमिति’, तत्र केचिदाचक्षते मानसं प्रत्यक्षं प्रतिबन्धग्राहीति। प्रत्यक्षानुपलम्भाभ्यामनलसहचरितमनग्नेश्च व्यावर्त्तमानं धूममुपलभ्य विभावसौ नियतो धूम इति मनसा प्रतिपद्यते।
मनश्च सर्वविषयं केन वा नाभ्युपेयते।
असन्निहितमप्यर्थमवधारयितुं क्षमम्॥
न च सकलत्रिभुवनविवरनिरुद्धधूमाग्निव्यक्तिसार्थसाक्षात्करणमुपयुज्यते, ज्दलनत्वादिसामान्यपुरःसरतया व्याप्तिग्रहणात्। यत्तूक्तं `सामान्यं वास्तवं नास्ती’ति तच्छब्दार्थचिन्ताप्रसङ्गे प्रतिसमाधास्यते।
अपरे पुनः योगिप्रत्यक्षकल्पं यौक्तिकं सम्बन्धग्राहि प्रत्यक्षं प्रतिपेदिरे किल। धूमत्वाग्नित्वसामान्यपुरस्कारेण व्याप्यव्यापकयोरन्वयो नाम गृह्यताम्। व्यतिरेकस्त्वनग्निभ्यो धूमस्य ग्रहीतव्यः। अनग्नयश्चातिवितताः। न च तेष्वनग्नित्वं नाम सामान्यमस्ति। तेन समस्तत्रैलोक्यान्तर्गताग्न्यनग्निगतान्वयव्यतिरेकग्राहिप्रत्यक्षव्यतिरेकेण न प्रतिबन्धोऽवधृतो भवेत्। अनवधृतश्च न प्रमाङ्गम्। अस्ति च प्रमेति, युक्तं बलात् प्रतिबन्धग्राहकमेकस्मिन् क्षणे प्रत्यक्षमिदमशेषव्यक्तिविषयमसंवेद्यमानमपि कल्पितमिति यौक्तिकमुच्यते।
अन्ये पुनः, अत एव तत्कल्पनाभयाद् भूयोदर्शनपरिच्छिन्नसामान्यपुरःसरान्वयमनपेक्षितव्यतिरेकनिश्चयमेव लिङ्गं गमकमभ्युपागमन्। यथोक्तम् `भमत्वदृष्टिमात्रेण गमकाः सहचारिण’ इति, अयमाशयः
भूयोदर्शनतस्तावदुदेति मतिरीदृशी।
नियतोऽयमनेनेति सकलप्राणिसाक्षिका॥
तावता च गमकत्वमौत्सर्गिकं सिध्यति।
मीमांसकानन्तु विपक्षे दर्शनं बाधकप्रत्ययः। न च सोऽस्ति नाद्ययावदनग्नौ धूमो दृष्टः। अनुत्पन्नेऽपि बाधके तदाशङ्कनमयुक्तमित्युक्तं तैः। “दोषज्ञाने त्वनुत्पन्ने नाशङ्का निष्प्रमाणिकेति” एत्तत्तु न चारु, व्यतिरेकनिश्चयमन्तरेण प्रतिवन्धग्रहणानुपपत्तेरित्युक्तत्वात्,। ज्ञापककत्वाद्धि नियमः स्वग्रहणमपेक्षते, नियमश्चायसुच्यते यत्तस्मिन् सति भवनं ततो विना न भवनमिति भूयोदर्शनम्। तच्च तस्मिन् सति भवनमित्यन्वयमात्रपरिच्छेदादर्धगृहीतो नियमः स्यात्, ततो विना भवनमित्यस्यार्थस्यापरिच्छेदादिति।
अपरे पुनः अनग्नित्वसामान्यमन्तरेणापि योगिप्रत्यक्षकल्पनामकुर्वन्त एव मानसप्रत्यक्षगम्यमन्वयव्यतिरेकमाहुः। धूमाग्निसामान्ये तावत् सहचरिते उपलब्धे, त्तद्वत् तदभावावपि सहचरितावुपलभ्यते एव, धूमत्वसामानस्यानग्नौ जलादावदर्शनात्। सर्वगतत्वेऽपि सामान्यानां वृत्तिभेदो नियामक इति वक्ष्यते। यद्यपि चानग्नित्वाद्यभावसामान्यं नास्ति तथापि प्रतिषेध्याग्नित्वसामान्यानुगमसिद्धैव तदभावानुगमग्रहणं सिध्यति, सकलव्यक्तिज्ञानमनङ्गं व्याप्तिनिश्चये।
भावसामान्ययोर्यद्वत् तथैव तदभावयोः।
भावयोः साहचर्यं यदन्वयं तत्प्रचक्षते॥
व्यतिरेकन्तु मन्यन्ते साहित्यं तदबावयोः।
साध्यसाधनबावस्तु भवेद् यत्राप्यभावयोः॥
तयोरेवान्वयस्तत्र व्यतिरेकस्तु भावयोः।
तदेवमभावान्वयवद् भावव्यतिरेकोऽपि प्रत्यक्षगम्यो भवत्येव।
इयानेव विशेषस्तु भावयोर्यादृशी ययोः।
व्याप्यव्यापकता सैव व्यत्यस्ता तदभावयोः॥
अभावयोस्तु गम्यगमकभावे भावयोर्व्याप्तिव्यत्ययो द्रष्टव्यः। एवञ्च प्रतिषेध्यानुगमपूर्वकसामान्यभावद्वयानुगमप्रत्ययोपपत्तेरन्वयतद्व्यतिरेकनिश्चयेऽपि न योगिप्रत्यक्षमुपयुज्यते, भावाभाषसाहचर्यंमवधार्य मनसा नियमज्ञार्नासद्धेरित्यलं निर्बन्धेन।
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%यद् यस्य यावान् विषय% इति। पूर्वोक्तमेव दृढयतियद् यस्माद् यस्य युक्त्यादेर्यावान्नियमो विषयः स युक्त्यात्मा तावदिष्टविषये निरूप्यते प्रवर्त्यते।
%न च प्रतिभामात्रमि%ति। बाह्यनिमित्तानियन्त्रिता प्रतिभासमाना सद्भूतार्थाकारा प्रज्ञा प्रतिभा।
%यौक्तिकम्% युक्तिबलात् कल्प्यम्।
%तयोरेवान्वयस्तत्रे%ति। यथा `नास्त्यत्र धूमोऽग्न्यभावात्’ इति यत्र यत्र अग्न्यभावस्तत्र तत्र धूमाभाव इत्यन्वयः। यत्र तु धूमस्तत्राग्निरिति व्यतिरेकः।
न्यायमञ्जरी :–
%अनुमानलक्षणे आक्षेपसमाधानम्%
तस्मान्नियमवत् तद्ग्रहणोपायोऽप्यस्तीति सिद्धम्।
गृहीते नियमे यावत्पुनः क्वचिद्धर्मिणि धूमादेर्लिङ्गस्य ग्रहणं न वृत्तं तावन्न भवति लिङ्गिनोऽवगतिरिति सम्बन्धग्रहणकालापेक्षया द्वितीयं तल्लिङ्गदर्शनमपेक्षितव्यम्, सैवेयं पक्षधर्मतोच्यते। पक्षधर्मान्वयव्यतिरेकनिश्चये सत्यपि प्रत्यक्षागमविरोधेन, प्रतिपक्षोपनपातेन वा न गमकत्वमिति तदपरं लक्षणद्वयमुपदिष्टम्, अबाधितविषयत्वम्, असत्प्रतिपक्षत्वञ्चेति। तदेवमनुभवसिद्धत्वादनुमानस्वरूपमिव तस्य लक्षणमपि तान्त्रिकविरचितमवाचकं लक्षणं चेत् स्वयमनवद्यमावेद्यताम्, न तु तद्द्वेषेण लक्ष्यमप्यनुमानं निह्नोतुं युक्तम्।
यत्पुनरभाणि `प्रमाणस्यगौणत्वादनुमानादर्थनिश्चयोदुर्लभ’ इतितन्न बद्ध्यामहे। न हि प्रमाणस्य किञ्चिद्गौणत्वमिह पश्यामः। पक्षधर्मादिपदानि यदि नाम व्याख्यातृभिर्गौणानि प्रयुक्तानि किमेतावता प्रमाणं गौणीभवेत्? शब्दान्तरेण हि तल्लक्षणाभिधाने न कश्चिद् गौणतादिप्रमादः।
यदप्यवादि `अवस्थादेशकालानां भेदादि’त्यभ्यधायि तदपि न भयावहम्, स्यगवधृतायां व्याप्तौ विप्लवाभावात्, प्रमातुरेव तत्र तत्रापराधो नानुमानस्येति।
यदपि व्याहारि `विरुद्धानुमानविरोधयोः सर्वत्रसम्भवात्’ कुत्रचिच्च विरुद्धाव्यभिचारिण इष्टविघातकृतश्च सुलभत्वादि’तिं, तदप्यालजालम्, प्रयोजकहेतौ प्रयुक्ते सत्येवम्प्रायाणामनवकाशत्वात्।
सद्वितीयप्रयोगास्तु न भवन्ति प्रयोजकाः।
उत्प्रेक्षामात्रमूलत्वाद्धेत्वाभासा भवन्ति ते॥
इति वक्ष्यामः।
न विशेषविरुद्धश्च न चास्तीष्टविघातकृत्।
हेतौ सुप्रतिबद्धे हि नैताः सन्ति विडम्बनाः॥
तादृशा चानुमानेन पुंसोऽर्थमधिगच्छतः।
नान्धेन तुल्यता हस्तस्पर्शानुमितवर्त्मना॥
यत्नेनानुमितो योऽर्थः कुशलैरनुमातृभिः।
अभियोगशतेनापि सोऽन्यथा नोपपाद्यते॥
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%तयोरेवान्वयस्तत्रे%ति। यथा `नास्त्यत्र धूमोऽग्न्यभावात्’ इति यत्र यत्र अग्न्यभावस्तत्र तत्र धूमाभाव इत्यन्वयः। यत्र तु धूमस्तत्राग्निरिति व्यतिरेकः।
%विरुद्धानमानविरोधयोरि%ति। धर्मविशेषाणां विपर्ययहेतवोऽत्र विरुद्धाः यथा यदि कार्यत्वाच्छब्दस्य पराश्रितत्वं सिद्ध्यति रूपादिषु तथादर्शनात् तदा तेषु तथादर्शनादेव नित्यसर्वगताश्रितत्वाभावोऽपि सिद्ध्यैदिति। इष्टविघातकृत् पुनः साध्यस्यैव धर्मस्य विहन्तेति विशेषः।
%सद्धितीयप्रयोगास्त्वि%ति। अनित्यः शब्दः कृतकत्वाद् घटवदिति प्रयुक्ते परः सद्वितीयप्रयोगेण प्रत्यवतिष्ठते `अस्तु तत्साध्यधर्माधिकरणत्वशून्यधर्मिघटान्यतरसद्वितीयो घटोऽनुत्पलत्वात् (?)कुड्यवत्’ इत्यादिना।
उत्पन्ना स्वत एव तर्काभ्यासनिरपेक्षेण प्रतीतिर्यतर%तदुत्पन्नप्रतीति।%
न्यायमञ्जरी :–
%अनुमानसूत्रे तत्पूर्वकपदार्थविचारः%
अथेदानीं सूत्रमनुसरामस्तत्पूर्वकमित्यादि। अनुमानमिति लक्ष्यनिर्देशः। तत्पूर्वकमिति लक्षणम्। तदिति सर्वनाम्ना प्रक्रान्तं प्रत्यक्षमवमृश्यते। तत् पूर्वं कारणं यस्य तत्तत्पूर्वकम्। एतावत्युच्यमाने निर्णयोपमानादौ तत्पूर्वके प्रसङ्गो न व्यावर्त्तते तद्व्यावृत्तये द्विवचनान्तेन विग्रहः प्रदर्शयितव्यः। ते द्वे प्रत्यक्षे पूर्वं यस्येति। यदेकमविनाभावग्राहि प्रत्यक्षं व्याख्यातम्, यच्च द्वितीयं लिङ्गदर्शनम्, ते द्वे प्रत्यक्षे अनुमानस्यैव कारणं नोपमानादेः। तत्र प्रतिबन्धग्राहि प्रत्यक्षं स्मरणद्वारेण तत्कारणम्, लिङ्गदर्शनन्तु स्वत एव।
ननु प्रत्यक्षमात्रस्य प्रकृतत्वात्, प्रकृतावमर्शित्वाच्च सर्वनाम्नः, कुतोऽयं विशेषप्रतिलाभः? उच्यते। उदाहरणसाधर्म्यात् साध्यसाधनं हेतुरिति वक्ष्यते। हेतुरेव चानुमानं यदिह लक्ष्यं निर्दिष्टम्। न चागृहीतमुदाहरणसाधर्म्यं तद्वैधर्म्यं वा साध्यसाधनं भवतीति तद्ग्रहणोपायोऽपेक्षितव्यः। प्रत्यक्षव्यतिरिक्ततदवगमोपायपरिकल्पने चानवस्थादूषणमसकृदभिहितमिति प्रत्यक्षस्यैव तदुपायत्वम्। अतोऽनुमानकारणभूतप्रत्यक्षापेक्षया प्रत्यक्षमात्रप्रक्रमेऽपि सर्वनाम्ना तद्विशेष आक्षिप्यते यत् प्रतिबन्धग्राहि प्रत्यक्षं यच्च द्वितीयं लिङ्गदर्शनमिति।
ननु प्रत्यक्षविशेषद्वयपूर्वकत्वमनुमानाभासेष्वपि सव्यभिचारविरुद्धादिषु सम्भवतीत्यतिव्याप्तिः। मैवम्। हेतुलक्षणेन साध्यसाधनग्रहणेन तत्प्रतिक्षेपात्। प्रतिबन्धस्वरूपं हि तत्रैव निपुणमभिधास्यते। इह तु तद्ग्रहणोपायमात्रमुच्यते। स्यक् प्रवृत्ते च प्रतिबन्धग्राहिणि प्रत्यक्षे व्याप्तिविप्लवाभावान्नानुमानाभासप्रसङ्गः। सामान्यलक्षणानुवादेन च विशेषलक्षणे वर्ण्यमाने तत एव प्रमाणाभासव्युदाससिद्धेः, केवलमिदानीं समानजातीयोपमानादिव्यवच्छेदो वचनीय इति स एव तत्पूर्वकपदेनोपात्तः। अर्थोत्पन्नमव्यभिचारि व्यवसायात्मकमिति फलविशेषणानां सर्वप्रमाणेष्वनुवृत्तेः।
युगपच्च क्वचिन्नास्ति व्यापारः शब्दलिङ्गयोः।
अतो नाव्यपदेश्यत्वविशेषणमिहार्थवत्॥
द्वयोरपि च शब्दलिङ्गयोर्ज्ञापकत्वेन स्वरूपग्रहणापेक्षत्वाज् ज्ञानायौगपद्येन युगपद् ग्रहणासम्भवात्।
नन्वेवं निरस्यतामतिव्याप्तिः, अव्याप्तिस्तु कथं निरसिष्यते, आगमादिपूर्वकाणामनुमानानामसङ्ग्रहात्। तेष्वपि मूलभूतं प्रत्यक्षमेव कारणमिति केचिदाहुः। यथोक्तम्
यत्राप्यनुमिताल्लिङ्गाल्लिङ्गिनि ग्रहणं भवेत्।
तत्रापि मौलिकं लिङ्गं प्रत्यक्षादेव गम्यते॥ इति।
यद्वा प्राधान्याभिप्रायेण प्रत्यक्षपूर्वकत्वमुच्यते न नियमार्थमिति नाव्याप्तिः, तानीति वा पुनस्तावदवबोधाय विग्रहः कर्तव्यः, तानि प्रत्यक्षादीनि पूर्वं यस्येति। यद्यपि प्रत्यक्षमेव लक्ष्यत्वेन प्रस्तुतं तथापि व्यवच्छेद्यतयानुमानादीनामपि प्रकृतत्वं न वार्यते।
अत्र चोदयन्ति तदिति करणावमर्शो वा स्यात्, फलावमर्शो वा? करणावमर्शे इन्द्रियादिकरणपूर्वकं ज्ञानं तत्फलम्, तत्पूर्वकं चानुमानमिति पूर्वशब्दस्य द्विः पाठः स्यात्, स चाश्रुत्वा कल्पनीयः। फलावमर्शे तु प्रत्यक्षफलपूर्वकमनुमानमिति तत्पूर्वकशब्दस्य फलवचनस्यानुमानशब्देन करणवाचिना सह सामानाधिकरण्यं न स्यात् तत्पूर्वकमनुमानमिति। प्रत्यक्षफलेन हि लिङ्गदर्शनेन परोक्षार्थप्रतिपत्तिरुपजन्यते, सा चानुमानफलं नानुमानमिति। उच्यते। उभयथाऽपिन दोषः। करणावमर्शे तावदिन्द्रियादिकरणपूर्वकं तत्फलं लिङ्गदर्शनं यत् तदेव परोक्षार्थप्रतिपत्तौ करणमनुमानमिति न द्विः पूर्वकशब्दस्य पाठ उपयुज्यते। फलेऽप्यवमृश्यमाने प्रत्यक्षफललिङ्गदर्शनपूर्वकं यदविनाभावस्मरणंतदनुमानं करणमेव, ततः परोक्षार्थप्रतिपत्तेः। यदुक्तं `प्रत्युत्पन्नकारणजन्या स्मृतिरनुमानमि’ति स्पष्टमेव सामानाधिकरण्यम्। फले वा अनुमानशब्दं वर्णयिष्यामोऽनुमिति रनुमानमिति। यतः शब्दं वा अध्याहरिष्यामः, प्रत्यक्षफलपूर्वकं परोक्षार्थप्रतिपत्तिरूपं फलं यतो भवति तदनुमानमिति। अत्र हि प्रथमं लिङ्गदर्शनम्, ततः प्रतिबन्धस्मरणम्, ततः केषाञ्चिन्मते परामर्शज्ञानम् ततः साध्यार्थप्रतीतिः, ततःप्रत्यक्षलक्षणावसरवर्णितेन क्रमेण हेयादिज्ञानमितीयति प्रतीतिकलापे यथोपपत्ति कार्यकारणभावो वक्तव्य इत्येवं तत्पूर्वकपदमेव केवलमनुमानलक्षणक्षममिति गुरवो वर्णयाञ्चक्रुः।
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%यत्राप्यनुमितादि%ति। प्रबाभेदेनानुमिताद् देशान्तरप्राप्तिरूपाल्लिङ्गिनि सूर्यगत्यादौ। %मौलिकम्% मूले भवं प्रभाभेदरूपम्।
न्यायमञ्जरी :–
%सूत्रस्थत्रिविधपदसार्थक्यम्%
अन्ये पुनः उपमानाद्यतिव्याप्तिव्युदासाय त्रिविधग्रहणं व्याख्यातवन्तः। तत्पूर्वकमनुमानमित्युच्यमाने सति उपमानादौ प्रसङ्ग इति त्रिविधग्रहणम्। लिङ्गं वक्ष्यमाणकार्यादिभेदाद्वा त्रिविधम्, पक्षधर्मादिख्पत्रययोगाद्वा त्रिरूपं त्रिविधमुच्यते। लिङ्गे च त्रिविधे सति तदालम्बनज्ञानमुपचारात् त्रिविधमभिधीयते। तेन प्रत्यक्षपूर्वकं त्रिविधलिङ्गालम्बनज्ञानमनुमानमित्युक्ते सति नातिव्याप्तिः।
न्यायमञ्जरी :–
%पूर्ववदादिशब्दार्थविचारः%
ननु पूर्ववदादिभिः शब्दैः कार्यादिभेदवर्णनं ज्ञास्यामः। पक्षधर्मादिरूपत्रयन्तु कथमेभिः शब्दैः प्रतिपाद्यते इति।
अत्राहुः, वादादिकथात्रयेऽपि पूर्वमुपादीयमानत्वात् पक्षः पूर्वशब्देनोच्यते, सोऽस्यास्त्याश्रयत्वेनेति पूर्ववल्लिङ्गमित्येवमनेन पदेन पक्षधर्मत्वमुक्तं भवति। पक्षे उपयुक्ते सति शेषः सपक्षो भवति, सोऽस्यास्त्याश्रयत्वेनेति शेषवत्, एवमनेन सपक्षे वृत्तिरुक्ता भवति। सामान्यतोदृष्टमित्यनेन विपक्षाद्व्यावृत्तं लिङ्गमुच्यते। कथम्? अकारप्रश्लेषात् सामान्यतोऽदृष्टमिति। तिष्ठतु तावद्विशेषः सामान्यतोऽपि न दृष्टम्, क्वेति पक्षसपक्षयोर्वृत्तेरुक्तत्वात् परिशेषाद्विपक्षे सामान्यतोऽपि न दृष्टमित्यवतिष्ठते। इत्थं त्रिरूपं लिङ्गमेभिः शब्दैरुक्तं भवति, तदालम्बनं ज्ञानमनुमानम्।
तदेवं लक्षणे कश्चित् सर्वं सूत्रमयोजयत्।
एवन्तु ख्यापितं न स्यात् सूत्रकारस्य कौशलम्॥
किञ्च पञ्चलक्षणमिह शास्त्रेऽभ्युपगम्यत इति त्रिरूपे तस्मिन् वर्ण्यमाने कालात्ययापदिष्टप्रकरणसमयोः प्रसङ्गो न व्यावर्त्तते इति, तस्मात् तत्पूर्वकपदमेव लक्षणप्रतिपादनार्थमनवद्यम्।
त्रिविधग्रहणं तस्य विभागप्रतिपादकम्।
भेदाः पूर्ववदित्यादिग्रन्थेन कथितास्त्रयः॥
तत्पूर्वकपदोद्गीतनिर्मलन्यायलक्षणाः।
परिम्लानादरोऽन्यत्र सूत्रकृद्वाक्यलाघवे॥
विभागवचनात् सिद्धं त्रैविध्यंस्वगिरा भवेत्।
तथा च सिद्धशब्दान्तच्छलेष्वेवमदीदृशत्॥
न्यायम़ञ्जरी :–
%पूर्ववदनुमानविषये विचारः%
पूर्ववदिति यत्र कारणेन कार्यमनुमीयते, यथा जलधरोन्नत्या भविष्यति वृष्टिरिति।
अत्र चोदयन्ति, पूर्वं हि कारणमुच्यते, पूर्वमस्यास्तीति पूर्ववत् कार्यं युक्तम्, तेन कार्यात् कारणानुमानमिहोदाहर्त्तव्यम्, न कारणात् कार्यानुमानम्। न च कारणेन कार्यमनुमातुमपि पार्यते। कार्यस्य तावत् पक्षत्वमयुक्तमष् सिद्ध्यसिद्धिविकल्पानुवृत्तेः। सिद्धे हि कार्ये किमन्यदनुमेयम्। असिद्धे खपुष्पवन्न पक्षत्वम्। अपि चास्ति कार्यम् कारणस्यास्तित्वादिति व्यधिकरणो हेतुः, अनित्यः शब्दः काकस्य कार्ष्ण्यादितिवत्। सत्तायाञ्च साध्यायां भावधर्मस्य हेतोरसिद्धत्वम्, अभावधर्मस्य विरुद्धत्वम्, उभयधर्मस्यानैकान्तिकत्वमिति कथं साधयितुं शक्यते? तदुक्तम्,
नासिद्धे भावधर्मोऽस्ति व्यबिचार्यभयाश्रयः।
धर्मो विरुद्धोऽभावस्य सा सत्ता साध्यते कथम्॥ इति।
न च कारणमात्रस्य हेतुत्वं युक्तम्, विना च प्रतिवन्धादिना व्यभिचारसम्भवात्। कारणविशेषश्च न कश्चिद्विपश्चितापि निस्चेतुं शक्यः,चलदचलविपुलवपुषामुत्पलदलमलीमसत्विषामपि पयोमुचाममुक्तपयसामुपरमदर्शनात्।
यदि त्वन्त्यदशावर्ति कारणं लिङ्गमिष्यते।
व्याप्तिस्मरणवेलायां कार्यप्रत्यक्षता भवेत्॥
ननु सौगतैरपि कारणात् कार्यानुमानमङ्गीकृतमेव।
हेतुना यः समग्रेण कार्योत्पादोऽनुमीयते।
अर्थान्तरानपेक्षित्वात् स स्वभावोऽनुवर्णितः॥ इति।
ग्रन्थज्ञो देवानाम्प्रियः। उत्पाद्यतेऽस्मादित्युत्पादो योग्यता कथ्यते। सा चात्रानुमेया। अत एव तस्य वस्तुनोऽनन्यत्वात् स्वभावानुमामिदमिष्यते, स स्वभावोऽनुवर्णित इति।
अत्राहुः, सर्वमिदमविदितानुमानप्रयोगक्रमस्य दुर्मतेश्चोद्यम्। न कार्यमत्र पक्षीक्रियते, न सत्ता साध्यते, न व्यधिकरणो हेतुः प्रयुज्यते, अपि तु पयोधरा एव धरमिणोऽदूरकालभाविन्या वृष्ट्या तद्वन्तः साध्यन्ते विशिष्टोन्नतिरूपधर्मादियोगेनेति न पूर्वकथितदोषावसरः, यथा अग्निमानयं धूमः बहुलपाण्डुतादिधर्मयोगित्वान्महानसावधृतधूमवदिति, धूम एवाग्निमत्तयानुमीयते। एवं समनन्तरोत्पादितवृष्टयोऽमी जीमूताः सातिशयोन्नत्यादिधर्मयोगित्वात् पूर्वोपलब्धपर्जन्यवद् इति जलधरा एव भविष्यद्वृष्टिमत्तयानुमीयन्ते। यथाह भट्टः
तस्माद्धर्मविशिष्टस्य धर्मिणः स्यात् प्रमेयता।
सा देशस्याग्नियुक्तस्य धूमस्यान्यैश्च कल्पिता॥ इति।
यत्तु पूर्वं कारणमुच्यते इति, तत् सत्यम्। पूर्वमस्यास्तीति पूर्ववत्, कारणगतमुन्नतत्वादिधर्मजातमुच्यते, तदेव लिङ्गमिति ग्रन्थदोषोऽपि न कश्चित्। न च कारणमात्रस्य हेतुत्वं ब्रूमो येनास्य विधुरप्रत्ययोपनिपातादिकृतो व्यभिचारः स्यात्। अपि च विशिष्टमेव कारणं हेतुः, न च कारणविशेषो दुरवगमः।
गम्भीरगर्जितारम्भनिर्भिन्नगिरिगह्वराः।
रोलम्बगवलव्यालतमालमलिनत्विषः॥
त्वङ्गत्तटिल्लतासह्गपिशङ्गोत्तुङ्गविग्रहाः।
वृष्टिं व्यबिचरन्तीह नैवं प्रायः पयोमुचः॥
अनभ्युपगमे चैवमनुमानस्य जीवितम्।
न स्याद्धर्मविशेषाणामपि बोद्धुमशक्तितः॥
यदपि कार्यप्रत्यक्षत्वमाशङ्कितम् तदप्ययुक्तम्। न ह्यत्र वृष्ट्यनुमानसमय एव शिरसि सलिलकणाः पतन्तः पयोदमुक्ता दृश्यन्ते। परोक्षे लिङ्गिनि ज्ञानमनुमानमिति च विशेषणोपादानात् यत्र यत्र न तदानीमेव वृष्टिः प्रत्यक्षीभवति तदु दाहरणं भविष्यति। अपि च अनुपजातावयवक्रियतया अनाशङ्क्यमानविनाशेऽन्त्यतन्तौ जातया क्रियया पटनिष्पत्त्यनुमाने क्रियमाणे पटप्रत्यक्षताकाले व्यवधानसम्भवात्। तथा हि एकतस्तावत् अन्त्यतन्तौ क्रियावमर्शनम्, अविनाभावस्मरणम्, परामर्शज्ञानम्, अनुमेयप्रतीतिरिति त्रिचतुराः क्षणाः। अन्यतस्तु क्रिया, क्रियातो विभागः, विभागात् पूर्वसंयोगनिवृत्तिः, तत उत्तरसंयोगोत्पादः, ततः पटनिष्पत्तिः, निष्पन्ने पटे क्षणान्तरे रूपादिगुणारम्भः, रूपादिजन्मनि पटस्य समवायिकारणत्वात् कारणस्य कार्यादवश्यं पूर्वकालभावित्वम्, अतो निष्पन्नोऽपि नूनमेकस्मिन् क्षणे नीरूपः पटो भवतीति न तदैव प्रत्यक्षः, ततः क्षणान्तरे रूपोत्पादाद् रूपवद् द्रव्यमिन्द्रियसन्निकर्षात् प्रत्यक्षं भविष्यतीत्यतिबहव एते क्षणाः, अतो न कार्यप्रत्यक्षत्वम्। नापि विधुरप्रत्ययादिना कार्यानुत्पत्तिरनुत्पन्नावयवक्रियात्वविशेषणोपादानेन तद्विनाशानाशङ्कनात्, क्रियातश्चोत्तरोत्तरकार्याणामवश्यम्भावित्वात्।
यदपि `हेतुना यः समग्रेणे’त्यादिना योग्यतानुमानं व्याख्यातम् तदप्यसाधु। स्वभावानुमानस्य निरस्तत्वात्। लोकश्च कारणादविकलात् कार्यमेव कल्पयति न योग्यतामित्यलं प्रसङ्गेन।
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%भावधर्मस्य हेतोरसिद्धत्वमि%ति। यावत्तस्य सत्ता न सिद्धा तावत् धर्मो हेतुः कथं भावधर्मो भवेत्। अभावधर्मस्य विरुद्धत्वम्, न ह्यभावधर्मेण भावः साधयितुं शक्यते प्रत्युत तस्याभावसाधकत्वात्।
%हेतुना यः समग्रेणे%त्यस्योत्तरमर्धम् `अर्थान्तरानपेक्षित्वात् स स्वभावोऽनुवर्णितः’ इति॥
%धूमस्यान्यैश्च कल्पिता%सा प्रमेयता `अग्निमानयं धमः’ इति।
%रोलम्बो% भ्रमरः. %गवलं% महिषशृङ्गम्।
%क्रियावमर्शनमि%ति। उत्पन्नामन्त्यतन्तुक्रियां यदा अवमृशति `अन्त्यतन्तुक्रियेयम्’ इति तदा तदनन्तरमसकृत् पटोत्पत्तिदर्शनादविनाभावसम्बन्धस्मरणम्। %धुनी% नदी।
न्यायमञ्जरी :–
%शेषवदनुमानस्वरूपविचारः%
शेषवदिति यत्र कार्येण कारणमनुमीयते, यथा नदीपूरेणोपरितने देशे वृष्टिरिति। अत्रापि वृष्टिमदुपरितनदेशसंसर्गलक्षणो नदीधर्मः तद्धर्मेणैव विशिष्टेन पूर्णतादिनानुमीयते, वृष्टिमत्पृष्ठदेशसंसृष्टेयं नदी, फेनिलकलुषत्वादिविशिष्टपूरोपेतत्वात्, पूर्वोपलब्धैवंविधधुनीवत्। अयं देशो वा वृष्टिविशिष्टदेशान्तरसंसृष्टो विशिष्टनदीपूरवत्त्वेनानुमीयत इति प्राक्तनवैयधिकरण्याविचोद्यचक्रस्येहापि नास्ति प्रसरः। फलतस्त्वियं वाचोयुक्तिः कार्येण कारणमनुमीयत इति। परमार्थतस्तु धर्मी धर्मवत्त्वेन धर्मवाननुमीयत इति स्थितिः। यदाह भट्टः
स एव चोभयात्मायं गम्यो गमक एव च।
असिद्धेनैकदेशेन गम्यः सिद्धेन बोधका॥ इति।
यत्तु सेतुभङ्गहिमविलयनादिनापि नदीपूरोपपत्तिर्दृष्टेति, तत्राप्युच्यते
आवर्त्तवर्त्तनाशालिविशालकलुषोदकः।
कल्लोकविकटास्फालस्फुरत्फेनच्छटाञ्चितः॥
वहद्वहलशैवालवनशाद्वलसंकुलः।
नदीपूरविशेषोऽपि शक्येत न निवेदितुम्॥
प्रमातुरपराधोऽयं विशेषं यो न पश्यति।
नानुमानस्य दोषोऽस्ति प्रमेयाव्यभिचारिणः॥
रोधोपघातसादृश्यव्यभिचारनिबन्धनम्।
अनुमानाप्रमाणत्वमतो वक्तुमसाम्प्रतम्॥
पारम्पर्येण वृष्टिश्च नदीपूरस्य कारणम्।
पतद्घनपयोबिन्दुसंदोहस्पन्दनक्रमात्॥
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%आवर्ते%ति। आवर्त्तानां या वर्त्तनाः सम्पादनास्ताभिः शालि श्लाध्यशीलं यदुदकम्।
%रोधोपघाते%त्यनेन पूर्वपक्षसूत्रं `रोधोपघातसादृश्येभ्यो व्यभिचारादनुमानमप्रमाणमन्’ इति सूचितम्। यदि नदीपूराद् वृष्ट्यनुमानं तदसौ रोधात् सेतुभङ्गादपि भवति; यदि पिपीलिकाण्डसञ्चाराद् भविष्यद्वृष्ट्यनुमानं तदसौ रथाद्युपघातादपि भवति; यदि च केकारवाद् मयूरानुमानं तदसौ पुरुषेणानुक्रियमाणोऽपि तत्सदृशो भवतीति।
न्यायमञ्जरी :–
%सामान्यतोदृष्टानुमानस्वरूपम्%
सामान्यतोदृष्टन्तु यदकार्यकारणभूताल्लिङ्गात्तादृशस्यैवलिङ्गिनोऽनुमानम्। यथा कपित्थादौ रूपेण रसानुमानम्। रूपरसयोः समवायिकारणमेकं कपित्थादि द्रव्यं न तु तयोरन्योन्यं कार्यकारणभावः। शाक्यदृष्ट्यापि वर्त्तमानयोः क्षणयोरितरेतरकार्यकारणता न सम्भवत्येव। धर्मिणश्च रूपवत्त्वेन रसवत्तानुमानाद् असिद्धादिचोद्यानां पूर्ववदनवकाशो वक्तव्यः। यत्पुनर्भाष्यकारेण भास्करस्य देशान्तरप्राप्त्या गत्यनुमानमुदाहृतं तदयुक्तम्, देशान्तरप्राप्तेर्गतिकार्यत्वात् कार्येण कारणानुमानं शेषवदेवेदं स्यात्।
अपि च देशान्तरप्राप्तिर्देशान्तरसंयोगः, न च दशशतांशोर्देशान्तरेण शैलादिना संयोगः सम्भवति, नभसा तु भवन्नपि दिशा वा दुर्लक्ष्यः, प्रत्यक्षेतरवृत्तित्वात् पवनवनस्पतिसंयोगवत् मातृगर्भसंयोगवद्वा।
अथ देशान्तरे तरणिदर्शनं हेतुरुच्यते, तस्यापि गतिकार्यता पारम्पर्येण विद्यते एव, गत्याप्राप्तिः प्राप्त्या च तत्र दर्शनमिति। अथ देशान्तरे उपवने दर्शनं पक्षीकृत्यदर्शनत्वेन च दर्शनशब्दवाच्यत्वेन च वा तस्य गतिपूर्वकत्वमनुमीयते देशान्तरे दिवाकरदर्शनं गतिपूर्वकं देशान्तरदर्शनत्वात् तच्छब्दवाच्यत्वाद्वा देवदत्तदेशान्तरदर्शनवदिति, तथाऽपि पारम्पर्येण गतिकार्यता न निवर्त्तते एव। न हि दर्शनत्वं गोत्वादिवत् सामान्यमस्ति किन्तु भावप्रत्ययेनात्र दर्शनोत्पादिका शक्तिरुच्यते सा च नातीन्द्रिया नित्या काचिद्, अपि तु स्वरूपसहकारिस्वभावैवेति। दृश्यमानञ्च देशान्तरप्राप्त्यात्मकमिति गतिकार्यम्। एवं दर्शनशब्दवाच्यत्वेऽपि हेतूकृते वक्तव्यम्, गत्या देशान्तरप्राप्तिर्जन्यते, तया तत्र दर्शनम्, तेन शब्दप्रयोगः, स एव भावप्रत्ययेनोक्तः। तस्मात् सर्वथा गतिकार्यत्वानपायाच्छेषवदेवेदमनुमानम्।
तदेतद्भाष्यकारीयमुदाहरणमीदृशम्।
रूपाद्रसानुमानस्तु तस्माद्युक्तमुदाहृतम्॥
अकार्यकरणप्रायहेतूनाञ्च प्रद्रशितः।
भदन्तकलहेऽस्माभिरुदाहरणविस्तरः॥
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%देशान्तरेण शैलादिना संयोगः सम्भवती%ति। अतिदूरवर्तित्वात् सूर्यस्येति भावः।
%स एव भावप्रत्ययेनोक्तः।% तत्र दर्शनशब्दप्रयोगे सति `तच्छब्दवाच्योऽयम्’ इति शब्दप्रयोगात्। %तदभावे कथं वतिः।% तेन तुल्यं क्रिया चेद्वतिः" इति क्रियातुल्यत्वे वतेः स्मरणात्।
न्यायमञ्जरी :–
%प्रकारान्तरेणानुमानत्रैविध्यम्%
एवं तावन्मतुव्याख्याया त्रैविध्यमनुमानस्य वर्णितम्, एतत्तु फल्गुप्रायमिव मन्यन्ते। नियमात्मकसम्बन्धबलादेव लिङ्गस्य गमकत्वमुक्तं न कार्यादिस्वरूपेण, तत् किमीदृशत्रैविध्येन दर्शितेनेति। वतिप्रत्ययमाश्रित्यान्यथा व्याचक्षते, पूर्ववदिति। अत्र सम्बन्धग्रहणकाले लिङ्गलिङ्गिनोः प्रत्यक्षतः स्वरूपमवधार्य पुनस्तादृशेनैव लिङ्गेन तादृगेव लिङ्गी गम्यते, तत्पूर्वेण तुल्यं वर्तते इति पूर्ववदनुमानम् यथा महानसे धूमाग्नी सहचरितौ दृष्ट्वा पुनः पर्वते धूमाग्न्यनुमानम्।
ननु प्रत्यक्षप्रतीत्या विषयगतसकलविशेषसाक्षात्करणक्षमया तुल्या नानुमानिकीमतिरिति कथं क्रियातुल्यत्वम्? तदभावात्? कथं वतिः? सत्यमेवम्। तथापि वहनेरेव तादृशस्य वैलक्षण्यापादकविशेषावच्छिन्नस्य लिङ्गेन ग्रहणाददूरविप्रकर्षेण क्रियातुल्यत्वमुपपत्स्यते, शेषवन्नाम परिशेषः। स च `प्रसक्तप्रतिषेधेऽन्यत्राप्रसङ्गाच्छिष्यमाणसम्प्रत्ययः’, यथा क्वचित् प्रदेशे धूमेनाग्निमात्रेऽनुमिते किमिन्धनोऽयमग्निरिति विमर्शे प्रसक्तानां तृणपर्णकाष्ठादीनां प्रतिषेधान्मृत्पाषाणादीनामप्रसङ्गाच्च गोमयेन्धनोऽग्निः परिकल्प्यते। यथा वा शब्दे द्रव्यकर्मत्वप्रतिषेधात् सामान्यादावप्रसङ्गाच्च गुणत्वानुमानं वक्ष्यते। सामान्यतोदृष्टन्तु यत्र सम्बन्धकालेऽपि लिङ्गस्वरूपमप्रत्यक्षं नित्यपरोक्षमेव सामान्यतो व्याप्तिग्रहणादनुमीयते। यथा शब्दाद्युपलब्ध्या श्रोत्रादि करणम्। इद्रियाणामतीन्द्रियत्वान्न कदाचित् प्रत्यक्षगम्यत्वम्। अथ च च्छेदनादिक्रियाणां परश्वधादिकरणपूर्वकत्वेन व्याप्तिग्रहणाच्छब्दाद्युपलब्धिक्रियाणां करणपूर्वकत्वमनुमीयते।
न्यायमञ्जरी :–
%तत्र शङ्का तत्समाधानञ्च%
अत्र वतिव्याख्याने चोदयन्ति, पूर्ववदेव एकमनुमानमुक्तं स्यान्न त्रिविधम्, यतो न तावदनवगतव्याप्तिकं लिङ्गं गमकं भवति विशेषाणामनन्तत्वेन च तदन्वयव्यतिरेकयोर्दुरवगमत्वात् सर्वत्र सामान्येनैव व्याप्तिग्रहणम्। यच्चेत्थं व्याप्तिज्ञानं तत्तुल्यं त्रितयेऽपि। अतः सर्वं पूर्ववदेव स्याद्वतेः सर्वत्र सम्भवात्।
तदेतदयुक्तम्। अवान्तरविशेषस्य सुस्पष्टस्य भावात्, व्याप्तिपूर्वकमनुमानमित्येतावता यद्येकविधमुच्यते, तत् सत्यम्। एवम्प्रकारमेवेदम्, तस्मिन् सत्यपि तु साम्ये भेदान्तरसम्भवात् त्रैविध्यमस्य प्रतिपाद्यते। तथा हि धूमज्वलनयोः पूर्वं प्रत्यक्षेण ग्रहणादिदानीं तेनैव धूमेन स एवाग्निरनुमीयते इति पूर्ववदिदमनुमानमुच्यते यत् प्रत्यक्षपूर्वकमिति प्रसिद्धम्।
ननु धूमान्तरेण वह्यन्तरानुमानं किं न प्रत्यक्षपूर्वकम्? क एवमाह न पूर्ववदिति? कथं तर्हीदमुच्यते? तेनैव धूमेनेति जात्यभिप्रायमेतदुच्यते न व्यक्त्यभिप्रायम्।
ननु सामान्यतस्तर्हि तत्परिच्छेदात् सामान्यतोदृष्टमेवेदं स्यात्? न। सामान्यतीदृष्टस्य नित्यपरोक्षानुमेयैकविषयत्वात्, प्रसक्तप्रतिषेधादिना च नियतसाध्यपरिच्छेदहेतुः परिशेषानुमानमुच्यते। यथा गोमयेन्धनदहनानुमानमुदाहृतम्, शब्दे वा गुणत्वकल्पनम्। सामान्यतोदृष्टन्तु नित्यपरोक्षविषयमुदाहृतमेव श्रोत्राद्यनुमानम्, तदेवं भेदसम्भवात् त्रिविधमनुमानमिति युक्तम्।
आस्तां वा उदाहरणभेदः। एकत्राप्युदाहरणे त्रैविध्यमभिधातुं शक्यते, यथा इच्छादिकार्यमाश्रितं कार्यत्वाद् घटवद् इत्याश्रयमात्रे साध्ये पूर्ववदनुमानम्। प्रसक्तशरीरेन्द्रियाद्याश्रयप्रतिषेधेन विशिष्टास्रयकल्पने तदेव परिसेषानुमानम्। अनुमेयस्य नित्यपरोक्षत्वात् तदेव सामान्यतोदृष्टञ्च।
न्यायमञ्जरी :–
%सामान्यतो दृष्टशेषवदनुमानयोरविशेष इति शङ्कायाः समाधानम्%
ननु परिशेषस्य सामान्यतोदृष्टस्य च को विशेषः? उच्यते परिशेषानुमानप्रवृत्तावन्यः पन्थाः सामान्यतोदृष्टस्यान्यः। इच्छादिकार्यं देहादिविलक्षणाश्रयं शरीरादिषु बाधकप्रमाणोपपत्तौ सत्यां कार्यत्वादिति सामान्यतोदृष्टस्य क्रमः। परिशेषानुमानस्य तु इत्थं प्रवृत्तिः, इच्छादेराश्रयत्वेन प्रसक्तानि शरीरेन्द्रियमनांसि निषिध्यन्ते, दिक्कालादौ च तत्प्रसङ्गो नास्ति, तत्पारिशेष्यादात्मैव तदाश्रय इति। परिशेषानुमाने च सर्वत्र नैष नियमः साध्यस्यातिपरोक्षत्वमिति गोमयाग्निकल्पनादिदर्शनात्, सामान्यतोदृष्टन्तु नित्यपरोक्षविषयमेवेति सूक्तं त्रैविध्यम्।
न्यायमञ्जरी :–
%क्रियानुमानवादः%
अपरे पुनरदृष्टस्वलक्षणविषयं शक्तिक्रियानुमानं सामान्यतोदृष्टमुदाहरन्ति, देवदत्तादावपि क्रियायाः परोक्षत्वात्। चलतीति प्रत्यये हि न देवदत्तस्वरूपातिरिक्तक्रियातत्त्वप्रतिभासः।
य एव देवदत्तात्मा तिष्ठत् प्रत्ययगोचरः।
चलतीत्यपि संवित्तौ स एव प्रतिभासते॥
अविरलसमुल्लसत् संयोगविभागप्रबन्धविषयत्वात्, चलतीति प्रत्ययस्य न सर्वदा तदुत्पादः, कथं तर्हि नित्यपरोक्षे क्रियास्वलक्षणेऽनुमानं क्रमते इति चेत्, कार्यस्य कादाचित्कत्वेन कारणपूर्वकत्वात् परिदृश्यमानस्य द्रव्यस्वरूपस्य कारणत्वे सर्वदा कार्योत्पादनप्रसङ्गात्, सर्वदा तत्स्वरूपसद्भावाद्, न च सर्वदा कार्यमुत्पद्यते इति तदतिरिक्तक्रियानुमानम्। एवं शक्तावपि द्रष्टव्यम्। क्रियाशक्तिस्वरूपस्य च नित्यपरोक्षत्वात् तददृष्टस्वलक्षणविषयमनुमानमुच्यते न तु विशेषविषयम्, विशेषे व्याप्तिग्रहणस्यासम्भवादिति।
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%अपरे पुनरि%ति प्राभाकराः। अदृष्टं स्वलक्षणं स्वरूपं यस्य क्रियादेस्तददृष्टस्वलक्षणम्, अनवधृतस्वरूपमित्यर्थः। तथाहि यथा सत्यपि बीजे सलिलाद्यभावाद् अङ्कुरोऽभवन् बीजव्यतिरिक्तकारणान्तरापेक्ष इति गम्यते एवं सत्यपि देवदत्ते संयोगविभागौ कदाचिद् भवन्तौ कदाचिच्चाभवन्तौ देवदत्तव्यतिरिक्तकारणान्तरापेक्षाविति गमय्ते। तस्य हीत्थमरितत्वमात्रेणावगतिः, `अरित किञ्चित् कारणान्तरम्’ इत्येवंरूपेण क्रियादेरनुमानात्, अत एवादृष्टस्वलक्षणत्वम्। तथा च तट्टीका “अत्र केचिन्नीतिज्ञम्मन्या अनवधृतस्वलक्षणमेव क्वचिदनुमानेन सामान्यतो गृह्यत इति मन्यन्ते, तद्भ्रमापनयायेदमुक्तम् `तत्तु द्विविधम्’ इति। अदृष्टस्वलक्षणविषयमप्यनुमानमरित क्रियादिषु। कथं पुनरदृष्टस्वलक्षणे सम्बन्धिदर्शनम्? उत्पत्तिमतः फलस्य दर्शनात्’ इत्यादि। ननु मीमांसकभाष्यकृता देवदत्तस्य देशान्तरप्राप्तिं गतिपूर्विकां दृष्ट्वा आदित्येऽपि देशान्तरप्राप्त्या साक्षाद् विशेषरूपेणैव क्रियानुमानमुक्तम्, अतः कथमेवमुच्यते इत्याशङ्क्याह %न तु विशेषविषयमि%ति। %विशेषे व्याप्तिग्रहणस्यासम्भवादि%ति। गतेर्नित्यपरोक्षत्वान्न कदाचित् प्रत्यक्षेण देशान्तरप्राप्त्या सह सम्बन्धग्रहणं तस्या इति। अदृष्टस्वलक्षणानुमाने तु सम्भवति सम्बन्धग्रहः; यथा अङ्कुरादिकार्यं सत्यपि बीजे कदाचिद् दृश्यमानं बीजातिरिक्तकारणान्तरापेक्षमिति दृष्टम्, एवं संयोगादि सत्यपि देवदत्ते कदाचिद् दृश्यमानं बीजातिरिक्तकारणान्तरापेक्षमिति दृष्टम्, एवं संयोगादि सत्यपि देवदत्ते कदाचिद् दृश्यमानं तदतिरिक्तकारणापेक्षीति भवति सम्बन्धग्रहः। शक्तावपि दाहादेः कादाचित्कत्वात् कार्यत्वम्, कार्यश्च कारणं विना न सम्भवति, दृष्टस्य चाग्निस्वरूपस्य मन्त्रादिसन्निधाने व्यभिचाराददृष्यस्य कारणत्वकल्पना कार्यत्वबलादेव, इति कार्यमात्राच्छक्त्यनुमानम्। कार्यविशेषाच्च संयोगादेः क्रियानुमानम्. अथवा यथा भाट्टैर्व्याख्यातम् `यत्र तेनैव धूमेन तस्यैवाग्नेरनुमानं तत् प्रत्यक्षतो दृष्टसम्बन्धम्, यत्र तु अन्येन विशेषेण सम्बन्धग्रहोऽन्यस्यचावगमस्तत् सामान्यतोदृष्टम्, तदनेन `न तु विशेषविषयम्’ इत्यादिना निराक्रियते। यौ विशेषोऽनुमीयते तेन सह व्याप्तिर्न गृहीता, न चान्येन व्याप्तौ गृहीतायामन्यस्यानुमितिः, अतिप्रसङ्गादिति।
न्यायमञ्जरी :–
%क्रियानुमानवादखण्डनम्%
तदिदमनुपपन्नम्, परिस्पन्दरूपस्योत्क्षेपणादिभेदवतः कर्मणः चलत्यादिप्रतीतौ प्रकाशमानत्वेन प्रत्यक्षत्वाद् न तस्य नित्यानुमेयत्वम्. संयोगविभागालम्बनत्वे तु संयुज्यते विभज्यते इति प्रतीतिः स्याद् न चलतीति, यथाविषयं प्रत्ययोत्पादात्। संवेदनानुसारिणी च विषयव्यवस्था, अन्यथा घटप्रत्ययेऽपि परस्यालम्बनता स्यात्। संयोगविभागालम्बनत्वे सति तिष्ठत्यपि चलत् प्रत्ययः प्राप्नोति, तत्रापि संयोगविभागसम्भवात्। स्थाणौ च श्येनसंयोगविभागवति चलतीति प्रतिभासो भवेत्। अविरलतदुपजनप्रबन्धेऽपि भूतभाविनोः संयोगविभागयोः परोक्षत्वाद् वर्त्तमानयोर्ग्रहणम्। तौ च चलित्वाऽपि स्थिते दवदत्ते स्त इति तत्रापि कथं न चलतीति प्रत्ययः।
निरन्तरञ्च संयोगविभागश्रेणिदर्शनात्।
भूमावपिभवेद् बुद्धिश्चलतीति मनुष्यवत्॥
अथ मनुषे यत्क्रियाजन्यत्वं संयोगविभागयोस्तत्रैव चलतीत्यादिबुद्धिर्नान्यत्र, देवदत्तक्रियया भूम्येति न तस्यां तथा प्रत्ययः। यद्येवं क्रियान्वयव्यतिरेकानुविधानात् क्रियालम्बन एवायं प्रत्ययो न संयोगविभागालम्बनः। तदालम्बनत्वे हि तयोर्द्वयवृत्तित्वाविशेषाद् विशेषे कारणं वाच्यम् येन पुरुष एवायं प्रत्ययो न भूमाविति, देददत्तक्रियाजन्यत्वेन तु न विशेषो यतः क्रियायाः परोक्षत्वे सति तदेव न विद्मः, किमसौ देवदत्ताश्रया क्रिया किं वा भूम्याश्रितेति, संयोगविभागकार्यानुमानस्योभयत्रापि तुल्यत्वात्। न च देवदत्ते गच्छति भूमावनवरतवहद्वातसंयोभयत्रापि तुल्यत्वात्। न च देवदत्ते गच्छति भूमावनवरतवहद्वातसंयोगविभागवत्यपि वा तरङ्गिणीतीरपाषाणे चलतीति प्रत्ययो दृष्टः, तस्मात् क्रियाविषय एव चलतीति प्रत्ययो न संयोगविभागालम्बनः। संयोगविभागाग्रहणेऽपि च निरालम्बे विहायसि विहरति विहंगमे चलतीति संवेदनं दृश्यते, न च गगनसंयोगः प्रत्यक्षः प्रत्यक्षेत्तरवृत्तित्वाद् गन्धवहमहीरुहसंयोगवत्, विततालोकावयव्याकाशस्तत्संयोगश्च पत्त्रिणः प्रत्यक्ष इति चेन्नै तदेवम्–
तमालनीलजीमूतसमूहपिहिताम्बरे।
निशीथे सान्धकारेऽपि चलत्खद्योतदर्शनात्॥
न तत्रालोकावयवी न च कश्यन तिमिरावयवी वा विद्यते इति केन संयोगो गृह्यते विभागो वा। भूकम्पोत्पाते च जाते चलति वसुमतीति मतिरस्ति न तत्र संयोगविभागौ गृह्येते, वहुलनिशीथे च नतराम्, तस्मान्न संयोगाद्यालम्बना चलतीति मतिरपि तु क्रियालम्बनैवेति। न च नित्यपरोक्षा क्रिया अनुमातुमपि शक्या, कार्यस्य कारणपूर्वकत्वेन भवन्मते सम्बन्धग्रहणानुपपत्तेः, न हि ते द्रव्यस्वरूपं कारणमपि तु क्रियाविष्टम्, क्रियायाश्च परोक्षत्वान्न तदाविष्टद्रव्यग्रहणं सुघटमिति कारणत्वाग्रहणाद् घटादावपि दुर्घटा व्याप्तिप्रतीतिः। आत्मानुमाने तु नायं दोषः, घटादेः कार्यस्याश्रितस्यप्रत्यक्षमुपलम्भात्. तस्मान्न कार्यानुमेया क्रिया, न च संयोगानुमेया, `संयोगान्तं कर्मे’ति न्यायाद् वर्त्तमानायाः क्रियायास्तेनानुमातुमशक्यत्वात्। क्रियानुमानवादश्च सामान्यलक्षणे विस्तरेण निरस्तः।
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%विततालोकावयवीति।% आकाशते आ समन्तात् प्रकाशत इति व्युत्पत्त्या आलोकावयविन एवाकाशत्वम्।
न्यायमञ्जरी :–
%शक्त्यनुमानवादप्रतिषेधः%
एतेन शक्त्यनुमानमपि व्युदस्तं वेदितव्यम्। पुरा च सविस्तरमतीन्द्रियशक्तिनिराकरणं कृतमेव।
तेनादृष्टक्रियाशक्तिस्वलक्षणमिति क्षमम्।
नेदं सामान्यतोदृष्टमिति पूर्वोक्तमेव तत्॥
इति मतुपि वतौ वा प्रत्यये वर्त्तमाने
त्रिविधमिदमिहोक्तं युक्तमेवानुमानम्।
परकविरचितानां लक्षणानां त्वमुष्मिन्
सति न भवति शोभा भास्वतीवेन्दुभासाम्॥
बौद्धोक्तप्रतिबन्धदूषणदिशा तल्लक्षणं दूषितं
भूयोदृष्टमितान्वयैककरणं शोच्यं पुनः शाबरम्।
सांख्यानान्तु कुतोऽनुमानघटनोपादानरूपा यत-
स्तेषांजातिरसौ च तद्विकृतिवद्भिन्नेति दुःस्थोऽन्वयः॥
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%साङ्ख्यानान्तु कुतोऽनुमानघटने%ति। तेषामुपादानरूपा जातिः, यथा घटादीनां मृदुपादानम्, सर्वेषु घटादिषु मृद्रूपतानुवृत्तेः, सैव तेषां जातिः सामान्यम्। यस्तु `अयं घटोऽपं घटः’ इत्यादिक एकाकारप्रत्ययः स तेषां मते सादृश्यनिबन्धनो न सामान्यनिबन्धन इति। यदुक्तम् `पिण्डसारूप्यमेव सामान्यम्’ इति; सारूप्यावच्छिन्नः पिण्ड एवानुगतप्रत्ययहेतुरित्यर्थः। तच्चोपादानं प्रतिविकारमन्यच्चान्यच्चाभ्युपगन्तव्यम्, अन्यथा विकाराः परस्परं भिन्नास्तदुपादानं यद्यभिन्नमुपेयते तदा चाभिन्नात्मन्युपादाने भिन्नात्मनो विकारस्य कथं सम्भवः। तत्र ह्युपादाने योंऽशो नास्ति स चेद् विकारेऽभ्युपगम्यते तदा असत उत्पादात् सत्कार्यवादहानापत्तिः। तद्भिन्नात्मनो विकारस्य भिन्नात्मैवोपादानमभ्युपेयम्।
न्यायमञ्जरी :–
%अनुमानस्य त्रैकालिकविषयग्रहणसामर्थ्यम्%
इदमिदानीं चिनत्यते, यदेतदिन्द्रियादिसन्निकर्षजत्वादिना लक्षितमस्मदादिप्रत्यक्षं तत्किल प्रायशो वर्त्तमानकालविशिष्टवस्तुविषयम्। एवमिदमनुमानमपि किं तद्गोचरमेव, किं वा कालान्तरपरिच्छेदेऽपि क्षममिति, तदुच्यते, त्रिकालविषयमनुमानमिति, कस्मात् त्रैकाल्यग्रहात्, त्रिकालयुक्ता अर्था अनुमानेन गृह्यन्ते, भूता नदीपूरेण वृष्टिरनुमीयते, सैव भविष्यन्ती मेघोन्नत्या, धूमेन वर्त्तमानोऽग्निरिति। अतश्च यन्मीमांसकैरुच्यते चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवंजातीयकमर्थं शक्नोत्यवगमयितुं नान्यदिति तदयुक्तम्, चोदनावत् प्रमाणान्तरस्याप्येवंजातीयकविषयत्वोपपत्तेः। प्रत्यक्षमपि योगिनां त्रिकालविषयमुक्तम्, अस्मदादीनामपि क्वचिदिति।
न्यायमञ्जरी :–
%कालासत्त्वादः%
अत्र चोदयन्ति, काले सति त्रैकाल्यग्रहणं चिन्त्यम्, स एव तु दुरुपपादः, तदभावे कस्य वर्त्तमानादिविभागो निरूप्यते।
न तावद् गृह्यते कालः प्रत्यक्षेण घटादिवत्।
चिरक्षिप्रादिबोधोऽपि कार्यमात्रावलम्बनः॥
न चामुनव लिङ्गेन कालस्य परिकल्पना।
प्रतिबन्धो हि दृष्टोऽत्र न धूमज्वलनादिवत्॥
प्रतिभासातिरेकस्तु कथञ्चिदुपपत्स्यते।
प्रचितां काञ्चिदाश्रित्य क्रियाक्षणपरम्पराम्॥
न चैष ग्रहनक्षत्रपरिस्पन्दस्वभावकः।
कालः कल्पयितुं युक्तः क्रियातो नापरो ह्यसौ।
मुहूर्त्तयामाहोरात्रमासर्त्वयनवत्सरैः।
लोके काल्पनिकैरेव व्यवहारो भविष्यति॥
यदि त्वेको विभुर्नित्यः कालो द्रव्यात्मको मतः।
अतीतवर्त्तमानादिभेदव्यवहृतिः कुतः॥
एवमाक्षिप्ते सति–
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%प्रचितां काञ्चिदाश्रित्ये%ति। क्रियाक्षणपरम्परायाः प्रचितत्वेन बृद्ध्या `चिरेण कृतम्’ इति प्रत्ययः।
%मुहुर्तयामाहोरा%त्रेति। `मुहुर्तेन कृतम्’ इत्यादिविकल्पानामपि कार्यमात्रालम्बनत्वम्; यथा सामान्यविकल्पस्य व्यक्तिमात्रालम्बनत्वं तद्वदेषामिति भावः।
न्यायमञ्जरी :–
%कालासत्त्वप्रतिषेधे कालप्रत्यक्षतावादिनां मतम्%
प्रत्यक्षगम्यतामेव केचित् कालस्य मन्वते।
विशेषणतया कार्यप्रत्यये प्रतिभासनात्॥
क्रमेण युगपत् क्षिप्रं चिरात् कृतमितीदृशः।
प्रत्यया नावकल्पन्ते कार्यमात्रावलम्बनाः॥
न हि विषयातिशयमन्तरेण प्रतिभासातिशयोऽवकल्पते।
अरूपो नन्वयं कालः कथं गृह्येत चक्षुषा।
रूपमेव तवारूपं कथं गृह्येत चक्षुषा॥
कथं वा रूपवन्तोऽपि परोक्षाः परमाणवः।
तस्मात् प्रतीतिरन्वेष्या किं निमित्तपरीक्षया॥
ननु द्रव्येऽयं नियमो न रूपादौ, द्रव्येऽपि नायं नियमः यद्रूपवत् तत्प्रत्यक्षमिति, येन परमाणूनां तथाभावः स्यात्। किन्तु यत् प्रत्यक्षं तद्रूपवदिति। तदुक्तम्, `त्रयाणां प्रत्यक्षत्वरूपवत्त्वद्रवत्वादीनी’ति। नेदं दैविकं वचनं यदनतिक्रमणीयम्। न च वचनेन प्रत्यक्षत्वमप्रत्यक्षत्वं वा व्यवस्थाप्यते। प्रत्यक्षत्वं ह्यैन्द्रियकप्रतीतिविषयत्वमुच्यते, तच्चेदस्ति कालस्य नीरूपस्यापि प्रत्यक्षता केन वार्यते। रूपित्वं तद् द्रव्याणामस्तु तथा दर्शनात्,
न चानुद्घाटिताक्षस्य क्षिप्रादिप्रत्ययोदयः।
तद्भावानुविधानेन तस्मात् कालस्तु चाक्षुषः॥
स्वतन्त्र एव तर्हि घटादिवत् कस्मान्न गृह्यते काल इति चेद् वस्तुस्वभाव एष न पर्यनुयोगार्हः। रूपिद्रव्यविशेषणतां गतस्य तस्य ग्रहणं न दण्डादिवत् स्वतन्त्रस्यापीति, गगनादेस्त्वन्यविशेषणतयापि न ग्रहणमस्तीति तस्याप्रत्यक्षत्वं न त्वरूपत्वात्।
अथ वदेद् विशेषणस्यापि रूपवत एव दण्डादेः चक्षुषा ग्रहणं न कालादेरिति, तदयुक्तम् अरूपस्यापि सामान्यदेर्विशेषणस्य चक्षुषा ग्रहणात्। द्रव्ये नियम इति चेद्, उक्तमत्र यदेव नयनकरणकावगमगोचरे संचरति तदेव चाक्षुषं रूपवदरूपं वा द्रव्यमद्रव्यं वेति। एवं गुरु द्रव्यमिति कार्तस्वरादौ प्रतिभासाद् गुरुत्वमपि प्रत्यक्षं न पतनानुमेयमेव।
तस्मात् स्वतन्त्रभावेन विशेषणतयापि वा।
चाक्षुषज्ञानगभ्यं यत् तत्प्रत्यक्षमुपेयताम्॥
अत एव प्रत्यक्षः कालः। एवं समानन्यायत्वात् पूर्वापरादिप्रत्ययगम्या दिगपि प्रत्यक्षा वेदितव्येति।
न्यायमञ्जरी :–
%कालासत्त्वप्रतिक्षेपे कालस्यानुमेयतावादिनां मतम्%
अन्ये मन्यन्ते दण्डी देवदत्तो नीलमुत्पलमितिवद् विषयातिरेकस्याग्रहणात् प्रत्ययातिशयस्य च परोक्षकालपक्षेऽपि तत्कारणकस्योपपत्तेरनुमेय एव कालः।
अप्रत्यक्षत्वमात्रेण न च कालस्य नास्तिता।
युक्ता पृथिव्यधोभागचन्द्रमःपरभागवत्॥
अप्रतिभासमानोऽपि कालः संस्कार इवेन्द्रियसहचरितः प्रत्यभिज्ञां क्षिप्रादिप्रतीतिं जनयिष्यति। कृतश्च प्रत्यक्षलक्षणे महान् कलिः किं विषयभेदादेव प्रतिभासभेदः, उतोपायभेदादपीति तदलं पुनस्तद्विमर्देन।
प्रमाणमिति निर्णीतं प्रत्यक्षं सविकल्पकम्।
तस्मान्न कल्पनामात्रं चिरक्षिप्रादिसंविदः॥
न च सम्परिदृश्यमानकरणविर्निर्मितत्वमुपपद्यते क्रियमाणस्य पटादेः कार्यस्य। तदुत्पादस्य च तन्तुतुरीवेमशलाकाकुविन्दादिकारणवृन्दस्य साम्येऽपि क्वचित्तूर्णं कृतं क्वचिच्चिरेण कृतमिति प्रतिभासभेददर्शनान्निमित्तान्तरं चिन्तनीयम्।
ननु परिस्पन्दादिक्रियाभेद एवात्र निमित्तम्, कश्चित्परिस्पन्दश्चतुरः कश्चिन्मन्थर इति क्वचित् क्षिप्रबुद्धिः क्वचित् चिरबुद्धिरिति। नैतच्चारु। षरिस्पन्दगतयोरपि चातुर्यमान्थर्ययोर्निमित्तान्तरकार्यत्वात्, परिस्पन्देऽपि चिरेण गच्छति शीघ्रं धावतीति चिरक्षिप्रादिप्रतीतिर्दृश्यते। आह न देवदत्तादिपरिस्पन्दनिबन्धनाः क्रमाक्रमादिप्रत्ययाः किन्तु ग्रहनक्षत्रादिपरिस्पन्दनिबन्धनाः। स एव च ग्रहतारादिपरिस्पन्दः काल इत्युच्यते, तत्कृत एवायं यामाहोरात्रमासादिव्यवहारः। तस्य स्वत एव भेदादौपाधिकभेदकल्पनाक्लेशो न भविष्यति। भेदपरिच्छेदे नालिकाप्रहरादिरुपाय इयती नालिका इयन्मुहूर्तम् इयान् प्रहर इति। तत्रैकस्मिन् मुहूर्ते प्रहरे वा निर्वर्त्यमानेषु बहुषु कार्येषु युगपदिति भवति मतिः, मुहूर्तान्तरापेक्षेषु क्रमेणेति। तस्माद् ग्रहादिपरिस्पन्द एव तैस्तैर्निमित्तैरुपलक्ष्यमाणप्रमाणः काल इति। कालविदश्च ज्योतिर्गणकास्त एवैनं बुध्यन्ते। तदसाम्प्रतम्। चन्द्रादिग्रहपरिच्छेदेऽपि क्रियादिप्रतीतिदर्शनात्।
चिरेणास्तं गतो भानुः शीतांशुः शीघ्रमुद्गतः।
उदिताविव दृश्यते युगपद् भौमभार्गवौ॥
इति दृश्यते प्रतिभासः। न च ग्रहान्तरपरिस्पन्दकारणक एष शक्यते वक्तुमनवस्थाप्रसङ्गात्। तस्मान्न ग्रहादिपरिस्पन्दः कालः किन्तु वस्त्वन्तरम् यत्कृतोऽयं क्रमादिव्यवहारः।
ननु भवत्कल्पितोऽपि कालः किं स्वत एव क्रमस्वभावः हेत्वन्तराद्वा? स्वतस्तस्य तत्स्वभावत्वे कार्यस्यैव पटादेः परिदृश्यमानस्य तत्स्वाभाव्यं भवतु किं कालेन? हेत्वन्तरपक्षे त्वनवस्था, तस्यापि हेत्वन्तरापेक्षत्वादिति।
तदेतद्वालिशचोद्यम्। शुक्लगुणादावप्येवं वक्तुं शक्यत्वात्। गुणस्य स्वतः शुक्लस्वभावत्वे द्रव्यस्यैव तद भवतु किं गुणेन? गुणान्तरकल्पने त्वनवस्थेति। अथ तत्र तथा दर्शनान्नेदं चोद्यम्, तदिहापि समानम्। कार्येषु पटादिषु निमित्तान्तरकृतः क्रमादिव्यवहारः, निमित्तान्तरे निमित्तान्तरं न मृग्यमिति। तस्मादस्ति युगपदादिव्यवहारहेतुः कालः, अतश्चैवम्
दृष्टः परापरत्वस्य दिक्कृतस्य विपर्ययः।
युवस्थविरयोः सोऽपि विना कालं न सिध्यति॥
दूरतरदिगवच्छिन्नो द्वदत्तादिः पर इति प्रतिभासते निकटदिगवच्छिन्नस्तु अपर इति। तदत्र न कालव्यतिरिक्तं कारणमुपपद्यते इत्यतोऽनुमीयतेकालः। सचायमाकाशवत् सर्वत्रैकः कालः। यथा आकाशलिङ्गस्य शब्दस्य सर्वत्राविशेषाद् विशेषलिङ्गाभावाच्चैक आकाशः सर्वत्र तद्व्यवहाराद् विभुः, अवयवाश्रयानुपलम्भाद् निरवयवः, अनाश्रितश्च अनाश्रितत्वादेव द्रव्यम्, अत एवावयवविभागादिनाशकारणानुपपत्तेर्नित्य इति।
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
प्रावरं मतमुपसंहृत्य %`अन्ये मन्यन्ते’% इत्यादिनाचार्यमतमाह।
%दृष्टः परापरत्वस्येति।% दूरस्थोऽपि युवा अपरोऽप्रकृष्टकालत्वात् कालापेक्षया, दिगपेक्षयात्र पर एवासौ; निकटस्थोऽपि स्थविरः प्रकृष्टकालत्वात् कालापेक्षया तु परो दिगपेक्षया त्वपर एव सन्।
न्यायमञ्जरी :–
%उपाधिकृतकालत्रैविध्यप्रदर्शनम्%
नन्वेवञ्चैकत्वात् कालस्य कुतो वर्त्तमानादिविभागः, तदभावात् कथं त्रिकालविषमनुमानमुच्यते? उच्यते। न तात्त्विकः कालस्य भेदो वर्त्तमानादिः किन्त्वसन्नप्यसौ व्यवहारसिद्धये केनचिदुपाधिना कल्प्यते। कः पुनरसावुपाधिः? क्रियेति ब्रूमः।
ननु तस्या अपि न स्वतो वर्त्तमानादिभेदः, तद्भावे वा सैव तथा भवतु किं कालेन? मैवम्। उत्पत्तिस्थितिनिरोधयोगिफलावच्छेदेन नानाक्षणपरम्परात्मिकापि क्रियेत्युच्यते। सा वर्त्तमानादिभेदवती च। तथा हि, स्थाल्यधिश्रयणात् प्रभृति आ तदवतरणादुत्पद्यमानौदनाख्यफलावच्छेदात् क्रिया वर्त्तमानोच्यते, पचतीति तदवच्छेदाद् घटाकाशवत् कालोऽपि तावान् वर्त्तंमान इत्युच्यते। अभिनिर्वृत्तफलावच्छेदात्मा परिस्पन्दसन्ततिरतीता भवति अपाक्षीदिति, तदवच्छेदात् कालोऽपि तावान् वर्त्तंमान इत्युच्यते। अभिनिर्वृत्तफलावच्छेदात्मा परिस्पन्दसन्ततिरतीता भवति अपाक्षीदिति, तदवच्छेदात् कालोऽप्यतीत उच्यते। अनारब्धफलावच्छेदाद् भविष्यन्ती क्रियोच्यते पक्ष्यतीति, तथा कालोऽपीत्येवं सोपाधिकः, काले एव वर्त्तमानादित्रयव्यवहारः। अतश्च यदुच्यते वृक्षात् पततः पर्णस्य भूतभविष्यन्तावध्वानौ दृश्येते न वर्त्तमानः, तस्माद् वर्त्तमानः कालो नास्तीति तदसम्बद्धम्, अध्वव्यङ्ग्यत्वाभावात् कालस्य। नह्यध्वव्यङ्ग्यः कालभेदः किन्तु यथोक्तक्रमेण क्रियाव्यङ्ग्य एवेति क्रियापरिकल्पितभेदनिबन्धनश्चायं क्षणलवकाष्ठाकलानालिकामुहूर्त्तयामाहोरात्रमासर्त्वयनसंवत्सरयुगमन्वन्तरकल्पव्यवहार इत्यलं प्रसङ्गेन।
तिथ्यादिभेदावधारणञ्च वैदिककर्मप्रयोगाङ्गम्, पौर्णमास्यां पौर्णमास्यया यजेत अमावस्यायाममावस्यया यजेते’ति। एवं वसन्तार्द्युतुभेदोऽपि तदङ्गं `वसन्ते ब्राह्मणोऽग्नीनादधीत ग्रीष्मे राजन्यः, शरदि वैश्यः वर्षासु रथकार’ इति। स चायमृतुतिथ्यादिविभागः क्रिययैव ज्योतिः शास्त्रोपदिष्टविशिष्टराशिसंसृष्टचन्द्रादिग्रहगतया लक्ष्यते लौकिकेन च लक्ष्मणा तेन तेनेति, तद्यथा
च्च्वग्रचुम्बिताताम्रचूताङ्कुरकदम्बकैः।
कथ्यते कोकिलैरेव मधुर्मधुरकूजितैः॥
दिवाकरकरालातपातनिर्दग्धवीरुधः।
मार्गाः समल्लिकामोदा भवन्ति ग्रीष्मशंसिनः॥
शिखण्डमण्डनारब्धोद्दण्डताण्डवडम्बरैः।
प्रावृडाख्यायते मेघमेदुरैर्मेदिनीधरैः॥
मौक्तिकाकारविस्तारितारानिकरचित्रितम्।
शरत् पिशुनतां याति यमुनाम्भोनिभं नभः॥
आयामियामिनीभोगसफलाभोगविभ्रमाः।
हेमन्तमभिनन्दन्ति सोष्माणस्तरुणीस्तरुणीस्तनाः॥
आस्कन्दनदलत्कुन्दकलिकोत्करदन्तुराः।
वदन्ति शिशिरं वातास्तुषारकणकर्कशाः॥
तस्मादेकोऽप्ययं कालः क्रियाभेदाद् विभिद्यते।
एतेन सदृशन्यायान्मन्तव्या दिक् समर्थिता।
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%उत्पत्तिस्थितिनिरोधे%ति। उत्पत्तियोगि उत्पद्यमानम्, स्थितियोगि उत्पन्नम्, निरोधयोगि प्रागभावाक्रान्तं यत् फलम्। %अतश्च यदुच्यत% इत्यनेन `वर्तमानाभावः पततः पतितव्यपतितकालोपपत्तेः’ इति सूत्रं सूचयति। अतिक्रान्तेनाध्वना यः सम्प्रयुक्तोऽतीतकालः, अनागतेनाध्वना यः सम्प्रयुक्तस्तच्छेषः, तृतीयस्याध्वनोऽभावात् किंसम्प्रयुक्तो वर्तमानः स्यादित्यध्वव्यङ्ग्यकालवाद्यभिप्रायः।
%आयामियामिनी%ति। आयामी दीर्घो यो यामिनीनां रात्रीणां भोगः विस्तरस्तेन हेतुना सफलः सप्रयोजनः आभोगविभ्रमः परिणाहाश्रयो गुणविशेषो येषाम्।
न्यायमञ्जरी :–
%प्रसङ्गात् कालवदेवदिशः सिद्धिरित प्रदर्शनम्%
पूर्वपश्चिमादिप्रत्ययानां केवलवृक्षादिप्रत्ययवैलक्षण्येन कारणान्तरानुमानात्। दिग्लिङ्गाविशेषादेकत्वेऽपि दिशो दशविधाः। प्रदक्षिणावर्त्तपरिवर्त्तमानमार्तण्डमण्डलमरीचिनिचयचुम्ब्यमानकाञ्चनाचलकटकसंयोगोपाधिकृतः पूर्वपश्चिमादिभेदः कल्प्यते पूर्वा पूर्वदक्षिणा दक्षिणा दक्षिणपश्चिमा पश्चिमा पश्चिमोत्तरा उत्तरा उत्तरपूर्वा अधस्तनी ऊर्ध्वा चेति। दिवतापरिग्रहवशाच्च पुनरेषैवदिग् दशधोच्यते ऐन्द्री आग्नेयी याम्या नैर्ऋती वारुणी वायव्या कौबेरी ऐशानी नागीया ब्राह्मी चेति।
ननु च येनैव प्रत्ययेन प्रत्यक्षेण लिङ्गन वा सता दिक्कालाववगम्येते तेनैव तयोर्भेदग्रहणात् कथमेकत्वं तदवगमसमय एव तथा भेदप्रतिभासात्? उक्तमत्र सर्वत्र तत्प्रत्ययाविशेषादिति, व्यत्ययदर्शनाच्च यैवैकत्र पूर्वा दिक् सैवान्यत्र दक्षिणेति गृह्यते, `प्राग्भागो यः सुराष्ट्राणां मालवानां स दक्षिण’ इति। कालेऽपि चिरक्षिप्रादिविभागश्चाव्यवस्थित एव दृश्यते। यो हि अनागत इति परिस्फुरति कालः स एव वर्त्तमानीभवति, भूतो भवति च, तथा च चिरमपि शीघ्रीभवति शीघ्रमपि चिरीभवति। तस्मात् तद्भेदोऽप्यौपाधिक इति सिद्धम्।
समानतन्त्रे दिक्कालौ वैतत्येन विचिन्तितौ।
तन्नेह लिख्यते लोके द्वेष्या हि बहुभाषिणः॥
सिद्धः कालश्चाक्षुषो लैङ्गिको वा तन्नानात्वं सिद्धमौपाधिकञ्च।
तस्माद् युक्तं निश्चिकाय त्रिकालग्राहीत्येवं सूत्रकारोऽनुमानम्॥
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%प्राग्भागो यः सुराष्ट्राणामि%त्यस्य `प्राग्भागः पुनरेतेषां तेषामुत्तरतः स्थितः’ इति शेषः। सुराष्ट्रवासिनो यदा पूर्वदिग्रेखात उद्यन्तमादित्यं पश्यन्ति तदा मालवा दक्षणदिक्संस्थं पश्यन्ति; सुराष्ट्रोत्तरादअवस्थितत्वान्मालवानाम्। %स एव वर्तमानीभवती%ति। उक्तम्
अयमेव हि ते कालः पूर्वमासीदनागतः।
अवश्यम्भाविनं नाशं विद्युः सम्प्रत्युपस्थितम्॥ इति॥
न्यायमञ्जरी :–
%उपमाननिरूपणे वृद्धनैयायिकमतम्%
अनुमानान्तरमुपमानं विभागसूत्रे पठितमिति तत्क्रमेण तस्यलक्षणमुच्यते।
प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम् ॥ 6 ॥
अत्र वृद्धनैयायिकास्तावदेवमुपमानस्वरूपमाचक्षते, संज्ञासंज्ञिसम्बन्धप्रतीतिफलं प्रसिद्धेतरयोः सारूप्यप्रतिपादकमतिदेशवाक्यमेवोपमानम्। गवयार्थी हि नागरकोऽनवगतगवयस्वरूपस्तदभिज्ञामारण्यकं पृच्छति कीदृग् गवय इति स तमाह यादृशो गौस्तादृशो गवय इति। तदेतद् वाक्यमप्रसिद्धस्य प्रसिद्धेन गवा सादृश्यमभिदधत् तद्द्वारकमप्रसिद्धस्य गवयसंज्ञाभिधेयत्वं ज्ञापयतीत्युपमानमुच्यते।
ननु शब्दस्वभावत्वादस्याप्तोपदेशः शब्द इत्यनेन गतार्थत्वान्नेदं प्रमाणान्तरं भवेत्, न च संज्ञासंज्ञिसम्बन्धपरिच्छेदफलत्वेन प्रमाणान्तरता वक्तव्या फलवैचित्र्येण प्रमाणानन्त्यप्रसङ्गात्। लौकिकानि हि वचनानि वैदिकानि च विधिनिषेधबोधकानि नानाफलान्यपि भवन्ति न शब्दतामतिक्रामन्ति।
उच्यतेतत्र शब्दप्रत्ययादेव तत्प्रणेतृपुरुषप्रत्ययादेव वा अर्थतथात्वमुपायान्तरानपेक्षमवगम्यते स आगम एव, ततस्तदर्थप्रतीतेः। यत्र तु पुरुषः प्रतीत्युपायमपरमुपदिशति तत्र तत एवोपायात्तदर्थावधारणमअ। उपायमात्रावगमे तु शब्दव्यापारो यथा परार्थानुमाने अग्निमानयं पर्वतो धूमवत्त्वान्महानसवदिति। अत्र हि न पुरुषोपदेशविश्वासादेव शैलस्य कृशानुमत्तां प्रतिपत्ता निमित्तान्तरनिरपेक्षः प्रतिपद्यते अपि तु तदवबोधकधूमाख्यलिङ्गसामर्थ्यादेव। तदिह यद्याटविको नागरकाय गवयार्थिने तदवगमोपायं प्रसिद्धसाधर्म्यं नाभ्यधास्यत् तर्हि तदुपदेश आगमे एव अन्तरभविष्यत्, तदुपदेशात्तु तत एव तदर्थावगम इति सत्यपि शब्दस्वभावत्वे प्रमाणान्तरमेवेदम्। प्रतिपत्तापि नागरको नारण्यकवाक्यादेव तं प्राणिनं गवयशब्दवाच्यतया बुध्यते किन्तु सारूप्यं प्रसिद्धेन गवा तस्य पश्यति। किमारण्यकवाक्येन न सम्प्रत्ययो नागरकस्य? न ब्रूमो नसम्प्रत्यय इति किन्तु सारूप्यमुपायान्तरम्, तदवगतावसावुपदिष्टवानिति ततोऽवगतिर्भवन्ती न निह्नोतुं शक्यते इति न शाब्दी सा प्रतीतिरपि त्वौपमानिकीति वचनमपि भवदिदमुपमानं प्रमाणान्तरमिति युक्तम्। भाष्याक्षराण्यपि चैतत्पक्षसाक्ष्यच्छायामिववदन्ति लक्ष्यन्ते। तानि तु ग्रन्थगौरवभयान्न योज्यन्ते इत्यलं प्रसङ्गेन।
न्यायम़ञ्जरीग्रान्थिभङ्गव्याख्याः–
%भाष्याक्षराणीति।% भाष्यकारो हि तत्र तत्र वाक्यमेवोपमानशब्देनाह “यथा गौरवं गवय इत्युपमाने प्रयुर्क्तें” इत्यादौ।
न्यायमञ्जरी :–
%तत्रैव नव्यमतम्%
अद्यतनास्तु व्याचक्षते श्रुतातिदेशवाक्यस्य प्रमातुरप्रसिद्धे पिण्डे प्रसिद्धपिण्डसारूप्यज्ञानमिन्द्रियजं संज्ञासंज्ञिसम्बन्धप्रतिपत्तिफलमुपमानम्। तद्धीन्द्रियजनितमपि धूमज्ञानमिव तदगोचरप्रमेयप्रमितिसाधनात् प्रमाणान्तरम्, श्रुतातिदेशवाक्यो हि नागरकः कानने परिभ्रमन् गोसदृशं प्राणिनमवगच्छति ततो वनेचरपुरुषकथितं `यथा गौस्तथा गवय’ इति वचनमनुस्मरति स्मृत्वा च प्रतिपद्यते `अयं गवयशब्दवाच्य’ इति। तदेतत् संज्ञासंज्ञिसम्बन्धज्ञानं तज्जन्यमित्युपमानफलमित्युच्यते।
प्रत्यक्षं तावदेवैतद्विषये न कृतश्रमम्।
वनस्थगवयाकारपरिच्छेदफलं हि तत्॥
अनुमानं पुनर्नात्र शङ्कामप्यधिरोहति।
क्व लिङ्गलिङ्गिसम्बन्धः क्व संज्ञासंज्ञितामतिः॥
आगमादपि तत् सिद्धिर्न वेचरभाषितात्।
तत्कालं संज्ञिनो नास्ति गवयस्य हि दर्शनम्॥
संज्ञासंज्ञिनोश्च परिच्छेदे सति तत्सम्बन्धः सुशको भवति नान्यथा, अत एव प्रत्यक्षपूर्वकं संज्ञाकर्मेत्याचक्षते।
न्यायमञ्जरी :–
%उपमानस्य प्रमाणान्तरत्वे शङ्का%
एतदाक्षिपि
ननु नागरकप्रश्नमनुरुध्य वनेचरः।
ब्रूतेऽतिदेशकं वाक्यं यथा गौर्गवयस्तथा॥
अस्यायमर्थो यस्य त्वं गोसादृश्यं निरीक्षसे।
तमेव गवयं विद्याः स चायं संज्ञिनो ग्रहः॥
सम्बन्धकारणञ्चेह विशेषेषु न युज्यते।
आनन्त्यात् किन्तु सामान्ये तच्चेत्थमवधारितम्॥
प्रत्यक्षपूर्वकं संज्ञाकर्मेति न हि वैदिकी।
चोदना किन्त्ववच्छेदः संज्ञिनोऽत्र विवक्षितः॥
स तु प्रत्यक्षतो वास्तु प्रमाणान्तरतोऽपि वा।
स्मर्यमाणोऽपि चार्थोऽस्थि सङ्केते कारणं क्वचित्॥
योऽसौ तत्र त्वया दृष्टः प्राणी स रुरुरुच्यते।
क्वचित्तु कैश्चिन्निर्दिश्य परोक्षमुपलक्षणैः॥
संज्ञिनं व्यवहर्त्तारस्तत्र संज्ञां नियुञ्जते।
दन्तुरो रोमशः श्यामो वामनः पृथुलोचनः॥
यस्यत्र चिपिटग्रीवस्तं चैत्रमवधारयेः।
एवमत्रापि गोपिण्डसारूप्येणोपलक्षिते॥
वाच्ये वाचकसम्बन्धबोधनं नैव दुर्घटम्।
अथ सोपप्लवा वाक्याद् बुद्धिरित्यभिधीयते॥
उपप्लवोऽपि सम्बन्धे न कश्चिदनुभूयते।
यस्त्वस्ति गवयाकारं प्रति कीदृगसाविति॥
सोऽपि प्रत्यक्षतो दृष्टे गवये विनिवर्त्तते।
प्रत्यक्षागमसिद्धेऽर्थे तस्मान्मानान्तरेण किम्॥
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%अथ सोपप्लवा% अनिराकाङ्क्षा।
न्यायमञ्जरी :–
%उपमानस्य प्रमाणान्तरत्वव्यवस्थापनम्%
अत्राहुः, नाटविकरटितवाक्याद्विस्पष्टः संज्ञासंज्ञिसम्बन्धप्रत्ययो भवितुमर्हति, संज्ञिनस्तदानीमप्रत्यक्षत्वात्। यद्यपि गोसारूप्यविशिष्टतया तदवगम उपपादितस्तथापि सोपप्लवेव भवति तदानीं बुद्धिः।
न निराकाङ्क्षताबुद्धिस्तदानीमुपजायते।
तदुत्पादनपर्यन्तः शब्दव्यापार इष्यते॥
न चासौ निर्वहत्यत्र वाच्यसंवित्त्यपेक्षणात्।
शब्देन तदनिर्वाहान्न स्वकार्यं कृतं भवेत्॥
सम्बन्धप्रतिपत्तिश्च सामान्ये यदि वेष्यते।
तदप्यविदितव्यक्ति न सम्यगवधारितम्॥
गवयाकारवृत्तिश्च तदानीं बुद्ध्युपप्लवः।
सम्बन्धेऽपि द्व्यधिष्ठाने दधाति श्यामलां धियम्॥
प्रत्यक्षपूर्वकं तस्मात् संज्ञाकर्मेति गीयते।
क्वचित्तदेव प्रत्यक्षं स्मृतिद्वारेण कारणम्॥
पूर्वदृष्टे कुरङ्गादौ सम्बन्धो दर्शितो यथा।
चैत्रे प्रत्यक्षवत्सिद्धिर्दन्तुरादिविशेषणैः॥
इह पुनरतिदेशवचनसमये गोसादृश्यमात्रोपदेशे सत्यपि संज्ञिनि न निवर्त्तते एवोपप्लवः प्रमाणान्तरपरिच्छेदसापेक्षकसंज्ञिरूपोपदेशात्। `यत्र गोसादृश्यं पश्यसी’ति प्रत्यक्षादेव तर्हि उपप्लवो विरंस्यतीति चेद्, न। प्रत्यक्षस्येन्द्रियसन्निकर्षादिस्वभावस्य संज्ञासंज्ञिसम्बन्धबोधकरणासमर्थत्वात्।
प्रत्यक्षफलमेतत्तु समर्थं सत्यमिष्यते।
तस्यैव च वयं ब्रूम उपमानप्रमाणताम्॥
यथा प्रत्यक्षफलमपि धरणिधरकुहरभुवि धूमदर्शनमनिन्द्रियविभावसुबोधसाधनत्वादमुमानम्, एवं गोसारूप्यविशेषितविपिनगतगवयपिण्डदर्शनमध्यक्षफलमपि तद् अनवगतसंज्ञासंज्ञिसम्बन्धबोधविधानादुपमानमुच्यते। यथा च तत्र पूर्वावगतधूमाग्निप्रतिबन्धस्मरणं सहकारितामुपैति तथा इहापि पूर्वश्रुतारण्यकवाक्यार्थस्मरणम्। यथा तत्र व्याप्तिवेलायामनालीढविशेषा बुद्धिरधुना पक्षधरमताबलाद् विशेषे वाच्यविशेषे दृष्टे निरुपप्लवा जायते `अयं स गवयशब्दाभिधेय’ इति। नैतावतानुमानमेवेदमित्याशङ्कनीयम्, अनपेक्षितधर्मान्वयव्यतिरेकादिसामग्रीकस्य तत्प्रत्ययोत्पादात्।
तस्मादयं स गवयो नामेत्येवंविधा मतिः।
उपमानैकजन्यैव न प्रमाणान्तरोद्भवा॥
न चैषा नास्ति, सन्दिग्धा, बाध्यते, कल्पनामात्रं वेति सर्वथैतस्या- प्रमितेः साधनमुपमानं प्रमाणमिति सिद्धम्। तदिदमाह `प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम्’। प्रसिद्धसाधर्म्यादिति कर्मधारयः, तृतीयासमासः, बहुव्रीहिर्वा। प्रसिद्धञ्च तत् साधर्म्यम्, प्रसिद्धेन गवा वा साधर्म्यम्, गवयस्य प्रसिद्धं वासाधर्म्यं यस्य स प्रसिद्धसाधर्म्यो गवयः। तस्मात् प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम्। साध्यः संज्ञिसम्बन्धः, तस्यसाधनम् बोधनम्, सज्ञासंज्ञिसम्बन्धज्ञानं वा साध्यं तस्य साधनं जननमित्यर्थः। एवं प्रसिद्धसाधर्म्यज्ञानमुपमानम्, फलं संज्ञासंज्ञिसम्बन्धज्ञानमित्युक्तं भवति।
साध्यसाधनशब्देन करणस्यप्रमाणताम्।
ब्रवीत्येतच्च मन्तव्यं सर्वत्र परिभाषितम्॥
अत एव मध्ये लिखितमिदं यदुभयतः प्रमाणलक्षणानि व्याप्स्यतीति।
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%श्यामलापि% तादृशेव। (?)
न्यायमञ्जरी :–
%उपमानस्योपयोगविषये पूर्वपक्षस्तत्समाधानञ्च%
अत्यन्तप्रायसाधर्म्यविकल्पादिनिबन्धनः।
क्षिप्तः सूत्रकृतः साक्षादुपमानस्य विप्लवः॥
येन सदृशप्रतीतिर्जन्यते तत्सदृशमिति किमत्यन्तसादृश्यादिविकल्पैः?
अभिन्नप्रत्यये हेतुर्यथा सामान्यमुच्यते।
क्षिप्तः सूत्रकृतः साक्षादुपमानस्य विप्लवः॥
ननूपमानलक्षणमस्मिन् मोक्षशास्त्रे क्वोपयुज्यते? आगमात् तावदात्मज्ञानं मोक्षसाधनं सेतिकर्त्तव्यताकमवगम्यते, अनुमानादागमप्रामाण्यनिश्चयः, प्रत्यक्षादनुमानस्यव्याप्तिपरिच्छेद इति त्रयमेवोपदेष्टव्यम्। सत्यमेवम्। उपमानमपि क्वचिद् गवयालम्भादिचोदनार्थानुष्ठाने सोपयोगम्, अनवगतगवयस्वरूपे तदालम्भाभावात्, यथा सुद्गस्तम्भस्तथा मुद्गपर्णीति मुद्गपर्ण्याद्योषधिपरिज्ञानेऽपि तदुपयोगि भवति।
सर्वानुग्रहबुद्ध्या च करुणार्द्रमतिर्मुनिः।
मोक्षोपयोगाभावेऽपि तस्य लक्षणमुक्तवान्॥
नन्वेवं सति यागौषधाद्युपयोग्यन्यदपि बह्वपदेष्टव्यं स्यात्। न। प्रमाणशास्त्रत्वादस्य प्रमाणमेवार्थपरिच्छित्तिसाधनमिहोपदिश्यते। तच्चतुर्विधमेव न न्यूनमधिकं वेति निर्णीतम्। प्रमेयन्तु मोक्षाङ्गमेवोपदिश्यते इत्यलं प्रसङ्गेन।
न्यायमञ्जरी :–
%मीमांसकाभिमतोपमानस्वरूपम्%
जैमिनीयास्तु अन्यथोपमानस्वरूपं वर्णयन्ति। यदा श्रुतातिदेशवाक्यस्य वने गवयपिण्डदर्शनानन्तरं नगरगतं गोपिण्डमनुस्मरत एतेन सदृशी गौरिति ज्ञानं तदुपमानमअ। तस्य विषयः सम्प्रत्यवगम्यमानगवयसादृश्यविशिष्टः परोक्षो गौः, तद्वृत्ति वा गवयसादृश्यम्। अत एव तज्ज्ञानं न प्रत्यक्षजन्यं परोक्षगोपिण्डविषयत्वात्, अश्रुतातिदेशवाक्यस्याभावान्न शाब्दम्।
न च स्मरणमेवेदं प्रमेयाधिक्यसम्भवात्।
गवयेन हि सादृश्यं न पूर्वमवधारितम्॥
भूयोऽवयवसामान्ययोगो यद्यपि मन्मते।
सादृश्यं तस्य तु ज्ञप्तिर्गृहीते प्रतियोगिनि॥
न चानुमानिकमिदं ज्ञानमनपेक्षितपक्षादिधर्मादिकस्य भावात्, न च गवयगतं सादृश्यं तत्रलिङ्गमपक्षधर्मत्वात्, नापि गोगतमप्रसिद्धत्वात्, प्रतिज्ञार्थैकदेशत्वाच्च, विषाणाद्यवयवजातमपि न गोगतं लिङ्गमिदानीं वनस्थस्य तद्ग्रहणाभावात्, अगृहीतस्य च लिङ्गत्त्वानुपपत्तेः। गवयगतमपि तदलिङ्गमेव पूर्ववदपक्षधर्मत्वात्। तस्माद् गवयसादृश्यविशेषितनगरगतपरोक्षगोपिण्डज्ञानं काननवर्त्तिनः प्रमातुः प्रमाणान्तरं भवतीत्यभ्युपगन्तव्यम्।
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%तस्य तु ज्ञप्तिर्गृहीते प्रतियोगिनी%ति। अमुकस्यायं सदृश इति द्वयोर्ग्रहणसापेक्षत्वात् सादृश्यप्रत्ययस्येति।
%गवयगतं सादृश्यमि%ति। न हि गोः पक्षीकृताया गवयगतं सादृश्यं धर्मः, तस्य गवयधर्मत्वात्। %नापि गोगतमि%ति। गोगतं यद् गवयसादृश्यं `गवयसदृशी सा’ इति बुद्धिनिमित्तम्, तत् प्रागुपमानव्यापारादसिद्धम्। %प्रतिज्ञार्थैकदेशत्व% तत्र ग्रन्थः खण्डितः) नापि कल्प्यमानं ग्रहणम्।
न्यायमञ्जरी :–
%तत्रानुपपत्तिप्रदर्शनमप%
तदिदमनुपपन्नम्, एवंविधप्रतीत्यभावात्।
प्रसिद्धेन हि सादृश्यमप्रसिद्धस्य गम्यते।
गवा गवयपिण्डस्य न तु युक्तो विपर्ययः॥
तथा हि, अश्रुतातिदेशको नागरकः कानने परिभ्रमन् अदृष्टपूर्वं गोसदृशं प्राणिनमुपलभमान एवं बुद्ध्यते ब्रवीति च `अहो नु गवा सदृशएष कश्न प्राणी’ति, न त्वनेन सदृशो गौरिति ज्ञानमभिधानं वा तदानीं कस्यचिदस्तीति। अतः प्रमितेरेवाभावात् किं प्रमाणचिन्तया? भवतु वैषा बुद्धिरनेन सदृशो गौरिति तथापि स्मृतित्वान्न प्रमाणफलम्।
नन्व्रत्रगोपिण्डमात्रे सत्यं स्मृतिरेवैषा, सम्प्रत्यवगतगवयसादृश्यविशिष्टत्वन्तु तस्य पूर्वमनुपलब्धमधुनैव गम्यते इति न तस्मिन्नेषा स्मृतिः। मैवम्। गवयसादृश्यस्यापि तत्र पूर्वं ग्रहणात्।
नन्वनवगतगवयेन गवि गवयसादृश्यमवगतमिति चित्रम्, व्यक्तितिरस्कृतस्य ग्रहणात्।
नन्विदमपि चित्रतरं गृहीतञ्च व्यक्तितिरस्कृतञ्चेति। व्यक्तिर्हि ग्रहमेव तत्तिरस्कारे च नास्त्येव ग्रहणम्। उच्यते। नैतदपि चित्रतरम्। तथाहि वने गवयमालोक्य नागरको, न करेणुमनुस्मरति नकरभं, नतुरङ्गम्, अपि तु विशिष्टमेव पिण्डम्। न च निर्निबन्धनमेवेदं विशिष्टविषयस्मरणमुत्पत्तुमर्हति। तस्माद् यत्रैव परिदृश्यमानपिण्डसादृश्यं पूर्वमवगतं स एव पिण्डोऽस्मिन् दृश्यमाने स्मरणपथमवतरति नेतर इति। सादृश्यग्रहणमसंवेद्यमानमप्यनभ्यस्तविषयाविनाभावस्मृतिबलात् परिकल्प्यते। पूर्वञ्च गवयग्रहणाद् विना गवयसदृशीयं गौरिति ग्रामीणस्यानुभवो न भवतीति व्यक्तितिरस्कृतं तत्सादृश्यग्रहणमुच्यते इति न किञ्चिच्चित्रम्। तस्मात् स्मृतिरेवेयम्। तथा हि प्रतीतिः `अनेन सदृशो गौर्मया नगरे दृष्टः’ इति, नत्वद्यैतत्सदृशो गौर्दृश्यते इति बुद्धिः।
ननु प्रतियोगिग्रहणाद् विना कथं ग्राम्यस्य सादृश्यग्रहणम् अत्रभवतैवात्मनः प्रतिकूलमभिहितम्?
सामान्यवच्च सादृश्यमेकैकत्र समाप्यते।
प्रतियोगिन्यदृष्टेऽपि तस्मात्तदुपलभ्यते॥ इति।
स च भूयोऽवयवसामान्ययोगोऽगृहीतगवयेनापि नागरकेण ग्रहीतुं शक्यते।
अथ तदा तद्ग्रहणेऽपि सति न तस्य सदृशप्रत्ययः। न तर्हि भूयोऽवयवसामान्ययोगः सादृश्यम्। यथोक्तं सादृश्यं सदृशप्रत्ययहेतुत्वमेव सादृश्यम्, भूयोऽवयवसामान्ययोगे च तल्लक्षणे चित्रादावव्याप्तिः, अतिव्याप्तिश्च प्राण्यन्तरेषु विसदृशेष्वपि तदवयवसामान्यानां खुरादीनां भावात्। भूयस्त्वन्तु कियत्तेषामिति न विद्मः। यावता सदृशप्रत्ययोत्पत्तिरिति चेत्, तर्हि सदृशप्रत्ययहेतुत्वमेव सादृश्यमस्त्वित्युक्तम्। तस्माद् गवयदर्शनात् पूर्वमपि गव्यनभिव्यक्तसादृश्यग्रहणोपपत्तेः स्मृतिरेवेयम्।
अथ मतं यथा नैयायिकानामतिदेशवाक्यवेलायां सोपप्लवा संज्ञासंज्ञिसम्बन्धबुद्धिरुपमानं निरुपप्लवीभवति एवमियमपि यासौ पूर्वं व्यक्तितिरस्कृता गवि गवयसादृश्यबुद्धिरभूत् स इदानीमुपमानाद् व्यक्तीभविष्यतीति
नैतदस्ति, गवयग्राहिणा प्रत्यक्षेणैवतत्स्पष्टतासिद्धेः। यथा भवद्भिर्नैयायिका उक्ताः `अथ त्वधिकता काचित् प्रत्यक्षादेव सा भवेत्’ इति तथा नैयायिका अपि युष्मान् वक्ष्यन्ति।
ननु वनस्थप्रमातुर्गवयविषयं प्रत्यक्षं कथं ग्रामवर्त्तिनि गवि सादृश्यबुद्धेः स्पष्टतामादधीत? किं कुर्मस्तद्दर्शनानन्तरं सुस्पष्टतत्सादृश्यविशिष्टगोपिण्डस्मरणात्।
नन्वत एवेदमुपमानं प्रमाणान्तरमुच्यते, प्रत्यक्षस्य सन्निहितगवयस्वरूपमात्रनिष्ठत्वात्। परोक्षे च गवयसादृश्यप्रत्ययस्य विस्पष्टस्यान्यतोऽसिद्धेरिति। उक्तमत्र स्मृतिरेवेयं तथावभासनात्, अनधिगतार्थग्राहि च प्रमाणमुपगच्छन्ति भवन्तः। भवतु स्मृतिविलक्षणेयं प्रतीतिः तथाप्यनुमानजन्यत्वान्न प्रमाणान्तरमाविशति, स्मर्यमाणो गौः धर्मी, एतत्सदृश इति साध्यो धर्मः, एतदवयवसामान्ययोगित्वात्, सन्निहितद्वितीयगवयपिण्डवत्। तदसन्निधाने सामान्येन व्याप्तिर्दर्शयितव्या यत्र यदवयवसामान्ययोगित्वं तत्र तत्सादृश्यं यथा यमयोरिति। विशिष्टस्य तद्योगस्य हेतुत्वान्नानैकान्तिकत्वम्, सामान्ययोगोऽन्योऽन्यच्च सादृश्यमित्युक्तत्वान्न प्रतिज्ञार्थैकदेशो हेतुः। अव्युत्पन्नस्य नारिकेलद्वीपवासिनो, बालस्य वा तत्प्रत्ययानुत्पादान्न व्याप्तिनैरपेक्ष्येण सा प्रतीतिरिति वक्तव्यम्। तस्मादित्थमनुमानजन्यत्वात्, स्मृतित्वाद्वा, पूर्वोक्तादसम्भवादेव वा नेयमवगतिरुपमानकार्येति सिद्धम्।
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%अत्रभवतैवात्मनः प्रतिकूलमभिहितमि%ति।
भूयोऽवयवसामान्ययोगो यद्यपि मन्मते।
सादृश्यं तस्य तु ज्ञप्तिर्गृहीते प्रतियोगिनि॥
इति वदता भवता सादृश्यस्य सत्त्वं तावदभ्युपगतम्, ग्रहणन्तु सामान्यवद् भविष्यतीत्येतदेव `सामान्यवच्च’ इत्यादिना व्यक्तीकृतम्। भूयोऽवयवसामान्ययोगस्य सादृश्यलक्षणस्य इष्टतामासेव्य प्रभाकरेण तल्लक्षणं कृतम् “सादृश्यमिति सादृश्यम्” `सादृस्यम् अनेनास्य’, `अमुना सदृशोऽयम्’ इति यतो बुद्धिरुत्पद्यते तत् सादृश्यम्।
%चित्रादावव्याप्तिरि%ति। चित्रे रेखारूपे हि न खुरत्वादिसम्भवः, प्राणिस्थखुराद्यवयवव्यङ्ग्यत्वात् तेषां खुरत्वादीनाम्।
%`अथ त्वधिकता काचित्’% इत्यस्योत्तरमर्धम् `यावद्धीन्द्रियसम्बद्धं तत् प्रत्यक्षमिति स्थितम्’ इति।
%यमयोरि%ति। युगपदेकस्मिन् गर्भे सम्भूतौ यमौ। %सामान्ययोगोऽन्योऽन्यच्चे%ति। सत्यपि सामान्ययोगे प्राण्थन्तरेषु सदृशप्रत्ययानुत्पादात्।
न्यायमञ्जरी :–
%मीमांसकमतसिद्धोपमानस्य न स्वातन्त्र्येनोपयोगः%
कश्चास्य भवदुपमानस्य स्वतन्त्रोपयोगः? एवं ह्याहुर्भवन्तः
अपरीक्षामिषेणापि लक्षणानि वदन्नयम्।
न स्वतन्त्रोपयोगित्वनिरपेक्षाणि जल्पति।
ननूक्त एवोपयोगः। सौर्ये चरौ द्रव्यदेवतासारूप्यादाग्नेयविध्यन्तलाभः। आग्नेयोऽष्टाकपाल इत्युपदिष्टादृष्टेतिकर्त्तव्यताकलापतया निराकाङ्क्षो विधिः। `सौर्यं चरुं निर्वपेद् ब्रह्मवर्चसकामः’ इत्यत्र प्रधानमात्रोपदेशाद् विध्यादिरस्ति न तु विध्यन्त इतिकर्त्तव्यताभिधानम्। न चानितिकर्त्तव्यताकं कर्म प्रयोगयोग्यम्। अतः कीदृशमितिकर्त्तव्यताजातमिह गृह्यतामित्यपेक्षायां चरुपुरोडाशयोर्ब्रीह्याद्यौषधिसाधनत्वेन द्रव्यसादृश्यात् सूर्याग्न्योश्च तेजस्वितया देवतयोः सारूप्यादाग्नेयेतिकर्त्तव्यता सौर्ये क्रियते इत्युपमानाद् गम्यते। अपि च क्वचिच्चोदितद्रव्यादावलभ्यमाने प्रतिनिध्युपादानेन कर्मसमापनात् प्रतिनिधिमात्रोपादाने प्राप्ते व्रीहिसदृशनीवारोपादानमुपमानात् प्रतीयते इति। तदाह
भिन्नानुमानादुपमेयमुक्ता
सौर्यादिवाक्यैरसहापि दृष्टम्।
सादृश्यतोऽग्न्यादियुतं कथं नु
प्रत्याययेदित्युपयुज्यते नः॥
प्रतिनिधिरपि चैवं व्रीहिसादृश्ययोगाद्
भवति तदपचारे यत्र नीवारजातौ।
तदपि फलमभीष्टं लक्षणस्योपमायाः
प्रकृतिरपि च गौणैर्बाध्यते यत्र चान्यैः॥
तदेतदसमञ्जसम्। प्रसिद्धेनाप्रसिद्धस्य सादृश्यमवगम्यते इत्येष भवद्भिरुत्सृष्टः पन्थाः, विपर्ययस्तु आश्रितः। यदप्यदृष्टेन नूतनेनाप्रसिद्धेन गवयेन वाक्यसिद्धस्य गोः सादृश्यमुपमानात् प्रतीयते इति तदिहापि निर्ज्ञातेतिकर्त्तव्यताकेन गोवत्प्रसिद्धेनाग्नेयेन सौर्यस्य गवयवदप्रसिद्धस्य सादृश्यमवगम्यते, न तु गवयेन गोः सौर्येणाग्नेयस्य। तदिह यस्य विध्यन्तार्थिता न तत्रोपमानात् सादृश्यावगमः, यत्र वा तदवगमो न तत्रेतिकर्त्तव्यतार्थित्वम्।
ननु सौर्ये विध्यन्तार्थिनि प्रतीयमाने द्रव्यदेवतासारूप्यादेराग्नेयः स्मरणपथमवतरतीति तत एवासौ विध्यन्तमधिगच्छतीति। एवमपि स्मरणमात्रात्सिद्धेऽर्थे किमुपमानेन? आग्नेयस्मरणादेव तदितिकर्त्तव्यता सौर्ये उपादास्यते। स्मृतिविशेष एव विषयाधिक्यादुपमानमुच्यते इति चेत्, प्रतिविहितमिदमित्यलं प्रसङ्गेन।
किञ्चोपमानप्रतिपादितार्थो
न चोदनालक्षणतां बिभर्त्ति।
तस्मान्न युज्येत ततोऽधिगन्तु-
माग्नेयविध्यन्तविशेषलाभः॥
प्रतिनिधिरपि चैवं नास्ति नीवारजाते-
र्नहि भवदुपमानाद् व्रीहिसादृश्यबुद्धिः।
भवति तु मतिरेषा व्रीहयस्तत्सदृक्षा
इति न च फलमस्याः किञ्चिदस्ति प्रतीतेः॥
भवत्यङ्गं यागे क्वचन गवयालम्भनमतः
तदाकारज्ञाने प्रतिनिधिविवेके च कृतिनाम्।
उपायत्वं युषमत्कथितमुपमानं न भजते
परिग्राह्यं तस्मात् प्रवरमुनिगीतं सुमतिभिः॥
इति द्वितीयमाह्निकम्॥
न्यायमञ्जरीग्रान्थिभङ्गव्याख्या :–
%अपरीक्षामिषेणापी%ति। न परीक्षितव्यानि प्रत्यक्षादीनि प्रमाणानीति मिषेण व्याजेन।
%आग्नेयोऽष्टाकपाल% इति। अहं हि दर्शपूर्णमासप्रधानयागषट्कान्तःपातित्वाद् विहितसकलेतिकर्तव्यताकः। %विध्यादिरस्ती%ति। यद्वाक्यमुपलभ्य पुरुषः कस्मिंश्चिदर्थे प्रवर्तते कुतश्चिद् विनिवर्तते स विधिः। विधीयतेऽनेनार्थ इति। यथा लोके `देवदत्त गामभ्याज शुक्लाम्’ इति। तस्य `अभ्याज’ इति आदिः, इतरोऽन्तः। वेदेऽपि `दर्शपूर्णमासाभ्यां यजेत’ इति विधायदिः, विध्यन्तोऽप्रधानविवर्जितं कृत्स्नं पौरोडाशिकं ब्राह्मणम्। तेन सहितोऽयं विध्यादिर्विशिष्टापूर्वनिर्वृत्तं प्रति पुरुषं प्रवर्तयति इति विध्यादिविध्यन्तयोर्लक्षणम्।
%भिन्नानुमानादुपमेयमुक्ते%ति। अग्न्यादियुतं `आग्नेयोऽष्टाकपालो भवति’ इत्यादिसम्बद्धं यत् प्रयाजादिकमितिकर्तव्यताजातम्। सौर्यादिवाक्यैः `सोर्यं चरुं निर्वपेद् ब्रह्मवर्चसकामः’ इत्यादिभिः। %असहापि दृष्टम्%। तैः सहाश्रुतमपि, तद्गतत्वेन कथं प्रत्याययेदुपमेति नोऽस्माकमुपयुज्यते। कथञ्च प्रत्याययितुं शक्नुयादित्याह %सादृश्यतः।% तत्सदृशत्वादाग्नेयादेः।
%तदपचारे% तेषां ब्रीह्यादीनां विहितानामपचारे परिहारादिकृते `असम्भवे प्रतिनिधिः’ इति। %नीवारजातौ% नीवारजातेः। %प्रतिनिधि%र्मुख्यस्थाने विनियोगः।
%प्रतिविहितमिदमि%ति। `मैवं, गवयसादृश्यस्यापि पूर्वं ग्रहणात्’ इत्यादिना प्रतिविधानात्।
%प्रतिनिधिरपि चैवं नास्ति नीवारजातेः।% कथं नास्ति? तदाह %न हि भवदुपमानाद्% `ब्रीहिसदृशा नीवाराः’ इति सादृश्यबुद्धिः। कीदृशी तर्हि बुद्धिरित्याह %भवति नु मतिरेषे%ति॥
भट्ठश्रीशङ्करात्मजश्रीचक्रधरकृते
न्यायमञ्जरीग्रन्थिभङ्गे द्वितीयमाह्निकम्॥
तृतीयमाह्निकम्
उपमानानन्तरं शब्दस्य विभागसूत्रे निर्देशात् तस्य लक्षणं प्रतिपादयितमाह
(शब्दप्रमाणनिरूपणम्)
न्यायम़ञ्जरी :–
%आप्तोपदेशः शब्दः ॥ 7 ॥%
उपदेशः शब्द इत्युच्यमाने पर्यायमात्रोच्चारणादकारके शब्दमात्रे प्रसक्तिरिति प्रत्यक्षसूत्राज् ज्ञानपदस्य, स्मृतिजनकस्य व्यवच्छेदार्थं चार्थग्रहणस्य, संशयविपर्ययजनकनिराकरणाय च व्यवसायात्मकाव्यभिचारिपदयोरनुवृत्तिरित्येवमव्यभिचारादिविशेषणार्थप्रतीतिजनक उपदेशः शब्द इत्युक्तं भवति।
तदेवं पर्यायमेवोपदेशशब्दं शब्दलक्षणमपेक्षितपूर्वसूत्रोपात्तविशेषणपदं केचिद् व्याचक्षते, आप्तग्रहणञ्च लक्षणविनिश्चयार्थमाहुः। `घ्राणरसनत्वक्चक्षुःश्रोत्राणीन्द्रियाणि भूतेभ्यः’ इत्यत्र भूतग्रहणं वक्ष्यते। एवं हि ऐतिह्यस्य न प्रमाणान्तरता भविषय्ति, उपदेशरूपत्वाविशेषादिति।
अन्ये तु ब्रुवते युक्तमुपदेशपदमेव शब्दलक्षणम्। युक्तञ्च तन्निश्चयार्थमाप्तग्रहणम्। पूर्वसूत्रोपात्तविशेषणपदानुवृत्तिस्तु नोपयुज्यते, सामान्यलक्षणानन्तरं विशेषलक्षणप्रक्रमात्। सामान्यलक्षणेन च स्मृत्यादिजनकसकलप्रमाणाभासव्युदासे कृते सजातीयप्रत्यक्षादिव्यवच्छेद एव केवलमिदानीं वक्तव्यः। तत्र च पर्यायतापर्याप्तमुपदेशपदमेव बुद्ध्यादिपदवदिति किं विशेषणानुवृत्तिक्लेशेनेति।
अपर आह अनवलम्बितसामान्यलक्षणानुसरणदैन्यम्, अनध्याहृतप्राक्तनविशेषणपदम्, आप्तोपदेशः शब्दलक्षणम्। न च अकारकेण, शब्दान्तरकारिणा वा, स्मृतिजनकेन वा, संशयाधायिना वा शब्देन किञ्चिदुपदिश्यते इतिनिर्वचनससव्यपेक्षाद् उपदेशग्रहणादेव तन्निवृत्तिः सिद्धा। मिथ्योपदेशे तु रथ्यापुरुषादिवचसि विपरीतप्रतीतिकारिणि प्रसङ्गो न निवर्त्तते इति तत्प्रतिक्षेपार्थमाप्तग्रहणम्। ऐतिह्ये यथार्थप्रतीतिहेतावाप्तानुमानान्न प्रमाणन्तरत्वमिति। तस्माद्यथाश्रुतमेव सूत्रं शब्दलक्षणार्थं युक्तम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%लक्षणविनिश्चयार्थमि%ति। अव्यभिचारादिविशिष्टार्थोपलब्धिजनकत्वं प्रमाणलक्षणम्। तद् दृष्टे विषये उपदेशस्य प्रमाणान्तरसंवादसम्भवान्निश्चीयेतापि, अदृष्टे तु विषये प्रमाणान्तरसंवादासम्भवात् कथं तद्विनिश्चय इति तदर्थमाप्तग्रहणम्। आप्तस्योपदेशो दृष्टे विषयेऽव्यभिचारादिविशेषणार्थोपलब्धिजनकत्वेन दृष्टः, अदृष्टेऽप्याप्तोपदेशरूपत्वात् तथाविधो भवत्येवेति। यथा नियतगन्धाद्युपलब्धिजनकत्वं लक्षणं घ्राणादीनां कथं विनिश्चीयेतेति तद्विनिश्चयार्थं `भूतेभ्यः’ इति पदम्। विशिष्टभूतप्रकृतिकत्वाद् भवति नियतार्थोपलब्धिजनकत्वं लक्षणमिति। %एवं हि ऐतिह्यस्ये%ति। `इह वटे यक्षः प्रतिवसति’ एतदुपदेशरूपं न त्वाप्तोपदेशः, एतदुपदेष्टुराप्तस्यानिर्ज्ञानात्।
%बुद्ध्यादिपदवदि%ति। यथा `बुद्धिरुपलब्धिः’ इत्यत्र पर्यायाणामेव लक्षणत्वमुक्तम्।
न्यायम़ञ्जरी :–
%उपदेशपदार्थविचारः%
भवत्वेवम्। उपदिश्यते इति कोऽर्थः? अभिधानक्रिया क्रियते। केयमभिधानक्रिया नाम? प्रतीतिरिति चेत् चक्षुरादेरपि तत्करणत्वादुपदेशत्वप्रसङ्गः। स्वसादृश्येन प्रतीतिरिति चेद् बिम्बस्यापि पादाद्यनुमितावुपदेशत्वप्रस्गः, शब्दे च तदभावादनुपदेशत्वं स्यात्. शब्दावच्छिन्ना प्रतीतिरिति चेत् श्रोत्रस्य तज्जनकत्वादुपदेशत्वप्रसह्गः. शब्दस्य च स्वावच्छेदेन प्रतीतिजनकत्वनिषेधादनुपदेशत्वप्रसङ्गादित्यभिधानक्रियास्वरूपानिश्चयान्न तस्याः करणमुपपदेशः।
उच्यते। श्रोत्रग्राह्यवस्तुकरणिका तदर्थप्रतीतिरभिधानक्रिया, इत्थं लोके व्यवहरात्। उक्तोऽभिहितश्च स एवार्थो लोके व्यपदिश्यते यस्तु तथाविधप्रतीतिविषयतां प्रतिपन्नः। श्रोत्रग्राह्यस्य वर्णराशेरेवार्थप्रतीतिकरणत्वान्न तु श्रोत्रप्रत्ययाविषयविशेषः स्फोटात्मा शब्दः। श्रोत्रग्रहणए ह्यर्थे शब्दशब्दः प्रसिद्धः। वर्णा एव च श्रोत्रग्रहणाः। यतोऽर्थप्रतीतिः स शब्द इति तूच्यमाने धूमादिरपि शब्दः स्यात्, अगृहीतसम्बन्धश्च शब्दः शब्दत्वं जह्यादर्थप्रतिपत्तेरकरणात्।
ननु प्रतीतेः संविदात्मकत्वान्नाभिधानक्रिया नाम काचिदपूर्वा संविदन्या विद्यते तत्करणस्य चोपदेशतायामतिप्रसङ्ग इत्युक्तम्। संविदात्मैव सर्वत्र प्रतीतिः, सा चक्षुरादिकरणिका प्रत्यक्षफलम्, श्रोत्राग्राह्यकरणिकानुमानफलम्, श्रोत्रग्राह्यकरणिका शब्दफलम्। न हि दृश्यतेऽनुमीयतेऽभिधीयते इति पर्यायशब्दः। तत्प्रतीतिविशेषजनने च शब्दस्योपदेशत्वमुच्यते, विवक्षादौ तु तस्य लिङ्गत्वमेवेत्यलं प्रसङ्गेन।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%बिम्बस्यापी%ति। बिम्बस्य प्रतिविम्बे दृष्टे देवदत्तस्यैतत्पदमिति प्रतीतेः। न वर्णेभ्योऽर्थप्रतिपत्तिरपि तु वर्णाभिव्यक्तात् स्फोटादिति पक्षं निराकर्तुमाह %श्रोत्रग्राह्यस्य वर्णराशे%रित्यादिना।
न्यायम़ञ्जरी :–
%आप्तपदार्थविचारः%
आप्तो भाष्यकृता व्याख्यातः आप्तः खलु साक्षात्कृतधर्मा, यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्त उपदेष्टा चेति।
धर्म इत्युपदेष्टव्यः कश्चिदर्शो विवक्षितः।
साक्षात्करणमेतस्य यथार्थ उपलम्भनम्॥
न तु प्रत्यक्षेणैव ग्रहणमिति नियमः, अनुमानादिनिश्चितार्थोपदेशिनोऽप्याप्तत्वानपायात्।
चिख्यापयिषया युक्त इत्युक्ता वीतरागता।
उपदेष्टेत्यनेनोक्तं प्रतिपादनकौशलम्॥
वीतरागोऽपि मूकादिरुपदेष्टुमशक्तः किं कुर्यात्? वक्तुं शक्तोऽपि साक्षात्कृतधर्माप्यवीतरागो न वक्ति तूष्णीमास्ते इति।
तस्य च प्रतिपाद्येऽर्थे वीतरागत्वमिष्यते।
सर्वथा वीतरागस्तु पुरुषः कुत्र लभ्यते॥
ऋष्यार्यम्लेच्छसामान्यं वक्तव्यं चाप्तलक्षणम्।
एवं हि लोकेऽप्याप्तोक्त्या व्यवहारो न नङ्क्ष्यति॥
येऽप्याप्तिं दोषक्षयमाचक्षते तैरपि दोषक्षयः प्रतिपाद्यार्थेष्वेव वर्णनीयोऽन्यथा लोके दृश्यमानस्याप्तोक्तिनिबन्धस्य व्यवहारस्य निह्नवः स्यात्। अथ वा वेदप्रामाण्यसिद्ध्यर्थत्वाच्छास्त्रस्य तत्प्रणेतुराप्तस्येश्वरस्य यथाश्रुतमेवेदं लक्षणं (स?) साक्षात्कृतधर्मेव धर्मस्येश्वरप्रत्यक्षगोचरत्वात्, चिख्यापयिषया प्रयुक्त इति कारुणिक एव भगवानिति वक्ष्यते। उपदेष्टा च वेदाद्यागमानां तत्प्रणीतत्वस्य समर्थयिष्यमाणत्वादिति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%आप्तिं दोषक्षयमाचक्षते।% `क्षीणदोषोऽनृतं वाक्यं न ब्रूयाद् हेत्वसम्भवात्’ इति तदुपदेशः सत्य एवेति।
न्यायम़ञ्जरी :–
%शब्दस्यानुमान एवान्तर्भावपक्षः%
आह; आस्तां तावदेतद्, इदन्तु चिन्त्यतां किमर्थमिदं पुनः शब्दस्य पृथग्लक्षणमुपवर्ण्यते?
शब्दस्य खलु पश्यामो नानुमानाद् विभिन्नताम्।
अतस्तल्लक्षणाक्षेपान्न वाच्यं लक्षणान्तरम्॥
परोक्षविषयत्वं हि तुल्यं तावद् द्वयोरपि।
सामान्यविषयत्वञ्च सम्बन्धापेक्षणाद् द्वयोः॥
अगृहीतेऽपि सम्बन्धे नैकस्यापि प्रवर्त्तनम्।
सम्बन्धश्च विशेषाणामानन्त्यादतिदुर्गमः॥
यथा प्रत्यक्षतो धूमं दृष्ट्वाग्निरनुमीयते।
तथैव शब्दमाकर्ण्य तदर्थोऽप्यवगम्यते॥
अन्वयव्यतिरेकौ च भवतोऽत्रापि लिङ्गवत्।
यो यत्र दृश्यते शब्दः स तस्यार्थस्य वाचकः॥
पक्षधर्मत्वमप्यस्ति शब्द एव यतोऽर्थवान्।
प्रकल्पयिष्यते पक्षो धूमो दहनवानिव।
तत्र धूमत्वसामान्यं तद्वदत्रापि वक्ष्यते॥
एवं विषयसामग्रीसाम्यादेकत्वनिश्चये।
न विलक्षणतामात्रं किञ्चिदन्यत्वकारणम्॥
पूर्ववर्णक्रमोद्भूतसंस्कारसहकारिता।
पुरुषापेक्षवृत्तित्वं विवक्षानुसृतिक्रमः।
इत्यादिना विशेषेण न प्रमाणान्तरं भवेत्॥
कार्यकारणधर्मादिविशेषोऽत्रापि नास्ति किम्।
यथेष्टविनियोज्यत्वमपि नान्यत्वकारणम्॥
हस्तसंज्ञादिलिङ्गेऽपि तथाभावस्य दर्शनात्।
दृष्टान्तनिरपेक्षत्वमभ्यस्ते विषये समम्॥
अनभ्यस्ते तु सम्बन्धस्मृतिसापेक्षता द्वयोः।
अनेकप्रतिभोत्पत्तिहेतुत्वमपि विद्यते।
अस्पषट्लिङ्गे कस्मिंश्चिदश्व इत्यादिशब्दवत्।
स्फुटार्थानवसायाश्च प्रमाणाभासतो यथा।
लिङ्गे तथैव शब्देऽपि नानार्थभ्रमकारिणि॥
अपि च प्रतिभामात्रे शब्दाज्जातेऽपि कुत्रचित्।
आप्तवादत्वलिङ्गेन जन्यते निश्चिता मतिः॥
अत एव हि मन्यन्ते शब्दस्यापि विपश्चितः।
आप्तवादाविसंवादसामान्यादनुमानताम्॥
किञ्च शब्दो विवक्षायामेव प्रामाण्यमश्नुते।
न बाह्ये व्यभिचारित्वात् तस्याञ्चैतस्य लिङ्गता॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%आप्तिं दोषक्षयमाचक्षते।% `क्षीणदोषोऽनृतं वाक्यं न ब्रूयाद् हेत्वसम्भवात्’ इति तदुपदेशः सत्य एवेति।
%हस्तसंज्ञादिलिङ्गेऽपी%ति। यदेत्थमह्गुल्यस्तदेदं बोद्धव्यमिति।र
%अश्व इत्यादिशब्दवदि%ति। अश्व इति घोटकाभिधायि प्रातिपदिकम्। आख्यातन्तु श्वयतेः चङि सिपि “विभाषा धेट्श्व्योः” इति श्वेः अहि `श्वयतेरः’ इत्यत्वेऽडागमे च कृते यत् सिद्ध्यतितद् वृंहितवांस्त्वमित्यर्थे।
%आप्तवादाविसंवादसामान्यादि%ति। यथा धूमसामान्यादग्निसामान्यनिश्चय एवमाप्तवादसामान्यादविसंवादित्वसामान्यनिश्चय इत्यर्थः। आप्तवादानां वा अपिसंवादः सामान्यं रूपम्, यो य आप्तवादः स सोऽविसंवादीत्यर्थः।
न्यायम़ञ्जरी :–
%शब्देऽनुमानतः पृथक् प्रामाण्यव्यवस्थापनम्%
तत्राभिधीयते, द्विविधः शब्दः पदात्मा वाक्यात्मा चेति। तत्र वाक्यमनवगतसम्बन्धमेव वाक्यार्थमवगमयितुमलम्, अभिनवविरचितश्लोकश्रवणे सति पदसंस्कृतमतीनां तदर्थावगमनदर्शनात्। अतः सम्बन्धाधिगममूलप्रवृत्तिनानुमानेन तस्यकथं साम्यसम्भावना? पदस्य तु सम्बन्धाधिगमसापेक्षत्वे सत्यपि सामग्रीभेदाद् विषयभेदाच्चानुमानाद् भिन्नत्वम्। विषयस्तावद् विसदृश एव पदलिङ्गयोः। तद्वन्मात्रं पदस्यार्थ इति च स्थापयिष्यते। अनुमानन्तु वाक्यार्थविषयम् अत्राग्निरग्निमान्पर्वत इति, ततः प्रतिपत्तेः। उक्तञ्च तत्र धर्मविशिष्टो धर्मी साध्य इति।
ननु पदान्यपि वाक्यार्थवृत्तीनि सन्ति गोमान् औपगवः, कुम्भकार इति। सत्यम्। किन्तु तेष्वपि साकाङ्क्षप्रत्ययानुत्पादात् गोमान् क इत्याकाङ्क्षाया अनिवृत्तेः।
अपि च पर्वतादिविशेष्यप्रतिपत्तिपूर्विका पावकादिविशेषणावगतिर्लिङ्गादुदेति, पदात्तु विशेषणावगतिपूर्विका विशेष्यावगतिरिति विषयभेदः।
ननूक्तं यथानुमाने धर्मविशिष्टो धर्मी साध्य एवमिहार्थविशिष्टः शब्दः साध्यो भवतु। मैवम्। शब्दस्य हेतुत्वात्, न च हेतुरेव पक्षो भवितुमर्हति।
ननु यथा अग्निमान् अयं धूमो धूमवत्त्वात् महानसधूमवदित्युक्तं `सा देशस्याग्नियुक्तस्य धूमस्यान्यैश्च कल्पिता’इति, एवं गोशब्द एवार्थवत्त्वेन साध्यताम्, गोशब्दत्वादित्यादिसामान्यञ्च हेतूक्रियतामिति। एतदपि दुर्घटम्। शब्दस्य धर्मिणः किमर्थविशिष्टत्वं वा साध्यते? प्रत्यायनशक्तिविशिष्टत्वं वा? अर्थप्रतीतिविशिष्टत्वं वा? न तावदर्थविशिष्टत्वं साध्यं शैलज्वलनयोरिव शब्दार्थयोर्धर्मधर्मिभावाभावात्।
अथार्थविषयत्वाच्छब्दस्यार्थविशिष्टतेत्युच्यते, तदप्ययुक्तम्। तत्प्रतीतिजननमन्तरेण तद्विषयत्वानुपपत्तेः। प्रतीतौ तु सिद्धायां किं तद्विषयत्वद्वारकेण तद्धर्मत्वेन? यदि तु तद्विषयत्वमूलं तद्धर्मित्वपूर्विकार्थप्रतीतिः, अर्थप्रतीतिमूलं तद्विषयत्वं तदितरेतराश्रयम्। तस्मान्नार्थविशिष्टः शब्दः साध्यः, नाप्यर्थप्रत्यायनशक्तिविशिष्टः, तदर्थितया शब्दप्रयोगाभावात्।
न शक्तिसिद्धये शब्दः कथ्यते श्रूयतेऽपि वा।
अर्थगत्यर्थमेवामुं शृण्वन्ति च वदन्ति च॥
नाप्यर्थप्रतीतिविशिष्टः शब्दः पक्षतामनुभवितुमर्हति, सिद्ध्यसिद्धिविकल्पानुपपत्तेः।
असिद्धयापि तद्वत्त्वं शब्दस्यार्थधिया कथम्।
सिद्धायां तत्प्रतीतौ वा किमन्यदनुमीयते॥
ज्वलनादावपि तुल्यो विकल्प इति चेद्, न हि तत्राग्निर्धूमेन जन्यते अपि तु गम्यते, इयं त्वर्थप्रतीतिर्जन्यते शब्देन्त्यस्यामेव सिद्धासिद्धत्वविकल्पावसरः। तस्मात् त्रिधापि न शब्दस्य पक्षत्वम्।
अपि च गोशब्दे धर्मिणि गत्वादिसामान्यात्मकस्य हेतोर्ग्रहणम्, ततो व्याप्तिस्मरणम्, ततः परामर्शः, ततोऽर्थप्रतिपत्तिरिति कालद्राधीयस्त्वाद्धर्मी तिरोहितो भवेद्, न चार्थस्य धर्मित्वं सिद्ध्यसिद्धिविकल्पानुपपत्तेः। न च तद्धर्मत्वं शब्दस्य शक्यते वक्तुं तत्र वृत्त्यभावात्, प्रतीतिजनकत्वेन तद्धर्मतायामुच्यमानायां पूर्ववदितरेतराश्रयम्, पक्षधर्मादिबलेन प्रतीतिः प्रतीतौ च सत्यां पक्षधर्मादिरूपलाभः।
सामग्रीभेदः खल्वपि पक्षधर्मान्वयादिरूपसपेक्षनुमानं व्याख्यातम्। शब्दे तु न तानि सन्ति रूपाणि। तथा च शब्दस्य पक्षत्वप्रतिक्षेपान्न तद्धर्मतया गत्वादिसामान्यस्य लिङ्गता, न चार्थस्य धर्मित्वं सिद्ध्यसिद्धिविकल्पानुपपत्तेः। न च तद्धर्मत्वं शब्दस्य शक्यते वक्तुं तत्र वृत्त्यभावात्, प्रतीतिजनकत्वेन तद्धर्मतायामुच्यमानायां पूर्ववदितरेतराश्रयम्, पक्षधर्मादिबलेन प्रतीतिः प्रतीतौ च सत्यां पक्षधर्मादिरूपलाभः।
अपि च यद्यर्थधर्मतया शब्दस्य पक्षधर्मत्वं भवेत् तदानवगतधूमाग्निसम्बन्धोऽपि यथा धूमस्य पर्वतधर्मतां गृह्णात्येव तथानवगतशब्दार्थसम्बन्धोऽपि अर्थधर्मतां शब्दस्य गृह्णीयान्न च गृह्णातीत्यतो नास्ति पक्षधर्मत्वं शब्दस्येति। अन्वयव्यतिरेकावपि तस्य दुरुपपार्दौ देशे काले च शब्दार्थयोरनुगमाभावात्। न हि यत्र देशे शब्दस्तत्रार्थः। यथोक्तं श्रोत्रियैः `मुखे हि शब्दमुपलभामहे भूमावर्थमि’ति, वयन्तु कर्णाकाशे शब्दमुपलभामहे इत्यास्तामेतत्। नापि यत्र काले शब्दस्तत्रार्थः। तदानीं युधिष्ठिरार्थाभावेऽपि तद्बुद्ध्योरन्वयो ग्रहीष्यते इत्युच्यते? तर्हि वक्तव्यं किमर्थ बुद्धावुत्पन्नायामन्वयो गृह्यते अनुत्पन्नायां वा? अनुत्पन्नायां तावत्स्वरूपासत्त्वात्कुतोऽन्वयग्रहणम्? उत्पन्नायान्त्वर्थबुद्धौ किमन्वयग्रहणेनेति नैष्फल्यम्। तत्पूर्वकत्वे तु पूर्ववदितरेतराश्रयम्। एतेन व्यतिरेकग्रहणमपि व्याख्यातम्।
नन्वावापोद्वापद्वारेण शब्दार्थसम्बन्धे निश्चीयमाने उपयुज्यते एवान्वयव्यतिरेकौ, यथोक्तं `तत्र योऽन्वेति यं शब्दमर्थस्तस्य भवेदसौ’इति। सत्यमेतत्। किन्तु समयबलेन सिद्धायामर्थबुद्धौ समायनियमार्थावन्वयव्यतिरेकौ शब्देनान्वयव्यतिरेककृता च धूमादेरिव ततोऽर्थबुद्धिः। अपि च
धूमादिभ्यः प्रतीतिश्च नैवावगतिपूर्विका।
इहावगतिपूर्वैव शब्दादुत्पद्यते मतिः॥
स्थविरव्यवहारे हि बालः शब्दात् कुतश्चन।
दृष्ट्वार्थमवगच्छन्तं स्वयमप्यवगच्छति॥
अत्राप्येवं समयः क्रियते एतस्माच्छब्दादयमर्थस्त्वया प्रतिपत्तव्य इति। तत्रापि प्रतीतिरेवाविनाभावो नाम सम्बन्धः, अन्यश्च शब्दार्थयोः समयापरनामा वाच्यवाचकभावः सम्बन्धः कारणत्वेन निर्दिष्टो द्रष्टव्यः। तस्मादन्यो लिङ्गलिङ्गिनोरविनाभावाद् वाच्यवाचकभावः सम्बन्धः प्रतीत्यङ्गम्। एवंविधविषयभेदाद् सामग्रीभेदाच् प्रत्यक्षवदनुमानादन्यः शब्द इति सिद्धम्।
यत्तु पूर्ववर्णक्रमापेक्षणादिवैलक्षण्यमाशङ्क्य दूषितं कस्तत्र फल्गुप्राये निर्बन्धः।
यत्पुनरभिहितम् `आप्तवादाविसंवादसामान्यादनुमानता’ इति तदतीव सुभाषितम्, विषयभेदात्, आप्तवादत्वहेतुना हि शब्दार्थबुद्धेः प्रामाण्यं साध्यते न तु सैव जनय्ते, यदाह
अन्यदेव हि सत्यत्वमाप्तवादत्वहेतुकम्।
वाक्यार्थश्चान्य एवेह ज्ञातः पूर्वतरञ्च सः॥
ततश्चेदाप्तवादेन सत्यत्वमनुमीयते।
वाक्यार्तप्रत्ययस्यात्र कथं स्यादनुमानता॥
जन्म तुल्यं हि बुद्धीनामाप्तानाप्तगिरां श्रुतौ।
जन्माधिकोपयोगी च नानुमायां त्रिलक्षण इति॥
न च प्रामाण्यनिश्चयाद्विना प्रतिभामात्रं तदिति वक्तव्यम्, शब्दार्थसम्प्रत्ययस्यानुभवसिद्धत्वात्,
एतेन विवक्षाविषयत्वमपि प्रत्युक्तम्। न हि विवक्षा नाम शब्दस्य वाच्यो विषयः किन्त्वर्थ एव तथा।
विवक्षायां हि शब्दस्य लिङ्गत्वमिह दृश्यते।
आकाश इव कार्यत्वान्न वाचकतया पुनः॥
शब्दादुच्चरिताच्च वाच्यविषया ताव् समुत्पद्यते
संवित्तिस्तदनन्तरन्तु गमयेत् कामं विवक्षामसौ।
अर्थोपग्रहवर्जिता तु नियमात् सिद्धैवमाजीविता
तद्वाच्यार्थविशेषिता त्वविदिते नैषां तदर्थे भवेत्॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%पदात्तु विशेषणावगती%ति। गोशब्दाद् गोत्वविशिष्टपिण्डावगतेः।
%सा देशस्ये%ति। प्रमेयता, पूर्वस्मिन्नर्धे `तस्माद्धर्मविशिष्टस्य धर्मिणः स्यात् प्रमेतया’ इति तस्या एव प्रक्रान्तत्वात्।
%गत्वादिसामान्यात्मकस्य हेतो%रिति। गकार, औकार, विसर्जनीयव्यतिरेकेणान्यस्य भिन्नस्य गोशब्दास्याभावात्। तेषाञ्च क्षणिकत्वेनान्यत्रान्वयाभावेन गमकत्वाभावात् तत्सामान्यानामेव हेतुत्वमिति।
%तत्पूर्वकत्वे त्वि%ति। अन्वयग्रहणे सति अर्थबुद्धिः, अर्थबुद्धौ सत्यामन्वयग्रहणमिति। %एतेन व्यतिरेकग्रहणमि%ति। (किम्?) अर्थबुद्धावुत्पन्नायाम् `यत्रोयमर्थर्बुद्धिर्नास्ति तत्र शब्दबुद्धिरपि नास्ति’ इत्यादि। %तत्र योऽन्वेति यं शब्दमि%ति। तथाहि यथा `घटं करोति’ इत्यत्र कर्मशक्तिः प्रतीयते तथाघटशब्दापाये `पटं करोति’ इत्यत्रापि प्रतीयमाना `अम्’प्रत्ययवाच्यत्वमात्मनो निश्चाययति; एवं `घटं करोति’ ित्यत्र घटप्रातिपदिकार्थो योऽवगतः स सत्यप्यम्प्रयोगे `पटं करोति’ इत्यत्राप्रतीयमानः प्रकृत्यर्थ इति निश्चीयते। %समयनियमार्थावि%ति। प्रकृतिप्रत्ययात्मकत्वाच्छब्दस्य कस्य कस्मिन्नंशे समयः कृत इत्ययमंशोऽस्य शब्दाशंस्य वाच्योऽयमस्येति प्रागुक्ताभ्यामन्वयव्यतिरेकाभ्यां निश्चीयते।
%नैवावगतिपूर्विके%ति। न हि येन पूर्वं धूमादग्निरवगतः स एव धूमादग्निं प्रति पद्यतेऽपि तु येनापि न प्रतिपन्नोऽग्निना सह भूयोदर्शनेन धूमस्य गृहीतः सम्बन्धः सोऽपि प्रतिपद्यत एव ततोऽग्निम्। शब्दस्तु येन तदर्थवाचकत्वेनावगतः स एव ततोऽर्थं प्रतिपद्यते नान्यः।
%तत्रापि प्रतीतिरेवेति।% यद्यपि पूर्वमर्थमन्येन ततः प्रतिपन्नं ज्ञात्वा स्वयं न प्रतिपद्यतेऽपि तु परप्रतीतिं विनैव स्वयमेव प्रतिपद्यते तथापि परेणावक्त्रा `अस्माच्छब्दादयमर्थो भवता प्रतिपत्तव्यः’ इति वदता `अस्यार्थस्यास्माच्छब्दात् प्रतीतिः’ `अयं शब्द एतदर्थवाचकः’ इति तदर्थप्रतीतिरेव तस्यशब्दस्य वाचकत्वे कारणत्वेन निर्दिष्टा। अतस्तत्रापि तादृशाद् वाक्याद् `यत एतस्यास्माच्छब्दादेतदर्थप्रतीतिरस्ति एतदर्थवाचकोऽयमतोऽहमप्यस्मादमुमर्थं प्रतिपद्ये’ इति भवत्यवगतिपूर्विकैवावगतिः।
%यत्तुपूर्ववर्णक्रमेति।% यथाह भट्टः
पूर्वसंस्कारयुक्तान्त्यवर्णसंस्कारकल्पना।
विवक्षादि च धूमादौ नास्तीत्येतेन भिन्नता॥
यैरुक्ता तत्र वैधर्म्यविकल्पसमजातिता।
धूमानित्यविषाण्यादि विशेषान्न हि भिन्नता॥
त्रैलक्षण्यपरित्यागो यावन्न प्रतिपाद्यते।
तावद्विशेषमात्रेण वदतो जातिता भवेत्॥
न हि यद्धूमादग्नेरनुमानम्, यच्च कदाचिदनित्यत्वात् कृतकत्वस्य, विषाणित्वाच्चतुष्पादत्वस्य तदनुमानतया परस्परं भिद्यते।
%जन्माधिकोपयोगी%ति। अनुमायामनुमाने यरित्रलक्षणो हेतुः स न जन्माधिकोपयोगी, ज्ञानजन्मनो ज्ञानोत्पादादधिके कार्ये न व्याप्रियते। ज्ञानजन्मन्येव तस्य व्यापार इत्यर्थः। त्रिलक्षणशब्देनात्र हेतुरुक्तः।
%अर्थोपग्रहवर्जिता% नियतार्थविषयत्वहीना। %नियमात्% अवश्यम्भावात्, अवश्यं हि जीवन् विवक्षति।
न्यायम़ञ्जरी :–
%शब्दप्रामाण्ये शङ्का%
ननु सिद्धे प्रमाणत्वे भेदाभेदपरीक्षणम्।
क्रियते न तु शब्दस्य प्रामाण्यमवकल्पते॥
अर्थप्रतीतिजनकं प्रमाणमिति वर्णितम्।
विकल्पमात्रमूलत्वान्नार्थं शब्दाः स्पृशन्त्यमी॥
अर्थो निरूप्यमाणश्च को वा शब्दस्य शक्यते।
वक्तुं न जातिर्न व्यक्तिर्न्न तद्वान्नाम कश्चन॥
सम्बन्धोऽप्यस्य नार्थेन नित्योऽस्ति समयोऽथ वा।
शक्यः सन्नपि वा बोद्धुमर्थे कथमतीन्द्रिये॥
वाक्यार्थोऽपि न निर्णेतु पार्यते पारमार्थिकः।
नियोगभावनाभेदसंसर्गादिस्वभावकः॥
तत्प्रतीत्यभ्युपायश्च किम्पदार्थः पदानि वा।
वाक्यं वा व्यतिषक्तार्थं स्फोटो वेति न लक्ष्यते॥
सिद्धायामपि तद्बुद्धौ तस्या द्रढिमकारणम्।
नित्यत्वमाप्तोक्तत्वं वा न सम्यगवतिष्ठते॥
पदे नित्येऽपि वैदिक्यो रचनाः कर्त्तृपूर्विकाः।
नित्या वा कृतकत्वेऽपि कृताः केनेति दुर्गमम्॥
कर्त्तास्ति स च निर्द्वन्द्वः स चैकः स च सर्ववित्।
स च कारुणिको वेति प्रतिपत्तुं न शक्यते॥
परस्परविरुद्धाश्च सन्ति भूयांस आगमाः।
तेषां कस्येश्वरः कर्त्ता कस्य नेति न मन्महे॥
वेदे दोषाश्च विद्यन्ते व्याघातः पुनरुक्तता।
फलस्यानुपलम्भश्च तथा फलविपर्ययः॥
कीदृशश्चार्थवादानां विरुद्धार्थाभिधायिनाम्।
मन्त्राणां नामधेयादिपदानां वा समन्वयः॥
सिद्धकार्योपदेशाच्च वेदे संशेरते जनाः।
किमस्य कार्ये प्रामाण्यं सिद्धेऽर्थे वोभयत्रवा॥
तेन वेदप्रमाणत्वं विषमे पथि वर्त्तते।
जीविकोपायबुद्ध्या वा श्रद्धयावाभ्युपेयताम्॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%नियोगभावनाभेदे%ति। भेदः [संसर्गो वा वाक्यार्थ इति वैयाकरणाः केचित्। आदिग्रहणाद् भेदसंसर्गौ] वाक्यार्थ इत्यपि संगृहीतम्, तथा [क्रिया] वाक्यार्थ इत्यपि। नियोगभावनावादिमते नियोगस्य बावनाया वा संसृष्टाया वाक्यात् प्रतीयमानत्वात् तयोरेवैकतरस्य वाक्यार्थत्वम्, न संसर्गस्य भेदस्य वा तत्प्रतीत्युत्तरकालं प्रतीयमानस्य।
%व्यतिषक्तार्थमि%ति तदुक्तम् “व्यतिषक्ततोऽवगतेर्व्यतिषङ्गस्य” इति।
%परस्परविरुद्धाश्चे%ति। नाथवादाद्यागमा अशुचिलक्षणादिप्रतिपादका ईश्वरप्रणीततयाभिमताः केषाञ्चित्, तदपेक्षयेदमुक्तम्।
%व्याघातः% यथा `उदिते जुहोत्यनुदिते जुहोति’ इत्यादौ। %पुनरुक्तता% यथा `त्रिः प्रथमामन्वाह त्रिरुत्तमाम्’ इति। सकृदुच्चारणेनैव कर्मस्वरूपप्रकाशसिद्धेः पुनरुच्चारणं। %फलस्यानुपलम्भः% कृतायामपि पुत्रकामेष्टावनन्तरं पुत्रस्यानुपलम्भात्। %विपर्ययः% अन्त्येष्ट्याम् तत्र हि पात्रचयं विधायाह `स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गं लोकं याति’ इति, स्वर्गफलविपरीतस्य भस्मीभावस्योपलम्भात्। यजमानशरीरावयवेषु यज्ञपात्राणां विशिष्टेन रूपेण विरचनं पात्रचयः। %अर्थवादानाम्% विरुद्धार्थाभिधायिनाम्। `धूम एवाग्नेर्दिवा ददृशे नार्चिः, अर्चिरेवाग्नेर्नक्तं ददृशे न धूमः’ इत्यादीनाम्। %मन्त्राणाम्% च कीदृशोऽन्वयो विधायकत्वेनाभिधायकत्वेन वा। %नामधेयादिपदानाम्% उद्भिदादीनां किं गुणार्थत्वेन समन्वय उत कर्मनामधेयतयेति। %जीविकोपायबुद्ध्ये%ति। यथोक्तम्
अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्म मुण्डनम्।
बुद्धिपौरुषहीनानां जीविकेति बृहस्पतिः॥ इति॥
न्यायम़ञ्जरी :–
%तत्र शङ्कापरिहारः%
अत्राभिधीयते। सर्व एवैते दोषा यथाक्रमं परिहरिष्यन्ते इत्यलं समाश्वासेन सुप्रतिष्ठमेव वेदप्रामाण्यमवगच्छत्वायुष्मान्।
नन्वर्थासंस्पर्शित्वमेव तावत् कथं परिह्नियते? न हि बाह्येऽर्थे शब्दाःप्रतीतिमादधति ते हि दुर्लभवस्तुसम्पर्कविकल्पमात्राधीनजन्मानः स्वमहिमानमनुवर्त्तमानास्तिरस्कृतबाह्यार्थसमन्वयान् विकल्पप्रायान् प्रत्ययानुत्पादयन्तो दृश्यन्ते अङ्गुल्यग्रे हस्थियूथशतमास्ते इति, स्वभाव एव शब्दानामर्थासंस्पर्शित्वम्। चक्षुरादीनामप्यलीककचकूर्चकादिप्रतीतिकारणत्वमस्ति न च तेषामर्थासंस्पर्शित्वमिति चेत्, तेषां हि तिमिरादिदोषकलुषितवपुषां तथाविधविभ्रमकारणत्वम्, न तु स्वमहिम्नैव। इहापि पुरुषदोषाणामेष महिमा न शब्दानामिति चेद्,
मैवम्। दोषवतापि पुरुषस्य मूकादेरनुच्चारितशब्दस्येदृशविप्लवोत्पादनपाटवाभावात्। असत्यपि च पुरुषहृदयकालुष्ये यथा प्रयुज्यमानान्यङ्गुल्यग्रादिवाक्यानि विप्लवमावहन्त्येवेति शब्दानामेवैष स्वभावो न वक्तृदोषाणाम्। अपि च न चक्षुरादिबाधकज्ञानोदये सति न विरमति विपरीतवेदनजन्मनः शुक्तिकारजतादिबुद्धिषु विभ्रमस्यापायदर्शनात्। शब्दस्तु शतकृत्वोऽपि बाध्यमानो यथैवोच्चरितः `करशाखादिशिखरे करेणुशतमास्ते’ इति तदैव तथाभूतं भूयोऽपि विकल्पमयथार्थमुत्पादयत्येवेति, विकल्पाधीनजन्मत्वाच्छब्दानामेवेदं रूपं यदर्थासंस्पर्शित्वं नामेति। तदुक्तम्
विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः।
तेषामन्योन्यसम्बन्धे नार्थं शब्दाः स्पृशन्त्यमी॥ इति।
अत्राभिधीयते भवेदेतदेवं यदि न कदाचिदपि यथार्थं शब्दः प्रत्ययमुपजनयेत्। अर्थसंस्पर्शित्वमेवास्य स्वभाव इत्यवगम्यते, भवति तु गुणवत्पुरुषभाषितान्नद्यास्तीरे फलानि सन्तीति वाक्यादतिरस्कृतबाह्यार्थो यथार्थः प्रत्ययः, ततः प्रवृत्तस्य तदर्थप्राप्तेः। न चेयमर्थप्राप्तिरर्थस्पर्शशून्यादपि शब्दविकल्पात् पारम्पर्येण मणिप्रभामणिबुद्धिवदवकल्पते इत्युपरिष्टाद् वक्ष्यामः।
ननु गुणवद्वक्तृकादङ्गुल्यादिवाक्याद् दृष्ट एवासमीचीनः प्रत्ययः? मैवम् गुणवतामेवंविधवाक्योच्चारणचापलाभावात्।
यत्तु आप्तोऽपि कञ्चिदनुशास्ति मा भवानभूतार्थं वाक्यं वादीः `अङ्गुलिकोटौ करिघटाशतमास्ते’ इति, तत्रेतिकरणावच्छिन्नस्य दृष्टान्ततया शब्दपरत्वेनोपादानात् प्रतिषेधैकवाक्यतया यथार्थत्वमव। अर्थपरत्वे तु निषेधवाक्यैकवाक्यतैव न स्यादिति। तस्मादाप्तवाक्यानामयथार्थत्वाभावान्न स्वतोऽर्थासंस्पर्शिनः शब्दाः पुरुषदोषानुषङ्गकृत एवायं विप्लवः।
नन्वाप्तैरेवंविधवाक्याप्रयोगेऽपि सन्दिग्धो व्यतिर्कः किं शब्दाभावादयथार्थप्रत्ययानुत्पादः, उत वक्तृदोषाभावादिति? नैतदेवम्
अनुच्चरितशब्दोऽपि पुरुषो विप्रलम्भकः।
हस्तसंज्ञाद्युपायेन जनयत्येव विप्लवम्॥
न हस्तसंज्ञादिना शब्दानुमानं तत्कृतश्च विप्लव इति वक्तव्यम्। इत्थमप्रतीतेः। उत्पन्ने च क्वचिन्नद्यादिवाक्याद् विज्ञाने तरङ्गिणीतीरमनुसरन् अनासादिफलः प्रवृत्तबाधकप्रत्ययः पुरुषमेवाधिक्षिपति `धिक् हा तेन दुरात्मना विप्रलब्धो ऽस्मी’ति न शब्दम्। प्राप्तफलश्च पुमांसमेव श्लाघते `साधु साधुना तेनोपदिष्टम्’। इत्यतः पुरुषदोषान्वयानुविधानात् तदभावकृत एव आप्तेषु तूष्णीमासीनेषु विभ्रमानुत्पाद इति न सन्दिग्धो व्यतिरेकः। पुरुषदोषकृत एव शब्दाद् विप्लवो न स्वरूपनिबन्धनः।
ननु पुरुषदोषास्तत्र किं कुर्युः? पुरुषस्य हि गुणवता दोषवता वा शब्दोच्चारणमात्रे एव व्यापारः। ततः परन्तु कार्यं शब्दायत्तमेवेति तत्स्वरूपकृत एवायं विब्रमः। हन्त तर्हि वक्तरि गुणवति सति सरितस्तीरे फलानि सन्तीति सम्यक्प्रत्ययेऽपि शब्दस्यैव व्यापारात् पुरुषस्योच्चारणमात्रे चरितार्थत्वान्नैकान्ततः शब्दस्यार्थासंस्पर्शित्वमेव स्वभावः। युक्तञ्चैतदेव यद् दीपवत् प्रकाशत्वमात्रमेव शब्दस्य स्वरूपं न यथार्थत्वम् अयथार्थत्वं वा, विपरीतेऽप्यर्थे दीपस्य प्रकाशत्वानतिवृत्तेः। अयन्तु विशेषः, प्रदीपे व्युत्पत्तिनिरपेक्षमेव प्रकाशत्वं शब्दे तु व्युत्पत्त्यपेक्षामिति। प्रकाशात्मनास्तु शब्दस्य वक्तृगुणदोषाधीने यथार्थेतरत्वे। अत एवाङ्गुलिशिखराधिकरणकरेणुशतवचसि बाधितेऽपि पुनः पुनरुच्चार्यमाणे भवति विभ्रमः, प्रकाशकत्वतद्रूपानपायात्। न त्वेष शब्दस्य दोषः।
पदार्थानान्तु संसर्गमसमीक्ष्य प्रजल्पतः।
वक्तुरेव प्रमादोऽयं न शब्दोऽत्रापराध्यति॥
तदुक्तम्, प्रमाणान्तरदर्शनमत्र बाध्यते न पुनर्हस्तियूथशतमिति शाब्दोऽन्वयः, पुरुषो हि स्वदर्शनं शब्देन परेषां प्रकाशयति। तत्र तद्दर्शनञ्चेद् दुष्टम्, दुष्टः शाब्दः प्रत्ययः, अदुष्टं चेददुष्ट इति। गुणवतः पुरुषस्यादुष्टं दर्शनं भवति दोषवतो दुष्टमिति। अदृष्ट्वापि वस्तु यदुपदिश्यते सोऽपि बुद्धिदोष एव। तस्मात् पुरुषगतगुणदोषान्वयव्यतिरेकानुविधायित्वात् तत्कृते एव शाब्दयथार्थत्वायथार्थत्वे। तत्तदुक्तं `तथ्यमपि भवति वितथमपि भवति’ इति।
तेनाबिधातृदौरात्म्यकृतेयमयथार्थता।
प्रत्ययस्येति शब्दानां नार्थासंस्पर्शिता स्वतः॥
या तु जात्यादिशब्दार्थपराकरणवर्त्मना।
अर्थासंस्पर्शिता प्रोक्ता सा पुरस्तान् निषेत्स्यते॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%विकल्पयोनयः शब्दा% इति। `अमुमर्थं प्रतिपादयामि’ इत्येवमात्मकविकल्पोपारूढ़ार्थप्रतिपादनाय शब्दप्रयोगात् शब्दाच्च `अयमर्थोऽवमतः’ इत्येवंरूपविल्पोदयात्।
%निषेधवाक्यैकवाक्यतैव न स्यादि%ति। अननुभूतार्थं न प्रयोक्तव्यं यथा किमिति शब्दपरत्वे भवत्येकवाक्यता, अर्थपरत्वे तु यथा किमित्यपेक्षायामङ्गुल्यग्रहस्तियूथशतयोराधाराधेयसम्बन्धरूपोऽर्थो न सङ्गच्छते।
%तदुक्तमि%ति। प्राभाकरं वचो ज्ञापकत्वेनाह %`प्रमाणान्तरदर्शनम्’% इति। वक्ता यद्वशेन परस्मै अर्थं प्रतिपादयति तदस्यप्रमाणान्तरदर्शनशब्देन विवक्षितम्, तच्च कदाचिदज्ञानमोहाद्यपि भवति। %तत्तथ्यमपि भवती%ति। पौरुषेयं वच इति प्रकृतम्।
न्यायम़ञ्जरी :–
%प्रमाण्यस्य स्वतस्त्वपरतस्त्वविचारोपक्रमः%
प्रमाणत्वन्तु शब्दस्य कथमित्यत्र वस्तुनि।
जैमिनीयैरयं तावत् पीठबन्धो विधीयते॥
प्रामाण्यमप्रामाण्यं वा सर्वविज्ञानगोचरः।
स्वतो वा परतोवेति प्रथमं प्रविविच्यताम्॥
ननु शब्दप्रामाण्यचिन्तावसरे सकलप्रमाणप्रामाण्यविचारस्य कः प्रसङ्गः? न स्वातन्त्र्येण परीक्षणमपि तु तदर्थमेव समानमार्गत्वात्,
अथान्येषां स्वतः परतो वा प्रामाण्यम्, तथा शब्दस्यापि भविष्यतीति न हि तस्यस्वरूपमिवप्रामाण्यमपितद् विसदृशमिति। तदुच्यते, किं विज्ञानानां प्रामाण्यमप्रामाण्यञ्चेति द्वयमपि स्वतः, उत उभयमपि परतः, आहोस्विद् अप्रामाण्यं स्वतः, प्रामाण्यन्तु [परतः, उतस्वित्प्रामाण्यं स्वतः अप्रामाण्यन्तु परतः इति,
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%पीठबन्धः% भूमिकारचनम्।
न्यायम़ञ्जरी :–
%प्रामाण्यं स्वत इति मीमांसकाः%
तत्र द्वयमपि स्वत इति तावदसाम्प्रतम्, प्रवृत्तस्य विसंवाददर्शनात्। यदि हि प्रामाण्यमितरद् वा स्वत एव ज्ञानस्य गम्यते तर्हि शुक्तौ रजतज्ञानं प्रमाणतया वा प्रतिपन्नम् अन्यथा वा?
प्रमाणत्वपरिच्छित्तौ विसंवदति तत्कथम्।
अप्रामाण्यगृहीतौ वा तस्मिन् कस्मात् प्रवर्त्तते॥
एतेन तृतीयोऽपि पक्षः प्रत्युक्तः यदप्रामाण्यं स्वतः, प्रामाण्यं परत इति स्वतो ह्यप्रामाण्ये निश्चिते प्रवृत्तिर्न्न प्राप्नोतीति। किञ्च अप्रामाण्यमुत्पत्तौ कारणदोषापेक्षम् निश्चये च बाधकज्ञनापेक्षम्, तत्कथंस्वतो भवितुमर्हति। यच्च `अप्रामाण्यमवस्तुत्वान्न स्यात् कारणदोषतः’ इति कैश्चिदुच्यते तदपि यत्किञ्चित्। संशयविपर्ययात्मनोऽप्रामाण्यस्य वस्तुत्वात् तद्गतम् अप्रामाण्यमपि वस्त्वेवेति। परतस्तु प्रामाण्यं यथा नावकल्पते तथा विस्तरेणोच्यते। एवञ्चायं द्वयमपि परत इति द्वितीयपक्षप्रतिक्षेपोऽपि भविष्यति। अर्थतथात्वप्रकाशकं हि प्रमाणमित्युक्तम्, तस्य स्वप्रमेयाव्यभिचारित्वं नाम प्रामाण्यम्। अतश्च परापेक्षायां सत्यां परत इति कथयितुमुचितम्। न चास्य परापेक्षा क्वचिद् विद्यते, सा हि भवन्ती उत्पत्तौ वा स्यात्, स्वकार्यकरणे वा, प्रामाण्यनिश्चये वा। उत्पत्तौ कारकस्वरूपमात्रापेक्षा, तदतिरिक्ततद्गतगुणापेक्षा वा? कारकस्वरूपमात्रापेक्षायां सिद्धसाध्यत्वम्, असत्सु कारकेषु कार्यस्य ज्ञानस्यात्मलाभाभावात् कस्य प्रामाण्यमप्रामाण्यं वा चिन्त्यते? कारकातिरिक्ततदधिकरणगुणापेक्षणन्तु दुर्घटम्, अप्रामाणिकत्वेन कारणगुणानामाकाशकुशेशयसदृशवपुषामपेक्षणीयत्वाभावात्।
न कारणगुणग्राहि प्रत्यक्षमुपपद्यते।
चक्षुरादेः परोक्षत्वात् प्रत्यक्षास्तद्गुणाः कथम्॥
लिङ्गञ्चादृष्टसम्बन्धं न तेषामनुमापकम्।
यथार्थबुद्धिसिद्धिस्तु निर्दोषादेव कारकात्॥
यदि हि यथार्थत्वायथार्थत्वरूपद्वयरहितं किञ्चिदुपलब्ध्याख्यं कार्यं भवेत्ततः कार्यत्रैविध्यात् कारणत्रैविध्यमवश्यमवसीयेत। यथार्थोपलब्धेर्गुणवत्कारकं कारकम्, अयथार्थोपलब्धेर्दोषकलुषं कारकं कारकम्, उभयरूपरहितायास्तु तस्याः स्वरूपावस्थितमेव कारकं कारकमिति, न त्वेवमस्ति। द्विविधैव खल्वियमुपलब्धिः यथार्थत्वायथार्थत्वभेदेन। तत्र अयथार्थोललब्धिस्तावद् दुष्टकारककार्यैव दृष्टा।
दृष्टः कुटिलकुम्भादिसम्भवो दुष्टकारणात्।
तथा मानान्तरमितात् तिमिरादेर्द्विचन्द्रधीः।
अयथार्थोपलब्धौ च दुष्टकारककार्यत्वेन सिद्धायामिदानीं तृतीयकार्याभावात् यथार्थोपलब्धिः स्वरूपावस्थितेभ्य एव कारकेभ्योऽवकल्पत इति न गुणकल्पनायै प्रभवति। अनुमाने च यैव पक्षधर्मान्वयादिसामग्री ज्ञानस्य जनिका सैव प्रामाण्यकारणत्वेन दृष्टा। न च स्वरूपस्थितानि कारणानि कार्यजन्मन्युदासत एव, येन यथार्थोपलब्धिजनने तेषां गुणसहकारिता कल्प्यते इत्यतो न सन्ति कारणगुणाः। नैर्मल्यव्यपदेशस्तु लोचनादेः काचकामलादिदोषापायनिबन्धन एव न स्वरूपातिरिक्तगुणकृतः। अञ्जनाद्युपयोगोऽपि दोषनिर्हरणायैव न गुणजन्मने।
तस्मादवितथा संवित् स्वरूपस्थितहेतुजा।
दोषाधिकैस्तु तैरेव जन्यते विपरीतधीः॥
अत एवाप्रमाणत्वं परतोऽभ्युपगम्यते।
जन्मन्यपेक्षते दोषान् बाधकञ्च स्वनिश्चये॥
तस्मान्न उत्पात्तौ गुणापेक्षं प्रमाण्यम्, नापि स्वकार्यकरणे किञ्चिदपेक्षते, अर्थप्रकाशनस्वभावस्यैव तस्य स्वहेतोरुत्पादात्। अर्थप्रकाशनमेव च प्रमाणकार्यं प्रवृत्त्यादेः पुरुषेच्छानिबन्धनत्वात्।
नैव वा जायते ज्ञानं जायतेवा प्रकाशकम्।
अर्थप्रकाशने किञ्चिन्न तूत्पन्नमपेक्षते॥
तथा चोक्तम्
मृद्दण्डचक्रसूत्रादि घटो जन्मन्यपेक्षते।
उदकाहरणए त्वस्य तदपेक्षा न विद्यते॥ इति।
अथवा
सापेक्षत्वं घटस्यापि सलिलाहरणं प्रति।
यत्किञ्चिदस्ति न त्वेवं प्रमाणस्योपपद्यते॥
न च स्वग्रहणापेक्षं ज्ञानमर्थप्रकाशकम्।
तस्मिन्ननवबुद्धेऽपि तत्सिद्धेश्चक्षुरादिवत्॥
उक्तञ्च `न ह्यज्ञातेऽर्थे कश्चिद् बुद्धिमुपलभते ज्ञाते त्वनुमानादवगच्छति’ इति। तस्मात् स्वकार्यकरणेऽपि न स्वग्रहणापेक्षं प्रमाणम्, नापि प्रामाण्यनिश्चये किञ्चिदपेक्षते अपेक्षणीयाभावात्। तथा ह्यस्य कारणगुणज्ञानाद् वा प्रामाण्यनिश्चयोभवेद, बाधकाभावज्ञानाद् वा, संवादाद् वा?
न तावत् कारणगुणज्ञानात् कारणगुणानामिदानीमेव निरस्तत्वात्। अपि च न कारकगुणज्ञानमिन्द्रियकारणकम्, अतीन्द्रियकारकाधिकरणत्वेन परोक्षत्वाद् गुणानाम्, अपि तूपलब्ध्याख्यकार्यपरिशुद्धिसमधिगम्यगुणस्वरूपम्, अप्रवृत्तस्य च प्रमातुर्न कार्यपरिशुद्धिर्भवति तन्नेदानीं प्रामाण्यनिश्चयपूर्विका प्रवृत्तिर्भवेत्। अन्यथा वा, अनिश्चितप्रामाण्यादेव ज्ञानात् प्रवृत्तिसिद्धौ किं पश्चात्तन्निश्चयेन प्रयोजनम्? निश्चितप्रामाण्यात्तु प्रवृत्तौ दुरतिक्रमश्चक्रकक्रकचपातः, कारणगुणावगतेः प्रामाण्यनिश्चयः। प्रामाण्यनिश्चयात् प्रवृत्तिरिति?
नापि बाधकाभावपरिच्छेदात् प्रामाण्यनिश्चयः। स हि तात्कालिको वा स्यात कालान्तरभावी वा?
तात्कालिको न पर्याप्तः प्रामाण्यपरिनिश्चये।
कूटकार्षापणादौ किञ्चित्कालमनुत्पन्नबाधकेऽपि कालान्तरे तदुत्पाददर्शनात्।
सर्वथा तदभावस्तु नासर्वज्ञस्य गोचरः॥
अथ संवादात् प्रामाण्यनिश्चय उच्यते? तर्ह्युच्यतां कोऽयं संवादो नाम। किमुत्तरं तद्विषयं ज्ञानमात्रम्, उतार्थान्तरज्ञानम्, आहोस्विदर्थक्रियाज्ञानमिति। आद्ये पक्षे कः पूर्वोत्तरज्ञानयोर्विशेषो यदुत्तरज्ञानसंवादात् पूर्वं पूर्वं ज्ञानं प्रामाण्यमश्नुवीत।
अपि चोत्तरसंवादात् पूर्वपूर्वप्रमाणताम्।
वदन्तो नाधिगच्छेयुरन्तं युगशतैरपि॥
सुदूरमपि गत्वा तु प्रामाण्यं यदि कस्यचित्।
स्वत एवाभिधीयेत को द्वेषः प्रथमं प्रति॥
यदाह
कस्यचित्तु यदीष्येत स्वत एव प्रमाणता।
प्रथमस्य तथाभावे विद्वेषः किं निबन्धन इति॥
अथान्यविषयज्ञानमप्यस्य संवाद उच्यते? तदयुक्तम्, अदर्शनात्, न हि स्तम्भज्ञानं कुम्भज्ञानस्य संवादः।
अथार्थक्रियाज्ञानसंवादात् प्रथमस्य प्रवर्त्तकस्य ज्ञानस्य प्रामाण्यमिष्यते। तदपि ह्यनवसितप्रामाण्यं कथमादिमस्य प्रामाण्यमवगमयेत्? कश्चार्थक्रियाज्ञानस्य पूर्वस्माद्विशेषो यदेतदायत्तस्तस्यप्रामाण्याधिगमः? अर्थक्रियाज्ञानत्वमेव विशेष इति चेत् किल सलिलज्ञानमाद्यमविद्यमानेऽपि पयसि पूषदीधितिषु दृष्टमिति न भवति विस्रम्भभूमिः, इदं पुनरर्थक्रियासंवेदनमम्बुमध्यवर्त्तिनः पानावगाहनादिविषयमपीत्यनवधारितव्यभिचारतया तत्प्रामाण्यनिश्चयाय कल्पत इति। तदसत्। स्वप्ने पानावगाहनस्यापि व्यभिचारोपलब्देः। किञ्च चरमधातुविसर्गोऽपि स्वप्ने सीमन्तिनीमन्तरेण भवतीति महानेष व्यभिचारः।
अथ रागोद्रेकनिमित्तत्वेन, पित्तादिधातुविकृतिनिबन्धनत्वेन वा तद्विसर्गस्य न स्वसाधनव्यभिचार इत्युच्यते, तदसमञ्जसम्। असकृदनुभूतयुवतिपरिरम्भाद्यन्वयव्यतिरेकानुविधायित्वेन तत्कार्यत्वावधारणात्।
तस्मादर्थक्रियाज्ञानव्यभिचारावधारणात्।
तत्प्रामाण्यपरीक्षायामनवस्था न शाम्यति॥
अथ वाप्तफलत्वेन किं तत् प्रामाण्यचिन्तया।
न चेदमर्थंक्रियाज्ञानमप्रवृत्तस्य पुंसः समुद्भवति। तत्रं प्रामाण्यावधारणपूर्विकायां प्रवृत्तौ कारणगुणनिश्चेयप्रामाण्यचर्चाबद्धचक्रकक्रकचचोद्यप्रसङ्गस्तदवस्थ एव। अनिश्चितप्रामाण्यस्य तु प्रवृत्तौ पश्चात्तन्निर्णयो भवन्नपि कृतक्षौरस्य नक्षत्रपरीक्षावदफल एवेत्युक्तम्।
तत्रैतत्स्याद्, द्विविधा हि प्रवृत्तिराद्या चाभ्यासिकी च। तत्राद्या यथा विनिहितसलिलावसिक्तमसृणमृदि शरावे शाल्यादिबीजशक्तिपरीक्षणाय कतिपयबीजकणवापरूपा। ततस्तत्र तेषामङ्कुरकरणकौशलमविकलमवलोकयन्तः कीनाशा निःशङ्कं केदारेषु तानि बीजान्यावपन्तीति सेयमाभ्यासिकी प्रवृत्तिः। एवमिहापि प्रथमपरीक्षितप्रमाणभावादेव ज्ञानात् कुतश्चित् कश्चिद् विपश्चिदपि व्यवहरंस्तद्व्यवहारपरस्तत्तत्फलज्ञाने तस्य प्रामाण्यमवगच्छन् पुनस्तथाविधे जाते सति सुखमेव प्रवृत्त्यादिकं व्यवहारमशङ्कितकालुष्यः करिष्यतीति न सर्वात्मना वैयर्थ्यमिति। उच्यते। विषमोऽयं दृष्टान्तः।
तज्जातीयतया बीजं शक्यते यदि वेदितुम्।
तत्र तन्निश्चयाद् युक्तं निर्विशङ्कं प्रवर्त्तनम्॥
ज्ञाने तथाविधत्वन्तु बोधरूपाविशेषतः।
कार्याद् वा कारणाद् वापि ज्ञातव्यं न स्वरूपतः॥ इति।
कारणानां परोक्षत्वान्न तद्द्वारा तदा गतिः।
कार्यात्तु नाप्रवृत्तस्य भवतीत्युपवर्णितम्॥
तस्माद् वैयर्थ्यचोद्यस्य नायं परिहृतिक्रमः।
एवञ्चार्थक्रियाज्ञानात् कीदृक् प्रामाण्यनिश्चयः॥
समर्थकारणज्ञानाद् योऽपि प्रामाण्यनिश्चयम्।
ब्रूते सोऽपि कृतोद्वाहस्तत्र लग्नं परीक्षते।
किलातिविकसितकुसुममकरन्दपानमुदितमधुकरकुले कस्मिंश्चिदुद्याने वाद्यमानायां वीणायां निरन्तरलतासन्तानान्तरितवपुषि विदूरादनवलोक्यमाने वादके वीणाध्वनिसंविदि रोलम्बनादसंदेहदूषितायां तदबिमुखमेव प्रतिष्ठमानः श्रोता परिवादके दर्शनपथमवतीर्णे स्वरानुकूलकारणनिश्चयात् तत्प्रतीतौ संशयनिवृत्तेः प्रामाण्यं निश्चिनोतीत्येष समर्थकारणज्ञानकृतः प्रामाण्यनिश्चयः।
तत्रापि नाप्रवृत्तस्य हेतुसामर्थ्यदर्शनम्।
एवमेव प्रवृत्तौ तु निश्चितेनापि तेन किम्॥
तन्निश्चयात् प्रवृत्तौ वा पुनरन्योन्यसंश्रयम्।
तन्निश्चयात् प्रवृत्तिः स्यात् प्रवृत्तेस्तद्विनिश्चयः॥
तदेवं न कुतश्चिदपि प्रामाण्यनिश्चयः चक्रकेतरेतराश्रयानवस्थावैयर्थ्यादिदूषणातीतस्थितिरस्तीति। अतः प्रामाण्यनिश्चयेऽपि न किञ्चिदपेक्षते प्रमाणम्। ततश्चोत्पत्तौ स्वकार्यकरणे स्वप्रामाण्यनिश्चये च निरपेक्षत्वादपेक्षात्रयरहितत्वात् स्वतः प्रामाण्यमिति सिद्धम्। तदुक्तम्
स्वतः सर्वप्रमाणानां प्रामाण्यमिति गृह्यताम्।
न हि स्वतोऽसती शक्तिः कर्तुमन्येन पार्यंते॥
अप्रामाण्यन्तूत्पत्तौ दोषापेक्षत्वात्, स्वनिश्चये बाधकप्रत्ययादिसापेक्षत्वात्, परत इत्युक्तमेव। तस्मात् पक्षत्रयस्यानुपपत्तेश्चतुर्थ एवायं पक्षः श्रेयान्, प्रामाण्यं स्वतः, अप्रामाण्यं परत इति।
ननु चोत्पत्तिवेलायां न विशेषोऽवधार्यते।
प्रमाणेतरयोस्तेन बलाद् भवति संशयः॥
परिच्छित्तिमात्रं प्रमाणकार्यम् तच्च यथार्थेतरप्रमितिसाधारणं रूपम्, साधारणधर्मग्रहणञ्च संशयकारणमिति प्रसिद्धः पन्थाः। एवं च स्थिते
प्रमाणान्तरसंवादविसंवादौ विना कथम्।
प्रमाणेतरनिर्णीतिरतश्च परतो द्वयम्।
तदेतदचतुरस्रम्। सत्यम्, परिच्छित्तिरेव प्रमाणकार्यम्, सा पुनरुपजायमानैव न संदेहादिदूषिततनुरुपलभ्यते इत्यौत्सर्गिकं प्रामाण्यमेव सा भजते। अर्थपरिच्छेदाच्च प्रवर्त्तमानः प्रमाता प्रमाणेनैव प्रवर्त्तितो भवति न संशयात् प्रवृत्तः। स्थितिश्चैवमौत्सर्गिके प्रामाण्ये, यत्र तस्यापवादः क्वचिद् भवति तत्राप्रामाण्यम्। अप्रामाण्ये चावश्यम्भावी अपवादः। द्विविध एव तदपवादः, बाधकप्रत्ययः, कारणदोषज्ञानञ्च। तदुक्तं भाष्यकृता `यत्र च दुष्टं करणं यत्र च मिथ्येति प्रत्ययः स एवासमीचीन- प्रत्ययो नान्यः’ इति। वार्त्तिककारोऽप्याह
तस्माद् बोधात्मकत्वेन प्राप्ता बुद्धेः प्रमाणता।
अर्थान्यथात्वहेतूत्थदोषज्ञानादपोद्यते॥ इति।
तत्र बाधकज्ञानं पूर्वज्ञानोपमर्दद्वारेणैव तस्मिन् विषये जायते इति समानविषयत्वात् स्पष्टमेव बाधकम्, कारणदोषज्ञानन्तु भिन्नविषयमपि कार्यैक्याद् बाधकतां प्रतिपद्यते। यथा `चमसेनापः प्रणयन्ती’ति दर्शपूर्णमासाङ्गत्वात् क्रत्वर्थश्चमसः। `गोदोहनेन पशुकामस्य प्रणयेदि’ति काम्यमानपशुनिर्देशात् पुरुषार्थगोदोहनेन निर्वृत्ते तस्मिंश्चमसो निवर्त्तते। एवमिह कारणदोषज्ञानं दोषविषयमपि दोषाणामयथार्थज्ञानजननस्वभावत्वात् तस्य ज्ञानस्य प्रामाण्यं बाधते। तदुक्तम्
दुष्टकारणबोधे तु जातेऽपि विषयान्तरे।
अर्थात् तुल्यार्थतां प्राप्य बाधो गोदोहनादिवदिति॥
यत्र पुनरिदमपवादद्वयमपि न दृश्यते तत्र तदौत्सर्गिकं प्रामाण्यमनपोदितमास्ते इति न मिथ्यात्वाशङ्कायां निमित्तं किञ्चित्। यदाह
दोषज्ञाने त्वनुत्पन्ने नाशङ्का निष्प्रमाणिका। इति।
तथाहि
कश्चिदुत्पन्न एवेह स्वसंवेद्योऽस्ति संशयः।
स्थाणुर्वा पुरुषो वेति को नामापह्नुवीत तम्॥
हठादुत्पद्यमानस्तु हिनस्ति सकलाः क्रियाः।
स्वभार्यापरिरम्भेऽपि भवेन्मातरि संशयः॥
विनाशी संशयात्मेति पाराशर्योऽप्यभाषत।
नायं लोकोऽस्ति कौन्तेय न परः संशयात्मनः॥ इति।
यत्रापि क्वचिद् बाधकप्रत्यये संशयो जायते तत्रापि तृतीयज्ञानापेक्षणान्नानवस्था, न च स्वतः प्रामाण्यहानिः। यत्र प्रथमविज्ञानसंवादि तृतीयज्ञानमुत्पद्यते तत्र प्रथमस्य प्रामाण्यमौत्सर्गिकं स्थितमेव, द्वितीयविज्ञानारोपितालीककालुष्यशङ्कानिराकरणन्त्वस्य तृतीयेन क्रियते, न त्वस्य संवादात् प्रामाण्यम्। यदि तु द्वितीयज्ञानसंवादि तृतीयं ज्ञानं तदा प्रथमस्याप्रामाण्यम्, तच्च परत इष्टमेव। द्वितीयस्य तु ज्ञानस्य न तृतीयसंवादकृतं प्रामाण्यम्, अपि तु सङ्कल्प्यमानकुशङ्काचमनमात्रे तस्य व्यापारः। उक्तञ्च
एवं त्रिचतुरज्ञानजन्मनो नाधिका मतिः।
प्रार्थ्यते तावतैवैकं स्वतः प्रामाण्यमश्नुते॥ इति।
तदेवं सर्वप्रमाणानां स्वतः प्रामाण्ये सिद्धे समानन्यायतया शब्दस्यापि तथैव प्रामाण्यं भवति। न च नैसर्गिकमर्थासंस्पर्शित्वमेव शब्दस्य स्वरूपमिति परीक्षितमेतत्, किन्त्वर्थबोधजनकत्वात् तस्य नैसर्गिके प्रामाण्ये सति पुरुषदोषानुप्रवेशकारितः क्वचिद्धि विप्लवः। तदुक्तम्, `शब्दे दोषोद्भवस्तावद् वक्त्रधीन इति स्थितम्’। तत्र पौरुषेये वचसि गुणवति वक्तरि तद्गुणापसारितदोषतया तत्प्रामाण्यमौत्सर्गिकमनसपोदितं भवति। न तु गुणकृतं तत्प्रामाण्यमनङ्गत्वात् प्रामाण्ये गुणानाम्, बोधकत्वनिबन्धनमेव तदित्युक्तम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%अप्रामाण्यमवस्तुत्वादि%ति। अप्रामाण्यं धर्मि, कारणदोषतो न स्यादिति साध्यम्, अवस्तुत्वादिति हेतुः। `वस्तुत्वात्तु गुणैस्तेषां प्रामाण्यमुपजन्यते’ इत्युत्तरमर्धम्।
%चक्रके%ति त्रियन्त्र्यादीनां(?) परस्परसापेक्षाणां चक्रवद् भ्रमतां चक्रकव्यपदेशः।
%अर्थान्यथात्वे%ति। अर्थान्यथात्वाज्ञानात् `शुक्तिकेयं न रजतम्’ इत्यादौ, हेतूत्थदोषज्ञानात् कारणदोषज्ञानाद् द्विचन्द्रज्ञानादौ।
%चमसेनापः प्रणयन्ती%ति। चमसेन यज्ञपात्रविशेषेण अपः प्रणयन्ति विशिष्टेन मन्त्रेण प्राङ् नयन्ति, गार्हपत्यदेशादाहवनीयदेशं नयन्ति। पिष्टसंयवनाद्यर्थं ताभिः संयुते पिण्डीकृते पिष्टे पुरोडाशनिर्वृत्तिद्वारेणाग्नेयोऽष्टाकपालो भवतीति प्रधानयागनिर्वृत्तेः क्रतूपकारकत्वात् क्रत्वर्थश्चमसः।
%गोदोहनेन पशुकामस्य प्रणयेदि%ति। यः पशुकामो यजमानस्तद्रथं गावो दुह्यन्ते यस्मिन् पात्रे तेनाध्वर्युरपां प्रणयनं कुर्यात्; अत्र गोदोहनमिष्टपशुसम्पादकत्वेन पुरुषेणार्थ्यमानत्वात् पुरुषार्थम्, क्रतोस्तु चमसकृतेनैव प्रणयनेनोपकारसिद्धेः क्रतुनाऽनपेक्षमाणत्वान्न क्रत्वर्थम्। तदेवमनयोः क्रत्वर्थपुरुषार्थत्वेन भिन्नविषयत्वेऽपि गोदोहनं प्रणयनमकुर्वन्न फलाय प्रभवति, क्रियामनाश्रित्य कारणस्य शुद्धस्य फलं जनयितुमसामर्थ्यात्; अतस्तेन प्रणयनमवश्यं कार्यम्; तेन चेत् प्रणयनं क्रियते कृतत्वात् प्रणयनस्य तेनैव संयवनादिकार्यसिद्धेरर्थाच्चमसो निवर्तते। नन्वत्रास्त्वेककार्यत्वान्निवृत्तिः, दार्ष्टान्तिके तु द्विचन्द्रज्ञानदोषज्ञानादौ कीदृश्येककार्यता? उच्यते। एकस्मिन्नर्थे तथात्वातथात्वप्रदर्शनेन व्यापार एककार्यत्वम्। दोषज्ञानम् `दुष्टं मे चक्षुः’ इति ज्ञानम् दोषाणामयथार्थज्ञानजननद्वारेण द्विचन्द्रज्ञानप्रतिभासिनोऽर्थस्यातथात्वं ज्ञापयति, द्विचन्द्रज्ञानन्तु सयात्वमेव स्वप्रतिभास्यस्यार्थस्यावेदयते; न वै तत् तथात्वमतथात्वञ्चैकस्य वस्तुनः सम्भवतीत्यर्थाद् बाध इत्यर्थः।
%त्रिचतुरज्ञानजन्मनो नाधिके%ति। जन्मन इति पञ्चमी।
%वक्त्रधीन इति स्थितमि%त्यस्यापरमर्धम् `तदभावः क्वचित्तावद् गुणवद्वक्तृकत्वतः’ इति।
न्यायम़ञ्जरी :–
%वेदस्यापौरुषेयत्वात् स्वतः प्रामाण्यम्%
वेदे तु प्रणेतुः पुरुषस्याभावात् दोषाशङ्कैव न प्रवर्तते, वक्त्रधीनत्वाद्दोषाणाम्। न च बाधकप्रत्ययोऽद्ययावद् वेदार्थे कस्यचिदुत्पन्न इति निरपवादं वेदप्रामाण्यम्। आह च
तत्रापवादनिर्मुक्तिर्वक्त्रभावाल्लघीयसी।
वेदे तेनाप्रमाणत्वं न शङ्कामधिगच्छतीति॥
तदिदमुक्तं `तत्प्रमाणं बादरायणस्यानपेक्षत्वादि’ति।
गिरां मिथ्यात्वहेतूनां दोषाणां पुरुषाश्रयात्।
अपौरुषेयं सत्यार्थमिति युक्तं प्रचक्षते॥
गिरां सत्यत्वहेतूनां गुणानां पुरुषाश्रयात्।
अपौरुषेयं सत्यार्थमित्ययुक्तन्तु मन्वते॥
न हि पुरुषगुणानां सत्यतासाधनत्वं
वचसि खलु निसर्गादेव सत्यत्वसिद्धिः।
गुणमपि नरवाचां विप्लवाधायिदोष-
प्रशमनचरितार्थं सङ्गिरन्ते गुणज्ञाः॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%वक्त्रबावाल्लघीयसी% अयत्नसिद्धा।
%तत् प्रमाणं बादरायणस्ये%ति। तत् शाब्दं बाधरायणस्याचार्यस्य मतेऽनपेक्षत्वात् प्रमाणम्, अन्यानपेक्षं प्रमाणं स्वत एव प्रमाणमित्यर्थः।
एवं मीमांसकदृष्ट्या स्वतः पारमाण्यं प्रतिपाद्य वेदस्य तदप्रामाण्ये धर्मकीर्तेः। श्लोकद्वयम्
गिरां मिथ्यात्वहेतूनां दोषाणां पुरुषाश्रयात्।
अपौरुषेयं सत्यार्थमिति केचित् प्रचक्षते॥
इत्येकं मीमांसकमतानुवादतया व्यवस्थितमपरञ्च तत्प्रतिषेधाय
गिरां सत्यत्वहेतूनां गुणानां पुरुषाश्रयात्।
अपौरुषेयं मिथ्यार्थं किन्नेत्यन्ये प्रचक्षते॥
इति व्यत्ययेनेति तदिदानीं यथा पठितुं युज्यते तथा पठितुमाह %गिरां मिथ्यात्वहेतूनामि%त्यादिना।
न्यायम़ञ्जरी :–
%प्रामाण्यस्य स्वतस्त्वपरिहारः%
अत्राभिधीयते। प्रत्यक्षादिषु दृष्टार्थेषु प्रमाणेषु प्रामाण्यनिश्चयमन्तरेणैव व्यवहारसिद्धेस्तत्र किं स्वतःप्रामाण्यमुत परत इति विचारेण न नः प्रयोजनम्, अनिर्णय एव तत्र श्रेयान्। अदृष्टे तु विषये वैदिकेष्वगणितद्रविणवितरणादिक्लेशसाध्येषु कर्मसु तत्प्रामाण्यावधारणमन्तरेण प्रेक्षावतां प्रवर्त्तनमनुचितमिति तस्य प्रामाण्यनिश्चयोऽवश्यकर्त्तव्यः। तत्र परत एव वेदस्य प्रामाण्यमिति वक्ष्यामः।
यच्चेदमियता विस्तरेण स्वतःप्रामाण्यमुपपादितं तद् व्याख्येयम्। स्वतः प्रामाण्यमिति कोऽर्थः, `किं स्वत एव प्रमाणस्य प्रामाण्यं भवति’ उत स्वयमेव तत् प्रमाणमात्मनः प्रामाण्यं गृह्णातीति? न तावत् स्वयमेव प्रामाण्यग्रहणमुपपन्नम्, अप्रामाणिकत्वात्। तथा हि यदेतन्नीलप्रकाशने प्रवृत्तं प्रत्यक्षं तन्नीलं प्रति तावत् प्रत्यक्षं प्रमाणं तावदिन्द्रियार्थसन्निकर्षोत्पन्नमिति जानीम एव, एतत्किमत्र विचार्यते। प्रामाण्यपरिच्छेदे तु किं तत्प्रमाणमिति चिन्त्यताम्, प्रत्यक्षमनुमानं वा, प्रमाणान्तराणामनाशङ्कनीयत्वात्। न तावत् स्वप्रामाण्यपरिच्छेदे तत् प्रत्यक्षं प्रमाणं तद्विज्ञानस्य वा प्रामाण्यं गृह्णीयात्, तत्फलस्य वा। तत्र ज्ञातृव्यापारात्मनो ज्ञानस्य भवन्मते नित्यपरोक्षत्वात् प्रत्यक्षतः परिच्छेदानुपपत्तौ तत्प्रामाण्यस्यापि कथं प्रत्यक्षेण ग्रहणम्? फलस्याप्यर्थप्रकाशनाख्यस्य संवेदनात्मनो नेन्द्रियसंसर्गयोग्यता विद्यते, येन तद्गतमपि यथार्थत्वलक्षणं प्रामाण्यमिन्द्रियव्यापारलब्धजन्मना प्रत्यक्षेण परिच्छिद्येत। न च मानसमपि प्रत्यक्षं फलगतयथार्थतावसायसमर्थमिति कथनीयम्, तदानीमननुभूयमानत्वात्। न हि नीलसंवित्प्रसवसमनन्तरं यथार्थेयं नीलसंवित्तिरिति संवेदनान्तरमुत्पद्यमानमनुभूयते। अनुभवे वा ततो द्वितीयात् प्रथमोत्पन्ननीलज्ञानयाथार्थ्यग्रहणान्न स्वतः प्रामाण्यनिश्चयः स्यात्। तस्मान्न प्रत्यक्षस्यैवविषयः। अनुमानेनापि कस्य प्रामाण्यं निश्चीयते ज्ञानस्य फलस्य वेति पूर्ववद्वाच्यम्। फलस्य तावत्तन्निश्चयेलिङ्गत्वमेव तावन्न कस्यचित् पश्यामः। ज्ञातृव्यापारात्मनो ज्ञानस्य तु स्वकार्यं फलं भवेदपि लिङ्गं फलस्य क्रियामात्रव्याप्तिग्रहणात् स्वरूपसत्तामात्रमनुमापयितुमुत्सहते न यथार्थत्वलक्षणं प्रामाण्यम्। तद्धि फलं नर्विशेषणं वा स्वकारणस्य ज्ञातृव्यापारस्य प्रामाण्यमनुमापयेद्, यथार्थत्वविशिष्टं वा? आद्ये पक्षे यतः कुतश्चन फलात् तत्प्रामाण्यानुमाने नेदानीं किञ्चिदप्रमाणं भवेत्। उत्तरोऽपि नास्ति पक्षः फलगतयाथार्थ्यपरिच्छेदोपायाभावादित्युक्तम्।
ननु सोऽनुभव एवात्रोपायः। तद्धि नीलसंवेदनतया फलं स्वत एव प्रकाशते, नीलसंवेदनत्वमेव चास्य यथार्थत्वं नान्यत्। यद्येवं शुक्तिकायामपि रजतसंवेदने समानो न्यायः, न हि रजतसंवेदनादन्या यथार्थत्वसंवित्तिरिति।
ननु तत्रबाधकप्रत्ययोपनिपातेनायथार्थत्वमुपनीयते नूनं चास्य मिथ्यादर्शनेषु, देशान्तरे वा शुक्तिकारजतादिज्ञाने, कालान्तरे वा कूटकार्षापणादिप्रतीतौ, पुरुषान्तरे वा जाततैमिरिके द्विचन्द्रप्रतीतौ, अवस्थान्तरे पीतशङ्खादिप्रतिभासे भवति बाधकप्रत्ययः। तदसत्त्वे न तच्छङ्का युक्तिमतीत्युक्तमेव। सत्यमुक्तमयुक्तन्तु एवं हि वदता बाधकाभावज्ञानाधीनं प्रामाण्यमभिहितं भवति, तच्च तात्कालिकं कालान्तरभावि वेति कल्प्यमानं नोपपद्यते इति दर्शितम्। तस्मादुत्पद्यमानमेव प्रमाणमात्मनः प्रामाण्यं निश्चिनोतीति न युक्तमेतत्। यदि तु प्रसवसमये एव ज्ञानस्य प्रामाण्यं निश्चिनोतीति न युक्तमेतत्। यदि तु प्रसवसमये एव ज्ञानस्य प्रामाण्यं निश्चिनुयामः, तर्हि ततः प्रवर्त्तमाना न क्वचिदपि विप्रलभ्येमहि, विप्रलभ्यामहे तु, तेन मन्यामहे न निश्चितं तत्प्रामाण्यं संशयादेव व्यवहराम इति।
ननु संशयोऽपि तदा नानुभूयते एव किमिदं रजतमिति अपि तु रजतमित्येव प्रतीतिः। न हि संशयानाः प्रवर्त्तन्ते लौकिकाः किन्तु निश्चिन्वन्त एव विषयमिति। किमननुभूयमान एवारोप्यते संशयः? एकतरग्राह्यप्ययं प्रत्ययः तन्निश्चयोपायविरहात् संशयकोटिपतित एव बलाद्भवति, यथास्ति कूपे जलमिति भिक्षवो मन्यन्ते। एवं रजतमिदमित्येकपक्षग्राह्यपि तदानीं प्रतिभासः वस्तुवृत्तेन संशय एव, यदि हि प्रमाणतयासौ गृह्येत कथं क्वचिद् विसंवदेत्। अप्रमाणतया तु गृह्यमाणः कथं पुमांसं प्रवर्त्तयेत्?
उभाभ्यामपि रूपाभ्यामथ तस्यानुपग्रहः।
सोऽयंसंशय एव स्यादितिकिं नः प्रकुप्यसि॥
यत्तु नानुभूयते संशय इति। सत्यम्। अननुभूयमानोऽपि न्यायादभ्यस्ते विषयेऽविनाभावस्मरणात् सपरिकल्प्यते, निश्चयनिमित्तस्य तदानीमविद्यमानत्वात्, संशयजननहेतोश्च सामग्र्याः सन्निहितत्वात्। तथा हि यथार्थेतरार्थसाधारणो धर्मो बोधरूपत्वमूर्ध्वत्वादिवत् तदा प्रकाशते एव, न च प्रामाण्याविनाभावी विशेषः कश्चन तदानीमवभाति, तदग्रहणए च समानधर्माधिगमप्रबोध्यमानवासनाधीना तत्सहचरितपर्यायानुभूतविशेषस्मृतिरपि सम्भवत्येवेति, इयं सा संशयजननी सामग्री सन्निहितैवेति कथं तज्जन्यः संशयो न स्यात्?
ननु प्रमाणभूते प्रत्यये जायमान एव तद्गतो विशेषः परिस्फुरतीति कथं विशेषाग्रहणमुच्यते? भो महात्मन्! कथ्यतां स विशेषो, न हि तं वयमनुपदिष्टं कृशमतयो जानीमः। यदि तावत् स्पष्टताविशेषः शुक्तिकायामपि रजतावभासः स्पष्ट एव, न हि तत्रानध्यवसायकालुष्यं किञ्चिदस्ति। अथ निष्कम्पता? शुक्तिकायामपि रजतावभासो निष्कम्प एव। न ह्यसौ जायमान एवाङ्गुल्यग्रादिवाक्यकरणबोधवत् कम्पमानो जायते। अथ निर्विचिकित्सता? शुक्तिकायामपि रजतावभासो निर्विचिकित्स एव, किंस्विदिति कोटिद्वयानवमर्शात्। अथ यस्मिन् सति बाधा न दृश्यते सोऽस्य विशेष इति, नन्वेतदेव पृच्छमि कस्मिन् सति बाधा न दृश्यते इति, सर्वावस्थस्य बाधदर्शनात्। न चासौ चिरमपि चिन्तयित्वा विशेषयितुं शक्यः। अथ स्वविषयाव्यभिचारित्वमेव विशेषः? स तदानीं नावभासते इत्युक्तम्। अपि च यदि तथाविधोऽपि विशेषः समस्ति तर्हि यत्र ज्ञानेऽसौ न दृश्यते ततः किमिति प्रवर्त्तते? तद्विशेषदर्शी वा प्रवर्त्तमानः कथं विप्रलभ्येतेत्युक्तम्, यदयं स्थाणुर्न पुरुषः?
तेनैव व्यवहारस्य सिद्धत्वात् सर्वदेहिनाम्।
उतश्च संशयादेव व्यवहारं वितन्वताम्।
लौकिकानां प्रयोक्तव्या नाभिशापपरम्परा।
न च सर्वथा संशयसमर्थनेऽस्माकमभिनिवेशः। प्रामाण्यन्तु ज्ञानोत्पत्तिकाले ग्रहीतुमशक्यमिति नः पक्षः। प्रामाण्याग्रहणमेवानध्यवसायस्वभावं संशयशब्देनेह व्यपदेक्ष्यामः। प्रामाण्याग्रहणञ्च प्रदर्शितम्, प्रत्यक्षेणानुमानेन वा सता प्रमाणेनात्मनः प्रमाणत्वपरिच्छेदायोगात्। तस्मात् स्वयं प्रामाण्यं गृह्यते इत्येष दुर्घटः पक्षः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%अस्ति कूपे जलमि%ति। एतद् ज्ञानमुभयकोटिस्पृक्त्वेमानुत्पद्यमानमपि संवादविसंवादाभावात् संशय इति कल्प्यते। संवादे सम्यग् ज्ञानं स्यात् विसंवादे तु मिथ्या, संशयविपर्ययसम्यग्ज्ञानातिरिक्तस्य चतुर्थस्य ज्ञानात्मनोऽनभ्युपगमात्तु संशय एव।
%यदि तावत् स्पष्टते%ति। सत्यरजतवदर्थान्तरविवेकेन यत्रार्थः प्रतिभासते स स्पष्टः। समनन्तरमेव विरुद्धज्ञानान्तरानपसार्यमाणस्वभावो %निष्कम्पः।% अनाश्वासस्थानं योन भवति संभाव्यमानार्थत्वात् स %निर्विचिकित्सः।%
%अभिशापपरम्परा% `संशयात्मा विनश्यति’ इत्यादिका।
न्यायम़ञ्जरी :–
%प्रामाण्यं स्वत इति पक्षं निराकृत्य तस्यस्वत उत्पत्तिर्निराक्रियते%
अथ स्वतः प्रामाण्यं भवतीत्येष पक्ष आश्रीयते, सोऽप्ययुक्तः, कार्याणां कारणाधीनजन्मत्वात् प्रामाण्यस्य च कार्यत्वात्। अस्ति च प्रामाण्यं वस्तु च, तन्न च नित्यमिति कार्यमेव तत्। कार्यञ्च कार्यत्वादेव न स्वतो भवितुमर्हति इति। अथोत्पत्तौ स्वकारकातिरिक्तगुणानपेक्षित्वमेव प्रामाण्यस्य स्वतो भवनमुच्यते न पुनरकार्यत्वमेवेति। तदप्यसम्यक्। सम्यग्रूपस्य कार्यस्य गुणवत्कारकव्यतिरेकेणानिष्पत्तेः। द्विविधं कार्यं भवति सम्यगसम्यग् वा। तत्र गुणवता कारणेन सम्यक् कार्यमुत्पद्यते दोषवता त्वसम्यगिति.
निर्दोषं निर्गुणं वापि न समस्त्येव कारणम्।
अत एव तृतीयस्य न कार्यस्यास्ति सम्भवः॥
सम्यग्ज्ञानोत्पादकम् कारकधर्मिस्वरूपातिरिक्तस्वगतधर्मसापेक्षं कार्यनिर्वर्त्तकमिति साध्यो धर्मः, कारकत्वात्, मिथ्याज्ञानोत्पादककारकवत्। सम्यग्ज्ञानं वा, धऱ्मिस्वरूपातिरिक्तधर्मसम्बन्धवत्कारकनिष्पाद्यमिति साध्यो धर्मः, कार्यत्वान् मिथ्याज्ञानवत्। आयुर्वेदाच्चेन्द्रियगुणान् प्रतिपद्यामहे, यदमी वैद्या- स्वस्थवृत्तेरौषधोपयोगमुपदिशन्ति तद् गुणोपयोगायैव न दोषशान्तये। दृश्यते च तदुपदिष्टौषधोपयोगादिन्द्रियातिशयः, तद्विषय एव च लोके नैर्मल्यव्यपदेशो न दोषाभावमात्रप्रतिष्ठ इत्यलं विमर्देन। तस्मादुत्पत्तौ गुणानपेक्षत्वात् स्वतः प्रामाण्यमिति यदुक्तं तदयुक्तम्।
यदपि च स्वकार्यकरणे प्रमाणस्य परानपेक्षत्वमुच्यते तदपि व्याख्येयम्। किं प्रमाणं स्वकार्यकरणे निरपेक्षम्, सामग्री वा, तदेकदेशो वा तज्जन्यं वा, ज्ञानमिति। तत्र सामग्र्याः सत्यं स्वकार्यजन्मनि नैरपेक्ष्यमस्ति, न तु तावता स्वतः प्रामाण्यम्, तत्परिच्छेदस्य परायत्तत्वात्। सामग्र्यन्तर्गतकारकस्य स्वकार्ये परापेक्षत्वमपरिहार्यम्, अकस्मात् कारकात् कार्यनिर्वृत्त्यभावात्। ज्ञानं फलमेव न प्रमाणमित्युक्तम्। न च फलात्मनस्तस्य स्वकार्यं किञ्चिदस्तियत्र सापेक्षत्वमनपेक्षत्वं वा अस्य चिन्त्येत। पुरुषप्रवृत्त्यादौ तु तदिच्छाद्यपेक्षत्वं विद्यत एवेति यत् किञ्चिदेतत्।
यदपि प्रामाण्यनिश्चये नैरपेक्ष्यमभ्यधायि, तदपि न साम्प्रतम्। प्रामाण्यनिश्चयस्यहिद्वयी गतिर्नास्तित्वं कारणापेक्षिता वा। न पुनरस्ति च प्रामाण्यनिश्चयः कारणानपेक्षश्चेति शक्यते वक्तुम्। तत्र प्रथमप्रवर्त्तकप्रतिभासप्रसवसमये तावन्नास्त्येव प्रामाण्यनिश्चय इत्युक्तम्, न हि नीलग्राहिणा प्रमाणेन नीलस्वरूपमिव स्वप्रामाण्यमपि तदानीं निश्चेतुं शक्यते इति कालान्तरे तत्प्रामाण्यनिश्चयः। सत्यमस्ति, न तु तत्र नैरपेक्ष्यम्, प्रवृत्तिसामर्याधीनत्वात्तन्निश्चयस्य।
ननु क्षणिकत्वात् कालान्तरे ज्ञानमेव नास्ति कस्य प्रामाण्यं निश्चिनुमः? शिशुचोद्यमेतद्। अप्रामाण्यमपि बाधकप्रत्ययादिना कालान्तरे कस्य निश्चिनुमः? क्षणिकत्वेन ज्ञानस्यातीतत्वात्। अतिक्रान्तस्यापि स्मर्यमाणस्य तदुत्पादस्य वा वर्त्तमानस्य कारकचक्रस्येति चेत् प्रामाण्यनिश्चयेऽपि समानोऽयं पन्थाः।
यत्पुनः कालान्तरे तन्निश्चयकरणे दूषणमितरेतराश्रयत्वं वा मुण्डितशिरोनक्षत्रान्वेषणवद् वैयर्थ्यं वेति वर्णितम्, तत्रादृष्टे विषये प्रमाण्यनिश्चयपूर्विकायाः प्रवृत्तेरभ्युपगमान्नेतरेतराश्रयम्, चक्रकं वा। दृष्टे विषये ह्यनिर्णीतप्रामाण्य एवार्थसंशयात् प्रवृत्तिरूपम्, अनर्थसंशयाच्च निवृत्त्यात्मकं व्यवहारमारभमाणो दृश्यते लोकः, एतदेव युक्तमित्युक्तम्। न प्रामाण्यनिश्चयपुरःसरं प्रवर्त्तनमिति कुत इतरेतराश्रयम्। वैयर्थ्यन्तु दृष्टे विषये सत्यमिष्यते,किन्तु तत्र प्रवृत्तिसामर्थ्येन प्रामाण्यं निश्चिन्वन्नाप्तोक्तत्वस्य हेतोः प्रामाण्येन व्याप्तिमवगच्छतीति, ह्यदृष्टविषयोपयोगिवेदादिप्रमाणप्रामाण्यपरिच्छेदे पारम्पर्येणोपायत्वात् स्वविषये व्यर्थोऽप्यसौ तत्र सार्थकतामवलम्बते इत्यदोषः।
किं पुनरिदं प्रवृत्तिसामर्थ्यं नाम, यतः प्रमाण्यनिश्चयमाचक्षते नैयायिकाः? उच्यते। पूर्वप्रत्ययापेक्षोत्तरा संवित् प्रवृत्तिसामर्थ्यम्, विशेषदर्शनं वेति पूर्वाचार्यैस्तत्स्वरूपमुक्तम्, तत्पुनर्नातीव हृदयङ्गमम्, इति भाष्यकृतैव `समीहा प्रवृत्तिरित्युच्यते सामर्थ्यं पुनरस्याः फलेनाभिसम्बन्धः’ इति वदता अर्थक्रियारूपफलज्ञानमेव प्रवृत्तिसामर्थ्यमिति निर्णीतम्।
यत्पुनरर्थक्रियाज्ञानस्यापि पूर्वस्मात् को वेशेषः? तस्यापि चान्यतः प्रामाण्यनिश्चयापेक्षायामनवस्थेत्युक्तम्, तदपि सकलप्राणभृत्प्रतीतिसाक्षिकव्यवहारविरोधित्वादसम्बद्धाभिधानम्। अपरीक्षणीयप्रामाण्यत्वादर्थक्रियाज्ञानस्य, प्रवर्त्तकं न सर्वज्ञानं प्रवृत्तिसिद्धये परीक्षणीयप्रामाण्यं वर्त्तते। फलज्ञाने तु सिद्धप्रयोजनत्वात् प्रामाण्यपरीक्षापेक्षैव नास्तीति कुतोऽनवस्था? संशयाभावाद्वा तत् प्रामाण्यविचाराभावः। प्रवर्त्तकं हि प्रथममुदकज्ञानमविद्यमानेऽपि नीरे मिहिरमरीचिषु दृष्टमिति तत्र संशेरते जनाः। तदभावान्न तत्र प्रामाण्यविचारः, विचारस्य संशयपूर्वकत्वात्। विशेषदर्शनाद् वा फलज्ञाने प्रामाण्यनिश्चयः।
कः पुनर्विशेष इति चेद्, योऽयं शौचाचमनमज्जनामरपितृतर्पणपटक्षलनश्रमतापनोदनविनोदनाद्यनेकप्रकारनीरपर्यालोचनप्रबन्धः, न ह्ययमियान् कार्यकलापो मिथ्याज्ञानात् प्रवृत्तस्य क्वचिदपिदृष्टः। स्वप्नेऽप्यस्य प्रबन्धस्य दर्शनमस्तीति चेद्, न, स्वप्नदशाविसदृशविस्पष्टजाग्रदवस्थाप्रत्ययस्य संवेद्यत्वात्, एषोऽस्मि जागर्मि न स्वपिमीति स्वप्नविलक्षणमनिद्रायमाणः प्रत्यक्षमेव जाग्रत् समयं सकलो जनश्चेतयते, न च तस्मिन्नवसरे सलिलमन्तरेणैताः क्रियाः वर्त्तमाना दृश्यन्ते इति तद्विशेषदर्शनात् सुज्ञानमर्थक्रियाज्ञानप्रामाण्यम्। कारणपरीक्षातो वा तस्मिन् प्रामाण्यं निश्चेष्यामः। यथोक्तं भवद्भिरेव `प्रयत्नेनान्विच्छन्तो न चेद्दोषमवगच्छेम तत्प्रमाणभावाददुष्टमिति मन्येमहि’ इति। तथा हि विषयस्य चलत्वसादृश्यादिदोषविरहः आलोकस्य मलीमसत्वादिकारणवैकल्यम्, अन्तःकरणस्य निद्राद्यदूषितत्वम्, आत्नः क्षुत्प्रकोपाद्यनाकुलत्वम्, ईक्षणयुगलस्य तिमिरपटलाद्यविकलत्वमित्यादि, स्वयञ्च कार्यद्वारेण परोपदेशेन च सर्वं सुज्ञानम्। अतो निरवद्यकारणजन्यत्वात् प्रमाणमर्थक्रियाज्ञानमिति विद्मः।
यद्येवं प्रथमे प्रवर्त्तके एव प्रत्यये कस्मात् कारणपरीक्षैवेयं न क्रियते, किमर्थं क्रियाज्ञाने? न। आयुष्मन् न आद्येऽपि ज्ञाने कारणपरीक्षायां क्रियमाणायां कः प्रमादः? किमेवं सतिस्वतःप्रामाण्यं सिद्ध्यति तव, मम वा परतः प्रामाण्यमपहीयते? किन्तु लोकः प्रवर्त्तकज्ञानानन्तरं फलप्राप्तिं प्रति यथा सोद्यमो दृश्यते न तथा तत्कारणपरीक्षां प्रति, फलज्ञानमेवेत्थं परीक्ष्यते। आद्यस्य हि ज्ञानस्य फलज्ञानादेव प्रामाण्यसिद्धिः। कश्च नाम निकटमुपायमुपेक्ष्य दूरं गच्छेदिति।
अथ संशयोत्पत्तिसामर्थ्यादेव यथार्थनिश्चयः फलज्ञानेन लप्स्यते। संशयो हि नाम द्वैविध्यदर्शनाद् विना न भवत्येव। न हि स्थाणुपुरुषसाहचर्यमूर्ध्वताख्यस्य धर्मस्य यो न जानाति स तं दृष्ट्वा स्थाणुर्वा स्यात् पुरुषो वेति संशेते। एवमूर्ध्वत्वाद् बाधरूपत्वस्य व्यभिचारित्वाव्यभिचारित्वाभ्यां सहदर्शनमवश्यमाश्रयणीयम्, अन्यथा तद्विषयसंशयानुत्पादाद्। अतः पूर्वमव्यभिचारित्वदर्शने सिद्धे यस्तदा तत्परिच्छेदोपायः स पश्चादपि भविष्यतीति सर्वथा सिद्ध्यत्यव्यभिचारित्वनिश्चयः। अनिश्चितप्रामाण्यादपि वा फलज्ञानात् प्रवर्त्तकस्य प्रामाण्यनिश्चयो युक्तः, न तु स्वत उत्पत्तौ प्रमाणतदाभासयोर्विशेषाग्रहणात्, फलज्ञाने च तद्विशेषप्रतिभासात्।
यत्तु तद् विशेषज्ञानमपि निश्चितप्रामाण्यमनिश्चितप्रामाण्यं वेति विकल्प्यानवस्थापादनम्, अप्रतिपत्तिप्रहतताकथनं वा, तद्दृष्टे विरुद्धत्वात् प्रलापमात्रम्, इत्यलमलीकोक्तविकल्पकलापनिर्मथनोदितदुरामोदास्वादन्न। स्थितमेतदर्थक्रियाज्ञानात् प्रामाण्यनिश्चय इति। तदिदमुक्तम् `प्रमाणतोऽर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यादर्थवत् प्रमाणम्’ इति। तस्मादप्रामाण्यमपि परोक्षमित्यतो द्वयमपि परत इत्येष एव पक्षः श्रेयन्।
यत्तु कश्चित् प्राज्ञमानी वदति अभ्यस्ते विषये स्वतः प्रामाण्यम्, अनभ्यस्ते तु परत इति, सोऽयमभ्यते विषये इति च ब्रवीति स्वतश्च प्रामाण्यं मन्यते इति स्वयमेवात्मानं वाच्यमानं न चेतयते। अभ्यासो हि नाम पुनः पुनः प्रयोगक्रियाभ्यावृत्तिः, विषयस्य चाभ्यस्तता भूयो भूयः प्रवृत्तिः। अतश्च स्वशरीरग्रहे, निजगृहकुड्यस्तम्भादिप्रतिभासे वा सहस्रकृत्वः प्रवृत्तिसंवादज्ञानजन्मना प्रामाण्यनिश्चय उक्तो भवति। स्वतोऽभ्यस्तत्वं चान्यथा न भवेदिति यत्किञ्चिदेतत्। तस्मात् परतः प्रमाण्यमिति सिद्धम्।
यत्पुनः कैश्चिच्चोद्यते, प्रमाणानां न परीक्षणमुपपद्यते। तद्धि प्रमाणैः क्रियेताप्रमाणैर्वा, प्रमाणैरपिपरीक्षितैरपरीक्षितैर्वा। तत्र न नाम प्रमाणपरीक्षणंशक्यक्रियम्। प्रमाणैरप्यपरीक्षितैः, तत्करणे वरं व्यवहार एव तादृशैः क्रियातां किं परीक्षणेन? परीक्षितैस्तु तत्परीक्षाकरणमपर्यवसितमनवस्थाप्रसङ्गादित्यादि, तदप्युक्तेन न्यायेन परिहृतं भवति। दृष्टे विषये प्रमाणपरीक्षां विनैव व्यवहारात्, अदृष्टे तु परीक्षाया अवस्यकर्त्तव्यत्वादुपपत्तेश्चेति।
तस्माददृष्टपुरुषार्थपदोपदेशि
मानं मनीषिभिरवश्यपरीक्षणीयम्।
प्रामाण्यमस्य परतो निरणायि चेति
चेतःप्रमाभिभिरलं कुविकल्पजालैः॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%पूर्वप्रत्ययापेक्षे%ति। व्यभिचारिता हि ज्ञानस्य दोषहेतुका, ते च सन्निकर्षविप्रकर्षापेक्षाः कारणं मिथ्याधियः। तत्र यदा विप्रकर्षाद् दोषेभ्यः मिथ्याधीस्तदासौ सन्निकर्षान्निवर्तते, मरीचिष्विव दूराज्जाता जलधीः सन्निकर्षात्तु मरीचिधीरेव; यत्र पुनः सन्निकर्षविप्रकर्षयोरपि तथात्वं तत्र सम्यक्त्वमेव। इतीयं सा पूर्वप्रत्ययापेक्षोत्तरा संवित्। संशयो हि साधर्म्यनिबन्धनो ज्ञाने विशेषदर्शनान्निवर्तते स्थाणाविव करपादादिविशेषदर्शनादित्यभिप्रायेणोक्तम् %विशेषदर्शनं वे%ति। %नातीव हृदयङ्गममि%ति। उत्तरस्या अपि संविदः कदाचिदसत्यर्थे समुत्पादाशङ्कसम्भवाद् विशेषदर्शनस्य चासत्यपि विशेष इति। तथा च विशेषधर्शनेऽपि संशीतिः क्वचित् कराद्यवयवावलोकरूपे, तथाहि `तस्याः पाणिरयं न कोमलदलश्चलत्यत्राङ्गुलिपल्लवः’ इत्यादौ संशय्य पश्चान्निश्चिनुते।
%विषयस्य चलत्वे%ति। चलत्वं मरीचिकादौ, सादृश्यं शुक्तिकादौ।
%अतःपूर्वमव्यभिचारित्वदर्शने सिद्ध% इति। किञ्चित् फलज्ञानमव्यभिचारि दृष्टम् किञ्चिच्च व्यभिचारि यदा तदा तृतीये ज्ञाने संशयः। तत्र यदव्यभिचारि दृष्टं तस्य यथा अव्यभिचारित्वग्रहस्तथा अस्यापि इति भावः।
%यत्तु तद्विशेषज्ञानमपी%ति। अर्थक्रियायां यद्विशेषज्ञानांशे च आचमनादिकार्यकलापज्ञानं प्रागुदाहृतं तदपिज्ञानत्वादन्यतो निश्चितप्रामाण्यमिति तन्निश्चायकस्याप्यन्यतः प्रामाण्यनिश्चय इत्यनवस्था। अर्थक्रियाज्ञानप्रामाण्याद्वा तत्प्रामाण्यनिश्चये इतरेतराश्रयत्वम्, तत्प्रामाण्यादर्थक्रियाज्ञानप्रामाण्यम् अर्थक्रियाज्ञानप्राणाण्याच्च तत्प्रामाण्यम्। एतदेव %`अप्रतिपत्तिप्रहतताकथनं वा’% इत्यनेनोक्तम्,इतरेतराश्रयत्वे हि एकाप्रतिपत्तावितराप्रतिपत्तिरिति। %प्रमाणतोऽर्थप्रतिपत्तावि%ति। प्रमाणादर्थप्रतिपत्तिस्ततः प्रवृत्तेश्च सामर्थ्यं फलाभिसम्बन्धस्ततोऽर्थवत् प्रमाणं ज्ञायते, अर्थसहकारित्वेन ज्ञायते प्रमाणतया ज्ञायत इत्यर्थः।
%प्रयोगक्रियाभ्यावृत्तिरि%ति। यथा `द्विर्भुक्तः’ इति भोजनस्य या प्रयोगक्रियाऽनुष्ठानसम्पादनं तस्याभ्यावृत्तिः पौनःपुन्यम्।
%परीक्षितैस्तु तत्परीक्षाकरणमि%ति। यैः प्रमाणैः परीक्षितैः परीक्षा क्रियते तेषामपि परीक्षितानां प्रमाणानां परीक्षाकारीणि प्रमाणानि अप्रमाणानि वा? अप्रमाणैः परीक्षाकरणमयुक्तम्, प्रमाणैश्चैतेषामपि प्रामाण्यपरीक्षणमन्यत इति अनवस्था।
%प्रामाण्यमस्य निरणायि% निश्चितम्।
न्यायम़ञ्जरी :–
%प्रभाकरमतेऽख्यातिवादेन परतः पारमाण्यखण्डनम्%
सुशिक्षितास्त्वाचक्षते,युक्तं यदमी मीमांसकपाशाः काशकुसुमराशय इव शरदि मरुद्भिरतिदूरात् समुत्सार्यन्ते दुष्टतार्किकैः। ये हि किलाभ्युपयन्ति च विपरीतख्यातिवादमकृतास्त्राः, प्रामाण्यञ्च स्वत इति च वदन्ति तेषां कुतः कौशलम्, विपरीतख्यातावभ्युपगम्यमानायां बाध्यबोधसन्दर्भसुभिक्षे सति तत्साधर्म्यादनुत्पन्नबाधकेऽपि बोधे दुष्परिहरः संशयः, संशये च संवादाद्यन्वेषणमपि ध्रुवमवतरतीति परतः प्रामाण्यमनिवार्यम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%सुशिक्षितास्त्वि%ति प्राभाकरान् निर्दिशति।
न्यायमञ्जरी :–
%तन्मते ज्ञानानामबाध्यत्वात् प्रमाण्यं स्वत एव%
यदा तु न बाध्यो नाम जगति कश्चिदपि बोधस्तदा किंसाधर्म्यात् संशेरतां प्रमातारः? असंशयानाश्च किमिति परमपेक्षन्ताम्? अनपेक्षमाणाः कथं परतः प्रामाण्यं प्रतिपद्यन्ताम्? इति निश्चलं स्वत एव प्रामाण्यमवतिष्ठते।
कथं पुनर्वाध्यो नाम नास्ति बोधः? शुक्तिकादौ रजतादिप्रत्ययाः प्राचुर्येण बाध्यमाना दृश्यन्ते। अनभिज्ञो भवान् न हि ते बाध्याः प्रत्ययाः। इदं हि निरूप्यतां क इवोत्तरज्ञानेन पूर्वज्ञानस्य बाधः. बाधार्थमेव न विद्मः। यदि तावन्नाश एव बाधः स न तेषामेव, बुद्धेर्बुद्ध्यन्तराद् विरोध इति सकलबोधसाधारणत्वात्। अथ सहनवस्थानम्, तदपि समानम्, अबाधितानामपि ज्ञानानां सहावस्थानासम्भवात्।
अथ संस्कारोच्छेदो बाधः? सोऽपि तादृगेव, सम्यक्प्रत्ययोपजनितसंस्कारस्याप्युच्छेददर्शनात्. कश्चिद् भवदभिमतबाध्यबोधाहितोऽपि संस्कारः सत्यपि बाधकप्रत्यये नोच्छेदमुपगच्छति कालान्तरे तत्कारणकतद्विषयस्मरणदर्शनात्।
अथ विषयस्यापहारो वाधः? स तात्कालिकः कालान्तरभावी वा? कालान्तरभावितदभावग्रहणस्य बाधकत्वे प्रागवगतमुद्गरदलितघटाभावग्राहिणोऽपि विज्ञानस्य तद्बाधकत्वप्रसङ्गः। तदैव तु तदभावग्रहणे प्रत्ययद्वयसमर्पितरूपद्वितययोगादुभयात्मकमेव तदस्तु वस्तु किं कस्य बाधकं वा।
अथ फलापहारो बाधः? सोऽपि न सम्भवति,संविदः प्रमाणफलस्य उत्पन्नत्वेनानपहरणीयत्वात्। न हि यदुत्पन्नं तदनुत्पन्नमिति वदति बाधकः।
अथ हानादिफलापहारो बाधः? न, तस्य प्रमाणफलत्वाभावात्।
हानादिव्यवहारो हि पुरुषेच्छानिबन्धनः।
न तेनापहृतेनापि प्रमाणं बाधितं भवेत्॥
तस्मान्न बाधो नाम कश्चित्। इतश्च नास्ति, स हि समानविषययोर्वा ज्ञानयोरिष्यते भिन्नविषययोर्वा? न समानविषययोर्धारावाहिज्ञानेष्वदृष्टत्वात्। नापि भिन्नविषययोः, स्तम्भकुम्भोपलम्भयोस्तदनुपलम्भात्। यदि चोत्तरेण ज्ञानेन पूर्वज्ञानेन गृहीतादर्थादर्थोऽन्य इदानीं गृहीतस्तत् पूर्वज्ञानं किमिति बाधितमुच्यते?
अपि च पूर्वस्मिन् प्रत्यये प्राप्तप्रतिष्ठे सति आगन्तुरुत्तरः प्रत्ययो बाधितुं युक्तं न पूर्वो, न चैवं दृश्यते। तस्मान्न बाध्यं नाम विज्ञानमस्ति, तदभावान्न तत्साधर्म्यनिबन्धनः संशयः, तदभावात् संवादाद्यनन्वेषणान्न परतः प्रामाण्यम्।
न्यायमञ्जरी :–
%विपरीतख्यातौ शह्कान्तरम्%
न्वेवं बाधेऽपि निराक्रियमाणे किममी शुक्तिकारजतादिग्राहिणो विपरीतप्रत्यया अबाधिता एवासताम्? आः कुमते ! नामी विपरीतप्रत्ययाः, न हीदृशानां विपर्ययाणामुत्पत्तौ किमपि कारणमुत्पश्यामः। न तावदिन्द्रियम्, एवं विधबोधविधायिभवितुमर्हति, सर्वदा तदुत्पादप्रसह्गात्। नापि दोषकलुषितं दुष्टं कारणं स्वकार्यकरणे एव कुण्ठितशक्ति जातमिति तदेव मा जीजनत्, विपरीतकार्यकरणस्य किं वर्त्तते, न हि दुष्टानि शालिबीजानि यवाङ्कुरकरणकौशलमवलम्बेरन्। तस्मात् कारणाभावादपि न विपरीतप्रत्ययास्ते।
तत्किं सम्यक्प्रत्यय एव शुक्तिकायां रजतप्रतिभासः? अयि मूढ! नायमेकः प्रत्यय इदं रजतमिति, किन्तु द्वे एते ग्रहणस्मरणे, इदमिति पुरोऽवस्थितभास्वराकारधर्मिप्रतिभासः, रजतमिति तु भास्वररूपदर्शनप्रबोध्यमानसंस्कारकारणकं तत्साहचर्यादवगतरजतस्मरणम्। अतश्चेदं स्मरणं यतः प्रागनवगतरजतस्य न जायते, विदितरजतस्यापि रजन्यामन्यदा वा सादृश्यदर्शनाद् विना न भवतीति। स्मरणमपि भवदिदमात्मानं तथा न प्रकटयतीति प्रमुषितमुच्यते। स्वरूपेण चाप्रतिभासमनायां स्मृतावनुभवस्मरणयोर्विवेको न गृहीतो भवतीत्यग्रहणमख्यातिरुच्यते।
तथा हि भ्रान्तबोधेषु प्रस्फुरद् वस्तुसम्भवात्।
चतुष्प्रकारा विमतिरुपपद्येत वादिनाम्॥
विपरीतख्यातिः, असत्ख्यातिः, आत्मख्यातिरख्यातिरिति तत्र विपरीतख्यातिस्तावत् कारणाभावादेव निरस्ता।
न्यायमञ्जरी :–
%तत्रैव शङ्कान्तरम्%
अपि च विपरीतख्यातौ त्रयी गतिः,रजतं वाऽन्यदेशकालमत्रालम्बनम्, शुक्तिका वा निगूहितनिजाकारा सती परिगृहीतरजताकारा च। अथवा अन्यदालम्बनमन्यश्च प्रतिभाति,आलम्बनं शुक्तिका रजतञ्च प्रतिभातीति। तत्र यदि रजतमालम्बनं तदियमसत्ख्यातिरेव न विपरीतख्यातिः, असतस्तत्र रजतस्य प्रतिभासात्।
अथान्यदेशकालं तदस्त्येवेत्यभिधीयते।
इहासन्निहितस्यास्य तेन सत्त्वेन को गुणः॥
अपि च देशकालावपि किं सन्तौ प्रतिभासेते उतासन्ताविति। यदि सन्तौ तर्हि तद्देशकालमेवेदं रजतमवभातमिति न भ्रान्तिरेषा स्यात्। असन्तौ तूभावपि रजतवन्नालम्बनं भवितुमर्हतः।
अथ स्मत्यारूढं रजतमस्यां प्रतीतौ परिस्फुरतीत्युच्यते? तर्हि स्मृत्युपारूढमिति कोऽर्थः? स्मरणमपि ज्ञानमेव तदपि कथमसदर्थविषयं स्यात्? स्मृतेरनर्थजत्वमेव स्वरूपमिति चेद्, अस्तु, कामं तत्सामान्यादत्राप्येवं प्रयोग इत्येतदपि तावन्न ब्रूमः। तथा त्वनर्थजन्यया स्मृत्या सोऽर्थः कथमिह सन्निधापयितुं पार्यते? सा हि न स्पृशत्येवाऽर्थम्। तस्मादसन्निहितरजतालम्बना विपरीतख्यातिरसत्ख्यातेर्न्न विशिष्यते एव।
अथ स्थगितनिजवपुरुपगृहीतरजतरुपा शुक्तिकात्र प्रकाशते इतिनेयमसत्ख्यातिरुच्यते। तदिदमपूर्वं किमपि नाटकम् `इयमस्मि कृत्यासीता संवृत्ते’ति। तथाहि किमत्र शुक्तीतिप्रतीतिरुत रजतमिति, शुक्तिकाप्रतीतौतुशुक्तिरेव न रजतमत्र भ्रमार्थः कः? रजतप्रतीतौ तु शुक्तिरसावित्यत्र किं प्रमणम्? बाधकप्रत्ययादेवमदिगतम् इति चेन्मैवम्, न हि ज्ञानान्तरेणास्याः प्रतीतेर्विषयो व्यवस्थापयितुं युक्तः। बाधकेन हि ज्ञानेन पूर्वज्ञानगृहीतस्य वस्तुनोऽसत्त्वं नाम ख्याप्यतां न तु तस्यविषयोनिरूप्यते। अनर्थित्वाद्वा कदाचिदप्रवृत्तस्य पुंसो बाधकानुत्पत्तौ कोऽस्याः प्रतीतेर्विषयं व्यवस्थापयिष्यति? तस्माद् यदेवास्यां चकास्ति तदेव रजतमस्या विषय इति युक्तं वक्तुम्, शुक्तिस्तु निगूहितनिजवपुरिति दुर्विदग्धवाचोयुक्तिरियम्।
ये त्वालम्बनतां शुक्ते रजतस्यावभासनम्।
वदन्त्यस्मिन् म्रमज्ञाने तेषामतितरां भ्रमः॥
न ह्यालम्बनता युक्ता सन्निधाननिबन्धना।
तत्रैव भूप्रदेशस्य तथाभावप्रसङ्गतः॥
तदेवालम्बनं बुद्धेर्यदस्यामवभासते॥
अन्यदालम्बनं चान्यद्भातीति भणितिर्नवा॥
अतो रजतमेवैतद् बुद्धिग्राह्यमसच्च तत्।
एवं विपर्ययख्यातिरसत्ख्यातेर्न भिद्यते॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%इयमस्मि कृत्या सीता संवृत्ते%ति। कृत्यारावणाख्यनाटकोक्तं वस्तूपहासपरत्वेन निर्दिशति। तत्र हि जातवेदसा रावणवधाय कृत्योत्थापिता सा रावणागमनसमये रवरूपतिरोधानेन सीतारूपा संवृत्ता `इयमस्मि कृत्या सीता संवृत्ता’ इत्यभिधाय।
न्यायम़ञ्जरी :–
%असत्ख्यातिस्वरूपम् तन्निरासश्च%
तत्किमसत्ख्यातिरेव साधीयसी? तामेवाभ्युपगच्छामः? मैवम्। सापि नोपपद्यते एव। असत्ख्यातिरिति कोऽर्थः? कमेकान्तासत एवार्थस्य प्रथनम्, अथ देशान्तरादौ विद्यमानस्येति? उत्तरस्मिन् पक्षे विपरीतख्यातिरेवैषा, परैरपि तत्र रजतस्य सत्त्वानभ्युपगमात्। देशान्तरादौ तु तत्सत्तायास्त्वयापि प्रतिपन्नत्वाद्। एकान्तासतस्त्वर्थस्य ख्यातिरिति न पेशलम्, आकाशनलिनीपल्लवादेरप्रतिभासनात्। वासनाभ्यासादसतामपि प्रतिभासा भविष्न्तीति चेद्, न। अर्थमन्तरेण वासनाया अप्यनुपपत्तेः। अर्थानुभवसमाहितो हि संस्कारो वासना कथ्यते, सा कथमसदर्थप्रतिभासहेतुः स्यात्? भवत्वनया वा भवदभिमता काचन वासना, अपि त्वसत्त्वाविशेषे किमिति रजतमितिम् उपजनयति न गगननलिनीप्रतीतिमिति कुतस्त्यो नियमः? तदलमनया।
नात्यन्तमसतोऽर्थस्य सामर्थ्यमवकल्पते।
व्यवहारधुरं वोढुमियतीमनुपप्लुताम्॥
न्यायमञ्जरीग्रन्थिभङ्गखाव्या :–
%भवत्वि%त्यादि। अनाद्यविद्यायाता असत्यरूपप्रदर्शनशक्तिर्विज्ञानस्य वासना, यत्सम्बन्धादात्मानं प्रदर्शयद् विज्ञानमसन्तमपि बाह्याकारं दर्शयतीति बौद्धाः।
न्यायमञ्जरी :–
%आत्मख्यातिस्वरूपम् तन्निरासश्च%
अपि च सत्त्वेन प्रतिभातीति असत्ख्यातिरपि न विपरीतख्यातिमतिवर्त्तते। तस्माद्वरमात्मख्यातिरस्तु।
विज्ञानमेव खल्वेतद् गृह्णात्यात्मानमात्मना।
बहिर्निरूप्यमाणस्य ग्राह्यस्यानुपपत्तितः॥
बुद्धिः प्रकाशमाना च तेन तेनात्मना बहिः।
तद्वहत्यर्थशून्यापि लोकयात्रामिहेदृशीम्॥
उच्यते, नात्मख्यातिरपि युक्तिमती, विज्ञानात्मनो हि प्रतिभासेऽहं रजतमिति प्रतीतिः स्याद् नेदं रजतमिति। किञ्च `यदन्तर्ज्ञेयरूपं हि बहिर्वदवभासते इत्यभ्युपगमादियमपि विपरीतख्यातिरेव स्यात्। असत्ख्यातिरपि चेयं भवत्येव बहिर्बुद्धेरसम्भवात्। बुद्धिरस्त्येवेति चेद्, बहिष्ट्वं तर्हि चिन्त्यं सदसत्त्वादिति। न तावत्सद्, बुद्धेर्बाह्यत्व्यभावात्, असत्त्वे त्वसत्ख्यातिरित्युक्तम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%यदन्तर्ज्ञेयरूपं ह्री%त्यस्योत्तरम्–`सोऽर्थो विज्ञानरूपत्वात् तत्प्रत्ययतयापि वा’ इति। तदेव विज्ञानं प्रत्ययः कारण यस्यासौ तत्प्रत्ययः, तस्य भावः तत्प्रत्ययता, तथा। %बहिर्बुद्धेरसम्भवादि%ति। बहिःप्रतिभासस्तावदवश्याभ्युपेयः, बहिश्च बुद्ध्रिनास्तीति बलादसत्ख्यातिवादापत्तिः।
न्यायम़ञ्जरी :–
%अख्यातिस्वरूपम्%
तस्मात् ख्यातित्रयेऽप्यस्मिन्नन्योऽन्यानुप्रवेशिति।
युक्त्या विरुध्यमाने च श्रेयस्यख्यातिरेव सा॥
ख्यातित्रयवादिभिरपि चेयमप्रत्याख्येया नूनमख्यातिः, आत्मख्यातौ तावदात्मतया विज्ञानस्य ख्यातिर्नास्ति विच्छेदप्रतिभासादित्युक्तत्यात्, असत्ख्यातावपि असत्त्वमर्थस्य नैव प्रतिभासते प्रवृत्त्यादिव्यवहारोच्छेदप्रसङ्गात्, विपरीतख्यातावपि रजतस्य सन्निहितस्य ज्ञानजनकत्वम्, अजनकस्य च प्रतिभासो नेष्यते एव, तत्र त्मृत्युपस्थापितं रजतमवगतिजनकमुपगतम्, अतश्च रजतस्मृतिरपरिहार्या, सा च रजतस्मृतिर्न तदा स्वेन रूपेण प्रकाशते स्मरामीति प्रत्ययाभावात्।
तस्मात् प्रमुषितामेनां स्मृतिमिच्छन्ति, तार्किकाः।
अभ्यस्ते विषये लिङ्गप्रतिबन्धां स्मृतिं यथा॥
सोऽयंस्मृतिप्रमोषस्तत्त्वाग्रहणमख्यातिरुच्यते।
एवंसतीयमख्यातिरिष्यते सर्ववादिभिः।
तथा प्रकटयद्भिस्तु पीतं प्राभाकरैर्यशः॥
ननु रजतमिति स्मृतेः स्वरूपोल्लेखो मा भूद् इदमित्यत्र पुरोऽवस्थितधर्मिप्रतिभासात् कथमख्यातिः? उच्यते, न पुरोऽवस्थितोधर्मी शुक्तिकेयमिति स्पष्टतया गृह्यते, तथा चाभ्युपगमे भ्रमाभावप्रसङ्गात्। किन्तु तेजस्वितादिविपरीतं धर्मिमात्रमवभासते। धर्मसारूप्याच्च तदानीं रजतं स्मर्यते। ते एते ग्रहणस्मरणे विविक्ते अपि विविक्ततया न गृह्येते इति विवेकाग्रहणमख्यातिः, न तु सर्वेण सर्वाप्रतिपत्तिरेव। व्यधिकरणयोश्च ग्रहणस्मरणयोर्वैयधिकरण्यं चेन्न गृहीतं किमन्यदस्तु सामानाधिकरण्यात्? न तु यदेवेदं तदेव रजतमितिसामानाधिकरण्येन ग्रहणमस्ति, सा हि विपरीतख्यातिरेव स्यात्। वैयधिकरण्यानुपग्रहादेव प्रमातुः प्रवृत्तिः, अविवेकातृसाधारण्याभिमानेन प्रवृत्तिरिति, फलत इयं वाचीयुक्तिः
सामानाधिकरण्येन केचित्तत्पृष्ठभाविनम्।
परामर्शमपीच्छन्ति तन्न श्रद्धध्महे वयम्॥
अख्यातिपक्ष एवं हीयेतैकत्ववेदनात्।
वक्रैश्च वितथा ख्यातिरक्षरैः कथिता भवेत्॥
नन्वेवमख्यातिपक्षे प्रतिष्ठाप्यमाने नेदं रजतमिति पूर्वावगतरजतप्रतिबोधरोधी बाधकप्रत्ययो दृश्यमानः कथं समर्थयिष्यते? अप्रतीतिज्ञो देवानां प्रियः। न ह्यनेन रजतनिषेधो विधीयते किन्तु प्रागगृहीतो विवेकः प्रख्याप्यते, न इदं रजतम्, यदेवेदं तदेव रजतमित्येतन्न, इदमिदं रजतं रजतम्। एतदुक्तं भवति इदमन्यद्रजतमन्यदिति सोऽयं विवेकः ख्यातितो भवति।
नन्वेवमिदं रजतमित्यादौ स्मरणानुभवयोर्भवतु विवेकाग्रहणं स्वप्ने तु कथमेतद्भविष्यति? भीरोः! किं जातं स्वप्ने?
विवेकेन न गृह्येते स्मरणानुभवौ क्वचित्।
स्वप्ने तु स्मृतिरेवैका तथात्वेन न गृह्यते॥
सदृशदर्शनाद् विना स्मृतिरेवकुतस्त्येति चेद्, नानाकारणकत्वात् स्मरणस्य निद्राकषायितमप्यन्तःकरणं स्मरणकारणं भवत्येव। यद्येवं द्विचन्द्रतिक्तशर्करादिप्रत्ययेषु कथं स्मृतिप्रमोषः? आः कुण्डशेषखर ! कथमसकृदभिहितमपि न बुध्यसे?
न सर्वत्र स्मृतेरेव प्रमोषोऽभ्युपगम्यते।
किं त्वख्यातिरतश्चासौ कथञ्चित् कस्यचित् क्वचित्॥
भवत्यनुभवस्मृत्योर्विवेकाग्रहणं क्वचित्।
क्वचित्तु स्मर्यमाणस्य तथात्वेनानुपग्रहः॥
द्विधा कृता क्वचिद् वृत्तिर्न्नेत्रस्य तिमिरादिना।
न हि ग्रहीतुमैक्येन शक्नोति शिशिरत्विषम्॥
क्वचिद्रसनसम्पृक्ते पित्ते तिक्तत्ववेदनात्।
परिच्छेत्तुं न शक्नोति माधुर्यं शर्करागतम्॥
गृह्णाति यत्तु तिक्तत्वं वस्तुतः पित्तवर्त्ति तत्।
तथा तु न विजानाति निगिरन्नेष शर्कराम्॥
एतेन पीतशङ्खादिभ्रान्तयोऽपि व्याख्याताः।
तदेवं सति सर्वत्र सम्यगग्रहणं भ्रमः।
न मिथ्याप्रत्ययः कश्चिदस्ति शङ्कानिबन्धनम्॥
तस्मान्न कश्चित् परतः प्रामाण्यमधिगच्छति॥
एवं स्वतः प्रमाणत्वे सिद्धे वेदेऽपि सा गतिः।
अपवादद्वयाभावो वक्तव्यश्चात्र पूर्ववत्॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%तस्मात् प्रमुषितामेनां स्मृतिमिच्छत्ति तार्किकाः।% अभ्यस्ते विषयेऽविनाभावस्मृतिवदिति योजना।
%सर्वेण% सर्वं सर्वात्मना।
%सामानाधिक्रण्येन केचिदि%ति। “यदा वैयधिकरण्यानवभासरतदा सामानाधिकरण्यभ्रमः, तन्निबन्धनः परामर्शोऽपि `तथा चेदं रजतजातीयम्’ इति यदि भवेत्तथाऽपि नास्मत्पक्षक्षतिः प्रवृत्त्यादिव्यवहारवत् सोऽपि भवतु यद्यनुबूयते” इति केचित् प्राभाकराः। रजतज्ञानानन्तरं तदुपकारितास्मरणम्, ततः परामर्शः।
%एतेन पीतशङ्खादिभ्रान्तय% इति। कामलोपहतं चक्षुः स्वगतं पीतत्वं गृह्णच्छंखगतं शुक्लत्वं ग्रहीतुं न शक्नोति स्वगतञ्च पीतत्वं स्वगतत्वेन न गृह्णाति।
न्यायम़ञ्जरी :–
%अख्यातिनिषेधेन विपरीतख्यात्युपपादनम्%
अत्र प्रतिविधीयते, यदुक्तमिदं रजतमिति स्मरणानुभवस्वभावे विवेकेनागृह्यमाणे द्वे एते ज्ञाने इति तदसाम्प्रतम्, प्रत्यभिज्ञावदेकत्वेनैव संवेद्यमानत्वात्। यदेवेदं पुरोऽवस्थितं भास्वररूपाद्यधिकरणं धर्मिसामान्यं तदेव रजतमिति विशेषतः प्रतिपद्यते, यदिदमग्रतः स्थितं तद्रजतमिति सत्यरजतप्रतीतिवत्। अनुभूततया हि न रजतमत्र प्रकाशते किन्त्वनुभूयमानतया। अनुभूतताग्रहणं हि स्मरणमुच्यते नानुभूयमानताग्रहणम्। स्वप्रकाशा च संवित्तिरिति भवतां दर्शनम्, तत्रैषा रजतसंवित्तिः केन रूपेण प्रकाशतामिति चिन्त्यम्। यदि स्मरणात्मना कः प्रमोषार्थः? अथानुभवात्मना तदियं विपरीतख्यातिरेव, स्मृतेरनुभवत्वेन प्रतिभासात्। अथ संविन्मात्रतयैव प्रकाशते? तदपि न युक्तम्। रजतविषयोल्लेखात्, स्मरणानुभवविशेषरहितायाश्च विषयसंवित्तेरनुपपत्तेः। न चेयमप्रतिपत्तिरेवेति वक्तुमुचितम्, मदमूर्च्छादिदशाविसदृशस्वप्रकाशसंवेदनानुभवात्, यथा इदमित्यंशे स्वप्रकाशं संवेदनं तथैव रजतमित्यत्रापि।
अपि च द्वयोश्चांशयोः समाने संवेदने तत एकं प्रत्यक्षलब्धमपरं स्मरणफलमिति कुतस्त्यो विभागः? इदमित्यत्र च किमवभासते इति निरूप्यम्। यदि शुक्तिकाशकलं सकलस्वघतविशेषखचितमवभाति तदा तद्दर्शने सति रजतस्मरणस्य कोऽवसरः? भवदपि वा सादृश्यकृतं स्मरणं न तदविवेकाय कल्पते देवदत्तदर्शनानन्तरोद्गततत्सदृशपुरुषान्तरस्मरणवत्।
अथ धर्मिमात्रमिदमितिप्रत्यये प्रतिभाति न शुक्तिकाशकलम, तद्बाढमिष्यते। तदेव चेदं सामान्यधर्मग्रहणवशविरुद्धसंस्कारोपनिबन्धनविरुद्धविशेषस्मरणकारणकमिदं रजतमिति सामान्योपक्रमे विशेषपर्यवसानं ज्ञानम्, यदिदं तद्रजतमिति सामानाधिकरण्यावमर्शात्, रजतानुभवाभिमानेनैव च रजतार्थी तत्र प्रवर्त्तते।
ननु स्मरणानुभवयोर्विवेकमप्रतिपद्यमानः प्रवर्त्ततेइत्युक्तम्, श्रुतमिदं यत् अत्र भवद्भिर्धर्मकीर्त्तिगृहादाहृतं दृश्यविकल्पावर्थावेकीकृत्य प्रवर्त्तते इति। किञ्च चौर्यमपीदं न कथञ्चन स्वार्थं पुष्णाति, यावद्धि दृश्यं गृहीतमिति न जातः प्रत्ययस्तावत् कथं दृश्यार्थिनस्तत्र प्रवृत्तिः। एवमिहापि यावद्रजतं गृहीतमिति न जातः प्रत्ययस्तावत् कुतस्तदर्थिनां प्रवृत्तिः। तस्मादस्ति रजतग्रहणं न तु तत्स्मरणप्रमोषमात्रम्।
ननु रजतस्मरणं विपरीतख्यातिवादिभिरप्यङ्गीकृतमित्युक्तम्, सत्यम्, रजतगतविशेषस्मरणमभ्युपगतम्। यथा हि पुरोऽवस्थिते धर्मिण्यूर्ध्वत्वादिसाधारणधर्मग्रहणात् स्थाणुपुरुषगतविशेषाग्रहणादुभयविशेषस्मृतेः संशयो भवति एवमिहापि तेजस्वितादिसामान्यधर्मग्रहणाद् विशेषाग्रहणाद् रजतगतविशेषस्मृतेश्च तस्मिन् धर्मिणिरजतप्रत्ययो भवति विपर्ययात्मकः। संशये ह्युभयविशेषस्मरणं कारणम्, इह त्वन्यतरविशेषस्मरणमिति विशेषः। अत एव चागृहीतरजतस्येदं ज्ञानं नोत्पद्यते, सदृशाग्रहणे वा निशीथादाविति, न त्वेतावता स्मरणमात्रमेवेदमिति इयति विरम्य स्थातव्यम्, स्मरणजन्यस्य विपर्ययप्रत्ययस्यापि संवेदनात्। अत एव तत्पृष्ठभाविपरामर्शवादिनो वरं सत्यवाचः, ते हि प्रतिभासं न निहनुवते।
यत्तु विपर्ययावगतेः कारणं विकल्पितं तत्रोक्तमेव प्रामाणिकैः
कार्यञ्चेदवगम्येत किं कारणपरीक्षया।
कार्यञ्चेन्नावगम्येत किं कारणपरीक्षया॥
कार्याकस्मिकतानुपपत्तेश्च कल्प्यतांकारणम्, तच्च क्लृप्तमेव, दोषसहितमिन्द्रियं यथा संस्कारसहकारि प्रत्यभिज्ञायामिति।
सुवते शालयो दुष्टा न यद्यपि यवाङ्कुरम्।
शालिकार्यं त्वपूपादि जनयन्त्येव कल्मषम्॥
तस्माद् दोषकलुषितादिन्द्रियात् पुरोऽवस्थितधर्मिगतत्रिकोणत्वादिविशेषावमर्शकौशलशून्यात् सामान्यधर्मसहचरितपदार्थान्तरगतविशेषस्मरणोपकृताद् भवति विपरीतप्रत्ययः. सम्यग्ज्ञानापेक्षया च तद् दुष्टमुच्यते। स्वकार्ये तु विपर्ययज्ञाने तत्कारणमेव, न दुष्टम्। तस्माद् रजतमित्यनुभव एव, न प्रमुषितस्मृतिः।
अपि च नेदं रजतमिति बाधकज्ञानं पूर्वानुभवविषयीकृतरजतनिषेधमधिगमयद् उत्पद्यते नेदं रजतमिति, यदहमद्राक्षं तद्रजतं न भवतीति। प्रसक्तस्य चायं निषेधः, अननुभूतन्त्वप्रसक्तमपि प्रतिषिध्यमानं रजतमिव कनकमपि किमिति न प्रतिषिध्यते?
यत्तु व्याख्यातं प्रागनवगतस्मरणानुभवविवेकप्रतिपादकं बाधकज्ञानमिति, तद्व्याख्यानमात्रमेव, तथाननुभवात्। न ह्येवं बाधक उद्घाट्यते यदविविक्तं तद्विविक्तमिति, अतो यत्किञ्चिदेतत्। तस्मान्न रजतस्मरणं रजते वा कदाचिदनुभवोऽभूदिति स्मरणमभिधीयमानं नात्यन्तमलौकिकम्। स्वप्ने तु स्वशिरश्छेदादेरत्यन्ताननुभूतस्य स्मृतिरिति कथ्यमानमेव त्रपाकरम्। जन्मान्तरे निजमस्तकलवनमनुभूतमनेनेति चेद्, इदमपि स्वभाषितमसारम्। यज्जन्मान्तरानुभूतं स्मर्यते तत्र च कुतस्त्य एष नियमो यत् कदाचिदेव स्मर्यते न सर्वदा सर्वमिति?
ननु भवताप्यसत्ख्यातिं निरस्यता स्वप्नज्ञानेषु तादृक्षु किं वक्तव्यम्? यदू वक्तव्यं तत्रैव श्रोष्यसि। असन्न प्रतिभातीत्युच्यते न त्वननुभूतमिति।
नन्वननुबूतं सत् कथं जानीषे सदिति चेद्, ज्ञानं तदनुभूतमिति, मैवम्। मया तन्नानुभूतम्, अन्येनानुभविष्यते, परानुभूतञ्च सदिति शक्यते वक्तुम्। परानुभूतेन स्मरणमघटमानमिति नावयोरत्र वस्तुनि समानयोगक्षेमत्वम्।
अपि च भवन्मते स्वप्नस्मृतेः स्मृतित्वेनाग्रहणे केन रूपेण ग्रहणमिति चिन्त्यम्। पूपान्तरेण ग्रहणे विपरीतख्यातिः सर्वात्मना त्वग्रहणे स्वप्नसुषुप्त्योरविशेषप्रसङ्गः। अनुभवप्रत्ययश्च स्वप्ने संवेद्यते न स्मरणानुल्लेखमात्रमिति दुरभिनिवेश एव स्मृतिप्रमोषसमर्थनं नामेति। द्विचन्द्रादिप्रत्ययेषु कथमख्यातिः?
ननूक्तं सुषिरभिन्ना नयनवृत्तिरेकत्वेन ग्रहीतुं न शक्नोति शशाङ्कमिति। भोः श्रोत्रिय! तादृशी दृशोर्वृत्तिरेकत्वमिन्दोर्मा ग्रहीद् द्वित्वानुभवन्तु भ्रान्तं क्व प्रच्छादयामः? ननु चक्षुर्वृत्तौ तद् द्वित्वं तद्गतत्वेन तु यत् तस्याग्रहणं स एव भ्रमः। नैतदेवम्। नेत्रवृत्तेः सर्वत्र परोक्षत्वात्।
किमेकचन्द्रबोधेऽपि वृत्त्येकत्वं प्रतीयते।
इदं ह्यगृह्यमाणैव चक्षुर्वृत्तिः प्रकाशिका॥
एवमुच्यमाने च ऐकचन्द्रग्रहणेऽपि वृत्त्येकत्वाग्रहणादख्यातिरेव भवेत्।
यदपि तिक्तशर्करादिप्रत्ययेष्वख्यातिसमर्थन-कदाशया पित्तवृत्तेस्तिक्तत्वस्य संवेद्यमानस्य तत्स्थत्वेनाग्रहणमुपवर्णितं तदपि कुशकाशावलम्बनप्रायम्।
मोहात् पित्तगतत्वेन तिक्तता चेन्न गृह्यते।
मा ग्राहि शर्करायान्तु किंकृता तिक्ततामतिः॥
पित्तं त्विन्द्रियर्स्थं तिमिरवदगृह्यमाणमपि भ्रममुपजनयति शरीरस्थमिव ज्वरं शिरोर्त्त्यादि रोगमित्यलं प्रसङ्गेन।
एवं सर्वत्र नाख्यातिनिर्वहन्तीव लक्ष्यते।
न चैतयापि परतः प्रामाण्यमपहन्यते॥
रजतेऽनुभवः किंस्यादुत प्रमुषिता स्मृतिः।
द्वैविध्यदर्शनादेवं भवेत्तत्रापि संशयः॥
संशयानश्च संवादं नूनमन्वेषते जनः।
तदपेक्षाकृतं तस्मात् प्रमाण्यं परतो ध्रुवम्॥
न चैष शून्यवादस्य प्रतीकारक्रियाक्रमः।
अनर्थजा हि निर्दग्धपित्रादौ भवति स्मृतिः॥
दृष्टान्तीकृत्य तामेव शून्यवादः समुत्थितः।
भ्रमापह्नवमात्रेण प्रतुहन्तुं न शक्यते॥
अथास्ति काचित् परतः प्रामाण्यस्य निषेधिका।
शून्यवादस्य या युक्तिः सैव वाच्या, किमेतया॥
तस्माद्यथार्थमस्याः संश्रयणं तन्निषिद्धमख्यातेः।
संविद्विरोध एव प्रकटित इति धिक् प्रमादित्वम्॥
तदुक्तम्
कृतश्च शूलविध्वंसो न चानङ्गश्च सङ्गतः।
आत्मा च लाघवं नीतस्तच्च कार्यं न साधितम्॥
यत्पुनर्विपरीतख्यातौ पक्षत्रयमाशङ्क्य दूषितं तदपि न युक्तम्। अस्तु तावदयमेव पक्षः रजतमालम्बनं तदेव चास्यां प्रतीतौ परिस्फुरतीति।
नन्वत्र चोदितम् असत्ख्यातिरेव सा भवेदिति। नैतत् साधु, देशान्तरादौ रजतस्य विद्यमानत्वात्। असत्ख्यातिपक्षे हि
तत्रैकान्तासतोऽर्थस्य किं देशान्तरचिन्तया।
किं कुर्मस्तादृशस्येव वस्तुनः ख्यातिदर्शनात्॥
यस्तु देशान्तरेऽप्यर्थो नास्ति कालान्तरेऽपि वा।
न तस्य ग्रहणं दृष्टं गगनेन्दीवरादिवत्॥
अयमेव च द्वयोरसत्त्वयोर्विशेषः यदेकस्य ग्रहणं दृष्टमितरस्य न दृष्टमिति।
ननूक्तं तत्रासतोऽर्थस्य कथं ज्ञानजनकत्वमजनकस्य वा कथं प्रतिभासः? उक्तमत्र सदृशपदार्थदर्शनोद्भूतस्मृत्युपस्थापितस्य रजतस्यात्र प्रतिभासनमिति। न चास्योपस्थानं पशोरिव रज्ज्वा संयस्य ढौकनम्, अपि तु हृदये परिस्फुरतोऽर्थस्य बहिरवभासनम्। न चैतावतेयमात्मख्यातिरसत्ख्यातिर्वेति वक्तव्यम्, विज्ञानाद् विच्छेदप्रतीतेः, अत्यन्तासदर्थप्रतिभासाभावाच्चेति। अत एव पिहितस्वाकारा परिगृहीतपराकारा शुक्तिकैवात्र प्रतिभातीति भवतु पक्षः।
ननूक्तं कृत्यासीतावत् किमिदं वेशभाषापरिवर्तनम्, कथञ्च रजतज्ञाने शुक्तिकावभासितुमर्हति? श्रुतमिदं नाटकम्, न तु वयमत्रोपहासपात्रम्। शुक्तिकेति वस्तुस्थितिरेषा कथ्यते। पुरोऽवस्थितं धर्मिमात्रं भास्वररूपादिसादृश्योपजनितरजतविशेषस्मरणमत्र प्रतिभातीति ब्रूमः यदेतत् पुरः किमपि वर्त्तते तद् रजतमित्यनुभवात्। वस्तुस्थित्या तु शुक्तिरेव सा त्रिकोणत्वादिविशेषग्रहणाभावाच्च निगूहितनिजाकारेत्युच्यते रजतविशेषस्मरणाच्च परिगृहीतरजताकारेति। एतच्च विषयेन्द्रियादिदोषप्रभवेषु शुक्तिकारजतावभास-भास्करकिरणजलावगम-जलदगन्धर्वनगरनिर्वर्णन-रज्जुभुजगग्रहण-रोहिणीरमणद्वयदर्शन-शङ्खशर्करैपीततिक्ततावसायकेशकूर्चकालोकनादि-विभ्रमेष्वभ्युपगम्यते। मनोदोषनिबन्धनेषु तु मिथ्याप्रत्ययेषु निरालम्बनेषु स्मृत्युल्लिखितनिराकारः प्रकाशते इति।
यस्तु तृतीयः पक्षः अनय्दालम्बनमन्यश्च प्रतिभातीति कैश्चिदाश्रितः, तत्रापि न सन्निहितस्यालम्बनत्वमुच्यते येन भूप्रदेशस्यापि तथात्वमाशङ्क्येत। नापि आलम्बनस्याजनकत्वं यच्चक्षुरादावपि प्रसज्येत, किन्त्विदमित्यङ्गुल्या निर्दिश्यमानं कर्मतया यज्ज्ञानस्य जनकं तदालम्बनमित्युच्यमाने न कश्चिद्दोषः।
ननु केशोण्ड्रकज्ञाने किमालम्बनकारणम्? किञ्चित्तु तिमिरं रोमराजिरिव नयनधाम्नो मध्ये एवास्ते, तेन द्विधा कृता नयनवृत्तिर्द्वित्वेन चन्द्रमसं गृह्णाति, किञ्चित्तु तिमिरं तितउ विवरवदन्तरान्तरा तिष्ठति चक्षुषः, तेन विरलप्रसृता नयनरश्मयः सूक्ष्माः सूर्यांशुभिरभिहन्यमानाः केशकूर्चकाकारा भवन्तीति तदेवालम्बनम्, अनुदितेऽस्तमिते वा सवितरि केशोण्ड्रकप्रत्ययस्यानुत्पादात्।
गन्धर्वनगरज्ञाने जलदाः पाण्डुरत्विषः।
आलम्बनं गृहाट्टालप्राकाराकारधारिणः॥
तस्माद्विपरीतख्यातौ पक्षत्रयमपि निरवद्यम्।
यः पुनरितरेतरसङ्करः ख्यातीनामुदाहारि तत्रात्मख्यात्यसत्ख्याती अपवर्गाह्निके वयमपि विज्ञानाद्वैतमपाकरिष्यन्तः पराकरिष्याम इति किं तच्चिन्तया। विपरीतख्यातौ तु तत्साङ्कर्यं परिहृतम्।
यत्पुनवादि सर्ववादिभिः स्मृतिप्रमोषोऽभ्युपगत एव प्राभाकरैस्तु यशः पीतमिति, तत्र वाद्यन्तराणि तावद्यथा भवन्ति तथा भवन्तु वयन्तु स्मृत्युपारूढरजताद्याकारप्रतिभासमभिवदन्तो बाढं स्मृतिप्रमोषमभ्युपगतवन्तः, किन्तु न तावत्येव विश्राम्यति मतिः, अपि तु रजताद्यनुभवोऽपि संवेद्यते इति न स्मृतिप्रमोषमात्रे एव विरन्तव्यम्। अतो विपरीतख्यातिपक्ष एव निरवद्य इति स्थितम्।
यस्तु बाधप्रकारः प्राग् विकल्पितः, तत्र सहानवस्थानसंस्कारोच्छेदादिपक्षा अनभ्युपगमेनैव निरस्ता इत्यस्थाने कण्ठसोष आयुष्मतानुभूतः। विषयापहारस्तावदस्तु बाधः विषयस्य च न प्रतिभातत्वमपह्नियते किन्तु प्रतिभातस्यासत्त्वं ख्याप्यते इत्यपहारार्थः. असत्त्वमपि नेदानीमुपनतस्य ख्याप्यते येन दृष्टपूर्वद्रुघणभग्नकुम्भाभावप्रतिभासवदबाधः स्यात्। न च तदानीमप्यभावग्रहणे वस्तुनो द्व्यात्मकत्वमाशङ्कनीयम्, पूर्वावगताकारोपमर्दद्वारेण बाधकप्रत्ययोत्पादात्, यन्मया तदा रजतमिति गृहीतं तद्रजतं न भवति अन्यदेव तद्वस्त्विति।
ननु स्वकालनियतत्वाद् ज्ञानानां कथमुत्तरस्य ज्ञानस्य पूर्वज्ञानोत्पादकालावच्छिन्नतद्विषयाभावग्रहणसामर्थ्यम्? किं कुर्मः, तथा प्रत्ययोत्पादात्। न भग्नघटवदिदानीं तन्नास्तिता गृह्यते अपि तु तदैव तदसदिति प्रतीतिः। यथा च न वर्तमानैकनिष्ठैव विषयप्रतीतयस्तथा क्षणभङ्गभङ्गे वक्ष्यामः।
अथ वा फलापहारो भवतु बाधः, प्रमाणफलत्वञ्च हानादिबुद्धीनां प्रत्यक्षलक्षणे वर्णितमिति तदपहरणात् प्रमाणं बाधितं भवत्येव। किं कुर्वता बाधकेन प्रमाणफलमपहृतमिति चेत्
गायता नृत्यता वापि जपता जुह्वतापि वा।
तच्चेत् कार्यं कृतं तेन किमवान्तरकर्मणा॥
तदभ्युपगमे वापि तत् किं विदधता कृतम्।
तच्च किं कुर्वतेत्येवमवधिः को भविष्यति॥
तदलममुनावान्तरप्रश्नेन सर्वत्र बाधकप्रत्ययोपजनने सति हानादिरूपं पूर्वप्रमाणफलं निवर्त्तते इति तेन तद्बाधितमुच्यते। समानासमानविषयविकल्पोऽपि नपेशलः। एकस्मिन् विषये विरुद्धाकारग्राहिणोर्ज्ञानयोर्बाध्यबाधकभावाभ्युपगमात्। चित्रादिप्रत्यये कथं न बाध इति चेत्, पूर्वज्ञानोपमर्देनोत्तरविज्ञानानुत्पादात्। अत एवैकत्रापि धर्मिणि बहूनां धर्माणामितरेतरानुपमर्देन वेद्यमानानामस्त्येव समावेशः, पूर्वोपमर्देनेतरविज्ञानाजननाच्चैतदपि प्रत्युक्तं भवति।
यदुक्तम् पूर्वस्मिन्, प्रत्यये प्राप्तप्रतिष्ठे सत्यागन्तुज्ञानमुत्तरं बाध्यतामिति। यतःपूर्वोपमर्देनैव तदुत्तरं ज्ञानमुदेति विषयसहायत्वात् प्रमाणान्तरानुगृह्यमाणत्वाच्च उत्तरमेव ज्ञानं बाधकमिति युक्तम्। तस्मादस्ति ज्ञानानां बाध्यबाधकभावः। स चायं बाधव्यवहारो विपरीतख्यातिपक्षे एव सामर्थ्यमस्खलितं दधातीति स एव ज्यायान्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%अनुबूतताग्रहणं ही%ति। वस्तुगतानुभूतता यदा ज्ञानेन गृह्यते परामृश्यते `ज्ञातः स’ इत्यादिना रूपेण तदा स्मरणम्; अनुभूयमानतया तु ग्रहणम् `अयम्’ इत्यादिना रूपेण।
%विरुद्धविशेषाः% शुक्तिरूपापेक्षया ये विरुद्धा रजतत्वादयः।
%एकीकृत्य प्रवर्तते% इत्यस्यापि `तयोर्भेदमगृहीत्वा प्रवर्तते’ इत्येवंरूप एवार्थो यतः।
%परानुभूतेन स्मरणमि%ति। भवतापि स्वप्ने स्वशिरश्छेदानुभवः स्मृतिरूप एवाभ्युपगतस्तत्र च स्वानुभवासम्भवात् परानुभूतस्यैव स्मरणमवश्याभ्युपेयम्।
%मनोदोषनिबन्धने%षु मानसनिद्रादिदोषजेषु स्वप्नादिज्ञानेषु।
%तिमिरं तितउविवरवदि%ति; तितउ परिपवनम्।
न्यायम़ञ्जरी :–
%मीमांसकैकदेशिमतनिरासः%
अज्ञः कोऽपि नाम मीमांसकस्त्वाह, येयं शुक्तिकायां रजतप्रतीतिर्विपरीतख्यातिरिति तद्वादिनामभमता सा तथा न भवतीति, सत्यरजतप्रतीतिवदत्राप्यवभास्यरजतसद्भावात्। लौकिकालौकिकत्वे तु विशेषः, रजतज्ञानावभास्यं हि रजतमुच्यते तच्च किञ्चिद् व्यवहारप्रवर्त्तकं किञ्चिन्नेति। तत्र व्यवहारप्रवर्त्तकं लौकिकमुच्यते ततोऽन्यदलौकिकमिति। यच्च शुक्तिकाशकलमिति भवन्तो वदन्ति तदलौकिकं रजतम्, रजतज्ञानावभास्यत्वाद् रजतं तद्व्यवहाराप्रवृत्तेरलौकिकमिति।
तदेतदपरामृष्टसंवेदनेतिवृत्तस्य अभिनवपदार्थसर्गप्रजापतेरभिधानम्, बाधकप्रत्ययेन तत्र रजताभावस्य ख्यापनात्। नेदं रजतमिति हि रजतं प्रतिषेधत्येष प्रत्ययो न विद्यमानरजतस्यालौकिकत्वमवद्योतयते इति।
अथ नेदं लौकिकमिति व्याख्यायते, हन्त वाक्यशेषः क्रियतां संयजत्ररङ्गानीतिवत्। सोऽयं श्रोत्रियः स्वशास्त्रवर्त्तनीमिहापि न तां त्यजति, न तु तस्या अयमवसरः। अगृह्यमाणे तु रजताख्येऽन्यधर्मिणि कथं तद्धर्मत्वेन लौकिकत्वं गृह्यते, रजताभावग्रहणे त्वेष न दोषः भावतदभावयोः धर्मधर्मिभावाभावात्। स्मर्यमाणप्रतियोग्यवच्छिन्नो हि अभावो गृह्यते एव। तस्मादत्र नास्त्येव रजतं न पुनरलौकिकं तदस्ति, न च रजतज्ञानावभास्यत्वमात्रं रजतलक्षणमपि त्वबाधितरजतज्ञानगम्यत्वम्।
अपि च लौकिकालौकिप्रविभागः प्रतिभासनिबन्घनो वा स्याद् व्यवहारसदसद्भावनिबन्धनो वा। न तावत् प्रतिभासनिबन्धनः, यथाप्रतीतिभावात्। क्वचिद्धि रजतं क्वचिच्च तदभावः प्रतीयते न तु लौकिकत्वमलौकिकत्वं वा।
अथ व्यवहारप्रवृत्त्यप्रवृत्तिभ्यां लौकिकालौकिकत्वे व्यवस्थाप्येते? तद्वक्तव्यं कोऽयं व्यवहारो नामेति? ज्ञानाभिधानस्वभावो हि व्यवहारः स तद्विषयो नास्तीत्युक्तम्। तदर्थक्रियानिर्वर्त्तनं व्यवहार इति चेत्, तर्हि स्वप्ने परिरभ्यमाणाया योषितः कूटकार्षापणस्य च लौकिकत्वं प्राप्नोति। उत्पद्य नष्टे घटे अर्थक्रियाया निवृत्तेरलौकिकत्वं स्यात्।
अपि च यः शुक्तिकायां रजतव्यवहारं न करोति स रजताभावमेव बुद्ध्वा, न रजतस्य सतस्तस्यालौकिकताम्। यदि चेदमलौकिकं रजतं तत्किमर्थमिह तदर्थक्रियार्थं प्रवर्त्तते। अलौकिकं लौकिकत्वेन गृहीत्वेति चेत्, सैवेयं तपस्विनी विपरीतख्यातिरायाता। तस्माद् विपरीतख्यातिद्वेषेण कृतमीदृशा अत्रापि लोकसिद्धैव प्रतीतिरभ्युपगम्यताम्।
न वा मीमांसका एते स्वभार्यामपि वेश्यतः।
निःसारयितुमिच्छन्ति स्वतःप्रामाण्यतृष्णया॥
न चैवमपि तत्सिद्धिर्द्वैविध्यदर्शनात्।
संशये सति संवादसापेक्षत्वं तथैव तत्॥
क्लेशेन तदमुनापि स्वार्थस्तेषां प्रसिद्ध्यति न कश्चित्।
यद्भवति चैव गत्या राजपथेनैव तद्भवतु॥
नात्मख्यानिर्बाह्यतयाऽर्थप्रतिभासा-
न्नासत्ख्यातिर्न ह्यसतां धीविषयत्वम्।
उक्तोऽख्यातौ दूषणमार्गो विपरीत-
ख्यातिस्तस्मादाश्रयणीया मतिमद्भिः॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%संयजत्रैरङ्गानि%इति। “सं ते वायुर्वातेन गच्छतां सं यजत्रैरङ्गानि समाशिषा यज्ञपतिः”। वायुस्ते तव सम्बन्धी वातेन सङ्गच्छतां सम्बन्ध्यताम्, अङ्गानि यजत्रैर्देवैः सङ्गच्छताम्, यज्ञपतिर्यजमान आशिषा सङ्गच्छतामिति पशुविशसनमन्त्रस्यार्थः। अत्र प्रकृतस्य `गच्छताम्’ इत्यस्यैकवचनत्वात् `यजत्रैरङ्गानि’ इत्यत्र `गच्छन्ताम्’ इति लौकिको वाक्यशेषः कार्यः संशब्दस्तु श्रूयमाणः स्थित एव।
%न वा मीमांसका% इति। विपरीतख्यातिरत्याज्यत्वाद् भार्यास्थानीया।
न्यायम़ञ्जरी :–
%विपरीतख्यातिसिद्धौ शब्दस्य परतः प्रामाण्यम्%
स्थिते च तस्मिन् विपरीतवेदने
तदीयसाधर्म्यकृतोऽस्ति संशयः।
तदा च संवादमुखप्रतीक्षणाद्-
भजन्ति वेदाः परतःप्रमाणताम्॥
प्रत्यक्षादिप्रमाणानां तद्यथास्तु तथास्तु वा।
शब्दस्य हि प्रमाणत्वं परतो मुक्तसंशयम्॥
दृष्टे हि विषये प्रामाण्यनिश्चयमन्तरेणैव लघुपरिश्रमेषु कर्मसु प्रवृत्तिरिति तदुपयोगिप्रत्यक्षादिप्रमाणप्रामाण्यनिश्चयेऽदुरुपपादे कोऽभिनिवेशः? शब्दे पुनरदृष्टपुरुषार्थपथोपदेशिनि प्रामाण्यमनिश्चित्य महाप्रयत्ननिर्वर्त्त्यानि ज्योतिष्टोमादीनि न प्रेक्षापूर्वकारिणो यज्वानः प्रयुञ्जीरन् इत्यवश्यं निश्चेतव्यम् तत्र प्रामाण्यम्। तच्च परत एवेति ब्रूमः। शब्दस्य बृद्धव्यवहाराधिगतसम्बन्धोपकृतस्य सतः प्रतीतिजनकत्वं नाम रूपमवधृतम्। तत्तु नैसर्गिकशक्त्यात्मकसम्बन्धमहिम्ना वा पुरुषघटितसमयसम्बन्धबलेन वेति विचारयिष्यामः। प्रकाशकत्वमात्रन्तु दीपादेरिव तस्य रूपम्, यथा हि दीपः प्रकाशमानः शुचिमशुचिं वा यथासन्निहितमर्थमवद्योतयति तथा शब्दोऽपि पुरुषेण प्रयोज्यमानः श्रवणपथमुपगतः सत्योऽनृतो वा समन्वितेऽसमन्विते वा सफले निष्फले वा सिद्धे कार्ये वाऽर्थे प्रमितिमुपजनयतीति तावदेवास्य रूपम्. अयन्तु दीपाच्छब्दस्य विशेषो यदेष सम्बन्धव्युत्पत्तिमपेक्षमाणः प्रमाणुत्पादयतीति, दीपस्तु तन्निरपेक्ष इति। तस्याः शब्दजनितायाः प्रमितेर्यथार्थेतरत्वं पुरुषाधीनं सम्यग् दर्शिनि शुचौ पुरुषे सति सत्यार्था सा भवति प्रतीतिरितरथा तु तद्विपरीतेति। तत्र यथा नैसर्गिकमर्थसंस्पर्शित्वं शब्दस्य न रूपमिति समर्थितम्, एवमस्य स्वाभाविकं सत्यार्थत्वमपि न रूपम्। एवमभ्युपगम्यमाने विप्रलम्भकवचसि विसंवाददर्शनं न भवेत्। तस्मात् पुरुषगुणदोषाधीनावेव शाब्दे प्रत्यये संवादविसंवादौ। न चेन्द्रियादाविव तत्र दुर्भणा गुणाः। रागादयो दोषाः करुणादयो गुणाः पुरुषाणामतिप्रसिद्धा एव। पुरुषगुणा एव शब्दस्य गुणाः न स्वशरीरसंस्थाः चक्षुरादेरिवेति। तत्र यदि पुरुषगुणानां प्रामाण्यकारणता नेष्यते दोषाणामपि विप्लवहेतुता माभूत्।
यत्तु दोषप्रशमनचरितार्था एव पुरुषगुणा- प्रामाण्यहेतवस्तु न भवन्तीत्यत्र शपथशरणा एव श्रोत्रियाः। न च बाधानुत्पत्तिमात्रेण वैदिक्याः प्रतीतेः प्रामाण्यं भवितुर्मर्हति `पक्ष्मलाक्षीलक्षमभिरमयेद् विद्याधरपदकाम’ इत्यादावपि प्रामाण्यप्रसङ्गात्। उक्तञ्च केनचित्
यथा हि स्वप्नदृष्टोऽर्थः कश्चिद् द्विपान्तरादिषु।
असंवादविसंवादः श्रद्धातुं नैव शक्यते॥
तथा चोदनयाप्यर्थं बोध्यमानमतीन्द्रियम्।
असंवादविसंवादं न श्रद्धधति केचनेति॥
तत्र स्वप्नज्ञाने हेतुर्निद्रादिदोषोऽस्तीति दुष्टकारणज्ञानादप्रामाण्यमिति चेत्, लोकाक्षीलक्षवाक्ये किं वक्ष्यसि? प्रभवस्तस्य न ज्ञायते इति चेत् नतरामसौ वेदेऽपि त्वन्मते ज्ञायते इति को विशेषः? महाजनादिपरिग्रहोऽस्य नास्तीति चेद्, अन्वेषणीयं तर्हि प्रामाण्यकारणम्, न बुद्ध्युत्पादकत्वादेवौत्सर्गिकं प्रामाण्यमिति युक्तम्।
साक्षाद्द्रष्टृनरोक्तत्वं शब्दे यावन्न निश्चितम्।
बाधानुत्पत्तिमात्रेण न तावत् तत्प्रमाणता॥
यदपि वेदे कारणदोषनिराकरणाय कथ्यते `यद्वा वक्तुरभावेन न स्युर्दोषा निराश्रया’ इति तदपि न साम्प्रतम्, असति वक्तरि प्रामाण्यहेतूनां गुणानामप्यभावेन तत्प्रामाण्यस्याप्यभावात्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%नैसर्गिकशक्त्यात्मके%ति। वाच्यवाचकशक्त्योः परस्परनियतत्वं शक्त्यात्मकः सम्बन्धः।
%अन्वेषणीयं तर्हि प्रामाण्यकारणम्% महाजनपरिग्रहादि।
%क्लेशकर्मविपाकादि% इति। क्लेशा रागादयः। कर्माणि शुभाशुभानि। विपाको जात्यायुर्भोगाः। आदिग्रहणाद् आशयः संस्कारो धर्माधर्माख्यः। तदुक्तम् `क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः’ इति।
न्यायम़ञ्जरी :–
%ईश्वरसद्भावादौ शङ्का%
अत्राह किं ब्रूषे त्रैलोक्यनिर्माणनिपुण इति? अहो तव सरलमतित्वम्। न हि तथाविधपुरुषसद्भावे किञ्चन प्रमाणमस्ति।
तथा हीश्वरसद्भावो न प्रत्यक्षप्रमाणकः।
न ह्यसावक्षविज्ञाने रूपादिरिव भासते॥
न च मानसविज्ञानसंवेद्योऽयं सुखादिवत्।
योगिनामप्रसिद्धत्वान्न तत्प्रत्यक्षगोचरः॥
प्रत्यक्षप्रतिषेधेन तत्पूर्वकमपाकृतम्।
अनुमानमविज्ञाते तस्मिन् व्याप्त्यनुपग्रहात्॥
न च सामान्यतो दृष्टं लिङ्गमस्यास्ति किञ्चन।
क्षित्यादीनान्तु कार्यत्वमसिद्धं सुधियः प्रति॥
शैलादिसन्निवेशोऽपि नैष कर्त्रनुमापकः।
कर्त्रपूर्वककुम्भादिसन्निवेशविलक्षणः॥
दृष्टः कर्त्रविनाभावी सन्निवेशो हि यादृशः॥
तादृङ् नगादौ नास्तीति कार्यत्ववदसिद्धता।
सिद्धत्वेऽपि न सिद्धत्वमनैकान्त्यात् तृणादिभिः॥
अकृष्टजातैः कर्त्तारमन्तरेणाप्तजन्मभिः।
तेषामुत्पत्तिसमये प्रत्यक्षत्वं न लक्ष्यते॥
कर्तुर्दृश्यत्वमप्येवमभावोऽनुपलब्धितः।
न च क्षितिजलप्रायदृष्टहेत्वतिरेकिणः॥
कस्यापि कल्पनं तेषु युज्यतेऽतिप्रसङ्गतः।
तेन कर्तुरभावेऽपि सन्निवेशादिदर्शनात्॥
अनैकान्तिकता होतोर्विप्रत्वे पुरुषत्ववत्।
किञ्च व्याप्त्यनुसारेण कल्प्यमानः प्रसिद्ध्यति॥
कुलालतुल्यः कर्त्तेति स्याद् विशेषविरुद्धता।
व्यापारवानसर्वज्ञः शरीरी क्लेशसंकुलः॥
घटस्य यादृशः कर्त्ता तादृगेव भवेद् भुवः।
विशेषसाध्यतायां वा साध्यहीनं निदर्शनम्।
कर्त्तृसामान्यसिद्धौ तु विशेषावगतिः कुतः॥
अपि च, सशरीरो वा जगन्ति रचयेदीश्वरः, शरीररहितो वा? तदीयं शरीरं कार्यं नित्यं वा भवेत् सर्वथानुपपत्तिः
अशरीरस्य कर्तृत्वं दृश्यते नहि कस्यचित्।
देहोऽप्युत्पत्तिमानस्य देहत्वाच्चैत्रदेहवत्॥
कार्यमपीश्वरशरीरं तत्कर्तृकं वा स्यादीश्वरान्तरकर्तृकं वा? तत्र
स्वयं निजशरीरस्य निर्माणमिति साहसम्।
कर्त्रन्तरकृते तस्मिन्नीश्वरानन्त्यमापतेत्॥
भवतु, को दोष इति चेत्, प्रमाणाभाव एव दोषः। एकस्यापि तावदीश्वरस्य साधने पर्याकुलतां गताः किं पुनरनन्तानाम्। किञ्च व्यापारेण वा कुलालादिरिव कार्याणि सृजेदीश्वरइच्छामात्रेण वा। द्वयमपि दुर्घटम्,
व्यापारेण जगत्सृष्टिः कुतो युगशतैरपि।
तदिच्छां चानुवर्त्तन्ते न जडाः परमाणवः॥
अपि च किं किमपि प्रयोजनमनुसंधाय जगत्सर्गे प्रवर्त्तते प्रजापतिः, एवमेव वा? निष्प्रयोजनायां प्रवृत्तावप्रेक्षापूर्वकारित्वादुन्मत्ततुल्योऽसौ भवेत्, पूर्वोऽपि नास्ति पक्षः।
अवाप्तसर्वानन्दस्य रागादिरहितात्मनः।
जगदारभमाणस्य न विद्मः किं प्रयोजनम्॥
अनुकम्पया प्रवर्त्तत इति चेद्, मैवम्
सर्गात् पूर्वं हि निःशेषक्लेशसंस्पर्शवर्जिताः।
नास्य मुक्ता इवात्मानो भवन्ति करुणास्पदम्॥
परमकारुणिकानामपि दुःसहदुःखदहनदन्दह्यमानमनसो जन्तूनवलोकयतामुदेति दया न पुनरपवर्गदशावदेषा दुःखशून्यानिति।
करुणामृतसंसिक्तहृदयो वा जगत् सृजन्।
कथं सृजति दुर्वारदुःखप्राग्भारदारुणम्॥
अथ केवलं सुखोपभोगप्रायं जगत् स्रष्टुमेव न जानाति, सृष्टमपि वा न चिरमवतिष्ठते इत्युच्यते तदप्यचारु। निरतिशयस्वातनत्र्यसीमनि वर्त्तमानस्यस्वेच्छानुवर्त्तिसकलपदार्थसार्थस्थितेः परमेश्वरस्य किमसाध्यं नाम भवेत्? नानात्मगतसुभाशुभकर्मकलापापेक्षः स्रष्टा प्रजापतिरिति चेत्, कर्माण्येव हि तर्हि सृजन्तु जगन्ति किं प्रजापतिना, अथचेतनानां चेतनानधिष्ठितानां चेतनानधिष्ठितानां स्रष्टृत्वमघटमानमिति तेषामधिष्ठाता चेतनः कल्प्यते इति चेन्न। तदाश्रयाणामात्मनामेव चेतनत्वात् त एवाधिष्ठातारो भविष्यन्ति किमधिष्ठात्रन्तरेणेश्वरेण? तस्यापि तादृशा परकीयकर्मान्तरापेक्षासङ्कोचितस्वातन्त्र्येण किमैश्वर्येण कार्यम्? राज्यमिव मन्त्रिपरवशमैश्वर्यं क्वोपयुज्यते? तादृग् तादृग् यत्रापरनिरपेक्षं रुच्यैव न रच्यतेऽभिमतम् अन्येनाप्युक्तम्
किमीश्वरतयेश्वरो यदि न वर्त्तते स्वेच्छया।
न हि प्रभवतां क्रियाविधिषु हेतुरन्विष्यते॥ इति।
अथ क्रीडार्था जगत्सर्गो भगवतः ईदृशा च शुभाशुभरूपेण जगता सृष्टेन क्रीडति परमेश्वर इत्युच्यते, तर्हि क्रीडासाध्यसुखरहितत्वेन सृष्टेः पूर्वमवाप्तसकलानन्दत्वं नाम तस्य रूपमवहीयते।
न च क्रीडापि निःशेषजनतातङ्ककारिणी।
आयासबहुला चेयं कर्तुं युक्ता महात्मनः॥
तस्मान्न जगतां नाथ ईश्वरः स्रष्टा संहर्तापि भवति।
न ह्यस्य ध्रियमाणेषु पूर्वन्ते जन्तुकर्मसु।
सकृत् समस्तत्रैलोक्यनिर्मूलनमनोरथाः॥
कर्मोपरमपक्षे तु पुनः सृष्टिर्न युज्यते।
न कर्मनिरपेक्षो हि सर्गवैचित्र्यसंभवः॥
अथ ब्राह्मेण मानेन संवत्सरशतनिष्ठामधितिष्ठति परमेष्ठिनि महेश्वरस्य संजिहीर्षा जायते, तया तिरोहितस्वफलारम्भशक्तीनि कर्माणि संभवन्तीति संपद्यते सकलभुवनप्रलयः। पुनश्च तावत्येव रात्रिप्राये काले व्यतीते सिसृक्षा भवति भगवतः, तयाभिव्यक्तशक्तीनि कर्माणि कार्यमारप्स्यन्ते इति, तदप्ययुक्तम्
उद्भवाभिभवौ तेषां स्यातां चेदीश्वरेच्छया।
तर्हि सैवास्तु जगतां सर्गसंहारकारणम्॥
किं कर्मभिः, एवमस्त्विति चेद्, न। ईश्वरेच्छावशित्वपक्षे हि त्रयो दुरतिक्रमाः दषाः, तस्यैव तावन्महात्मनो निष्करुणत्वमकारणमेव दारुणसर्गकारिणः, तथा वैदिकीनां विधिनिषेधचोदनानामानर्थक्यम्। ईश्वरेच्छात एव शुभाशुभफलोपभोगसम्भवात्। अनिर्मोक्षप्रसङ्गश्च। मुक्ता अपि प्रलयसमये इव जीवाः पुनरीश्वरेच्छया संसरेयुः। तस्मान्नेश्वराधीनो जगतां सर्गः संहारो वा।
इत्यनन्तरगीतेन नयेनेश्वरसाधने।
नानुमानस्य सामर्थ्यमुपमाने तु का कथा॥
आगमस्यापि नित्यस्य तत्परत्वमसाम्प्रतम्।
तत्प्रणीते तु विस्रम्भः कथं भवतु मादृशाम्॥
किञ्चागमस्य प्रामाण्यं तत्प्रणीतत्वहेतुकम्।
तत्प्रामाण्याच्च तत्सिद्धिरित्यन्योन्याश्रयं भवेत्॥
अन्यथाऽनुपपत्त्या तु न शक्यो लब्धुमीश्वरः।
न हि तद् दृश्यते कार्यं तं विना यन्न सिद्ध्यति॥
तस्मात् सर्वसद्विषयप्रामाणानवगम्यमानस्वरूपत्वादभाव एवेश्वरस्येति सिद्धम्।
न च प्रसिद्धिमात्रेण युक्तमेतस्य कल्पनम्।
निर्मूलत्वात्तथा चोक्तं प्रसिद्धिर्वटयक्षवत्॥
अत एव निरीक्ष्य दुर्घटं जगतो जन्मविनाशडम्बरम्।
न कदाचिदनीदृशं जगत्कथितं नीतिरहस्यवेदिभिः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%कर्तृर्दृश्यत्वमि%ति अशरीरस्य कर्तृत्वानुपपत्तेः सशरीरत्वे चेतरकर्तृवद् दृश्यत्वम्, दृश्यस्य चानुपलब्धिरभावं साधयत्येव।
%युज्यतेऽतिप्रसङ्गत% इति। अकिञ्चित्करस्य सत्त्वमात्रेण कारणत्वकल्पनायां चैत्रस्य व्रणरोपणे स्थाणोरपि कारणत्वं प्रसज्यते। तदुक्तम्
शस्त्रौषधादिसम्बन्धाच्चैत्रस्य व्रणरोपणे।
असम्बद्धस्य किं स्थाणोः कारणत्वं न कल्प्यते॥ इति॥
%ब्राह्मेण मानेने%ति।
दैविकानां युगानानतु सहस्रं परिसङ्ख्यया।
ब्राह्ममेकमहर्ज्ञेयं तावती रात्रिरेव च॥ इत्यादिना।
%तत्परत्वमसाम्प्रतम्।% तत्परत्वे हि नित्यत्वव्याघातः, तेनैव कर्तुः प्रतिपादनात्।
न्यायम़ञ्जरी :–
%सामान्यतोदृष्टानुमानेनैवेश्वरसिद्धिकथनम्%
अत्र वदामः, यत्तावदिदमगादि नगादिनिर्माणनिपुणपुरुषपरिच्छेददक्षं प्रत्यक्षं न भवतीति तदेवमेव। प्रत्यक्षपूर्वकमनुमानमपि तेनैव पथा प्रतिष्ठितमिति तदप्यास्ताम्।
सामान्यतोदृष्टन्तु लिङ्गमीश्वरसत्तायामिदं ब्रूमहे, पृथिव्यादि कार्यं धर्मि, तदुत्पत्तिप्रकारप्रयोजनाद्यभिज्ञकर्तृपूर्वकमिति साध्यी धर्मः, कार्यत्वाद्, घटादिवत्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%तदुत्पत्तिप्रकारे%ति। तस्योत्पत्तौ यः प्रकार इतिकर्तव्यता, उत्पन्नस्य च प्रयोजनम्।
न्यायम़ञ्जरी :–
%तस्मिन्ननुमाने चार्वाकादीनामनुपपत्तिनिरासः%
ननु कार्यत्वमसिद्धमित्युक्तम्, क एवमाचष्टे चार्वाकः शाक्यो मीमांसको वा?
चार्वाकस्तावद् वेदरचनाया रचनान्तरविलक्षणाया अपि कार्यत्वमभ्युपगच्छति यः, स कथं पृथ्व्यादिरचनायाः कार्यत्वमपह नुवीत?
मीमांसकोऽपि न कार्यत्वमपह्नोतुमर्हति, यत एवमाह येषामप्यनवगतोत्पत्तीनां रूपमुपलभ्यते तन्तुव्यतिषक्तजनितोऽयं पटस्तद्व्यतिषङ्गविमोचनात् तन्तुविनाशाद्वा नङ्क्ष्यतीति कल्प्यते इति। एवमवयवसंयोगनिर्वर्त्यमानवपुषः क्षितिधरादेरपि नाशसम्प्रत्ययः सम्भवत्येव। दृश्यते च क्वचिद्विनाशप्रतीतिः प्रावृषेण्यजलधरधारासारनिर्लुठित एव पर्वंतैकदेशे पर्वतस्य खण्डः पतित इति। वस्तुगतयोश्च कार्यत्वविनाशित्वयोः समव्याप्तिकता वार्त्तिककृताप्युक्तैव
तेन यत्राप्युभौ धर्मौ व्याप्यव्यापकसम्मतौ।
तत्रापि व्याप्यतैव स्यादङ्गं न व्यापिता मितेः॥ इति वदता।
तस्माद् विनाशित्वेनापि कार्यत्वानुमानात् तन्मतेऽपि न कार्यत्वमसिद्धम्।
शाक्योऽपि कार्यत्वस्य कथमसिद्धतामभिदधीत येन नित्यो नाम पदार्थः प्रणयकेलिष्वपि न विषह्यते? तस्मात् सर्ववादिभिरप्रणोद्यं पृथिव्यादेः कार्यत्वम्। अथवा सन्निवेशविशिष्टत्वमेव हेतुमभिदध्महे यस्मिन् प्रत्यक्षत उपलभ्यमाने सर्वापलापलम्पटा अपि न केचन विप्रतिपत्तुमुत्सहन्ते। तस्मान्नासिद्धो हेतुः।
ननु कर्त्रविनाभावितया यथाविधस्य सन्निवेशस्य शरावादिषु दर्शनं तादृशमेव सन्निवेशमुपलभ्य क्वचिदनुपलभ्यमानकर्तृके कलशादौ कर्त्रनुमानमिति युक्तम्। अयं त्वन्य एव कलशादिसन्निवेशात् पर्वतादिसन्निवेशः। नात्र सन्निवेशसामान्यं किञ्चिदुपलभन्ते लौकिकाः। सन्निवेशशब्दमेव साधारणं प्रयुञ्यते। न च वस्तुनोरत्यन्तभेदे सति शब्दसाधारणतामात्रेण तदनुमानमुपपद्यते। न हि पाण्डुतामात्रसाधारणत्वेन धूमादिवन्मुकुलरजोराशेरपि कृशानुरनुमातुं शक्यत इति। तदुक्तम्
सिद्धं यादृगधिष्ठातृभावाभावानुवृत्तिमत्।
सन्निवेशादि तत्तस्माद्युक्तं यदनुमीयते॥
वस्तुभेदप्रसिद्धस्य शब्दसाम्यादभेदिनः।
न युक्तानुमितिः पाण्डुद्रव्यादिव हुताशने॥ इति।
उच्यते। यादृगिति न बुद्ध्यामहे। धूमो हि महानसे कुम्भदासीफूत्कारमारुतसन्धुक्ष्यमाणमन्दज्वलनजन्मा कृशप्रायप्रकृतिरुपलब्धः। स यदि पर्वते प्रबलसमीरणोल्लसितहुतवहप्लुष्यमाणमहामहीरुहस्कन्धेन्धनप्रभवो बहुलबहुलः खमण्डलमखिलमाक्रामन्नुपलभ्यते तत् किमिदानीमनलप्रमितिं मा कार्षींत्? अथ विशेषरहितं धूममात्रमग्निमात्रेण व्याप्तमवगतमिति ततस्तदनुमानम्। इहापि सन्निवेशमात्रं कर्तृमात्रेण व्याप्तमिति ततोऽपि तदनुमीयताम्।
ननु सन्निवेशशब्दसाधारण्यमात्रमत्र, न वस्तुसामान्यं किञ्चिदस्ति। भिक्षो! धूमेऽपि भवद्दर्शने किं वस्तुसामान्यमस्ति? मा भूद्वस्तुसामान्यम्, आकाशकालादिव्यावृत्तिरूपन्तु संव्यवहारकारणमस्त्येव। हन्त! तर्हि प्रकृतेऽपि असन्निवेशव्यावृत्तिरूपं भवतु सामान्यम्, आकाशकालादिविलक्षणरूपत्वात् पृथिव्यादेः।
ननु
तत्र धूमो धूम इत्य् अनुवृत्त-विकल्प-बलेन
कल्पितम् अपोह-स्वभावं सामान्यम् अभ्युपगतम्।
इहापि सन्निवेश-विकल्पानुवृत्तेः
त्वत्-कल्पितम् अपोह-रूपम् एव सामान्यम् इष्यताम्।
अपि च सकर्तृकत्वाभिमतेष्व् अपि संस्थानेषु
न सर्वात्मना तुल्यत्वं प्रतीयते,
न हि घटसंस्थानं पटसंस्थानं चतुःशाल-संस्थानञ् च सुसदृशम् इति।
संस्थान-सामान्यन्तु पर्वतादाव् अपि विद्यत एवेति
सर्वथा `यादृग्’ इत्यवाचको ग्रन्थः।
यदपि व्यभिचारोद्भावनम् अकृष्ट-जातैः स्थावरादिभिर् अकारि
तद् अपि न चारु,
तेषां पक्षीकृतत्वात्
पक्षेण च व्यभिचार-चोदनायां सर्वानुमानोच्छेदप्रसङ्गाः।
ननु च
पृथिव्य्-आदेर् उत्पत्ति-कालस्य परोक्षत्वात्
कर्त्ता न दृश्यतेइति तद्-अनुपलब्ध्या
तद्-अ-सत्त्व-निश्चयानुपपत्तेः
कामं संशयोऽस्तु।
वनस्-पति-प्रभृतीनान् तु प्रसव-कालम्
अद्यत्वे न वयम् एव पश्यामः,
न च यत्नतो ऽप्य् अन्वेषमाणाः कर्त्तारम् एषाम् उपलभामहे।
तस्माद् असौ दृश्यानुपलब्धेर्
नास्त्य् एवेत्य् अवगच्छामः।
अपि च
येन येन वयं व्यभिचारम् उद्भावयिष्यामः
तं तं चेत् पक्षीकरिष्यति भवान्
सुतराम् अनुमानोच्छेदः,
सव्यभिचाराणाम् अप्य् एवम् अनुमानत्वानपायात् ॥
उच्यते। स्थावराणाम् उत्पत्ति-प्रत्यक्षत्वेऽपि
कर्त्तुर् अदृश्यत्वम् एवाशरीरत्व-निश्चयात्।
विश्वास-टिप्पनी
अत्र तृणादेर् विपक्षत्वं वस्तुतो न वर्तते - अदृश्य-कर्तृ-साध्यत्वात्।
अशरीरस्य तर्हि तद्-उत्पत्ताव् अव्याप्रियमाणत्वात्
कर्तृत्वम् अपि कथम्
इति चेद्, एतद् अग्रतो निर्णेष्यते।
अदृश्यस्य च कर्तुर् अनुपलब्धितो नास्तित्व-निश्चयानुपपत्तेः,
नाकृष्ट-जात–वनस्-पतीनाम् अ-कर्तृकत्वम् इति विपक्षता।
“यत् तूक्तं परिदृश्यमान-क्षिति-सलिलादि-कारण-कार्यत्वात् स्थावराणाम्,
किम् अदृश्यमान-कर्तृ-कल्पनये"ति चेत्, तदपेशलम्। परलोकवादिभिरदृश्यमानानां कर्मणामपि कारणत्वाभ्युपगमात्। बार्हस्पत्यानान्तु तत्समर्थनमेव समाधिः।
अथ जगद्वैचित्र्यं कर्मव्यतिरेकेण न घटते इति कर्मणामदृश्यमानानामपि कारणत्वं कल्प्यते। तत्र यद्येवमचेतनेभ्यः कारकेभ्यश्चेतनानधिष्ठितेभ्यः कार्योत्पादानुपपत्तेः कर्त्तापि चेतनस्तेषामधिष्ठाता कल्प्यताम्। तस्मात् स्थावराणामकर्तृकत्वाभावान्न विपक्षता इति न तैर्व्यभिचारः।
यदप्युक्तम् येन येन व्यभिचार उद्भाव्यते स चेत्पक्षेऽन्तर्भावयिष्यते क इदानीमनुमानस्य नियम इत्येतदपि न साधु। यदि हि भवान् निश्चिते विपक्षे वृत्तिमुपदर्शयेत् कस्तं पक्षेऽन्तर्भावयेत्। न हि विप्रत्ये पुंस्त्वस्य, नित्यतायां वा प्रमेयत्वस्य व्यभिचारे चोद्यमाने वेधसापि विपक्षः पक्षीकर्तुं शक्यः, वादीच्छया वस्तुव्यवस्थाया अभावात्। इह तु स्थावरादौ कर्त्रभावनिश्चयो नास्तत्युक्तम्।
ननु स्थावरेषु पक्षीकृतेष्वपि व्यभिचारो न निवर्त्तते एव। न हि सपक्षविपक्षव्यतिरेकेण तात्त्विकः पक्षो नाम कश्चिदस्ति वस्तुनो द्वैरूप्यानुपपत्तेः। वस्तुस्थित्या सकर्तृकाश्चेद् वनस्पतिप्रभृतयः सपक्षा एव ते। न चेत्तर्हि विपक्षा एव, न राश्यन्तरं समस्तीति।
उच्यते। पक्षाबावे सपक्षविपक्षवाचोयुक्तिरेव तावत् किमपेक्षा? पक्षानुकूलो हि सपक्ष उच्यते तत्प्रतिकूलश्च विपक्ष इति। यद्यवं वक्तव्यं तर्हि कोऽयं पक्षो नामेति–
साध्यधर्मान्वितत्वेन द्वाभ्यामप्यवधारितः।
सपक्षस्तदभावेन निश्चितस्य विपक्षता॥
विमतो यत्र तु तयोस्तं पक्षं सम्प्रचक्ष्महे।
वस्तुनो द्व्यात्मकत्वन्तु नानुमन्यामहे वयम्॥
वादिबुद्ध्यनुसारेण स्थितिः पक्षस्य यद्यपि।
तथापि व्यवहारोऽस्ति वस्तुनस्तन्निबन्धनः॥
संदिग्धे हि न्यायः प्रवर्त्तते, नानुपलब्धे, न निर्णोंते इत्युक्तमेतत्। संदिह्यमान एव चार्थः पक्ष उच्यते। किञ्चित् कालं तस्य पक्षत्वं यावन्निर्णयो नोत्पन्नः। तदुत्पादे तु नूनं सपक्षविपक्षयोरन्यतरत्रानुप्रवेक्ष्यत्यसौ। अतश्च पक्षावस्थायां तेन व्यभिचारोद्भावनमसमीचीनम्।
ननु निश्चितविपक्षवृत्तिरिव संदिग्धविपक्षवृत्तिरपि न हेतुरेव तदेवं वीरुधादिषु संदिग्धेऽपि कर्त्तरि सन्निवेशस्य दर्शनाद् अहेतुत्वात्। नैतत्सारम्। सदसत्पावकतया पर्वते संदिग्धे विपक्षे वर्त्तमानस्यधूमस्याहेतुत्वप्रसङ्गात्। सर्व एव च साध्यांशसंशयाद् विपक्षा एव जाता इति पक्षवृत्तयो हेतव इदानीं विपक्षगामिनो भवेयुरित्यनुमानोच्छेदः।
अथ पक्षीकृतेऽपि धर्मिणि सदसत्साध्यधर्मतया सन्दिग्धे वर्त्तमानो धूमादिरन्यत्र व्याप्तिनिश्चयाद् गमक इष्यते, तर्हि सदसत्कर्तृकतया संदिग्धेऽपि वसुन्धरावनस्पत्यादौ वर्त्तमानं कार्यत्वमन्यत्र व्याप्तिनिश्चयाद् गमकमिष्यताम्, विशेषो वा वक्तव्यः।
अन्येमन्यन्ते किम् अकृष्टजातस्थावरादिव्यभिचारस्थानान्वेषणेन? पृथिव्यादिबिरेवात्र व्यभिचारः, अस्य व्याप्तिग्रहणस्य प्रतीघातात्। व्याप्तिर्हि गृह्यमाणा सकलसपक्षक्रोडीकारेण गृह्यते। इत्यञ्च तस्यां गृह्यमाणायामेव यद्यत् सन्निवेशविशिष्टं तत्तद्बुद्धिमत् कर्त्तृ कमित्यस्मिन्नेवावसरे सन्निवेशवन्तोऽपि कर्त्तृ शून्यतया शैलादयश्चेतसि स्फुरन्ति। यथा कृतकत्वेन वह्नेरनुष्णतानुमाने यद् यत् कृतकं तत्तदनुष्णमिति व्याप्तिपरिच्छेदवेलायामेव वह्निरुष्णोऽकृतक इति हृदयपथमवतरति, तत्र ह्यतिव्याप्तौ ग्रृह्यमाणायां ततो हेतोः षण्ढादिव पुत्रजननमघटमानमेव वन्ध्यानुमानमिति।
तदेतदनुपपन्नम्। विशेषोल्लेखरहितसामान्यमात्रप्रतिष्ठितस्य व्याप्तिपरिच्छेदस्यानुमानलक्षणे निर्णीतत्वात्। अग्न्यनुष्णतानुमाने हि न व्याप्तिग्रहणप्रतिघातादप्रामाण्यमपि तु प्रत्यक्षविरोधादुत्युक्तमेतत्। अपि चायं पृथिव्यादौ कर्त्रनुमाननिरासप्रकारः `शब्दाद्युपलब्धयः करणपूर्विकाः क्रियात्वात् छिदिक्रियावदि’त्यत्र श्रोत्रादिकरणानुमानेऽपि समानः। प्रतिबन्धावधारणवेलायामेव करणशून्यानां शब्दाद्युपलब्धिक्रियाणामवधारणात् ताभिरेव व्यभिचारात् पक्षेण च पृथिव्यादिना व्यभिचारचोदनमत्यन्तमलौकिकम्।
ननु वस्तुस्थित्या पर्वतादयोऽपि विपक्षा एव। त्वया तु तेषां पक्ष इति नाम कृतम्, न च त्वदिच्छया वस्तुस्थितिर्विपरिवर्तते।
नन्वेवं शब्दाद्युपलब्धयोऽपि वस्तुस्थित्या विपक्षा एव, तासामपि पक्ष इति नामकरणमेव स्यात्? न। तासां करणभावनिश्चयानुत्पादान्न विपक्षत्वम्। पर्वतादावपि कर्त्रभावनिश्चयानुत्पादान्न विपक्षत्वम्। तेषु कर्त्ता नोपलभ्यते इति चेत् शब्दाद्युपलब्धिकारणमपि नोपलभ्यते एव। कारणमदृश्यमानत्वादेव नोपलभ्यते, न नास्तित्वादिति चेत्, कर्त्ताप्यदृश्यत्वादेव नोपलभ्यते न नास्तित्वात्। अनुमानात् करणमुपलभ्यते तद्व्यतिरेकेण क्रियानुपपत्तेरिति चेत्, कर्त्ताप्यनुमानादुपलप्स्यते कर्त्तारमन्तरेण कार्यानुपपत्तेः।
तेनानुमानगम्यत्वान्न कर्तुर्नास्तिताग्रहः।
तदभावाद् विपक्षत्वं क्षित्यादेरपि दुर्भणम्॥
लिङ्गात् पूर्वन्तु सन्देहो दहनेऽपि न वार्यते।
तथा सति प्रपद्येत धूमोऽप्यननुमानताम्॥
अथास्य लिङ्गाभासत्वं क्षित्यादौ कर्त्रदर्शनात्।
धूमेऽपि लिङ्गाभासत्वं तत्र देशेऽग्न्यदर्शनात्॥
ननु तं देशमासाद्य गृह्यते धूमलाञ्छनः।
अनयैव धिया साधो चरस्व शरदां शतम्॥
यत् पश्चाद्दर्शनं तेन किं लिङ्गस्य प्रमाणता।
अनर्थित्वाददृष्टे वा कृशानौ किं करिष्यसि॥
तस्मात् सर्वथा नायमनैकान्तिको हेतुः।
यदपि विशेषविरुद्धथ्वमस्य प्रतिपादितं तदप्यसमीक्षिताभिधानम्, विशेषविरुद्धस्य हेत्वाभासस्याभावात्। अभ्युपगमे वा सर्वानुमानोच्छेदप्रसङ्गात्। श्रोत्राद्यनुमानेऽपि यथोदाहृते शक्यमेवमभिधातुम्। यादृगेव लवनक्रियायां दात्रादि करणं काठिन्यादिधर्मकमवगतं तादृगेव श्रोत्रादिस्यात् तद्विलक्षणकरणसाध्यतायान्तु साध्यविकलो दृष्टान्तः, छेदनादिक्रियामामतीन्द्रियकरणकार्यत्वादर्शनादिति।
अथ क्रियामात्रं करणमात्रेण व्याप्तमवगतमिति तावन्मात्रमनुमापयति, तदिहापि सन्निवेशमात्रमधिष्ठातृमात्रेण व्याप्तमुपलब्धमिति तावन्मात्रमेवानुमापयतु, विशेषाणान्तु न तल्लिङ्गमस्ति यन्न बाधकम्, `अनित्यः शब्दः कृतकत्वादि’त्ययमपि श्रावणत्वादि शब्दस्य विशेषजातं बाधत एव, धूमोऽपि पर्वताग्निविशेषान् कांश्चिन् महानसाग्नावदृष्टानपहन्त्येव। तस्माद्यथानिर्दिष्टसाध्यविपर्ययसाधनमेव विरुद्धो हेतुर्न हि विशेषविपर्ययावहः। प्रकृतहेतुश्च साध्यविपर्ययस्याकर्तृपूर्वकस्य न साधकः, अश्वोऽयं विषाणित्वादितिवत्। तस्मान्न विरुद्धः, नापि कालात्ययापदिष्टः, प्रत्यक्षागमयोर्बाधकयोरदर्शनात्। प्रत्युतागममनुग्राहकमिहोदाहरिष्यामः। नापि सत्प्रतिक्षोऽयं हेतुः, संशयबीजस्य विशेषाग्रहणादेरिह हेतुत्वेनानुपादानात्। नाप्ययमप्रयोजको हेतुः यथा परमाणूनामनित्यत्वे साध्ये मूर्त्तत्वमभिधास्यते। न हि मूर्त्तत्वप्रयुक्तमनित्यत्वम्, इह तु कार्यत्वप्रयुक्तमेव सकर्तृकत्वं तत्र तत्रोपलब्धमित्यत एवानुमानविरोधस्येष्टविघातकृतश्च न कश्चिदिहावसरः, प्रयोजके हेतौ प्रयुक्ते तथाविधपांसुप्रक्षेपप्रयोगानवकाशात्। तस्मात् परोदीरिताशेषदोषविकलकार्यानुमानमहिम्ना नूनमीश्वरः कल्पनीयः। सकललोकसाक्षिकमनुमानप्रामाण्यमपीक्षणीयम्। अनुमानप्रामाण्यरक्षणे च कृत एव परिकरबन्धः प्रागिति सिद्ध एवेश्वरः। अन्यदपि तदनुमानमन्यैरुक्तम्, महाभूतादिव्यक्तं चेतनाधिष्ठितं सत् सुखदुःखे जनयति रूपादिमत्त्वात् तूर्यादिवत्, तथा पृथिव्यादीनि भूतानि चेतनाधिष्ठितानि सन्ति धारणादिक्रियां कुर्वन्ति युग्यादिवदिति। अत्रापि दोषाः पूर्ववदेव परिहर्त्तव्याः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%येषामप्यनवगतोत्पत्तीनामि%ति। शब्दाधिकरणे भाष्यं शब्दस्य कारणाभावाद्धेतोः कारणविनाशात् कारणसंयोगविनाशाद्वा विनाशाशङ्काप्रतिषेधपरम् “येषामनवगतोत्पत्तीनां द्रव्याणां भाव एव लक्ष्यते, तेषामपि केषाञ्चिदनित्यता गम्यते, येषां विनाशकारणमुपलक्ष्यते, यथाभिनवं पटं दृष्ट्वा; न चैनं क्रियमाणमुपलब्धवान्, अथवानित्यत्वमस्याध्यवस्यति रूपमेव हि दृष्ट्वा। तन्तुव्यतिषङ्गजनितोऽयं तद्व्यतिषङ्गविमोचनात् तन्तुविनाशाद्वा विनङ्क्ष्यति, इत्येवमवगच्छन्ति। न चैवं शब्दस्य किञ्चित् कारणमुपलभामहे यद्विनाशाद् विनङ्क्ष्यतीत्यवगमय्ते” इति भाष्यम्। ननु कृतकत्वादनित्यत्वानुमानं न पुनरनित्यत्वात् कृतकत्वानुमानम्, एवंसत्यनित्यत्वात् प्रयत्नानन्तरीयकत्वानुमानमपि स्यादित्याह %वस्तुगतयोश्चे%ति। समव्याप्तिकतया `यद् यत् कृतकं तत् तदनित्यम्, यद् यदनित्यं तत् तत् कृतकम्’ इति। नैव प्रयत्नानन्तरीयकत्वानित्यत्वयोः, `यद् यदनित्यं तत् तत् प्रयत्नानन्तरीयकम्’ इति कर्तुमशक्यत्वात्, विद्युदादौ व्यभिचारात्। वस्तुगतयोरिति वस्तुग्रहणेनाभावगतयोर्व्याप्त्यभावमाह; प्रध्वंसो हि कृतकोऽपि नानित्यः प्रागभावश्चानित्योऽपि न कृतक इति।
%तेन यत्राप्युभौ धर्मौ% इत्यस्य अन्त्यमर्धम् `तत्रापि व्याप्यतैव स्यादङ्गं न व्यापिता मितेः’ इति। यद्यपि कामचारेण व्याप्यव्यापकभावः सिद्ध्यति तथापि व्याप्यत्वेन गमकत्वं वाच्यं न व्यापकत्वेन; “`विषाण्ययं गोत्वात्’ न `विषाणित्वात् गौः’” इत्यादिषु व्याप्यत्वेनैव गमकत्वस्य दर्शनात्। तदुक्तम
विस्पष्टं इष्टमेतच्च गोविषाणित्वयोर्मितौ।
व्याप्यत्वाद् गमिका गावो व्यापिका न विषाणिता॥
व्याप्यव्यापकयोश्च लक्षणम्
यो यस्य देशकालाभ्यां समो न्यूनोऽपि वा भवेत्।
स व्याप्यो व्यापकस्तस्य समो वाऽभ्यधिकोऽपि वा॥ इति॥
यः कृतकत्वधूमादिर्यस्यानित्यत्वाग्न्यादेर्देशकालाभ्यां समो `यत्र देशे काले वा अनित्यत्वं तत्रावश्यं कृतकत्वम्’ इति, न्यूनस्तु `यस्मिन् देशे काले वाग्निस्तत्र धूमो नावश्यम्’ इति स व्याप्यः; व्यापकस्तु अनित्यत्वाख्यः समः कृतकत्वेन, अभ्यधिकश्च धूमादग्निः, असत्यपि धूमे तस्य भावात्।
%सिद्धं यादृगि%ति। कर्त्रन्वयव्यतिरेकानुविधायि यादृक् सन्निवेशविशेषादि दृष्टं तस्माद् यदनुमीयते कर्तृजातं तद् युक्तमिति तात्पर्यार्थः। %शब्दसाम्यादभेदिन% इति। सन्निवेशशब्दसाम्याद् घटादिसन्निवेशात् कर्तुरनुमितिरयुक्ता, यथा धूमोऽपि पाण्डुर्भवतीति तच्छब्दसाम्यादन्येनापि पाण्डुद्रव्येण नाग्नेरनुमानम्।
%सव्यभिचाराणामपी%ति। तथाहि प्रमेयत्वादयोऽप्यनित्यत्वसिद्धये उपादीयमाना येन येन नित्येन व्यभिचारदर्शनादनैकान्तिकतां प्राप्यन्ते तस्य तस्य पक्षीकरणात् सम्यग् हेतुतां व्रजेयुः।
%अदृश्यस्य च कर्तुरनुपलब्धितो नास्तित्वनिश्चयानुपपत्तेरि%ति। पिशाचादिवदिति भावः।
%तत्समर्थनम्% परलोकसमर्थनम्, तस्मिन् समर्थित एव ते निराकृता भवन्ति। तावतैव नास्तिकताभ्युपगमस्तेषामपाकृतो भवति, परलोकानभ्युपगम एव हि नास्तिकत्वं यतः।
%वस्तुनो द्वैरूप्यानुपपत्तेरि%ति। यथा यस्य नित्यत्वं स नित्यो यस्य तु तदभावः सोऽनित्यो न पुनर्नित्यानित्योऽन्यः क्वचिदस्ति, एवं यस्य साध्यसम्बन्धः स सपक्षो य्सय तु तदभावः स विपक्षो न पुनस्तृतीयः कश्चिदपि राशिर्विद्यत इति भावः।
%अथास्य लिङ्गाभासत्वमि%ति। पूर्वार्धेन परमतमाशङ्क्योत्तरार्धेन `ननु तं देशमासाद्य’ इति समर्थयति।
%यदपि विशेषविरुद्धत्वामि%ति। असर्वज्ञकर्तृपूर्वकाः क्षित्यादयः कार्यत्वाद् घटादिवद् इति।
न्यायम़ञ्जरी :–
%सर्वज्ञेश्वरसाधनम्%
यत्पुनरवादि `कर्तृसामान्यसिद्धौ वा विशेषावगतिः कुतः’ इति तत्र केचिदागमाद् विशेषप्रतिपत्तिमाहुः
विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतो बाहुरुत विश्वतस्पात्।
सम्बाहुभ्यां धमति संपतत्रैर्द्यावाभूमी जनयन् देव एकः॥ इति।
तथा
अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः।
स वेत्ति सर्वं न हि तस्य वेत्ता तमाहुरग्र्यं पुरुषं महान्तम्॥
इति श्रुतौ पठ्यते। ततः सर्वस्य कर्त्ता सर्वज्ञ ईश्वरो ज्ञाप्यते। न च कार्ये एवार्थे वेदः प्रमाणमिति मन्त्रार्थवादानामतत्परत्वमभिधातुमुचितम्, कार्ये इव सिद्धेऽप्यर्थे वेदप्रामाण्यस्य वक्ष्यमाणत्वात्। न चेतरेतराश्रयम् आगमैकशरणत्वाभावादीश्वरसिद्धेः।
अन्ये त्वन्वयव्यतिरेकिहेतुमूलकेवलव्यतिरेकिबलेन विशेषसिद्धिमभिदधति। देहादिव्यतिरिक्तात्मकल्पनमिव सुखदुःखादिगतेन कार्यत्वेन वर्णयिष्यते-पृथिव्यादिकार्यम्, अस्मदादिविलक्षणसर्वज्ञैककर्तृकम्, अस्मदादिषु बाधकोत्पत्तौ सत्यां कार्यत्वादिति।
अपरे पक्षधर्मताबलादेव विशेषलाभमभ्युपगच्छन्ति। न हीदृशं परिदृश्यमानम् अनेकरूपम् अपरिमितम् अनन्तप्राणिगतविचित्रसुखदुःखसाधनं भुवनादिकार्यम् अनतिशयेन पुंसा कर्तुं शक्यमिति। यथा चन्दनधूममितरधूमविसदृशमवलोक्य चन्दन एव वह्निरनुमीयते तथा विलक्षणात् कार्यात् विलक्षण एव कर्त्तानुमास्यते, यथा स्तवरकेभ्य इव तत्कुशलः कुविन्दः, यथा च कुलालः सकलकलशादिकार्यकलापोत्पत्तिसंविधानप्रयोजनाद्यभिज्ञो भवंस्तस्य कार्यचक्रस्य कर्त्ता तथा इयतस्त्रैलोक्यस्य निरवधिप्राणिसुखदुःखसाधनस्य सृष्टिसंहारसंविधानं सप्रयोजनं बहुशाखं जानन्नेव स्रष्टा भवितुमर्हति महेश्वरः, तस्मात् सर्वज्ञः।
अपि च यथा नियतविषयवृत्तीनां चक्षुरादीन्द्रियाणामधिष्ठाता क्षेत्रज्ञः तदपेक्षया सर्वज्ञः, एवं सकलक्षेत्रज्ञकर्मविनियोगेषु प्रभवन्नीश्वरस्तदपेक्षया सर्वज्ञः। तथा चाह व्यासः
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च।
क्षरःसर्वाणि भूतानि कूटस्थोऽक्षर उच्यते॥
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः।
यो लोकत्रयमाविश्य बिभर्त्त्यव्यय ईश्वरः॥
मन्त्रश्च तदर्थानुवादी पठ्यते
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते।
तयोरेकः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति॥ इति।
अतश्च सर्वज्ञ ईश्वरः।
पुंसामसर्ववित्त्वं हि रागादिमलबन्धनम्।
न च रागादिभिः स्पृष्टो भगवानिति सर्ववित्॥
इष्टानिष्टार्थसम्भोगप्रभवाः खलु देहिनाम्।
रागादयः कथन्ते स्युर्नित्यानन्दात्मके शिवे॥
मिथ्याज्ञानमूलाश्च रागादयो दोषास्ते कथं नित्यनिर्मलज्ञानवतीश्वरे भवेयुः?
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%विश्वतश्चक्षुरि%ति। विश्वस्मिन् विश्वतः। विस्वस्मिन् यानि चक्षूंषि तानि चक्षूंषि यस्य स विश्वतश्चक्षुः। एवं विश्वसम्बन्धीनि मुखान्येव मुखं यस्य, विश्वसम्बन्धिनो बाहव एव बाहू यस्य, तत्पादा एव पादौ यस्येति विग्रहीतव्यम्। स द्यावापृथिवी जनयन् बाहुभ्यां बाहुसाध्येन व्यापारेण द्विपदं मनुष्यादीन् संधमति संयुनक्ति, अनेकार्थत्वाद् धातूनां संपूर्वो धमतिः संयोजनार्थः। पतत्रिणः पक्षिणस्तु पक्षैः पक्षव्यापारेण संधमति संयुनक्ति। तदधीना द्विपदां चतुष्पदां स्वस्वव्यापारे प्रवृत्तिरिति दर्शयति। अत्र संशब्देन व्यवहितेनापि धमतीत्यस्य सम्बन्धः, “छन्दसि परेऽपि” “व्यवहिताश्च” इति स्मरणात्।
%अपाणिपादो जवन% इति। स्वतः पाणिपादरहितोऽपि जवनो ग्रहीता पादसाध्यवेगगमनयुक्तो हस्तसाध्यग्रहणयुक्तश्च; चक्षुःश्रवणरहितश्चतज्जन्यदर्शनश्रवणयुक्तः; स वेत्ति वेद्यममनस्कोऽपि सर्वज्ञत्वात्, न च तस्यास्ति वेत्ता ततोऽधिको यस्मात्। तमाहुरग्र्यं प्रधानं कारणम्, महान्तं विभुम्। क्रियाशक्तिः प्रकाशशक्तिश्चेतरात्मनां करणद्वारिका, भगवतः पुनः स्वत इति दर्शयति।
अथ `एवंभूतोऽयं रौद्रश्चरुः प्रशस्तो यस्यैवंविधो रुद्रो देवता’ इति देवतास्तुतिद्वारेण कर्मस्तु तिपर्यवसायित्वादेवंप्रायाणां मनत्रार्थवादानां कथं स्वार्थनिष्ठतेति? तत्राप्याह %न च कार्ये एवार्थे वेदः प्रमाणमि%त्यादि। %न चेतरेतराश्रयमि%ति। सर्ताश्वरे कर्तर्यस्य प्रामाण्यम्, सति चैतत्प्रामाण्ये ईश्वरकर्तृकत्वसिद्धिरिति।
%स्तवरकेभ्य इवे%ति। पट्टसूत्रनिर्मितचित्ररूपः पटः स्तवरक उच्यते।
%अक्षरः% परमात्मा, कूटस्थोऽविचलरूपतया नित्य इत्यर्थः। %लोकत्रयमाविश्य% अधिष्ठातृत्वेनाभिव्याप्य।
%द्वा सुपर्णा% इति। द्वौ क्षेत्रज्ञपरमात्मानौ, सुपर्णौ शोभनगती, सह युज्येते नियम्यनियन्तृभावेनेति सयुजौ परस्परसम्बद्धौ, समानं ख्यानं प्रसिद्धिर्ज्ञातृत्वामूर्तत्वादितुल्यधर्मयोगेन ययोस्तौ सखायौ तुल्यख्याती, समानं वृक्षमिव वृक्षंशरीराख्यं, परिषस्वजाते समाश्रित्य प्रवर्तेते; तयोरेकः पिप्पलमिव पिप्पलं स्वकर्मफलं स्यादु मिष्टं स्वादु च कृत्वा भुङ्क्ते, अनश्नन्नन्यः कर्माभावेन तत्फलस्याभावात्, अभिचाकशीति सर्वमभिपश्यन्नास्ते। यथा सुपर्णौ पक्षिणावेकं वृक्षं समाश्रयत इत्युपमयैवमभिहितम्। संसार्यात्मनान्तु सुगतित्वानुवादो बाहुल्यापेक्षया, न तु सर्वदा संसार्यात्मनः सुगतय इति। द्वा इत्यत्र औकारस्य छान्दसो डादेशः।
न्यायम़ञ्जरी :–
%ईश्वरज्ञानादेर्नित्यत्वसाधनम्%
नित्यं तज्ज्ञानं कथमिति चेत्, तस्मिन् क्षणमप्यज्ञातपि सति तदिच्छाप्रेर्यमाणकर्माधीननानाप्रकारव्यवहारविरामप्रसङ्गात्। प्रलयवेलीयां तर्हि कुतस्तन्नित्यत्वकल्पना इति चेन्, मैवम्। आप्रलयात् सिद्धे नित्यत्वे तदाविनाशकारणाभावादस्यात्मन इव तज्ज्ञानस्य नित्यत्वं सेत्स्यति। पुनश्च सर्गकाले तदुत्पत्तिकारणाभावादपि नित्यत्वं तज्ज्ञानस्य नित्यत्वं सेत्स्यति। पुनश्च सर्गकाले तदुत्पत्तिकारणाभावादपि नित्यत्वं तज्ज्ञानानाम्। एवञ्च तत् अतीतानागतसूक्ष्मव्यवहितादिसमस्तवस्तुविषयम् नभिन्नम्, कर्मयौगपद्यविकल्पानुपपत्तेः। क्रमाश्रयणे क्वचिदज्ञातृत्वं स्यादितिव्यवहारलोपः। यौगपद्यविकल्पानुपपत्तेः। क्रमाश्रयणे क्वचिदज्ञातृत्वं स्यादिति व्यवहारलोपः। यौगपद्येन सर्वज्ञातृत्वे कुतस्त्यो ज्ञानभेदः? प्रत्यक्षसाधर्म्याच्च तज्ज्ञानं प्रत्यक्षमुच्यते न पुनरिन्द्रियार्थसन्निकर्षोत्पन्नत्वमस्यास्ति, अजनकानामेवार्थानां सवितृप्रकाशेनेव ग्रहणात्। ज्ञानवदन्येऽप्यात्मगुणा येऽस्य सन्ति ते नित्या एव, मनः संयोगानपेक्षजन्मत्वात्।
दुःखद्वेषास्तस्य तावन्न सन्त्येव। भावनाख्येन संस्कारेणापि न प्रयोजनम्, सर्वदा सर्वार्थदर्शित्वेन स्मृत्यभावात्। अत एव न तस्यानुमानिकं ज्ञानमिष्यते। धर्मस्तुभूतानुग्रहवतो वस्तुस्वाभाव्याद् भवन् न वार्यते, तस्य च फलं परमार्थनिष्पत्तिरेव। सुखन्त्वस्य नित्यमेव, नित्यानन्दत्वेनागमात् प्रतीतेः, असुखितस्य चैवंविधकार्यारम्भयोग्यत्वाभावात्।
ननु ज्ञानानन्दवदिच्छापि नित्या चेदीश्वरस्य तर्हि सर्वदा तदिच्छासम्भवात् सर्वदा जगदुत्पत्तिरिति जगदानन्त्यप्रसङ्गः। सर्गेच्छानित्यत्वाच्च संहारो न प्राप्नोति। संहारेच्छाया अपि नित्यत्वाभ्युपगमेन नक्तन्द्रिनं प्रलयप्रबन्धो न विरमेदेव जगतामिति, नैष दोषः। अनात्ममनःसंयोगजत्वादिच्छा स्वरूपमात्रेण नित्यापि कदाचित् सर्गेणकदाचित् संहारेण वा विषयेणानुरज्यते। सर्गसंहारयोरन्तराले तु जगतः स्थित्यवस्थायामस्मात् कर्मण इदमस्य सम्पद्यतामितीच्छा भवति प्रजापतेः। प्रयत्नस्तस्य सङ्कल्पविशेषात्मक एव। तथा चागमः `सत्यकामः सत्यसङ्कल्पः’ इति। काम इतीच्छा उच्यते, सङ्कल्प इति प्रयत्नः। तदेवं नवभ्य आत्मगुणेभ्यः पञ्च ज्ञानसुखेच्छाप्रयत्नधर्माः सन्तीश्वरे। चत्वारस्तु दुःखद्वेषाधर्मसंस्कारा न सन्तीत्यात्मविशेष एवेश्वरो न द्रव्यान्तरम्। आह च पतञ्जलिः `क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः’ इति। सोऽयमागमादनुमानात् पक्षधर्मतो वा विशेषलाभ इति स्थितम्।
न्यायमञ्जरी :–
%ईश्वरस्य शरीराभावसाधनम्%
यत् पुनर्विकल्पितं सशरीर ईश्वरः सृजति जगद्, अशरीरो वेति? तत्राशरीरस्यैव स्रष्टृत्वमस्याब्युपगच्छामः।
ननु क्रियावेशनिबन्धनं कर्तृत्वं न पारिभाषिकम्, तत् अशरीरस्य क्रियाविरहात् कथं भवेत्? कस्य च कुत्राशरीरस्य कर्तृत्वं दृष्टमिति? उच्यते। ज्ञानचिकीर्षाप्रयत्नयोगित्वं कर्तृत्वमाचक्षते तच्चेश्वरे विद्यत एवेत्युक्तमेतत्। स्वशरीरप्रेरणे च दृष्टमशरीरस्याप्यात्मनः कर्तृत्वम्। इच्छामात्रेण च तस्य कर्तृत्वादनेकव्यापारनिर्वर्त्तनोपात्तदुर्वहक्लेशकालुष्यविकल्पोऽपि प्रत्युक्तः।
नन्वत्रोक्तम्
कुलालवच्च नैतस्य व्यापारो यदि कल्प्यते।
अचेतनः कथं भावस्तदिच्छामनुवर्त्तते॥ इति।
अस्माभिरप्युक्तमेव
यथ ह्यचेतनः काय आत्मेच्छामनुवर्त्तते।
तदिच्छामनुवत्स्यन्ते तथैव परमाणवः॥
न्यायमञ्जरी :–
%ईश्वरस्य सृष्टिप्रलयकर्तृस्वभावत्वकथनम्%
यस्तु प्रयोजनविकल्पः, किमर्थं सृजतिजगन्ति भगवानिति? सोऽपि न पेशलः। स्वभाव एवैष भगवतो यत् कदाचित् सृजति कदाचिच्च संहरति विश्वमिति। कथं पुनर्नियतकाल एषोऽस्य स्वभाव इति चेद्, आदित्यं पश्यतु देवानां प्रियः, यो नियतकालमुदेत्यस्तमेति च। प्राणिकर्मसापेक्षमेतद्विवस्वतो रूपमिति चेद्, ईश्वरेऽपि तुल्यः समाधिः।
क्रीडार्थेऽपि जगत्सर्गे न हीयेत क्रियार्थता।
प्रवर्त्तमाना दृश्यन्ते न हि क्रीडासु दुःखिताः॥
अथ वा अनुकम्पयैव सर्गसंहारावारभतामीश्वरः।
नन्वत्र चोदितम्, अनुपपन्नन्तु अनादित्वात् संसारस्यशुभाशुभसंस्कारानुविद्धाएवात्मानस्ते च धर्माधर्मनिगडसंवृतत्वादपवर्गपुरद्वारप्रवेशमलभमानाः कथं नानुकम्प्याः? अनुपभुक्तफलानांकर्मणां न प्रक्षयः। सर्गमन्तरेण च तत्फलभोगाय नरकादिसृष्टिमारभते दयालुरेव भगवान्। उपभोगप्रबन्धेन परिश्रान्ता नाम् अन्तरान्तरा विश्रान्तये जन्तूनां भूवनोपसंहारमपि करोतीति सर्वमेतत् कृपानिबन्धनमेव।
ननु च युगपदेव सकलजगत्प्रलयकरणमनुपपन्नम्, अविनाशिनां कर्मणां फलोपभोगप्रतिबन्धासम्भवाद् इति चोदितम्। न युक्तमेतत्। ईश्वरेच्छाप्रतिबद्धाना कर्मणां स्तिमितशक्तीनामवस्थानात्। तदिच्छाप्रेरितानि कर्माणि फलमादधति तदिच्छाप्रतिबद्धानि च तत्रोदासते। कस्मादेवमिति चेत्? अचेतनानां चेतनानधिष्ठितानां स्वकार्यकरणानुपलब्धेः।
न्यायमञ्जरी :–
%जीवात्मनाञ्च कर्मानधिष्ठातृत्वम्%
ननु तेषामेव कर्मणां कर्त्तार आत्मानश्चेतना अधिष्ठातारो भविष्यन्ति? यथाह भट्टः `कर्मभिः सर्वबीजानां तत्सिद्धेः सिद्धसाधनमि’ति। नैतदेवम्। नैते अधिष्ठातारो भवितुमर्हन्ति, बहुत्वाद् विरुद्धाभिप्रायत्वाच्च। तथा ह्येक एव कश्चित् स्थावरादिविशेषो राजादिविशेषो वा प्राणिकोटीनामनेकविधसुखदुःखोपभोगस्य हेतुः स तैर्बहुभिरव्यवस्थिताभिप्रायैःकथमारभ्येत? तेषामेकत्र संमानाभावात्। मठपर्षदोऽपि क्वचिदेव सकलधारणोपकारिणि कार्ये भवत्यैकमत्यम्, न सर्वत्र। महाप्रासादाद्यारम्भे बबूनां तक्षादीनामेकस्थपत्याशयानुवर्त्तित्वं दृश्यते। पिपीलिकानामपि मृत्कूटकरणे तुल्यः कश्चिदुपकारः प्रवर्त्तकः, स्थपतिवदेकाशयानुवर्त्तित्वं वा कल्प्यम्। इह तु तत्स्थावरं शरीरं केषाञ्चिदुपकारणमितरेषामपि भूयसामपकारकारणमिति कथं तैः सम्भूय सृज्यते अनधिष्ठितानान्त्वचेतनानामारम्भकत्वमयुक्तमेव तस्मादवश्यमेकस्तेषां कर्मणामधिष्ठाता कल्पनीयः, यदिच्छामन्तरेण भवन्त्यपि कर्माणि न फलजन्मने प्रभवन्ति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%कर्मभिः सर्वबीजानामि%त्यस्य पूर्वमर्धम् `कस्यचिद्धेतुमात्रस्य यद्यधिष्ठातृतीच्यते’इति। कर्मभिस्तत्सिद्धेरधिष्ठातृत्वसिद्धेः। बीजकार्यत्वाद् बीजशब्देन कार्यमत्रोच्यते, उपभोगसाधनत्वाद् वा कार्यं बीजमुक्तम्, कर्मद्वारेण चात्मेच्छापूर्वकत्वात् सर्वकर्मणामात्मेच्छाधिष्ठातृत्वसिद्धिर्विवक्षिता। मठच्छात्राणां भिन्नाबिप्रायाणामपि क्वचित् कार्ये सङ्गानेऽपि नास्ति सर्वत्रैकमत्यमिति प्रदर्शयितुमाह %मठपर्षदोऽपी%त्यादिना।
न्यायम़ञ्जरी :–
%ईश्वरस्यैकत्वमेव%
अत एवैक ईश्वर इष्यते न द्वौ बहवो वा, भिन्नाभिप्रायतया लोकानुग्रहोपघातवैशसप्रङ्गात्, इच्छाविसवादसम्भवेन च ततः कस्यचित् सङ्कल्पविघातद्वारकानैश्वर्यप्रसङ्गाद्, इत्येकं एवेश्वरः। तदिच्छया कर्माणि कार्येषु प्रवर्त्तन्ते इत्युपपन्नः सर्गः। तदिच्छाप्रतिबन्धात् स्तिमितशक्तीनि कर्माण्युदासते इत्युपपन्नः प्रलयः। एवञ्च यदुक्तम्
तस्मादद्यवदेवात्र सर्गप्रलयकल्पना।
समस्तक्षयजन्मभ्यां न सिद्धत्यप्रमाणिका॥
इत्येतदपि न साम्प्रतम्। तिष्ठतु वा सर्गप्रलयकालः, उद्यत्वेऽपि यथोक्तनयेन तदिच्छामन्तरेण प्राणिनां कर्मविपाकानुपपत्तेरवश्यमीश्वरोऽभ्युपगन्तव्यः, इतरथा सर्वव्यवहारविप्रलोपः। तदुक्तम्
अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः।
ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेव वा॥ इति
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%तस्मादद्यवदेवे%ति। समस्तक्षयजन्मभ्यां समस्तक्षयजन्मनी आश्रित्य। अतीतः कालो धर्मीसमस्तक्षयजन्मयुक्तो न भवति, कालत्वात्, अद्यतनकालवदिति दृष्टान्तः।
न्यायम़ञ्जरी :–
%जगद्वैचित्र्यं कर्माधीनं न तु ईश्वरेच्छाधीनम्%
नन्वेवं तर्हि ईश्वरेच्छैव भवतु कर्त्री संहर्त्री च किं कर्मभिः? मैवम्। कर्मभिर्विना जगद्वैचित्र्यानुपपत्तेः। कर्मनैरपेक्ष्यपक्षेऽपि त्रयो दोषा दर्शिता एवेश्वरस्य निर्दयकर्मचोदनानर्थक्यमनिर्मोक्षप्रसङ्गश्चेति, नस्मात् कर्मणामेव नियोजने स्वातन्त्र्यमीश्वरस्य, न तन्निरपेक्षम्। किं तादृशैश्वर्येण प्रयोजनमिति चेन्न, न प्रयोजनानुवर्त्ति प्रमाणं भवितुमर्हति, किं वा भगवतः कर्मापेक्षिणोऽपि न प्रभुत्वमित्यलं कुतर्कलवलिप्तमुख-नास्तिकालापपरिमर्देन।
तस्मात् कुतार्किकोद्गीतदूषणाभासवारणात्।
सिद्धस्त्रैलोक्यनिर्माणनिपुणः परमेश्वरः।
ये त्वीश्वरं निरपवाददृढप्रमाण-
सिद्धस्वरूपमपि नाभ्युपयन्ति मूढाः।
पापाय तैः सह कथापि वितन्यमाना
जायेत नूनमिति युक्तमतो विरन्तुम्॥
यस्येच्छयैव भुवनानि समुद्भवन्ति
तिष्ठन्ति यान्ति च पुनर्विलयं युगान्ते।
तस्मै समस्तफलभोगनिबन्धनाय
नित्यप्रबुद्धमुदिताय नमः शिवाय॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%न प्रयोजनानुवर्ति प्रमाणमि%ति। प्रमाणात् तथाविधं तदैश्वर्यमवगमय्ते, यदि तन्निष्प्रयोजनं तत्प्रमाणं कि करोति। न हि लोष्ट्रदर्शनस्य निष्प्रयोजनत्वात् सुवर्णदर्शनं तदिति कल्प्यते।
नित्यप्रबुद्धमुदिताय। नित्यो यः प्रबोधो ज्ञानम्, नित्यश्च यो मोदः सुखं तद्युतो यः।
न्यायम़ञ्जरी :–
%शब्दानां नित्यत्वान्न वेदानामीश्वरकर्तृत्वं वक्तृत्वं वेति मीमांसकाः%
ननु त्रैलोक्यनिरमाणनिपुणे परमेश्वरे।
सिद्धेऽपि तत्प्रणीतत्वं न वेदस्यावकप्लते॥
पदे शब्दार्थसम्बन्धे वेदस्य रचनासु वा।
कर्तृत्वमस्याशङ्क्येत तच्च सर्वत्र दुर्वचम्॥
वर्णराशिः क्रमव्यक्तः पदमित्यबिधीयते।
वर्णानाञ्चाविनाशित्वात् कथमीश्वरकार्यता॥
सम्बन्धोऽपि न तत्कार्यः स हि शक्तिस्वभावकः।
शब्दे वाचकशक्तिश्च नित्यैवाग्नाविवोष्णता॥
रचना अपि वैदिक्यो नैताः पुरुषनिर्मिताः।
कविप्रणीतकाव्यादिरचनाभ्यो विलक्षणाः॥
एवञ्च वेदे स्वातन्त्र्यमीश्वरस्य न कुत्रचित्।
कामन्तु पर्वतानेष विदधातु भिनत्तु वा॥
स्वतः प्रामाण्यसिद्धौ तु वेदे वक्त्रनपेक्षताम्।
वदामो, न तु सर्वत्र पुरुषद्वेषिणो वयम्॥
अनपेक्षत्वमेवातो वेदप्रामाण्यकारणम्।
युक्तं वक्तापि वेदस्य कुर्वन्नपि करोतु किम्॥
न्यायमञ्जरी :–
%शब्दानित्यत्ववादिमतखण्डनार्थं पूर्वपक्षवर्णनम्%
कथं पुनरमी वर्णाः श्रुतमात्रतिरोहिताः।
नित्या भवन्तु कोऽयं वा शब्दस्वातन्त्र्यदोहदः॥
उच्यते
शब्दस्य न ह्यनित्यत्वे युक्तिः स्फुटति काचन।
प्रत्यक्षमर्थापत्तिश्च नित्यतां त्वधिगच्छतः॥
तथाहि, अनित्यहेतव इमे किल कथ्यन्ते प्रयत्नानन्तरमुपलब्धेः कायः शब्द इति। कार्यत्वानित्यत्वयोः परस्पराविनाभावादेकतरसिद्धावन्यतरसिद्धिर्भवत्येवेति क्वचित् किञ्चित्साधनमुच्यते। प्रयत्नप्रेरितकौष्ठ्यमारुतसंयोगविभागानन्तरमुपलभ्यमानः शब्दस्तत्कार्य एवेति गम्यते। उच्चारणादूर्ध्वमनुपलब्धेरनित्यः, शब्दः, न ह्येनमुच्चरितं मुहूर्त्तमप्युपलभामहे तस्माद् विनष्ट इत्यवगच्छामः। करोतिशब्दव्यपदेशाच्च कार्यः शब्दः, शब्दं कुरु शब्दं कुरु शब्दं मा कार्षीरिति व्यवहर्त्तारः प्रयुञ्जते ते नूनमवगच्छन्ति कार्यः शब्द इति। नानादेशेषु च युगपदुपलम्भात् तेषु तेषु देशेषु क्रियमाणानामुपपद्यतेऽनेकदेशसम्बन्ध इति। शब्दान्तरविकार्यत्वाच्च अनित्यः शब्दः, दध्यत्रेति इकार एव यकारीभवति। सादृश्यात् स्मृतेश्चावगम्यते विकार्यत्वाच्च द्राक्षेक्षुरसादिवदनित्यत्वमस्येति। कारणवृद्ध्या च वर्धमानत्वात् बहुभिर्महाप्रयत्नैरुच्चार्यमाणो महान् गोशब्द उपलभ्यते अल्पैरल्पप्रयत्नैरुच्चार्यमाणोऽल्प इत्येतच्च तन्तुवृद्ध्या वर्धमानः पटो ज्ञातः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%सादृश्याद्% दध्यत्रेति इ-कारवद् य-कारस्यापि तालव्यत्वात्। %स्मृतेर्व्याकर%णलक्षणाया “इको यणचि” इत्यादिकायाः। %प्रयोगाभिप्रायश्चे%ति। `शब्दं कुरु’ `शब्दप्रयोगं कुरु’ इति, अतो न `शब्दमुत्पादय’ इति; यथा `गोमयान् कुरु’ संस्कारार्थो न करोत्यर्थो न तूत्पादयेति।
न्यायम़ञ्जरी :–
%शब्दनित्यत्वसिद्धिः%
सिद्धे नित्यत्वे प्रयत्नाननत्रमुपलम्भाद् अभिव्यक्तिः प्रयत्नकार्या, शब्दस्य नोत्पत्तिरिति गम्यते। तदेवं व्यङ्ग्येऽपि प्रयत्नानन्तरमुपलम्भसम्भवादनैकान्तिकत्वम्, अभिव्यञ्जकानाञ्च पवनसंयोगविभागानामचिरस्थायित्वान्न चिरमुच्चारणादूर्ध्वमुपलभ्यते शब्दः। प्रयोगाभिप्रायश्च करोतिशब्दव्यपदेशोऽस्य भविष्यति `गोमयानि कुरु’ `काष्ठानि कुर्वि’तिवत्, तस्मात् सोऽपि नैकान्तिकः। नानादेशेषु युगपदुपलम्भनमेकस्य स्थिरस्यापि शब्दस्य विवस्वत इव सेत्स्यति। विकार्यत्वं त्वसिद्धमेव शब्दान्तरत्वात्, दधिशब्द इकारान्तः संहिताव्यतिरिक्तविषयवृत्तिः, यकारस्त्वयमन्य एव अचि परतः संहिताव्यतिरिक्तविषयवृत्ति-, यकारस्त्वयमन्य एव अचि परतः संहिताविषये प्रयुज्यमानः, न पुनरिकार एवायं यकारीभूतः क्षीरमिव दधिभूतमुपलभ्यते। न हि इचुयशास्तालव्या इति स्थानसादृश्यमात्रेण तद्विकारत्ववर्णनमुचितम्, अप्रकृतिविकारयोरपि नयनोतप्लपल्लवयोः सादृश्यदर्शनात्। इको यणचि इति पाणिनिस्मृतेरपि नायमर्थः इकारो यकारीभवति क्षीरमिव दधीभवति, किन्त्वस्मिन् विषयेऽयं वर्णः प्रयोक्तव्योऽस्मिन्नयमिति सूत्रार्थः। सिद्धे हिशब्देऽर्थे सम्बन्धे च तच्छास्त्रं प्रवृत्तमिति। अपि च क्षीरं दधित्वमुपैति न तु दधि क्षीरताम् इह तु यकारोऽपि क्वचिद् इकारतामुपैति विध्यतीति सम्प्रसारणे सति, तस्मादसिद्ध एव वर्णानां प्रकृतिविकारभावः, नापि कारणवृद्ध्या वर्धते शब्दः, बलवताप्युच्चार्यमाणानि बहुभिश्च तावन्त्येवाक्षराणि, ध्वनय एव तथा तत्र प्रवृद्धा उपलभ्यते न वर्णा इति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%सद्धि हि शब्देऽर्थे% इति। सिद्धे नित्य इत्यर्थः। तदुक्तम् `सिद्धे शब्दार्थसम्बन्धे लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रे धर्मनियमः क्रियते’ इति।
न्यायम़ञ्जरी :–
%शब्दार्थयोः सम्बन्धज्ञानमपि शब्दनित्यत्वसाधकम्%
तथाहि `गां शुक्लामानय’ इत्येकवृद्धप्रयुक्तशब्दश्रवणे सति चेष्टमानमितरं वृद्धमवलोकयन् बालस्तटस्थः तस्यार्थप्रतीतिं तावत् कल्पयति आत्मनि तत्पूर्विकायाश्चेष्टाया दृष्टत्वात्, प्रमाणान्तरासन्निधानाद् एतद्वृद्धप्रयुक्तशब्दसमनन्तरञ्च प्रवृत्तेः, तत एव शब्दात् किमप्यनेन प्रतिपन्नमिति मन्यते, ततः क्षणान्तरे तमर्थं तेन वृद्धेनानीयमानमुपलभमान एव बुध्यते अयमर्थोऽमुतः शब्दादनेनावगत इति। स चार्थोऽनेकगुणक्रियाजातिव्यक्त्यादिरूपसंकुल उपलभ्यते, शब्दोऽप्यनेकपदकदम्बकात्मा श्रुतः तत् कतमस्य वाक्यांशस्य कतमोऽर्थांशो वाच्य इत्यावापोद्वापयोगेन बहुकृत्वः शृण्वन् गुमक्रियादिपरिहारेण गोत्वसामान्यमस्मन्मते त्वन्मते वा तद्वन्मात्रं गोशब्दस्याभिधेयं निर्धारयतीति।
एवं दीर्घाध्वसापेक्षसम्बन्धाधिगमावधि।
शब्दस्य जीवितं सिद्धमिति नाशुविनाशिता॥
न्यायमञ्जरी :–
%शब्दनित्यतायां न शब्दादर्थप्रतिपत्तिः सम्भाव्यते%
भवतु वा नश्वरस्यापि शब्दस्य सम्बन्धग्रहणं तथाऽपि तस्मिन् गृहीतसम्बन्धे शब्दे विनष्टे सति कथमनवगतसम्बन्धाद् अभिनवाद् इदानीमन्यस्माच्छब्दादर्थप्रतिपत्तिः।
अन्यस्मिन् जातसम्बन्धे यद्यन्तो वाचको भवेत्।
वाचकाः सर्वशब्दाः स्युरेकस्मिन् जातसंगतौ॥
न च वक्ता व्यवहरणाणः तदैव शब्दं चोच्चारयति सम्बन्धं करोति चैतञ्च व्युत्पादयति परञ्च व्यवहारयतीति। न हि युगपदिमाः क्रियाः भवितुमर्हन्ति, एवमदर्शनात्। अथादौ सम्बन्धग्रहणे वृत्ते तस्मिन् विनष्टेऽपि गोशब्दः स एवेति। न च भूयोऽवयवसामान्ययोगरूपसादृश्यं वर्णानाम् अनवयवानामुपपद्यते अभिनवस्य शब्दस्य स्वयमर्थवत्तानवधारणात् कथमयममुतः श्रोता प्रतिपद्येतेति शङ्कमानो वक्ता कर्थं प्रयोगं कुर्यात्। तर्हि यत्सदृशमसौ प्रयुङ्क्ते तस्याप्यन्यसादृश्यादेवार्थवत्तेति जगत्सर्गकालकृतस्य मूलभूतस्यार्थवतः शब्दस्य स्मरणं तन्मूलत्वाद् व्यवहारस्य, न चैवमस्ति, न च ततः प्रभृत्यद्य यावत् सादृश्यमनुवर्त्तते, तत्सदृशसदृशकल्पनायां मूलसादृश्यविनाशात्, विशेषतस्तु शब्दानाम्।
भिन्नैर्वक्तृमुखस्थानप्रयत्नकरणादिभिः।
न निर्वहति सादृश्यं शब्दानां दूरवर्त्तिनाम्॥
सादृश्यजनितत्वे च मिथ्यैवार्थगतिर्भवेत्।
धूमानुकारिनीहारजन्यज्वलनबुद्धिवत्॥
तस्मात् सादृश्यनिबन्धनार्थप्रतीत्यनुपपत्तेर्गोशब्द एव स्थायीत्यभ्युपगमनीयम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%तर्हि यत्सदृशमसौ प्रयुक्त% इति। यतः येनार्थः प्रतिपन्नः सोऽपि साक्षादर्थवान् न भवति सम्बन्धाभावात् तेनार्थेनाभिनवोत्पन्नत्वेन तस्याप्यर्थवत्सादृश्येन गमकः।
%मूलसादृश्यविनाशादि%ति। यथाहि–पितृसदृशः पुत्रस्तत्सदृशः तत्पुत्रो मूलपितुः सादृश्याद् दूरीभवन् दृश्यते यावद् अन्येऽपि तत्पुत्रतत्पुत्रास्तत्सादृश्यं मनागपि न स्पृशन्तीति।
%भिन्नैर्वक्तृमुके%ति। रथानं ताल्वादि, प्रयत्न ईषत्स्पृष्टतादिः, करणं जिह्वामूलादि।
न्यायम़ञ्जरी :–
%न च गोशब्दत्वादिकं सामान्यमस्ति%
नु यथा धूमव्यक्तिभेदेऽपि धूमत्वमतिमवलम्ब्य सम्बन्धग्रहणादिव्यवहारनिवहनिर्वहणम् एवमिह गकारादिवर्णव्यक्तिभेदेऽपि सामान्यनिबन्धनस्तन्निर्वाहः करिष्यते इति।
मैवं तत्र हि धूमत्वसामान्यं विद्यते ध्रुवम्।
शब्दत्वं व्यभिचार्यत्र गोशब्दत्वन्तु दुर्घटम्॥
भिन्नैरयुगपत्कालैरसंसृष्टैर्विनश्वरः।
वर्णैर्घटयितुं शक्यो गोशब्दावयवी कथम्॥
अनारब्धे च गोशब्दे गोशब्दत्वं क्व वर्त्तताम्।
पटत्वं नाम सामान्यं न हि तन्तुषु वर्त्तते॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%शब्दत्वं व्यभिचारी%ति। सर्ववर्णेषु भावान्नयतार्थप्रतिपत्तेरभावात्।
न्यायम़ञ्जरी :–
%न वा गत्वादिकं सामान्यम्%
ननु मा भूद् गोशब्दत्वं सामान्यं भिन्नाकारगकारादिव्यक्तिवृत्तभिरेव गत्वादिजातिभिः कार्यं पूर्वोक्तमुपपद्यते, एतदपि नास्ति। गत्वादिजातीनामनुपपत्तेः। भेदाभेदप्रत्ययप्रतिष्ठो हि व्यक्तिजातिप्रविभागव्यवहारः। इह चायमभेदप्रत्ययो वर्णैक्यनिबन्धन एव न जातिकृतः, भेदप्रतिभासं व्यञ्जकभेदाधीनम्, व्यञ्जकाद्युपाधिनिबन्धनत्वोपपत्तेः परस्परविभक्तस्वरूपतया हि शाबलेयबाहुलेयपिण्डाः प्रत्यक्षमुपलभ्यते, स्थिते च व्यक्तिभेदे सर्वत्र गौरिति तदभेदप्रत्ययस्यानन्यविषयत्वादिष्यते एव गोत्वजातिः। इह पुनः
गकारव्यक्तयो भिन्नाः शाबलेयादिपिण्डवत्।
क्व नाम भवता दृष्टा येनासां जातिमिच्छसि॥
शिशौ पठति वृद्धे वा स्त्रीजने वा शुकेऽपि वा।
वक्तृभेदं प्रपद्यन्ते न वर्णव्यक्तिभिन्नताम्॥
तथा च `गर्गः पठति, माठरः पठती’त्युच्चारयितृभेद एव प्रतीयते, अमुं गविशेषमेष पठतीति नोच्चार्यमाणभेदः।
एककर्त्तृप्रयोगेऽपि तस्यैवोच्चारणं पुनः।
गङ्गागगनगर्गादौन रूपान्तरदर्शनम्॥
द्रुतादिभेदबोधोऽपि नामभेदनिबन्धनः।
न व्यक्तिभेदजनितः शाबलेयादिभेदवत्॥
अभ्युपगतेऽपि गत्वसामान्ये तस्य द्रुतादिभेदप्रतिभासे सत्यपि न भिन्नत्वमेषितव्यम्, औपाधिक एव तस्मिन् भेदप्रतिभासो वर्णनीयः, सोऽयं गकारव्यक्तावेव कथं न वर्ण्यते, तस्या एवैकत्वादेकप्रत्ययो भेदभ्रमस्तु व्यञ्जकाधीन इति। एवं हि कल्पना लघीयसी भवति, तस्मान्न नानागकारवृत्ति गत्वसामान्यं नाम किञ्चिदस्ति।
अपि च गोगुरुगेहाद भिन्नाजुपश्लेषकारित एव व्यञ्जनेषु बुद्धिभेदः परोपाधिरवधार्यते सोऽयमक्ष्वपि परोपाधिरेव भवितुमर्हति, वर्णाश्रितत्वाद् व्यञ्जनभेदप्रत्ययवदिति, तस्माद् गत्ववद् आत्वसामान्यमपि नास्ति। यत्पुनरष्टादशभेदमवर्णकुलमुच्यते तदौपाधिकमेव, ह्रस्वदीर्घप्लुतसंवृतविवृतादिबुद्धीनां ध्वनिभेदानुविधायित्वात्।
विवृतः संवृतादन्यो न गकाराद् वकारवत्।
अपि त्वकार एवासौ प्रतिभाति यथा तथा॥
कथं तर्हि शब्दभेदाभावे भिन्ने अर्थप्रतिपत्ती अरण्यमारण्यमित, ध्वनि कृते एव ते भविष्यतः, अशब्दधर्मस्य दीर्घत्वादेः कथमर्थप्रतीत्यङ्गत्वमिति चेत्, तुरगवेगवद्भविष्यति।
यथा तुरगदेहस्थो वेगः पुंसोऽर्थसिद्धये।
परधर्मोऽपि दीर्घादिरेवं तस्योपकारकः॥
इतश्चैतदकारसामान्यमनुपपन्नम्, अत्वं हि न दीर्घप्लुतयोरनुगतं भवति, आत्वं न ह्रस्वदीर्घयोरिति, तस्मादेकत्वाद् वर्णानां नावान्तरजातयः सम्भवन्ति। शब्दत्वन्तु नियतार्थप्रतिपत्तौ व्यभिचारीत्यतो नात्र धूमादिन्यायः।
तेनार्थप्रत्ययः शब्दादन्यथा नोपपद्यते।
न चेद् नित्यत्वमित्यस्मिन्नर्थापत्तेः प्रमाणता॥
अनुमानादन्यथात्वमर्थापत्तेर्न दृश्यते।
तेनानुमानमप्येतत् प्रयोक्तुं न न शक्यते॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%व्यञ्जकभेदाधीनमि%ति। यथैकमपि मुखं खङ्गादिव्यञ्जकभेदान्नानेवोपलभ्यते।
%न भिन्नत्वमेषितव्यमि%ति। अन्यथा अभिन्नप्रत्ययानिर्वाहात्।
%व्यञ्जनभेदप्रत्ययवदि%ति। यथा व्यञ्जनानां हलां भेदप्रत्यय उपाधिकृत इति। %यत्पुनरष्टादशे%ति। ह्रस्वदीर्घप्लुतभेदेन त्रयोऽकारास्ते च प्रत्येकं सानुनासिकनिरनुनासिकत्वेन षट् सम्पद्यन्ते ते च षट् प्रत्येकमुदात्तानुदात्तस्वरितभेदेनाष्टादश सम्पद्यन्ते। %अवर्णकुलमि%ति। व्यञ्जकभेदमनुवर्तमानानां वर्णआनामेककण्ठादिस्थानावच्छेदेन समुदायवाची कुलशब्दो यथैकदेशाद्युपाधिको वृक्षेषु वनशब्दः।
%विवृतो% दीर्घप्लुतरूपो वर्णः। %संवृताद्% ह्रस्वाद् वर्णात्।
न्यायम़ञ्जरी :–
%शब्दनित्यतायां युक्त्यन्तम्%
तदिदमुच्यते शब्दो धर्मी, नित्य इति साध्यो धर्मः, सम्बन्धग्रहणसापेक्षार्थप्रतिपादकत्वाद् धूमादिजातिवत्, तदिदमुक्तं “नित्यस्तु स्याद्दर्शनस्य परार्थत्वादिति”। एवं सम्बन्धग्रहणात् प्रभृति आ अर्थप्रतिपत्तेरवस्थितस्य विनाशहेत्वभावादात्मादिवन्नित्यत्वम्। न ह्ययमवयवविनाशान्नश्यति शब्दो निरवयवत्वात्। तदेव कथमिति चेद् उच्यते
स्वल्पेनापि प्रयत्नेन यदि वर्णः प्रयुज्यते।
यदि वा नानुभूयेत शकलो नानुभूयते॥
सावयवे हि वस्तुनि द्विधावयवा दृश्यन्ते आरब्धकार्या अनारब्धकार्याश्चेति। इह पुनरारब्धकार्या अनारब्धकार्या वा पटे तन्त्वादय इव वर्णे न केचिदवयवा उपलभ्यन्ते, न चानुमीयन्ते लिङ्गाभावात्, नाप्याश्रयविनाशाद् विनाशः शब्दस्यात्मादिवदनाश्रितत्वात्, आकाशाश्रितत्वपक्षे वा तन्नित्यत्वात्, न चान्यः
तस्मात् तिरोहितोऽप्यास्ते यदि शब्दः क्षणान्तरम्।
मृत्योर्दुःखादपक्रान्तः पुनः केनैष हन्यते॥
अतश्च नित्यः शब्दः, संख्याभावाद्। अष्टकृत्वो गोशब्दः प्रयुक्त इति वदन्ति न त्वष्टौ गोशब्दा इति तेनैकत्वमवगम्यते। योऽयं क्रियाभ्यावृत्तिगणने विहितः कृत्वसुच्प्रत्ययः स क्रियावतामभेदे भवति तेनोच्चारणावृत्तिमात्रम्, तदुक्तम्
क्रियावतामभेदे हि क्रियावृत्तिषु कृत्वसुच्।
तत्प्रयोगाद् ध्रुवं तस्य शब्दस्यावर्त्तते क्रिया। इति॥
संख्यावताम्।
संख्याभिधायिनः शब्दात् कृत्वसुच्प्रत्ययं विदुः।
तदनेन प्रकारेण प्रत्यभिज्ञानमुच्यते॥
प्रमाणं शब्दनित्यत्वे सकलश्रोतृमाक्षिकम्।
तथा ह्यस्ति स एवायं गोशब्द इति वेदनम्।
श्रौत्रं करणकालुष्यबाधसन्देहवर्जितम्॥
श्रोत्रेन्द्रियव्यापारान्वयव्यतिरेकानुविधानाच्छ्रौत्रमिदं विज्ञानम्। न चैतज्जनकस्य करणस्य किमपि दौर्बल्यमुपलभ्यते। न च किं स्विदिति कोटिद्वयसंस्पर्शितयेदं विज्ञानमुपजायते, नच नैतदेवमिति प्रत्ययान्तरमस्मिन् बाधकमुत्पश्यामः। इदानीन्तनास्तित्वप्रमेयाधिक्यग्रहणाच्चेदमनधिगतार्थग्राह्यपि भवितुमर्हति। भवन्मते च गृहीतग्राहित्वेऽपि प्रत्यभिज्ञायाः प्रामाण्यमिष्यते, न हि तदप्रामाण्यं वक्तुं शक्यते शाक्यैरिव भवद्भिः, क्षणिकपदार्थानभ्युपगमात्।
न सादृश्यनिमित्तत्वं वक्तुं तस्याश्च युज्यते।
सामान्यविषयत्वं वा द्वयस्यापि निषेधनात्॥
कैश्चित्तिरोहिते भावादित्यप्रामाण्यमुच्यते।
तदसत् तत्प्रतीत्यैव तिरोधाननिषेधनात्॥
जीवति त्वन्मतेऽप्येष शब्दस्त्रिचतुरान् क्षणान्।
प्रत्यभिज्ञा च कालेन तावता न न सिद्ध्यति॥
एकक्षणायुषि त्वस्मिन् प्रतीतिरतिदुर्लभा।
न खल्वजनकं किञ्चिद् वस्तुज्ञानेन गृह्यत इति॥
क्षणभङ्गभङ्गे वक्ष्यते, अपि च
यथा निशीथे रोलम्बश्यामलाम्बुदडम्बरे।
प्रत्यभिज्ञायते किञ्चिदचिरद्युतिधामभिः॥
तथाविरतसंयोगविभागक्रमजन्मभिः।
प्रत्यभिज्ञायते शब्दः क्षणिकैरपि मारुतः॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%नित्यस्तु स्यादि%ति। दर्शनस्योच्चारणस्य परार्थत्वादर्थप्रतिपत्त्यर्थत्वात्, न चागृहीतसम्बन्धोऽर्थं प्रत्याययतीति नित्यः। नित्यस्तु स्यादिति सूत्रे तुशब्दः पूर्वपक्षव्यावृत्त्यर्थः।
%आरब्धकार्या अनारब्धकार्याश्चे%ति। आरब्धं कार्यं पटलक्षणं यैस्त आरब्धकार्याः साक्षात् पटस्यारम्भकास्तन्तवः, अंश्वादयस्तु साक्षात् पटस्यानारम्भकत्वादनारब्धकार्याः, अंशुभिर्हि तन्तवः साक्षाद् आरभ्यन्त न पटः एवम् अंश्वारम्भकैरप्यंशवो न तन्तवो यावत् परमाणव इति।
%तिरोहिते भावादि%ति। तिरोहिते विनष्टे शब्दे प्रत्यभिज्ञानस्य भावात्, तस्य निर्विषयत्वे शब्दाविनाशितायां न प्रामाण्यमित्यर्थः।
न्यायम़ञ्जरी :–
%शब्दानामभिव्यक्तौ दोषाः%
अत्राह, मारुतैरित्यनेनोपोद्घातेन साधु स्मृतम्। तिष्ठतु तावत्प्रत्यभिज्ञानं, प्रथममेव शब्दस्य यन्नियतग्रहणं तदभिव्यक्तिपक्षे दुर्घटम्।
नित्यत्वाद्व्यापकत्वाच्च सर्वे सर्वत्र सर्वदा।
शब्दाः सन्तीति भेदेन ग्रहणे किं नियामकम्॥
ध्वनयो हि नाम संयोगविभागविशेषिता वायवः, वायुवृत्तयो वा संयोगविभागास्ते हि शब्दस्य व्यञ्जका इष्यन्ते, तैश्च करणं वा संस्क्रियते कर्म वा द्वयं वा सर्वथा च प्रमादः।
करणे संस्कृते तावत् सर्वशब्दश्रुतिर्भवेत्।
गकारायैव संस्कार इत्येष नियमः कुतः॥
अपि च स्तिमितसमीरणापसरणमेव करणस्य संस्कारः। स चायं तद्देशव्यवस्थितसकलतद्विषयसाधारण एव।
यथाजवनिकापायप्राप्तप्रसरमीक्षणम्।
रङ्गभूमिषु तद्देशमशेषं वस्तु पश्यति॥
तथा प्रसरसंरोधिसमीरोत्सारणे सति।
श्रोत्रं तद्देशनिःशेषशब्दग्राहि भविष्यति॥
आकाशञ्च श्रोत्रमाचक्षते भवन्तः, तच्च विभु निरवयवं चेत्, क्वचिदेव तस्मिन् संस्कृते सति सर्वे च तदैव संस्कृतकरणाः प्राणिनः सम्पन्ना इति सर्व एव शृणुयुः। विषये तु संस्क्रियमाणे तस्यानवयवस्य व्यापिनश्च संस्कृतत्वात् सर्वत्र श्रवणमिति। मद्रेष्वबिव्यक्तो गोशब्दः कश्मीरेष्वपि श्रूयेत। न हि तस्याधारद्वारक संस्कारः आकाशवदनाश्रितत्वात्, आकाशाश्रितत्वपक्षेऽपि तदेकत्वात्। नापि भागशः संस्क्रियते गोशब्दः तस्य निरवयवत्वात्। उक्तं हि
अल्पीयसा प्रयत्नेन शब्दमुच्चारितं मतिः।
यदि वा नैव गृह्णाति वर्णं वा सकलं स्फुटमिति॥
उभयसंस्कारपक्षे तु दोषद्वयस्याप्यनतिवृत्तिः सर्वेषां ग्रहणं सर्वत्र श्रवणमिति। न च समानदेशानां समानेन्द्रियग्राह्याणाञ्च भावानां प्रतिनियतव्यञ्जकव्यङ्ग्यत्वमुपलब्धम्।
गृहे दधिघटीं द्रष्टुमानीतो गृहमेधिना।
अपूपानपि तद्देशान् प्रकाशयति दीपकः॥
तस्मात् कृतकपक्षे एव नियतदेशं शब्दस्य ग्रहणं परिकल्पते नाभिव्यक्तिपक्षो इति। अपि च, अभिव्यक्तिपक्षो तीव्रमन्दविभागोऽबिभवश्च शब्दस्य शब्दान्तरेण न प्राप्नोति। न हि शब्दस्तीव्रो मन्दो वा कश्चित्, स्वतस्तस्य भेदाभावात्। संस्कारस्य च तदभिव्यक्तिहेतोर्न काचन तीव्रता मन्दता वा यदनुसारेण विषये तथा बुद्धिः स्यात्। पवनधर्मा वा तीव्रादिर्भवन् कथं श्रोत्रेण गृह्येत्? सावयवे हि वस्तुनि सकलविशेषग्रहणाग्रहणसम्भवात् तदपेक्षया प्रतीतिभेदो भवेत्, इह तु निरवयवे शब्दे न तथोपपद्यते इति। तस्मात् कृतकपक्ष एव श्रेयानिति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%अनेनोपोद्घातेन% प्रस्तावेन।
%स्तिमितसमीरणे%ति। स्तिमितो निश्चलो यः श्रोत्रवर्ती समीरणः।
%न हि तस्याधारद्वारक% इति। यद्यपि शब्दो व्यापी तथापि तदाधाराणामव्यापितत्वात् तद्द्वारेण यः संस्कारः स कथं सकलदेशावस्थितशब्दसंस्कार इति शङ्कामनेन निराकरोति।
%आकाशवदनाश्रितत्वात्% इति। केषाञ्चिन्मीमांसकानामाकाशवदनाश्रितः शब्दः।
%यदि वा नैव गृह्णाती%ति। मन्दोच्चारिते नैव वा गृह्यते, गृह्यते चेत् सकल एव वर्णो गृह्यते न तु तस्य भागा गृह्यन्त इत्यर्थः।
न्यायम़ञ्जरी :–
%शब्दानामभिव्यक्तौ दोषपरिहारः%
अत्रोच्यते, करणसंस्कारपक्ष एव तावदस्तु, तच्च करणं किञ्चिदेव मरुद्भिरुपाहितसंस्कारं कञ्चिदेव शब्दं गृह्णाति।
यथा ताल्वादिसंयोगविभागाः केचिदेव नः।
कस्यचिद् ग्रहणे शक्तं श्रोत्रं कुर्वन्ति संस्कृतम्॥
यथा च तेषामुत्पत्तौ सामर्थ्यनियमस्तव।
तथैवैषामभिव्यक्तौ सामर्थ्यनियमो मम॥
व्यञ्जकानां नियमो न दृष्ट इति चेत्, क एवमाह, सहस्राक्षः? तथा हि पृथिव्यामेव वर्त्तमानो गन्धः समानदेशो भवति समानेन्द्रियग्राह्यश्च, घ्राणैकविषयत्वात्। तस्य च नियमतस्तद्व्यजकव्यङ्ग्यता दृश्यते एव।
क्वचित् पावकसम्पर्कादर्कांशुस्पर्शतः क्वचित्।
क्वचित् सलिलसंसेकाद् गन्धोऽभिव्यज्यते भुवः॥
न च स्तिमितपवनापनोदनमात्रं करणस्य संस्कार इष्यते यः सर्वसाधारणः स्यात्। किन्त्वन्य एव नियतः प्रतिविषयं योग्यतालक्षणः।
यत्पुनरभ्यधायि नभसि श्रोत्रेऽभ्युपगम्यमाने सर्वप्राणिनामेकमेव श्रोत्रं भवेद् इति, तदप्यसाधु, धर्माधर्मयोर्नियामकत्वात्, आकाशस्यापि घटाकाशवदन्यावच्छेदोपपत्तेः, धर्माधर्मनिबन्धन एव वधिरेतरविभागः। अपि च भवतामेवैष दोषो येषामाकाशमेव श्रोत्रमित्यभ्युपगमनियमः। मीमांसकानान्तु नावश्यमाकाशमेव श्रोत्रम्। कार्यार्थापत्तिकल्पितन्तु किमपि करणमात्रं प्रतिपुरुषनियतं श्रोत्रमिति नातिप्रसङ्गः। तथा च भर्त्तृमित्रः, `पवनजनितसंस्कारपक्षो भवतु’ तथापि नातिप्रसह्गः, नियतदेशस्यैव तत्र संस्कारात्। न चास्य भागशः संस्कारो निरवयवत्वात्। तथापि जातिवदस्य ग्रहणनियमो भविष्यति। तथा च भवतामेव पक्षे
यथा सर्वगता जातिः पिण्डदेसैव गृह्यते।
न च कार्त्स्न्यगृहीतापि पिण्डेऽन्यत्र न दृश्यते॥
तथा सर्वगतः शब्दो नाददेशेषु गृह्यते।
कार्त्स्न्येन च गृहीतोऽपि पुनरन्यत्र गृह्यते॥
पिण्डोऽभिव्यञ्जको जातेः शब्दस्य व्यञ्जको ध्वनिः।
आश्रितानाश्रितत्वादिविशेषः क्वोपयुज्यते॥
सर्वगतत्वनिरवयवत्वाविशेषात् तीब्रमन्दत्वादयश्च ध्वनिधर्मा अपि भवन्तः शब्दवृत्तितयावबान्ति. यथा स्थूलत्वकृशत्वादयः पिण्डधर्मा अपि जातिवृत्तित्वेन क्वचिद् गृह्यन्ते, अगृहीतशावलेयोदिविशेषस्य कृशा गाव इत्यादिप्रतिभासदर्शनात्।
यद्वा न तीव्रमन्दादेर्वर्णधर्मतया ग्रहः।
बुद्धिरेव तथोदेति व्यञ्जकानुविधायिनी॥
तावन्त एव ते वर्णाः प्रचयापचयस्पृशः।
एवञ्चाभिभवोऽप्येषां स्वतो नास्ति परस्परम्॥
मरुद्भिरभिभूयन्ते मारुता एव दुर्बलाः।
तेजोभिरिव दीप्तांशोर्दिवा दीपप्रभादयः॥
द्वयसंस्कारपक्षोऽप्येवं समाहितो भवति, उभयेषामपि दोषाणामुत्सारणात्। तस्मात् प्रत्यभिज्ञाप्रत्ययप्रभावसिद्धिनित्यत्वस्य शब्दस्याभिव्यक्तिरेव साधीयसी।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%क एवमाह सहस्राक्ष इति।% यस्य वि (?) सहस्रमक्ष्णां सः यद्येवं वक्तुं शक्नुयात् `न दृष्टः’ इति, न पुनरल्पदर्शी द्विदृगिति।
%योग्यतालक्षणो% नियतविषयग्रहणरूपकार्यानुमेयः।
%तथा च भर्तृमित्रे%ति। भर्तृमित्राख्यस्तन्त्रशुद्ध्यादिप्रकरणकृन्मीमांसकः `कर्मशष्कुल्यां पवनजनितः संस्कारः श्रोत्रम्’ इत्याह, तदन्वयव्यतिरेकानुविधायित्वाच्छब्दग्रहणस्य।
न्यायम़ञ्जरी :–
%शब्दानामभिव्यक्ति-कार्यपक्षयोर्लाघवगौरवविचारः%
इदञ्चालोच्यतामार्याः कार्याबिव्यङ्ग्यपक्षयोः।
शब्दस्य ग्रहणे गुर्वी लध्वी वा कुत्र कल्पना॥
तथा हि भवन्तो वैशेषिकाः, सांख्याः, जैनाः, सौगताश्च कार्यशब्दवादिनः, चार्वाकास्तु वराकाः कस्यैवंविधासु गीष्ठीषु स्मृतिपथमुपयान्ति।
तत्रभवतां वैशिषिकाणां शब्दस्य श्रवणे तावदेषा तुल्यैव कल्पना, संयोगाद् विभागाद् वा शब्द उपजायते, जातश्चासौ तिर्यगूर्ध्वमधश्च सर्वतोदिक्कानि कदम्बगोलकाकारेण सजातीयनिकटधेशानि शब्दान्तराण्यारभते, तान्यपि तथेत्येवं वीचीसन्तानवृत्त्यारम्भप्रबन्धप्राप्तोऽन्त्यः श्रोत्राकाशजन्मा शब्दस्तत्समवेतस्तेनैव गृह्यते इति। तदियं तावदतिघर्घरी कल्पना।
शब्दः शब्दान्तरं सूत इति तावदलौकिकम्।
कार्यकारणभावो हि न दृष्टस्तेषु बुद्धिवत्॥
जन्यन्तेऽनन्तरे देशे शब्दैः स्वसदृशाश्च ते।
तिर्यगूर्ध्वमधश्चेति केयं वा श्रद्दधानता॥
शब्दान्तराणि कुर्वन्तः कथञ्च विरमन्ति ते।
न हि वेगक्षयस्तेषां मरुतामिव कल्पते॥
कुड्यादिव्यवधाने च शब्दस्यावरणं कथम्।
व्योम्नः सर्वगतत्वाद्धि कुड्यमध्ये व्यवस्थितिः॥
अथावरणात्मककुड्यादिद्रव्यसंयोगरहितमाकाशं शब्दजन्मनि समवायिकारणमिष्यते तदत्र विशेषे वक्तव्यम्।
तुल्यारम्भे च मन्देन तीव्रस्य जननं कथम्।
श्रूयते चान्तिकात्तीव्रःशब्दो मन्दस्तु दूरतः॥
वीचीसन्तानतुल्यत्वमपि शब्दे सुदुर्वचम्।
मूर्त्तिमत्त्वक्रियायोगवेगादिरहितात्मसु॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%न दृष्टस्तेषु बुद्धिवदि%ति। यथा लिङ्गादिबुद्धिर्लिङ्ग्यादिबुद्धिमारभमाणा दृश्यते तथा न शब्दः शब्दान्तरमित्यर्थः।
%मूर्तिमत्त्वक्रियायोगे%ति। वीच्या हि मूर्तिमत्त्वादिना वीच्यन्तरकारणजातस्य प्रेरणं क्रियते, तस्मिन् हि सति वीच्यन्तरनिष्पत्तेः। तथा चोक्तम् “देशान्तरगतं कार्यं नामूर्तस्यानभिघ्नतः” इति।
न्यायम़ञ्जरी :–
%शब्दस्य शब्दजनकत्वे प्रमाणाभावप्रदर्शनम्%
यदप्युच्यते सजातीयजनकः शब्दः गुणत्वाद्रूपादिवदिति तदिदमसिद्धमसिद्धेन साध्यं गुणत्वस्यासिद्धत्वात्।
न शब्दः पारतन्त्र्येण कदाचिदुपलभ्यते।
द्रव्यस्थ इव रूपादिरतोऽस्य गुणता कुतः॥
अपि च न शब्दान्तरारम्भकः शब्दो गुणत्वाद् रूपवत्, शब्दः शब्दं नारभते शब्दत्वाच्छ्रोत्रशब्दवत्, न संयोगविभागौ शब्दस्य जनकौ संयोगविभागत्वादन्यसंयोगविभागवद् इत्यादयः प्रतिहेतवोऽप्यत्र सुलभा इति यत् किञ्चिदेतद्।
कापिलास्तु ब्रुवते श्रोत्रवृत्तिः शब्ददेशं गच्छति सा शब्देन विक्रियते इति। तत्र श्रोत्रस्य व्यामिश्रत्वान्नकटदेशेनैव शब्देन तद्वृत्तिर्विक्रियते न दूरदेशेनेत्यत्र को नियमः? नियमाभावाच्च कान्यकुब्जप्रयुक्तो गोशब्दो गौरमूलकेऽपि श्रूयेत। अमूर्त्ता च श्रोत्रवृत्तिः प्रसरन्ती न मूर्तैः कुड्यादिभिरभिहन्तुं शक्यते इति व्यवहितस्यापि शब्दस्य श्रवणं स्यात्।
वायौ शब्दानुकूले च न तस्य श्रवणं भवेत्।
गच्छन्त्याः प्रतिकूलो हि श्रोत्रवृत्तेः स मारुतः॥
दूरेऽपि शब्दस्य श्रवणं यद् दृष्टं प्रतिवातञ्च निकटेऽपि यदश्रवणं तदस्मिन् पक्षे विपरीतं स्यात्।
वृत्तिवृत्तिमतोर्भेदो नास्तीतीन्द्रियवद्भवेत्।
व्यापिका वृत्तिरित्येवं कथं सर्वत्र न श्रुतिः॥
आर्हतास्त्वाहुः सूक्ष्मैः शब्दपूद्गलैरारब्धशरीरः शब्दः स्वप्रभवभूमेः निष्क्रम्य प्रतिपुरुषं कर्णमूलमुपसर्पतीति तदेतदतिसुभाषितम्।
वर्णस्यावयवाः सूक्ष्माः सन्ति केचन पुद्गलाः।
तैर्वर्णोऽवयवी नाम जन्ते पश्य कौतुकम्॥
तेषामदृश्यमानानां कीदृशो रचनाक्रमः।
केन तत्संनिवेशेन कः शब्द उपजायताम्॥
लघवोऽवयवाश्चैते निबद्धा न च केनचित्।
न चैनं कठिनं कर्तुं वर्णावयविनं क्षमाः॥
कृशश्च गच्छन् स कथं न विक्षिप्येत मारुतैः।
दलशो वा न भज्येत वृक्षाद्यभिहतः कथम्॥
प्रयाणकावधिः कश्च गच्छतोऽस्य तपस्विनः।
एकश्रोत्रप्रविष्टो वा स श्रूयेतापरैः कथम्॥
निष्क्रम्य कर्णादेकस्मात् प्रवेशः श्रवणान्तरे।
यदीष्येत कथं तस्य युगपद् बहुभिः श्रुतिः॥
श्रोतुसंख्यानुसारेण न नानावर्णसंभवः।
वक्तुस्तुल्यप्रयत्नत्वाच्छोतृभेदे तदत्यये॥
तदलं परिहासस्य महतो हेतुभूतया।
नग्नक्षपणकाचार्यप्रज्ञाचातुर्यचर्चया॥
शाक्यप्रायास्त्वाचक्षते अप्राप्त एव शब्दः श्रोत्रशक्त्या गृह्यते इति, तदेतदतिव्यामूढभाषितम्, अप्राप्त्या तुल्यतायां दूरव्यवहितादीनामश्रवणकारणाभावात्, प्राप्यकारिताख्यकर्मधर्माप्रसह्गाच्च, न च चार्वाकवदपरीक्षित एवायमर्थ उपेक्षितुं युक्तः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
परतन्त्र्याद् गुणत्वं रूपादिवत् सेत्स्यतीत्याशङ्क्याह-%न शब्दः परतन्त्र्येणेति।%
%कापिलास्तु ब्रुवत% इति। श्रोत्रस्याहङ्कारिकत्वाद् व्यापकत्वेन गमनासम्भवः, शब्दाभिघातेन तु या तस्य वृत्तिरुदेति सा शब्ददेशं गच्छतीति केषाञ्चित् साङ्ख्यानां मतम्। %सा शब्देन विक्रियते% स्वनिर्भासा संपाद्यते।
%गच्छन्त्याः प्रतिकूलो ही%ति। यस्यां दिश्युत्पन्नः शब्दस्तत्र श्रोत्रवृत्तिर्यान्ती तद्दिगागतेन वायुना प्रतिहन्येत।
यत्र शब्द उत्पन्नस्तत आगच्छन् शब्दानुकूलो वातोऽनुवातः शब्ददोशं पुनर्गच्छन् %प्रतिवातः।%
%सूक्ष्मैः शब्दपुद्गलैः% शब्दपरमाणुभिः।
%निबद्धा न च केनचिदि%ति। उदकादिना कृतमीलना इत्यर्थः।
%अप्राप्त एवे%ति। महाभूतक्षोभजः शब्दस्तत्रस्थ एव गृह्यते श्रोत्रेण, श्रोत्रस्य हि तद्गुणादेव तादृशी शक्तिः कल्प्यते; यथा अयस्कान्तमणेर्दूरस्थस्याप्ययसः समाकर्षिका शक्तिर्दर्शनादेव कल्प्यते तद्वदस्येति भावः।
न्यायम़ञ्जरी :–
%शब्दाभिव्यक्तिसमर्थनम्%
इति कार्यत्वपक्षेऽमूः श्रुतास्तार्किककल्पनाः।
अथाभिव्यक्तिपक्षेऽस्य शृणु श्रोत्रियकल्पनाम्॥
विवक्षापूर्वकप्रयत्नप्रेर्यमाणस्तावद् वेगवत्तया क्रियावत्तया च कोष्ठ्यो बहिर्निःसरति समीरण इति सुस्पष्टमेतत्। प्रत्यक्षपवनवादिनां पक्षे पवनसमये वक्तृवदननिकटनिहितहस्तस्पर्शेनैव स उपलभ्यते। अनुमेयमारुतपक्षेऽपि तदानीमास्यसमीपसन्निधापिततूलककर्मणा सोऽनुमीयते।
स गच्छन् सर्वतोदिक्कः स्तिमितानिलनोदनम्।
करोति कर्माकाशे च प्रयाति श्रुतियोग्यताम्॥
स च प्रयत्नतीव्रत्वमन्दत्वेन तदात्मकः।
शब्दे तथाविधज्ञप्तिहेतुतामवलम्बते॥
स चैष गच्छन्नुद्दामवेगयोगाहितक्रियः।
शरवद् वेगशान्त्यैव न दूरं गन्तुमर्हति॥
स मूर्त्तः प्रसरन् मूर्त्तेरपरैः प्रतिरुध्यते।
कुड्यादिभिरितो नास्य श्रुतिर्व्यवहितात्मनः॥
स वेगगतियोगित्वादागच्छति यतो यतः।
श्रोता ततस्ततः शब्दमायान्तमभिमन्यते॥
स तु शङ्खादिसंयोगप्रेर्यमाणः समीरणः।
शब्दस्यावर्णरूपस्य भवति व्यक्तिकारणम्॥
शब्दो यद्यप्यवर्णात्मा श्रोत्रग्राह्यो न विद्यते।
तथापि तत्र शब्दत्वं श्रवणेन ग्रहीष्यते।
तदिह न काचिदस्माभिरधिका कल्पना कृता, मारुतगतेरस्याः सर्वलोकप्रसिद्धत्वात् कर्णाकाशसंस्कारमात्रमदृष्टं कल्पितम्, तदपि कार्यार्थापत्तिगम्यत्वान्नापूर्वमिति।
अपक्षपातिनः सभ्याः सत्यमुत्पत्त्यपेक्षया।
शब्दस्य कल्पनामाहुरभिव्यक्तौ लघीयसीम्॥
तदेवमभिव्यक्तिपक्षे नियतग्रहणोपपत्तेः प्रत्यभिज्ञाप्रत्ययप्रामाण्यान्नित्यत्वमेवोपगन्तव्यम्।
या त्वनैकान्तिकत्वोक्तिः धीकर्मप्रत्यभिज्ञया।
प्रत्यक्षे चोद्यमानासौ दर्शयत्यतिमूढताम्।
तेनानुमानदोषेण प्रत्यक्षं न हि दूष्यते।
सिद्धान्तान्तरचिन्ता तु भवेद् भृशमसंगता॥
निर्बाधं प्रत्यभिज्ञानमस्ति चेद् बुद्धिकर्मणोः।
तयोरप्यस्तु नित्यत्वं नो चेत् का शब्दतुल्यता॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%शब्दो यद्यप्यवर्णात्मे%ति। अयमाशयः। यथा गादोय वर्णा वर्णान्तरविलक्षणेन प्रातिस्विकेन रूपेण श्रोत्रप्रत्यये प्रतिभासन्ते नैवं भेर्यादिषु शब्देषु शब्दत्वमात्रव्यतिरेकेणान्यस्यकस्यचिद् उपलब्धिरिति।
%यात्वनैकान्तिकत्वोक्तिरि%ति। पञ्चकृत्वो गोशब्द उच्चरित इत्यादि यत् प्रत्यभिज्ञानमुक्तं तन्न नित्यत्वसाधनायानुमानत्वेनापि त्वनित्यत्ववादिनामुना प्रत्यबिज्ञारूपेण प्रत्यक्षेण विरुद्धतोद्भाव्यते; अनैकान्तिकत्वादयश्चानुमानदोषा न प्रत्यक्षे उद्बावयितुं युज्यन्त इति भावः।
अथ मा भूत् प्रकृते दूषणम्, यथा पुनरनुमानं प्रत्यभिज्ञाबाधितत्वाच्छब्दानित्यत्वसाधकं प्रत्यक्षविरुद्धत्वेन न प्रमाणम्, तथा बुद्धिकर्मणोरप्यनुमानमनित्यत्वसाधकं प्रत्यभिज्ञाबाधितत्वादप्रमाणं कस्मान्नेष्यते। एवञ्च तयोरपि नित्यत्वं प्राप्नोतीत्याशङ्क्याह %सिद्धान्तान्तरचिन्ते%ति।
%निर्बाधं प्रत्यभिज्ञानमि%ति। अयमाशयः। शब्दे आनुमानिक्यनित्यता, प्रत्यक्षेण च प्रत्यभिज्ञानात्मना नित्यत्वमिति प्रत्यक्षस्यबलीयस्त्वान्निर्बाधा सा प्रत्यभिज्ञा। धीकर्मणोः पुनरानुमानिकी प्रत्यभिज्ञा, अनित्यताप्यामानुनिकी; ततश्च तुल्यबलत्वात् तत्रानुमानयोर्नास्ति निर्बाधता प्रत्यभिज्ञायाः। बुद्धौ कर्मणि चातीन्द्रियद्रव्याधारे अप्रत्यक्षत्वादनुमानात् प्रतीतिः प्रत्यभिज्ञाया आनुमानिकत्वमुक्तम्। अनित्यत्वमप्यानुमानिकमेव, सर्वदा कार्यानुपलब्धिगम्यत्वात् तस्येति।
%पश्यतां तार्किकाणां% पश्यतस्तार्किकान् आनादृत्येर्त्थः। %अर्थापत्तिः पूर्वमुक्ता च तस्मिन्% `दर्शनस्य परार्थत्वात्’ इति।
%अनुवदति यद् ध्रुवां वाचं% वाचा विरूपनित्ययेत्यादिकम्।
%शिक्षाविदस्त्वि%ति। ते हि मन्यन्ते वाय्ववयवा एव बहिर्निःसृताः शब्दात्मना स्थूलीभवन्ति। काष्ठेभ्य एव निःसृता धूमावयवाः सूक्ष्माः स्थूलधूमावयविजनकतया सम्पद्यन्त इति।
%येऽपि स्थूलविनाशे%ति। योऽयं घटादेर्मुद्गरादिभ्यो असभागसन्ततिरूपः स्थूलो विनाशः प्रत्यक्षमुपलभ्यतेऽसौ विनश्वरस्वभावस्यावश्याभ्युपेयोऽविनश्वरस्वभावस्य वा? अविनश्वरस्वभावस्य तदभ्युपगमे गगनादेरपि विनाशित्वप्रसङ्गात्। विनश्वरस्वभावत्वे चापेक्षणीयाभावात् प्रतिक्षणमेव विनाशकल्पनेति। सर्वदाभिव्यक्तस्योपलम्भादन्ताभावः॥
न्यायम़ञ्जरी :–
%गत्वादिसामान्यसाधनोपक्रमः%
तत्रेदं विचार्यताम् य एव गकारभेदप्रतिभासः स किं व्यञ्जकभेदकृत उत वर्णभेदविषय इति। व्यञ्जकभेदकृते तस्मिन् एकत्वाद् गकारस्य किंवृत्तिगत्वसामान्यं स्यात्, वर्णभेदविषयत्वे तु तद्भेदसिद्धेरभेदप्रत्ययस्य विषयो मृग्य इति तद्ग्राह्यमपरिहार्यं गत्वसामान्यम्। तदुच्यते नायं व्यञ्जकभेदकृतो गकारभेदप्रत्ययः। यदि हि व्यञ्जकबेदाधीन एष भेदप्रतिभासस्तर्हि यरलवादिवर्णभेदप्रत्ययोऽपि तत्कृत एव किमिति न भिवति? ततश्च सकलवर्णविकल्पातीतमेकमनवयवं शब्दब्रह्म वैयाकरणवदभ्युपगन्तव्यम्।
अथ मनुषे यरलवादीनामितरेतरविभक्तस्वरूपप्रतिभासात् शुकशारिकानुष्येषु हि वक्तृभेदे सति व्यञ्जकनानात्वसम्भावनया वर्णभेदप्रत्ययस्य तत्कृतत्वं काममाशङ्क्येतापि वक्त्रेकत्वे तु गगनादौ कुतस्तत्कृतो भेदः?
ननु तत्रापि मरुतो भिन्ना एव व्यञ्जकाः मुकं त्वेकं भवतु किं तेन? तदपि वा भिन्नमित्येके। उच्यते स तर्हि मरुतां भेदो यरलवादिष्वपि तुल्य इति मा भूत्तेषामपि भेदः।
ननु यरलवानां विशेषप्रतीतिरस्ति गकारे तु सा नास्तीत्युक्तं उच्चारणस्यैव तत्र भेदो नोच्चार्यस्येति, नैतत् सारम्। मा भूदेष विशेष इति प्रतीतिर्भेदबुद्धिस्तु विद्यत एव। अन्या च विशेषबुद्धिरुच्यते अन्या च भेदबुद्धिरिति, विशेषाप्रतिभासेऽपि क्वचिद् विच्छेदेन प्रतीतिदर्शनात्।
नन्वत्रोच्यते
दृश्यते शाबलेयादिव्यक्त्यन्तरविलक्षणा।
बाहुलेयादिगोव्यक्तिस्तेन भेदोऽस्ति वास्तवः॥
न तु द्रुतादिभेदेन निष्पन्ना सम्प्रतीयते।
गव्यक्त्यन्तरविच्छिन्न गव्यक्तिरपरा स्फुटा॥
इति नैतद् युक्तम्, शाबलेयादौ प्रतिव्यक्ति सास्नाखुरककुदाद्यवयववर्तिनो विशेषाः प्रतिभासन्ते। ते च स्थूलत्वात् सुगमा भवन्ति। यत्र तु तिलतण्डुलकुलत्थादौ प्रिसिक्थं विशेषो न प्रतिभाति तत्र विशेषप्रतीत्यबावेऽपि विच्छेदप्रतिभासो विद्यत एव, सिक्थात् सिक्थान्तरत्वेन प्रतिभासात्। एवमिहाप्येष गकारविशेष इति प्रतिभासाभावेऽपि विच्छेदग्रहणाद् गकारनानात्वम्।
ननु तण्डुलादावपि सिक्थात् सिक्थान्तरे विशेषाः प्रतिभासन्त एव तदप्रति भासे भेदस्यापि ग्रहीतुमशक्यत्वात्, मैवं वादीः, यत्ने सति चतुरश्रत्रिकोणवर्त्तुविच्छेदबुद्धिरुत्पद्यते इति तयैव नानात्वसिद्धिः।
ननु नैवानधिगतिविशेषस्य विच्छेदबुद्धिरुत्पत्तुमर्हति इति विशेषबुद्धिरेव विच्छेदबुद्धिः, नैतदेवम् भ्रमणादिकर्मक्षणानां सूक्ष्मविशेषाप्रतिभासेऽपि विच्छेदप्रतिभासात्। ननु तत्रापि विशेषग्रहणं कल्प्यते अन्यथा विच्छेदप्रतीत्यनुपपत्तेः। यद्ेवं वर्णेष्वपि गगनादौ विच्छेदप्रतीतिदर्शनात् कल्प्यतां विशेषग्रहणम्? नन्वस्त्येव तत्, किन्त्वौपाधिकः, स्फटिके रक्तताप्रत्ययवत्। विषमो दृष्टान्तः, स्फटिकस्य शुद्धस्य दृष्टत्वाल्लाक्षाद्यृपाधिनिमित्तके रक्तताप्रत्ययवत्। विषमो दृष्टान्तः, स्फटिकस्य शुद्धस्य दृष्टत्वाल्लाक्षाद्युपाधिनिमित्तको रक्तताप्रत्ययः, वर्णानान्तु नित्यमेवोदात्तादिविशेषवतां प्रतिभासात् तद्रहितानामनुपलब्धेश्चनैसर्गिक एवायं भेदः। तद्यथा बुद्धीनां घटपटादिविषयविशेषशून्यानामसंवेदनात् प्रतिविषयं नानात्वं तथा वर्णानामपि प्रत्युदात्तादिविशेषं नानात्वम्। ननु बुद्धिरप्येका नित्या च विषयभेदोपाधिनिबन्धनस्तद्भेद इति साम्प्रतम्, स्वयमेव बुद्धिजन्म प्रत्यक्षमित्यभिधानात्। अस्माभिश्च बुद्धिनित्यताया उपरिष्टान्निराकरिष्यमाणत्वात्, विषयभेदाच्च तद्भेदाभिधाने विषयस्यापि कुत इदानीं भेदः, बुद्धिभेदादिति चेद् इतरेतराश्रयप्रसङ्गः। तदिमाः स्यत एव बेदवत्यो बुद्धयः, विषयाणामपि स्वत इव भेदो भवति स च बुद्धिभिर्ज्ञायते इत्यलमर्थान्तरगमनेन। यथा च शुक्लगुणस्य भास्वरधूसरादिभेदवतो नानात्वं तथा वर्णस्याप्युदात्तादिभेदवतः। शुक्लगुणोऽप्येक एव आश्रयभेदात्तु तद्भेद इति चेद् अहो रससमारूढो भट्टः।
कर्मैकं बुद्धिरप्येका जगत्येकः सितो गणः।
तैश्च तन्नित्यमित्येताः स्त्रीगृहे कामुकोक्तयः॥
अपिचैकात्मवादोऽप्येवमेवावतरेत् सुखिदुःख्यादिभेदस्य शरीरभेदेनाप्युपपत्तेः। अद्वैतस्य च नातिदवीयानेष पन्था इत्यलमलीकविकत्थेनेन। तस्माद् बुद्ध्यादिवत् सर्वदा सविशेषाणामेव वर्णानां ग्रहणान्नानात्वम् तत्रैतत् स्याद् गगनादावकारोपश्लेषकृत एव भेदप्रत्ययो न स्वरूपभेद इति, तदयुक्तम्, अकारस्यापि भवन्मते भेदाभावात्। अविद्यमाने च तदुपश्लेषे दिगजो दिग्गज इति भेदेन प्रतिभासो भवत्येव। तथा च समदः सम्मदः, पटः पट्टः, आसनम् आसन्नम्, मलः मल्लः, अविकः अविक्कः, पतिः पत्तिः, पत्तनं पतनमित्यादावपि वर्णभेदप्रतीतिः, अर्थप्रतीतिभेदोऽपि च दिगजदिग्गजादौ शब्दान्तरनिमित्तको भवितुमर्हति न द्विरुच्चारणकृतः। ग्रन्थाधिक्यादर्थाधिक्यं नोच्चारणभेदात्, शतकृत्वोऽपि प्रयुक्ते गोशब्दे सास्नादिमदर्थव्यतिरिक्तवाच्यसम्प्रत्ययाभावात्। तथा च दिग्गज इति द्विगकारको निर्देश इत्याचक्षते शब्दविदो न द्विर्गकार उच्चरित इति।
ननु गोगुरुगिरिगेहादावज्भेदेऽपि गकारप्रत्ययानुवृत्तेरेक एवायं गकारः, मैवं वोचः, एष एव हि भेदप्रत्ययोऽस्माभिरुपदर्शितः विनापि च अजुपश्लेषं दिग्गजादौ भेदप्रत्ययो वर्णितः। न च वयमभेदप्रत्ययमपह्नुमहे किन्तु भेदप्रत्ययस्याप्यबाधितस्य भावादनन्यथासिद्धत्वाच्च गवादिवत्सामान्यविशेषरूपतां ब्रूमः, व्यञ्जकभेदनिबन्धनत्वन्तु यरलवादावपि वक्तुं शक्यमित्युक्तमेव।
अपि च शाबलेयादिभेदप्रत्ययस्यापि व्यञ्जकभेदनिबन्धनत्वादेक एवासौ स्यात्।
ननु तत्र को व्यञ्जको यद्भेदकृतः पिण्डभेदप्रत्यय इष्यते। आह च
न पिण्डव्यतिरेकेण व्यञ्जकोऽत्र ध्वनिर्यथा।
पिण्डव्यङ्ग्यैव गोत्वादिजातिर्नित्यं प्रतीयते॥ इति
तदयुक्त्, गोत्वजातेर्गत्ववदिदानीं विवादास्पदीभूतत्वात् पिण्डभेदप्रत्ययस्य चक्षुर्व्यापारभेदादप्युपपत्तेः।
ननु सकृदपि व्यापृतलोचनस्य परस्परविभक्तपिण्डप्रतिभासो भवति, मैवम्, तदानां गोमात्रप्रतीतिः, एष शाबलेय एषबाहुलेय इति तु विशेषणग्रहणे चक्षुर्व्यापारभेदोऽपरिहार्यः। यदि चाद्यगोपिण्डभेदे प्रथमाक्षसन्निपातजा बुद्धिः सुभगतां गता गकारभेदे तर्हि किंकृतमस्या दौर्भाग्यम्। तत्रापि प्रथमश्रोत्रव्यापारवेलायामनवगतव्यञ्जकविभागस्यापि गगनगङ्गादौ गकारभेदः प्रतिभासत एवेत्यलं प्रसङ्गेन।
तदयं वस्तुसंक्षेपः, उपेक्ष्यतां वा सर्वत्र सामान्यविशेषव्यवहारः, इष्यतां वा गोत्वादिवद्गकारभेदवृत्तिगत्वसामान्यम्।
अत्वमपि गत्ववदप्रत्याख्येयम्, इतरेतरविलक्षणानामकाराणां ह्रस्यदीर्घप्लुतादिभेदेन प्रतिभासात्, यः पुनरा(?)कारेऽप्यकारप्रत्यभिज्ञानं ब्रूयात् तस्येकारोकारप्रतीतिष्वप्यकारस्यैव ग्रहणप्रसक्तिरच्त्वाविशेषात्। अथ तदविशेषेऽपि अवर्णादिवर्णस्य भेद इष्यते स तर्ह्याकारस्य न निह्नोतव्यः। एवञ्च सत्यरण्याररण्शब्दभ्यां भिन्नार्थप्रतीतिरुपपत्स्यते। उदात्तानुदात्तस्वरितसंवृतविवृतादिभेदोऽपि शब्दविदां प्रत्यक्ष एव गीतज्ञानामिव स्वरग्रामभाषाविभागः। तस्मादष्टादशभेदमकारमाक्षते, अत्वञ्च तत्सामान्यमवर्णकुलशब्देन व्यवहरन्तीति प्रतिपद्यन्ते लोका न मरुद्भ्यः। अथ मरुतामपि तथा व्युत्पत्तेरर्थप्रतीतिहेतुत्वम्? तर्हि व्युत्पत्तिरेव प्रमाणं स्याद् न शब्दः, व्युत्पत्तेरव्यभिचारात् शब्दस्य च व्यभिचारादित्यास्तामेतत्।
तस्माद् गत्वादिसामान्यैरर्थसम्प्रत्ययात्मनः।
कार्यस्य परिनिष्पत्तेर्न वर्णव्यक्तिनित्यता॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%शब्दब्रह्म वैयाकरणवदिति%। यथा वैयाकरणानां उपलभ्यमाना अपि भिन्ना वर्णा निरवयवं शब्दतत्त्वं न भिन्दन्ति व्यञ्जकत्वेन तत्स्वरूपानुप्रवेशाभावात् तेषाम्, एवं भवतोऽपि मीमांसकस्य परोपाधित्वाद् वर्णभेदः शब्दस्वरूपं नानुप्रविशेदिति।
%तदपि वा भिन्नमित्येक% इति। एव इति वैशेषिकाः, पाकजोत्पत्तिन्यायेनये आशुतरं शरीरस्यारम्भविनाशावाहुः, साङ्ख्या वा परिणामवादिनः, बौद्धा वा क्षणिकवादिन इति।
%अन्या च विशेषबुद्धिरिति।% विशेषुबुद्धिर्यत्र पदार्थानां प्रातिस्विको विशेषः प्रतिभाति स्पष्टतया यथा `ग’बुद्धौ यकारादिव्यतिरिक्तवर्णस्वरूपावभासः। %अन्या च भेदबुद्धिः। यत्र% प्रातिस्विकविशेषाप्रतिभासेऽपि वैलक्षण्यमात्रप्रतिभासो भिन्नवक्तृतयोच्चारितयोरिव गकारयोः। कथं पुनरसति विशेषोपलम्भे पदार्थानां भेदग्रह इत्याह %विशेषाप्रतिभासेऽपी%ति। %विच्छेदेनेति।% विच्छेदेनान्यत्वेन प्रतीतिदर्शनादिति
%गव्यक्त्यन्तरविच्छिन्ना% भेदेन न प्रतीयत इत्यर्थः।
%प्रतिसिक्थं विशेषो न प्रतिभाती%ति। तिलादीनां हि ये सिक्थगुलकास्ते तुल्यजातयो अनभिलक्ष्यगुणक्रियागतविशेषाश्च। अतो जात्यादिकृतस्तावत् तेषां विशेषोनोपलभ्यते। नापि यथा नित्यानां परमाण्वादीनामन्त्यविशेषसम्बन्धस्तथा तेषामस्ति, अनित्यत्वात् तेषाम्। एवञ्च विशेषानुपलम्भेऽपि यथा तत्र दृष्टत्वाद् भेदबुद्धिर्दुरपह्नवा तथेहापि भविष्यतीति भावः।
%यत्ने तती%त्यादिनावयवसन्निवेशकृतविशेषदर्शनेन गुणस्य भेदकत्वमाह, कश्चिद् गुलकस्त्रिकोणः कश्चिच्चतुरस्र इति। अवयवसन्निवेशस्य च त्रिकोणत्वादेः संयोगविशेषत्वात्।
%ननु बुद्धिरप्येका नित्या चे%ति साङ्ख्याभिप्रायेणाह अथवा भट्टदृष्ट्या। यथाह भट्टः
बुद्धीनामपि चैतन्यस्वाभावव्यात् पुरुषस्य नः।
नित्यत्वमेकता चेष्टा भेदस्तु विषयाश्रयः॥
स्वरूपेण यथा वह्निर्नित्यं दहनकर्मकः।
उपनीतं दहत्यर्थं दार्ह्यं नान्यन्तु नान्यदा।
यथा वा दर्पणः स्वच्छो यथा वा स्फटिकोऽमलः।
यद् यन्निधीयते योग्यं तच्छायां प्रतिपद्यते॥
तथैव नित्यचैतन्याः पुमांसो देहवृत्तयः।
गृह्णन्ति करणानीतान् रूपादीन् धीरसौ च नः॥
तेनोपनीतसम्बन्धभङ्गित्वाद् भङ्गिनी मतिः।
न नित्यं दाहको वह्निर्दाह्यासन्निधितो यथा॥ इति।
%अहो रसमारूढो भट्ट% इति। तथाह गुणनित्यतां प्रत्यप्यसावाह
एतयैव दिशा वाच्या शुक्लादेरपि नित्यता।
संसर्गिभेदमात्रेण स्यात्तत्रापि हि भेदधीः॥
स्वरूपं तु तदेवेति को जातीः कल्पयिष्यति। इत्यादि॥
%अद्वैतस्य च नातिदवीयानि%ति। उपलभ्यमानभेदनिराकरणद्वारेण।
%गत्ववदिदानीं विवादास्पदीभूतत्वादि%ति। यथा भेदाधिष्ठानं गत्व गव्यक्तिभेदस्यौपाधिकत्वेन स्वतो गवर्णस्य भेदाभावान्निराक्रियते तद्वत् शाबलेयादि भेदप्रतिभासस्याप्यौपाधिकत्वेन पिण्डभेदस्य स्वतोऽसम्भवाद् भेदाधिष्ठानगोत्वाभावः। %चक्षुर्व्यापारभेदादप्युपपत्तेरि%ति। यथैकोऽपि वर्णो ध्वनिभेदाद् भिन्नः प्रतिभासते तथैकोऽपि गौः पुनः पुनश्चक्षुषा दृश्यमानः शाबलेयादिभेदेन प्रतिभासत इत्यर्थः।
अत्वाभ्युपगमे अगमनशब्दवदागमनेऽप्यकारप्रत्यभिज्ञाने तुल्यार्थताशङ्कानिवारणायाह %यः पुनरा(?) कारेऽपी%ति।
%मरुतामपि तथा व्युत्पत्तेरि%ति। यथा व्यञ्जकवशाद् अकार एव दीर्घतया प्रतिभाति तथा अगमन-आगमनादौ भेदप्रतीतिदर्शनात् तथैव व्युत्पत्तिः।
न्यायम़ञ्जरी :–
%प्रभाकरमते शब्दत्वसामान्याक्षेपः%
अपर आह, तिष्ठतु तावद् दूरत एव गत्वाद्यपरसामान्यं महासामान्यमपि शब्दत्वं वर्णेषु नोपपद्यते।
व्यक्त्यन्तरानुसन्धानं यत्रैकव्यक्तिदर्शने।
तत्रैकरूपसामान्यमिष्यते तत्कृतं हि तत्॥
गकारश्रुतिवेलायां न वकारावमर्शनम्।
बाहुलेयपरामर्शः शाबलेयग्रहे यथा॥
शब्दः शब्दोऽयमित्येवं प्रतीतिस्त्वप्रयोजिका।
एषा हि श्रोत्रगम्यत्वमुपाधिमनुरुध्यते॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%अपर आहे%ति प्रभाकरः।
%व्यक्त्यन्तरानुसन्धानमि%ति। व्यक्त्यन्तरे दृष्टे पूर्वानुभूतस्य गव्यक्त्यन्तरस्य यत्रानुसन्धानं परामर्शः। %तत्कृतं हि तत्;% यत् कस्याश्चिद् व्यक्तेर्व्यक्त्यन्तरेऽनुसन्धानं न सर्वासां तत् सामान्यकृतमित्यर्थः।
न्यायम़ञ्जरी :–
%तन्मतनिरासः%
तदेतन्निरनुसन्धानस्याभिधानम्, अनुसन्धानप्रत्ययस्य सामान्यसिद्धावप्रयोजकत्वात्, अनुसन्धानं हि सारूप्याद् विजातीयेष्वपि भवति गवयग्रहणसमये गोपिण्डानुसन्धानवत्, तस्मादबाधितैकरूपप्रत्ययप्रतिष्ठ एव सामान्यव्यवहारः।
समानबुद्धिग्राह्येऽपि सामान्येऽवस्थिते क्वचित्।
भवत्यन्यानुसन्धानं क्वचिद्वा न भवत्यपि॥
तदस्ति खण्डमुण्डादौ पिण्डसारूप्यकारितम्।
गकारादिषु वर्णेषु तदभावात्तु नास्ति तत्॥
न तु सामान्याभावात्। न च सारूप्यमेव सामान्यं साङ्ख्यवदभिधातुं युक्तं विजातीयेष्वपि गोगवयादिषु तस्य दृष्टत्वात्। यदि च शब्दः शब्द इत्यनुवृत्तबुद्धेः श्रोत्रगम्यत्वोपाधिकृतत्वमुच्यते तर्हि गवादावप्येकबुद्धेर्वाहदोहाद्येकार्यक्रियाकारित्वनिबन्धनत्वाद् गोत्वादिजातिनिह्रवो बौद्धवन्मन्तव्यः। न चैतदेवम्, तद् गोत्ववच्छब्दत्वमपि न प्रत्याख्येयम्।
एतेन ब्राह्मणत्वादिसामान्यमपि समर्थितं वेदितव्यम्, उपदेशसहायप्रत्यक्षगम्यत्वात्।न चोपदेशापेक्षणादप्रत्यक्षत्वं तस्य भवितुमर्हति गोत्वादिप्रत्ययस्यापि सम्बन्धग्रहणकाले तदपेक्षत्वदर्शनात्। उक्तञ्च न हि यद् गिरिशृङ्गमारुह्य गृह्यते तदप्रत्यक्षमिति। न चौपाधिकः पैठीनसिपैप्पलादिप्रभृतिषु ब्राह्मणप्रत्ययः, उपाधेरग्रहणात्, औपाधिकत्वस्य गोत्वादावपि वक्तुं शक्यत्वात्।
अपि चोपदेशनिरपेक्षमपि चक्षुः क्षत्रियादिविलक्षणां सौम्याकृतिं ब्रह्मणजातिमवागच्छति इत्येके। तदलमनया कथया।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%गवयग्रहणसमये गोपिण्डानुसन्धानवदि%ति। अनेनानुसन्धानस्य परामर्शकत्वात् स्मरणस्वभावाभेदात् सादृश्यदर्शननेव हेतुत्वेन कल्प्यते न सामान्यानुभव इति।
%पिण्डसारूप्यकारितं% पिण्डसादृश्यजनितमित्यर्थः।
%एतेन ब्राह्मणत्वादी%ति। एतेन श्रवणग्राह्यत्वकृतशब्दः `शब्द’ इत्यभेदप्रत्ययनिराकरणेन। `ब्राह्मणो ब्राह्मणः’ इत्यादिरप्यभेदप्रत्ययो विशिष्टानुष्ठानाद्युपाधिकृत इति हि स आह। %गिरिशृङ्गमारुह्ये%ति। सापेक्षतया सङ्क्लेशतया तदपेक्षया दृष्टान्तः।
न्यायम़ञ्जरी :–
%शब्दनित्यत्वपक्षरिहारः%
प्रकृतमुच्यते। गत्वादिभिर्जातिभिरेवार्थसम्प्रत्ययोपपत्तेर्यदुक्तम् `नित्यस्तु दर्शनस्य परार्थत्वात्’ इति एतदयुक्तम्। एतेन `सर्वत्र यौगपद्यात्’ इत्येतदपि प्रत्युक्तम्, सम्बन्धनियमस्य गत्वादिभ्य एव सिद्धेः।
यदपि संख्याभावात् कृत्वसुच् प्रयोगदर्शनमुदग्राहि तदपि व्यभिचारि।
कृतं कान्तस्य तन्वङ्ग्या त्रिरपाङ्गविलोकनम्।
चतुरालिङ्गनं गाढमष्टकृत्वश्च चुम्बनम्॥ इति।
तद्भेदेऽपि दर्शनात्। अथ तत्र स्त्रीपुंसयोरभेदे चुम्बनादिक्रियामात्रभेद एवेत्युच्यते तथाप्यपूर्वेषु ब्राह्मणेषु भुक्तवत्सु पञ्चकृत्वो ब्राह्मणा भुक्तवन्त इति व्यवहारो दृश्यते।
कविना सदनुप्रासे निबद्धेऽक्षरडम्बरे।
गकारा बहवो दृष्टा इति व्यवहरन्ति हि॥
यदपि प्रत्यभिज्ञानं तद्द्वारकमुदाहृतम्।
तस्यापि सिद्धे प्रामाण्ये जात्यालम्बनता भवेत्॥
नृत्ताभिनयचेष्टादिप्रत्यभिज्ञानतो वयम्।
विशेषं प्रत्यबिज्ञाने न पश्यामो मनागपि॥
शब्दस्य प्रत्यभिज्ञानवेलायामेव दृश्यते।
शब्दरूपस्य विध्वंस इति तन्नित्यता कुतः॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%एतेन `सर्वत्र यौगपद्यादि’%ति। सर्वत्र सर्वगवीषु गोशब्दादुच्चारिताद् युगपत् प्रत्ययदर्शनादाकृतिवचनत्वं गवादेः शब्दस्यावगम्यते, व्यक्तिवचनत्वे हि नियतैकव्यक्तिप्रतिपत्तिः स्यात्। तत्र च द्रव्यत्व-सत्ताद्याकृतीनां बह्वीनामपि सम्भवान्नियताकृतिवचनत्वमन्वयव्यतिरेकाभ्यामसकृत्प्रयोगान्निश्चीयते असकृत्प्रयोगश्च नित्यत्ंव विना न घटत इति `सर्वत्र यौगपद्यात्’ इति सूत्रार्थः।
एतदपि गत्वादिजात्युपलक्षितानां भिन्नानामपि प्रयोगे सिद्ध्यत्यनित्यत्वपक्षेऽपीत्यनेनाभिप्रायेणोक्तम् %पञ्जकृत्वो ब्राह्मणा भुक्तवन्त% इति। अत्र भुजिक्रियावद्भोक्तॄणामप्यन्यत्वम्।
यदपि `सङ्ख्याभावात्’ इति सूत्रम् शब्दे सङ्ख्याया अभावान्नित्यत्वमित्यस्यार्थः। सङ्ख्याया अभावाच्च यथा नित्यत्वं तथाह भाषय्कारः “अष्टकृत्वो गोशब्द उच्चरित इति हि वदन्ति नाष्टौ गोशब्दा इति। किमतो यद्येवम्? अनेन वचनेनावगम्यते प्रत्यभिजाननन्तीति” इदमेव चेदृशं भाष्यं चेतसि निधायाह %यदपि प्रत्यभिज्ञानं तद्द्वारकमुदाहृतमि%ति। तद्द्वारकं `कृत्वसू’प्रयोगद्वारकमित्यर्थः।
न्यायम़ञ्जरी :–
%प्रत्यभिज्ञयापि न शब्दनित्यत्वसिद्धिः%
यद्यपि च क्षणभङ्गभङ्गे प्रत्यभिज्ञाप्रामाण्यमस्माभिरपि समर्थयिष्यते तथापि स्तम्भादिप्रत्यभिज्ञायाः शब्दप्रत्यभिज्ञाया एष एव विशेषो यदत्र ध्वस्तः शब्द इति तदैव प्रत्ययो जायते अत एव तिरोहितेऽपि भावादियमप्रमाणं प्रत्यभिज्ञेत्याहुः।
यद्यपि ध्रियतेऽस्माकं शब्दो द्वित्रानपि क्षणान्।
प्रत्यभिज्ञा तु कालेन तावता नावकल्पते॥
तथा हि शब्द उत्पद्यते तावत् ततः स्वविषयं ज्ञानं जनयति, अजनकस्य प्रतिभासायोगात्। ततस्तेन ज्ञानेन शब्दो गृह्यते, ततः संस्कारबोधः, ततः पूर्वज्ञातशब्दस्मरणम्, ततस्तत्सचिवं श्रोत्रं मनो वा शब्दप्रत्यभिज्ञानं जनयिष्यति तथा शब्दो ग्रहीष्यत इति यत् कुतोऽस्य दीर्घमायुः। प्रत्यभिज्ञाप्रामाण्यादेव तावदायुस्तस्य कल्प्यते इति चेत्, सत्यं कल्प्यते यदि विनाशप्रत्ययस्तदैव न स्यात्। अपि च गोशब्दोऽयमश्वशब्दोऽयमिति तदभिधानविशेषोल्लेखात्।
नानानुस्मरणं तस्य तदैवावश्यमापतेत्।
विज्ञानयौगपद्याच्च कालो दीर्घतरो भवेत्॥
यदप्युदितमुद्दाममेघश्यामासु रात्रिषु।
साम्यं सौदामिनीधामजन्यया प्रत्यभिज्ञया॥
तदसत् कालदैर्घ्येण तदवस्थितिसम्भवात्।
विद्युद्दृष्टे च वृक्षादौ नाशसंवित्त्यसम्भवात्॥
प्रत्यभिज्ञा नाम स्मर्यमाणानुभूयमानसामानसामानाधिक्रण्यग्राहिणी संस्कारसचिवेन्द्रियजन्या प्रतीतिरिति केचित्।
अन्ये भन्यन्ते स्मर्यमाणपूर्वज्ञानविशेषितार्थग्राहित्वात् प्रत्यभिज्ञायास्तद्विशेषणस्य चार्थस्य बाह्येन्द्रियग्राह्यत्वानुपपत्तेः स्तम्भादावपि मानसी प्रत्यभिज्ञेति।
निर्बन्धस्त्विह नास्माकं सा यथास्तु तथास्तु वा।
शब्दे विनाशज्ञानात्त न सा नित्यत्वसाधिका॥
बाध्यबाधकभावे तु नियमो ननु किंकृतः।
शब्दस्य प्रत्यभिज्ञानविनाशप्रतिभासयोः॥
उच्यते प्रत्यभिज्ञानमन्यथाप्युपपद्यते।
गत्वादिजातिविषयं यद्वा सादृश्यहेतुकम्॥
न त्वभिव्यञ्जकध्वंसान्नाशधीरपि सेत्स्यति।
तदसावपि बाध्यास्तु यद्वा भवतु संशयः॥
मैवं विनाशिताबुद्धिर्भेदबुद्ध्युपबृंहिता।
सा चेयञ्चान्यथासिद्ध इति वक्तुमसाम्प्रतम्॥
प्रत्यभिज्ञा च सापेक्षा निरपेक्षा त्वभावधीः।
तेनैवामादौ विषये प्रत्यभिज्ञैव बाध्यते॥
शब्दाभावस्य ग्रहणात् प्रत्यभिज्ञायाश्च पूर्वानुसन्धानादिसव्यपेक्षत्वात्। अपि च प्रत्यभिज्ञा व्यभिचरति कर्मादिषु गृह्यते। तेनास्यां शब्देऽप्यभावप्रत्ययोपहतवपुषि कः समाश्वासः। न चेदं प्रत्यक्षेऽप्यनैकान्तिकत्वोद्भावनम्, अपि तु विनाशप्रत्ययप्रतिहतप्रभावा प्रत्यभिज्ञा नित्यत्वं कर्मादिष्विव शब्देऽपि न साधयितुं प्रभवतीति दृष्टान्तस्य कोऽवसरः? सत्यम्, ग्राहिकास्तु भवादृशाः स्वयमनवबुध्यमाना एवं बुद्ध्यन्ते।
यत्तु प्रवृद्धरभसतया बुद्धिकर्मादावपि नित्यत्वसमर्थनं तदत्यन्तमलौकिकमित्युक्तम्।
किं नाम शब्दनित्यत्वसमर्थनतृषातुरः।
जङ्गमं स्थावरञ्चैव सकलं पातुमिच्छसि॥
स्मादलमतिरभसवृत्ताभिराभिर्बुद्धिकर्मादिनित्यत्वसमर्थनकथाभिः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%नियमो ननु% किंकृत इति। विनाशधीरेव बाधिका न प्रत्यभिज्ञा इत्येवंरूपः।
%मैवं विनाशिताबुद्धिरि%ति। प्रत्युच्चारणं हि शब्दा भिन्ना उपलभ्यन्ते, सति चैक्ये भेदबुद्धिर्नानुगुणेति भेदबुद्धिर्विनाशावगमस्योपोद्वलिका। %सा चेयमि%ति यथा प्रत्यभिज्ञा सादृश्यादिनाप्युपपद्यत इत्यन्यथासिद्धा नैवं विनाशवीरित्यर्थः।
न्यायम़ञ्जरी :–
%शब्दानामभिव्यक्तिपक्षनिरसनम्%
यत्पुनरभिव्यक्तिपक्षे शब्दस्य ग्रहणे नियमाभावमाशङ्क्य श्रोत्रसंस्कारेण विषयसंस्कारेण उभयसंस्कारेण वा नियतं ग्रहणमुपवर्णितं तद्वञ्चनामात्रम्, समानदेशानां समानेन्द्रियग्राह्याणां प्रतिनियतव्यञ्जकव्यङ्ग्यत्वादर्शनात्, ये पुनरत्र गन्धा उदाहृतास्ते समानेन्द्रियग्राह्या भवन्ति न समानदेशाः।
एकभूम्याश्रितत्वेन तुल्यदेशत्वकल्पने।
भवेत् समानदेशत्वं हिमवद्विन्ध्ययोरपि॥
एकत्वेऽपि भुवो भान्ति पदार्थाः पार्थिवाः पृथक्।
व्यझ्यन्ते तदधिष्ठाना गन्धास्तैस्तैर्निबन्धनैः॥
भवन्त्वनाश्रिताः शब्दा यदि वाकाशसंश्रिताः।
सर्वथा भिन्नदेशत्वमेषां वक्तुं न शक्यते॥
ननु यथैकत्वेऽपि नभसः तद्भागकल्पनया प्रतिपुरुषं श्रोत्रेन्द्रियभेद एवं तद्भागकल्पनयैव शब्दानामपि असमानदेशत्वान्नियतव्यञ्जकव्यङ्ग्यता भविष्यति। नैवमुपपद्यते यत्रैव वक्तृमुखाकाशदेशे श्रोतृश्रोत्राकाशदेशे वा गोशब्द उपलब्धः तत्रैवाश्वशब्द इदानीमुपलभ्यते न पुनरतिमुक्तकुसुमे य उपलब्धो गन्धः स बन्धूके मधूके वा कदाचिदुपलभ्यत इति।
तस्मात् समानदेशत्वान्न व्यक्तौ नियमो भवेत्।
उत्पत्तौ तु व्यवस्थायां तद्भेद उपपद्यते॥
नादैः संस्क्रियतां शब्दः श्रोत्रं वा द्वयमेव वा।
सर्वथा नियमो नास्ति व्यञ्जकेष्विति निश्चयः॥
व्यवस्था व्यञ्जानां चेदुच्छयेऽदृष्टकारिता।
उत्पत्तौ दृश्यमानायां दृष्टमप्यविरोधकम्॥
न च स्तिमितमारुतापनयनव्यतिरिक्तः कश्चन श्रोत्रसंस्कारो विद्यते। तत्र चातिप्रसङ्ग उक्त एव अतिरिक्तसंस्कारकल्पनायान्त्वदृष्टकल्पना, स्थिरे च शब्दसंस्कारग्रहणमिति पुनरनभिव्यक्तस्यापि गोशब्दस्य श्रवणं स्यात्, तद्ग्रहणहेतोः संस्कारस्य स्थिरत्वात्, तत्क्षणिकत्वे तु शब्दक्षणिकतैव साध्वी प्रतीयमानत्वात्।
यत्तु भर्तृभित्रस्तमेव संस्कारं श्रोत्रेन्द्रियमभ्युपैति तदिदमपूर्वं किमपि पाण्डित्यम्। इन्द्रियस्य हि संस्कार्यस्य कल्पनमनुपपन्नम्। अनश्वरत्वे तु शश्वदेव शब्दकोलाहलप्रसङ्ग इति यत्किञ्चिदेतत्, भट्टेनैव सोपहासमेष दूषितः इति किमत्र विमर्देन।
यदपि भट्ट आह
यदि त्ववश्यं वक्तव्यस्तार्किकोक्तिविपर्ययः।
ततो वेदानुसारेण कार्या दिक्श्रोत्रतामतिः॥ इति
तदप्यसाम्प्रतम्
दिशां कार्यान्तराक्षेपादागमान्यपरत्वतः।
आहोपुरुषिकामात्रं विग्द्रव्यश्रोत्रकल्पनम्॥
इन्द्रियाणां भौतिकत्वस्य साधयिष्यमाणत्वाद् दिशश्चामूर्तत्वान्नेन्द्रियप्रकृतित्वम्, व्यापकत्वाविशेषे वा कालात्मनोरपि तथाभावप्रसङ्गः। तयोरन्यत्र व्यापारकत्वान्नेन्द्रियप्रकृतित्वमिति चेद्, दिग्द्रव्येऽपि तुल्यमेतत्, आगमस्य चान्यपरत्वम् यथा हि सूर्यं चक्षुर्गमयताद् दिशः श्रोत्रमिति पठ्यते एवमन्तरिक्षमसूनिति च पठ्यत एव, न चासवोऽन्तरिक्षप्रकृतिकाः पवनात्मकत्वात्। तस्मात् कृतं दिशा। आकाशदेश एव कर्णशष्कुल्यवच्छिन्नः शब्दनिमित्तोपभोगप्रापकधर्माधर्मोपनिबद्धः श्रोत्रमित्युक्तम्।
ननु धर्माधर्मकृतश्रोत्रनियमवदभिव्यक्तिनियमोऽपि शब्दस्य तत्कृत एव भविष्यति, किमिति तदनियमो नित्यत्वपक्षे चोद्यते इति, नैतद्युक्तम्। चक्षुरादीन्द्रियाणां वैकल्प्यमदृष्टनिबन्धनमन्धकारप्रभृतिषु दृश्यते, न पुनः पदार्थस्थतिरदृष्टवशाद् विपरिवर्त्तते। व्यञ्जकधर्मातिक्रमे हि हिममपि शैत्यं स्वधर्ममतिक्रामेत्। व्यञ्जकेषु नियमो न दृष्ट इत्युक्तम्, दृष्टे च वर्णभेदे नियतोपलब्धिरेतौ सम्भवति सति किमयमदृष्टमस्तके भार आरोप्यते? कथञ्चाभिव्यक्तिपक्षे तीव्रमन्दविभागः, तीव्रतादयो हि वर्णधर्मा वा स्युः, ध्वनिधर्मा वा। वर्णधर्मत्वे तीव्रगकारादन्यत्वं मन्दस्येत्यस्मन्मतानुप्रवेशः।
ध्वनिधर्मत्वपक्षे तु श्रोत्रेण ग्रहणं कथम्।
न हि वायुगतो वेगः श्रवणेनोपलभ्यते॥
यत्तु व्यक्तिधर्माः कृशत्वस्थूलत्वादयो जातावुपलभ्यन्ते इति दर्शितं तत् काममुपपद्येतापि जातेर्व्यक्तेस्तद्धर्माणाञ्च समानेन्द्रियग्राह्यत्वात्।
इह तु स्पर्शनग्राह्यः पवनोऽतीन्द्रियोऽथ वा।
तद्धर्माः श्रावणे शब्दे गृह्यन्ते इति विस्मयः॥
यत्तु बुद्धिरेव तीव्रमन्दवतीतितदतीव सुभाषितम्, असति विषयभेदे बुद्धिभेदानुपपत्तेः।
किञ्च नित्यपरोक्षा ते बुद्धिरेव़ञ्च नादवत्।
तदग्रहान्न तीव्रादितद्धर्मग्रहसम्भवः॥
अहो ताव्रादयस्तीव्रे प्रपाते पतिता अमीः।
यो गृह्यते न तद्धर्मा यद्धर्माः स न गृह्यते॥
यश्चाभिभववृत्तान्तस्त्वन्मते मरुतामसौ।
अनिले चाभिभूतेऽपि शब्दो न श्रूयते कथम्॥
दीरेऽभिभूते रविणा न हि रूपं न गृह्यते।
नियतव्यञ्जकत्वन्तु प्रतिक्षिप्तमदर्शनात्॥
यत्तु शङ्खादिशब्दानां श्रोत्रग्राह्यत्वसिद्धये।
शब्दत्वं तत्र तद्ग्राह्यमित्यवादि तदप्यसत्॥
सत्यं वदत दृष्टं वा श्रुतं वा क्वचिदीदृशम्।
आश्रयस्य परोक्षत्वे तत्सामान्योपलम्भनम्॥
शब्दो न तेऽस्त्यवर्णात्मा न शब्दो वर्णसम्भवः।
न नादवृत्ति शब्दत्वमिति तद्ग्रहणं कथम्॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%ये पुनरत्र गन्धा उदाहृता% इति। अथा दग्धभुवो जलसम्पर्काद् गन्धाभिव्यक्तिस्तैलस्य चातपयोगादिति।
%भट्टेन सोपहासमेष दूषित% इति। यथाह भट्टः
अमुमेव च संस्कारं शब्दग्रहणकारणम्॥
केचित्तु पण्डितम्मन्याः श्रोत्रमित्येव मन्वते।
संज्ञासञ्चारणादेष बहुमानः स्वचेतसि॥
मुधैषां बहुमानोऽयं वस्त्वनुत्पाद्य किञ्चन।
स्स्कारव्यतिरिक्ते च सर्वलोकस्य वस्तनि॥
श्रोत्रशब्दः प्रसिद्धोऽयं स्वाच्छान्द्येनापनीयते।
%ततो वेदानुसारेणे%ति। `देशः श्रोत्रम्’ इति वेदानुसारेण।
%दिशः कार्यान्तराक्षेपादि%ति। कार्यान्तरेण पूर्वापरादिप्रत्ययेन दिगाक्षिप्यते सत्तया व्यवस्थाप्यते। आकाशस्य तु शब्दव्यतिरेकेणान्यत् कार्यान्तरं नास्तीति।
%आगमस्य चाऽन्यपरत्वम्।% अनेन हि `सूर्यं ते चक्षुर्गमयताद् दिशः श्रोत्रम्’ ित्यादिना पशुसंज्ञपनकाले शमिता प्रोत्साह्यते `ते तव पशोः सम्बन्धि चक्षुरयं शमिता सूर्यं गमयतात्’ इति; न च भवता शमित्रा अस्य पशोरपकारः क्रियते प्रत्युतोपकार एव, एतच्छरीरावयवानां देवमूर्तिप्राप्तिहेतुत्वाद् भवतः। पशुनिहन्ता अध्वर्युकर्मकरः शमितेत्युच्यते।
न्यायम़ञ्जरी :–
%अबिव्यह्ग्यापेक्षया कार्यपक्ष एव शब्दस्य लघुतरः%
यत् पुनरिदं सन्धारितं व्यङ्ग्यकार्यपक्षयोः क्व शब्दग्रहणे गुर्वी कल्पना भवति क्व वा लध्वीति, तदपि मौलप्रमाणविचारसापेक्षत्वादप्रयोजकम्।
यदि मौलप्रमाणेन साधिता नित्यशब्दता।
त्वदुक्ता कल्पना साध्वी मदुक्ता तु विपर्यये॥
कोष्ठ्येन च बहिः प्रसरता समीरणेन सर्वतः स्मिमितमारुतापसरणं क्रियते इत्येतदेव तावदलौकिकं कल्पितम्, `अग्नेरूर्ध्वज्वलनम्, वायोस्तिर्यग्गमनम्; अणुमनसोश्चाद्यं कर्मेत्यदृष्टकारितानि’ इति मरुतां तिर्यग्गमनस्वभावत्वादूर्ध्वमधश्च शब्दश्रवणं न भवेत्।
यावन्न वेगिनानयेन प्रेरितो मातरिश्वना।
तावन्नैसर्गिको वायुर्न तिर्यग्गतिमुज्झति॥
अधोमुखप्रयुक्तोऽपि शब्द ऊर्ध्वं प्रतीयते।
उत्तानवदनोक्तोऽपि नाधो न श्रूयते च सः॥
कदम्बगोलकाकारशब्दारम्भो हि सम्भवेत्।
न पुनर्दृश्यते लोके तादृसी मरुतां गतिः॥
आकण्ठानद्धनीरन्ध्रचर्मावृतमुखोदितः।
शब्दो यः श्रूयते तत्र न कोष्ठ्यानिलसर्पणम्॥
कुड्यादिप्रतिबन्धेन वायोरप्रसरणं भवद्भिरपि कथितमेव, निर्विवरचर्मपुटोपरुद्धोऽप्यसौ न प्रसरेत्।
अपि च सर्वतोनिरुद्धनवद्वारस्यापि जठरे गुरगुराशब्दो मन्दाग्नेः श्रूयते, अत्र कुतो व्यञ्जकानां कोष्ठ्यपवनानां निस्सृतिः? रोमकूपिःसृतानामपि सूक्ष्मतयास्तिमितबाह्यवाय्वपसरणसामर्थ्याभावः। किञ्च मनागपि बहिर्वायौ वाति न शब्दश्रवणं स्यादिति। दुर्बलोऽपि बाह्यः पवनः प्रबलादपि कोष्ठ्यवायोर्बलीयान् भवतीति कथं तेनापसार्येत? अन्ये एव सूक्ष्मा वायवः शब्दावरणकारिणो, न पुनरेते परिदृश्यमानाः श्यामाः (?) श्यामाकलतालास्योपदेशिनो मातरिश्वान इति चेन्न, विशेषे प्रमाणाभावात्। यञ्चसूक्ष्मा अपि वायवः तिरोदधति तं सुतरां बलीयांसोऽपि विवृणुयुरिति यत्किञ्चिदेतत्। तस्मात् सजातीयशब्दसन्तानारम्भपक्ष एव युक्त्यनुगुणः। तथा हि सजातीयगुणारम्भिणो गुणास्तावद् दृश्यन्त एव रूपादयः। अमूर्त्तापि च बुद्धिर्बुध्यन्तरमारभमाणा दृश्यते, प्रदेशान्तरेऽपि सैव कार्यमारभते, पथि गच्छतो देवदत्तादेरेकस्माद् आत्मप्रदेशात् प्रदेशान्तरे बुद्ध्युत्पाददर्शनात्। कार्यारम्भविरतिरपि भवति, अदृष्टाधीनसंसर्गाणां सहकारिणामनवस्थानात्।
तीव्रेणापि शनैरेवमतीव्रारम्भसम्भवः।
सीदत्सचिवसामर्थ्यसापेक्षक्षीणवृत्तिना॥
वीचीसन्तानदृष्टान्तः किञ्चित् साम्यादुदाहृतः।
न तु वेगादिसामर्थ्यं शब्दानामस्त्यपामिव॥
यत्तु कुड्यादिव्यवधाने किमिति विरमति शब्दसन्तानारम्भ इति, नैष दोषः, निरावरणस्य हि व्योम्नः शब्दारम्भेसमवायिकारणत्वं तथादर्शनात् कल्प्यते नाकाशमात्रस्येति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%प्रदेसान्तरे च सैव कार्यमारभत% इति। गच्छतो धूमादिदर्शनादविनाभावसम्बन्धग्रहणद्वारेण यत्र धूमदर्शनं जातं ततो देशान्निःसृतस्य देशान्तरे वह्न्यादिबुद्धिदर्शनादिति।
%सीदत्सचिवे%ति। सचिवा- सहकारिणः, सीददर्शनवद् यत् सामर्थ्यं तत् सापेक्षतया मन्दा वृत्तिः स्वसामर्थ्यमिति यस्य।
न्यायम़ञ्जरी :–
%शब्दे गुणत्वसिद्धिः%
*किमेतर्हि शब्दस्य गुणत्वे प्रमामम्, परिशेषानुमानमिति ब्रूमः। प्रसक्तयोर्द्रव्यकर्मणोः प्तिषेधे सामान्यादावप्रसङ्गाच्च गुण एवावशिष्यते शब्दः। कथं पुनर्न द्रव्यं शब्दः एकद्रव्यत्वात्? अद्रव्यं वा भवति द्रव्यम्, आकाशपरमाण्वादि, अनेकद्रव्यं वा द्व्यणुकादि कार्यद्रव्यम्. एकद्रव्यं तु शब्द एकाकाशाश्रितत्वात्, तस्मान्न द्रव्यम्। नापि कर्म शब्दः शब्दान्तरजनकत्वात्। कर्मणो हि समानजात्यारम्भकत्वं नास्ति। सत्ताशब्दत्वादिसामान्यसम्बन्धाच्च सामान्यादित्रयप्सह्गोऽस्य नास्तीति पारिशेष्याद् गुण एव शब्दः।*
यदपि गुमत्वमसिद्धं शब्दस्येति, तत्र केचिद् आश्रितत्वाद् गुणत्वमाचक्षते। तदयुक्तम्
आश्रितत्वं गुणत्वे हि न प्रयोजकमिष्यते।
षण्णामपि पदार्थानामाश्रितत्वस्य सम्भवात्॥
दिक्कालपरमाण्वादिनित्यद्रव्यातिरेकिणः।
आश्रिताःषडपीष्यन्ते पदार्थाः कणभोजिना॥
न च व्योमाश्रितत्वामपि शब्दस्य प्रत्यक्षम्, अप्रत्यक्षे नभसि तदास्रितत्वस्याप्यप्रत्यक्षत्वात्।
कथमाधारपारेक्ष्ये शब्दप्रत्यक्षतेति चेत्।
यथैवात्मपरोक्षत्वे बुद्ध्यादेरुपलम्भनम्॥
एतदेवासिद्धमिति चेद् अलं वादान्तरगमनेन, उपरिष्टान्निर्णेष्यमाणत्वात्।
ननु गुणत्वसिद्धौ सत्यामाकाशाश्रितत्वं शब्दस्य भविष्यति, गुणस्य द्रव्यानाश्रितस्यादर्शनात्, पृथिव्यादीनाञ्च शब्दाश्रयत्वानुपपत्तेः। ततश्च गुणत्वे सत्येकद्रव्यत्वम्, एकद्रव्यत्वे सति गुणत्वमितीतरेतराश्रयत्वम्। तथा च समानजातीयारम्भकत्वमपि गुणत्वसिद्धिमूलमेव, गुणत्वे सति शब्दस्याकाशाश्रितत्वात् तदात्मकेन श्रोत्रेण ग्रहणम्, तच्च देशान्तरगतसंयोगविभागप्रभवस्य शब्दस्य सन्तानमन्तरेण श्रोत्रदेशप्राप्त्यभावान्न सिद्ध्यतीति गुणत्वसिद्धिमूला सन्तानकल्पना। सन्तानकल्पनायाञ्च समानजात्यारम्भकत्वात् कर्मव्यवच्छेदे सति गुणत्वसिद्धिरितीतरेतराश्रयत्वमेव।
उच्यते। नोभयत्राप्येष दोषः। श्रोतर्ग्राह्यत्वादेव शब्दस्याकाशाश्रितत्वं कल्प्यते, तमानजातीयारम्भकत्वञ्च गुणत्वात्। आकाशैकदेशो हि श्रोत्रमिति प्रसाधितमेतत्। प्राप्यकारित्वञ्चेन्द्रियाणां वक्ष्यते। न चाकाशानाश्रितत्वे शब्दस्य श्रोत्रेण प्राप्तिर्भवति, न चाप्राप्तस्य ग्रहणमिति तदाश्रितत्वं कल्प्यते। एवं समानजातीयारम्भकत्वमपि तत एव श्रावणत्वात् दूरवर्तिनः शब्दस्य श्रवणे सति कल्प्यते न तु गुत्वादिति नेतरेतराश्रयत्वम्। कार्यत्वादाकाशाश्रितत्वं कल्प्यते इत्येके।
ननु कार्यत्वादप्याकाशाश्रितत्वकल्पनायां तदवस्थमेवेतरेतराश्रयत्वम्। कार्यत्वादाकाशश्रितत्वम्, आकाशाश्रितत्वे सति नियतग्रहणमूलं पूर्वरीत्या कार्यत्वमिति। नैतदेवम्। भेदविनाशप्रतिभासाभ्यमेव कार्यत्वसिद्धेः। किमर्थस्तर्हि नियतग्रहणसमर्थनाय अयमियान्प्रयासः क्रियते? नियतग्रहणमपि कार्यपक्षानुगुणमिति दर्शयितुम्। न पुनरेषैव कार्यत्वे युक्तिरित्यलं सूक्ष्मेक्षिकया।
अपर आह परिस्पन्दविलक्षणस्य प्रत्यक्षत्वादकर्मत्वं शब्दस्य साध्यते, न समानजातीयारम्भकत्वादितीतरेतराश्रयस्पर्शोऽपि नास्तीति। तस्मात् सर्वथा परिशेषानुमानाच्छब्दस्य गुणत्वसिद्धिः।
कथं तर्ह्यस्य महत्त्वादियोगो निर्गृणा गुणा इति काणादाः, अस्ति हि प्रतीतिर्महान् शब्द इति? समानजातीयगुणाभिप्रायं तत् कणादवचनमिति न दोषः, तस्मादाकाशगुणः शब्दः। अपि च
यथात्मगुणता हीच्छाद्वेषादेरुपपत्स्यते।
शब्दो नयेन तेनैव भविष्यति नभोगुणः॥
ये तु समानजातीयशब्दारम्भकत्वनिषेधहेतवः शब्दत्वादित्यादयः परैरुपन्यस्तास्तेषामप्रयोजकत्वान्न साधानत्वम्।
इत्थं सन्तानवृत्त्या च शब्दग्रहणसम्भवे।
कल्पनाल्पतरास्माकं न शब्दव्यक्तिवादिनाम्॥
शाक्यकापिलनिर्ग्रन्थग्रथितप्रक्रियां प्रति।
यत्तु दूषणमाख्यातमस्माकं प्रियमेव तत्॥
तस्मात् कार्यपक्षे नियतग्रहणोपपत्तेः, अभिव्यक्तिपक्षे च तदभावात् कार्य एव शब्द इति स्थितम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%अद्रव्यं वा भवति द्रव्यमि%ति। न विद्यते जनकं द्रव्यं यस्य। अनेकद्रव्यं जनकं यस्येति च विग्रहोनेकद्रव्यमित्यत्र।
%आश्रिताः षडपीष्यन्ते पदार्थाः कणभोजिने%ति। तदुक्तम्–“षण्णामाश्रितत्वमन्त्र नित्यद्रव्येभ्यः” इति।
%नियतग्रहणमूलमि%ति। नयतदेशं यदेतच्छब्दस्य ग्रहणमस्य कार्यत्वमेव मूलं हेतुः, नित्यत्वपक्षे हि मद्रेष्वभिव्यत्तो गोशब्दः कश्मीरेषु श्रूयेतेत्यादिना नियतदेशतया ग्रहणाभावः प्रतिपादितः।
%न समानजातीयारम्भकत्वादि%ति। समानजातीयरम्भकत्वेनाकर्मत्वसाधने हीतरेतराश्रयत्वं स्यादिति भावः।
न्यायमञ्जरी :–
%शब्दानित्यतायां सूत्रकारसम्मतिः%
तदिदमुक्तं सूत्रकृता `आदिमत्त्वादैन्द्रियकत्वात् कृतकवदुपचाराच्चानित्यः शब्द’ इति। आदिमत्त्वादिति। संयोगविभागादीनां शब्दे कारकत्वं न व्यञ्जकत्वमिति दर्सितम्, अतशच् न प्रयत्नान्तरीयकत्वमनैकान्तिकम् ऐन्द्रियकत्वादिति। कार्यपक्षे एव शब्दस्य नियतं ग्रहणमित्युक्तम्, प्रतिपुरुषं प्रत्युच्चारमञ्च शब्दभेदस्यैन्द्रियकत्वादिति वा हेत्वर्थः। तेन प्रत्यभिज्ञादुराशा श्रोत्रियाणामपाकृता भवति। कृतकबदुपचारादिति। तीव्रमन्दविभागाभिभवादिव्यवहारदर्शनात् सुखदुःखादिवदनित्यः शब्द इति दर्शितम्। तथा “प्रागुच्चारणादनुपलब्धेः, आवरणानुपलब्धेश्च” इत्यनेन सूत्रेण शब्दाभावकृतमेव तदग्रहणमिति। न हि स्तिमिता वायवः शब्दमावरीतुमर्हन्ति, मूर्त्तं हि मूर्त्तेन व्यवधीयते नामूर्तमाकाशादिवत्। न च प्रकृत्यैवाकाशादिवदतीन्द्रियः शब्दः, तस्मात् क्षणिकप्रतीतेस्तत्कालमेव शब्दस्यावस्थानमित्यस्थानहेतोरपि नान्यथासिद्धत्वम्। वार्त्तिककृता शब्दानित्यत्वे साधनमभिहितम्, अनित्यः शब्दो जातिमत्वे सत्यस्मदादिबाह्यकरणप्रत्यक्षत्वाद् घटवदिति।
यत्त्वत्र जातीनामपि जातिमत्त्वादनैकान्तिकमुद्भावितम् `एकार्थसमवायेन जातिर्जातिमती यतः’ इति तदत्यन्तमनुपन्नम्, निस्सामान्यानि सामान्यादीनीति सुप्रसिद्धत्वात्, न हि घटे घटत्वपार्थिवत्वे स्त इति घटत्वसामान्येऽपि पार्थिवत्वसामान्यमस्तीति शक्यते वक्तुम्। अतो निरवद्य एवायं हेतुः। तेन यदुच्यते
जातिमत्त्वैन्द्रियत्वादिवस्तुसन्मात्रबन्धनम्।
शब्दानित्यत्वसिद्ध्यर्थं, को वदेद् यो न तार्किकः॥ इति
तदविदिततार्किकपरिस्पन्दस्य व्याहृतम्। इह त्वप्रयोजका हेतवो भवन्ति।
ह्यस्तनोच्चारितस्तस्माद् गोशब्दोऽद्यापि वर्त्तते।
गोशब्दज्ञानगम्यत्वाद् यथोक्तोऽद्यैष गौरिति॥
विज्ञानग्राह्यता नाम वस्तुस्वबाव्यबन्धना।
नित्यत्वे कृतकत्वे वा न खल्वेषा प्रयोजिका॥
अप्रयोजकता चैवम्प्रायाणां चैवमुच्यते।
स्वयञ्चैते प्रयुज्यन्ते हेतुत्वेनेति किन्त्विदम्॥
एवं नित्यत्वे दुर्बलो युक्तिमार्गः
तस्मान् मन्तव्यः कार्य एवेति शब्दः।
वाचोयुक्तित्वे वैदिको योऽनुवादः
न्याये प्रयुक्ते किंफलस्तत्प्रयोगः॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%आदिमत्त्वादि%ति। आदिः अनुत्पन्नस्योत्पादः। %न प्रयत्नानन्तरीयकत्वम् अनैकान्तिकमित%ति। अभिव्यङ्ग्येऽपि बावादिति। यदुक्तम् %आवरणानुपलब्धेश्चे%ति सूत्रावयवम् %`न हि स्तिमिता वायवः’% इत्यनेन व्याख्यातुमाह। %वार्तिककृता%पीति उद्योतकरेण।
%एकार्थसमवायेन% इत्यस्योत्तरमर्थम् `आधारत्वमथोच्येत नामूर्ताधीयते ह्यसौ’ इति। एकस्मिन् गवादावर्थे समवेता या सत्ता गोत्वेन सह, तया जातिमत्ता गोत्वेन सह,
%वस्तुसन्मात्रबन्धनमि%ति। जातिमत्त्वादिना वस्तुनः सन्मात्रं साधयितुं शक्यते, न पुनरनित्यत्वादिर्विशेष इत्यर्थः।
%न्याये प्रत्युक्ते किंफलस्तत्प्रयोग% `न्यायोक्ते लिङ्गदर्शनम्’ इति भवद्भिरेव व्यवस्थापितत्वात्। न च शब्दनित्यत्वसिद्धौ न्यायोऽस्ति अतो निष्फलो `वाचाविरूपनित्यया, इत्यादिलिङ्गदर्शनोपन्यासः।
न्यायम़ञ्जरी :–
%अनित्यस्यापि शब्दस्य न क्षणिकत्वम्%
क्षणभङ्गिभावस्याभावादपि शब्दस्य क्षणिकतां न वक्तुमलम्। स्थूलविनाशभावादिति यदुक्तं तदपि नृत्तम्।
सूक्ष्मविनाशापेक्षी नाशः स्थूलस्थिरस्य कुम्भादेः।
प्रकृतितरलस्य नाशः शब्दस्य स एव हि स्थूलः॥
सत्त्वाद् यदि क्षणिकतां कथयेत् पुरो वा
शब्दस्तदैष कथमक्षणिकोऽभिधेयः।
गत्यन्तराद् यदि तदेव हि तर्हि चिन्त्यं
किं प्रौढवादिबहुमानपरिग्रहेण॥
अलमतिविततोक्त्या त्यज्यतां नित्यवादः
कृतक इति नयज्ञैर्गृह्यतामेष शब्दः।
सति च कृतकभावे तस्य कर्ता पुराणः
कविरविरलशक्तिर्युक्त एवेन्दुमौलिः॥
%इति श्रीजयन्तभट्टविरचितायां न्यायमञ्जर्यां तृतीयमाह्निकम्।%
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :–
%सत्त्वाद् यदी%ति। न हि बौद्धानां स्थूलविनाशदर्शनमेव क्षणिकत्वे हेतुरपि तु सत्त्वाद्यपीत्याह। %गत्यन्तराद%नित्यत्वेऽर्थप्रत्यायकत्वानुपपत्तिलक्षणात्। शक्त्यन्तरादिति वा पाठे शक्त्यन्तरादर्थप्रत्यायनसामर्थ्यलक्षणात्। %किं प्रौढवादिबहुमानपरिग्रहेण।% मत्पक्षो युक्तो यावद् भवत्पक्षः सर्वथैव नोपपद्यत इति वादेन यः प्रौढवाद्यहमिति बहुमानस्तदाश्रयणेन।
%कविः% क्रान्तदर्शनः॥
भट्टश्रीशङ्करात्मजचक्रधरकृते न्यायमञ्जरीग्रन्थभङ्गे तृतीयमाह्निकम्।
चतुर्थमाह्निकम्
न्यायमञ्जरी :–
%शब्दानामनित्यत्वात् वेदाः कर्तृपूर्वकाः%
एवं कृतकत्वे वर्णानां साधिते सति वर्णात्मनः पदात् प्रभृति सर्वत्र पुरुषस्य स्वातन्त्र्यं सिद्धं भवति।
पदनित्यत्वपक्षेऽपि वाक्ये तद् रचनात्मके।
कर्तृत्वसम्भवात् पुंसो वेदः कथमकृत्रिमः॥
तथा च वैदिक्यो रचनाः कर्तृपूर्विकाः रचनात्वाल्लौकिकरचनावत्। एष च पञ्चलक्षणो हेतुः प्रयोजकश्चेति गमक एव न हेत्वाभासः। न तावदयमसिद्धो हेतुः `शन्नो देवीरभीष्टये’ इत्यादिषु वेदवाक्यसन्दर्भेषु पदरचनायाः स्वरक्रमादिविशेषवत्याः प्रत्यक्षत्वेन पक्षे हेतोः वर्तमानत्वात्। नापि विरुद्धः कर्तृत्ववति सपक्षे कुमारसम्भवादौ रचनात्वस्य विद्यमानत्वात्। नाप्यनैकान्तिकः कर्तृरहितेषु गगनादिषु गगनकुमुमादिषु वा रचनाया अदृष्टत्वात्। नापि सत्प्रतिपक्षः प्रकरणचिन्ताहेतोः स्थाणुपुरुषविशेषानुपलब्धेरिव हेतुत्वेनानभिधानात्। नापि परमाण्वनित्यतायामिव मूर्त्तत्वम् प्रयोजकमिदं साधनम्, रचनाविशेषाणां कर्त्तृव्यापारसाध्यत्वावधारणात्। यथा धूमस् ज्वलनाधीन आत्मलाभो ज्ञप्तिस्तु धूमादग्नेस्तथेह कर्त्रधीना रचनानामभिनिर्वृत्तिः, प्रतीतिस्तु ताभ्यः कर्त्तुरिति। तस्मात् प्रयोजक एवायं हेतुः।
न्यायमञ्जरीग्रन्थिव्याख्या :–
जटाजूटभरस्यन्दद्गङ्गाम्बुघनदुर्द्दिने।
उल्लसच्चन्द्रकं वन्दे नीलकण्ठस्य ताण्डवम्॥
॥ ॐ नमः शिवाय॥ %प्रकरणचिन्ताहेतोरि%ति। यत एव प्रकरणे पक्षे चिन्ता संशयः। %अविगीता% अविप्रतिपत्त्या स्थिता।
न्यायमञ्जरी :–
%वेदानामपौरुषेयत्वे मीमांसकानां पक्षः%
ननु सत्प्रत्तिपक्षत्वे विवदन्ते च, तथा च मीमांसकैः प्रतिहेतुरिह गीयते।
वेदस्याध्ययनं सर्वं गुर्वध्ययनपूर्वकम्।
वेदाध्ययनवाच्यत्वादधुनाध्ययनं यथा॥ इति।
नैतद्युक्तम्, एवम्प्रायाणां प्रयोगाणामप्रयोजकत्वात्। न हि तच्छब्दवाच्यत्वकृतमनादित्वमुपपद्यते। अनैकान्त्किश्चायं हेतुर्भारतेऽप्येवमभिधातुं शक्यत्वात्, भारताध्ययनं सर्वं गुर्वध्ययनपूर्वकं भारताध्ययनवाच्यत्वाद्, इदानीन्तनभारताध्ययनवदिति,
ननु भारते कर्तृस्मृतिरविगीता विद्यते। यद्येवं वेदेऽपि प्रजापतिः कर्त्ता स्मर्यत एव। अथ वैदिकमनत्रार्थवादमूलेयं प्रजापतिस्मृतिः, प्रजापतिना चत्वारो वेदा असृज्यन्त चत्वारो वर्णाश्चत्वार आश्रमा इति तत्र पाठादिति।
उच्यते। हन्त तर्हि भारतेऽपि तत्र वचनमूलैव पाराशर्यस्मृतिरिति शक्यते वक्तुम्।
यथा प्रजापतदिर्वेदे तत्र तत्र प्रशस्यते।
भारतेऽपि तथा व्यासस्तत्र तत्र प्रशस्यते॥
अथ प्रणेता वेदस्य न दृष्टः केनचित् क्वचित्।
द्वैपायनोऽपि किं दृष्टो भवत् पितृपितामहैः॥
सर्वेषामविगीता चेत् स्मृतिः सत्यवतीसुते।
प्रजापतिरपि स्रष्टा लोके सर्वत्र गीयते॥
आः किमिति सदसद्विवेकविकलशाकटिकादिप्रवादविप्रलब्ध एवं भ्राम्यसि? किल स्वल्पमपि कर्म पित्रा मात्रा वोपदिश्यमानं तद्वचनप्रत्ययादनुष्ठीयते? तदयमियाननेकक्लेशवित्तव्ययादिनिर्वर्त्त्यो वैदिकः कर्मकलाप एवमेव तदुपदेशिनमाप्तमस्मृत्वैव क्रियत इति महान् प्रमादः। एवञ्चोच्चावचकविरचितजरत्पुस्तकलिखितकाव्यवद् अस्मर्यमाणकर्तृकेण वेदेन व्यवहारानुपपत्तेरवश्यस्मरणीयस्तत्र कर्त्ता स्यात्। न च कदाचन वेदेषु व्यवहारविच्छेदः सम्भाव्यते, येन तत्कृतं जरत् कूपारामादिष्विव तेषु कर्त्रस्मरणं स्यात्। तस्मादवश्यं स्मर्येत कर्त्ता, न च संस्मर्यते स्मर्त्तुं शक्यते वा। स्मृत्तिर्हि भवन्ती तदनुभवमूला भवति न च मूलेऽपि कर्त्रनुभवः कस्यचिज्जातः सर्गादेरभावात्, भावे वा कर्त्तुरशरीरत्वेन दर्शनयोग्यत्वाभावात्।
सशरीरत्वपक्षे वा पुरुषः कोऽपि तादृशः।
तदानीं दृश्यमानोऽपि वेदं कुर्वन्न दृश्यते॥
अधीयमाने दृष्टेऽस्मिंस्तदा संशेरते जनाः।
किमेष रचयेद् वेदमुत वान्यकृतं पठेत्॥
यत्कृतंवा पठेदेष तस्मिन्नपि हि संशयः।
भङ्ग्या चेदमनादित्वमुन्मीलदिव दृश्यते॥
असत्यादिप्रमाणे च कर्त्तृतानुभवं प्रति।
स्मृतिः प्रबन्धसिद्धापि स्पृशत्यन्धपरम्पराम्॥
योगिभिर्ग्रहणं कर्तुरित्येतदपि दुर्वचम्।
कर्त्तृता हृदि दुर्बोधा कथं गृह्येत तैरपि॥
योगिभिः सा गृहीतेति वयमेतन्न मन्महे।
अमन्वानाश्च गच्छेम विस्रब्धास्तत्पथं कथम्॥
वेदात् कर्त्रवबोधे तु स्पष्टमन्योन्यसंश्रयम्।
ततो वेदप्रमाणत्वं वेदात् कर्तुश्च निश्चयः॥
तस्मात्पौर्वापर्यपर्यालोचनारहितयथाश्रुतमन्त्रार्थवादमूला भ्रान्तिरेषा न पुनः परमार्थतः कश्चित् कञ्चिद्वेदस्य कर्त्तारं स्मरति। तस्मादकृतका वेदाः, अवश्यस्मरणीयस्यापि कर्त्तुरस्मरणात्। न च व्यधिकरणो हेतुरस्मर्यमाणकर्तृकत्वादित्येवं साधनप्रयोगात्।
न्यायमञ्जरीग्रन्थिव्याख्या :–
ननु सृष्टिकाले कर्तृदर्शनं स्मृतेर्मूलं भविष्यतीत्याह %न च% मूल इति प्रथमत इत्यर्थः।
%तस्मात् पौर्वापर्यपर्यालोचने%ति। विधायकवाक्यानङ्गत्वेन केवलानां मन्त्रार्थवादानां विश्वतश्चक्षुरित्यादीनां अदर्शनाद् `रौद्रं चरुं निर्वपेत्’ इत्यादिविधिवाक्यैकवाक्यतया व्यवस्थितानपि तान् पृथग् गृहीत्वा भ्राम्यन्ति। यथा `घृतघटीमानय, यावद् आपणाद् घृतं गृह्येत’ इत्येतद्वाक्यैकवाक्यतया `घृतघटीमानय’ इति स्थितं रिक्तघृतघटीसंप्रत्यायकं पृथक् क्रियमाणं पूर्णघृतघटीभ्रमं जनयति।
न्यायमञ्जरी :–
%वेदपौरुषेयत्वसिद्धौ युक्तिः%
अत्रोच्यते, अपि तद्गुर्वध्ययनपूर्वकत्वं साधनमुपेक्षितं याज्ञिकैः, अयमभिनवो हेतुरस्मर्यमाणकर्तृकत्वादिति प्रयुक्तः। तस्मादस्तु नाम। नैनान् हेत्वन्तरोपन्यासिनो निगृह्णीमः। अक्षुद्रकथेयं प्रस्तुता। अयमपि तु अस्मर्यमाणकर्तृकत्वादिति हेतुः किं स्वतन्त्र एवाकर्तृकत्वसिद्धये प्रयोज्ते उतास्मदुपचरितरचनात्वप्रतिघातायेति? तत्र न तावदनुमानमनुमानान्तरपरिपन्थि कथयितुमुचितम्, प्रत्यक्षागमवदनुमानस्याप्यनुमानबाधकत्वानुपपत्तेः। नहि तुल्यबलयोरनुमानयोर्बाध्यबाधकभावस्तुल्यबलत्वादेव। अतुल्यबलत्वे तु यत्कृतमन्यतरस्य दौर्बल्यं तत एव तदप्रामाण्यसिद्धेः किमनुमानबाधया? तद्विडम्बनार्थं तदभिधानमिति चेत्, तदप्ययुक्तम्। एकत्र धर्मिणि युगपदितरेतरविरोधिधर्मद्वयप्रयोजकहेतुद्वयोपनिपातायोगात्। न हि द्व्यात्मकानि वस्तूनि भवितुमर्हन्ति इत्यवश्यमन्यतरस्तत्राप्रयोजकहेतुः, अप्रयोजकत्वादेव तस्यागमकत्वे किं विडम्बनार्थेन हेत्वन्तरेण प्रयुक्तेन। विरुद्धाव्यभिचार्यपि नाम न कश्चिद्धेत्वाभास इति वक्ष्यामः, प्रकरणसमोऽपि न यः कश्चित् सत्प्रतिपक्षो हेतुरिष्यतेऽपि तु संशयबीजभूतोऽन्यतरविशेषानुपलम्भे भ्रान्त्या हेतुत्वेन प्रयुज्यमानस्तथोच्यते इति दर्शयिष्यामः। तस्मात् परोदीरितं हेतुं निराचिकीर्षता वादिना तद्गतपक्षवृत्तितादिधर्मपरीक्षणे मनः खेदनीयम्। न हि प्रतिहेतुत्वान्वेषिणा वृथाटाट्या कर्त्तव्या।
ननु कतरदनयोः साधनयोरप्रयोजकं रचनात्वादस्मर्यमाणकर्तृकत्वादिति च। उच्यते। रचनात्वमेव प्रयोजकं न हि पुरुषमन्तरेण क्वचिदक्षरविन्यासो दृष्टः।
भो भगवन्तः सभ्याः क्वेदं दृष्टं क्व वा श्रुतं लोके।
यद् वाक्येषु पदानां रचना नैसर्गिकी भवति॥
यदि स्वाभाविकी वेदे पदानां रचना भवेत्।
पटे हि हन्त तन्तूनां कथं नैसर्गिकी न सा॥
`शन्नो देवीरभिष्टये’, `नारायणं नमस्कृत्य’, `अस्त्युत्तरस्यां दिशि देवतात्मा’, इति तुल्ये रचनात्वे क्वचित् कर्तृपूर्वकत्वमपरत्र तद्विपर्यय इति महान् व्यामोहः। एवं धूमोऽपि कश्चिदग्निमान् कश्चिदनग्निक इत्यपि स्यात्। किमिदानीं कुमारसम्भवतुल्योऽसौ वेदः सम्पन्नः? अहो सर्वास्तिकधुर्येण वेदप्रामाण्यं साधितं नैयायिकेन। अलमुपहासेन, रचनामात्रमेव तुल्यं वेदस्य कुमारसम्भवेन नान्यत्। न चेयतोपहसितुं युक्तम्। किमस्य शब्दत्वं सामान्यं शङ्खशब्दसाधारणं नास्ति, सत्तासामान्यं वा सर्वसाधारणमिति।
ननु याः कालिदासादिरचनाः कर्तृपूर्विकाः।
ताभ्यो विलक्षणैवेयं रचना भाति वैदिकी॥
इहाध्ययनवेलायां रूपादेव प्रतीयते।
अकृत्रिमत्वं वेदस्य भेदैस्तैस्तैरनन्यगैः॥
नामाख्यातोपसर्गादिप्रयोगगतयो नवाः।
स्तुतिनिन्दापुराकल्पपरकृत्यादिनीतयः॥
शाखान्तरोक्तसापेक्षविक्षिप्तार्थोपवर्णनम्।
इत्यादयो न दृस्यन्ते लौकिके सन्निबन्धने॥
तेनाध्येतृगणाः सर्वे रूपाद् वेदमकृत्रिमम्।
मन्यन्ते एव लोके तु पीतं मीमांसकैर्यशः॥
वेदा न पठिता यैस्तु त्वादृशैः कुण्ठबुद्धिभिः।
कार्यत्वं ब्रुवते तेऽस्य रचनासाम्यमोहिताः॥
उच्यते। मीमांसका यशः पिबन्तु पयो वा पिबन्तु बुद्धिजाड्यापनयनाय ब्राह्मीघृतं वा पिबन्तु वेदस्तु पुरुषप्रणीत एव नात्र भ्रान्तिः।
यथा घटादिसंस्थानाद् भिन्नमप्यचलादिषु।
संस्थानं कर्त्तृमत् सिद्धं वेदेऽपि रचना तथा॥
यच्चात्र किञ्चिद् वक्तव्यं तत्पूर्वमेव सविस्तरमुक्तम्। अपि च यद् विलक्षणेयं रचना तद्विलक्षण एव कर्तानुमीयतां न पुनस्तदपलापो युक्त इत्यप्युक्तम्। याश्चैता निर्विवादसिद्धकर्तृकाः कालिदासादिरचनाः चमत्कारिण्य स्तासामन्योन्यविसदृशं रूपमुपलभ्यत एव।
अमृतेनेव संसिक्ताश्चन्दनेनेव चर्चिताः।
चन्द्रांशुभिरिवोद्घृष्टाः कालिदासस्य सूक्तयः॥
प्रकटरसानुगुणविकरटाक्षररचनाचमत्कारितसकलकविकुला बाणस्य वाचः, प्रतिकाव्यञ्च तानि तानि वैचित्र्याणि दृश्यन्ते एव। नामाख्यातादिवैचित्र्यमात्रेण कर्त्रभावो वेदे रूपादेव प्रतीयते इति नूतनेयं वाचोयुक्तिः। अपि च यदि रूपे समाश्वसिति भवतो मनः तदादिमद् अर्थाबिधानमपि वेदस्य रूपं कथं न परीक्षसे? `बबरः प्रावाहणिरकामयत’ `कुसुरविन्दः औद्दालकिः अकामयत’, `पुरूरवो मा मृथा’ इति। प्रतिसर्ग तुनस्तेषां भावादनादित्वमिति चेत्, प्रतिसर्गं तर्हि वेदान्यत्वमपि भविष्यति। यथोक्तम् “प्रतिमन्वन्तरं चैषा श्रुतिरन्या विधीयते” इति
रूपादकृत्रिमत्वञ्च कल्पनाकल्पितैव सा।
आदिमद् वस्तुबुद्धिस्तु वाचकैरक्षरैः स्फुटैः॥
तेषामन्यथा व्याख्यानन्तु व्याख्यानमेव। पठन्त एव त्वध्येतारस्तत आदिमतोऽर्थान् बहूनवगच्छन्तीति नानादिर्वेदः। तस्मान्न रचनात्वमप्रयोजकम्।
कर्त्रस्मरणमेव त्वप्रयोजकमसिद्धत्वात्। सिद्धमपि वा वेदे कर्त्रस्मरणमन्यथासिद्धम्, वेदकरणकालस्यातिदवीयस्त्वात्। तत्प्रणेतुश्च पुंसः सकलपुरुषविलक्षणत्वान्नियतशरीरपरिग्रहाभावाद् इदन्तयास्य पाणिनिपिङ्गलादिवत् स्मरणं नास्ति, न तु स नास्त्येव, अनुमानागमाभ्यं तदवगमात्। कथं पक्षधर्मतया ग्रहीतुं शक्यते कर्त्रस्मरणम्, तद्व्येतत्पुरुषसम्बन्धि व्यभिचरति सर्वपुरुषसम्बन्धि तु दुरवगमम्, सर्वे पुमांसः कर्त्तारं वेदस्य न स्मरन्तीति कथं जानाति भवान्? न हि तव सकललोकहृदयानि प्रत्यक्षाणि, सर्वज्ञत्वप्रसङ्गात्। न च यत् त्वं न जानासि तदन्योऽपि न जानातीति युक्तम्, अतिप्रसङ्गात्। तस्मादस्मर्यमाणकर्तृकत्वं दुर्बोधमेव। अपि च कर्तुरस्मरणे सति वेदार्थानुष्ठानं प्रेक्षावतां शिथिलीभवेत्, न ह्यकर्तृकएवोपदेशः सम्भवति, सम्भवन्नपि वा प्रामाण्यनिश्चयनिमित्ताभावात् कथं विस्रम्भभूमिरसौ भवेत्? बाधकाभावमात्रच्च न प्रामाण्यनिश्चयो वचसामित्युक्तं प्राक्। तस्माद् आप्तप्रत्ययादेव नर्विचिकित्सं वेदार्थानुष्ठानं सप्रतिष्ठानां सम्भवति नान्यथेति। तस्मान्न कर्त्रस्मरणस्य रचनात्वप्रतिपक्षतयोपन्यास उपपन्नः।
नापि स्वतन्त्रमेवेदं कर्त्रभावसाधनं भवितुमर्हति, अनुपलब्धिरियमनेन प्रकारेण किलोच्यते सानुपपन्ना, मानेन कर्तुरुपलम्भात्, अनुमानेनापि यदुपलब्धं तदुपलब्धमेव भवति। ननु कर्त्रभावस्मरणबाधितत्वादनुमानमिदमयुक्तम्। इतरेतराश्रयप्रसङ्गात्। अनुपलब्धौ सिद्धायामनुमाननिरासः, अनुमाननिरासे च रुत्यनुपलब्धिसिद्धिः। अनुमानप्रामाण्येऽपि समानो दोष इति चेद्, न, तस्य प्रतिबन्धमहिम्ना प्रामाण्यसिद्धेः। न हि तस्यानुपलब्धिसिद्धिनिरासापेक्ष प्रामाण्यम्।
तत्रैतत् स्याद्। न वयं कर्त्रभावे प्रामाण्यं ब्रूमः। सकललोकपदार्थव्यवहारिणो हि मीमांसकाः। परन्तु वेदस्य पौरुषेयतां ब्रुवाणं प्रमाणं पृच्छामः। तच्चास्य नास्तीति बलादनुपलब्ध्या तदभावनिश्चयो व्यवतिष्ठते इति। स्यादेतदेवं यद्यनुमानं न स्यात्, उक्तञ्च रचनात्वादित्यनुमानम्।
यत् पुनरवादि वेदेषु पुरुषस्य कर्तृत्वमशक्यं ग्रहीतुमिति, तदप्यसाधु। परोक्षस्य कुविन्दादेरपि अबिनवावरकपटादौ कार्ये कथं कर्तृतावगम्यते।
पटादिरचनां दृष्ट्वा तस्य चेत् सानुमीयते।
वेदेऽपि रचनां दृष्ट्वा कर्तृत्वं तस्य गम्यताम्॥
शरीरपरिग्रहमन्तरेण प्राणिनामुपदेशस्य कर्तुमशख्यत्वात् कदाचिदीश्वरः शरीरमपि गृह्णीयादिति कल्प्यते। नियतशरीरपरिग्रहाभावाच्च व्यासादिवदसौ न स्मर्यते। ततश्च
अद्य सद्यः कविः काव्ये यथा कर्त्तेति मीयते।
तथा तत्कालजैः पुम्भिः सोऽपि कर्त्तेति मास्यते॥
यथा परकृताशङ्का तस्मिन् कान्ये व्यपेति ते।
वेदेऽप्यन्यकृताशङ्का तथा तेषां व्यपैषय्ति॥
परोक्षमनुमानेन यच्च बुद्ध्यामहे वयम्।
प्रत्यक्षं योगिनां तच्चेत्युक्तं प्रत्यक्षलक्षणे॥
प्रत्यक्षमनुमानञ्च तदेवं कर्तृतामितौ।
मूलप्रमाणमस्तीति स्मृतौ निन्दापरम्परा॥
मन्त्रार्थवादमूलत्वं तत एव न तत्स्मृतेः।
यथोदितानुमानादिप्रमाणान्तरसम्भवात्॥
यदपीतरेतराश्रयमभाषि पुरुषोक्ते वेदे प्रामाण्यं वेदप्रामाण्यात्, पुरुषसिद्धिरिति, तदपि न सम्यक्, पूर्वं परिहृतत्वात्। अनुमानात् प्रसिद्धे कर्त्तरि वेदवाक्यैस्तत्प्रतीतेरुपोद्बलनमिष्यते, न त्वागमैकशरण एव कर्त्रवगमः। उक्तञ्च पूर्वमपि पृथिव्यादिना कार्येण कर्तु रनुमानम्।
न्यायमञ्जरीग्रन्थिव्याख्या :–
%नामाख्याते%ति। नाम्नामभिनवत्वं सूचयति कृतणत्वस्याग्निशब्दस्य क्वचित् प्रयोगः। आख्यातस्याभिनवत्वं `होता यजतु’ इत्यत्रार्थे `होता यक्षत्’ इति प्रयोगे। उपसर्गस्य `सं ते वायुर्वातेन गच्छताम्’ इत्यादौ व्यवहितस्य प्रयोगः। %स्तुतिः% प्रशंसा यथा–`सर्वजिता वैदेवाः समयजन् सर्वस्याप्त्यै सर्वस्य जित्यै सर्वमेवैतेनाप्नोति सर्वं जयति’ इत्यादि. अनिष्टफलवादो %निन्दा।% `स एष वाव प्रथमो यज्ञानां यज्ज्योतिष्टोमो य एतेनानिष्ट्वाऽत्येन यजते स गर्ते पतत्ययमेवैतज्जीर्यते वा प्रमीयते वा’ इत्यादि। अन्यकर्तृकस्य व्याहतस्य विधेर्वादः %परकृतिः।% “हुत्वा वपामेवाग्रेऽभिघारयन्ति अथ पृषदाज्यं तदु ह कठचरकाध्वर्यवः पृषदाज्यमेवाग्रेऽभिघारयन्ति प्राणा वै पृषदाज्यमिति वदन्तः” इत्यादि। ऐतिह्यसमाचरितो विधिः %पुराकल्पः।% `तस्माद्वा एतेन पुरा ब्राह्मणा बहिष्पवमानं सामस्तोममस्तौषन् योने यज्ञं प्रतनवामहे’ इत्यादि न्यायभाष्योक्तानि स्तुत्याद्युदाहरणानि। विशिष्टनामधेयकर्तृसम्बन्धनिर्वर्त्यकर्मप्रतिपादकसामान्यकर्तृमात्रनिर्वर्त्यकर्मप्रतिपादकयोरर्तद्वारेण वाक्ययोस्तु मीमांसकाः परकृतिपुराकल्पतामाहुः। आदिग्रहणमनुवादादिपरिग्रहार्थम्। %शाखान्तरोक्तिसापेक्षे%ति। शाखान्तरोक्तिसापेक्षत्वेन विक्षिप्तो योऽर्थः। तथाहि सामवेदे `एष वाव प्रथमो यज्ञानां यज्ज्योतिष्टोमः’ इति ज्योतिष्टोमस्य प्राथम्यविधायकं वाक्यम्। न च तत्र ज्योतिष्टोमो विहितोऽस्ति, अतः शाखानत्रविहितसापेक्षता।
%बबरः प्रावाहणिरकामयते%ति पशुमान् स्यामिति। स एतामिष्टिमपश्यत् स तां निरवपत् स पशून् प्रत्यपद्यतेत्यादि वाक्यशेषो “बबरः प्रावाहणिरकामयत” इत्यस्या शाखान्तरप्रसिद्ध इत्याहुः। प्रवाहणस्य राज्ञोऽपत्यं प्रावाहणिः। उद्दालकस्यर्षेरपत्यमौद्दालकिः। %पुरूरवो मा मृथा% इति।
पुरूरवो मा मृथा मा प्रपप्तो मा त्वा वृकासो अशिवास उ क्षन्।
नवै स्त्रैणानि सख्यानि सन्ति सालावृकाणां हृदयान्येता। इति
उर्वशीवियोगे कृतमरणाध्यवसायं विहितप्रपातपातस्थं निश्चितहिंस्रप्राणिशरीरप्रदानं राजानं पुरूरवसं मुनिर्निषेधति हे पुरूरवः सा मृथाः प्राणान् मा त्याक्षीः, मा च प्रपप्त प्रपातपातं मा च कृथाः, मा च पतितं सन्तं त्वां वृका हिंस्राः प्राणिनः अशिवा भीषणाः क्षन् वधिषुः, यतः स्त्रीकृते भवतैतत् सर्वं क्रियते न च तासां स्त्रीणां सम्बन्धीनि सख्यानि प्रीतयः सन्ति। न स्थिरस्नेहा योषित इत्यर्थः। सालावृकाणां मर्कटानां हृदयं चित्तमिव चला ह्येता इति। प्रपप्त इति सिबू-अहि `पतः पुम्’ इति पुमागमे च रूपम्, उ इत्यनर्थको निपातः; क्षन्निति हन्तेर्घश्लादेशे लुडिच्छान्दसं रूपम्. एवं चादिमतः पूर्वमनुष्ठितस्यार्थस्याभिधानाद् वेदस्याप्यादिमत्त्वम्, असत्यर्थे तदभिधानासम्भवात्, एवं विधार्थपश्चाद्भावित्वं वेदस्येति।
%तेषामन्यथा व्याख्यानं त्वि%ति। तथा च प्रावाहणिरित्यस्य व्याख्यान्तरं कृतम्। प्रवहतीति प्रावाहणिर्वायुरुच्यते स च नित्य एवेति। तदुक्तम् “परं तु श्रुतिसामान्यमात्रम्” इति।
%अनुपलब्धिरियमनेने%ति। न चेत् स्मर्यते नास्ति तस्योपलब्धिः अतोऽनुपलब्धेरभावस्तस्य॥
%मन्त्रार्थवादमूलत्वमि%ति। `विश्वतश्चक्षुरित्या’देर्मन्त्रार्थवादादन्यथागृहीतादीश्वरसत्तां गृहीत्वा स्मरन्तीति।
न्यायमञ्जरी :–
%वेदकर्तुरेव पृथिव्यादिरचयितृत्वम्%
किं येनैव कर्त्रा पृथिव्यादि कार्यं निर्मितं तेनैव वैदिक्यो रचना नर्मिता इति चेद्? ओमित्युच्यते। किमत्र प्रमाणमिति चेत्?
उच्यते तर्हि सर्वज्ञः स्रष्टुं प्रभवतीदृशम्।
विचित्रं प्राणिभृत्कर्मफलभोगाश्रयं जगत्॥
तत्कर्मफलसम्बन्धविदा तदुपदेशिना।
तेनैव वेदा रचिता इति नानय्स्य कल्पना॥
एकेनैव च सिद्धेऽर्थे द्वितीयं कल्पयेम किम्।
अनेककल्पनाबीजं न हि किञ्चन विद्यते॥
न्यायमञ्जरीग्रन्थिव्याख्या :–
%उपोद्बलनमिष्य% इति। उद्गतं बलमुद्बलमधिकमुद्बलमुपोद्बलं तस्य करणम् उपोद्बलनं तेन।
न्यायमञ्जरी :–
%जगत्स्रष्टुरेकत्वमेव%
जगत्सर्गे तावदेक एवेश्वर इष्यते न द्वौ बहवो वा, भिन्नाशयकल्पने एकत्र वैयर्थ्याद्, इतरत्र व्यवहारवैशसप्रसङ्गेन तत एकस्येश्वरत्वविधानात्। तथा हि
अनेकेश्वरवादो हि नातीव हृदयङ्गमः।
ते चेत् सदृशसङ्कल्पाः कोऽर्थो बहुभिरीश्वरैः॥
सङ्कल्पयति यदेकः शुभमशुभं वापि सत्यसङ्कल्पः।
तत् सिद्ध्यति तद्विभवादित्यपरस्तत्र किं कुर्यात्॥
भिन्नाभिप्रायतायान्तु कार्यविप्रतिषेधतः।
नूनमेकः स्वसङ्कल्पविहत्यानीश्वरो भवेत्॥
एकस्य किल सङ्कल्पो राजायं क्रियतामिति।
हन्यतामिति चान्यस्य तौ समाविशतः कथम्॥
राज्यसङ्कल्पसाफल्येः विहता वधकामना।
तस्याः सफलतायां वा राज्यसङ्कल्पविप्लवः॥
तेन चित्रजगत्कार्यसंवाहानुगुणाशयः।
एक एवेश्वरः स्रष्टा जगतामिति साधितम्॥
न्यायमञ्जरीग्रन्थिव्याख्या :–
%चित्रजगत्कार्येति।% चित्रं जगल्लक्षणं यत् कार्यं तद् यैर्गुणैः समाहर्तुं शक्यते सर्वज्ञतादिभिस्तेषामाशयः स्थानम्।
न्यायमञ्जरी :–
%वेदकर्तुरपि नानात्वे प्रमाणाभावः%
एवं जगत्सर्गवत् स एव वेदानामप्येकः प्रणेता भवितुमर्हति, नानात्वकल्पनायां प्रमाणाभावात् कल्पनागौरवप्रसङ्गाच्च। तेन यदुच्यते
नन्वेकः सर्वशाखानां कर्त्तेत्यवगतं कुतः।
बहवो बहुभिर्ग्रन्थाः कथं न रचिता इमे॥
इति तत्परिहृतं भवति। अतश्चैककर्त्तृकावेदा यतः परस्परव्यतिषक्तार्थोपदेशिनो दृश्यन्ते। एकमेव हि कर्म वेदचतुष्टयोपदिष्टैः पृथग्भूतैरप्येकार्थसमवायिभिरङ्गैरन्वितं प्रयुज्यते। तत्र हि हौत्रमृग्वेदेन यजुर्वेदेनाध्यर्यवम्, औद्गात्रं सामवेदेन ब्रह्मत्वमथर्ववेदेन क्रियते। पैप्पलादादिशाखाभेदोपदिष्टञ्च तत्तदङ्गजातं तत्र तत्रापेक्ष्यते। तत्र सर्वशाखाप्रत्ययमेकं कर्मेत्याहुः। एतच्चादूरएवाग्रे निर्णेष्यते।
एकाभिप्रायबद्धत्वं तेन सर्वत्र गम्यते।
भवेद् भिन्नाशयानां हि कथमेकार्थमीलनम्॥
काव्यसमस्यापूरणे का वार्त्तेति चेत्?
तत्रापि प्रथमस्यैव कवेस्तद्वस्तुदर्शनात्।
तदभिप्रायवेदी तु सोऽन्यस्तमनुवर्त्तते॥
अन्यथानन्वितं काव्यं स्याद् विश्ववसुकाव्यवत्।
अन्वितत्वे तु सा नूनमाद्यस्यैव कवेर्मतिः॥
इहाप्येकाशयाभिज्ञद्वितीयेश्वरकल्पने।
एकाभिप्रायतैव स्यात् किं स्यात्तत्कल्पने फलम्॥
तस्मादेक एव कर्त्ता सर्वशाखानाम्, काठकादिव्यपदेशस्तु प्रकृष्टाध्ययननिबन्धनो भविष्यतीति भवद्भिरप्युक्तम्। अपि च यथा तरोर्विक्षिप्ताः शाखा भवन्ति न च कृत्स्नं पुष्पफलपत्रमेकस्यां शाखायां सन्निहितं भवति किन्तु कस्याञ्चित् कस्याञ्चित्, एवं वेदस्यापि शाखाः पृथगङ्गकर्मोपदेशिन्यो विक्षिप्ताश्च।
तासाञ्च वृक्षशाखानामेकस्माज्जन्म बीजतः।
तथैव सर्वशाखानामेकस्मात् पुरुषोत्तमात्॥
कर्त्ता य एव जगतामखिलात्मवृत्ति-
कर्मप्रपञ्चपरिपाकविचित्रताज्ञः।
विश्वात्मना तदुपदेशपराः प्रणीता-
स्तेनैव वेदरचना इति युक्तमेतत्॥
आप्तं तमेव भगवन्तमनादिमीश-
माश्रित्य विश्वसिति वेदवचःसु लोकः।
तेषामकर्तृकतया न हि कश्चिदेवं
विस्रम्भमेति मतिमानिति वर्णितं प्राक्॥
एवञ्च पदवाक्यरचनादौ तावद् वेदेषु पुरुषापेक्षित्वमुपपादितम्।
न्यायमञ्जरीग्रन्थिव्याख्या :–
%हौत्रं% होतृकर्म याज्यानुवाक्यापाठादि। %आध्वर्यवमध्वर्युकर्म% पुरोडाशादिकरणं होश्च। %औद्गात्र%पुद्गातृकर्म स्तोत्रादिपाठः। %सर्वशाखाप्रत्ययमि%ति। सर्वशाखाधीनः प्रत्ययः प्रतीतिर्यस्य। न ह्येकस्यां शाखायां निरपेक्षं कर्म प्रतीयते।
%काव्यसमस्यापूरण% इति। यत्रैकः पादः कविना रच्यते द्वौ वा शिष्टमन्यैः पूर्यते सा काव्यसमस्या। यथा `समुद्राद् वह्निरुत्थितः’ इति `सीतासमागमासह्यादाकर्णाकृष्टधन्वनः। राघवस्य शराङ्गारैः’ इति पादत्रयेण पूरयन्ति।
%विश्ववसुकाव्यम्% “जरद्गवः कम्बलपादुकाभ्यां द्वारि स्थितो गायति मत्तकानि” इत्यादिकम्। प्रसिद्धपदार्थापेक्षयानन्वितार्थमिति वर्णयन्ति, मीमांसकभाष्यकृतास्यैवानन्वितार्थोदाहरणत्वेन प्रदर्शनात्।
%प्रकृष्टाध्ययननिबन्धनो भविष्यती%ति। कठेनासाधारण्येनैवैषा शाखा प्रोक्ता शिष्येभ्यो निगदिता। %भवद्भिरप्युक्तम्।% `वेदाश्चैके सन्निकर्षम् पुरुषाख्या’ इति पूर्वपक्षयित्वा `आख्या प्रवचनात्’ इति सिद्धान्तयद्भिः।
न्यायमञ्जरी :–
%शब्दार्थयोः सम्बन्धस्वरूपविचारः%
यदपि सम्बन्धकरणे पुरुषानपेक्षत्वमुच्यते चित्रभानोरिव दहनशक्तिः शब्दस्य नैसर्गिकी वाचकशक्तिः। व्युत्पत्तिस्तु वृद्धेभ्य एव व्यवहरमाणेभ्य उपलभ्यते इति किमत्र पुरुषः करिष्यतीति? तदप्यघटमानम्, पुरुषपरिघटितसमयसम्बन्धव्यतिरेकेण शब्दादर्थप्रत्ययानुत्पत्तेः।
ननु नैव शब्दस्यार्थेन सम्बन्धः कश्चिदस्ति, कस्येदं पुरुषसापेक्षत्वं तन्निरपेक्षत्वं वा चिनत्यते? न हि शब्दार्थयोः कुण्डबदरयोरिव संयोगस्वभावः तन्तुपटयोरिव समवायात्मा वा सम्बन्धः प्रत्यक्षमुपलभ्यते, तन्मूलत्वाच्च सम्बन्धान्तराण्यपि न सन्ति। तदुक्तं मुखे शब्दमुपलभामहे भूमावर्थमिति। नाप्यनुमीयते शब्दस्यार्थेन सम्बन्धः क्षुरमोदकशब्दोच्चारणे मुखस्य पाटनपूरणानुपलम्भात्। न च शब्ददेशे अर्थः सम्भवति न चार्थदेशे शब्दः स्थानकणप्रयत्नानां तद्धेतूनां घटाद्यर्थदेशेऽनुपलम्भात्। व्यापकत्वन्तु शब्दस्य प्रतिषिद्धमेव।
उच्यते। न संश्लेषलक्षणः शब्दार्थसम्बन्धोऽस्माभिरभ्युपगम्यते। तत् किं कार्यकारणनिमित्तनैमित्तिकाश्रयाश्रयिभावादयः शब्दस्यार्थेन सम्बन्धाः एतेऽपि नतराम्। न तर्हि तस्य कश्चिदर्थेन सम्बन्धः? न नास्ति शब्दस्यार्थेन सम्बन्धः, प्रत्ययनियमहेतुत्वाद् धूमादिवत्। तत् कि शब्दर्थयोरविनाभावः सम्बन्धः? सोऽपि नास्ति एवं हि शब्दोऽनुमानमेव स्यात्। कस्तर्हि समय इति ब्रूमः। कोऽयं समयो नाम, अभिधानाभिधेयनियमनियोगः समय उच्यते। यद्येवं किमनाशङ्कनीयसंश्लेषपरिचोदनेन तद्दूषणेन च? उच्यते। शब्दार्थाभेदवादिनां हि वैयाकरणानामेष संश्लेषः, उपपत्तिमान् समयोऽप्ययमनुपपन्न एव, स हि पुरुषकृत सङ्केतो न च पुरुषेच्छया वस्तुनियमोऽवकल्पते तदिच्छाया अव्याहतप्रसरत्वात्। अर्थोऽपि किमिति वाचको न भवति, न चैवमस्ति न हि दहनमनिच्छन्नपि पुरुषो धूमान्न तं प्रत्येति जलं वा तत इच्छन्नपि प्रतिपद्यते, तत्र यथा धूमाग्न्यौर्नैसर्गिक एवाविनाभावो नाम सम्बन्धः ज्ञप्तये तु भूयोदर्शनादि निमित्तमाश्रीयते एवं शब्दार्थयोःसांसिद्धिक एव शक्त्यात्मा सम्बन्धः, तद्व्युत्पत्तये तु वृद्धव्यवहारप्रसिद्धिसमाश्रयणम्। स्वाभाविके सम्बन्धे सति दीपादिवत् किं तद्व्युत्पत्त्यपेक्षणेनेति चेद्, न, शब्दस्य ज्ञापककत्वात्, ज्ञापकस्य धूमादेरेतद्रूपं यत् सम्बन्धग्रहणापेक्षं स्वज्ञाप्यज्ञापकत्वम्, उद्द्योतादयस्तु प्रत्यक्षसामग्र्यन्तर्गतत्वान्न व्युत्पत्त्यपेक्षा भवन्ति, शक्तिस्तु नैसर्गिकी यथा रूपप्रकाशिनी दीपादेस्तथा शब्दस्यार्थप्रतिपादने, तस्मान् न समयमात्रादर्थप्रतिपत्तिः।
अपि चाभिधानाभिधेयनियमनियोगरूपः समयो ज्ञानमेव न ततोऽर्थान्तरम्। ज्ञानञ्चात्मनि वर्त्तते न च शब्दार्थयोरिति न तयोः सम्बन्धः स्यात्। किञ्च समयः क्रियमाणः प्रत्युच्चारणं वा क्रियते प्रतिपुरुषम्, सर्गादौ वा सकृदीश्वरेणेति। प्रत्युच्चारणं प्राक्तन एव क्रियते नूतनो वा। नवस्य तावत् क्रियमाणस्य कथमर्थप्रत्यायनसामर्थ्यमवगम्यते। तदवगतौ वा किं तत्करणेन। पूर्वकृतस्य तदा कृतत्वादेव पुनः करणमनुपपन्नम्। एकस्य वस्तुनो ज्ञप्तिरसकृदावर्त्तते नोत्पत्तिः। प्रतिपुरुषमपि सम्बन्धो भिन्नोऽभिन्नो वा क्रियते। भेदपक्षे कथमेकार्थसञ्ज्ञानं गोशब्दस्य सास्नादिमानर्थः केसरादिमानश्वशब्दस्येति। अभेदेऽपि तथैव कृतस्य करणायोगाज् ज्ञानमेव सम्बन्धस्य न करणम्। सर्गादावपि सकृत् सम्बन्धकरणमयुक्तं तथाविधकालासम्भवादेव। न हि शब्दार्थव्यवहाररहितः कश्चित् काल उपपद्यते। तस्मान्नित्यस्यैव सम्बन्धस्य लोकतो व्युत्पत्तिः न पुनः करणम्। व्युत्पत्तिपक्षञ्च न करणपक्षाभिहिता दोषाः स्पृशन्ति प्रत्यक्षसिद्धत्वात्। प्रत्यक्षं हीदमुपलभ्यते वृद्धानां हि स्वार्थे व्यवहरमाणानमुपशृण्वन्तो बालास्ततस्ततः शब्दात्तं तमर्थं प्रतियन्ति। तेऽपि वृद्धा यदा बाला आसंस्तदान्येभ्यो वृद्धेभ्यस्तथैव प्रतिपन्नवन्तस्तेऽप्यन्येभ्य इति नास्त्यादिः संसारस्येति।
अपि च समयमात्रशरणः शक्तिशून्यः शब्दः कथमक्षिनिकोचहस्तसंज्ञादिभ्यो भिद्येत स हि तदानीं कशाङ्कुशप्रतोदाभिघातस्थानीय एव भवेत्, तथा चशब्दादर्थं प्रतिपद्यामहे इति लौकिको व्यपदेशो बाध्येत समयादर्थं प्रतिपद्यामहे इति स्यात्। समयपक्षे च यदृच्छाशब्दतुल्यत्वं सर्वशब्दानां प्राप्नोति, तेन गवाश्वादीनां शब्दानां नियतविषयत्वं न स्यात्।
यत् पुनरुच्यते जातिविशेषे चानियमात् समयरूपः सम्बन्ध इति, जातिशब्देनात्रदेशो विवक्षितः। किल क्वचिद्देशविशेषे कश्चिच्छब्दो देशान्तरप्राप्तप्रसिद्धमर्थमुत्सृज्य ततोऽर्थान्तरे वर्तते। यथा चौरशब्दस्तस्करवचन औदने दाक्षिणात्यैः प्रयुज्यते, एतच्च समयपक्षे युज्यते, नित्ये तु सम्बन्धे कथं तदर्थव्यभिचार इति, तदप्ययुक्तम्। सर्वशब्दानां सर्वार्थप्रत्यायनशक्तियुक्तत्वात् क्वचिद्देशे केनचिदर्थेन व्यवहारः। अत एव चानवगतसम्बन्धे श्रुते सति सन्देहो भवति कमर्थं प्रत्याययितुमनेनायं शब्दः प्रयुक्तः स्यादिति। असत्यां हि शक्तौ अकृतसमये निरवलम्बना प्रत्यायकत्वाशङ्केति। अथ वार्यदेशप्रसिद्ध एव शब्दानामर्थः, इतरस्तु म्लेच्छजनसम्मतो नादरणीय एव। तस्मात् समयपक्षस्यातिदौर्बल्यादकृत्रिम एव शब्दार्थयोः सम्भन्ध इति न तत्र पुरुषस्य प्रभविष्णुता।
अत्रोच्यते। न नित्यः सम्बन्ध उपपद्यते, शब्दवदर्थवच्च तृतीयस्य तस्यं प्रत्यक्षादिना प्रमाणेनाप्रतीयमानत्वात्।
ननु शक्तिरूपः सम्बन्ध इत्युक्तः शक्तिश्च तदाश्रितेति कथं धर्म्यन्तरवत् पृथक्तया प्रतीयते? नैतत् साम्प्रतम्। स्वरूपसहकारिव्यतिरिक्तायाः शक्तेः सूक्ष्मायाः प्रागेव विस्तरतः प्रतिक्षिप्तत्वात्। न च शक्तिः प्रत्यक्षगम्या द्रव्यस्वरूपवदनुपलम्भात्, नानुमेया कार्याणामन्यथापि घटमानत्वात्। कल्पयित्वा च शक्तिमपरिहार्यः समयः, समयमन्तरेणार्थप्रतिपत्तेरसिद्धेः। सिद्धे च समये तत एवार्थसिद्धेः किं नित्यसम्बन्धाश्रयणेन?
यत्तूक्तं समयस्य पुरुषेच्छाधीनत्वात् तस्याश्चाव्याहतप्रसरत्वाद् वाच्यवाचकव्यत्ययः स्यादिति तदयुक्तम्। शक्त्यभावे शब्दस्यैव वाचकत्वे योग्यत्वात्। का पुनः शक्त्यभावे योग्यतास्येति चेद्, योऽयं गत्वादिजातियोगः क्रमविशेषोपकृता गत्वौत्वादिसामान्यसम्बन्धो हि यस्य भवति स वाचकत्वे योग्य इति। इतरस्तु वाच्यत्वे। यथा द्रव्यत्वाद्यविशेषेऽपि वीरणत्वादिसामान्यवताञ्च पटनिष्पत्तौ, न च तत्र शक्तिरस्तीत्युक्तम्। न च कारणे कार्यं सदिति सांख्यैरिव भवद्भिरिष्यते। तस्यामसत्यामपि शक्तौ सामान्यविशेषसम्बन्धस्य नियामकत्वान्न वाच्यवाचकयोर्व्यत्यय इति न शक्तौ सामान्यविशेषसम्बन्धस्य नियामकत्वान्न वाच्यवाचकयोर्व्यत्यय इति न शक्तिरूपः शब्दार्थयोः सम्बन्धः। न च तयोरविनाभावे धूमाग्न्योरिव सम्बन्धः, तत्र हि सम्बन्धः प्रतीयमान एवं प्रतीयते धूमोऽग्निं विना न भवतीति। इह पुनरयमस्मात् प्रतीयते इति एतावदेव व्युत्पत्तिपर्यवसानम्। अत एवावगतिपूर्विकैवावगतिरिहेत्यनुमानाच्छब्दस्य भेद उक्तः। प्रकाशकत्वमपि शब्दस्य समयप्रसादोपनतमेव न स्वाभाविकम्। सांसिद्धिके हि तथात्वे भ्रमित्वादिप्रयुक्तादन्यतो वा यतः कुतश्चिदभिनवादपि दीपादिव शब्दादर्थप्रतीतिः स्यात्।
यत्तु नैसर्गिकेऽपि प्रकाशकत्वे शब्दस्य धूमादेरिव ज्ञापकत्वात् सम्बन्धग्रहणसापेक्षत्वमुक्तम्, स एष विषम उपन्यासः। न हि धूमादेः प्रत्यायकत्वं स्वाभाविकम्, अनलाविनाभावित्वन्तु तस्य निजं बलम्, तत्र चागृहीते तस्मिन् प्रतीतिरेव न जायते इति युक्तं तद्ग्रहणं प्रतीत्यर्थम्। इह तु प्रतीतिशक्तिरेव स्वाभाविकी भवताभ्युपगम्यते। सा चेत् स्वाभाविकी किं व्युत्पत्त्यपेक्षणेनेति। यच्चोच्यते प्रत्यायक इति प्रत्ययं दृष्ट्वा अवगच्छामो न प्रथमश्रवण इति यावत्कृत्वः श्रुतेनेयं संज्ञा अयं संज्ञीत्यवगमय्ते तावत्कृत्वः श्रुतादर्थावगम इति सोऽयं समयोपयोग एव कथितो भवति। संज्ञासंज्ञिसम्बन्धो हि समय एवोच्यते, तदुपयोगमन्तरेण प्रत्यायकत्वानवगमान्न स्वाभाविकी शक्तिः।
यत्त्वभ्यधायि समयस्य ज्ञानात्मकत्वादात्मनि वृत्तिः? न शब्दार्थयोरित्ये तदप्यचतुरश्रम्। तदाश्रयत्वाभावेऽपि ज्ञानस्य तद्विषयत्वोपपत्तेः।
यदप्यभाणि समयमात्रशरणे सृणिप्रतोदनोदननिर्विशेषे शब्दे शब्दादर्थं प्रतिपद्यामहे इति व्यपदेशो न स्यादिति, तदपि न किञ्चित्। नैसर्गिकशक्तिपक्षेऽपि शक्तेरर्थं प्रतिपद्यामहे न धूमादिति स्यात्। तदङ्गत्वादविनाभावादेर्न तथा व्यपदेश इति चेत्। तदितरत्रापि समानम्।
धूमे हि व्याप्तिपूर्वत्वं शब्दे समयपूर्वता।
नानयोस्तदपेक्षायां करणत्वं विहन्यते॥
अपि च। लौकिको व्यपदेशः समयपक्षसाक्षितामवि भजते। देवदत्तेनोक्तम् अमुतः शब्दादमुमर्थं प्रतिपद्यस्वेति एवं हि व्यपदिशति लोकः। तस्मात् समय एव। अतश्चैवं देशान्तरे सङ्केतवशेन तत एव शब्दादर्थान्तपप्रतिपत्तिः।
नन्वत्रोक्तं सर्वशब्दाः सर्वार्थप्रत्यायनयुक्ता इति केनचिदर्थेन क्वचिद्व्यवहार इति, तदेतदयुक्तम्। शक्तीनां भेदाभेदविकल्पानुपपत्तेः। न शब्दस्वरूपाद् भिन्नाः शक्तयः तथानवभासात्। अव्यतिरेके चैकस्माच्छब्दादनन्यत्वात् परस्परमव्यतिरेकस्तासां स्यात्। न च भिन्नकार्यानुमेया भिन्नाः शक्तयः, कार्यभेदस्यान्यथाप्युपपत्तेः। सर्वशक्तियोगे च सर्वार्थप्रत्ययप्रसङ्गः। समयोपयोगो नियामक इति चेत्, स एवास्तु किं शक्तिभिः?
यदप्यगादि शब्दश्रवणे सति सर्वार्थविषयसन्देहदर्शनात् सर्वत्र तस्य शक्तिः कल्प्यते इति, तदप्यसारम्। न हि शक्तिकृतः सन्देहः, किन्तु गत्वादिवर्णसामान्यनिबन्धनः। तथा च गत्वादिजातिमतां वर्णानामर्थे वाचकत्वमवगतम्, अमी तज्जातियोगिनो वर्णाः कस्यार्थस्य वाचकाः स्यरिति भवति सन्देहः।
यत्पुनरवादि स एव शब्दस्यार्थो यत्रैनमार्याः प्रयुञ्जते न म्लेच्छजनप्रसिद्ध इति, तदेतत् कथमिव शपथमन्तरेण प्रतिपद्येमहि। न हि म्लेच्छदेशेऽपि तदर्थप्रत्ययो न जायते बाध्यते वा सन्दिग्धो वेति कथं न शब्दार्थः? आर्यप्रसिद्धिर्बाधिकेति चेद्, आर्यप्रसिद्धेरपि म्लेच्छप्रसिद्धिः कथं न बाधिका? अक्षादिवच्च विकल्पमानार्थोपपत्तेः व्यवस्थितविषय एव विकल्पो भविषय्ति। पिकनेमतामरसादिशब्दानाञ्च भवद्भिः म्लेच्छप्रयोगादर्थनिश्चय आश्रित एव। अवेष्ट्यधिकरणे च राज्यशब्दमान्ध्रप्रसिद्धेऽर्थे वर्णितवन्तो भवन्त इत्यलमवान्तरचिन्तनेन। तस्मात् समय एव सम्बन्ध इति युक्तम्. तदुक्तं जातिविशेषे चानियमादिति।
अथ यदुक्तं समयः प्रत्युच्चारणं प्रतिपुरुषञ्च तत्करणम्, अनभ्युपगतमेव दूषितम्। सर्गादौ सकृदेव समयकरणमिति नः पक्षः। अत एव न सर्वशब्दानां यदृच्छातुल्यत्वम्। केषाञ्चिदेव शब्दानामस्मदादिभिरद्यत्वे सङ्केतकरणात् त एव यदृच्छाशब्दा उच्यन्ते। सर्गादिश्च समर्थित एव, ईश्वरसिद्धावप्यविकल्पमनुमानमुपन्यस्तम्। एष एव चावयोर्विशेषो यदेष शब्दार्थसम्बन्धव्यवहारस्तवानादिर्मम तु जगत्सर्गात् प्रभृति प्रवृत्त इति। अद्यत्वे तु शब्दार्थसम्बन्धव्युत्पत्तौ तुल्य एवावयाः पन्थाः, तत्रापि त्वयं विशेषो यत्तव शक्तिपर्यन्ता व्युत्पत्तिर्मम तु तद् वजमिति। तथा चेयमियती व्युत्पत्तिर्लोके दृश्यते, यदयमस्य वाच्योऽयमस्य वाचक इति। न पुनः शक्तिपर्यन्ता व्युत्पत्तिरस्ति। तथा हि यत्र शृङ्गग्राहिकया शब्दमर्थञ्च निर्दिश्य सम्बन्धः क्रियते तत्रेयन्तमेवैनं क्रियमाणं पश्यामः, अयमस्य वाच्योऽयमस्य वाचक इति। यत्रापि च वृद्धेभ्यो व्यवहरमाणेभ्यो व्युत्पद्यते तत्रापीयदेवासौ जानाति अयमर्थः अमुतः शब्दादनेन प्रतिपन्न इति। न त्वन्यास्य काचिच्छक्तिरस्तीति। इयत्यैव च व्युत्पत्त्या शब्दादर्थप्रत्ययोपपत्तेरस्याश्च अपरिहार्यत्वादधिककल्पनाबीजाभावाच्च न नित्यः शब्दार्थसम्बन्धः। अत एव च `सम्बन्धस्त्रिप्रमाणकः’ इति यत्त्वयोच्यते तदस्माभिर्न मृष्यते। `शब्दवृद्धाभिधेयांश्च प्रत्यक्षेणात्र पश्यति’ इति सत्यं “श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेष्टया” इत्येतदपि सत्यम्। “अन्यथानुपपत्त्या च वेत्तिशक्तिं द्वयाश्रिताम्” इत्येतत्तु न सत्यम्, अन्यथाप्युपपत्तेरित्युक्तत्वात्। तस्माद् द्विप्रमाणकः सम्बन्धनिश्चयो न त्रिप्रमाणकः। तदेवं शब्दस्य नैसर्गिकशक्त्यात्मकसम्बन्धाभावाद् ईश्वरविरचितसमयनिबन्धनः शब्दार्थव्यवहारो नानादिः।
नन्वीश्वरोऽपि सम्बन्धं कुर्वन् अवश्यं केनचिच्छब्देन करोति तस्यकेन कृतः सम्बन्धः? शब्दान्तरेण चेत् तस्यापि केन कृतस्तस्यापि केनेति न कश्चिदवधिः तस्मादवश्यमनेन सम्बन्धं कुर्वता वृद्धव्यवहारसिद्धाः केचिदकृतसम्बन्धा एव शब्दा अभ्युपगन्तव्या अस्ति चेद्, व्यवहारसिद्धिः। किमीश्वरेण किं वा तत्कृतेन समयेनेत्यनाद्यपक्ष एव श्रेयान्। उच्यते
अस्त्रमायुष्मता ज्ञातं विषयस्तु न लक्षितः।
अस्मदादिषु दोषोऽयमीश्वरे तु न युज्यते॥
नानाकर्मफलस्थानमिच्छयैवेदृशं जगत्।
स्रष्टुं प्रभवतस्तस्य कौशलं को विकल्पयेत्॥
इच्छामात्रेण पृथिव्यादेरियतः कार्यस्य करणमस्मदादीनां यन्मनोरथपदवीमपि नाधिरोहति तदपि यतः सम्पद्यते तस्य कियानयं प्रयासः? तदत्रेश्वरसद्भावे परं विप्रतिपत्तयः? तस्मिंस्तु सिद्धे क एवं विकल्पानामवसरः? उक्तञ्च तत्सिद्धौ निरपवादमनुमानम्। वयन्तु न कर्त्तार एव सम्बन्धस्य यत एवमनुयुज्येमहि
अङ्गुल्यग्रेण निर्दिश्य कञ्चिदर्थपुरः स्थितम्।
व्युत्पादयन्तो दृश्यन्ते वालानस्मद्विधा अपि॥
तस्माद् ईश्वरविरचितसम्बन्धाधिगमोपायभूतबृद्धव्यवहारलब्धतद्व्युत्पत्तिसापेक्षः शब्दोऽर्थमवगमयतीति सिद्धम्। न च नित्यसम्बन्धाभावेऽपि शब्दस्यार्थास्पर्शित्वं समयबलेनार्थप्रत्ययस्याबाधितस्य सिद्धे रित्युक्तत्वाद् इत्यलं विस्तरेण।
तस्मात् पदे च वाक्ये च सम्बन्धे च स्वतन्त्रता।
पुरुषस्योपपन्नेति वेदानां तत्प्रणीतता॥
न्यायमञ्जरीग्रन्थिव्याख्या :–
%तत्किं कार्यकारणे%ति। कार्यकारणलक्षणः सम्बन्धो बीजाङ्कुरयोरिव, निमित्तनैमित्तिकलक्षणः कुविन्दपटयोरिव, आश्रयाश्रयिभावलक्षणस्तु कुण्डबदरयोरिव। आदिग्रहणात् कार्योत्पादेऽप्यनिवृत्तः कारणविशेषयोनिस्तत्कृतः सम्बन्धः पितापुत्रयोरिव। %प्रत्ययनियमहेतुत्वादि%ति। विशिष्टार्थविषयप्रत्ययस्तेनासम्बन्धान्नोपपद्यत इति भावः।
%नियोगे%ति। व्यवस्थया नियोगो नियोजनम्।
%शब्दार्थाभेदवादिनां हीति%। शब्द उच्चरिते शब्दाकारतया प्रथमं बुद्धिर्विवर्तते, सा तथा विवृत्ता सती ततोऽर्थाकारतया विपरिणमते, तस्याञ्च तथाभूतायां बुद्धौ शब्दस्वरूपमेवार्थाकारतया निर्वृत्तमवगम्यत इत्यादि युक्त्युपन्यासपूर्वकं शब्दार्थयोरभेदमाहुः शाब्दाः। %संश्लेष% इति। संश्लेषरूपसम्बन्ध इति, प्रागुक्तनीत्या शब्दसंसृष्टस्यैवार्थस्यावगमात्। %सांसिद्धिक एवे%ति। स्वाभाविक एव शक्तिद्वयनियमलक्षणसम्बन्ध इत्यर्थः। %उद्योतादयः% प्रदीपादयः।
%एवं प्रतीयते `धूमोग्निं विना न भवति’% इति न पुनः `धूमादग्निः प्रतीयते’ इत्येवम्। यदि प्रत्यायकत्वं शब्दस्य स्वाभाविकं तत् प्रथमश्रुत एव कस्मान्न प्रत्याययेदित्याशङ्कानिवारणायेदं शाबरं भाष्य %“प्रत्यायक इति प्रत्ययं दृष्ट्वा”% इति। %सृणि%रङ्कुशः।
%कार्यभेदस्यान्यथाप्युपपत्तेः% समयभेदेनाप्युपपत्तेः।
न च वाच्यं कथमेकस्य शब्दस्य नानार्थतेति, यतो दृष्टमेतदक्षादिषु शब्देषु; तदाह %अक्षादिवदि%ति। यथा बीभीतकादित्रयवाचिनो अक्षशब्दस्य युगपत् त्रयवाचित्वासम्भवात् विकल्पेन त्रयवाचित्वेऽपि प्रकरणादिवशात् क्वचिदेव व्यवस्थिते नियते विषये वृत्तिः। एवं देशान्तरे अन्यस्मिन्नन्यस्मिन् स्वार्थे प्रयुक्तानां शब्दानां विकल्पेनानेकार्थवाचित्वेऽपि देशवशान्नियतपदार्थे वृत्तिर्भविष्यति। ततश्च `यव’शब्दमार्था दीर्घशूकेषु प्रयुञ्यते, म्लेच्छास्तु प्रियङ्गुषु, तत् म्लेच्छप्रसिद्धिं बाधित्वा दीर्घशूकेष्वयं यवशब्दः प्रयोक्तव्यो न प्रियङ्गुष्विति न वाच्यम्, उभयवाचकत्वेऽपि देशवशाद् व्यवस्थायाः सिद्धेः। %पिकनेमतामरसादिशब्दानामि%ति। पिकनेमाधिकरणे हि “चोदितं तु प्रतीयेताविरोधात् प्रमाणेन” इत्यत्रैतच्चिन्तितम्। भवतु यवादिशब्दानामार्यप्रसिद्ध एवार्थः, ये तु पिकनेमतामरसादयः आर्यैर्न क्वचित् प्रयुज्यन्ते तेषां किं म्लेच्छप्रसिद्ध एवार्थ उत व्याकरणादिव्युत्पत्तिसमाश्रयणेनार्थान्तरं कल्पनीयमिति। तत्राशिष्टाचारत्वान्म्लेच्छव्यवहारस्य वरं व्याकरणादिनैवार्थकल्पनेति पूर्वपक्षयित्वोक्तम् “असिष्टैरपि यच्चोदितं शिष्टानवगत तदपि प्रतीयेतव्यं प्रमाणेनाविरुद्धं सत् न चात्रम्लेच्छप्सिद्ध्याश्रयणे कश्चित् प्रमाणविरोधः” इत्यर्थः “चोदितं तु प्रतीवेत” इति सूत्रस्य। पिकः कोकिलः। नेमोऽर्धम्। तामरसं पद्मम्। %अवेष्ट्यधिकरणे चे%ति। अवेष्टौ यज्ञसंयोगात्क्रतुप्रधानमुच्यते” इत्यत्रावेष्ट्यधिकरणे। अत्र हीयं चिन्ता कृता। `राजा राजसूयेन स्वाराज्यकामो यजेत’ इत्यत्र नानापशुसोमेष्टिसमुदायात्मकराजसूयाख्ययागमध्येऽवेष्टिर्नामेष्टिराम्नाता, “आग्नेयमष्टाकपालं निर्वपति हिरण्यं दक्षिणा ऐन्द्रमेकादशकपालमृषभो दक्षिणा वैश्वदेवं चरुं पिशङ्गी पष्ठौही दक्षिणा, मैत्रावरुणीमामिक्षांवशा दक्षिणा, बार्हस्पत्यं चरुं शितिपृष्ठो दक्षिणा” इति पञ्चेष्टिसमुदायात्मिका, तामेतामवेष्टिमधिकृत्याह-एतयान्नाद्यकामं याजयेदिति। पुनश्चय तामेवाधिकृत्य श्रूयते “यदि ब्राह्मणो यजेत बार्हस्पत्यं मध्ये निधायाहुतिमाहुतिं हुत्वाभिघारयेत्, यदि वैश्यो वैश्वदेवम्, यदि राजन्य ऐन्द्रम्” इति। तत्र संदेहः किं राज्यस्य कर्ता राजेति व्युत्पत्तिसमाश्रयणेन जनपदपुरपरिपालनरूपराज्यकर्तृत्वेन ब्राह्मणवैश्ययोरपि राजशब्दयोगसम्भवाद् राजसूयेऽधिकाराद् बार्हस्पत्यादिमध्यनिधानादिलक्षणस्य गुणस्य विधौ ब्राह्मणत्वादिजातिनिमित्तत्वेनोपादानम्, आहेस्विद् आन्ध्रेषु क्षत्रियजातौ राजशब्दप्रयोगात् तदाश्रयेण ब्राह्मणवैश्ययोरप्राप्तत्वात् `एतयान्नाद्यकामं याजयेदि’ति विशिष्टफलकामयोस्तयोरपूर्वोपदेश इति। तत्र पूर्वपक्षः आर्यप्रसिद्ध्यनुग्रहात् राज्यकर्तरि राजशब्दप्रयोगसामर्थ्यनिमित्तार्थत्वेन ब्राह्मणाद्युपादानं समर्थितम्, सिद्धान्ते तु आन्ध्रप्रयोगाश्रयणेनाप्यार्यप्रसिद्धेर्बाधात् तत्समाश्रयणेन क्षत्रियजातावेव राजशब्दप्रयोग इति निश्चित्यापूर्वविधिरेवेति स्थापितम्। सूत्रार्थस्तु अवेष्टौ ब्राह्मणादिप्रतिपादनं क्रतुप्रधानमप्राप्तमेव तयोर्यज्ञकर्म विधातुम्, कुतः? यज्ञसंयोगात्, राज्ञो हि क्षत्रियस्य राजसूययज्ञेन संयोगः सम्बन्धो न तयोः, अतोऽप्राप्तविधिरेवायं ब्राह्मणवैश्ययोरित्यर्थः।
%तव शक्तिपर्यन्ता व्युत्पत्तिरि%ति। व्युत्पत्तिः शक्तिद्वयनियमलक्षणसम्बन्धावगम इति। यथोक्तम्–“अन्यथानुपपत्त्या च वेत्ति शक्तिं द्वयाश्रिताम्” %अन्यथाप्युपपत्तेरित्युक्तत्वाति%ति। `अयमस्य वाचकः अयञ्च वाच्यः’ इत्येतावन्मात्रव्युत्पत्तावप्युपपत्तेः।
न्यायमञ्जरी :–
%आप्तोक्तत्वाद् वेदाः प्रमाणम् न स्वतः%
तस्मादाप्तोक्तत्वादेव वेदाः प्रमाणं न नित्यत्वात्। नन्वाप्तोक्तत्वस्य हेतो- पक्षधर्मत्वं कथमवगम्यते? न प्रत्यक्षेण क्षोणीधरधर्मत्वमिव धूमस्य वेदानामाप्तप्रणीतत्वमवगमय्ते, श्रवणयुगलकरणलब्धजन्मनि प्रत्यये वेदाख्यस्य शब्दराशेरेव प्रतिभासात्। न चोदात्तादिवद्वर्णधर्मत्वेन आप्तोक्तत्वं गृह्यते। नाप्यनुमानमस्मिन्नर्थे सम्भवति, लिङ्गाभावात्। प्रामाण्ये हि वेदस्याप्तोक्तत्वं लिङ्गम्, आप्तोक्तत्वानुमितौ तु न लिङ्गान्तरमुपलभामहे इति कुतस्त्यः पक्षधर्मत्वनिश्चयः? उच्यते। अलं सरस्वतीक्षोदेन उक्त एव पक्षधर्मत्वनिश्चयोपायः, तथाहि–
शब्दस्य साधितं तावदनित्यत्वं सविस्तरम्।
रचनाः कर्तृमत्यश्च रचनात्वादिति स्थितम्॥
कर्त्ता सर्वस्य सर्वज्ञः पुरुषोऽस्तीति साधितम्।
कार्येणानुगुणं कल्प्यंनिमित्तमिति च स्थितम्॥
प्रत्यादिविसंवादो वेदे परिहरिष्यते।
व्याघातपौनरुक्त्यादिदोषश्च वचनान्तरे॥
विध्यर्थवादमन्त्राणामुपयोगश्च वक्ष्यते।
न मात्रामात्रमप्यस्ति वेदे किञ्चिदपार्थकम्॥
शब्दब्रह्मविवर्त्तादिकल्पनाश्च पुरोदिताः।
सर्वा- परिहरिष्यन्ते कार्यत्वस्य विरोधिकाः॥
इत्थञ्च स्थिते किमन्यदवशिष्टं वेदेष्वाप्तोक्ततानिश्चयस्य? सोऽयं सकलशास्त्रार्थस्थितौ सत्यां पक्षधर्मत्वनिश्चयो हेतोराप्तोक्तत्वस्य गीयते।
न्यायमञ्जरीग्रन्थिकाव्याख्या :–
%शब्दब्रह्म% इति। शब्दब्रह्मणोऽनादिनिधनस्यायमाद्यो विवर्तो वेदाः न पुनः केनचित् कृता इति वैयाकरणा यदाहुः “त्रयीरूपेण तज्ज्योतिः प्रथमं परिवर्तते” इत्यादि तदिदमपवर्गाह्निके निराकरिष्यते।
न्यायमञ्जरी :–
%आयुर्वेदादीनां नाप्तोक्तत्वात् प्रामाण्यम् इति शङ्कानिरसनम्%
यत्तु प्रत्यक्षमनुमानं वा तन्निश्चयानिमित्तमिति विकल्पितं तत्र प्रत्यक्षमास्ताम्। अनुमानानि तु यानि रचनात्वादीन्युक्तानि यानि च परदर्शनद्वींषि वक्ष्यन्ते तानि स्रवाण्याप्तोक्तताया- पक्षधर्मतासिद्धौपयिकानीत्यलं विस्तरेण।
व्याप्ति-पुनरस्यहेतोरायुर्वेदादिवाक्येषु निश्चीयते। पिप्पलीपटोलमूलादेरप्यौषधस्येत्थमुपयोगादिदमभिमतमासाद्यते, अस्य च क्षीरतक्रादिविरोध्यशनस्य परिहारादिदमनिष्टमुपशाम्यतीत्यादिष्वायुर्वेदशास्त्रेषु प्रत्यक्षेण तस्यार्थस्य तथा निश्चयादर्थाविसंवादित्वं नाम प्रामाण्यं प्रतिपन्नम्। तच्चेदमाप्तवादप्रयुक्तम्, यतो यत्राप्तवादत्वं तत्र प्रामाण्यमिति व्याप्तिर्गृह्यते। तथा मन्त्राणां प्रयोगे वृश्चिकभुजगदषट्स्य भक्षितविषस्य वा निर्विषत्वम्, अपस्मारपिशाचरूपिकागृहीतस्य तदुन्मोचनम्, अतिरभसोज्जिहानेषु दुष्टमेघेषु सम्यरक्षणमित्येवमुपलब्धम्। अतस्तेषां विषभूताशनिशमनकुशलानामाप्ता उपदेष्टार इति तत्रापि तथैव व्याप्तिनिश्चयः।
न्यायमञ्जरीग्रन्थिव्याख्या :–
%अतिरभसोज्जिहानेष्वि%ति। अतिरभसेन साटोपमुपगच्छत्सु।
न्यायमञ्जरी :–
%आयुर्वेदादीनां नाप्तोक्तत्वात् प्रामाण्यम् इति शङ्कानिरसनम्%
नन्वायुर्वेदादौ प्रामाण्यं प्रत्यक्षादिसंवादात् प्रतिपन्नम्, नाप्तप्रामाण्यात्। अतः कथमाप्तोक्तत्वस्य तत्र व्याप्तिग्रहणम्? नैतदेवम्। प्रत्यक्षादिसंवादात् तन्निश्चीयतां नाम प्रामाण्यम् उत्थितन्तु तदाप्तोक्तत्वात्। प्रत्यक्षादावप्यर्थक्रियाज्ञानसंवादात् प्रामाण्यस्य ज्ञप्तिरुत्पत्तिस्तु गुणवत्कारककृतेत्युक्तम्। नद्यादिवाक्यानि च विप्रलम्भकपुरुषभाषितानि विसंवदन्ति लोके दृश्यन्ते, तेनाप्तप्रणीतत्वमेव तेषां प्रामाण्यकारणम्, कारणशुद्धिमन्तरेण सम्यक्प्रत्ययानुत्पादात्। निश्चयोपायस्तु प्रत्यक्षं भवतु न तु तत्कृतमेव प्रामाण्यम्। अतो युक्तमाप्तोक्तताया आयुर्वेदादौ व्याप्तिग्रहणम्।
नन्वेवमपि न युक्तम्, आप्तोक्तत्वस्य तत्र परिच्छेत्तुमशक्यत्वात्। अन्वयव्यतिरेकमूलमेवायुर्वेदवाक्यानां प्रामाण्यं नाप्तकृतम्। अन्वयव्यतिरेकौ च यावत्येव दृश्येते तावत्येवार्थे प्रामाण्यम्, यथा हरीतक्यादिवाक्यार्थे। यत्र तु तयोरदर्शनं तत्र अप्रामाण्यम्। यथा सोमराज्युपयोगे समाः सहस्रं जीव्यते। आप्ते तु कल्प्यमानेऽर्धजरतीयं स्यात्, अर्धे तस्याप्तत्वमर्थे च कथमनाप्तत्वमिति। तदिदमनुपपन्नम्, अन्वयव्यतिरेकयोर्ग्रहीतुमशक्यत्वात्। तौ हि स्वात्मनि वा ग्रहीतुं शक्येते व्यक्त्यन्तरे वा। व्यक्त्यन्तरेऽपि सर्वत्र क्वचिदेव वा व्यक्तिविशेषे। सर्वथा संकटोऽयं पन्थाः। व्याधीनां तन्निदानानां तदुपचयानां तदुपशमोपायानामौषधानां तत्संयोगवियोगविशेषाणां तत्परिमाणानां तद्रसवीर्यविपाकानां देशकालपुरुषदशाभेदेन शक्तिभेदस्यैकेन जन्मना ग्रहीतुमशक्यत्वात्, जन्मान्तरानुभूतानाञ्च बावानामस्मरणात्।
जनोऽनन्तस्तावन्नरवधिरिह व्याधिनिवहो
न संख्यातुं शक्या बहुगुणरसद्रव्यगतयः।
विचित्राः संयोगाः परिणतिरपूर्वेति च कुतः
चिकित्सायाः पारं तरति युगलक्षैरपि नरः॥
यदेव द्रव्यमेकस्य धातोर्भवति शान्तये।
योगान्तरात् तदेवास्य पुनः कोपाय कल्पते॥
या द्रव्यशक्तिरेकत्र पुंसि नासौ नरान्तरे।
हरीतक्यापि नोद्भूतवातकुष्ठे विरेच्यते॥
शरद्युद्रिक्तपित्तस्य ज्वराय दधि कल्पते।
तदेव भुक्तं वर्षासु ज्वरं हन्ति दशान्तरे॥
न चोपलक्षणं किञ्चिदस्ति तच्छवितवेदने।
येनैकत्र गृहीतासौ सर्वत्रावगता भवेत्॥
यो वा ज्ञातुं प्रभवति पुरुषस्तत्सामर्थ्यं निरवधिविषयम्।
स्यात् सर्वज्ञः स इति न विमतिस्तस्मिन् कार्या स्ववचनकथितैः॥
न्यायमञ्जरीग्रन्थिव्याख्या :–
%अर्धजरतीयं स्यादि%ति। यता जरत्या अर्धं जघनमेव कामयतेऽर्धं न वदनादि। अथवान्नादिसंस्कारचातुर्येण तां कामयते भद्रिकां प्रतिपद्यते न तूपभोगेत्यर्धजरतीयम्। %तत्परिमाणानामि%ति। अस्य द्रव्यस्येयान् भागोऽस्येयानिति। यथा `कर्षः कर्षोऽर्धपरं पलत्रयं स्यात्, तथार्थकर्षश्च। मरिचस्य पिप्पलीनां दाडिमगुडयावकशूकानाम्’ इत्यादौ परिमाणविशेषः संयोगविशेषश्च।
न्यायमञ्जरी :–
%आयुर्वेदस्य सर्वज्ञप्रणीतत्वसाधनम्%
अथोच्यते, अनादिरेवैषा चिकित्सकस्मृतिर्व्याकरणादिस्मृतिवत्, संक्षेपविस्तरविवक्षयैव चरकादयः कर्त्तारो न तु ते सर्वदर्शिनः। न च स्मृतावन्धपरम्परादोषः, समूलत्वात्। यथा व्याकरणस्मृतेः शिष्टप्रयोगो मूलमेवमिहान्वयव्यतिरेकौ। शिष्टविरोधे सति यथा मूलविरोधिनी पाणिन्यादिस्मृतिरप्रमाणं तथा चाहु `रिह न भवत्यनभिधानादि’ति, एवं वैद्यस्मृतिरप्यन्वयव्यतिरेकविरुद्धा न प्रमाणमिति। तदेतदयुक्तम्। अन्वयव्यतिरेकयोर्यथोक्तनयेन परिच्छेदासम्भवेन तन्मूलत्वानुपपत्तेः। यदि ह्यन्वयव्यतिरेकाभ्यामशेषद्रव्यशक्तीर्निश्चित्य चरकादिभिर्विरचितं शास्त्रमिति ईदृशमन्वयव्यतिरेकित्वमुच्यते, तदपाकृतम्। अद्यत्वे यावन्तावन्वयव्यतिरेकौ वयमुपलब्धुं शक्नुमस्तावद्भ्यां ताभ्यामेकदेशसंवादात् प्रामाण्यकल्पनात् त्तर प्रवर्त्तनं न तु तौ तावन्तौ शास्त्रस्य मूलं भवितुमर्हतः, सर्वैरस्मदादिभिस्तादृशशास्त्रप्रणयनप्रसङ्गात्। अनादित्वमपि शास्त्राणां वेदवदनुपपन्नम्, चरकादिकर्तृस्मृतेः, कालिदासादिस्मृतिवदविगीतत्वात्, न च चिकित्सास्मरणप्रबन्ध एवमनादिः, तथात्वेऽन्धपरम्पराकारणानवधारणात्। न च तदुक्तं तन्मूलं भवितुमर्हति व्युदस्तत्वात्, तस्मात् सर्वज्ञप्रणीत एवायुर्वेदः।
ननु अविदुषामुपेदशो नावकल्पते इति विद्वांसश्चरकादयः कल्प्यन्ताम्, ते तु प्रत्यक्षेणैव सर्वं विदितवन्त इत्यत्र किं मानम्? उच्यते। अन्वयव्यतिरेकयोर्निरासान्नानुमानस्यैष विषयः, वेदमूलत्वमपि मन्वादिस्मृतिवदयुक्तं कल्पयितुम्, कर्त्तृसामान्यासम्भवादिति वर्णयिष्यामः। पुरुषान्तरोपदेशपूर्वकत्वे चरकेणैव किमपराद्धम्? उपमानमनाशङ्कनीयमेवास्मिन्नर्थे। अर्थापत्तिस्तु न प्रमाणान्तरम्, अप्रामाण्यन्तु नास्ति बहुकृत्वः संवाददर्शनात्, अतः परिशेषात् प्रत्यक्षीकृतदेशकालपुरुषदशाभेदानुसारिसमस्तव्यस्तपदार्थसार्थसक्तिनिश्चयाश्चरकादय इति युक्तं कल्पयितुम्। यद्येवं कथं तर्हि सोमराज्यादिवाक्येषु व्यभिचारः? व्यभिचारे चार्धजरतीयमित्युक्तम्, नैष दोषः, कर्मकर्त्तृसाधनवैगुण्यादेषु व्यभिचारो भविषय्ति, वैदिकेषु च कर्मसु मीमांसकस्य समानो दोषः।
कारीर्यादौ का ते वार्त्ता यस्यां न स्यादिष्टौ वृष्टिः।
वैगण्यञ्चेत् कर्त्रादीनामत्राप्येवं शक्यं वक्तुम्॥
यदि विधुरमभुक्तं कर्म शास्त्रीयमन्यत्
फलविघटनहेतुः कल्प्यते सापि तुल्यः।
क्वचिदथ फलसम्पद् दृश्यते तत्प्रयोगे
तदिह दृढशरीराः सन्ति दीर्घायुषश्च॥
आयुर्वेदश्च तस्मादाप्तकृतो नान्यमूल इति सिद्धम्।
एवं फलवेदादौ प्रकाशमाप्तप्रणीतत्वम्॥
तस्माद् आप्तोक्तत्वस्य सिद्धमायुर्वेदादौ व्याप्तिग्रहणम्। व्याप्तिप्रदर्शनायैव सूत्रकृता “स द्विविधो दृष्टादृष्टार्थत्वात्” इत्युक्तम्। दृष्टार्थशब्दे गृहीताविनाभावमाप्तोक्तत्वम्, अदृष्टार्थेऽपि प्रामाण्यं साधयतीति। अत एवोक्तम्, “मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात्” इति।
नन्वत्रापि न वैद्यकं विरचयन् दृष्टो मुनिः सर्ववित्
तद्व्याप्तिग्रहणं जने यदि मृषायुर्वेदसङ्कीर्त्तनम्।
सत्यं किन्तु दृढा तथापि चरकाद्याप्तस्मृतिर्वैद्यके
नासौ चार्यनिबन्धनेति कथिता तस्येह दृष्टान्तता॥
इत्यायुर्वेदवाक्यप्रभृतिषु भवति व्याप्तिराप्तोक्ततायाः
पूर्वोक्तेन क्रमेण स्फुटमकथि तथा पक्षधर्मत्वमस्याः।
न प्रत्यागमाभ्यामपहृतविषया नानुमानान्तरेण
व्याधूता वेति सैषा भजति गमकतां पञ्चरूपोपपत्तेः॥
अनपेक्षतया न वेदवाचां घटते निष्प्रतिमः प्रमाणभावः।
क्व गिरामयथार्थतानिवृत्तिः पुरुषप्रत्ययमन्तरेण दृष्टा॥
तत्प्रत्ययाद् बहुतरद्रविणव्ययादि-
साध्येषु कर्मसु तपःसु च वैदिकेषु।
युक्तं प्रवर्त्तनमबाधनकेन नैव
तत्सिद्धिरित्यलमसम्मत एष मार्गः।
तस्मादाप्तोक्तत्वादेव वेदाः प्रमाणमिति सिद्धम्।
न्यायमञ्जरीग्रन्थिव्याख्या :–
%न च स्मृतावन्धपरम्परादोषः% कस्यचित्। साक्षाद् द्रष्टुरभावादिति। यथा कुम्भं करोतीति कुम्भकार इत्यत्र “कर्मण्यणअ” तथा हिमवन्तं शृणोतीत्यत्र कस्मान्न भवतीति चोदिते सयाह–%इह न भवत्यनभिधानादिति।%
%ते तु प्रत्यक्षेणैव सर्वं विदितवन्तो% न पुनरनुमानागमाभ्यामपीति। %अपिदुषामुपदेशो नावकल्पत% इत्यनया युक्त्या विद्वांसः कल्पन्तां नामेति।
%एवं फलवेदादावि%ति। फलवेदः शस्यपालशास्त्रम्।
%तद्व्याप्तिग्रहणं जने यदी%ति। लोके सत्यार्थमाप्रप्रणीतं वचो दृष्टम्, वचनमपि च सत्यार्थम्, तस्मादाप्तप्रणीतमिति। %मृषायुर्वेदसङ्कीर्तनम्%। येन तस्याप्तप्रणीतत्वं सिद्ध्यति तेनैव वेदस्य सेत्स्यतीति। %अकथि% कथितम् %अनपेक्षतया न वेदवाचामि%ति। नित्यत्वेन पुरुषगुणापेक्षाया अभावादित्यर्थः।
न्यायमञ्जरी :–
%वेदप्रामाण्यसाधने प्रकारान्तरम्%
अन्ये त्वन्यथा वेदप्रामाण्यं वर्णयन्ति। तस्य हि प्रामाण्येऽभ्युपगतपरलोकोऽनभ्युपगतपरलोको वा परो विप्रतिपद्यते। तत्रानभ्युपगतपरलोकं प्रति तावदात्मनित्यतादिन्यायपूर्वकं परलोकसमर्थनमेव विधेयम्। तरलोकवादिनान्तु मते यदेतत् सुखदुःख्यादिभेदेन जगतो वैचित्र्यं दृश्यते तदवश्यं कर्मवैचित्र्यनिबन्धनमेव। कर्माणि चाननुष्ठितानि नात्मानं लभन्ते। अलब्धात्मनाञ्च नभःकुसुमनिभानां कुतो विचित्रसुखदुःखादिफलसाधत्वम्? तस्मादनुष्ठानमेषामेषिमेषितव्यम्। अनुष्ठानञ्च नाविदितस्वरूपाणां कर्मणामुपपन्नम्। अजानन् पुरुषस्तपस्वी किमनुतिष्ठेत्? तदवश्यं ज्ञात्वानुष्ठेयानि कर्माणि। तदिदानीं तेषां परिज्ञाने कोऽब्युपायः? न प्रत्यक्षमस्मदादीनां स्वर्गाद्यदृष्टपुरुषार्थसाधनानि कर्माणि दर्शयितुं प्रभवति।
नाप्यनुमानम् अन्वयव्यतिरेकाभ्यां तृप्तिभोजनयोरिव स्वर्गयागयोः साध्यसाधनसम्बन्धानवधारणात्। जगद्वैचित्र्यान्यथानुपपत्त्या तु विचित्रं कारणमात्रमनुमीयते न च तावतानुष्ठानसिद्धिः। उक्तञ्च
अधर्मे धर्मरूपे वाप्यविभक्ते फलं प्रति।
किमप्यस्तीति विज्ञानं नराणां क्वोपयुज्यते॥ इति।
उपमानन्वत्र शङ्क्यमानमपि न शोभते। नापि परस्परमुपदिशन्तो लौकिकाः कर्माणि परलोकफलानि जानीयुरिति वक्तुं युक्तम्, अज्ञात्वा उपपादयतामाप्तत्वायोगात्। ज्ञानन्तु लौकिकानां दुर्घटं प्रमाणाभावाद् इत्युक्तत्वात्। एवमेव हि पुरुषोपदेशपरम्पराकल्पनायामन्धपरम्परान्यायः स्यात्। तस्माद् अवश्यमभ्युपगतपरलोकैः परलोकफलानि कर्माणि कुर्वद्भिः शास्त्रात् कर्मावबोधोऽभ्युपगन्तव्यः। शास्त्रञ्च वेदा एवेति सिद्धं तत्प्रामाण्यम्।
न्यायमञ्जरीग्रन्थिव्याख्या :–
%अधर्मे धर्मरूपे वे%ति। वचित्रं धर्माधर्माख्यं कारणमात्रमर्थापत्त्यावगम्यते, न पुनर्विभागेनार्थापत्तितोऽवगतिरस्ति, अमुष्मात् कर्मणोऽनुष्ठिताद् इदमिष्टं फलमवाप्यतेऽनुष्मात्त्विदमनिष्टमिति। %क्वोपयुज्यते%ऽनुष्ठानानौपयिकत्वात्।
%पदद्वये% वस्तुद्वये। %विरुद्धानेकप्रकारत्वादि%ति। विरुद्धो घूकचटकन्यायेन हिंसा धर्म इत्येवमादिरूपोऽनेकप्रकारो यस्याः। %गुरुदारगमनादौ च विपर्ययात्%। निषिद्धत्वेनाधर्मरूपेऽप्यपकारापेक्षया धर्मत्वप्राप्तेः।
न्यायमञ्जरी :–
%एतावता कर्मप्रभृतीनामनादित्वे वेदस्यानादित्वान्नित्यत्वमपीति%
%शह्कानिरसनम्%
एवन्तु वर्ण्यमाने संसारानादित्वं तावदुक्तं स्यात्। वेदस्यानादित्वं कर्मज्ञानानादित्वात्। यतश्च मीमांसकवर्त्मनैव प्रमाणता सिद्ध्यति नाप्तवादात्, तस्माद् ययोदाहृत एव मार्गः प्रमाणतायामनुवर्त्तनीयः। आथवा
वयमपि न विशिंष्मोऽनादिसंसारपक्षं
युगपदखिलसर्गध्वंसवादे तु भेदः।र
अकथि च रचनानां कार्यता तेन सर्गात्
प्रभृति भगवतेदं वेदशास्त्रं प्रणीतम्॥
अनादिरेवेश्वरकर्तृकोऽपि सदैव सर्गप्रलयप्रबन्धः।
सर्गान्तरेष्वेव च कर्मबोधो वेदान्तरेभ्योऽपि जनस्य सिध्येत्॥
अन्यत्वे किं प्रमाणं ननु तव सुमते किं तदैक्यप्रमाणं
ध्वस्तं तावत् समस्तं भुवनमिति तदा वेदनाशोऽप्यवश्यम्।
एकस्त्वीशोऽवशिष्टः स च रचयति वा प्राक्तनं संस्मरेद् वा
वेदे स्वातन्त्र्यमस्मान्नियतमुभयथाप्यस्ति चन्द्रार्थमौलेः॥
एकस्य तस्य मनसि प्रतिभासमानो
वेदस्तदा हि कृतकान्न विशिष्यतेऽसौ।
प्रत्यक्षसर्वविषयस्य तु नेश्वरस्य
युक्ता स्मृतिः करणमेव ततोऽनवद्यम्॥
तेनाप्तनिर्मिततयैव निरत्ययार्थ-
सम्प्रत्ययोपजननाय जनस्य वेदे।
शास्त्रं सुविस्तरमपास्तकुतर्कमूल-
मोहप्रपञ्चमकरोन्मुनिरक्षपादः॥
न्यायमञ्जरीग्रन्थिव्याख्या :–
%युगपदखिलसर्गे%ति। अस्माकमप्यनादिरेव संसारः। कदाचित् तु दुगपत् सर्वं प्रलीय पुनरुद्भवति। भवतान्तु क्रमेण सृष्टिप्रलयाविति विशेषः। %अकथि च रचनानां कार्यता% कथितेत्यर्थः। %नेश्वरस्य युक्ता स्मृतिरि%ति। स्मृतिर्हि परोक्षे भवति, तस्य च सकलदर्शित्वात् तदानीमनुभव एव वैदिकानां शब्दानां वक्तव्यः। अनुभवाश्रयणे च वर्तमानकालविशिष्टस्यानुभवोऽङ्गीकार्यः तत्कालविशिष्टस्य वा? तत्कालविशिष्टस्यानुभवे वर्तमाने सर्गे प्राणिनां वेदाग्रहणं स्यात्, वर्तमानकालविशिष्टस्य त्वनुभवे प्राक्तनादन्यत्वात् प्राङ्नीत्या शब्दानित्यत्वादवश्यमपूर्वकरणमेवायाति। संस्काराच्च ज्ञाने विनष्टे कालान्तरे संस्कारप्रबोधात् स्मृतिर्भवति,नित्यज्ञानत्वाच्च भगवतः कथं स्मृतिसम्भव इति।
न्यायमञ्जरी :–
%त्रय्याः प्रामाण्येऽपि नाथर्ववेदस्येति शङ्का%
अत्र कश्चिदाह, युक्तमितरेतरव्यतिषक्तार्थोपदेशित्वेनैककर्तृकत्वानुमानद्वारकं त्रिवेद्याः प्रामाण्यम् अथर्ववेदस्यतु त्रय्याम्नातधर्मोपयोगानुपलब्धेस्त्रयीबाह्यत्वेन (न?) तत् समानयोगक्षेमत्वम्। अनपेक्षत्वलक्षणप्रामाण्यपक्षेऽपि विक्षिप्तशाखान्तरोपदिष्टविशिष्टज्योतिष्टोमाद्यनेककर्मानुप्रविष्टहौत्राध्वर्यवादिव्यापारव्यतिषङ्गदर्शनात् तदर्था त्रय्येव यथा प्रमाणभावभागिनी भवितुमर्हति न तथा पृथग्व्यवहारा आथर्वणश्रुतिः। तथा च लोके चतस्र इमा विद्याः प्राणिनामनुग्रहाय प्रवृत्ता आन्वीक्षकी त्रयी वार्त्ता दण्डनीतिरिति प्रसिद्धिः।
श्रुतिस्मृती अपि तदनुगुणार्थे एव दृश्येते, श्रुतिस्तावद् “ऋग्भिः प्रातर्दिवि देव ईयते यजुर्वेदेन तिष्ठति मध्येऽह्नः सामवेदेनास्तमेति वेदैरशून्यस्त्रिभिरेति सूर्यः” इति, तथा “प्रजापतिरकामयत बहु स्यां प्रजायेयेत स तपोऽतप्यत स तपस्तप्त्वेमांस्त्रींल्लोकानसृजत अग्निरेव पृथिव्या अजायत वायुरन्तरिक्षाद्दिव आदित्य इति तानि ज्योतींष्यभ्यतपत् तेभ्यस्त्रयो वेदा अजायन्त अग्नेर्ऋग्वेदो वायोर्यजुर्वेद आदित्यात् सामवेद” इति, तथा `सैषा विद्या त्रयी तपती’ति स्मृतिरपि मानवी प्रतिवेदं द्वादशवार्षिकब्रह्मचर्योपदेशिनी दृश्यते `षाट्त्रिंशदब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतमि’ति। श्राद्धप्रकरणेऽपि
यत्नेन भोजयेच्छ्राद्धे बह्वृचं वेदपारगम्।
शाखान्तगमथाध्वर्युं छन्दोगं वा समाप्तिगमिति॥
त्रिवेदपारगानेव श्राद्धभूजो ब्राह्मणान् दर्शयति नाथर्ववेदाध्यायिनः। प्रत्युत निषेधः क्वचिदुपदिश्यते `तस्मादाथर्वणं न प्रवृञ्ज्यादि’ति।
न्यायमञ्जरीग्रन्थिव्याख्या :–
%अनपेक्षत्वलक्षणप्रामाण्यपक्षेऽपी%ति। मीमांसकपक्षइत्यर्थः। होत्रध्वर्य्वादिव्यापाराणां व्यतिषङ्गः परस्परसम्बन्धः।
%प्रजापतिरकामयते%ति। बहुः स्यामेको वर्तमानोऽनेकः स्यामित्यर्थः। कथञ्च तथात्वमित्याह %प्रजायेये%ति भूतात्मनोत्पद्येत्यर्थः। %स तपोऽतप्यत% इति। तप इव तप इति `तपः’ शब्देन सङ्कल्पोऽभिहितः। सत्यसङ्कल्पत्वात् परमेश्वरस्य, तपसा यदाप्यते तस्य सङ्कल्पमात्रेणैव सिद्धेः। उक्तञ्च “यस्य ज्ञानमयं तपः” इति। तपोऽतप्यत सङ्कल्पमकरोदित्यर्थः। %तांल्लोकानभ्यतपत्% सारोद्धरणायालोचयत्। %षाट्त्रिंशदब्दिकमि%त्यस्योत्तरमर्धम् “तदर्धिकं पादिकं वा ग्रहणान्तिकमेव वा” इति। ब्रह्मचारिणा चर्यं चरणीयं ब्रह्म। क्व? गुरौ गुरुगृहे। किमर्थम्? त्रैवेदिकं त्रिवेदग्रहणार्थम्। किंकालावच्छिन्नम्? तदाह “षाट्त्रिंशदब्दिकम्” षट्त्रिंशतोऽब्दानां समाहारः षट्त्रिंशदब्दं तत्र भवं षाट्त्रिंशदब्दिकम्। “ग्रहणान्तिकमेव वा” इति यावता कालेन वेदत्रयं ग्रहोतुं शक्नोति तावर्न्त कालमित्यर्थः। %`आथर्वणेन न प्रवृञ्ज्यात्’% इति आथर्वेन कर्मणा त्रय्युक्तं कर्म न प्रवृञ्ज्यान्न मिश्रयेदिति ब्राह्मण उपदेशः।
न्यायमञ्जरी :–
%पूर्वोक्तशङ्कायाः समाधानम्%
एवमाक्षेपे सति केचिदाचक्षते
यदि यज्ञोपयोगित्वं नेहास्त्याथर्वणश्रुतेः।
अर्थान्तरे प्रमाणत्वं केनास्याः प्रतिहन्यते॥
शान्तिपुष्ट्यभिचारार्था एकब्रह्मर्त्विगाश्रिताः।
क्रियास्तया प्रमीयन्ते त्रय्येवात्मीयगोचराः॥ इति।
एवं तत्तु सर्व न साध्वभिधीयते। तथा हि `तत्प्रमाणं बादरायणस्यानपेक्षत्वादि’ति य एष वेदप्रामाण्याधिगतौ जैमिनिना निरदेशि पन्थाः, यो वाक्षपादेन कणादेन प्रकटितः `तद् वचनादाम्नायस्य प्रामाण्यमि’ति `मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यादि’ति स चतुर्ष्वपि वेदेषु तुल्यः। तत्र विशेषतुषोऽपि न कश्चिदस्ति प्रयत्नेनान्विष्यमाणः प्राप्यते। न हि मीमांसकपक्षे एवं वक्तुं शक्यते त्रय्येवानादिमती नाथर्वणश्रुतिः, तस्यां, कर्तृस्मरणसम्भवादिति। नापि नैयायिकादिपक्षे एवं शक्यम् आप्तप्रणीतास्त्रयोवेदाश्चतुर्थस्तु नाप्तप्रणीत इति। तेन प्रामाण्याधिगमोपायाविशेषात् समानयोगक्षेमतया चत्वारोऽपि वेदाः प्रमाणम् द।
न्यायमञ्जरीग्रन्थिव्याख्या :–
%यदि यज्ञोपयोगित्वमि%ति। “क्रीतराजकभोज्यान्न” इत्येतद् वाक्यमथर्ववेदेऽरित। “अग्नीषोमीये संस्थिते दीक्षितस्य गृही नाश्नीयात्” इत्येतच्च त्रय्यां श्रूयते। अथर्ववेदस्य यज्ञोपयोगशून्यत्वेन प्रामाण्यमेव नास्त्यतः कथमस्य त्रयीगतेन “अग्नीषोमीये संस्थितेक्षितस्य गृहे नाश्नीयात्” इत्यनेन सह विरोध इत्याशङ्क्यतन्त्रटीकायामुक्तम्
क्रितराजकभोज्यान्नवाक्यं चाथर्ववैदिकम्।
न च तस्याप्रमाणत्वे किञ्चिदप्यस्ति कारणम्॥
यज्ञानुपयोगः कारणमिति चेन्नेत्याह यदि यज्ञोपयोगित्वमिति। %आत्मीयगोचरा% इति। आत्मीयः स्वसम्बन्धी पदार्थो गोचरो विषयो यासाम्। यः पदार्थो यस्मिन् वेद उत्पन्नः स पदार्थस्तस्य वेदस्यात्मीयः, अतस्तेन वेदेन तत्पदार्थविषयाः क्रियाः। यथासौ पदार्थः क्रियतेऽनुष्ठीयते तथा प्रमीयते प्रतिपाद्यते नान्यपदार्थगोचराः। यथा यजुर्वेद उत्पन्नयोर्दर्शपूर्णमासयोः क्रिया यजुर्वेदेन प्रतिपाद्यते न सामवेदोत्पन्नस्य श्येनादेरिति। %एकब्रह्मर्त्विगाश्रिता% इति। ऋत्विगन्तरनिरपेक्षेण ब्रह्मणैव निर्वर्त्यन्ते याः।
न्यायमञ्जरी :–
%व्यवहारादितोऽप्यथर्ववेदस्य प्रामाण्यम्%
व्यवहारोऽपि सर्वेषां सारेतरविचारचतुरचेतसां चतुर्भिरपि वैदैश्चतुर्णां वर्णानामाश्रमाणाञ्चतसृषु दिक्षु चतुरब्धिमेखलायामवनौ प्रसिद्ध इति कोऽयमत्रान्यथात्वभ्रमः? श्रुतिस्मृतिमूलश्चार्यावर्त्तनिधासिनां भवति व्यवहारः। ते च श्रुतिस्मृती चतुरोऽपि वेदान् समानकक्षानभिवदतः। ऋग्यजुःसामवेदेष्वपि अथर्ववेदाशंसीनि भूयांसि वचांसि भवन्ति। तद् यथा शतपथे अथ तृतीयेऽहनीत्युपक्रमस्याश्वमेधे पारिप्लवोपाख्याने `सोऽयमाथर्वणो वेद’ इति श्रूयते, छान्दोग्योपनिषदि च “ऋग्वेदो यजुर्वेदः सामवेद आथर्वणश्चतुर्थ” इति पठ्यते।
नन्वितिहासपुराणानि पञ्चम इति तत्र पठ्यत एव किञ्चातः? किमियताथर्वणश्चतुर्थो न भवति वेदः? चतुर्थशब्दोपादानादितिहासादितुल्योऽसौ न वेदसमानकक्ष इति चेत्, केयं कल्पना? चतुर्थशब्दोपादानादप्राधान्ये `त्रयो वेदा असृज्यन्त, इत्यादौ त्रित्वसंख्योपादानात् तेऽपि न प्रधानतामधिगच्छेयुः? इतिहासादिभिर्वा सह परिगणनमप्राधान्यकारणं यदुच्यते तदपि सर्ववेदसाधारणमिति यत्किञ्चिदेतत्। तथा शताध्ययनेऽपि `ऋचो वै ब्रह्मणः प्राणाः, इत्यभ्युपक्रम्य `आथर्वणो वै ब्रह्मणः समान’ इति पठ्यते, तथा `येऽस्य प्रत्यञ्चो रश्मयस्ता एवास्योदीच्यो मधुनाड्योऽथर्वाङ्गिरस एव मधुकृत’ इति, तथातैत्तिरीये `तस्माद् वाएतस्मात् प्राणमयादन्योऽन्तरआत्मामनोमयः’ इति प्रस्तुत्य `तस्य यजुरेव शिरःऋग्दक्षिणः पक्षःसामोत्तरः पक्षः आदेश आत्माथर्वाङ्गिरसः पुच्छं प्रतिष्ठा’ इति प्रस्तुत्य `तस्ययजुरेवशिरः ऋग्दक्षिणः पक्षः सामोत्तरऋः पक्षः आदेश आत्मार्थर्वाङ्गिरसः पुच्छं प्रतिष्ठा’इति पठ्यते, तथान्यत्र `ऋचां प्राची महती दिगुच्यते दक्षिणामाहुर्यजुषाम् साम्नामुत्तराम् अथर्वणामङ्गिरसां प्रतीची महती दिगुच्यते, इति, शतपथे ब्रह्मयज्ञविधिप्रक्रमे “मध्यमे पय आहुतयो वा एता देवानां यदृचः”
ित्युपक्रम्य `मेद आहुतयो वा एता देवानां यदथर्वाङ्गिरसः स्म य एवं तृप्तास्तर्पयन्ति’ इति मन्त्रा अपि तदर्थप्रकाशनपरा अनुश्रूयन्ते। “त्वामग्ने पुष्करादध्यथर्वा निरमन्थत” इत्यादयो न चैषामथर्वा नाम कश्चिदृषिरित्येवम्प्रकारं व्याख्यानं युक्तम्, अन्यत्राप्यसमाश्वासप्रसङ्गात्। इत्येवञ्जातीयकास्तावदुदाहृताः श्रुतिवाचः। स्मृतिवाक्यानि खल्वपि, मनुस्तावत् “श्रुतीरथर्वाङ्गिरसीः कुर्यादित्यभिचारयन्” इति श्रुतिशब्देन त्रयीवद् व्यवहरति। याज्ञवल्क्यः चतुर्दशविद्यास्थानानि गणयन्
पुराणतर्कमीमांसाधर्मशास्त्राङ्गमिश्रिताः।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश॥ इति।
चतुर एव वेदानावेदयते, नान्यथा हि चतुर्दशसंख्या पूर्यते, स्मृत्यन्तरे च स्पष्टमेवोक्तम्
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः।
पुराणं धर्मशास्त्रञ्च विद्या ह्येताश्चतुर्दश॥ इति।
अन्यत्राप्युक्तम् `पुराणं धर्मशास्त्रं मीमांसा न्यायश्चत्वारो वेदाः षडङ्गानीति चतुर्दश विद्यास्थानानी’ति। शातातपोऽप्याह
ऋक्सामयजरङ्गानामथर्वाङ्गिरसामपि।
अणोरप्यस्य विज्ञानाद् योऽनूचानः स नो महान्॥ इति।
तथान्यत्र `चत्वारश्चतुर्णां वेदानां पारगा धर्मज्ञाः परिषदि’त्युक्तम्। शङ्खलिखितौ च `ऋग्यजुः सामाथर्वविदः षडङ्गविद् धर्मविद् वाक्यविद् नैयायिको नैष्ठिको ब्रह्मचारी पञ्चाग्निरिति `दशावरा परिषदि त्यूचतुः। प्राचेतसे `चत्वारो वेदविदो धर्मशास्त्रविदिति पञ्चावरा परिषदि’त्युक्तम्। तथा च पङ्क्तिपावनप्रस्तावे चतुर्वेदः षडङ्गवित् ज्येष्ठसामगोऽथर्वाङ्गिरसोऽप्येते पङ्क्तिपावना गण्यन्ते। तदयमेवमादिवेदचतुष्टयप्रतिष्ठाप्रगुण एव प्राचुर्येण धर्मशास्त्रकाराणां व्यवहारः। अन्येऽपि शास्त्रकारास्तथैव व्यवहरन्तो दृश्यन्ते। यथा च महाभाष्यकारो भगवान् पत़ञ्जलिरथर्ववेदमेव प्रथममुदाहृतवान् `शन्नो देवीरभिष्टये, इति, मीमांसाभाष्यकारेणापि वेदाधिकरणे `काठकं कलापकं मौद्गल पैप्पलादकम्’ इति यजुर्वेदादिकवद्अथर्ववेदेऽपि पैप्पलादकमुदाजह्रे। सर्वशाखाधिकरणेऽपि वेदान्तरशाखान्तरवन्मौद्गलपैप्पलादकाख्ये अथर्वशाखे अप्युदाहृत्य विचारः कृतः। तथा च प्रथमयज्ञो नाम चतुर्षु वेदेषु न कश्चिदस्तीत्यधिकरणान्तरे एव लिखितम्। एवं श्रुतिस्मृतिशिष्टाचारव्यवहारविदामत्र विप्रतिपत्तिसम्भावनैव नास्ति।
आह, न ब्रूमोऽथर्ववेदो न प्रमाणमिति, किन्तु त्रयीबाह्य इति। उच्यते। त्रयीयमथर्ववेदबाह्यैव न केवलम्, एवं त्रय्यामपि परस्परबाह्यत्वमस्त्येव। ऋक्सामबाह्यानि यजूंषि, यजुः सामबाह्या ऋचः, ऋग्यजुर्बाह्यानि सामानीति कियानयंदोषः? सर्वबावानामितरेतरसाङ्कर्यरहितत्वात्। ये हि शब्दात्मानो ग्रन्थसंदर्भस्वभावा ये च तदभिधेया अर्थस्वभावास्ते सर्वेऽन्योन्यसंमिश्रितात्मान एव। न च परेणात्मानममिश्रयन्तोऽपि ते स्वरूपमपि हारयन्तीति।
अथोच्यते नेदृशं त्रयीबाह्यत्वमथर्वेवेदे विवक्षितम्, अपि तु यदेष न त्रयोप्रत्ययं कर्मोपदिशति न तत्सम्बद्धं किञ्चिदिति तदस्यत्रयीबाह्यत्वमिति। एतदपि न साधूपदिष्टम्। इष्टिपश्वेकाहाहीनसत्रादिकर्मणांतत्रोपदेशदर्शनात्। सम्बद्धसर्वशाखाप्रत्ययमेव नाथर्वशाखाप्रत्ययम्, यतः सोमयागादिकर्मणामृग्वेदेन हौत्रं यजुर्वेदेनाध्वर्यवं सामवेदेनौद्गात्रं क्रियते नाथर्ववेदेन किञ्चिदिति। तदयुक्तम्, अथर्ववेदेन ब्रह्मत्वस्य करणात्। तथाच गोपथब्राह्मणम् `प्रजापतिः सोमेन यक्ष्यमाणो वेदानुवाच कं वो होतारं वृणीयमि’ति प्क्रम्य `तस्मादृग्विदमेव होतारं वृणीष्व स हि आध्वर्यवं वेद सामविदमेवोद्गातारं वृणीष्व स हि औद्गात्रं वेद अथर्वाङ्गिरोविदमेव ब्रह्माणं वृणीष्व स हि ब्रह्मत्वं वेदे’ति। एवमभिधाय पुनराह `अथ चेन्नैवंविधं होतारमध्वर्युमुद्गातारं ब्रह्माणं वा वृणुते पुरस्तादेव वैषां यज्ञो रिच्यते इति तस्मादृग्विदमेव होतारं कुर्याद् यजुर्विदमेवाध्वर्युं सामविदमेवोद्गातारम् अथर्वाङ्गिरसोविदमेव ब्रह्माणमि’ति। तथा `यज्ञे यदूनं च विरिष्टं च यातयामं च करोति तदथर्वणां तेजसाप्याययतीति। अथ नर्ते भृग्वङ्गिरोविद्भ्यः सोमः पातव्य’ इति।
नन्वेताः श्रुतीरथर्वाण एवाधीयते नान्ये त्रयीविदः। ते त्वेवं पठन्ति `यदृचा हौत्रं क्रियते यजुषाध्वर्यवं साम्ना औद्गात्रम्। अथ केन ब्रह्मत्वं क्रियते इति त्रय्या विद्ययेति ब्रूयादिति। तथा च यदृचैव हौत्रमकुर्वत यजुषाध्वर्यवं साम्नौद्गात्रं यदेव त्रय्यै विद्यायै शुक्रं तेन ब्रह्मत्वमिति’।
उच्यते। वयमप्येवमादीनि वाक्यानि न नाधीमहि किन्त्वेषामयमेवार्थोऽथर्वोङ्गिरोविदेव ब्रह्मेति। कथम्? यतो न क्रयी नाम किमपि वस्त्वन्तरम्, अपि तु त्रयाणां वेदानां समाहार इति। समाहारश्च समाह्रियमाणनिष्ठो भवति। समाह्रियमाणाश्च ऋग्वेदादयस्त्रयो हौत्रादिपरत्वे चरितार्था न पुनस्तत्र भेदमर्हन्ति। एकैकशः चरितार्थानां समुदायोऽपि चरितार्थ एव। समुदायबुद्धौ हि हि विभज्यमानायां समुदायिन एव प्रस्फुरन्ति नावयविवदर्थान्तरम्, ते चान्यत्र व्यापृताः। किं नु खलु ऋग्वेदादीनां ब्रह्मत्वं कुर्वतामतिभारो भवति? न ब्रूमोऽतिभार इति। किन्तुत्र्यात्मकत्वेब्रह्मत्वकर्त्तव्यतोपदिश्यते। त्र्यात्मकश्चान्यतमोऽपि तेषां न भवति वेदः। अथर्ववेदस्तु त्र्यात्मक एव। तत्रहि ऋचो यजूंषि सामानि इति त्रीण्यपि सन्ति। तेन ब्रह्मत्वं क्रियमाणं त्रय्या कृतं भवति।
ननु यस्त्रीन् वेदानधीते तेनचेद् ब्रह्मत्वं क्रियेत तत् किं तया न कृतं भवति? बाढमित्युच्यते। सोऽपि `एकस्मै वा कामायान्ये यज्ञक्रतवः समाह्नियन्ते सर्वेभ्यो ज्योतिष्टोमः सर्वेभ्यो दर्शपूर्णमासावि’ति श्रुतावपि योगसिद्ध्यधिकरणन्यायेनान्यतममेव बुद्धावादाय विदध्यान्न समुदायं बुद्धावारोपयितुं शक्नुयादित्येकेनैतत् कृतं भवति न त्रय्येति।
नन्वन्येऽपि त्र्यात्मका वेदाः, यद्येवं सुतरामथर्ववेदो न पृथक् करणीयः, सर्वेषां रूपाविशेषात्। तेषां पृथक्प्रतिष्ठैः स्वैः स्वैर्ऋगादिभिरेव व्यपदेश इति न ते समुदायशब्दव्यपदेश्याः। यत्तु वाक्यान्तरे `त्रय्यै विद्यायै शुक्रं तेन ब्रह्मत्वमि’ति तत्रेयं चतुर्थी षष्ठ्याः स्थाने प्रयुक्ता। शुक्रमिति सारमाचक्षते। तेन त्रयीविद्यायाः सारेण ब्रह्मत्वं क्रियते इत्युक्तं भवति। न च त्रय्येव त्रय्याः शुक्रम्। शुक्रमिति च गुह्यमाहुः, अथर्वशब्दोऽपि रहस्यवचनो `यज्ञाथर्वाणं वै काम्या इष्टय’ इति। तेन त्रयीशुक्ररूपेणाथर्ववेदेन ब्रह्मत्वमितीत्थमथर्ववेदस्य न त्रयीबाह्यत्वम्। इत्थं सर्वशाखाप्रत्ययमेकं कर्णेति न सर्वशब्दः सङ्कोचितो भवति। अत एव ब्रह्मवेदोऽथर्ववेद इति पूर्वोत्तरब्राह्मणे पठ्यते ऋग्वेदो यजुर्वेदः सामवेदः ब्रह्मवेद इति। तथा च काठकशताध्ययने `ब्राह्मणे त्वा प्राणाय जुष्टं निर्वपामि ब्रह्मणे त्वा व्यानाय जुष्टं निर्वपामि’इत्युपक्रम्य `आथर्वणो वै ब्रह्मणः समानोऽथर्वणमेवैतज्जुष्टं निर्वपति ततश्चतुः शरावो भवति चत्वारो हीमे वेदास्तानेव भागिनः करोति मूल वै ब्रह्मणो वेदाः वेदानामेतन्मूलं यदृत्विन्ति तद् ब्रह्मौदनस्य ब्रह्मौदनत्वमि’ति। तथा सामवेदे पृष्ठ्यस्य चतुर्थेऽहन्यार्भवे पवमाने आथर्वणे साम्नौद्गात्रं यत्तद्विधाने श्रूयते चतुर्णिधनं भवति चतूरात्रस्य धृत्त्यै चतुष्पदानुष्टुभा अनुष्टुभमेवैतदहर्यच्चतुर्थं भेषजं वाथर्वाणं तद्धि भैषज्यमेव तत् करोत्याथवर्णानि यागभेषजानीत्येतदालम्बनेयं स्तुतिरत एव प्रागुक्तम् `यज्ञे यदूनञ्च विरिष्टञ्च यातयामञ्चकरोति तदथर्वणा तेजसाप्याययती’ति। स्मादाथर्वण एव ब्रह्मेति। एतच्च शास्त्रान्तरे विस्तरेणाभियुक्तैर्युक्तिभिरुपपादितमिति नेहात्यन्ताय प्रतायते।
यत्तु `नाथर्वणेन प्रवृञ्च्यादि’ति तत् कल्पसूत्रवाक्यत्वाद् वेदविरुद्धमित्यनादृतम्। अथापि श्रौतमिदं वाक्यम्? तदापि प्रकरणाधीतं चेत्तत्र क्वचित् कर्मणि निवेक्ष्यते। अनारभ्यवादपक्षेऽपि पूर्वोक्तवाक्यविसदृशार्थत्वादथर्ववेदस्य च त्रयीबाह्यत्वेन सम्पर्कपरिहारार्हत्वान्नियतविषयमेव व्याख्यास्यते।
यदप्युच्यते `उच्चैर्ऋचा क्रियते उच्चैस्साम्नोपाशु यजुषे’तिवदथर्वधर्मोऽपि न कश्चिदाम्नात इति, तदप्यसारम्। मन्त्रधर्मो ह्ययमुपदिश्यते न वेदधर्मः। मन्त्रब्राह्मणसमुदायस्वाभावा हि चत्वार इमे वेदग्रन्थाः। मन्त्रास्तु ते गद्यपद्यभेदाद् द्विधैव। गद्यबन्धो यजुरुच्यते पद्यबन्ध ऋगिति गीतिनिबन्धनन्तु भेदान्तरं सामेति। अत एव जैमिनिना मन्त्रविभागं प्रस्तुत्यतेषामृग् यत्रार्थवशेन पादव्यवस्था, गीतिषु सामाख्या, शेषे यजुः शब्दः, इत्थमेव तेषां त्रैविध्यमुपपादितम्। तेषामेव चायमुच्चैरादिधर्मो न वेदशब्दवाच्यानां मन्त्रब्राह्मणसमुदायात्मनां ग्रन्थानाम्। अथर्ववेदेऽपीयंत्रिविधैव मन्त्रजातिरिति तत्रापीदं धर्मजातमुपदिष्टं भवति। मनत्र्विभागकृत एवायं त्रयीव्यपदेश इति। तच्च `सैषा त्रयी विद्या तपती’त्याद्यपि न विरोत्स्यते। एवं ऋग्यजुःसामसमुदायात्मकमन्त्रोपबन्धात् त्रय्यन्तर्गतश्च अथर्ववेदः पृथग्व्यवस्थितग्रन्थसन्दर्भस्वभावत्वाच्च भिन्न इति स्थितम्।
अन्ये पुनः ऋक्प्रचुरत्वात्, प्रविरलयजुर्वाक्यत्वाद्, गीयमानसाममन्त्रतावशाच्च ऋग्वेदमेवाथर्ववेदमाचक्षते। अयमपि पक्षोऽस्तु न क श्चिद्विरोधः।
यत् पुनरभिधीयते वेदशब्दस्त्रयाणामेव वाचको न चतुर्थस्येति। सोऽयमत्युक्तटो द्वेषः, वृद्धव्यवहारो ह्यत्र प्रमाणम्। वेदोऽयं ब्राह्मणोऽयमिति तत्र तत्र वेदशब्दे उच्चारिते चत्वारोऽपि प्रतीयन्ते। वेदो मयाधीत इति वदन्तं पृच्छन्ति व्यवहर्त्तारः कतमस्त्वयाधीतो वेद इति, स आह अथर्ववेद इति। न तमेवमाक्षिपन्ति नासौ वेदो यस्त्वया पठित इति। सोपपदोऽर्थर्वदेवे वेदशब्द इति चेद्, वेदान्तरेष्वपि तुल्यमेतत् ऋग्वेदो यजुर्वेदः सामवेद इति। निरुपपदोऽपि तेषु वेदशब्दः प्रयुज्यते इति चेत् तदितरत्रापि समानमित्युक्तम्, चतुर्वेदाध्यायी भारद्वाज इति। सर्वथा तु सोपपद एवायुर्वेदादिषु वेदशब्द इति न तत्तुल्यकक्षताधिक्षेप-क्षेत्रतामथर्ववेदो नेतव्यः। ब्रह्मयज्ञविधिश्च श्रौतश्चतुर्ष्वप्यविशिष्ट इत्युक्तम्। स्मार्त्तोऽपि तथाविध एवास्ति, यथाह याज्ञवल्क्यः
मेदसा तर्पयेद् देवानथर्वाङ्गिरसः पठन्।
पितृंश्च मधुसर्पिर्भ्यामन्वहं शक्तितो द्विजः॥ इति
साम्प्रदायिकमध्यापनादियजनादि सर्वमभिन्नमेवेत्यलं प्रसङ्गेन।
तेन प्रमाणतायां वेदस्वाध्यायशब्दवाच्यत्वे पुरुषार्थसाधनविधावपि चत्वारः समा वेदाः।
न्यायमञ्जरीग्रन्थिव्याख्या :–
%अश्वमेधे पारिप्लवोपाख्यान% इति। तत्र राजानमभिषिञ्चतीति राज्ञोऽभिषेकसमयेऽभिषेषचनीयेष्टिक्रमे आख्यानानि सन्तीति। हरिश्चन्द्रोपाख्यानं शौनकोपाख्यानं विशिष्टर्षिराजचरितसम्बन्धा ग्रन्थविशेषाः पाठ्यत्वेन चोदिताः, तत्र च पारिप्लवोपाख्यानस्याथर्बवेतया स्तुतिः कृता।
%तथा येऽस्य प्रत्यञ्चो रश्मय% इति। तत्र `आदित्यो वैदेवमध्वि’ति प्रकृते येऽस्य देवमध्वात्मन आदित्यस्य। %मधुनाड्यो% नु मधुधारिण्यः ऋच एव पुष्पं मधुजनकम्। अथर्वाङ्गिरस इत्यथर्ववेदमनत्राणामाख्या। %अथर्वाङ्गिरस एव मधुकृत% इत्यत्रेतिहासपुराणं पुष्पमिति ग्रन्थशेषः। %मनोमय% इति। आशुगतित्वाद्। पुरुषविधतां रूपयित्वा तदवयवविभागमाह %यजुरेव शिर% इत्यादि। %आदेशः% “आदित्यो वै ब्रह्म” इत्यादिको रहस्यविधिरूपो अंशविशेषः। %प्रतिष्ठेति।% पुच्छे हि सति लब्धप्रतिष्ठो भवति। %ब्रह्मयज्ञविधिप्रक्रम% इति। ब्रह्मयज्ञो यत्र वेदाध्ययनमेव विशिष्टयेतिकर्तव्यतया क्रियते। तत् क्रियमाणं यज्ञशब्दवाच्यम्। %त्वामग्नेपुष्करादि%ति। “त्वामग्ने पुष्करादध्यथर्वा निरमन्थत। मूर्ध्नो विश्वस्य वाघतः” इत्यग्निनिर्मथने मन्त्रः। अत्राथर्वशब्देनाथर्वविद् ब्रह्माभिहितः। हे अग्ने त्वां पुष्करादरणिषु शिरारूपादाकाशाद् अथर्वा अथर्वविद् ब्रह्मा निरमन्थत निर्मिथितवानुदपादयत्। अरणिस्पर्शनरूपव्यापारवत्त्वेन तत्कर्मणि तस्य मुख्यत्वात्। कथञ्च निरमन्थत? अधि आधिपत्येन युक्तः, ऋत्विगन्तराणामनुज्ञादानेन तस्य प्रशास्तृत्वात्। तदन्तरन्तु विश्वस्य मूर्ध्नो मूर्धानः प्रधानभूता वाघत ऋत्विजोऽग्निं निर्मथितवन्तः, होत्रादयः वाघत ऋत्विजः, `ऋत्विजो भरताः कुरवो वाघतः’ इति ऋत्विङ्नामसु पाठात्। अत्र ब्रह्मण ऋत्विक्त्वेऽपि मुख्यत्वेन पृथङ्निर्देशो `ब्राह्मणा आगता वशिष्ठाश्च’ इतिवत्। %श्रुतीरथर्वाङ्गिरसीरि%त्यस्यान्त्यमर्धम् `वाक्छस्त्रं ब्राह्मणस्य तेन हन्यादरीन् द्विजः’ इति। वागत्राभिचाररूपा विवक्षिता। अथर्वमन्त्रैराभिचारिकैः शत्रूनभिचरेदित्यर्थः। कुर्यात् प्रयुञ्जीत।
%अणोरप्यस्य विज्ञानादि%ति न केवलम्, अपि तु
न हायनै र्न पलितै र्न वित्तेन न बन्धुभिः।
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान्॥ इति।
`वर्षादिकृतज्यैष्ठ्यव्यतिरेकेण साङ्गवेदाभ्ययनबललब्धानूचानव्यपदेशो नोऽस्माकं महान् ज्यायान्’ इत्येवम् ऋषयो धर्ममर्यादां कृतवन्तः। यावदस्य पूर्वोक्तस्य ऋगादेः सम्बन्धिनोऽणोरपि स्वल्पस्यापि अर्थद्वारेण विज्ञानादपि यो लब्धानूचानव्यपदेशः सोऽपि नो महानिति ऋषयो धर्म चक्रिर इत्यर्थः।
%नैष्ठिको ब्रह्मचारी% यो ब्रह्मचर्येणैव शरीरं निष्ठाम् अन्तं नयति। %पञ्चाग्निः% सभ्यावसथ्याभ्यां सह त्रेतया। %वेदाधिकरण% इति। यत्र `वेदांश्चैके सन्निकर्षं पुरुषाख्या’ इति कठादिकृतत्वेन काठकादिसमाख्यावशात् कृतकत्वेन वेदानां पूर्वपक्षः कृतः, वेदांश्चैके सन्निकर्षं सन्निकृष्टकालभवं वाक्यजातं मन्यन्ते। यतः पुरुषैः काठकादिभिस्तस्य आख्येति,ततः सिद्धान्तितम् `आख्या प्रवचनात्’ इति। प्रवचननिमित्ताप्याख्या भवति न वेकल कर्तृनिमित्ता। यतः कठेन प्रकर्षेणाध्ययनमस्य कृतमतः काठकमित्यभिधीयते, “तेन प्रोक्तम्” इति प्रोक्तेऽपि तद्धितस्मरणात्। %सर्वशाखाधिकरणेऽपी%ति। सर्वशाखाधिकरणं यत्र प्रतिशाखं श्रूयमाणानि अग्निहोत्रादिकर्माणि किमन्यान्यानि आहोस्विद् एकमेव तत्कर्मेति चिन्त्यते। तत्र काठकं कालापकमित्याद्यभिधानाद् भेदः, क्वचिदग्नीषोमीय एकादशकपालः श्रूयते क्वचिद् द्वादशकपाल इत्यादिरूपभेदादिभ्यश्च भिन्नत्वमिति पूर्वपक्षमाशङ्क्य सर्वशाखास्वेकतया प्रत्यबिज्ञायमानत्वात् सर्वशाखापेक्षोत्पत्तिकं सर्वशाखाप्रत्ययमेकं कर्मेति व्यवस्थापितम्। %अधिकरणान्तर% इति। “सङ्ख्यायुक्तं क्रतोः प्रकरणात्” इत्यत्र। अत्र हि “एष वाव प्रथमो यज्ञानां यज्ज्योतिष्टोमः” इति वचनसमाश्रयणेन ज्योतिष्टोमस्य प्रथमयज्ञत्वं पूर्णपक्षे व्यवस्थाप्य सिद्धान्ते प्रथमप्रयोगाभिप्रायेण प्रथमयज्ञशब्दो निरूपितः `प्रथमं प्रयुज्यमानो यज्ञः प्रथमयज्ञः’ इति। अत्र प्रसङ्गेचेदमुक्तम् “न चैतदरित यज्ञस्यैष वाद इति। चतुर्ष्वपि वेदेषु न प्रथमयज्ञ इत्येवंसंज्ञकः कश्चिद् यज्ञोऽस्ति” इति।
%न त्रयीप्रत्ययमि%ति त्रयीप्रत्ययं त्रयीप्रतिपाद्यम्। %तत्सम्बद्धम्% त्रयीप्रत्ययसम्बद्धम्। %इष्टिपश्वि%ति। इष्ट्यः दर्शपूर्णमासाद्याः। पशवोऽनूबन्ध्याद्याः। %एकाहा% ज्योतिष्टोमादयः। %अहीना% अहर्गणद्विरात्रादयः। %सत्राणि% द्वादशाहादीनि। %त्रय्युपदिष्टेऽपि कर्मणि अथर्ववेदादि%ति। तस्माद् ब्रह्मा पुरस्ताद् होमसंस्थितदोमैर्यज्ञं परिगृह्णीयादित्यनारभ्य वाक्यमिष्टिपशुसोमादिष्वाथर्वणं पुरस्ताद्धोमं संस्थितहोमं च ब्रह्मणा क्रियमाणं दर्शयति, अथर्ववेद एव तयोर्होमयोराम्नानादिति। %वेदानुवाच कं वो होतारमि%त्यत्र कं किंज्ञमिति व्याक्येयम्, उत्तरे ऋग्विदमित्यादिश्रवणात्। वः युष्माकं मध्यात् किंज्ञं वृणोमीत्यर्थः। %पुरस्तादेवैषां यज्ञो रिच्यते% प्रथमत एव रिक्तो भवति। %यज्ञे यदूनमि%ति। ऊनमङ्गैरसम्पूर्णम्। %विरिष्टं% विशेषेण रिष्टं, हिंसितमसम्यक्कृतमन्त्रादिप्रयोगम्। %यातयामं% निर्वीर्यम्। %अथर्वणां% मन्त्राणाम्। %नर्ते भृग्वङ्गिरोविद्भ्य% इति। यावद् भृग्वङ्गिरोविद ऋत्विजो ब्र्हमाख्या न भवन्ति तावदन्यवेदविदि सत्यपि ब्रह्मणि सोमपानाधिकारो नास्तीत्यर्थः।
%योगसिद्ध्यधिकरणन्यायेनेति।% योगसिद्ध्यधिकरणे हि “एकस्मै वा कामायान्या इष्टय आह्रियन्ते, सर्वेभ्यो दर्शपूरणमासौ, एकस्मै वान्ये क्रतवः कामायाह्रियन्ते सर्वेभ्यो ज्येतिष्टोमः” इति श्रुतिवाक्यमुदाहृत्य चिन्तितम् `किं सकृत्प्रयोगे सर्वे कामा उत पर्यायेण इति’। तत्र सकृत्प्रयोगेणेति पूर्वं पक्षितम्, सर्वनिमित्तत्वेन श्रवणात्; कः खलु विशेषोऽयं भवत्ययं न भवतीति। तथा चाह “तत्र सर्वे अविशेषात्” इति। ततः सिद्धान्तितं “योगासिद्धिर्वार्थस्योत्पत्तियोगित्वात्” इति। अस्यार्थः, न वा सर्वे कामा युगपत्, पर्यायेण योगसिद्धिः कामसम्बद्धसिद्धिः। यदा यदा यः कामस्तदा तदा तस्य सिद्धिरित्यर्थः। अर्थस्य कामस्य युगपदुत्पत्तेरसम्भवाद्विरोधाच्च। न हि आयुष्कामना मरणकामनाद्याः सर्वा युगपद् उत्पत्तुमर्हन्ति, तथाविधानां विरुद्धानामिच्छानां युगपदुत्पादादर्शनात्।
%यज्ञाथर्वाणं वै काम्या इष्टयः% `चित्रया यजेत पशुकामः’ इत्याद्याः। यज्ञा अथर्वयज्ञा रहस्ययज्ञा इत्यर्थः। %न सर्वशब्दः सङ्कोचितो भवति।% अशेषवेदवृत्तेरेकपरिहारेण वृत्तिः सङ्कोचः। %पूर्वोत्तरब्राह्मणे% यत्र `ऋग्वेदः किं वेद’ इति पूर्वमभिधाय `हौत्रं वेद’ इत्युत्तरम्। %ब्रह्मीदने श्रूयत% इति। ब्रह्मौदनाख्ये चरौ, स हि ऋत्विगुद्देशेन क्रियते न देवतान्तरोद्धेशेन, `यद्ऋत्विजः प्राश्नन्तितद्ब्रह्मौदनत्वम्’ इति वचनाद् ऋत्विक्संस्कारार्थत्वं तस्य, न यागद्रव्यत्वम्; अतश्चतुःशरावनिर्वापेष्टौ हुत्वा ऋत्विज उद्देश्याः। %ब्रह्मणे त्वा प्राणाय जुष्टं निर्वपामि, ब्रह्मणे त्वा व्यानाय जुष्टं निर्वपामि,% ब्रह्मणे त्वापानाय जुष्टं निर्वपामि ब्रह्मणे त्वा समानाय जुष्टं निर्वपामीत्यभिधायाह `श्रुता या देवतास्तासामेवैतज्जुष्टं निर्वपति, ऋचो वै ब्रह्मणः प्राणाः, ऋचामेवैतज्जुष्टं निर्वपति; यजूषि वै ब्रह्मणो व्यानो, यजुषामेवैज्जुष्टं निर्वपति; सामानि वै ब्रह्मणोऽपानः, साम्नामेवैतज्जुष्टं निर्वपति; अथर्वाणो वै ब्रह्मणः समानः, अथर्वणामेवैतज्जुष्टं निर्वपति, इति। %ततश्चतुःशरावो भवती%त्याह। यतश्चमलं ब्रह्मणो वेदाः, वेदानां मूलम् ऋत्विजोऽतो यद् ऋत्विग्भ्यो दत्तं तद्वेदेभ्यो दत्तं भवतीत्यत आह–`चतुःशरावो भवति’ इति। %चत्वारो हीमे वेदास्तानेव भागिनः करोती%ति। स्तुतिरियम्, तस्य प्रतिवेदेकैकशरावापेक्षया यश्चतुःशराव उक्तः। चत्वारः शरावा ब्रीहीणामत्र निरूप्यन्ते ब्रीहिपूर्णाच्छकटादुद्ध्रियन्ते, जुष्टं सेवितम्, तदिद्देशेन निरुप्यते। %पृष्ठ्यस्य चतुर्थेऽहनीति%। द्वादशाहेन प्रजाकामं याजयेदिति। द्वादशाहमध्ये पृष्ठ्यःष़डह आम्नातः, पृष्ठ्यः पृष्ठ्याख्यस्तोत्रविशेषोपलक्षितः। तथा च द्वादशाहेऽहः क्लृप्तिः, प्रायणीयोऽतिरात्रः, पृष्ट्यः षडहः, त्रयश्छन्दोगा अविवाक्यमहरुदयनीयोऽतिरात्र इति। %आर्भवे पवमान% इति। तृतीयसवनभाविनि पवमानाख्ये स्तोत्रविशेषे। %चतुर्णिधनं% चत्वारि निधनानि गानभक्तिविशेषा यत्र। %चतूरात्रस्य% षडहसम्बन्धिनोऽनुष्ठितस्य। %धृत्यै% प्रतिष्ठायै। %चतुष्पदानुष्टुभा% चतुष्पादानुष्टुप्ठन्दोऽत्र प्रयुज्यते। यदत्र कर्मण्याथर्वणं भवति तद् %भैषज्येव%। यज्ञे तन्निर्वहणमेव करोति यतो %भेषजं% वा। %आथर्वणानी%ति। यागभैषजान्येतानि यदाथर्वणानि कर्माणीत्यर्थः। ननु “नर्ते भृग्वङ्गिरोविद्भ्यः सोमः पातव्यः” इत्यस्याथर्ववेदविदं ब्रह्माणं विना न सोमः पातव्य इत्यर्थो व्याख्यातो, भृग्वङ्गिरोरूपाणां मन्त्राणामथर्ववेद एव पाठादिति। तच्चायुक्तम्, ऋग्वेदे यजुर्वेदे च भृग्वङ्गिरा नाम कश्चिद् ऋषिस्तेन दृष्टानां मन्त्राणां दर्शनादिति। “नेतदेवम्, `ऋग् यजुः सामान्युपक्रानत्तेजांस्यासंस्तत्र महर्षयः परिवेदयांचक्रुः” इत्यारभ्य `नर्तेभृग्वङ्गिरोविद्भ्यः सोमः पातव्यः’ इत्यनेनाभिधानात्; गोबलीवर्दन्यायेन भृग्वङ्गिरोमन्त्रा अथर्वमन्त्रेष्वेव वर्तन्ते इत्याक्षेपप्रतिसमाधाने वक्तव्ये सतीत्थं किमिति नोक्तम्। तथा “यदेतत् त्रय्यै विद्यायै शुक्रम्” इत्यस्य यथाश्रुतचतुर्थ्यन्तस्य व्याख्यानान्तरमपि कुर्वन्ति। शुक्रं सारभूतोऽयमथर्ववेदो ब्रह्मवेदस्तेन ब्रह्मत्वं कुर्यात्। किमर्थम्? “त्रय्यै त्रयीगतभ्रेषनिबर्हणार्थम्” इत्याद्यन्यदपि बहुवक्तव्यमत्रास्ति, तत्कथं ग्रन्थकृता नोक्तमित्याशङ्क्याह %एतच्च शास्त्रान्तरे विस्तरेणेति।%
%वेदविरुद्धमित्यनादृतम्।% कल्पसूत्राणां वेदविरोधे दुर्बलत्वान्मीमांसकैश्चाविरोधेऽपि तेषां प्रामाण्यानभ्युपगमात्। %अनारभ्यवादपक्ष% इति। `अनारभ्याधीतानां प्रकृतिगामित्वम्’ इति यद्यपि प्रकृतौ निविशते तथापि प्राङ्नयेनायर्वविदो ब्रह्मत्वप्रतिपादनादथर्वविहितेन कर्मणा सम्पर्को दुष्परिहर इति नियतकर्मैकदेशविषयतया तद् व्याख्येयमिति तात्पर्यम्।
%तेषाम् ऋगि%ति। अर्थवशेन तथा `अग्निमोले पुरोहितम्’ इति। अत्र क्रियाकारकलक्षणार्थपरिसमाप्तेः पादव्यवस्या। ननु तर्हि “अग्निः पूर्वेभिर्ऋषिभिः” इत्यत्र क्रियापदाश्रवणात् पादव्यबस्था न प्राप्नोति। उक्तमत्र भाष्यकृतैवार्थग्रहणम् अत्रानुवादो वृत्तवशेनापि भवतीति। %गीतिषु सामाख्ये%ति। यस्याम् ऋचि सामोत्पन्नं सा शुद्धा पठ्यमाना न सामशब्दव्यपदेशं लभते। तच्च साम ऋगन्तरेऽपि गीत तच्छब्देन व्यपदिश्यते। तथाहि रथन्तरमनेन श्लोकेन गीतमिति व्यवहारस्तदेवमन्वयव्यतिरेकाभ्यां गीतेरेव सामत्वं न ऋग्विशेषस्य %शेषे यजुरि%ति या न गीतिर्न च ऋक् तत्र `यजुः’ शब्दः।
%मेदसा तर्पयेदि%ति। योऽथर्वाङ्गिरसः पठति तेन देवा मेदसा पितरश्च मधुसर्पिर्भ्यां तर्पिता भवन्तीत्यर्थः।
सम्प्रदायो गुरुमुखाद् विशिष्टेन रूपेण ग्रहणम्, तत्प्रयोजनं यस्याविध्नार्थस्य `अस्यां तिथावध्येयम्’ `अस्यां न’ इत्येवंरूपस्य धर्मजातस्य, तत् %साम्प्रदायिकम्।%
न्यायमञ्जरी :–
%वेदानामुत्तराधरतायां पृष्टेऽथर्ववेदस्यैव प्राथम्यम्%
यदि पुनरौत्तराधर्येण विना न परितुष्यते तदथर्ववेद एव प्रथमः, ततः परमस्य मन्त्रस्य ब्रह्मणः प्रणवस्याभिव्यक्तेः। तथा च श्रुतिः, `ब्रह्म ह वा इदमग्र आसीदि’त्युपक्रम्य `आथर्वणंवेदमभ्यश्राम्यदभ्यतपत् समतपत् तस्मात् तथा श्रान्तात् सन्तप्तादोमिति मन एवोर्ध्वमक्षरमुदक्रामदि’त्यादि. तथा महाव्याहृतीनां शाखान्तरप्रसिद्धानामप्रसिद्धानाञ्च बृहदित्यादीनां तत् एवोत्थानम्। अथर्ववेदकृतोपनयनसंस्कारस्य वेदान्तराध्ययनमविरुद्धम्। अन्यवेदोपनीयमानस्य तु नाथर्वणोपनयनसंस्कारमप्रापितस्याथर्ववेदाध्ययनेऽधिकारः। तदुक्तम्, `भृग्वङ्गिरोविदा संस्कृतोऽन्यान् वेदानधीयीत नान्यत्र संस्कृतो भृग्वङ्गिरसोऽधीते’ति। त्रय्येकशरणैरपि चैतदवश्याश्रयणीयम् अथर्ववेदविहित स्वकर्मभ्रेषे प्रायश्चित्तमाचरद्भिरित्यथर्ववेद एव ज्यायान्।
यत्तु मानवं वाक्यमुदाहृतं `षट्त्रिशदाब्दिर्कं’ तत् त्रिवेदाध्ययनविषयम्। वैकल्पिकं `वेदानधीत्य वेदौ वा वेदं वापि यथाक्रममि’ति। एकस्मिन् वेदे द्वादशवर्षाणि व्रतम्, द्वयोश्चतुर्विशतिः, त्रयाणां षट्त्रिंशदिति। यस्तु चतुरो वेदानधीते तस्याष्टचत्वारिंशद्वर्षं वेदब्रह्मचर्यमुपासीतेति स्मृत्यन्तरमस्ति, न च तदार्यैर्नादृतम्। तत्र त्रिवेदाध्यायिनामेव प्रतिवेदं षोडशवर्षाणि व्रतं चरेदिति व्याख्यानमसङ्गतम्, उपक्रमविरोधाद् अनुपयोगाच्च। तेन वेदान्तराध्ययनकृत एवायं विकल्पविधिर्नं द्वादशषोडशवर्षापेक्ष इति। अनादरोऽप्यस्यां स्मृतौ `कृष्णकेशो अग्नीनादधोते’ति श्रुतिविरोधकृतो नाथर्ववेदाध्ययननिषेधगर्भ इति। त्रैवेदिकव्रतब्रह्मचर्यस्मृतिरपि चेयम् अथर्ववेदाध्ययनपर्युदासमेव विषयीकरोति न च वेदान्तराध्ययननिषेधमिति अत्रापि न विशेषहेतुरस्ति। त्रिषु वेदेष्विदं व्रतं न पुनरेष्वेव त्रिष्विति नियामकं वचनमस्ति।
यदपिश्राद्धप्रकरणे `यत्नेन भोजयेदि’ति त्रिवेदपारगपरिकीर्त्तनं तद् वेदपारगमिति शाखान्तगमिति समाप्तिगमिति विशेषणपदपर्यालोचनया ऋग्वेदाद्येकवेदाध्यायिनामनधिकारमेव श्राद्धे सूचयति। अथर्वणस्तु अथर्वशिरोऽध्ययनमात्रलब्धपङ्क्तिपावनभावस्यैकदेशपाठिनोऽपि तत्राधिकार उपपद्यते। दर्शितञ्चाथर्वशिरोऽध्ययनमात्रादपि पङ्क्तिपावनत्वाम्, पङ्क्तिपावनश्च श्राद्धभोजनेऽनधिकृत इति विप्रतिषिद्धम्।
यत्तु जयेष्ठसामगः, त्रिमधुः, त्रिसुपर्णिक इति वेदान्तरैकदेशाध्यायिनामपि श्राद्धभोजनाभ्यनुज्ञानं तदनुकल्पमिव भाति, प्रथमकल्पेन समग्रवेदाध्ययनोपदेशादिति, तस्मान्नाथर्वनिषेधार्थेतद्वाक्यमिति। तदेवमवस्थिते यद् वार्तिककारेण भयादिव द्वेषादिव मोहादिव सानुकम्पमिव वेदमुच्यते `यदि यज्ञोपयोगित्वमि’त्यादि तदहृदयङ्गमम्, अथर्ववेदे पूर्वोत्तरब्राह्मणे विस्पष्टमिष्टिपश्लेकाहाहीनसत्राणामुपदेशात्, वेदान्तरेषु तच्चोदनाभावात्। किमथर्ववेदे तच्चोदनाया दर्शनात् किं तदुपदेशेनेति? न च जाने कस्यैष पर्यनुयोगः किं नित्यस्य वेदस्य किं वा तत्प्रणेतुरीश्वरस्येति द्वावपि हि तावपर्यनुयोज्यावित्युक्तम्। अर्थान्तरशान्तिपुष्ट्यभिचारादि वेदान्तरेष्वपि न न दृश्यते, श्येनो हि सामवेद उत्पन्न अद्भुतशान्त्यादयश्च यजुर्वेद इति तदपि समानम्। एकब्रह्मर्त्विगाश्रिता इत्येतदपि न सत्यम्, यत एवं तत्र पठ्यते 1द्वे यज्ञवृत्ती भवतो वैहारिकी च पाकयज्ञवृत्तिश्चेति। तत्र वैहारिकी नामानेकर्त्विगाश्रितानामेकक्रियाणामुपदेशः श्रुतौ, एकब्रह्मर्त्विगाश्रितास्तु शान्त्यादिक्रियाः स्मृतौ इत्यभूमिज्ञोक्तिरेषा। त्रग्र्येवात्मीयगोचरा इति एतदपि परममाध्यस्थ्यम्। न ह्यात्मीयः परकीयो वा कश्चिदस्ति वेदार्थः, सर्वशाखाप्रत्ययत्वादेकस्य कर्मणः।
न्यायमञ्जरीग्रन्थिव्याख्या :–
%ब्रह्म ह वा% इति। एतद्ब्राह्मणवाक्यमध्ये “सोऽपः स्पृष्ट्वा तासु स्वां छायामपश्यत्,तां चेक्षमामस्य स्वं रेतोऽस्कन्दत् तदप्सु प्रत्यतिष्ठत्” इति प्रक्रम्य `ताभ्याः श्रान्ताभ्यः तप्ताभ्यः संतप्ताभ्यो यद् रेत आसीत् तदभृज्यत, तस्माद् भृगुः समभवत्, तत् भृगोर्भृगुत्वम्” इत्युक्त्वा “तदथर्वाभवत्” इति भृगोरेवाथर्वतामभिधायाह तमाथर्वणम्’ इति। %अब्यश्राम्यदभ्यतपत् समतपदि%ति। गायत्र्यादिच्छन्दसां पुनः पुनः प्रयोगात् तदभिमानिनीनां देवतानां पीडातः श्रमः, गायत्र्याद्यभिमानिनीनां च देवतानां श्रमादथर्ववेदाभिमानिनीनामपि देवतानां श्रमः, गायत्र्यादिदेवतासम्बन्धात् तासाम्; अतोऽनेन द्वारेणाथर्वाणमभ्यश्राम्यदखेदयत्। अन्तर्भूतण्यर्थाः प्रयोगा अमी; अभ्यतपत् विशिष्टफलनिष्पत्तये समालोचयत् प्राबर्त्तयद्वा। श्रमजननादेव च समतपत् समतापयद् उत्पन्नसन्तापमकरोत्। %तस्मात् तथाश्रान्तादत% एव तप्तात् संतप्तात्। यथा स्बन्धिपीडया पीडीताः सन्तप्ता मनस ऊर्ध्वमुत्क्रान्तिं कुर्वते तथा तस्मादक्षरमूर्ध्वमुत्क्रान्तमित्यर्थः। यथा च लोके तस्करैः पीड्यमाने बालकादौ तत्सम्बन्धिनोऽतिस्नेहात् प्राणोत्क्रान्तिं कुर्वन्ति तस्करेभ्यश्च सारभूतं सर्वस्वं प्रयच्छन्ति तथाथर्ववेदाद् अप्रियाद् भीत्या तथाविधावस्थाप्राप्तात् सारभूताक्षरनिःसृतिरिति तात्पर्यम्। %तथा महाव्याहृतीनामि%ति। तथाहि “प्रजापतिर्वा इदमग्र आसीत्” इत्युप्रक्रम्याह “स इमांरत्रीन् वेदानभितताप। तेभ्यस्तप्तेभ्यस्त्रीणि शुक्राण्यजायन्त भूरिति ऋग्वेदेनैव हौत्रमकुर्वत यजुर्वेदेनाध्वर्यवं सामवेदेनौद्गात्रं यदेव त्रय्यै विद्यायै शुक्रं तेन ब्रह्मत्वम्” इति पृथग् ब्रह्मवेदप्रतिपादकेन शुक्रशब्देन व्याहृतीनां निर्देशादथर्ववेदादुत्थानमिति दर्शयति। तथा च “मन एवाक्षरमूर्ध्वमुदागात्” इत्यस्यावसान आह “स य इच्छेत् सर्वैरेवाथर्वभिश्चाथर्वणैश्च कुर्वीतेत्येतयैव तं महाव्याहृत्या कुर्वीत” इत्यादि। अनेन प्रागुक्तोत्पत्तिकानामाथर्वणत्वं दर्शितम्। %बृहदीत्यादिनां% बृहज्जनः तपः महः सत्यमित्यासाम्। %स्वकर्मब्रेषे% प्रायश्चित्तमिति। तथाहि `यदि ऋक्त आर्त्तिमार्च्छेद् भूरित्येव जुहुयात्; यदि यजुष्टः भुव इत्येव; यदि सामतः स्वर् इत्येवेत्यथर्वविहितं प्रायश्चित्तम्।
%न च तदार्यैर्नादृतमि%त्यनेन मीमांसकैर्यदस्याप्रामाण्यमापादितं तदाशङ्कते। %उपक्रमविरोधात्।% सामान्येन वेदब्रह्मचर्यमिति सर्ववेदविषयत्वेनोपक्रमात्। %तेन वेदान्तराध्ययनकृत% इति। योऽयं `षट्त्रिंशदाब्दिकम्’ इत्यस्य `अष्टाचत्वारिंशतं वर्षाणि’ इत्यनेन विकल्पः स वेदत्रयकृते द्वादशकत्रये सति चतुर्थे द्वादशकेऽयर्ववेदापेक्षया निर्दिष्टे तावत्सङ्ख्यासद्भावादिति स्थितः, न पुनः प्रतिवेद द्वादश षोडश वा वर्षाणीत्येवम्। %अनादरोऽप्यस्यामि%ति। अष्टचत्वारिंशतं वर्षाणि ब्रह्मचर्ये कृते दारसङ्ग्रहापत्योत्पादनादावन्यो बहुकालो यात्यतः कथं कृष्णकेशतेति विरोधः। %अथर्ववेदाध्ययनपर्युदासमेवे%ति। अथर्ववेदाध्ययनपर्युदासमथर्ववेदादन्येषु वेदेष्वेवं व्रतं चरणीयम्, न पुनरथर्ववेदः सर्वथैव नाध्येतव्य इति तात्पर्यम्।
%दर्शितञ्चारथर्वशिरोऽध्ययने%ति। यदुक्तम्
त्रिनाचिकेतो विरजाश्छन्दोगो ज्येष्ठसामगः।
अथर्वशिरसोऽध्येता चत्वारः पङ्क्तिपावानाः॥ इति॥
%यत्तु ज्येष्ठसामग% इति तदुक्तम्
अग्रयाः सर्वेषु वेदेषु श्रोत्रियो ब्रह्मवित्तमः।
वेदार्थविज्ज्येष्ठसामा त्रिमधुरित्रसुपर्णकः॥ इति॥
ज्येष्ठसाम-त्रिमधु-त्रिसुपर्णानि व्रतानि तदनुष्ठायिनस्तच्छब्दैरुक्ताः। %तदनुकल्पमिति%।
एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः।
अनुकल्पस्त्वयं यज्ञे सद्भिरनुष्ठितः॥
इत्यभिधाय ज्येष्ठसामगादयोऽनुकल्परूपतया दर्सिताः। %वैहारिकी%ति। विहार आहवनीयादिरग्निस्त्रेता तत्र भवा वैहारिकी दर्शपूर्णंमासादिका। %पाकयज्ञ% अष्टकादयो गृह्याग्निनिर्वर्त्त्याः। %वृत्ती% प्रकारौ। %इत्यभूमिज्ञोक्तिरेषा।% उभयासामपि तत्रैवोपदेशदर्शनादिति।
न्यायमञ्जरी :–
%वेदचतुष्टयेषु मध्ये कस्याप्येकस्य ततः पृथक् करणं न शिष्टसम्मतम्%
तस्मात् समानयोगक्षेमत्वात् सर्ववेदानामेकस्य ततः पृथक् करणं वेदनिन्दाप्रायश्चित्तनिर्भयधियामेव चेतसि परिस्फुरति न साधूनामित्युपरम्यते।
इति तुल्यप्रभावर्द्धिवर्धमानोचितस्तवाः।
विविधाभिमतस्फीतफलसम्पादनोद्यताः॥
चत्वारोऽपि पराक्षेपपरिहारस्थिरस्थितिम्।
भजन्ति वेदाः प्रामाण्यलक्ष्मीं हरिभुजा इव॥
चतुःस्कन्धोपेतः प्रथितपृथगर्थैरवयवैः
कृतान्योन्यश्लेषैरुपचितवपुर्वेदविटपः।
प्रतिस्कन्धं शाखाफलकुसुमसन्दर्भसुभगाः
प्रकाशन्ते तस्य द्विजमुखनिपीतोत्तमरसाः॥
न्यायमञ्जरीग्रन्थिकाव्याख्या :–
%तुल्यप्रबावर्द्धी%ति। तुल्यप्रभावर्द्धि माहात्म्यसम्पत्त्या प्रत्यहं वर्धमानः अधिकीभवन् उचितो योग्यः स्तवो येषां भुजानां वेदानाञ्च। भुजपक्षे भगवद्भुजानां कर्मणि सव्येतराणां विशेषाभावात् तुल्यप्रभावर्द्धिंत्वम्। भुजपक्षे विबुधा देवा वेदपक्षे विद्वांसस्तेषामुपायप्रदर्शनद्वारेण फलसम्पादकत्वमु। %चतुःस्कन्धोपेत% इति। वेदपक्षेऽवयवैर्विध्यर्थवादमन्त्रनामधेयादिवाच्यैः पृथगर्थैः प्रवर्तनास्ततिप्रयीगप्रदर्शनादिप्रतिपादकैरत एव वृपरस्परसम्बद्धैः। क्षपक्षेऽवयवैर्मूलत्वक्पत्रादिभिः, तेऽपि पृथगर्थाः पृथक्प्रयोजनाः। तथाहि कस्यचिद् वृक्षस्य मूलादयो भिन्नकार्यकर्तृत्वेनोपलभ्यन्ते ते च परस्परसम्बद्धा एव भवन्ति। शाखापक्षे कुमुमफले, वाक्यवाक्यार्यौं वेदपक्षे। वेदपक्षे द्विजैर्ब्राह्मणैः पीत आस्वादित उत्तमो रस उपनिषदर्थो यासाम्, वृक्षपक्षे द्विजैः पक्षिभिः।
न्यायमञ्जरी :–
%तन्त्रागमादीनामपि प्रामाण्ये एषैव रीतिः%
आह
किमेतदित्थं प्रामाण्यं वेदानामेव साध्यते।
तन्त्रागमान्तराणां वा सर्वेषामियमेव दिक्॥
किञ्चातः
आद्ये पक्षे परेष्वेवं ब्रुवाणेषु किमुत्तरम्।
उत्तरत्र तु मिथ्याः स्युः सर्वेऽन्योन्यविरोधिनः॥
कानि पुनरागमान्तराणि चेतसि निधायैवं वत्सः पृच्छति? पुराणेतिहासधर्मशास्त्राणि वा, शैवपाशुपतपञ्चरात्रबौद्धार्हतप्रमृतीनि वा। तत्र शैवादानि तावन्निरूपयिष्याम। मन्वादिप्रणीतानि धर्मशास्त्राणि वेदवत्तदर्थानुप्रविष्टविशिष्टकर्मोपदेशीनि प्रमाणमेव। कस्तेषु विचारः? तेषान्तु प्रमाणत्वं वेदमूलत्वेनैव केचिदाचक्षते। तथा हि न तावन्मन्वादिदेशना भ्रान्तिमूलाः सम्भाव्यन्ते, बाधकाभावात्, अद्ययावदपरिम्लानादरैर्वेदविद्भिस्तदर्थानुष्ठानात्। नाप्यनुभवमूलाः प्रत्यक्षस्य त्रिकालानवच्छिन्नकार्यरूपधर्मपरिच्छेददशासामर्थ्यासम्भवात्। न च पुरुषान्तरोपदेशमूलाः पुरुषान्तरस्यापि तदवगमे प्रमाणाभावात्। भावे वा मनुना किमपराद्धम्? असति हि मूलप्रमाणे पुरुषवचनपरम्परायामेव कल्प्यमानायामन्यपरम्परास्मरणतुल्यत्वं दुनिर्वारम्। न च विप्रलम्भका अत्रभवन्तो मन्वादय एवमुपदिशेयुरिति युक्ता कल्पना, बाधकाभावात् साधुजनपरिग्रहाच्चेत्युक्तम्। तस्मात् पारिशेष्याद् वेदाख्यकारणमूला एव भवितुमर्हन्ति मन्वादिदेशनाः। तद्ध्यनुगुणं समर्थञ्च कारणमिति। तदाह भट्टः
भ्रान्तेरनुभवाद् वापि पुंवाक्याद् विप्रलम्भकात्।
दृष्टानुगुण्यसामर्थ्याच्चोदनैव लघोयसीति॥
तत्र केचित् परिदृश्यमानमन्त्रार्थवादवलोन्नीतविधिमूलत्वं मन्यन्ते। अन्ये विप्रकीर्णशाखामूलत्वम्।
अपरे पुनरुत्सन्नशाखामूलत्वमिति। अनेन च विशेषविवरणेन न नः प्रयोजनम्। सर्वंथा यथोपपत्ति बेद एव तत्र मूलं प्रकल्प्यतां न मूलान्तरम्, अप्रमाणकत्वात्, वेदमूत्वपक्षेऽपि चेयमखिलजगद्विदिता स्मृतिसमाख्यानुगृहीता भविष्यति। प्रत्यक्षमूलत्वे हि वेदवदत्रापि कः स्मृतिशब्दार्थः? किञ्च वेदमूलत्वे सति स्मृतेः श्रुतिविरोधे सति तदतुल्यकक्षत्वाद् बाध्यत्वं सुवचं भवति। क्लृप्तमेकत्रमूलमितरत्र कल्प्यम्। यावदेव भवान् स्मृतेः श्रुतिं कल्पयितुं व्यवस्यति तावदेतद्विरोधिनी प्रत्यक्षश्रुता श्रुतिरवतरति हृदयपथमिति कथं तदा मूलकल्पनायै स्मृतिः प्रभवेत्? तदाह
सोऽयमाभाणको लोके यदश्वेन हृतं पुरा।
तत्पस्चाद् गर्दभः प्राप्तुं केनोपायेन शक्नुयादिति॥
अपर आह, विकल्प एवात्र युक्तः। किल द्विविधो वेदः श्रूयमाणोऽनुमीयमानश्च। श्रयमाणश्च श्रुतिरित्युच्यते, अनुमीयमानश्च स्मृतिरिति। द्वावपि चैतावनादी इति किं केन बाध्यते? व्क्ताव्यक्तो हि वेद एवासौ। अत एव न मन्त्रार्थवादादिमूलकत्वकल्पनं युक्तम्, स्मर्यमाणस्य वेदस्यानादित्वात्।
नन्वेवं वेदमूलत्वेन प्रामाण्ये वर्ण्यमाने बाह्यस्मृतीनामपि प्रामाण्यं वदन्तः प्रावादुकाः कथं प्रतिवक्तव्याः? उच्यते। प्रत्युक्ता एव ते तपस्विनः। उक्तं हि भगवता जैमिनिना अपि वा कर्तृसामान्यात् प्रमाणमनुमानं स्यादिति’। कर्तृसामान्यादिति कोऽर्थः? एकाधिकारावगमादिति। य एव वेदार्थानुष्ठानेऽधिकृताः कर्त्तारस्त एव स्मृत्यर्थानुष्ठाने, आचमनादिस्मार्तपदार्थसंवलितवेदिस्तरणादिवैदिकपदार्थप्रयोगदर्शनात्। न त्वेवमधिकारावगमो बाह्यस्मृतिषु विद्यते। तस्मान्मन्वादिस्मृतय एव प्रमाणं न बाह्यस्मृतयः।
ननु मन्वादिस्मृतयोऽपि वेदमूलत्वात् प्रमाणं नान्यत इति। अत्रोच्यते, तदेतद्वेदमूलतयाप्रामाण्यम्, योगिप्रत्यक्षं धर्मग्राहकममृष्यमाणाः किलाचक्षते भवन्तः, एतञ्च न युक्तम्। यथाहि भगवानीश्वरः सर्वस्य कर्त्ता सर्वस्येशिता सर्वदर्शी सर्वानुकम्पी च वेदानां प्रणेता समर्थितस्तथा योगिप्रत्यक्षमपि धर्मग्रहणे निपुणमस्मदादिप्रत्यक्षविलक्षणं प्रत्यक्षलक्षणे समर्थितमेव। तस्मात् तन्मूला एव मन्वादिदेशना भवन्तु।
यत्तु त्रिकालानवच्छिन्नः कथं प्रत्यक्षगम्यो धर्मः स्यादिति चोदनैव तत्र प्रमाणमुच्यते, प्रतिविहितं तत्। ईश्वरप्रत्यक्षं यथागिनिहोत्रादेर्धर्मत्वस्य ग्राहकमेवमष्टकादियागे तस्य ग्राहकं मन्त्रादिप्रत्यक्षं भविष्यतीति किमत्र त्रिकालानवच्छेदेन तदवच्छेदेन वा कृत्यम्? यद्येवम्, अष्टकादिकर्मणां धर्मत्वाग्राहित्वादसर्वज्ञ ईश्वरः स्यात्? ज्ञात्वा वानुपदिशन्नकारुणिको भवेत्? नैष दोषः, सर्वं जानात्येव भगवान् किञ्चित् स्वयमुपदिशति किञ्चित् परानुपदेशयति। ते हि तस्यानुग्राह्या भगवतः। तेषाञ्च तदनुग्रहकृतैव तथाविधज्ञानप्राप्तिः। मन्वादीनां प्रत्यक्षो धऱ्म इति वेदेऽपि पठ्यते। साक्षात्कृतधर्माण ऋषयो बभुवुस्ते परेभ्योऽसाक्षात्कृतधर्मभ्य उपदेशेन मन्त्रान् संप्रादुरिति वेदेऽपि पठ्यते।
नन्वेव प्रत्यक्षमूलत्वाविशेषाच्छ्रुतिस्मृत्योर्विरोधे विकल्पः प्राप्नोति बृहद्रथन्तरविध्योरिव, न बाध्यबाधकभावः. न हीश्वरप्रत्यक्षस्य योगिप्रत्यक्षस्य च प्रामाण्ये कश्चिद्विशेषः। नैसर्गिकाहार्यत्वकृतस्तु भविष्यति? किं तेन? उच्यते। भवतु विकल्पः, को दोषः? वेदमूलत्ववादिभिरपि कश्चिद्विकल्पो व्याख्यात एव। विषयविभागेन वा विकल्पो व्याख्यास्यते। न च श्रुतिस्मृतिविरोधोदाहरणं किञ्चिदस्तीति स्वाध्यायाभियुक्ताः। तस्मादाप्तप्रत्यक्षमूलत्वेन वेदानामिव धर्मशास्त्राणां हि पञ्चमं वेदत्वमाहुः। उक्तञ्च
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्।
विभेत्यल्पश्रुताद् वेदो मामयं प्रतरिष्यति॥ इति।
अथ वा किमस्माकं दुरभिनिवेशेन। वेदमूलत्वात् स्मृतीनां स्मृतिवत् पुराणानामपि भवतु प्रामाण्यम्। सर्वथा तावद् वेदाश्चत्वारः पुराणं स्मृतिरिति षडिमानि विद्यास्थानानि साक्षात्पुरुषार्थसाधनोपदेशीनि। व्याकरणादीनि षडङ्गानि अङ्गत्वेनैव तदुपयोगीनि न साक्षाद् धर्मोपदेशीनि। कल्पसूत्रेष्वपि विक्षिप्तकर्मक्रमनियमसंग्रहमात्रं नापूर्वोपदेशः। मीमांसा वेदवाक्यार्थविचारात्मिका। वेदप्रामाण्यनिश्चय हेतुश्च न्यायविस्तर इत्यामुख एवोक्तम्। तदिमानि चतुर्दशविद्यास्थानानि प्रमाणम्, कानिचित् साक्षादुपदेशीनि कानिचित् तदुपयोगीनि इति सिद्धम्।
न्यायमञ्जरीग्रन्थिव्याख्या :–
%परेष्वेवं ब्रुवाणेषु।% यथा भवद्भिर्वेदानां प्रामाण्यं साध्यत ईश्वरप्रणीतत्वेन तन्त्रागमान्तराणामपि तथैव प्रतिपादयत्सु।
%तदर्थानुप्रविष्टे%ति। वेदार्थेऽनुष्ठेयेऽनुप्रविष्टानि `आचान्तेन कर्तव्यम्’ `शुचिना कर्तव्यम्’ इत्यादीनि यानि शौचाचमनादीनि कर्माणि। %अन्धपरम्परास्मरणतुल्यत्वमि%ति यथान्धः रूपविशेषोपलम्भं प्रति पृष्टोऽन्धान्तरोक्तं स्मृत्वा कथयति `तेन भमैवमाख्यातम्’ इति।
%भ्रान्तेरनुभवाद्वे%ति। एभ्यः सकाशान्मलत्वेनाश्रीयमाणा चोदनैव लघीयसी कल्पनारहिता। %दृष्टानुगुण्यसामर्थ्यादि%त्यत्र दृष्टानुगुण्यसाध्यत्वादिति पाठान्तरमन्ये वदन्ति, व्याचक्षते च दृष्टानुगुणं साध्यं यस्याः सा दृष्टानुगुण्यसाध्या तद्भावस्तत्त्वम्। यदेतद् दृष्टं वेदविदनुष्ठानं तदानुगुण्यं चोदनामूलत्वे सति साध्यं भवतिसिद्ध्यतीत्यर्थः।
%परिदृश्यमानमन्त्रार्थे%ति। `यां जना अभिनन्दन्ति’ इति मनत्रार्थवादात् “अष्टकाः कर्तव्याः” इति स्मृतेः; “धन्वन्निव प्रपा असि त्वमग्ने” इत्यतः “प्रपाः प्रवर्तयितव्याः” इत्यस्याः स्मृतेरुत्थानम्। %विप्रकीर्णशाखामूलत्वमि%ति। विप्रकीर्णा याः काश्चित् क्वचिदेव देशे पठ्यन्ते न सर्वाः सर्वत्र अतस्तदर्थस्यैकत्र ढौकयितुमशक्यत्वात् स्मृत्युपनिबन्धस्तदर्थसंकलनामित्तकः।
%उत्सन्नशाखे%ति। याः शाखा अन्यैः कैश्चिन्न पठ्यन्ते ता एव तु स्मृतिकाराः पठन्ति, तैरन्याख्यात्रभावेनोत्सादमाशङ्कमानैस्तदर्थं ग्रन्थोपनिबन्धः कृतः।
%आचमनादिस्मार्तपदार्थे%ति। `आचान्तेन कर्तव्यम्’ `शुचिना कर्तव्यम्’ इति स्मार्त्तपदार्थमिश्राणां वेदिस्तरणादीनां दर्शनात्।
%उपदेन मन्त्रान् संप्रादुः।% उपदेशेन शिष्योपाध्यायिकया अपरेभ्यः अवरकालीनेभ्यः शक्तिहीनेभ्यः सन्त्रान् ग्रन्थतोऽर्थतश्च संप्रादुः संप्रत्तवन्तः। अर्थतश्च मन्त्राणां ज्ञानाद् धर्मोऽपि ज्ञातो भवति, कर्मणां विशिष्टफलप्रदत्वस्य मन्त्रैः प्रकाशनादिति।
%बृहद्रथन्तरविध्योरिव% `वृहत्पृष्ठं भवति’ `रथन्तरं पृष्ठं भवति’ इत्यनयोः। %वेदमूलत्ववादिभिरपि कैश्चिद्विकल्पो व्याख्यात एवे%ति। अयं तेषामाशयः किल भवद्भिः प्रत्यक्षयाश्रुत्यानुमानिकी श्रुतिर्बाध्यत इत्यभिधीयते। तत्र ब्रूमः सा श्रुतिर्मन्वादीनां प्रत्यक्षा अप्रत्यक्षा वा? न तावदप्रत्यक्षा, मन्वादीनामाप्तत्वहानेः एवञ्चातिविरोधेऽप्यप्रामाण्यप्रसक्तिः। अथ प्रत्यक्षा, तदानीमिदानीन्तनप्रत्यक्षत्वं क्वोपयुज्यते तेषां; प्रत्यक्षत्वेन तस्याः प्रामाण्यसिद्धेः प्रामाण्यञ्चेद् बृहद्रयन्तरस्रुत्योरिव विरोधे विकल्पः केन वार्यत इत्यादि। %विषयविभागेन वा विकल्पो व्याख्यास्यत% इति यथा
प्राजापत्यान्तु कृत्वेष्टिं सर्ववेदसदक्षिणाम्।
आत्मन्यग्नीन् समारोप्यब्राह्मणः प्रव्रजेद् गृहात्॥
इति सप्तमाद्ये प्राभाकरटीकातात्पर्यम्।
[(1)ननु{1 एतच्चिह्नान्तर्गतं सर्वमस्पष्टार्थकम्।} यथाकार्यमुपदेश इति अयमापतत् सत्रमित्यनेन सह विरोधे विषयविभागो दर्शितः। यः परिपक्वकषायः विगता……रूपाच्चोदकात् प्राप्तिः सा हि चोदयत्याक्षिपति पदार्थानुपकारिसिद्ध्यधिताथिं त्वः तं प्रति जागमयं वाद इति। %न च श्रुतिस्मृतिविरोधोदाहरणमि%ति। `प्राजापत्यं शतकृष्णलं चरु निर्वपेदायुध्कामः’ इत्यादौ कार्यस्य कृष्णलताप्रतिपादकानि तानि परस्परविरुद्धश्रुत्युदाहरणान्येवेति भट्ट आचष्टे। तथा……लक्षणस्य तत्रोपकारस्य दर्शनान्नियतपरिमाणा हि हेमकनुस्मृतिरिति भाष्यकृतोदाहृतम्, अनयोश्च विरोधे हि सर्वा वेष्टितार……र्मेत्यादिबाधाप्रकरणारम्भवैफल्यं स्वरसत एवाप्राप्तत्वात्; साङ्ख्यायने ब्राह्मण एतत् पठ्यत इति हि स आह एवमन्योदाहरणेष्वपि। अत एव……नुचोदको येन येनानार्थीं तं तमेवाक्षेप्स्यति। किमिदमुच्यते सोत्प्रासमाह। सदाचारस्याप्यनिबद्धस्य विवाहे कङ्कणबन्धनादेः। विक्षिप्त……यागानामुपदेशेनैव धर्मविधानमिति न `प्रकृतिवद् विकृतिः कर्तव्या इति।’]
न्यायमञ्जरी :–
%शैवाद्यागमानामप्यनर्यैव रीत्या प्रामाण्यम्%
यानि पुनरागमान्तराणि परिदृश्यन्ते तान्यपि द्विविधानि। कानिचित् सर्वात्मना वेदविरोधेनैव प्रवर्त्तन्ते बौद्धादिवत्,कानिचित्, तदविरोधनैव कल्पितव्रतान्तरोपदेशीनि शैवादिवत्। तत्र शैवाद्यागमानां तावत् प्रामाण्यं ब्रूमहे, तदुपजनितायाः प्रतीतेः संदेहबाधकारणकालुष्यकलापस्यानुपलम्भात्, ईश्वरकर्तृकत्वस्य तत्रापि स्मृत्यनुमानाभ्यां सिद्धत्वात्, मूलान्तरस्य लोभमोहादेः कल्पयितुमशक्यत्वात्। न हि तत्रोदंप्रथमता स्मर्यते वेदवदेकदेशसंवादाश्च भूम्ना दृश्यन्त इति कुतो मूलान्रकल्पनावकाशः? न च वेदप्रतिपक्षतया तेषामवस्थानम्, वेदप्रसिद्धचातुर्वर्ण्यादिव्यवहारापरित्यागात्।
मन्वादिचोदनान्यायः स यद्यपि न विद्यते।
शैवागमे तथाप्यस्य ननु युक्ता प्रमाणता॥
सर्वोपनिषदामर्था निःस्रेयसपदस्पृशः।
वविच्यमाना दृश्यन्ते ते हि तत्र पदे पदे॥
ये च वेदविदामग्र्याः कृष्मद्वैपायनादयः।
प्रमाणमनुमन्यन्ते तेऽपि शैवादिदर्शनम्॥
पञ्चरात्रेऽपि तेनैव प्रामाण्यमुपवर्णितम्।
अप्रामाण्यनिमित्तं हि नास्ति तत्रापि किञ्चन॥
तत्र च भगवान् विष्णुः प्रणेता कथ्यते। स चेश्वर एव।
एकस्य कस्यचिदशेषजगत्प्रसूति-
हेतोरनादिपुरुषस्य महाविभूतेः।
सृष्टिस्थितिप्रलयकार्यविभागयोगाद्
ब्रह्मेति विष्णुरिति रुद्र इति प्रतीतिः॥
वेदे च पदे पदे `एक एव रुद्रोऽवतस्थे न द्वितीयः’ इति, `इदं विष्णुर्विचक्रमे’ इति रुद्रो विष्णुश्च पठ्यते। तद्योगाच्च तदाराधनोपाया वेदेऽपि चोदिता एव। शैवपञ्चरात्रयोस्तु तद्योगा एवान्यथोपदिश्यन्ते। न चैष वेदविरोधो वैकल्पिकत्वादुपायानाम्। अत आप्तप्रणीतत्वाद् वेदाविरुद्धत्वाच्च न तयोरप्रामाण्यम्।
न्यायमञ्जरीग्रन्थिव्याख्या :–
%कानिचित् तदविरोधेने%ति। न हि शैवादौ वैदिकानुष्ठाननिन्दाद्वारेण स्वकीयचरीयानुष्ठानप्रशंसा। ……प्रथमं कार्येण धर्माः सम्बन्ध्यन्ते। यथाकार्यमुपदेश इति पक्षश्रवणेऽत्र वैदिक्यास्तस्याश्च व्रतचर्याया युगपदनुष्ठानासम्भवाद् गृह ईश्वरवद्विकल्पो भवि……। सम्बद्धास्ते तस्यैव न कार्यान्तरस्य। दर्शपूर्णमासकार्याद् ऐन्द्राग्नसपर्यादीष्ट्यनुष्ठानाद् वृष्टिदर्शनात् संवाद एवमिहापि विशिष्टमन्त्रजपादितो विषाद्यपा…तेषां बिहितत्वाद्। ऐन्द्राग्नादिष्टोपदेशतः प्राप्त्यभावात् प्राप्तिसिद्धयः। मीमांसकदृष्ट्यास्मद्दृष्ट्या वा स्मृतीनां प्रामाण्ये यो न्यायः सोऽत्रापि मा वाभूत् तथाप प्रथमतस्तेनैव प्रथम सम्बध्यन्त इति पूर्वपक्षयित्वा निष्फलत्वाद्यजेः सफलादीनां प्रामाण्यं कथं निर्वहति। उच्यते, स्मृतीनामेव तावन्मीमांसकस्य प्रामाण्यं……इतिकर्तव्यतां चाक्षिपति। प्रथमतस्तदाक्षिप्तानां द्वारमात्रप्रदर्शनपरश्रुतेः। यथैवाष्टकादिवाक्येभ्यो बाधारहिता कार्यावगतिरुत्पद्यते स्वतः प्रामाण्यञ्च स्थितम् अतो वेद मूलत्वकल्पना, तथेहापि विष्यति]। अथाष्टकादिस्मृतीनां वेदमूलत्वमुपलभ्यते नैषाम् इति अष्टकादिस्मृतीनामपि कुतो वेदमूलत्वसमुपलभ्भः? प्रत्यक्षादिमानान्तराणामस्मिन् विषयेऽनाशङ्कनादनुमानमर्थापत्तिर्वा। `तस्मिन् विषये प्रमाणमनुमानमस्तु’ इति चेन्न, लिङ्गाभावात्। `अष्टकादिकार्यप्रतिपत्तिस्मृतिर्लिङ्गमिति चेत; मनुर्ह्यष्टकाः कर्तव्या इति स्मरति, न चाप्रतिपन्नस्याष्टकादेः कार्यतया स्मरणं संभवति। कार्यप्रतिपत्तिश्च पुंसोऽतीन्द्रियार्थे दृष्टत्वाभावाद् वेदं विना न सम्भवतीति वेदमूलत्वकल्पनम्’ इति। तन्न; सर्ववेष्टनादिना व्यभिचारात्। तथाहि `उदुम्बरीं स्पृष्ट्वोद्गायेत्’ इति श्रुतिबाधितत्वान्मूलान्तरकल्पनाया अभावान्मिथ्यात्वम्, न चैवमष्टकादावपीति वाच्यम्, श्रुतिबाधाया अनुपलम्भात्। तेषु तत्सामान्येन च मिथ्यात्वाशङ्कायां स्वप्नज्ञानसाधर्म्येण जाग्रज्ज्ञानस्यापि मिथ्यात्वाशङ्का स्यात्। अथ तत्र “दोषज्ञाने त्वनुत्पन्ने नाशङ्का निष्प्रमाणिका” इत्याशङ्कानिरासः, तर्हेवं मन्वादिस्मृतावपि भविष्यति। न, नियमासिद्धेः। यदि हि वह्रन्यभावे क्वचिदपि धूमो दृश्येत तदा किं शक्येत वक्तुं यत्रैव धूमो दृष्टस्तत्रैव वह्निं विना भवत्वन्त्रय पुनर्दहनादेव धूम इति; एवं यत्र स्मरणं वेदमूलत्वं विनोपलब्धं सर्ववेष्टनादौ तत्रवेदमूलत्वं व्यभिचरतु नाम, अन्यत्र तु वेदमूलत्वाव्यभिचारि स्मरणमिति। यतो नियमस्याविनाभावस्य निश्चयोऽनुमानस्य मूलम्। तस्य चासिद्धिर्विपर्ययसम्भावनायामपि, किं पुनर्विपर्ययदर्शनेऽपि। विपर्ययश्च दर्शितः। यत् पुनः “दोषज्ञाने त्वनुत्पन्ने” इति तत् प्रत्यक्षाभिप्रायेण, यतो न प्रत्यक्षं लिङ्गवन्नियमनिश्चयापेक्षं स्वविषयं परिच्छिनत्ति। किं तर्हि? बोधस्वभावत्वादेव। अतस्तत्र सत्यामप्याशङ्कायां न नियमासिद्धिः। निश्चितनियमस्य गृहीताविनाभावस्य तु लिङ्गस्य लिङ्गत्वात् कथं विपर्ययदर्शनेऽपि लिङ्गत्वम्? अथार्थापत्तितो मन्वादिस्मृतीनां वेदमूलत्वनिश्चयः स्मृतिदार्ढ्यमन्यथानुपपद्यमानं वेदमूलत्वं कल्पयतिइति,तन्न। सर्ववेष्टनादावन्यथाप्युपपत्तेर्दृष्टत्वाद् %भट्टपक्षे, प्राभाकरैरे%वंविधार्थापत्त्यनभ्युपगमाच्च। `ननु कल्पयित्वा मन्वादीनां प्रतारकत्वमन्यथाप्युपपपत्तेरिति वक्तुं न शक्यते, तादृशाञ्च महात्मनां दोषवत्त्वकल्पनायां बहुदुष्टकल्पना प्राप्नोति’। न। संसारिणां रागादिबहुलत्वेन दृष्टत्वात् पुरुषविशेषानभ्युपगमाच्च न काचित् कल्पना। तदुक्तम् `सर्वदा चापि पुरुषाः प्रायेणानृतवादिनः’ इति। अथैवं वेदमूलत्वानभ्युपगमेऽष्टकादिवाक्यभ्योऽवगतेर्मिथ्यात्वं प्राप्नोति, कारणाभावात्। तन्न। कारणाभावनिश्चये भवतः प्रमाणाभावात्, अनिश्चिते च कारणाभावेऽष्टकादिवाक्येभ्यः प्रतिपत्तेरुद्भवन्त्या अप्रतिपत्तित्वासिद्धिः. यदि प्रतिपत्तेरप्रतिपत्तित्वं नेष्यते भवता तदस्याः प्रतिपत्तेर्भवतः किं जनकं प्रमाणमिति चेद्, वाक्यमेव। मम हि प्रत्यक्षपक्षपातिनो नियमनिश्चयानपेक्षाद् वाक्यादवगतिरुत्पाद्यते। न च परेण मूलकारणाभावो निश्चेतुं शक्यते,संभवाद् वेदसंयोगस्य त्रैवर्णिकानाम्। त्रैवर्णिका हि मन्वादयः, तेषाञ्च त्रैवणिकत्वादेव वेदसंयोगः सम्भाव्यते। सम्भवमात्रेण चाभावनिश्चयो निरसितुं शक्यते। उक्तञ्च सम्भवमात्रनिरसनीयश्चाभावो नाशङ्कितसिद्धिमपेक्षते।’ एवं परोक्ते कारणाभावनिश्चये निरस्ते निष्प्रतिपक्षावगतिः प्रमाणम्। न च कारणसद्भावनिश्चयाभावात् कारणाभावोऽपि सम्भवतीतिसम्भवमात्रेणानुभवविरुद्धकारणाभावः शक्यते वक्तुं, यथोक्तम् `दोषज्ञाने त्वनुत्पन्ने’ इति। अन्येनाप्युक्तम् `बाधके सति स न्यायः, नानुबूतं त्यक्तव्यम्’। लिङ्गे पुनर्नियमनिश्चयापेक्षावगतिरिति नायं नयः समस्ति। अत एव प्राङ्नयेन वेदमूलत्वनिश्चयाभावाद् %भाष्यकृता% “सम्भवाद् वेदसंयोगस्य” इत्ययुक्तम्, अन्यथा निश्चयोवक्तव्यः, न सम्भवमात्रमअ। अत एव न वाच्यं `वेदसंयोग एव वेदमूलत्वे प्रमाणं भविष्यति’ इति, अनिश्चये प्रमाणत्वासिद्धेः। अत्र शास्त्रे स्मृत्यधिकरणे %प्रभाकरटीका% सर्वत्रोपयुज्यते ग्रन्थगौरवभयात् तु न प्रदर्शिता। तदेवं यथा स्मृत्यादिवाक्येभ्योऽवगतेरुत्पद्यमानाया मूलकारणाभावेन परैर्मिथ्यारूपता शङ्किता सा त्रैवर्णिकानां वेदसम्बन्धस्य सम्भवमात्रेण कारणाभावनिश्चयनिराकरणेन निरस्ता। भवन्ति हि मन्वादयस्त्रैवर्णिकत्वाद् वेदेऽधिकृताः, अरित तेषां वेदेन सम्बन्धः तत् कदाचिद् वेद एव मूलकारणं सम्भवतीति,एवं चेत् कथमेकान्तेन कारणाभावनिश्चय इति, तथा शैवादिशास्त्रेभ्योऽप्यवगतेरुत्पद्यमानाया अयमेव न्यायः, तत्कर्तॄणामपि वेदसंयोगः केनापङ्नूयते। अतस्तत्रापि मूलकारणाभावनिश्चयः सम्भवमात्रेण निरसनीय एव। तथा च %फ़्चरात्रादौ% भगवत्सङ्कर्षणादयस्त्रैवर्णिका अविच्छेदेन कर्तारः स्मर्यन्त एव। न च विद्वज्जनानादरस्तेषाम् विद्वद्भिः परिव्राजकवरैरपि तदादरणात् तुर्ये च ज्ञानकाण्ये भगवद् %ब्रादरायणसूत्रवृत्तिकृता भगवत्पुष्कराक्षेण% परिव्राजकमुख्येन पञ्चरात्रादेर्वेदमूलत्वमङ्गीकृतम्। तत्सूत्रकृतोऽपि `विज्ञानादिभावे वा तदप्रतिषेधः’ इति वदतस्तत्प्रामाण्यमभिप्रेतमिति लक्ष्यते। अस्य सूत्रस्यार्थमाहुः “ज्ञानानुत्पत्तिकृतं संदेहनिबन्धनं विपर्ययहेतुकं वा अप्रमाणं भवति। तदेतत् त्रिविधमपि पञ्चरात्रादिषु नारित। `विज्ञानादिभावे’ विज्ञानं तावत् तेभ्य उत्पद्यत इति विज्ञानानुत्पत्तिलक्षणाप्रामाण्यनिरासः। आदिग्रहणाद्धि संशयविपर्यययोः पर्युदासः. वाशब्दः पक्षानत्रनिवृत्त्यर्थः। अतस्तदप्रतिषेधः प्रामाण्याप्रतिषेध इत्यर्थ इत्यलं बहूक्त्या।”
%येऽपि वेदविदामग्र्या% इति। तथा हि भारते
पञ्चारात्रञ्च राङ्ख्यञ्च वेदाः पाशुपतं तथा।
ज्ञानान्येतानि राजेन्द्र विद्धि नाना मतानि च॥ इति॥
ज्ञायतेऽनेनेति व्युत्पत्त्या विद्यापर्यायेण ज्ञानशब्देन वेदसमकक्षतया निर्दिशन् %पञ्चरात्रा%दींस्तेषां वेदवत् प्रामाण्यमभ्यनुजानाति। तथा %द्रोणपर्व%णि पितृवधामर्षितमश्वत्थामानं “भवता लिङ्गमूर्तिः शिवो नार्चिंतो यथा केशवार्जुनाभ्यां प्राग्भवेऽर्चितः, अतो न पराजेतुं स्वयमेव सान्त्वयितुं शक्यो भवता। विरम्यतामतोऽसद्ग्रहात्” इति भङ्ग्या %शैवशास्त्र%प्रसिद्धलिङ्गार्चनस्तुतिं वदता तच्छास्त्रप्रामाण्यमनुमन्यते। दानधर्मेषु च तच्छास्त्रप्रसिद्धां दीक्षामुपमन्युना कृष्णाय प्रतिपादितां दर्शयंस्तदेव शैवशास्त्राणां प्राणाण्यं स्फुटीचकार मो(अत्रटीका ग्रन्थस्त्रुटितः)त्यथर्वशिरसि मूलमन्त्रभूतोऽप्युपलभ्यत एव। %बौद्धा%दीनान्तु त्रैवर्णिकानादराद् वेदमूलत्वानभ्युपगमाच्च नायं नयः समस्तीति। तदेवं %मीमांसक%दृष्ट्या नैयायिकमताश्रयणेन %व्यासा%दिवेदविद्दृष्ट्या च स्मृतिवच्छैवादिसास्त्रप्रामाण्यमिति सिद्धम्।
न्यायमञ्जरी :–
%सौगतानामप्यागमानां न प्रामाण्यम्%
ये तु सौगतसंसारमोचकागमाः पापकाचारोपदेशिनः कस्तेषु प्रामाण्यमार्थोऽनुमोदते?
बुद्धशास्त्रे हि विस्पष्टा दृश्यते वेदबाह्यता।
जातिधर्मोचिताचारपरिहारावधारणात्।
संसारमोचकाः पापाः प्राणिहिंसापरायणाः।
मोहप्रवृत्ता एवेति न प्रमाणं तदागमः॥
निषिद्धसेवनप्रायं यत्र कर्मोपदिश्यते।
प्रामाण्यकथने तस्य कस्य जिह्वा प्रवर्त्तते॥
ततो यद्यपि सिद्धिः स्यात् कदाचित् कस्यचित् क्वचित्।
ब्रह्महत्यार्जितग्राम्यभागोवन्नरकाय सा॥
निषिद्धाचरणोपात्तं दुष्कृतं केन शाम्यति।
अतः कालान्तरेणापि नरके पतनं पुनः॥
यत्त्वत्र चोदितं परेषु पूर्वोक्तक्रमेण बुद्धाद्याप्तकल्पनां कुर्वत्सु किं प्रतिविधेयमिति? तत्रोच्यते। महाजनप्रसिद्ध्यनुग्रहे हि सति सुवचमाप्तोक्तत्वं भवति नान्यथा। महाजनश्च वेदानां वेदार्थानुगामिनाञ्च पुराणधर्मशास्त्राणां वेदाविरोधिनाञ्च केषाञ्चिदागमानां प्रामाण्यमनुमन्यते न वेदविरुद्धानां बौद्धाद्यागमानाम्, इति कुतस्तेषामाप्तप्रणीतत्वम्? मूलान्तरं हि तत्र सुवचम्, अज्ञानलोभादीत्येवमभिधाय वेदस्पर्धिनो बौद्धादयो सिद्धव्याः। आह
कोऽयं महाजनो नाम किमाकारः किमास्पदः।
किंसंख्यः किंसमाचार इति व्याख्यातुमर्हसि।
अपि च बौद्धादयो बुद्धादीनाप्तान् स्वागमप्रामाण्यसिद्धये वदन्ति। ते महाजनमपि निजं तत् सिद्धये वृन्दादिकम् वदेयुरेव। कस्तत्र प्रतीकारः? उच्यते। चातुर्वर्य चातुराश्रम्यञ्च यदेतदार्यदेशप्रसिद्धं स महाजन उच्यते। आकारस्तु तस्य कीदृशम्, पाणिपादं कीदृशम्, शिरोग्रीवं वा, कियती तस्य संख्येति पुरुषलक्षणानि गणयितुं न जानीमः। चातुर्वर्ण्यचातुराश्रम्यरूपश्चैष महाजनो वेदप्रथमप्रवृत्त आगमान्तरवादिभिरप्रत्याख्येय एव। तथा चैते बौद्धादयोऽपि दुरात्मानो वेदप्रामाण्यनियमिता एव चण्डालादिस्पर्शं परिहन्ति। निरस्ते हि जातिवादावलेपे वा क्व चाण्डालादिस्पर्शे दोषः? येऽप्यन्ये केचिदशुचिभक्षणागम्यागमनादिनिर्विकल्पदीक्षाप्रकारमकार्यमनुतिष्ठन्ति तेऽपि चातुर्वर्ण्यादिमहाजनभीतास्तं तं रहसि कुर्वन्ति न प्रकाशम्। निर्विशङ्के हि तच्छास्त्रप्रत्यये किमिति चौर्यवत् तदर्थानुष्ठानम्? अत एव न निजो महाजन उत्थापयितुं शक्यते वृन्दकादिः, किन्त्वयमेव चातुवर्ण्यादिमहाजनः। स चैष महाजनो वेदविरुद्धमागमं परिहरत्येव नानुमोदते।
संसारमोचकं स्पृष्ट्वा शिष्टाः स्नान्ति सवाससः।
बौद्धैरपि सहैतेषां व्यवहारो न कश्चन॥
वेदधर्मानुवर्त्ती च प्रायेण सकलो जनः।
वेदबाह्यस्तु यः कश्चिदागमो वञ्चनैव सा॥
ईदृशश्चायमनन्यसामान्यविभवो महाभागो वेदनामा ग्रन्थराथिर्यदन्ये बाह्यागमवादिन एनमेव स्पर्धन्ते। ते हि स्वागमप्रामाण्यमभिवदन्तो वेदरीत्याबिदधति। वेदे यथा तथा प्रवेष्टुमीहन्ते। वैदिकान् अर्थान् अन्तरान्तरा स्वागमेषु निबघ्नन्ति। वेदस्पर्शपूतमिवात्मां मन्यन्ते। तेषामप्यन्तर्हृदये ज्वलतीव प्रामाण्यम्। अत एवंविधाया महाजनप्रसिद्धेरागमान्तरेष्वदर्शनान्न तेषामाप्तप्रणीतत्वम्। आह
महाजनप्रसिद्ध्यैव वेदप्रामाण्यनिश्चयात्।
किमर्थः कण्ठशोषोऽयमियानार्येण संश्रितः॥
वेदप्रामाण्यसिद्ध्यर्थं हि इदं शास्त्रमारब्धमिति गीयते। वेदप्रामाण्यस्य च महाजनसिद्ध्यैव सिद्धत्वात् किं शास्त्रेण? अलं क्षुद्रचोद्यैरीदृशैः।
महाजनप्रसिद्धं हि केचिद् विप्लावयन्त्यपि।
अतस्तदुपघाताय शास्त्रमस्त्रं प्रयुज्यते॥
तस्मात् पूर्वोक्तानामेव प्रामाण्यमागमानां न वेदबाह्यानामिति स्थितम्।
न्यायमञ्जरीग्रन्थिव्याख्या :–
%संसारमोचका% इति। ये घूकटचकन्यायेन प्राणिवधं धर्ममिच्छन्ति। %निषिद्धसेवनप्रायमि%ति। यदुक्तम्
विस्रधारा मृतञ्चैव मेदो रुधिरमेव च।
पवित्रं भैरवे तन्त्रे साधकानां न संशयः॥ इति॥
%ततो यद्यपि सिद्धिः स्यादा%काशगमनादिका।
%निरस्ते हि जातिवादावलेप% इति। ब्राह्मणोऽस्मीति यो जातिवादस्तत्कृतोऽवलेपो दर्पो जातिवादावलेपः। यदाह
वेदप्रामाण्यं जातिवादावलेप-
स्तीर्थे स्नानेच्छा कस्यचित् कर्तृवादः।
संतापारम्भः पापहानाय चेति
ध्वस्तप्रज्ञानां पञ्चलिङ्गानि जाड्ये॥ इति॥
%येऽप्यन्ये केचिदि%ति। नाथवाद्यादयः। यथाहुः
माता च भगिनी चैव तथान्या या स्वगोत्रजा।
गम्याऽपरा त्वगम्येति नाथ एवं किलाब्रवीत्॥ इत्यादि॥
%वैदिकान् अर्थान् अन्तरान्तरे%ति। वैदिकान् भूतदयादीन्।
%केचिद् विप्लावयन्त्यपि।% यथा प्रतिपादितं `कोऽयं महाजनो नाम’ इत्यादि।
न्यायमञ्जरी :–
%केषाञ्चिन्मते सामान्यत आगमानां प्रामाण्यम्%
अन्ये सर्वागमानान्तु प्रामाण्यं प्रतिपेदिरे।
सर्वत्र बाधसन्देहरहितप्रत्ययोदयात्॥
सर्वत्र वेदवत् कर्तुराप्तस्य परिकल्पना।
दृष्टार्थष्वेकदेशेषु प्रायः संवाददर्शनात्॥
यत् पुनरत्रोक्तं सर्व एवागमाः परस्परविरुद्धार्थोपदेशित्वादप्रमाणं स्युरिति, तत्रोच्यते, आप्तप्रणीतत्वेन तुल्यकक्ष्यत्वादन्यतमदौर्वल्यनिमित्तानुपलम्भाच्च न कश्चिदागमः कञ्चिद् बाधते। विरोधमात्रन्त्वकिञ्चित्करम्, प्रमाणत्वाभिमतेषु वेदवाक्येष्वपि परस्परविरोधदर्शनात्। पुरुषशीर्षस्पर्शनसुराग्रहगवालम्भादिचोदनासु वचनान्तरविरुद्धमर्थजातमुपदिष्टमेव। किञ्चागमानां विरोधोऽपि नातीव विद्यते, प्रमाणानां पुरुषार्थे सर्वेषामविवादात्।
नानाविधैरागममार्गभेदैरादिश्यमाना बहवोऽभ्युपायाः।
एकत्र ते श्रोयसि संपतन्ति सिन्धौ प्रवाहा इव जाह्नवीयाः॥
तथा ह्यपवर्ग उपेयः सर्वशास्त्रेषु निर्दिश्यते ज्ञानविषये तु विवदन्ते। तत्रापि प्रायश आत्मविषयतायां बहूनामविप्रतिपत्तिः। प्रकृतिपुरुषविवेकज्ञानपक्षे तु प्रकृतेर्विविक्ततया पुरुष एव ज्ञेयः। नैरात्म्यवादिनस्तु आत्मशैथिल्यजननायापदिशन्ति। स्वच्छन्तु ज्ञानतत्त्वं यत्तैरिष्यते तत् स्वातन्त्र्यादनाश्रितत्वादात्मकल्पमेव, कूटस्थनित्यत्वे प्रवाहनित्यत्वे च विशेषः। एवं प्रधानयोस्तावदुपायोपेययोरविवादः। क्रिया तु विचित्रा। प्रत्यागमं भवतु नाम भस्मजटापरिग्रहो वा, दण्डकमण्डलुग्रहणं वा, रक्तपटधारणं वा, दिगम्बरता वावलम्ब्यतां कोऽत्र विरोधः? वेदेऽपि किमल्पीयांसः पृथगितिकर्त्तव्यताकलापखचिताः स्वर्गोपायाश्चोदिताः? तस्मात् परस्परविरोधेऽपि न प्रामाण्यविरोधः। अतश्च यदुच्यते
कपिलो यदि सर्वज्ञः सुगतो नेति का प्रमा।
अथोभावपि सर्वज्ञौ मतभेदस्तयोः कथम्॥
इति तदपास्तं भवति, प्रधाने सति भेदाभावात्, क्वचिद् वा तद्भावेऽपि प्रामाण्याविरोधात्। न च हृदयक्रोशनहेतुकर्मोपदेशादागमान्तराणामप्रामाण्यम्, तस्याप्रमाणतायामप्रयोजकत्वात्।
विचिकित्सा हि नृशिरःकपालाद्यशनेषु या।
साप्यन्यदर्शनाभ्यासभावनोपनिबन्धना॥
तथा च शान्तचित्तानां सर्वभूतदयावताम्।
वैदिकीष्वपि हिंसासु विचिकित्सा प्रवर्त्तते॥
अभिचारादिहिंसायां वैदिक्यामपि भवतु कामं हृदयोत्कम्पः, करणांशोपनिपातिनी हि हिंसेति लिप्सातस्तस्यां प्रवृत्तिः।
यत्त्वग्नीषोमीयादिपशुहिंसा इतिकर्त्तव्यतांशस्था, यस्यां क्रत्वर्थो हि शास्त्रादवगम्यते इति वैदी प्रवृत्तिस्तस्यामपि कारुणिको लोकः सविचिकित्सो भवति वदति च “यत्र प्राणिवधो धर्मस्त्वधर्मस्तत्र कीदृशः” इति। न चैतावता वेदस्याप्रामाम्यम्, एवमागमान्तरेष्वपि भविष्यति।
यत्तु आगमान्तरेभ्यः कौलादिभ्यः खेचरताद्यर्थसिद्धावपि निषिद्धाचरणकृतः (प्रत्यवायः) कालान्तरेऽवश्यं भावीत्युक्तम्, तदपि न युक्तम्, तस्यार्थस्य तदागमनिषिद्धत्वाभावात्, आगमान्तरनिषिद्धत्वेऽपि वैकल्पिकत्वकल्पनोपपत्तेः, पुरुषार्थप्राप्त्युपायत्वाच्च तस्य तस्मिन् सिद्धे कुतः प्रत्यवायः? भवतु वा कालान्तरे ततः प्रत्यवायस्तथाप्यधिकारिभेदेन तत्फले कर्मणि चोद्यमाने श्येनादाविव नागमप्रामाण्यमत्र हीयते। `श्येनेनाभिचरन् यजेते’ त्यत्राभिचरन्निति शत्रा लिङ्घतनिषेधमधिकारिणमाचष्टे। तस्यच श्येनयागश्चोदितः। स च तत्प्रयोगात् कृतवधः प्रत्यवैत्येव। न च वेदस्याप्रामाण्यम्। उक्तञ्च `उभयमिह चोदनया लक्ष्यते अर्थोऽनर्थश्चेति। अधिकारभेदाच्च विचित्रकर्मचोदना नानुपन्ना। मरणकामस्य सर्वस्वारश्चोदितः, आयुष्कामस्य कृष्णलचरः। तस्मादेतदपि नाप्रामाण्यनिमित्तम्।
यद्यपि बौद्धागमे जातिवादनिराकरणं तदपि सर्वानुग्रहप्रवणकरुणातिशयप्रशंसापरम्। न च यथाश्रुतमवगन्तव्यम्। तथा च तत्रैतत् पठ्यते न जातिकायदुष्टान् प्रव्राजयेदिति। तस्मात् सर्वेषामागमानामाप्तैः कपिलसुगतार्हत्प्रभृतिभिः प्रणीतानां प्रामाण्यमिति युक्तम्।
न्यायम़ञ्जरीग्रन्थिव्याख्या :–
%पुरुषशीर्षेति।% `पुरुषशीर्षमुपदधाति’, `सुराग्रहं गृह्णाति’, गामालभत’ इत्यादिषु। %वचनानत्रविरुद्धम्।% “नारं स्पृष्ट्वास्थि सस्नेहम्” इत्यादिविरुद्धम्।
%एकत्र ते श्रेयसी%ति। निःश्रेयसे, सर्वेषां तदर्थत्वात्।
%कूटस्थनित्यत्वे%ति। आत्मा कूटस्थोऽविचलद्रूपः सन् नित्यः, ज्ञानसन्तानस्तु अविच्छेदेन प्रवहत् प्रवाह इति।
%क्वचिद्वा तद्भावेऽपी%ति। यथा नित्यानन्दस्यात्मनोऽवस्थानं मोक्ष इति केचित्, अन्ये चितिमात्रस्य परिशुद्धस्य चित्तसन्तानस्य, इतरे विशेषगुणवियुक्तस्यात्मन इत्युपेये भेदः। %न च हृदयक्रोशने%ति। हृदयक्रोशनं विचिकित्सा।
%अन्यदर्शनाभ्यासे%ति। पुनः पुनर्यदभ्यस्तं `नारं स्पृष्ट्वास्थि सस्नेहम्’ इत्यादिदर्शनं तत्संस्कारवासितान्तःकरणानाम्।
%भवतु कामं हृदयोत्कम्पः,% तस्यां हिंसायां विधेरव्यापारात्। कथमव्यापारश्चेत् तदाह %करणांशोपनिपातिनी ही%ति। `श्येनेनाभिचरन् यजेत’ इत्यत्र हि श्येनयागाभिचारयोरुपायोपेयतापरिज्ञानमात्रेऽधिकारे विधेर्व्यापारः, प्रवृत्तौ तु तत्र विधिरुदास्ते लिप्सातस्तत्र प्रवृत्तिसिद्धेः। तदुक्तम् `यस्मिन् प्रीतिः पुरुषस्य तस्य लिप्सार्थलक्षणा’ इति। क्रत्वर्थः पुनः क्रतूपकारको योऽग्नीषोमीयपश्वालम्भादिस्तस्य फलं प्रति करणत्वस्य साक्षादनवगमात् तत्र लिप्सातः प्रवृत्तेरभावः, प्रवृत्तौ भाष्यकृता “क्रत्वर्यो हि शास्त्रादवगम्यते” इति। अतोऽसावभिचारोऽवैधः शास्त्राविहित इति। %तथाप्यधिकारिभेदेने%ति। यस्तज्जन्यफलकामस्तदपेक्षया। %शत्रा लङ्घितनिषेधमि%ति। अभिचरन्निति हि शतृप्रत्ययो लक्षणे। लक्षणञ्च पूर्वसिद्धं भवति। `शयाना भुञ्जते यवनाः’ इति शयनस्य पूर्वसिद्धस्य लक्षणत्वात्। %मरणकामस्य सर्वस्वार% इति। `सर्वस्वारेण मरणकामो यजेत’। %मरणकामस्य सर्वस्वार% इति। `सर्वस्वारेण मरणकामो यजेत’। %आयुष्कामस्ये%ति। `शतकृष्मलं चरुं न प्राजापत्यमायुष्कामो निर्वपेत्’ इति। `मन्वादिचोदनान्यायः स यद्यपि न विद्यते’ इति शैवादिप्रामाण्यसमर्थनावसरे यत् किञ्चित् सृष्टं तदिदानां सर्वागमप्रामाण्यप्रतिपादनावसर उद्घाटयति–
न्यायम़ञ्जरी :–
%केषाञ्चिन्मते सर्वेषामेवागमानामीश्वरप्रणीतत्वम्%
अन्ये मन्यन्ते सर्वागमानामीश्वर एव भगवान् प्रणेतेति। स हि सकलप्राणिनां कर्मिविपाकमनेकप्रकारमवलोकयन् करुमया ताननुग्रहीतुमपवर्गप्राप्तिमार्गं बहुविधमुत्पश्यन्नाशयानुसारेण केषाञ्चित् क्वचित् कर्मणि योग्यतामवगम्य तं तमुपायमुपदिशति। स्वविभूतिमहिम्ना च नानाशरीरपरिग्रहात् स एव संज्ञाभेदानुपगच्छति अर्हन्निति कपिल इति सुगत इति। स एवोच्यते भगवान्। नानासर्वज्ञकल्पनायां यत्नगौरवप्रसङ्गात्।
ननु बुद्धः शुद्धोदनस्यापत्यं स कथमीश्वरो भवेत्? परिहृतमेतद् भगवता कृष्णद्वैपायनेन
यदा यदि हि धर्मस्य ग्लानिर्भवति भारत।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्॥ इति।
शरीरमेव शुद्धोदनस्यापत्यं नात्मा। अतः प्रतियुगं विष्णुरेव भगवान् धर्मरूपेणावतरतीत्यागमविदः प्रतिपन्नाः।
ननु वेदसमानकर्तृकेष्वागमान्तरेषु कथं तादृशो महाजनसंप्रत्ययो नास्ति? एवं नास्ति। तेन वर्त्मना भगवताकतिपये प्राणिनोऽनुगृहीताः, येषां तादृश आशयो लक्षितः। वैदिकेन तु वर्त्मना निःसंख्यकाः प्राणिनोऽनुगृहीता इति तत्र महानादर आगमान्तरेषु कृश इति। एककर्तृके परस्परविरोधः कथमिति चेद्? वेदैरेवात्र वर्णित समाधिः। तेष्वपि भूम्नः परस्परविरोधस्य दर्शनादित्युक्तम्। तस्मादीश्वरप्रणीतत्वादेव सर्वागमानां प्रामाण्यम्।
न्यामञ्जरी :–
%वेदमूलकत्वेनैवागमानां प्रामाण्यमिति केचित्%
अपरे पुनर्वेदमूलत्वेन सर्वागमप्रामाण्यमभ्युपागमन्। यो हि मन्वादिदेशनानां वेदमूलतायां न्याय उक्तः
भ्रान्तेरनुभवाद्वापि पुंवाक्याद् विप्रलम्भकात्।
दृष्टानुगुणसामर्थ्याच्चोदनैव लघीयसी॥ इति।
स सर्वागमेषु समानः। न च मन्वादिस्मृतीनां मूलभूता श्रुतिरुपलभ्यते। अनुमानेन तु तत्कल्पनमागमान्तरेष्वपि तुल्यम्।
ननु चोक्तम्, `अपि वा कर्तृसामान्यात् प्रमाणमनुमानं स्यादि’ति तच्चेह नास्तीति कथं श्रुत्यनुमानम्? नैष दोषः
एकाधिकारावगमो न प्रामाण्ये प्रयोजकः।
मिश्रानुष्ठानसिद्धौ तु कामं भवतु कारणम्॥
न च पृथगनुष्ठीयमानमपि कर्म न प्रमाणमूलं भवति वर्णाश्रमभेदानुष्ठेय कर्मवत्।
कर्तृसामान्यशून्यत्वादथ मूलान्तरोदयः।
तदसदु बाधकाबावाद् भ्रान्त्यादिप्रतिषेधनात्॥
प्रत्यक्षमूलतायान्तु गुर्वी भवति कल्पना।
वेदस्त्वनन्तशाखत्वान्मूलं तत्र स्वसङ्गतम्॥
नन्वत्र वेदमूलत्वे द्वेषो वेदविदां कथम्।
गत्वा त एव पृच्छ्यन्तां येषां द्वेषादि विद्यते॥
गोवधे वा कथं तेषां द्वेषः सुस्पष्टवैदिके।
प्रत्युक्तञ्च विरुद्धत्वं शाखानन्त्याच्च दुर्गमम्॥
किमियद् वेदसर्वस्वं यावदस्मन्मुखे स्थितम्।
शाखान्तराद् वा संवादो न लभ्यतेति का प्रमा॥
तथा च सांख्यशास्त्रप्रसिद्धत्रिगुणात्मकप्रकृतिसूचनपरम् `अजामेकां लोहितशुक्लकृष्णामि’ति वैदिकं लिङ्गमुपलभ्यते। निर्ग्रन्थकिथितवचसः चित्तत्त्वज्ञानशंसी चायमनुवादो दृश्यते `मुनयो वातरसना’ इति। एवं रक्तपटपरिग्रहभस्मकपालधारणादिमूलमप्यभियुक्ता लभन्त एव।
मन्वादिस्मृतिवत् कर्तृसाम्यस्यासम्भवेऽप्यतः।
प्रमाणं वेदमूलत्वाद् वाच्या सर्वागमा स्मृतिः॥
ततश्च
यः कश्चित् कस्यचिद्धर्मो मनुना परिकीर्त्तितः।
स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः॥
इत्यत्र यथा मनुग्रहणं गौतमयमापस्तम्बसंवर्तकाठकादिस्मृत्यन्तरोपलक्षणम् एवमर्हत्कपिलसुगताद्युपलक्षणपरमपि व्याख्येयम्।
ननु च लोकायताद्यागमोऽप्येवं प्रामाण्यं प्राप्नोति `विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्यसंज्ञास्ती’ति वेदमूलदर्शनात्। ततश्च लोकायतदर्शने प्रमाणभूते सति स्वस्ति सर्वागमेभ्यः। उच्यते
न हि लोकायते किञ्चित् कर्तव्यमुपदिश्यते।
वैतण्डिककथैवासौ न पुनः कश्चिदागमः॥
ननु च `यावज्जीवं सुखं जीवेदि’ति तत्रोपदिश्यते? न। स्वभावसिद्धत्वेनात्रोपदेशवैफल्यात्। `धर्मो न कार्यः’ `तदुपदेशेषु न प्रत्येतव्यमि’त्येवं वा यदुपदिश्यते तत् प्रतिविहितमेव, पूर्वपक्षवचनमूलत्वाल्लोकायतदर्शनस्य। तथा च तत्रोत्तरब्राह्मणं भवति `न वा अरे अहं मोहं ब्रवीमि अविनाशी वा अरेऽयमात्मा मात्रासंसर्गस्त्वस्य भवती’ति। तदेवं पूर्वपक्षवचनमूलत्वाल्लोकायतशास्त्रमपि न स्वतन्त्रम्, उत्तरवाक्यप्रतिहतत्वात्तु तदनादरणीयम्। शास्त्रान्तराणान्तु पूर्वपक्षवाक्यमूलकत्वकल्पनमयुक्तम्, समनन्तरमेव तत्प्रतिपक्षवचनानुपलब्धेरित्यतो वेदमूलत्वात् सर्वागमः प्रमाणम्।
न्यामञ्जरीग्रन्थिव्याख्या :–
%अपरे पुनर्वेदमूलत्वेने%ति। %अजामेकामि%ति। “अजामेकां लोहितकृष्णशुक्लां बह्वीः प्रजाः सृजमानां सरूपाः। अजो ह्येको भजमानोऽनुशेते जहाति चैनां भुक्तभोगामजोऽन्यः।” इति। अत्र लोहितशुक्लकृष्णग्रहणेन रजःसत्त्वतमोरूपतां तस्या आह। अनुशेते पुनः पुनस्तया सम्बन्धं भजते। %मुनयो वातरशना% इति। वात एव रशना वासो ग्रन्थनं येषां ते वातरशना अतो वाससोऽभावादेव वातस्तेषां रशना अत एव निर्ग्रन्था भण्यन्ते। रसना इति तु पाठे रस्यत आस्वाद्यत इति रसनं बात एव रसनं येषां वायुभक्षा इत्यर्थः। %एवं रक्तपटपरिग्रहे%ति। तथाहि रक्तपटदर्शनसंस्थोपनिषद्वाक्यमुदाहरति"पौल्कसोऽपौल्कसश्चाण्डालोऽचाण्डालो ब्राह्मणोऽब्राह्मणः श्रमणोऽश्रमणः" इत्यादि तद्दर्शयति। प्रसिद्धामलमार्गप्रवृत्तं श्रमणमाचक्षते, `श्रामण्यममलो मार्गः’ इति हि ते आहुः इतिः प्रभृति टीकाग्रन्थो मध्ये खण्डितः।
न्यायमञ्जरी :–
%आगमप्रामाण्ये ग्रन्थकारमतम्%
सर्वागमप्रमाणत्वे नन्वेवमुपपादिते।
अहमप्यद्य यं क़्चिदागमं रचयामि चेत्॥
तस्यापि हि प्रमाणत्वं दिनैः कतिपयैर्भवेत्।
तस्मिन्नपि न पूर्वोक्तन्यायो भवति दुर्वचः॥
जरत्पुस्तकलिखितं यदपि तदपि किञ्चिदिदानीं केनापि धूर्तेन प्रख्याप्यते।
महाजनसमूहे ये प्रसिद्धिं प्रापुरागमाः।
कृतश्च बहुभिर्येषां शिष्टैरिह परिग्रहः॥
अद्य प्रवर्तमानाश्च नापूर्वा इव भान्ति ये।
येषां न मूलं लोभादि येभ्यो नोद्विजते जनः॥
तेषामेव प्रमाणत्वमागमानामिहेष्यते।
न मृष्ते तु यत्किञ्चित्प्रमाणं कुट्टिनीमतम्॥
तथा हि
अमितैकपटनिवीतानियतास्त्रीपुंसविहितबहुचष्टम्।
नीलाम्बरव्रतमिदं किल कल्पितमासीद् विटैः कैश्चित्॥
तदपूर्वमिति विदित्वा निवारयामास धर्मतत्वज्ञः।
राजा शङ्करवर्मा न पुनर्जैनादिमतमेवम्॥
इत्याप्तोक्तत्वहेतोः परिमुषितपरोदीरिताशेषदोषा-
देषां वेदागमानां सुदृढमुपगते मानभावे प्ररोहम्।
तन्मूलत्वात् तथात्वं पुरुषवचनतो वास्तु शास्त्रान्तराणां
तद्द्वारेणापि वक्तुं न खलु कलुषता शक्यते वेदवाचाम्॥
न्यायमञ्जरी :–
%वेदप्रामाण्ये शङ्का%
ननु नाद्यापि वेदस्य प्रामाण्यं सुस्थवत् स्थितम्।
स्वदेहसंभवैरेव दोषैरनृततादिभिः॥
`चित्रया यजेत पशुकामः’ पुत्रकामः `पुत्रेष्ट्या यजेते’ति श्रूयते। न चेष्ट्यनन्तरं पुत्रपश्वादिफलमुपलभ्यते। तस्मादसत्याः चित्रादिचोदनाः।
ननु च यः पशुकामः स इष्टिं कुर्यादितीयानेन वाक्यार्थः। तत्र यागात् पशवो भवन्तीति एतदेव तावदुपपाद्यम्। ते च भवन्तोऽप्यनन्तरमेव भवन्तीत्येतद् दुरुपपादनम्। अतः कथं न सत्यार्थत्वं चित्रादिचोदनानाम्? उच्यते, यावज्जीवं यजेत यावज्जीवं जुहुयादिति जीवनवदसाध्यमानपशुकामनैव नाधिकारिविशेषणं भवितमर्हति, पशूनां ततः कर्मणः सिद्धिमनवबुध्यमानपशुकामनैव नाधिकारिविशेषणं भवितुमर्हति, पशूनां ततः कर्मणः सिद्धिमनवबुध्यमानस्य तत्राधिकार एव न शम्प्रवर्त्तते एव इति निर्णेष्यते एतत्। आनन्तर्यमपि कर्मस्वभावपर्यालोचनेनैव गम्यते, समनन्तरफलत्वेन कर्मणां दृष्टत्वात्। आह च `कर्मकाले च फलेन भवितव्यम्, यत्कालं हि मर्दनं तत्कालं मर्दनसुखमि’ति। अधिकार्यपि पश्वाद्यभावपरितप्यमानमानस एव कर्मण्यधिक्रियते यदि सद्य एव ततः फलमासादयेत्। कालान्तरे च कर्मणः प्रध्वंसात् कुतः फलम्? आह च `यदा तावदियं विद्यमानासीत्तदा फलं न दत्तवती यदा फलमुत्पद्यते तदासौ नास्ति, असती कथं फलं दास्यती’ति। अपि च कालान्तरे फलस्यान्यत् प्रत्यक्षं कारणमुपलभ्ते सेवादि। तस्मिंश्च कारणे दृष्टे सति को नाम सूक्ष्मदृष्टिरदृष्टं चित्रादिकारणं कल्पयेत्? तस्मादसत्याश्चित्रादिचोदनाः, प्रत्यक्षादिप्रमाणपरिच्छेदयोग्यार्थोपदेशत्वे सत्यपि तत्संवादशून्यत्वात्, एवंविधविप्रलम्भकवाक्यवत्।
चित्रादिवचसामेवमपचारस्य दर्शनात्।
अनाश्वासोऽग्निहोत्रादिचोदनास्वपि जायते॥
अग्निहोत्रचोदना मिथ्या, वेदैकदेशत्वात्, चित्रादिचोदनादिवत्, तदत्र तावदसंवादादप्रामाण्यम्। एवं `पुत्रकामः पुत्रेष्ट्या यजेते’त्येवमादावपि असंवादो द्रष्टव्यः।
विसंवादोऽपि क्वचिद् दृश्यते। प्रमीते यजमाने पात्रचयाख्यं कर्मोपदीश्यैवमादिदेश वेदः `स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गं लोकं याती’ति तत्रैव इति तावदात्मनो निर्देशः क्लिष्ट एव, परोक्षत्वात्, स्पयकपालादियज्ञायुधसम्बन्धाभावाच्च. कायस्त्वेष निर्दिश्यते स न स्वर्गं लोकं यातीति। तद्विपरीतभस्मीभावोपलम्भादिति विसंवादः। ेवञ्चासंवादविसंवादाभ्यामप्रमाणं वेदः।
व्याघाताच्च। उदिते होत्वयमनुदिते होतव्यं समयाध्युषिते होतव्यमिति होमकालत्रयमपि विधाय निन्दार्थवादैस्तदेव निषेधति श्यामो वा अस्याहुतिमभ्यवहरति य उदिते जुहोति, शबलो वा अस्याहुतिमभ्यवहरति योऽनुदिते जुहोति, श्यामशबलावस्याहुतिमभ्यवहरतो यः समयाध्युषिते जुहोति। न चार्थवादमात्रमेतादिति वक्तव्यम्, यतः–
विधानं कल्पते स्तुत्या निन्दया च निषेधनम्।
विधिस्तुत्योः समा वृत्तिस्तथा निन्दानिषेधयोः॥
नहि निन्दा निन्द्यं निन्दितुमुपादीयते किन्तु निन्दितादितरत् प्रशंसितुमित्ययमपि प्रकारोऽत्र न सम्भवति, कालत्रयस्याप्यत्र निषेधात्, कस्यान्यस्य तन्निन्दया प्रशंसा विधीयते? तस्मात् परस्परविरुद्धार्थोपदेशलक्षणाद् व्याघातादप्रमाणं वेदः।
पौनरुक्त्याच्च। `त्रिः प्रथमान्वाह त्रिरुत्तमामि’त्यभ्यासचोदनायां प्रथमोत्तमयोः सामिधेन्योस्त्रिर्वचनात् पौनरुक्त्यम्। सकृदनुवचनेन तत्प्रयोजनसम्पत्तेरनर्थकं त्रिर्वचनम्। तस्मादित्थमनृतव्याघातपुनरुक्तदोषकलुषितत्वादप्रमाणं वेदः। तदाह सूत्रकारः “तदप्रामाण्यमनृतव्याघातपुनरुक्तदोषेभ्यः” पुत्रकामेष्टिहवानाभ्यासेष्विति।
न्यायमञ्जरीग्रन्थिव्याख्या :–
……च निषेधेन निवर्त्यते तथा निन्दयापीति समा वृत्तिः। इतरप्रशंसार्थमपि निन्दा भवतियथा `प्राप्य गाण्डीवधन्वानं विद्धि कौरव तान् स्त्रियः’ इति न केवलं प्रतिषेधायेति यो मन्येत तमपि प्रत्याह %न हि निन्दा निन्द्यं निन्दितुमि%त्यादि।
%त्रिः प्रथमामि%ति। सामिधेन्यः समिधामग्नौ प्रक्षेपणमन्त्राः, तस्य प्रक्षेपणाख्यस्य कर्मणो हि प्रकाशकोऽसौ मन्त्रः, तच्च सकृदुच्चारितेनापि तेन शक्यते कर्तुं प्रकाशनमिति त्रिरुच्चारणं पुनरुक्तम्। एकादश च ते मन्त्राः पठ्यन्ते, `पञ्चदश सामधेनीरनुब्रूयात्’ इति च श्रूयते, अतः प्रथमोत्तमयोस्त्रिरुच्चारणं पञ्चदशसङ्ख्यासम्पत्त्यर्थं क्रियते।
न्यायमञ्जरी :–
%वेदप्रामाण्ये शङ्कानिरसनम्%
अत्र समाधिमाह “न। कर्मकर्तृसाधनवैगुण्यादिति”। अयमाशयः अप्रामाण्यसाधनमनृतत्वं परैरुक्तम्, अनृतत्वे च साधनं फलादर्शनम्, एतच्चानैकान्तिकम्, अन्यथापि फलादर्शनोपपत्तेः। किं वेदस्यासत्यार्थत्वादत्र फलादर्शनम् उत कर्त्त्रादिवैगुण्यादिति? न विशेषहेतुरस्ति। ननु न कदाचिदपि कर्मसमनन्तरमेव फलमुपलब्धमिति तदनृतत्वमेव तददर्शनकारणं न कारणवैगुण्यमिति, तदयुक्तम्। अविगुणायां कारीर्यां प्रयुक्तायां सद्य एव वृष्टेर्दर्शनात्। न च तत् काकतालीयम्, आगमेनान्वयव्यतिरेकाभ्याञ्च तत्कारणत्वदर्शनात्। पुत्रादिस्त्वैहिकमपि फलं वस्तुस्वभावपर्यालोचनयैव न सद्यो भवितुमर्हति। न हि नभसस्तदानीमेव वृष्टिरिव निपतति पुत्रः, स्त्रीपुंसयोगकारणान्तरसव्यपेक्षत्वात्तदुत्पत्तेः। पश्वादिप्राप्तिस्तु कस्यचिदुत्तरकालेऽपि दृश्यते प्रतिग्रहादिना। तथा ह्यस्मत्पितामह एव ग्रामकामः सांग्रहणीं कृतवान्। स इष्टिसमाप्तिसमनन्तरमेव गौरमूलकं ग्राममवाप। नन्वेवं तर्हि प्रतिग्रहाद्येव दृष्टं कारणमस्तु पश्वादेः पुत्रस्य च स्त्रीपंसयोगः, किमिष्टेः कारणत्वकल्पनयेति? मैवं वोचः। सत्स्वपि च दृष्टेषु कारणेषु तददर्शनाद् इष्टिप्रयोगानन्तरं चैतद्दर्शनादिष्टिकृतं स्त्रीपुंसयोगादिकारणत्वमिति निश्चीयते। किञ्च
सेवाध्ययनकृष्यादिसाम्येऽपि फलभेदतः।
वक्तुं न युक्ता तत्प्राप्तिर्दृष्टकारणमात्रजा।
भूतस्वभाववादश्च पुरस्तात् प्रतिषिध्यते।
तस्मान्नूनमुपेतव्यमत्रान्यदपि कारणम्॥
तदुक्तम्, तच्चैव हि कारणं शब्दश्चेति। यत्र पुनरविगुणेऽपि कर्मणि प्रयुज्यमाने कालान्तरेऽपि पुत्रपश्वादिफलं न दृश्यते तत्र तीव्रं किमपि प्राक्तनं कर्म प्रतिबन्धकं कल्पनीयम्। यथोक्तम् “फलति यदि न सर्वं तत् कदाचित्तदेव ध्रुवमपरमभुक्तं कर्म शास्त्रीयमास्ते” इति। कर्मादिवैगुण्यग्रहणमुपलक्षणार्थमृषिणा प्रयुक्तम्। न तु वेदस्याप्रामाण्यकल्पना साध्वी साद्गुण्ये कर्मणः प्राचुर्येण फलदर्शनात्।
अपि च चित्रातः पशवो भवन्तीत्येतावानेव शास्त्रार्थः। आनन्तर्ये तु न किञ्चित् प्रमाणमस्ति। तदयं प्रत्यक्षादिसंवाद आनन्तर्यविषयः, चित्रादिचोदना त्वनिर्दिष्टकालविशेषविषयेति विषयभेदान्न सा तेन बाध्यते। तदाह भट्टः
आनन्तर्याद्यसंवादो नाविशेषप्रवर्त्तिनीम्।
चोदनां बाधितुं शक्तः स्फुटाद् विषयभेदतः॥ इति
यत्तु कर्मस्वभावपर्यालोचनया चित्रादेरनन्तरफलत्वमुक्तम्, यत्कालं हि मर्दनं तत्कालं मर्दनमुखमिति। तदेतदत्यन्तमनभिज्ञस्याभिधानम्। विधिफलानां क्रियाफलतुल्यत्वानुपपत्तेः। इह किञ्चिद् विधिफलं भवति किञ्चित् क्रियाफलम्। कृष्यादौ तु भूमिपाटवादि क्रियाफलं सस्यसम्पत्तिस्तु विधिफलम्। कः पुनः कृष्यादौ विधिरस्ति? वार्त्ताविद्यायां वृद्धोपदेशे वा कश्चिद्विधिः? अन्वयव्यतिरेकौ वा तत्र विधिस्थानीयौ भविष्यतः। लोकेऽपि वेतनकामः पचतीत्यादौ पाकक्रियाफलमोदनः, विधिफलन्तु वेदनम्। तत्र क्रियाफलानामेवैषिनियमो यत् क्रियानन्तरभावित्वम्। विधिफलानान्तु वेतनादीनां नास्ति कालनियमः। इष्टावपि हविर्विकारादि क्रियाफलं सद्यो भवति, मृद्नतस्तु पुंसः सेवाफलमनियतफलम्।
ग्रामकामो महीपालं सेवेतेत्येवमादिषु।
लौकिकेषु विधिष्वस्ति न कालनियमः फले॥
आयुर्वेदोपदिष्टानामप्यौषधविधीनां न क्रियावत् सद्य एव फलदर्शनम्। अपि तु कालापेक्षमेवेति न फलानन्तर्य्ये किञ्चित् प्रमाणम्।
यत्तु पशुविरहकृत-कदशनादिदोदूयमानाधिकारिस्वरूपपर्यालोचनया सद्यः फलत्वमुच्यते तदपि न साम्प्रतम्, पुरुषेच्छामात्रमेतन्न प्रमाणवृत्तम्।
अपि चैहिकत्वं फलस्य तावता सेत्स्यति न पुनः क्रियाफलवत् सद्यस्त्वम्। सन्ति चैहिकफलान्यपि कालान्तरसव्यपेक्षाणि कर्माणि, यथा `ब्रह्मवर्चसकामस्य कार्यं विप्रस्य पञ्चमे’ इति। न तत्र पञ्चमवर्षे उपनीतमात्र एव माणवको ब्रह्मवर्चससम्पन्नो भवति कालान्तरे तु भवतीति। एवं वीर्यकामादिष्वपि द्रष्टव्यम्। तस्माद् विधिफलानामानन्तर्यनियमाभावान्न तद्विसंवादो दोषाय। कालान्तरेऽपि यत्र फलादर्शनं तत्र क्रियावैगुण्यकर्मान्तरप्रतिबन्धादि कारणमित्युक्तम्।
न्यायमञ्जरीग्रन्थिव्याख्या :–
%कर्मकर्तृसाधनवैगुम्यादि%ति। इष्ट्या पितरौ संप्रयुज्यमानौ पुत्रं जनयत इति। इष्टिः करणं साधनम्, कर्तृलक्षणं पितरः, तत्सम्प्रयोगः कर्म, त्रयाणामपि गुणसंयोगात् पुत्रजन्म, वैगुण्याद् विपर्ययः। इष्ट्याश्रयं तावत् कर्मवैगुम्यं समीहाब्रेषः; कर्तृवैगुण्यम् अविद्वान् प्रयोक्ता कपूयाचरणं वा; साधननैगुण्यं हविर्न संस्कृतमुपहृतमिति, मन्त्रा न्यूनाधिकाः स्वरवर्णहीना इति, दक्षिणा दुरागता हीना निन्दिता वेति। उपजनाश्रयं कर्मवैगुण्यं मि [थ्यासम्प्रयोगः], कर्तृवैर्गुण्यं योनित्यापदो बीजोपघातश्च; साधनवैगण्यमिष्ट्यामभिहित्, कपूयाचरणःकुत्सिताचारः, मिथ्यासम्प्रयोगः पुरुषायितत्वादिनासम्प्रयोगः।
%भूतस्वबाववादश्चे%ति। शरीरारम्भकाणि यानि भूतानितेषामीदृक् कश्चित् स्वबावविशेषो यत् कानिचिदेव पश्वादिभिः सम्बध्यन्ते कानचिन्नेति।
%तच्चैव हि कारणम्% इति। %शाबरं भाष्यम्% “यच्च कालान्तरे फलस्यान्यत् प्रत्यक्षं कारणमस्तीति। नैष दोषः” इति। अतः परं स्थितम्। यद्यपि प्रत्यक्षतः सेवादीनां कारणत्वमवगम्यते तथापि शब्दात् `चित्रया योजेत पशुकामः’ इत्यादेश्चित्रादीनामपि कारणत्वावगमः; यथा प्रत्यक्षं प्रमाणं तथा शब्दीऽपीत्यर्थः. %कर्मादिवैगुण्यग्रहणमि%ति। यथा कर्मादिवैगुण्यात् फंल न भवति एवं तीव्रप्राग्भाविकर्मातरप्रतिबन्धादपीति। ननु कथमेवंप्रायाः कल्पनाः स्थाप्यन्ते, किमाभिरित्याशङ्क्याह–%न तु वेदस्याप्रामाण्यकल्पनेति। साद्गुण्ये कर्मण% इति। अरणइनिर्मथनसाद्गुण्येन कृतादग्न्युत्पत्तीत्येतावत्येवाविशेषेण चोदनैषा स्थिता, न पुनरनन्तरं भवन्तीति विशेषेऽपीत्यर्थः।
%वार्ताविद्यायां।% कृषिः पाशुपाल्यं वाणिज्या च वार्ता। %मृद्नतो% मर्दनकर्तुः।
%एवं वीर्यकामादिष्वि%ति। उत्तरश्लोकार्धापेक्षया। तदुक्तं `राज्ञो बलार्थिनः षष्ठे वैश्यस्यार्थार्थिनोऽष्टमे’ इति।
न्यायमञ्जरी :–
%वेदप्रामाण्यसमर्थने मतानन्तरम्%
अन्ये कर्त्त्रादिवैगुण्यकल्पनाननुमोदिनः।
इहाफलस्य चित्रादेः फलमामुत्रिकं जगुः।
सर्वाङ्गोपसंहारेण काम्यकर्मप्रयोगात् कोऽवसरः कर्मवैगुण्यकल्पनायाम्? जन्मातरे तु तत्फलमिति कल्पना।
तथा च त्रिविधं कर्म किञ्चिदैहिकफलमेव किञ्चिदनियतफलमेव किञ्चिदामुष्मिकफलमेव इति कल्पना।
तत्र कारीर्यादि तावदैहिकफलमेव। तद्धि सकलजनपदसंतापकारिणि महत्यवग्रहे प्रस्तूयते। वृष्टिलक्षणञ्च तत्फलं स्वभावत एव सकललोकसाधारणम्। आसन्नतयैव तदभिलषणीयमिति सद्य एव भवितुमर्हंति। वचनानि च तत्र तादृश्येव दृस्यन्ते `यदि वर्षेत्तावत्येवेष्टिं समापयेद् यदि न वर्षेच्छ्वोभूते जुहुयादि’ति। आमुष्मिकफलन्तु कर्म ज्योतिष्टोमादि फलस्वभावमहिम्नैव पारलौकिकफलं भवति।
स्वर्गो निरपमा प्रीतिर्देशो वा तद्विशेषणः।
भोक्तु नोभयथाप्येष देहेनानेन शक्यते॥
चित्रादि त्वनियतफलं कर्म। तत्फलस्य पश्वादेरिह वा परत्र वा लोके सम्भवात्, अवश्यं चैतदेवं विज्ञेयम्। तथा ह्यकृतचित्रायागानामपि इह जन्मनि पशवो दृश्यन्ते ते परिदृश्यमानसेवाप्रतिग्रहादिकारणका एवेति कथ्यमाने कर्म निमित्तत्वहाने र्बृहस्पतिमतानुप्रवेशप्रसङ्गः। कर्मनिमित्तकत्वे तु तेषां पशूनामुपपादकं किं कर्मेति निरूपणीयम्। न हि ब्रह्मवर्चसफलात् कर्मणः पशवो निष्पद्यन्ते। चित्रा च पशुफला इह जन्मनि तैर्नं कृतैव, पूर्वजन्मकृता तु तस्मिन्नेव जन्मनि फलंदत्तवतीति नियतैहिकफलाभ्युपगमादिति कुतः पशुसम्पत्? ननु गौतमवचनप्रामाण्यात् पूर्वकृतभुक्तशिष्टज्योमादिकर्मनिमित्तकः पशुलाभो भविष्यति? यथोक्तम् `वर्णाश्रमाश्च स्वकर्मनिष्ठाः’ प्रेत्य फलमनुभूय पतन्तः शेषेण विशिष्टदेशश्रुतवृत्तवित्तादियुक्तं जन्म प्रतिपद्यन्त इति। नैतद् यथाश्रुतं बोद्धुं युक्तम्
न ह्यन्यफलकं कर्म दातुमीष्टे फलान्तरम्।
साध्यसाधनभावो हि नियः फलकर्मणाम्॥
तस्मात् समूहापेक्षाशेवाचोयुक्तिर्व्याख्येया। प्रेत्यानुभूयते,ततः शेषेण चित्रादिना कर्मणा विशिष्टं जन्म प्रतिपद्यन्ते इत्यर्थः। तस्मात् पूर्वजन्मकृतचित्रादिनिबन्धन इह जन्मनि पशुलाभो नाकर्मनिमित्तको नान्यकर्मनिमित्तक इत्येवमनियतफलत्वाच्चित्रादेरिह जन्मनि फलादर्शनेऽपि नानृतत्वं तच्चोदनानां जन्मान्तरेहि ता इष्टयः फलं दास्यन्तीति।
न्यायमञ्जरीग्रन्थिकाव्याख्या :–
%कर्त्रादिवैगुण्ये%ति। कर्त्रादिवैगुण्यं फलादर्शने कारणमननुमोदमानाः।
%सर्वाह्गोपसंहारेणे%ति। यदा सर्वाङ्गान्युपसंहर्त्तुं शक्नुयात् तदा काम्य ंकुर्यादिति व्यवस्थापनात्।
%अवग्र%हे वर्षप्रतिबन्धे। %श्वोभूते जुहुयाद्%। द्वितीये दिने होमशेषं समापयेद्।
ननूपनयनादेर्ब्रह्मवर्चसादिफलात् कर्मणः पशवो भविष्यन्तीत्याशङ्क्याह %न हि ब्रह्मवर्चसफलादि%ति।
न्यायमञ्जरी :–
%वेदप्रामाण्यशङ्कानिरासे प्रकारान्तरम्%
अत्रोच्यते,किं वाचनिकमेतत् कर्मणां त्रैविध्यम्? अथ विधिवृत्तपरीक्षागम्यम्, आहो फलरूपपर्यालोचनया लभ्यम्, उत पुरुषेच्छाधीनमिति। तत्र वचनं तावत्रि विधविभागप्रतिपादकं नास्ति `कारीरीं निर्वपेद् वृष्टिकामः’ `ज्योतिष्टोमेन स्वर्गकामो यजेते’ति`चित्रया पशुकामः’ इत्येतावन्मात्रश्रवणम्। न ह्यत्रैहिकत्वं पारलौकि कत्वमनियतत्वं वा फलस्यक्वचित् पठितम्। विधिवृत्तमपीयदेव यत् सप्रत्ययप्रवर्त्तनं नाम। तत्र इदमेवंकामेन कर्त्तव्यमित्येतावाल्ँलिङर्थः। अपुरुषार्थरूपेतुव्यापारे प्रवर्त्तकत्वलक्षणस्वव्यापारनिर्वहणमनधिगच्छन् विधिरधिकारिविशेषणस्य काम्यमानस्य स्वर्गादेः, भावार्थस्य च यागादेः साध्यसाधनसम्बन्धमाक्षिपति, नकाम्यमानस्य सद्यः कालान्तरे वा निष्पत्तिमाक्षिपतीति। फलस्वरूपपर्यालोचनया तु सत्यं स्वर्गस्य पारलौकिकत्वामवगमय्ते न तु पश्वादेर्निंयमः। पुरुषेच्छा तु पुरुषेच्छैव, न तया शास्त्रार्थो व्यवस्थापयितुं शक्यः। तस्मान्निष्प्रमाणकं त्रैविध्यम्।
यस्तु चित्रादीनामनियतफलत्वे न्याय उक्तः `चित्रादीनां फलं तावत् क्षीणं तत्रैव जन्मनि’ इत्यादि, स कारीर्यामपि निश्चितैहिकफलायां योजयितुं शक्यः।
अद्याकृतायां कारीर्यां न हि देवो न वर्षति।
जन्मान्तरकृता तत्र कारीरी किं न कारणम्॥
तस्मात् साप्यनियतफला भवतु। अथ सस्यसम्पत्सम्पाद्यसुखसम्भोगसाधनभूतादृष्टनिमित्ता कारीरीष्टिरद्याकृतायामपि कारीर्यामिति मन्यसे? तर्हि दधिक्षीरादिभक्षणसुखाक्षेपिकर्मनिमित्तकः पशुलाभो भविष्यति। अकृतचित्रायागानां कारीर्यधीन ओदनः, चित्रादीनां दधीति, दध्योदनभोजनसुखसाधनादृष्टकारिता पशुवृष्टिसृष्टिर्भवतु। अथ शृङ्गग्राहिकया पशुफला चित्रेष्टिरुपदिश्यते तेन न सुखसामान्याक्षेपिकर्मनिबन्धनः पशुलाभः? एवं तर्हि वृष्टावपि शृङ्गग्राहिकया कारीरी पठ्यत एवेति वृष्टिरपि सामान्यादृष्टनिबन्धना मा भूत्?
`अथ न यदि वर्षेच्छ्वोभूते जहुयादि’त्यादिवचनपर्यालोचनया तस्यामैहिकफलत्वमुच्यते। यद्येवं यत्र तादृशं वचनं नास्ति `यो वृष्टिकामः स सौभरेण स्तुवीत यदि कामयेत वर्षेत्पर्जन्यः’ इति `नीचैः सदो मिनुयादि’त्यादौ, तत्र पारलौकिकफलत्वं स्यात्? यदि च `श्वोभूते जुहुयादि’ति वचनमहिम्नैव फले सद्यस्त्वमात्रमधिकं भवतु, तादृशवचनरहितानां कर्मणां विस्पष्टसिद्धमप्यैहिकफलत्वं निवर्त्तते।
यत् पुनर्बहुसाधारणत्वेन वृष्टेरैहिकत्वमुच्यते तदपि पस्वादौ समानम्। न ह्यात्मम्भरिरेव यजमानो भवति,तस्यापि स्ववासिनीकुमारातिथिभृत्यादिभोजनपूर्वकस्वभाजननियमोपदेशाद्। बहुतरोपकारकत्वन्तु वृष्टेरित्यलं तुलया।
यदपि प्रत्यासन्नत्वेन काम्यमानत्वाद् वृष्टेरैहिकत्वं कथ्यते तदपि तादृगेव, पश्वदेरपि तथैव काम्यमानत्वात्। तत्रावग्रहविहितसन्तापतया प्रत्यासन्नत्वेन वृष्टिरभिलष्यते इहापि दौर्गत्योद्वेगादासन्नतयैव पशवः काम्यन्ते। `तस्माद् वारिदस्तृप्तिमाप्नोति सुखमक्षयमन्नदः’ इत्यादिवचनोपदिष्टसामान्यसुखसाधनादृष्टनिबन्धनैवेयम्। इहाकृतक्रमणांवृष्टिपश्वादिसम्पदिति न बृहस्पतिमतवदकर्मनिमित्तं फलम्। नापि कर्मफलसाध्यसाधनभावनियमव्यवहारोल्लङ्यनमिति।
`फलति यदि न सर्वं कदाचित् तदेव।
ध्रुवमपरमभुक्तं कर्म शास्त्रीयमास्ते’॥ इति।
तेन साप्यनियतफलैव स्याद्। न हि तत् कर्मान्तरमासंसारं प्रतिबन्धकं भवति फलोपभोगाद्धि तस्यावश्यं क्षयेण भवितव्यम्। प्रतिबन्धके च क्षीणे कारीर्या स्वफलंतदा दातव्यमेव। साप्यदत्तफला न क्षीयते एव इत्येवं जन्मान्तरे तत्फलसम्भवात् तस्य अनियतफलत्वम्. अनेन च प्रकारेण चित्रादेरप्यनियतफलत्वमस्माभिरिष्यते एव यत्र सम्यक् प्रयुक्तायामपीष्टौ कर्मान्तरप्रतिबन्धादेव पशूनामनुपलम्भः कल्प्यते। सर्वथा सद्यःफलत्वमात्रवर्जं समानयोगक्षेमा कारीर्या चित्रेष्टिः। एतेन ब्रह्मवर्चसवीर्यान्नाद्यग्रामादिकामेष्टयोऽपि व्याख्याताः। तस्माद् यथाश्रुतमेव बोध्धव्यम्।
यदप्यभ्यधायि समग्राङ्गोपसंहारेण काम्यकर्मप्रयोगात्कुतः कर्मणो वैगुण्यावसरः? इति तदप्यसारम्। सर्वाङ्गोपसंहारेण प्रवृत्तावपि प्रमादादसंवेद्यमानवैगुण्यसम्भवात्। स च विचित्रः प्रदर्शितो भाष्यकारेण। तस्मात् पूर्वोक्त एव प्रतिसमाधानमार्गः श्रेयान्।
न्यायमञ्जरीग्रन्थिव्याख्या :–
%सप्रत्ययप्रवर्तनमि%ति। सचेतनो हि कथं निष्फले प्रवर्तेतेति।
%क्षीणं तत्रैव जन्मनि।% `न च स्वर्गफलस्येहि कश्चिदंशोऽनुवर्तते’ इति शेषः।
%यो वृष्टिकाम% इति। यो वृष्टिकामः स सौभरेण स्तोत्रविशेषेण स्तुवीतेत्येतावदेवोक्तम्। तत्र `यदि न वर्षेत्’ इत्यादि नोक्तम्। %यदि कामयेते%ति। सदो यत्र होत्रादयः ऋत्विजो याज्यानुवाक्यास्तोत्रादिपाठव्यापारमुपविष्टाः सम्पादयन्ति, तन्नीचैर्मिनुयात् अनुच्चाः स्थूणास्तत्र निदध्यादित्यर्थः।
%यथाश्रुतमेव% स्वर्गादिफलापेक्षयैव शेषत्वमिति।
%प्रदर्शितो भाष्यकारेणे%ति। `कर्मकर्तृसाधनवैगुण्यात्’ इति सूत्रव्याख्याने प्रदर्शिंतः, तथैव प्राक् प्रतिपादितोऽस्माभिः।
न्यायमञ्जरी :–
%कर्मणामदृष्टद्वारैव फलजनकत्वम्%
यत् पुनः पूर्वपाक्षिकेण कथितं कालान्तरे कर्माभावात् कुतः फलमिति तदपि न सम्यक्
यद्यप्याफलनिष्पत्तेः कर्मणो नास्त्यवस्थितिः।
तथाप्यस्त्येव संस्कारः पुरुषस्य तदाहितः॥
कर्मजन्यो हि संस्कारः पुंसां बुद्ध्यादिवद् गुणः।
तस्य चाफलसंयोगादवस्थितिरुपेयते॥
यथेन्द्रियादिसंयोगादात्मनो बुद्धिसम्भवः।
तथा यागादिकर्मभ्यस्तस्य संस्कारसंभवः॥
बुद्धिस्तु भङ्गुरा तस्य संस्कारस्तु फलावधिः।
साध्यसाधनभावो हि नान्यथा फलकर्मणोः॥
स्मृतिबीजन्तु संस्कारस्तस्यान्यैरपि मृष्यते।
तथैव फलसंयोगबीजं सोऽस्य भविष्यति॥
स यागदानहोमादिजन्यो धर्मगिरोच्यते।
ब्रह्महत्यादिजन्यस्तु सोऽधर्म इति कथ्यते॥
न्यायमञ्जरी :–
%धर्मपदार्थस्बरूपविषये मतान्तरखण्डनम्%
कापिलास्तु अन्तःकरणस्य बुद्धिर्वृत्तिविशेषमाहुः। आर्हता- पुण्यपुद्गलान् धर्मत्वेन व्यपदिशन्ति। शाक्यभिक्षवश्चित्तवासनां धर्ममाचक्षे। वृद्धमीमांसका यागादिकर्मनिर्वर्त्यमपूर्वं नाम धर्मभिवदन्ति। यागादिकर्मैव शाबरा ब्रुवते। वाक्यार्थ एव नियोगात्मा अपूर्वशब्दवाच्यो धर्मशब्देन स एवोच्यते इति प्राभाकराः कथयन्ति।
तत्र पुण्यपुद्गलवृत्तिपक्षयोः कपिलार्हद्ग्रन्थर्काथतयोस्तन्मतनिरासादेव निरासः। आत्मनश्च समर्थयिष्यमाणत्त्वात् तस्यैव वासना न चेतस इति सौगतपक्षोऽप्ययुक्तः। स्वर्गयागान्तरालवर्त्तिनश्च स्थिरस्य निराधारस्यापूर्वस्य निष्प्रमाणकत्वाज्जरज्जैमिनीयप्रवादोऽप्यपेशलः। अपि च फलस्य वा काचिदुत्पद्यमानदशा यागस्य वा शक्तिरग्निशब्देनोच्यते। न चानियोगो वाक्यार्थ एवापूर्वशब्दवाच्यः, तस्योपरिष्टादपाकरिष्यमाणत्वात्। नापि यो यागमनुतिष्ठति तं धार्मिक इत्याचक्षते इति यागादिसामानाधिकरण्येन प्रयोगात् स एव धर्मशब्दवाच्य इति युक्तं वक्तुम्, तस्य क्षणिकत्वेन कालान्तरे फलदातृत्वानुपपत्तेः सामानाधिकरण्यप्रयोगोऽपि चैकान्ततो नास्त्येव।
यागदानादिना धर्मो भवतीत्यपि लौकिकाः।
प्रयोगाः सन्ति ते चामी संस्क्रियापक्षसाक्षिणः॥
एवं `यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्नि’ति वैदिकोऽपि प्रयोगस्तद्विषय एव व्याख्येयः, तस्य स्थायित्वेन कालान्तरे फलदानयोग्यतोपपत्तेः।
संस्कारो नृगुणः स्थायी तस्माद्धर्म इति स्थितम्।
तस्माच्च फलनिष्पत्तेर्न चित्रादौ मृषार्थता॥
यदपि यज्ञायुधिवाक्ये प्र्यक्षविरुद्धत्वमुपपाद्यते स्म भस्मीभावोपलम्भात् कायस्येति तदप्यसमीचीनमे। एष इति शरीराभेदोपचारेणात्मन एव निर्देशात् तस्य च स्वर्गगमनं भवत्येव। गमञ्च तदुपभोग एव तस्योच्यते यथा शरीरादियोगवियोगौ जन्ममरण इति। न तु व्यापिनः परिस्पन्दात्मकक्रियायोग उपपद्यते। ज्ञानचिकीर्षाप्रयत्नसमवायश्च तस्यकर्तृत्वमिति वर्णयिष्यते। यज्ञायुधसम्बन्धोऽपि स्वस्वामिभावादिः, तस्यैव व्यापकत्वाविशेषेऽपि व्यवस्थयोपपद्यते इति न कश्चिदत्र विरोधः। तस्मात् सर्वत्रनिरवकाशमनृतत्वादिदूषणम्।
योऽपि हवनकालविधौ व्याघातदोषो दर्शितः सोऽपि न दोष एव।
तत्रानुष्ठानभेदेन कालत्रितयचोदनात्।
यो यस्य चोदितः कालो लङ्घनीयो न तेन सः॥
ततश्चान्यतमं कालमभ्युपेत्यैनमुज्झतः।
निन्देति न विरोधोऽत्र कश्चिद्विधिनिषेधयोः॥
अभ्यासे पौनरुक्त्यञ्च कार्यार्थत्वाददूषणम्।
संपाद्यं पाञ्चदश्यं हि सामिधेनीषु चोदितम्॥
`इममहं पञ्चदशारेण वज्रेणापबाधे योऽस्मान् द्वेष्टि यञ्च वयं द्विष्म’ इति श्रूयते। एकादशसामिधेन्य ऋचः पठ्यन्ते। तत्राभ्यासमन्तरेण पाञ्चदश्यं नावकल्पते इत्येवमवश्यकर्त्तव्योऽभ्यासः। स चायमनियमेन प्राप्तो वचनेन नियम्यते प्रथमोत्तमे ऋचौ त्रिरुच्चारणीये इति। तस्मात् तत्प्रयोजनार्थत्वान्न पुनरुक्ततादोषः।
अब्यासे फलरहिते हि पौनरुक्त्यं
दोषः स्यादिह तु न तस्य निष्फलत्वम्।
व्याघातानृतपुनरुक्ततादि तस्माद्
वेदस्य श्लथयतिन प्रमाणभावम्॥
इयञ्च वाक्यार्थविचारणापि
प्रामाण्यसिद्ध्यौपयिकीति मत्वा।
चक्रे स्वशास्त्रे मुनिनेह वेद-
प्राभाण्यनिर्वाहणदीक्षितेन॥
ननु नाद्यापि वेदस्य भवद्भिर्निपुणैरपि।
स्वदेहसम्भवा दोषा निखिलाः परिपिञ्जिताः।
न्यायमञ्जरीग्रन्थिव्याख्या :–
%कापिलास्त्विति।% यागब्रह्महत्यादिक्रियाभर्निष्पन्नसंस्कारो योऽभिव्यज्यमानः प्रकाशरूपबुद्धिवृत्तिस्वरूपो विशिष्टफलहेतुर्धर्माधर्माविति %साङ्ख्याः। पुण्यपुद्गले%ति। पुण्यपुद्गलाः पुण्यपरमाणवः। %निराधारस्यापूर्वस्येति।% ते हि क्रियानिर्वर्त्यं क्रियाभिव्यङ्ग्यम् आश्रितमेवापूर्वमाहुः।
नु व्यापकत्वादात्मनां यज्ञायुधीति कथमेकस्यैव व्यपदेश इत्याह %यज्ञायुधम्बन्धोऽपी%ति। व्यवस्थया यस्य तानि यज्ञयुधानि तस्यैव उपकारकाणि नान्येषाम्।
%प़ञ्चदशे%ति प़ञ्चदशसङ्ख्यासम्पत्त्या।
न्यायमञ्जरी :–
%अर्थवादानामनिश्चितार्थकत्वाद् वेदाप्रामाण्यम्%
तथा हि `सो।़रोदीद् यदरोदीत् तद्रुद्रस्य रुद्रत्वम्। प्रजापतिरात्मनो वपामुदखिदत् तामग्नौ प्रागृह्णात् ततोऽजस्तूपर उदगात्। देवा वैदेवयजनमध्यवसाय दिशो न प्राजान्’इत्येवमादीनामर्थवादानांकिं यथाश्रुतवस्तुपरत्वम्, उत तेभ्यः कार्यरूपार्थोपदेशपरिकल्पनम्, उत लिङादियुक्तवाक्यान्तरप्रतिपाद्यमानकार्यरूपार्थौपयिकत्वमिति चिन्त्यम्। सर्वथा च प्रमादः। स्वरूपपरत्वे तावत् प्रमाणान्तरविरुद्धार्थोपदेशाद् अप्रामाण्यमेवावतरति, रोदनवपोत्खेदनदिङ्मोहादेरर्थस्य तथात्वनिश्चयाभावात्।
किञ्च `स्तेनं मनोऽनृतवादिनी वागि’त्वेवं जातीयकानामर्थवादवाक्यानां क्स्पिष्टमेव प्रमाणान्तरविरुद्धार्थप्रत्यायकत्वम्। न हि निसर्गत एव सर्वप्राणिनामनृतवादिनी वाग् भवति स्तेनं वा मनः।
किञ्च `एतन्न विद्मो यदि ब्राह्मणाः स्मोऽब्रह्मणा वे’ति ब्राह्मणजातेरुपदेशसहायप्रत्यक्षगम्यत्वात् तद्विरुद्ध एषोऽर्थवादः। शास्त्रविरोधोऽप्यस्ति “को ह वै तद्वेद यदमुष्मिल्ँलोकेऽस्ति वा न वे"ति। शास्त्रे स्वर्गादिफलानां ज्योतिष्टोमादिकर्मणामुपदेशात् केयमनवक्लृप्तिः?
अपि च गर्गत्रिरात्रब्राह्मणमधिकृत्य श्रूयते `शोभतेऽस्य मुखं य एवं वेदे’ति न हि कस्यचिदेवंविदतो मुखं शोभते इति प्रत्यक्षविरोधः।
अन्यकर्मानर्थक्यशंसी च कश्चिदर्थवादो भवति `पूर्णाहुत्या सर्वान् कामानवाप्नोति’, `पशुबन्धयाजी सर्वांल्लोकानभिजयति’ `तरति मृत्युंतरति पाप्मानं तरति ब्रह्महत्यां योऽश्वमेधेन यजते यश्चैवं वेदेति’। यदि पूर्णाहुत्यैव सर्वकामावाप्तिः, पशुबन्धयागेनैव सर्वलोकजयः, अश्वमेधवेदनेनैव तत्फलावाप्तिस्तत् किमर्थमन्यकर्मोंपदेशः? उपदिष्टान्यपि तानि। बहुक्लेशसाध्यानि कर्माणि व्यर्थानि भवेयुरनेनैव लघुनोपायेन तत्फलप्राप्तेर्दर्शनात्।
अपि च `न पृथिव्यामग्निश्चेतव्यो नान्तरिक्षे न दिवीति’ वेदे चयननिषेध एवात्र भङ्ग्या भवेद्। दिवि चान्तरिक्षे च तावच्चयनप्रयोग एव नास्ति किं तन्निषेधेन? पृथिवीचयननिषेधार्थञ्च यद्वाक्यं तच्चयनप्रतिषेधार्थमेव भवेत् अपृथिव्यधिकरणस्य चयनस्यानुपपत्तेः।
अपि च `यजमानः प्रस्तरः’ `आदित्यो यूपः’ इत्येवंजातीयकानां प्रत्यक्षविरुद्धार्थाभिधायिनामर्थवादानां का परिनिष्ठेति? तस्मान्न स्वरूपपरत्वं तेषामुपपद्यते।
नापि तेब्य एव कार्यरूपार्थपरिकल्पनमुपपन्नम्, अशक्यत्वात्। `सोऽरोदीद्यदरोदीत् तद्रुद्रस्य रुद्रत्वमि’त्यत्रकार्यं कल्प्यमानमेवं कल्प्येत रुद्रः किल रुरोद अतोऽन्येनापि रोदितव्यमिति। तच्चाशक्यम्। प्रियविप्रयोगजनितसंतापवशेन हि वाष्पमोचनं रोदनमुच्यते। न तच्चोदनोपदेशात् कर्त्तुं शक्यते। `प्रजापतिरात्मनो वपामुच्चिखेद तस्मादन्योऽप्येवमुत्खिदेदात्मनो वपामिति दुरनुष्ठानोऽयमर्थः। को हि नामात्मनो वपामुत्खदेत्। कस्यवा वपाहोमे सति समनन्तरमेव अजः पशुस्तूपर उद्गच्छेद् इति। देवा दिशो नाज्ञासिषुरतोऽन्योऽपि न जानीयादिति अशक्योपदेशः। न हि दिङ्मोहो नामोपदेशात् कर्तुं शक्यः। न च सर्वस्मादर्थवादाद् विधिः कल्पयितुं शक्य इति मध्यमोऽपि न सत्पक्ष।
नापि तृतीयः पक्षः सम्भवति। वाक्यान्तरविहितकार्यरूपार्थौपयिकत्वं हि तदुपयोगिद्रव्यदेवतादिविधानद्वारकं भवति यथा `अग्निहोत्रं जुहोती’ त्यत्र `दध्ना जुहोति’ `पयसाजुरोती’तिद्रव्यविनियोगविधेः। `यदग्नये च प्रजापतये च सायं जुहोति’ इतिदेवताविधेर्वा। न चायमर्थवादेषु प्रकारः सम्भवति। न चैभिः `व्रीहीनवहन्ति’ `व्रीहीन् प्रोक्षती’ तिवद् दृष्टा अदृष्टा वा काचिदितिकर्त्तव्यतोपदिश्यते। तस्मान्न तेषां तदौपयिकत्वम्।
ननु प्रेक्षावतां प्ररोचनातिशयकरणेन प्रवृत्त्युत्साहमावहन्तोऽर्थवादास्तदुपयोगिनो भविष्यन्ति? नैतदपि सम्यक्। प्रवृत्त्युत्साहो हि केषाञ्चिन्मते निरपेक्षशब्दप्रत्ययादेव सिद्ध्यति। अस्मन्मते तु तत्प्रणेतृपुरुषप्रत्ययादिति किं प्ररोचनया? एवं काम इदं कुर्यादित्युक्ते यस्तत्र न प्रवर्त्तते स प्ररोचनयापि न प्रवर्तत एवेति यत्किञ्चिदेतत्। तदेवं प्रकारत्रयेणाप्यर्थवादपदानामनन्वयात् एकदेशाक्षेपेण सर्वाक्षेप एव क्रियत इति अप्रमाणं वेदः।
ननु यावत्येव प्रमाणान्तरविरुद्धत्वमुपलभ्यते तावत्येवाप्रामाण्यमस्तु सर्वत्र तु कुतस्त्या तदाशङ्केति? मैवम्। तत्सामान्यादन्यत्राप्यनाश्वासः। मीमांसकपक्षे हि अर्थवादरहितकेवलवेदग्रन्थानुपलम्भात् तदनुषङ्गेण सर्वत्र सापेक्षत्वमवतरति। नैयायिकमते तु वेदप्रणेतुरीश्वरस्यक्वचिद् वितथवादित्वे दृश्यमाने कथमन्यत्र सत्यवादितायां दृढः प्रत्योयभवेदित्यप्रामाण्यं सर्वत्रेति।
न्यायमञ्जरीग्रन्थिव्याख्या :–
%सोऽरोदीदि%ति। स (अत्रत्यष्टीकाग्रन्थः खण्डितः) %उदखिदत्%उदहरत्। %प्रागृह्णात्% प्राक्षिपत्। %तूपरः% शृङ्गरहितः पशुः। %देवयजने%ति देवा इज्यन्ते यस्मिंस्तद् यज्ञस्थानमस्मिन्नस्माभिर्यष्टव्यमित्यध्यवसाय निश्चित्य। %तथात्विनिश्चयाभावादि%ति। रोदनादि हि प्रमाणान्तरग्रहणयोग्यं वस्तु, सिद्धत्वात्; सिद्धं हि वस्तु लोके प्रमाणान्तरग्राह्यमेव `राजा याति’ वत् शब्देन प्रतिपाद्यमानं दृष्टम्, अतो वेदेऽपि तथैव भवितुमर्हति। न च प्रमाणान्तरेण रुद्रादिरोदनग्रहणसम्भवः। रोदनस्य ग्रहणाभावादेव प्रमाणान्तरविरुद्धत्वम्। वपोत्खेदनादीनां तु विपर्ययग्रहणात्।
%को ह वै तद्वेदे%ति। को वै तद्वेद, नैव कश्चिज्जानाति परलोके फलमस्ति न वेति।
%गर्गत्रिरात्रब्राह्णमि%ति गर्गत्रिरात्राख्यस्याहीनस्य क्रतोः प्रतिपादकं ब्राह्मणं गर्गत्रिरात्रब्राह्मणम्।
आधानान्ते होमविशेषः %पूर्णाहुतिः। यश्चैवं वेद% यश्चाश्वमेधमन्त्रब्रह्मणार्थं जानाति।
%न पृथिव्यामग्निरि%ति। अग्न्याधारभूतानामिष्टकानां विशिष्टेन सन्निवेशेन स्थापनमग्निचयनम्। तासामाधारभूतो दर्भः प्रस्तरणम्।
%अग्निहोत्रं जुहोति%। केन द्रव्येणेत्यपेक्षायामाह पयसाग्निहोत्रमिति। का च तत्र देवतेत्यप्याह यदग्नये चेति। %व्रीहीन् अवहन्तीति%। दृष्टेतिकर्तव्यतातण्डलनिष्पत्त्यर्थमपेक्षणात्। प्रोक्षणं तद्दृष्टोपकारार्थमनपेक्षणाददृष्टेतिकर्तव्यता।
न्यायमञ्जरी :–
%वेदप्रामाण्येऽर्थवादानां बाधकत्वनिरसनम्%
अत्राभिधीयते। विध्येकवाक्यतयैव भूम्ना तावदर्थवादपदानि पठ्यन्ते। `वायव्यं श्वेतमालभेत भूतिकाममः’ `वायुवै क्षेपिष्ठा देवता’ इत्यतो यद्यपि क्रिया नावगम्यते नापि तत्सम्बद्धः कश्चिदरथस्तथापि विध्युद्देशेनैकवाक्यत्वं प्रतीयते। भूतिकाम इत्येवमन्तो विध्युद्देशः, तेनैकवाक्यभूतो वायु र्वेक्षेपिष्ठेत्येवमादिः। कथमेकवाक्यभावः? पदानां साकाङ्क्षत्वात्।
ननु भूतिकाम इत्येवमन्तेन वाक्येन विधेयं विहितम्, उत्पादितं प्रतिपत्तुरनाकाङ्क्षत्वम्, कृतञ्च शब्दकर्त्तव्यमिति किमनेन क्षेपिष्ठेत्यादिना प्रयोजनम्? तदर्थस्यैव स्तुतिरिति ब्रूमः।
ननु स्तुस्या कि प्रयोजनम्, स्तुतोऽस्तुतश्च तावानेव सोऽर्थः? मैवम्। स्तुतिपदे हि वाक्ये स्तुतिपदसहितं विधायकं विधायकं भवति। किमिदानीं केवलं लिङादियुक्तं वाक्यं न विधायकमुच्यते यदि स्तुतिपदानिन श्रूयन्ते? तद् बाढं भवति विधायकम्। एतेषु च सत्सु तत्सहितं तद्विधायकं भवति न केवलम्, तथाप्रतीतेः। स्तुतिपदसम्बन्धे सति भिन्नवाक्यता मा भूदिति विधिपदेन च स्तुतिपदेन च सम्भूयार्थो विधीयते,तथावगमात्। अन्यथा हि प्रतीयमानः पदार्थान्वयस्त्यज्येत, वाक्यभेदो वाकल्प्येत। तस्मान्न स्तुतिपदानामानर्थक्यम्।
ननु केवलस्यापि विधिवाक्यस्य सामर्थ्यात् किमर्थं स्तुतिपदानि प्रयुज्यन्त इति? उच्यते। अपर्यनुयोज्यो जैमिनीयानां मतेशन्दः। अस्माकञ्च भगवानीश्वरः। उक्ते सति प्रतिपत्तारोवयम् वेदस्य न कर्त्तारः। प्रतिप्रत्तौ च क्रमो दर्शितः। एवञ्च यद्यपि द्रव्यदेवतेतिकर्त्तव्यताविधानद्वारकमङ्गविधिवदर्थवादवाक्यानां कार्यौपयिकत्वं नास्ति तथापि प्रतीत्यङ्गत्वं न निवार्यते। अत एव प्रमाणोपयोगित्वमाचक्षते न प्रमेयोपयोगित्वम्। केवलविधिपदश्रवणे हि न तदाद्रियन्ते यज्वानः। तत्र विधिविभक्तेः शक्तिरवसीदति। तां निमज्जन्तीमिवार्थवादजनितकर्मप्राशस्त्यप्रत्यय उत्तभ्नाति। `सर्वजिता यजेते’ त्यतो न तथाविधः श्रद्धातिशयो भवति यथाविधः `सर्वजिता वै देवाः सर्वमयजन् सर्वस्याप्त्यै सर्वस्य जित्यै सर्वमेवैतेन सर्वं जयति’ इत्यर्थवादपदेभ्यः। लोकेऽपि इयं गौः क्रेतव्येत्यतो न तथा क्रेतारः प्रवर्त्तन्ते यथा एषा बहुस्निग्धक्षीरा सुशीला सापत्या अनवप्रजा चेत्येवमादिभ्यः स्तुतिपदेभ्यः। स्वानुभवसाक्षिकोऽयमर्थः। अत एव केचिदश्रुतार्थवादकेऽपि विधिवाक्ये तत्कल्पनमिच्छन्ति, यथा क्वचिदर्थवादाद् विधिकल्पनमिति। यथोक्तम् `विधिस्तुत्योः सदा वृत्तिः समानविषयेष्यते’। अनधिगम्यमानविधिवाक्यसंबन्धाच्च अर्थवादाद् विधिरुन्नीयतेन गम्यमानविधिसंबन्धात्।
अत एव च `सोऽरोदीदि’ त्येवमादिभ्यो न रोदितव्यमित्यादिविधिकल्पनमिष्यते। मुधैव पूर्वपक्षिणा तदाशङ्कितम्। विध्यन्तरेणैकवाक्यत्वं हि प्रत्यक्षमिहोपदिश्यते। वर्हिषि रजतं न देयमित्यस्य विधेः सेषोऽयं सोऽरोदीदित्यादिः। `रुद्रोरुरोद’ तस्य यदश्रु अशीर्यत तद्रजनमभवत्, `यो हि बर्हिषि रजतं ददाति पुराअस्य संवत्सराद् गृहे रोदनं भवती’ति तस्माद् बर्हिषि रजतं न देयमिति। `प्राजापत्यमजं तूपरमालभेते’ त्येतस्यविधेःशेषः`प्रजापतिरात्मनो वपामुदखिददि’ति वपाहोममाहात्म्यप्रदर्शनार्थमुच्यते `अग्नौ वै प्रगृहीतमात्रायां वपायामजस्तूपर उदगादि’ति। `आदित्यः प्रायणीयश्चरुरि’त्यस्य विधेः शेषोऽयं देवा वै `देवयजनमध्यवसाय दिशो न प्राजानन्नित्थं व्यामोहानामादित्यश्चरुर्नाशयिता यथा दिङ्मोहस्ये’ति। एवं तत्र तत्र विधिशेषत्वमर्थवादानां वेदितव्यम्।
कथं पुनरिदमसत्यमेवोच्तेरुद्ररुदिताद्रजतमजायत, प्रजापतिवपाहोमसमिद्धादग्नेरजस्तूपर उपगादिति? उच्यते। नेदमसत्यम्। यदस्यवाक्यस्य प्रतिपाद्यं तत्र सत्यार्थमेवेदम्। न चास्ययथाश्रुतोऽर्थः प्रतिपाद्यः किन्तु विधेयो निषेध्यो वा कश्चिदर्थः। इहान्वाख्याने द्वयमापतति यच्च वृत्तान्तज्ञानं यच्च कस्मिंश्चिदर्थे प्ररोचनाद्वेषौ। तत्र वृत्तान्तज्ञानं न प्रवर्त्तकं न निवर्त्तकमिति प्रयोजनाभावादनर्थकमनादरणीयमअ। प्ररोचनाद्वेषौ तु प्रवृत्त्यङ्गत्वात् तदर्थौ गृहीत्वा प्ररोचनायाः प्रवर्त्तेत्त द्वेषान्निवर्त्तेतेति तत्रतत्प्रतिपाद्यसत्यार्थ एवार्थवादः।
यत्तु अरुदति रुद्रे कथं तद्रोदनवचनम्, अनश्रुप्रभवेऽपि रजते कथं तदुद्भवताभिधामितिगुणवादमात्रम्। गौण एष वादः। श्वेतवर्णसारूप्यादिना रोदनप्रभवं रजतं निन्दितुमुच्ते। एवं पशुयागे वपाहोमप्रशंसायै `प्रजापतिरात्मनो वपामुदकददि’ति वृत्तान्ताख्यानं योजनीयम्। आदित्यचरुप्रशंसायै देवा `देवयजनमध्यवसाय दिशो न प्राजानन्नि’ति।
अथ वा नैयायिकानामनेकप्रकारपुरुषातिशयवादिनां यथाश्रुतेऽप्यर्थे नात्यन्तमसम्भवः। रुद्रस्य रुदिताद्रजतजन्म, प्रजापतेर्वपोत्खेदः, तद्धोमात्तूपरपशूद्गमः, देवानां देवयजनाध्यवसाने दिङ्मोह इत्येवंजातीयकमपि सत्यमस्तु को दोषः? तत्, सर्वथा अर्थवादानां प्रामाण्यम्।
एवं `स्तेनं मनोऽनृतवादिनी वागि’ति गौण एष वादः। प्रच्छन्नतया स्तेनं मन उच्यते बाहुल्याभिप्रायेण चानृतवादिनी वागिति।
`धूम एवाग्नेर्दिवा ददृशे नार्चिरर्चिरेवाग्नेर्नक्तं ददृशे न धूमः’ इति दूरभूयस्त्वाभिप्रायेण कस्मैचित् प्रयोजनाय सायंप्रातर्हौमदेवतास्तुतये कथ्यते।
`न चैतद् विद्मो यदि ब्राह्मणाः स्मोऽब्राह्मणा वे’ति प्रवरानुमन्त्रणप्रशंसायै संशय इव दर्शितः। अब्राह्मणोऽपि यजमानः प्रवरानुमन्त्रणेन ब्राह्मणः स्यादिति। `को ह वै तद्वेद यदमुष्मिंब्लोकेऽस्ति वा न वे’ति दृष्टफलं कमपि कर्मस्तोनुच्यते।
`शोभतेऽस्य मुखं य एवं वेदे’ति विद्याप्रशंसैषा। शोभते इति शिष्यैरुद्वीक्ष्यमाणस्य मुखमिति। सर्वान् कामानबाप्नोति इति सर्वत्वं प्रकृतापेक्षम्। स्तुत्यर्थञ्चाश्वमेधाध्ययनेऽपि तत्फलवचनम्।
`हिरण्यं निधाय चेतव्यमि’ति स्तुत्यर्थतया दिव्यन्तरिक्षे पृथिव्याञ्च चयनं प्रतिषिध्यते। अनुपहितहिरण्यायां पृथिव्यामग्निर्नं चेतव्यो न पुनर्न चेतव्य एव तस्यामिति।
`आदित्यो यूप’ इत्थमञ्जने सति तेजस्वितया यूपस्यादित्यरूपता स्तुतये कथ्यते। तत्कार्यकारित्वाच्च यजमानः प्रस्तर उच्यते। न हि मुख्ययैव वृत्त्या लोके शब्दाः प्रवर्त्तन्ते, गौण्यापि वृत्त्या व्यवहारदर्शनात्। एवं वेदेऽपि तेषां तथा प्रयोगो भविषय्ति। इत्थञ्च मन्त्रेष्वप्यैन्द्र्या गार्हपत्योपस्थानमविरुद्धम्। एवं स्तुतिनिन्दास्वरूपास्तावदर्थवादा विध्येकवाक्यत्वेन प्रमाणम्। परकृतिपुराकल्पस्वरूपा अपि तथैव योज्याः।
क्वचित् पुनरर्थवादेनैव कश्चिदंशः पूर्यत इति,न तु प्रतीत्यङ्गत्वमेव तस्य कार्याङ्गत्वमपि भवति। यथा `प्रतितिष्ठन्ति हवा य एता रात्रीरुपयन्ति’ इत्यश्रूयमाणाधिकारस्यरात्रिसत्रविधेरधिकारांशोऽर्थवादादेव लभ्यते। यथोक्तं `फलमात्रेयो निर्देशादि’ति, तत्र हि प्रतिष्ठाकामाः सत्रमासीरन् इत्यर्थवादवशाद् गम्यते वाक्यार्थः।
क्वचिद् विधिवाक्यस्यार्थसंदेहेऽर्थवादात्मकाद् वाक्यशेषात् तंन्निश्चयो भवति। यथा `अक्ता शर्कंरा उपदधाती’त्यञ्जनद्रव्ये घृततैलवसादिभेदेन तदिह्यमाने `तेजो वै घृतमि’ति अर्थवादाद् घृतेनाक्ताः शर्करा उपधेयाइतिगम्यते।
इत्यर्थवादा विधिनैक्यभावात्
तद्वत् प्रमाणत्वममी भजन्ते।
अस्ति प्रतीत्यन्वयिता हि तेषां
क्वचिच्च कार्यान्वयिता तु दृष्टा॥
यद्वा स्वरूपपरतामपि संस्पृशन्ति
प्रामाण्यवर्म त इमे न परित्यजन्ति।
वृत्तान्तवर्णनमपीह यथार्थमाहुः॥
आदित्ययूपवचनादिषु तु स्वरूप-
याथार्थ्यमित्थमुपपादयितुं न शक्यम्।
व्याख्येति तेष्वपि न विप्लवनावकाशः॥
न्यायमञ्जरीग्रन्थिव्याख्या :–
%वायव्यमिति% वायुमेव स्वेन भागधेयेनोपधावति वायवे देयो यः पशुः स वायोः स्वं भागधेयम्, तेन वायुमुपधावति उपसर्पति स्वाभिमुखं करोति। क्रियया सम्बन्धः द्रव्यदेवतादिः। %एवमन्तो विध्युद्देशः।% विधिरनुबन्धद्वयानुबद्ध उद्दिश्यते येन।
%अह्गविधिवत्%। अङ्गविधयः प्रयाजादिविधयः। %प्रतीत्यङ्गत्वमि%ति। केवलाद् विध्युद्देशात् स्तुतिरहितस्य विषयस्य प्रतीतिः सार्थवादकात्तु सस्तुतिकस्येति सस्तुतिकविषयप्रतीतावह्गमर्थवादाः। दारा इत्यादौ बहुत्ववद्वा प्रतीत्यङ्गबहुत्वयुक्तं द्रव्यं प्रतीयते केवलम्, कार्ययोगः पुनरेकस्यैव; एवं सस्तुतिको विषयः प्रतीयत एव, अनुष्ठीयते तु शुद्ध एवेति। %अत एव प्रमाणोपयोगित्वमिति%। शब्दतः प्रतिपन्नापि स्तुतिः प्रमाणस्य लिङादेः प्रत्ययस्य कर्तव्यतावबोधं प्रति साहाय्यकरणात् प्रमाणोपयोगिनी। अत एव %प्राभाकरा% वेदोऽर्थवादा न तु वैदिकाः इत्याहुः; वेदोऽवबोधका न वैदिकाः प्रमेया इत्यर्थः। %न प्रमेयोपयोगित्वम्।% प्रमेयं तादृगेव स्तुतं चास्तुतं चेति।
%स्वानुभवसाक्षिक%इति। स्तुतिवाक्यमेव विधिवाक्यम्, स्ततित एव विध्यर्थावगमात् न तत्रान्यस्य विधिवाक्यस्य कल्पनमुपयुज्यत इत्यनुभवसाक्षिकमेतत्। यदि विधिवाक्यात् प्रतीयते तत् स्तुतिपदेभ्योऽपि प्रतीयत इत्यत्रानुभवः साक्षी। तथापि केचित् %कल्पनमिच्छन्ति% यथा `यो ब्राह्मणायावगूरेत् तं शतेन यातयात्’ इत्यर्थवादाद् ब्राह्मणावगूरणं न कर्तव्यमिति निषेधविधिवाक्यकल्पनम्।
%आदित्यः प्रायणीयश्चरुरि%ति। प्रयन्ति प्रारभन्तेऽनेन यज्ञमिति प्रायणीयोऽदितिदेवताकश्चरुः। दर्शपूर्णमासकर्मसम्बद्धस्य हौमिकस्य वह्नेः कर्मसमूहस्योपस्थानात् किं कथं कर्तव्यमिति कर्मक्रमाद्यनवधारणरूपो यो भ्रमः सोऽनेन चरुणा निवर्त्यते, अवकाशदानात्। अत्र प्रवृत्त्या हि अवकाशं लभन्ते `इदं कृत्वा इदं क्रियते’ इति। %यथा दिङ्मोहेति% दिङ्मोह इव दिङ्मोहः, यथा दिङ्मोहे सति न क्वचित् प्रवर्तितुं शक्यत एवं कर्मक्रमाद्यनवधारणेऽपीति। अपि दिङ्मोहस्य किं पुनः दिङ्मोहस्येत्यर्थः।
%वृत्तान्तज्ञानं% पुरैवमासीदिति।
%यत्त्वरुदति रुद्र इति%। अरुदति प्रमाणान्तरादनुपलभ्यमानरोदन इत्यर्थः। %अनश्रुप्रभवेऽपी%ति। प्रमाणान्तराद् रजताकाराद् रजतप्रबवदर्शनात्।
%एवं स्तेनं मन% इति। सोममाने श्रूयते `हिरण्यं हस्ते भवत्यथ गृह्णाति’ इति हिरण्यं हस्ते गृहीत्वा अथ सोमं मातुं गृह्णातीत्यर्थः। ननु अहिरण्यहस्त एव कस्मान्न गृह्णाति तदाह `स्तेनं मनोऽनृतवादिनी वागि’ति। हिरण्यहस्तेन यत् कृतं तत् सत्यं न मनसा वाचा वेति हिरण्यस्तुत्यर्थं तयोर्निन्दा (अतःपरं टीकाग्रन्थो नष्टः)।
……%ऽब्राह्मणा% वेति संशयरूपमज्ञानम्, अब्राह्मणोऽप्यनेन ब्राह्मणो भवतीति स्तुतिः। %को ह वै तद्वेदे%ति यदुच्यते तद् दृष्टफलं कर्म स्तोतुमुच्यते। `दीक्ष्वतीकाशान् कूर्यात्’ इति श्रूयते। अतीकाशा धूमनिर्गमनविवरप्रदेशाः। किमति कुर्यादित्याकाङ्क्षायां वाक्यशेषः `को हि तदन्त् स्वर्गादि फलं जानाति यदमुष्मिंल्लोके भवति वा न वा’ इति। एतत्त्वतीकाशकरणं दृष्टफलमेव, दृष्टेन धूमनिर्गमनलक्षणेन फलेन फलतत्त्वादस्येति स्तुतिः।
%विद्याप्रशंसा% गर्गत्रिरात्रब्राह्मणज्ञानस्तुतिः। %सर्वत्वं प्रकृतापेक्षमि%ति। पूर्णाहुत्या सर्वान् कामानवाप्नोति। सर्वकामफलस्य दर्शपूर्णमासादिकर्मसमूहस्य निमित्त आहवनीये प्राप्यमाणे पूर्णाहुत्या सर्वान् कामान् अवाप्नोतीति स्तुतिः। एवं तर्हि अन्तर्धानादिफलानामपि कर्मणामाहवनीयो निमित्तं प्राप्त इत्याह प्रकृतापेक्षमिति। प्रकृतानि यान्यग्निहोत्रादिकर्माणि तेषां निमित्तं पूर्णाहुत्या आहवनीयः प्राप्यते, तस्मिन् प्राप्ते प्रस्तुतानि कर्माण्यनुष्ठीयन्ते अग्निहोत्रादिकानि, ततस्तत्तत्फलमिति। दृष्टश्च प्रकृतापेक्षः सर्वशब्दः `सर्वमनेन भुक्तम्’ इतिवत्। %अश्वमेधाध्ययनेऽपी%ति। आस्तां तावदश्वमेधानुष्ठानं योऽपि वेद सोऽपि मृत्युं तरतीत्यश्वमेधानुष्ठानस्यैव स्तुतिः।
%अञ्जने सति% घृतादिना। %तत्कार्यकारित्वाद्% यज्ञनिर्वर्तकत्वाद् यजमानकार्यकारित्वं प्रस्तरस्य। %ऐन्द्र्या गार्हपत्योपस्थानमविरुद्धमि%ति इन्द्रप्रतिपादकानां पदानां `कदानच स्तरीरसि नेन्द्र सश्चसि दाशुषे’ इत्यस्यामैन्द्र्यामृचि ऐश्वर्यादियोगाद् गौण्या वृत्त्या गार्हपत्येऽपि प्रवृत्तिरविरुद्धा। %परकृतिपुराकल्पस्वरूपाः% पूर्वं दर्शिताः, यथा चात्र दाल्भ्य आह `माषानेव मह्यं पचते’ति परकृतिरूपोऽर्थवादः, तस्मादारण्यानेवाश्नीयादित्येतद् विधिशेषः। `उल्मुकैर्ह स्म पुरा समाजग्मुरि’ति च पुराकल्परूपोऽर्थवादः। तस्माद् गृहपतेरेव %निर्मन्थ्या%ग्निषु स पचन् पचेदित्येतच्छेषः। विशिष्टनामधेयतया ज्ञातकर्तृक कर्मसम्बद्धोऽर्थवादः परकृतिः, अविज्ञातकर्तृकर्मसम्बद्धस्तु पुराकल्प इति।
%फलमात्रेयो निर्देशादि%ति। `त्रयस्त्रिंशद्रात्रमुपेयुरि’त्येतावन्मात्रं श्रूयते, किंकाम इति तु न श्रूयते। %फलमात्रेयो निर्देशादि%ति। `प्रतितिष्ठन्ति ह वा’ इत्यादि किं फलार्थवादमात्रमुत फलविधिरिति संशये फलार्थवादमात्रमित्यत्र पूर्वपक्षे सूत्रम् “क्रतौ फलार्थवादमह्गवत् कार्ष्णाजिनिः” ति क्रतावस्मिन् रात्रिसत्रे फलमर्थवादतया कार्ष्णाजिनिराचार्यो मेने, यथा `यस्य खादिरः स्रुवो भवति च्छन्दसामेव स रसेनावद्यती’त्यत्राङ्गविधावर्थवादमात्रं फलनिर्देशः। ततः सिद्धान्तसूत्रं `फलमात्रेयो निर्देशादश्रुतौ ह्मनुमानं स्यात्’ इति। आत्रेय आचार्यः। फलविधिमेव मन्यते सः। फलं ह्यवश्यं कल्प्यम्, तच्च निर्दिष्टमेव, अश्रुतौ ह्यमुमानं कल्पना भवतीति। अत्र चार्थवादविचारे पूर्वपक्षावस्थायां `सोऽरोदीदि’त्याद्या उदाहृताः, सिद्धान्ते तु `वायुर्वै क्षेपिष्ठे’त्यादयः; तत्रकोऽभिप्रायः। उच्यते। तेषु स्वार्थासत्यत्वाशङ्का विद्यते, अमीषु तु स्वार्थासत्यत्वाशङ्काया अभावः। एषाञ्चैकवाक्यत्वं विधिना साधयितुं पारितं तदनेनैव न्यायेन तेषामपि सेत्स्यतीति।
न्यायमञ्जरी :–
%मन्त्राणामपि न वेदप्रामाण्यो पघातकत्वम्%
अथेदानीं मन्त्रा विचार्यन्ते। किमर्थप्रकाशनद्वारेण विध्यर्थोपयोगिता तेषाम् उत उच्चारणमात्रेणेति? ननूभयथापि प्रामाण्याविशेषात् किं तद्विचारेण? न हीदं शास्त्रं वेदस्यार्थविचाराय मीमांसावत् प्रवृत्तम्, अपि तु प्रामाण्यनिर्णयायैवेति। सत्यम्। प्रामाण्यनिर्णयायेदं शास्त्रं प्रवृत्तम्, अविवक्षितार्थत्वे तु मन्त्राणामप्रतिपादकत्वलक्षणमप्रामाण्यमेव भवेत् तत्सामान्याद् वेदब्राह्मणवाक्यानामपितथाभावप्रसङ्ग इति वेदस्य कर्मावबोधार्थत्वं हीयते। न च संशयविपर्ययजननमेवाप्रामाण्यम्, अज्ञानजनकत्वमप्यप्रामाण्यमेव। तदुच्यते। उच्चारणमात्रोपकारिणो मन्त्राः। कुतः? तथा विनियोगोपदेशात्। `उरुप्रथा उरुप्रथस्वे’ति पुरोडाशं प्रथयति। यद्यर्थप्रकाशनोपकारिणो मन्त्राः, सामर्थ्यादेव प्रथमोपयोगी मन्त्रोऽयमिति किमर्थं प्रथने विनियुज्यते वचनेन? यथा साक्षः पुरुषः परेण चेन्नीयते नूनमक्षिभ्यां न पश्यतीति गम्यते। `अग्नीदग्नीन् विहरे’ति च। करोत्येवासौ ऋत्विगग्निविहरणं किं वचनेन? उच्चारणमात्रोपकारिणि मन्त्रे तदुच्चारणादेवादृष्टं किञ्चिदुपकारजातं कल्प्यते। वाक्यक्रमनियमाच्च अपिवक्षितार्थान् मन्त्रानवगच्छामः। नियतपदक्रमा हि मन्त्राः पठ्यन्ते। यद्यर्थप्रतिपादनेनोपकुर्युर्नियतक्रमाश्रयणमनर्थकं स्यात्, क्रमान्तरेणापि तदर्थावगमसम्पत्तेः।
इतश्चाविवक्षितार्था मन्त्राः। अविद्यमानार्थप्रकाशिनो हि केचिद् दृश्यन्ते। यथा `चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य। त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्यानाविवेश’ इति। न हि चतुः शृङ्गं त्रिपादं द्विशिरस्कं किञ्चिद् यज्ञसाधकमस्ति यदनेन प्रकाश्येत, अतश्चैवम्। अचेतनप्रैष प्रद्रशनाद् `ओषधे त्रायस्वैनमि’ति, न ह्योषधिर्बुद्ध्यते त्राणाय नियुक्तास्मीति। `शृणोतु ग्रावाण’ इति चोदाहरणम्। न ह्यचेतना ग्राबाणः श्रोतुं नियुज्यन्ते। अपि च `अदितिर्द्यौरन्तरिक्षमि’तिविप्रतिषिद्धमभिवदन्ति मन्त्राः। कथं सैव द्यौस्तदेवान्तरिक्षं भवितुमर्हति? केषाञ्चिच्च मनत्राणामर्थो ज्ञातुमेव न शक्यते ते कथमर्थप्रकाशनेनोपकुर्युः? `अम्यक् सा त इनद्रऋष्टिरि’ति, `शृण्येव जर्फरी तुर्फरीतु’ इति, `इन्द्रः सोमस्य करके’ति च। तस्मादविवक्षितार्था मन्त्राः।
अपि चोच्चारणमुभयथापि कर्त्तव्यम्, मन्त्राणामदृष्टाय वा अर्थप्रत्यायनाय वा। यतोऽर्थमपि नानच्चारिताः शब्दाः प्रत्याययितुमुत्सहन्ते. तस्मादवश्यकर्त्तव्येऽस्मिन्नुच्चारणे तत एव यज्ञोपकारे सिद्धे किम् अर्थप्रतिपादनद्वारपरिदग्रहेण प्रयोजन मिति।
तत्रोच्यते। किं मन्त्रेभ्योऽर्थप्रतीतिरेव नास्ति, किं वा भवन्त्यपि निर्निमित्तासौ, उत सन्निमित्तापि ग्रहैकत्वप्रतीतिवदविवक्षितेति। न तावत्प्रतीतिरेव नास्ति, शब्दार्थसम्बन्धव्युत्पत्तिसंस्कृतमतीनां `बर्हिर्देवसदनं दामी’त्येवमादिमन्त्रश्रवणे सति तदर्थप्रतीतेः स्वसंवेद्यत्वात्। नाप्यसौ निर्निमित्ता, लोकवत् पदानामेवात्रनिमित्तत्वात्। व्युत्पत्तिरपि न नास्ति, य एवलौकिकाः शब्दास्त एव वैदिकास्त एव तेषामर्था इति लोकव्यवहारतस्तद्व्युत्पत्तिसम्भवात्। नापि सम्भवन्त्यपि मन्त्रेभ्योऽर्थप्रतीतिः ग्रहैकत्वप्रतीतिवदविवक्षिता भवितुमर्हति, अविवक्षानिवन्धनस्य कस्यचिदप्यभावात्, ग्रहादिवचनान्तरनिर्ज्ञातसंख्यत्वात् सोमावसेकनिर्हरणस्य च सम्मार्गकार्यस्य सर्वग्रहसाधारणत्वाद्, ग्रहम् इति विभक्तेश्च कर्मकारकसमर्पणमात्रेणापि सार्थक्योपपत्तेः, युक्तमेकत्वमविवक्षितमिति कथयितुम्। इह तु `बर्हिर्देवसदनं दामी’त्येवमादिवाक्यक्रियमाणं क्रतूपयोगिद्रव्यादिप्रकाशनम् तस्य विध्यपेक्षितत्वान्मन्त्रेण स्मृतं कर्म करोति। तथाक्रियमाणमभ्युदयकारि भवति इति न यज्ञाङ्गप्रकाशनमविवक्षितम्। अतो नोच्चारणमात्रोपकारिणो मन्त्राः। जपमनत्राणान्तु `पावमानीं जपेदि’ति विधिनैव तावन्मत्राक्षेपणान्नार्थेन प्रकाशितेन प्रयोजनमिति। किं तत्र क्रियते? यत्र तु जपेदिति विधिर्न श्रूयते न तत्र तदर्थः प्रतीयमानोऽपेक्ष्यमाणश्चोपेक्षितुं युक्तः।
ननु यदि जपेदिति विदेर्वैष्णव्यादिषु नार्थो विवक्ष्यते तर्हि `स्वाध्यायोऽध्येतव्यः इत्यक्षरग्रहणमात्रविधानात् सर्वस्य वेदस्याविवक्षितार्थत्वं स्यात्। एतच्च शास्त्रान्तरे विस्तरतो निर्णीतम् इह तु वितन्यमानमस्माकमवान्तरविचारवाचालतामाविष्करोतीति न प्रतन्यते।
यत्तु तदर्थविनियोगोपदेशादित्यविवक्षितार्थत्वमुक्तं तत्र `उरु प्रथा उरु प्रथस्वे’ ति लिङ्गादेव मन्त्रस्य प्रथनविनियोगसिद्धेः कामं तद्विधायकं वचनमनर्थकं भवतु प्राप्तानुवादकत्वाद्, न तु प्रतीयमानो मन्त्रादर्थस्त्यक्तुं युक्तः। तत् किं वचनमनर्थकमेव? नानर्थकम्, प्रतिपन्नार्थविषयन्तु तत्। अर्थवादार्थं वा तद्वचनम्। यज्ञपतिमेव तत्प्रथयतीति तद् यज्ञपतिं यजमानमेव प्रजया पशुभिः प्रथयतीति। क्वचित्तु गुणार्थविधानं यथा `तां चतुर्भिरादत्ते’ इति, एव म् `अग्नीदग्नीन्विहरे’दि त्यादावपि द्रष्टव्यम्।
यत्तु नियतपदक्रमत्वादुच्चारणमात्रोपयोगिनो मन्त्रा इति तदप्यसाधु। मीमांसकानामनादित्वाद् वेदस्य तत्क्रमलङ्घनानुपपत्तेः। यथोक्तम् `अन्यथा करणे चास्य बहुभ्यः स्यान्निवारणम्’ इति। अस्माकमपि यादृगीश्वरप्रणीतो वेदस्तदन्यथाकरणे किमध्येतॄणां स्वातन्त्र्यमस्ति? तस्मान्नार्थविवक्षायै मन्त्रक्रमः प्रभवति ब्राह्मणवाक्यक्रमवत्।
यदपि `चत्वारि शृङ्गे’त्यविद्यमानार्थवचनमाशङ्कितम्, तदप्यनभिज्ञतया। यज्ञस्यवैष गुणवादेन। संस्तवः। चत्वारि शृङ्गा इति वेदा उक्ताः, त्रयोऽस्य पादा इति सवनानि, द्वे शीर्षे इति दम्पती यजमानौ, सप्त हस्तास इतिच्छन्दांसि, त्रिधा बद्ध इति मनत्रब्राह्मणकल्पैर्निबद्धो बृषभ इति, कामान् वर्षति, `रोरवीती’ति स्तोत्रशस्त्रप्रयोगबाहुल्याच्छब्दायमानः `महोदेवो मर्त्यानाविवेशे’ति मनुष्यकर्तृकत्वेनैवमेष यज्ञः स्तुतो भवति। तद् यथा चक्रवाकमिथुनस्तनी हंसदन्तावली शैवालकेशी काशवसनीति नदी स्तूयते।
`ओषधे त्रायस्वैनमि’ति चेतनवन्नियोगस्तस्याः स्तुत्यर्थः। `श्रृणोत ग्रावाण’ इति प्रातरनुवाकस्तुतिः। इत्थं नामैष प्रातरनुवाकः `प्रशस्यो यदचेतना ग्रावाणोऽपि श्रृणुयुः अदितिर्द्यौरदितिरन्तरिक्षमि’ति गुणवादादप्रतिषेधः। तद् यथा लोके त्वमेव मे माता त्वमेव मे पिता त्वमेव भगिनी त्वमेव मे भ्रातेति।
यत्तु केषाञ्चिन्मन्त्राणामर्थो न ज्ञायते इति, पुरुषापराधः। अर्थावगमोपायेषु बहुषु सत्स्वपि तदन्वेषणालसः पुरुषो नार्थमवगच्छति न पुनर्मन्त्रोऽत्रापराध्यति, ब्राह्मणवाक्यवदुपायतस्तदर्थावगमदर्शनात्। उपायश्च प्रथस्तावद् वृद्धव्यवहार एव। तुल्यत्वाल्लोके वेदे शब्दार्थानाम्। य एव लौकिकाः शब्दास्त एव वैदिकास्त एव चैषामर्था इति।
यद्यपि च `अग्निर्वृत्राणिजङ्घनदि’ति वेदे कृतणत्वमग्निशब्दं पठन्ति `उत्ताना वै देवगवा वहन्ति वनस्पते हिरण्यपर्ण प्रदिवस्ते अर्थमि’ति लौकिकवैदिकयोः शब्दयोरर्थयोश्च नानात्वमिवाशङ्क्यते, तथापि तथात्वं प्रत्यभिज्ञानेनावधार्य ईषद्विकृतास्त एव वेदे इति लौकिक्येव व्युत्पत्तिः। लोकप्रसिद्धिविप्रतिषेधे तु शास्त्रवित्प्रसिद्धिः प्रमाणीक्रियते यथा `यवमयश्चरु’ `र्वाराही उपानहौ’ `वैतसे कटे प्राजापत्या सञ्चिनोती’तियववराहवेतसशब्दादीर्घशूकसूकरवञ्जुलकेषुशिष्टप्रसिद्ध्या नियम्यन्ते, न प्रियङ्गुकृष्णशकुनिजम्बूष्विति। यत्र तु शष्टप्रसिद्धिर्नास्ति तत्रम्लेच्छेभ्योऽपि तदर्थव्युत्पत्तिराश्रीयते, यथा पिकनेमतामरससब्देषु। म्लेच्छप्रसिद्धेरप्यभावे निगमनिरुक्तव्याकरणवशेन धातुतोऽर्थः परिकल्पनीयः। तेनाश्विनसूक्तप्रक्रमाज्जरणमरणनिमित्तौ जर्फरीतुर्फरीतू इति द्विवचनान्तसरूपावेतौ शब्दावश्विनोर्वाचकाविति गम्यते, एवमन्यत्राप्युत्प्रेक्षणीयम्। तदनेनापि निमित्तेन न मन्त्राणामविवक्षितार्थत्वं वक्तव्यम्।
अमी तस्मादथैप्रकटनमुखेनैव दधति।
क्रियार्थत्वं मन्त्रा न तु पठनमात्रेण जपवत्।
न तद्द्वारेणापि श्लथयितुमतः शक्यत इदं
प्रमाणत्वं वेदे सकलपुरुषार्थामृतनिधौ॥
न्ययमञ्जरीग्रन्थिव्याख्या :–
%किं अर्थप्रकाशनद्वारेणे%ति। प्रयोगकाले योऽयं मन्त्राणां पाठः स किं प्रयोज्यान् पदार्थान् प्रकाशयितुं तेषां स्मरणाय उत अदृष्टार्थमुच्चारणमात्रमिति। %उरुप्रथा उरुप्रथस्व।% त्वं पुरोडाश उरुप्रथाः उरुकृत्वा प्रथस्व इति। उरुप्रथाः प्रथःशब्दः सान्तः। अत उरु विस्तीर्णं कृत्वा प्रथस्व विस्तारं भजेति। %प्रथयति% पिण्डरूपं सन्तमपूपरूपं सम्पादयति। %अग्नीदग्नीन् विहरे%ति मन्त्रेणाग्नीधोऽग्निविहरणं कर्तव्यं प्रकाश्यम्, तच्चाग्निविहरणमसावनेन वचनेनाप्रकाशितमपि कर्म पाठक्रमवशादेव जानन् करोति। अस्मिन् ह्यवधौतस्याग्निविहरणं पठ्यते।
%ग्रहैकत्वप्रतीतिवदि%ति। `ग्रहं सम्माष्टिं’ इत्यत्र ग्रहं निर्दिश्य सम्मार्गो विधीयते। निर्देशस्तु वचनान्तरनिर्ज्ञातस्य भवति, वचनान्तरेण च नवसंख्योऽसौ विहिति त्येकत्वाविवक्षा। %समावसेकः% सोमावलेपः। %अपेक्ष्यमाणश्चे%ति। यथा `बर्हिर्देवसदनमि’त्यस्य द्रव्यप्रकाशनं योऽर्थः स विधिना अपेक्ष्यते।
%सर्वस्य वेदस्याविवक्षितार्थत्वं स्यादि%ति। `ननु कथमविवक्षितार्थत्वम्, स्वाध्यायाध्ययनविधेः स्वाध्यायोऽध्येतव्यः’ इत्यस्यार्थज्ञानपरत्वादित्याह `अक्षरग्रहणमात्रविधानात्’ इति। `स्वाध्यायोऽध्येतव्यः’ इत्यस्यार्थज्ञानपरत्वादित्याह `अक्षरग्रहणमात्रविधानात्’ इति। `स्वाध्यायोऽध्येतव्यः’ पाठेनामुखीकर्तव्य इति हि तस्यार्थः। दृष्टो हि तस्यार्थः कर्मावबोधनमिति। अक्षरग्रहणमात्रस्यनिष्फलत्वादवश्यं विधिना प्रवर्तकशक्त्यविघाताय फलान्तरं कल्प्यम्। यावच्च कल्प्यते तावद् दृष्टमेवार्थावबोधनं लध्वित्यादि प्रथमाह्निकारम्भ एव प्रपञ्चितमिति। ननु `यद् ऋचोऽधीते घृतकुल्या भवन्ति, यद् यजूंष्यधीते मधुकुल्या भवन्ति’ इति ऋगाद्यध्ययनात् फलानत्रश्रवणात् कथमर्थावबोध एव फलमिति। अतिप्रसिद्धोऽयमर्थः, प्रथमसूत्र एव मीमांसायामस्य विचारणादत एवाह %एतच्च शास्त्रान्तर% इति। `अन्यार्थत्वे स्वाध्यायस्यावगते तेषामर्थवादतयैव समन्वयः’ इत्याद्युत्तरमत्र।
%तद्विधायकम्% उरुप्रथा इति पुरोडाशं प्रथयतीति। %प्रतिपन्नार्थविषयन्तु तदि%त्यनेन निरालम्बनत्वकृतमनर्थकत्वं परिहरति, %अर्थवादार्थम्% वेत्यनेन त्वनुवादमात्रत्वम्। %क्वचित्तु गुणार्थविधानमि%ति। सन्त्यादानसमर्था मन्त्रा `देवस्य त्वा’ इत्यादयः, तन् पठित्वाह `तां चतुर्भिरादत्ते’ इति। तामित्यभ्रिं; वेद्यर्थं मृत् खन्यते यया सा अभ्रिः। तत्र तदादानप्रकाशनसामर्थ्यादेव मन्त्रेण तदादाने लब्धे पुनस्तां चतुर्भिरादत्त इति वचनं निष्फलमाशङ्क्य समुच्चितैश्चतुर्भिरादानं कार्यं नैकैकेनेति समुच्चयलक्षणगुणस्य विशेषस्य विधानार्थम्। यद्यपि समुच्चयो न वाच्यस्तथाप्यसमुच्चितैरेकैकश आदानं क्रियमाणं कथं चतुर्भिरादानं कृतं स्यादिति फलतः समुच्चयलाभः। %एमग्नीदग्नीन् विहरे%ति। अत्र यद्यपि तस्य ज्ञानं स्थितं मयैतत्कर्तव्यमिति तथापि प्रयोगकालेऽवश्यं स्मर्तव्यं तत्, उपायान्तरेण स्मरणप्रतिषेधार्थं मन्त्रेण स्मृतं कर्तव्यमिति मन्त्रस्योपयोगः।
%अन्यथा करणे चास्ये%ति। बहुभ्योऽध्येतृभ्यो निवारणम्, एवं मा पठीरिति।
%सवनानि% प्रातःसवन, माध्यंदिनसवन, तृतीयसवनानि। %छन्दांसि% गायत्र्यादीनि। %कल्पो% यज्ञसूत्रम्. %कामान्% स्वर्गादीन्। स एवंभूतो %महो देवो% महान् देवो यज्ञो %मर्त्यान्% मनुष्यान् %आविवेश,% तेषामेव यज्ञेऽधिकारात्। चत्वारि शॄङ्गास्त्रिधा बद्ध इत्यनयोरथर्ववेदभक्त्या स्वव्याख्यानं कृतवान् ग्रन्थकारः, भाष्यकारस्तु चत्वारो होत्राः शृङ्गाणीवास्येति, त्रिधा बद्धस्त्रिभिर्वेदैर्बद्ध इति च व्याचचक्षे। होत्रा इति ऋत्विग्विशेषाणां ब्रह्मन्-आच्छसि-पोतृनेष्टृलक्षणानां चतुर्णामभिधानम्, तेषां यज्ञमुखप्रदेशवर्तित्वाच्छृङ्गतुल्यत्वम्।
%ओषधे त्रायस्वे%ति। पशुसंज्ञापनकाले पशुपरित्राणार्थमध्वयुर्दर्भमाह `ओषधे त्रायस्वे’ति। तस्या अचेतनायाश्चेतनवत्त्वसमारोपः स्तुतिः। %प्रातरनुवाकस्तुरिति%ति प्रातरनुवाकाख्यः शस्त्रविशेषः ऋग्वेदप्रसिद्धः। %यदचेतना ग्रावाणोऽपि शृणुयुरि%त्यस्य किं पुनर्विद्वांसो ब्राह्मणा इति शेषः।
%यत्तु केषाञ्चिन्मन्त्राणामर्थो न ज्ञायत% इति। तत्र `अम्यक् सा त इन्द्र ऋष्टिरस्मे समेम्यभ्वं मरुतो जुनन्ति अग्निश्चिद्धि ष्मातसे शुशुकानापो न द्वीपं दधति प्रयांसि’ इतितावन्मन्त्रस्यायमर्थः अगस्त्योऽमरत्वं प्रार्थयमान इन्द्रमाह हे इन्द्र सा ते भवत्सम्बन्धिनी ऋष्टिरायुधविशेषः अस्मे अस्माकं स्थितैव, किंविशिष्टा? अम्यक् अमिशब्दः सहार्थे अमि सह अञ्चतीत्यम्यक् या तव सहचारिणीत्यर्थः। अग्निः चित् हि स्म अग्निरिव हि अतसे शुष्कतृणे, शुशुकान् दीप्तवान् शुष्कतृणप्रज्वलिताग्नितुल्या या लक्ष्यत इत्यर्थः। येऽप्येते मरुतः सनेमि पुराणमभ्वं तोयं जुनन्ति वृष्टिरूपेण प्रक्षरन्ति। अत एव प्रयांस्यन्नाद्यानि दधति धारयन्ति तव सखाः तेऽप्यस्माकमेव कथं (अत्र टीकाग्रन्थो नष्टः) तावच्छब्दौ प्राङ्नीत्या प्रहरणहिंसापरौ सति च प्रहर्तव्ये तत्परत्वमनयोर्नान्यथा अश्विनोश्च देवभिषजोर्जरणमरणे एव प्रहर्तव्यहिंसितव्ये च नान्यत्। अत उक्तम् जरणमरणनिमित्ताविति। यत एव च जरामरणयोः प्रहर्तारौ हिंसितारौ चास्विनावत एव ताभ्यामजरत्वममरत्वञ्च प्रार्थितवानगस्त्य इति। `एकया प्रतिधापिवत् साकं सरांसि त्रिंशतम्। इन्द्रः सोमस्य काणुका’ इति मन्त्रेणेन्द्रः स्तूयते। एकयाप्रतिधा एकेन प्रयत्नेन साकं युगपत् त्रिंशतं सरांसि पात्राणिसोमस्य पूर्णानीनद्रोऽपिबत्। काणुका कामयमानः सन्।
%अग्निर्वृत्राणी%ति। अग्निर्वृत्राणि पापानि जङ्घनदत्यर्थं हतविनित्यर्थः। %हिरण्यपर्णे%ति। न हि लोके वनस्पतीनां हिरण्मयपर्णत्वमित्यर्थान्यत्वम्। %वाराही उपानहौ% वराहचर्मनिर्मिते। वैतसे कट% इत्यश्वमेधे स्रूयत एतत्। वेतसनिर्मिते कटे प्रजापतिदेवताकानश्वादिनानापश्ववयवान् सञ्चिनोति सहचरयति। %शिष्टप्रसिद्धर्या% शास्त्रवित्प्रसिद्ध्या। तथाहि `यवमयेषु करम्भपात्रेषु विहितेषु वाक्यशेषं यत्रान्या ओषधयो म्लायन्ते तत्रैते मोदमाना इवोत्तिष्ठन्तीति’; न चैवंरूपता प्रियङ्गुषु सम्भवति, सर्वौषधिसाधारणे शरत्समये तदुद्भवात्; यवानान्तु ग्रीष्मे समुद्भवः, अतस्तेष्वेव प्रत्ययस्तस्माद्। `वराहं गावोऽनुधावन्ति’ इत्यतस्तु वाक्यशेषात् सूकरे वराहशब्दो न कृष्णशकुनौ काके; न हि तं गावोऽनुधावन्तीति। `अप्सुजो वेतसः’ इत्यमुष्माच्च वाक्यशेषाद् वञ्जुले वेतसशब्दो न जम्ब्वाम्। %निगमे%ति निगमा निगण्टवः, अस्येयन्ति। नामानीत्येवंप्रायाः। मन्त्रार्थप्रदर्शनपराणि वेदवाक्यान्येव यानि यथा `युञ्जानः प्रथमं मनः’ इत्यस्य मन्त्रस्य `प्रजापतिर्वै युञ्जनः’ इत्यादिको व्याख्यारूपो निगम उच्यते। व्युत्पत्त्यार्तप्रतिपादनं येन क्रियते तन्निरुक्तम्।
न्यायमञ्जरी :–
%नामधेयपदसार्थक्यम्%
इदमिदानीं परीक्ष्यते, `उद्भिदा यजेत’ `चित्रया यजेत पशुकामः’ `अग्निहोत्रं जुहुयात् स्वर्गकामः’ `श्येनेनाभिचरन् यजेत’ `वाजपेयेन स्वाराज्यकामो यजेते’ति श्रूयते। तत्र किमुद्भिदेति चित्रयेति अग्निहोत्रमिति श्येनेनेति वाजपेयेनेति गुणविधय एते, तत्तत् कर्मनामधेयानि वेति? किमनेन परीक्षितेन प्रयोजनम्? उभयत्रापि प्रामाण्य ं नोपपद्यते इति तदर्थमेवेदं परीक्ष्यते। यदि तावद् `व्रीहिभिर्यजेत’ `दध्ना जुहोती’तिवद् गुणः कश्चिदुद्भिदादिपदैर्विधीयते अनेन द्रव्यविशेषेण यागः कर्त्तव्य इति तदा भावार्थस्य यज्यादेरन्यतोऽवगतिर्मृग्या, अनवगते भावार्थे गुणविधानस्यानुपपन्नत्वात्। `आग्नेयोऽष्टाकपालो भवति’ `आग्नेयोऽष्टाकपालो भवति’ `अग्निहोत्रं जुहोती’ति विध्यन्तरेण भावार्थे चोदिते तत्र `व्रीहिभिर्यजेत’ `दध्ना जुहोती’ति।
ननु `वाजपेयेन स्वाराज्यकामो यजेते’त्यनेनैव वाक्येन यागाख्यो भावार्थः योदयिष्यते गुणश्च तस्मिन् वाजपेयाख्यो विधास्यते इति को दोषः? कथं न दोषः? अर्थद्वयविधानेन वाक्यभेदप्रसङ्गात्। यागेन स्वाराज्यं कुर्यादित्येकोऽर्थः, वाजपेयेन गुणेन यागं कुर्यादिति द्वितीयोऽर्थः, न च सकृदुच्चरितं वाक्यमर्थद्वयविधानाय प्रभवति।
ननु यजेतेति रूपसाम्यादुभयत्रापि संबध्यते यजेत स्वाराज्यकामो वाजपेयेन चेति तुल्यमस्योभयत्रापि रूपम्? न। रूपसाम्यस्यासिद्धत्वात्। स्वाराज्यं प्रतियजिरप्राप्तत्वाद् विधीयते गुणञ्च प्रति प्राप्तत्वादनूद्यते। अनवगते हि कर्मणि गुणविधानमघटमानमित्यवश्यं गुणविधिपक्षे गुणं प्रति यजिः प्राप्तत्वादुद्देश्यो भवति प्रधानञ्च। स एव स्वाराज्यं प्रति विधेयत्वादुपादेयो गुणश्चेति विरुद्धरूपापत्तेर्न यजिरुभाभ्यां युगपत् सम्बन्धुमर्हति। यः स्वाराज्यं साधयितुमिच्छेत् स यजेतेत्यन्यद्रूपम्, यद् यजेत तद् वाजपेयेनेत्यन्यपद्रूम्। तस्माद् भावार्थप्राप्तौ प्रमाणान्तरापेक्षणाद् गुणविधिपक्षे तदप्रमाणं वचनम्। अथैष दोषो माम्भूदिति नामधेयपक्ष आश्रीयते? तदैषामुद्भिदादिपदानां विस्पष्टमेवानर्थक्यम्। यावदेवोक्तं भवति यजेतेति तावदेव वाजपेयेनेति। एवमानर्थक्यादनय्त्राप्यसमाश्वासः।
न्यायमञ्जरीग्रन्थिव्याख्या :–
%तत्रकिमि%ति उद्भिद्यते मृत् खन्यते येन तदुद्भित् कुद्दालादि, तेन `उद्भिदा यजेत’ इति गुणविधिः, पवैर्यजेतेतिवत्।
%गुणश्च तस्मिन् वाजपेयाख्य% इति। वाजमन्नं वाजञ्च तत् पेयञ्चेति यवागूरुच्यते, स गुणः, तेन यागः कर्तव्य इति।
%रूपसाम्यादि%ति। तदेव यागाद्यात्मकं रूपमुभयत्रापि सम्बध्यमानस्य, अतस्तन्त्रेणोभयत्र सम्बध्यत इति। %प्रधानञ्चे%ति। अन्येनोपक्रियमाणत्वात् प्रधानम्। %तस्माद् भावार्थप्राप्तावि%ति। वैदिकानि तावद् विधायकानि सर्वाण्येव गुणविधाने पर्यवसितानि सर्वाणि हि सोपपदानि, उद्भिदा यजेतेतिवत्। तच्छुद्धस्य यागस्य विधायकमवश्यमन्यत् प्रमाणान्तरं मृग्यम्, अतश्च प्रमाणान्तरसव्यपेक्षत्वादप्रमाणमिति प्रभाकरमतम्। तथा च स आह `तस्मात् कर्मविधानासम्भवादप्रामाण्यम्। कथम्? लौकिककर्माश्रयणात्। अवश्यं हि गुणविधिपरे वाक्ये लौकिकं कर्माश्रयणीयम्। वैदिके न खलु बाधा दोषः किन्तु असम्भवः। कथमसम्भवः? सर्वत्रोपपदश्रुतेः। एवमपि किमित्यप्रामाण्यम्? धात्वर्थेऽन्यतः प्रवृत्तिर्मृग्या। अन्यतश्चेत् सापेक्षत्वप्रसङ्गः, सापेक्षत्वाच्चाप्रामाण्यं प्रसक्तम्” इत्यादि।
न्यायमञ्जरी :–
%नामधेयपदसार्थक्यम्%
अत्रोच्यते, गुणविधिपक्षे यथा भवानाहतथैव, नामधेयपक्ष एव त श्रोयानित्यभ्युपगम्यते। तथा हि भावार्थस्य फलं प्रति करणत्वात् तत्सामानानाधिकरण्येन तृतीया प्रयुज्यते तत्र वाजपेयेनेति। साध्यश्च भवन् भावार्थः करणभावमनुभवतीति साध्यत्वापेक्षया तत्सामानाधिकरण्येन क्वचिद् द्वितीयापि प्रयुज्यते अग्निहोत्रं जुहोतीति।
ननु गुणवन्नामापि विधातव्यमेव अनभिहितस्यानवगमात्। ततश्च गुमविधिपक्षस्पृशो वाक्यभेदादिदोषास्तदवस्था एव? नैतदेवम्। न ह्यस्य कर्मण इदं नाम वेदितव्यमिति संज्ञासंज्ञिसम्बन्धं वेदो विदधाति। योगेन केनचित् प्रवर्त्तमानं नामधेयमवगम्यत एव, उद्भेदनमनेन पशूनां क्रियत इत्युद्भिदम्, दधि मधु घृतं धाना उदकं तत्संसृष्टं प्राजापत्यमिति नानाविधविचित्रद्रव्यसाध्यत्वाच्चित्रा, अग्नये होत्रमस्मिन्नित्यग्निहोत्रम्, यथैव श्येनो निपत्यादत्ते एवमनेन द्विषन्तं भ्रातृव्यामादत्ते इत्यर्थवादात् श्येन एवं श्येनो यागः, वाजमन्नं पीयतेऽस्मिन्निति वाजपेयो यागः, तस्मात् कर्मनामान्येतानि।
यत्तु नामधेयपक्षे नैरर्थक्यमाशङ्कितं तदपि न चारु, नामापि गुणफलोपबन्धेनार्थवदिति अभियुक्तैः परिहृतत्वात्। एवंनामेदं कर्मेत्यवगम्यते तत्र गुणो द्रव्यदेवतादिः, फलञ्च तस्य स्वर्गः पश्चादवगम्यत इति। तस्मान्नामधेयपदानामविरुद्धोऽन्वयः। क्वचित् पुनरप्राप्ते भावार्थे सगुणमेव तत्कर्म चोद्यते, यथा `आग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्याञ्च च्युतो भवति’ इति। यथावा `एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेते’ति। अलं शास्त्रान्तरोक्तगहनकथाविस्तरेण इति नास्ति नामधेयद्वारेणापि प्रामाण्याक्षेपः। सर्वप्रकारमेब सिद्धं वेदप्रमाणत्वमिति।
वेदप्रामाण्यसिद्ध्यर्थमित्थमेताः वथाः कृताः।
न तु मीमासकख्यातिं प्राप्तोऽस्मीत्यभिमानतः॥
न्यायमञ्जरीग्रन्थिव्याख्या :–
%गुणविधिपक्षस्पृश% इति। फलं प्रति विधेयत्वाद् धात्वर्थस्य, नामविधिं प्रति चोद्देश्यत्वात्। %संज्ञासंज्ञिसम्बन्धमि%ति। कार्यपरत्वाद् वेदस्येति भावः। %योगेन केनचिदित्यादिना% नामधेयस्यानूद्यमानत्वं दर्शयति। योगेन पशूनामुद्भेदनेन फलभूतानां प्रकाशनेन यत् सिद्धमुद्भित्त्वं तदनेनानूद्यते न विधीयत इत्यर्थः। येनानेन यागविशेषेण पशुकामो यजते भवत्येवासाबुद्भित् पशूनामुद्भेदनादित्यर्थः।
%गुणफलोपबन्धेनार्थवदि%ति। तत्सम्बन्धित्वेन गुमफलयोर्विधानादित्यर्थः। %आग्नेयोऽष्टाकपाल% इति। अच्युत इत्युभाभ्यामपि दर्शपूर्णमासाभ्यां न च्यवत इति। अत्र हि अष्टकपालेषु यः संस्कृतः साष्टाकपाल आग्नेयो भवति, तस्यपुरोडाशस्याग्नेयता विधीयते; न ह्यविधीयभान आग्नेयो भवति। स पुनरष्टाकपाल एवमाग्नेयो भवति यदग्नये संकल्प्य दीयते, संक्ल्पमन्तरेणाग्नेयत्वाभावात्। संकल्पितस्य यागेन विना अर्थवत्ता नास्तीत्येवमनेन प्रकारेण तद्धितान्तनिर्देशान्यथानुपपत्त्या यागो विहितः। स चैवं द्रव्यदेवतासम्बन्धात्मको यागो विधायमानो न शक्यः सम्बन्धिनावग्निपुरोडाशावन्तरेण विधातुमिति सगुणस्यकर्मणो यागस्य विधानम्। तथा च जैमिनिः “तद्गुणास्तु विधीयेरन्नविभागाद्विधानार्थे न चेदन्येन शिष्टाः” न्यायमञ्जरी :– इति। %यथा वा एतस्यैवे%ति। “समेषु कर्मयुक्तं स्यात्” इत्यत्रैतच्चिन्तितम्। %त्रिवृ%दग्निष्टुदग्निष्टोमस्तस्य वायव्यास्वेकविंशमग्निष्टोमसाम कृत्वा ब्रह्मवर्चसकामो यजेतेति। ततः पुनरुक्तम् एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेतेति। तत्र प्रथमं त्रिवृत्स्तोमकोऽग्निष्टुन्नामको यागः स चाग्निष्टोमोऽग्निष्टोम संस्थस्तस्य वायव्या या ऋचः तास्वेकविंशेकविंशत्या स्तोत्रीयाभिर्ऋग्भिर्निंर्वर्त्योऽग्निष्टोमाख्यः स्तोत्रविशेषः। पश्चादेतस्यैवेत्याह। किं पूर्वप्रकृतस्याग्निस्तुतोऽग्निष्ठोमस्य यो गुणो वारवन्तीयाख्यस्तस्मिन् पशवः फलम् अथवा एतेन यजेतेति कर्मान्तरविधानमिति। तत्र पशुकामो यदि यजेतानेन यदेकं कृत्वेति सम्बन्धादेतस्यैवेत्यनेन तस्यैव परामर्शात् तस्यैव गुणविधिरिति पूर्वपक्षिते “समेषु कर्मयुक्तं स्यात्” इति सिद्धान्तः। समेष्वेवंजातीयेषु रेवत्यादिवाक्येषु कर्मयुक्तं फलमपूर्वात् कर्मणः फलं न पूर्वस्यैव गुणविधिरित्यर्थः। कथम्? गुणविधिपक्षे वाक्यभेदात् तस्य तावत् प्रकृतस्य रेवत्यो न सन्ति ता विधेयास्तासु चाग्निष्टोमसाम नास्ति पूर्वसिद्धं तदपि विधेयम्। सिद्धान्ते तु रेवत्याधारवारवन्तीयस्तोत्रनिर्वृत्तिपूर्वकत्वविशिष्टो यागो विधीयते। तदा च विशेषणानामविधाने कथं तद्विशिष्टस्य यागस्य विधिरिति बलात् सगुणस्य कर्मणो विधानमायाति। यदा चैवं न्यायस्तदा एतस्येत्येवं धर्मकस्येति व्याख्येयम्। अत्र च `यागप्रवृत्तौ सत्यां साम्नः करणमुपपद्यते न तु पर्वम्’ इत्याक्षिप्य प्राभाकरैः `प्रतीतिपौर्वापर्ये क्त्वाश्रुतिर्न प्रयोगपौर्वापर्ये’ इत्यादि समर्थितमित्यास्तां तावदेतत्। अत एवानेनाप्युक्तम् %अलं शास्त्रान्तरे%त्यादि।
%समुच्चारणे% सहोच्चारणे।
न्यायमञ्जरी :–
%कार्य एवार्थे वेदाः प्रमाणमिति शङ्का%
नन्वेवं विध्यर्थवादमन्त्रनामधेयानां कार्यौपयिकत्वदर्शनात् कार्य एवार्थे वेदाः प्रमाणमित्युक्तं स्यात्। ततः किं सिद्धेऽर्थे तस्य प्रामाण्यं हीयते? ततोऽपि किं भूयान् भूतार्थाभिधायिग्रन्थराशिरुपेक्षितो भवेत्? सकलस्य च वेदस्य प्रामाण्यं प्रतिष्ठापयितुमेतत् प्रवृत्तं शास्त्रम्।
अत्र केचिदाहुः, सर्वस्यैव वेदस्य कार्येऽर्थे प्रामाण्यम्। तथा हि गृहीतसम्बन्धः शब्दोऽर्थमवगमयति, सम्बन्धग्रहणञ्चास्य वृद्धव्यवहारात्। वृद्धानाञ्च व्यवहारः पानीयमानय गां बधान ग्रामं गच्छेति कार्यप्रतिपादकैरेव शब्दैः प्रवर्त्तते इति तत्रैव व्युत्पद्यन्ते बालाः। प्रयोजनोद्देशेन हि वृद्धा वाक्यानि प्रयुञ्जते। न च सिद्धार्थाभिधायिना प्रवृत्तिनिवृत्ती अनुपदिशता शब्देन किञ्चित् प्रयोजनमभिनिर्वर्त्तत इति तस्य न प्रयोगयोग्यत्वम्। अप्रयुज्यमानस्यच न सम्बन्धग्रहणम्। अगृहीतसम्बन्धस्य च न प्रतिपादकत्वम्। अप्रतिपादकस्य च न प्रामाण्यम्। अगृहीतसम्बन्धस्य च न प्रतिपादकत्वम्। अप्रतिपादकस्य च न प्रामाण्यम्। अपि च आख्यातपदोच्चारणमन्तरेण निराकाङ्क्षप्रत्ययानुत्पादादवश्यमाख्यातयुक्तं वाक्यं प्रयोक्तव्यम्। आख्यातपदेन साध्यरूपोऽर्थ उच्यते नामधेयपदेन च सिद्धः। भूतभव्यसमुच्चारणे भूतं भव्यायोपदिश्यत इति वाक्यस्य साध्यार्थनिष्ठतेति न भूतार्थविषयं तस्य प्रामाण्यम्। अतश्च कार्येऽर्थे शब्दस्य प्रामाण्यम्, यतश्च कार्यरूपोऽर्थः शब्दस्यैव विषय इति। न च शब्दः प्रमाणतां सिद्धेऽर्थे लभते। सिद्धोऽर्थः प्रसिद्धत्वादेव प्रमाणान्तरपरिच्छेदयोग्य इति तत्प्रतिपादने तत्प्रमाणान्तरसव्यपेक्षः शब्दो भवति। ततश्च तद्ग्राहिणः प्रमाणान्तरस्यैव तत्र प्रामाण्यं स्यान्न शब्दस्य। शब्दश्च तदुपस्थापनमात्रनिष्ठ एव स्यात्। तस्माच्छब्दप्रामाण्यमिच्छता कार्य एवार्थे तत्प्रामाण्यमङ्गीकर्त्तव्यमिति।
न्यायमञ्जरी :–
%अकार्येऽपि अर्थे वेदाः प्रमाणम्।%
अत्रोच्यते। यद् ब्रूषे कार्य एवार्थे वाक्यस्य व्युत्पत्तिरिति तदयुक्तम्। एवं हि सिद्धरूपोऽयं तस्यार्थ इति कथं त्वयोच्यते? न ह्यलब्धव्युत्पत्तेः शब्दादर्थप्रत्ययो युज्यते। अर्थप्रतीतिश्च ततो दृश्यते व्युत्पत्तिश्च तत्रनास्तीति चित्रम्। न च कार्यपरैरेव शब्दैर्लोके व्यवहारो वर्त्तमानापदेशकेभ्योऽपि व्यवहारप्रवृत्तेस्तत्रापि व्युत्पत्तिर्भवत्येव। अपि चाङ्गुल्यादिना पुरोऽवस्थितमर्थं निर्दिश्य यदा कश्चित् कथयत्यस्येदं नामेति तदा कार्योपदेशमन्तरेणापि भवत्येव व्युत्पत्तिः `अस्माच्छब्दादयमर्थः प्रतिपत्तव्यः इति। कार्योपदेश एवासौ इति चेत्? तादृशानामक्षराणामश्रवणात्। अस्येदं नामेति हि श्रूयते नास्मादयं प्रतिपत्तव्य इति। अस्येदं नामेत्येषामेवाक्षराणामेषोऽर्थ इति चेद्? न। अपदार्थस्य वाक्यार्थत्वायोगात्। न चैवं कल्पयितुमपि शक्यते, अस्येदं नामेत्येतावतैव च तत्प्रतिपत्तिसिद्धेः प्रतिपत्तिकर्त्तव्यताविधानस् निष्प्रयोजनत्वात्। कार्यपरादपि शब्दाद् व्युत्पत्तिर्भवन्ती न वाक्यार्थमात्रपर्यवसायिनी भवति किन्त्वेकैकपदादावापोद्वापद्वारकपदार्थपर्यन्ता सा भवति। पदार्थव्युत्पत्तिसंस्कृतमतेश्च अभिनवकविविरचितवर्त्तमानापदेशश्लोकश्रवणेऽपि वाक्यार्थप्रतीतिर्दृश्यत एवेति नाव्युत्पत्तिकृतमप्रामाण्यम्। न चासौ भूतार्थप्रतिपादकशब्दजनिता प्रतीतिर्बाध्यते सन्दिग्धा वा। तेन प्रत्यक्षादिप्रमाणान्तरकरणकप्रतीतिवत् प्रमाणफलमेव सा भवितुमर्हति।
यत्पुनरभ्यधायि कार्येऽर्थे प्रमाणान्तरनिरपेक्षतया प्रमाणं भवति शब्दः, न सिद्धेऽर्थे, प्रमाणान्तरसापेक्षत्वादिति, तदसत्। प्रवर्त्तयितुमेव न शक्नोति इत्यवोचाम, वक्ष्यामश्च वाक्यार्थचिन्तायामपि। प्रमाणान्तरसापेक्षत्वं तस्य प्रत्युत प्रामाण्यमावहति। किञ्चेदं सापेक्षत्वमिति वक्तव्यम्। किं सिद्धार्थाभिधायिनः शब्दस्योत्पत्तावेव प्रमाणान्तरापेक्षत्वम्, उत तद्विषयस्य प्रमाणान्तरपरिच्छेदयोग्यत्वमित्युभयथातिप्रसङ्गः। उत्पत्तौ प्रमाणान्तरसव्यपेक्षतया यद्यप्रामाण्यं वर्ण्यते? हन्त हतमनुमानम्, तस्योत्पत्तौ प्रत्यक्षादिसापेक्षत्वात्। वर्णितञ्च तत्पूर्वकं त्रिविधमनुमानमिति। तद्विषयस्य प्रमाणान्तरग्रहणयोग्यतायान्तु तदप्रामाण्ये प्रत्यक्षादीनां सर्वेषामप्रामाण्यं प्राप्नोति, प्रमाणसंप्लवस्य प्राक् प्रतिपादितत्वात्। किञ्च लौकिकेषुवाक्येषु `अधीष्व’ `गां बधा’ `ग्रामं गच्छे’त्येवमादिष्वन्वयव्यतिरेकाभ्यां हिताहितप्राप्तिपरिहारसाधनसामर्थ्यावगमेन प्रवृत्तिसिद्धेः विनियोगनिष्ठ एव विधिर्भवति। अप्रव्रत्तप्रवर्त्तनात्मकनिरपेक्षनिजव्यापारवैधुर्यात् कार्यपरत्वानुपपत्तेः अनुवादमात्रं विधिवचनमि’ति कार्यार्थप्रामाण्यवादिनां सर्वमेव लौकिकं वाक्यमप्रमाणं स्यात्।
ये तु भूतार्थवादुषु प्रवृत्तिनिवृत्तिकारिषु विधिनिषेधौ कल्पयन्ति ते नितरामृजवः। श्रूयमाणोऽपि विधिरनुवादीभवति यत्र तत्राश्रुतः कल्पयितव्य इति किमन्यदेतत् परमार्जवम्। प्रवृत्तौ तु तत्र विधिरप्रयोजक एव, अन्वयव्यतिरेकाभ्यां पुरुषार्थसाधनसामर्थ्यावगमात् पुरुषप्रत्ययाद् वा लोकेषु प्रवृत्तिसिद्धेः, तत्रैतत् स्यात्। लौकिकवाक्यानां विवक्षापरत्वान्न कार्यार्थत्वम्।
अपि च पौरुषेयाद् वचनादेवमयंपुरुषो वेदेति भवति प्रत्ययो नैवमर्थप्रतीतिः। वैदिकानि पुनरपौरुषेयतया कार्यपराण्येव वाक्यानीति, एतदपि न पेशलम्। अपौरुषेयस्य वचसः प्रतिक्षिप्तत्वात्, वेदेऽपि कर्तुरीश्वरस्य साधितत्वात्। न च पुरुषवचनमपि विवक्षापरमिति दर्शितम्। तथा हि न विवक्षा वाक्यार्थो देवदत्त गामभ्याज कृष्णां दण्डेनेति पदग्रामे विवक्षावाचिनः पदस्याश्रवणात्, अपदार्थस्य वाक्यार्थत्वानुपपत्तेः। न च विषभक्षणवाक्यस्येव परगृहे भोजननिवृत्तौ पौरुषेयवचसो विवक्षायां तात्पर्यशक्तिरपि प्रभवति। न हि सर्वात्मनाभिधात्रीं शक्तिमवधीर्यैव तात्पर्यशक्तिः प्रसरतीति न विवक्षापरत्वम्। कथं तर्हि पुरुषवचनादुच्चारिताद् विवक्षावगम इति चेद्, अनुमानादिति ब्रूमः। कार्यत्वात् पदरचनायाः पुरुषेच्छापूर्वकत्वमनुमीयते। अर्थावगमपुरः सरञ्च पुरुषवचनाद् विवक्षानुमानमेवमयं वेद एवमयं विवक्षतीति। अर्थोपरागरहितस्य विवक्षामात्रस्य जीवतां निसर्गत एव सिद्धेः। अयमर्थो विवक्षित इत्यर्थोपरज्यमाना तु विवक्षा न शक्या अर्थेऽनवगतेऽवगन्तुम्। अर्थश्चेत् प्रथममवगतो वाक्यान्न तर्हि तद्विवक्षापरम्, अर्थपरमेव भवितुमर्हति। लोकवाक्यानां विवक्षापरत्वे बाह्येऽर्थे सम्बन्धग्रहणासम्भवाद् वेदादपि वाक्यार्थावगमो न स्यादित्यलं प्रसङ्गेन। तस्मान्न कार्यपरत्वेनैव शब्दस्य प्रामाण्यम्।
यत्पुनरभाणि, नाख्यातशून्यं वाक्यं प्रयोगार्हम्, तेन विना नैराकाङ्क्ष्यानुपपत्तेः। आख्यातस्य च भव्यरूपोऽर्थो, न नाम्ना इव भूतः, भूतभव्यसमुच्चारणे च भूतं भव्यायोपदिश्यते इति सर्वत्रकार्यपरत्वम्, तदपि न साम्प्रतम्। पुत्रस्ते जातः कन्या ते गर्भिणीति सुखदुःखकारिणामनुपदिष्टप्रवृत्तिकानामनाख्यातानामपि वाक्यानां लोके प्राचुर्येण प्रयुज्यमानत्वात्।
अथ सुखी भव दुःखी भवेति तत्रकार्यपरत्वं व्याख्यायते, तदपि न युक्तम्। ईदृशानामक्षराणामश्रवणात्, कल्पनायाश्च निष्फलत्वात्। न हि भवेत्युपदेशादसौ सुखी भवति सुखीभवितुं वा क्वचित् प्रवर्त्तते, उपाये पूर्वमेव प्रवृत्तत्वात्, उपेये च प्रवृत्त्यनुपपत्तेः। किन्तु पुत्रजन्मश्रवणत एवासौ सुखीभवति। तथा कस्यचिदुत्तरीयावगुण्ठिततनोर्निद्रायमाणस्य क्वचित् केनचित् केलिना रज्जुवेष्ठितवपुषः पश्चात् प्रबोधसमये सहसा सरीसृपवलितमात्मानं मन्यमानस्य भयादनुन्मीलितचक्षुषः केनचित् प्रयुज्यमानं रज्ज्वा वेष्टितोऽसीति वचः श्रवणपथमवतरति तत् सिद्धार्थबोधकमपि प्रमाणम्। न च तत्र मा भैषीरिति प्रयोगकल्पनाप्रयोजनम्। रज्जुवेष्टनप्रत्ययादेव भयनुवृत्तेः सिद्धत्वात्। तथा च विषमविषधराधिष्ठितोऽयमध्वा निधियुक्तोऽयं भूभाग इति भूतार्थख्यापकं वचो दृश्यते न च तदप्रमाणम्। न च तत्र मा गास्त्वमनेनाध्वना, निधिं गृहाणेति विधिनिषेधपरत्वं युक्तम्, एषां पदानामश्रवणात्।
ननु वक्तुः प्रेक्षापूर्वकारितया निष्प्रयोजनवचनानुच्चारादवश्यं मा गा गृहाणेति कार्याक्षराणि हृदये परिस्फुरन्ति कथञ्चिदालस्यादिना नोच्चारितानीति, नैतद्युक्तम्। प्रेक्षापूर्वकारित्वादेव वक्तुः यथावस्थितवस्तुस्वरूपमात्रख्यापकवचनोच्चारणमेव युक्तम्, अर्थात् प्रवृत्तिनिवृत्त्योः सिद्धत्वात्, पराभिप्रायस्य चानवस्थितत्वेन नियतोपदेशानुपपत्तेः, सर्पबन्धजीविनो हि सपन्नगः पन्था उपादेयतयावभाति, वीतरागस्य च ब्रह्मविदो वित्तैषणाव्युत्थितस्य गोविन्दस्वामिन इव निधिरपि हेयतया परिस्फुरतीति कस्मै किमुपदिश्यताम्। वस्तुस्वरूपे तु कथिते यथाहृदयवर्त्तिरागद्वेषानुवर्तनेन कश्चित् तत्र प्रवर्ततां कश्चित् ततो निवर्त्ततामिति भूतार्थकथनमेव लोके प्रेक्षावान् करोति, न विधिनिषेधौ प्रयोक्तुमर्हतीति।
येऽपि ब्रुवते सर्वत्र प्रतिपत्तिकर्त्तव्यताविधानमेवादौ वेदितव्यम्, अविधिकस्य वाक्यस्य प्रयोगानर्हत्वादिति, तेऽपि न साधु बुध्यन्ते। विदितशब्दार्थसम्बन्धस्य पुंसः शब्दश्रवणे सति प्रतिपत्तेः स्वतः सिद्धत्वेनानुपदेश्यत्वात्। असिद्धायां वा प्रतिपत्तौ प्रतिपत्तिकर्त्तव्यतापि कुतः प्रतीयेत?
ननु कार्यार्थप्रतिपादकं पदमन्तरेण पदान्तराणि संसर्गमेव न भजन्ते, कार्याकाङ्क्षानिबन्धत्वात् सम्बन्धस्य, तेन सर्वत्र कार्यपरत्वमुच्यते? नैष नियमः कार्याकाङ्क्षानिबन्धत्वात् सम्बन्धस्य , तेन सर्वत्रकार्यपरत्वमुच्यते? नैष नियमः कार्याकाङ्क्षागर्भ एव सर्वत्र सम्बन्ध इति, वर्त्तमानापदेशकानामपि प्रेक्षापूर्वकारिवाक्यानामितरेतरसंसृष्टार्थप्रतीतिजनकत्वदर्शनात्। न हि दशदाडिमादिवाक्यसदृंशि वर्त्तमानापदेशीनि वचांसि भवन्ति। कार्यनिबन्धने हि सम्बन्धे तद्रहितानामन्वय एव स्यात्। दर्शितश्चान्वयः पूर्वोदाहृतवाक्यानाम्। अपि च लिङन्तपदयुक्तेऽपि वाक्ये पदार्थान्तरानां परस्परमन्वयो दृश्यत एव। स कथं समर्थयिष्यते? कार्याकाङ्क्षानिबन्धने हि, कार्ये सर्वेषामन्वयो न परस्परमिति।
अथ बूयात् सर्वथा कार्यसम्बन्धे प्रथममवगते सति पश्चादरुणैकहायनीन्यायेन वाक्यीयः परस्परान्वयोऽपि सेत्स्यतीति? हन्त! तर्हि परस्परान्वये कार्याकाङ्क्षा कारणम्। तर्ह्यरुणया पिङ्गाक्ष्या एकहायन्या सोमं क्रीणातीति द्रव्यगुणयोर्विभक्त्या सोमक्रयं प्रति युक्तत्वात् प्रथमं क्रयसम्बन्ध एव तयोर्गम्यते। यश्च पाश्चात्यः परस्परान्वयस्तत्र कार्यपारतन्त्र्यापादिका विभक्तिरकारणम्, असत्यामपि तस्यां शुक्लः पट इति सामानाधिकरण्यप्रयोगेणान्वयसिद्धेः। तस्मात् कार्यैक्यनिबन्धनोऽन्वय इति नियमो य उच्यते स कल्पनामात्रप्रभवो न प्रामाणव्यवस्थागम्य इति।
यत्तु भूतभव्यसमुच्चारणे भूतं भव्यायोपदिश्यत इत्ययमपि न सार्वत्रिको नियमो विपर्ययस्यापि व्रीहीन् प्रोक्षतीत्यादौ दर्शनाद्। अलं वा दर्शपूर्णमासप्रकरणनिवेशानुज्झितकार्यमुखप्रेक्षणदैन्येन ब्रीहिप्रोक्षोदाहरणेन।
आत्मा ज्ञातव्य इतितु सिद्धपर एव साध्योपदेशः। नह्यत्र कर्म किञ्चित् साध्यं प्रधानमुपदिश्यतेऽधिकाराश्रवणात्। न च विश्वजिदादिवदधिकारकल्पना काचिदुपदिश्यते। न च कर्मप्रवृत्तिहेतुत्वमात्मज्ञानस्येति वक्ष्यामः। अर्थवादस्त्वर्थवाद एव नाधिकारिकल्पनायै प्रभवति। तस्मादपहतपाप्मादिगुणयुक्तात्मस्वरूपनिष्ठत्वमेवतत्रावतिष्ठते, तस्मिन्नवगते पुरुषान्तरप्रार्थनादैन्यानुपपत्तेः। स एव ह्युत्तमः पुरुषार्थः, स च सिद्ध एव न साध्यः, यत्नस्तु कृतबुद्धीनामविद्योपरमायैवेति व्याचक्षते।
ज्ञातव्य इतिपत्तिकर्त्तव्यतापरोऽयं विधिरिति चेन्न। प्रतिपत्तेः प्रमितित्वात् प्रमितेश्च प्रमेयनिष्ठत्वाज्ज्ञातव्य इति कर्मणि चायं कृत्यप्रत्ययनिर्देशात् कर्मणश्चेप्सिततमत्वात् तत्परत्वमेवागम्यते। विधिस्त्वत्र प्रसरन् क्व प्रसरेत्? फलं तावद्विधेर्न विषय एव। यथाऽऽह भट्टः `फलांशे भावनायाश्च प्रत्ययो न विधायकः’ िति। उपायस्तु ज्ञानमेव, ज्ञानञ्च ज्ञेयनिष्ठमित्युक्तम्।
यस्तु यमनियमादिप्रतिपत्तीतिकर्त्तव्यताप्रकारोपदेशः सोऽपि तथाविधात्मरूपाधिगतये सत्यासत्यस्वभावनामरूपप्रपञ्चविलापनद्वारा तत्रोपयुज्यत इति सिद्धतन्त्रमेव साध्यम्।
तिष्ठतु वा यमनियमप्राणायामप्रत्याहारधारणाध्यात्मज्ञानयोगीतिकर्त्तव्यताविधिः। अन्येऽपि ज्योतिष्टोमादिविधयस्तन्निष्ठा एवेति वेदान्तिनः। साध्यस्य सर्वस्य क्षयित्वे नानुपादेयत्वात्, सिद्धस्य ब्रह्मण एवानाद्यविद्यातीतस्यानपायिनः पुरुषार्थत्वात्, स्तोकस्तोकप्रपञ्चविलापनद्वारेणोत्तमाधिकारयोग्यत्वापादनाद्, ब्रह्मप्राप्त्यौपयिका एव सर्वविधयः। तथा च मनुः
स्वाध्यायेन व्रतैर्होमैस्त्रैविद्येनेज्यया सुतैः।
महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः॥
तदेवं सिद्ध एवार्थे वेदस्याहुः प्रमाणताम्।
सर्वस्तावद्विषयो बहु वक्तव्यः प्रमाणता तु गिराम्। श्लोकरूपेण मुद्रितापीयंपंक्तिश्छदोहीनत्वादस्माभिः गद्यत्वेनात्रमुद्रितेति मन्तव्यम्।
किंतन्त्रता भवति तस्य तयोरितीयं
चर्चा चिराय न महत्युपयुज्यते नः।
सन्तोषवृत्तिमवलम्ब्य वयं हि वेद-
प्रामाण्यमात्रकथनाय गृहीतयत्नाः॥
प्रामाण्यसाधनविधावुपयोगि यच्च
वक्तव्यमत्र तदवादि यथोपयोगम्।
वक्तव्यमिष्टमपि किञ्चिदिहाभिदध्म-
स्तच्छ्रयतां यदि न धीः परिखिद्यते वः॥
इति श्रीजयन्तभट्ट्कृतौ न्यायमञ्जर्यां चतुर्थमाह्निकम्।
न्यायमञ्जरीग्रन्थिव्याख्या :–
%प्रतिपत्तिकर्तव्यताविधानस्य निष्फलत्वादि%ति। यथा भुजौ प्रवृत्तस्तृप्तिं प्रति न नियुज्यते स्वत एव भावादेवं शब्दश्रवणादेव प्रतिपत्तेः सिद्धत्वात् `प्रतिपत्तिं कुरु’ इति प्रतिपत्तिकर्तव्यताविधानं निष्फलम्।
%किञ्च लौकिकेष्वि%ति। अत्र किञ्च लौकिकेष्विति आरभ्य अनुवादमात्रं विधिवचनमिति एवंवदतां कार्यप्रामाण्यवादिनामिति सन्यः। %हिताहिते%ति। हितहितप्राप्तिपरिहारयोर्यत्साधनं सिद्धस्तत्र सामर्थ्यंमवगत्य ग्रामगमनादस्तत्र ग्रामगनादौ प्रबृत्तेः। %विनियोगनिष्ठ एव%। `ग्रामं गच्छ ग्रामगमनाद्धितं भवति’ इति हितप्राप्तिग्रामगमनयोर्यः साध्यसाधनसम्बन्धलक्षणो विनियोगस्तन्निष्ठ इति। %अनुवादमात्रमि%ति। प्रवर्तनाभिधानद्वारेण हि प्रवृत्तौ तात्पर्यं लिङादेः, सा चान्यतः सुखसाधनत्वावगमनादेर्या प्राप्ता तामसावनुवदति नापूर्वां विदधाति।
%ये तु भूतार्थवादिष्वि%ति। `निधिमानयं प्रदेशः’ `प्रतिरोधकवानयमध्वा’ इत्यादिषु `गृहाण’ `मा गमः’ इत्यादि कल्पयन्ति। %तत्राश्रुतः कल्पयितव्य% इति कल्पयित्वाप्यनुवादीकर्तव्यः, तद् वरमकल्पनैवेत्यभिप्रायः। न च कल्पनामपि विना काचित् क्षतिरित्याह %प्रवृत्तौ त्वि%ति।
%एवमयं पुरुषो वेदे%ति। एवमस्य ज्ञानमस्तीत्यर्थः। %नि हि सर्वात्मनाभिधात्रमि%ति। पदानां हि पदार्थेऽभिधीत्रीः शक्तिः, पदार्थसंसर्गात्मके वाक्यार्थे तात्पर्यशक्तिः, पदार्थाभावे च कथं तत्संसर्गात्मकवाक्यार्थलाभः।
%उपाये पूर्वमेवे%ति। पुत्रजननाद् यदुत्पद्यते सुखं तस्य पुत्रजननात्मको व्यापार उपायः।
%वित्तैषणाव्युत्थितस्य% धनाभिलाषनिरपेक्षेण वर्तमानस्य। %गोविन्दस्वामिन इव% इति। भगवान् गोविन्दस्वामी हि धनाहरणाय पुरा किं किं न व्यधत्त तथापि कृतयत्नातिशयो न कामपि यदा धनमात्रामासमाद तदा कालेन महद्वैराग्यमस्य प्रादुरभत्, तथाविरक्तश्च कदाविन्निधिषुपलभ्य तदुपरि मूत्रपुरीषोत्सर्गमकरोदिति श्रूयते॥
%प्रतिपत्तिकर्तव्यतापि कुत% इति। प्रतिपत्तिं कुर्विंत्युपदिश्यते,सा चेच्छब्दाद्भवति तदा कर्तु शक्या।
%पदार्तान्तराणाम्%। शुक्लैर्ब्रीहिभिर्यजेतेत्यादिषु द्रव्यगुणादीनां वाक्यीयः परस्परसम्बन्धः तदा कर्तु शक्या।
%विभक्त्त्या% तृतीयया। %कार्यपारतन्ञ्यापादिका विभक्तिरि%ति तृतीयया हि द्रव्यगुणयोः क्रयकार्यं प्रति पारतन्त्र्यं प्रतिपादितम्, अतस्तत्रैवोपक्षीणासौ। %ब्रीहीन् प्रोक्षती%ति। प्रोक्षणस्य भव्यस्यापि ब्रीह्यर्थत्वात्। ननु दर्शपूर्णमासप्रकरणादपरित्यक्तपारार्ध्यानामेव व्रीहीणामसौ संस्कार इत्याशङ्क्याह %अलं वे%ति।
%कर्म किञ्चित्साध्यं प्रधामि%ति। दर्शपूर्णमासप्रधानकर्मोपदेशात् तादर्थ्यं व्रीह्यादीनां नैवमत्र ज्ञानमेव प्रधानं कर्म भविष्यति। तत्र साध्यगुणत्वेनैवात्मनो द्रव्यस्य सम्बन्ध इति चेन्न। साधिकारं हि प्रधानं कर्म भवति, न चात्राधिकारः श्रूयते। न चाधिकारकल्पना भवति; सा ह्यनुष्ठानाय क्रियते, अनुष्ठानञ्च वक्ष्यमाणनीत्यापि सम्भवतीत्यभिप्रायः। ननु कर्मप्रवृत्तिसिद्ध्यर्थं नित्यत्वेनात्मनो ज्ञानोपदेशात् पारार्थ्यमेव, तन्नेत्याह %न च कर्मप्रवृत्ती%ति `अथात्मा ज्ञातव्यो निदिध्यासितव्यः’ इत्याद्युपक्रम्य `एवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसम्पद्यते न स पुनरावर्तते’ इत्यादेरर्थवादादपुनरावृत्तिकामोऽदिकारी लभ्यते। तन्नेत्याह %अर्थवादस्त्वि%ति। %आत्मस्वरूपनिष्ठत्वमेवे%ति। आत्मा ज्ञातव्यः, अपहतपाप्मत्वादिगुणवत आत्मनः साक्षात्कारो यथा भवति तथा कुर्यात्, न पुनस्तज्ज्ञानेनान्यदिति। %तस्मादपहतपाप्मादी%ति। “एष आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः” इत्यादिग्रहणेन श्रुतिपरिग्रहः। यदि न तेनान्यत् साधयेत् तर्हि तत्स्वरूपमात्रप्रतिपत्तौ निष्फलायां किमर्थं प्रवर्तेतेत्याह–%तस्मिन्नवगत% इति। %स एव ह्युत्तमः पुरुषार्थः,% तथाविधावस्थाया एव कैवल्यशब्दवाच्यत्वात्। यदि तादृगसौ तर्हि स्थित एव तेन रूपेणेति किमर्थं तदुपासनादियत्नविशेष इत्याह %यत्नस्त्वि%ति।
%प्रतिपत्तिकर्तव्यतापरोऽयमि%ति। अयमर्थः। `आत्मा ज्ञातव्यः’ इति नायं विधिरपहतपाप्मत्वादिविशिष्टात्मस्वरूपप्रतिपादनपरः, किन्त्वेवंविधात्मप्रतिपत्तिरत्र कर्तव्यतयोपदिश्यते, अतः प्रतिपत्तिविषयो यो नियोगस्तत्रैवास्य तात्पर्यम्, उभयपरत्वे वाक्यभेदप्रसङ्गादिति। %प्रमितेश्च प्रमेयनिष्ठत्वादि%ति। प्रमेयसाक्षात्कारं विना प्रतिपत्तिकर्तव्यताया एवासम्पत्तेरित्यर्थः। %कर्मणि चायं कृत्यप्रत्यये%ति। बावनाकर्मणि यागेन स्वर्गं भावयेद्यथा तथा श्रुतेनात्मानं साक्षात्कुर्यादिति न पुनर्विधिकर्मणि विधेये सोमेन यष्टव्यमितिवत्। विष्णुरुपांशु यष्टव्यः प्रजापतिरुपांशु यष्टव्य इति वा यथा कृत्यप्रत्ययः उपांशुयाजस्तुत्यर्थत्वेन तथेहात्र साक्षात् तस्यैव ज्ञानेन प्रिप्सितत्वात्। %फलं तावद्विधेर्न विषय एव।% स्वत एव तत्रप्रवृत्तत्वात्, तथा चाह भाष्यकारः “वेदैवासौ मयैतत्कर्तव्यमुपायन्तु न वेद” इति। फलांशे भावनायाश्चेत्यस्य शेषः “वक्ष्यते जैमिनिश्चाह तस्य लिप्सार्थलक्षणा” इति।….(अत्र टीकाग्रन्थस्य स्पष्टाक्षरत्वम् ज्ञेयम्) फलांश एव न विधायकः करणेतिकर्तव्यतांशयोस्तु विधायक एवेति।
%सत्यासत्यस्वभावे%ति। तथाहि यथा घटशरावोदञ्चनप्रभृतीनि नानारूपाणि अभिधानाबिधेयानि प्रपञ्चतो भेदव्यवहाररूपतया स्थितानि मृदपेक्षया असत्यानि, तेषामुपसंहारे केवलं मृद्रूपताप्रतिभासात्। सापि द्रव्यरूपतया असत्येव, मृद्रूपतोपसंहारे केवलद्रव्यरूपताप्रतिभासात् एवं सत्तापेक्षया द्रव्यरूपताप्यसत्येव। इत्येवञ्चसामान्यरूपः सन्मात्रं ब्रह्म इत्यस्तमितज्ञातृज्ञेय…(अत्रत्यष्टीका ग्रन्थोनोपलब्धः)।
इत्यत्र पुरुषसंस्कारकत्वेनोपयोगात्। तथा च श्रुतिः “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति, ब्रह्मचर्येणतपसाश्रद्धयायज्ञेन दानेनानाशकेन वा” इति। यज्ञेनेति यज्ञस्य विविदिषायामात्मज्ञानेऽङ्गत्वं प्रदर्शयति। तथा `येन केन च यजेतापि दर्विहोमेनापहतपाप्मैव भवति’ इति च। तथा च व्यासः।
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते।
आरुरुक्षोर्मुनेर्योगं कर्म कारणमिष्यते॥ इति॥
%स्तोकस्तोकप्रपञ्चे%त्यादिना तन्निष्ठत्वमेव तत्र प्रदर्शयितुमाह। तत्र प्रपञ्चप्रविलयं केचिदेवमाहुः। तथा च ज्योतिष्टोमेन यजेतेत्यतस्तावच्छरीरव्यतिरिक्तो नित्य आत्मास्तीति प्रतीयते तेन शरीरेण स्वर्गस्याप्तुमशक्यत्वात्। अतो देह एवात्मेति यः प्रपञ्चस्तस्य प्रविलयः। तथा कलञ्जप्रतिषेधविधिरपि रागतो या प्रवृत्तिस्तस्याः प्रविलयः। अन्यास्वपि कामचोदनासु फलार्थं या प्रवृत्तिस्तस्याः प्रविलयनमुत्तमफलार्थत्वेन, यानि प्रवृत्त्यन्तराणि तेषामपि प्रविलय इति प्रासङ्गिकफलप्रदर्शनद्वारेण च प्रदर्शित एव प्रपञ्चप्रविलय इति। %उत्तमाधिकारयोग्यत्वापादनादि%ति। यथायथा हि प्राङ्नीत्या कर्मानुष्ठानद्वारेण परिपक्वकषायता भवति तथा तथा आत्मसाक्षात्कारयोग्यतास्य जायत इति।
%स्वाध्यायेन व्रतैरिति%। स्वाध्यायेनोपनयनाङ्गभूतेन प्रणवव्याहृतिगायत्र्यादिपाठेन। व्रतैर्वेदग्रहणार्थैरुपनयनोत्तरकालं सावित्रादिभिः। %त्रैविद्येन% त्रिवेदाध्ययनेन। %इज्यया% गुरुशुश्रूषया। %सुतैर्धर्म%प्रजोत्पत्त्या। %महायज्ञैः% पञ्चभिः स्मार्तैर्भूतयज्ञादिभिः। %यज्ञैश्च% ज्योतिष्टोमादिभिः श्रौतैः। %ब्रह्मीयंक्रियते% ब्रह्मप्राप्तियोग्या क्रियते। ब्रह्मप्राप्तिपर्यवसायिनः स्वाध्यायादयः। ब्रह्म चात्मा सिद्धस्वभाव एवेति। ननु ब्रह्मणः सिद्धस्वभावस्य प्रमाणान्तरग्रहणयोग्यत्वात् तत्परत्वे वेदान्तानामनुवादकत्वं प्राप्तम्। तत्स्वरूपस्य च स्वाध्यायाध्ययनादेवावगतेर्नैष्फल्यमित्याद्याङ्क्याह %आस्तां चायं विषय% इति। %किंतन्त्रता तस्ये%ति। तयोः सिद्धसाध्ययोर्मध्यात् तस्य शब्दस्य किंतन्त्रता किंपरत्वमिति। ननु अधुनैव साधितं सिद्धपरत्वमिति, तत्र प्रागुक्ताभिप्रायेणैवाहु %महतीयं चर्चा न चिराय% न कदाचिदस्माकमुपयुज्यते इत्यर्थ इति।
भट्टश्रीशङ्करात्मजश्रीचक्रधरकृते
न्यायमञ्जरीग्रन्थिभङ्गे चतुर्थमाह्लिकम्॥
॥ श्रीः ॥
न्यायमञ्जरी
प्रमाणप्रकरणम्
प्रपन्नाय विपन्नानां दुः खितानां सुखात्मने।
सम्पूर्णाय दृढाशानां नमोऽकारणबन्धवे॥
%शब्दार्थस्यावास्तवत्वखण्डनोपक्रमः%
अथ यदुक्तं वास्तवस्य शब्दार्थस्याविद्यमानत्वादर्थासंस्पर्शिनः शब्दा इति तत्प्रतिविधीयते। द्विविधः शब्दः पदं वाक्यञ्च। तत्र पदार्थपूर्वकत्वाद् वाक्यार्थस्य प्रथमं पदार्थो निरूप्यते।
न्यायमञ्जरी
%पदार्थनिरूपणे पदस्वरूपम्%
पदञ्च द्विविधं नाम आख्यातञ्च। उपसर्गनिपातकर्मप्रवचनीयानामपि नामान्तर्भावमाचक्षते। तदुक्तं सुप्तिङन्तं पदमिति। इहापि सूत्रकृदाह `ते विभक्त्यन्ताः पदम्’ इति। तत्र तिङन्तपदार्थचिन्ता वाक्यार्थविचारावसर एव करिष्यते तदौपयिकत्वात्।
सुबन्तानां त्वर्थोऽयमुच्यते। ते च चतुर्विधाः सुबन्ताः पदात्मानः शब्दा भवन्ति, जातिशब्दाः, गुणशब्दाः द्रव्यशब्दाः कियाशब्द इति। तत्र गवादिजातिशब्दानां गोत्वादिजात्यवच्छिन्नं व्यक्तिमात्रमर्थो यस्तद्वानिति नैयायिकगृहे गीयते।
ननु शुक्लादिगुणाधिकरणं क्रियाश्रयश्च द्रव्यं व्यक्तिः, सास्नाद्यवयवसन्निवेशात्मिका आकृतिः, शाबलेयादिसकलगोपिण्डसाधारणं रूपं जातिरिति व्यक्त्याकृतिजातिसन्निधाने समुच्चारित एष गोशब्दः कथमितरतिरस्कारेण तद्वन्मात्रवचनतामवलम्बते, आह वितता त्वियं कथा वर्तयिष्यते तावत्।
इदन्तु चिन्त्यताम्, जातेरेव प्रमाणातीतत्वेन शशशृङ्गवदविद्यमानत्वात् कथं तद्वान् पदार्थो भविष्यति। तथा हि न तावत्सामान्यग्रहणनिपुणमक्षजं ज्ञानं भवितुमर्हति, तस्य पूर्वापराननुस्यूतस्वलक्षणमात्रपरिच्छेदपरिसमाप्तव्यापारत्वात्।
समानवृत्तिता नाम सामान्यस्य निजं वपुः।
कथं स्पृशति सापोक्षमनपेक्षाक्षजा मतिः॥
समानेष्वाकलितेषु तद्वृत्तिसाधारणरूपमवधार्य सामान्यं गृह्यत इति सापेक्षं तत्स्वरूपग्रहणम्, इयञ्च प्रथमनयनसन्निपातसमुद्गतमतिः पूर्वापरानुसन्धानबन्ध्या निरपेक्षा कथं तद्ग्रहणाय प्रभवेत्। तत्पृष्ठभाविनस्तु विकल्पाः स्वभावत एव वस्तुसंस्पर्शकौशलशून्यात्मान इति तद्विषयीकृतस्यापि सामान्यस्य न परमार्थसत्त्वं भवितुमर्हति, न चानुमानं शब्दो वा सामान्यस्वरूपवास्तवत्वव्यवस्थापनसामर्थ्यमश्नुते, शब्दलिङ्गयोर्विकल्पविषयत्वेन वस्तुग्राहित्वासम्भवात्। तत्प्राप्त्यादिव्यवहारस्तु प्रकारान्तरेण दर्शयिष्यते।
न्यायमञ्जरी
%व्यक्तिव्यतिरिक्तजातिखण्डनम्%
अतश्च न व्यक्तिव्यतिरिक्तं सामान्यं भेदेनानुपलम्भात्। तथाहि, कुवलयामलकबिल्वादीनि करतलवर्तीनि पृथगवलोक्यन्ते न जातिव्यक्ती इति न तयोर्भेदः। देशभेदस्य चाग्रहणाद् यत्खलु यतोऽतिरिक्तं तत्तदधिष्ठितदेशव्यतिरिक्तदेशाधिष्ठानमवधार्यते, घटादिव पटः। न चैवं जातिव्यक्ती इति न तयोर्भेदः। अतश्चैवं तदग्रहे तद्बुद्ध्यभावात्; यद्धि यतो व्यतिरिक्तं तस्मिन्नगृह्यमाणेऽपि गृह्यते घटादिव पटः। न च व्यक्तावनुपलभ्यमानायां जातिरुपलभ्यते तस्मान्न ततोऽसौ भिद्यते। तद्वृत्तित्वात्सामान्यस्य तदग्रहे तदनुपलब्धिरिति चेन्न, वृत्त्यनुपपत्तेः।
%जातिव्यक्त्योः सम्बन्धासिद्धिः%
किं प्रतिपिण्डं कार्त्स्न्येन वर्त्तते जातिरुतैकदेशेनेति। द्वयमपि चानुपपन्नम्।
पिण्डे सामान्यमन्यत्र यदि कार्त्स्न्येन वर्त्तते।
तत्रैवास्य समाप्तत्वान्न स्यात् पिण्डान्तरे ग्रहः॥
एकदेशेन वृत्तौ तु गोत्वजातिर्न कुत्रचित्।
समग्रास्तीति गौबुद्धिः प्रतिपिण्डं कथं भवेत्॥
जातेश्च निरवयवत्वान्न केचिदेकदेशाः सन्ति यैरेषा प्रतिपिण्डं वर्त्तते। न चैकत्र पिण्डे समाप्त्या वर्त्तमाना पिण्डान्तरे समाप्त्यैव वर्त्तितुमर्हति, समाप्तस्य पुनरुत्पत्तिं विना समाप्त्यन्तरानुपपत्तेः, तथाभूतस्य वृत्तिप्रकारस्य क्वचिदप्यदर्शनात्।
न्यायमञ्जरी
%वैशेषिकसिद्धसमवायखण्डनम्%
या च समवायात्मिका पिण्डेषु वृत्तिः सामान्यस्य औलूक्यैरुच्यते तामपि न बुद्ध्यामहे वयम्।
अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्ध इहप्रत्ययहेतुः स समवाय इति यदुच्यते तद्विप्रतिषिद्धम्। अयुतसिद्धता च सम्बन्धश्चेति कथं सङ्गच्छते। पृथक्सिद्धे हि वस्तुनी कुण्डबदरवदन्योन्यं सम्बध्येते स्त्रीपुंसवद्वा। अयुतसिद्धे तु तदेकत्वात् किं केन सम्बध्यते। द्रव्यगुणयोरपृथक्सिद्धयोरपि सम्बन्धो विद्यत एवेति चेत्, तदिदं मन्ये उन्मत्तस्योन्मत्तसंवर्णनम्। गुणिनोऽपि गुणव्यतिरिक्तस्यानुपलम्भाद् अयं गुणी रूपादिभ्योऽर्थान्तरत्वेन नात्मानमुपदर्शयति व्यतिरेकञ्च तेभ्यो वाञ्छतीति चित्रम्।
यदपि नित्यानित्यविभागेन युतसिद्धेः स्वशास्त्रे परिभाषणं कृतम्, नित्यानां परमाणूनां पृथग्गतिमत्त्वं युतसिद्धिरनित्यानान्तु युताश्रयिसमवायित्वम्, विभूनान्तु परस्परमाकाशादीनां सम्बन्ध एव नास्तीति तदपि प्रक्रियामात्रम्। नानात्वेन सिद्धिर्निष्पत्तिर्ज्ञप्तिर्वा युतसिद्धिरित्युच्यते तद्विपर्ययादयुतसिद्धिरैक्येन सिद्धिरवतिष्ठते, तथा च साति सम्बन्धो दुर्वचः। अवयवावयविनोरपि समवायात्मा सम्बन्ध एवमेव परिहर्त्तव्यः। यथाह भट्टः `नानिष्पन्नस्य सम्बन्धो निष्पत्तौ युतसिद्धता।’ इति।
परमाण्वाकाशयोः परमाणुकालयोश्च सम्बन्ध इष्यते नाकाशकालयोरन्योन्यमिति प्रक्रियैवेति अलमवान्तरचिन्तनेन। तस्मान्न जातिव्यक्त्योः काचिद् वृत्तिरुपपद्यते।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%उन्मत्तस्योन्मत्तसगंवर्णनमिति।% यथा उन्मत्त उन्मत्तान्तरं श्लाघत एवमलब्धवृत्ति सामान्यं तथाविधमेवालब्धवृत्ति द्रव्यं प्रदर्शयतीति।
%अनित्यानान्त्विति।% तन्तुपदादीनां युतेषु भिन्नेष्वाश्रयेषु समवायित्वं तन्तूनामंशुषु समवायात् पटस्य तन्तुष्विति। विभूनान्तु परस्परमाकाशादीनामिति। पृथग्गतिमत्त्वयुताश्रयसमवायित्वयोरभावात्।
%नानिष्पन्नस्य सम्बन्ध% इत्यस्य पूर्वमर्धम् `न चाप्ययुतसिद्धानां सम्बन्धित्वेन कल्पना’ इति।
न्यायमञ्जरी
%प्रभाकरमतविवेचनम्%
%सुशिक्षितास्तु% रूपरूपित्वलक्षणमाचक्षते जातिव्यक्त्योः सम्बन्धम्। सोऽपि नोपपद्यते। रूपशब्दः किं शुक्लादिवचनः, आकारवचनः, स्वभाववचनो वा? शुक्लादिवचनत्वे नीरूपाणां पवनमनः प्रभृतीनां द्रव्याणां गुणकर्मणाञ्च सामान्यशून्यता स्यात्। आकारवचनत्वेऽपि अवयवसन्निवेश रहितानां तेषामेव गुणादीनां सामान्यवत्ता न प्राप्नोति। स्वभाववचनत्वे तु जातिजातिमतोरव्यतिरेक एव भवेत्।
अवभाति हि भेदेन स्वभावो न स्वभाविनः।
शब्दातिरिक्ततैवेयं न तु वस्त्वतिरिक्तता॥
किञ्चेदं रूपं नाम, किं वस्त्वेव वस्तुधर्मो वस्त्वन्तरं वा? वस्त्वन्तरं तावन्न प्रतिभातीत्युक्तम्। वस्तुधर्मोऽपि तद्व्यतिरिक्ततया स्थितो न चकास्त्येव। अव्यतिरेके च सम्बन्धवाचोयुक्तिरनुपपन्नेत्युक्तम्। न च रूपरूपित्वलक्षणसम्बन्धः संयोगसमवायव्यतिरिक्तः कोऽपि श्रोत्रियैर्विविच्य वाख्यातुं शक्यते यथा ईदृगिति। तस्माद्वाचोयुक्तिनूतनतामात्रमिह कृतं न त्वर्थः कश्चिदुत्प्रेक्ष्यत इत्यलं प्रसङ्गेन।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्ययाः–
सुशिक्षितास्त्विति प्राभाकराः। ते हि सामान्याकारं रूपं पदार्थस्याहुः। न च रूपं रूपिशून्यमुपलभ्यते। पदार्थान्तराणां हि स्वरूपेण लब्धात्मलाभानामवागतानाञ्च परस्परसम्बन्धचिन्ता क्रियमाणोपपद्यते, रूपस्य त्वाकृष्टरूपिप्रतिपत्तेरेव प्रतिपत्तिरिति अन्य एव सम्बन्धान्तरविलक्षणोऽयं सम्बन्ध इति का अनयोः सम्बन्धं प्रति विमतिः `कथं वृत्तिः’ इत्यादिकेति। तथा चाहुः `सम्बन्धितया ह्यनवगम्यमानं सामान्यं सामान्यम् इति नावगम्यते। सम्बन्ध्यन्तरसव्यपेक्षा हि सम्बन्ध्यन्तरबुद्धिः। विशेषतश्चात्र रूपतया सम्बन्धितावगम्यते। न च रूपिशून्या रूपबुद्धिरस्ति। रूपतैव तदा न स्यात्’ इति।
न्यायमञ्जरी
%व्यक्तेर्जात्याश्रयत्वेऽनुपपत्तयः%
अपि चेयं जातिः
सर्वसर्वगता वा स्यात् पिण्डसर्वगतापि वा।
सर्वसर्वगतत्वे स्यात् कर्कादावपि गोमतिः॥
अश्वधीः शाबलेयादावुष्ट्रबुद्धिर्गजादिषु।
पदार्थसङ्करश्चैवमत्यन्ताय प्रसज्यते॥
अथापि व्यक्तिसामर्थ्यनियमान्नैष सङ्करः।
न हि कर्कादिपिण्डानां गोत्वादिव्यक्तिकौशलम्॥
मैवं खण्डाद्यभिव्यक्तमपि गोत्वमनंशकम्।
सर्वत्रैव प्रतीयेत न वा सर्वगतं भवेत्॥
तद्देशग्रहणे तस्य न हि किञ्चिन्नियामकम्।
दीपवद् व्यञ्जकः पिण्डो न तु तत्पिण्डवृत्ति तत्॥
सर्वत्र गृह्यमाणञ्च सर्वत्रास्ततीति मेऽन्वयः।
सर्वसर्वगतं तस्मान्न गोत्वमुपपद्यते॥
पिण्डसर्वगतत्वे तु काममेतददूषणम्।
किन्तु नैवाद्य जातायां गवि गोप्रत्ययो भवेत्॥
पिण्डे नासीदसञ्जाते जातिर्जाते च विद्यते।
सङ्क्रामति न चान्यस्मात् पिण्डादन्यत्रनिष्क्रिया॥
आयान्त्यपि न तं पिण्डमपोज्झति पुरातनम्।
न चांशैर्वर्त्तते तत्र कष्टा व्यसनसन्ततिः॥
न्यायमञ्जरी
%तत्र भट्टमतम्%
भट्टास्तु ब्रुवते भिन्नाभिन्नमेकम्।
वस्तुबुद्धिर्हि सर्वत्र व्यावृत्त्यनुगमात्मिका।
जायते द्व्यात्मकत्वेन विना सा च न सिद्ध्यति॥
केवलविशेषात्मकपदार्थपक्षे सामान्यप्रतीतेर्नालम्बनत्वं सामान्यमात्रवादे विशेषबुद्धेरनुपपत्तिः।
न चाप्यन्यतरा भ्रान्तिरुपचारेण गम्यते।
दृढत्वात् सर्वदा बुद्धेर्भ्रान्तिस्तद्भ्रान्तिवादिनाम्॥
न हि मिहिरमरीचिनिचयनीरप्रतीतिवत् सामान्यप्रत्ययोपमर्देन विशेषप्रतीतिः, विशेषप्रत्ययोपमर्देन वा सामान्यप्रतीतिरुदेति, किन्तु अविरोधेनैव युगपदुभयावभासः। अत एव निर्विकल्पबोधेन द्व्यात्मकस्यापि वस्तुनो ग्रहणमुपेयते।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्ययाः–
%न चाप्यन्यतरेति।% बुद्धिरध्यवसिततद्भावत्वेन भ्रान्तिः, शुक्ताविव रजतरूपत्वेनाध्यवसितायाम्। अतद्रूपस्य ज्ञात्वापि केनचित् सादृश्यादिना तद्रूपाध्यारोपणमुपचारो `गौर्वाहीकः’ इति यथा।
न्यायमञ्जरी
%तन्मतनिरसनम्%
तदेतदभिधीयमानमेव न मनोज्ञमिवाभाति।
नानारूपं त्वयैकस्य विरुद्धं वदता स्वयम्।
दूषणादानमौखर्यमस्याकमपवारितम्॥
तदेव सामान्यं स एव विशेषः, तदेवैकं तदेव नाना, तदेव नित्यं तदेवानित्यम्, तदेवास्ति नेति चादृष्टमिदमुच्यते, उच्यमानमपि न शोभते।
दृष्टत्वान्न विरोधश्चेन्न तथा तदवेदनात्।
उक्तं हि नानुवृत्तार्थग्राहिणी नेत्रधीरिति॥
विचित्रविकल्पप्रबन्धविप्रलब्धबुद्ध्यः खल्वेवं मन्यन्ते, भवन्तु ते; न त्वेकं वस्तु बहुरूपं भवितुमर्हति।
एकं हि वस्तुनो रूपमितरत्कल्पनामयम्।
नानुवृत्तविकल्पेषु विस्रम्भ उचितः सताम्॥
द्रागितो ह्यन्यसंस्पर्शनैरपेक्ष्येण दृश्यते।
स्वलक्षणमतो भेदस्तात्त्विकोऽनुगमो मृषा॥
दृढादृढत्वमक्षुण्णमपरीक्ष्यैव संविदाम्।
द्वयप्रतीतिमात्रेण द्वयाभ्युपगमो भ्रमः॥
न नेति प्रत्ययादेव मिथ्यात्वं केवलं धियाम्।
किन्तु युक्तिपरीक्षापि कर्त्तव्या सूक्ष्मदर्शिभिः॥
न चैकं शबलं वस्तु निर्विकल्पकगोचरः।
व्यक्त्यन्तरानुसन्धानाद् विनानुगमधीः कुतः॥
येष्वनुगतं तत्सामान्यं तेषु बुद्ध्याननुसन्धीयमानेषु तद्वृत्तिसामान्यग्रहणासम्भवान्न चानुसन्धानसामर्थ्यं बुद्धेरस्ति।
अत एव न ते सम्यगक्षजज्ञानवेदिनः।
अभेदवृत्तिप्रत्यक्षमाहुरद्वैतवाञ्छया॥
तस्माद्भेदविषयत्वात् प्रत्यक्षस्य न तद्गतं सामान्यम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%विचित्रविकल्पप्रबन्धेति।% निर्विकल्पोत्तरकालं योऽयं गौर्गौरित्यादिरबाह्यस्पर्शी विकल्पप्रबन्धः।
%अत एव न ते सम्यगिति।% यथास्तोत्येव वस्तुस्वलक्षणमवभापि पश्चात् गौरिति विकल्पोदयस्तथा वस्तुग्रहणोत्तरकालमभेदस्य सत्तायाः प्रथा न प्रथमेति; एवं चाभेदवृत्ति सन्मात्रग्राहि प्रत्यक्षम्। सत्तायामगृहीतायां घटादिविकल्पानुदयादिति सत्ताद्वैतवादिनो न सम्यग्वादिनः।
%औपाधिक इति% एकस्यानेकवृत्तित्वादिरुपाधिः तत्कृतः। यथा गोत्वमेकमनेकवृत्ति च तथा अश्वत्वाद्यपीति।
न्यायमञ्जरी
%जात्यनङ्गीकारेऽप्यनुगतबुद्धिः%
नन्वेवमपह्नू यमाने सामान्ये गौर्गौरिति शाबलेयादिषु योऽयमनुवृत्तः प्रत्ययः स कथं समर्थयिष्यते? उक्तमत्र विकल्पमात्रमेष प्रत्ययो विकल्पाश्च नार्थधीनजन्मान इति। तथा च परपरिकल्पितेषु सत्तादिसामान्येष्वपि निः सामान्यानि सामान्यानीत्यभ्युपगमाद् औपाधिक एषु सामान्येष्वनुगतविकल्प इति चेत्, आयुष्मन्! गवादिष्वपि कञ्चिदुपाधिलेशमवलम्ब्य गौर्गौरित्यनुस्युतविकल्पो भविष्यति। कः पुनरसावुपाधिरिति चेत्, एकार्थक्रियाकारित्वमिति ब्रूमः।
यदेव वाहदोहादि कार्यमेकेन जन्यते।
गोपिण्डेन तदेवान्यैरिति तेष्वनुवृत्तिधीः॥
न्यायमञ्जरी
%तुल्यार्थक्रियाकारित्वे शङ्कातत्समाधानञ्च%
ननु प्रतिव्यक्ति कार्यं भिन्नमेव, सत्यम्।
भेदबुद्धिभयात् तत्देकमित्युपचर्यते।
कर्कादिकार्यादन्यत्वं यथा ह्येतस्य दृश्यते।
न तथा खण्डाकार्यस्य मुण्डार्याद्विभिन्नता॥
ननु तथा मा भून्न त्वभिन्नमेव खण्डमुण्डयोः कार्यम्, दर्शनमेव तर्हि तयोरेकं कार्यं भविष्यति तच्चाभिन्नम्। ननु दर्शनमपि प्रतिव्यक्ति भिन्नमेव, सत्यम्, तत्तस्वपृष्टभाविप्रत्यवमर्शाख्यकार्यैक्यादेकमित्युच्यते। यथैव शाबलेयादिपिण्डदर्शनेऽपि गौरित्येवावमर्श इति तदेकत्वमुच्यते। तदुक्तम्,
एकप्रत्यवमर्शस्य हेतुत्वाद्धीरभेदिनी।
एकधीहेतुभावेन व्यक्तीनामपि भिन्नता॥ इति।
तस्मादौपाधिकत्वादनुवृत्तबुद्धेर्न सामान्यं किञ्चिद्वास्तवमस्तीति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%एकप्रत्यवमर्शेति।% धीर्भोदिन्यप्येकावमर्शजननादभेदिन्युच्यत इति।
न्यायमञ्जरी
%सम्बन्धानङ्गोकारे शब्दानुमानयोरप्रवृत्तिरिति शङ्कानिरासः।%
तत्राह,
अनिष्यमाणे सामान्ये ननु शब्दानुमानयोः।
कथं प्रवृत्तिः सम्बन्धग्रहणाधीनजन्मनोः॥
न हि व्यक्तिषु सम्बन्धो ग्रहीतुमिह शक्यते।
स हि व्यक्तिषु गृह्येत सर्वास्वेकत्र वा क्वचित्॥
न तु सर्वासु, देशकालादिभेदेन तदानन्त्यादशक्यत्वात्। नैकस्यां व्यभिचारात् ततोऽन्यत्रापि स शब्दः प्रवर्त्तमानो दृश्यते। अगृहीतसम्बन्धे च न शब्दलिङ्गे तत्प्रतीतिमुत्पादयितुमुत्सहेते इति। उच्यते। स्यादेतदेवं यदि प्रत्यक्षविषये स्वलक्षणे शब्दलिङ्गयोः प्रवृत्तिः स्यात्। ननुप्रत्यक्षाविषये तयोर्वृत्तावनिष्यमाणायामनवस्थादिदोषोपघातादप्रवृत्तिरेव स्यात्? मैवं वोचः, कथमसकृदभिहितमपि न बुद्ध्यसे?
विकल्पविषये वृत्तिरिष्टा शब्दानुमानयोः।
अवस्तुविषयाश्चैते विकल्पा इति वर्णितम्॥
न्यायमञ्जरी
%विकल्पानामवस्तुविषयत्वे शब्दानुमानयोरुच्छेद इति शङ्काया निरासः%
ननु विकल्पानामपि विषयो यद्यनुगामी कश्चिन्नेष्यते तदुत्सीदेतामेव शब्दानुमाने। बाढम्, अस्ति विकल्पानामनुस्यूतो विषयः, स तु न वास्तवः। कः पुनरसाविति चेत्,
अतद्रूपपरावृत्ति–स्वभावमबहिर्गतम्।
बहिः स्थमिव सामान्यमालम्बते हि विकल्पः॥
या च भूमिर्विकल्पानां स एव विषयो गिराम्।
अत एव हि शब्दार्थमन्यापोहं प्रचक्षते॥
तथा हि न विकल्पा वस्तु स्पृशन्ति। कुतः?
एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम्।
कोऽन्यो न दृष्टो भागः स्याद् यः प्रमाणैः परीक्ष्यते॥
तस्माद् भ्रमनिमित्तसमारोपिताकारान्तरनिषेधाय% तेषां प्रवृत्तिः। यथा रूपसाधर्म्यसमारोपितरजताकारनिवारणाय शुक्तौ प्रमान्तरं प्रवर्त्तते नेदं रजतमिति, तथेहापि शाबलेयादिस्वलक्षणे निर्विकल्पकेन सर्वात्मना परिच्छिन्ने कुतश्चिन्निमित्तादारोपितमगोरूपमिव व्यवच्छिन्दन्ति विकल्पाः, अगौर्न भवतीति, न तु गोः स्वलक्षणग्रहणे तेषां व्यापारः, व्यापारः, प्रागेव गृहीतत्वात्।
अथ ब्रूयात् नानाविशेषणनिकरकल्माषितवपुषस्तस्यार्थस्य किञ्चिद् विशेषणं गृहीतं विकल्पैर्गृह्यत इति, तदप्ययुक्तम्। विशेषणनिकररूषितस्यापि वस्तुनः तद्विशेषणोपकारशक्तिव्यतिरिक्तात्मनोऽनुपलम्भात् तदभेदे सति तद्विशेषेणोपकार्यवस्तुस्वरूपग्रहणवेलायामेव तत्त्वात् तच्चित्रग्रहणासिद्धेर्विकल्पान्तराणामानर्थक्यमेव। तदुक्तम्,
यस्यापि नानोपाधेर्निर्वाहिकार्थस्य भेदिनः, तस्यापि
नानोपाध्युपकाराङ्गशक्त्यभिन्नात्मनो ग्रहे।
सर्वात्मनोपकार्यस्य को भेदः स्यादनिश्चितः॥ इति।
तस्मादपोहविषयाः शब्दा विकल्पश्चेति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%एकस्यार्थस्वभावस्येति%। एकस्येति निरंशस्य। कोऽन्यो न दृष्टः। प्रत्यक्षदृष्टात् स्वभावात् कोऽन्यः स्वभावो न दृष्टो यः प्रमाणैर्भवतः प्रमाणतयाभिमतैर्विकल्पैरनुमानैश्च परीक्ष्यते। प्रमाणैरिति विकल्पव्यक्त्यनुमानव्यक्त्यपेक्षया बहुवचनम्।
%तस्माद् भ्रमनिमित्तेति।% तदुक्तम्,
`नो चेद् भ्रान्तिनिमित्तेन संयोज्येत गुणान्तरम्।
शुक्तौ वा रजताकारो रूपसाधर्म्यदर्शनात्’॥ इति।
%नानाविशेषणनिकरेति।% नानाभूतानि विशेषणानि गोत्वशाबलेयत्वद्रव्यत्वादीनि।
%तद्विशेषणोपकारशक्तिव्यतिरिक्तात्मनोऽनुपलम्भादिति।% अस्यायमभिप्रायः। धर्मिणः सकाशादमी भिन्ना अभिन्ना वा, भिन्नाश्चेदभ्युपगम्यन्ते तदा भिन्नानां सम्बन्ध उपकारं विना न घटत इति धर्मिणस्तदुपकारिका शक्तिः कल्प्या। सा च कल्प्यमाना एका अनेका वा कल्प्येत। अनेकाश्चेत् तासामपि शक्तीनां ततो भेदोऽङ्गीकर्तव्यः, न ह्येकस्यानेकात्मकत्वं सम्भवतीति। भिन्नानाञ्च सम्बन्ध उपकाराभावे न सम्भवतीत्यपरापरोपकारशक्तिकल्पनायामनवस्थाप्रसङ्गः। अथैका अभिन्ना चेति पक्षस्तदपेक्षयेदमुक्तं तद्विशेषणेति यस्मापि %नानोपाधेरिति।% यस्यापि वैशेषिकादेः परस्परमाश्रयतश्च भिन्ना नानाभूता उपाधयो द्रव्यत्वादयो विशेषणानि यस्य तस्य नानोपाधेरर्थस्योपाधिभेदादेव भेदिनो निश्चयात्मिका धीर्विधिमुखेनैव ग्राहिका, प्रत्युपाधि च भिन्नेति मतम्, तस्यापि पक्षे नानाभूतानामुपधीनां द्रव्यत्वादीनामुपकारस्याङ्गं कारणं या शक्तिस्तदभिन्नात्मन उपाधिमत एकेन निश्चयज्ञानेन ग्रहे निश्चये सर्वात्मना कृते सत्युपकार्यस्योपाधिकलापस्य मध्यात् को भेदः क उपाधिविशेषोऽनिश्चितः स्यात्। सर्व एव निश्चित इत्यर्थः, इत्येवमिदं धर्मकीर्त्तिवार्त्तिकं व्याचक्षते। अस्मिंश्च व्याख्याने तद्विशेषणोपकार्यवस्तुस्वरूपग्रहणवेलायामेवेत्यत्र तानि विशेषणान्युपकार्याणि यस्य वस्तुनस्तद्बिशेषणोपकार्यमिति विग्रहः कर्तव्यः।
न्यायमञ्जरी
%भट्टमतेनापोहः शब्दार्थ इति मतनिरासः%
नन्वपोहशब्दार्थपक्षे महतीं कृपाणवृष्टिमुत्ससर्ज भट्टः। तथा हि अपोहो नाम व्यावृत्तिरभाव इष्यते। न चाभावः स्वतन्त्रतया घटवदवगम्यते। तदयमन्याश्रितो वक्तव्यः, कश्च तस्याश्रय इति चिन्त्यम्। न तावद् भोः स्वलक्षणमाश्रयः, तद्धि अशाबलेयनिवृत्तिराश्रयतां प्रतिपद्यते, न ह्येवमुपपद्यते अशाबलेयो भवतीति गौः किं तु शाबलेय इति, शाबलेयव्यावृत्तिर्हि गोष्वपि बालुहेयादिष्वस्ति।
अथ वा शाबलेयादिस्वलक्षणसमुदायमगोव्यावृत्तेराश्रयं ब्रूयुः सोऽप्यघटमान एव, समुदायिव्यतिरेकेण तस्यानुपलम्भात्। समुदायिनाञ्च स्वलक्षणानां देशकालादिभेदेनानन्त्याद्वर्गीकरणं पुरुषायुषशतेनापिन शक्यक्रियमिति समुदायोऽपि न तदाश्रयः। तस्मात् सर्वसाधारणं प्रतिपिण्डं परिसमाप्तं किमपि नूतनमगोव्यावृत्तेरधिकरणमभिधातव्यम्। तच्च गोत्वमेव। तस्मिन्नङ्गीकृते वा किमगोव्यावृत्तिकल्पनायासेन।
अपि च न केवलमाश्रयाभावात्तदग्रहणं सम्भवति, न च वर्गीकरणे निमित्तमेषां किंचिदस्ति। अश्वादयश्च विधिरूपतया भवन्मते न गृह्यन्ते, किन्त्वन्यव्यवच्छेदेनैवेति। तेषामपि व्यवच्छेदग्रहणे सैव वार्त्तेति, नेदानीं विकल्पैः क्वचिदपोहो विषयीकर्त्तुं शक्यते, निर्विकल्पेन च न कश्चिद् व्यवहार इति सकलयात्रोत्सादप्रसङ्गः। किञ्च य एते शाबलेयादिशब्दास्ते सर्व एवापोहवाचित्वाविशेषात् पर्यायाः स्युः। अपोहभेदाददोष इति चेन्न। अपोहानां भेदा भावात्, भिद्यमानत्वे वा स्वलक्षणवदेषां वस्तुत्वप्रसक्तिः। भवत्पक्षेऽपि सामान्यमात्रवाचित्वाविशेषात्पर्यायत्वं समानो दोष इति चेन्न। सामान्यानां विधिरूपत्वात् परस्परसंरहितस्वभावतया नानात्वावगमात्। अपोहस्त्वभावमात्ररूपविशेषान्न परस्परं भिद्यते। कर्कादिशाबलेयाद्याधारभेदादपोहभेद इति चेन्न। तेषामाधारत्वस्य निरस्तत्वात्, आधारभेदेन वा तद्भेदाभ्युपगमे प्रतिस्वलक्षणमपोहतद्भेदप्रसङ्गः। ततश्च सामान्यात्मतास्य हीयते।
अथापोह्यभेदेनापोहभेदमवधार्य पर्यायता पराणुद्यते, तदप्यसारम्। भवन्नपोहिभेदाद् भेदो न पर्यायत्वमपहन्ति, भाक्तो ह्यसौ न मुख्यः। न चापोह्यभेदाद्भेदोऽपोहस्यावकल्पते, यो हि सम्भाव्यमानसंसर्गैराधारैरपि न भेत्तुं पार्यते स दूरवर्त्तिभिरलब्धसम्बन्धैरतिबाह्यैः कथं भिद्येत?
अभ्युपगम्यापि ब्रूमः। यद्यपोह्यभेदादपोहभिन्नत्वमपोह्यैक्यात्तर्हि तदैक्येनापि भवितव्यम्, अतश्च गवाश्वयोरन्यापोहेन व्यवस्थाप्यमानयोरगावोऽनश्वाश्च हस्त्यादयोऽपोह्यास्तुल्या भूयांसो वा भवन्ति, असाधारणस्तु एको गौरश्वे गवि चाश्वोऽतिरिच्यते तत्र। इहापोह्यभेदाद् गवाश्वयोर्भेदो भवतु भूयसामपोह्यानामभेदादभेदो भवत्विति विचारणायां `विप्रतिषिद्धधर्मस्य तमवाये बहूनां स्यात्सधर्मत्वम्’ इत्यभेद एव न्याय्यो भवेत्।
अथ साधारणत्वादश्वापोह्य एव गौरपोहेन व्यवस्थाप्य इष्यते? स तर्हि सिंहादावप्यस्तीति सोऽपीदानीं गौर्भवेत्। अथाश्वादिविशेषोद्घोषरहितमगोरूप्यं व्यवच्छेद्यमुच्यते, तत् प्रत्येकं ग्रहीतुमशक्यम्, आनन्त्यात्, वर्गीकरणकारणञ्च किञ्चिन्नास्त्येव। न हि सर्वेषामगवामश्वादीनामेकदेशत्वमेककालत्वं वा समस्ति।
अथ गोप्रतिषेध एव वर्गीकरणहेतुरिष्यते, हन्त! तर्हि गौः पूर्वसिद्ध एषितव्यः, यत्प्रतिषेधेनागावः प्रतीयेरन्। पूर्वसिद्धे च गवि लब्धे किमगोभिः किं तदपोहेन प्रयोजनम्। पूर्वसिद्धं गोस्वलक्षणमस्त्येवेति चेन्न, व्यवहाराभावात्। गोसामान्ये तु पूर्वसिद्धे मुधापोहप्रयत्न इत्युक्तम्।
अथ गोसामान्यमगोप्रतिषेधेन सिद्ध्यति, तदा दुस्तरमितरेतराश्रयत्वम्। अगोनिषेधेन गोसिद्धिः, गोसिद्ध्या चागोनिषेधसिद्धिरिति। तस्मादपोहस्यैव निरूपयितुमशक्यत्वान्न तद्भेदादपोहभेदः सिद्ध्यति।
अपि च अश्वादयः सामान्यरूपेण वापोह्येरन् विशेषात्मना वा? न विशेषात्मना, तदनङ्गत्वाद् अशब्दवाच्यत्वाच्च। सामान्यात्मना तु तेषामप्यपोहरूपत्वादभावत्वम्। कथञ्चाभावस्यैवाभावः क्रियते, करणे वा प्रतिषेधद्वययोगाद् विधिरवतिष्ठत इति विधिरूपः शब्दार्थः स्यात्। अपोह्यात्मनश्च तुरगादेर्योऽपोहः स तस्माद्विलक्षणः, अन्यथा वा? वैलक्षण्ये तस्य भावात्मता भवेत्, अवैलक्षण्ये तु यादृश एव अपोह्यस्तादृश एव तदपोह इति गौरप्यगौः स्यात्।
किञ्च अपोहशब्दार्थपक्षे नीलमुत्पलमित्यादौ विशेषणविशेष्यभावसामानाधिकरण्यादिव्यवाहारा विलुप्येरन्। न ह्येकस्मिन्नर्थे द्वयोरपोहयोर्वृत्तिरुपपद्यते। न चैकः कश्चिदर्थोऽस्ति यत्र तयोर्वृत्तिः, स्वलक्षणस्याशब्दार्थत्वाद् अन्यस्य चासम्भवात्।
न च वृत्तिरपि काचिदस्ति। सज्ज्ञेयादिशब्दानामपोहनिरूपणासम्भवान्नापोहवाचित्वम्। न ह्यसदज्ञेयं वा किंचिदवगतं यद् व्यवच्छिद्यते। ज्ञातञ्चेत् सदेव तज्ज्ञेय्चेत्यतः कथं सच्छब्देन सदेव ज्ञेयशब्देन च ज्ञेयमेवापोह्यते। अज्ञातन्तु नितरामनपोह्यम्। कल्पितन्तु तद्वक्तुमशक्यम्, कल्पनयैव सत्त्वाज्ज्ञेयत्वाच्च।
अपोहशब्दस्य च किं वाच्यमिति चिन्त्यम्। अनपोहो न भवतीत्यापोहः, कश्चायमनपोहः? कथं वा असौ न भवति, अभवन् वा किमवशिष्यत इति सर्वमवाचकम्। प्रतिषेधवाचिनाञ्च प्रतिषेधवाचिनाञ्च नञादिशब्दानां का वार्त्ता? अत्र न भवतीति, नेति कोऽर्थः?
उपसर्गनिपातानाञ्च कथमपोहविषयत्वम्, आख्यातशब्दानाञ्च पचतीत्यादीनामपोहो दुरुपपादः। नाम्नामेव जातिशब्दानामपोहविषयत्वमिष्यते, येषां भवन्तो जातिवाचित्वं तद्वद्वाचित्वं वा प्रतिपद्यन्त इति चेत्। ततोऽन्येषां तर्हि का वार्ता? बाह्यार्थवाचित्वे जातिशब्देषु को द्वेषः? निरालम्बनत्वे ज्ञानांशालम्बनत्वे वा जातिशब्दानामपि तदेवास्तु किमपोहवादप्रमादेन।
यथैव प्रतिभामात्रं वाक्यार्थ उपकल्पितः।
पदार्थोऽपि तथैवास्तु किमपोहाग्रहेण वः॥
इत्यादि दूषणौदार्यमपोहे बहु दर्शितम्।
अतः शब्दार्थतामस्य वदेयुः सौगताः कथम्॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%महतीं कृपाणवृष्टिमिति।% तथाहि भट्ट आह,
अगोनिवृत्तिः सामान्यं वाच्यं यैः परिकल्पितम्।
गोत्वं वस्त्वेव तैरुक्तमगोऽपोहगिरा स्फुटम्॥
भावान्तरमभावो हि पुरस्तात्, प्रतिपादितः।
तत्राश्वादिनिवृत्त्यात्मा भावः क इति कथ्यताम्॥ इत्यादि।
%न च वर्गीकरणे निमित्तमिति।% एकदेशकालादि। अपोहानां भेदाभावात्। अभावरूपत्वादिति भावः।
%अपोहभेदादिति।% केषाञ्चिद् अगोऽपोहोऽर्थः, केषाञ्चिद् अनश्वापोह इति।
%विप्रतिषिद्धधर्मेति।% विप्रतिषिद्धधर्माणां विरुद्धधर्माणामेकत्र समवायप्राप्तौ सत्याम्। %बहूनां सधर्मत्वम्।% बहूनां ये धर्मास्ते ग्राह्या इत्यर्थः।
%तस्माद्व विलक्षणः।% तुरगादेरपोहरूपाद् विलक्षणः। %न च वृत्तिरपि काचिदस्ति।% अभावरूपत्वात्। %कल्पनयैव।% कल्पितेनैव रूपेण।
%उपसर्गनिपातानामिति।% प्रादिचादीनामपोह्यस्यादर्शनादस्वतन्त्रप्रयोगत्वात् तेषाम्। तथा चाह भट्टः “चादीनामपि नञ्योगो नैवास्तीत्यनपोहनम्’ इति। %आख्यातशब्दानाञ्चेति।% पचत्यादौ हि नञ्योगे पाकाभावप्रतीतिर्न पाठादेवेति। तथा चाह,
आख्यातेषु च नान्यस्य निवृत्तिः सम्प्रतीयते।
न पर्युदासरूपं हि निषेध्यं तत्र विद्यते॥
न नेति ह्युच्यमानेऽपि निषेधस्य निषेधनम्।
पचतीत्यनिषिद्धन्तु स्वरूपेणावतिष्ठते॥ इति।
न्यायमञ्जरी
%अपोहपदार्थनिरूपणम्।%
उच्यते। तदेतदविदितबौद्धसिद्धान्तानामभिधानम्।
अपोहो यदि भावात्मा बहिरभ्युपगम्यते।
ततो भवति भावत्कं वाग्जालं, न त्वसौ तथा॥
किन्तु खल्वयमान्तरो ज्ञानात्मा सौगतानामपोहः सम्मतः। तथाभ्युपगमे केयमपोहवाचोयुक्तिः। स्वांशविषयं पदार्थज्ञानमित्येतदेव वक्तुमुचितम्। एतदपि नास्ति, नायमान्तरो न बाह्योऽपोहः, किन्तु ज्ञानार्थाभ्यामन्य एव
ननु यद् विद्यते नान्तर्न बहिः परमार्थतः।
न तु विद्यत एवेति कथं शब्दार्थ उच्यते॥
पारमार्थिकशब्दार्थसमर्थनपिपासिताः॥
नेहागताः स्मो येनैवमनुयुज्येमहि त्वया॥
यत एव तन्नान्तर्बहिरस्ति तत एत एव मिथ्येति काल्पनिकमिति च गीयते। किं पुनस्तत्? आरोपितं किञ्चिदाकारमात्रं विकल्पोपरञ्जकम्। ननु बाह्यार्थव्यतिरेकेण। किमीय आकारः आन्तरान्तरस्य ज्ञानस्योपरञ्जक उच्यते। दृश्यच्छायैवानुरञ्चिका विकल्पना, नेदृशोऽर्थः। व्यावृत्तं हि वस्तु दर्शनानां विषयः, तच्च स्प्रष्टुमक्षमा विकल्पा इत्युक्तम्। अथ तच्छायामवलम्बमाना विकल्पा व्यावृत्तस्याग्रहणाद् व्यावृत्तिविषया इत्युच्यन्ते।
ननु व्यावृत्तितद्वतोरभेदाद् व्यावृत्तिर्यच्च व्यावृत्तं स्वलक्षणं तदेकमेवेति व्यावृत्तिग्राहिभिर्विकल्पव्यावृत्तमपि गृहीतं स्यादिति दर्शनतुल्या भवेयुः? नैतदेवम्। न विकल्पैर्व्यावृत्तं वस्तु गृह्यते न च पारमार्थिकी व्यावृत्तिः, अपि तु कश्चिदारोपित आकारः। वास्तवत्वे हि व्यावृत्तेः वस्तुसंस्पर्शिन एव दोषाः प्रादुः ष्युः, न त्वसौ तथेत्युक्तम्। अत एव यत् केचन पर्यचूचुदन् किल व्यावृत्तग्रहणपक्षे त्रितयग्रहणं प्राप्नोति यद्व्यावृत्तम्, येन निमित्तेन व्यावृत्तम्, यतश्च व्यावृत्तमिति; न च त्रितयमस्तीत्यतः कथं व्यावृत्तग्रहणमिति, तदप्यपास्तं भवति। यदि हि व्यावृत्तं गृह्णीम इत्येवमुल्लेखो भवेद् व्यवहर्तृजनस्य तदैवमसौ पर्यनुयुज्येत। न त्वेवमस्तीत्यचोद्यमेतत्।
नन्वेवमारोपिताकारविषया विकल्पा युक्ता भवन्ति, व्यावृत्तिविषयत्ववाचोयुक्तिरनन्वितेत्युक्तम्। समाहितमेतत्। दर्शनपृष्ठभाविभिर्गौरित्यादिविकल्पैरतत्कार्यपरावृत्त आकार उल्लिख्यते। न हि गोविकल्पैरतत्कार्याणामश्वादीनामुल्लेखः स्वलक्षण़ञ्च न स्पृश्यते, सामान्यञ्च वास्तवं नास्ति। तस्मादतत्कार्यपरावृत्तिविषयत्वेमेव विकल्पनामवातिष्ठत इत्येवं युक्त्या तेषामपोहविषयत्वमुच्यते न प्रतिपत्तितः।
नन्वतत्कार्यपरावृत्तमिव सजातीयव्यावृत्तमपि दृश्यस्वरूपम्, तत्र विजातीयव्यावृत्तिः, स्वलक्षणञ्चान्यद्, न चैकतराकारोल्लेखननियमहेतुमुत्पश्यामः। धीमन्! मैवं मंस्थाः। निश्चयात्मनो निर्विकल्पाः। सजातीयविजातीयव्यावृत्ताकारोल्लेखे च सर्वात्मना तन्निश्चयाद् विकल्पान्तराणां शब्दान्तराणां प्रवृत्तिः स्यात्। तथा च गौरिति शब्दादुत्पद्यमानो विजातीयव्यावृत्ताकारोल्लेखीव विकल्पः संवेद्यते, न सजातीयव्यावृत्तोल्लेखी। तुल्यविषयाश्च विकल्पैः शब्दा इत्यन्यापोहविषया उच्यन्ते। सोऽयमारोपिताकारो न बहिरारोपितत्वादेव; नान्तः, अबोधरूपत्वात्। अतश्चासौ न किञ्चिदेव, न किञ्चिदपि भवन्नपोह इति फलत उपचर्यते। अतश्च बाह्यमभावात्मकमपोहमाश्रित्य स्वरूपे दूषणोपन्यासे कण्ठशोषमनुभवन्नस्थाने क्लिष्टो देवानां प्रियः।
अपि च विकल्पभूमिरर्थो विकल्पान्तरसन्निधापितभावाभावाक्षेपी नियतरूपो बाह्यसदृशश्च प्रतीयते। न चेदं रूपत्रयमपि बाह्ये वस्तुनि युज्यते। बाह्यस्य हि वस्तुनः स्वरूपेणावगतस्य न विकल्पान्तरोपनीतभावसम्बन्ध उपपद्यते, वैयर्थ्यात्। नाप्यभावसम्बन्धी विप्रतिषेधात्। नियतरूपता च विकल्पविषयस्य गौरेव नाश्व इत्येवमवगम्यमाना वस्त्वन्तरव्यवच्छेदमन्तरेण नावकल्पत इति बलाद् व्यवच्छेदविषयत्वम्, अन्यथा नियतपरिच्छेदाभावात्। सन्दिग्धञ्च वस्तु न गृह्यते। एवं बाह्यवस्तुविषयत्वे च निरस्ते विकल्पानामेकस्यार्थस्वभावस्येति न्यायेन पौनरुक्त्याद् अबाह्यविषयत्वं न्याय्यम्। अबाह्यान्तरारोपितं रूपं तच्च बाह्यवदवभासते। न च व्यावृत्तिच्छायामपहाय बाह्यारोपितयोः सादृश्यमन्यदस्तीति व्यावृत्तिविषया एव विकल्पाः फलतो भवन्ति।
? यद्यपि विधिरूपेण गौरश्व इति तेषां प्रवृत्तिस्तथापि नीतिविदोऽन्यापोहविषयानेव तान् व्यवस्थापयन्ति। यथोक्तं व्याख्यातारः खल्वेवं विवेचयन्ति न व्यवहर्तारः’ इति। सोऽयं नान्तरो न बाह्योऽन्य एव कश्चिदारोपित आकारो व्यावृत्तिच्छायायोगादपोहशब्दार्थ उच्यत इतीयमसत्ख्यातिगर्भा सरणिः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%ज्ञानार्थाभ्यामन्य एवेति% धर्मोत्तरः। तथा चाहासौ
बुद्ध्या कल्पिकया विविक्तपरैर्यद्रूपमुल्लिख्यते।
बुद्धिर्नो न बहिर्यदेव च वदन् निस्तत्त्वमारोपितम्।
यस्तत्त्वं जगतो जगाद विजयी निः शेषदोषद्विषां
वक्तारं तमिह प्रणम्य शिरसापोहः स्म विस्तार्यते॥ इति।
%ननु बाह्यार्थव्यतिरेकेणेति।% विकल्पो हि ज्ञानविशेषस्तस्य योऽयं ग्राह्यानुरागः स कथं बाह्यं विना सम्भवति। स्वत एव तथात्वे निर्विकल्पेऽपि तथा भावाद् बाह्यार्थाभावप्रसङ्गात्। %दृश्यच्छायैवानुरञ्जिकेति।% स्वलक्षणग्राहिदर्शनसमनन्तरभावेन विकल्पानां लाक्षानन्तरस्फटिकशकलसमनन्तरवर्तिन इव स्फटिकशकलान्तरस्य लाक्षाच्छायाधारित्वं दृश्यच्छायाधारिता। %तच्च स्प्रष्टुमक्षमा।% अस्पष्टत्वात् प्रतीतेः, प्रमाणान्तरवैयर्थ्यप्रसङ्गाच्चेति। %व्यावृत्तस्याग्रहणादिति।% यदि हि व्यावृत्तिमपि न विषयीकुर्युः कथं प्रकारान्तरस्याभावात् तच्छायावलम्बिनः स्युः। तच्छायानवलम्बित्वे च सादृश्यवसायेन तदध्यवसायेन बाह्ये प्रवृत्तिर्न स्यात्।
%अपि तु कश्चिदारोपित आकार% इति। यदेव च तस्यारोपितस्याकारस्य ग्रहणं स एव तेन रूपेण बाह्याध्यवसाय इत्यतो बाह्यव्यावृत्तिविषयत्वाभिमानः।
%न प्रतिपत्तितः।% प्रतिपत्तिर्हि विधिमुखेन।
%फलत उपचर्यते।% प्रागुक्तयुक्त्या दर्शनपृष्ठभाविनां विकल्पानां विजातीयपरावृत्तावेवावस्थानात्।
%विकल्पान्तरसन्निधापितेति।% अस्तीति नास्तीति च विकल्पाभ्यां सन्निधापितौ यौ भावाभावौ।
%अन्यथा नियतपरिच्छेदाभावादिति।% वस्त्वन्तरव्यवच्छेदनमन्तरेणेति शेषः। गौरेवायमिति या नियतरूपतया गृहीतिः सा अन्यव्यवच्छेदमन्तरेण नेति यद् उक्तं तन्न। प्रथमं तावद् विकल्पैर्नियतस्य रूपस्य ग्रहणं ततोऽन्यव्यावृत्तिनिश्चय इति चेन्नेत्याहसन्दिग्धञ्च वस्तु न गृह्यत इति। यावद् व्यवच्छेदो न गृहीतस्तावदसौ नियततया न गृहीतः, संदिग्धतयैव गृहीतः स्यात्। न च विकल्पैस्तथा गृह्यते, नियततयैव ततः प्रतीतिसमुत्पादात्। अतोऽस्मात् कारणत्रयादन्यव्यवच्छेदनमेव विकल्पानां विषय इति निश्चीयते।
%व्याख्यातारः खल्विति। ते हि विधिमुखेन प्रवृत्तिं युक्त्यानुपपद्यमानां पश्यन्तोऽपोहविषयतया व्यवस्थापयन्ति। व्यवहर्तारः पुनर्दृश्यविकल्प्ययोर्भेदाग्रहणेन प्रवर्तन्ते। %असत्ख्याति गर्भा।% एवं ह्यच्यमाने असत एवाकारस्य विकल्पबुद्धौ प्रतिभास इत्युक्तं भवति।
न्यायमञ्जरी
%ज्ञानाकारवादमवलम्ब्यापोहपदार्थनिरूपणम्%
अथ वा विकल्पप्रतिबिम्बकं ज्ञानाकारमात्रकमेव तदबाह्यमपि विचित्रवासनाभेदोपाहितरूपभेदं बाह्यवदवभासमानं लोकयात्रां बिभर्त्ति। व्यावृत्तिच्छायायोगाच्च तदपोह इति व्यवह्रियते। सेयमात्मख्यातिगर्भा सरणिः।
ननूभयथापि वस्तुविषयत्वाभावे विकल्पानां कथं वस्तुनि व्यवहाराः प्रवर्त्तन्ते, दृष्टेऽपि क्वचिद्वस्तुनि तृणादौ प्रवृत्त्यभावाद्। अर्थित्वन्तु प्रवृत्तेः कारणं कथमिति वक्तव्यम्। उच्यते। प्रवृत्तिस्तावद् दृश्यविकल्पयोरेकीकरणनिबन्धना, दृश्यदर्शनानन्तरमुत्पन्ने विकल्पे विकल्प्य तेन प्रतिपद्यते प्रमाता। दर्शनानन्तर्यविप्रलब्धस्तु दृश्यमेव गृहीतं मन्यते तदभिमानेन च प्रवर्त्तते। इदं तदेकीकरणमाहुः। दृश्यविकल्पयोर्भेदो यन्न गृह्यते न पुनर्भिन्नयोरभेदाध्यवसाय एकीकरणमिष्यते। दृश्याद् विभिन्नस्य विकल्पस्य शुक्तेरिव रजतस्य निर्देष्टुमशक्यत्वाद्, भेदाध्यवसाये चोभयाभावान्न भेदाध्यवसाये दर्शनमुपायो विकल्पाविषयत्वान्न विकल्पो दृश्याविषयत्वात्। तस्माद् भेदानध्यवसायादेव प्रवृत्तिः। प्राप्तिरपि दृश्यस्यैवार्थक्रियाकारिणो वस्तुनः पारम्पर्येण, तन्मूलत्वात् कार्यप्रबन्धस्य, दृश्यादर्शनं ततो विकल्पः, ततः प्रवृत्तिरिति।
अर्थं हि मूलवर्तिनमुपलभ्य प्रवर्त्तमानस्तमाप्नोति। अपवरकनिहितमणिप्रसृतायां कुञ्चिकाविवरनिर्गतायामिव प्रभायां मणिबुद्ध्या प्रवर्तमानः। यत्र तु मूलेऽप्यर्थो नास्ति तत्र व्यामोहात् प्रवर्त्तमानो विप्रलभ्यते, दीपप्रभायामिव तथैव मणिबुद्ध्या प्रवर्त्तमानः। एवञ्च बाह्यवस्तुसंस्पर्शशून्येष्वपि विकल्पेषु समुल्लसितेषु बाह्योऽर्थो मया प्रतिपन्नः, तत्र चाहं प्रवृत्तः, स च मया प्राप्त इत्यभिमानो भवति लौकिकानाम्। न त्वयमर्थाध्यवसायमूलः। तदुक्तं यथाध्यवसायमतत्त्वाद् यथातत्त्वञ्चानध्यवसायात्” इति, स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायात् प्रवृत्तिरित्यत्रापि ग्रन्थेऽर्थाध्यवसायो भेदानध्यवसाय एव व्याख्येयः। एवं दृश्यविकल्पावर्थावेकीकृत्य प्रवर्त्तते, प्राप्नोति चार्थमिति।
तदेवमेष लोकस्य व्यवहारोऽवकल्पते।
विवेकेनापि वोढव्या लोकयात्राथ लोकवत्॥
तस्माद् विकल्पप्रतिबिम्बनस्य शब्दार्थतामाहुरपोहनाम्नः।
प्रतीतिमार्गस्त्वविविच्यमानो जनस्य जातिभ्रममातनोति॥
यावांश्च कश्चिन्नियमप्रकारः प्रवर्त्तते जातिषु वृत्त्यवृत्योः।
तावानपोहेष्वपि तुल्य एव भवत्यवस्तुत्वकृतस्तु भेदः॥
तुल्येऽपि भेदे शमने ज्वरादेः काश्चिद् यथा वौषधयः समर्थाः।
सामान्यशून्या अपि तद्वदेव स्युर्व्यक्तयः कार्यविशेषयुक्ताः॥
विशेषणादिव्यवहारक्लृप्तिः तुच्छेऽप्यपोहे न न युज्यते नः।
अतश्च मा कारि भवद्भिरेषा जात्याकृतिव्यक्तिपदार्थचिन्ता॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%ननूभयथापीति।% यत् पूर्वमुक्तमारोपिताकारविषयत्वम्, यच्च `अपि च’ इत्यादिनोक्तं तेनापि। अथ वा बुद्ध्याकारापोहपक्षे आरोपिताकारापोहपक्षे चेति।
%यथाध्यवसायमिति।% अबहोरूपस्य बहीरूपतयाध्यवसायाद् अबहोरूपस्याबहीरूपतयानध्यवसायाच्च।
%स्वप्रतिभास% इति। प्रतिभासत इति प्रतिभासो ग्राह्याकारस्तस्मिन् स्वस्मिन्नात्मीये विकल्पसम्बन्धिनि।
%विकल्पप्रतिबिम्बनस्येति।% विकल्पप्रतिबिम्बनं विकल्पाविनाभूतो ग्राह्याकारः, विकल्पप्रदर्शिनो वा धर्मोत्तरपक्षे। %यावांश्च कश्चिदिति।% यथा निमित्तान्तरं विनैव कासुचिद् व्यक्तिषु सामान्यं समवैति कासुचिन्नेति तव नियमः निमित्तान्तराभ्युपगमे अनवस्थापाताद्, एवं ममाप्यपोहे भविष्यति तत्कारिष्वेव गौरिति प्रत्यय इति। अथैकं सामान्यं विना कथमेककार्यकारित्वमेवेत्याह %तुल्येऽपि% भेद इति। तदुक्तम्,
ज्वरादिशमने काश्चित् सह प्रत्येकमेव वा।
दृष्टा तथैवौषधयो भिन्नत्वेऽपि न चापराः॥ इति।
%विशेषणादिव्यवहारक्लृप्तिरिति।% बुद्धिरेव नीलावच्छिन्नमुत्पलमबाह्यं बाह्यमिव सदर्शयन्त्युत्पद्यते न पुनर्बाह्यानां पदार्थानां निरंशत्वादेवंरूपता समस्ति। आदिग्रहणात् सामानाधिकरण्यपरामर्शः, तत्राप्यनेकधर्मवन्तं धर्मिणं बाह्यमिव प्रदर्शयन्ती बुद्धिरेव तथाभूतोदेति। यदाह,
संसृज्यन्ते न भिद्यन्ते स्वतोऽर्थाः परमार्थतः।
भिन्नं रूपमभिन्नञ्च तेषु बुद्धेरुपप्लवः॥ इति।
न्यायमञ्जरी
%अपोहस्य शब्दार्थत्वखण्डनारम्भः%
अत्राभिधीयते। किं जात्यादेर्बाह्यस्य शब्दार्थस्य असत्त्वादपोहपक्षपातः उत प्रतीतिबलादेवेति। प्रतीतिस्तावदपोहविषया भवद्भिरङ्गीकृतेति किमत्र कलहेन। नापि जात्यादेरसत्त्वम् इन्द्रियार्थसन्निकर्षोत्पन्नबाधसंदेहरहितप्रत्ययगम्यत्वात् स्वलक्षणवत्।
आद्यमेव हि विज्ञानमर्थसंस्पर्शि चाक्षुषम्।
न तदुत्तरभावीति किमिदं राजशासनम्॥
तदेवास्तु प्रमाणं वा तेनापि त्ववगम्यते।
व्यावृत्तं वस्तुनो रूपं नानुगामीति का प्रमा॥
तथा हि निर्विकल्पकालस्यातिसूक्ष्मत्वात् किं प्रतिभासते, किं न प्रतिभासत इति कथमेष कलिरावयोरुपशाम्यतु। भवान् ब्रूते व्यावृत्तमेवावभातीति, अहं ब्रुवेऽनुवृत्तमापि प्रतिभातीति। एवं कलहायमानयोरावयोः कः परिच्छेदः न खलु शपथस्य शपमानस्य वैष विषयः।
तस्मान्निर्विकल्पकानन्तरोत्पन्नस्थूलकालकार्यपर्यालोचनया तद्व्यवस्था कर्त्तव्या तत्र च।
भवेद्यदि विशेषैकविषयं निर्विकल्पकम्।
सामान्याध्यवसायोऽयमकस्मात् तत् कथं भवेत्॥
शब्द एष विकल्प इति चेत्, मैवम्।
पश्यत्यनुगतं रूपमविज्ञातेऽपि वाचके।
दाक्षिणात्य इवाकस्मात् पश्यन्नष्टपरम्पराम्॥
अनवगतशब्दार्थसम्बन्धोऽप्यभिनवानेकपदार्थसन्निधाने तेषामनुगतञ्च व्यावृत्तञ्च पश्यत्येव रूपम्।
अपि च प्रथमाक्षसन्निपाते एवाङ्गुलिचतुष्टयमवलोक्यमानमन्योन्यमनुगामिना च विभक्तेन च रूपेणावगम्यते, तत् कथं केवलविशेषावलम्बी चाक्षुषः प्रत्ययः?
अपि च पुराणशाबलेयपिण्डमवलोकयतः कालान्तरे बाहुलेयं पिण्डं पश्यतः पूर्वदृष्टशाबलेयपिण्डविषयं स्मरणमुत्पद्यमानं संवेद्यते। तस्मात् सामान्यानवगमो नोपपद्यते। अन्यस्मिन्नसाधारणे स्वलक्षणे दृष्टेऽन्यस्मरणस्य किं वर्त्तते? अस्ति च तत्, मन्यामहे दृष्टमुभयानुगतरूपमिति। किञ्च व्यक्त्यन्तरदर्शनेऽपि स एवायं गौरिति प्रत्यभिज्ञायते। तस्याश्च प्रामाण्यं दर्शितम्, दर्शयिष्यते च विस्तरतः क्षण्भङ्गभङ्गेन। तस्मादनुगतरूपविषयैव सा प्रत्यभिज्ञा, व्यक्तिभेदस्य विस्पष्टसिद्धत्वात्। यत्र च लघुतरपरिमाणतिलमुद्गादिप्रचयसन्निधाने विच्छिन्नसिक्थलक्षणग्रहणं नास्ति तत्रानुवृत्तमेव रूपम् इन्द्रियेण गृह्यते। अतो निर्विकल्पकवेलायामेव व्यावृत्तवदनुगतरूपावभासान्न सामान्यापह्नवो युक्तः। प्रथमाक्षसन्निपातेऽपि तुल्यत्वमवगम्यते नानात्वञ्चेति सामान्यभेदौ वास्तवौ द्वावपि।
सामान्यमिदमित्येवं स च तत्रानुपग्रहः।
व्यावृत्तमिदमित्येवं किं वा बुद्धिः स्वलक्षणे॥
समानवृत्तिसापेक्षं न च सामान्यवेदनम्।
तत्र सन्निहितत्वात् तु व्यक्तिवाचानुपग्रहः॥
समानवृत्त्यपेक्षत्वात् सामान्यस्यानुपग्रहे।
विशेषोऽपि हि मा ग्राहि व्यावृत्तिं स हि चेक्षते॥
अनुवृत्तिर्हि येष्वस्य का तेषां ग्रहणे गतिः।
व्यावृत्तिरपि यान्यस्य या तेषां ग्रहणे गतिः॥
अथानुवृत्तिव्यावृत्तिनिरपेक्षं न केवलम्।
वस्त्वेव गृह्यते कार्यं कीदृक् तदिह कथ्यताम्॥
निर्विकल्पकवेलायां निदेंष्टुं तन्न शक्यते।
तदुत्थास्तूभयत्रापि साक्ष्यं ददति निश्चयाः॥
वस्तुनोऽङ्गीकृता प्राज्ञैरत एवोभयात्मता।
यौ ब्रूतस्त्वेकरूपत्वं तावुभावपि बालिशौ॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%स्थूलकालकार्येति।% स्थूलकालत्वं स्मरणादिसापेक्षत्वात्।
%विच्छिन्नसिक्थलक्षणेति।% विच्छिन्नानां भिन्नानां सिक्थानां कणानां यल्लक्षणमितरस्माद् व्यावृत्तो धर्मः।
%समावृत्तिसापेक्षमिति।% कथं तर्हि तद्वेदनमित्याह %तत्र सन्निहितत्वादिति।%
%उभयत्रापि साक्ष्यमिति।% अनुवृत्तौ व्यावृत्तौ च, गौरयमित्युभयरूपाणां तेषां समुत्पादात् `अयम्’ इत्यत्र विशेषस्यापि प्रतिभासात्। %यौ ब्रूतस्त्वेकरूपत्वमिति।% यौ वेदान्तवादिशाक्यौ। वेदान्तवादिनो हि सामान्यात्मकमेव वस्त्विच्छन्ति, शाक्यास्तु विशेषात्मकमिति।
न्यायमञ्जरी
%सामान्यस्वलक्षणयोर्विरोधादेकत्रासम्भव इति शङ्कानिरासः%
यदप्यभिहितम् इतरेतरविरुद्धरूपसमावेश एकत्र वस्तुनि नोपपद्यत इति तदपि न सम्यक्।
परस्परविरोधोऽपि नास्तीह तदवेदनात्।
एकबाधेन नान्यत्र धीः शुक्तिरजतादिवत्॥
यत्र हि विरोधो भवति तत्रैकतररूपोपमर्देन रूपान्तरमुपलभ्यते। प्रकृते नैवमिति को विरोधार्थः। छायातपावपि यद्येकत्र दृश्यतेते किं केन विरुद्धमभिधीयते। अदर्शनात्तु तद् विरुद्धमुक्तं न चैवमिहादर्शनमित्यविरोधः।
अत एव हि मिथ्यात्वमेति नान्यतरा मतिः।
न ह्यन्योन्योपमर्देन बुद्धिद्वितयसम्भवः॥
तथा चाह,
यथा कल्माषवर्णस्य यथेष्टं वर्णनिग्रहः।
चित्रत्वाद्वस्तुनोऽप्येवं भेदाभेदावधारणम्॥
इत्येवमविरोधेन भेदाभेदावधारणात्।
उभयात्मकतैवास्तु वस्तूनां भट्टपक्षवत्॥
एतत्तु वृत्तिविकल्पादिभ्यो बिभ्यतेवाभ्युपगतं तत्रभवतेति तिष्ठतु तावत् किमत्र विमर्देन।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%यथा कल्माषवर्णस्येति।% शबलवर्णस्य। %यथेष्टं वर्णनिग्रहः% निष्कृष्टस्य वर्णस्य ग्रहणम्।
न्यायमञ्जरी
%व्यक्तिव्यतिरिक्ताया जातेः समर्थनम्%
व्यतिरिक्तैव जातिर्व्यक्तिषु वर्त्तत इति ब्रूमः।
यच्च वृत्तिविकल्पादिदूषणं तत्र वर्णितम्।
तत्प्रत्यक्षमहिम्नैव सर्वं प्रतिहतं भवेत्॥
यत् तावद् अवादि, भेदेन कुवलयामलकादिवदनवभासनादिति, तत्र प्रतीतिभेदो दर्शित एव।
यत्तु देशभेदेनाग्रहणात् तदग्रहे तद्बुद्ध्यभावादिति, तत्र तदाश्रितत्वं कारणं जातेर्न तु असत्त्वम्। व्यक्तिवृत्तित्वाज्जातेः पृथग्देशतयाऽनुपलम्भः। तदग्रहो वा, न पुनस्तदतिरिक्ताया अभावादेवेति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%यथा कल्माषवर्णस्येति।% शबलवर्णस्य। %यथेष्टं वर्णनिग्रहः% निष्कृष्टस्य वर्णस्य ग्रहणम्।
न्यायमञ्जरी
%जातिव्यक्त्योः सम्बन्धस्थापनम्र%
यदप्युक्तं वृत्त्यनुपपत्तेरिति तत्राप्युच्यते। प्रतिपिण्डं कार्त्स्न्येनैव जातिर्वर्त्तत इति। पिण्डान्तरे तदुपलम्भो न स्यादिति चेत्? किं कुर्मः कमुपलभामहे, पिण्ङान्तरेऽपि तदुपलम्भोऽस्त्वेव, कथञ्च भवन्तमेनं निह्नु महे। एकदेशास्तु जातेर्न सन्त्येव यैरस्या वर्त्तनं ब्रूमः। क्वेदमन्यत्र चेद्, अहो निपुणता तव दृष्टान्तं याचसे यस्त्वं प्रत्यनुमानवत्। किंनामधेयैषा वृत्तिरिति चेत्, न नामधेयं जानीमः, पिण्डसमवेता जातिरित्येतावदेव प्रचक्ष्महे।
नन्वयुतसिद्धयोः सम्बन्धः समवायः, स च विप्रतिषेधादेव निरस्तः न शक्यते निरसितुम्।
प्रतीतिभेदाद् भेदोऽस्ति देशभेदस्तु नेष्यते।
तेनात्र कल्प्यते वृत्तिः समवायः स उच्यते॥
अवयवावयविनोर्गुणगुणिनोश्चेयमेव वृत्तिः तयोरर्थान्तरत्वमुपरिष्टाद् दर्शयिष्यते। दर्शितञ्चामुनैव मार्गेण देशभेदश्च तयोर्न्नास्तीति विस्पष्टमयुतसिद्धत्वम्।
यदप्युच्यते `नानिष्पन्नस्य सम्बन्धो निष्पत्तौ युतसिद्धता’ इति तदपि परिहृतमाचार्यैः `जातः सम्बद्धश्चेत्येकः कालः’ इति वदद्भिः। सर्वञ्चैतदबाधितप्रतीतिबलात् कल्प्यते न स्वशास्त्रपरिभाषया। विभूनामपि सम्बन्धः परस्परमसम्भवादेव नेष्यते न परिभाषणात्। न संयोगः, तेषामप्राप्तेरभावात्। अप्राप्तिपूर्विका हि प्राप्तिः संयोगः। न च समवायस्तदाश्रितस्य तस्यानुपलम्भादित्यलं प्रसङ्गेन।
ये चेह वृत्ती स्रक्सूत्रभूतकण्ठगुणादिषु।
जात्यादीनामनंशत्वात् ताभ्यां वृत्तिर्विलक्षणा॥
तस्माद् वृत्त्यनुपपत्तेरित्यदूषणम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%परिहृतमाचार्यैः।% “निष्ठासम्बन्धयोरेककालत्वात्” इत्यादि वदद्भिः।
%ये चेह वृत्ती% इति। स्रजि सूत्रं हि व्यासज्य प्रतिपुष्पमेकदेशेन वर्तमानं दृष्टम्, भूतानाञ्चालेख्यगतानां कण्ठे यो गुणः स्रग्दामादिः स प्रत्येकं सर्वात्मना वर्तमान उपलब्धः।
न्यायमञ्जरी
%जातेः सर्वगतत्वं व्यक्तेश्च तद्व्यञ्जकत्वोपपादनम्%
यदपि सर्वगतत्वं पिण्डगतत्वञ्च विकल्प्य दूषितम्, तदपि यत्किञ्चित्। यथा प्रतीतिरादिशति भगवती तथा वयमप्युपगच्छामः।
सर्वसर्वगता जातिरिति तावदुपेयते।
सर्वत्राग्रहणं तस्या व्यञ्जकव्यक्त्यसन्निधेः॥
व्यक्तिर्व्यञ्जकतामेति जातेर्दृष्टैव नान्यथा।
दृष्टिर्यत्र यदा व्यक्तेस्तदा तत्रैव तन्मतिः॥
सर्वत्र विद्यते जातिर्न तु सर्वत्र दृश्यते।
तदभिव्यञ्जिका यत्र व्यक्तिस्तत्रैव दृश्यते॥
व्यक्तेरन्यत्र सत्त्वे स्यात् किं प्रमाणं तदुच्यते।
इहाप्यानीयमानायां गवि गोत्वोपलम्भनम्॥
गोपिण्डेन सहैतस्या न चागमनसम्भवः।
देहेनेवात्मनस्तस्मादिहाप्यस्तित्वमिष्यताम्॥
अभिव्यक्तिस्तु तत्काला यत्कालं व्यक्तिदर्शनम्।
तस्मात् सकृदभिव्यक्ता नान्यदापि प्रतीयते॥
अभिव्यक्तिश्च तद्देशा यद्देशा व्यक्तिरीक्ष्यते।
तस्मात् तस्मादभिव्यक्ता न देशेऽन्यत्र दृश्यते॥
व्यक्तिसर्वगतत्वेऽपि स्वयूथ्यैः कैश्चिदाश्रिते।
भविष्यत्यद्य जातायां गवि गोधीस्तथा ग्रहात्॥
जायमानैव हि व्यक्तिर्जायते प्रतियोगिनी।
एक एव हि कालोऽस्या जातेः सम्बन्धजन्मनोः॥
नेह जातेः पुरास्तित्वं न च संक्रान्तिरन्यतः।
किन्तु स्वहेतोः सा व्यक्तिस्तादृश्येवोपजायते॥
कथमेतदिनीदञ्च यो वा पर्यनुयुज्यते।
इतरस्य परं हेतुस्तेन पर्यनुयुज्यते।
इतरस्य परं हेतुस्तेन पर्यनुयुज्यते॥
वृषः पिशङ्गो गौः कृष्णा सा च नीलतृणाशिनी।
ताभ्यामुत्पादितो वत्सः कथं भवति पाण्डुरः॥
यथा रूपाद्यसम्बद्धा न व्यक्तिरुपल्यते।
तथैव जात्ययुक्तेति का ते व्यसनसन्ततिः॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%का ते व्यसनसन्ततिः।% यामभ्यधाद् भवान्,
न याति न च तत्रासीदस्ति पश्चान्न चांशवत्।
जहाति पूर्व नाधारमहो व्यसनसन्ततिः॥ इति।
न्यायमञ्जरी
%अनुगतप्रतीत्यन्यथानुपपत्या जातिसिद्धिः%
अगोव्यावृत्ततायां वा नैष प्रश्नो निवर्त्तते।
कस्मादगोनिवृत्तं तदद्य जातं स्वलक्षणम्॥
तस्माद् वस्तुस्वभावेऽस्य विदित्वाऽननुयोज्यताम्।
चोद्यचुञ्चुत्वमुत्सृज्य प्रतिपत्तिर्निरूप्यताम्॥
प्रतिपत्तिश्च विशेषेष्विव सामान्येषु च निरपवादा दर्शितैव, तस्माद् विशेषवदप्रत्याख्येयं सामान्यम्। विशेषवत् प्रत्यक्षत्वात् सामान्यस्य कः कल्पनार्थः? यदि हि कार्यानुमेयं सामान्यं कल्पयेम तत एवमनुयुज्येमहि कार्यस्याप्यन्यथा सिद्धेः किं तत्कल्पनयेति। प्रत्यक्षे तु सामान्ये कोऽयमनुयोगः, का चेयमनुवृत्तिज्ञानोत्पादिका शक्तिः, विशेषेभ्योऽव्यतिरिक्ता व्यतिरिक्ता वा,नित्याऽनित्या वा, तदाश्रिता स्वतन्त्रा वा, प्रत्यक्षा परोक्षा वेति विकल्प्यमाना वाचोयुक्त्यन्तरेण जातिरेव कथिता भवति, न वा किञ्चिदिति यत्किञ्चिदेतत्।
ननु यथा गोत्वादिजातिर्नियतास्वेव व्यक्तिषु वर्त्तते नासमञ्जस्येन (न सामस्त्येन) , तथा काभिश्चिदेव व्यक्तिभिः काचिद् गवादिबुद्धिर्जन्यत इति, नैतदेवम्, विषयातिशयव्यतिरेकेण प्रत्ययातिशयानुपपत्तेः, उपायातिशये तु प्रत्ययातिशयोपकारणयिष्यमाणे विषयातिशयं प्रति को द्वेषः? सिद्धे च विषयातिशये दुरपह्नवं सामान्यम्।
ननु वृत्तिर्विनापि सामान्यान्तरेण सामान्येषु दृश्यते एवेति कोऽत्र विस्रम्भः? न चाशेषेण पञ्चाशद्भवितुमर्हति। यदि हि सेनावनादिप्रत्ययाः करितुरगधवखदिरादिव्यतिरिक्तमर्थमनपेक्ष्य जायमाना मिथ्या भवन्ति, किमेतावता घटादिप्रत्ययैरपि मिथ्या भवितव्यम्? बाधकसद्भावनिबन्धनं हि वैतथ्यं प्रत्ययानाम्। तत्र सत्तादौ सामान्यान्तरविरहान्मिथ्याप्रत्यया उपाधिना केनचित् प्रवर्त्तन्ते न त्वेवं गवादाविति यत्किञ्चिदेतत्। यदुक्तम्,
तस्मादेकस्य भिन्नेषु या वृत्तिस्तन्निबन्धनः।
सामान्यशब्दः सत्तादावेकधीकारणेन वेति॥
नन्विहाप्येकार्थक्रियाकारित्वोपाधिनिबन्धन एकाकारप्रत्ययः सेत्स्यतीत्युक्तम्, सत्यमुक्तमयुक्तन्तु एकार्थक्रियाकारित्वस्यैवासिद्धेः।
यत्तूक्तम् `एकप्रत्यवमर्शस्य हेतुत्वाद्धीरभेदिनी’ इति तदसाम्प्रतम्, प्रत्यवमर्शस्याप्येकत्वानुपपत्तेः। न हि बहुभिर्दर्शनैरेको विकल्पः सम्भूय साध्यते। अपि तु नानादर्शनानन्तरं तत्सामर्थ्यलब्धजन्मानो विकल्पा अपि तु भेदेनैवोल्लसन्ति। न च तेषां किमपि कार्यान्तरमस्ति येन ते एकतामधिगच्छेयुः। केन च विकल्पानामेकत्वं गृह्यते? न दर्शनेन, तस्य दृश्यविषयत्वात्। न विकल्पान्तरेण, सर्वविकल्पितानामारोपितार्थपर्यवसितत्वेन, स्वाकारविषयत्वेन वा, परस्परभेदाभेदपरिच्छेदसामर्थ्यासम्भवात्।
अथ ब्रूयाद् विकल्पोल्लिख्यमानाकारभेदानवगमाद् विकल्पानामैक्यम्, यादृशमेव एकशाबलेयादिस्वलक्षणदर्शनान्तरभुवापि विकल्पेनोल्लिखित आकारो गौरिति, तादृशमेव गोपिण्डान्तरदर्शनान्तरजन्मनापीति विषयाभेदात् तदैक्यमुच्यते। तदुल्लिख्यमानेऽपि विषयभेदो हि न प्रतिभासते इत्यत एष विकल्पो भिन्नान्यपि दर्शनानि मिश्रीकरोति दर्शनोपारूढस्य भेदस्याग्रहणादिति।
तदेतदपि न हृदयङ्गममभिधीयते। विकल्पास्तावद् विज्ञानक्षणस्वभावत्वादन्योन्यं भिन्ना एव भवन्ति। यस्तु विकल्पोल्लिखित आकारोऽनुपलभ्यमानभेदः, तेभ्यो व्यतिरिक्तोऽव्यतिरिक्तो वा? व्यतिरिक्तश्चेत् स्यात् सामान्यमेवेदं नामान्तरेणोक्तं भवति। अवास्तवत्वकृतो विशेष इति चेन्न। अवास्तवत्वे युक्त्यभावात्। अव्यतिरिक्तश्चेत् स आकारस्तर्हि विकल्पस्वरूपवद् भिद्यत एवेति कथं तदैक्यम्, कथं वा तदैक्ये भिन्नानामपि दर्शनानां मिश्रीकरणमवकल्पते?
अपि च रे मूढ! सामान्यानभ्युपगमे कुतस्त्य एकाकारविकल्पोत्पाद इति पर्यनुयुक्तेन त्वया कार्यैक्याद् विकल्पैक्यमेवेत्युक्तं भवति, कथं चैवमनुन्मत्तो ब्रूयात्? तस्माद् `एकप्रत्यवमर्शस्य हेतुत्वाद्धीरभेदिनी’ इति व्यामूढभाषितम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%विशेषेभ्यो व्यतिरिक्ताऽव्यतिरिक्ता वेति।% व्यतिरेके जातिरेवोक्ता, अव्यतिरेके तु जातिप्रत्ययस्य निर्विषयत्वम्। %नित्याऽनित्या वेति।% एकाऽनेका वेत्यर्थः। नित्यत्वे हि सर्वत्रैकत्वमनित्यत्वे तु प्रतिव्यक्त्यन्यत्वादनेकत्वम्। एका चेज्जातिरेव। अथानेका, एकाकारप्रत्ययस्य निर्विषयत्वम्। %तदाश्रिता स्वतन्त्रा वा% तदाश्रितत्वपक्षे जातिरेव नामान्तरेणोक्ता। स्वातन्त्र्यपक्षे विषयनियमेन प्रत्ययानुत्पत्तिप्रसङ्गः, गव्यनाश्रिता चेत् सा शक्तिः कथं तत्रैव प्रत्ययविशेषं जनयेत्?
%एकधीकरणेन वेति।% एकाकारवुद्धिजनकत्वं हि सर्वेषां समानम्।
%तदुल्लिख्यमाने हि विषयभेद% इति। ततो भेदाप्रतिभासादेव विषयाभेदः, तस्माच्च विकल्पैक्यमित्यतः `केन विषयाणामैक्यं गृह्यते’ इति न वाच्यम्। %मिश्रीकरोति। एकतया% व्यवस्थापयति। कथम्? यथैव विषयैक्याद् विकल्पानामैक्यं तथा दर्शनानामपि। दृश्याध्यवसायेन विकल्पानां प्रवुत्तेरध्यवसायापेक्षया तद्विषयस्याप्यैक्यम्। तदेवाह %दर्शनोपारूढस्य भेदस्याग्रहणादिति।% दर्शनविषयस्य सर्वस्यैव विकल्पैरेकतयाध्यवसोयमानत्वाद् दृश्यभेदनिबन्धनस्य दर्शनभेदस्याग्रहणादभेद एवावतिष्ठत इत्यर्थः।
%अवास्तवत्वे युक्त्यभावाद्।% भवद् युक्तीनां चायुक्तत्वादिति भावः। %कार्यैक्यादित्युत्तरमिति।% कार्यैक्यादेककार्यकारित्वाद्। विकल्पैक्यमेव कार्यैक्यमिति। योऽयं विषयाभेदेन विकल्पोत्पादस्तदेव कार्यैक्यम्।
न्यायमञ्जरी
%शब्दविकल्पयोरन्यापोहविषयत्वखण्डनम्%
यदपि विकल्पानां शब्दानाञ्चान्यापोहविषयत्वसिद्धये प्रलपितम् `एकस्यार्थस्वभावस्य’ इत्यादि, तदपि यत्किञ्चित्।
सर्वात्मना हि दृष्टोऽर्थः पुनर्न हि न दृश्यते।
प्रदर्शितं हि प्रामाण्यं गृहीतग्राहिणामपि॥
क्षणभङ्गे निरस्ते च देशकालादिभेदतः।
गृहीतस्यापि भावस्य ग्रहणं न न युज्यते॥
अपि चास्मन्मते भिन्नैर्धर्मैर्युक्तस्य धर्मिणः।
धर्मोऽस्य केनचित् कश्चित् प्रत्ययेन ग्रहीष्यते॥
विचित्रसहकार्यादिशक्तिभेदश्च धर्मिणः।
नानोपाध्युपकाराङ्गशक्त्यभिन्नात्मता कुतः॥
यदि च नाम निर्विकल्पकेन सर्वात्मना परिच्छिन्नं वस्तु पुनः परिच्छिन्दन्ति विकल्पान्तराणि वैफल्यमश्नुवीरन्। किमेतावता तेषामप्रतीयमानार्थग्राहिता कल्पयितुं शक्यते? न हि विरतपिपासस्य हिमकरपटलमफलमिति, तदेव रजतमिति कल्पयितुं पार्यताम्, तस्माद् दूराशामात्रमेतत्। इत्थञ्च अन्यापोहनिरात्मनि बाह्ये विकल्पानां शब्दानाञ्च विषये इष्यमाणे भट्टकुमारिलोपन्यस्तदुस्तरदूषणानामावरणकरणं न किञ्चित् पश्यामः।
यदपि तद्दूषणापनिनीषया विकल्पप्रतिबिम्बकमारोपिताकारमात्रव्यावृत्तिच्छायोपरक्तं किमपि परिकल्पितम्, तदपि न व्यवहारपदवीमवतरितुमुत्सहते।
विकल्पो नाम बोधात्मा स च स्वच्छः स्वभावतः।
नासावितरसम्पर्कादृते कलुषतामियात्॥
नूनमभ्युपगन्तव्यं किञ्चिदस्योपरञ्चकम्।
आन्तरं वासनारूपं बाह्यं वा विषयात्मकम्॥
यत् पुनर्विद्यते नान्तर्न बहिस्तेन रज्यते।
विज्ञानमिति मायैषा महती धूर्तनिर्मिता॥
विषया एव बुद्धीनामाञ्जस्येनोपरञ्जकाः।
वासना विषयज्ञानजन्यत्वान्न तथोदिताः॥
तस्मात् तत्र देशान्तरादौ वसता केनचिदर्थेन बुद्धयो रज्यन्ताम्, एकान्तासतातु केनचिदारोपितेन तदुपरञ्जनमघटमानम्, मनोरथप्रायम्। न चैकान्तासन्नाकार आरोपयितुमपि शक्यते। अपि च दर्शनपृष्ठभाविनो विकल्पास्तद्व्यापारकारिणो व्यावृत्तं स्रष्टुमसमर्था व्यावृत्तिमात्रमवलम्बन्ते इति यदुच्यते तत्र दृश्यसजातीयविजातीयव्यावृत्तत्वादुभयेऽपि व्यावृत्तिमेव स्पृशेयुः। उभयावमर्षे सत्येषां पौनरुक्त्यादानर्थक्यमिति चेद्, नानर्थक्यम्। प्रमाणवर्गे निपतन्तः काममनर्थका भवन्तु, अर्थान्तरं वावलम्बन्ताम्, व्यावृत्तिन्त्ववलम्बमाना अंशत आलम्बन्ते अंशतो नेति न श्रद्दध्महे।
सजातीयविजातीयव्यावृत्त्योर्न च भिन्नता।
यतोऽन्यतरसंस्पर्शो विकल्पे न प्रकल्पते॥
सजातीयविजातीयव्यावृत्तिविमर्शे तु दर्शनवदसाधारणग्राहिण एव विकल्पाः स्युरिति सामान्यनिबन्धनसम्बन्ध्ग्रहणादिव्यवहाराभावाच्छब्दानुमाने प्रलयं प्रतिपद्येताम्।
व्यावृत्तिरपि बाह्या चेत्, तदवस्था कौमारिलदूषणाशनिः। आन्तरत्वे तु न तया विकल्पोपरागः कर्तुं शक्यते। नान्तर्न बहिरिति तु भणितिभङ्गीमात्रम्। तत् तादृशं किञ्चिन्न किञ्चिद्वा, न किञ्चिच्चेन्न, तेन विकल्पानामनुरञ्जनस्योपपादयितुमशक्यत्वाद्, अत्यन्तमसतश्च शशविषाणादेर्व्यवहारविषयत्वाभावात्, असत्ख्यातिनिरसननीतिमेवात्रोत्तरं करिष्यामः। किञ्चिच्चेन्नूनम् अन्तर्बर्हिर्वा तेन भवितव्यमेव। अतः कुमारिलादिष्टदूषणापनिनीषया योऽयमुत्प्रेक्षितः पन्था नूतनः, सोऽपि सङ्कटः । तस्माद् यथाध्यवसायमेवमिति युक्तम्। बाह्ये च वस्तुनि शब्दान्तरोपनीयमानभावाभावसम्बन्धावपि न न युज्येते। सर्वस्य गौरित्यादिशब्दजनितस्य ज्ञानस्यास्तित्वाद्यनपेक्ष्य सामान्यमात्रविषयत्वादाकाङ्क्षानिराकरणाय अस्ति नास्तीति पदान्नरं प्रयुज्यमानं सम्बध्यते। नियतरूपितानिश्चितनिजरूपे वस्तुनि वस्त्वन्तरस्य व्यवच्छेदबन्धनमिष्यत एव घटो घट इव न पट इति। नैतावता तदपोह्य एव प्रत्ययो भवति इत्यलमतिक्षोदेन।
बाह्यार्थविषय एवं व्यवहारो घटत इत्ययं कस्मात्
दृश्यविकल्पावर्थावेकीकृत्य प्रर्वतते पुरुषः।
एकीकारश्च कीदृग् यदि पृथगमतिस्तर्हि मूर्छाद्यवस्था—
साम्ये तत्र प्रवृत्तिः कथमथ किमपि स्यात् प्रवृत्त्यर्थरूपम्॥
तद् दृश्यञ्चेदपोहव्यवहृतिरफलाथ द्वितीयं चकास्ति।
स्वेनाकारेण तस्मिन् सति सुनिपतिते चेष्टते कः सचेताः॥
स्फुरति यदि विकल्प्यं दृश्यरूपेण कामं
स भवति विपरीतप्रत्ययो नाविवेकः।
न वितथमतिबीजं विद्यते ह्यत्र किञ्चि–
न्न च रविकरनीरज्ञप्तिवद् बाधिका धीः॥
ग्रन्थिभङ्गव्याख्या
%विचित्रसहकार्यादीति।% अयं भावः। न शक्तिः काचिदभिन्ना सम्भवति, अभावप्रसङ्गादिति। अतो भिन्ना साभ्युपेया। भिन्ना च स्वरूपसहकारिव्यतिरेकेण न काचिदस्ति, पूर्वमेव निराकृतत्वात्। तत्र स्वरूपशक्तेरभेदेऽपि सहकारिशक्तयो भिन्नाः, ता ह्यवच्छेदका धर्माः। येन चावच्छेदकेन [धर्मेण] सह स्वरूपशक्तिः स्वविषयज्ञानोत्पादिका तस्यावच्छेदकधर्मान्तरभिन्नत्वात् [प्रस्तुततधर्म] विशिष्टधर्मिज्ञानोदयकाले कथं धर्मान्तरविशिष्टधर्मिज्ञानोदयप्रसङ्गः।
%इत्थञ्चान्यापोह इति निषेधात्मनि बाह्य% इति चिरन्तनबौद्धदृष्ट्या।
शुक्तिकारजतज्ञानस्य विषयाभावेऽप्युत्पद्यमानस्य तर्हि कथं सम्भव इत्याशङ्क्याह %वासना विषयज्ञानेति। तथोदिता% उपरञ्जकत्वे….(अत्रमातृकाखण्डिता)
….अतो व्यक्तौ क्रियाया अभावादाकृतिः शऽदार्थ इति भाष्य……। ….यत इतीवार्थाश्रयणेन तस्या एवान्वयो न व्यक्तेर्यतः संस्थान….विशिष्टपरिणामाभावात् साक्षान्मुख्याभिव्यक्तिर्मा भूज्जातेः। सं….व्यञ्जको नाप्यारम्भक इति नोपचारतोऽपि व्यक्त्यर्थसम्भव इ….
न्यायमञ्जरी
%सुबन्तपदार्थविचारोपक्रमः%
अर्थप्राप्तिरतः सदर्थविषज्ञानप्रबन्धोद्गता
साक्षादेव मणिप्रभामणिमतिन्यायेन किं कथ्यते।
प्रामाण्ये सविकल्पकस्य कथिते बाह्यार्थसिद्धिः स्थिता
तद्व्यक्त्याकृतिजातिवाच्यकलने तावत् प्रवर्त्तामहे॥
एवं सिद्धे बाह्ये निरस्तेषु तदपहारिषु तथागततस्करेषु अधुना विचार्यते गोशब्दः किमाकृतेर्वाचकः, अथ जातेरिति।
न्यायमञ्जरी
%जात्याकृत्योरभेदवादनिरासः%
तत्राकृतिपदेनेह संस्थानमभिधीयते।
सूत्रे पृथगुपादान्न जातिर्जैमिनीयवत्॥
जैमिनिर्हि `आकृतिस्तु क्रियार्थत्वाद्’ इत्याकृतिं जातिमुपदिशति। भाष्यकारोऽपि `सास्नादिविशिष्टाकृतिः’ इति ब्रूवाणः तथैव व्यवहरति। वार्तिककृता हि तद्व्याख्यातम्।
न्यायमञ्जरी
%जात्याकृतिव्यक्तिषु कः शब्दार्थः%
जातिमेवाकृतिं प्राहुर्व्यक्तिराक्रियते यया।
सामान्यं तच्च पिण्डानामेकबुद्धिनिबन्धनम्॥ इति।
इह तु `व्यक्त्याकृतिजातयस्तु पदार्थः’ इति सूत्रकारो जातेः पृथगाकृतिवचो वदति, संस्थानमेवाकृतिं मन्यते। लोकोऽपि अवयवसन्निवेशात्मिकामाकृतिं व्यपदिशति `यत्राकृतिस्तत्र गुणा वर्सान्त’ इति। तस्मादवयवसन्निवेश एवाकृतिरुच्यते। तस्याश्च शब्दार्थतोपपह्यते न वेति परीक्षार्हत्वमस्त्येव, न जैमिनीयवदुपेक्षितुं सा युक्तेति।
तद्व्यक्त्याकृतिजातिसन्निधौ प्रयोगाद् गोशब्दस्य कोऽर्थ इति विचार्यते।
न्यायमञ्जरी
%व्यक्तेरेव पदार्थत्वम्।%
तत्र आकृतिवादिनस्तावदाहुः प्रयोगप्रतिपत्तिभ्यां किल शब्दार्थनिश्चयः। वृद्धाः स्वार्थेन व्यवहरन्तो यस्मिन्नर्थे गोशब्दं प्रयुञ्जते श्रोतारश्च यमर्थं ततः प्रतिपद्यते स तस्यार्थः। तत्र यदि गोशब्दः केसरादिमति न प्रयुज्यते सास्नादिमति च प्रयुज्यते तदसाधारणसन्निवेशविषय एवावगम्यते। प्रत्यक्षविषये गौरित्यादि पदं प्रयुज्यते प्रत्यक्षञ्चाकृतिविषयम्। अश्वपिण्डसन्निवेशाद् विलक्षणो हि गोपिण्डसन्निवेश इन्द्रियेण प्रतीयते, तत्कृतमेव वस्तुष्वितरेतरवैलक्षण्यम्। अतः प्रत्यक्षविषये पदं प्रवर्त्तमानमाकृतावेव वर्तितुमर्हति। प्रेषणादिक्रियायोगश्च व्यक्तिद्वारक आकृतेर्भविष्यतीति। तदुक्तम्,
तदयुक्तं प्रतिव्यक्तिभिन्नसंस्थानदर्शनात्।
आनन्त्यव्यभिचाराभ्यां सम्बन्धज्ञप्त्यसम्भवात्॥
न नियतस्य शाबलेयसन्निवेशस्य गोशब्दो वाचकः, तदभावेऽपि बाहुलेयसन्निवेशदर्शनात्। न च त्रैलोक्यान्तर्गतसकलगोपिण्डसन्निवेशवचनत्वमनुगतं शक्यम्, आनन्त्यत्, ततश्च नाकृतिः शब्दार्थः, तस्यां क्रियानुपपत्तेः। न हि प्रेषणादिक्रियासाधनं सन्निवेशः अपि तु व्यक्तिः।
न च गामानयेत्युक्तः सत्यामपि तथाकृतौ।
चित्रमृत्स्नामयीं कश्चिद् गामानयति बुद्धिमान्॥
ननु जातिवाच्यत्वपक्षेऽपि गोत्वजातेः सर्वगतत्वात् किमिति मृद्गवानयनं नानुष्ठीयते? उच्यते। हस्ती किं नानीयते, सर्वगतत्वाज्जातेः। अथ सर्वत्रास्तित्वेऽपि व्यञ्जकव्यक्तिनियमेनापह्नूयते। हन्त! तर्हि सास्नादिमप्राणी गोत्वजातेरभिव्यञ्जको न मृद्गव इति नातिप्रसङ्गः। सन्निवेशस्य च तत्र भावात् तद्वाच्यत्ववादिन नैनमतिप्रसङ्गमतिक्रामन्ति। किञ्चाकृतिवचनत्वे गोशब्दस्य शुक्लादिगुणवाचिभिः पदान्तरैः सामानाधिकरण्यं न प्राप्नोति। न हि शुक्लादिगुणा आकृतिवृत्तयः, तत्सामानाधिकरण्यादिबलवत्तया वरं व्यक्तिः शब्दार्थ इष्यताम्।
व्यक्तौ तावत् क्रियायोगो जातौ सम्बन्धसौष्ठवम्।
नाकृतौ द्वयमप्येतदिति तद्वाच्यता कुतः॥
जातिव्यक्त्योरतः कार्या वाच्यत्वे सम्प्रधारणा।
तत्र व्यक्त्यभिधेयत्ववादिभिस्तावदुच्यते॥
प्रयोगचोदनासामञ्जस्याद् व्यक्तिः शब्दार्थः। आलम्भनविशसनप्रोक्षणादिचोदना जातावसङ्गता भवन्ति। न हि जातिरालभ्यते विशस्यते प्रोक्ष्यते वा। अपि च षड् देया द्वायदश देया चतुर्विंशतिर्देया इति न जातिः षडादिसंख्याः–भिर्युज्यतेऽपि तु व्यक्तिः, तस्मात् सैव शब्दार्थः। अपि च यदि पशुरुपाकृतः पलायेत अन्यं तद्वर्णं तद्वयसमालभेतेति, यदि जातिः शब्दार्थः स्यादन्यस्यालम्भो नावकल्पेतान्यस्योपनीयमानस्य पशुद्रव्यस्य सैव जातिः, तत्रान्यत्वसम्बन्धो व्यक्तेरवकल्पते न जातेरित्यतोऽपि व्यक्तिः शब्दार्थः ।
चयापचयसङ्घातस्वस्वामित्वादिकल्पनाः।
यान्ति व्यक्त्यभिधेयत्वपक्षे झडिति सङ्गितम्॥
न व्यक्तिलक्षणाद्वारमियत् कार्यञ्च युज्यते।
वक्रः पन्था न गन्तव्यः प्रष्ठे वहति वर्त्मनि॥
उपलक्षणमाश्रित्य जातिसम्बन्धवेदनम्।
प्रसेत्स्यतीति नानन्त्यव्यभिचारकृतो ज्वरः॥
किञ्च,
प्रत्यक्षविषये वृत्तिः पदस्येष्टा परैरपि।
निष्कृष्टं न च सामान्यमात्रं प्रत्यक्षणोचरः॥
व्यक्तेरेव पदार्थत्वं तस्मादभ्युपगम्यताम्।
तथा च बुद्धिस्तत्रैव श्रुतशब्दस्य जायते॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%[आकृ] तेरपि भविष्यतीति।% विशिष्टसन्निवेशवत्या आकृतेः। सन्निवेशेऽपि….दभिन्नत्वेन तयोः परस्परमप्यभेदात्। व्यावृत्तिरपि बाह्या…..कश्चिदित्यादिको योऽयमुत्प्रेक्षितो ध्रमोत्तरेण। यदि पृ….तः तत्र तस्मिन्ननुत्पन्ने विकल्पे सति कथं प्रवृत्तिर्विषये….“प्रयोगचोदनाभावादर्थैकत्वमविभागात्” इत्यत्र….शब्दः पूर्वपक्षं व्यावर्तयति। आकृतिः शब्दार्थः। कुतः? श्येनचितं….
विशेषावगतिदर्शनादेकत्वादिवल्लिङ्गमपि विभक्त्यर्थ एवेति मन्यन्ते। एतच्च तद्वच्च लिङ्गमित्य….।
न्यायमञ्जरी
%मीमांसकमते जातेरेव पदार्थत्वम्%
तदेतज्जैमिनीयैर्न क्षम्यते। तथा हि व्यक्तिमात्रं वा शब्दार्थ इष्यते विशिष्टा वा व्यक्तिः। न तावद् व्यक्तिमात्रम्, न हि यस्यां कस्याञ्चिद्व्यक्तौ गोशब्दं वक्तारः प्रयुञ्जते, न च यां काञ्चिद्व्यक्तिं गोशब्दाच्छ्रोतारः प्रतिपद्यन्ते। अथ गोत्वविशिष्टव्यक्तिः शब्दार्थ इत्युच्यते, गोत्वमेव हि तर्हि गोशब्दार्थो न व्यक्तिः, कथम्? श्रूयताम्। यदि हि व्यक्तिः शब्दार्थो भवेद् व्यक्त्यन्तरे न प्रयुज्येत। अथ व्यक्त्यन्तरेऽपि प्रयुज्यते, सर्वव्यक्तिसाधारणस्तस्यार्थो न व्यक्तिः।
ननु व्यक्त्यन्तरमपि व्यक्तिरेव, सोऽयं व्यक्तौ गोशब्दः प्रयुक्तो न सामान्ये। मैवम्। व्यक्तौ चेद् गोशब्दः प्रयुज्यते कर्कादिव्यक्तावपि प्रयुज्येत। यत्र प्रयोगोऽस्य दृष्टस्तत्र प्रयुज्यते इति चेद्, अद्य जातायां गवि मा प्रयोजि, न हि तत्र प्रयोगोऽस्य दृष्ट इति। तस्माद् दशनमकारणम्, प्रतिव्यक्ति तस्यासम्भवात्। व्यक्तौ च शब्दार्थे इयं वा गौरियं वा गौरिति प्रतिपत्तिः स्यान्न त्वियमपि गौरिति। भवति चैवं प्रतीतिर्न चायमविद्यमाननियन्तृक एव यदृच्छाशब्दप्रयोगः प्रवर्त्तते इति नियामकमस्य चिन्त्यम्। गोत्वमेव नियामकमिति चेत्। आयुष्मन्! साधु बुध्यसे, किन्तु तद्गोत्वमवगतमनवगतं वेति वक्तु मर्हिसि। नानवगतमतिप्रसङ्गाद्, अवगतञ्चेत् कुतस्तदवगच्छामः, शब्दादन्यतो वा। नान्यतः, प्रमाणान्तरासन्निधानात्, शब्दाच्चेत्, तर्हि शब्दः प्रथमतरं गोत्वे वर्त्तितुमर्हति, `नागृहीतविशेषणा विशिष्टे बुद्धिः’ इति न्यायात्।
ननु जातिं विशेषणत्वेन व्यक्तिञ्च विशेष्यत्वेन वक्ष्यति गोशब्दः? न शक्नोति वक्तुम्, अतिभारप्रसङ्गात्। न च व्यक्त्यवगतौ गतिरन्या नास्ति यत इयन्तं शब्दे भारमारोपयेम। न हि वयं व्यक्तिप्रतीतिं भवन्तीमपह्नुमहे, नापि यति भवन्तीं जातिप्रतीतिमपह्नुमहे, उभयप्रतीतेः प्रत्यात्मवेदनीयत्वात्। उभयत्र चाभिधात्री शक्तिरतिभारः, शब्दस्यान्यतरप्रतीत्या चान्यतरप्रतीतिसिद्धेः। तत्र गोशब्दः किं जातौ वर्त्तमानः व्यक्तिम्, आहोस्विद् व्यक्तौ वर्त्तमानो जातिमाक्षिपत्विति विचारणायां जातेर्विशेषणत्वात् पूर्वतरं प्रतिपत्तिरिति सैव शब्दार्थो भवितुमर्हति। तस्याञ्च शब्दादवगतायां तत एव व्यक्त्यवगमः सेत्स्यतीति नोभयत्र शाब्दो व्यापारः।
ननु दण्डिशब्दादिव विशेषणञ्च जातिं विशेष्याञ्च व्यक्तिं गोशब्दादेव प्रतिपत्स्यामहे, कोऽस्यातिभारः? विषमोऽयं दृष्टान्तः, तत्र हि प्रकृतिप्रत्ययविभागेन द्वयप्रतीतिरवकल्पते, दण्डशब्दः प्रकृतविशेषणमभिवदति मत्वर्थीयप्रत्ययश्च विशेष्यमिति। गोशब्दे तु नैष न्यायः सम्भवति। तत्र न विशेषणे दण्डिशब्दो वर्त्तते न विशेष्ये दण्डशब्दः, इह तु गोशब्द एक एव, स च विशेषणे विशेष्ये वा वर्त्तेत। विशेष्ये वर्त्तमानो विशेषणे प्रमाणान्तरमपेक्षते, विशेषणे तु वर्त्तमानस्तदवगमाय विशेष्यमाक्षिपतीति न कश्चिद्दोषः। तदिदमात्मप्रत्यक्षम्, यच्छब्दे उच्चरिते व्यक्तिरवगम्यते स किं शब्दादुत जातेरिति विवेको न प्रत्यक्षः, स युक्त्यावगम्यते, शब्दस्य द्वयाभिधाने यत्नगौरवात्, विरम्य व्यापारस्य चासंवेदनात्। अन्तरेणापि च शब्दं जात्यवगमाद्व्यक्तिप्रतीतिदर्शनाज्जातित एवैषा व्यक्तिप्रतीतिः। जातिप्रतीतिश्च शब्दादिति निश्चीयते। भवद्भिरपि च विशेषणज्ञानपूर्विका विशेष्यावगतिरङ्गीकृतैव, यथाह कणव्रतः, `समवायिनः श्वैत्याच्छ्व्यैत्यबुद्धेश्च श्वेते बुद्धिस्ते कार्यकारणभूते’ इति।
यत्पुनरभिहितम्, आलम्भनविशसनप्रोक्षणादिक्रियायोगाद् व्यक्तिः शब्दार्थ इति, तदप्यनैकान्तिकम्, जातावपि क्वचित् क्रियायोगदर्शनात् `श्येनचितं चिन्वीत’ इति।
नन्वत्रापि व्यक्तेरेव कार्याङ्गता नामूर्त्ताया जातेः। मैवम्। न हात्र श्येनः साधनत्वेन निर्दिश्यते `पशुना यजेत’ इतिवत्। `कर्मण्यग्न्याख्यायम्’ इति त्वभियुक्तस्मरणाच्चयननिर्वर्त्त्यः श्येन इति शब्दार्थोंऽवगम्यते। न च श्येनव्यक्तिश्चयनेन निर्वर्तयितुं पार्यते। अग्न्याख्यायामिति स्मर्यते, न हीष्टकानिचयेन पतत्री अभिनिर्वत्तते तदाकारस्त्वग्निरभिनिर्वर्त्यते इत्यत्र जातेः क्रियाङ्गत्वम्, न व्यक्तेः।
ननु व्यक्त्या सादृश्यं सम्पादयिष्यते? न शक्यते सम्पादयितुम्, व्यक्त्यन्तरवैसादृश्यस्यापि सम्भवाद्, यो ह्येकया व्यक्त्या सदृशः सोऽन्यविसदृशो भवति।
यत्त्वमूर्त्तत्वाज्जातेः न क्रियाङ्गत्वमिति, नैष दोषः, अमूर्त्तानामपि गुणकर्मणां क्रियासाधनतयोपपत्तेः। `अरुणया क्रीणाति’ `अभिक्रामञ्जुहोति’ इति, व्यक्त्याक्षेपद्वारेण चालम्भनविशसनप्रोक्षणादिप्रयोगचोदनासु साधनत्वं जातेरुपपत्स्यते।
लक्षितव्यक्तिसाध्यन्तु तत्साध्यं कार्यमिष्यते।
यथा भूतेन्द्रियोत्पाद्यमात्मकर्तृकमुच्यते॥
आत्मा तावत् सर्वकर्मस्वधिकृतः कर्त्ता च। स चामूर्त्तत्वाद् देहेन्द्रियद्वारेण औदुम्बरीसंमार्जनाज्यावेक्षणादीनि कार्याणि निर्वर्त्तयन् कर्त्ता तेषु भवति। एवं जातिरपि व्यक्तिवर्त्मना तन्निर्वर्त्तयन्ती साधनतां लप्स्यते।
अतश्च जातिरेवाङ्गमिति मीमांसका जगुः।
तस्माश्चेदं क्रियाङ्गत्वमन्यद्वारकमात्मवत्॥
एवं `षड् देया’ इति `अन्यं तद्वर्णमालभेत’ इति च तद्द्वारकमेव योज्यम्। एतेनोपचयापचयसङ्घाताद्यपि वक्तव्यम्, सम्बन्धग्रहणादिकार्यञ्च जातिपक्ष एव सूपपादम्, आनन्त्यव्यभिचारादिचोद्यानवकाशात्।
यत्पुनरभ्यधायि, प्रत्यक्षविषये पदं वर्त्तते, न च प्रत्यक्षस्य सामान्यमात्रं विषय इति, परिहृतं तद् वार्तिककृता। प्रत्यक्षस्य हि चित्रात्मकं वस्तु विषयः।
न च तत्तादृशं किञ्चिच्छब्दः शक्नोति भाषितुम्।
सामान्यांशानपोद्धृत्य पदं सर्वं प्रवर्त्तते॥ इति।
न हि नानाधर्मनिचयरचितचित्राकारवस्तुसमर्पणनिपुणमेकं किमपि पदमुपपद्यते। न च तत्र सम्बन्धग्रहणं सुकरमिति सामान्यांशनिष्ठमेव पदं युक्तम्, तस्माज्जातिरेव शब्दार्थ इति।
न्यायमञ्जरी
%जातिमात्रस्य पदार्थत्वखण्डनम्%
अत्राभिधीयते। न जातिः पदस्यार्थों भवितुमर्हति। पदं हि विभक्त्यन्तो वर्णसमुदायो न प्रातिपदिकमात्रम्। तत्र च प्रकृतिप्रत्ययावितरेतरान्वितमर्थमभिधत्त इति स्थितम्। द्वितीयादिश्च विभक्तिः प्रातिपदिकादुच्चरन्ती प्रातिपदिकार्थगतत्वेन स्वार्थमाचष्टे। युगपच्च त्रितयं विभक्त्यर्थः, कारकं लिङ्गं संख्या च। न चैतत् त्रितयं प्रातिपदिकार्थे जातावन्वेति। न जातिः कारकं, न च जातेः स्त्रीपुंनपुंसकविभागः न चास्या द्वित्वादियोग इति।
ननु व्यक्तिलक्षणया सर्वमुपपत्स्यते इत्युक्तम्। न च युक्तमुक्तम्। सकृत्प्रयुक्तं पदमंशेन कञ्चिदर्थमभिदधाति, ततोऽर्थान्तरं लक्षयति, तद्गतत्वेन पुनः लिङ्गसंख्याद्यभिधत्ते इति न प्रातीतिकोऽयं क्रमः।
साक्षात् तदन्वितत्वेन कथ्यमानं त्वसङ्गतम्।
तद् भवेदग्निना सिञ्चेदित्यादिविधिसन्निभम्॥
ननु पुंसीव सामान्ये कथं नैव भविष्यति॥
व्यक्त्यन्तरितमित्येषु युक्तो वैभक्तिकोऽन्वयः॥
प्रातिपदिकार्थसामान्यगतत्वेनैव विभक्त्या स्वार्थोऽभिधीयते न लक्षितव्यक्तिवृत्तित्वेन, यतोऽभिधानवैशसं स्यात्। स च विभक्त्यर्थो जातौ साक्षादसम्भवन् कक्ष्यान्तरितो भविष्यति। नैतत्। आत्मनो ज्ञानप्रयत्नादियोगित्वेन कारकत्वोपपत्तेः, जातेस्तु साक्षान्न मनागपि व्यापारलेशसंस्पर्श इति स्वतो दुर्लभं तस्याः कारकत्वम्। अतः कथं तत्र विभक्त्यर्थान्वयः।
यदन्वितञ्च संख्यादि तत्स्थत्वेन न कथ्यते।
कथ्यते यद्गतत्वेन न तत् तेन समन्वितम्॥
न च व्यवहितव्यक्तिप्रतीतिं मन्यते जनः।
नान्यथानुपपत्त्यापि क्रमसंवेदनं क्वचित्॥
जनयन्तीञ्च पश्यामो व्यक्तिं जात्यनुरञ्जिताम्।
संख्यादियोगिनी चेति सा वै धत्ते पदार्थताम्।
जातेः कार्यान्वयः श्येनचितावित्यभ्यधायि यत्।
तत्र संस्थाननिर्देशान्न जातेः काचिदङ्गता॥
श्येनव्यक्त्या चेत् सादृश्यमिष्टकाकूटस्य नास्ति, व्यक्त्यन्तरेण व्यभिचारात्; नितराममूर्त्तया जात्या सादृश्यमाकाशेनेव न तस्यावकल्पने इति स्पर्धोदाहरणमेतत्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%ननु पुंसीवेति।% आत्मनीव।
%अभिधानवैशसं स्यादिति।% किञ्चिदभिदधाति ततोऽर्थान्तरं लक्षयतीत्या….विना नोपपद्यतेऽतः सामान्यप्रतीत्यन्थानुपपत्त्या व्यक्तिप्रतीतिरिति क्रमं जनो मन्यते, [ न तु क्रमि] कत्वेन दृष्टेत्याह संवेदनं ज्ञानं जनयन्तीं तामेव पश्याम इति।
न्यायमञ्जरी
%जातिविशिष्टव्यक्तेः पदार्थत्वम्।%
अन्येषु तु प्रयोगोषु गां देहीत्येवमादिषु।
तद्वतोऽर्थक्रियायोगात् तस्यैवाहुः पदार्थताम्॥
पदं तद्वन्तमेवार्थमाञ्जस्येनाभिजल्पति।
न च व्यवहिता बुद्धिर्न च भारस्य गौरवम्॥
सामानाधिकरण्यादिव्यवहारोऽपि मुख्यया।
वृत्त्योपपद्यमानः सन्नान्यथा योजयिष्यते॥
तस्मात् तद्वानेव पदार्थः।
ननु कोऽयं तद्वान्नाम, तदस्यास्तीति तद्वानिति विशेष एव सामान्यवानुच्यते, विशेषवाच्यत्वे चानन्त्यव्यभिचारौ तदवस्थौ। सामान्यन्तु शब्देनानुच्यमानं नोपलक्ष्यमाणं भवति, उभयाभिधाने च शब्दस्यातिभार इत्युक्तम्।
उच्यते। नेदन्तानिर्दिश्यमानशाबलेयादिविशेषस्तद्वान्। न च सर्वस्त्रैलोक्यवर्तीं व्यक्तिव्रातस्तद्वान्, किन्तु सामान्याश्रयः कश्चिदनुल्लिखितशाबलेयादिविशेषस्तद्वानित्युच्यते। सामान्याश्रयत्वाच्च नानन्त्यव्यभिचारयोस्तत्रावसरः। न च विशेषणमनभिधाय विशेष्यमभिदधाति शब्द इत्यभ्युपगच्छामः, येनैनमतिभारेण पीड्येमहि। सामान्याश्रयमात्रे सङ्केतग्रहणात् तावन्मात्रं वदतः शब्दस्य कतरोऽतिभारः। एवं तद्वतोर्नास्वतन्त्रत्वाद् इत्यादि दूषणं परिहृतं भवति। किञ्च,
प्रत्यक्षं न हि निष्कृष्टजात्यंशपरिवेष्टितम्।
तद्गोचरप्रवृत्तश्च शब्दस्तं कथयेत् कथम्॥
तस्मात् प्रत्यक्षविषये प्रवर्त्तमानं तत्समानविषयमेव भवितुमर्हति पदं न सामान्यमात्रनिष्ठम्।
युगपन्ननु संवित्तिर्विशेषणविशेष्ययोः।
प्रत्यक्षेऽपि न दृष्टैव न च युष्माभिरिष्यते॥
कार्यकारणभावो हि तद्धियोर्भवतां मते।
तस्माद् विशेषणे जातौ पूर्वमिन्द्रियजा मतिः॥
पदादपि तदा यत्तु सम्बन्धज्ञप्त्यपेक्षिणः।
तत्रैव बुद्धिरित्येव न व्यक्तेरपि वाच्यता॥
उच्यते। प्रत्यक्षे तावद् द्वयोरपि विशेषणविशेष्ययोरिन्द्रियविषयत्वम्, सामान्येऽपि संयुक्तसमवायादिन्द्रियं प्रवर्त्तमानं विशेषणवद् विशेष्यमपि विषयीकरोति। न हि सामान्यं प्रत्यक्षं विशेषोऽनुमेय इति व्यवहारः। एवं गुणमात्रग्राहिणीन्द्रिये गुणिनोऽनुमेयत्वं स्यात्, न चैवमस्ति। तस्माद् विशेष्यपर्यन्तं प्रत्यक्षम्, तथा पदमपि तत्तुल्यविषयं न तु सामान्यमात्रनिष्ठमिति युक्तम्।
यत्तु `सामान्यांशानपोद्धृत्य पदं सर्वं प्रवर्त्तते’ इति, तत् केवलव्यक्त्यभिधाने सति आनन्त्यव्यभिचारभयादुच्यते। तद्वदभिधाने तद्भयं नास्तीति न शुद्धजात्यभिधात्तया शब्दः सङ्कोचनीयः। न तु सर्वात्मना प्रत्यक्षतुल्यविषयः शब्दः, प्रतिपत्तिसाम्यप्रसङ्गात्। न च शब्दाद् इन्द्रियाच्च तुल्ये प्रतिपत्ती भवतः। तदुक्तम्, `अन्यथैवाग्निसम्बन्धाद् दाहं दग्धोऽभिमन्यते’ इत्यादि।
उच्यते। पूर्वमेवैत्परिहृतम्, सकलविशेषग्रहणाग्रहणाभ्यां प्रतिपत्तिविशेषसिद्धेः। धर्म्यभिप्रायेण च संप्लवस्योक्तत्वान्नैतावता सामान्यमात्रनिष्ठः शब्दो भवति।
अपि च निष्कृष्टसामान्यांशवचनत्वे पदस्येष्यमाणे गोशब्दाद् गोत्वशब्दाच्च तुल्ये प्रतिपत्ती स्याताम्। गौः शुक्ल इतिवच्च गोत्वं शुक्लमिति बुद्धिः स्यात्। चातुर्वर्ण्यादिवच्च स्वार्थे एव गोशब्दाद् भावप्रत्ययस्त्वतलादिः स्यात्।
अथ मन्येथा आक्षिप्तव्यक्तिकां जातिं गोशब्दो वक्ति, भावप्रत्ययान्तस्तु निष्कृष्टस्वरूपमात्रनिष्ठामिति, तदनुपपन्नम्। अनाक्षिप्तव्यक्तिकाया जातेः कदाचिदप्यदर्शनात्।
अथ गोशब्दश्रवणवेलायां व्यक्तिसंस्पर्शवती जातिरवगम्यते, भावप्रत्ययान्ते तु गोशब्दे श्रुते तच्छून्यासौ प्रतीयते इति। यद्येवमागतोऽसि मदीयं पन्थानम्। आश्रयवती चेज्जातिरुच्यते शब्देन, जात्याश्रय उक्त एव भवति नान्यथा सा आश्रयवत्युक्ता स्यात्। तदाश्रयपरिहारेणाश्रयिसामान्यमात्रविवक्षायां त्वतलादयः प्रयुज्यन्ते। तथा चाहुः, `यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलादयः’ इति। गुणस्य हि भावाद् द्रव्ये शब्दनिवेश इति तद्वद्वाच्यत्वपक्षसाक्षीण्यक्षराणि, सामानाधिकरण्यञ्च तत्रैवोपपद्यते इत्युक्तमेतत्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%न च भारस्य गौरवमु%भयाभिधाने, यदक्तम्, [“सच्छब्दः सत्तां प्रवृत्तिनिमित्तमा] श्रित्य तद्वति द्रव्ये प्रवृत्तः शुक्लशब्दश्च गुणं प्रवृत्तिनिमित्तमाश्रित्य तत्रैवेति मुख्यया वृत्त्या सामानाधिकरण्यं [भवति]"।
%तद्वतो नास्वतन्त्रत्वादिति।%
“[तद्वतो नास्वतन्त्र] त्वादुपचारादसम्भावत्।
वृत्तिरूपस्य भिन्नत्वाद् राज्ञि भृत्योपचारवत्॥’
इति दिग्नागश्लोकः। अत्र न जातिशब्दो योगजात्योर्वा भेदार्थैरपृथक्श्रुतैरित्यतो वाचक इति सम्बध्यते। तेनायमर्थः, जातिशब्दः सदादिस्तद्वतो न वा [चकः]। [सच्छब्दो जातिस्वरूपोपसर्जनं] द्रव्यमाह न साक्षात्; अतस्तस्य सत्तां प्रतिपादयतो द्रव्यवाचकत्वम्, न साक्षात्; ततोऽन्यप्रतिपत्तौ परतन्त्रीभूतत्वाद् द्रव्यप्रतिपत्तौ स्वातन्त्र्याभावाद् द्रव्यगतघटादिभेदा[नाक्षेपात् न `सन्] घटः’ इति। शब्दो हि यान् विशेषान् आक्षेप्तुं न शक्नोति नासौ तद्विशेषवाचिभिः शब्दान्तरैः सामानाधिकरण्य[मनु] भवति। ते च तद्भेदा ये सामान्यशब्देन आक्षिप्यन्ते नान्ये सम्भवन्तोऽपि, तद्यथा शुक्लशब्देन मधुरादेः। द्रव्ये मधुरादीनामनाक्षेपोऽनाक्षेपाच्च न तद्भेदत्वमतद्भेदत्वाच्च न तद्वाचिभिः सामा[नाधिकरण्यम्]। [सच्छब्देन] जातिः ख्याप्यते सत्तालक्षणा। तत्र प्रवृत्तस्तद्वत्युपचर्यतेऽसौ। न च यः शब्दो यत्रोपचर्यते [स तस्य वाचकः]। न हि यो यत्रोपचारतो वर्तते स तमर्थं परमार्थतो ब्रवीति यथा सिंहशब्दो माणवकम्। एवमुपचर्यमाणस्यास्वातन्त्र्यमप्रधानत्वमिति अस्वतन्त्रत्वादिति पदेन उपचारादित्यनेन पदेन च। एतद्धि “तद्वतो नास्वतन्त्रत्वात्” इति चिरन्तनबौद्धग्रन्थगतमिति। अथ सत्तोपरक्ततत्स्वरूपे द्रव्ये सारूप्याच्छब्दस्य वृत्तिर्भविष्यतीति चेदाहृ “असंभवात्” इति तत्सारूप्यस्यासम्भवादित्यर्थः। न हि सत्तया सारूप्यं द्रव्यस्य नीलेन यथा स्फटिकस्य, नीरूपत्वात् तस्याः। अथ यथा आकृतौ प्रत्ययसंक्रान्त्या `गवयोऽयम्’ इत्यादौ तथा घटादौ सत्प्रत्ययसंक्रान्त्या `सन् घटः’ इति भविष्यति। तदपि न। कुतः? असम्भवात्। कथमसम्भवः? द्रव्यस्य सत्ताकृत्यसंभवात्। द्रव्ये सत्प्रत्ययसंक्रान्त्यभावः। ननूपचारादन्यविषयः प्रत्ययोऽन्यत्र संक्रामन् दृश्यत इत्याह `वृत्तिरूपस्य भिन्नत्वा[द्’ भेदेनोपलभ्य—] मानत्वादिति। उपचारे हि `योऽहं स एवायम्’ , `राजा भृत्यः’ इत्युपचारा[द्] लोकस्य र[जा] दौ प्रवृत्तिः[ः] प्रत्ययभेदेनोपलभ्यत इति तदहि भाक्ति[ः] वृत्तरूपस्य भिन्नत्वाद् राज्ञि भृत्योपचारवदिति। सामान्यं वदन् न तदाश्रयमाह….इति अस्वतन्त्रत्वादिदूषणानि, तेषां परिहारः।
%न च युष्माभिरिष्यते% `समवायिनः श्वैत्यात्’ इत्यादि वदद्भिरिति। एवं न व्यक्तेरपि वाच्यता व्यक्तिरपि वा….पेक्षाया शब्दस्य।
%शब्दः सङ्कोचनीयः।% बहुविषयः [अ] ल्पविषयः कार्यः।
%तद्वद्वाच्यत्वपक्षसाक्षीणीति।% यस्य गुणस्य भावात् स गुणो यत्र तादृशस्य द्रव्यस्याभिधाने शब्दप्रयोग इत्युक्ते तद्वति शब्दप्रयोग इत्युक्तं भवति।
न्यायमञ्जरी
%पदानां पदार्थोपस्थापनप्रकारः%
तस्मात्
यथा विध्यन्तपर्यन्तो वाक्यव्यापार इष्यते।
तथैव व्यक्तिपर्यन्तः पदव्यापार इष्यताम्॥
अनवरतव्यापारे शब्दे तदवगमात्।
येनान्विताभिधानञ्च पदानामभ्युपेयते।
सुतरां तेन वक्तव्या व्यक्त्यन्ता पदतो मतिः॥
न हि व्यक्त्यनपेक्षाणां जातीनामितरेतरम्।
अन्वयोऽनन्वितानाञ्च नाभिधानमिति स्थितिः॥
गङ्गायां घोष इत्यादौ यथा सामीप्यलक्षणा।
नैवं गौः शुक्ल इत्यादौ गम्यते व्यक्तिलक्षणा॥
प्रयोगप्रतिपत्तिभ्यां वृद्धेभ्योऽध्यवसीयते।
तस्माद् गवादिशब्दानां तद्वानर्थ इति स्थितम्॥
तदिदमुक्तं सूत्रकृता `व्यक्त्याकृतिजातयस्तु पदार्थः’ इति। तुशब्दो विशेषणार्थः। किं विशिष्यते? गुणप्रधानभावस्य नियमेन शब्दार्थत्वम्। स्थितेऽपि तद्वतो वाच्यत्वे क्वचित् प्रयोगे जातेः प्राधान्यं व्यक्तेरङ्गभावः, यथा गौर्न पदा स्प्रष्टव्येति सर्वगवीषु प्रतिषेधो गम्यते। क्वचिद् व्यक्तेः प्राधान्यं जातेरङ्गभावः, यथा गां मुञ्च गां बधानेति नियतां काञ्चिद् व्यक्तिमुद्दिश्य प्रयुज्यते। क्वचिदाकृतेः प्राधान्यं व्यक्तेरङ्गभावो जातिर्नास्त्येव, यथा पिष्टकमय्यो गावः क्रियन्तामिति तत् सन्निवेशचिकीर्षया प्रयोग इति। सर्वगतत्वेऽपि जातेर्न मृद्गवादौ वृत्तिरित्युक्तम्। तदेवं गवाश्वादिशब्दानां तावत् तद्वानर्थ इति सिद्धम्।
येषामर्थेषु सामान्यं न सम्भवति तैः पुनः।
उच्यते केवला व्यक्तिराकाशादिपदैरिव॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%यथा विध्यन्तपर्यन्त% इति। वाक्येन हि नियोगः प्रति….दूरव्यवस्थितं सकलं विध्यन्तमाक्षिपति स्वसिद्धये इति तावति वाक्यानुपरतव्यापारे शब्दे तत्प्रतीतेः।
%न हि व्यक्त्यनपेक्षाणामिति।% गुणव्यक्तेर्निराश्रयाया अनुपलभ्भात् सा द्रव्यान्विता, एवं द्रव्यस्य निर्गुणस्या [नुपलभ्भात् गुणान्वित] द्रव्यप्रतिपत्तिरिति। द्रव्यगुणादीनां साकाङ्क्षत्वात् परस्परान्वितार्थप्रतिपादनं तच्छब्दैस्तद्द्वारेण च जातीनामप्यन्वयः। व्यक्तीनां हि शब्द[त् न साक्षात्] प्रतिपत्तिरपि तु जात्यवगत्या; जातीनाञ्चानन्वये तदाक्षिप्तव्यक्त्यन्वयः कथं स्यादित्येवं शब्दाज्जातेर्जात्यन्तरान्विताया….।
%प्रयोगप्रतिपत्तिभ्यामिति।% तद्वत्येव शब्दं प्रयुञ्जते तमेव च प्रतिपद्यन्त इति।
%तत्सन्निवेशचिकीर्षयेति।% गोव्यक्तेर्यः [सन्निवेश स प्राधान्येन] विवक्षितः गोव्यक्तिस्तु सन्निवेशान्तरव्यवच्छेदकत्वेनेति तस्या अङ्गता।
न्यायमञ्जरी
%वाच्यार्थनानात्वम्%
एवं डित्थादिशब्दानां संज्ञा त्वविदितात्मनाम्।
अभिधेयस्य सामान्यशून्यत्वाद् व्यक्तिवाचिता॥
अत एव हि द्रव्यशब्द इत्युच्यते।
ये पुनः कल्पितानेकभेदवृत्तिं प्रचक्षते।
वाच्यं तत्रापि सामान्यमतीव ग्राहिकास्तु ते॥
न हि डित्थत्वसामान्यं दृश्यते गगनत्ववत्।
कल्पनायास्तु नो भूमिः काचिदस्ति विपश्चिताम्॥
गुणशब्दास्तु केचित् स्वजात्यवच्छिन्नं गुणमभिधाय तावत्येव विरमन्ति। केचिद् गुणमभिधाय द्रव्यमाक्षिपन्ति, तत्सामानाधिकरण्यप्रयोगदर्शनात्।
गुणैकनियतास्तावद् गन्धरूपरसादयः।
गन्धत्वादिव्यवच्छिन्नगन्धादिगुणवाचिनः॥
तेषां न द्रव्यपर्यन्ता वृत्तिः क्वचन दृश्यते।
न गन्धः पद्म इत्यस्ति सामानाधिकरण्यधीः॥
न ह्येवं केचन वक्तारो भवन्ति ओदनं गन्धः आम्रं रस इति।
गुणं शुक्लादिशब्दास्तु कथयन्तस्तदाश्रयम्
द्रव्यमप्याक्षिपन्त्येव शुक्ले शुक्लेति दर्शनात्॥
शुक्लादयोऽपि शब्दा गुणशब्दोपबन्धसङ्कोचितशक्तयो भावप्रत्ययान्तवद् गुणमात्राभिधाने एव पर्यवस्यन्ति शुक्लो गुणोऽश्वे, शौक्ल्यमश्वे इति, सामानाधिकरण्यप्रयोगदर्शनात्।
क्रियाशब्दाश्च द्विविधा भवन्ति। केचित् कर्त्तरि, कर्मणि, करणे वा प्रयुज्यन्ते। केचिद् भावमात्रवचना एव। कर्त्रादिवाचिनस्तावन्निमित्तीकृत्य काञ्चन क्रियां तद्योगिनि द्रव्ये वर्त्तन्ते पाचकादयः।
यत्रापि तत्क्रियायोगस्तदानीं नोपलभ्यते।
तत्रापि योग्यतां दृष्ट्वा शब्दं तज्ज्ञाः प्रयुज्जते॥
न हि पाचको लावक इति प्रवृत्तक्रिय एवोच्यते, अन्यदापि तथा तथा व्यवहारात्।
अन्ये पूर्वापरीभूतस्वभावपरिहारतः।
सिद्धरूपतया प्राहुः शब्दाः पाकादयः क्रियाम्॥
तदुक्तम्, कृदभिहितो भावो द्रव्यवद् भवति क्रियावच्चेति। न चैकान्तेन परिहृतसाध्यमानावस्थैव तैः क्रियोच्यते, यत आह क्रियावच्चेति।
अन्यत् प्रवृत्तौ शब्दस्य निमितमवगम्यते।
अभिधेयन्तु तस्यान्यदित्ययं प्रथमः क्रमः॥
पाचकादिशब्दानां हि प्रवृत्तिनिमित्तं क्रिया अभिधेयास्तु कर्त्रादयः।
क्वचित् पुनर्यदेवास्य स्यात् प्रवृत्तिनिबन्धनम्।
तस्यैव वाच्यता भावप्रत्ययान्तपदेष्विव॥
इत्येवं लेशतस्तावन्नाम्नां वृत्तिरुदाहृता।
आख्यातानान्तु वाच्योऽर्थः पुरस्ताच्चर्चयिष्यते॥
उपसर्गनिपातानां नाम्नामप्यविभागतः।
प्रयोगप्रतिपत्तिभ्यामनेकार्थोऽवगम्यते॥
उपसर्गः प्राचुर्येण क्रियायोगे प्रवर्तते, `उपसर्गाः क्रियायोगे’ इति स्मरणात्। केचित्तु नामभिरपि सम्बध्यन्ते, यथा प्रगतं वयो यस्य स प्रवया इति। अन्ये धातोर्विचित्रार्थतामापादयन्तस्तद्विशेषणतया सम्बध्यन्ते। यथोक्तम्,
उपसर्गवशाद् धातुरर्थान्तरविलासकृत्।
विहाराहारसंहारप्रहारपरिहारवत्॥
ननु क्वचिदुपसर्गों धात्वर्थमेव बाधमानो दृश्यते, यथा प्रस्थित इति। गतिनिवृत्तिवाची धातुः प्रत्युत गतिवचनतां नीतः प्रशब्देन, न चेदृशं विशेषणं भवितुमर्हति।
येन स्वार्थाविरोधेन विशेष उपजन्यते।
विशेषणं तदेवेष्टं न तु यत् स्वार्थनाशनम्॥ इति।
नैष दोषः। अर्थान्तराभिधानसामर्थ्यापादनमेव धातोर्विदधदुपसर्गो विशेषणं भवितुमर्हति। अनेकार्थाभिधानशक्तिश्च धातुरुपसर्गेण नियतेऽर्थेऽवस्थाप्यत इति तस्य तद्विशेषणता।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%कल्पितानेकभेदवृत्तीति% बालाद्यवस्था….[अव] यवावयविनोरव्यतिरेककल्पनया वा बहुभेदवृत्तिता।
%गुगशब्दोपबन्धेति% गुणशब्दस्य य उप समीपे बन्धः प्र[योगः] यथा शौक्ल्यमश्व इति। भावप्रत्ययान्तस्य शुक्ल्शब्दस्याश्वशब्देन सामाधिकरण्यं नास्ति तद्वद् गुणशब्दोपबन्धस्य, तेन [शुक्लो गुणोऽ]श्व इति न सामानाधिकरण्यमित्यर्थः।
%अन्ये पूर्वपरीभूतेति% पूर्वावस्थामतिक्रान्त उत्तरां फलोत्पत्तिकालभाविनीम[वस्थामा] श्रितः क्रमरूपः साध्य उच्यते। क्षणसमुदायात्मका एकफलोत्पादकतया ह्यधिश्रयणाद् यवादयः क्षणा एकत्वे [न यव] शब्दवाच्याः। अतस्तस्य पाकादेरैक्यादपूर्वापरापूर्वापराः सम्प[न्ना] इति…
न्यायमञ्जरी
%उपसर्गाणां वाचकत्वं द्योतकत्वं वा%
उपसर्गाः किमर्थस्य वाचका द्योतका इति।
प्रकृतानुपयोगित्वादिहैतन्न विचार्यते॥
अन्वयव्यतिरेकाभ्यां तदर्थो ह्यवधार्यते।
तदागमे तत्प्रतीतेस्तदभावे तदग्रहात्॥
ते तु किं वाचकाः सर्वे तदवगतिमुपदधति, किं वा द्योतका इति, किमनेन? एवं समुच्चयादिवाचिनां चादिनिपातानां `वृक्षं प्रति द्योतते’ इति कर्मप्रवचनीयानामर्थः प्रयोगप्रतिपत्तिभ्यामवधारणीय इत्यलं प्रसङ्गेन।
अयमस्य पदस्यार्थ इति केचित् स तेन वा।
योऽर्थः प्रतीयते यस्मात् स तस्यार्थ इति स्मृतिः॥
स्पष्टामपि तु ये बुद्धिं निरूपयितुमक्षमाः।
तां दर्शयितुमस्माभिर्दिङ्मात्रमुपदर्शितम्॥
इति प्रमाणत्वसमर्थनाय शब्दस्य किञ्चिद् वयमुक्तवन्तः।
पदाभिधेयार्थनिरूपणन्तु शास्रान्तरे किञ्चिद् वयमुक्तवन्तः।
तत्क्षोदेन न नः प्रयोजनमतिद्राघीयसी सा हि भू—
रन्यामेव दिशं परीक्षितुमतोऽस्माभिर्गृहीतः क्षणः।
जात्याद्यर्थसमर्थनेन कथिता बाह्यार्थसंस्पर्शिता।
शब्दानामियतैव नन्ववसरेऽमुष्मिन् कृतार्था वयम्॥
न्यायमञ्जरी
%वाक्यार्थचिन्ता%
एवं पदार्थे निर्णीते वाक्यार्थश्चिन्त्यतेऽधुना।
तत्र विप्रतिपत्तिश्च बहुरूपा विपश्चिताम्॥
न्यायमञ्जरी
%तत्रैव विप्रतिपत्तयः%
केचिदाचक्षते, बाह्यस्य वाक्यार्थस्यासम्भवात् पदार्थसंसर्गनिर्भासं ज्ञानमेव वाक्यार्थ इति।
अन्ये, वास्तवः पदार्थानां परस्परसंसर्गो बाह्य एव वाक्यार्थ इत्याहुः।
अन्यव्यवच्छेदो वाक्यार्थ इत्यपरे। शुक्लादिपदान्तरोच्चारणे कृष्णादिनिवृत्तेरवगमात्।
अपरे सङ्गिरन्ते, संसर्गस्य दुरपह्नवत्वात् तस्य च गुणप्रधानभावगर्भत्वाद् गुणीभूतकारकनिकरनिर्वर्त्त्या प्रधानभूतक्रिया वाक्यार्थ इति।
अन्ये मन्यन्ते, भाव्यनिष्ठः पुरुषव्यापारः करोत्यर्थो भावनाशब्दवाच्यो वाक्यार्थः। लिङादिशब्दव्यापारस्तु शब्दभावनाख्यः पुरुषार्थभावनानुष्ठाने प्रवर्त्तकः, स एव विधिरुच्यते।
अन्ये ब्रुवते, द्वयाभिधाने लिङादेः प्रत्ययस्य भारगौरवाद् विधिरेव वाक्यार्थः। स एवानुष्ठेयः प्रवर्त्तकश्चेति। तत्रापि द्वयी विमतिः। कैश्चित् प्रेषणात्मकत्वं शब्दस्याभ्युपगतं लिङादिशब्दैः, तथा तदगवमात्, कार्यान्तरानवगमाद्भावार्थमात्रकार्यत्वपक्षस्य चातिदौर्बल्याद् विधिरेवानुष्ठेय इत्यर्थात् तस्य कार्यत्वम्। अन्यैस्तु कार्यत्वेन नियोगप्रतीतेरर्थात् तस्य प्रेरकत्वमिति संश्रितम्। कार्यमवगतं स्वसिद्धये पुरुषं नियुङ्क्ते। ममेदं कार्यामित्यवगते हि तत्सिद्धये पुरुषः प्रवर्त्तत इति।
अपरे पुनः, अभिनवं वाक्यार्थमुद्योगं नाम वर्णयाम्बभूवुरित्यनेकशाखा विप्रतिपत्तिः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
`ग्रामं गच्छ’ इत्यादौ हि आज्ञया प्रेरितस्तत्सम्पत्त्यर्थमेव प्रवर्तमानो दृश्यतेऽतः सैव कार्यम्। ननु धात्वर्थं ग्रामगमनमसौ साधयितुं प्रवर्तते तन्नेत्याह %भावार्थमात्रकार्यत्वपक्षस्यातिदौर्बल्यात्% वक्ष्यमाणनीत्येति भावः। %तत्सिद्धये हि पुरुषः प्रवर्तत% इति। यदि हि असौ तत्सिद्धये न प्रवर्तेत कार्यमेव तन्न स्यात्, अतः `आत्मनः कार्यतासिद्धये प्रवर्तयति’ इत्यर्थात् प्रेरकत्वम्, कार्यत्वेन नियोगप्रतीतेः; नियोगो ह्याज्ञारूपः कार्यत्वेनैव प्रतीयते शब्दात्।
%अपरे पुनरभिनवमिति।% मीमांसायां तृतीयदर्शनकर्तृभट्टनारायणमतोपन्यासः। यस्मिन् प्रतीते सति निरुद्योगस्य सत आत्मनः सोद्योगत्वं भवति स उद्योगः।
न्यायमञ्जरी
%विप्रतिपत्तीनां स्वरूपनिरूपणम्%
तदत्र किं तत्त्वमिति। अत्रैके तावदाहुः, वाक्यार्थो नाम पारमार्थिको बहिर्नात्स्येव। स हि पदार्थेभ्यो व्यतिरिक्तो वा स्यादव्यतिरिक्तो वा? न व्यतिरिक्तः, भेदानुपलम्भात्। गौः शुक्ला आनीयतामित्यत्र पदग्रामे जातिगुणक्रियादिपदार्थ एव वाक्यार्थः प्रत्येकं वा स्यात्, सामस्त्येन वा। न प्रत्येकम्, तथानवगमात्, न हि गौरिति पदार्थ एव वाक्यार्थो भवति। सामस्त्यन्तु न तेषामस्ति। तद्धि सत्तया भवेत्, प्रतीत्या वा। सत्तया न सामस्त्यमशेषपदार्थराशेरस्तीति न नियतः कश्चन वाक्यार्थोऽवधार्यते। प्रतीत्या तु सामस्त्यमघटमानमयुगपद्भावित्वेन ज्ञानानामेकपदार्थप्रतीतिसमये पदार्थान्तरप्रतीत्यसम्भवात्। पदार्थप्रतीत्युपायाश्च वर्णाः, तेऽपि न युगपद्भाविनः, कुतः प्रतीतिकृतं सामस्त्यम्?
अपि च पदार्थसमुदायः किमितरेतरसंस्पृष्टो वाक्यार्थः, अन्यथा वा। न तावदन्यथा, गौरश्वः पुरुषो हस्तीत्येवमादावदर्शनात्। संसर्गस्तु दुरुपपादः। स ह्यपेक्षागर्भो भवति। न चार्थोऽर्थान्तरमाकाङ्क्षति, अचेतनत्वात्। बुद्धीनामपि क्षणिकत्वादन्योन्यं नाकाङ्क्षा। न च तत्कृतः सम्बन्धः।
अत एव न संसर्गो वाक्यार्थः , न ह्यसावर्थानां ज्ञानानां वा यथोक्तनीत्यावकल्पते।
व्यवच्छेदोऽप्येवमेव निराकार्यः। सोऽपि हि न ज्ञानानामुपपद्यते। तदुक्तम्,
यदि ध्रियेत गोबुद्धिः शुक्लबुद्धिजनिक्षणे।
ततोऽन्येभ्यो निवर्तेत संसृज्येताथ वा तयेति॥
न चापेक्षायां सत्यामपि सम्बन्धः कश्चिदुपलभ्यते। यथोक्तम्,
अपेक्षणेऽपि सम्बन्धो नैव कश्चित् प्रतीयते।
कार्यकारणसंयोगसमवायादिलक्षणः॥
एकार्थवृत्तिप्रायस्तु सम्बन्धोऽतिप्रसज्यते।
अर्थानान्तु क्वचिदपि सन्सम्बन्धः शब्दैरनभिधीयमानत्वाद् असत्कल्प एव। न चाभेदसंसर्गयोर्वाचकं किञ्चित् पदमस्ति। असति च तद्वाचिनि पदे न तयोः पदार्थत्वम्। अपदार्थस्य च न वाक्यार्थत्वम्। श्रुतेऽपि तद्वाचिनि पदे सतुरामसङ्गतिः गौः शुक्ल आनीयतां संसर्ग इति कोऽर्थः? तस्माद् बाह्यस्य वाक्यार्थस्य सर्वप्रकारमसम्भवात् पदार्थसंसर्गनिर्भासं ज्ञानं वाक्यार्थो भवितुमर्हति। तेनैव च लोके व्यवहार इति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%अपेक्षणेऽपीति।% बुद्धीनाम्। अथैकात्मवृत्तित्वं सम्बन्धो बुद्धीनामिति तन्नेत्याह %एकार्थवृत्तिप्रायस्त्विति।% गौरश्वः पुरुषो हस्तीत्यादिबुद्धोनामप्येकार्थसमवायादवाक्यार्थत्वेऽपि वाक्यार्थत्वप्रसक्तेरतिप्रसङ्गः।
न्यायमञ्जरी
%विप्रतिपत्तिनिरासः%
तदिदमनुपपन्नम्। बाह्यार्थस्यानन्तरमेव प्रसाधितत्वात्। न संसर्गनिर्भासं ज्ञानं वाक्यार्थो भवितुमर्हति, स्थापयित्वा हि बाह्यमर्थं वाक्यार्थचिन्तामुपक्रान्तवन्तो वयम्, अतः कोऽवसरो विज्ञानमात्रवाक्यार्थत्ववर्णनस्य। न च पदार्थव्यतिरिक्तो नास्ति वाक्यार्थः। इदं तावद् भवान् पृष्टो व्याचष्टां किं गौरिति पदाद् यादृशी प्रतिपत्तिस्तादृश्येव गौः शुक्ल आनीयतामिति वाक्याद् उत भिन्ने एते प्रतिपत्ती इति। तत्र तुल्यत्वं तावत् प्रतिपत्त्योरनुभवविरुद्धम्। वैलक्षण्ये तु प्रतीत्योर्विषयवैलक्षण्यमपि बलादुपनतम्, असति विषयभेदे प्रतीतिभेदानुपपत्तेः। यश्च तदतिरिक्तो विषयः स वाक्यार्थः। एवं केवलगुणक्रियापदोच्चारणेऽपि योजनीयम्। तदुक्तम्, `यत्राधिक्यं स वाक्यार्थ’इति। संसर्गोऽपि पदार्थानां न न प्रतीयते, न हि गौरश्वः पुरुषो हस्तीत्यसंसृष्टपदार्थप्रतीतिवद् `गौः शुक्ल आनीयताम्’ इति प्रतीतिः। यथा च संसर्गः प्रतीयते प्रतीतिवद् `गौः शुक्ल आनीयताम्’ इति प्रतीतिः। यथा च संसर्गः प्रतीयते यश्च प्रतीत्युपायस्तत्सर्वं विस्तरतो निर्णेष्यते। तस्माद् बाह्य एव वाक्यार्थः।
बाह्योऽपि भवन्न व्यवच्छेदो वाक्यार्थः, विधिरूपत्वेनावगमात्, संसर्गमन्तरेण चान्यव्यवच्छेदस्यापि दुरुपपादत्वात्, न हि शुक्लपदार्थेनासंसृष्टो गोपदार्थः कृष्णादिभ्यो व्यावृत्त इत्यवगम्यते।
गोशब्दात् सर्वगवेषु बुद्धिरुपसर्पन्ती पदजनिता शुक्लपदसन्निधानात्। अन्यतः कृष्णादेरपसर्पतीति व्यवच्छेद्यो वाक्यार्थ इति चेन्मैवम्। तत्सम्बन्धावगमपूर्वकत्वात्। तदितरव्यावृत्तेः। तत्सम्बन्धावबोधेन सिद्धे वाक्यस्यार्थवत्त्वे पाश्चात्त्यः कृष्णादिव्यवच्छेदावगमो यदि भवति, भवतु कामम्, न त्वसौ वाक्यार्थ इति।
न्यायमञ्जरी
%क्रियाया वाक्यार्थतावादिमतम्%
तदेवं विधिरूपे बाह्ये च शब्दार्थेऽवस्थिते सति क्रियामेव केचिद् वाक्यार्थं वर्णयन्ति। अयं तेषामाशयः,
पदार्थाः किल वाक्यार्थभावमायान्ति संहताः।
अपेक्षानुगुणान्योन्यव्यतिषङ्गविशेषतः॥
न च गुणप्रधानभावमन्तरेण संसर्गः पदार्थानमवकल्पते। न चाख्यातरहितं वाक्यं किञ्चित् प्रयोगयोग्यम्, अनुच्चारिते तस्मिन्नाकाङ्क्षाया अनिवृत्तेः। श्रोत्राकाङ्क्षानिवृत्तये च वाक्यानां लोके प्रयोगः। लोकवच्च वेदादप्यर्थोऽवसीयते। आख्याताच्च पूर्वापरीभूतः साध्यरूपोऽर्थोऽवगम्यते न सिद्धरूपः। सिद्धासाध्यसमुच्चारणे कस्य किंतन्त्रतेति चिन्तायां साध्यसिद्धये सिद्धमुपात्तमिति प्रतीयते।
साध्यञ्च साध्यमानत्वात् प्रधानमवगम्यते।
तस्मात् तदेव वाक्यार्थः क्रियातो नापरञ्च तत्॥
क्रिया हि प्रतीयमाना स्वनिष्पत्तये साधनान्याक्षिपति। तैश्च कैश्चित् सम्बध्यते। तानि च कानिचित् पदान्तरोपात्तानि भवन्ति, कानिचिद् वाक्यान्तरोपात्तानि, कानिचित् प्रकरणपाठलभ्यानि, कानिचिदारादुपकारकाणि, कानिचित् सन्निपत्त्योपकारकाणि,कानिचिदन्तिकोपनिपतितान्यपि योग्यताविरहात् परिहरति, कानिचिदतिदूरवर्त्तीन्यपि योग्यानि स्वसम्पत्त्यर्थमाहरति। इत्येवं दृष्टादृष्टोपकारकारककलापसम्पद्यमानस्वरूपा क्रियैव वाक्यार्थः।
यजेत दद्याज्जुहुयादधीयीतेति चोदितः।
क्रियां साध्यतया वेत्ति ताञ्च लोकोऽनुतिष्ठति॥
अधिकारिपदमपि क्रियापेक्षितकर्तृसमर्पणेन तदुपयोगितामेवावलम्बते। अस्यां क्रियायामेष कर्त्ता अनेनेयं क्रिया सम्पद्यते इति। तत्र च कर्त्ता क्रियासु स्वप्राधान्यमुज्झति, न हि क्रिया कर्त्रर्था अपि तु कर्ता कियार्थः, स हि तां निर्वर्तयन्नुपलभ्यते। शब्दोऽपि तथैवोपदिशति एष इदं कुर्यादिति। किमर्थं पुनरसौ क्रियामनुतिष्ठीति चेच्छब्दप्रामाण्यादेवेति ब्रूमः। शब्देन हि चोदितस्त्वयेदं कर्त्तव्यमिति, स चेन्नियुक्तो नानुतिष्ठेच्चोदनामतिक्रामेत्। शास्त्रप्रत्ययाच्च क्रियामनुतिष्ठति विरतफलाभिलाषः कर्मसंस्कारादेव, परिपक्वकषायः स्तोकस्तोकप्रपञ्चविलापनद्वारेणोत्तमाधिकारमारूढः। तत एव ज्ञातास्वादस्तमेव परमपुरुषार्थं प्रतिपादयतीति दीर्घा सा कथा तिष्ठतु, किमनया। सर्वथा क्रियाप्राधान्यात् सैव वाक्यार्थ इति। तदुक्तम्, `द्रव्यगुणसंस्कारेषु बादरिः’। एतदुक्तं भवति द्रव्यादीनामेव क्रियां प्रति शेषत्वमवगम्यते न हि क्रियाया अन्यशेषत्वमिति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%अपेक्षानुपुणेति।% यो यमपेक्षते तेन तस्य व्यतिषङ्गः सम्बन्धः।
%पदान्तरोपात्तानीति।% एकवाक्यत्वे सति। यथा वायव्यं श्वेतमालभेतेति….पदेन…रुपात्तः। %वाक्यान्तरोपात्तानि। `अग्निहोत्रं जुहोति’ इत्येतदपेक्षया `दध्ना जुहोति’ इति वाक्यान्तरेण दध्नो विधानं होमानुवादेन, अतोऽग्निहोत्रं जुहोतीति होमविधायकत्वाद् वाक्यान्तरमेतद् गुणविधायकम्। %प्रकरणपाठलभ्यानि।% वाक्यान्तरविहितानुवादं विनैव प्रयाजावघातादीति `समिधो यजति’ इति `व्रीहीनवहन्ति’ इति वेत्यादिभिर्वाक्यैर्विहितानि तत्प्रकणपठितत्वात् तान्यप्याकाङ्क्षति। %[आरादुपकारकाणीति।]% तेषामपि मध्ये कानिचिदाराद् दूरे अदृष्टेनोपकारेणोपकुर्वन्ति प्रयाजादीति। %कानिचित् सन्निपत्योपकारकाणि।% दृष्टेन तुषकणविप्रमोकादिलक्षणेनोपकारेणोपकुर्वन्त्यवघातादीनि। %कानिचिदन्तिकोपनिपतितान्यपीति।% यथा दर्शपूर्णमासप्रकरणे परिपठितानि पूषानुमन्त्रणादीनि। पूषादिदेवतानां तत्रासन्निधानादनुपयोगादन्तिके प्रकरणे श्रुतान्यपि परित्यज्यन्ते। %कानिचिदतिदूरवर्तोन्यपीति।% यथा दर्शपूर्णमासप्रकरणश्रुतानि पूषानुमन्त्रणादोनि दूरस्थोऽपि पौष्णश्चरुरि….[स्व] र्गकामपदस्य च योग्यत्वा… दर्शनादनिष्यमाणस्ये….एतदेव किमर्थं पुनर…।
%परिपक्वकषायः% क….ति तदुक्तम्, कषायमुक्ति…परिपक्वा विशुद्धा रागा…म इदं कुर्यादिदं काम….त एवा। ज्ञातास्वाद इति। संस्व…साक्षात्कारमुत्पादयन्नास्व…रिणी सुखञ्च साधयत्यतः करोमि तामिति। सुखात्मिका निरीहता करेस्विता जिहासिता अनागतार्थलिप्सया क्रियाश्रिता सुखात्मिका जिहा[सिता सु] खस्य दुः खरूपिणी क्रियाश्रिता। निरीहतां सुखात्मिकां विहाय किमित्यादि। प्रपञ्चविलयनेन वा चित्तविक्षोभस्य शनैर्निवर्तनाद् ज्ञातास्वादता [दिक्र]मेण वा विशिष्टसिद्धिप्रादुर्भावात् तत्त्वं यथाह,
त्रैलोक्ये सर्वभूतानां दुष्प्रापं यदुदाहृतम्।
तच्चास्य भवति प्राप्यं प्रथमं योगिनो बलम्॥
विशि [ष्टसिद्धेः प्रादु] र्भावाद् तथा चाह,
निष्प्रपञ्चं मनः कृत्वा प्रतिष्ठाप्य च सर्वतः।
तामेव लभते तुष्टिं या न शक्या ह्यतोऽन्यथा॥
समाहितः परे तत्त्वे क्षीणकामो [भवत्यतः]।
[सर्व]तः सुखमन्वेति राहुश्चन्द्रमसं यथा॥ इत्यादि।
%तमेव परं पुरुषार्थमिति। अपहतपाप्मत्वादविशिष्टात्मसाक्षात्कार एव परः पुरुषार्थः। यच्छ्रुतिः `परं ज्योतिरुपसम्पद्य स्वेन रूपेणावतिष्ठते इति।
%द्रव्यगुणसंस्कारेषु बादरिरिति।% बादरिराचार्यो द्रव्यगुणसंस्कारेषु शेषभावं पारार्थ्यं मेने न यागफल[ पुरुषेषु] [व्रो] ह्यादि द्रव्यं क्रियानिर्वर्तनद्वारेण तच्छेषम्, द्रव्यावच्छेदकत्वेनच शौक्ल्यादिगुणः क्रियाशेषः अवघातश्च संस्कारः क्रियायोग्यतां….%[न हि क्रियाया अन्यशेषत्वम्]% न क्रिययान्यत् साध्यते। न ह्येवं वचोऽस्ति यागात् स्वर्गः अपि तु स्वर्गकामस्य याग इति।
न्यायमञ्जरी
%फलवाक्यार्थवादिमतम्%
अत्रोच्यते। कुत इदं क्रियायाः प्राधान्यमुपेयते, वस्तुवृत्तेन वा शब्दप्रत्ययमहिम्ना वा?
फलस्य वस्तुतस्तावत् प्राधान्यमवगम्यते।
न सचेताः क्रियां काञ्चिदनुतिष्ठति निष्फलाम्॥
वेदाद् गुरुनियोगाद् वा शासनाद् वा महीभुजः।
न वैफल्यमपश्यन्तः क्रियां विदधते जनाः॥
जडो माणवकोऽप्येष चपेटापातहानये।
मोदकाद्याप्तये वापि करोति गुरुशासनम्॥
अत्रोच्यते। न वस्तुतः प्राधान्यमिहाश्रीयते, अपि तु शब्दतः। शब्दप्रमाणका वयम्। यच्छब्द आह तदेवास्माकं प्रमाणम्। तद् यथा राजपुरुष इति वस्तुवृत्ते राजा जगतामीशिता प्रधानम्, पुरुषस्तपस्वी तदिच्छानुवर्त्तनेन जीवति। शब्दस्तु पुरुषप्राधान्यमाचष्टे उत्तरपदार्थप्रधानत्वात् तत्पुरुषस्येति। एवमिहापि यजेत तद्याज्जुहुयादिति क्रियां प्राधान्येनोपदिशति शब्दः। स्वर्गकाम इत्यपि क्रियां प्रति कर्तुरुपदेशः, वस्तुवृत्तेन तु कर्मणि क्रियमाणे कर्मस्वाभाव्यं फलं चेद् भवति भवतु तत्, पुरुषोऽपि प्रयततां नाम फलेन, न तु शब्दः फलोपदेशनिष्ठः। आह च तस्मिंस्तु कृते स्वयमेव तद् भवति’ इति। स्वयमेवेति कोऽर्थः? न शब्दः फलपारतन्त्र्यं क्रियायाः प्रतिपादयतीति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%तस्मिंस्तु कृते स्वयमेवेति% बादर्थधिकरण भाष्यम्। स्वयमेव भवति…स्ववानिति न्यायान्न पुनरेतद्वाक्यश्रुतस्वर्गकामपदसामर्थ्यादिति।
न्यायमञ्जरी
%स्वर्गकामो यजेतेति वाक्यार्थविचारः%
तदेतदयुक्तम्। एवं वर्ण्यमाने स्वर्गकामो यजेतेति स्वर्गकामपदस्यान्वयो दुरुपपादः।
ननु कर्तृपदमेतत् कर्ता च क्रियार्थो नर कर्त्रर्था क्रियेत्युक्तम्। न कर्तृपदं स्वर्गकाम इति, किन्त्वधिकारिपदमेतत्। न हि जात्यैव कश्चित् स्वर्गकामो नाम कुत्रचित् पुरुषोऽवगम्यते यो ह्यत्र कर्तृत्वेन नियोज्येत। स्वर्गे कामो यस्यासौ स्वर्गकामः, स्वर्गं वा कामयते स्वर्गकामः, उभयथापि स्वर्गकामनाविशिष्टः पुरुष एव तस्मात् पदादवगम्यते।
तदत्र काम्यमानः स्वर्गः कथं क्रियया सम्बध्येत, दृष्टेनादृष्टेन वोपकारेण?
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%स्वर्गकामपदस्यान्वयो दुरुपपाद% इति वक्ष्यमाणाभिप्रायेणाह।
न्यायमञ्जरी
%स्वर्गस्य यागोपकारकत्वविचारः%
यदि हि चन्दनं स्वर्गः, षोडशवर्षा अङ्गनाः स्वर्ग इति चिन्दनाङ्गानादिद्रव्यसामानाधिकरण्यप्रयोगाद् द्रव्यशब्दः स्वर्गशब्दः तदा द्रव्याणां कर्म संयोगे गुणत्वेनाभिसम्बन्धः इति दध्यादिवत् साधनत्वेन स्वर्ग उपकरोति क्रियाम्, कामनापि द्रव्याहरणाङ्गत्वादुपकारिणी यत् तया द्रव्यमानेतु यतते इति दृष्टोपकारित्वम्।
तच्चैतदसमञ्जसम्। स्वर्गशब्दस्य द्रव्यवाचित्वाभावात्। प्रीतिवचनो ह्येष स्वर्गशब्दो न द्रव्यवचनः। तदेव चन्दनं शीतातुरेण न स्वर्ग इति, ग्रीष्मोपहतेन च स्वर्ग इति व्यपदिश्यते। सैवाङ्गना सुरतार्थिना स्वर्ग इति, विरतायां सुरतृषि न स्वर्ग इत्युच्यते। तदेवमेष स्वर्गशब्दः प्रीतिं न व्यभिचरति, द्रव्यन्तु व्यभिचरति। एवमद्रव्यत्वात् स्वर्गस्य न क्रियाङ्गत्वम्। तथापि निरतिशयसुखप्रतीत्यन्यथानुपपत्तितः परिकल्पितः कनकगिरिशिखरादिर्देशः स्वर्गः। सुतरां तस्य न क्रियासाधनत्वमवकल्पते दध्यादिवदुपादातुमशक्यत्वात्।
यदप्यदृष्टेनैव द्वारेण समुद्रं मनो ध्यायेदितिवत् स्वर्गकामना तत्रोपकारिणीति तदपि क्लिष्टकल्पनामात्रम्। प्रीतिर्हि निरतिशया स्वर्गः, प्रीतेश्च नान्यार्थत्वं युक्तम्, प्रीत्यर्थमन्यन्नान्यार्था प्रीतिः। तस्मान्न यागाय स्वर्गोऽपि तु स्वर्गाय यागः।
इत्थञ्च क्रियासाधनानुपदेशान्न कर्तृसमर्पणेन स्वर्गकामपदं समन्वेति। कथं तर्ह्यस्यान्वयः? अधिकारिवाचित्वेन ब्रूमः।
कोऽयमधिकारी नाम, कर्मणः स्वामीश्वरवचनो ह्यधिकृतशब्दः। ननु कर्तैव कर्मणः स्वामी नान्यः, मैवम्। स्वामी सन् कर्ता न कर्ता सन् स्वामीति। ननु क्रियाकारकसम्बन्धव्यतिरिक्तः कोऽन्यः कर्मणः पुरुषस्य च सम्बन्धः? उच्यते। ममेदं कर्त्तव्यमहमत्र स्वामीति स्वस्वामिभावमवगत्य पाश्चात्त्यः क्रियाकारकसम्बन्धोऽवगम्यते।
ननु त्वया क्रियाकारकसम्बन्धो नापह्नुयते जातिवादिनेव व्यक्तिप्रतीतिः। स तु पाश्टचात्त्य इत्यत्र किं प्रमाणम्? उक्तमत्र अनुपादेयविशेषणं विशिष्टस्य पुंसो निर्देशात्’ इति, कारकत्वानुगुणविशेषणयोगिनो ह्यस्य कर्तृतया योग्यः सम्बन्धः, तद्विपर्ययेत्वधिकारित्वेनेति। तस्मादधिकृतस्य कर्तृत्वं न कर्तुरधिकारः। इत्थञ्च स्वर्गकामस्याधिकृतत्वं निर्वहति, यदि हि तत्कर्म स्वर्गार्थं स्यात् स्वर्गों मे भोग्यो भवेत् कथमहं स्वर्गं प्राप्नुयामित्येवं साध्यत्वेन स्वर्गमिच्छन् स्वर्गकाम इत्युच्यते। यदि न स्वर्गसाधनं तत् कर्म तद्विरुद्धमेवेदमापतति स्वर्गं कामयते, यागं करोतीति हि अन्यदिच्छति अन्यत् करोतीति स्यात्। अतः कर्मणः काम्यमानसाधनतामप्रतिपद्यमानः स्वर्गकामस्तत्र नैवाधिक्रियते, न चानधिक्रियमाणस्तत्र सम्बध्यते। तदेवमधिकृतत्वेन स्वर्गकामस्य कर्मणि सम्बन्धात् स्वर्गायागयोश्च साध्यसाधनभावावगममन्तरेण तस्याधिकारनिर्वाहासम्भवादवश्यं क्रियायाः साधनत्वं स्वर्गस्य च साध्यत्वमभ्युपगन्तव्यम्, अतश्च क्रियायाः फलं प्रति गुणभावान्न प्राधान्यमप्राधान्याच्च न वाक्यार्थत्वम्। तदुक्तम्, कर्माण्यपि जैमिनिः फलार्थत्वात्’ इति।
का चेयं क्रिया वाक्यार्थ इत्युच्यते? य एष यागादिर्भावार्थो धातुवाच्य उत प्रत्ययार्थः कश्चित् तदतिरिक्त इति। तत्र भावार्थस्य काम्यमानसाधनत्वादप्राधान्यमुक्तमेव, प्रत्ययार्थोऽपि काम्यमानभावार्थगतसाध्यसाधनसम्बन्धापरित्यागेनैव प्रतीयमानो वाक्यार्थतामेति नान्यथेति। स चायं परेषामपि पक्षः। तस्मान्न क्रियामात्रपर्यवसायी वाक्यार्थ इति सिद्धम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%द्रव्याणां कर्मसंयो[गो गुणत्वेनाभिसम्बन्धः% इत्या दि पूर्वपक्षसूत्रम्। द्रव्याणां सिद्धिरूपाणां कर्मणा साध्येन सम्बन्धो यदा तदा गुणत्वेनाङ्गत्वेनैव सम्बन्धो दृष्टो द्रव्यञ्च स्वर्ग इति। %कामनापि द्रव्याहरणाङ्गत्वादिति।% ….आहर्तुं नेष्यते तत् कथमाहर्तुं पार्येतेति। तेन स्वर्गे चन्दनादौ यागार्थमाहर्तुं कामो यस्य स स्वर्गकाम इति।
%अथादृष्टेनैव द्वारेणेति% यद्यपि [प्रीतिवचनः] स्वर्गशब्दस्तथापि तदिच्छा यागस्यादृष्टमुपकारं करिष्यति। रथन्तरप्रस्तावे समुद्रमनोध्यानवत्।
%इत्थञ्च क्रियासाधनेति।% क्रियायाः साधनं कर्तारं….शक्नेति तदेत्यर्थः।
%स्वामी सन् कर्तेति।% यतस्त्वमस्य कर्मणः स्वामी ततस्त्वयेदं कार्यमित्यधिकारावस्थोत्तरकालं कर्त्रवस्थाया उल्लासात्।
%अनुपादेयविशेषणेति।% यो हि यागसाधनत्वेनोपादातुं शक्यते तद्विशिष्टः कर्ता भवति। यथा `अभिक्रामन् जुहोति’ `लोहितोष्णीषाः प्रचरन्ति’ इति। यत्तु यागसाधनत्वेनोपादातुमाहर्तुं न शक्यते तद्वि [शि] ष्टोऽधिकारी। यथा यावज्जीवं जुहुयादिति। न हि जीवनं पुरुषप्रयत्नेन यागसाधनत्वेनोपादातुं शक्यते, स्वतः सिद्धन्तु तन्निमित्तत्वेनाधिकारिणं विशिनष्टि।
%कारकत्वानुगुणेति।% विशेषणसम्बन्धे हि विशिष्टः कर्ता भवति। विशेषणेन सम्बन्ध उपादेयत्वे सति विशेषणस्य भवति; यतो लोहितमुष्णीषमुपाददतेऽतो लोहितोष्णीषा भवन्ति। उपादेयत्वाभावात् तु विशेषणविशेष्यसम्बन्धाभावाद् विशिष्टस्य कर्तुरप्यभाव इत्यनुपादेयस्य विशेषणस्य कारकत्वानुगुण्यम्। %अधिकृतस्य कर्तृत्वमिति।% यतः स्वर्गकामोऽत्राधिकारो अतः स्वर्गकामेनेदं कर्तव्यमित्यधिकारोत्तरकालमार्थं कर्तृत्वम्। यदि ह्यसौ न करोति तत्तद्विषयोऽस्याधिकारो निष्फल एव स्यात्। न %कर्तुरधिकारः।% स्वर्गकामकर्तृको यो यागस्तत्र स्वर्गकाम एवाधिकृत इति योग्यतालक्षणोऽधिकार आर्थः। तदाह, असो स्वर्गकामकर्तृको भवति यदि तत्र स्वर्गकामोऽधिक्रियते। `तवैतत् कर्म’ इति आर्थमधिकृतत्वमिति। एतच्च न युक्तम्। यदि स्वर्गकामस्य कर्तृत्वेनान्वयः स्यात् स्यादयं पक्षः स तु न सम्भवतीति तात्पर्यम्। %कर्माण्यपीति।% जैमिनिराचार्यः कर्माण्यपि ्शेषभूतानि मन्यते। क्व तेषां शेषत्वं तदाह, फलार्थत्वादिति।
%प्रत्ययार्थः कश्चिदिति।% यागविषयः प्रयोजकव्यापारो भावनाख्यः।
%साध्यसाधनसम्बन्धापरित्यागेनेति।% यजेत यागेन स्वर्गं भावयेत्; यतो यागात् स्वर्गो भवति अतो यागविशिष्टां भावनां कुर्यादिति।
न्यायमञ्जरी
%पुरुषस्य वाक्यार्थतावादिमतम्%
किमिदानीं फलस्यैव वाक्यार्थत्वं (क्रियायाः) कथमुत्सृष्टम्, अप्राधान्यादिति चेत्, फले समानम्, फलमपि पुरुषार्थत्वादप्रधानम्। न हि स्वर्गः स्वतन्त्र एव सत्तां लभतामिति यतते पुरुषः, किन्तु स्वोपभोग्यतयैव सर्वमभिलषतीति। अतस्तस्यापि तदर्थत्वान्न प्राधान्यम्, आह च “फलञ्च पुरुषार्थत्वात्” इति।
हन्त तर्हि पुरुष एव वाक्यार्थो भवतु स ह्यनन्यनिष्ठः स्वतन्त्रत्वात्, उच्यते। पुरुषोऽप्यौदुम्बरीसंमार्जनादिषु विनियुज्यते एव, `यजमानसंमिता औदुम्बरी भवति’ इति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%फलञ्च पुरुषार्थत्वात् पुरुषश्च कर्मार्थत्वादिति% जैमिनिसूत्रे पूर्वसूत्रद्वयानन्तरसामानि गायति।
%औदुम्बरीति।% उदुम्बराख्यवृक्षविशेषप्रकृतिका यष्टिर्यजमानमाना यां स्पृष्ट्वोद्गाता सामानि गायति।
न्यायमञ्जरी
%उक्तानां क्रियादीनां वाक्यार्थत्वनिरसनम्%
यद्येवं सङ्कटे पतिताः स्मः, न विद्मः किं विदध्महे, क्रिया हि फलार्था फलञ्च पुरुषार्थम्, पुरुषः क्रियार्थ इति परिवर्तमाने चक्रे कस्य प्राधान्यं शिष्मः कस्य वाक्यार्थत्वम्?
उच्यते। पुरुषस्तावन्न वाक्यार्थः आख्यातवाच्यत्व एव तस्य विवदन्ते का कथा वाक्यार्थत्वस्य। ननु कर्त्तरि लकार इति स्मरणात् कथं नाख्यातवाच्यः कर्त्ता, कोऽयं लकारो नाम? स हि वर्त्तमाने ल़डिति विधाय कर्त्तरि शप्युष्मदि मध्यमः अस्मद्युत्तमः शेषे प्रथमः, तिप्तस्झीति बहुषु बहुवचनम् `द्व्येकयोर्द्विवचनैकवचने’ इति वाक्यान्तरे विभज्य विवृतः। तदेतानि कारकसंख्याविभक्तिविधायीनि सूत्राण्येकवाक्यतया व्याख्येयानि, एकार्थविषयत्वात्। एको हि पचतीत्यादिशब्दस्तैर्व्याक्रियते, तदेवमेष वाक्यार्थो भवति। कर्तुरेकत्वे एकवचनं तिप्, कर्तृद्वित्वे द्विवचनं तस्, कर्तृबहुत्वे बहुवचनं झि इति। सेयं कर्तृसंख्याख्यातवाच्या भवति न कर्तेति कुतस्तस्य वाक्यार्थत्वम्। अलं चानया शास्त्रान्तरगर्भया द्राघीयस्या कथया, पुरुषस्तावन्न वाक्यार्थः। फलमपि न वाक्यार्थः, सिद्धासिद्धविकल्पानुपपत्तेः सिद्धस्य तावत् फलस्याभिधानमेव नास्ति काम्यमानत्वेन निर्देशात्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
ननु कर्तुरवाच्यत्वे तद्गतायाः सङ्ख्यायाः कथं वाच्यत्वं सिद्ध्यति। नायं दोषः। क्रियाक्षेपलभ्यत्वात् कर्तृमात्रस्य, तद्गतानान्त्वेकत्वद्वित्वादीनां क्रियाक्षेपलभ्यत्वात् तेषामेव युक्तमनेनैवाभिप्रायेणाह, %अलं चानया शास्त्रान्तरगर्भयेति%
%साक्षात् तत्सिद्धवेदनात्।% साक्षात् तदर्थव्यापारं विना।
न्यायमञ्जरी
%भावनाया अपि न वाक्यार्थत्वम्%
साध्यमानत्वपक्षे तु साक्षात् तत्सिद्धवेदनात्।
व्यापार एष तन्निष्ठस्तर्हि वाक्यार्थ उच्यताम्॥
अत एव हि वाक्यार्थं भावनां प्रतिजानते।
यथोचितफलाढ्याच्च त्रयसम्बन्धबन्धुराम्॥
न्यायमञ्जरी
%केयं भावना?%
केयं भावना नाम? भाव्यनिष्ठो भावकव्यापारो भावना, भाव्यं हि स्वर्गादि फलं साध्यमानत्वात्, साध्यत्वञ्चास्य भवनक्रियाकर्तृत्वाद्, भवनक्रियायाञ्च कर्तृत्वमुत्पत्तिधर्मकस्य वस्तुनो दृष्टम्। न नित्यं भूतस्य नापि नित्यमभूतस्य। यथाह,
नित्यं न भवनं यस्य यस्य वा नित्यभूतता।
न तस्य क्रियमाणत्वं खपुष्पाकाशयोरिव॥
स्वर्गादिश्च काम्यरूपोऽर्थः, खतत्पुष्पाभ्यां विलक्षण इति भाव्यो भवति। तन्निष्ठस्तुदुत्पादकश्च पुरुषव्यापारो यः स भावना। सा ण्यन्तेन भवतिनोच्यते, प्रकृत्यर्थस्य भवतेः कर्त्ता यः स्वर्गादिः स एव ण्यन्तस्य तस्य कर्मतां प्रतिपद्यते। कर्त्ता त्वस्य प्रयोजकः पुरुषः। णेश्चार्थो णिज्वाच्यः प्रयोजकव्यापारः। पुरुषो हि भवन्तं स्वर्गादिमर्थं स्वव्यापारेण भावयति सम्पादयति। स तत्सम्पादको व्यापारो भावनेत्युच्यते।
ननु व्यापारः क्रियैव, न तदतिरिक्तस्य व्यापारस्यासम्भवात्, क्रियाव्यापारपक्षश्च प्रतिक्षिप्तः। उच्यते, न क्रियामात्रं भावना, अपि तु परिदृश्यमानपूर्वापरीभूतयज्यादिभावस्वरूपातिरिक्तः पुरुषव्यापारः प्रत्ययात् प्रतीयमानो भावना। यथाह,
न सा केनचिदुत्पाद्या जनिका सा न कस्यचित्।
केवलं जननी ह्येषा जन्यस्य जनकस्य च॥ इति।
क्रियाकारकादिविलक्षणैव सा शब्दात् प्रतीयते इत्यर्थः।
ननु च यजेतेत्यत्र प्रकृत्यर्थो यागादिक्रिया प्रत्यथार्थस्तु प्रेरणारूपो विधिः कर्तृसंख्यादिश्च, न तु धात्वभिधीयमानव्यापारव्यतिरिक्तो भावनाख्यः प्रत्ययात् पुरुषव्यापारः प्रतीयते। न हि भावनावाचिनीं काञ्जिद् विभक्तिं स्मरति पाणिनिः लिङादिमिव विध्यादौ। तस्मान्न भावना वाक्यार्थः।
उच्यते। भावनापि प्रतीयत एवाख्याताद् यदि नैपुण्येन शाब्दी प्रतीतिरवमृष्यते।
आस्तां विधिपदं तावद् वर्त्तमानापदेशिनः।
शब्दाद् यजत इत्यादेर्भावना न न गम्यते॥
पचति पठति गच्छतीति, अतो यथा पाकादिर्धात्वर्थः प्रतीयते, तथा सर्वानुगतः कर्तृव्यापारोऽपि पाकाद्युपजनापायेऽपि व्यापारप्रतीतेरनपायात्। यथा ह्यौपगवः, कापटवः, औपमन्यव इत्युपगुप्रभृतीनामुद्धारञ्च निक्षेपञ्च प्रत्ययार्थोऽनुवर्त्तते तद्धितान्तेषु, तथा आख्यातेष्वपि सोऽनुवर्त्तमानो दृश्यते।
अपि च पचतीत्याख्यातपदस्य यदार्थो व्याचिख्यासितो भवति, तदा पाकं करोतीति पाकशब्देन द्वितीयान्तेन साध्यं धात्वर्थं व्याचक्षते कर्तृव्यापारात्मकं प्रत्ययार्थं करोतीति पदेन।
किञ्च किं करोति देवदत्त इति पृष्टाः सन्तो द्वये वक्तारो भवन्ति करोति पाकमिति पचतीति वा। तदिदमुभयरूपमप्युत्तरमेकार्थम्, अन्यथा न तेन प्रष्टा प्रत्याय्येत। तस्मात् पाकं करोतीति पदद्वयस्य योऽर्थः, स एवार्थ एकस्य पचतीति पदस्य। अत्रापि पचत्यर्थादन्यः करोत्यर्थः प्रतीयत एव, योऽसावन्यः करोत्यर्थः, स भावना।
आह, न कर्तृसंख्यादिव्यतिरेकेण प्रत्ययाद् धात्वर्थातिरिक्तं व्यापारं प्रतिपद्यन्ते, प्रतिपद्येरंश्चेत् करोतीत्यतोऽपि शब्दात् प्रतिपद्येरन्। करोतीत्यत्र प्रकृतिप्रत्ययवाच्ये क्रिये न विभज्य प्रदर्शयितुं शक्येते उच्यते। नेदं साधु बुध्यसे। (टिप्पणीस्थप्रतीकसदृशग्रन्थोऽत्र न दृश्यते)
यथा पाकं करोतीति प्रतीतिर्नास्ति लौकिकी।
प्रत्ययार्थः करोत्यर्थे पचत्यादौ तु वर्त्तते॥
कर्तृसंख्याप्रतीतौ च न विवादोऽस्ति कस्याचित्।
तावता निह्नवः कार्यो न तु व्यापारसंविदः॥
करोतीत्यादिशब्दाभिधेयया अनया यथा न भवितव्यं तथा विशिष्टेभ्यः शब्देभ्यस्तत्प्रतीतिरिष्यते न सर्वेभ्यः। के पुनस्ते विशिष्टाः शब्दा ये भावनामभिदधति? उच्यते,
भावार्थाः कर्मशब्दा ये तेभ्यो गम्येत भावना।
यजेतेत्येवमादिभ्यः स एवार्थो विधीयते॥
भवन्ति केचिद् भावार्था(ये) न कर्मशब्दाः। यथा भावो भवनं भूतिरिति। भवन्ति च केचित् कर्मशब्दा न भावार्थाः। श्येनादयः कर्मनामधेयतया प्राक्समर्थिताः। ये तु भावार्थाः कर्मशब्दा यजते ददाति जुहोति इत्येवमादयस्तेभ्यो भावनाख्या क्रिया गम्यते। तैरेव लिङादिविभक्त्यन्तैः सोऽर्थोऽभिधीयते यजेत दद्याज्जुहुयादिति। यद्यर्थः ण्यन्तेनाववगम्यते। स च यागादिकर्मणा नानुरस्तेन प्रयोगयोग्यतां प्रतिपद्यत इति विशिष्टेभ्य एव यजत्यादिशब्देभ्यो भावनाख्योऽनुष्ठेयः पुरुषव्यापारः प्रतीयत इति सिद्धम्।
क्रियाविशेष एवायं व्यापारो ज्ञातुरान्तरः।
स्पन्दात्मकबहिर्भूतक्रियाक्षणविलक्षणः॥
इत्येवं केचित्
पुरुषस्य प्रयत्नो वा भावनेत्यभिधीयते।
औदासीन्यदशापायं पुमान् येन प्रपद्यते॥
स यत्नो यागहोमादिक्रियानिर्वृतिकारणम्।
तस्य च व्यतिरिक्तत्वं प्रायः सर्वोऽनुमन्यते॥
स चायमात्मधर्मोऽपि न विभुत्वादिवन्मतः॥
साध्यरूपाभिसम्बन्धाद् धत्ते विषयतां विभोः॥
इत्यपरे।
अन्ये धात्वर्थसामान्यं भावनामभ्युपागमन्।
यागदानाद्यनुस्यूतं रूपं गोत्वादिजातिवत्॥
यथा हि शाबलेयादिष्वनुगतं गोरूपमवभासते व्यावृत्तञ्च शाबलेयादिरूपम्, एवमिहापि यागादिकर्मणामनुगतञ्च व्यापाररूपं प्रतिभासते। परस्परविभक्तञ्च यागादिरूपं यत् तदनुगतं व्यापाररूपं सा भावना। यथा च शाबलेयाद्यननुरक्तं पृथक्त्वेन गोत्वं दर्शयितुमशक्यम्, एवमिहापि शुद्धं यज्याद्यननुरक्तं व्यापाररूपं दर्शयितुमशक्यम्, तदुपरक्तत्वेन तस्य सर्वदावगमाद्। न चैतावता तस्य नास्तित्वं सुखदुः खाद्यवस्थानुगतस्येवात्मनः। तथा च किं करोतीत्यनवगतविशेषव्यापारसामान्यप्रश्ने सति `पचति पठति’ इति तद्विशेषोत्तरवचनमनुगुणं भवतीति। तच्च सामान्यरूपमपि न गोत्वादिवत् क्रियात्ववद् वा सिद्धतयावभासते, येन विधेरविषयः स्यात्।
अपि च यजेत दद्याज्जुहुयादिति सर्वत्र अपरित्यक्तपूर्वापरीभूतस्वभावं तद्व्यापारसामान्यमवगम्यते, विधेश्च विषयतां प्रतिपद्यते। तदिदं सकलधात्वर्थसाधारणं साध्यमानावस्थं व्यापारसामान्यं भावनेत्युच्यते। तस्मिंश्च पक्षे धातुवाच्यत्वमपि भावनाया वक्तुं शक्यते। पाकादिशब्देभ्यो धातौ सत्यपि तदप्रतीतेर्न धातुवाच्यत्वं भावनाया इति चेद्, भवत्यादौ तर्हि प्रत्यये तदप्रतीतेः प्रत्ययवाच्यत्वमपि न स्यात्। तदलमनेन निर्धारणप्रयत्नेन, सर्वथा धातोर्वा प्रत्ययाद् वा भावनावगम्यत इति सिद्धम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%साक्षात् तत्सिद्धवेदनात्।% साक्षात् तदर्थव्यापारं विना।
%न सा केनचिदिति।% भावार्थवदन्योत्पाद्यत्वं कारकवच्चान्योत्पादकत्वं तस्या नास्तीत्यर्थः। किन्तु यद्वशात् फलस्य जन्यताव्यपदेशो भावार्थस्य च जनकता सासौ जननी।
%न विभज्य प्रदर्शयितुं शक्येते।% इति प्रकृतिप्रत्ययाभ्यामुभाभ्यमपि प्रयोजकव्यापारस्यैकस्यैवाभिधानात्।
%स एव समुदायेनेति% य एव पचतोत्यादौ प्रत्ययभागप्रतिपाद्यो व्यापारः, स एवोभाभ्यां प्रकृतिप्रत्ययाभ्यां करोतीत्यनेन प्रतिपाद्यते।
%भवन्ति केचिद् भावार्था न कर्मशब्दा इति।% ननु भावशब्देन भावानाभिप्रेता। भवतेर्ण्यन्ताद् भाव्यतेऽनेनेति व्युत्पत्त्या परविकृतेन च भावो भवनं भूतिरित्यादिभिः स प्रत्यायायितुं शक्यतेऽत एवमुदाहार्थ भावयेत् कुर्यादिति। अत्राहुः, भावशब्दस्तावद् णिजन्ताद्भवतेः परविकृते भावनावाच्ये वा भवनभूतिशब्दौ तु प्रयोज्यव्यापारांशेन कथञ्चिद् भावार्थौ स्याताम्। श्येनैकत्रिकादयः। श्येनः प्रसिद्धः, एकत्रिकेण यजेतेत्येकत्रिकाख्यो यागविशेषः, एकस्यां तिसृषु चतसृषु यत्र स्तोत्राणि क्रियन्ते, स एकत्रिक इति। अकर्मशब्दत्वं चैषां भावो भवनं भूतिरित्यादीनां कर्मविशेषवाचकत्वाभावात्, निष्पाद्येन रूपेण भावनाया अनभिधानाद्वा। स्येनादयस्तु निष्कृष्टयागमात्रमाचक्षते न भावनामपि, यजिसामानाधिकरण्यं तेषामिति। प्राभाकरास्तु व्याचक्षते `कर्मशब्दा इत्येतद्विना भावार्था इत्युक्ते भावो भवनमित्यादिभ्योऽपि अन्योत्पादनमात्रप्रतिपादकेभ्यः क्रियाप्रतीतिः प्रसज्येत। भावार्था इत्येतत्परिहारेण च कर्मशब्दा इत्युक्तान्योत्पादकत्वरहितसाध्यमात्रप्रतिपादकेभ्योऽपि श्येनादिशब्देभ्यः क्रियाप्रतीतिप्रसङ्गः। उभयोच्चारणे तु अन्योत्पादकत्वं पूर्वापरीभावस्य साध्यरूपत्वं येभ्योऽवगम्यते तेभ्यो यजेतेत्यादिभ्यः क्रिया प्रतीयत इति सिद्धं भवति। एकैकपदोच्चारणे हि विवक्षितार्थासिद्धिर्भावो भवनं भूतिरित्यादिना भाष्यकृता दर्शिता च, स्वयञ्च व्याख्यातम् `यज्याद्यर्थश्चातोऽवगम्यते भावयेदिति च’ इति।
%तस्य च व्यतिरिक्तत्वं% यागादिक्रियाव्यतिरिक्तत्वम्।
%अपरित्यक्तपूर्वापरीभूतस्वभावं% साध्यरूपम्।
%भवत्यादौ तर्हीति। भवत्यादौ हि प्रत्ययेन यो भवति, प्रयोज्यस्तद्व्यापारोऽभिधीयते, न तु यो भावयति तद्व्यापार इति।
न्यायमञ्जरी
%भावनायाः सापेक्षत्वम्%
सा धातोः प्रत्ययाद् वापि भावनावगता सती।
अपेक्षतेंऽशत्रितयं किं केन कथमित्यदः॥
भावयेदित्यवगते नूनमपेक्षात्रयं भवति, किं भावयेत् केन भावयेत् कथं भावयेदिति? तत्र किमित्यपेक्षा स्वर्गकामपदेन पूर्यते, किं भावयेत् स्वर्गमिति।
ननु स्वर्गकाम इति पुरुषनिर्देशोऽयं न फलनिर्देशः। सत्यम्। स्वर्गपरस्त्वयं निर्देशः। उक्तं हि, निरतिशयप्रतीतिवचनः स्वर्गशब्दः, प्रीतिश्च नान्यार्थेत्यप्युक्तम्। साध्यत्वेन च स्वर्गः काम्यत इति स एव हि किमित्यंशे निपतति स्वर्गं भावयेदिति। स्वर्गं कामयते इति च व्युत्पत्तौ विस्पष्टमेव तस्य साध्यत्वम्। बहुव्रीहावपि तस्यैव साध्यत्वं विधिवृत्तपर्यालोचनयावधार्यते।
एवं स्वर्गं भावयेदित्यवगते केन भावयेदित्यपेक्षायां यागेनेति सम्बध्यते। ननु यागेनेति न श्रूयते किन्तु यजेतेति। तच्चाख्यातपदं प्रकृतिप्रत्ययात्मकसमुदायरूपम्, तत्र लिङः प्रत्ययार्थस्य भावना वाच्येत्युक्तम्। यज् इति तु धातुमात्रमवशिष्टं तस्य कृदन्तस्य तृतीयान्तस्य यागेनेति योऽर्थः स कथमेकाकिना तेन प्रत्याय्येत? उच्यते। भावना चेत् प्रत्ययार्थ इति सोढमायुष्मता! यागेनेत्यभिसम्बन्धः सोढव्य एव। यो हि तस्यां यथा सम्बद्धं योग्यस्तमसौ तथा प्रतीक्षते नान्यथेति। करणाकाङ्क्षापरिपूरणे सम्बन्धयोग्यो यजिरिति तथैवैष भावनयाभिसम्बध्यते।
अप्रातिपदिकत्वाद्धि तृतीया तत्र मा स्म भूत्।
शब्दसामर्थ्यलभ्य तु तूनं करणता यजेः॥
कस्य पुनः शब्दस्य सामर्थ्यमेतद्? भावनावाचिन इति ब्रूमः। तृतीययैव करणत्वमभिधानीयमिति नेयं राजाज्ञा। ततस्तदवगतेस्तथाभ्युपगम्यते एवमिहापि स्वर्गकामो यजेतेति तथावगतिर्भवन्ती किमिति न मृष्यते।
आख्यातात् साध्यता या च धात्वर्थस्यावगम्यते।
द्वितीया श्रूयते तत्र किं वा तदभिधायीनी॥
नन्वेवं तर्हि धात्वर्थस्य साध्यतावगतेः किमित्यंशे यजिना पतितव्यम्। किं भावयेद् यागमिति। केनेत्यपेक्षिते वाक्यान्तरसमाहितं व्रीहिभिरित्यादि सम्बध्यताम्, न पुनर्यजिः साध्यरूपव्यापाराभिधायिप्रत्ययोपसर्जनीभूतकर्मतामतिप्रत्यासन्नामनारुह्य दूरवर्त्तिनीं करणतामधिरोढुमर्हति।
उच्यते। स्यादेतदेवं यदि हि स्वर्गकाम इति न श्रूयेत्, तस्मिंस्तु श्रुते नैवं भवितुमर्हति। कुतः
स्वर्गे साध्यत्वसम्बन्धादलब्ध्वा साध्यतान्वयम्।
यजिस्तदानुगुण्येन करणांशे च तिष्ठति॥
स्वर्गस्य हि काम्यमानत्वात् प्रीत्यात्मकत्वेन चानन्यार्थत्वात् साध्यतायां योग्यत्वात् किमित्यंशोपनिपाते सिद्धे तत्रालब्धनिवेशो यजिस्तदपेक्षितां करणतामेव योग्यत्वादवलम्बते।
सामानाधिकरण्यञ्च ज्योतिष्टोमादिभिः पदैः।
एवं सत्युपपद्येत करणत्वानुवादिभिः॥
कर्मनामधेयत्वं ज्योतिष्टोमादीनां शब्दानामुक्तम्।
ननु साध्यत्वपक्षसाक्षितामपि कर्मनामधेयानि भजन्ते अग्निहोत्रं जुहोतीति। नैष दोषः। साध्य एव भवन् भावार्थः साधनतामवलम्बते। तत्रापि हि स्वर्गभावनायामग्निहोत्राख्यो होमः करणमेव, अन्यथा स्वर्गकामपदानन्वयप्रसङ्गादित्युक्तम्। नामधेयपदन्तु किञ्चित् कर्मतामनुवदति अग्निहोत्रमित्यादि, किञ्चित्करणतां ज्योतिष्टोमेनेति। तस्माद् यजेः करणत्वेनैवान्वय इति सिद्धम्।
यत्तु प्रत्यासन्नत्वात् साध्यांशोपनिपातितेत्युच्यते, तदयुक्तम्। योग्यत्वाविरोधिनी प्रतिपत्तिः सम्बन्धकारणं न तद्विपरीता। योग्यत्वञ्च स्वर्गस्यैव साध्यतायां यजेश्च करणतायामित्युक्तम्।
एवं यागेन भावयेदित्यवगते कथमित्यपेक्षायाम् इतिकर्त्तव्यता तद्वाक्यपठिता वाक्यान्तरनिवेशिता वा सम्बध्यते। तद्वाक्योपात्ता तावद् यथा एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेत’ इति, वाक्यान्तरोपात्ता `व्रीहीनवहन्ति’ `तण्डुलान् पिनष्टि’ `समिधो यजति’ `तनूनपातं यजति’ इति।
इतिकर्त्तव्यता हीष्टा दृष्टादृष्टप्रयोजना।
प्रायः सर्वत्र भावार्थे कथमंशोपपादिनी॥
दृष्टोपकारद्वारेण सम्बन्धे पेषणादिका।
इतिकर्त्तव्यता ज्ञेया सन्निपत्योपकारिणी॥
भावार्थमनुगृह्णाति या त्वदृष्टेन वर्त्मना।
समिधाद्यात्मिकामाहुस्तामारादुपकारिणीम्॥
एवमंशत्रयाश्लेषलब्धानुष्ठानयोग्यताम्।
भावनामीदृशीं प्राप्य वृत्तिर्विधिनिषेधयोः॥
`दर्शपौर्णमासाभ्यां यजेत स्वर्गकामः’ `ज्योतिष्टोमेन स्वर्गकामो यजेत’ इत्यत्रानन्तरोक्तनीत्यैष वाक्यार्थो जातो दर्शपौर्णमासेन यागेन स्वर्गं भावयेद् अनयाग्न्यन्वाधानाधिकयेतिकर्त्तव्यतयेति।
किमर्थं पुनर्विधिराश्रीयते, वर्त्तमानापदेशिष्वप्याख्यातेषु भावना प्रतीयतइति दर्शितवान् भवान् अतः किं विधिना? तस्य ह्याश्रयणं स्वर्गयागयोः साध्यसाधनभावबोधनाय, प्रवृत्तिनिवृत्तिसिद्धये वा। साध्यसाधनसम्बन्धस्तावदाकाङ्क्षासन्निधियोग्यतापर्यालोचनया वर्त्तमानापदेशिनोऽप्याख्याताद् भावनावगमे सति भवत्येवान्तरेणापि विधिम्। प्रवृत्तिरपीच्छानिबन्धना स्वर्गस्य साध्यत्वे यागस्य च साधनत्वेऽवधारिते यः स्वर्गमिच्छेत्, स तत्सिद्धये प्रवर्त्तत एव। यस्तु नेच्छेत्तस्य विधिरपि किं कुर्यात्? न ह्यप्रवर्त्तमानस्य पुंसो विधिर्निगडे पदं निदधाति रज्ज्वा वा बाहू बध्नाति। निषेधाधिकारेऽपि सुरापानब्राह्मणहननादेः प्रत्यवायसाधनत्वावधारणात् तत्परिजिहीर्षया पुरुषो निवर्त्तेतेति प्रवृत्तिनिवृत्त्योर्न कारणं विधिरिति तदर्थमपि विधिपदाश्रयणमसाम्प्रतम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%विधिवृत्तपर्यालोचनयेति।% अपुरुषार्थसाधने प्रवर्तयतोऽपि विधिः प्रवर्तकत्वविधिः। पुरुषार्थस्तेन साध्यत्वेनापेक्ष्यमाणः सन्निहित एवापेक्ष्यते।
%ततस्तदवगतेरिति% ततस्तृतीयान्तात्।
%प्रत्ययोपसर्जनीभूत% इति। `प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः’ इति प्रत्ययार्थस्य प्राधान्यात् प्रकृत्यर्थस्योपसर्जनत्वम्।
%एतस्यैव रेवतीषु वारवन्तीयम्% इत्यत्र वाक्ये रेवतीषु वारवन्तीयसामकरणाख्येतिकर्तव्यतोपात्ता प्रधानं यजिश्च।
%अग्न्यन्वाधानादिकयेति।% `ममाग्ने वर्चो विहवेष्वस्तु’ इत्यादिना मन्त्रेण क्रियमाणमग्नौ समिदाधानमग्न्यन्वाधानं दर्शपूर्णमासयोः प्रारम्भे।
न्यायमञ्जरी
%विधिस्वरूपविचारः%
कश्चायं विधिर्नामेत्येतदपि न विद्मः ननु चाहुः
विधेर्लक्षणमेतावदप्रवृत्तप्रवर्तनम्।
अतिप्रसङ्गदोषेण नाज्ञातज्ञापनं विधिः॥
बाढम्। श्रुतोऽयं श्लोकः। किन्तु कोऽसावप्रवृत्तप्रवर्त्तक इति न जानीमः, प्रवर्तकस्वरूपे हि संशेरते प्रवादुका इति। किं लिङादिः शब्द एव प्रवर्तकः, तद्व्यापारो वा, तदर्थो विनियोगः फलं वा, स्वर्गादिश्रेयः साधनत्वं वा, रागादिर्वा। प्रवर्तकस्वरूपानवधानरणाद् विधेरप्यनवधारणमिति। यत् तावदुक्तं किं विध्याश्रयणेनेति? तत्रोच्यते।
यदयं साधनत्वेन यजेरभिहितोऽन्वयः।
स्वर्गस्य च फलत्वेन स एव महिमा विधेः॥
विधिवचनमन्तरेण हि स्वर्गकामो यजेतेति पुरुषलक्षणार्थः स्वर्गकामशब्दः शुक्लो होतेतिवत् स्यात्। ततश्चैकपदोपादानलक्षणप्रत्यासत्तिसम्बन्धनिसर्गघटितपूर्वापरीभूतस्वभावधात्वर्थसाध्यतातिक्रमेण दूरात् स्वर्गस्य साध्यत्वमन्यत्रोपसर्जनीभूतस्य कथं कल्पयितुं शक्यते? तस्मादेष विशिष्टः साध्यसाधनसम्बन्धो विधिप्रसादलभ्य एव भवति नान्यथेति विधिराश्रयणीयः।
कथं पुनर्विधिरप्यमुं साध्यसाधनभावं बोधयति? इत्थं बोधयति। स हि सप्रत्ययप्रवर्तकस्वभावः, न चापुरुषार्थरूपे व्यापारे पुरुषः प्रेर्यमाणोऽपि सत्यप्रत्ययः, प्रवर्तमानेऽपि पुंसि प्रवर्तकत्वाख्यनिजस्वरूपसङ्कोचमाशङ्कमानो विधिः पुरुषार्थस्वभावं स्वर्गं साध्यतया व्यवस्थापयति यागञ्चास्य साधनतया इति, एवं ह्यवबोधयतोऽस्य प्रवर्तकत्वं निर्वहति।
यत्तु, दर्शिते स्वर्गादौ फले न प्रवर्तते चेत् पुरुषः किं विधिः कुर्यादिति, तदप्ययुक्तम्। न हि वाय्वादिवत् पुरुषस्य प्रवर्तको विधिः। वाय्वादिः खलु सप्रत्ययमपि तदितरमपि प्रवर्तयति, विधिस्तु सप्रत्ययस्यैव प्रवर्तकः। सप्रत्ययस्य चैतावत् प्रवर्तनं यत् प्रवर्तितोऽहमिति ज्ञानजननम्। न फलमदर्शयता विधिना सप्रत्ययस्य ज्ञानं जनयितुं शक्यम्, फले तु दर्शिते सति तदस्य ज्ञानं जनितमेव। अनेन जनिते ज्ञाने प्रमाणवृत्तेन प्रवर्त्तित एवासौ विधिना पुरुषः। आलस्यादिनानर्थित्वेन वा बहिः प्रवृकत्तिपर्यन्ततया चेत्, न प्रवर्त्तते, मा प्रवर्तिष्ट, विधिना तु स्वकर्त्तव्यं कृतम्, प्रवर्तितोऽहमिति ज्ञानजननात्। अन्यो हि प्रवर्तनावगमोऽन्यश्च बाह्यो व्यापारः।
एवं विधिवशादेव। साध्यसाधनभावधीः।
सा हि प्रथमनिर्वृत्तप्रेरणाज्ञानपूर्विका॥
यजेतेति प्रेरणा प्रतीयमाना साध्यसाधनसम्बन्धमनवबोधयन्ती विधौ न निर्वहतीति तत्कृतस्तदवबोध उच्यते। निषेधे न हन्यादिति निषेध्यमानस्य भावार्थस्यानर्थतामनवबोधयन् विधिर्न रागतः प्रवर्तमानं पुमांसं निरोद्धुमुत्सहते, इति विधेयवन्निषेध्येऽपि तस्यैव व्यापार इत्यवश्याश्रयणीयो विधिः।
यश्चैषः पर्यनुयोगः किमर्थं विधिराश्रित इति, स खलु सरलमतिकृत इव लक्ष्यते। न हि वयमद्य कृतं विधिमाश्रयेम जहीमो वा, प्रतिपत्तारो हि वयं वेदस्य न कर्तारः। तत्र च सविधिकानि यजेत स्वर्गकाम इतिप्रभृतीनि वाक्यानि श्रूयन्ते। तेषां मीमांस्यमानोऽर्थं ईदृगवतिष्ठते, स्वर्गः साध्यो यागः साधनमिति। स चायं विधिसामर्थ्यलक्ष्य इति युक्तं विधेराश्रयणम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%अतिप्रसङ्गदोषेणेति% अज्ञातज्ञापने हि विधौ `ग्रामं भवान् लप्स्यते’ इत्यादेः सामुद्रविद्याव्याख्यानस्यापि विधित्वप्रसङ्गात्।
%शुक्लो होतेतिवत्।% यथर्त्विजां मध्ये शुक्लगुणेन होता लक्ष्यते एवं स्वर्गकामनया पुरुषो लक्ष्यत इति।
%यश्चैषः पर्यनुयोग इति% `वाक्यान्तरे समर्थेऽपि किमर्थं विधिराश्रितः’ इति भाट्टं पर्यनुयोगं सूचयति।
न्यायमञ्जरी
%विधेः प्रवर्तकत्वम्%
यत्तु, प्रवर्त्तकस्वरूपानिश्चयाद् विधेरनिश्चय इति तत्राप्युच्यते। फलं तावन्न प्रवर्त्तकम्, सिद्धासिद्धविकल्पानुपपत्तेः। सिद्धस्य फलस्याप्रवर्त्तकत्वं सिद्धत्वादेव। न हि यद् यस्यास्ति, स तदर्थं यतते। नाप्यसिद्धस्य खरविषाणप्रख्यस्य फलस्य प्रवर्तकत्वं युक्तम्, अदृष्टत्वात्।
अथ कामनाविषयीकृतं फलं प्रवर्तकमिष्यते, सेयं कामनैव प्रवर्त्तिकोक्ता भवति, न फलम्। उपजातप्रवृद्धतररागस्यापि काम्यमानोपायपरिच्छेदमन्तरेण प्रवृत्त्यनुपपत्तेः। न हि स्वर्गकामः सांग्रहिणीमनुतिष्ठति। तद्वरं श्रेयः साधनं प्रवर्तकम्, लोकेऽपि चैवमेव व्यवहारो दृश्यते। हरीतक्यादीनामारोग्यसाधनतां वैद्याचार्यचोदनातोऽवगत्य तदुपायादावातुरो जनः प्रवर्त्तते। तृप्तिसाधनतामोदनस्य मन्यमानस्तद्भक्षणाय बुभुक्षितः प्रवर्त्तत इति श्रेयः साधनत्वमेव प्रवर्त्तकम्।
एतदपि न चतुरस्रम्। श्रेयः साधनत्वं ह्यनवगतमवगतं वा प्रवर्तकं भवेत्? नानवगतमव्युत्पन्नस्य प्रवृत्तेरदर्शनात्, यो हि हरीतकीनामारोग्यहेतुतां न कुतश्चिदधिगतवान्, नासौ तदर्थ्यपि तामुपयुङ्क्ते। तस्मात् तद्बोधहेतुः प्रवर्त्तकः। स च दृष्टे विषयेऽन्वयव्यतिरेकादेरपि सम्भवति। किं तेन, अदृष्टे तु विषये श्रेयः साधनाधिगमः शब्दैकनिबन्धन इति तदधिगमोपायः शब्द एव प्रवर्तकः। अत एव शब्दोऽपि न स्वरूपमात्रेण प्रवर्तकः, वाय्वादितुल्यत्वप्रसङ्गात्। यदि पवन इव, पिशाच इव, कुनृप इव शब्दः प्रवर्तको भवेत्, अनवगतशब्दार्थसम्बन्धोऽपि श्रवणपरवशः प्रवर्त्तेत। न चैवमस्ति, तस्मादर्थप्रतीतिमुपजनयतः शब्दस्य प्रवर्तकत्वम्। न च नाम लिङादिरेव शब्दः प्रवर्तकाभिधानद्वारेण प्रवर्तको भवितुमर्हति। शब्दस्य च ज्ञापकत्वात् चक्षुरादिकारकवैलक्षण्ये सत्यपि प्रतीतिजन्मनि करणत्वमपरिहार्यम्। करणञ्च कारकं कारकञ्च न निर्व्यापारं स्वकार्यनिर्वृत्तिक्षममिति व्यापारस्तस्य अवश्यम्भावी। लिङादेः शब्दस्य न प्रतीतिजन्ममात्रे व्यापारः, किन्तु पुरुषप्रवृत्तावपि तथावगमात्। लिङर्थावगमेसति प्रवृत्तिर्दृश्यत इति तत्रापि लिङ्व्यापारः प्रभवति। स चायं लिङादिव्यापारः शब्दभावनानामधेयो विधिरित्युच्यते। स एव च प्रवर्तकः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%शब्दस्य च ज्ञापकत्वादिति।% चक्षुरादीनि ह्यगृहीतसङ्गतीनि प्रतीतिं जनयन्ति। अतस्तानि कारकाणि बीजादिवन्न, धूमादिवज्ज्ञापकानि, सङ्गतिग्रहानपेक्षणादिति।
न्यायमञ्जरी
%भावनाविभागः%
इह हि लिङादियुक्तेषु वाक्येषु द्वे भावने प्रतीयेते, शब्दभावनार्थभावना चेति।
तत्रार्थभावना तावद् धात्वर्थातिरिक्तप्रयोजकव्यापारात्मिका दर्शितैव। यो भवनक्रियाकर्तृविषयः प्रयोजकव्यापारो पुरुषस्थो यत्र भवनक्रियायाः कर्ता स्वर्गादिः कर्मतामापद्यते सोऽर्थभावनाशब्देनोच्यते, व्याख्यातश्चासौ।
यस्तु शब्दगतः प्रयोजकव्यापारो यत्र पुरुषप्रवृत्तिः साध्यतां प्रतिपद्यते सा शब्दभावना। तथा ह्युक्तम् अभिधाभावनामाहुरन्यामेव लिङादयः’ इति।
लिङन्तशब्दश्रवणे हि यथा यज्याद्यवच्छिन्नं स्वव्यापारं पुरुषोऽधिगच्छति तथा तदनुष्ठाने प्रेरितोऽहमित्यपि प्रतिपद्यते। तेनानुष्ठेयार्थप्रतिपादन इव प्रेरणायामपि शब्दस्य सामर्थ्याद् भावनाद्वयप्रतिपादकं लिङादियुक्तं वाक्यमिष्यते।
ततः पुरुषव्यापारश्चार्थभावना शब्दव्यापारश्च शब्दभावनावगम्यते। शब्दव्यापारात्मकत्वाच्च शब्दभावनाशब्देनाभिधीयते। अनवगता च सती न कार्याङ्गमिति शब्देन साभिधीयतेऽपि। तदुक्तम् `अभिधत्ते करोति च’ इति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%शब्दस्य च ज्ञापकत्वादिति।% चक्षुरादीनि ह्यगृहीतसङ्गतीति प्रतीतिं जनयन्ति। अतस्तानि कारकाणि बीजादिवन्न, धूमादिवज्ज्ञापकानि, सङ्गतिग्रहानपेक्षणादिति।
%अभिधाभावनेति।% यं कुर्वन्नभिधेयप्रतिपत्तिं जनयेत् शब्दः सोऽभिधात्मको व्यापारोऽभिधाभावना। अभिधाभावनामित्यस्योत्तरमर्धम्, `अर्थात्मभावना त्वन्या सर्वाख्यातेषु गम्यते’ इति।
न्यायमञ्जरी
%शब्दभावनाया अपि अंशत्रयापेक्षित्वम्%
ननु शब्दभावनापि भावनात्मकत्वादर्थभावनावदंशत्रयमपेक्षत एवेति तदस्या दर्शयितव्यम्। उच्यते। भव्यांशे तावदस्याः पुरुषप्रवृत्तिरुपनिपततीति उक्तमेव, पुरुषप्रेरणात्मको हि विधिः शब्दभावनेति। तत्साध्या पुरुषप्रवृत्तिरेव तत्र भव्यतां प्रतिपद्यते। करणांशे तु तस्या नियोज्यविषयसमर्पकपदव्यापारो निविशते। यथा हि यज्यादिना स्वर्गादिर्भव्यः सम्पद्यत इत्यर्थभावानायामसौ तत्करणतामवलम्बत एवमिहापि नियोज्यपुरुषप्रवृत्तिर्विषयाद्यवगमात्संपद्यत इति तदभिधायकशब्दव्यापारस्तत्र करणतां प्रतिपद्यते। इतिकर्त्तव्यतांशे तु अर्थवादपदव्यापारोऽस्या अवतिष्ठते। केवलं विधिपदश्रवणे हि सति न तथा प्रवर्त्तयितुमुत्सहन्ते श्रोतारः, यथा अर्थवादजनितबहुप्रकारकर्मंप्राशस्त्यज्ञानपरितोषितहृदयाः सन्त इत्यर्थवादाः प्रवृत्त्यतिशयहेतवः, तेन तद्व्यापार इतिकर्त्तव्यतांशमस्याः पूरयतीति। एवं नियोज्यव्यापारो भव्यो विषयादिसमर्पकपदव्यापारः करणम्, अर्थवादव्यापार इतिकर्तव्यतेति, सेयं त्र्यंशा शब्दभावना, सैव च विधिः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%नियोज्यविषयसमर्पकपदव्यापारो निविशत% इति। नियोज्यविषयप्रतिपादकत्वं तद्व्यापारः।
%इतिकर्त्तव्यतांश इति% यावद् ह्यर्थवादाः स्वार्थप्रतिपादनलक्षणे व्यापारे न प्रवर्तन्ते तावच्छ्रतमात्रेभ्यस्तेभ्यः प्रवृत्त्यभाव इति।
न्यायमञ्जरी
%विधिभावनयोः सम्बन्धः%
न च विधेर्वाक्यार्थानन्वयलक्षणो दोष आशङ्कनीयः, यत एकप्रत्ययोपादानलक्षणया प्रत्यासत्त्या तदन्वितावगमात्। आहुश्च,
विधिभावनयोस्त्वेकप्रत्ययग्राह्यताकृतः
धात्वर्थात् प्रथमं तावत् सम्बन्धोऽध्यवसीयते॥ इति।
विधिर्भावनायां पुरुषं नियुङ्क्ते। यथाह स्वव्यापारे हि पुरुषः कर्तृत्वेन नियुज्यते’ इति, तयोः कथमन्वयः स्यात्?
ननु च त्वयैवोक्तं धात्वर्थात् पूर्वतरं तावद् भावनाया विधेश्च सम्बन्धोऽवगम्यते। एकपदोपादानेऽपि धात्वर्थस्तावत् प्रकृत्यंशाभिधेयः, विधिभावने तु द्वे अपि प्रत्ययांशेनाभिधीयेते इति। अतश्च स्वच्छैव भावना विधिना स्पृश्यते न विषयानुरक्ता। स्वच्छा न प्रयोगयोग्या भवति। या च फलकरणेतिकर्तव्यतांशपरिपूर्तिप्रस्थिता प्रयोगयोग्या न तां विधिः स्पृष्टवान्। अविधिस्पृष्टेषु च धात्वर्थकारकादिषु किमिति स चेत् पुरुषः प्रवर्त्येतेति, उच्यते। यद्यपि विधिरनधिगतधात्वर्थानुरागतया स्वच्छामेव भावनामेकाभिधानत्वात् प्रथममाक्षिपति तथा हि तादृशि तस्यां सप्रत्ययप्रवर्तमानात्मनिजस्वरूपनिर्वहणमलभमानो न तावत्येव विरमति, किन्तु परिणीतबालकन्यको वर इव तावद् विलम्बमानः प्रसारितहस्त आस्ते यावत् सर्वाङ्गसुन्दरी प्रयोगयोग्या भावना भवति।
आह च,
यद्यप्यन्यैरसंस्पृष्टां विधिः स्पृशति भावनाम्।
तथाप्यशक्तितो नासौ तन्मात्रे पर्यवस्यति॥
अनुष्ठेये हि विषये विधिः पुंसां प्रवर्त्तकः।
अंशत्रयेण चापूर्णां नानुतिष्ठति भावनाम्॥
तस्मात् प्रक्रान्तरूपोऽपि विधिस्तावत् प्रतीक्षते।
यावद् योग्यत्वमापन्ना भावनान्यानपेक्षिणी… इति।
सा हि वाक्यान्तरोपात्तमप्यपेक्षते, प्रकरणान्तराधीतमपि वाञ्छति, प्रकृतिवद् भावलभ्यमपि याचते, अर्थसामर्थ्यगम्यमपि स्पृहयति, इत्येकविध एष शब्दप्रमाणमहिमेति। स चायं व्युत्पादनक्रम ईदृशो व्याख्यातृभिरुपदिश्यते। इत्थमस्य वाक्यार्थः पुनर्भावनात्मावगम्यमान एकयैव बुद्ध्यानेकजातिगुणद्रव्यक्रियाद्यङ्गकलापकल्माषिततनुरवगम्यते। तादृश्येकैवेयं वाक्याद् वाक्यार्थबुद्धिः आह च,
भावनैव हि वाक्यार्थः सर्वत्राख्यातवत्तया।
अनेकगुणजात्यादिकारकार्थानुरञ्जिता॥
एकयैव च बुद्ध्यासौ गृह्यते चित्ररूपया।
पदार्थाहितसंस्कारचित्रपिण्डप्रसूतया॥ इति ॥
एक एवायमतिदीर्घः क्रमविकस्वरः सकलाङ्गपरिपूरितभावनातत्त्वविषयः प्रतिभासः। यथा हि स्थाल्यधिश्रयणात् प्रभृति आ निराकाङ्क्षौदननिष्पत्तेरेकैवेयं पाकक्रिया, सलिलावसेकतण्डुलावपनदर्वीविघट्टनास्रावणाद्यनेकक्षणसमुदायस्वभावा, तथा प्रथमपदज्ञानात् प्रभृति आ निराकाङ्क्षवाक्यार्थपरिच्छेदादेकैवेयं शाब्दी प्रमितिः। आह च
पदात् प्रभृति या चैषां प्रज्ञा ज्ञातुर्विजृम्भते।
पुष्पिता सा पदार्थेषु वाक्यार्थेषु फलिष्यति॥
इति कृतमतिविस्तरेण।
सोऽयं वाक्यार्थो भावनानामधेयः कर्तृव्यापारः, स्वर्गयागादिरर्थः। यस्तु व्यापारः प्रैषरूपो लिङादेर्वाच्यः कार्यो वा, तं विधिं सङ्गिरन्ते।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%न च विधेर्वाक्यार्थानन्वय इति% वाक्यार्थेन भावनया साध्यं साधनमितिकर्तव्यता च सम्बध्यते।’ किंकर्मकः स्वव्यापार इति।
%स्वव्यापारे हि पुरुषः% इत्यस्योत्तरमर्धम्—`प्रेष्यस्तस्य च किंकर्मभावनांशत्रयात्मिका।’ किंकर्मकः स्वव्यापार इति।
%स्वच्छैव भावना विधिना स्पृश्यते,% कुर्यादिति।
%अर्थसामर्थ्यगम्यमिति।% यथा `स्रुवेणावद्यति’ इत्यवदानं स्रुवेण क्रियमाणं द्रव्याणामेव क्रियते न मांसादीनाम्, तेन तेषां खण्डनस्य कर्तुमशक्यत्वात्।
%पदार्थाहितसंस्कारेति।% पदार्थाहितानां संस्काराणां यश्चित्रो नानारूपः सङ्घातस्तज्जन्या।
%यस्तु व्यापारः प्रैषरूप% इति प्रेरणारूपः। `वा’ शब्दः समुच्चये।
न्यायमञ्जरी
%शाब्दीभावनाया वाक्यार्थत्वम्%
तदेतदननुमन्यमाना अन्ये प्रचक्षते, योऽसौ शब्दभावनाख्यः शब्दव्यापारः शब्दस्य कार्योऽभिधेयश्च तमभिदधतः कुर्वतो वा शब्दस्य व्यापारान्तरमस्ति न वा। यदि तावन्नास्ति तदेष व्यापारान्तरनिरपेक्षस्वव्यापारमिवार्थमपि वदतु, विश्राम्यतु व्यापारकल्पना। अस्ति चेदेतदभिधाने व्यापारान्तरं तदानवस्थाप्रतीकारः कश्चिदन्वेष्यः। न चासौ दूरादपि लभ्यते। भूतपरिस्पन्दव्यतिरिक्तव्यापारनिरासश्च प्रमाणसामान्यलक्षणे विस्तरेण कृत इत्यसौ मार्ग इहाप्यनुसरणीयः।
यश्चासौ व्यापारः क्रियते चाभिधीयते च, स किं पूर्वमभिधीयते ततः क्रियते, पूर्वं वा क्रियते पश्चादभिधीयते, युगपदेव वा अस्य करणाभिधान इति। नतावत् पूर्वमभिधीयते, अनुत्पन्नस्याभिधानानुपपत्तेः, न ह्यजाते पुत्रे नामधेयकरणम्, `अर्थासंस्पर्शी च तथा सति शब्दःल स्यात्। तत एव न युगपदुभयम्, अनुत्पन्नत्वानपायात्, प्रयत्नगौरवप्रसङ्गाच्च। नापि कृत्वाभिधानम्, विरम्य व्यापारासंवेदनात्।
अपि चायं तपस्वी लिङादिः प्रत्ययः सत्यपि गोवृन्दारकत्वे कथम् अमुमतिबृहन्तं भारं वक्ष्यति कर्तारञ्च तत्संख्याञ्चाख्यास्यति। अर्थ भावनामभिधास्यते शब्दभावनाञ्च करिष्यति ताञ्च वदिष्यतीति दुर्वहोऽयं भारः। कश्चायं शब्दभावनानामधेयस्य विधेर्वाक्यार्थे भावनायामन्वय इति वक्तव्यम्।
ननूक्त एवैकप्रत्ययाभिधेयत्वलक्षणः सम्बन्ध इति, न ब्रूम आभिधानिकः सम्बन्धो नोक्त इति, किन्तु पुरुषव्यापारात्मिकाया अर्थभावनायाः प्रधानत्वेन वाक्यार्थंत्वात् तदपेक्ष्यमाणफलकरणेतिकर्त्तव्यतांशपूरणेन स्वर्गकामादिपदान्तराभिधेयोऽर्थः समन्वेति। गुणत्वेन शब्दव्यापारस्तु तदपेक्षितमन्यतममपि नांशं पूरयितुमलमिति तत्र न गुणतामवलम्बते। न च द्वयोः प्रधानयोर्घटः पट इतिवद् वा पचति पठतीतिवद् वा सम्बन्ध उपलभ्यते।
अर्थार्थभावना शब्दभावनाख्यस्य विधेर्विषयसमर्पणेन गुणतामवलम्बते विधिः, तर्हि वाक्यार्थो न भावना तस्या अप्राधान्यात्। अतो भावनाद्वयं प्रत्ययार्थ इति न हृदयङ्गममेतत्।
एकाभिधानाभिधेयत्वं न भावनयोरन्योन्यसमन्वये कारणम्, अक्षाः पादा माषा इत्यादावदर्शनात्। किञ्च कस्यानुरोधेन द्वे भावने प्रत्ययवाच्ये इष्येते? उच्यते। लिङ्गादिशभ्दश्रवणे सति कार्ये च प्रेरणायाञ्च न द्विरुत्पद्यते मतिः।
यद्येवमेक एव तादृशोऽसौ लिङर्थो भवतु तदेकत्वाच्च न परस्परसमन्वयश्चिन्तयिष्यते, न च प्रत्ययेऽप्यतिभार आरोपयिष्यते।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%अर्थासंस्पर्शीति।% अनुत्पन्नत्वेनासत्समत्वाद् व्यापारस्य तद्विषयत्वे शब्दस्यार्थासंस्पर्शित्वम्।
%सत्यपि गोवृन्दारकत्व% इति। प्रशस्तो गौर्गोवृन्दारकः। यथा गोवृन्दारकोऽपि वृषभो नासह्यं भारमुद्बोढुमलम्, एवं वाक्पर्यायत्वाद् गोशब्दस्य लिङपि गौः प्रमाणान्तरानवगम्यमानार्थप्रतिपादकत्वात् प्रशस्तस्वभावतः सोऽपि गोवृन्दारकः।
%विषयसमर्पणेनेति% प्रेरणा हि प्रेर्यं विषयं वापेक्षत इत्यपेक्षितसमर्पणाद् गुणत्वम्।
न्यायमञ्जरी
%नियोगस्य वाक्यर्थत्ववादः%
नन्वेकस्यापि लिङर्थस्य यदि शब्दः कार्यत्वं प्रेरणाञ्च ब्रवीति ततस्तदवस्थ एवातिभारः। कश्चासावेकः कार्यात्मा प्रेणात्मा च तस्यार्थः? उच्यते। यो लिङादेः प्रत्ययादवशिष्यते यमभिवदतो न तस्यातिभारो यत्र न तद्व्यतिरेकेण प्रमाणान्तरं क्रमते, स नियोगो नाम वाक्यार्थः। तथा हि शब्दव्यवहारतः शब्दानामर्थे व्युत्पत्तिरित्यत्र तावदविवादः। एवं व्यवहारे च वाक्यार्थे वाक्यस्य व्युत्पत्तिर्वाक्येन सर्वत्र व्यवहारात्। तत्र यजेतेत्यादितिङन्तपदयुक्तेषु वाक्येषु पदान्तराणामर्थस्तावदास्ताम्, आख्यातार्थे ह्यवगते तदानुगुण्येनासौ स्थास्यति। आख्यातस्य च यजेतेत्येवमादेरर्थः परीक्ष्यमाणः प्रेरणात्मक एवावतिष्ठते। यतः पदान्तरसन्निधाने सत्यपि न प्रेरणाबुद्धिरुपजायते। आख्यातपदश्रवणे सति सा जायते, तस्मात् तस्यैव प्रेरणात्मकोऽर्थः। तत्रापि तु जुहोत्यादिधात्वन्तरोपजननापायपर्यालोचनया धातोस्तत्प्रतीतौ व्यभिचारात् प्रत्ययस्य चाव्यभिचारात् तस्यैव सोऽर्थ इति शस्यते। कः पुनरसावर्थो यस्मिन् सति नियुक्तोऽहमत्रेति प्रतिपद्यते पुरुषः? सोऽसावर्थ एव विधिरित्युच्यते।
विधौ हि लिङादिप्रत्ययं स्मरति पाणिनिः, न धात्वर्थे, यागादौ, न कर्तृव्यापारे, भावनायाम्। विधिश्च नाम प्रेरणात्मक एव। अत एव वर्तमानापदेशिकाख्यातजनितप्रतीतिविलक्षणेयं प्रतीतिर्यजेतेति। अत्र हि प्रैष्यप्रैषयोः सम्बन्धोऽवगम्यते। किमन्यश्चात्र क्रियाकर्तृसम्बन्धो नावगम्यते? न ब्रूमः नावगम्यते इति। किन्तु प्रैष्यप्रैषलक्षणोऽपि सम्बन्धः प्रथममवगम्यते, प्रेषितो हि क्रियां कर्तुमुद्यच्छतीति।
ननु क्रियासम्बन्धितयैवासौ प्रेष्यते यजतां भवानिति। सत्यम्। क्रियासम्बन्धितयैव प्रेष्यते। प्रेष्यते तु सः, प्रेष्यते चेदयमन्यस्तर्हि सम्बन्धः क्रियासम्बन्धात्तूभयसम्बन्धितामस्य राजगवीक्षीरवदवगमिष्यामः। यथा गौ राज्ञा च सम्बध्यते क्षीरेण च, या राजसम्बन्धिनी स क्षीरसम्बन्धिनी, या क्षीरसम्बन्धिनी सा राजसम्बन्धिनी। एवमिहापि पुरुषः प्रेषितेन च सम्भन्त्स्यते क्रियया च, यः प्रेष्यते स करोति, अथ यः करोति प्रेष्यते स इति।
ननु नेदमुभयं भवति। प्रैषोऽपि क्रियैव। प्रवर्त्तनं हि कुर्वन् प्रवर्तयतीत्युच्यते। सोऽयं क्रियासम्बन्ध एव भवति न ततोऽन्यः प्रैष्यप्रैषसम्बन्ध इति। स्यादेतदेवं यदि वाय्वादिवत् प्रवर्तने कर्ता लिङर्थः स्यात्। प्रेरितोऽहमत्रेति तु ज्ञानजनकत्वं विधेः प्रवर्तकत्वम्। स एष प्रवर्तनं ज्ञापयति न करोति इत्यन्य एवायं क्रियाकर्तृसम्बन्धात् प्रैषप्रेष्यसम्बन्धः।
ननु ज्ञानमपि क्रियैव। तत्कारणे च पुनरपि स एवायं क्रियाकर्तृसम्बन्धः? मैवम्, कारकज्ञापकयोर्भेदस्य सुप्रसिद्धत्वात्। इह च योऽयं यागपुरुषयोः क्रियाकर्तृसम्बन्धः, अतोऽन्यं प्रैषप्रैष्यसम्बन्धमुपदर्शयितुं प्रवृत्ताः स्मः। स ततो विलक्षणः प्रदर्शित एव। वैलक्षण्येऽपि तस्य यथाकथञ्चित् तन्नाम क्रियमाणं न वारयामः। भवत्वयमन्यः प्रैषप्रैष्यसम्बन्धः, स तु प्रथममवगम्यते इत्येष कुतो निश्चयः? उक्तमत्र प्रेषितोऽहमिति हि विदित्वा क्रियायां प्रवर्त्तते। आचार्यचोदितः करोमीति हि दृश्यते, यजेतेति श्रुते नियुक्तोऽहमिति प्रथममवगच्छति, ततो यजते, तेनायमाद्यः सम्बन्धः, पाश्चात्त्यस्तु क्रियाकर्तृसम्बन्धः। तद् योऽयं लिङर्थः प्रथममवगम्यते प्रैषो नाम, सा प्रेरणा, स नियोगः, स वाक्यार्थः।
ननु विधाविव निमन्त्रणादिषु लिङ्लोटावपि स्मर्येत एव। सत्यम्। तेतु प्रेरणाया एव औपाधिका अवान्तरभेदाः। समहीनज्यायोविषयप्रयोगोपाधिनिबन्धन एष प्रेरणाध्येषणादिभेदव्यावहारः। प्रेषणा तु सर्वानुस्यूतावगम्यते। तदुक्तम्, `प्रवर्त्तकत्वन्तु शब्दार्थः सर्वत्रापरित्यागात्’ इति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%प्रेष्यते तु स% इत्यनेन प्रैषस्यानपह्नवनीयतामाह।
%निमन्त्रमादिष्विति।% यस्याकरणात् प्रत्यवायस्तत्र नियोजनं निमन्त्रणम्। यस्य त्वकरणेऽपि प्रत्यवायो नास्ति तत्र नियोजनमामन्त्रणमिति। आदिग्रहणात् संस्कारपूर्वकं यत्र नियोजनं तत्राध्येषणम्।
%समहीनज्याय% इति। यत्र समः प्रेर्यते तत्राभ्यनुज्ञाः यत्र हीनस्तत्र प्रेषणम्, यत्र ज्यायांस्तत्राध्येषणमिति । विधिशब्दनिर्दिष्टं प्रेषणं हीनविषयम्, निमन्त्रणादयस्तु यथासम्भवं समज्यायो विषयाः न्यक्कारपूर्वं तेष्वप्रवर्तनादिति।
न्यायमञ्जरी
%णिजर्थादीनां भेदकथनम्%
स चायं लोडादीनामर्थः प्रैषो णिजर्थविलक्षणः प्रतीयते।
ननु प्रयोजकव्यापारे णिज् विधीयते, प्रयोजकव्यापारश्च प्रैषः। प्रैषे च लोडादयो विधीयन्त इति णिजर्थ एव लोडर्थः। तथा च कुरु कुर्विति यो ब्रूते स कारयतीत्युच्यते, न प्रतीतिभेदात्। अन्या हि करोतु कुर्यादिति प्रतीतिरन्या च कारयतीति प्रतीतिः। प्रयोजकव्यापारो हि णिजर्थः, ज्ञापकव्यापारस्तु लिङर्थः। प्रवृत्तक्रियाविषयश्च प्रयोजकव्यापारो णिजर्थः, इह तु तद्विपरीतः। तत्र हि कार्यं पश्यतः प्रवर्तनमिह तु प्रवर्त्तितस्य स्वकार्यदर्शनमिति महान् भेदः। तत्र यथा कुर्वन्तं कारयति तथैवेहापि प्रैषः प्रवर्तमानं प्रेरयति नाप्रवर्तमानं स्थावरमिति। न हि वनस्पतिरुच्यते यजस्वेति, स्थावरादेरयोग्यत्वात्। ब्राह्मणादिस्तु यः प्रेर्यते असावप्रवृत्तक्रिय एव, न हि यजमान एव यजेतेति चोद्यते किन्तु अप्रवृत्तक्रिय एवेति, सर्वथा णिजर्थाद्विलक्षणो लिङर्थः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%प्रवृत्तक्रियाविषय% इति। प्रवृत्तक्रियः सम्भावितक्रियो वा यत्र प्रयुज्यते तत्र णिचः प्रयोगः, यत्र तु क्रियासम्बन्धोऽभूतपूर्व एव ज्ञाप्यते अकरकस्यापि कर्तृतासम्बन्धोऽवबोध्यते तत्र लोट्। यदुक्तम्,
द्रव्यमात्रस्य तु प्रैषे पृच्छ्यादेर्लोड् विधीयते।
सक्रियस्य प्रयोगस्तु यदा स विषयो णियः॥ इति।
`पृच्छतु मा भवान्’ इत्यादौ यो लोट् स द्रव्यमात्रस्याकर्तुरपि प्रैषे कर्तृत्वज्ञापने सक्रियस्य प्रवृत्तक्रियस्य सम्भावितक्रियस्य चेत्यर्थः।
%प्रवर्तितस्य स्वकार्यदर्शनमिति।% विधिरपुरुषार्थे न प्रवर्तयति, प्रवर्तनाव्याघातात्, प्रवर्तितश्चेद् विधिना अवश्यं साध्येन फलेन भाव्यमिति।
%न हि यजमान एव,% यागक्रियायां प्रवर्तित एव।
न्यायमञ्जरी
%नियोगे व्युत्पत्त्युपपादनम्%
आह भवत्वयं विलक्षणोऽर्थः, स तु प्रमाणान्तरानवगम्यश्चेत् कथं शब्दैकगोचरे तत्र सम्बन्धव्युत्पत्तिः? उच्यते। शब्दैकगोचरस्तु नियोगो व्युत्पत्तिश्च तत्र सूपपादैव। यो हि यजेत दद्याज्जुहुयादिति लिङादिभ्यो विधिः प्रतीयते, कथमसौ लिङादीनामगम्य इष्येत? व्युत्पत्तिश्चास्य व्यवहारादवकल्पते। गच्छाधीष्वेति शृण्वन् वृद्धश्चेष्टमानो दृश्यते, चेष्टा च स्वात्मनि प्रवर्त्तिका अवगमपूर्विका दृष्टा। प्रत्यक्षदृष्टे चाम्रादौ सुखसाधनतया अन्वयव्यतिरेकाभ्यामवगते तदनुस्मरणात् प्रवर्तमानः कस्मिंश्चिदात्माकूते समुपजाते सति भौतिकं व्यापारमारभते। स चात्मधर्म आत्मेव स्वसंवेद्यः। अहम्प्रत्ययगम्यो ह्यात्मा, नासौ परस्मै दर्शयितुं शक्यते, न च चर्चयितुं शक्यते, एतावता नानुभूयत इति शक्यते वक्तुम्। परोऽपि ह्येनमहम्प्रत्ययेनानुभवत्येव, तथा अयमपि भौतिकव्यापारहेतुरात्माकूतविशेषो न प्रमाणान्तरवेद्यो भवति। न च न वेद्यते तत्संवेदने सति चेष्टा यद्वन्तं दृष्ट्वा तस्यापि तादृक् प्रेरणावगमोऽनुमीयते।
स च शब्दान्तरश्रवणे सत्यदृश्यमानो लिङादिश्रवणे च सति दृश्यमानस्तदर्थ एवेत्यन्वयव्यतिरेकाभ्यामवगम्यते इतीयतीयं व्युत्पत्तिः। तदेतदात्मप्रत्यक्षं लिङादिशब्दश्रवणे सति प्रेरणावगतिर्भवति, प्रथमश्रुताच्च लिङ्गादेरसौ न भवति, न च प्रमाणान्तरेण सोऽरप्थो दर्शयितुं शक्यते। कुर्यादित्यस्यार्थः कुर्यादित्यनेनैव प्रतिपाद्यते, न प्रमाणान्तरेणेत्येवं व्युत्पत्तौ सम्भवन्त्यामपि यैरगृहीतसम्बन्ध एव लिङादिः स्वरूपसामर्थ्येनैव प्रेरक इष्यते, तेऽत्यन्तभीरव इत्युपेक्षणीयाः।
ननु यदि लिङादिव्यतिरेकेण नान्यतो नियोगोऽवगम्यते कथमसौ नियोगशब्दात् प्रतीयते, कथं वा नियोगशब्दस्य नाम्नोऽप्यर्थः प्रमाणान्तरागोचरः स्यात्? अयि साधो! न नियोगो निपूर्वेण युजिना घञन्तेन बोधयितुं शक्यते, व्यवहारमात्रमेतत् स्वरूपमाख्यातुमाश्रीयते। यथा तु यजेतेत्यादिभ्यः शब्देभ्यः सोऽवगम्यते, तथा नान्यत इत्यत एव न प्रमाणान्तरगोचरो धर्म इत्याहुः। लिङ्धर्मो हि नियोगो वाक्यार्थः, स एव च धर्मः स च न प्रमाणान्तरगम्य इति। न च लिङर्थः प्रेरणात्मकोऽयं व्यापारः कार्यमाचष्टे, यो धर्मः स एव च वाक्यार्थो युक्तः। कार्येऽर्थे वेदस्य प्रामाण्यमिति हि मीमांसकाः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%कस्मिंश्चिदात्माकूते% `उपादेयमेतन्मया’ इत्येवंरूपे।
ननु कुर्यादित्यत्र यः प्रतिभाति स नियोग इत्युक्तम्, तत् कोऽसौ प्रतिभाति इति वक्तव्यमित्याशङ्क्याह %कुर्यादित्यस्यार्थ% इति। अनेनैतत् प्रतिपादयति लोके वेदे वा नियोगः शब्दोल्लेखरहितायां प्रतीतौ न प्रथत इति।
%व्यवहारमात्रमेतदिति। गुरोर्नियोगस्त्वया कार्य इत्यादाववश्यव्यवहर्तव्यस्य नियोगस्य केनचिच्छब्देन नियोगादिना सूचनं व्यवहारमात्रम्।
%यथा तु यजेतेत्यादिभ्य% इति। तेभ्यो ह्युद्भवदवस्थः प्रेरणारूपः कार्यरूपो वा नियोगः प्रतीयते, नियोगशब्दात् तु स्वरूपमात्रेण।
%स एव च धर्मः% श्रेयस्करस्य धर्मत्वात्, तदनुष्ठानाच्च श्रेयोऽवाप्तेः।
न्यायमञ्जरी
%नियोगः शाब्दः प्रेरकः%
तस्मात् पुनरपि भाट्टपक्षवद् द्वयमापतति, प्रेरकश्च विधिः कार्यरूपश्चानुष्ठेयोऽर्थ इति। सुखैधितो निरनुसन्धान इवायुष्मानेवं व्यवहरति। न ह्यन्यः प्रेरकोऽन्यश्चानुष्ठेय इत्युक्तम्। नियोग एव प्रेरको नियोग एव चानुष्ठेयः। कथमस्य द्वैरूप्यमन्ये वदन्तीति चेद्, मैवम्, प्रेरकत्वमेव शब्दार्थः, आर्थन्तु कार्यत्वम्, यतो विधिरनुष्ठेयतयावगम्यते, आचार्याज्ञां करोमि, राजाज्ञां करोमीति। किमर्थं तर्हि विषयानुष्ठानमिति चेत्? न ह्याज्ञा घटादिवत् स्वरूपेण कर्तुंशक्या, अपि तु विषयद्वारकं तत्सम्पादनम्। कमण्डुलं बिभृहीत्याचार्येणाज्ञप्तः कमण्डुलं भृत्वा आचार्याज्ञां कृतां मन्यते, सोऽयं नियोग एवानुष्ठेयः।
ननु राजाज्ञया करोमीत्यपि व्यपदेशो दृश्यते स चानुष्ठेयामेवाज्ञां दर्शयति। मैवम्, तत्राप्याज्ञैवानुष्ठेया। प्रेणाभिप्रायेण तृतीयानिर्देश इत्येवं केचित्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%सुखैधितः% सुखेन वृद्धिं प्राप्तोऽकृतगुरूपासनादिक्लेशः।
%प्रेरणाभिप्रायेणेति।% यदा राजाज्ञया प्रेरितः करोमीति विवक्षा, तदा तृतीयाप्रयोगः करणन्तु तस्या एव, तात्पर्यतः पुरुषस्य तत्र प्रवृत्तेः।
न्यायमञ्जरी
%प्रेरकत्वमेव नियोगस्वरूपम्।%
अन्ये तु शाब्दं कार्यत्वं नियोगस्य, प्रेरकत्वन्त्वर्थादित्याचक्षते। अनुष्ठेयता हि तस्य निजं रूपम्, स्वसिद्धये स तु नियोज्यं नियुञ्जानः प्रेरक इत्युच्यते। तदिदं कार्यत्वमपरित्यक्तप्रेरकभावमस्यावगम्यते। प्रेरकत्वञ्चापरित्यक्तकार्यभावमित्यन्यतरदत्र शाब्दं रूपमिति न भाट्टैरिवास्माभिः प्रत्यये गुरुर्भार आरोपितः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%अनुबन्धद्वयावच्छिन्न% इति। अनुबध्यतेऽन्यतोऽवच्छिद्य स्वात्मन्येव व्यवस्थितः प्रतीतिं प्राप्यते येनासौ विषयानुबन्धः; येन वानुष्ठात्रन्तरावच्छेदेन नियतानुष्ठातृकत्वेनावस्थाप्यतेऽसौ विध्यनुबन्धोऽधिकारानुबन्धः।
न्यायमञ्जरी
%विधेः प्रवर्त्तकत्वे न फलापेक्षा%
स चायं नियोगः प्रतीयमानो यजेत स्वर्गकाम इत्यनुबन्धद्वयावच्छिन्नः प्रतीयते। यज्यादिना अस्य विषयानुबन्धो धातुनोच्यते, स्वर्गकाम इत्यधिकारानुबन्धः पदान्तरेणार्प्यते। तत्र च स्वर्गकामस्यैवमधिकारो निर्वहति यदि भावार्थस्य स्वर्गं प्रति साधनत्वमवगम्यते। एवं तर्हि स्वर्गकामेनैवासौ कृतो भवत्येवं स्वर्गकामपदान्वये प्राक्तन एव मार्गोऽनुमन्तव्यः, न पुनः स्वर्गादिफलप्रदर्शनपूर्वकं विधेः प्रवर्त्तकत्वम्, अस्वातन्त्र्यप्रसङ्गात्। न हीदृशं शास्त्रस्य दैन्यं यत् फलं विना पुंसः प्रवर्त्तयितुं न शक्नोति, अन्यथा यावज्जीवं यजेतेत्यादावप्रवर्त्तकं शास्त्रं स्यात्। किं यावज्जीवमित्यादयश्चोदनाः फलशून्या एव? ओमित्युच्यते। न हि विधिः फलमाकाङ्क्षत्यपि तु नियोज्यं विषयम्। कस्य नियोगः, कुत्र नियोग इति त एते उभे अपि आकाङ्क्षे परिपूर्णे तत्र जीवतो नियोगो यागे च नियोग इति। अतः परं फलकल्पनं पुरुषबुद्धिप्रभवं भवति, न शास्त्रीयम्। कामाधिकारे तु नियोज्यतैवान्यथा स्वर्गकामस्य नोपपद्यते इति स्वर्गस्य साध्यत्वमभ्युपगतं न पुनर्विधेः फलार्थत्वात्, अत एव न तत्र वैधी प्रवृत्तिर्लिप्सयैव प्रवृत्तत्वात्। आह च तस्य लिप्सार्थलक्षणेति साध्यसाधनप्रतिपादनपर्यवसितो हि तत्र विधिव्यापारो न प्रयोगपर्यवसित इति।
अत एव श्येनादेरधर्मत्वात् तत्र ह्यभिचरन्निति शत्रा शत्रुं वैदिकेनोपायेन जिघांसुरधिकारी दर्शितः। तस्य न तत्र शास्त्रं प्रवर्त्तकम्, जानात्येवासौ मयैतत्कर्त्तव्यम्, उपायन्तु न वेदेत्येवमुपायमात्रमस्योपदिश्यते, श्येनं कुर्विति न विधिः प्रभवति, जिघांसयैव तत्र प्रवृत्तत्वात्। अतः श्येनादेरधर्मत्वात् तद्व्युदासार्थमर्थपदोपादानम्,`चोदनालक्षणोऽर्थो धर्मः’ इति।
कामाधिकारेष्वितिकर्त्तव्यतांशे शास्त्रीया प्रवृत्तिः। यथोक्तम्, क्रत्वर्थो हि शास्त्रादवगम्यते इति। भावार्थमात्रस्य हि करणत्वमवगतमितिकर्त्तव्यतांशस्तु न करणत्वावगतिवेलायामुपनिपतित इति। तत्र लिप्साया अभावाच्छास्त्रमेव प्रवर्त्तकम्। अत एवाग्नीषोमीयहिंसाया नाधर्मत्वम्, न हिंस्यात् सर्वभूतानीति निषेधः सामान्यशास्त्रम्। सामान्यशास्त्रञ्च विशेषशास्त्रक्रोडीकृतविषयपरिहारेण प्रवर्त्तत इति अग्नीषोमीहयहिंसायाः शास्त्रीयत्वान्न निषेधविधिरनर्थतां बोधयेदिति।
ननु श्येनेऽपि शास्त्रीया प्रवृत्तिः, प्रवर्तत्वं हि विधेः स्वरूपं प्रमाणान्तरविलक्षणम्। नान्वयव्यतिरेकवत् साध्यसाधनप्रतीतिमात्रप्रर्यन्तो हि विधिव्यापारो भवितुमर्हति इति, सर्वत्र विधेः प्रयोक्तृत्वानपायात्। एवमेव चेयं प्रवृत्तिः श्येनेन यजेतेति। उच्यते। प्रवर्त्तितोऽहमिति ज्ञानजननं विधेः प्रेरकत्वं तत् सत्यम्, सर्वत्र तुल्यं करणे श्येन इतिकर्त्तव्यतायामग्नीषोमीये च। बाह्ये तु प्रवृत्तिलक्षणे भौतिके व्यापारे यत्र लिप्सादि प्रवर्तकान्तरमस्ति, तत्र भवन्त्यपि विधेः प्रयोक्तृशक्तिरुदास्ते पशुपुरोडाशप्रयाजवत्, तत्रोदासीने विधौ निषेधशास्त्रमवतरति न हिंस्यादिति। यदि तु सर्वत्र प्रयोक्तृशक्तिरनुदासीना भवेत् तदा ज्योतिष्टोमान्न विशिष्यते श्येनः शास्त्रीयायां प्रवृत्तावग्नीषोमीयमिव निषेधशास्त्रस्यानवकाशात्। ज्योतिष्टोमेऽनुल्लङ्घितनिषेधोऽधिकारी स्वर्गस्यानिषिद्धत्वात्, श्येने तु हिंसायाः प्रतिषिद्धत्वादुत्क्रान्तनिषेधोऽधिकारीति चेत्, मैवम्, अधिकारिदशायामपि भवन्मते विधेः प्रयोक्तृत्वानपायाद् न निषेधशास्त्रमवकाशं लभत इति श्येनेऽपि नावधीरितनिषेधोऽधिकारी स्यात्।
ननु न विधिः फले नियोज्यं प्रेरयति फलं कुर्विति, कर्मणि त्वेनं प्रवर्तयति यजस्वेति। तेनाधिकारिदशायामप्रतिहतो निषेधशास्त्रावकाशः। आयुष्मन्! अस्मत्पक्षमास्थितोऽसि। फले चेन्न प्रवर्त्तयति विधिः पुरुषम्, फलार्थित्वादेवैनमुपाये प्रवर्तमानं तत्रापि न प्रेरयेत्। उपायानभिज्ञस्य तूपायमेव दर्शयेत्। यावदप्राप्तं हि विधेर्विषयः। तदुक्तम्, जानात्येवासौ मयैतत्कर्त्तव्यमुपायन्तु न वेदेति। प्रतीतिरपीयमीदृशी अभिचरन् यजेतेति। यदि त्वशास्त्रीयोपायो न वैरिणां हन्तुमुपायः श्येनेन जहि श्येनस्तवोपाय इत्यर्थः। तदलमतिप्रसङ्गेन। कामाधिकारेषु तावन्न फलाकाङ्क्षी विधिः फलन्त्वधिकारे हेतुरिति स्थितम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%तस्य लिप्सार्थलक्षणेति% सूत्रप्रतीकः। `यस्मिन् प्रीतिः पुरुषस्य लिप्सार्थलक्षणाऽविभक्तत्वात्’ इति सूत्रम्। यस्मिन् कृते पुरुषस्य प्रीतिरुत्पद्यते तस्य लब्धुमिच्छा तत्र प्रवृत्तिपर्यन्ता प्रीतिलक्षणा फलनिबन्धनैव न वैधी। नन्वस्तु तत्र तत्र विषये प्रीतिनिबन्धना लिप्सा, प्रवृत्तिः कथम्, इत्याह `अविभक्तत्वात्’ इति। प्रीत्या पुरुषार्थेन तत्साधनत्वात्, विषयस्याविभक्तत्वाद् अविभागेन व्यवस्थितत्वात् पुरुषार्थतैव। अतः पुरुषार्थनिबन्धनैव तत्रापि प्रवृत्तिरित्यर्थः।
%शत्रुं वैदिकेनोपायेनेति% यथा `शयाना भुञ्जते यवनाः’ इत्यत्र सिद्धं शयनं भुजिक्रियालक्षणत्वेन प्रतिपाद्यते एवं प्रागुत्पन्नाभिचारेच्छाधिकारं प्रति लक्षणत्वेनोपात्ता।
%अतः श्येनादेरधर्मत्वादिति।% अर्थपदे ह्यक्रियमाणे चोदनालक्षणत्वेन श्येनादेरपि धर्मंत्वं प्राप्नोत्यनर्थस्य प्रत्यवायहेतोः, तन्निवृत्यर्थमर्थग्रहणम्।
%क्रत्वर्थो हि शास्त्रादवगम्यते।% नान्यथेति भाष्यम्। क्रतवेऽर्थः क्रत्वर्थः, क्रतूपकारक इतिकर्तव्यताभागः। स शास्त्रादवगम्यते। कर्तव्यत्वेन। ननु यथा फलसाधनस्य करणत्वात् तत्र लिप्सानिबन्धना प्रवृत्तिः, एवमितिकर्तव्यतांशस्यापि करणोपकारद्वारेण फलसाधनत्वामस्तीति तत्र लिप्सातः प्रवृत्तिः किमिति न भवेत्, इत्याशङ्क्याह %इतिकर्तव्यतांशस्त्विति।% “फलसिद्धिमवान्तरीकुर्वन्नियोगं साधयत्यतस्तस्य फलेन सम्बन्धः, नेतिकर्तव्यतायाः’ इत्येके। अन्ये तु `प्रयोगकाले करणस्येति कर्तव्यतापेक्षणम्, न प्रतिपत्तिकाले। अधिकारावस्थायां हि करणस्यैव फलसिद्धावुपायतावगमः, प्रयुज्यमानस्तु शुद्धोऽनुपकृतः फलसिद्धये न प्रभवतीति प्रयोगकाले प्रवृत्तस्येतिकर्तव्यतापेक्षणं न प्रथमतः। फलार्थितया न तत्र करण इव प्रवृत्तिः’ इत्याहुः। %सामान्यशास्त्रञ्चेति% यथा यज्जुह्वति तदाहवनीयः’ इति सामान्यशास्त्रं सर्वहोमाधिकरणत्वेनाहवनीयस्य प्रापकं `पदे जुहोति’ इत्यादि विशेषविधिपरिहारेणावतिष्ठते। तथा `न हिंस्यात्’ हिंसा न कार्येति सामान्यम्, `अग्नीषोमीयपशुहिंसा कार्या’ इत्येतद्व्यतिरेकेण प्रवर्तते।
%पशुपुरोडाशेति।% अग्नीषोमीये पशौ पशुपुरोडाश आम्नातः। `अग्नीषोमीयस्य वपया प्रचर्याग्नोषोमीयमेकादशकपालं पशुपुरोडाशं निर्वपति’ इति। तस्य प्रकृतिवद्भावात् प्राप्तानां प्रयाजादीनामङ्गानां किं पृथक् प्रयोजकत्वमुत पशुप्रयुक्तैरेव प्रयाजादिभिस्तस्याप्युपकार इति? तत्र पृथक् प्रयोक्तृत्वमाशङ्क्य पशुतन्त्रमध्ये पुरोडाशस्य विधानात् पशौ कृतानि तस्याप्युपकुर्वन्त्यतस्तत्र कृतैरेव पशुपुरोडाशयागस्योपकारसिद्धेर्न पृथक् प्रयोजकत्वकल्पनयाः, यथा प्रासादकृतः प्रदीपो राजमार्गेऽप्युपकरोतीति न तत्र पृथक् प्रयुज्यते। %भवन्मते विधेः प्रयोक्तृत्वानपायादिति।% भवच्छब्देन उम्बेकं निर्दिशति। तस्य सर्वावस्थस्य विधेः प्रयोक्तृत्वानपाय इति हि पक्षः।
सत्यम्, अधिकारावस्थायां प्रयोक्तृत्वमनपेतं विषयविषयन्तु तत् न फलविषयमित्यतः फलस्याविधिस्पृष्टत्वात् तत्र निषेधशास्त्रस्य प्रवृत्तेरनर्थत्वमिति %ननु न विधिः फले नियोज्यम्’% इत्यादिनाह। यद्युपाये न प्रवर्तयेत्, तर्ह्यधिकारविधेः को व्यापार इत्याशङ्क्याह %उपायानभिज्ञस्येति। यावदप्राप्तमिति।% यथा नात्मसम्पत्तये विधिर्द्रव्यार्जनं प्रयुङ्क्ते, जीवनप्रयुक्तत्वात् तस्येति। %न फलाकाङ्क्षीति।% नियोज्यविषयसमर्पकपदद्वयादेव निराकाङ्क्षस्य तस्य प्रतीतेः।
न्यायमञ्जरी
%निषेधविधेरपि प्रत्यवायानपेक्षनिवर्तकत्वम्%
प्रतिषेधाधिकारेऽपि प्रत्यवायो न कल्पते।
निषेध्याद् विषयादेव लब्धत्वादधिकारिणः॥
तत्रासौ कल्प्यमानोऽपि नरकादिफलोदयः।
अवैधत्वं प्रपद्येत न ह्याकाङ्क्षेदृशी विधेः॥
विधेरपेक्षे द्वे एव नियोज्यविषयौ प्रति।
तत्पूरणेन तृप्तस्तु न वाञ्छति ततोऽधिकम्॥
नियोज्यस्तावदेतावान् क्रुद्धोऽरिहननोद्यतः।
विषयस्तन्निवृत्तिश्च नियोगो यत्र गम्यते॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%निषेध्याद् विषयादेवेति।% यद्धन्यात् तन्न। हननप्रवृत्तो न हन्यादित्यर्थः।
न्यायमञ्जरी
%निषेधविधर्विषयनिरूपणम्%
नन्वेतावन्न विबुध्यामहे निषेधविधेः को विषय इति? भावार्थाः कर्मशब्दा ये तेभ्यः क्रिया प्रतीयत इति स्थिते नञर्थस्तावत् पूर्वापरीभूतत्वाभावान्न विधेर्विषयः, अनन्विताभिधानाच्च। न हि नञोऽनन्तरं लिङ्विभक्तिः श्रूयते, अपि तु हन्ते। हननमपि न विधेर्विषयः तस्य धर्मत्वप्रसङ्गात्। न प्रयोगस्य वैयर्थ्यप्रसक्तेर्हनने च पुरुषस्य स्वतः प्रवृत्तेर्नञ्विशिष्टोऽपि न हन्त्यर्थोऽस्य विषयः, तयोर्विशेषणविशेष्यभावाभावात्।
युक्तं दध्ना जुहोतीति होमे दध्यनुरक्तता।
हन्तेः स्वरूपनाशात्तु न नञर्थानुरक्तता॥
पुरुषप्रयत्नोऽपि न केवलो विधेर्विषयः, स्वतः सिद्धत्वात्, नापि नञर्थानुरक्तः, हन्तिवत्, तत्रापि नञर्थस्य विशेषणत्वानुपपत्तेः।
अथायमब्राह्मणादिन्यायेन हन्तौ पर्युदस्कते भावार्थान्तरे नियोगः कल्प्यते? न हन्यादिति कोऽर्थः? अन्यत् किमपि कुर्यादिति। तर्हि किं तद्भावान्तरमिति न विचारयितुं शक्यते। यत्किञ्चिदिति चेन्न, तस्य स्वतः सिद्धत्वेन विध्यानर्थक्यात्, अवश्यं जीवन् पुमान् किञ्चित् करोति पठति गच्छति भुङ्क्ते च।
अथ विषयांशं परिहृत्प प्रमाणांशे नञ् निविशते, स हि प्रवर्तमानं पुमांसं रुणद्धि यद् हन्यात् तन्नेति।
तदप्यनुपपन्नम्। अन्विताभिधानेन विधिविभक्तेर्हन्तिनावरुद्धत्वात्। प्रेरणाशक्तिस्वभावो विधिः स्थितः, यस्तु निषेधात्मा नञ् पार्श्वे स्थितस्तत्र विधिः सङ्क्रामति, सङ्क्रान्तावपि नञश्च विधेश्च सम्बन्धे सति विधेः स्वरूपनाशोऽवगम्यते। स्वभावो ह्येष नञो यदयं येन येन सम्बध्यते तस्य तस्याभावं बोधयतीति। अतो विधिसम्बन्धे नञ इष्यमाणे एतावान् वाक्यार्थोऽवतिष्ठते हननविधिर्नास्तीति, ततश्च हननस्य विधित्वञ्च स्यात्।
अत्रोच्यते। दध्ना जुहोतीति होमस्य वचनान्तरचोदितत्वाद् विधिशक्तिरुपपदं सङ्क्रामतीति यथावर्णितम्, एवमिहापि हनने स्वतः प्रवृत्तत्वेन विधिवैफल्यात्, नञश्च श्रूयमाणस्यानर्थक्यप्रसङ्गाद्, विधायिका शक्तिर्नञर्थमेव स्पृशति इति किं नेष्यते?
ननूक्तमत्र भावार्थः कर्मशब्द इति। तत्र दध्यनुरक्तो होम एव विधीयत इति फलतो विधिविहितो भवति न प्रमाणतः। इह तु नञस्तदुपमर्दस्वभावत्वाद् न केनचित् संसर्गो दध्यादेरिव कल्पते। मैवम्। निवृत्तिमेव कुर्वन्नञ्विशेषणं विशेषणीभवति। सेयं नञुपहिते हन्तौ श्रुते हनननिवृत्तिर्गम्यते, यथा सिद्धरूपदध्यनुप्रवेशेऽपि न होमस्य साध्यमानावस्था निवर्त्तते, तथा नञनुविद्वहन्त्यर्थावगतौ न पूर्वापरीभावबुद्धिर्निवर्त्तते। न ह्यब्राह्मणवन्न हन्यादिति सिद्धरूपबुद्धिः। सोऽयं हनननिवृत्तिरूपः। पूर्वापरीभूतोऽर्थो विधिविषयो भविष्यति। अथ वा विभक्त्यर्थेन नञ् सम्भत्स्यते। शुद्धस्य लिङादेरर्थः प्रवर्तको नञुपहितस्य तस्यार्थो निवर्तक इति शब्दशक्तिरेवैषा, कोऽत्र पर्यनुयोज्यत इति।
यत्तु साक्षान्नञोऽनन्तरं विधिविभक्तिर्नोत्पद्यते तत् तस्याधातुत्वात्, धातोः परे तिङादयः प्रत्यया भवन्ति नान्यस्मादिति, योग्यतया तु नञर्थेन सम्बन्धः, न च तत्रायमर्थोऽवतिष्ठते हननविधिर्नास्तीति। किन्तु नञुपहितो विधिरौदास्ये पुरुषं नियुङ्क्ते, तदवच्छेदकश्च हन्तिः, अन्यथा सर्वक्रियौदासीन्यं प्रतीयेतेत्यलम् अतिविमर्देन। निषेधविधेरपि सिद्धोऽनुबन्धद्वययोगः।
एवं नियोगव्यापारे समाप्ते फलकल्पना।
नृबुद्धिप्रभवैव स्यादतः सापेक्षता भवेत्॥
कथं नरो निवर्तेत प्रत्यवायभयाद् विना।
मा निवर्तिष्ट विधिना तावदुक्तं निवर्तनम्॥
प्रवृद्धतररागान्धः प्रत्यवायेऽपि कल्पिते।
न निवर्तत इत्येवं किं विधेरप्रमाणता॥
फलं भवतु मा वा भूत् पुरुषोऽपि प्रवर्तताम्।
मा प्रवर्तिष्ट वा स्वे तु नास्त्यर्थे खण्डना विधेः॥
प्रवर्त्तनावगमजनने हि विधिव्यापार इति असकृदुक्तम्। तत्र तस्य न किञ्चिद् वैकल्यम्।
ननु विधेः फलापेक्षिता नास्ति चेत् किं तर्हि अश्रूयमाणफलेषु विश्वजिदादिषु स्वर्गादिफलं कल्प्यते? उच्यते, अश्रूयमाणत्वादधिकारानुबन्धस्य निरधिकारस्य च विधेर्विधित्वानिर्वाहादधिकारानुबन्धः कल्प्यते। तत्र सर्वान् प्रति अविशिष्टत्वात् स्वर्गकामश्चोदनाशेषभावेन नियोज्यः कल्प्यते। न चेयं पौरुषी कल्पना श्रुत्येकदेशः स इति हि तद्विदः।
तदियमधिकारानुबन्धकल्पना न फलकत्पनेति। सोऽयमनुबन्धद्वया वच्छिन्नो नियोगो वाक्यार्थः।
वाक्यार्थत्वञ्चास्य प्रधानत्वाद् अन्यो हि यज्यादिरर्थोऽवगम्यमानस्तदनुप्रवेशेन प्रतीयते गुणो भवति। नियोगस्तु स्वमहिमाक्षिप्तदृष्टोपकारानेकक्रियाकारकलापोपबृंहितस्वरूपः प्रतीयत इति प्राधान्यमवलम्बते। कार्यञ्चेत् प्रधानमुच्यते नियोग एव कार्यम्। फलञ्चेत् प्रधानमुच्यते तदपि न सिद्धम्, अपि तु साध्यम्। साध्यत्वञ्चास्य नियोगाधीनमिति नियोग एव प्रधानत्वाद् वाक्यार्थः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%नञर्थस्तावदिति।% पूर्वापरीभूतस्य साध्यस्य साधको हि हन्तिर्न नञ्, तस्य स्वतः सिद्धत्वात्, जोवतः प्रयत्नमात्रस्यावश्यम्भावित्वात्।
%प्रमाणांशे नञ् निविशते% निवृत्तिज्ञापकत्वेन।
%अन्विताभिधानेनेति।% प्रकृत्यर्थसमभिव्याहृतस्य विधेरवगमात्। %विधेःस्वरूपनाश इति% `कुर्यात्’ इति हि विधिर्नञा सम्बन्धे च `न कुर्यात्’ इति स्यात्।
%होमस्य वचनान्तरेति।% `अग्निहोत्रं जुहोति’ इत्यनेन वचनेन।
%न प्रमाणत इति।% जुहोतेः परस्याः विधिविभक्तेः श्रवणात्। %विभक्त्यर्थेन नञ् संभत्स्यत इति।% नन्वेवं विधेः स्वरूपनाश इति चोदितम्, नेत्याह %शुद्धस्येति।%
%निरधिकारस्य च विधेरिति।% विधेहि विधित्वं प्रवर्तकत्वं प्रवर्त्यञ्च विना कं प्रवर्तयेदिति। यता चोक्तम् `न ह्यनुद्दिश्य देवदत्तं यज्ञदत्तं वा लिङादयः प्रयुज्यन्ते’ इति। अविभागाच्च शेषस्य सर्वान् प्रत्यविशिष्टत्वात्’ इति सूत्रम्। स फलतया कल्प्यमानः स्वर्ग एव कल्प्यो निरतिशयप्रीतिरूपत्वात् तस्य, तादृश्यास्तु प्रोतेः सर्वैरभ्यर्थ्यमानत्वात्। %चोदनाशेषभावेन% विश्वजिता यजेतेति चोदनाया एकदेशत्वेन %श्रुत्येकदेशः सः% इति सूत्रप्रतीकम्। `अपि वा आम्नानसामर्थ्याच्चोदनार्थेन गम्येतार्थानां ह्यर्थवत्त्वेन वचनानि प्रतीयन्तेऽर्थतो ह्यसमर्थानामानन्तर्येऽप्यसम्बन्धस्तस्माच्छ्रुत्येकदेशः सः’ इति सूत्रम्। अपि वेति पक्षव्यावृत्तिः, अर्थेन प्रयोगविधानेन `विश्वजिता यजेत’ इत्यादिना फलचोदना गम्येत। कुतः? प्रयोगवचनस्य आम्नानसामर्थ्यात्। फलचोदनं फलवचनं विना तस्य आम्नानं निरर्थकं स्यात्। ननु श्रूयमाणस्याभावाद् अध्याहार्यं तन्नेत्याह `अर्थानां प्रयोगवचनानाम् अर्थवत्त्वेन हेतुना व्यवहितान्यपि प्रतीयन्ते सम्बध्यन्ते फलवचनानि। अर्थतो ह्यसमर्थानामानन्तर्येऽप्यसम्बन्धः।
अपि पश्यामि धावन्तं दूरे पातं वनस्पतिम्।
त्वां ब्रवोमि विशालाक्षि याहि रक्ष जरद्गवम्॥ इतिवत्॥’
तस्माच्छ्रुत्येकदेश एव फलवचनाशब्दो व्यवहितश्रुतोऽपीह सम्बध्यते। `वसन्ताय कपिञ्चलान्’ इत्यत्र `आलभेत’ इतिवत्। %तदियमधिकारानुबन्धेति।% प्रेर्यं विना विधेः प्रेरकत्वासिद्धेर्बहिः सिद्धेश्चानुष्ठातारमधिकारिणां विना असम्भवात्, अधिकारिणमेव प्रथमं विधिरपेक्षते, न फलम्, फलं विनापि नित्याधिकारे यावज्जीवादौ विधेराकाङक्षानिवृत्तेर्बहिः सिद्धेर्लाभाच्च।
%तदनुप्रवेशेनेति।% किंविषयं नियोगं कुर्यादिति तद्विषयमवच्छेदकं कुर्वन्। %तदपि न सिद्धमिति% न हि सिद्धं फलमुद्दिश्य कश्चित् प्रवर्तते, यच्चोद्दिश्य प्रवर्तते, तत् प्रधानं साध्यञ्चेत् तर्हि तत्साध्यता नियोगाधीना स्वर्गकामस्य हि नियोगः। स्वर्गस्य हि साध्यतामनापादयन्नननुष्ठेय एव स्यादिति।
न्यायमञ्जरी
%नियोगस्तु चतुर्विधः%
स च प्रतीतिभेदपर्यालोचनया चतुरवस्थ उच्यते। उत्पत्तिविधिरग्निहोत्रं जुहोतीति, अग्निहोत्राख्यकर्मस्वरूपोत्पादव्यतिरेकेणार्थान्तरानवगमात्।
विनियोगविधिः दध्ना जुहोतीति, पयसा जुहोतीति, उत्पत्तिविधितः प्रतिपन्ने भावेऽर्थे तत्र दध्यादिगुणविनियोगावगमात्।
अधिकारविधिः, अग्निहोत्रं जुहुयात् स्वर्गकाम इति, निर्ज्ञाते कर्मणि तत्राधिकृतस्य पुंसस्ततोऽवगमात्।
प्रयोगविधिस्तु क्रमपर्यन्तं प्रयोगे पदार्थानामवगम इति, अयञ्चाधिकारविधेरेव व्यापारविशेष इति तदेवास्योदाहरणम्, अग्निहोत्रं जुहुयात् स्वर्गकाम इति।
क्वचिदेकस्मिन्नेव वाक्ये रूपचतुष्टयं विधेरवगम्यते, न तत्र पृथगुदाहरणमपेक्ष्यते। यथा एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेतेति।
अन्यान्यपि नियोगस्य रूपाणि व्यापारभेदादवगम्यन्ते। स हि भावार्थसिद्ध्यर्थं तत्समर्थमर्थमाक्षिपतीति तत्प्रयोजक उच्यते, यथा माणवकस्थस्याध्ययनस्याचार्यकरणविधिः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%चतुरवस्थ उच्यते।% चतसृष्ववस्थास्वेकतया प्रत्यभिज्ञानात्। यथा ग्रामं गच्छेद् अश्वेन गच्छेद्धनकामो गच्छेत् तस्माद् एवं गच्छेदिति न भिन्ना विधयः प्रतीयन्तेऽपि तु एक एव।
%अधिकारविधेरेव व्यापारविशेष इति।% यत एवं भूतेन यजिनैवमितिकर्तव्यताकेन चैतत् फलं जन्यतेऽतस्तत्फलकामेन अयं मया एवमनुष्ठेय इत्यधिकारविधेरेव परिस्पन्दः। इत्थंरूपः प्रयोगविधिरित्युच्यते।
%एतस्यैव रेवतीष्वति।% एतद्धि अपूर्वं कर्म चोद्यते, वचनान्तरेण तस्याप्रतिपादनात्, अतोऽयमेवोत्पत्तिविधिः। रेवतीषु वारवन्तीयाख्यगुणविधानाच्च विनियोगविधित्वम्, पशुकामपदसम्बन्धाच्चाधिकारविधित्वम्। अधिकारविधित्वाच्च प्रागुक्तप्रयोगविधित्वमिति।
%माणवकस्थस्येति।% अष्टवर्षं ब्राह्मणमुपनयीत’ इत्याचार्यकरणविधिः, आचार्यकरणे आत्मनेपदविधानात्। तत्र च न कटं कुड्यं वा कारयितुं समीपं नीयते माणवकः, अपि त्वध्यापयितुमित्ययमेवाध्यापनविधिर्ज्ञातः। स चाध्यापनसिद्ध्या स्वसिद्धिं पश्यन्नध्यापनमाक्षिपन् येन विनाध्यापनं न सिद्ध्यति तदप्याक्षिपतीति माणवकाध्ययनमविनियुक्तमप्याक्षिपति।
न्यायमञ्जरी
%नियोगस्य प्रकारान्तरम्।%
क्वचिदन्याक्षिप्ते वस्तुनि लब्धे सति तत्राप्रयोजको विधिर्भवति। यथा क्रयनियुक्तैकहायन्या लाभे सति न पादपांसुग्रहणार्थमन्यामेकहायनीमाक्षिपति विधिरिति। प्रकरणपरिपठितपदार्थपटलपरिग्रहश्च ग्राहक इति विधिरुच्यते।
क्वचित् प्रकरणपरिपठितस्यापि तेनागृहीतस्य द्वादशोपसदादेः प्रकरणादुत्कर्षदर्शनात्। अत एव नियोगगर्भो विनियोग इत्याचक्षते।
क्वचिद विनियोजकश्रुत्यादिप्रमाणविरहेऽपि पश्वेकत्वाद्युपादानं शेषीकुर्वन् उपादायक इत्युच्यते। पशुना यजेतेति विभक्त्या हि प्रातिपदिकार्थो विनियुक्तः, तत्स्थमेकत्वम् उक्तमेव, न विनियुक्तम्, एकेनेत्यश्रवणात्, पशुरुपादीयमानो न सङ्ख्यारहितस्तत्र उपादात्तुं शक्यते, श्रुतसङ्ख्यापरित्यागकारणाभावाच्चैक्त्वविशिष्टः पशुरुपादीयत इत्युपादानशेषीकृतमेकत्वम्।
वैकृतस्तु सौर्यादिविधिः प्राकृतमितिकर्त्तव्यताजातमाकर्षंश्चोदक इत्युच्यते।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%क्वचिदन्याक्षिप्ते वस्तुनीति।% ज्योतिष्टोमे अरुणयैकहायन्या सोमं क्रीणातीति श्रतम्। तथा `षट् पदान्यनुनिष्क्रामति सप्तमं पदमभिगृह्णाति। अथ यर्हि हविर्धाने प्रवर्तयेयुस्तर्हि तेनाक्षमुपाञ्ज्यात्’ इति षट्पदानि यदासौ गौः सोमक्रयार्थं नीयमाना अनुनिष्क्रान्ता भवति तदा सप्तमपदात् पांसुं गृह्णीयात्। यर्हि यदा ऋत्विजो हविर्धाने हविर्धानशकटे प्रवर्तयेयुस्तदानेन पांसुना शकटाक्षमञ्जाद् म्रक्षयेदित्य्रथः। तत्र किं क्रयार्थं पदपांसुग्रहणार्थञ्चैकहायन्यानयनमुत क्रयार्थमेवेति संशयः, तत्रोभयार्थतामाशङ्क्य क्रयार्थमेवानयनं स्थापितम्। न हि विशिष्टं देशमनीतया सोमक्रयः कर्तुं शक्यत इति नोयमानायां चावश्यम्भावि सप्तमं पदमिति नान्याक्षेपः। %ग्राहक इति विधिरुच्यत इति%। यद् यत् प्रकरणे पतितं तत् तदविशेषेण `खले कपोत’ न्यायेनात्मोयत्वेन स्वोकरोत्यतश्च `मदीयस्त्वम्’ इत्येनेन रूपेण गृह्णन् ग्राहक इत्युच्यते।
%तेनागृहीतस्य द्वादशोपसदादेरिति।% द्वादशोपसत्ता अहीनस्येति ज्योतिष्टोमे श्रूयते। तत्र यद्यप्येतत् प्रकरणे श्रुतम्, तथापि तिस्र उपसदो भवन्तीति वचनान्तरेणोपसत्त्रयप्राप्त्या निराकाङ्क्षीकृतो न द्वादशोपसत्तां प्रकरणश्रुतामप्यपेक्षते। यदि हि तस्यापेक्षा स्यात् तदा हीनशब्दो द्वादशाहे प्रसिद्धोऽपि न हीयते दक्षिणयेत्यहोन इति कथञ्चिद् ज्योतिष्टोमवाचकत्वेन परिकल्प्य वाक्यसमन्वयः क्रियत इति। %अत एवेति।% नियोगेनागृहोतत्वाद् द्वादशोपसदादेर्नियोगापेक्षाया अभावात् सदपि श्रुत्यादिप्रमाणषट्कमध्यपरिपठितं प्रकरणाख्यं प्रमाणं न विनियोगकल्पनायां क्षमतिति। विस्तरतश्चैतत् प्रथमाह्निके व्याख्यातमिति।
%उपादानं शेषीकुर्वन्निति।% `पशुना यजेत’ इति विनियुक्तस्य पशोरुपादीयमानस्य नियोग एकत्वसङ्ख्यां शेषीकुर्वन्। ननु नियोगः किं करोति? विभक्तिरेव यथा प्रातिपदिकार्थस्य शेषातामाह तथा स्वार्थस्यापि वदिष्यति, नेत्याह %विभक्त्या हीति। एकेनेत्यश्रवणादिति।% यथा पशुनेति पश्वर्थस्य करणत्वं प्रतीयते, न तथैकत्वस्य, एकेनेति निर्देशाभावादित्यर्थः।
%न सङ्ख्यारहितस्तत्रोपादातुं शक्यत इति%। अपरिच्छिन्नस्योपादानासम्भवादवश्यमेको द्वौ बहवो वोपादीयन्त इति।
न्यायमञ्जरी
%नियोगस्य वाक्यार्थत्वे सिद्धान्तः%
तदिदमेकस्यैव भगवतो लिङर्थस्य प्रयोक्तृशक्तिखचितात्मनः प्रचुरव्यापारवैचित्र्यमुपदर्शितमिति। अलमनया महामतिमानसविलासवत्या मीमांसार्थकथया। सोऽयमीदृशो नियोगो वाक्यार्थः।
तस्य द्वादशलक्षण्यां तत्तद्रूपं प्रकाशितम्।
तन्नेह लिख्यतेऽस्माभिर्ग्रन्थगौरवभीरुभिः॥
दिङ्मात्रन्त्वेतदाख्यायि नियोगस्य यथागमम्।
अमुष्मिन्नपि वाक्यार्थे विवदन्ते मनीषिणः॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%तस्य द्वादशलक्षण्यां तत्तद्रूपं प्रकाशितमिति।% किं किं प्रकाशितमित्याकाङ्क्षानिवृत्त्यर्थं दिङ्मात्रमुच्यते। प्रमाणलक्षणे तावत् तस्य नियोगस्य स्वातन्त्र्यप्रतिपत्त्यर्थं वेदस्य नित्यत्वेन प्रामाण्यं प्रतिपादितम्, अर्थवादस्मृत्यादिनामधेयादिद्वारायातमप्रामाण्यं सर्वप्रकारं परिहृतम्। तथा हि नित्यत्वेन प्रमाणाद् वेदाद् योऽवगतो नियोगः, स न लोकिकः `हरीतकीं भक्षयेद् विरेककामः’ इति नियोगवद् विनियोगनिष्ठः, अपि तु स्वतन्त्र एवेति तत्र साधितम्। द्वितीयाध्याये भेदलक्षणे च क्व तस्य प्राधान्यं क्वाप्राधान्यं क्वाभेदः क्व वा भेदः कानि च तस्य भेदकानि प्रमाणानीति चिन्तितम्। तथा ह्याग्नेयोऽष्टाकपालो भवतीत्यादौ प्राधान्यम्। समिधो यजतीत्यादौ त्वप्राधान्यम्। आग्नेयोऽष्टाकपालो भवति, समिधो यजतीत्यादौ च भेदः। आग्नेयोऽष्टाकपालः, व्रीहीनवहन्तीत्यादौ त्वभेदः; उभयत्रै कस्य नियोगस्य साध्यत्वात्। तथा यजेत दद्याज्जुहुयादित्यादौ शब्दान्तरकृतो भेद इत्यादि। तृतीये शेषलक्षणे श्रुत्यादिप्रमाणषट्केन यः पदार्थानां विनियोगः पराङ्गत्वलक्षण प्रतिपादितस्तस्य परस्परान्वयरूपस्वरूपतिरस्कारेण योऽयमत्यन्तं पारार्थ्यलक्षण ऐदमर्थ्येनानुष्ठानपर्यन्तो विशेषस्तत्र नियोगस्यैव व्यापारः, अत एव नियोगगर्भो विनियोगः’ इत्याद्युक्तम्। अतो यो मदीयो ममोपकारी स भवद्भिः श्रुत्यादिभिः प्रमाणैरैदमर्थ्यद्वारेण मयि समर्प्यो नान्य इति तत्र चिन्तितम्। श्रुत्यादिप्रमाणस्वरूपञ्च प्रथमाह्निके दर्शितम्। चतुर्थे तु प्रयुक्तिलक्षणे यत्र श्रुत्यादीनि विनियोजकतां नासादयन्ति, तत्र पश्वेकत्वादौ नियोगस्यैवोपादानिकं विनियोजकत्वं सर्वधर्माणाञ्च क्वचित् पुरुषार्थद्वारेण तस्य प्रयोजकत्वं यथा गोदोहनादेः, क्वचित् क्रत्वर्थत्वेन यथा चमसादेः। एवं सर्वधर्मास्तत्प्रयुक्ता एवेति। यथा ग्राहकाख्यो योऽसौ नियोगस्य व्यापारो येन परिगृहीतान् धर्मान् श्रुत्यादीनि विनियुञ्जत इत्यादि चिन्तितम्। पञ्चमे तु `प्रयोगपर्यन्ते नियोगव्यापारे स्थिते सति पदार्थाः कथमनुष्ठेया बहुत्वात् पदार्थानाम्, एकत्वात् कर्तुर्युगपदनुष्ठानासम्भवाद् अवश्यं क्रम आश्रयितव्यः, तत्र प्रयुक्तिपर्यन्ते नियोगव्यापारे सति क्रमस्यावसरात्। उपादानात्मना व्यापारेण क्रमस्याक्षेपस्तावन्नास्ति, न च क्रमं विना गतिरस्ति। तत्राध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयतीत्यादौ कः क्रम आश्रीयतामिति चिन्तायां प्रयोग आशुभावाद् यस्य कस्यचित् क्रमस्यानियमेनाश्रयणे प्राप्ते श्रुत्यर्थपाठादिप्रमाणषट्कावगम्यमानक्रमपरित्यागे कारणाभावादुपादानात्मकव्यापाराभावेऽप्यवगम्यमानं श्रुत्यादिभिः क्रमं न परित्यजति नियोगः’ इति चिन्तितम्। षष्ठे तु क्रमपर्यन्ते शास्त्रार्थे स्थिते सति कस्तस्यानुष्ठातेति स्थाप्यते। तथा ह्यवगतेऽपि क्रम्पर्यन्ते विषये शास्त्रान्नियोगोऽनुष्ठातारं विना अनवगततुल्य इति स्वर्गकामो यजेतेत्यादौ स्वर्गकामादिपदानि कर्तृतया समन्वयादवच्छिद्याधिकारितया समनुयन्ति नियोगेन स्वरूपसिद्ध्यर्थमात्मन इत्येवं नियोगस्य रूपं चिन्तितम्। अयं तावदुपदेशषट्कः, अतिदेशषट्क इदानीं चिन्त्यते। तत्र सप्तमे सामान्यातिदेशलक्षणे `ये यस्य नियोगस्य प्रकरणे धर्माः श्रुतास्ते तस्यैव, अपूर्वप्रयुक्तत्वाद् धर्माणाम्। अतः `ऐन्द्राग्नमेकादशकपालं निर्वपेद ब्रह्मवर्चसकामः’ इत्यादीनामैन्द्राग्नप्रभृतीनामौपदेशिकी धर्मप्राप्तिर्नास्ति, तत् किं तेषामधर्माः कर्तव्याः? अथाधर्मका एव त इति विचार्योपकारापेक्षी नियोगस्तत्रापि प्रकृतिवद् धर्मानाक्षिपति’ इति नियोगवृत्तं चिन्तितम्। अष्टमे तु विशेषातिदेशे के धर्माः कस्य कर्तव्या इति विचारः। तथाहि तेजस्वितासामान्यादाग्नेयधर्मानाक्षिपति सौर्यचरुनियोगः, न दधिपयआदिधर्मानिति नियोगरूपं चिन्तितं तत्र। नवमे तूहलक्षणे कथं ते धर्माः प्रयोक्तव्याः, किं यथाश्रुता, यथोपकारा वेति तत्रोपकारद्वारेण धर्माणामाक्षेपाद् यथोपकर्तुं शक्नुवन्ति तथा प्रयोज्या, यथा `अग्नये त्वा जुष्टं निर्वपामि’ इति मन्त्रः सूर्याय……न्वयोऽन्यथा न भवतीति चेद् यथा `द्रव्यगुणसंस्कारेषु वादरिः’ इत्येतद्व्याख्यानावसरे क्रियावाक्यार्थपक्षे समन्वय प्रतिपादितस्तथा भविष्यति,
न्यायमञ्जरी
%फलस्यैव प्रवर्तकत्वम्%
लिङादेरवागम्यमानः कार्यरूपः प्रेणात्मा च वाक्यार्थो नियोग इत्युक्तम्। न चासावेवंरूपोऽपि परिदृश्यमानभावनादिव्यतिरिक्तोऽवगम्यते।
क्रियैव तावद् कार्यात्मा प्रेरणात्मा फलार्थिता।
प्रतीयते ततोऽन्यस्तु नियोगो नोभयात्मकः॥
नन्वन्य एव क्रियाकर्तृसम्बन्धात् प्रैष्यप्रैषसम्बन्धो दर्शितः, अयुक्तोऽसौ।
कुर्यादित्यादिशब्देभ्यः क्रियादिव्यतिरेकिणः।
नार्थान्तरस्य संवित्तिः कस्याचित् प्रेरणात्मनः॥
किमिदानीं करोतीति कुर्यादित्यादि च तुल्य एते प्रतिपत्ती? अभिनवमिदं शब्दव्युत्पत्तिमत्त्वम् आयुष्मतः। न ब्रूमो न भिन्ने एते प्रतिपत्ती इति। करोतीति प्रवृत्तक्रिय उच्यते वर्तमानकालावच्छिन्नश्च, किन्त्वसौ प्रैषस्ततोऽवगम्यमानोऽपि प्रेरको न भवति न च कार्य इति ब्रूमः।
ननु प्रेरकत्वेनैवावगम्यमानः कथं प्रेरको न भवेद्, एतदेवास्य प्रैषत्वं यत् प्रेरकत्वम्? सत्यम्। प्रेरकत्वेनैवासौ गम्यते, न त्वसौ तथा भवति, व्यवहार मात्रमेतद्। राजाज्ञां करोमीति कार्यत्वमस्य क्रियामात्रं राजाज्ञां करोमीति।
आज्ञा हि नाम नैवान्यसम्पाद्यत्वेन गम्यते।
नानुष्ठातुरियं बुद्धिराज्ञा सम्पाद्यतामिति॥
एवं हि यस्य कस्यापि प्रवर्तेत स आज्ञया।
न चेह बालोन्मत्तादिवचनाद् यत्नवर्जितात्॥
सत्यपि प्रेरणाज्ञाने प्रवर्तन्ते सचेतसः।
भयं नाशङ्क्यते यस्मात् फलं वापि समीहितम्॥
तथाविधस्य राज्ञोऽपि नाज्ञानुष्ठीयते जनैः।
वर्तमानापदेशेऽपि फलं यत्रावगम्यते॥
तत्र प्रवर्तते लोको किङादिष्वश्रुतेष्वपि।
भवत्यारोग्यसम्पत्तिर्भुञ्जानस्य हरीतकीम्॥
तत्कामो भक्षयेच्चेति को विशेषः प्रवर्त्तने।
अन्वयव्यतिरेकाभ्यां तदेवमनुमन्यते॥
प्रेरकत्वं फलस्यैव न नियोगात्मनः पुनः।
तत्रैतत् स्यात्, लोके भवतु फलार्थित्वात् प्रवर्तनमाराधयिष्यते प्रेरकाशयानुवर्तने वा, तस्या पारम्पर्येण फलहेतुत्वात्। वेदे तु वक्तुरभावात् प्रेरणावगमादेव प्रवृत्तिः। उन्मत्तवाक्यादपि लिङादियुक्तान्न प्रेरणावगमो नास्ति, भवन्नपि फलादर्शनादुपेक्ष्यते उन्मत्त एवं प्रलपतीति। वेदे पुनर्यजेतेत्यत्र प्रेरणावगमात् परित्यागकारणाभावात् तत एव प्रवर्तनम्। प्रवर्तनाभावेऽपि न वेदस्याप्रामाण्यम्, प्रमाणव्यापारस्य तेन निर्वर्तितत्वादित्युक्तम्। उच्यते। वेदेऽपि वक्तास्ति, तदाशयवशेन तत्रापि फलार्थिनां प्रवर्तनमिति सम्भवदपीदमुत्तरं नाचक्ष्महे, कथान्तरप्रसङ्गात्। किन्त्विदं ब्रूमः, प्रेरणावगमादेव प्रवृत्तिसिद्धौ स्वर्गकामपदं बादरिवदन्यथा व्याख्यायताम्। अधिकारानुबन्धाभिधाने पुरुषविशेषणमात्रमेतद् भवतु किं स्वर्गसाध्यत्वकल्पनया? विशेषणत्वमेवान्यथा न निर्वहतीति चेत्? आयातं तर्हि फलस्य साध्यत्वम्। तच्चेत् साध्यत्वेनावगम्यते तस्यैव सामर्थ्यसिद्धं लोकानुगुणमव्यभिचारि च प्रवर्तकत्वमुत्सृज्य न प्रेणावगमस्य तद् वक्तुमर्हसीति।
नियोगादथ निष्पत्तिः फलस्येत्यभिधीयते।
फलं प्रत्यङ्गभूतत्वादवाक्यार्थत्वमापतेत्॥
ननु विध्यर्थो न भावार्थवत् फले करणं येनास्य तदङ्गत्वं स्यात्, आक्षेपकत्वात्तु तस्य फलार्थत्वमुच्यते, प्रयोक्तृत्वं हि तस्य निजं रूपम्। यद्येवं भावार्थ एव साध्यो भवतु विध्यर्थस्य तु किमनुष्ठेयत्वमुच्यते, सोऽपि भावार्थसिद्ध्या सम्पद्यते, कृतो मया स्वामिनियोग इति व्यवहारादिति चेत्।
भावार्था तर्हि निष्पत्तिर्नियोगस्य फलस्य च।
इत्येकत्र पदग्रामे वाक्यार्थद्वयमापतेत्॥
किञ्चान्विताभिधानेन विषयत्वावधारणात्।
नियोगस्यैव भावार्थनिष्पाद्यत्वं प्रतीयते॥
स तु भावार्थतः सिद्धः फलाय यदि कल्प्यते।
परार्थत्वादवाक्यार्थो भवेदित्युपवर्णितम्॥
भावार्थस्तु द्वयं कुर्याद् युगपद् वा क्रमेण वा।
युगपन्नास्य सामर्थ्यं समत्वञ्च द्वयोर्भवेत्॥
नियोगश्च शब्दैकगोचरत्वान्मा दर्शि, फलन्तु स्वर्गपश्वादि तेन सह निष्पाद्यमानं किमिति न गृह्यते, क्रमपक्षे पूर्वं वा नियोगः पश्चात् फलं पूर्वं वा फल पश्चाद् वा नियोगः सिद्ध्येदिति। यदि पूर्व नियोगस्तदा तद्विषयाया लिप्साया अनुपपत्तेः करणांशेऽपि धीप्रवृत्तिः स्यात्।
यथा नियोगनिष्पत्तिः प्रयाजादिकृतेन तु।
तत्र प्रवृत्तिः शास्त्रीया भावार्थेऽपि तथा भवेत्॥
इष्यत इति चेत्,
नन्वेवं तस्य लिप्सार्थलक्षणेत्यभ्यधायि यत्।
श्येनादीनामधर्मत्वं वर्णितं तद् विरुध्यते॥
अथ पूर्वं फलसिद्धिस्ततो नियोगसिद्धिस्तर्हि फलस्य तदानीं दर्शनं भवेत्, सिद्धत्वात्।
न च भावार्थवेलायां पुत्रपश्वादि दृश्यते।
अदृश्यमानमप्येतत् सिद्धमित्यतिविस्मयः॥
अतश्च यत् कैश्चिदुच्यते स्वर्गसिद्धिमवान्तरव्यापारीकृत्य नियोगमनेन भावार्थः सम्पादयतीति तदप्यपास्तम्, अवान्तरस्य व्यापारस्य ज्वलनादेरिव प्रधानव्यापारात् पूर्वं दर्शनप्रसङ्गादिति। अथोच्यते स्वर्गकामस्य स्वर्गं साधयितुमुद्यच्छतो यागेन योगः सम्पाद्यः, श्रूयते, स च चेत् सम्पन्नः शब्दवृत्तेन फलमपि सम्पन्नमेव। आनुभाविकी तु स्वर्गसिद्धिः कालान्तरे भविष्यतीति एतदयुक्तम्, सिद्धिद्वयानुपलम्भात्। न ह्योका शाब्दी सिद्धिरन्या चानुभाविकी नामेति। कालान्तरे चानुभाविकी सिद्धिः कुतस्त्येति चिन्त्यम्।
कालान्तरे च भावार्थः क्षणिकत्वान्न विद्यते।
शक्यादिरूपञ्चापूर्वं न भवद्भिरुपेयते॥
भवन्तो ह्यपूर्वशब्देन धर्मशब्देन च नियोगमेवापचरन्ति। न च नियोगः शक्तिवद् आत्मसंस्कारवद् वा कालान्तरस्थायी भवति। स हि प्रेरणात्मकः कार्यरूपो वा, नोभयथापि स्थैर्यमवलम्बते, तत्रैतत् स्याद् नियोगसिद्धिराक्षिप्तफलसिद्धिर्भवति विषयाद्यनुबन्धावच्छिन्नो ह्यसावेवानुष्ठेयः। तत्र यथा तेन तेन कारकचक्रेण क्रियाकलापेन विना सम्पत्तिमलभमानः तत्तदाक्षिपति तथाधिकारानुबन्धवन्ध्योऽपि नासौ सम्पत्तिमधिगच्छतीति तमप्याक्षिपति। यश्चायमधिकारानुबन्धः स एवायं फलाक्षेपः, न तु विधेः फलापेक्षितेत्युक्तम्। एतदयुक्तम्।
यो हि येन विना कामं न सिद्ध्येत् स तमाक्षिपेत्।
नियोज्यमात्राक्षेपे तु नियोगो न फलात्मकः॥
नियोज्यश्चाण्डालस्पर्शनेनेव स्वर्गकामनोत्पादमात्रेण नियोज्यतां प्रतिपन्न इति कथं नियोज्याक्षेप एव फलाक्षेपः?
ननु च स्वर्गकामोऽत्र नियोज्यो नान्यथा भवेत्।
यदि स्वर्गस्य सम्पत्तिं नाधिगच्छेत् स्वकर्मणः॥
नैतदेवम्।
नरेच्छामात्रमेवेदं न शब्दस्त्वियति क्षमः।
नियोज्यः स्वर्गकामो हि भवेज्जीवनवानिव॥
ननु लोके काम्यमानस्य साध्यत्वं दृष्टं हरीतकीं भक्षयेदारोग्यकामस्तेन वेदेऽपि यजेत स्वर्गकाम इति स्वर्गस्य साध्यत्वमवभोत्स्यामहे। साधो! लोकेऽपि कथमेतदवगतम्, नियोज्यसमर्पकपदवाच्यपर्यालोचनेन विधिवृत्तपरीक्षया वा।
पदार्थस्तावदेतावानेवङ्कामो ह्यसाविति।
इदन्तु सिद्ध्यते तस्मादिति तस्य न गोचरः॥
विधेरेष स्वभावश्चेदायुष्मन्! साधु बुध्यसे।
भाट्टैः किमपराद्धं तैर्नित्येऽपि फलवादिभिः॥
अधिकार्यनुपादेयविशेषणविशेषितः।
जीवन् वा स्वर्गकामो वा समानः काम्यनित्ययोः॥
विधिवीर्यस्वभावस्तु कृमेरपि तथाविधः।
सप्रत्ययप्रेरकतां विधिर्नोपैति निष्फलः॥
ननु कामाधिकारे स्वर्गः श्रूयते नित्याधिकारे त्वसौ न श्रूयते, अश्रूयमाणः कस्यानुरोधेन कल्प्यते? विधेरेवेति ब्रूमः। स्वर्गेन श्रुतेनापि किं करिष्यति यद्यसौ विधिना नापेक्ष्यते, घृतकुल्या अस्य भवन्तीत्यादिव दश्रुतोऽपिचासौ विधिनाकृष्यत एव। तस्माद् विधिरत्र प्रमाणां न श्रवणाश्रवणे इति काम्यवन्नित्येऽपि फलमभ्युपगन्तव्यम्, न वा क्वचिदपीति।
प्रतिषेधाधिकारेऽपि विधिवृत्तपरीक्षया।
एवं नरकपातादिफलयोगो न दुर्भणः॥
येन हि दुर्विषहक्लेशद्वेषकलुषितमनासा ब्राह्मणहननं सुखसाधनमिति कर्त्तव्यमिति गृहीतम्, निरर्गलरागरसिकेन सुरापानं सुखसाधनमिति गृहीतम्, स ततो विधिना वार्यते यदि तदसुखसाधनमिति ज्ञाप्यते। तस्मान्नित्येषु प्रत्यवायपरिहार इव उपात्तदुरितक्षय एव वा प्रतिषिध्यमानेषु कर्मसु नरकपातः फलमित्यभ्युपगमनीयम्। इतरथा ह्यर्थानर्थविवेको न सिद्ध्यति।
एवञ्च ब्रह्महत्यादेरपि नैवास्त्यधर्मता।
किं पुनः श्येनवज्रादेरित्यर्थग्रहणं वृथा॥
करणांशोऽपि लिप्सातः प्रवृत्तिर्युद्युपेयते।
इति कर्त्तव्यतांशे तु शास्त्राद् यदि तदप्यसत्॥
न हि तत्करणं शुद्धं स्वफलायोपकल्पते।
सेतिकर्त्तव्यताकं हि करणं करणं विदुः॥
अवान्तरविभाग एवैष करणेतिकर्त्तव्यतालक्षणः, सकलाङ्गोपवृंहितस्वरूपस्तु भावार्थः काम्यमानोपायतां प्रतिपद्यते नैकेनाप्यंशेन न्यूनः। अत एव काम्यानां कर्मणां सर्वाङ्गोपसंहारेण प्रयोगमिच्छन्ति। तस्मात् करणवदितिकर्तव्यतायामपि लिप्सात एव प्रवृत्तिः स्यात्।
उभयत्रापि लिप्सातः सति चैवं प्रवर्तते।
अग्नीषोमीयहिंसादेः श्येनादिवदधर्मता॥
यदप्युक्तं कामाधिकारेषु काम्यमानभावार्थयोरुपायोपेयभावमात्रप्रतिपादनपर्यवसितो विधिव्यापार इति तदपि न सम्यक्, विधिपुरुषयोर्हि प्रेर्यप्रेरकलक्षणः सम्बन्धः। तत्र यागादयो विषयत्वेन प्रतीयन्ते नेष्यमाणोपायत्वेन। साध्यसाधनमात्रप्रतिपादनपर्यवसितव्यापारस्तु विधिर्विनियोगपर एव स्यात् ततश्चाप्रवृत्तप्रवर्तकत्वं नाम निजं रूपं जह्यात्।
विधेश्चतुरवस्थत्वं फलतः किल कथ्यते।
प्रेरकत्वञ्च तद्रूपं सर्वावस्थानुगामि यत्॥
कार्यात्मतापि विध्यर्थे प्रेरणाज्ञप्तिपूर्विका।
प्रेर्येणैव सता पुंसा तत् कार्यमवधार्यते॥
लिङादिश्रुतितश्चादौ प्रेणैव प्रतीयते।
साध्यसाधनसम्बन्धबुद्धिस्तद्बुद्धिपूर्विका॥
नन्वेवं काम्येषु कर्मसु विधितः प्रवृत्ताविष्यमाणायामप्रवर्तमानः प्रत्यवेयाद् विध्यतिक्रमात्? मैवम्। स्वर्गं संसिषाधयिषोस्तत्राधिकारादन्यस्त्वनाधिकृत एव क्षत्रियादिरिव वैश्यस्तोमे। नासावकुर्वन् प्रत्यवायमर्हति, स्वर्गार्थी तु विधितः प्रवर्तत एव, लिप्सया तु करणांशे प्रवृत्तिरिष्यमाणा क्रत्वर्थमितिकर्त्तव्यतांशमपि सैव स्पृशेत्। क्रतूपकारकामो हि तत्र प्रवर्तते इत्येवं सर्वत्र विधिरुत्सीदेदेवेत्यलं प्रसङ्गेन।
अपि च
प्रमाणान्तरसम्पर्कविकले भवतः कथम्।
नियोगात्मनि वाक्यार्थे व्युत्पत्तिर्व्यवहारतः॥
ननूक्तमाकूतविशेषपूर्विकां चेष्टामात्मनिष्ठां दृष्ट्वा परत्रापि तथानुमानमित्ययुक्तमिदम्, स्वात्मन्यपि प्रेरणावगमनिमित्ताभावात्। न ह्यात्मसंविदिव स्वप्रकाशा प्रेरणा। संवित्स्वप्रकाशेति चेत्? तदुत्पादे तर्हि निमित्तं मृग्यम्। न तावच्छब्दस्तदानीं व्युत्पत्त्यभावात्, स्वात्मनि प्रेरणावगमपूर्विकां हि चेष्टामुपलब्धवतस्ते परत्र चेष्टादर्शनात् तदनुमानं सेत्स्यति, तन्निमित्तं लिङादिशब्द इति भोत्स्यते, स पुनर्व्युत्पत्तिकाले स्वात्मन्येव प्रेरणावगमश्चिन्त्यो वर्त्तते, प्रमाणान्तरात्तु तदवगम इति चेद्, उत्तिष्ठासिद्धं शब्दैकगोचरत्वम्।
या चेयं पूर्वावधारितसुखसाधनभावे कपित्थादौ स्वात्मनि प्रवृत्तिरुपलब्धा तत्र प्रेरकत्वेन फलार्थिता निर्ज्ञाता, नान्या काचित् प्रेरणा। तदुक्तं `स्मरणादभिलाषेण व्यवहारः प्रवर्तते’ इति। फलविषया हीच्छा तत्र स्वसंवेद्या।
अतश्च प्रेरकाज्ञानं शब्दादपि परस्य यत्।
कल्प्यते कल्प्यतां तत्र प्रेरिका सैव सुन्दरी॥
चपेटापरिहाराय मोदकप्राप्तयेऽपि वा।
प्रवर्तते वटुर्नासौ जुहुधीति नियोगतः॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
तदाह %अन्यथा व्याख्यायतामिति% नन्वधिकारिपदमेतत् कथमन्यथा व्याख्याने नियोगस्याधिकारानुबन्धापेक्षिणो निर्वाह इत्याह %अधिकारानुबन्धाभिधान% इति। निर्विशेषणः पुरुषोऽधिकारी न भवति। प्रागुक्तनीत्या तु सर्वर्गेच्छा कथमपि पुरुषं विशेक्ष्यति इति भवति स्वर्गस्यफलत्वेऽप्यधिकारानुबन्धलाभ इति।
%आक्षेपकत्वात् तु तस्येति।% यः स्वर्गकामः स कथं स्वर्गसिद्धिमपश्यन् प्रवर्तेतेति नियोगः फलमाक्षिपति। कुत एतल्लभ्यत इति चेत् तदाह %प्रयोक्तृत्वं हि तस्येति% कार्यत्वाद्ध्यसो स्वात्मनः कार्यतानिर्वाहाय सर्वं प्रयुङ्क्त इति भावः। %यद्येवं भावार्थ एव साध्य% इति। तस्यैव सिद्ध्या फलसिद्धेः।
%किञ्च, अन्विताभिधानेनेति।% प्रकृत्यर्थानुरक्तस्य सर्वदा पदात् प्रतीतेः, निर्विषयस्य च प्रतीतिवदनुष्ठानासिद्धेरतो विषय एव `यत एतद्विषयो नियोगोऽतोऽहममुं नियोगमेतेन करणभूतेन साधयामि’ इति तं प्रति करणीभवतीति तस्यै भावार्थनिष्पाद्यता। %समत्वञ्च द्वयोर्भवेदिति।% समत्वे चैकस्मिन् वाक्यार्थे गुणप्रधानाभावादनन्वयः।
%नियोगश्च शब्दैकगोचरत्वान्मा दर्शीति।% यदुक्तं कुर्यादित्यस्यार्थः कुर्यादित्यनेनैव शब्देन प्रतिपाद्य इति। %तद्विषयाया लिप्साया अनुपपत्तेरिति।% तद्विषयायाः भावार्थविषयायाः। पुरुषार्थसाधने हि लिप्सातः प्रवृत्तिर्भवति। नियोगस्य चापुरुषार्थत्वात् तत्साधनमपुरुषार्थसाधनम्।
%श्येनादीनामधर्मत्वमिति।% एवं हि श्येनादीनामपि नियोगसाधनत्वादपुरुषार्थसाधनत्वेन न लिप्सातः प्रवृत्तिः स्यात्।
%सिद्धमित्यतिविस्मय% इति। शाब्दसिद्ध्यभिप्रयोयेणोक्तम्।
%शब्दवृत्तेन फलमपीति।% यथा कस्यचिदमात्यस्य `राज्ञासौ ते ग्रामो दत्तः’ इति यदैवाभिहितं तदैव तस्य साध्यसिद्ध्या असौ ग्रामः सिद्धः, कालान्तरे तु गत्वा स्वीकारादिनानुभाविकी सिद्धिर्भाविनीति।
%स हि प्रेरणात्मक% इति। यदैव हि प्रेरितोऽहुमिति प्रतिपत्तिरुपजायते तदैव तस्य सत्त्वम्, यदा वा साध्यमेतदिति तद्विषया प्रवृत्तिस्तदा तस्य साध्यतया सत्त्वम्।
%नियोज्यश्चाण्डालस्पर्शनेनेवेत्यनेन% एकादशाद्यपूर्वपक्षोक्तं निमित्तपरत्वं स्वर्गकामादिपदानां प्रदर्शयति। यथेच्छतोऽनिच्छतो वा चाण्डालस्पर्शे जाते स्नानेऽधिकारस्तथा स्वर्गं प्रति य इच्छां करोति तस्य यागेऽधिकार इति।
%ननु च स्वर्गकामोऽत्रेति।% अनेन स्वर्गस्य प्रीतिरूपत्वात्, प्रोतेश्च भाव्यत्वेनैवान्वयो युक्त इति पूर्वं स्थापितं तदेव सूचितम्, चाण्डालस्पर्शे स्नायादित्यत्रेच्छा न श्रुता, इह तु सा श्रुता, अतोऽत्र साध्यत्वेनैवान्वयो युक्त इति यावत्।
%भवेज्जीवनवानिव।% असाध्येऽपि स्वविशेषणे।
%नित्येऽपि फलवादिभिरिति।% प्रत्यवायपरिहारं ये फलमिच्छन्ति।
%घृतकुल्या अस्य भवन्तीत्यादिवदिति। यथा `स्वाध्यायोऽध्येतव्यः’ इत्यस्य दृष्टेनार्थावबोधलक्षणेन फलेन फलवत्त्वाद् विधेः `यदृचोऽधीते घृतकुल्या भवन्ति’ इत्येवमादोनामर्थवादमात्रतयैवान्वयः, न पुनः फलतया विधिस्तान्यपेक्षते। %अश्रुतोऽपि चासाववबोधादिः%।
%उपात्तदुरितक्षय एवेति।% प्रत्यवायस्य परिहारोऽनुत्पत्तिः प्रागभावस्तस्य नित्यत्वात् साध्यत्वानुपपत्तिः, अत उपात्तदुरितक्षयो नित्यानां फलमिति केचित्। अन्ये तूभयमेव फलमिति। अपरे तु येषामकरणे प्रत्यवायः श्रूयते तेषां करणात् प्रत्यवायपरिहारः, येषान्त्वकरणात् प्रत्यवायश्रुतिर्नास्ति तेषां करणादुपात्तदुरितक्षयः फलमित्याहुः। उपात्तस्य सञ्चितस्य दुरितस्य क्षयः प्रध्वंसः।
%इतरथा हीति% ब्रह्यहत्यादेरनिष्टसाधनत्वानभ्युपगमेन। कोऽर्थः? योऽभ्युदयाय ज्योतिष्टोमादिः, कोऽनर्थ? यः प्रत्यवायाय श्पेनो वज्र इषुरित्येवमादिः’ इति %योऽर्थानर्थविवेकः।
%ब्रह्महत्यादेः% साक्षाद्धिंसारूपस्य। %श्येनवज्रादेः% फलद्वारेण, न साक्षात्।
%अत एव काम्यानां कर्मणामिति।% यत एव सकलाङ्गोपबृंहितस्वरूपो भावार्थः काम्यमानोपायतां प्रतिपद्यते सर्वेषामड्गानामुपसंहारेणानुष्ठानसम्पत्त्या॥
%विनियोगपर एव स्यादिति।% विनियोग ऐदमर्थ्यम्, यज्ञात् स्वर्गो भवती त्यादि।
%फलतः किल कथ्यत% इति। न साक्षात् प्रेरकत्वयोगेन त्वयापि। तत् सर्वत्र वैध्येव प्रवृत्तिरिति तात्पर्यम्।
%स्वर्गार्थीं तु विधितः प्रवर्तत एव% अप्रवर्तमानो न स्वर्गार्थी स्यादिति भावः।
%नान्या काचित् प्रेरणाकूतविशेषणः% `प्रवर्तितव्यं मयाऽत्र’ इत्यादिकः।
%स्मरणादभिलाषेणेत्यस्य% पूर्वमर्धम् `तद्दृष्टावेव दृष्टेषु संवित्सामर्थ्यभाविनः’ इति।
न्यायमञ्जरी
%फलस्य प्रवृत्तिजनकतायां दोषोद्धारः%
कथं तर्ह्येवमाचष्टे आचार्यचोदितोऽहं जुहोमीति, अस्त्वयं व्यपदेशः, आचार्यचोदना तु न तत्र कारणम्, अपि तु हिताहितप्राप्तिपरिहारार्थित्वमेवेत्यतः फलं प्रवर्तकं युक्तम्, अनुभवसाक्षिकत्वात्।
येऽप्याहुः प्रयोक्त्राशयस्य प्रवर्तकत्वं यतोऽननुविधेयवचनान्न प्रवर्तमानः कश्चिद् दृश्यते, अनुविधेयस्य पुंसः किञ्चिदब्रुवतोऽपि भ्रूभङ्गादिनाशयमवगम्य प्रवर्तत इति।
एतदप्ययुक्तम्। यतः प्रयोक्त्राशयानुमानेन स्वार्थसम्भावनया लोकः प्रतर्तते, न पुनः प्रयोक्तैव प्रीयतामिति तत्प्रीतिरपि स्वप्रीतिहेतुत्वेनार्थ्यते न तत्प्रीतित्वेन। बुद्धोऽपि हि नाम सकलसत्त्वहितप्रतिपन्नः परार्थं स्वप्रयोजनायैव सम्पादयति परार्थसम्पादनद्वारकन्तु तत्। तस्मात् स्वप्रीतिरेव प्रवर्तिका। प्रयोक्त्राशयस्य च प्रवर्तकत्वे वेदार्थप्रयोक्त्राशयानवधारणाद् अप्रवृत्तिरेव प्राप्नोति। तस्मात् फलमेव प्रवर्तकम्।
यत्पुनः फलस्य प्रेरकत्वे दूषणमभ्यधायि सिद्धासिद्धविकल्पानुपपत्तेरिति, तदप्ययुक्तम्, इच्छाविषयीकृतस्य प्रवर्तकत्वाभ्युपगमात्। असिद्धे कथं नेति चेत्, असिद्धत्वादेव। इदानीञ्च तदसिद्धं नैकान्तासिद्धस्वरूपमेव खपुष्पवत्।
सुखे दुः खनिवृत्तौ वा पुंसां भवति कामना।
न पुनर्व्योमपुष्पादि कश्चित् कामयते नरः॥
येऽपि रागादेः प्रवर्तकत्वमभ्युपगतवन्तस्तैरपि कामनाविषयीकृतं फलमेव प्रवर्तकमभ्युपगतम्। इच्छाविशेषा एव हि रागादयः।
यदपि श्रेयः साधकं प्रवर्तकमुच्यते तदपि न चारु, सत्यामपि श्रेयः—साधनतायामनर्थित्वेन प्रवृत्त्यभावात्।
नन्वर्थिनोऽपि नानियतविषया प्रवृत्तिरपि तु निर्ज्ञातश्रेयः साधनभावेऽर्थे। तस्मात् तत्साधनावगमः प्रवर्तकः? सत्यम्। द्वये सत्यपीच्छैव प्रवर्तिका वक्तुं युक्ता, तस्यां प्रवृत्तिदर्शनात्। प्रवृत्तिर्हि नाम प्रयत्नः, प्रयत्नश्चेच्छाकार्यमिति काणादाः। विषयनियमे तु श्रेयः साधनत्वं कारणं न प्रवृत्त्युत्पादे। किञ्च भावनावगतं श्रेयः साधनत्वं प्रवर्तकमिष्यते तैः तच्च न पृथगभिधातुं युक्तम्, भावनायाः त्र्यंशत्वेन तत्स्वरूपावगमसमये एतदंशयोः स्वर्गयागयोः साध्यसाधनभावावगतिसिद्धेः। न चांशद्वयावच्छिन्नस्य व्यापारस्य श्रेयः साधनत्वं रूपं वक्तुमुचितम्, अनिष्पन्नस्य तस्य ताद्रूप्याभावात्। न ह्यनिष्पन्ने गवि तदेकदेशे सास्नादौ गोत्वरूपं सामान्यं निविशते, न चांशत्रयपूरणमन्तरेण भावनाख्यव्यापारनिष्पत्तिरिति।
यत्तु लिङादेः शब्दस्य तद्व्यापारस्य वा प्रेरकत्वमुच्यते तत् प्रागेव प्रतिक्षिप्तम्।
विधिरपि स्वमहिम्ना न प्रेरकः साध्यसाधनसम्बन्धावबोधपुरः सरे तु तस्य प्रवर्तकत्वे फलस्यैव प्रवर्तकत्वमिदमनक्षरमभिहितं भवति।
यस्त्वाह प्रेरकत्वञ्चेत् फलं दर्शयतो विधेः।
प्रत्यक्षादिसमानत्वात् स्वातन्त्र्यं तस्य हीयते॥
स वाच्यः फलशून्यत्वे सुतरामस्वतन्त्रता।
यद्रिक्तमर्थं मूढोऽपि न कश्चिदनुतिष्ठति॥
को हि नाम निष्फलमर्थं प्रेक्षावाननुतिष्ठेत्। ननु फलेऽपि दर्शिते केचित् तत्र न प्रवर्तन्त एव। किञ्चातः, कामं मा प्रवर्त्तिषत, न हि कारको विधिरपि तु ज्ञापक इत्युक्तम्। ननु फलमप्रदर्शयन्नपि ज्ञापयेत्? न ज्ञापयितुमुत्सहते। प्रेक्षावान् हि ज्ञाप्यते। न न च फलं विनासौ तथा ज्ञापितो भवति, इत्यलं बहुभाषितया।
फलस्यैवेष्यमाणस्य पश्यन् प्रेरकतामतः।
यमर्थमधिकृत्येति सूत्रं व्यधित सूत्रकृत्॥
तस्मात् पुंसः प्रवृत्तौ प्रभवति न विधिर्नापि शब्दो लिङादि–
र्व्यापारोऽप्येतदीयो न हि पटुरभिधा भावनानामधेया।
न श्रेयः साधनत्वं विधिविषयगतं नापि रागादिरेवं
तेनाख्यत् काम्यमानं फलममलमतिः प्रेरकं सूत्रकारः॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%अननुविधेयवचनादिति% यस्मिन्नाराधिते कार्यं किञ्चित् सिध्यति सोऽनुविधेयः।
%वेदार्थप्रयोक्त्राशयानवधारणादिति% नित्यत्वे तदाशयाभावादनवधारणम्, अनित्यत्वे तु ज्योतिष्टोमादिकर्मानुष्ठानं लोकः कुरुतामित्येवंरूपस्तस्याशयः। यदि न कुरुते तदसावाज्ञाभङ्गात् स्वामिवत् कुप्यतीति नावधार्यते।
%नच्च न पृथगभिधातुं युक्तमिति।% भावनैवावगम्यमाना स्वसामर्थ्यवशाद् यागस्य श्रेयः साधनत्वं विना नावगम्यतेऽतो भावनाशब्दादंशत्रयात्मकतत्स्वरूपवत् फलसाधनत्वमप्यंशगतं समधिगतमेवेत्यव्यभिचरिततद्रूपत्वाद् भावनायाः पृथक्शब्दान्तरेणाभिधानं तस्यायुक्तम्, गतार्थत्वात्। न चांशत्रयात्मिकायास्तस्या एकांशगतेन श्रेयः साधनत्वेन व्यपदेशो युक्तः। यदि हि तदपेक्षया श्रेयः साधनत्वम्, तत्फलापेक्षया न श्रेयः साधनत्वम्, अपि तस्य फलस्य स्वयं श्रेयोरूपत्वेन श्रेयः साधनत्वाभावादिति। कथ्यमानो हि पृथग्धर्मः स वक्तुं युक्तो योंऽशत्रयसाधारणः। न च श्रेयः साधनत्वमंशत्रयसाधारणमिति भावः। तैरिति माण्डनान् निर्दिशति। %न चांशद्वयावच्छिन्नस्येति।% अंशद्वयं करणेतिकर्तव्याताख्यम्। %अनिष्पन्नस्य% फलांशापेक्षया अपरिपूर्णस्य। %ताद्रूप्येति% ताद्रूप्यं श्रेयः साधनत्वम्। श्रेयः साधनत्वं हि भावनायाः सामान्यम्, न भावनैकदेशस्य। अन्यथा हि `भावनायाः श्रेयः साधनत्वम्’ इति व्यपदेशो न स्यात्।
%प्रत्यक्षादिसमानत्वादिति।% यथा प्रत्यक्षं वस्तु दर्शयति, केवलं यस्तु तत्रार्थी स प्रवर्तते। एवं विधिः फलं प्रदर्शयति, फलार्थिनस्तु तत्र प्रवृत्तिरिति।
न्यायमञ्जरी
%वाक्यार्थनिरूपणे प्रकरणसङ्गतिचिन्ता%
आह,
परपक्षं प्रतिक्षिप्य प्रेरकं कथितं फलम्।
एवं परमतद्विष्टैर्वाक्यार्थः स्वयमुच्यताम्॥
उच्यते। `यमर्थमधिकृत्य पुरुषः प्रवर्तते तत् प्रयोजनम्’ इति वदता सूत्रकृता फलं प्रवर्तकमिति प्रदर्शितम्। `प्रमाणेनायं खलु ज्ञाता अर्थमुपलभ्य तमीप्सति जिहासति वा। तस्येप्साजिहासाप्रयुक्तस्य समीहा प्रवृत्तिरुच्यते। सामर्थ्यं पुनरस्याः फलेनाभिसम्बन्धः’ इति च ब्रुवाणो भाष्यकारोऽपि फलेप्सां प्रवर्तिकां प्रादीदृशदिति तदीयां सरणिमनुसरद्भिरस्माभिरपि तथैव तत् कथितम्।
वाक्यार्थस्तु न क्वचिदपि सूत्रकारभाष्यकाराभ्यां सूचित इति चेत्, पृथक्प्रस्थाना इमा विद्याः, प्रमाणविद्या चेयमान्वीक्षिकी न वाक्यार्थविद्येति।
यद्येवं पदार्थोऽपि कस्मादिह दर्शितः `व्यक्त्याकृतिजातयः पदार्थः’ इति? स्थाने प्रश्नः। स तु शब्दानामर्थास्पर्शितां वदन्तञ्च शमयितुं शब्दप्रामाण्यसिद्धये सूत्रकृता यत्नः कृतः।
यद्येवं वाक्यार्थमपि बाह्यं वास्तवमन्तरेण शब्दप्रमाणता न प्रतिष्ठां लभत इति तत्रापि प्रयत्नः कर्तव्य एव। सत्यम्। पदार्थप्रतिपादनयत्नेनैव तु कृतेन तत्र यत्नं कृतं मन्यते सूत्रकरो यदयं पृथक् पदार्थेभ्यो न वाक्यार्थमुपदिशति स्म। तस्मादयमस्याशयः, पदार्थ एव वाक्यार्थ इति। तत् किममुमेव पक्षमनुमोदामहे पदार्थ एव वाक्यार्थ इति? बाढं ब्रूमः। किञ्च नैकपदार्थो वाक्यार्थोऽनेकस्तु पदार्थो वाक्यार्थः।
नन्वनेकोऽपि भवन् पदार्थ एवासौ। न च पदार्थो वाक्यार्थो भवितुमर्हति। सामान्ये हि पदं वर्तते, विशेषे वाक्यम्। अन्यच्च सामान्यम् अन्यो विशेषः। अन्यत्राप्युक्तम्। `यत्राधिक्यं स वाक्यार्थः’ इति। तस्मादन्यः पदार्थोऽन्यश्च वाक्यार्थः।
उच्यते। यदेतदुक्तमस्माभिरनेकः पदार्थो न पुनरेक इति, तन्न गृहीतम् आयुष्मता। एतदुक्तं भवति परस्परं संसृष्टपदार्थसमुदायो वाक्यार्थ इति। संसर्ग एवाधिक इति यत्राधिक्यमित्युच्यते। न चानाक्षिप्तविशेषत्वेन संसर्ग उपपद्यत इति विशेषो वाक्यार्थ इत्युच्यते। संसर्गस्तु स्वरूपतो न वाक्यार्थोऽपदार्थत्वात्, गौः शुक्ल आनीयतामिति पदार्थग्रामे संसर्गवाचिनः पदस्याश्रवणात्। श्रवणेऽपि सुतरामनन्वयाद् गौः शुक्ल आनीयतां संसर्ग इति कोऽस्यार्थः? तस्मात् संसृष्टो वाक्यार्थो न संसर्गः। तदुक्तम् `व्यतिषक्ततोऽवगतेर्व्यतिषङ्गस्य’ इति। न च तन्तुभिरिव पटो वीरणैरिव कटस्तदतिरिक्तोऽवयविस्थानीयः पदार्थैर्निर्वर्त्यमानो वाक्यार्थ उपलभ्यते, जातिगुणक्रियावगमेऽपि अवयविबुद्धेरभावात्। न च पदार्थावयवी वाक्यार्थः तेन पृथग् वाक्यार्थं नोपदिष्टवानाचार्यः।
ननु गुणप्रधानभावमन्तरेण न संसर्गोऽवकल्पते, न चैकस्मिन् वाक्ये बहूनि प्रधानानि भवन्ति, प्राधान्यमेव हि तथा सति न स्यात् गुणास्तु बहवो भवन्ति। तदिदमनेकगुणोपरक्तमेकं किञ्चित् प्रधानम्। स वाक्यार्थ इति तद्विषयेयमेकस्वभावा बुद्धिः। सत्यम्। तथापि त एव संसृष्टाः पदार्था अवभासन्ते न तदारब्धः कश्चिदेकः। संसर्गसिद्धिकृतस्तु गुणप्रधानभावोऽभ्युपेयते। स च गुणप्रधानभावो न नियतो येनैकमेवेदं प्रधानमिति व्यवस्थाप्येत। क्वचित् क्रिया प्रधानं कारकं गुणः व्रीहिभिर्यजेतेति, क्वचित् कारकं प्रधानं क्रिया गुणो द्रव्यस्य चिकीर्षितत्वेनावगमाद् व्रीहीन् प्रोक्षतीति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%व्यतिषक्ततोऽवगतेरिति% प्राभाकरवचो ज्ञापकत्वेनाह। व्यतिषक्तेभ्यः सम्बद्धेभ्यः पदार्थेभ्यो व्यतिषङ्गः सम्बन्धाऽवगम्यते। न ह्यसति सम्बन्धे सम्बद्धपदार्थप्रतीतिरित्यार्थी सम्बन्धप्रतीतिः।
%प्राधान्यमेव हि तथा सति न स्यादिति।% न हि प्रधानानां परस्परसम्बन्धो भवति परस्परसम्बद्धपदार्थप्रतिपादकञ्च वाक्यम्, अतः सम्बन्धबलात् सर्वेषां प्राधान्याभावः। %द्रव्यस्य चिकीर्षितत्वेन% द्रव्यसंस्कारकत्वेन।
न्यायमञ्जरी
%वाक्यस्वरूपविचारारम्भः%
सिद्धतन्त्रं क्वचित् साध्यं तत्तन्त्रमितरत् क्वचित्।
शब्दप्रयोगतात्पर्यपर्यालोचनया भवेत्॥
तस्माद् गुणप्रधानभावानियमादन्योन्यसंसृष्टः पदार्थसमुदायो वाक्यार्थ इति। एतावदेव श्रेयः। संसर्गावगमे च सर्ववादिनामविवादः।
वाक्यार्थं मन्वते येऽपि नियोगं भावनां क्रियाम्।
तैरप्यन्योन्यसंसृष्टः पदार्थग्राम इष्यते॥
ननु संसर्गवदन्यव्यवच्छेदोऽपि गम्यते, गौः शुक्ल आनीयतामिति श्रुते कृष्णादिभ्यो व्यवच्छिद्यते। अन्यापोहस्तु न पदार्थ इत्युक्तम्, तस्मान्न भेदो वाक्यार्थः।
ननु संसर्गोऽपि न शब्दार्थः। सत्यम्। स हि शब्दस्याभिधेयो न भवति, न तु ततो न प्रतीयते। अनभिधेयः कथं प्रतीयत इति चेत्, एतदग्रे निर्णेष्यते। व्यवच्छेदे तु न सा गतिः। तस्मात् संसृष्टाः पदार्था वाक्यार्थ इति स्थितम्।
अथ वा गुणीभूतेतरपदार्थानुगृहीत एक एव प्रधानभूतः पदार्थो वाक्यार्थ इत्येकाकारप्रतीतिबलादुपेयताम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%शुक्लगुणसंस्पृष्ट% इति। (अस्य प्रतीकस्य मूलेऽभावः।) यदि ह्यन्तव्यवच्छेदस्तस्य नास्ति तदा शुक्लेनैव गुणेन संसर्गो न स्यादित्यार्थोऽसौ।
न्यायमञ्जरी
%फलस्य वाक्यार्थत्वकथनम्%
एकस्त्वयमसावर्थ इति न निर्णेतुं शक्यते। यदि त्ववश्यमेकस्य कस्यचिदभिषेककलशो दातव्यस्तत् फलस्यैव दीयताम्। न हि निष्प्रयोजनं किञ्चिद् वाक्यमुच्चार्यते।
क्वचित् साक्षात् पदोपात्तं क्वचित् प्रकरणागतम्।
क्वचिदालोचनालभ्यं फलं सर्वत्र गम्यते॥
सकलेन च कारककलापेन क्रिया निर्वर्त्यते, क्रियया च फलम्, न तु फलेनान्यत् किमपि निर्वर्त्यत इति प्रधानत्वात् फलमेव वाक्यार्थः।
ननु फलमपि पुरुषार्थमिति पुरुषः प्रधानं स्यात्, नैतदेवम्। फलं सुखात्मकत्वात् पुरुषाश्रितं भवति, सुखादीनामात्मगुणत्वात्; न चैतावता पुरुषः प्रधानम्। सोऽपि हि फलार्थमेव यतते। भावना तावत् फलनिष्ठ एव व्यापारः, नियोगस्यापि फलं विना न प्रवर्तकत्वमित्युक्तम्। क्रियाया अपि केवलाया वाक्यार्थत्वमपास्तम्।
तस्मात् फलस्य साध्यत्वात् सर्वत्र तदवर्जनात्।
क्रियादीनाञ्च तादर्थ्यात् तस्य वाक्यार्थतेष्यते॥
ननु फलस्य स्वर्गादेर्निसर्गतः सिद्धरूपत्वात् कारकैः सह सम्बन्धो न प्राप्नोति। सिद्धस्य च कः सम्बन्धः? क्रियागर्भ इति चेत्, तर्हि फलमपि कारकाण्यपि क्रियया सम्बध्यन्ते, को विशेषः? सत्यम्। परन्तु कारकाणि साधनत्वेन फलन्तु साध्यत्वेन। क्रियया हि फलं साध्यते न फलेन क्रियेत्यतः फलस्यैव प्राधान्यमिति सिद्धम्।
अन्योन्यसङ्गतिविशेषित एव यस्माद्
वाक्यार्थभावमुपयाति पदार्थपुञ्जः।
एतच्च चेसति निधाय ततो न भिन्नं
वाक्यार्थमभ्यधित कञ्चन सूत्रकारः॥
प्राधान्ययोगादथ वा फलस्य
वाक्यार्थता तत्र सतां हि यत्नः।
प्रयोजनं सूत्रकृता तदेव
प्रवर्तंकत्वेन किलोपदिष्टम्॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%क्वचित् प्रकरणागतम्।% फलवत्प्रकरणे समाम्नानात् प्रयाजादिष्विव। %क्वचिदालोचनालभ्यं% विश्वजिदादाविव। नित्येषु विधिस्वरूपपर्यालोचनालभ्यम्।
न्यायमञ्जरी
%उद्योगस्य वाक्यार्थतावादिनां मतनिरासः%
अपरे पुनर्लिङादिशब्दश्रवणे सति समुपजायमानमात्मस्पन्दविशेषमुद्योगं नाम वाक्यार्थमाचक्षते, तत्स्वरूपन्तु वयं न जानीमः। कोऽयमात्मस्पन्दो नामेति। बुद्धिसुखदुः खेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारा हि नव आत्मनो गुणा विशेषगुणा भवन्ति नान्ये। तत्रायमात्मस्पन्दो बुद्धिर्वा स्यात्, प्रयत्नो वा, इच्छाद्वेषयोरन्यतरो वा; अन्ये तु विकल्पयितुमपि न युक्ताः। तत्र यदि बुद्धिरात्मस्पन्द उच्यते तर्हि प्रतिभा वाक्यार्थ इत्युक्तं भवति, न नूतनं किञ्चिदुत्प्रेक्षितमेतत्। अथ प्रयत्न आत्मस्पन्दस्तर्हि भावनाया नामान्तरकारणमुद्योग इति। अथेच्छाद्वेषयोरन्यतरोऽसौ, तर्हि सुखेच्छा दुः खजिहासा वा वाक्यार्थ इत्यक्षपादपक्ष एवायम्, नापूर्वं किञ्चित्। अथापि भाट्टपरिकल्पितो व्यापार आत्मस्पन्दः, सोऽपि भावनैव नार्थान्तरम्। अथानुष्ठेयः प्रेरकः कश्चिदर्थ उद्योगः, स तर्हि नियोग एव; उपसर्गान्यत्वमिदं न वस्तु अन्यत्।
तस्मादश्रुतपूर्वेण कृतमुद्योगपर्वणा।
स भारतमनुष्याणां गोचरो न तु मादृशाम्॥
न्यायमञ्जरी
%प्रतिभाया वाक्यार्थत्ववादिमतनिरासः%
अन्यैस्तु प्रतिभा वाक्यार्थ इष्यते। तत्पक्षस्तु संसर्गनिर्भासज्ञाननिराकरणेन प्रागेव प्रतिक्षिप्तः।
प्रतिभा खलु विज्ञानं तच्च शब्देन जन्यते।
न तु शब्दस्य विषयो रूपधीरिव चक्षुषः॥
बाह्यस्य विषयस्याभावात् सैव विषय इति चेन्न, तस्य समर्थितत्वात्। योऽपि व्याघ्र आयात इत्युक्ते शूरकातरनराधिकरणनानाप्रकारकार्योत्पादः स बाह्येऽर्थे व्याघ्रागमनादौ प्रतिपन्ने वासनानुसारेण भवन् न प्रतिभामात्रहेतुको भवति। तस्य हि ज्ञायमानोऽर्थः करणं न तज्ज्ञानमात्रम्। अर्थस्तदानीं नास्तीति चेद्, विप्रलम्भकवाक्यमिदम्, असत्यार्थं भविष्यति न त्वबाह्यविषयं तत्। यथा अवस्थिते वनितात्मनि बाह्येऽर्थे वासनानुसारेण कुणप इति, कामिनीति, भक्ष्यमिति प्रतिभा भवन्ति तथा शब्दार्थेऽपि व्याघ्रागमनेऽवगते शूराणामुत्साहः, कातराणां भयमित्यादि कार्यं भवति। न त्वेतावता प्रतिभा शब्दार्थो भवितुमर्हति। तस्माद् वाक्यप्रयोजनत्वेन वा यदि प्रतिभा वाक्यार्थः कथ्यते, कथ्यतां नाम, न त्वसौ शब्दस्याभिधेया। अनभिधेयापि संसर्गवद् वाक्यार्थ इति चेत्, तत्राप्युक्तम्, संसृष्टा अर्था वाक्यार्थो न संसर्गः। एवमिहापि प्रतिभान्तोऽर्था वाक्यार्थो न प्रतिभेति। शब्दस्य प्रत्यक्षवद् वर्तमानार्थनिष्ठत्वाभावाद् अनागताद्यर्थाभिधायिनोऽर्थासन्निधानेन प्रतिभापरत्वं यदुच्यते, तदप्ययुक्तम्। अनागतादिविषयत्वेऽपि तस्यार्थाविषयत्वं प्रसाधितमिति कृतं विस्तरेण।
वाक्यार्थः परमार्थ एव तदयं नो कल्पनानिर्मितः।
तद्वानप्युदितः पदस्य विषयस्तेनार्थसंस्पर्शिता।
अप्रामाण्यमतश्च ग्राह्यविषयाभावेन यद् वर्ण्यते।
तच्छब्दस्य निरस्तमित्यकलुषं प्रामाण्यमस्य स्थितम्॥
इति न्यायमञ्जर्यां पञ्चममाह्निकम्॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%न तु शब्दस्य विषय% इति। अर्थो हि तस्य विषयः।
%नानाप्रकारकार्योत्पाद% इति। नानाप्रकाराणि पलायनसंरम्भादीनी कार्याणि बाह्यस्यार्थस्यैकाकारत्वेऽपि भवन्तीति बाह्यार्थानपेक्षा, स्ववासनानुसारेण प्रमातॄणां वाक्यादुपजायमाना प्रतिभैव वाक्यार्थ इति। %प्रतिभान्तोऽर्थाः।% प्रतिभया वाक्यार्थज्ञानेन विषयीकृताः। ननु वाक्यजन्ये ज्ञाने यद्यर्थाः प्रतिभान्तीत्यभ्युपगम्यते तदातीताद्यर्थप्रतिपादके वाक्येऽर्थानामसत्त्वात् कथं वाक्यार्थज्ञानजनकत्वमित्याशङ्क्याह %शब्दस्य प्रत्यक्षवदिति।%
भट्टश्रीशङ्करात्मजश्रीचक्रधरकृते
न्यायमञ्जरीग्रन्थिभङ्गे पञ्चममाह्निकम्॥
—————————-*************************—————————
षष्ठमाह्निकम्
न्यायमञ्जरी
%पदस्वरूनिरूपणार्थं प्रश्नः%
ननु नाद्यापि शब्दस्य निरणायि प्रमाणता।
बीजं पदार्थवाक्यार्थबुद्धेर्न हि निरूपितम्॥
उच्यते। किमत्र निरूपणीयम्? यदननत्रं यद् भवति तत् तस्य निमित्तम्। पदवाक्यश्रवणे च सति पदार्थवाक्यार्थसम्प्रत्ययो भवति इति ते एव तत्र निमित्तम्।
किं पुनरिदं पदं नाम किञ्च वाक्यमिति। उक्तमत्र वर्णसमूहः पदम्, पदसमूहो वाक्यमिति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%बिजं पदार्थवाक्यार्थबुद्धेः% पदवाक्ये।
न्यायमञ्जरी
%स्फोटवादविचारः%
नन्वेतदेव न क्षमन्ते। न हि वर्णानां समूहः कश्चिदस्ति वास्तवस्तेन कुतस्तत्समूहः पदं भविष्यति। तदभावाच्च नतरां पदसमूहो वाक्यमवकल्पते। न च वर्णानां व्यस्तसमस्तविकल्पोपहतत्वेन वाचकत्वमुपपद्यते, तस्मादन्य एव स्फोटात्मा शब्दोऽर्थप्रतिपादक इति प्रतिजानते।
नन्वेवमस्तु स्फोटोऽन्य एवार्थप्रतिपादको भवतु, का क्षतिर्नैयायिकानाम्? कथं न क्षतिः? आप्तप्रणीतत्वेन हि शब्दस्य प्रामाण्यं तैरुक्तम्। स्फोटस्य च नित्यत्वेन आप्तप्रणीतत्वम्, अतश्च यस्यानित्यत्वं वर्णात्मनः शब्दस्य साधितम्,नासावर्थप्रतीतिहेतुरतो न प्रमाणम्। यश्चार्थप्रतीतिहेतुः स्फोटात्मा शब्दस्तस्य नानित्यत्वं न चाप्तप्रणीतत्वमित्यस्थाने नैयायिकाः क्लिष्टा भवेयुः। तस्मादनित्यानां वर्णानामेव वाचकत्वं प्रतिष्ठापनीयम्, पराकरणीयश्च स्फोट इति।
तदुच्यते। गकारादिवर्णावगमे सत्यर्थप्रतीतेर्भावात् तदभावे चाभावात् तेषामेवार्थप्रत्यायनसामर्थ्यम्। त एव च श्रवणकरणकावगमगोचरतया शब्दव्यपदेशभाज इति न प्रतीत्यनुपारूढः स्फोटो नाम शब्दः कश्चित् प्रत्यक्षानुमानातीतः परिकल्पनीयः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%व्यस्तसमस्तविकल्पोपहतत्वेनेति।% व्यस्तानां प्रत्येकवाचकत्व इतरवर्णोच्चारणवैफल्यप्रसङ्गः। सामस्त्यन्तु नास्ति क्रमोपलभ्यमानानामिति वक्ष्यति। %स्फोटात्मा% अभिव्यञ्जकैर्नादैः स्फुटीक्रियते व्यक्तिं नीयत इति स्फोट इति नाम्ना व्यपदेश्यः।
%स्फोटस्य च नित्यत्वेनेति।% स ह्यक्रमो निरवयवश्च नित्य एव कल्पयितुं शक्यते; अर्थप्रतीत्या हि स कल्प्यते न चानित्यादर्थप्रतीतिरुपपद्यते सङ्केतकालावगतस्येदानीन्तनस्य चान्यत्वात्’; स च स्थित एव केवलमभिव्यज्यते ध्वनिभिरिति।
न्यायमञ्जरी
%वर्णानां नार्थप्रत्यायकत्वम्%
आह, कथमेवं भविष्यति? दूरापेता इमे मनोरथाः। कुतो वर्णानामर्थप्रत्यायकत्वम्? ते हि वर्णा गकारादयोऽर्थं प्रतिपादयन्तः समस्ताः प्रतिपादयेयुः व्यस्ता वा। न तावद् व्यस्ताः, एकैकवर्णाकर्णने सत्यप्यर्थप्रतीतेरनुत्पादात्। सामस्त्यं वर्णानां नास्त्येव। तद्धि सत्तामात्रेण वा स्यात् प्रतीयमानत्वेन वा। नैयायिकपक्षे तावत् सत्तया यौगपद्यमविद्यमानम्, आशुविनाशिनः शब्दस्य दर्शितत्वात्।
अथापि मीमांसकमतेन नित्यः शब्द इष्यते, तत्रापि सत्तया यौगपद्यस्य सकलवर्णसाधारणत्वात् केन वर्णसमुदायेन कोऽर्थः प्रत्याय्येतेति नावधार्यते।
अथोच्यते, न चक्षुरादीनामिव वर्णानां कारकत्वम् येनागृहीतानामेव सतां यौगपद्यमात्रमर्थप्रत्ययनाङ्गं स्यात्; ज्ञापकत्वात् तेषां गृहीतानां सतां धूमादिवत् प्रत्यायकत्वमिति प्रतीतावेव सामस्त्यमुपयुज्यत इति।
एतदप्यघटमानम्। प्रतीतिसामस्त्यं हि किमेकवक्तृप्रयुक्तानां वर्णानामुत नानापुरुषभाषितानाम्। तत्रानेकपुरुषभाषितानां कोलाहलस्वभावत्वेन स्वरूपभेद एव दुरवगम इति कस्य सामस्त्यमसामस्तयं वा चिन्त्येत। सत्यपि वा तथाविधे सामस्त्ये नास्त्येवार्तप्रतीतिः। एकवक्तृप्रयुक्तानान्तु प्रयत्नस्थानकरणक्रमापरित्यागादवश्यम्भावी क्रमः, क्रमे च सत्येकैकवर्णकरणिकार्थप्रतीतिः प्राप्नोति, न चासौ दृश्यत इति व्यस्तसमस्तविकल्पानुपपत्तेर्न वर्णा वाचकाः। वर्णविषया अपि बुद्धयस्तथैव विकल्पनीयाः। ता अपि न युगपत् सम्भवन्ति, क्रमे च सत्येकैकवर्णबुद्धेरर्थसम्प्रत्ययः प्रसज्यत इति।
यदप्युच्यते, पूर्वपूर्ववर्णजनितसंस्कारसहितोऽन्त्यवर्णः प्रत्यायक इति, तदप्ययुक्तम्। संस्कारो हि नाम यदनुभवजनितस्तद्विषयमेव स्मरणमुपजनयति, न पुनरर्थान्तरविषयं ज्ञानमिति। स्मृतिद्वारेण तर्ह्यर्थप्रत्यायकोऽसौ भविष्यतीति चेत्, एतदपि नास्ति, ज्ञानयौगपद्यप्रसङ्गात्, अन्त्यवर्णज्ञानानन्तरं हि पूर्ववर्णस्मरणमिव समयस्मरणमपि तदैवापतति, ततश्च ज्ञानयौगपद्यम्। न च क्रमोत्पादे किञ्चित् कारणमुत्पश्यामः। अथापि तेन क्रमेण भवेतां तथापि तदानीमन्त्यवर्णज्ञानमुपरतमिति कस्य साहायकं पूर्ववर्णस्मृतिर्विदधातीति। एतच्चानेकपूर्ववर्णिविषयामेकां स्मृतिमभ्युपगम्योक्तम्। न पुनरेका सर्ववर्णगोचरा स्मृतिः। कुतः—
भिन्नोपलम्भसम्भूतवासनाभेदनिर्मिताः।
भवेयुः स्मृतयो भिन्ना न त्वेकानेकगोचरा॥
अथ वदेत् सङ्कलनाज्ञानमेकं सदसद्वर्णगोचरं भविष्यति तदुपारूढाश्च वर्णा अर्थं प्रत्यायिष्यन्तीति, तदपि दुराशामात्रम्, तथाविधज्ञानोत्पत्तौ कारणाभावात्। न चेन्द्रियमतीतवर्णग्रहणसमर्थम्, न संस्कारो वर्तमानग्राही भवति, न च युगपदिन्द्रियं संस्कारश्चेमां बुद्धिं जनयतः, संस्कारस्य सहचरदर्शनाद्याहितप्रबोधस्य सतः स्मरणमात्रजन्मनि निर्ज्ञातसामर्थ्यस्येन्द्रियेण व्यापाराभावात्। तस्मान्न वर्णा वाचकाः।
अतश्च एवं यदि ते वाचका भवेयुर्विपरीतक्रमप्रयुक्ता अप्यर्थं गमयेयुः। क्रमश्चेदपेक्ष्यते स व्यतिरिक्ताव्यतिरिक्ततया चिन्तनीयः। अव्यतिरेके त एव ते वर्णा इति कथं न बोधकाः? व्यतिरेके तु किमप्यभ्यधिकं वाचकमभ्युपगतं भवतीति मत्पक्षमाजिगमिषति भवान्।
ननु व्युत्पत्तिवशेन शब्दोऽर्थप्रत्यायकतामुपयाति, व्युत्पत्तौ च यावन्तो यत्क्रमका वर्णा यमर्थमभिवदन्तो दृष्टास्ते तावन्तस्तत्क्रमकास्तमर्थमभिवदिष्यन्तीति किं विकल्पमालया? तदुक्तम्,
यावन्तो यादृशा ये च यदर्थप्रतिपादने।
वर्णाः प्रज्ञातसामर्थ्यास्ते तथैवावबोधकाः॥ इति।
तदुच्यते। व्युत्पत्तिरेवेयं विचारणीया वर्त्तते। परावगतिपूर्विका हि शब्दात् स्वयमवगतिः, परावगतौ च के, कियन्तः कथं, कमर्थं प्रतिपादयन्तोऽनेन दृष्टा येभ्यस्तथैव तमर्थं प्रतीयादिति दुरधिगमा हि वर्णवर्तनी।
यावन्तो यादृशा ये चेत्येवं तावत् प्रभाषसे।
कियन्तः कीदृशाः के चेत्येवं यावन्न पृच्छ्यसे॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%न चक्षुरादीनामिव कारकत्वमिति% चक्षुरादीनि ह्यगृहीतसङ्गतीनि यतः प्रमां जनयन्ति अतस्तान्यर्थस्य न ज्ञापकानीत्युच्यन्ते ज्ञापकधर्मविरहात्, अपि तु अर्थप्रतीतेर्जनकानीति।
%क्रमेण ते स्मरणे% इति। एकस्य स्मरणस्योत्पादकाले ज्ञानस्य ज्ञानान्तरविरोधित्वादन्त्यवर्णज्ञानस्य विनश्यत्ता द्वितीयस्मरणोत्पादकाले तस्य विनाश इति।
%सङ्कलनाज्ञानमिति।% क्रमगृहीतानामेकस्मिन्ननन्तरकालभाविज्ञाने सङ्कलितानां समुच्चितानां प्रतिभासनं सङ्कलनाज्ञानं शतादिसमुच्चयज्ञानवत्।
%किमप्यभ्यधिकमिति।% वर्णस्वरूपातिरिक्तश्चेदपेचक्ष्यते स एव तर्हि स्फोटः, सर्वथा स्वरूपमात्रस्यावाचकत्वमायातमिति मत्पक्षाभ्युपगमः।
न्यायमञ्जरी
%वर्णाभिव्यक्तस्फोटानुमानप्रणाली%
तस्मात् सर्वप्रकारमवाचका वर्णाः अस्ति चेयं शब्दादुच्चारितात् तदर्थावगतिर्न चेयमकरणिकैव भवितुमर्हति, तदस्याः करणं स्फोट इति। कार्यानुमानमिदमस्तु, परिशेषानुमानं वा, अर्थापत्तिर्वा, सर्वथा अर्थप्रतीतिलक्षणकार्यवशात् कल्प्यमानम्, तत्करणं स्फोट इत्युच्यते। स च निरवयवो नित्य एको निष्क्रमक इति न वर्णपक्षक्षपणदक्षदूषणपात्रतां प्रतिपद्यते। अतश्च स्फोटोऽर्थप्रतिपादकस्तत्र शब्दादिति प्रातिपदिकार्थोऽप्युपपन्नः।
अथ वर्णाः `शब्द’ शब्देनोच्यन्ते, ते चार्थप्रतिपादकाः, तथापि शब्दादित्येकत्वं विभक्त्यर्थो न सङ्गच्छते, शब्देभ्यः प्रतिपद्यामह इति व्यवहारः स्यात्। स्फोटात्मनि तु शब्देऽर्थप्रतिपादक इष्यमाणे शब्दादिति प्रातिपदिकार्थो विभक्त्यर्थश्च द्वयमप्युपपन्नम्।
ननुन स्फोटः `शब्द’ शब्देनोच्यते; किन्तु वर्णा एव। श्रोत्रग्रहणे ह्यर्थे `शब्द शब्दः प्रसिद्धः, ते च श्रोत्रग्रहणा इति। नैतदेवम्। शब्दत्वस्यापि श्रोत्रग्रहणात्मनो निर्झरझाङ्काररवप्रभृतीनाञ्च सत्यपि श्रोत्रग्रहणत्वे शब्दकार्यनिर्वर्त्तकत्वानुपपत्तेः तस्माद् यतोऽर्थप्रतिपत्तिः, स शब्दः। अर्थप्रतिपत्तिश्च स्फोटादेव न वर्णेभ्य इति स्फोट एव शब्दः।
नन्वेवं सति धूमादीनामप्यर्थप्रतीतिहेतुत्वाच्छब्दत्वं प्राप्नोति? मैवं वादीः, अथ गौरित्यत्र श्रोत्रजप्रतिभासे बहवोऽर्थाः प्रतिभासन्ते, तत्र कस्तेषां शब्द इत्युपक्रम्य यतोऽर्थप्रतिपत्तिः स शब्द इत्युपसंहृते कुतो धूमादीनां शब्दत्वशङ्कावकाशः?
ननु चेयमर्थप्रतीतिर्वर्णेषु भवत्सु भवन्ती तेष्वभवत्सु चाभवन्ती तानुत्सृज्य कथं स्फोटकार्यतामुपयायात्? उच्यते। अनन्यथासिद्धं तद्भावभवित्वं तत्कार्यतामवगमयति नान्यथासिद्धम्। इदन्त्वन्यथासिद्धम्। का पुनरन्यथासिद्धिः? स्फोटव्यञ्जकत्वाद् वर्णानां तदानन्तर्यमर्थप्रतीतेरुपप्लवते, वर्णाभिव्यक्तः स्फोटोऽर्थप्रतिपत्तिमादधाति, भ्राम्यति जनो वर्णैरियमर्थप्रतीतिरुत्पादितेति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%कार्यानुमानमिदमस्त्विति।% अर्थप्रतिपत्तिलक्षणात् तावत् कार्यमात्रात् तत्कारणमात्रवगमः; तत्र कारणमात्रस्य निर्विशेषस्य गोत्वस्येव शाबलेयादिविशेषशून्यस्यासम्भवात्, वर्णानाञ्च पूर्वनीत्या कारणत्वप्रतिषेधादन्यत्र चाप्रसङ्गात् स्फोटस्यैवकारणत्वकल्पनेति कारणमात्रावगतौ कार्यानुमानम्। कारणिविशेषावगमे तु %परिशेषानुमानमिति। अर्थापत्तिर्वेति% एवंरूपञ्च। परिशेषानुमानं कार्यानुमानसहितमर्थापत्ति तयाऽन्यैरभिहितं तन्नाम्नो वा अस्याभिधाने न काचित् क्षतिरिति। %वर्णपक्षक्षपणक्षमेति% किमेकैकेः प्रत्यायकोऽथ संहता इत्यादि यद्दूषणम्। %प्रातिपदिकार्थोऽप्युपपन्नः% संस्कारस्य शब्दशब्दवाच्यत्वाभावात्; विभक्त्यर्थस्त्वेकत्वादुपपद्यते संस्कारस्येति।
%शब्दकार्यनिर्वर्तनानुपपत्तेः।% शब्द्यते कथ्यतेऽनेनार्थ इति शब्दशब्दनिर्वचनसामर्थ्यादर्थप्रतीतिजनक एव शब्दः।
%अथ गौरित्यत्र श्रौत्रे प्रतिभास इति।% भाष्यकृता हि `अथ गौरित्यत्र कः शब्दः’ इत्युक्तम्। अस्य चार्थः, गौरित्यत्र ज्ञाने ये प्रतिभासन्ते जातिगुणक्रियावर्णस्फोटादयोऽर्थास्तेषु मध्ये कः शब्द इति। गौरिति ज्ञाने वर्णाः वर्णाभिव्यङ्ग्यस्फोटः, तद्वाच्यश्चार्थो जात्यादिः, तदेकार्थसमवेताश्च गुणक्रियादयः प्रतिभासन्त एवेति।
न्यायमञ्जरी
%वर्णाः खलु स्फोटव्यञ्जका इति मतप्रदर्शनम्।%
ननु स्फोटव्यक्तावपीदानीं वर्णानां क्व गतास्ते व्यस्तसमस्तविकल्पाः? आह च भट्टः,
यस्यानवयवः स्फोटो व्यज्यते वर्णबुद्धिभिः।
सोऽपि पर्यनुयोगेन नैवानेन विमुच्यते॥ इति।
भाष्यकृताऽपि ननु संस्कारकल्पनायामदृष्टकल्पना इत्याशङ्क्य प्रतिविहितं शब्दकल्पनायां स च शब्दकल्पना च इति।
नैष दोषः। न स्फोटव्यक्तौ विकल्पाः प्रभवन्ति। कुतः? एके तावदाचक्षते प्रथमवर्णश्रवणवेलायां स्फोटोऽभिव्यक्तो भवति, न च द्वितीयादिवर्णवैफल्यम्, तदवगतेरेवातिशयकरणाद्, यथा रत्नपरीक्षकाणां प्रथमदर्शने रत्नरूपममलमप्रकाशमानमपि पुनः पुनः परीक्षमाणानां चरमे चेतसि चकास्ति निरवद्यं रत्नतत्त्वम्। एवमिहापि प्रथमवर्णश्रुत्या व्यक्तेऽपि स्फोटे स्फुटतरप्रतीत्यै वर्णान्तराणि प्रयोक्ष्यन्त इति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%संस्कारकल्पनायामदृष्टकल्पनेति।% बहुभिर्ज्ञानैरेकस्य प्रसिद्धस्मरणरूपकार्यपरिहारेणार्थप्रतिपत्तिजनकस्य जननं संस्कारस्येति कल्पना।
%सा च शब्दकल्पना चेति।% सा च संस्कारकल्पना च, तथाविधसंस्कारकल्पनां विना क्रमभाविभिर्वर्णैः स्फोटस्याभिव्यङ्क्तुमशक्यत्वात्। शब्दस्य च निरवयवस्यैकस्याक्रमस्यानुपलभ्यमानस्य कल्पना।
न्यायमञ्जरी
%ध्वनयः स्फोटव्यञ्जका इति मतप्रदर्शनम्%
अपरे तु वदन्ति ध्वनय एव स्फोटस्य च व्यञ्जकाः। तैश्च मरुद्भिरनवयव एव एष स्फोटोऽभिव्यज्यमानस्ताल्वादिस्थानकरणसंयोगोपाधिवशोपप्लवमाननानाकारगकारादिभागयोगीव प्रतिभासते। मरुतां चञ्चलत्वादुच्चारितप्रध्वंसिनस्ते तं काल्पनिकाकारमवभासयन्ते। दृष्टञ्चोपाधिवशादसत्यमपि रूपमवभासमानं यथा कृपाणमणिदर्पणादिव्यञ्जकभेदेन श्यामदीर्घादिरूपं वदनस्य। नादात्मको हि शब्दो वीणावेगुमृदङ्गपटहादिव्यञ्जकभेदेन नानात्वमुपगच्छन् दृश्यते। तस्मान्न पारमार्थिका एव ते वर्णाः, न च स्फोटस्य व्यञ्जका इति क्व समस्तव्यस्तविकल्पाः प्रभवेयुः?
उपाधिभेदेन प्रतिभासमाना असत्याकाराश्च तेऽर्थप्रत्ययान्वयव्यतिरेकानुविधायिनो दृश्यन्ते। तेन यदुच्यते शब्दकल्पनायां कल्पनाद्वैगुण्यमिति तत्रैकगुणापि कल्पना नास्ति का कथा द्वैगुण्यस्येति?
तस्मात् स्फोटात्मकादेव शब्दादर्थप्रत्ययो वर्णानुविधायित्वन्तु तस्यान्यथासिद्धमिति सिद्धम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%अपरे तु वदन्तीत्यादिना वर्णा एव पारमार्थिका न सन्ति, कुतस्तेषां क्रमेण सामस्त्येन वा स्फोटाभिव्यक्तौ व्यापारः। ननु ध्वनयोऽपि स्फोटस्य ध्वननात् प्रकाशनाद् वर्णा एव नेत्याह %तैश्च मरुद्भिरिति।%
%नानाकारगकारादिभागयोगीवेति।% कथमिति चेत्, तदाह %ताल्वादिस्थानकरणेति% वायूनां यो विशिष्टैः स्थानकरणैः संयोगः, स एवोपाधिस्तथाविधोपप्लुतरूपप्रदर्शकः। %नादात्मकोऽपीति।% नादात्मकोऽवाचकः।
न्यायमञ्जरी
स्फोटस्य प्रत्यक्षत्वम्।
अपि च तार्किकाणामनुमानप्रियत्वात् तत्परितोषायेदमनुमानमभ्यधायि न परमार्थतः। परमार्थतस्तु श्रौत्रे प्रत्यये प्रतिभासमानः प्रत्यक्ष एव स्फोटः।
आह, किमिदमपूर्वं तस्कारचरितं वर्तते। वर्णाः प्रत्यक्षमुपलभ्यमाना अपि दुर्भगा न प्रत्यक्षाः, स्फोटः पुनरनवभासमानोऽपि सुभगः प्रत्यक्ष इति।
उत्यते। न ब्रूमो वर्णा न प्रत्यक्षा इति। ते पुनरसन्तोऽपि उपाधिवशाद् वदनदैर्घ्यादिवदवभासन्ते। शब्दस्त्वेको निरवयवः प्रतीयते। तथा च पदमिति वाक्यमित्येकाकारप्रतीतिरस्ति। न च भिन्ना वर्णास्तस्यामालम्बनीभवन्ति। न हि सामान्यप्रत्ययो व्यक्त्यालम्बनः, अवयविप्रत्ययो वा अवयवालम्बनः। न च सेनावानादिबुद्धिवदयथार्था पदवाक्यबुद्धिः, बाधकाभावात्। एकार्थप्रत्यायकत्वोपाधिकृतेयमेकाकारा बुद्धिरिति चेत्, एकार्थप्रतीतिरिदानी कुतस्त्या? पदवाक्यप्रतीतिपूर्विका हि पदार्थवाक्यार्थप्रतीतिः। पदार्थवाक्यार्थप्रतीत्याख्यकार्यैक्याच्च पदवाक्यबुद्धिरेकाकारेति दुरुत्तरमितरेतराश्रयत्वम्। औपाधिकत्वञ्च सामान्यावयविबुद्धेरपि सुवचम्। बाधसन्देहरहितप्रतीति दार्ढ्यात् तत्र परिहार इति चेत्, तदितरत्रापि समानम्। तस्मात् पदबुद्धेः पदस्फोटो वाक्यबुद्धेश्च वाक्यस्फोटो विषय इति प्रत्यक्ष एव स्फोटः। तत्र पदस्फोटात् पदार्थप्रतिपत्तिः, वाक्यस्फोटाच्च वाक्यार्थप्रतिपत्तिः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
औपाधिकत्वञ्च सामान्यावयविबुद्धेरपीति। अत्र यद्येकार्थप्रतीतिजनकत्वादेकत्वमुच्यते, तदा दाहदोहाद्येकार्थकारितोपाधिनिबन्धनः सामान्यप्रत्ययोऽपीत्यतिप्रसङ्गः।
न्यायमञ्जरी
%वाक्यस्फोटनिरूपणम्।%
आह, यदि निरवयवः स्फोटात्मा शब्दो भवति, वाक्यमपि शब्द एव, तस्य पदात्मकास्त्ववयवा मा भूवन्। तस्य चेत् पदात्मानोऽवयवा भवन्ति पदस्यापि तर्हि वर्णात्मानोऽवयवा भवन्तु।
उच्यते। किञ्चिदुच्छ्वसितमेव मे हृदयम्। मन्ये, भविष्यति आयुष्मतो विवेकालोकः, बोध्यमानो भोत्स्यसे किञ्चित्। ध्वन्युपाधिभेदप्रवृत्तवर्णभेदावभासविप्रलब्धबुद्धिं भवद्विधं बोधयितुं पदस्फोट एष निरवयवोऽस्माभिर्दर्शितः। परमार्थतस्तु पदस्फोटो वाक्यावयवभूतो नास्त्येव। निरवयवमेव वाक्यं निरवयवस्यैव वाक्यार्थस्य बोधकम्। यथा पदस्यावयवा न सन्ति तथा वाक्यस्यावयवाः पदानीति। तथा चाहुः `वाक्ये पदानामसत्त्वादसत्त्वं तदर्थे पदार्थानां निरवयवौ वाक्यवाक्यार्थौ’ इति। अवयवकल्पनायां हि यथा वाक्यस्यावयवाः पदानि पदानामवयवा वर्णा एवं वर्णानामप्यवयवैर्भवितव्यम्, तदवयवानामप्यवयवान्तरैरित्यानन्त्यात् का व्यवस्था स्यात्? वर्णान् प्राप्य तु यद्यवयवकल्पनातो विरन्तव्यं तद् वाक्य एव विरम्यताम्। एकघटनाकारा हि वाक्यार्थबुद्धिस्तथाविधादेव वाक्यादुत्पत्तुमर्हति। वृद्धव्यवहाराद्धि शब्दार्थे व्युत्पद्यन्ते व्यवहर्त्तारः। तत्रास्य पदस्य प्रयोग एव न केवलस्य दृश्यते, व्यवहारानङ्गत्वाद्। वाक्यन्तु प्रयोगार्हमिति तत्रैव व्युत्पत्तिः, तत एवार्थसम्प्रत्ययः, अवयवप्रतिभासस्तु भ्रममात्रम्, अर्थोऽपि वाक्यस्यैक एव नरसिंहाकारः। जात्यन्तरं हि नरसिंहो नाम, तत्र न नार्थो नापि सिंहार्थः।
एवं पदार्थेभ्योऽन्य एवा वाक्यार्थः पानकादिवत्। यथा पानकं शर्कशनागकेसरमरिचादिभ्योऽर्थान्तरमेव, यथा च सिन्दूरहरिताललाक्षादिभ्योऽर्थान्तरमेव चित्रम्, यथा वा षड्जर्षभगान्धारधैवतादिभ्योऽर्थान्तरमेव ग्रामरागस्तथा पदेभ्यो वाक्यं पदार्थेभ्यो वाक्यार्थः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%अर्थान्तरमेव ग्रामराग% इति। ग्रामरागो यत्रांशतया ष़ड्जादयः स्वराः स्थिताः।
न्यायमञ्जरी
%वाक्यांशानां काल्पनिकत्वम्%
कथं तर्हि तदंशावगम इति चेत्? कल्पनामात्रं तत्, नासौ परमार्थः। तच्छब्दानुगमे तदर्थानुगमदर्शनात्। पारमार्थिकत्वं भागानामिति चेत्, न, कूपसूपयूपानामेकाक्षराननुगमेऽप्यर्थानुगमाभावात्। न च केवलानुगममात्रेण तत्कारणभावो वक्तुं शक्यः, रेणुपटलानुगामितया करितुरगादिवत् पिपीलिकापङ्क्तेरपि दृश्यमानायास्तत्कारणत्वप्रसङ्गात्। तस्मात् प्रकृतिप्रत्ययांशवदसत्पदार्थपरिकल्पनं वाक्यार्थावगमोपायतयाश्रीयते, न त्वर्थस्तदीयस्तत्राश्वकर्णादिवदुपलभ्यते। असत्यमपि सत्योपायतां प्रतिपद्यमानं दृश्यते। अलीका हि दंशादयः सत्यमरणकारणं भवन्ति, लिप्यक्षराणि चासत्यान्येव सत्यार्थप्रतिपत्तिमादधति। स्वरूपसत्यानि तानीति चेत्, न, रेखारूपतया तेषामर्थाप्रतिपादकत्वात्। गकारोऽयमित्येवं गृह्यमाणा रेखा अर्थप्रत्ययहेतवः। ता येन रूपेण सत्यास्तेन नार्थप्रतिपादिकाः, येन चार्थप्रतिपादिकास्तेन न सत्या इति।
ननु प्रकृतिप्रत्ययाद्यंशा अपि परमार्थसन्त एव, तथा प्रतिभासात्, ,तदर्थप्रत्ययहेतुत्वाच्च। नैतदेवम्। अन्वाख्यानभेदेन तेषां स्वरूपेणेयत्तानिश्चयानुपपत्तेः। भवतीत्यत्र भूशब्दः प्रकृतिः क्वचिदन्वाख्यायते क्वचिद् भवशब्दः। प्रत्ययादेशागमगुणवृद्धिवर्णलोपाद्यन्वाख्यानविसंवादात् कः पारमार्थिकः प्रकृतिप्रत्ययविभागः? कल्पनामात्रन्त्वेतत् `इयं प्रकृतिरेष प्रत्ययः’ इति।
एवं पदार्थानामपि वाक्यार्थपरिकल्पनयैवापोद्धारः। तदुक्तम्,
अपोद्धृत्त्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवत्॥ (वाo पo 3।1।1) इति।
अपि च पारमार्थिकत्वे पदानां नियतमविसंवादि रूपं प्रतीयेत्, विसंवादि तु तत्। नामाख्यातसाधारणवर्णसन्निवेशदर्शनान्न नियतं तेषां रूपम्, अत काल्पनिकमेव तन्न वास्तवम्। न च निश्चेतुमपि तत् पार्यते। `काले नदन्ति नागाः’ इत्यत्र हि कीदृशः पदविभागः? अर्थद्वयोपपत्तेः, उभयत्र च वर्णतुल्यत्वात्। किं `कालेन कृष्णेन दन्तिना हस्तिना अगास्त्वम्’ इत्येवमेतानि पदानि व्यवस्थाप्यन्ताम्, अथ `काले समये नदन्ति शब्दायन्ते नागाः करिणः फणिनो वा’ इति। तस्मादनियमान्न पदतदर्थविभागः परमार्थिकः।
अथ प्रथमप्रतिपन्नवाक्यार्थानुसारेण पदतदर्थविभागो व्यवस्थाप्यते? तर्हि किं तेन तदानीं व्यवस्थापितेन, वाक्यार्थस्य प्रथममेव प्रतिपन्नत्वात्।
किञ्च दध्यत्र मध्वत्रेति दधिमधुपदयोरिकारोकारयोरदर्शनेऽपि तदर्थसम्प्रत्ययो दृश्यते। तस्मादपि न पारमार्थिकः पदवर्णविभागः। निरस्तावयवं वाक्यं तथाविधस्यैव वाक्यार्थस्य वाचकमिति सिद्धम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%करितुरगादिवदिति।% यथा सत्सु करितुरगादिषु गच्छत्सु रेणुपटलस्योद्गमदर्शनात् तत्कारणता कल्प्यते, एवं पिपीलिकापङ्क्तिरपि कदाचिद् रेणुपटलोद्गमपूर्वभाविनी दृश्यत इति तस्या अपि तत्कारणत्वप्रसङ्गः। %अश्वकर्णादिवदिति।% अश्वकर्णाख्या ओषधिर्न तत्राश्वार्थः कश्चिन्नापि कर्णार्थ इति।
%प्रत्ययादेशेति।% प्रत्ययविसंवादः क्वचिल्लकारः प्रत्ययः, अन्यत्र त्यादय इत्येव मन्यत्रापि।
%वाक्यार्थकल्पनयैवेति।% कल्पनाय असतामप्यनपोद्धारे वाक्यार्थस्य प्रतिपादयितुमशक्यत्वादसतामपि तेषां कल्पनयोद्धतानां रेखागवयादीनामिव सत्यार्थप्रतिपादकत्वम्। अपोद्धृत्यैव वाक्येभ्य इत्यस्य पूर्वमर्धम्—-`पदं कैश्चिद् द्विधा भिन्नं चतुर्धा पञ्चधापि वा।’
%अथ प्रथमप्रतिपन्नेति।% प्रकरणादिवशेन `काले नदन्ति नागाः’ इत्यस्मादुच्चारिताद् विशिष्टार्थप्रतिपत्तिर्भवत्येव, भोजनादिप्रस्तावे सैन्धवमानयेति प्रतिपत्तिवत्।
न्यायमञ्जरी
%स्फोटात्मकत्वं शब्दब्रह्मणः%
ननु यथा पदेषु वर्णान सन्ति, वाक्येषु पदानि न सन्ति, तथा महावाक्येष्ववान्तरवाक्यान्यपि न स्युः, ततः किं महावाक्यान्यपि प्रकरणापेक्षया न तात्त्विकानि स्युः ततः किं प्रकरणान्यपि शास्त्रापेक्षया न स्युः ततोऽपि किमेकमेवेदं शास्त्रतत्त्वमविभागमद्वयमापतति?
उच्यते। यदि तत्त्वं पृच्छसि, बुद्ध्यसे वा, साधो! शब्दब्रह्मैवेदमद्वयमनाद्यविद्यावासनोपप्लवमानभेदम र्थभावेन विवर्त्तते, न तु वाचकाद् विभक्तं वाच्यमपि नाम किञ्चिदस्ति। तस्मात् काल्पनिक एव वाच्यवाचकविभागोऽयम्, अविद्यैव विद्योपाय इत्याश्रीयते। वाग्रूपता तत्त्वम्, सर्वत्र प्रत्यये तदनपायात्। यथोक्तम्,
वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती।
न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी॥ (वाo पाo 1-124) इति।
सा चेयं वाक् त्रैविध्येन व्यवस्थितैवावभासते, वैखरी मध्यमा पश्यन्तीति। तत्रेयं स्थानकरणप्रयत्नक्रमव्यज्यमानगकारादिवर्णसमुदायात्मिका या वाक्, सा वैखरीत्युच्यते। विखर इति देहेन्द्रियसङ्घात उच्यते। तत्र भवा वैखरी। तदुक्तम्,
स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा।
वैखरी वाक् प्रयोक्तॄणां प्राणवृत्तिनिबन्धना॥ इति।
या पुनरन्तः सङ्कल्प्यमानक्रमवती श्रोत्रग्राह्यवर्णरूपाभिव्यक्तिरहिता वाक्, सा मध्यमोच्यते। तदुक्तम्,
केवलं बुद्ध्युपादाना क्रमरूपानुपातिनी।
प्राणवृत्तिमतिक्रम्य मध्यमा वाक् प्रवर्तते॥ इति।
या तु ग्राह्यभेदक्रमादिरहिता स्वप्रकाशसंविद्रूपा वाक्, सा पश्यन्तीत्युच्यते। तदुक्तम्,
अविभागात्तु पश्यन्ती सर्वतः संहृतक्रमा।
स्वरूपज्योतिरेवान्तः सूक्ष्म वागनपायिनी॥ इति।
तदलमतिप्रसक्तानुप्रसक्त्या, द्राघीयसी चर्चेयं प्रकृतान्तरायकारिणीति न प्रतन्यते। इह त्वेतावतैव पुनः प्रयोजनम्, वर्णपदपूर्वको व्यवहारो न भवतीति। वाक्येन लोके व्यवहारात् तस्य चावयवावयविव्यवस्थानुपपत्तेर्निर्भागमेव तद् वाचकम्, निर्भागश्च तस्य वाच्योऽर्थ इति। अवान्तरवाक्यमपि प्रयोगयोग्यं व्यवहारकारणमिति तन्न निह्नूयते। अविद्यावस्थेयं वर्तते तत्रेयं व्यवहारवर्तनी। यथादृश्यमानैवास्तु, विद्यायां सर्वमेवेदमसारमिति। पदेन वर्णेन वा व्यवहाराभावात् तस्य केवलस्याप्रयोगात् तत्स्वरूपमस्यामपि दशायां न वास्तवमिष्यत इति।
तस्मादेकः क्रमविरहितः कल्पितासद्विभागो
वाक्यस्फोटो जनयति मतिं तादृशीं स्वाभिधेये।
वर्णास्त्वेते प्रकृतिलघवः कल्पनैकप्रतिष्ठा—
स्तस्मिन्नर्थे विदधति धियं नेत्यलं तत्कथाभिः॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%अनाद्यविद्यावासनेति।% अविद्यावशाद्धि वर्णपदावान्तरवाक्यमहावाक्यप्रविभागइत्यनेन चैतदुक्तं भवति एकमेवेदं त्रयीरूपं शब्दब्रह्म परब्रह्मप्राप्त्युपायः, तस्य यदिदं विभागेन चातुराश्रम्यप्रतिपादनं तदसत्यम्, मादृमोदकन्यायेन हि तत्तद्वस्तूद्देशेन समीहावतां प्रणिनां बाह्योपायनिषेधेन पश्वर्थिनामिव चित्रादि दर्शयद् बाह्यक्षोभनिवर्तनेन शनैः शनैः शान्ततां दर्शयत् परं क्षेमं दर्शयतीति। तदुक्तम्,
त्रयीरूपेण तज्ज्योतिः प्रथमं परिवर्तते।
पृथक् तीर्थप्रवादेषु दृष्टिभेदनिबन्धनम्॥
शान्तं विद्यात्मकं ब्रह्म तदु हैतदविद्यया।
तया ग्रस्तमिवाजस्रं या निर्वक्तुं न शक्यते॥ इत्यादि।
%अर्थभावेन विवर्तत इति।% तथा च आह,
शब्दस्य परिणामोऽयमित्याम्नायविदो विदुः।
छन्दोभ्य एव प्रथममेतद् विश्वं व्यवर्तत॥
तस्मादाकृतिगोत्रस्थाद् व्यक्तिग्रामा विकारिणः।
मारुतादिव जायन्ते वृष्टिमन्तो बलाहकाः॥ इत्यादि।
%अविद्यैव विद्योपाय% इति। अनेन द्वारेण प्राङ्नीत्या विद्याधिगमस्य सम्भवात्। तदुक्तम् `अतत्त्वे वर्त्मनि स्थित्वा ततस्तत्त्व प्रकाशते’ इति? %सर्वत्र प्रत्यये तदनपायादिति% यथा रुचककुण्डलादीनामपायोपजनेऽपि सुवर्णरूपताया अनपायात् तस्या एव तात्त्विकत्वमेवं यत् प्रतीयते तत् सर्वं वाग्रूपतानतिक्रमेणेति।
%वाग्रूपता चेदिति।% यावत् पदार्थः `घटोऽयम्’ इति न प्रत्यवमृष्टस्तावत् प्रकाशितो न भवति, वाग्रूपताव्यतिरेकेण चान्यस्य प्रत्यवमर्शकत्वं नास्ति; अत उक्तम्, %सा हि प्रत्यवमर्शिनीति% न प्रकाशः प्रकाशेत प्रकाशोऽप्यप्रकाशः स्यात्, व्यापारस्य प्रत्यवमर्शस्याकरणात्। प्रकाशरूपतामेवासौ न लभेतेत्यर्थः।
%सा चेयं वाक् त्रैविध्येन व्यवस्थितेति।% तत् त्रैविध्यप्रतिपादनं सर्वावस्थस्य शब्दस्यार्थाविनिर्भागज्ञापनाय। %पूर्विखर% इति। पूः शब्देन विखरशब्देन च देहेन्द्रियसङ्घात उच्यत इति।
प्रसिद्धेन पूः शब्देन साम्यं दर्शयति, %स्थानेषु विधृत% इति। स्थानेषु ताल्वादिषु विधृते प्रतिहते वायौ सति तस्मान्निमित्तात् कृत आत्मलाभाय वर्णानमक्षराणां परिग्रह उपादानं यया। यतः प्राणाख्यस्य वायोर्वृत्तिर्व्यापारो निबन्धनं कारणमस्याः। %प्रयोक्तृणामुच्चारयितॄणां सम्बन्धिनी।
%या पुनरिति।% या पुनः बुद्ध्युपादाना बुद्धावेव प्रतिभासते, न वैखरीवद् बहिः श्रोत्रेणापि सा मध्यमा। %क्रमरूपानुपातिनी।% वैखर्यास्तत्कार्यत्वात् तदवस्थाभाविनः क्रमस्यानुकारानुवर्तिनी। यादृशी मूर्तिरालेखयितव्या तथाविधैव बुद्धिस्था निरूप्यते। एवं च स्थूलोऽपि शब्दः प्रथमं बुद्धौ निवेश्यः सक्रमश्चासौ, बुद्धिनिविष्टत्वमेव मध्यमत्वम्। एवं च वैखरीधर्मस्य क्रमस्यात्मसन्निवेशलक्षणस्य च पश्यन्तीधर्मस्यानुगमादुभयोर्वाग्धर्मयोर्मध्ये भावान्मध्यमात्वम्। प्राणवृत्तिमिति। प्राणस्य प्राणाख्यस्य वायोर्व्यापारं हि स्वरूपनिष्पत्तयेऽतिक्रम्यावधीर्य प्रवर्तते। सा।
%अविभागा तु पश्यन्ती।% अविभागा अविद्यमानभेदा, विवक्षाया अभावात्। %सर्वतः%स्वात्मनो विषयाच्च संहृतस्तिरोधापितः क्रमो यया, तदवस्थयोर्वाच्यवाचकयोरुभयोरपि क्रमस्याप्रतिभासनात्। स्वात्मैव ज्योतिः प्रकाशोऽस्या न पुनर्वैखरीवत् परसंवेद्यापि %सूक्ष्मा% ज्ञेयेनार्थेनासम्भिन्नाकारा ज्ञानप्रतिलीनाकारा वा। अत एवोद्भूतेन ज्ञानात्मनारूपेण पश्यति शब्दतत्त्वं न विवक्षयोपादत्त इति व्यापाराश्रयया सञ्ज्ञया ज्ञानानुस्यूता शब्दावस्था मध्यमावस्थायाः कारणमुक्ता। %अनपायीनी% च सा विषयापगमेऽपि चिदवस्थाया अविचलनादिति।
अथ तस्यां तथाविधायामवस्थायां शब्दरूपानुगमे किं प्रमाणमिति तदाह %अलमतिप्रसक्तेति। तस्य चावयव (वि?) व्यवस्थानुपपत्तेरिति।% यथा प्रतिपादितम् `काले नदन्ति नागाः’ इत्यत्र।
%प्रकृतिलघवः% स्वभावत एव लघवोऽसारा अस्थिराः। परं यदि सङ्कलनाद्यात्मिकायां कल्पनाबुद्धावारूढानां तेषां स्थितिर्न स्वरूपेण, क्षणिकत्वादिति।
उखा स्थाली।
न्यायमञ्जरी
%स्फोटवादनिरसनम्%
अत्राभिधीयते। किमयमनुमानमहिम्ना स्फोटाभ्युपगमः, प्रत्यक्षाप्रतीतिबलवत्तया वा? न तावदनुमानतः स्फोटस्वरूपमुपपादयितुं पार्यते, परिदृश्यमानविशिष्टानुपूर्वीकवर्णकलापकरणेनार्थप्रतीतेर्घटमानत्वात्।
न्यायमञ्जरी
%समस्तवर्णानामेव वाचकत्वं न व्यस्तानाम्%
ननु व्यस्तसमस्ताविदिकल्पैरुत्सादितं वर्णानां वाच्यकत्वम्। नैतत्, दुर्विकल्पास्ते। व्यस्तानां तावद् वाचकत्वं नेष्यते वर्णानाम्, समस्ता एव ते वाचकाः।
यत्तु तत्सामस्त्यं नास्ति क्रमभावित्वादिति, तदसत् क्रमभाविनामपि समस्तानां कार्यकारिणामनेकशो दर्शनात्। यथा युगपद्भाविनः समास्त्रयो ग्रावाण एकामुखां धारयन्तो दृश्यन्ते, तथा क्रमभाविनोऽपि समस्ता ग्रासा एकां तृप्तिमुत्पादयन्तो दृश्यन्ते। एकस्मिन्नपि हि ग्रासे हीयमाने न भवति तादृशी तृप्तिः। अतः समस्ता एव ते ग्रासास्तृप्तेः कारणम्। न च समस्ता अपि ते ग्रासा युगपत् प्रयोक्तुं शक्याः, तथैकानुवाकग्रहणे संस्थानां क्रमभाविनीनामपि सामस्त्ये सति सामर्थ्यमेकया संस्थया विना तदामुखीकरणासम्भवात्। एवं तावल्लोके सामस्त्यं क्रमभाविनां दृष्टम्। वेदेऽपि दर्शपूर्णमासाभ्यामितीतरेतरयोगशंसिना द्वन्द्वेन समर्पितसाहित्यानामाग्नेयादियागानां पक्षद्वयप्रयोज्यत्वेन चापरिहार्यक्रमाणामेकाधिकारसम्पादकत्वं दृष्टम्। तथा ऐन्द्रवायवं गृह्णाति’ आश्विनं गृह्णाति’, इति सोमग्रहणाभ्यासानां समस्तानां क्रमभाविनाञ्चैकप्रधाननिर्वर्तकत्वं दृष्टमिति। अतश्च नायं विरोधः सामस्त्यञ्च क्रमभावित्वञ्चेति। एवं क्रमवर्तिनोऽपि वर्णा एवार्थाभिधायिनो भविष्यन्ति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%पक्षद्वयप्रयोज्यत्वेनेति।% दर्शे हि त्रयः प्रयुज्यन्ते पूर्णमास्याञ्च त्रय इति। %तथैन्द्रवायवं गृह्णातीति।% सोमेन यजेतेति उक्तम्। तत्र कथं यजेतेत्यपेक्षायां `ऐन्द्रवायवं ग्रहं गृह्णाति’ `आश्विनं ग्रहं गृह्णति’ इत्यादयः सोमग्रहग्रहणाभ्यासा उक्ताः सोमरसो विशिष्टपात्रस्थः सोमग्रहस्तस्य देवतोद्देशेन यदादानं तद् ग्रहणम्, तेषां ग्रहणानां विशिष्टदेवतोद्देशेन बहूनां यानि सम्पादनानि तान्येव कृतस्य ग्रहणस्य पुन करणरूपतया अभ्यासाः। न ह्यभ्यासं विनासौ सोमरस ऐन्द्रवायवमकृत्वा आश्विनः कर्तुं शक्यत इति, ते च क्रमभाविनः। ऐन्द्रवायवो हि तदा भवति यदेन्द्रवायुभ्यां सङ्कल्प्यते, सङ्कल्पश्च न यागं विना भवतीति प्रकृत्यंशो यागः; स च क्रमेण निर्वर्त्यमानोऽपि ज्योतिष्टोमाधिकारलक्षणं प्रधानाधिकारं निर्वर्तयतीति।
न्यायमञ्जरी
%स्फोटस्य नानुमानिकत्वम्।%
ननु ग्राससंस्थादीनां युक्तं समस्तानां क्रमभावित्वम्, यतः कार्यमपि तदीयं तृप्त्यादि क्रमेण निर्वर्त्यमानं दृश्यते। यद्येवमाग्नेयादिभ्यस्तर्हि क्रमेण निर्वर्त्यमानं किं कार्यमुपलभ्यते? अवान्तरापूर्वमिति ब्रूमः, शब्दप्रामाण्यात् परमापूर्वनिर्वृत्तिस्तु तेषां सामस्त्ये सति सेत्स्यतीत्युच्यते। अवान्तरापूर्वनिर्वृत्ताविदानीं क्रमभाविनामाग्नेयावयवभूतक्रियाक्षणानां कितवान्तरं कार्यम्, का वा तस्य निर्वृत्तिरुपलभ्यते? न ह्यवान्तरापूर्वेण स्वर्गमात्रा काचिदभिनिर्वर्त्यते, शास्त्रार्थस्य तदानीमनिष्पन्नत्वात्, अतः किमवान्तरापूर्वेण कृतेनापि। यत् किञ्चित् त्ववान्तरापूर्वप्रायं कार्यं वर्णेष्वपि न न दर्शयितुं शक्यते। किं तदिति चेत्? स्वरूपग्रहणं संस्कारो वा भविष्यति। तयोः प्रधानकार्यावयवत्वं नास्तीति चेत्? मा भूदवयवत्वम्, तदुपयोगिता तु विद्यत एव। अवयवावयविव्यहारस्तु अवान्तरपरमापूर्वयोरपि दुरुपपादः। पदानान्तु वाक्यार्थप्रतिपत्तिलक्षणप्रधानकार्यावयवभूतपदार्थज्ञानाख्यकार्यनिर्वर्तकत्वमतिस्पष्टमस्त्येवेति न तेष्वेष दोषः प्रादुः ष्यात्। वर्णानामपि गमनक्रियालक्षणानामिव ग्रामप्राप्तौ, ग्रासानामिव तृप्तौ, संस्थानामिवामुखीरणे यद्यपि क्रमोपचीयमानतत्कार्यमात्रासमुन्मेषो नास्ति, तथापि तदौपयिकस्योपलब्धिसंस्कारादिकार्यस्य करणात् तत्कार्यावयवी तावत् कृतो भवतीति न समस्तानां क्रमकारित्वमपहीयते। तत्र पूर्वे वर्णा अतीता अप्युपकरिष्यन्ति, चरमवर्णस्तु वर्तमान इतीदृश एवायं काल्पनिकः क्रियाक्षणसमूह इव वर्णसमूहोऽर्थप्रत्यायकः।
अथ वा क्रमोपलब्धेष्वपि वर्णेषु मानसमनुव्यवसायरूपमखिलवर्णविषयं सङ्कलनाज्ञानं यदुपजायते तदर्थप्रत्यायानाङ्गं भविष्यति। दृश्यते च विनश्वरेष्वपि पदार्थान्तरेषु क्रमानुभूतेषु युगपदनुव्यवसायो मानसः, `शतमाम्राणि भक्षितवान् देवदत्तः’ इति। न चायं प्रत्ययो नास्ति, सन्दिग्धो, बाध्यते वा। अनभ्युपगम्यमाने चेदृशि समुच्चयज्ञाने तन्निबन्धना भूयांसो व्यवहारा उत्सीदेयुः। स चायं सङ्कलनाप्रत्ययः स्मर्यमाणानुभूयमानप्राक्तनान्त्यवर्णविषयतया सदसद्वर्णगोचरश्चित्ररूप उपेयते। यदि वान्त्यवर्णेऽपि तिरोहिते भवन् असद्वर्णगोचर एव, न चित्राकारः, सोऽर्थप्रतीतिहेतुरेक एवेति निरवकाशा व्यस्तसमस्तविकल्पाः।
ननु सङ्कलनाप्रत्ययेऽपि यदि ते वर्णाः क्रमेणावभासन्ते, तदसावपि पूर्वोत्पन्नैकैकवर्णबुद्धिनिर्विशेष एव स्यादिति तदुपारूढा अपि वर्णा नार्थप्रतीतिहेतवो भवेयुः? यदि त्वेकसुमनस्स्तबकाकारावभासी स प्रत्ययः तदा तस्मिन् क्रमानवगमाद् विपरीतक्रमा अपि ते वर्णा अर्थप्रतीतिकारिणः स्युः।
उत्यते, विशिष्टानुपूर्वीकवर्णमालानुभवसमनन्तरभावी हि सङ्कलनाप्रत्ययोऽर्थप्रतीतेर्हेतुः, न स्तबकाकारपरिच्छेदमात्रम्, विपरीतक्रमाशङ्कनञ्च तदानीं कुतस्त्यम्? स्तबकावभासे तावत् क्रम एव नास्ति, कस्य वैपरीत्यमवैपरौत्यं वा? यदनन्तरजन्मायं समुच्चयप्रत्ययस्ताश्च तद्विशिष्टक्रमावभासिन्य एव पूर्वभाविन्यो वर्णबुद्धय इति कुतो वैपरीत्यविकल्पः? तस्मात् प्रथमावगमनिसतानुपूर्वीकास्ते तदनन्तरभाविसमस्तावभासिसङ्कलनाप्रत्ययोपारूढा वर्णा अर्थप्रतीतिकारिण इति न दोषः।
यथा `पूर्ववर्णजनितसंस्कारसहितोऽन्त्यवर्णः’ इति तत्रभवता मीमांसाभाष्यकृता वर्णितं तथा वा वर्णानामर्थप्रत्यायकत्वमस्तु।
नन्वत्रोक्तं संस्कारस्यार्थप्रतीतिजनकत्वं न दृष्टपूर्वम्, स्मृतावेव तस्य व्यापार इति। किमियं राजाज्ञा, स्मृतिरेव संस्कारेण कर्तव्येति? नेयं राजाज्ञा नयाज्ञा त्वेषा। न हि संस्कारो नाम स्वतन्त्रः कोऽपि धर्मी, किन्तु पट्वभ्यासादरप्रत्ययगृहीतेष्वर्थेषु यदात्मनः स्मरणकारणं स संस्कारः। सा च स्मृकत्यैव कार्येण कल्प्यमाना शक्तिः। न च शक्तिरूपस्य संस्कारस्य शक्त्यन्तरमर्थप्रतीतिजन्मनि सम्भवति। येनैव कार्येण सा कल्प्यते शक्तिस्तदपहाय किं कार्यान्तरं कुर्यात्? स्मरणहेतोश्च संस्कारस्य प्रसवकारणमनुभवः। अनुभवहेतोस्त्वस्य नूतनचरितस्य संस्कारस्य जन्मनिमित्तमेव नोत्पश्यामः। तस्मान्नासावर्थप्रतीतिहेतुर्भवति।
नैतत्सारम्, वर्णानुभवसंस्कृतमतेः पुंसोऽर्थप्रतीतिदर्शनात्। न हि स्मरणशक्तिः संस्कारः, किन्त्वात्मगुणो वासनाख्यः स च स्मृतिमिवार्थप्रतीतिमपि जनयितुमुत्सहते। सर्वत्र नो दर्शनं प्रमाणम्, स्मरणजननकौशलमपि तस्य तथादर्शनादवगम्यते, तदिदमनुभवजननमपि ततो दृश्यत एव। वर्णाश्च तदनुभवाश्च व्यतीताः। अन्यच्च शब्दतत्त्वं नानुभूयत इति वक्ष्यामः। अस्ति चार्थप्रतीतिर्नासौ निष्करणिका, करणव्यतिरेकेण हि सा अनुद्भवन्ती करणमाक्षिपति। यदस्याः करणं स संस्कार इति स्मृतिरिवार्थप्रतीतिरपि तत्कार्यत्वात् तदनुमापितका भवत्येव।
यत्तु, कुतस्तादृशः संस्कार उदेति? जडप्रश्नोऽयम्, अनुभवहेतुकस्य सप्रसिद्धत्वात्। तथा चाह, `वस्तुधर्मो ह्येष यदनुभवः पटीयान् स्मृतिबीजमाधत्ते’ इति।
ननु स्मृतिबीजमिति यदुच्यते तत् कथमनुभवबीजं स्यात्? नैष नियमः स्मृतेरेव बीजमिति। अनुभवस्तावत् तथाविधमात्मधर्ममाधत्ते। स कार्यभेदोऽपि नोत्पत्तौ कारणान्तरं मृगयते, कार्यभेदश्च तथादर्शनादवगम्यत इत्युक्तम्।
अथ वा किमनेन निर्बन्धनेन। साक्षादर्थप्रतीतिकारी संस्कारः स्मृतिद्वारेण तां करिष्यति। पूर्ववर्णेषु संस्कारात् स्मरणमन्त्यवर्थे श्रोत्रेन्द्रियादनुभव इत्येवं स्मर्यमाणानुभूयमानवर्णकरणकोऽर्थप्रत्ययः स्यात्, को दोषः?
नन्वनुभवक्रमाहितसंस्कारसमार्थ्यमनुरुध्यमानाः स्मृतयोऽपि क्रमेणोत्पत्तुमर्हन्ति, न युगपदिति। ततश्च प्राक्तन एव दोषः सामस्त्याभावादिति। नैषदोषः, नानावर्णविषयैः क्रमभाविभिरनुभवैः क्रमोपचयात्मा पुटपाकैरिव कार्तस्वरस्यैक एवात्मनः संस्कारः तादृगुपाधीयते येन सर्वानेव पूर्वदृष्टान् वर्णानसौ सकृत् स्मरतीति। संस्कारात् संस्कारोत्पत्तिरलौकिकीति चेत्, नालौकिकी, स्वाध्यायाध्ययने सिद्धत्वात्; उच्चारणक्रियायाः क्षणिकत्वात्। तदाहिते संस्कारान्तरकारिणि संस्कारेऽनिष्यमाणेऽन्त्यमुच्चारणं प्रथमोच्चारणान्न विशिष्येत ततः किं पुरुषायुषेणापि नानुवाक एव आमुखीक्रियेत?
नन्वयमीदृशः प्रकार एकस्मरणसिद्धये कल्पनीयः, अर्थप्रतीतिहेतुता वा संस्कारस्य कल्पनीयेति। सर्वथेयमदृष्टकल्पना अतो न पश्यामहे तत्र कः संस्कारं प्रति पक्षपातः, कश्च स्फोटं प्रति विद्वेषः, यदेष कल्प्यते, नैष इति। उक्तमत्र तेनैव सुगृहीतनाम्ना भाष्यकारेण `शब्दकल्पनायां सा च शब्दकल्पना च’ इति।
ननु नास्ति कल्पनाद्वैगुण्यम्, संस्कारो हि यथाप्रसिद्धिः स्थित एव, का तत् कल्पना? न हि वयं स्मरणैककारणत्वं संस्कारधर्ममतिलङ्घितवन्तो भवन्त इव। कथं न लङ्घितवन्तो भवन्तः? सर्ववर्णविषयैकस्मरणकारिता भवद्भिरपि कल्पितैव। यैव हि वर्तनी वर्णानामर्थप्रतीतौ सैव स्फोटव्यक्तावपि, ताञ्च कल्पयित्वा शब्दोऽन्यः कल्पितः। एवमतश्च संस्कारोभयवादिविहितस्य स्मरणकारित्वमुल्लङ्घ्यार्थप्रत्ययकारित्वं केवलमस्माभिरभिहितम्। भवद्भिस्तु मूलत एवारभ्य नवं विश्वमुत्थापितम्, अपूर्वस्य शब्दस्य तावदस्तित्वम्, पुनर्वर्णव्यतिरिक्तत्वम्, पुनरवयवराहित्यं कल्पितमिति कथं न कल्पनागुरुत्वम्? तदुक्तम्,
सद्भावव्यतिरेकौ च तथावयववर्जनम्।
तवाधिकं भवेत् तस्माद् यत्नोऽसावर्थबुद्धिषु॥ इति।
यत् पुनरवादि, प्रथमवर्णबुद्धिवेलायामिव व्यक्तं स्फोटतत्त्वमुत्तरोत्तरबुद्धिभिरतिशयिततरप्रत्ययतां नीयते रत्नतत्त्ववदिति, स एष विषम उपन्यासः। रत्नस्य हि सावयवत्वात् प्रथमप्रत्ययाविषयीकृतसूक्ष्मतरावयवविशेषग्राहिणामुत्तरोत्तरप्रत्ययानामस्ति तत्रावकाशः। स्फोटस्तु वर्णस्वरूपवदनंश इति तत्स्वरूपसर्वस्वमाद्येनैव वर्णेन व्यक्तम्, किमिदानीमन्ये वर्णाः करिष्यन्ति? एकदेशव्यक्तिस्तु निरवयवस्य वर्मस्येव न सम्भवति। यथोक्तम्,
अल्पीयसापि यत्ने शब्दमुच्चारितं मतिः।
यदि वा नैव गृह्णाति वर्णं वा सकलं स्फुटम्॥ इति।
योऽपि द्वितीयो दृष्टान्त उदाहारि, यथा अनुवाकः श्लोको वा प्रथमसंस्थया गृहीतोऽपि संस्थानान्तराभ्यासैः स्फुटतरपरिच्छिन्नो भवति, तथा स्फोटोऽपि प्रथमवर्णव्यक्तौ वर्णान्तरेरतिशयिताभिव्यक्तिर्भविष्यतीति, सोऽपि न सदृशो दृष्टान्तः, श्लोकानुवाकयोरनंशत्वानुपपत्तेः। केचिदवयवा वर्णात्मानः पदात्मानो वा प्रथमायां बुद्धावपरिस्फुरन्तः संस्थाभ्यासलब्धातिशयायां तस्यां प्रकटीभवन्ति। स्फोटस्त्वेकवर्ण इव निरंश इति तत्र को बुद्धेरतिशययोगः? तस्मादयमपि न सङ्गतो दृष्टान्तः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%अवान्तरापूर्वमिति।% भट्टपक्षेऽवान्तरापूर्वं शक्तिरूपम्, प्रभाकरमते तु अवान्तराग्नेयादिनियोग एव। कुतस्तस्यानुपलभ्यमानस्य कल्पनेति चेत्, तदाह %शब्दप्रामाण्यादिति।% आग्नेययागस्य क्रियारूपत्वात् क्षणिकत्वेनान्यप्रधानयागकालेऽनवस्थितत्वेन फलनिर्वृत्तौ सहकार्ययोगात् तत्करणं निष्फलमेव प्रसज्येत। न च निष्फलं प्रमाणभूतशब्द उपदिशतीति तत्कल्पनम्। %आग्नेयावयवभूतक्रियाक्षणानामिति।% चतुरो मुष्टीन्निर्वपतीति व्रीहीनवहन्ति तन्दुलान् पिनष्टीत्यादय आग्नेययागावयवाः क्रियाक्षणाः।
%अनुव्यवसायरूपमिति।% बाह्येन्द्रियोण व्यवसितस्य निश्चितस्य अनु पश्चात् मानसं यन्निश्चयनं सोऽनुव्यवसायः। %तन्निबन्धना भूयांसो व्यवहारा% इति। यथा प्रदर्शितम् शतमाम्राणीत्यादिव्यव…..तिः। प्रामाणिकी व्यवस्था।
%सद्भावव्यतिरेकौ चेति। स्फोट….क्रियतेऽसौ वर्णेभ्योऽर्थबुद्धिजन्मन्येव क्रियतां कल्पना ला….`आवृत्त्या न तु स ग्रन्थः प्रत्यावृत्ति निरूप्यते’ इति। आवृत्त्या अ…..ति प्रत्यावृत्तिनिरूपणमस्ति। उपलब्ध्यनन्तरसत्ताकानादि… स एव वा स्फोटादिति। शब्दस्यार्थप्रतीतिहेतोर्वर्णादि…..क्रमस्तु केषां क्रम इति। सापेक्षत्वात् सर्वथा……..
न्यायमञ्जरी
%न च ध्वनिव्यङ्गः स्फोटः%
येऽपि च मन्वते, ध्वनिव्यङ्ग्यत्वात् स्फोटस्य न तत्र वर्णविकल्पावसर इति, तेऽपि न सम्यग्दर्शिनः। परागुभ्यः वर्णप्रतीतिध्वनिभ्यः शब्दप्रतीतेरनुत्पादात्। अतिद्रुतोच्चिचारयिषया अनुपलभ्यमानवर्णविभागाच्च शब्दादर्थप्रत्ययाभावात्।
अथ ध्वनयः शब्दव्यक्तिमादधानाः स्थानकरणानुरोधेनासत्यमेव वर्णभेदमुपदर्शयन्ति, श्यामादिरूपमिव मुखस्य खड्गादय इत्युच्यते, तदप्यसत्, असत्यत्वे निमित्ताभावात्। प्रतीयन्ते हि निर्बाधया बुद्ध्या वर्णास्तदतिरिक्तस्तु शब्दो न प्रतीयते। यश्च न प्रतीयते सोऽस्ति, ये च प्रतीयन्ते ते न सन्ति इत्युच्यमाने शशो नास्ति विषाणमस्तीति स्यात्। तस्मादयमपि न कल्पनागौरवपरिहारक्षमः पन्थाः। अतः सुष्ठूक्तम्, `शब्दकल्पनायां सा च शब्दकल्पना च’ इति। तस्मात् स्फोटप्रतिपत्तौ यः क्रम आस्थेयः सोऽर्थप्रतिपत्तावेवास्थायतामिति किं तेन स्फोटेन?
अन्ये तूपलब्ध्यनन्तरसत्ताकानां वर्णानामर्थप्रत्यायकत्वमाचक्षते, तदिह नेष्यते, क्षणिकत्वाद् वर्णानाम्, उपलब्धेरूर्ध्वं सत्तानुपपत्तेः। सर्वथा व्युत्पत्त्यनुसारेण वर्णानामर्थप्रत्यायकत्वम्, तद्यथापुरा दृष्टं तथाभ्युपगम्यत इति। तदुक्क्तम्, `यावन्तो यादृशा’ इति।
यत्त्वत्र प्रतीपमुक्तम्, कियन्तः कीदृशा इति, तत्र प्रतीतयः प्रष्टव्या न तपस्विनो वयमिति यत् किञ्चिदेतत्।
यत्पुनरभ्यधायि क्रमव्यत्यासप्रयुक्ता अपि वर्णाः प्रत्यायका भवेयुः; क्रम एव वा स्फोटः स्यादिति, तदपि न पेशलम्,। क्रमो हि नाम स कालभेदः, न च काल एव स्फोटो भवितुमर्हति, क्रमोऽपि च न स्वतन्त्रः प्रतिपादकः, पदार्थान्तरवृत्तिर्वा, किन्तु वर्णाश्रित एव। तत्र चोक्तम्,
द्वये सत्यपि तेनात्र विज्ञेयोऽर्थस्य वाचकः।
वर्णाः किन्नु क्रमोपेताः किन्नु वर्णाश्रयः क्रमः॥
क्रमः क्रमवतामङ्गमिति किं युक्तिसाध्यता।
धर्ममात्रमसौ तेषां न वस्त्वन्तरमिष्यते॥ इति।
तस्माद् ये यावत्क्रमका यमर्थं प्रत्याययन्तो दृष्टा वर्णास्ते तत्कमका वर्णास्तमर्थं प्रत्याययिष्यन्तीति न स्फोटादर्थावगतिरिति। तदेवं न कार्यानुमानमर्थापत्तिर्वा स्फोटसिद्धये प्रभवतीति सिद्धम्।
न्यायमञ्जरी
%न वा स्फोटः प्रत्यक्षः%
यदप्यभाणि, शब्दादर्थ प्रतिपद्यामह इति व्यवहारः स्फोटपक्षसाक्षितामेवावलम्बत इति, तदप्यसारम्। वर्णानां वाचकत्वे यथोक्तनीत्या साधिते तत्पक्षेऽपि तथा व्यवहारोपपत्तेः।
ननु कथमुपपत्तिः? संस्कारस्तावन्न शब्दशब्देनोच्यते। न हि तथा लोके प्रसिद्धिः। संस्कारे च वाचके व्युत्पत्तिरपि दुरुपपादा। परावगतिपूर्विका हि शब्दात् स्वावगतिर्न च परस्थः संस्कारः परस्य प्रतीतिमुपजनयन् ग्रहीतुं शक्यः, परोक्षत्वाद्। वर्णेष्वपि शब्दशब्दो वर्तमानः प्रतिवर्णं वा वर्तेत, वर्णसमुदाये वा। प्रतिवर्णं वस्तमाने च शब्दे न शब्दादर्थप्रतिपत्तिः स्यात्, एकस्य वर्णस्य वाचकत्वायोगात्। समुदाये तु न वर्तितुमर्हति शब्दशब्दः, जातिशब्दत्वात्। द्विचनबहुवचनान्तव्यक्तिशब्दप्रयोगे हि तत्सामानाधिकरण्येन न जातिशब्द एकवचनान्तः प्रयुज्यते। न हि भवति देवदत्तयज्ञदत्तौ पुरुष इति, धवखदिरपलाशा वृक्ष इति, तथा गकारौकारविसर्जनीयाः शब्द इत्यपि।
ननु वनशब्दवत् तर्हि समुदायवाची भविष्यति शब्दशब्दः वनं वृक्षा न जातिशब्दवदिति चेन्न, तत्र समुदायव्यतिरेकनिर्देशदर्शनादाम्राणां वनं कपित्थानां वनमिति, न चैवमिह व्यतिरेकनिर्देशोऽस्ति गकारादीनां शब्द इत्यदर्शनात्।
अथ ब्रूयादाम्रादयो वनमित्यभेदेनापि वनशब्दः प्रयुज्यते, तथेहापि गकारादयः शब्द इति प्रयोक्ष्यते, एतदपि, नास्ति, वनादौ भेदव्यपदेशवशेन प्रतिव्यक्ति चाप्रयोगेण प्रसिद्धे समुदायशब्दत्वे समुदायिनोरभेदोपचारादाम्रादयो वनमिति युज्यते प्रयोक्तुम्, इह तु गकारादीनां शब्द इति न कदाचिदपि व्यस्तिरेकनिर्देशो दृश्यत इति समुदायशब्दत्वमघटमानं तत्सर्वथा वर्णशब्दवादिनामनुपपन्नोऽयं व्यपदेशः शब्दादर्थं प्रतिपद्यामह इति। उच्यते। किमनेनोपपन्नेनानुपपन्नेन वा कृत्यम्? यद्ययमुपपद्यते ततः किम्? अथापि नोपपद्यते ततोऽपि किम्? न हि लोकव्यपदेशनिबन्धना वस्तुस्थितिर्भवति।
ननु शास्त्रकारा अप्येवं व्यवहरन्ति `भावमाख्यातेनाचष्टे’ इति। न शास्त्रकारव्यवहारादप्याप्रमाणिकोऽर्थः शक्यतेऽभ्युपगन्तुम्। कतरच्चेदं प्रमाणं लोकव्यपदेशो नाम? अनुमानं तावत् प्रतिक्षिप्तम्। प्रत्यक्षमपि प्रतिक्षेप्स्यते। न चान्यत् स्फोटसिद्धौ प्रमाणं क्रमते। तदस्थानेऽयं लोकव्यपदेशनिरूपणेन स्फोटाटोपः। न चात्यन्तमसङ्गतोऽयं वर्णपक्षे लौकिको व्यपदेशः। पूर्ववर्णजनितसंस्कारसहिते तावदन्त्यवर्णो वाचके सुसङ्गत एवायं व्यपदेशः। तस्य शब्दत्वादेकत्वाच्च सङ्कलनाप्रत्ययोपारूढवर्णवाचकत्वपक्षेऽपि न दोषः। न हि भेदशब्दसहित एष शब्दशब्दः प्रयुज्यते, गकारादिभ्यः शब्दादर्थं प्रतिपद्यामहे, केवलस्तु जातिशब्द एकवचनान्तो बहुष्वपि वर्णेषु न विरुद्धः। किञ्च स्फोटपक्षे सुतरामनुपपन्नोऽयं व्यपदेशः शब्दादिति। प्रातिपदिकस्यार्थस्याभावान्न हि वर्णवत् स्फोटे शब्दशब्दत्वं प्रयुञ्जानो दृश्यते व्यवहर्तृजनः। अर्थप्रतिपत्तिहेतुत्वं शब्दलक्षणमसाधु, धूमादिभिर्व्यभिचारात्।
अथापि प्रक्रमपर्यालोचनया श्रोत्रग्राह्यत्वविशिष्टप्रतिपत्तिहेतुत्वं शब्दलक्षणमभिधीयते, तदिदं स्फोटं प्रति न सिद्धम्, तस्य श्रोत्रप्रत्ययविषयत्वाभावात्। श्रोत्रग्राह्यत्वमेव च तदितरव्यवच्छेदक्षममिति तदेव युक्तम्, किमुभयोपादानेन? श्रोत्रग्राह्यत्वञ्च वर्णेष्वेव नार्थान्तरस्येति वर्णा एव शब्दः तदुक्तम्,
परस्परानपेक्षाश्च श्रोत्रबुद्ध्या स्वरूपतः।
वर्णा एवावसीयन्ते न पूर्वापरवस्तुनी॥ इति।
श्रोत्रग्राह्यत्वं शब्दलक्षणं सत्तादावप्यस्तीति चेत्, न, श्रोत्रेणैवेत्यवधारणस्य विवक्षितत्वात्। श्रोत्रमनोभ्यां ग्रहणादसिद्धमवधारणमिति चेत्, न, समानजातीयव्यवच्छेदार्थत्वादवधारणस्य विवक्षितत्वात्। चक्षुरादीन्येव तेन व्यवछिद्यन्ते, न मनः। तथापि शब्दत्वेन व्यभिचार इति चेत्, न, जातिमत्त्वे सतीति प्रक्रमलभ्यविशेषणापेक्षणात्। स्तनयित्नुनादप्रभृतिभिरपि न व्यभिचारः, तेषां शब्दत्वाभ्युपगमात्। तदुक्तं भाष्यकृता `द्विविधश्चायं शब्दो वर्णात्मा ध्वनिमात्रश्च’ इति। अर्थप्रत्यायकत्वं तु न लक्षणमित्युक्तम्, अगृहीतसम्बन्धे वर्णात्मनि शब्दे तदभावेनाशब्दत्वप्रसङ्गात्। कालान्तरेण सम्बन्धबुद्धौ सत्याञ्च शब्दत्वमित्यव्यस्थितमिदं लक्षणम्।
पदपि शब्दस्वरूपनिरूपणप्रसङ्गेन तदभिधेयानां जातिगुणक्रियादीनां शब्दत्वाशङ्कनं तत्परिहणञ्च, तदपि किमाशयमिति न विद्मः, तेषामतिविभक्तरूपग्रहणात्। अतः श्रोत्रग्राह्यस्य शब्दत्वात् स्फोटस्य च श्रोत्रग्राह्यत्वाभावाद् वर्णवादिनामेव शब्दादर्थं प्रतिपद्यामह इत्यनुकूलो व्यपदेशः, न स्फोटवादिनामिति स्थितम्।
कथं पुनः श्रोत्रग्रहणत्वं स्फोटस्य न मृष्यते? यतः पदं वाक्यमिति श्रोत्रकरणमेकाकारं ज्ञानं प्रत्यात्मवेदनीयमस्ति। न चास्य वर्णा आलम्बनीभवेयुरित्युक्तम्। न युक्तमुक्तम्। इह हि शाबलेयादौ प्रतिपिण्डं गौरिति बुद्धिरुपजायमाना सकलपिण्डसाधारणं रूपं विषयीकरोतीति गोत्वसामान्यं तदिष्यते। एवं यदि प्रतिवर्णं पदं पदमिति, वाक्यं वाक्यमिति मतिरुपजायेत जातिवत्, तर्हि पदं वाक्यञ्च सर्ववर्णवृत्ति किमपि रूपमभ्युपगच्छेम। न त्वेवमस्ति प्रतीतिः, यथा च तन्त्वाद्यवयवपरिघट्टितपटादिकार्यविषयमाद्यनयनसन्निपातसमय एव भेदग्रहरहितमवयविज्ञानमुदेति, तथा क्रमसमुच्चरदेकैकवर्णस्वरूपोपग्रहनिरपेक्षं यदि पदमिति वाक्यमिति ज्ञानं भवेत्, तत्पटादिकमवयविनमिव पदं वाक्यमेकैकरूपमनुमन्येमहि, न त्वेवमस्ति। न हि तन्तुभिरिव पटो वर्णैः पदमारभ्यते।
यत्तु गौर्गौरित्येवं ज्ञानमभेदग्राहि दृश्यते, तदेकाजुपाधेः। भिन्नाजुपश्लेषे तु देवदत्त इत्यादौ नानाक्षरग्रहणमेव विलम्बितमनुभूयते। न चैवं पटादिबुद्धिषु तदवयवाः कदाचिद् विच्छेदेनावभासन्ते। तस्मान्नावयवीव जातिरिव वा पदं वाक्यमभिन्नमवभासते।
ननु च यासौ शब्दशब्दाद् बुद्धिः, सैवेयं स्फोटबुद्धिः। किमिदानीं यदेव शब्दत्वं सामान्यं स एव स्फोटः? मैवम्, स्फोट एवासौ न शब्दत्वं सामान्यं तत्। सामान्यं हि तदुच्यते यत्रैकव्यक्तिदर्शने व्यक्त्यन्तरानुसन्धानं शाबलेयग्रहणे बाहुलेयस्येव। इह तु न गकारग्रहणे औकारानुसन्धानमिति नेदं सामान्यम्। एकरूपस्त्वयं प्रतिभासः शब्दतत्त्वविषय एव, शब्दतत्त्वं च स्फोट इत्युच्यते।
आम्, ज्ञातममुनैव हि भयेन कैश्चित् स्फोटशङ्कितैः शब्दतत्त्वसामान्यमपह्नुतम्। अस्थान एव त्वयं सन्त्रासः। न हि शब्दत्वं स्फोटः। प्रतिवर्णं हि शब्दः शब्द इति बुद्धिरस्ति। न च वर्णः स्फोटः। तदिदं शब्दत्वसामान्यमेव शब्दबुद्धेरालम्बनम्, न स्फोटः। सामान्यसिद्धौ तु व्यक्त्यन्तरानुसन्धानमकारणमिति प्रागेव निर्णीतम्। तस्मान्न शब्दबुद्धावपि स्फोटोऽवभासते पदवाक्यबुद्धावित्येतच्च सत्यमाह। यदियमेककार्यकारित्वनिबन्धना वनपृतनादिबुद्धिसमानयोगक्षेमैव पदवाक्यबुद्धिरिति। न च जात्यादिष्वसमाश्वासो वैलक्षण्यस्य दर्शितत्वात्।
यदप्येककार्यकारित्वनिबन्धनायामभेदबुद्धावितरेतराश्रयपरिचोदनमेकार्थप्रतीतिपूर्विका पदवाक्यबुद्धिः, पदवाक्यबुद्धिपूर्विका चैकार्थप्रतीतिरिति, तदपि न सम्यक्। स्मर्यमाणानुभूयमानवर्णजनितेयमर्थप्रतीतिरित्यवोचाम, नाभिन्नपदपरिच्छेदपूर्विकेति कुत इतरेतराश्रयत्वम्? ब्रूयात् पदवाक्ययोरेकत्वमन्तरेण कथं पदवाक्यार्थप्रतीतिरेकरूपा भवेदिति सोऽयमतीव मुग्धालापः। प्रतीतिभेदाभेदौ हि विषयभेदाभेदावनुरुध्येते, नोपायभेदाभेदौ। भिन्नैरपि लोचनालोकान्तः करणप्रभृतिभिरुपायैरभिन्नार्थग्राहिणी बुद्धिरुपजन्यत एव। तदिह पदार्थबुद्धेरेकत्वात् पदार्थ एको भवतु, योऽस्या विषयः, न त्वेकं पदं यत्कारणमिति वाक्यार्थबुद्धेरप्येकत्वादेको वाक्यार्थो भवतु, न त्वेकं वाक्यं वर्गीकरणकारणं क्रमभाविनां बहूनां वर्णानामेतद्भवति यदेकार्थप्रतिपादकत्वम्, न त्वभेदमेव पदवाक्ययोर्गमयतीति। विप्रलब्धा एव च वैयाकरणाः पदवाक्ययोरप्यभेदं मन्यन्ते किल। शब्दादनन्यभूत एव शब्दार्थ इति स पुनरेषां व्यामोहः, तद्भेदस्य दृढप्रमाणसिद्धत्वात्। शब्दाथध्यासस्तु प्रतीतिविरुद्धत्वेन नेष्यत इत्यलं तत्कथया। तस्मात् प्रत्यक्षगम्योऽपि न स्फोट इति सिद्धम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%शास्त्रकारा इत्यनेन% निरुक्तकारयास्काचार्यान् परामृशति। अ…….ति। प्रक्रमयभिधानात् श्रोत्रग्राह्यत्वविशिष्टमिति। गौरिति…..रिकल्पिता गकाराद्यारम्भकाः परमाणव उच्यन्ते। परशब्दे…..इति।
%कैश्चित् स्फोटशङ्किभिरिति% प्राभाकरैः भाट्टा हि गत्वादि…….. …..धानाभावात्।
%शब्दाध्यासस्त्विति।% शब्दाकाराध्यारोपेणार्थस्य…..
न्यायमञ्जरी
नन्विभिन्नत्वाद् वाक्यार्थबुद्धेर्विषयभेदाभेदानुवृत्तत्वाच्च बुद्धिभेदाभेदयोरभिन्नो वाक्यार्थः स्यात्? बाढम्, अभिन्नो न त्वनवयवः; पटादेरभिन्नस्यापि सावयवत्वात्। यत्तु निरवयवत्वमुच्यते, तदतीव संवित्परामर्शकौशलशून्यव्याहृतम्।
अंशाः सन्ति न सन्तीति चिन्तात्यन्तमसङ्गता।
निरंशस्त्वस्ति नास्तीति युक्तं चिन्तयितुं सताम्॥
पदतदर्थभेदस्य प्रतिवाक्यं विस्पष्टमाभासमानत्वादनुगृह्यमाणावयवविभागयोश्च वाक्यवाक्यार्थयोरनवभासमानत्वादस्त्यवयवप्रतीतिः। सा तु भ्रान्तेति चेत्, न, बाधकाभावात्; भ्रान्तेश्च बीजं किमपि वक्तव्यम्। सादृश्यमिति चेत्, कस्य केनेति न विद्मः। यदि हि क्वचिन्मुख्या अवयवाः प्रसिद्धा भवेयुः, तस्मात् सादृश्यादितरत्र तदभावेऽपि भ्रम इति गम्यते। न त्वेवमस्ति। पूर्ववाक्यानामप्यभागत्वाद् नरसिंहेऽपि नरावयवाः सिंहावयवाश्च पृथक् पृथक् प्रत्यभिज्ञायन्ते, तद्वदिहाभ्युपगम्यमाने नूनं क्वचिद् वाक्ये सत्त्वमवयवानामेषितव्यम्। चित्रेऽपि हरितालसिन्दूरादिरूपम्, पानके त्वगेलादिरसः, ग्रामरागेऽपि ष़ड्जर्षमगान्धारादिस्वरजातं पृथगवगतमिति न ते निर्भागदृष्टान्ताः। चित्रादिबुद्धयस्तर्हि दृष्टान्ता इति चेत्, बाढम्, वाक्यार्थबुद्धिरपि निर्भागेष्यत एवास्माभिः, बुद्धीनां निरंशत्वेन सर्वासामनवयवत्वात्। बुद्धिविषयीकृतस्त्वर्थो दृष्टान्तदार्ष्टान्तिकयोः सावयव एव। तस्मान्न निर्भागौ वाक्यावाक्यार्थाविति युक्तम्।
यदप्यभ्यधायि वृद्धव्यवहारेण सम्बन्धबुद्धिर्वाक्यवाक्यार्थयोरेव, न पदतदर्थयोः, पदेन व्यवहाराभावादिति; तदप्यसाधु, वाक्यादपि व्युत्पत्तिर्भवन्ती पदार्थपर्यन्ता भवतीति एवं हि पदतदर्थसंस्कृतमतेरभिनवविरचितादपि वाक्याद् वाक्यार्थप्रतीतिरुपपत्स्यते। तदावापोद्वापपरतन्त्रवैचित्र्येण वाक्यानामानन्त्यादशक्या प्रतिवाक्यं व्युत्पत्तिः, सापि नापेक्षिष्यते, इतरथा हि सा अवश्यमपेक्ष्येत।
यत्तु केवलं पदं न प्रयुज्यत इति तदसत्यमिति, तदप्यसत्, महावाक्यस्थानेऽवान्तरवाक्यं न प्रयुज्यत इति तदप्यसत्यं स्यात्। स्वार्थे तत् प्रयुज्यत इति चेत्, पदमपि स्वार्थे क्वचित् प्रयुज्यत एव। यत्र पदानामर्थोऽर्थप्रकरणादिना लभ्यते, तत्र यावदप्राप्तं पदमेव केवलमुच्चारयन्ति। ग्रन्थग्रहरणावसरेषु च स्वरूपावधारणमपि फलवद् वर्णानाम्, मा वा फलवत्त्वं पदवर्णानां भूत्, तथापि रथावयवानामिव रथकार्येष्वपर्याप्तशक्तीनामपि स्वरूपसत्त्वमनिवार्यम्। कार्यान्तराय रथाद् रथावयवाः प्रभवन्तीति चेत्, पदवर्णा अपि कार्यान्तरे प्रभविष्यन्ति रथकार्यैकदेशमात्रां कामपि रथावयवाः कुर्वन्तीति। तदुच्यते, पदान्यपि वाक्यकार्यैकदेशं कमपि कुर्वन्त्येव। वर्णा अपि केचिदर्थवन्तो भवन्त्येवेति तस्मान्नासन्तः पदवर्णाः।
यत् पुनरवादि, वाक्यस्येव पदानि पदानामिव वर्णा वर्णानामप्यवयवान्तराणि स्युरिति तदिदमपूर्वं पाण्डित्यम्। न हि घटः सावयव इति परमाणुभिरपि सावयवैर्भवितव्यम्। उपलब्ध्यनुपलब्धी हि वस्तूनां व्यवस्थापिके। यद् यथोपलभ्यते, तत् तथा भवति, यद् यथा नोपलभ्यते, तत् तथा न भवति। वाक्यपदयोश्च भागा उपलभ्यन्ते, न वर्णानाम्। तथा ह्युक्तमेतत्,
अल्पीयसापि यत्नेन शब्दमुच्चारितं मतिः।
यदि वा नैव गृह्णाति वर्णं वा सकलं स्फुटम्॥ इति।
तस्माद् वालिशचोदितमिदं वर्णस्याप्यवयवा भवन्तु, पदवाक्ययोरपि वा मा भूवन्निति। अतश्च सावयवौ वाक्यवाक्यार्थौ पदोपजननापायाभ्यां तदर्थोपजननापायदर्शनादनयैव युक्त्या पदभागा अपि प्रकृतिप्रत्ययादयस्तात्त्विका इत्यवगन्तव्यम्, न कल्पनामात्रप्रतिष्ठाः। वृक्षं वृक्षेणेत्यत्र प्रकृत्यर्थानुगमे प्रत्ययार्थो भिद्यते, वृक्षं घटमिति प्रत्ययार्थानुगमे प्रकृत्यर्थो भिद्यते, तत्र योऽर्थो यं शब्दमनुगच्छति, स तस्यार्थ इत्यवसीयते, तत् कथमसत्या भागाः?
यत् पुनः कूपसूपयूपादौ सत्यपि वर्णानुगमेऽर्थानुगमो न दृश्यते, तेन चाकारणमर्थप्रतीतेर्वर्णानुगम इत्युक्तम्, तदयुक्तम्; यतो नान्वयव्यतिरेकाभ्यामनुत्पन्ना प्रतीतिरुत्पाद्यते, येन कूपादौ तदुत्पादनमाशङ्क्येत, सिद्धायान्तु प्रतीतौ वाचकभागेयत्तानियमपरिच्छेदेऽनयोर्व्यापारः, न चैकत्र वर्णानुगमेऽनुगमो दृष्ट इत्यन्यत्रादृश्यमानोऽपि हठादापादयितुं युक्तः। रेणुपटलानुगतपिपीलिकापङ्क्तिद्वारकव्यभिचारोद्भावनमपि न पेशलम्, पांसुपटलविकलपिपीलिकापङ्क्तिदर्शनेन तस्यास्तत्प्रतीतिकारित्वाभावनिश्चयात्। करिकरभतुरगप्रभृतीनान्तु प्रत्येकं व्यभिचारेऽपि बहुप्राणिरूपसामान्यानपायात् तत्तत्कारणमेव धूलिपटलमवगम्यते।
यदप्यश्वकर्णादाववयवार्थलोपादन्यत्राप्येवमिति कथितम्, तदपि न चतुरस्रम्। अश्वकर्णशब्दो हि क्वचिदर्थप्रकरणवशान्न्यग्भवदवयवशक्तितया तिरस्कृतावयवार्थवस्त्वन्तरव्यक्तौ न सर्वात्मनावयवार्थाभावः, व्यस्तत्वेन सामस्त्येन वा पुनः प्रयोगान्तरे तदर्थसम्प्रत्ययदर्शनादश्वमारोह, कर्णे कुण्डलमिति व्यस्तयोः प्रयोगः, तुरगश्रोत्रे तु प्रतिपिपादयिषितेऽश्वकर्ण इति समस्तप्रयोगोऽपि तदर्थापरित्यागी दृश्यत इति न सर्वात्मना निरर्थका भागाः।
यत् पुनरन्वाख्यानविसंवादात् प्रकृतिप्रत्ययविभागनियमो नावकल्पत इति, एतदपि न युक्तम्, आप्तरतोक्तीनां प्रामाण्यात् त्रिमुनिव्याकरणमिति पाणिनिमतमेव हि प्रकृतिप्रत्ययविभागमवितथं प्रत्येषामः। कियत्यपि चांशे प्रायेण सर्वेषामन्वाख्यातृणामविवादः। विकरणादिविसंवादमात्रं त्वकिञ्चित्करम्। अतः पारमार्थिकत्वात् प्रकृतिप्रत्ययांशयोर्न कल्पनामात्रेण पृथक्करणम्।
यदप्यवर्णि, वर्णसामान्यादपि भागज्ञानं दुर्घटं कालेनदन्तिनागा इति, तदप्यसारम्, स्वरस्मरणादीनां पदभेदावगमोपायानां सम्भवात्। सराम इत्याख्यातस्यान्यत् स्वरादिरूपं नाम्नोऽन्यत्। नामत्वेऽपि स इति राम इति च द्वे पदे, तयोरन्यद्रूपम्। सह रामेण वर्तत इत्येकपदेऽप्यन्यद्रूपमभियोगविशेषवतां सर्वं सुभगमिति नाशक्यः पदविभागपरिच्छेदः।
यदपि दध्यत्र मध्वत्रेति तथाविधपदरूपादर्शनेऽपि तदर्थसम्प्रत्यय इत्युक्तम्, सोऽपि न दोषः, यतस्त एवैते पदे ईषद्विकृते तत्प्रत्यभिज्ञानाच्चेति केचित्।
अथवा इगन्तदधिमधुपदवद् यणन्तयोरपि विषयान्तरे साधुत्वात्, तथैव तद्विधाद् व्युत्पत्तुर्यणन्तेऽपि पदेऽर्थप्रतिपादके भविष्यत इत्यलमेवंप्रायैः कदाशाव्याहृतैः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%अंशाः सन्ति न सन्तीति।% निरंशश्चेत् प्रमाणेनोपलभ्येत, तथाविधोपलम्भादेवांशाभावसिद्धेः किमंशाभावप्रतिपादनचिन्तया; प्रत्यक्षञ्चांशानामुपलम्भादिति।
%सादृश्यमिति चेदिति% यादृशा एव स्थानकरणादिसामान्यात् `देवदत्त गामभ्याज’ इत्यादौ वाक्येऽभिव्यञ्जका ध्वनयस्तादृशा एव `गामानय’ इत्यत्रपि वाक्ये इति ध्वनिसादृश्याद् यथा तत्र गोशब्दोऽस्त्येवमत्राप्यस्तीति भ्रमः।
%पदार्थपर्यन्ता भवति।% आवापोद्वापकल्पनया `रक्तः पटो भवति’ इति महावाक्यम्, रक्ताख्येन गुणेन पटस्य सम्बन्धप्रतिपादनार्थम्; अवान्तरवाक्यन्तु `पटो भवति’ इति; स्वार्थश्चास्य पटसत्तासम्बन्धलक्षण इति।
%यत्र पदान्तराणामर्थ इति।% यथा संव्रियतामपाव्रियतामित्यस्यार्थेऽर्थप्रकरणादिलभ्ये द्वारमिति केवलं प्रयुज्यत इति। %कार्यान्तराय रथावयवा% इति। कार्यान्तरं रथादन्यत् काष्ठमात्रसाध्यं दर्शनं वा। %वर्णा अपि कार्यान्तर% इति। यथा अकारादयो विष्ण्वादिवचकाः। %वर्णा अपि केचिदिति।% पदे ये वर्णाः प्रकृतिप्रत्ययादयः स्वार्थेन चार्थवन्तस्ते।
%यत् पुनः कूपसूपेति% आह च
यत् कूपसूपयूपेषु समानेऽप्यूपबन्धने।
नास्त्यर्थानुगमः कश्चित् तन्न शब्दोऽपराध्यति॥
नान्वयव्यतिरेकाभ्यामपूर्वार्थोऽवधार्यते।
सङ्कीर्णेऽवगते ह्यर्थे ताभ्यां शक्तिर्नियम्यते॥ इति॥
%सराम% इति। आख्यातपक्षे प्रत्ययस्वरेणान्तोदात्तः पदद्वयपक्षे स इति प्रातिपदिकस्वरेणोदात्तो राम इति च `कर्षात्वतोर्धञोऽन्त उदात्तः’ इत्यन्तोदात्तः। सह रामया वर्तत इति तु बहुव्रीहौ पूर्वपदप्रकृतिस्वरेणाद्युदात्तः।
न्यायमञ्जरी
%प्रसङ्गतः पदानां लिप्यक्षराणाञ्च परमार्थसत्त्वम्।%
अपि च पदानामसत्यत्वे किमर्थ एष तद्व्युत्पत्तावियान् प्रयत्नो वृद्धैराधीयते? असत्यमपि सत्योपायतां प्रतिपद्यत इति चेत्, अदृष्टत्वादलीका हि दंशादयः सत्यमूर्छाहेतवो येऽत्रोदाहृतास्ते तथा न भवन्ति, विषाशङ्काया अपि तत्कार्यहेतुत्वात्। शङ्का हि नाम बुद्धिः। बुद्धिश्च न न कारणम्। न चासती बुद्धिः।
यदपि लिप्यक्षराणामसत्यानां सत्यार्थप्रतिपादकत्वमुच्यते, तदप्यनभिज्ञभाषितम्। रेखास्तावत् स्वरूपतः सत्यः, ताश्च खण्डिकोपाध्यायोपदेशसंस्कृतमतेर्वर्णानुमापिका भवन्ति। तथा सम्बन्धग्रहणाद् रेखानुमितेभ्यश्च वर्णेभ्योऽर्थप्रतिपत्तिरिति नासत्यास्सत्योपायाः। अयं गकार इति तु सामानाधिकरण्यभ्रमो लिङ्गलिङ्गिनोरभेदोपचारात्। यथा प्रस्थमिताः सक्तवः चप्रस्थशब्देनोच्यन्ते, तथा रेखातोऽपि गकारानुमानाद् रेखैव गकार इत्युच्यते। एवमनिष्यमाणे लिप्यनभिज्ञस्यापि ततोऽर्थप्रतिपत्तिः स्यात्, रेखाणामसत्यवर्णात्मनां विद्यमानत्वात्, न चैवमस्ति। तस्माद् वर्णानुमानपुरस्सरैव रेखाभ्योऽर्थावगतिः। अभ्यस्तत्वाद् विषयस्य, सूक्ष्मत्वाच्च कालस्य क्रमो न लक्ष्यते, न त्वन्यथा ततोऽवगतिः। तस्मात् पारमार्थिकत्वात् पदतदर्थानां न निरवयवौ वाक्यवाक्यार्थाविति स्थितम्।
यत्पुनर्वाक्यभागपदवर्णापह्नववर्त्मना शब्दब्रह्मैवाद्वयमुपदर्शयितुमुपक्रम्यते, तत्र पुरस्तात् सविस्तरं समाधिमभिधास्यामः।
यत्पुनरवादि वाचस्त्रैविध्यम्, तदपि नानुमन्यन्तेः, एकैव वैखरी वाग् वागिति प्रसिद्धा हि।
अन्तः सङ्कल्पो वर्ण्यते मध्यमा वाक्
सेयं बुद्ध्यात्मा नैष वाचः प्रभेदः।
बुद्धिर्वाच्यं वाचकं चोल्लिखन्ती
रूपं नात्मीयं बोधभावं जहाति॥
पश्यन्तीति तु निर्विकल्पकमतेर्नामन्तरं कल्पितं
विज्ञानस्य हि न प्रकाशवपुषो वाग्रूपता शाश्वती।
जातेऽस्मिन् विषयावभासिनि ततः स्याद् वावमर्शो गिरो।
न स्याद् वापि न जातु वाग्विरहितो बोधो जडत्वं स्पृशेत्॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%शङ्काया अपि तत्कार्यहेतुत्वादिति।% शङ्काविषेणापि मरणं दृश्यते यतः।
%अभ्यस्तत्वाद् विषयस्येति।% अविनाभावस्मृत्यभावेऽपि रेखावगमसमनन्तरं वर्णावगतेः।
%बुद्धिर्वाच्यं वाचकं वेति।% घटमहं प्रतिपादयामीति वाच्यमुल्लिखन्ती, घटशब्दमुच्चारयामीति तु वाचकमुल्लिखन्ती। %न प्रकाशवपुषो वाग्रूपता शाश्वती।% नैव काचित् सम्भवतीत्यर्थः। तदेवाह—%जातेऽस्मिन्निति।%
न्यायमञ्जरी
%स्फोटवादनिराकरणोपसंहारः%
तदास्तामियं ब्रह्मचर्चा, प्रकृतमनुसरामः
इति विततया वर्णा एते धिया विषयीकृतां
दधति पदतां वाक्यत्वं वा त एव च वाचकाः।
न च तदपरः स्फोटः श्रोत्रे विभात्यवबोधने।
न च विधिहतो वाच्ये बुद्धिं विधातुमसौ क्षमः॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%इति विततयेति।% क्रमोपलब्धवर्णविषयया सङ्कलनारूपविततया। %न च विधिहत इति।% विधिना दैवेन हतो यथा सकलसदुपलम्भकप्रमाणाविषयस्तद्वद् य इत्यर्थः। बहुना वा क्लेशेन तस्य निराकरणादाक्रोशः।
न्यायमञ्जरी
%पदार्थानां वाक्यार्थप्रत्यायकत्वम्।%
एवं स्फोटे प्रतिहते वर्णेषु वाचकेषु स्थितेषु कश्चिदाह बाढं वर्णेभ्यः पदार्थप्रतीतिरस्तु, वाक्यार्थप्रतीतौ न तेषां सामर्थ्यम्। कुतस्तर्हि वाक्यार्थावगतिः? पदार्थेभ्य इत्याह। तथा च वर्णानां पदार्थप्रतिपत्तौ चरितार्थत्वान्न वाक्यार्थेऽपि सामर्थ्यम्। अपरिग्लानसामर्थ्यास्तु पदार्था आसते, ते वाक्यार्थबुद्धेर्विधातारः। अर्थापत्त्या हि वर्णानां कार्येषु शक्तयः कल्प्यन्ते, तत्र पदार्थबुद्धेरन्यथानुपपन्नत्वाद् यथोक्तनीत्या वर्णानां तत्प्रतिपादने शक्तिरवगम्यते। वाक्यार्थप्रतीतिः पुनरन्यथाप्युपपद्यमाना न तत्र तेषां शक्तिमुपकल्पयितुमर्हति।
किञ्च, किमेकमेव संस्कारमादधाना वर्णाः पदार्थञ्च वाक्यार्थञ्च बोधयन्ति, भिन्नं वा? तत्र च।
एकयैव हि संस्कृत्या कथं कार्यद्वयं भवेत्।
न चैषां पूर्वसंस्कारादन्योऽस्ती प्रतीयते॥
वाक्यार्थप्रतीतेरेन्यथापि भावान्न नानासंस्कारकल्पनाबीजमस्ति। अपि न पेदषु पूर्ववर्णेषु नातिदूरमतिक्रान्तेषु बुद्ध्योपसंहर्तुं शक्येषु घटमानमन्त्यवर्णवेलायामनुसन्धानम्। वाक्येषु पुनरतिचिरतरतिरोहिताक्षारपरम्परानुसन्धानमतिक्लिष्टमदृष्टपूर्वमिति दुर्घटमेतत्। व्यवहितपदोच्चारणे तु दृश्यते वाक्यार्थप्रतीतिः, यत्र पूर्ववर्णानुसन्धानगन्धोऽपि नास्ति। तस्मान्न वर्णा वाक्यार्थबुद्धिहेतवः। अपि च पदार्थं वाक्यार्थञ्च प्रतिपादयन्तो वर्णा युगपत् प्रतिपादयेयुः, क्रमेण वा? तत्र सकृदुच्चारितानां युगपदुभयकरणमनुपपन्नम्, अशक्यत्वात्। क्रमपक्षेऽपि पूर्वं चेद् वाक्यर्थप्रतिपादनम्, तदयुक्तम्, अनवगतपदार्थस्य वाक्यार्थप्रत्ययादर्शनात्।
अथ पूर्वं पदार्थप्रतिपादनं ततो वाक्यार्थप्रत्यायनम्; हन्त तर्हि पदार्थप्रत्ययादेव वाक्यार्यबुद्धेः सिद्धत्वात् किमिति पुनर्व्यापारान्तरे श्रम आश्रीयते? तस्मात् पदार्थप्रतिपादनपर्यवसितसामर्थ्यानि पदानि, पदार्थेभ्यस्तु वाक्यार्थप्रत्यय इति सिद्धम्।
अपि चान्वयव्यतिरेकाभ्यामेवमवगम्यते `यत् पदार्थपूर्वको वाक्यार्थः’ इति। यो हि मानसादपचाराच्छ्रुतेष्वपि पदेषु पदार्थान्नावगच्छति, नावगच्छत्येव वाक्यार्थम्। यस्तु अश्रुतेष्वपि पदेषु प्रमाणान्तरतः पदार्थान् जानीयात्, जानातीवासौ वाक्यार्थम्।
पश्यतः श्वेतिमारूपं हेषाशब्दञ्च शृण्वतः।
खुरविक्षेपशब्दञ्च श्वेतोऽश्वो धावतीति धीः॥
दृष्टा वाक्यविनिर्मुक्ता न पदार्थैर्विना क्वचित्॥ इति।
तदेषा वाक्यार्थबुद्धिः पदार्थप्रतीतिं न व्यभिचरति, व्यभिचरति तु पदप्रतीतिमिति न तत्कार्या भवितुमर्हतीति।
यदप्युच्यते, प्रत्येकं व्यभिचारात् समुदितानामसाधारण्यात्, न पदार्थानां वाक्यार्थावगतिहेतुत्वमिति, तदप्ययुक्तम्। प्रत्येकं तावद् गमकत्वं नेष्यत एव, समुदितानां त्वसाधारण्यं भवदपि न नः क्षतिकरम्। न ह्येते लिङ्गवत् सम्बन्धग्रहणमपेक्षमाणा अवबोधका यदसाधारण्यं नावकल्पेत, किन्त्वगृहीतसम्बन्धा अपि आकाङ्क्षासन्निधियोग्यतापर्यालोचनया परस्पर संसृज्यन्ते। स एव वाक्यार्थः। संसृष्टः पदार्थः समुदायः इतरविशिष्टो वेतर इति। नाप्यशाब्दत्वमित्यं वाक्यार्थप्रतीतेराशङ्कनीयम्, शब्दावगतिमूलत्वेन तस्याः शाब्दत्वात्। शब्दात् पदार्थप्रतिपत्तौ वाक्यार्थप्रतिपत्तिरिति सर्वमनवद्यम्। तदुक्तम्, `पदानि हि स्वं स्वमर्थमभिधाय निवृत्तव्यापाराणि, अथेदानीमवगताः पदार्था एव वाक्यार्थमवगमयन्ति’ इति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%अन्यथाप्युपपद्यमाना% पदार्थेभ्योऽपि।
%एकमेव संस्कारमिति।% पूर्ववर्णजनितसंस्कारः। पूर्ववर्णैर्यो जनितः संस्कारः स एव किमुभयं करोतीति।
%संसृष्टः पदार्थः समुदाय% इति संसर्गवाक्यार्थपक्षे। %इतरविशिष्टो वेतर इति% भेदवाक्यार्थवादिमते।
न्यायमञ्जरी
%तन्मतखण्डनम्%
अत्राभिधीयते, न पदार्थेभ्यो वाक्यार्थावगतिरपि तु वाक्यादेव। तथा चायं वाक्यार्थ इति प्रसिद्धो न पदार्थार्थः। यथा हि काल्पनिकवर्णसमूहात्मकं पदं पदार्थप्रतिपत्तिमादधाति तथा काल्पनिकपदसमूहात्मकं वाक्यं वाक्यार्थप्रतिपत्तिमाधास्यति।
ननु पदसमूहात्मकं वाक्यमन्यन्नास्ति किन्तु पदान्येव वाक्यम्, पदानाञ्च स्वार्थे चरितार्थत्वान्न वाक्यार्थसामर्थ्यमित्युक्तम्। नैतद्युक्तम्, पदार्थानामपि चरितार्थत्वात्। क्व तेषां चरितार्थत्वम्? स्वप्रतिपत्तौ।
ननु पदानि स्वप्रतिपत्तौ चरितार्थीभूय पदार्थप्रतिपत्तिमादधति, पुनस्तान्येव कथं दाक्यार्थप्रतिपत्तिमाधास्यन्ति? पदार्थास्तु स्वावगतेरूर्ध्वं न क्वचित् परत्र चरितार्था इति वाक्यार्थबुद्धेर्विधातारो भवन्तु। नैतदेवम्, अन्त्यपदस्यान्यत्र चरितार्थत्वाभावात्। अन्त्यपदमेव पूर्वपदस्मरणोपकृतं वाक्यमुच्यते। तदर्थश्च पूर्वपदार्थविशिष्टो वाक्यार्थ इत्येके। तस्माद् वाक्यादेव वाक्यार्थप्रत्ययः।
यत्तु किमेकसंस्कारस्मरणेन कार्यद्वयं पदानि विदधति, विभिन्नसंस्कारेण वेति, कार्यभेदात् कारणभेदानुमानमिति प्रसिद्ध एष पन्थाः। एकोऽप्यतीन्द्रियः संस्कारः कार्यात् कल्प्यते, बहवोऽपि तत एव कल्पयिष्यन्ते, कार्यस्य भिन्नत्वात्।
यदपि चिरतिरोहितवर्णप्रबन्धानुसन्धानं दुर्घटमिति कथितम्, तदपि न चारु। कयाचित् कल्पनया वर्णानामिव पदबुद्धौ पदानामपि वाक्यबुद्धावुपारोहसम्भवात्। एतच्चानन्तरं दर्शयिष्यते।
यदपि विकल्पितं युगपद् वा क्रमेण वा वर्णाः पदवाक्यार्थप्रत्यये व्याप्रियेरन्निति, तत्राप्युच्यते। यौगपद्यं तावदनभ्युपगमादेव प्रत्युक्तम्। क्रमोऽप्येषामीदृशो यत् प्रथमं पदार्थमवगमयन्ति ततो वाक्यार्थम्। सोऽयं हि पदार्थपूर्वक एव वाक्यार्थ उक्तो भवतीति चेत्, मैवम्। पदार्थो हि नाम प्रमेयमेव न ते प्रमाणवर्गे निपतन्ति। न च पदार्थवाक्यार्थयोरत्यन्तं भेदो येन तयोर्धूमाग्न्योरिव सम्बन्धग्रहणसापेक्षयोस्तदनेपक्षयोर्वा रूपदीपयोरिव प्रत्याय्यप्रत्यायकभावः। न हि स्वशरीर एव गम्यगमकवाचोयुक्तिः प्रवर्तते। कथं भवान् स्वभावहेतुवादिनो बौद्धस्य शिष्य इव निर्वृत्तः।
ननु सामान्ये हि पदं वर्तते विशेषे च वाक्यम्, अन्यच्च सामान्यमन्ये च विशेषाः। यदुक्तम्, `सामान्यान्यन्यथासिद्धेर्विशेषं गमयन्ति हि’ इति व्यतिरेक एव प्रत्याय्यप्रत्यायकयोः। उच्यते, बाढम्, अस्त्ययमियान् व्यतिरेकः, किन्तु विरतव्यापारे चक्षुषीव शब्दे धूमादिवत् प्रमेयात् पदार्थादग्नेरिव वाक्यार्थस्यावगमो नास्ति। न हि पदार्थाः प्रमेयीभूतधूमवत् पुनः प्रमाणीभवितुमर्हिन्त, किन्तु पदान्येव तत्प्रतिपादनद्वारेण वाक्यार्थप्रतिपत्तौ पर्यवस्यन्ति। कथमात्मीयमेव ग्रन्थं न बुध्यन्ते भवन्तः?
वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकम्।
पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम्॥ इति।
अवान्तरव्यापारो हि कारकस्य प्रधाने व्यापारे कारकतां व्याहन्ति। पदानां हि द्वयी शक्तिरभिधात्री तात्पर्यशक्तिश्च। तत्राभिधात्री शक्तिरेषां पदार्थेषूपयुक्ता, तात्पर्यशक्तिश्च वाक्यार्थे पर्यवस्यतीति।
यद्यपि पदानि स्वं स्वमर्थमभिधाय निवृत्तव्यापाराणि, तथापि यदर्थपराणि तत्रानिवृत्तव्यापाराण्येवेति। एवं हि शाब्दता वाक्यार्थप्रत्ययस्य न हास्यते। सर्वात्मना तु विरतव्यापारे शब्दे सा अवश्यं हीयते। शब्दावगतिमूलात्वात्तु शाब्दत्वे श्रौत्रत्वमपि स्यात्, श्रोत्रस्य पारम्पर्येण मूलत्वात्। शब्दे विरतव्यापारे कतमत् तत्प्रमाणं यस्य वाक्यार्थप्रतीतिः फलमिति न विद्मः। न प्रत्यक्षम्, अतीन्द्रियत्वाद् वाक्यार्थस्य, नानुमानम् `न चानुमानमेषा धीः’ इत्यादिना ग्रन्थविस्तरेण स्वयमेव निरस्तत्वाद्। न शब्दो निवृत्तव्यापारत्वात्, `सामान्यान्यन्यथासिद्धेर्विशेषं गमयन्ति हि’ इति न्यायाद्। अर्थापत्तिरिति चेत्, किमिदानीमर्थापत्तिगम्यो धर्मः? न चैतद् युक्तमिष्टं वा। तदिदं सप्तमं प्रमाणमवतरति पदार्था नामेति, तच्च नेष्टम्। अतो न पदार्थनिमित्तको वाक्यार्थप्रत्ययः।
यदप्युक्तम्, अन्वयटव्यतिरेकाभ्यां पदार्थनिमित्तकत्वं वाक्यार्थस्यावगम्यत इति तत्र पदार्थसंसर्गस्वभावत्वाद् वाक्यार्थस्य। सत्यम्, तत्पूर्वकत्वमिष्यत एव, वाक्यप्रतिपत्तेस्तु न तज्जन्यत्वम्, शब्दव्यापारानुपरमात्। मानसे चापचारे सति पदानामपि ग्रहणं नास्त्येव, यतः क्षणान्तरे समाहितचेताः स वक्ति `नाहमेतदश्रौषमन्यत्र मे मनोऽभूत् पुनर्ब्रूहि’ इति। इतरथा हि पदानि स्मृत्वा तदर्थमेवावगच्छेन्न पुनः पृच्छेत्। तस्मात् पदार्थानां ग्रहणमेव तत्र वाक्यार्थावगमे निमित्तम्।
यदपि पश्यतः श्वेतिमारूपमिति तदपि न किञ्चित्। किं प्रत्यक्षेण शुक्लो गौर्गच्छन्न दृश्यते? स किं शुक्लो गौर्गच्छतीति वाक्यास्यार्थो न भवति? प्रत्यक्षप्रतिभासात्तु प्रत्यक्षार्थ एवासौ न वाक्यार्थ इत्युच्यते। एवं श्वेतोऽश्वो धावति इति %आनुमानिकोऽयं प्रत्ययः% पर्वतेऽग्निरितिवत्। बाक्यश्रवणात्तु विना न वाक्यार्थो भवितुमर्हतीत्यलं प्रसङ्गेन।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%अन्त्यपदस्यान्यत्राचरितार्थत्वादिति।% अन्त्यपदज्ञानोत्तरकालं हि न पृथगन्त्यपदार्थप्रतिपत्तिरस्ति तस्यैव वाक्यार्थत्वादिति।
%कथं भवानित्यादिना% भट्टमुपालभते—-%स्वभावहेतुवादिन% इति। स ह्यभिन्नयोरेव भागयोर्गम्यगमकभावमाह।
%सामान्यान्यन्यथासिद्धेर्विशेषरहितानि% सामान्यान्यथासिद्ध्यन्ति विशेषमाक्षिपन्तीति अर्थः।
%न चानुमानमेषा धीरिति।%
न चानुमानमेषा धीस्तन्मात्रेण प्रसज्यते।
प्रतिज्ञार्थैकदेशत्वात् पदार्थानां ह्यलिङ्गता॥
पदार्थैरनुरक्तो हि वाक्यार्थः सम्प्रतीयते।
नात्मना गमयन्त्येनं विना धूमोऽग्निमत्त्ववत्॥
पक्षधर्मत्वमेतेषां वाक्यार्थे च न गम्यते।
न हि देशादिवत् पूर्वं निष्पन्नः सम्प्रतीयते॥
असत्त्वभूतमेनं हि प्रतिपद्यामहे ततः। इत्यादिना।
%किमिदानीमर्थापत्तिगम्यो धर्म% इति। धर्मस्य वाक्यार्थत्वाद् भवन्मते स च प्रमाणान्तरागोचरः शब्दैकप्रमाणगम्य इति यूयं स्थिताः।
%आनुमानिकोऽयं प्रत्यय इति।% श्वेतरूपदर्शनादीनामश्वतद्भावभावित्वेनासकृद्दर्शनात्।
न्यायमञ्जरी
%वाक्यादेव वाक्यार्थबोधः%
तस्माद् वर्णेभ्य एव कयाचित् कल्पनया पदवाक्यभावमुपगतेभ्यः पदार्थवाक्यार्थसम्प्रत्यय इति युक्तम्। तस्मात् पदार्थजन्या न भवति वाक्यार्थबुद्धिरिति सिद्धम्। अनुपरतव्यापाराद् वाक्यादेवेयमुद्भभवति।
न्यायमञ्जरी
%वर्णानां पदत्ववाक्यत्वज्ञानप्रकारः%
आह, कया पुनः कल्पनया पदवाक्यभावमुपगता वर्णाः पदार्थवाक्यार्थप्रतीतिमादध्युरिति।
तत्राचार्यास्तावदिमां कल्पनामदीदृशन्। प्रथमं वर्णज्ञानं ततः संस्कारस्ततो द्वितीयवर्णज्ञानं तेन प्रथमवर्णज्ञानजनितेन च संस्कारेण पटुतरः संस्कारस्ततस्तृतीयवर्णज्ञानं तेन प्राक्तनेन संस्कारेण पटुतरः संस्कारः, एवं यावदन्त्यवर्णज्ञानम्, अन्त्यवर्णज्ञानानन्तरन्तु ततः संस्कारात् सकलपूर्ववर्णविषयमेकस्मरणं तेनान्त्यवर्णज्ञानस्य विनश्यत्ता विनश्यदवस्थग्रहणस्मरणविषयीकृतो वर्णसमूहः पदमिति ज्ञायते। ततः पदज्ञानात् संस्कारस्ततस्तथैव वर्णक्रमेण द्वितीयपदज्ञानं तेन प्रथमपदज्ञानजन्मना च संस्कारेण पटुतरः संस्कारो जन्यते पुनस्तेनैव क्रमेण तृतीयपदज्ञानं तेन प्राक्तनेन च संस्कारेण पीवरतरः संस्कारो जन्यते, एवं यावदन्त्यपदज्ञानमन्तरेण स्थवीयसा संस्कारेण सर्वपदविषयमेकस्मरणमुपजन्यते, संस्कारस्यैवैकत्वात्। सोऽयं स्मरणानुभवविषयीकृतवर्णसमूहपदसमूहो वाक्यमित्युच्यते। ततो वाक्यार्थप्रतिपत्तिः। संस्कारस्य च संस्कारान्तरकरणकौशलमवश्यमेषितव्यम्, अन्यथा सर्वत्र क्रियाभ्यासोऽनर्थकः स्यादिति।
न्यायमञ्जरी
%तन्मतखण्डनम्%
अत्र वदन्ति, नेयं प्रक्रिया साध्वी, ज्ञानयौगपद्यप्रसङ्गात्। तथा हि चरमपदप्रतिभासानन्तरं यथा पूर्वपदस्मरणं तथा तदैव सङ्केतस्मरणेनापि भवितव्यम्। अनवगतपदार्थस्य हि न वाक्यार्थप्रतीतिः, अस्मृतसङ्केतस्य च न पदार्थप्रतीतिः। यत्राप्यभ्यस्ते विषये सङ्केतस्मृतिर्न संवेद्यते तत्राप्यविनाभावस्मृतिरिव बलादसौ कल्प्यते, अनवगतपदपदार्थसम्बन्धस्य नारिकेलद्वीपवासिन इव अर्थप्रत्ययाभावात्। सम्बन्धानुभवस्य च पूर्वंवृत्तत्वेनेदानीं स्मरणमुखेनोपकारित्वात्। तस्मादन्त्यपदज्ञानानन्तरं पूर्वपदसमयस्मरणयोर्युगपदुत्पादाज्ज्ञानयौगपद्यम्।
अथ समयस्मरणानन्तरं पूर्वपदस्मरणमुपेयते तथा तत्स्मृतिकाले पदार्थज्ञानोपजनात् पुनरपि ज्ञानयौगपद्यम्। न च तदा पदार्थज्ञानं नोदेतीति शक्यते वक्तुम्, अविकलतदुपजनकारणसामग्रीसन्निधानात्, प्रतिनायकस्य च तदानीमभावात्। पदार्थज्ञानोत्तरकालं तर्हि पूर्वपदस्मरणमस्त्विति चेत्, एवं तर्हि चरमपदज्ञानप्रत्यस्तमयादन्त्यपदरहितं वाक्यं स्यात्, अन्त्यपदज्ञानस्य हि सङ्केतस्मृतिवेलायां विनश्यत्ता, पदार्थज्ञानवेलायां विनाश एव।
यत्तु ब्रूयादसंवेद्यमानमपि तदानीमन्त्यपदमस्त्येवेति, स्वस्ति तर्हि न्यायविस्तराय। अपि च तदानीमनुपलभ्यमानेनापि सता किमन्त्यपदेन क्रियते? पुनरवगमोऽस्य भविष्यतीति चेत्? स कुतस्त्यः। श्रोत्रस्य विरम्य व्यापारासंवेदनात्। मनसश्च स्वातन्त्र्येण बाह्ये विषये सामर्थ्यासम्भवात्। सत्यपि वा पुनस्तदवगमे ज्ञानयौगपद्यानपायात्।
अपि च पूर्वपदैरर्थशून्यतया शुष्कनीरसतनुभिरन्त्यपदानुभवसमनन्तरं स्मृतैरपि को गुणः? न हि तथाविधपदस्मरणमर्थप्रत्यायनाङ्गम्। अथ सार्थकानि प्राञ्चि पदानि स्मर्यन्ते? तर्हि समयस्मरणपदार्थज्ञानादिकार्यसाङ्कर्यकृतम् अनेकशाखं प्रतिपदं ज्ञानयौगपद्यमापद्यत इत्यसतीयं कल्पना।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%तत्स्मृतिकाले पदार्थज्ञानोपजनादिति।% अविकलकारणस्यानुत्पत्तौ हेत्वभावात्, तस्य ह्युत्पत्तौ शङ्केतस्मरणीपकृतं पदज्ञानमविकलं कारणमिति।
%स्वस्ति तर्हि न्यायविस्तरायेति।% न्यायविस्तरो न्यायशास्त्रम्, तद्धि शब्दानित्यत्वप्रतिपादनाय, आप्तोक्तत्वेन वेदप्रामाण्यसमर्थनात्; असंवेद्यमानस्य चास्तित्वे सामान्यादिवन्नित्यत्वापत्तिः। %सत्यपि वा पुनः तदवगम% इति। पदज्ञानानन्तरपूर्वपदसङ्केतस्मरणयोरवश्यमुत्पादात्।
%अथ सार्थकानि स्मर्यन्ते तर्हि समयस्मरणेति।% पदज्ञानानन्तरं हि यदैव सङ्केतस्मरणं तदैव तदार्थज्ञानमपि प्राप्नोति, सङ्केतस्मरणोत्तरकालन्तु तदभ्युपगमेऽन्त्यपदनीत्या पदज्ञानस्य विनाशात् पदशून्यः पदार्थप्रत्ययः स्यादिति समयस्मरणपदार्थज्ञानयोः साङ्कर्यं युगपदुत्पत्तिः।
न्यायमञ्जरी
%व्याख्यातृमते वर्णानां पदत्ववाक्यत्वप्राप्तिप्रकारः%
व्याख्यातारस्तु प्रक्रियान्तरमाचचक्षुः। वर्णानुगमरूपेण तावत् प्रथमपदज्ञानमुत्पद्यते ततः सङ्केतस्मरणं तेन विनश्यदवस्थेन पदज्ञानेन स्वविषयावच्छेदेन पदार्थज्ञानमाधीयते यत्र वाचकावच्छिन्नं वाच्यस्वरूपमवभासते। तथाविधपदार्थज्ञानात्। संस्कारस्ततस्तथैव क्रमेण द्वितीयपदज्ञानं तदनु समयस्मरणं तेन विनश्यदवस्थेन च द्वितीयपदज्ञानेन तथैव स्वावच्छेदेन स्वार्थज्ञानं तेन प्रथमपदार्थज्ञानाहितेन संस्कारेण च दृढतरः संस्कारः। पुनर्वर्णक्रमेण तृतीयपदज्ञानं पुनः सङ्केतस्मरणं सङ्केतस्मृतिसहायेन तेन विनश्यदवस्थेन स्वार्थेनैव स्वावच्छिन्नं ज्ञानं तेन प्राच्येन च संस्कारेण दृढतरः संस्कारः। एवं तावद् यावदन्त्यपदज्ञानात् स्वावच्छिन्नार्थप्रतीतिः। ततः पूर्वोपचितान्महतः संस्काराद् विशिष्टसर्वविषयमेकस्मरणं यस्य स्वावच्छिन्नाः सर्वे पूर्वपदार्था विषयतां प्रतिपद्यन्ते। तस्मिन् स्मरणे तथान्त्यपदार्थज्ञानेऽवच्छेदकत्वेन प्रस्फुरत्पदसमूहो वाक्यम्, अवच्छेद्यत्वेन प्रकाशमानोऽर्थसमूहो वाक्यार्थः। एवं स्मर्यमाणानुभूयमानौ पदपदार्थसमूहौ वाक्यवाक्यार्थावुक्तौ भवतः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%स्वविषयावच्छेदेन पदार्थज्ञानमिति।% गोशब्दाद्धि गोशब्दवाच्यत्वेन सास्नादिमानर्थोऽवगम्यते न केवलं सास्नादिमत्त्वेन। %तस्मिन् स्मरणे तथान्त्यपदार्थज्ञान इति% अन्त्यपदार्थज्ञानस्यापि वाचकावच्छेदेनैवोत्पत्तेः।
न्यायमञ्जरी
%तन्मतखण्डनम्%
एतदपि न विचारक्षमम्। अन्त्यपदार्थप्रतीतिसमये तदवच्छेदकतया प्रतिभासमानं पदं तत्प्रतीतौ तावत् कारणमिति नात्र विमतिः, स्वयञ्च प्रतिभासमानत्वात् कर्मापि भवत्येव। तस्य तदानीं कर्मत्वे कारणं चिन्त्यम्। न श्रोत्रं तावत् कारणम्, अन्त्यपदप्रतीत्यनन्तरमेव तद्व्यापारस्य विरतत्वात्, विरम्य च पुनर्व्याप्रियमाणत्वानुपपत्तेः। मनस्तु बाह्ये विषये स्वातन्त्र्येण प्रवर्तितुमसमर्थम्। तत्प्रवृत्तौ सर्वाण्येव प्रथमपदात् प्रभृति पदानि मानसव्यवसायगोचरचारीणि भवन्ति, किं स्मर्यमामत्वमन्येषामुच्यते?
अथ तदन्त्यपदमर्थ इवात्मन्यपि तदवच्छेदकत्वप्रतिपत्तेः करणत्वं प्रतिपत्स्यत इति मन्यसे, तदयुक्तम्, स्वप्रतीतौ तस्य कर्मत्वात्। न चैकस्यामेव क्रियायां तदेव कर्म करणञ्च भवितुमर्हति, विस्तरतश्चायं वाचकावच्छिन्नवाच्यप्रतिभासः प्रत्यक्षलक्षणे प्रतिक्षिप्त इत्यलं पुनस्तद्विमर्देन।
न्यायमञ्जरी
%मतान्तरेम वाक्याद् वाक्यार्थबोधः%
आह, प्रथमं पदज्ञानं ततः सङ्केतस्मरणं ततः पदार्थज्ञानं पदार्थज्ञानात् पदज्ञानस्य विनश्यत्ता विनश्यदवस्थपदज्ञानमपेक्षमाणं श्रोत्रं प्रथमपदावच्छेदेन द्वितीयपदे ज्ञानमादधाति। द्वितीयपदज्ञानानन्तरं पुनः सम्बन्धस्मरणं ततः पदार्थज्ञानम्। तेन द्वितीयपदज्ञानस्य विनश्यत्ता विनश्यदव्सथापदज्ञानसहायाच्छ्रोत्रात् तथैव तदवच्छेदेनोत्तरोत्तरपदज्ञानं तावद् यावदन्त्यपदज्ञानमिति। तज्ज्ञानानन्तरञ्च प्राक्तनप्रक्रियावन्नात्र पूर्वपदस्मरणमुपयुज्यते, तत्फलस्य च विनाशदशापतितपदज्ञानकृतावच्छेदमहिम्नैव सिद्धत्वात्। तस्य हि फलमन्त्यपदावगमसमये सकलपूर्वपदोपस्थानम्, तच्च विनश्यदवस्थपूर्वपूर्वपदज्ञानकृतोत्तरोत्तरपदानुरागबलादे लब्धमिति किं तत्तत्स्मरणेन? तदभावाच्च नात्र ज्ञानयौगपद्यादिचोद्यावसरः समस्ति। यथोपदर्शितान्त्यपदज्ञानमेव च वाक्यार्थज्ञानमिति न चरितार्थत्वमत्र। इत्येवं वाक्यादेव वाक्यार्थप्रत्ययः सेत्स्यति पदार्थेभ्य इति।
न्यायमञ्जरी
%तन्मतखण्डनम्%
इयमपि न निरवद्या कल्पनेत्यपरे। प्रथमपदोपरागपूर्वकद्वितीयपदज्ञानोपजननानुपपत्तेः। प्रथमपदज्ञानानन्तरं सम्बन्धस्मरणं तेनैव तस्य विनश्यत्ता पदार्थप्रतिपत्तिकाले च पदज्ञानं विनष्टमेव, विनश्यदवस्था बुद्धिर्बुद्ध्यन्तरविरोधिनीति सामान्येन श्रवणात्।
अथ ब्रूयात्, कार्यभूतया बुद्ध्या कारणभूता बुद्धिर्विरोध्येत, न बुद्धिमात्रेण बुद्धिमात्रमिति, एतदयुक्तम्। विशेषे प्रमाणाभावात्। अभ्युपगम्यापि ब्रूमः, कार्यकारणभूतयोरेव बुद्ध्योर्भवतु वध्यविघातकभावः, तथापि पदज्ञानं संस्कार इव समयस्मृतेः कारणमेव, संस्कारेणेव तेनापि विना तदनुत्पादात्। संस्कारप्रबोधे तस्य व्यापार इति चेत्, तेनापि द्वारेण यत् कारणं तत् कारणमेव। तदिह पदज्ञानं समयस्मरणं पदार्थज्ञानमिति त्रीणि ज्ञानानि युगपदवतिष्ठन्त इति परः प्रमादः।
अपि च पदज्ञानमुपजायमानं वर्णक्रमेण जायते न सहसैव, निरंशपदवादस्य व्युदस्तत्वात्। तत्र च द्वित्राणि त्रिचतुराणि पञ्चषाणि वाक्षराणि क्रमेण ग्रहीष्यन्ते, तद्विषया हि क्रमभाविन्य उपजननापायधर्मिका बुद्धयः। अत्रान्तरे विनश्यदवस्थमन्त्यपदज्ञानमासिष्यते तदुपरागेण द्वितीयपदज्ञानमुपपत्स्यत इति दुराशैवेयम्।
अपि च व्यवहितोच्चारितेभ्योऽपि पदेभ्यो वाक्यार्थप्रत्ययो दृश्यते। यत्रानेककार्यपर्यालोचनव्यग्रहृदयः स्वामी `रे कन्दलक’ इत्युक्त्वा कार्यान्तरं संविधाय `तुरगम्’ वदति, पुनः प्रयोजनान्तराय व्यवहृत्य `कल्पितपर्याणम्’ इत्यपि वक्ति, पुनरन्यत् किमपि कृत्वा ब्रवीति `आनय’ इति। तत्र `रे कन्दलक कल्पितपर्याणमश्वमानय’ इति वाक्यार्थावगमो भवति। भवन्मते चसौ दुरुपपादः, पदानुरागस्य तत्रासम्भवात्, सर्वपदस्मरणस्य चानभ्युपगमात्।
किञ्च, न प्रवरमतानुसारिणामिव सम्बन्धविशेषबुद्धिषु विशेषणविशेष्ये द्वे वस्तुनी आलम्बनम्, अपि तु विशेष्यमात्रम्, उपायभेदादेव प्रतीत्यतिशय इति। तस्मिंश्च सत्यपि पूर्वपदानुरागे तत्प्रतिभासाभावात् शुद्धमेवद्वितीयपदज्ञानं सम्पन्नमिति किं तदनुरागेण? अतश्चेयमनुपपन्ना कल्पना, यतो द्वितीयपदस्य स्वार्थे शुद्धमेव सङ्केतग्रहणं वृत्तं यदा क्वचित् प्रथमं प्रयुक्तमासीत्, अधुना तु तत्पदं पदान्तरोपरक्तं सञ्जातमिति तथाविधस्य गृहीतत्वादर्थप्रतिपत्तिहेतुत्वं न स्यादित्यास्तामपूर्वमिदं शङ्करस्वामिनः पाण्डित्यम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%न बुद्धिमात्रेण बुद्धिमात्रमिति।% सङ्केतस्मरणं हि संस्कारकार्यम्, न पदज्ञानकार्यमिति मन्यते।
%त्रीणि ज्ञानानि युगपदवतिष्ठन्त% इति। पदज्ञानस्य तावद् विनश्यदवस्थस्य त्वयैव सत्ताभ्युपगता, सङ्केतस्मरणस्य च पदार्थज्ञानोत्तरकालं विनाशादिति।
%सत्यपि पूर्वपदानुराग इति% यथाचार्यमतव्याख्यानावसरेऽव्यपदेश्यपदे दण्डीत्यादीनां शुद्धपुरुषालम्बनत्वं प्रतिपादितमिति। %तथाविधस्य गृहीतत्वादिति।% अतस्तादृशस्य ज्ञानात् सङ्केतस्मरणानुपपत्तिः। %शङ्करस्वामी% न्यायभाष्यटीकाकृत्।
न्यायमञ्जरी
%स्वमतेन वाक्यार्थबोधप्रकारः%
आह, यदि इमाः सर्वा एव तान्त्रिकरचिताः कल्पना न साधीयस्यश्चेत्, आत्मीया काचन निर्दोषा साध्वी कल्पना निवेद्यताम्। उच्यते, न वयमात्मीयामभिनवां कामपि कल्पनामुत्पादयितुं क्षणाः
न हीयं कविभिः पूर्वैरदृष्टं सूक्ष्मदर्शिभिः।
शक्ता तृणमपि द्रष्टुं मतिर्मम तपस्विनी॥
कस्तर्हि विद्वन् मतितर्कणीयग्रन्थोपबन्धे तव दोहदोऽयम्।
न दोहदः पर्यनुयोगभूमिः परोपदेशश्च न तस्य शान्तिः॥
राज्ञा तु गह्वरेऽस्मिन्नशब्दके बन्धने विनिहितोऽहम्।
ग्रन्थरचनाविनोदादिह हि मया वासरा गमिताः॥
तथापि वक्तव्यं कथं वर्णेभ्यो वाक्यार्थप्रतीतिरिति। उच्यते, चिरातिक्रान्तत्वमचिरातिक्रान्तत्वं वा न स्मृतिकारणम्। संस्कारकरणकं हि स्मरणं भवति। तच्च सद्यः प्रलीने चिरप्रलीने वा न विशिष्यत इति। एवं पूर्वेषां पदानां चिरतिरोहितानामपि व्यवहितोच्चारितानामपि संस्कारात् स्मरणं भविष्यति। अन्त्यपदस्यानुभूयमानत्वोपगमे ज्ञानयौगपद्यादिप्रमादप्रसङ्ग इति वरमन्त्यपदमपि स्मर्यमाणमस्तु, स्मृत्यारूढान्येव सर्वपदानि वाक्यार्थमवगमयिष्यन्ति। तत्र चेयं कल्पना, वर्मक्रमेण तावत् प्रथमपदज्ञानं ततः सङ्केतस्मरणं संस्कारश्च युगपद् भवतः, ज्ञानयोर्हि यौगपद्यं शास्त्रे प्रतिषिद्धं न संस्कारज्ञानयोः। ततः पदार्थज्ञानं तेनापि संस्कारः पुनर्वर्णक्रमेण द्वितीयपदज्ञानं ततः सङ्केतस्मरणं पूर्वसंस्कारसहितेन च तेन पटुतरः संस्कारः पुनः पूर्ववर्णक्रमेण तृतीयपदज्ञानं सङ्केतस्मरणं पूर्वसंस्कारापेक्षः पटुतरः संस्कार इत्येवं पदज्ञानजनिते पीवरे संस्कारे पदार्थज्ञानजनिते च तादृशि संस्कारे स्थितेऽन्त्यपदार्थज्ञानानन्तरं पदसंस्कारात् सर्वपदविषयस्मृतिः, पदार्थसंस्काराच्च पदार्थविषया स्मृतिरिति संस्कारक्रमात् क्रमेण द्वे स्मृती भवतः, तत्रैकस्यां स्मृतावुपारूढः पदसमूहो वाक्यमितरस्यामुपारूढः पदार्थसमूहो वाक्यार्थः।
ननु स्मृतेरप्रमाणत्वादप्रमाणमिदानीं वाक्यार्थप्रतिपत्तिः? मैवम्, तथा सम्बन्धग्रहणात्। यत्र ह्यन्यथा सम्बन्धग्रहणमन्यथा च प्रतिपत्तिस्तत्रायं दोषः, यथा धूमे गृहीतसम्बन्धे नीहाराद् दहनानुमितौ। इह तु क्रमवर्तिनां वर्णानामन्यथा प्रत्ययासम्भवाद् यथैव व्युत्पत्तिस्तथैव प्रतीतिरिति न किञ्चिदवद्यम्। अचिरनिर्वृत्तानुभवसमनन्तरभाविनी च स्मृतिरनुभवायते।
अथ वा कृतं स्मरणकल्पनया, अन्त्यपदार्थज्ञानान्तरं सकलपदार्थविषयो मानसोऽनुव्यवसायः शतादिप्रत्ययस्थानीयो भविष्यति, तदुपारूढानि पदानि वाक्यम्। तदुपारूढश्च पदार्थो वाक्यार्थः। तथाविधश्च मानसोऽनुव्यवसायः सकललोकसाक्षित्वादप्रत्याख्येयः।
नन्वन्त्यपदार्थज्ञानानन्तरं किं पूर्वपदतदर्थविषयेण स्मरणेन, अनुव्यवसायेन वा? अन्त्यपदार्थश्चेज्ज्ञातः समाप्तं कर्तव्यम्। किमन्यदवशिष्टं यद् व्यवसायेन स्मरणेन वा करिष्यते। एकाकारो हि वाक्यार्थप्रत्ययः प्रत्यात्मवेदनीयो न शक्योऽपह्नोतुम्। न चासौ स्मर्यमाणादनुव्यवसायाद् वा विना सम्पद्यत इत्यस्ति तदुपयोगः। इत्थं स्मर्यमाणारूढं सङ्कलनाज्ञानविषयीभूतं चेदं पदनिकुरुम्बं वाक्यं तथाविधश्चैष वाक्यार्थः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%राज्ञा तु गह्वरेऽस्मिन्निति।% कश्मीरे क्वचित् खसदेशे चिरकालमरण्यान्यामसौ श्रीशङ्करवर्मणो राज्ञ आज्ञया स्थितवानिति वार्ता।
%यथैव व्युत्पत्तिरिति।% स्मर्यमाणानामेव प्रत्याय्यप्रत्यायकत्वं सङ्केतग्रहणकाले गृहीतमिति।
%किं पूर्वपदतदर्थविषयेणेति।% अन्त्यपदार्थस्य पूर्वपदार्थान्वितस्यैव प्रतिभासनादित्यन्विताभिधानाभिप्रायेण चोद्यम्। अथवा भट्टाभिप्रायेण %अन्त्यपदार्थश्चेज्ज्ञातस्तत् पदैर्यत् कर्तव्यं तत् कृतमेव। समाप्तः पदव्यापारः। पदव्यापारोत्पन्नपदार्थस्त्वाकाङ्क्षादिक्रमेणेतरपदार्थैः संसृज्यमानो वाक्यार्थतामासादयतोति %एकाकारो हि वाक्यवाक्यार्थप्रत्यय इति% सङ्कलनाज्ञानेन विना भिन्नानां पदतदर्थानामेकाकारप्रत्ययजनकत्वासम्भवात्। भिन्ना ह्येकं किञ्चित् पूलीकारकं विना कथमभिन्नप्रतीतिविषयतामुपेयुः, वृक्षा इवैकदेशपूलीकृता वनप्रत्ययस्य।
न्यायमञ्जरी
%पदार्थानां परस्परं सम्बन्धविचारोपक्रमः%
ननु मा भूत् पदस्फोटो वाक्यस्फोटश्च वाचकः।
मा च भूतामिमौ वाक्यवाक्यार्थौ भागवर्जितौ॥
भवन्तु भवदाख्याताः पदवाक्यादिकल्पनाः।
पदार्थानान्तु संसर्गे मार्गः क इति कथ्यताम्॥
असंसृष्टा हि गौरश्वः पुरुषो हस्तीति पदार्था न वाक्यार्थभावमधिरोहन्ति। अन्त्यपदार्थज्ञानान्तरभाविना हि स्मरणेन वानुव्यवसायेन वा विषयीक्रियमाणास्ते यथावगता एव विषयीक्रियन्ते, संसर्गावगमस्तु कुतस्त्य इति चिन्त्यम्।
न्यायमञ्जरी
%तेषां संसर्गज्ञाने शङ्का%
उच्यते, अस्त्यत्र विवादः। केचिदाचक्षते अन्विता एव पदार्थाः पदैरभिधीयन्ते, अन्यथा पदानां वाक्यत्वायोगादिति।
अन्ये मन्यन्ते शुद्धानामेव पदार्थानां पदैरभिधानम्। ते तु तथाभिहिताः सन्तः परस्परमाकाङ्क्षासन्निधियोग्यत्वपर्यालोचनया संसर्गमधिगमयन्तीति।
तत्रेदं विचार्यम्। व्युत्पत्तिर्बलीयसी, न शब्दोऽर्थमवगमयति व्युत्पत्तिमन्तरेण। व्युत्पत्तिश्च किं वाक्यस्य वाक्यार्थे पदश्य वा पदार्थे इति। यदि वाक्यस्य वाक्यार्थे व्युत्पत्तिस्तदन्विताभिधानम्। पदस्य पदार्थे व्युत्पत्तावभिहितान्वय इति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%अन्यथा पदानां वाक्यत्वायोगादिति।% वाक्यात् संसर्गस्य प्रतीतेः पदानां तदनभिधाने वाक्यत्वायोगः। न सर्वेषां वाक्यार्थे व्यापारः स्यात्, वाक्यार्थस्य संसर्गस्वभावत्वात्।
न्यायमञ्जरी
%बाक्यार्थबोधार्थमभिहितानामेवान्वयः%
किं तावत् प्राप्तमभिहितान्वय इति, पदार्थप्रतिपत्तिपूर्वकत्वाद् वाक्यार्थप्रतिपत्तेः। न ह्यनवगतपदार्थस्य वाक्यार्थसम्प्रत्ययो दृश्यते। पदार्थप्रतिभागाच्च गम्यतेऽस्य पदस्य जातिरर्थोऽस्य द्रव्यमस्य गुणोऽस्य क्रियेति। स चैवमवकल्पते यदि तावत् सोऽर्थः पदैरभिधीयते। पदान्तरार्थोपरक्ते तु तस्मिन् अभिधीयमाने तदर्थेयत्तैव नावधार्यते, कदम्बाकारार्थप्रतीतेः। आवापोद्वापाभ्यांतदवधारणमिति चेत्, मैवम्; आवापोद्वापपरीक्षावसरेऽपि कदम्बप्रतीत्यनपायात्। न ह्येकमेव किञ्चिद् वाक्यमन्विताभिधायिपदग्रथितम्, अन्यत्र तु शुद्ध एव पदानामर्थः, किन्तु सर्वत्र कदम्बकरूपादुपायात् कदम्बकरूपमुपेयं प्रतीयत इति दुरवगमः पदार्थविभागः। ततश्च पदार्थानामनपेक्षणे गामानयेति वाक्यादश्वबन्धननियोगः प्रतीयेत। अपेक्ष्यते तु पदानामर्थः, सोऽपेक्ष्यमाण इयानिति नियतोऽवधारयितव्यः। तदवधारणं शुद्धाभिधायिषु पदेष्ववकल्पते। तस्मात् पदपदार्थयोरौत्पत्तिकः सम्बन्ध इष्यते। दृद्धव्यवहारेषु च वाक्यादपि भवन्ती व्युत्पत्तिः पदपर्यन्ता भवति। इतरथा हि प्रतिवाक्यं व्युत्पत्तिरपेक्ष्यते, सा चानन्त्याद् दुरुपपादेति शब्दव्यवाहारोच्छेदः। स्यात् दृश्यते च पदार्थविदामभिनवकविश्लोकादपि वाक्यार्थप्रतीतिः। सा पदतदर्थव्युत्पत्त्यावकल्पते। वाक्यावाक्यार्थयोस्तु व्युत्पत्तावपेक्षमाणायां सा न स्यादेव, तस्मान्नान्विताभिधानम्।
अतश्चैवं पदान्तरोच्चारणवैफल्यप्रसङ्गादेकस्मादेव पदात् तदुपरञ्जकद्वितीयपदार्थावगतिः सिद्धैव; तदपि पदमन्यानुरक्तस्वार्थवाचीत्यनेनैव न्यायेनैकमेव पदमखिलपदाभिधेयार्थवाचि सम्पन्नमिति तेनैव व्यवहारोऽस्तु। न चासौ सम्पद्यते, गौरित्युक्ते सर्वगुणक्रियावगमान्न ज्ञायते किमुपादीयतामिति। सर्वागमो ह्यनवगमनिर्विशेष एव, व्यवहारानुपपत्तिः। न हि रसविदां पूर्णोऽप्यब्धिर्मरोरतिरिच्यते, सलिलकार्यानिष्पत्तेः। नियतगुणक्रियानुरक्तस्वार्थप्रतिपादने तु गोशब्दस्य न हेतुमुत्पश्यामः।
पदान्तरसन्निधानं नियमहेतुरिति चेत्, किं स्वरूपमात्रेण, अर्थप्रतिपादनेन वा? स्वरूपमात्रेण जपमन्त्रपदानामिव सन्निधानं भवदप्यसन्निधानान्न विशिष्यते, अगुहीतसम्बन्धस्य तत्कृतोपकारादर्शनात्। अर्थप्रतिपादनेन तु पदान्तरं यदि नियमहेतुः? सोऽयभिहितानामर्थानामन्वय उक्तो भवति। तस्मात् स एव श्रेयान्। पदेभ्यः प्रतिपन्नास्तावदर्था आकाङ्क्षासन्निधियोग्यत्ववशेन परस्परमभिसम्बध्यन्ते। यो येनाकाङ्क्षितो यश्च सन्निहितो यश्च सम्बन्धुं योग्यः स तेन सम्बध्यते नातोऽपरः। अत एवाङ्गुल्यग्रे हस्तियूथशतमास्त इति नास्ति सम्बन्धो योग्यत्वाभावात्। अन्विताभिधानवादिनान्तु अन्वितस्यानभिधानात् तत्राप्यन्वयः प्राप्नोति, स च नास्ति। तस्मादभिहितानामेव पदार्थानामन्वय इति युक्तम्। तदुक्तम्, `पदानि हि स्वं स्वमर्थमभिधाय निवृत्तव्यापाराणि, अथेदानीमर्था अवगता वाक्यार्थं सम्पादयन्ति’ इति।
न्यायमञ्जरी
%तत्खण्डनम्%
एवं प्राप्तेऽभिधीयते, न व्युत्पत्तिनिरपेक्षो दीप इव शब्दोऽर्थमवगमयतीति। व्युत्पत्तिश्च वृद्धव्यवहाराद् वृद्धानाञ्च व्यवहारो वाक्येन न पदेन, केवलस्य पदस्याप्रयोगात्।
अर्थप्रकरणप्राप्तपदार्थान्तरवेदने।
पदं प्रयुज्यते यत् तद् वाक्यमेवोदितं भवेत्॥
वक्ता वाक्यं प्रयुङ्क्ते च संसृष्टार्थविवक्षया।
तथैव बुद्ध्यते श्रोता तथैव च तटस्थितः॥
सेयं वाक्यस्य वाक्यार्थे व्युत्पत्तिः। वाक्यञ्च किमुच्यते? संहत्यार्थमभिदधति पदानि वाक्यम्। एकार्थः पदसमूहो वाक्यमिति वाक्यविदः। तत्रायं पदसमूह एकार्थो भवति। एवं न संहत्यार्थमभिदध्युः पदानि यद्येकस्यैव पदस्य व्यापारः। यथा हि बाह्यानि करणानि काष्ठादीनि पाके व्याप्रियन्ते, यथा च शिबिकाया उद्यन्तारः सर्वे शिबिकामुद्यच्छन्ति, यथा त्रयोऽपि ग्रावाण उखां बिभ्रति, तथा सर्वाण्येव पदानि वाक्यार्थमवबोधयन्ति। तदिदमन्विताभिधानम्, अन्यानन्वितनिष्कृष्टस्वार्थपर्यवसायित्वे हि सति न सर्वेषां वाक्यार्थव्यापारः स्यात्।
नन्वेवमेकैकस्य कृत्स्नकारित्वे सत्येकस्मादेव कृत्स्नासिद्धेः पदान्तरोच्चारणं व्यर्थमित्युक्तम्, नैतत्। पदान्तरेण विनैवैकस्मात् कृत्स्नकारित्वसम्पत्त्यभावात्। न तर्ह्येकं कृत्स्नकारीति चेत्, मैवम्; एकैकस्य कृत्स्नफलपर्यन्तव्यापारपतितत्वादेकैकस्मिन् सति कृत्स्नफलर्यन्तो व्यापारो निवर्तत इत्येवमेकैकं कृत्स्नकारि भवति।
नन्वेवं तर्हि समुदाय एव कर्ता भवतु, किं समुदायिभिः? ततश्च तदेवायातं निरवयवौ वाक्यवाक्यार्थाविति, नैतद्युक्तम्। सङ्घातकार्यवत् स्वकार्यस्यापि दर्शनात्। अथ किं सङ्घातकार्यं किञ्च स्वकार्यम्? वाक्यार्थप्रतिपत्तिः सङ्खातकार्यम्, स्वकार्यन्तु पदार्थप्रतिपत्तिः। यथा पाकः सङ्घातकार्यम्, स्वकार्यं ज्वलनभरणादि काष्ठस्थाल्यादीनाम्।
ननु यदि पदानां पदार्थप्रतिपादनं स्वकार्यम्, शुद्धस्तर्हि पदस्यार्थः। न शुद्धः पदार्थः, सङ्घातकार्य एव प्रयोगात्। तत्र प्रयुक्तानामप्येषां स्वकार्यं न नावगम्यते। अत एव न निवरयवं वाक्यमिष्यते, स्वकार्यप्रतिज्ञानात् संहतास्ते सङ्घातकार्यं कुर्वन्तो दृश्यन्ते। न सङ्घात एव, संहतेष्वपि कुर्वत्सु स्वकार्यं पृथक् पृथगुपलभ्यते। यथा शकटाङ्गानामयमंशोऽनेन कृतोऽयमनेनेति न पृथक् प्रयुज्यमानानि शकटाङ्गानि मनागपि शकटकार्यं कुर्वन्तीति। एवं न केवलं पदं प्रयुज्यते, प्रयुक्तमपि वा न तत्कार्याङ्गम्, पदान्तरेण तु सह व्यापारात् तदन्वितार्थकार्येव पदमिति युक्तम्। तदिदमुक्तम् `संहत्यार्थमभिदधति पदानि वाक्यम्, एकार्थः पदसमूहो वाक्यम्’ इति। तदेवमवयवकार्योपलम्भान्न वैयाकरणवन्निमित्तान्यपि निह्नुमहे। कृत्स्नफलसिद्ध्यवाधि व्यापारपरिनिश्चयाच्च नान्यमीमांसकवच्छुद्धपदार्थामिधानमुपगच्छाम इति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%न वै याकरणवन्निमित्तान्यपीति।% निमित्तानि पदतदर्थाः यदुक्तम् `शाब्दैस्तु निमित्तमप्यपह्नतम्’ इति। पदपदार्थानां वाक्यार्थप्रतिपत्तावगृहीतसङ्गतीनामपि व्यापारान्निमित्तशब्देनाभिधानम्।
षष्ठम् आह्निकम्
न्यायामञ्जरी
%अन्विताभिधाने दोषनिरसनम्%
यत् पुनरभ्यधायि, प्रतिवाक्यं व्युत्पत्तिरपेक्षणीया, अन्यथा नवकविश्लोकादर्थः पदार्थविदा न प्रतीयेतेति। तदिदं व्युत्पत्त्यनभिज्ञस्य चोद्यम्। न हीयं व्युत्पत्तिः, गोशब्दस्य शुक्लान्वितोऽर्थः, स हि व्यभिचरति कृष्णान्वितस्यापि तदर्थ स्य दर्शनात्, नापि सर्वान्वितस्तदर्थ आनन्त्येन दुरवगमत्वात्। किन्त्वाकाङ्क्षितयोग्यसन्निहितार्थानुरक्तोऽस्यार्थ इति। एताञ्च व्युत्पत्तिं वाक्यान्येवावापोद्वापरचनावैचित्र्यभाञ्जि सञ्जनयन्ति, पदार्थपर्यन्तापि भवन्ती व्युत्पत्तिरीदृशी दृश्यते न शुद्धपदार्थविषया, पदेन व्यवहाराभावादित्युक्तम्। तथापि न न ज्ञायते इयान् पदस्यार्थ इति, शकटाङ्गवदावापोद्वापाभ्यां तत्कार्यभेदस्य दर्शितत्वात्। तदित्थं न प्रतिवाक्यं व्युत्पत्तिरपेक्ष्यते सन्निहितयोग्याकाङ्क्षितार्थोपरक्तस्वार्थाभिधेयत्वेन हि क्वचिद् गृहीतः सम्बन्धः सर्वत्र गृहीतो भवति। ततश्च नवकविश्लोकादप्यर्थप्रतिपत्तिरुत्पत्स्यते। पदपदार्थयोस्तु न व्युत्पत्तिरुपायाभावादित्युक्तम्।
यदपि पदान्तरोच्चारणमफलमिति, तदपि परिहृतम्। पदान्तरसन्निधाने हि सर्वाणि पदानि कृत्स्नकारीणि भवन्तीत्युक्तत्वात्। किं पदान्तरसन्निधानेन क्रियत इति चेत्, सर्वकारकेष्वपि तुल्योऽयमनुयोगः। संहत्य तु सर्वाणि कुर्वन्ति कारकाणीत्युच्यन्ते तथा पदान्यपि अर्थाभिधाने, नअपि चोपकुर्वत्सु पदेषु नाभिहितान्वयोऽनन्वितार्थे व्युत्पत्त्यभावात्, अनुपगमे वा दुरुपपादः पदार्थानामन्वय उपायाभावात्।
नन्वाकाङ्क्षासन्निधियोग्यत्वान्यभ्युपाय इत्युक्तम्। न युक्तमुक्तम्। कस्येयमाकाङ्क्षा शब्दस्यार्थस्य प्रमातुर्वा? शब्दः शब्दान्तरमाकङ्क्षत्यर्थोऽर्थान्तरमिति। प्रमातुः पुनः स्वतन्त्रस्याकाङ्क्षा न प्रमाणम्, पुरुषेच्छया वस्तुस्थितेरघटमानत्वात्। शब्दाख्यप्रमाणपृष्ठ भावेन तु पुरुषस्याकाङ्क्षा भवन्ती भवत्यर्थानां संसर्गहेतुरित्येवं शब्दस्यायमियानिषोरिव दीर्घदीर्घो व्यापारः। उपरतव्यापारे तु शब्दे पुरुषाकाङ्क्षामात्रं न सम्बन्धकारणम्।
अशाब्दत्वञ्च वाक्यार्थप्रतीतेरित्थमापतेत्।
व्यवधानमयुक्तञ्च साक्षाच्छाब्दत्वसम्भवे॥
तस्मादन्विताभिधायीनि पदानीति स्थितम्। एष एव हि संसर्गपन्थाः।
व्यतिषक्तार्थबुद्ध्या हि व्यतिषङ्गोऽवगम्यते।
अपरन्तु न संसर्गप्रतीतेरस्ति कारणम्॥
न खल्वानय गां शुक्लां संसर्ग इति कथ्यते।
व्यवहारे क्वचिद् वृद्धैः पदं संसर्गवाचकम्॥
प्रयुज्यमानमप्येतद् बालिशेन हि केनचित्।
अनन्वितार्थमेव स्याद् दशदाडिमवाक्यवत्॥
तस्मादन्वितानामेवाभिधानं युक्तम्।
न्यायामञ्जरीग्रन्थिभङ्गव्याख्या :–
%फलत इयं तत्र तत्रेति।% पुरुषाकाङ्क्षोत्थापकत्वाच्छब्द आकाङ्क्षतीति कथ्यते। %शब्दाख्यप्रमाणपृष्ठेनेति% शब्देनाकाङ्क्षायोग्यानामर्थानां प्रतिपादनाच्छब्द एवाकाङ्क्षाजनकः।
न्यायामञ्जरी
%अन्विताभिधानवादे शङ्का, तत्समाधानञ्च%
आह,
अङ्गुल्यग्रादिवाक्येषु कथं तव समन्वयः?
उच्यते,
उक्तानामपि संसर्गे कथं तव समन्वयः?
आह,
नन्वत्र योग्यताभावादसंसर्ग उपेयते।
आकाङ्क्षादित्रयाधीनः संसर्गो हि मयेष्यते॥
उच्यते,
मयापि योग्यासन्नादिसंसृष्टस्वार्थवाचिता।
पदानां दर्शिता सा च तेषु नास्तीत्यनन्वयः॥
आह,
अन्विताभिधानवादी हि भवान्। ततश्च,
भवतोऽनभिधानं स्यादन्वयासम्भवादिह॥
अहन्त्वभिहितान्वयवादी। तेन,
मम ह्यनन्वितत्वेऽपि नाभिधानं विरुद्ध्यते।
उच्यते,
कथं मीमांसकेनापि भवता सूक्ष्मदर्शिना।
नाद्यापि शब्दव्यापारः सुस्पष्टमवधारितः॥
प्रकाशकत्वं शब्दस्य व्यापारो हि निसर्गतः।
पुंसस्तु गुणदोषाभ्यां तस्मिन् सदसदर्थता॥
क्रियाकारकसंसर्गबुद्धिरन्यापि शब्दजा।
तादृश्येवायथार्था तु नरबुद्धिप्रमादतः॥
तदुक्तम् “प्रमाणान्तरदर्शनमत्र बाध्यते” इति।
अत एव प्रमाणत्वं शब्दे निष्प्रतिमं स्वतः।
शब्दे कर्मणि तत्रापि बाधकानुपसर्पणात्॥
तत्राङ्गुल्यग्रवाक्येऽपि शाब्दोऽस्त्येव समन्वयः।
आधाराधेयक्रियानिर्देशस्यात्र प्रतीयमानत्वात्।
वस्तुतोऽसम्भवो यस्तु तुल्य एव स आवयोः।
अयोग्यत्वेन संसर्गप्रतीत्यर्थनिबर्हणात्॥
यदि तु शाब्दोऽनन्वयो भवेत् कचटतपादिवर्णनिर्देशमात्रमिदं स्याद् दशदाडिमादिप्रवादवदत्राप्यन्विताभिधानं न विरुद्धम्, बाधकस्त्वन्यविषय एव न शब्दसंसर्गविषय इत्युक्तम्। अत एव स्वसामर्थ्यसिद्धनिर्निबन्धकव्यापारे शब्दे स्वतो वेदे प्रामाण्यमनाकुलं निर्वक्ष्यत्यपौरुषेयतया विप्लवासम्भवात्, स्वव्यापारस्य तत एव शुद्धत्वमित्यलमतिप्रसङ्गेन।
इत्यन्विताभिधानेन वाक्यार्थज्ञानसम्भवात्।
व्युत्पत्तिरहितः प्राज्ञैः प्रहेयोऽभिहितान्वयः॥
न्यायामञ्जरीग्रन्थिभङ्गव्याख्या :–
%तत्रापि बाधकानुपसर्पणादिति।% अङ्गुल्यग्रादिवाक्येऽपि यच्छाब्दं कर्म शब्दव्यापारः समन्वयप्रतिपादनं तत्र नास्ति बाधकम्, शब्दोच्चारणमूलभूतज्ञानविषयत्वाद् बाधकस्य।
न्यायामञ्जरी
%केषाञ्चिन्मतेऽन्विताभिधानखण्डनम्%
तदेतदपि नानुमन्यन्ते। यदुक्तं वृद्धव्यवहाराद् व्युत्पत्तिरिति, तत्सत्यम्; वाक्येन व्यवहार इत्येतदपि सत्यम्, शिबिकोद्यच्छन्नरवत् सर्वाणि पदानि कार्ये संहत्य व्याप्रियन्ते इत्येतदपि सत्यमेव। व्युत्पत्तिश्चिन्त्यताम्, किमेकघनाकारसङ्घातकार्यनिष्ठैव, किं वा पदार्थपर्यन्तेति? पूर्वस्मिन् पक्षे प्रतिवाक्यं व्युत्पत्तिरपरिहार्या, सा च बहुप्रमादेत्युक्तम्। पदार्थपर्यन्तायां व्युत्पत्तौ नूनं निर्धारणीयमियान् पदस्यार्थ इति। भवद्भिरपि शकटावयवदृष्टान्तवर्णनेन पदव्यापारनिर्धारणमङ्गीकृतमेव, इतरथा हि पदा र्थनियमानपेक्षणे गामानयेति विवक्षावानश्वपदमपि निमित्ततयोपाददीत। न हि भवतामनपेक्षितपदार्थ एव वैयाकरणानामिव वाक्यार्थप्रत्ययः। तदसौ यावात् आवापोद्वापपर्यालोचनया गोपदस्यार्थो निर्धार्यते, तावानेव सङ्घातकार्येऽपि व्याप्रियमाणस्य तस्यार्थः।
नन्वाकाङ्क्षितयोग्यसन्निहितार्थोपरक्तोऽस्यार्त इत्युक्तम्, न सर्वदा संहतव्याप्रियमाणमेतत् पदं पश्यतस्तवायं भ्रमः, अर्थस्तावानस्य यावत्यभिधात्री शक्तिः। कियती च तस्याभिधात्री शक्तिः, कियती तस्यानभिधात्री शक्तिः? यावन्तमर्थमन्योन्यमाकाङ्क्षितैश्च योग्यैश्च सन्निहितैश्च संयुज्यमानं न मुञ्चति। कियन्तञ्च न मुञ्चति? गोत्वमात्रं तदवन्मात्रं वेत्यतस्तावत्येवाभिधात्री शक्तिरन्वयव्यतिरेकाभ्यामस्य निर्धार्यते। अतः परमेकस्य पदस्याप्रयोगात् सर्वदा सङ्घातकार्यरहितकेवलस्वकार्यचातुर्यानवधारणात् प्रधानकार्ये तात्पर्यशक्तिरस्य व्याप्रियते, नाभिधात्री। ताञ्च पृथगविवेचयता भवतान्विताभिधानमभ्युपगतम्। तच्च न युक्तम्, सर्वाभिधात्र्याः शक्तेरविशेषात्, पदार्थनियमानवधारणं पदान्तरोच्चारणवैफल्यमित्यादिदोषानपायात्। येनान्वितमर्थमभिदधाति गोशब्दस्तदनभिधाने तदन्वितानवगमाद् येन सह संसर्गः स न गृह्यते, तत्संसृष्टश्च गृह्यत इति विप्रतिषिद्धं स्यात्। तदभिधाने वा तद्वत् सर्वाभिधानमित्येकमेव गोपदं सर्वार्थं भवेत्। तस्मान्न सर्वत्राभिधात्री शक्तिः पदस्योपपद्यत इति नान्विताभिधानम्।
अन्विताभिधानपक्षे च कथमङ्गुल्यग्रवाक्येऽपि नान्वयः स्यात्। शाब्दोऽस्त्येव समन्वय इति चेत्, अर्थासंस्पर्शी शब्दः प्राप्नोति, बहिरन्वयाभावात्। प्रकाशकत्वमात्रं व्यापार इति चेत्, बाढम्। तत्तु अनन्वितविषयं वेदितुं युक्तम्,न पुनरन्वितविषयमेवेति शक्यते नियन्तुम्।
दशदाडिमादिवाक्यमनन्वितार्थप्रतिपादकमपि दृश्यते। यतो न तद् वाक्यमिति चेत्? तदङ्गुल्यग्रवाक्यमपि वाक्यमेव? आधाराधेयक्रियासंसर्गप्रतीतिस्तु भ्रममात्रम्। तस्मादन्वितमर्थमभिदधति पदानीत्यसमीचीनम्।
तत् किंशलाकाकल्पाः परस्परमसंसृष्टा एव पदार्थाः पदैरुच्यन्ताम्? एतदपि नास्ति, तथाविधव्यवहाराभावात्, पश्चादन्वयस्य च दुरवगमत्वात्, विरम्य व्यापारस्य चासंवेदनात्। तस्मात् पक्षद्वयमपि न क्षेमाय। तदुक्तम्,
मतद्वयमपीदन्तु नास्मभ्यं रोचतेतराम्।
कुतोऽन्विताभिधानं वा कुतो वाभिहितान्वयः॥
न्यायामञ्जरीग्रन्थिभङ्गव्याख्या :–
%भवतान्विताभिधानमभ्युपगतमिति।% ननु तात्पर्यशक्त्यनभ्युपगमेऽप्यन्विताभिधानाभ्युपगमे को दोषः? इत्याह %तच्च न युक्तमिति। सर्वत्राभिधात्र्याः शक्तेरविशेषादिति।% अन्विताभिधानाभ्युपगमे हि एकैकस्य सर्वार्थाभिधानशक्तिरविशिष्टा, अन्यथाभिधानाभावप्रसङ्गात्। ततश्च पदार्थेयत्तावधारणं पदान्तरोच्चारणसाफल्यं च न सिद्ध्यति। तात्पर्यशक्त्यभ्युपगमे ह्येतावत्यभिधात्रेव शक्तिर्न तात्पर्यशक्तिरित्यभिधातृशक्त्यपेक्षया पदार्थेयत्तासिद्धिः, अत एव पदान्तरोच्चारणमपि सफलम्। तदन्वितार्थप्रतिपादनेऽभिधात्र्याः शक्तेरव्यापृतेः, एकरूपशक्त्यभ्युपगमे तु किमपेक्षया नियमः? किञ्च पदान्तरोच्चारणस्य फलमिति सर्वत्राभिधात्र्याः शक्तेरविशेषादिति यदुक्तं तदेव %येनान्वितमभिवदति’% इत्यादिना दर्शयितुमाह।
न्यायामञ्जरी
%तत्रैव मतान्तरम्, तत्खण्जनञ्च%
अन्या तु वाचोयुक्तिः कैश्चित् कृता, अन्वीयमानाभिधानमभिधीयमानान्वयश्चेति। सापि न हृदयङ्गमा,
न हि द्वे अनुभूयेते क्रिये एते पृथक् स्थिते।
अभिधानक्रिया चान्या वाच्यस्था चान्वयक्रिया॥
ते हि क्रमेण वा स्यातां युगपद् वा। क्रमपक्षे पूर्वमन्वयक्रिया चेत्, तदिदमन्विताभिधानमेव नान्वीयमानाभिधानम्। पूर्वं चेदभिधानमभिहितान्वय एव नाभिधीयमानान्वयः। युगपत्तु क्रियाद्वयसंवेदनं नास्ति, अर्थगतायाः क्रियायाः शब्दप्रयोगकालेऽनुपलम्भात्।
अभिधानक्रियैवैकां तदभिज्ञैः परीक्ष्यते।
अन्वियमानतार्थानामभिधानाद् विना कुतः॥
गौः शुक्ल इति जातिगुणयोरेकद्रव्यसमवेतयोरपि शब्दमन्तरेण कुतोऽन्वयमवगच्छामः?
उक्तेर्नूतनतैवेयं न पुनर्वस्तु नूतनम्।
न चात्रापि निवर्तन्ते दोषः पक्षद्वयस्पृशः॥
न्यायामञ्जरीग्रन्थिभङ्गव्याख्या :–
%अन्वीयमानाभिदानमिति% पदार्थान्तरेणान्वयं गच्छन् पदार्थः पदैरभिधीयत इत्यत्र पक्षेऽन्वितस्यानभिधानात् पदार्थनियमानवधारणपदान्तरवैफल्यादिदोषानवकाशः। %अभिधीयमानान्वयेति। अभिहितान्वयपक्षे च यो दोषो वाक्यार्थस्याशाब्दत्वम्, सोऽप्यत्र नास्ति। अभिधीयमानानां शब्दैः प्रतिपाद्यमानानामभिधाविषयत्वमजहतां हि योऽन्वयः, स कथमशाब्दः स्यादिति तदभिप्रायः। यत एव वान्वयं गच्छन्तः शब्दैरभिधीयन्ते, अत एवाभिधीयमानानामन्वयः। %अभिधानक्रिया चान्येति।% अस्मिन् हि पक्षे शब्दश्चाभिदधदर्थश्चार्थान्तरेणानुलभ्यते, तयोश्चोपलम्भः क्रमेण युगपद् वेति।
%दोषोऽन्विताभिधाने य% इति। क्रियापदेन कारकसामान्यान्वितस्वार्थप्रतिपादनात् कारकपदनैष्फल्यादि समानम्। अथ कारकविशेषप्रतिपत्तये कारकपदोच्चारणं तत्राप्याह %दोषस्तुल्यो विशेषेऽपीति% पदानां सामान्यप्रतिपत्तावेव चरितार्थत्वाद् विशेषप्रतिपत्तेस्तद्वदेवाशाब्दत्वम्, विशेषान्वयस्यैव वाक्यार्थत्वादिति।
न्यायामञ्जरी
%तात्पर्यशक्त्यैवान्वयबोध इति मतप्रदर्शनम्%
अन्ये मन्यन्ते, सामान्येनान्विताभिधानं, विशेषतश्चाभिहितान्वय इति। गोशब्दो हि स्वार्थमनवगतविशेषगुणक्रियासामान्यान्वितमभिधत्ते, तावत्यन्विताभिधानम्। शुक्लादिगुणविशेषसम्बन्धस्तु पदान्तरादवगम्यते, सोऽयं विशेषोऽभिहितान्वय इत्येतदपि तादृगेव।
दोषोऽन्विताभिधाने यः सामान्येऽपि स तादृशः।
दोषस्तुल्यो विशेषेऽपि यश्चोक्तोऽभिहितान्वये॥
न चेदमपूर्ववस्तु वर्णितमभिहितान्वयवादिनो विशेषे एवाभिहितान्वय आश्रीयत इति प्राक्तन एवेष्टः पन्था वेदितव्यः। कथं तर्ह्ययमाभिधानिको व्यवहारः, सङ्कुलमिवैनं पश्यामः, सर्वत्र दोशसम्भवात्।
उच्यते, न कदाचिदत्र सङ्कुलता, संहत्यकारीणि हि पदानीत्युक्तम्। समुदितैः पदैरेको वाक्यार्थः प्रत्याय्यते, स च गुणभूतेतरपदार्थसंसृष्टः कश्चित् पदार्थ एवेति किमत्र सङ्कुलम्?
ननु किमयमन्विताभिधानपक्षः पुनरुत्थापयितुमिष्टः? मैवम्। नेदमन्विताभिधानम्। कथं तर्हि संहत्यकारिता पदानाम्? उच्यते, संहत्यकारिताप्यस्ति न चान्विताभिधानम्। अन्वितमर्थं पदानि संहत्य सम्पादयन्ति न त्वन्वितमभिदधति। किमिदानीं कुर्वन्ति वाक्यार्थं पदानि घटमिव मृदादीनि? एतदपि नास्ति, ज्ञापकत्वात्तेषाम्। का तर्हियं वाचोयुक्तिः संहत्यकारीणि पदानि न चान्वितमभिदधतीति, इयं वाचोयुक्तिः पदान्यन्वितं प्रत्याययन्ति, नान्वितमभिदधति, नाभिधात्री शक्तिरन्वितविषया; किन्त्वन्वयव्यतिरेकावगतनिष्कृष्टस्वार्थविषयैव; तात्पर्यशक्तिस्तु तेषामन्वितावगमपर्यन्ता सहव्यापाराद्, व्यापारस्य च तदीयस्य निराकाङ्क्षप्रत्ययोत्पादनपर्यन्तत्वात्। तथाहि,
अन्यथैव प्रवर्तन्ते प्रत्यक्षाद्युद्भवा धियः।
अर्थं पूर्णमपूर्णं वा दर्शयन्त्यः पुरः स्थितम्॥
अन्यथैव मतिः शब्दे विषयेषु विजृम्भते।
प्रतिपत्तुरनाकाङ्क्षप्रत्ययोत्पादनावधिः॥
अत एव पदं लोके केवलं न प्रयुज्यते।
न हि तेन निराकाङ्क्षा श्रोतुराधीयते मतिः॥
नन्वभिधानव्यतिरिक्तः कोऽन्यः शब्दस्य कृत्स्नफलपर्यन्तः प्रत्यायनात्मा व्यापारः? अस्ति कश्चिद् यः सर्वैरेव संसर्गवादिभिरप्रत्याख्येयः। न हि संसर्गोऽभिधीयते, प्रतीयते च वाक्यात्।
ननु संसृष्टाभिधाने सति संसर्गः प्रतीयते नान्यथा। नैतदेवम्, संहत्यकारित्वादेव संसर्गावगतिसिद्धेः। न हि संहत्यकरणमसंसृष्टञ्च कार्यं क्वचिद् दृश्यते। अपि च, प्रकृतिप्रत्ययौ परस्परापेक्षमर्थमभिदधाते, न च प्रकृत्या प्रत्ययार्थोऽभिधीयते, नियोगस्य धातुवाच्यत्वात्। न च प्रत्ययेन प्रकृर्त्थोऽभिधीयते यागादेर्लिङ्वाच्यत्वानुपपत्तेः। न च तौ पृथक् पृथक् स्वकार्यं कुरुतः।
एवं पदान्यपि परस्परापेक्षीणि संहत्य कार्यं करिष्यन्ति। न च परस्परमर्थमभिधास्यन्ति। वाक्यान्यपि प्रकरणपतितान्येवमेव। तदुक्तम्,
प्रकृतिप्रत्ययौ यद्वदपेक्षेते परस्परम्।
पदं पदान्तरं तद्वद् वाक्यं वाक्यान्तरं तथा॥ इति।
अयमेव च पक्षः श्रेयान् यत् संहत्यकारित्वं पदानामसङ्कीर्णार्थत्वञ्च।
निरपेक्षप्रयोगेऽयश्शलाकाकाल्पना भवेत्।
तदन्विताभिधाने तु पदान्तरमनर्थकम्॥
संहत्यकारिपक्षे तु दोषो नैकोऽपि युज्यते।
तेनायमुपगन्तव्यो मार्गो हि हतकण्टकः॥
अभिधात्री मता शक्तिः पदानां स्वार्थनिष्ठता।
तेषां तात्पर्यशक्तिस्तु संसर्गावगमावधिः॥
तेनान्विताभिधानं हु नास्माभिरिह मृष्यते।
अन्वितप्रतिपत्तिस्तु बाढमभ्युपगम्यते॥
संहत्यकारकत्वाच्च पदानां न स्वार्थाभिधित्सयैव समुच्चारणम्, अपि तु प्रधानं कार्यमेव कर्तुम्। तदुक्तम्,
वाक्यार्थप्रत्यये तेषां प्रवृत्तौ नान्तरीयकम्।
पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम्॥ इति।
सेयं व्युत्पत्तिमूला पदविसरसमुद्भिद्यमानाङ्कुरश्रीः
्संस्कारोदारपत्रा कुसुमचयवती प्रोल्लसद्भिः पदार्थैः।
प्रज्ञावल्ली विशाला फलति फलमिदं स्वादुवाक्यार्थतत्त्वैः
नैराकाङ्क्ष्यं लसद्भिर्हदयमुपगते यान्ति यस्मिन् पुमांसः॥
आह च,
पदात् प्रभृति या चैषा प्रज्ञा ज्ञातुर्विजृम्भते।
पुष्पिता सा पदार्थेषु वाक्यार्थेषु फलिष्यति॥
तस्मादन्या नीत्या सम्प्रत्ययो भवति साधुः।
संसृष्टाश्च पदार्था वाक्यार्थ इति न्यवेदि प्राक्॥
न्यायामञ्जरीग्रन्थिभङ्गव्याख्या :–
%दोषोऽन्विताभिधाने य% इति। क्रियापदेन कारकसामान्यान्वितस्वार्थप्रतिपदानात् कारकपदनैष्फल्यादि समानम्। अथ कारकविशेषप्रतिपत्तये कारकपदोच्चारणं तत्राप्याह %दोषस्तुल्यो विशेषेऽपीति।% पदानां सामान्यप्रतिपत्तावेव चरितार्थत्वाद् विशेषप्रतिपत्तेस्तद्वदेवाशाब्दत्वम्, विशेषान्वयस्यैव वाक्यार्थत्वादिति।
%न त्वन्वितमभिदधति% एकैकशः।
%अन्यथैव प्रवर्तन्त इति% दूरात् सामान्यमात्रग्रहणे नियतव्यक्तिपरिच्छेदकारित्वाभावादपूर्णार्थप्रदर्शकत्वम्।
%सेयं व्युत्पत्तिमूलेति% पदानां या स्वार्थे व्युत्पत्तिः सङ्केतग्रहणं सैव मूलम्, तत उद्भूतेः। पदविसरात् पदसमुदायात् समुद्भिद्यमाना प्रकटीभवन्ती अङ्कुररूपाद्यवस्था यस्याः, पदानां तत्प्रतिपत्तिकारणत्वाव्यभिचारात्। संस्कारश्च पदार्थप्रतिपत्तौ सन्निकृष्टोपायत्वात् पत्रतया रूप्यते। पदार्थैः कुसुमचयवती, पदार्था एव कुसुमचयः पूर्वापेक्षया फलं प्रतिपत्तिः आसन्नत्वात्।
न्यायामञ्जरी
%वेदार्थोऽप्यनयैव रीत्या करणोय इति मतप्रदर्शनम्%
यश्चैष लोकव्यव्हारसिद्धिः प्रादर्शि वाक्यार्थमितावुपायः।
स एव देवऽप्यवधारणीयस्तत्रापि तान्येव पदानि तेऽर्थाः॥
आह, लोके प्रमाणान्तरपिच्छेद्यत्वाद् वाक्यार्थस्य तदवगमोपायत्वं शब्दानां योजयितुं शक्यते। वेदार्थस्तु अतीन्द्रियो न च रागादिदोषकलुषमनसामस्मदादीनामतीन्द्रियपदार्थदर्शनकौशलमस्ति। तददर्शिनाञ्च तत्र वृद्धव्यवहाराद् व्युत्पत्तिरेव न सम्भवति। सोऽहमद्य वेदार्थं बुभुत्समानो वेदविदं कञ्चिदाचार्यमभिगच्छेयं सोऽप्यतीन्द्रियार्थदर्शी न भवतीति तस्यापि तथैव व्युत्पत्त्यभाव इति, तेनाप्यन्यः कश्चिदभिगन्तव्यः सोऽप्यहमिव व्युत्पत्त्यभावादन्यमुपासीत, सोऽप्यन्यमित्यन्धपरम्परा प्राप्नोति। न च वेद एव वृद्धिरादैजिति पाणिनिरिव, मस्त्रिगुरुरिति ब्रुवन् पिङ्गल इव, हस्तः करः पाणिरिति कथयन्नभिधानमालाकार इव, स्वयमुपदिशत्येषोऽस्य मामकस्य शब्दस्यार्थ इति। तस्मात् सर्वथा दुरवगमो वेदार्थः। तदाह,
स्वयं रागादिमान्नार्थं वेत्ति चेत् तस्य नान्यतः।
न वेदयति वेदोऽपि वेदार्थस्य कुतो गतिः॥ इति।
अथ निगमनिरुक्तव्याकरणवशेन तदर्थकल्पना क्रियते, तर्हि नानामतित्वादुपदेश्यानामनेकार्थत्वाच्च नाम्नामुपसर्गनिपातानाञ्च न नियतः कश्चिदर्थो व्यवस्थापयितुं शक्यते; अन्यथा तत् कल्पनासम्भवात्। आह च,
तेनाग्निहोत्रं जुहुयात् स्वर्गकाम इति श्रुतौ।
खादेच्छ्वमांसमित्येष नार्थ इत्यत्र का प्रमा॥ इति।
तदेतद् बधिरस्य रामायणं वर्णितमस्माभिः। य एवमपि श्रुत्वा वेदार्थपरिगमाभ्युपायं मृगयते। अनेन हि पूर्वोक्तेन वाक्यार्थपरिगमोपायप्रकटनेन सर्वमपाकृतं भवति। उक्तं हि, नाभिनवाः केचन वैदिकाः शब्दाः, रचनामात्रं वेदे भिद्यते, न तु पदानि। सर्गात् प्रभृति च प्रवृत्तोऽयं वेदविदां व्यवहारः। ततश्च दीर्घप्रबन्धप्रवृत्ताद् अद्यत्वे वयसि व्युत्पद्यामहे। व्युत्पद्यमानाश्च तं तमर्थं प्रतिपाद्यमहे।
किञ्च वेदार्थस्य परिज्ञानौपयिकानि व्याकरणमीमांसाशास्त्राणि क्व गतानि, यदेषु जीवत्सु न वेदार्थोऽवधार्यते? अपि च रे मूढ! स्वयं रागादिमतः प्रत्यक्षमतीन्द्रियेऽर्थे मा प्रवर्तिष्ट, न तु रागादिमानग्निहोत्रं जुहुयात् स्वर्गकाम इति वाक्यादपि अग्निहोत्राख्यं कर्म स्वर्गसाधनमिति नावगच्छेत्। अतीन्द्रियेऽर्थे नियता कुतो व्युत्पत्तिरिति चेत्, उक्तमत्र वेदवत् तद्व्यवहारस्य तदर्थपरिगमोपायस्य सुचिरप्ररूढत्वात्। वेदश्चार्थश्च तदुपायश्च तदनुष्ठानञ्च नाद्यत्वे प्रवृत्तानि। किन्तु केषाञ्चिन्मते अनादीन्येव, अस्मन्मते तु जगत्सर्गात् प्रभृति प्रवृत्तानि, कस्तेष्वद्य पर्यनुयोगावसरः? सेयमनेन पापकारिणा खादेच्छ्वमांसमित्याद्यपभाषणेन केवलमवीचिकेदारकुटुम्बिनमात्मानं कर्तुं वेदनिन्दैव मन्दमतिना कृता, न दूषणमभिनवं किञ्चिदुत्प्रेक्षितमिति।
अथापर आह। किमेष तपस्वी पराणुद्यते, किमनेनापराद्धम्, किमनेन विरुद्धमभिहितम्? न हि लोकतो वेदार्थे व्युत्पत्तिरवकल्पते। कोऽयं लोको नाम? किं यः कश्चित् प्राकृतः, उत वैयाकरणः संस्कृतमतिरिति। तत्र शाकटिकाः साधुशब्दप्रयोगानभिज्ञमनसो निसर्गत एवाक्षतकण्ठा वराकाः संस्कारबाह्यैर्गाव्यदिभिरेव शब्दैर्व्यवहरन्ति। तैश्च व्यवहरन्तः कथमिव वैदिकेषु शब्देषु व्युत्पत्तिमवाप्नुयुः?
यद्यपि चास्ति एषि एमि इति कश्मीरेषु, गच्छेति दार्वाभिसारेषु, करोमीति मद्रेषु कतिपये साधुशब्दाः पामरैरपि प्रयुज्यन्ते; तथाप्यतीव प्रविरलसञ्चारोऽसौ व्यवहार इत्यनुपादेय एव वैदिकशब्देषु व्युत्पत्तेः।
अथ व्याकरणस्य वेदाङ्गत्वात् ततः साध्वसाधुशब्दप्रविभागमवगच्छन्तः साधुभिर्भाषितव्यमसाधुभिर्नेति विधिनिषेधनियमितमतयः साधुभिरेव शब्देर्व्यवहरन्तो विद्वांसस्तनीयसैव क्लेशेन वैदिकेष्वपि शब्देषु व्युत्पत्तिमासादयेयुरिति कथ्यते। तदपि न चतुरश्रम्, इतरेतराश्रयप्रसङ्गात्। वेदे हि सिद्धप्रामाण्ये तदङ्गभूतवत्याकरणाभ्याससमासादितसाध्वसाधुशब्दप्रविवेकवृद्धव्यवहारपरिचयपुरस्सरा वैदिकशब्देषु व्युत्पत्तिः, तद्व्युत्पत्तौ च सत्यां बोधकत्वात् प्रतिपादकत्वलक्षणमप्रामाण्यमपोज्झतो वेदस्य प्रामाण्यमिति।
अर्थ वेदाङ्गमिदमिति श्रुद्धामवधूय यदृच्छाधीतेनैव व्याकरणेन पूर्वोक्तकार्यसिद्धेर्नेतरेतराश्रयमिति वर्ण्यते, किमिदानीं नाटकप्रकरणादिकाव्योपयोगिसंस्कृतभाषाविशेषपरिज्ञानायैव प्राकृतलक्षणवद् व्याकरणमध्येतव्यम्? तथाभ्युपगमे वा अनङ्गत्वाविशेषात् प्राकृतलक्षणप्रसिद्धशब्दव्यवहारानुसारेण वैदिकशब्दव्युत्पत्तिरापाद्यत इति सुतरां दुःस्थत्वम्।
अपि च सत्यपि व्याकरणाधिगमे श्रुतेऽपि साधुभिर्भाषितव्यमित्युपदेशे, सत्यं वदत्, वेदार्थानुष्टानपरायणोऽपि कृतबुद्धिरपि निषिद्धाचरणपराङ्मुखोऽपि श्रोत्रियोऽपि श्रद्दधानोऽपि यदि कश्चित् केवलैः साधुभिरेव शब्दैर्व्यवहरन् दृष्टः; एकाकी तैश्च नानार्थक्रियासाधनभूतभूरिव्यवहारं निर्वहन् तदनुचरः परिज्ञातो न भूयः केवलसाधुशब्दप्रयोगकुशलः कल्पनीयः। कुतश्चासौ लभ्यते? तस्मान्न वृद्धव्यवहाराद् वेदार्थव्युत्पत्तिरुपपद्यते।
न्यायामञ्जरीग्रन्थिभङ्गव्याख्या :–
%वेदस्य नान्यत% इति। अन्यतोऽपि रागादिमान् न वेत्ति, तस्यापि रागादिमत्त्वेन तत्तुल्यत्वात्।
%अवीचिकेदारकुटुम्बिनमिति% अवीच्याख्यनरकक्षेत्रस्वामिनं तत्सम्बद्धमित्यर्थः।
%निसर्गत एवाक्षतकण्ठाः% व्याकरणादिपाठेन न क्षतः कण्ठो येषाम्।
%तदनुचरोऽपिति।% भार्यादासादिर्येन सहासावालपति।
न्यायामञ्जरी
%व्याकरणस्य न वेदार्थावधारकत्वं सभ्भवति%
अथ व्याकरणमेव वेदार्थव्युत्पत्तौ उपायतां प्रतिपत्स्यत इति मन्यसे, तदपि कथमिति चिन्त्यम्। न हि विवरणकार इव पाणिनिर्वेदं व्याचष्टे। व्याचक्षाणेऽपि वा परिमितदर्शिन्यस्मादृशे द्वेषादिदोषकलुषितमनसि तस्मिन्नस्मदादीनां वेदार्थं बुभुत्समानानां कीदृशो विस्रम्भः? किं यथैष व्याचष्टे तथैव वेदार्थः, अन्यथा वेति। यदि तु साध्वसाधुशब्दविवेकद्वारेण व्याकरणं कारणं वेदार्थव्युत्पत्तेरित्युच्यते, तत्रापि स्वातन्त्र्येण वेदस्येव व्याकरणस्य शास्त्रत्वानुपपत्तेरङ्गसिद्धेश्च वैदिकविध्यपेक्षितार्थसम्पर्कित्वं नूतनमस्येषितव्यम्। साधुभिर्भाषितव्यसमाधुभिर्नेत्यनयोरेव विधिनिषेधयोरिति चेत्। नन्वेतावेव विधिनिषेधौ तावद्विचारयामः, किं प्रकरणे पठितौ किमनारभ्याधीतौ क्लृप्ताधिकारौ कल्प्याधिकारौ वेति।
न्यायामञ्जरीग्रन्थिभङ्गव्याख्या :–
%क्व प्रकरणे पठिताविति।% प्रयाजादिवत्। अथ न प्रकरणपरिपठितौ तत्किमनारभ्याधीतौ `यस्य पर्णमयी जुहूः’ इत्यादिवत्। क्लृप्ताधिकारौ `चित्रया यजेत’ इतिवत्। कल्प्याधिकारौ वा विश्वजिद्वत्।
न्यायामञ्जरी
%तत्रैव साध्वसाधुशब्दविभागे शङ्का%
आस्तां चेदम्। वितता खल्वियं चिन्ता। साध्वसाधुशब्दस्याप्रसिद्धत्वात् किंविषयाविमौ विधिनिषेधौ स्यातामितीदमेव चिन्त्यताम्। `व्रीहीभिर्यजेत’ `न कलञ्चं भक्षयेत्’ इति व्रीहिकलञ्जयोः स्वरूपस्य लोकतोऽवगौ तद्विषयविधिनिषेधबोधो न दुर्घटः। इह तु व्रीहय इव कलञ्जमिव न साध्वसाधुशब्दः प्रविवेकेन लोकतोऽवगम्यते। कृतश्रमश्रवणयुगलकरणिकासु प्रमितिषु शब्दस्वरूपमेव केवलं विषयतामुपयाति, न जातु तद्गतं साधुत्वमसाधुत्वं वा। न हि शब्दत्वादिजातिवदुदात्तादिधर्मवच्च साध्वसाधुतायां कस्यचिदपि श्रौत्रः प्रत्ययः प्रसरति। प्रत्यक्षप्रतिषेधे च सति तत्पूर्वकसम्बन्धग्रहणसम्भवादनुमानमपि निरवकाशमेव।
शब्दस्तु द्विविधः पुरुषप्रणीतो वैदिको वा। तत्र पुरुषप्रणीतः प्रत्यक्षानुमानविषयीकृतार्थप्रतिपादनप्रवण एव भवतीति तदपाकरणादेव पराकृतः। वैदिकस्तु सम्प्रति चिन्त्यो वर्तते। स हि सिद्धे साधुत्वे तद्विधौ, सिद्धे चासाधुत्वे तन्निषेधे व्याप्रियते, न पुनस्तत एव तत्सिद्धेर्युज्यते। तथाब्युपगमे वा दुरुत्तरमितरेतराश्रयमवतरति, विधिनिषेधसिद्धौ साध्वसाधुशब्दसिद्धिः, साध्वसाधुशब्दसिद्धौ च विधिनिषेधसिद्धिरिति।
किञ्चेदं साधुत्वं नाम? यदि वाचकत्वम्, गाव्यादयोऽपि सुतरां वाचका इति तेऽपि कथं न साधवः? अर्थावगतिसाधनाद्धि साधुत्वम्। तच्च यथा गाव्यादिषु झटित्येव भवति, न तथा गवादिष्वतिति प्रथमं त एवासाधवः। एवञ्च यदाहुः, `असाधुरनुमानेन वाचकः कैश्चिदिष्यते’ इति। तदत्यन्तमसाम्प्रतम्। सोपानान्तरप्रतीतिप्रसक्तेर्विपर्ययस्य च लोके प्रसिद्धत्वात्। यस्तावदनधिगतव्याकरणसरणिः पामरादिः स गाव्यादिशब्दश्रवणे सति तावत्येव जातसन्तोषस्तत एवार्थमवगच्छन् गवादिशब्दानुमामनधिरुह्यैव व्यवहरति। हेमगिरिमुत्तरेण यादृंशि मादृशैरनुभूतानि तरुकुसुमफलानि तथाविधास्तस्य साधुशब्दा इति, सर्वात्मना अनवधारितसम्बन्धः स कथमनुमातुं प्रभवेत्?
येऽपि व्याकरणार्णवकर्णधाराश्चिराभ्यस्तसूक्तयः सूरयस्तेऽपि गाव्यादिभिर्व्यवहरन्तोऽनुमानक्रममनुहरन्त एव तेभ्योऽर्थं प्रतिपद्यन्त इति प्रत्यात्मवेदनीयमेतत्। तस्माद् वाचकत्वमेव साधुत्वम्। तच्च गवादिष्विव गाव्यादिषु दृश्यत इति तेऽपि साधवः स्युः। असाधुत्वमप्यवाचकत्वमुच्यते तच्च, वायसवाशितादिषु व्यवस्थितम्, न वर्णात्मकेषु व्यक्तवागुच्चार्यमाणेषु शब्देष्विति न तेऽसाधवः।
अथ ब्रूयान्नार्थप्रतीतिसाधनत्वमात्रं साधुत्वं धूमादिभिरतिव्याप्तेरपि तु विशिष्टक्रियाकारणत्वं वाचकत्वम्, तच्च गवादिष्वेवास्ति, न गाव्यादिष्विति न ते साधव इति। एतदप्यसमीक्षिताभिधानम्। अभिधानक्रियाकारणत्वं हि वाचकत्वमिति पूर्वमेव सुनिपुणमुपपादितम्। एतच्च गवादिषु गाव्यादिषु समानमिति सर्व एव साधवः।
अथ लक्षणानुगतत्वं तद्बाह्यत्वञ्च साधुत्वमसाधुत्वञ्च वर्ण्यते। तदयुक्तम्, पारिभाषिकत्वप्रसङ्गात्। न चान्यत् किमपि साध्वसाधुलक्षणामतिसूक्ष्मयापि दृष्ट्या शक्यमुत्प्रेक्षितुम्, अतो वाचकावाचकावेव साध्वसाधू इति स्थितम्। तेन तयोः प्रवर्तमानौ विधिनिषेधाविमौ व्यर्थौ भवेताम्। कथम्?
साधुभिर्भाषणं तावत् प्राप्तत्वान्न विधीयते।
अवाचकनिषेधश्चाप्राप्तेरेव न कल्पते॥
न हि सलिलं पिबेदनलं न पिबेदिति विधिनिषेधौ सम्भवतः, सलिलपानस्य स्वतः प्राप्तत्वात्, अप्राप्ते च शास्त्रस्यार्थवत्त्वात्। ज्वलनपानस्य च कस्याञ्चिदवस्थायामप्राप्तेः प्रतिषेधानर्थक्यात्। प्राप्तिपूर्विका हि प्रतिषेधा भवन्ति। न हि ग्रीष्मे ज्वालायोगोपनीततृड्विकारः करभोऽपि यतेत इति। तत्रैतत् स्यात्, गवादेर्गाव्यादेश्च वाचकत्वाविशेषे साध्वसाधुशब्दोच्चारणकरणकपुण्यपातकप्राप्तिपरिहारप्रयोजननियमविधानाय शास्त्रसाफल्यं भविष्यति। तदुक्तम्, `वाचकत्वाविशेषेऽपि नियमः पुण्यपापयोः’ इति।
एतदपि दुर्घटम्। प्रविधेयांश्च निषेध्यांश्च शब्दानुपदर्श्य नियमो विधातव्यः, एभिर्भाषितव्यमेभिर्नेति। तत्र यद्युभये, ते शब्दाः प्रतिव्यक्ति नामग्रहणपरिगमानपुरः सरमुपदर्श्येरंस्तदयमर्थः कल्पशतजीविनो भगवतः परमेष्ठिनोऽपि न विषयः। प्रविततवदनसहस्रसङ्कुलमूर्तेरनन्तस्यापि न गोचरः। वाचस्पतेर्न भूमिः। सरस्वत्या अतिभारः, तेषामानन्त्येन दर्शयितुमशक्यत्वात्।
अथ किञ्चिदुपलक्षणमवलम्ब्य तेषां वर्गीकरणमुपेयते, हन्त तर्हि दृश्यतां न च तत् सम्भवति।
अविभक्ता हि शब्दत्वजातिः शब्दापशब्दयोः।
न चावान्तरसामान्ये केचिद् वर्गद्वये स्थिते॥
न हि साधुत्वसामान्यमेकेष्वेव व्यवस्थितम्॥
इतरेषु त्वसाधुत्वसामान्यमुपलभ्यते॥
तदनुपलम्भाद् असम्भवति वर्गीकरणकारणे कथमेष नियमो विधीयेतेति नावधारयामः। किञ्च नियमार्थेऽपि शास्त्रे वक्तव्यं कीदृशः किंनियमार्थः, साधुभिरेव भाषितव्यमुत भाषितव्यमेव साधुभिरित्युभयथा च प्रमादः। आह हि,
यदि साधुभिरेवेति नामाधोरप्रसङ्गतः।
नियतं भाषितव्यं चेन्मौने दोषः प्रसज्यते॥ इति।
न वाचकत्वादन्यत् साधुत्वमित्युक्तम्, अवाचकस्य प्रयोगप्रसङ्ग एव नास्तीति। अथ प्रमादाशक्तिकृतशब्दप्रयोगप्रतिषेधाय नियम आश्रीयते, तत्रापि
प्रमादाशक्तिजाः शब्दा यदि तावदवाचकाः।
तेषु प्रसङ्गो नास्तीति तन्निवृत्तिश्रमेण किम्॥
अथ वाचकता तेषामप्रमादोत्थशक्तिवत्।
न तर्हि प्रतिषेधः स्यादप्रमादोत्थशक्तिवत्॥
नन्वस्ति तावदपशब्दानामशक्यनिह्नवः परिदृश्यमानो लोकप्रयोग इति तन्निवृत्तिफल एष प्रयोगनियमः कथं न भवेत्? यद्येवम्, अक्षिनिकोचहस्तसंज्ञादेरपि प्रचुरः प्रयोगो दृश्यत इति तद्व्युदासफलोऽप्येष नियमः स्यात्।
अपि च विधिफलः सर्वत्र विधिनियमो भवति, ऋतावुपेयादित्यादि। निषेधफला तु परिसङ्ख्या, पञ्च पञ्चनखा भक्ष्या इति। तदयमपशब्दे प्रयोगप्रतिषेधफलश्च नियमश्चेति व्याहतमभिधीयते। परिसङ्ख्या तर्हि भविष्यतीति चेन्न, शब्दापशब्दयोर्युगपत् प्राप्त्यभावात्। `तत्र चान्यत्र च प्राप्तौ परिसङ्ख्याभिधीयते’ इति न्यायात्।
यदपि पुण्यपापफलत्वं शब्दापशब्दप्रयोगस्येति गीयते, तदपि न पेशलम्, परिदृशख्यमानमविवादसिद्धार्थप्रत्ययजननमपहाय परोक्षस्यादृष्टस्य पुण्यपापात्मनः कल्पनानुपपत्तेः। यश्चायम् `स्वर्गें लोके कामधुग् भवति’ इति साधुशब्दस्तुत्यर्थवादः, यश्च `स वाग्वज्रो यजमानं हिनस्ति’ इत्यपशब्दे निन्दार्थवादः, तत्र परार्थत्वस्य विस्पष्टदृष्टत्वादर्थवादमात्रपर्यवसितौ च। `द्रव्यसंस्कारकर्मसु पदार्थत्वात् फलश्रुतिरर्थवादः स्यात्’ इति न्यायान्न फलार्थतेति। तदेवं साधुभिर्भाषितव्यमसाधुभिर्नेति विधिनिषेधयोरनारभ्याधीतयोः श्रूयमाणयोरपि दौस्थित्यात् तन्मूलतया लब्धप्रमाणभावा व्याकरणस्मृतिरङ्गतामेष्यति वेदस्येति दुराशैव। प्रकरणविशेषपाठे तु तयोस्तदुपयोगादेव न सार्वत्रिकी नियमार्थतेति सर्वथा न व्याकरणे तन्मूलत्वम्।
न्यायामञ्जरीग्रन्थिभङ्गव्याख्या :–
%असाधुरनुमानेनेत्यस्य% पक्षान्तरप्रतिपादकमुत्तरमर्धम्—-`वाचकत्वाविशेषेऽपि नियमः पुण्यपापयोः’ इति। अनुमानेनासाध्वनुमितात् साधोरर्थप्रत्यय इति।
%विशइष्टक्रियाकरणत्वमिति% अभिधानलक्षणां विशिष्टां क्रियां जनयन् शब्दो वाचकः, न प्रतीतिमात्रजनकत्वेन। तां च तादृशीं क्रियां साधुरेव जनयति, नासाधुरिति।
%पारिभाषिकत्वप्रसङ्गादिति% एवंविधस्य साधुशब्दार्थस्य लोकेऽप्रसिद्धेः।
%लवणोपयोगापनीततृड्विकारोऽपी%त्यनेनास्मद्विलक्षणस्वभावत्वं तस्य आहः, अस्माकं हि लवणोपयोगात् तृड् वर्धत इति।
%नासाधोरप्रसङ्ग% इति। अन्यनिवृत्तिफलो हि नियमो भवति। साधुः स्ववाचको भण्यते, असाधुस्त्ववाचकस्ततस्तस्यावाचकत्वादेवासाधोरप्रसङ्गात् किं नियमेन इत्यर्थः।
%अथ प्रमादाशक्तिकृतेति।% प्रमादकृतः `अस्मकेभ्यः आगच्छामि’ इति वक्तव्ये `अस्मकैः आगच्छमि’ इत्याह, अशक्तिकृतः `कुमारी ऋतकः’ इति वक्तव्ये `कुमारी लृतक’ इत्याह।
%ऋतावुपेयादिति% अस्य हि ऋतावुपगमोऽवश्यकर्तव्य इत्यर्थः, न तु अनृतुगमनप्रतिषेधः, `पर्ववर्जं व्रजेच्चैनाम्’ इत्यादिना विरोधात्।
%तत्र चान्यत्र च प्राप्तेः% इत्यस्य पूर्वमर्धम्—-`विधिरत्यन्तमप्राप्ते नियमः पाक्षिके सति’इति।
%यश्चायं स्वर्गे लोके% इति। `एक शब्दः सम्यक् प्रयुक्तः स्वर्गे लोके कामधुग् भवति’।
मन्त्रो हीनः स्वरतो वर्णतो वा
मिथ्याप्रयुक्तो न तमर्थमाह।
स वाग्वज्रो यजमानं हिनस्ति
यथेन्द्रशत्रुः स्वरतोऽपराधात्॥
इति स्तुतिनिन्दावाक्ये।
%परार्थत्वस्य% अर्थप्रत्यायनार्थत्वस्य।
न्यायामञ्जरी
%व्याकरणस्य न वेदाङ्गत्वमितिपक्षप्रदर्शनम्%
आह, तर्हि निष्कारणः षडङ्गो वेदोऽध्योयो ज्ञेयश्चेति विधेः शिक्षाकल्पसूत्रनिरुक्तच्छन्दोज्योतिः शास्त्रवद् व्याकरणमपि वेदाङ्गत्वादध्येतव्यमित्यवगम्यते। नैतदप्यस्ति। शिक्षादीनामनितरेतरसाध्यासङ्कीर्णविविधविध्यपेक्षितवेदोपकारनिर्वर्तकत्वेन तदङ्गता सुसङ्गता, व्याकरणस्य तु सुदूरमपि धावनप्लवने विदधतः साधुशब्दप्रयोगनियमद्वारकमेव तदङ्गत्वं सम्भाव्यते न मार्गन्तरेण, स च नियमो दुरुपपाद इति दर्शितम्। अतो नाङ्गान्तराणि स्पर्धितुमर्हति व्याकरणम्। निष्कारणषडङ्गवेदाध्ययनविधौ च निष्कारणग्रहणं यथा प्रयोजनशैथिल्यं सूचयति न तथा प्रयोजनवत्ताम्। श्रुतिलिङ्गाद्यङ्गत्वप्रमाणापेक्षया षडङ्गता वर्णयिष्यते। एतेन `तस्माद् ब्राह्मणेन न म्लेच्छितवै। म्लेच्छो ह वा एष यदपशब्दः’ इति, `एकः शब्दः सम्यक् प्रयुक्तः स्वर्गे लोके कामधुग् भवति’ इति, `आहिताग्निरपशब्दं प्रयुज्य प्रायश्चित्तीयां सारस्वतीमिष्टिं निर्वपेत्’ इति, `तस्मादशेषा व्याकृता वागुच्यते’ `इत्यादिवचनान्तरमूलतापि व्याकरणस्मृतेः प्रत्युक्ता। शिष्टप्रयोगमूला तर्हि व्याकरणस्मृतिरस्तु वैद्यकस्मृतिरिवान्वयव्यतिरेकमूलेति चेत्, के शिष्टा इति पृष्टो वस्तुमर्हसि? किमभिमतगवादिसाधुशब्दव्यवहारिणो गाव्याद्यपशब्दवादिनो द्वयं वा? आद्ये पक्षे दुरुत्तरमितरेतराश्रयत्वम्, शिष्टप्रयोगमूलं व्याकरणं व्याकरणविदश्च शिष्टा इति। न ह्यशिक्षितव्याकरणास्तत्संस्कृतगवादिशब्दप्रयोगकुशला भवन्ति। मध्यमपक्षे गाव्यादिव्यवहारिणः शकाटिकाः शिष्टाः, तत्प्रयोगमूलं गवादिशब्दसंस्कारकारि व्याकरणमिति व्याहतमिव लक्ष्यते। तृतीये तु पक्षे गोगाव्यादिशब्दप्रयोगसाङ्कर्यात् किंफलं व्याकरणं भवेत्? वैद्यकस्मृतेस्तु युक्तमन्वयव्यतिरेकमूलत्वं तथा दर्शनादिति। तदनयापि दिशा न प्रयोजनवत्तामुपयाति व्याकरणम्। अतश्च निष्पयोजनं व्याकरणम्, तत्सूत्रकृता स्वयं प्रयोजनस्यानुक्तत्वात्। न ह्यथातो धर्मजिज्ञासा, प्रमाणादिज्ञानात् साधर्म्यादिज्ञानाद् वा निः श्रेयसाधिगम इतिवत् तत्र सूत्रकारः प्रयोजनं प्रत्यपीपदत्। सुज्ञानत्वान्न प्रत्यपादयदिति चेत्, किमुच्यते सुज्ञानत्वम् यदद्यापि निपुणमन्वेषमाणा अपि न विद्मः, यत्र चाद्यापि सर्वे विवदन्ते।
किञ्च धर्मार्थकाममोक्षाश्चत्वारः पुरुषार्थास्तेषामन्यतमः किल व्याकरणस्य प्रयोजनमाशङ्क्येत। तत्र न तावद्धर्मस्तस्य प्रयोजनम्। स हि यागदानहोमादिस्वभावस्तज्जनितसंस्कारापूर्वरूपो वा वेदादेवावगम्यते। चोदनैव धर्मे प्रमाणमिति तद्विदः। चोदनामूलमन्वादिस्मृतिसदाचरणेतिहासगम्यो वा कामं भवतु, व्याकरणस्य तु स्वतस्तदुपदेशसामर्थ्यासम्भवादङ्गस्वभावाख्यतत्वाच्च न तत्प्रयोजनता युक्ता। प्रयोगनियमद्वारकस्तु धर्मस्तस्य प्रयोजनतया निरस्त एव। अर्थप्रयोजनता वार्तादण्डनीत्योः प्रसिद्धा, न व्याकरणस्य। अधीतव्याकरणा अपि दरिद्राः प्रायशो दृश्यन्ते। न तस्यार्थः प्रयोजनम्। कामस्तु वात्स्यायनप्रणीतकामशास्त्रप्रयोजनतामुपगतो न व्याकरणसाध्यतां स्पृशति। मोक्षे तु द्वारमात्मादिपरिज्ञानमाचक्षते क्लेशप्रहाणञ्च अध्यात्मविदः, षत्वणत्वपरिज्ञानं पुनरपवर्गसाधनमिति न साधीयान् वादः। तदेवं धर्मादिचतुर्वर्गादेकोऽपि न व्याकरणसाध्य इति स्थितम्।
अथोच्यते, सकलपुरुषार्थसार्थसाधनोपदेशविधेर्वेदस्य व्याकरणमवलग्नकमङ्गम्, अतस्तत्प्रयोजनेनैव प्रयोजनवदिति न पृथक् प्रयोजनान्तरमाकाङ्क्षतीति, तदपि परिहृतम्। यदा हि साधुशब्दोपदेशदिशा तस्य तदङ्गता, सा व्युदस्तैव। न चाङ्गस्यापि सतस्तत्तत्सेवाद्वारमपरमस्तीति निष्प्रयोजनमेव चेदृशम्। न चानुपकारकमङ्गमपि भवितुमर्हति, न हि तत् प्रधानेनाङ्गीक्रियते। नियोगगर्भो हि विनियोग इति न्यायविदः।
यान्यपि रक्षादीनि प्रयोजनानि व्याकरणस्य व्याख्यातृभिरभिहितानि तेषामन्यतोऽपि सिद्धेर्न व्याकरणशरणता युक्ता। रक्षा तावदध्येतृपरम्परात एव सिद्धा। मनागपि स्वरतो वर्णतो वा प्रमाद्यन्तं किञ्चिदधीयानमन्ये अध्येतारो मा विनीनशन्। श्रुतिमित्थमुच्चारयेदित्याचक्षाणाः शिक्षयन्तीति रक्षितो भवति वेदः ऊहस्तु त्रिविधो मन्त्रसामसंस्कारविषयस्तत्र सामविषयो यौक्तिकशास्त्रादवगम्यते याज्ञिकप्रयोगवादाद् वा। मन्त्रविषयोऽप्येवम्। प्रोक्षणादिसंस्कारविषये तु तस्मिन् व्याकरणमपि किं कुर्यात्? आगमस्त्वनन्तरमेव परीक्षितः। आगमगम्यञ्च प्रयोजनं भवति, न चागमः प्रयोजनम्। लाघवन्तु किमुच्यते? बाल्यात् प्रभृति बहुषु वहत्स्वपि वत्सरेषु यन्नाधिगन्तुं शक्यते व्याकरणं स चेत् लघुरुपायः, कोन्यस्ततो गुरुर्भविष्यति? सन्देहोऽपि न कश्चिद् वेदार्थे व्याकरणेन पराणुद्यते। प्रतिवाक्यमुपप्लवमाननानाविधसन्देहसहस्रविस्रंसनफला मीमांसा दृश्यते, न व्याकरणम्। तेन रक्षोहागमलघ्वसन्देहाः प्रयोजनमिति यदुच्यते, तन्न सुव्याहृतम्।
यान्यपि प्रयोजनान्तराणि भूयांसि `तेऽसुरा हेलयो हेलयः’ इत्युदाहरणदिशा दर्शितानि तान्यपि तुच्छत्वादानुषङ्गिकत्वाच्चोपेक्षणीयानि। तदुक्तम्,
अर्थवत्त्वं न चेज्जातं मुख्यैरपि प्रयोजनैः।
तस्यानुषङ्गिकेष्वाशा कुशकाशावलम्बिनी॥ इति।
न्यायामञ्जरीग्रन्थिभङ्गव्याख्या :–
%निष्कारणः षडङ्गो वेदः% इति। निष्कारणो दृष्टपशुपुत्रादिकारणमनपेक्ष्यावश्यन्तया इत्यर्थः। %अनितरेतरेति% अनितरेतरसाध्योपकारनिर्वर्तकत्वं शिक्षादीनां प्रथमत एव दर्शितम्। सर्वथा नास्ति व्याकरणप्रयोजनम्, तथा च निष्कारणशब्देन तदेव प्रयोजनरहितत्वमुक्तमिति। पूर्वपक्षवादी कुशकाशावलम्बनेनापि स्वार्थसिद्धिमाह; तदेव %निष्कारणषडङ्गवेदाध्ययनविधौ चे%त्यादिना प्रदर्शितम्। %श्रुतिलिङ्गादी…% स बभूवेति। यो जनः कां दिशं प्रपद्ये इति बुद्धिं संश्रितः कान्दिशीक उच्यते, न चास्य शब्दस्य व्युत्पादकं विञ्चिल्लक्षणमस्ति। भ्राजेश्च तच्छीलादिषु `इष्णु’ प्रत्ययो मुनित्रयेणापि न दृष्ट इति तदपेक्षया भ्राजिष्णुरित्यसाधुः। गणनीयो गण्य इति च गणयतेः `अचो यत्’ इति यति, `णेरनिटि’ इति णिलोपे सति भवति, तत्र प्राप्तस्य णिलोपस्याकरणाद् गणेय इत्यसाधुः। वरेण्यशब्दश्च स वरणीयो वरेण्य इति कृत्यप्रत्ययसमानार्थतया `पुण्यो महाब्रह्मसमूहजुष्टसमन्तर्पणो नाकसदां वरेण्यः’ इत्यादौ यौगिकत्वेन प्रयुज्यते, न च तथा व्युत्पादकमस्य समस्ति। एतच्च उणादिप्रत्याख्यानपक्षाश्रयेणोक्तम्। अप्रत्याख्यानेऽपि वा `अवद्यपण्यवर्या’ इति सूत्रस्यानर्थता दृष्टा। अथ चौणादिकानां रूढिशब्दत्वाद् व्युत्पत्तिनिमित्ततयैव तत्र क्रियाकारकसम्बन्ध आश्रीयते, न प्रवृत्तिनिमित्ततया अपि, मा भूद् गमनक्रियायोगात् पुरुषादावपि गोशब्दप्रवृत्तिप्रसङ्ग इति, तदयं यद्यपि वरेण्यशब्द उणादौ सिद्ध्यति तथापि यस्तत्र सिद्ध्यति स क्वचिदेव य……कृतिर्न शब्दस्य।
न्यायामञ्जरी
न वा व्याकरणस्य शब्दादिसंस्कारकत्वम्
अथ कथ्यते, किं प्रयोजनान्तरपर्येषणया, शब्दसंस्कार एव व्याकरणस्य प्रयोजनमिति’ तदपि व्याख्येयम्। कः शब्दस्य संस्कारः? तेन वा कोऽर्थ इति। न हि व्रीहिणामिव प्रोक्षणम्, आज्यस्येवावेक्षणम्, अग्नीनामिवाधानं शब्दस्य कश्चन व्याकरणकारितः संस्कारः सम्भवति। नैयायिकादिपक्षे च क्षणिका वर्णास्तेषामुच्चारितनष्टानां कः संस्कारः? शरादेरिव न वेगः, नात्मन इव भावना, न शाखादेरिव स्थितिस्थापक इति। वर्णानां नित्यत्वपक्षेऽपि क्षणिकाभिव्यक्तित्वमपरिहार्यम्। अतस्तेष्वपि कः संस्कारः? संस्कारश्च वर्णस्य वा पदस्य वाक्यस्य वेति विकल्प्यमानो न कस्यचिद् व्यवस्थापयितुं शक्यः। वैयाकरणानान्तु निरवयववाक्यविदां पदवर्णयोः संस्कारः सुतरामनालम्बनः। `अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवत्’। अन्यान्येव पदानि संस्करिष्यन्त इति चेत्, न, असतां संस्कारस्यानुपपत्तेः। आह च,
वाक्येभ्य एव परिकल्पनया विभज्य
संस्कर्तुमिच्छति पदानि महामतिर्यः।
उच्चित्य सौरभविभूषितदिक्षु कस्मा—
दाकाशरूढकुसुमानि न संस्करोति॥ इति।
न च शब्दसंस्कारकर्तव्यतोपदेशे कश्चिदनारभ्याधीतो वा प्रकरणपठितो वा विधिरुपलभ्यते, यमनुरुध्यमानाः शब्दस्योपयुक्तस्य `चात्वाले कृष्णविषाणां प्रास्यति’ इतिवदुपयोक्ष्यमाणस्य वा `व्रीहीन् प्रोक्षति’ इतिवत् कञ्चन संस्कारमनुतिष्ठेम। `स्वाध्यायोऽध्येतव्यः’ इति विधिरामुखीरणएन माणवकस्य वा ग्रन्थस्य वा विधिः संस्कारमुपदिशतीति महती चर्चैषा तिष्ठतु। सर्वथा नायं व्याकरणनिर्वर्त्यः। प्रत्ययागमवर्णलोपादेशादिद्वारकशब्दसंस्कारोपदेशशङ्कामपि च नयतीत्यास्तामेतत्। न च शब्दप्रयोगोपायस्थानकरणादेः कोष्ठ्यस्य मातरिश्वनो वा श्रोत्रेन्द्रियस्य वा तदुपलब्धिरणस्य प्रयोक्तुरात्मनो वा मनसो वा बुद्धेर्वा कश्चिद् व्याकरणेन संस्कारक्लेशः शक्यक्रिय इति तत्कारकेऽपि संस्कारेऽनुपाय एव व्याकरणम्। न च स्थूलपृषतीत्यादिकतिपयशब्दव्युत्पादनमेव व्याकरमप्रयोजनतया वक्तव्यम्, तस्यापि कल्पसूत्राद्युपायान्तरलभ्यत्वात्।
यश्चाह `तत्त्वावबोधः शब्दानां नास्ति व्याकरणादृते’ तस्य सोपहासमुत्तरं वार्त्तिककार एव दर्शितवान् `तत्त्वावबोधः शब्दानां नास्ति श्रोत्रेन्द्रयादृते’ इति।
अपि च व्याकरणेन कृतेऽपि शब्दसंस्कारे तदुपदिष्टसंस्कारबहिष्कृतशब्दप्रयोगान् विदधतस्तत्र तत्र शिष्टाः पूर्वेऽपि दृश्यन्ते। सूत्रकारस्तावत् `जनिकर्तुः प्रकृतिः, तत्प्रयोजको हेतुश्च, तृजकाभ्यां कर्तरि’ इति प्रतिषिद्धं षष्ठीसमासं जनिकर्तुरिति धातुनिर्देशैकविषयं जनिशब्दमर्थनिर्देशेऽपि प्रयुक्तवान्। वार्त्तिककारोऽपि `दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात् सिद्धम्’ इति तथैव प्रयुक्तवान्, आन्यभाव्यन्तु कालशब्दव्यवायादिति, क्लेशेन समासे च तेन समाससंज्ञया गुणवचनसंज्ञाबाधितत्वादगुणवचनत्वाद् ब्राह्मणादिगणापठितत्वात् `गुणवचनब्राह्मणादिभ्यः’ इत्यप्राप्तमेव ष्यञं कृतवान्। भाष्यकारोऽपि न `अविरविकन्यायेन’ इति द्वन्द्वगर्भे तत्पुरुषे प्रयुयुक्षिते `सुपो धातुप्रातिपदिकयोः’ इति प्राप्तमपि लोपं न कृतवान्, अन्यथा कृत्वा चोदितमन्यथा कृत्वा परिहार इति। अत्र च `अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत्’ इति प्राप्तमपि णमुलमुपेक्ष्य क्तप्रत्ययं प्रायुङ्क्त। तदिदं त्रिमुनिव्याकरणस्य त्रयोऽपि च मुनयः स्खलन्तीति कमुपालभेमहि। मन्वादिग्रन्थेष्वपि कियन्तोऽपशब्दाः गण्यन्ते, ज्ञातारः सन्तिमे इत्युक्त्वा इति मनुना, अक्षिणी अज्येत्याश्वलायनेन मूर्धन्याभिजिघ्राणमिति गृह्यकारेण। तदनन्तरं `तुभ्यञ्च राघवस्य’ इति वाल्मीकिना, जन्मे जन्मे यदभ्यस्तमिति द्वैपायनेन प्रयुक्तम्। आह च `अन्तो नास्त्यपशब्दानामितिहासपुराणयोः’ इति।
न्यायामञ्जरीग्रन्थिभङ्गव्याख्या :–
%दम्भेर्हल्ग्रहणस्येति।% `हलन्ताच्च’ इत्यत्र सूत्रे हलन्तो हलवयवो य इक्, ततः परस्य सनः कित्त्वं भवतीत्यमुं पक्षं `कथं हि इको नाम हलन्तः स्यादन्यस्यान्यः’ इति निराकृत्य समीपवचनमन्तशब्दमाश्रित्य इको यो हल् अन्तः समीपस्ततः परस्य सनः कित्त्वमिति सूत्रार्थो व्याख्यतः। एवमेव पुनर्वीप्सतीत्येतदुदाहणाभिप्रायेण चोदितम्। `एवमपि दम्भेर्न सिद्ध्यति। यो ह्यत्र इक्समीपो हल् न तस्मादुत्तरः सन्, नासौ इक्समीपे’ इति। तत एतच्चोद्यपरिहाराय वार्त्तिकं पठितम् `एवं तर्हि दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात् सिद्धम् हल् इति हल्जातिर्निर्दिश्यते इक उत्तरा या हल्जातिरिति’ %आन्यभाव्यन्तु कालशब्दव्यवायादिति% तत्रानुवृत्तिनिर्देशे `अस्य च्वौ’ इत्यादौ आक्षरसमाम्नायिकस्याकारस्याभावात् सवर्णग्रहणमाप्नोति अण्त्वात् तस्याकारस्य ततश्च मालीभवति इत्यादौ ईत्त्वं न प्राप्नोति अणि सवर्णान् गृह्णाति। आकारसमाम्नायिकश्च अण् इतरस्तदुक्तम् `अनुवृत्तिनिर्देशे सवर्णाग्रहणम् अनण्त्वात्’ इति। एवं चोदयित्वा `एकत्वादकारस्य सिद्धम्’ इत्यादिना सर्वाकाराणामेकतां प्रतिपाद्य पुनरभिहितम् `आन्यभाव्यं तु’ इति। सर्वाकाराणामान्यभाव्यं भिन्नत्वम्। कुतः? कालव्यवायाच्छब्दव्यवायाच्च। दण्ड अग्रम् इत्यत्र एकमकारमुच्चार्य कालव्यवायेन द्वितीयोऽकारः। तथा दण्ड इत्यत्र णकारडकारव्यवधानेनोच्चारणमकारस्य दकारपरोच्चारितस्य। भिन्नानाञ्च कालशब्दव्यवधानं दृष्टं नाभिन्नानामिति। यथा असंहितायाम् `अ-इ-उ’ इत्यादीनां भिन्नानां कालव्यवायः। दृतिरित्यत्र च भिन्नयोः ऋकारेकारयोस्तकारेण शब्देन व्यवायो दृष्ट इति। %क्लेशेन समास इति% दुरुपपादः समास एव तावदत्र क्लेशेन कल्प्यः, तस्मिंश्च कल्पिते समाससंज्ञया गुणवचनसंज्ञाबाधो बलादायातीति। तथाहि यद्यन्यभावो भवतीति। भावश्च अन्यभाव इचि एवं समासः क्रियते तद्वास्तवगुणवचनत्वाभावाद् ब्राह्मणादिगणापाठाच्चास्य ष्यञोऽनुत्पत्तिः, भवनं भावेनेत्युक्तम्, अविश्च अविकश्चेति द्वन्द्वे समासे सुपो लुक् प्राप्तः। %अन्यथा कृत्वा चोदितमिति% तत्र तत्र प्रदेशे चोद्यानुगुणं परिहारमपश्यन् भाष्यकारो अन्यथाकारं चोदितमन्यथाकारं परिहारः’ इति वक्तव्ये `अन्यथा कृत्वा चोदितमन्यथा कृत्वा परिहारः’ इति ब्रवीति। `अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत्’ इत्यनेन हि सूत्रेणात्र णमुल् प्राप्नोति। गतार्थत्वात् प्रयोगानर्होऽपि यः प्रयुज्यते स सिद्धाप्रयोगस्तादृशश्चात्र करोतिर्यावदेवोक्तं भवति, अन्यथा चोद्यमन्यथा परिहार इति। तावदेवोक्तं भवति, अन्यथा कृत्वा चोदितमन्यथा कृत्वा परिहार इति। %ज्ञातारः% इति `ज्ञातारः सन्ति मम’ इति वाच्ये `अज्य’ इत्युक्तम्। `अभिघ्राणम्’ इति वक्तव्ये `अभिजिघ्राणम्’ इत्याह। `यदन्तरं सिहशृगालयोर्वने तदन्तरं तव च राघवस्य च’ इति वाच्ये छन्दोवशात् %तुभ्यञ्राघवस्य च’% इत्यभ्यधात्। `जन्मनि’ इति प्रयोक्तव्ये `%जन्मे%’ इत्युक्तम्। %अन्तो नास्त्यपशब्दानाम्’ इत्यस्योत्तरमर्धम्—–`तथोभाभ्यादिरूपाणां हस्तिशिक्षादिकारिणाम्’ इति। हस्तिशिक्षाकारिणो हि पालकाप्यादय उभाभ्यां दन्ताभ्यां यः प्रहारस्तमुभाभ्यशब्देन व्यवहरन्ति, न च तस्य लक्षणेन सिद्धिरस्ति।
न्यायामञ्जरी
व्याकरणशास्त्रेण शब्दव्याकृतौ दोषप्रदर्शनम्
अथवा किमनेन पुराणपुरुषपरिवादेन? सर्वथायं वस्तुसंक्षेपः। क्षामोऽपि कश्चिदुपयोगो न लोके वेदे वा व्याकरणस्य विद्यत इति। किञ्चान्यद् `अथ शब्दानुशासनम्’ इत्युपक्रम्य केषां शब्दानामिति पृष्ट्वा लौकिकानां वैदिकानाञ्चेति प्रतिज्ञाय न लौकिकाः सर्वे व्याकर्तुं पारिताः शब्दाः, नापि वैदिकाः। तथा हि तेषां व्याक्रिया प्रतिपदं वा विधीयते लक्षणतो वा। प्रतिपदं तावदनुशासनमघटमानं स्याच्छबप्दानाम्। तथा चाहुः `बृहस्पतिरिन्द्राय दिव्यवर्षसहस्रं प्रतिपदोक्तानां शब्दानां शब्दपारायणं प्रोवाच न चान्तं जगाम’इति। नापि लक्षणतस्तत्सम्भवः, न हि सकलसाधुशब्दवर्गानुगतमपशब्देभ्यश्च व्यावृत्तं गोत्वादिविह किञ्चिल्लक्षणमस्तीत्युक्तम्, तत्रैतत् स्यात्। जातिरूपमिह लक्षणमभिधित्सितमपि तु कथमनुशासनमिति प्रश्नपूर्वकमुक्तं प्रकृत्यादिविभागकल्पनया सामान्यविशेषवता लक्षणेनेति च। तथा हि `कर्मण्यण्’ इति सामान्यलक्षणम्, कर्मण्युपपदे धातुमात्रादण्प्रत्ययो भवतीति। तेनानेन सामान्यविशेषवता लक्षणेन कुम्भकारो नगरकार इत्यादयो गोदः कम्बलद इत्यादयश्च भूयांसः शब्द अल्केशेनैव व्याकरिष्यन्त इत्युच्यते। प्रकृत्यादिविभागकल्पनयेत्यत्र यद् वक्तव्यं तत् प्रागेव सविस्तरमभिहितम्। सामान्यविशेषवता लक्षणेनेति तु सम्प्रति निरूप्यते, तदपि व्यवस्थितं लक्षणं न दृश्यते।
तथा हि धातोः पुनः प्रत्यया भवन्तीति लक्षणं कुर्वता वक्तव्यं कः पुनरयं धातुर्नामेति। ननु भूवादयो धातव इत्युक्तमेव तत्स्वरूपम्। केचन शब्दाः कयाचित् परिपाट्या पाठितास्ते धातुसंज्ञया लक्ष्यन्ते, तेभ्यः परे तिङः कृतश्च प्रत्यया भवन्तीति। सत्यमुक्तमेतत्। किन्त्वेवं पाठे कृतेऽपि न धातुस्वरूपनिर्णय उपवर्णितो भवति। तथा च गण्डतीत्यपि प्राप्नोति धातोस्तिङ्प्रत्ययविधानात्। घट चेष्टायामिति धातुः, अस्ति च घट इति प्रातिपदिकम्। अम रोग इति धातुरनुबन्धत्यागादमिति भवति, अस्ति द्वितीयाया विभक्तेरेकचनमिति। भूशब्दो धातुः, अस्ति भू प्रातिपदिकम्। यदी प्रयत्न इति लुप्तानुबन्धो यदिति धातुः, अस्ति च यदिति सर्वनामपाठप्रसिद्धरूपम्। अत्राविशेषादधातोरपि घट—भू—यच्छब्दरूपात् परे तिङ्प्रत्यया भवेयुः। क्रियावचनो धातुरिति चेत्, भवतितिष्ठतीत्यादीनामसाधुत्वं प्राप्नोति, गमेश्चानर्थकः पाठः। उभयं तर्हि धातुलक्षणं पाठः क्रियावचनता चेति भवितुमर्हति, तदपि हि व्यस्तं वा लक्षणं समस्तं वा? व्यस्तपक्षे भवत्यादौ क्रियावचनत्वस्य द्वितीयस्य लक्षणस्य चाभावादधातुत्वमेव स्यादिति। एवं धातोः प्रकृतेरनिर्णीतत्वात् कुतः परे तिङश्च कृतश्च प्रत्यया उत्पद्येरन्? समस्तपक्षे।(1) (1.अत्र ग्रन्थस्त्रुटित इति ज्ञेयम्) किञ्च केचन तिङ्प्रत्ययाः कालाद्युपाधयो न तद्वचनाः। अनुक्तेषु च कालादिषु तत्पूर्वकं वर्तमाने लड् भविष्यति लिड्भूते लङ्ङिति नियमरूपमशक्यम्। उच्यतां तर्हि तिङ्भिः कालादय इति चेत्, न, भाष्यविरोधात्। उक्तं हि भगवता भाष्यकारेण भूते धात्वर्थ इति। न च धात्वर्थेनैव धात्वर्थो व्यवस्थापयितुं शक्यते। लिङादयश्च सुतरामनधिगम्यमानविषयाः। ते हि विध्यादावर्थे विधीयन्ते। स च विधिरूपोऽर्थः स्वरूपतश्चोपाधितश्च न शक्यो निर्णेतुमिति।
तथा कारकानुशासनमपि दुः स्थम्। `ध्रुवमपायेऽपादानम्’ इत्युच्यते। तत्र ध्रुवस्य वृक्षादेर्वृक्षात् पतितो देवदत्त इति पतनक्रियायामवलग्नं कृशमपि न कारकत्वमुत्पश्यामः। क्रियायोगो हि कारकम्। स च वृक्षे नोपलभ्यत इति। सार्थाद्धीनो रथात् पतित इति सार्थरथयोः क्रियोपलभ्यते। न वृक्षवन्निश्चलत्वमिति चेत्, सत्यम्। स्वरसप्रवृत्ता तयोरस्ति क्रिया हाने याने च। पादपनिर्विशेषावेव सार्थरथौ। न च यदेकस्यां कारकं तत् सर्वासु कारकं भवत्यतिप्रसङ्गात्।
`कर्मणा यमभिप्रैति तत् सम्प्रदानम्’ इत्यत्र कर्मशब्दः क्रियावचनो वा स्यादीप्सिततमकारकवाची वा? आद्ये पक्षे क्रियया सर्वकारकाण्यभिप्रेयन्त इति सम्प्रदानतां प्रतिपद्येरन्। न चोपाध्यायस्य कञ्चिदभिप्रेयमाणस्य व्यापारमुत्पश्याम इत्यसावकारकमेव तत्र स्यात्। प्रतिग्रहस्तु क्रियान्तरमेव। तत्र चोक्तम्, क्रियया चाभिप्रेयमाणं फलं भवति। न द्वितीयः, कारकसम्बन्धित्वेन कारकस्य कारकत्वानुपपत्तेः। क्रियासम्बन्धितया हि कारकं कारकं भवति, न कारकसम्बन्धितया, करोतीति कारकमिति व्युत्पत्तेः।
`साधकतमं करणम्’ इति तमबर्थानवधारणादनुपपन्नम्। अनेककारकसन्दर्भसन्निधाने कार्यमात्मानं लभते, तेषामन्यतमव्यपगमेऽपि न लभत इति। ततः किमिव कारकमतिशयशबलितवपुरिति कं तमबर्थं मङ्गलकलशेनाभिषिञ्चामः। प्राचुर्येण प्रधानं कार्यं प्रति व्यापारयोगित्वमित्यादि सर्वसाधारणम्। न काष्ठैकनिष्ठमिति काष्ठैः पचतीति कथं तेषामेव करणत्वम्।
`आधारोऽधिकरणम्’ इति यदुच्यते तत्र वक्तव्यं कस्याधार इति, क्रियायाः कारकस्य वा? यदि क्रियाधारत्वमधिकरणलक्षणम्, अशेषकारकाणामधिकरणसंज्ञा प्रसज्येत क्रियायोगाविशेषात्। अथ यत्र स्थाल्यादौ श्रितं तण्डुलादि कर्म तदधिकरणम्? समे देशे पचतीति न स्यात्, अप्सु पचतीति स्यात्, कटे स्थितो भुङ्क्त इति चापभ्रंशो भवेत्। कर्तुर्हि तदधिकरणं न कर्मणः। कर्तृकर्मणोः क्रियाश्रययोर्धारणाधिकरणत्वे अधिकरणमिति चेत्, उभयाधारत्वं न कटस्य न स्थाल्या इति द्वयोरप्यधिकरणता हीयते। एकैककारकाधारत्वे तु तल्लक्षणे परस्परापेक्षया पुनस्तत्स्वरूपसाङ्कर्यं भवेत्। यदि तु सकलकारकाधारत्वमधिकरणलक्षणम्, स्थाल्यामोदनंपचतीति न स्यात्, सकलकारकानधिकरणत्वात् स्थाल्याः। अधिकरणस्य चाकारकत्वप्रसक्तिः, न ह्यधिकरणमधिकरणाश्रितं भवति। मध्याह्ने स्नाति रात्रावश्नाति पूर्वस्यां दिशि विहरतीति कालादीनामव्यापारत्वादकारकत्वमेव भवेत्। तथा च सत्येते प्रयोगा असाधवः स्युः।
`कर्तुरीप्सिततमं कर्म’ इति साधकतमवदिहापि न वाचकोऽयमतिशयानः, सर्वकारकाणआं क्रियार्थितया कर्तुरीप्सिततमत्वादर्थं यदर्थं क्रिया तदर्थं कर्तुरीप्सितं तदर्थं त्वन्यदिति तत्र सम्प्रत्यय इत्यच्यते, तर्हि तस्य कारकत्वमेव न युक्तम्। क्रियासम्पादकं हि कारकमुच्यते, क्रियासम्पाद्यन्तु फलं भवति, न कारकम्। कारकञ्च क्रियया चाप्तुमिष्टतममिति च विप्रतिषिद्धम्।
अथाभिधीयते। क्रियोपयोगयोग्यतानिबन्धनोऽयं कारकव्यपदेशः, स च विचित्रक्रियोपयोगः, अन्यथा करणस्यान्यथाधिकरणस्यान्यथा सम्प्रदानादेः। इह च क्रियासाध्यत्वेऽप्योदनस्य तत्क्रिययोपयोगित्वमनिवार्यम्, तमनुद्दिश्य क्रियायाः प्रवृत्त्यभावादिति। इत्थमनेन रूपेण तस्य क्रियासाधनत्वात् कारकत्वमिति। नैतदेवम्। साध्यैकस्वभावस्य सुखादेरपि कारकत्वप्रसङ्गात्। कारकत्वव्यपदेशो हि न पारिभाषिकः, किन्तु क्रियासम्बन्धनिबन्धनः, क्रियासम्बन्धश्चेदृशो यदुपेयक्रियाया उपायाः कारकमिति, विपर्यये तु कीदृशः कारकभावः। अस्तु तर्हि तण्डुलान् पचतीति मा च भूदोदनं पचतीति, ओदनस्य फलदशानुप्रवेशादिति। उक्तमत्र तण्डुलेष्वपि तमबर्थो न वाचकस्तेषामपि फलसाधनोपयोगाविशेषादिति। `स्वतन्त्रः कर्ता’ इति किमिदं स्वातन्त्र्यम्? यदिच्छातः प्रवर्तनमिति चेत्, कुलं पचतीति चैतन्यशून्यतया कुलस्येच्छानुपलम्भादकर्तृत्वं भवेत्।
अथ यद्व्यापाराधीनः कारकान्तरव्यापारः, स कर्तेत्युच्यते? सर्वकारकनिर्वर्त्यत्वात् क्रियाया न विद्मः किंव्यापाराधीनः कस्य व्यापार इति, समग्रकारकग्रामस्य परस्परापेक्षत्वात्।
अथ यः कारकान्तराणि प्रयुङ्क्ते तैश्च न प्रयुज्यते स कर्तेति। तर्हि पुनरचेतनानामकर्तृत्वप्रसङ्गदोषस्तदवस्थ एव। अथ धातुनाभिधीयमानव्यापारः कर्तेति? तत्रापि न विद्मः कस्य धातुनाभिहितो व्यापारः, सकलकारकवाचित्वात् पचेः। अन्यथा हि सकलव्यापारानभिधायिनि धातौ तदर्थसाधने सर्वेषां सङ्गतिरेव न स्यात्। तथा च सति सर्वकारकाणि कर्तृत्वमेव स्पृशेयुः।
अथ मतम् अगुणो धातुनाभिधीयमानव्यापारः कर्तेति? तदप्यसत्। सकृदुच्चरितो धातुरनेकस्मिन् कारकचक्रे कस्यचिद् गुणत्वेन कस्यचित् प्राधान्येन व्यापारः कथमिव कथयितुं शक्यत इति। `तत्प्रयोजको हेतुश्च’ इति प्रयोज्येनैव व्याख्यातम्। एवं कारके शासनस्याव्यवस्थानात् तदधीनप्रसक्तविभक्तिविधानमपि प्रत्युक्तम्। अपादाने पञ्चमी, सप्तम्यधिकरणे इत्यादिविषयनिरूपणपूर्वकत्वात् तद्विधानस्येति।
किञ्च यद्यपि तद्धितसमासानुशासनं तत्सामर्थ्यनियमपूर्वकं समर्थानां प्रथमाद् वा `समर्थः पदविधि’ इति परिभाषणात्, तदत्रापि वक्तव्यम्। सामर्थ्यं नाम किमुच्यत इति। एकार्थान्वयित्वमिति चेत्, कुतोऽवगम्यते? तद्धितसमासप्रयोगप्रतिपत्तिभ्यामेवेति चेत् तर्हि तद्धितसमासप्रयोगप्रतिपत्त्योः सामर्थ्यावगमः, सामर्थ्ये सति तयोः प्रवृत्तिरितीतरेतराश्रयत्वम्।
अपि च सामर्थ्यमन्तरेणापि क्वचित् प्रयुञ्जते समासम्, अश्राद्धभोजी दधिघटो गोरथ इति। तथासत्यपि सामर्थ्ये तद्धितप्रयोगाः परिदृश्यन्ते, अङ्गुल्या खनति आङ्गुलिको वृक्षमूलादागतो वार्क्षमूलिक इति न वक्तारो भवन्तीति। एतदप्यसमञ्जसमनुशासनम्।
तथा `अर्थवदधातुरप्रत्ययः प्रातिपदिकम्’ इति संज्ञालक्षणमतिव्यापकम्, वाक्यस्यापि प्रातिपदिकसंज्ञाप्रसङ्गात्।
अथ `कृत्तद्धितसमासाश्च’ इति सूत्रान्तरे समासग्रहणं विशेषविधित्वेन वर्ण्यमानं तदितरवाक्यप्रतिषेधाय भवतीति ततो वाक्यनिवृत्तिः सेत्स्यति। यद्येवम्, अधातुरप्रत्यय इति न वक्तव्यं धातुप्रत्यययोरपि तत एव प्रतिषेधसिद्धेः।
अथैकार्थतया समानशीलस्य वाक्यस्यैव प्रतिषेधे प्रभवति समासग्रहणं न धातुप्रत्यययोरपि, तदपि दुराशामात्रम्। वाक्यसमासयोरपि `वा’ वचनानर्थक्यकथनेन सार्थशक्त्यव्यवस्थापनादिति।
तदेवं प्रातिपदिकसंज्ञाविषयस्य निश्चयात् तत्प्रकृतिकानां ङ्याप्प्रातिपदिकादित्यधिकृत्य स्वादिप्रत्ययानां विधानमनुपपन्नमित्यलं प्रसङ्गेन। सर्वथा दुर्व्यवस्थितं शब्दानुशासनम्।
यश्च व्याख्यातॄणामुक्तानुक्तदुरुक्तनिरीक्षणप्रयत्नः, यश्च वा-च-क-मात्रावर्णाधिक्यमिषपुरः सरलक्षणपरिचोदनप्रकारः, यच्चेदं व्याख्यातृवचनमिह न भवत्यनभिधानादिति, यच्च व्याप्तिसिद्धौ सरलमुपायमपश्यतामाकृतिगुणवर्णनम्, यच्च पदे बहुलवचनं तत् सुतरामपरिशुद्धिमनुशासनस्य दर्शयतीति।
अन्ये तु शोभेति चीर्णमिति न याति वाक्यं प्रतिभेत्तुमिति मातुरनुहरतीति फलिनबर्हिणौ ह्यद्यासेति कांदिशीक इति भ्राजिष्णुरिति गणेय इति वरेण्य इति लक्ष्यसङ्ग्रहबहिष्कृतस्मृतिसन्देहविपर्ययप्रतिपादकत्वलक्षणस्खलितं विप्लुतं पाणइनितन्त्र मन्यमानास्तत्र महानत्माक्षेपमतानिषुः, स तु स्थूलोदरप्राय इतीह ग्रन्थगौरवभयान्न लिख्यते।
ननु यदि लक्षणस्य प्रणेता पाणिनिर्न सम्यग् दर्शयत्यत्र विवरणकाराश्च नातिनिपुणदृशः काममन्यः सूचीकृतबुद्धिर्भविष्यति। वृत्तिकाराश्च प्रौढतरदृष्टयो भविष्यन्ति, तेभ्यः शब्दलक्षणमविप्लुतमवभोत्स्यामह इति।
नैतदस्ति। तेषामप्यभियुक्ततराः केचिदुत्प्रेक्षन्त एव दोषम्, तेषामपरे, तेषामप्यपरे। तदेवमनवस्थाप्रसङ्गान्नास्ति निर्मलमनुशासनमिति क्लेशायैव व्याकरणाध्ययनमहाव्रतग्रहणम्। तथा च बृहस्पतिः, प्रतिपदमशक्यत्वात्, लक्षणस्यापि अव्यवस्थानात्, तत्रापि स्खलितदर्शनात्, अनवस्थाप्रसङ्गाच्च मरणान्तो व्याधिर्व्याकरणमित्यौशनसा इति। इहाप्युक्तम्,
दुष्टग्रहगृहीतो वा भीतो वा राजदण्डतः।
पितृभ्यामभिशप्तो वा कुर्याद् व्याकरणे श्रमम्॥
अन्यैरप्युक्तम्,
वृत्तिः सूत्रं तिला माषाः कटन्दी कोद्रवौदनः।
अजडाय प्रदातव्यं जडीकरणमुत्तमम्॥ इति।
एवं व्याकरणावगाहनकृतोद्योगोऽपि विद्वज्जनो।
व्युत्पत्तिं लभते न वैदिकपदग्रामे मनुष्योक्तिवत्।
अन्यत् किञ्चन तत्प्रतीतिशरणं नास्तीति च व्याकृतं
तस्मादप्रतिपत्तिमन्थरमुखो वेदः प्रमाणं कथम्॥
न्यायामञ्जरीग्रन्थिभङ्गव्याख्या :–
%सामान्यविशेषवतालक्षणेन% उत्सर्गापवादरूपेण लक्षणेन शास्त्रेण। कथम्? %प्रकृत्यादिविभागकल्पनयेति।% असतामपि प्रकृतिप्रत्ययादीनां या विभागकल्पना `अयं प्रकृतिविभागः अयं प्रत्ययः’ इति बुद्ध्या समुल्लेखनतया। %प्रकृत्यादिविभागकल्पनया’ इत्यत्र यद् वक्तव्यमिति।% प्रकृत्यादीनां पारमार्थिकत्वात् काल्पनिकत्वाभावात्।
%तथा च गण्डतीत्यपि प्राप्नोति।% गण्डशब्दसिद्ध्यर्यं तस्य प्राङ्नीत्या `गण्डति’ इति स्वमतिकल्पितं रूपं साधु प्रसज्येतेति गण्डतीत्येवमादीनामपि साधुत्वं प्राप्नोति। `घटं भूयत इति च’ इति प्राभाकरी टीका साधुशब्दाधिकरणे तत्र घटंभूयत् इति फक्किकां व्याख्यातुमाह `%घट चेष्टायाम्%’ इत्यादिना। घटश्च अम् च भूश्च यश्च तश्च घटंभूयत्। तस्माद् घटंभूयतोऽपि प्राप्नोति प्रातिपदिकेभ्योऽपि घटादिभ्यः प्रत्ययास्तिङादयः प्राप्नुवन्तीत्यर्थः। अत्र च `घटम्’ इति `अमः’ द्वितीयैकवचनानुकरणत्वात् प्रकृतिप्रत्ययाः। %कालाद्युपाधयः% इति। लिङ्लोड्वर्जिताः कालोपाधयः। यदा धात्वर्थः कालविशिष्टो भवति, तदा तथाविधे धात्वर्थे वर्तमानाद् धातोस्ते विधीयन्ते, न पुनस्तैरसौ कालः प्रतिपाद्यत इत्यर्थः। %अनुक्तेषु कालादिष्विति। अयमर्थः, प्रत्ययस्तावत् कालवचनो नाङ्गीकृतः, धातोश्च क्रियामात्रावगतिः तद्भूतादेः कालस्यानवगमादयं नियमः `वर्तमान एव लट्’ इत्यादिको निरूपयितुं व्यवस्थापयितुं न शक्यते। तदर्थावगतिपूर्वकत्वादस्येत्यर्थः। %उच्यतां तर्हि कालादय% इति। वृत्तिकृन्मतमाशङ्क्याह, %न भाष्यविरोधादिति।% अथास्तु क्रियावद् धातुवाच्यत्वमेव भाष्यविरोधाद् भूतादीनाम्। तदपि च कुतः? भाष्यविरोधादेव। तदा ह्युभयोर्धात्वर्थत्वम्, न चैकस्यैव विशेषणविशेष्यभाव उपपद्यते। तदाह %न च धात्वर्थेनैव धात्वर्थ% इति। यदि हि प्रत्ययेन भूतादिर्न प्रतिपाद्यते, अपि तु धातुनैवेति मतं तदानीं क्रियावत् कालोऽपि धात्वर्थः प्राप्नोति। न च स एव धातुवाच्यः कश्चित् क्रियारूपो व्यवस्थाप्यो विशेष्यः कश्चिच्च व्यवस्थापको विशेषणकालः; एकशब्दवाच्यस्य द्वैरूप्यादर्शनात्। दण्ड्यादौ हि दण्डशब्देन विशेषणं दण्डः प्रतिपादितः, इना तु विशेष्यः पुरुषो न तूभौ दण्डशब्देनैवेति। %स च विधिरूपोऽर्थः स्वरूपत% इति। विधिशब्देन तैः प्रैषः प्रतिपादितः, तत्र विधिनिमन्त्रणामन्त्रणाधीष्टेष्वपि चतुर्ष्वपि प्रेरणारूपस्यानुगमात् कथं निश्चीयेत अयं प्रैषः, इदं निमन्त्रणम् इत्यादि। अथोपाधिभेदात् तेषां भेदो व्यवस्थाप्यते। ते च समहीनज्यायोमनुष्यप्रतिपादकपदविशेषा उपाधयः, तद्वशादयं प्रैषे लिङादिर्व्यवस्थाप्यत इति। यदि चैवं तेषामर्थो व्यवस्थाप्यते तर्ह्येवं व्यवस्थाप्यमानो योऽर्थः पदान्तरसन्निधानवशात् स तेषामर्थो न भवति। यथा `अश्वमानय गमिष्यामस्तेन’ इति पदान्तरयोगाद् योऽश्वार्थो लब्धः, स यथा अश्वशब्दार्थो न भवति तद्वदिति।
%यदेकस्यां क्रियायां कारकमिति।% न हि गमेः कर्ता पचतीत्यत्र प्रतीयते।
%क्रियया सर्वकारकाण्यभिप्रेयन्ते% सम्बध्यते। %न चोपाध्यायेति% क्रियया यदभिप्रायेण सम्बन्ध उपाध्यायस्य तत्रासौ न व्याप्रियते। अथासौ प्रतिगृह्णात्येतदेवास्य व्यापृतत्वम्, नेत्याह %प्रतिग्रहस्त्विति। तत्र चोक्तम्। नान्यत्र क्रियायां कारकमन्यत्र भवति, अतिप्रसङ्गादिति। %क्रियया चाभिप्रेयमाणमिति।% सूत्रे हि कर्मणा ददातिकर्मणः क्रियायाः करणत्वेन निर्देशाद् `यम्’ इति च द्वितीयाया ईप्सिततमस्य कर्मणो निर्देशात् फलं कर्म भवति कारकं यजेरिव स्वर्ग इत्यर्थः।
%परस्परापेक्षया पुनः स्वरूपसाङ्कर्यमिति।% स्थाल्यां पचतीति। अत्रासत्यपि कर्त्राधारत्वेऽधिकरणत्वम्, कटे आस्त इत्यत्र चासति कर्माधारत्व इति। यदि कर्त्रधिकरणत्वं लक्षणमाश्रीयते, तदा स्थाल्यां पचतीत्यत्रासत्यपि प्राप्तं कर्माधिकरणत्वमप्याश्रयणीयम्, कर्माधिकरणत्वे लक्षणे कट आस्त इत्यत्रासङ्ग्रहात् कर्त्रधिकरणत्वमप्यपेक्षणोयमिति सङ्करः।
%कारकञ्च क्रिययाप्तुमिष्टतममिति।% तथाभूतस्य सम्प्रदानावसरे फलत्वेन प्रतिपादनात्।
ननु निमित्तपर्यायः कारकशब्दः कारकसूत्रे व्याख्यातः, निमित्तत्वञ्च साध्यत्वस्यापि कथञ्चित् सम्भवत्येवेति, न, इत्याह %कारकव्यपदेशो हीति।%
%कारकग्रामस्य परस्परापेक्षत्वादिति।% यस्य हि येन विनापि व्यापारनिर्वृत्तिर्न तेन तदपेक्ष्यते।
%तदर्थसाधने सर्वेषां सङ्गतिरेव न स्यादिति% यस्मिन् यस्मिन् व्यापारे निर्वृत्ते ओदनलक्षणफलसिद्धिः स सर्वः पचतिशब्दवाचः, काष्ठज्वलनेऽपि च निर्वृत्ते तत्फलं सिद्ध्यतीति तस्यापि पचिवाच्यत्वमेव। %तदर्थसाधने% पचत्यर्थसाधने। काष्ठानामपि यदा पचिना व्यापार उपात्तस्तदा पच्यर्थसाधने तानि प्रवर्तन्ते; एवं स्थाल्यादयोऽपि। यदि हि नोपात्तस्तद्व्यापारः पचिना स्यात् तदा `स्थाली पचति’ `काष्ठानि पचन्ति’ इति पचिना तेषां सङ्गतिर्न भवेदिति। एवञ्च देवदत्तव्यापारस्य तेनोपादानाद् यथा देवदत्तस्य कर्तृत्वमेवं सर्वेषां काष्ठादीनामपि स्यात्।
%प्रयोज्येनैव व्याख्यातम्।% प्रयोज्यस्य स्वतन्त्रस्य कर्तुरनवस्थितत्वात् तस्याप्यनवस्थितत्वमित्यर्थः।
%एकार्थान्वयित्वमिति।% एकार्थावस्थायित्वमेकार्थीभावः, यत्र पदान्यपसर्जनीभूतस्वार्थानि निवृत्तस्वार्थानि वा प्रधानार्थोपादानाद् द्व्यर्थानि भवन्ति, अर्थान्तराभिधायीनि वा स एकार्थीभावः। %प्रयोगप्रतिपत्तिभ्यामिति।% तादृशेऽर्थे प्रयोगात् तादृश्य चार्थस्य ततः प्रतीतेतरिति।
%अश्राद्धभोजीति।% अत्र नञो भुजिना सम्बन्धो न श्राद्धशब्देन इत्यसामर्थ्यम्; %दधिघटः% इत्यत्र च पूर्णशब्दप्रयोगं विना सामर्थ्याभावः। %गोरथः’% इति। अत्र च युक्तशब्दं विना।
%तयोरपि तत एव प्रतिषेधसिद्धेरिति।% यथा अर्थप्रतिपादने परस्परापेक्षस्य पदसमुदायात्मनो वाक्यस्य समासपदान्निवृत्तिः, एवं धातोरर्थप्रतिपादने प्रत्ययापेक्षस्य, प्रत्ययस्य चार्थप्रतिपादने प्रकृत्यपेक्षस्य तत एव निवृत्तिः सेत्स्यतीति।
%अथैकार्थतया समानशीलस्येति।% य एव राज्ञः पुरुष इत्यस्य वाक्यस्यार्थः स एव राजपुरुष इति समासस्येति। `%वा वचनानर्थक्यमिति।% विभाषेति समासविधौ यो महाविभाषाधिकारः, स वार्त्तिककृता प्रत्याख्यातः `वा’ वचनानर्थक्यं स्वभावसिद्धत्वात्’ इत्यनेन। किल तदेतदर्थं क्रियते पक्षे वाक्यमपि यथा स्यादिति। तच्च न वक्तव्यम्। यदि हि वाक्यस्य समासस्य चैकार्थ्यं स्यात् तदानीं साधुत्वेनान्वाख्यातुः समासो वाक्यं निवर्तयेद् गोशब्द इव साधुत्वेनान्वाख्यातो गावीशब्दम्, तेन पक्षे प्रयोगार्थं तत्करणं शोभते। यदा तु वाक्यस्य व्यपेक्षार्थः `राज्ञः कः पुरुषः कस्य पुरुषो राज्ञः’ इत्येवंरूपो राजपुरुषशब्दस्य चैक एव लोलीभूतोऽर्थस्तदा भिन्नार्थेन राजपुरुषशब्देनाश्वशब्देनेव गावीशब्दवत् कथं निवर्तयितुं शक्येत, येन पक्षे श्रवणाय विभाषारम्भः सफलः स्यादत उक्तम्, स्वभावसिद्धत्वादिति। तदिदमत्र तात्पर्यम्। व्यपेक्षायां समासो न भवत्येकार्थोभावे न वाक्यम्। तेन विभक्तविषयादनयोर्बाध्यबाधकभावो न भविष्यति। अतो नार्थो विकल्पप्रतिपादनेन। एकार्थानां हि विकल्पो भवति, एकार्थता चेह नास्तीति।
%अन्ये तु शोभा चीर्णमिति।% तत्र शोभेत्यत्र स्त्रियामाकारप्रत्ययस्याभिधानाभावादसाधुता अङि तु शुभेति स्यात्। %चीर्णमित्यत्र% प्राप्तस्य इटः अकरणमप्राप्तस्य च ईत्वस्य करणम्। %न याति वाक्यं प्रतिभेत्तुम्% इत्यत्र च यातिशब्दे उपपदे तुमुन्—प्रत्ययः, न च तत्र प्राप्तिरस्ति। यानक्रियायाः प्रतिभेदेन क्रियार्थत्वाभावात्। `शकधृष’ इत्यादौ च यातेरपाठात्। %मातुरनुहरतीति।% अत्र च कर्मणि द्वितीयायाः प्राप्ताया अप्रयोगः। %फलिनबर्हिणौ ह्यद्यासेत्यत्र अस्तेरसार्वधातुकेऽपि भूरादेशो न कृतः। बलवान् आयुष्कामं रोहन् वृद्धं…..कर्तव्यमिति वार्त्तिकं भाष्यकृता प्रत्याख्यातं तेनैवाभिप्रायेण `गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि’ इत्यपि सर्वं प्रत्याख्यातं प्रत्युक्तम् `किमर्थं पुनरिदमुच्यते चतुर्थी यथा स्यात्। अथ द्वितीया सिद्धा। सिद्धा कर्मणीत्येव। चतुर्थ्यपि सिद्धा। कथम्, सम्प्रदत्तादाने’ इत्येवमादि सर्वं यदावान्तरक्रियाणां समर्थपदानां विवक्षा तदा क्रियाभिराप्यमानत्वेन गमनक्रियायाः कर्मत्वात् `कर्ममा यमभिप्रैति’ इति सम्प्रदानत्वे ग्रामाय गच्छतीति सिद्ध्यति, यदा तु करणविवक्षा तदा गमनस्य तदपेक्षकर्मत्वाभावाद् ग्रामेणैव, कर्मत्वे ग्रामं गच्छतीति सिद्धेस्तत्र न ज्ञायते शिष्टप्रवाहपतितो विवक्षानियमः क्वास्ति क्वणति….कर्मविवक्षैव ग्रामं गच्छति, ग्रामाय गच्छतीत्यादौ न विवक्षाविवक्षे अवान्तरकर्मणाम्, कटं करोतीत्यादौ त्वविवक्षैवेति। अयं विवक्षाविव….ज्ञापितः स्यात्। तस्माद् भाष्यकराराभिमतप्रत्याख्यानपक्षे नास्याप्रतिपादकत्वलक्षणस्य दोषस्य निवृत्तिः।
%स्मृतिसन्देहेति% स्मृतिसन्देहलक्षणं विपर्ययलक्षणमप्रतिपादकत्वलक्षणञ्च स्खलितं दोषो यस्य तदेवैतत्। विप्लुतञ्चेति विप्लुतत्वं तत्त्वञ्च मूले लक्ष्येण विरोधात्…..नियमपक्षयोः प्रातिपदिकार्थसङ्ख्याकारकविशेषेषु प्रतिपादनशक्तिरवरोधिता लक्ष्येत क्वचिच्च प्रातिपदिकार्थमात्रमविवक्षि…..अतोऽभिलषेदित्यादौ फलमात्रस्याप्याङ्गस्याधिकारात्। क्वचित् सङ्ख्यामात्रमधि….दिकार्थकर्मादि विवक्षितमेव क्वचित् कारकमात्रे च विवक्षा यथा ह्यवदद् ब्राह्मणमुपनयेत इति।….दिकात् सम्प्रतीत्यते तस्य चाचार्यकमीप्सितम्, साध्यत्वन्न माणवक इति तस्येप्तितत्वाविवक्षा। %सहान्तमाक्षेपमतानिषुरित्यौ….।%
%प्रतिपदमशक्यत्वादिति।% यथा तैरेवोक्तम् `बृहस्पतिरध्यापयिता शक्रोऽध्येता दिव्यं वर्षसहस्रमायुस्तथापि नान्तं जगाम’ इति। तथा %लक्षणस्य।% सामान्यविशेषवतः। %अव्यवस्थानात्।% न्यूनत्वात्। सूत्रकृता न्यूनानि सूत्राणि कृतानि, वार्त्तिककृता `अन्ताच्च इति वक्तव्यम्’ इत्यादीन्युपङ्ख्यानानि कृतानि, पुनर्भाष्यकारेण `मृजेरजादौ सङ्क्रमे विभाषा वृद्धिरिष्यते’ इत्याद्या इष्टयः कृताः। एवञ्च महापुरुषत्रयपरिग्रहेऽपि शोभा चीर्णमित्याद्यसिद्धिः। %तत्रापि च स्खलितदर्शनात्।% स्खलितानां सन्देहविपर्ययाप्रतिपादकत्वादीनां दर्शनात्। %अनवस्थाप्रसङ्गाच्च% इति सूत्रावयवः स्वयमवतारणिकरसमय एव व्याख्यातः।
%कटन्दी कोद्रवौदन% इति। कटन्ती वैशेषिकभाष्यविशेषः। %मनुष्योक्तिवदिति।% यथा प्रागुक्तनीत्या सर्वासङ्ग्रहादिना लौकिकेषु वचनेषु वैयाकरणो न व्युत्पत्तिं लभते तथा वैदिकेष्वपीत्यर्थः। %अप्रतिपत्तिमन्थरमुख% इति। प्रतिपत्तेरभावेनाप्रतिपादकत्वेन मन्थरमुखो निष्क्रियवदनो मूक इव।
न्यायामञ्जरी
%स्वमते साधुशब्दानामेव वाचकत्वसाधनम्%
अत्राभिधीयते। यत्तावदिदमवादि गवादिशब्दवनादिप्रबन्धसिद्धमेव गाव्यादेरपि वाचकत्वमिति, तत्रामुं पक्षं संशयदशामेव तावदारोपयामः। पूर्वपक्षिकोक्तयुक्तिसमुत्थापितस्थिरतरविपर्ययज्ञानसमनन्तरं सहसैव सम्यग्ज्ञानोत्पादनातिभराद् भारैकदेशावतरणन्यायेन संशयस्तावदुपपद्यते। ततस्तर्कात् परिशोधितेऽध्वनि सुगमे सुखं विहरिष्यति सम्यङ्निर्णयोपायो न्याय इति। तदुच्यते। यदि गाव्यादीनां गवादीनामिव शब्दानां प्रयोगे गतिरन्या न काचित् सम्भावनाभूमिमुपैति, तत्सत्यम्, आदिसत्तायाः कल्पने कोऽवसरः? यथा हि स्वाध्यायाध्ययनसमये यादृशमेव शब्दं यथोचितमात्रानुस्वारस्वारदिरूपसमुत्थितमुच्चारयत्याचार्यस्तादृशमेव शिष्यः प्रत्युच्चारयति, प्रमाद्यन्तं वा गुरुरेवैनमनुशास्ति, आतदुच्चारणसामर्थ्योपजनं तावन्न मुञ्चति शिक्षयति। सोऽपि शिष्यो यदा गुरुर्भविष्यति तदा स्वशिष्यं तथैव शिक्षयिष्यति। आचार्यो यदा शैशवे शिष्य आसीत् तदान्येन गुरुणा शिक्षितोऽभूत्, सोऽपि तदन्येन सोऽपि तदन्येनेत्येवमनादित्वं जैमिनीयपक्षे, आदिसर्गात् प्रभृति प्रवृत्तत्वं नैयायिकापक्षे वेदाध्ययनस्य व्यवस्थितम्।
इत्थमेव यदि गाव्यादीनां गवादिवत् प्रमादतः सुपरिरक्षितः प्रयोगस्तथैव तेभ्योऽर्थप्रतिपत्तिपूर्वको व्यवहारस्तदानादिगवादिशब्दसमानविषया एव गाव्यादय इति, तदा कस्य किं ब्रूमः? अस्ति त्वत्रान्यः प्रकारः। न ह्येकान्तेन यादृगेव वक्त्रा शब्दः प्रयुज्यते तादृगेव श्रोत्रा प्रत्युच्चार्यते; किन्तु प्रमादालस्यादिविविधापराधविगुणकरणोच्चार्यमाणोऽपभ्रांशतां स्पृशन् दृश्यत इत्यस्ति संशयावसरः। अपभ्रंशतयापि ये स्थिताः स्थास्यन्त्यपि वा शाकटिकभाषाशब्दास्तानपि गोपालबालाबलासु प्रयुञ्जाना जरत्पामराः प्रयत्नेनापि न यथोच्चारितानेव तान् पठितुं शक्नुवन्तीति अशक्तिजशब्दबाहुल्यदर्शनात् संशयाना कुशाग्रेयबुद्धेरपि बुद्धिर्भवितुमर्हति, किमेते गवादिशब्दा एवानादिसिद्धवाचकाः शक्तिभाजः, तेभ्योऽन्ये विगुणकरणप्रयोज्याः प्रमादप्रभवा अपभ्रंशाः? किं वा सर्व एव तुल्यकक्षा इति। सर्वेषां तुल्यकक्षत्वे य एते अद्यत्वेऽपि प्रमादजाः प्रमदादारकादिवचनेष्वपभ्रष्टा अभ्यधिकतरामपभ्रंशदशां स्पृशन्तस्तेऽपि तामेव गवादिशब्दमधुरमधिरोहेयुः, न चैवमस्त्विति शक्यमभ्यनुज्ञातुमिदानीमेव भ्रश्यतां तेषां प्रत्यक्षत उपलब्धेरिति। तस्मादवश्यं तावदद्यत्वे परिदृश्यमानापभ्रंशदशा दुर्बलबालाबलादिशब्दानां न गवादिशब्दान् स्पर्धितुमर्हति। ते चेन्न स्पर्धन्ते तदधुना गाव्यादयोऽपि प्रकारान्तरोपपत्तिसम्भावनाङ्कुरप्रभवाः सन्तो न गवादिशब्दसमानविधित्वमध्यवसातुं शक्नुयुरिति तर्कयामः। तदुक्तं भगवता जैमिनिना, `शब्दे प्रयत्ननिष्पत्तेरपराधस्य भागित्वम्’ इति। भाष्यकारेणापि व्याख्यातम् `महता प्रयत्नेन शब्दमुच्चरन्ति। वायुर्नाभेरुत्थितः, उरसि विस्तीर्णः, कण्ठे विवर्तितो मूर्धानमाहत्य परावृत्तो वक्त्रे चरन् विविधान् शब्दानभिव्यनक्ति तत्रापराध्येताप्युच्चारयिता। यथा शुष्के पतिष्यामीति कर्दमे पतति सकृदुपस्प्रक्ष्यामीति द्विरुपस्पृशति’ इत्यदिना।
न्यायामञ्जरीग्रन्थिभङ्गव्याख्या :–
%समानविधित्वं% तुल्यत्वम्। %शब्दे प्रयत्ननिष्पत्तेरिति% न हि यादृगेव परेण शब्द उच्चार्यते तादृगेव प्रत्युच्चारयितुं शक्यते; यस्मात् प्रयत्नान्निष्पाद्यते अभिव्यक्तिं याति शब्दः, अतः शब्देऽपि अपराधस्य भागित्वम्। पुरुषापराधस्य भाजनं शब्दः सम्भाव्यते, अतः पुरुषापराधवशादन्यथाप्युच्चार्यते।
न्यायामञ्जरी
%असाधुशब्दा नैव साधुशब्दतुल्ययोगक्षेमाः%
आह। तर्हि विशेषे प्रमाणं वक्तव्यं यदेते गाव्यादयः प्रमादाद्यपराधनिबन्धना एव न गवादिशब्दसमानविधय इत्युच्यते। भवतु नऋ समीहितम्। संशयदशां तदावदानीतोऽयमनादिगाव्यादिशब्दवाची महापुरुषः सम्बोध्यते, भो महात्मन्! इत्थं पूर्वोक्तनीत्या संशये सति चिन्त्यतां किमेते गाव्यादयो गवादिसमानयोगक्षेमा एव हस्तः करः पाणिरितिवद्भवन्तु किं वापराधसम्भावनया मार्गान्तरमालम्बन्तामिति। तत्रैकस्मिन् वाच्ये बहवस्तुल्यकक्ष्या वाचका इति। नैष न्यायः। कथं प्रत्यर्थं शब्दनिवेशात्तेनैव सम्बन्धकरणसौकर्यादन्यसम्बन्धे यत्नगौरवप्रसङ्गात् प्रत्यर्थं शब्दनिवेशे हि सति परस्परमव्यभिचारिणौ शब्दार्थौ भवतः। स शब्दस्तस्य वाचकः सोऽर्थस्तस्य वाच्य इति, अनेकशब्दवाच्यस्त्वेकोऽर्थस्तं वाचकं शब्दं न जह्यादपि तमन्तरेण शब्दाभिधेयतामपि यतः प्रतिपद्यत इति व्यभिचारः। अनेकार्थवाचिनि चैकस्मिन् वाचके इष्यमाणे शब्दोऽर्थं व्यभिचरेत्तस्येवार्थान्तरस्यापि ततः प्रतिपत्तेरितीत्थम् अनियमोऽयमुपप्लवेत हस्तः करः पाणिरित्यादौ। अक्षाः पादा माषा इत्यादौ तु गतिरन्या नोपलभ्यते। तेनानेकशब्दत्वमनेकार्थत्वञ्च दैवबलवत्तयाङ्गीकृतम्। प्रथमः पुनरेष ऋजुः पन्था यदेकस्य वाचकस्यैको वाच्योऽर्थ इति च। इह गत्यन्तरमतिस्पष्टमस्ति। प्रमादप्रभवत्वं नाम तस्मिन् सति किमिति प्रथमप्राप्तोऽयं प्रतिवाच्यं वाचकनियमक्रमो लङ्घ्यते, तेन प्रमादापराधनिबन्धना गाव्यादयो न गवादिसमानमहिमान इत्युक्तम्।
किञ्च, वाचकशक्तिर्नाम सूक्ष्मा परमर्थापत्तिमात्रशरणावगमा, न तन्मन्दतायामन्यतः कुतश्चिदवागन्तुं पार्यते। सा चेयमन्यथाऽप्युपपद्यमाना गवादिभ्योऽर्थप्रत्ययादिव्यवहारे मन्दीभवति। तेषु शक्तिकल्पनायामर्थापत्तिः। एवञ्च गवादय एवं वाचकशक्तेराश्रयो न गाव्यादयः कथं तर्हि बहूनामधिगतव्याकरणतन्त्राणामेभिरविच्छिन्नो व्यवहारः? यथैव म्लेच्छानां म्लेच्छभाषाभिरक्षिनिकोचहस्तसंज्ञादिव्यवहारिणां वा स्वैरुपायैः किमक्षिनिकोचादीनामन्त्यजनपदवाचां नास्ति शक्तिः? ओमित्युच्यते। कथं तर्हि तेभ्योऽर्थप्रतिपत्तिः? नैसर्गिकी तेषां शक्तिर्नास्तीति ब्रूमः, तत्स्वरूपस्याव्यवस्थितत्वेन निसर्गसिद्धिकशक्तिपात्रतानुपपत्तेः; प्रतिपत्तिस्तु स्वकृतसमयमात्रनिबन्धना तेभ्यः। नैयायिकानां क्व वा न समयः प्रतिपत्त्युपायः? सत्यम्। स त्वीश्वरप्रणीतः प्रथमसर्गात्प्रभृति प्रवृत्तो मीमांसकाभ्युपगतनैसर्गिकशक्तिसोदर्य एव न मादृशरचितपरिमितविषयसमयसमानः। स च गवादिशब्देष्वेव प्राप्तप्रतिष्ठो न गाव्यादिषु, ते तु वर्णसारूप्यच्छायया गवादिशब्दस्मृतिमादधानास्तदर्थप्रतिपत्तिहेतुतामुपगच्छन्तीति।
नन्वनवधृतस्वरूपाणां कथं गवादिशब्दानां स्मरणं तदवधारणे वा? कोऽभ्युपायः? अभियोगविशेष इति ब्रूमः। कः पुनरभियोगः, को वा तस्य विशेषः? व्याकरणाध्यनमभियोगः, तदभ्यासानुसारेण लक्ष्यनिरीक्षणं तस्य विशेषः। व्याकरणएन च प्रतिपदमपर्यवसितार्थजनप्रयोज्यसाधुशब्दसार्थसंग्रहतस्तद्विसदृशबर्बरपुरन्ध्रिप्रायप्राकृतगोचरापशब्दपरिहारप्रकारव्युत्पादनमुपगम्यते। यदानन्त्यात् किल कल्पशतैरपि नावकल्पते, किन्तु व्यपनीतातिव्याप्त्यादिदोषोपनिपातस्त्रिमुनिपरीक्षितलक्षणद्वारकस्तदुपदेशः श्रूयते, तेन च वेदेनेव धर्माधर्मयोर्ब्रह्मावतारेणेव सत्यानृतयोः नीतिशास्त्रेणेव हिताहितयोर्मन्वादिवचनेनेव भक्ष्याभक्ष्ययोर्दिव्येनेव शुद्ध्यशुद्ध्योः सिध्यत्येव साध्वसाधुशब्दयोरधिगम इति सर्वलोकसाक्षिकमेतत् कथमपनीयते। दृश्यते ह्यद्यत्वेऽपि व्याकरणकोविदानामितरेषाञ्च कृषीबलादीनामतिमहान् वचसि विशेष इत्येवं प्रमादादिमूलगाव्याद्यपशब्दप्रयोगसम्भवादनेकशब्दगतवाचकशक्तिकल्पनागौरवप्रसङ्गादिभयोगविशेषसाध्यमानसाध्वसाधुशब्दाधिगमसौकर्याच्च गवादीनामेव वाचकत्वं न गाव्यादीनामिति स्थिते पूर्वपक्षोपन्यस्तः समस्त एव परीवादः परिहृतो वेदितव्यः। तथा हि यत्तावदभ्यधायि साधुत्वनिश्चये प्रमाणं नास्तीति,
साधुत्वं नेन्द्रियग्राह्यं लिङ्गमस्य न विद्यते
शास्त्रस्य विषयो नैष प्रयोगो नास्त्यसङ्करः॥ इति।
न्यायामञ्जरीग्रन्थिभङ्गव्याख्या :–
%न तन्मन्दतायामर्थपत्तिमन्दतायाम्।% %क्व वा न समयः प्रतिपत्त्युपायः% साधुशब्दानामपि सामयिकत्वाभ्युपगमात्।
%किं त्वपनीतातिव्याप्तीति।% तत्र `किति च’ इति गुणवृद्धिप्रतिषेधे `मार्जिन्त’ इत्याद्यभिप्रेतविषयव्याप्तेरतिव्यापकमाशङ्क्य भाष्यकृतम् `मृजेरजादौ सङ्क्रमे विभाषावृद्धिरिष्यते’ इत्यादि।
न्यायामञ्जरी
%शब्दसाधुत्वं शास्त्रसहकृतप्रत्यक्षागम्यमेव%
तत्रायं प्रतिश्लोकः
साधुत्वमिन्द्रियग्राह्यं लिङ्गमप्यस्य विद्यते।
शास्त्रस्य विषयोऽप्येवं प्रयोगोऽप्यस्त्यसङ्करः॥ इति।
श्रौत्रे हि प्रत्यये ग्रस्तनिरस्तरोमशाम्बूकृतादिदोषरहितोदात्तादिधर्मसम्बन्धप्रसिद्धानुपूर्वीकवर्णगुणात्मकपदप्रतिभासस्तावदस्ति। स च न सन्दिग्धो न बाधकविधूतधैर्यो नाशुद्धकरणजन्मा न कल्पनामात्रस्वरूप इति तत्र परिस्फुटक्रमवर्णात्मकपदग्रहणमेव साधुत्वग्रहः, तद्विपरीतयथानिर्दिष्टदोषकलुषितशब्दग्रहणमेव चासाधुत्वग्रहणमिति प्रत्यक्षगम्ये एव साधुत्वासाधुत्वे इति।
ननु यदि श्रोत्रकरणकेनैव प्रत्ययेन साधुत्वासाधुत्वे प्रतिपत्तारः। प्रतिपद्यन्ते व्याकरणाध्यनबन्ध्यबुद्धयोऽपि प्रतिपद्येरन्, न च प्रतिपद्यन्ते। तस्मान्न ते ते इन्द्रियविषये इति।
नैष दोषः। वैयाकरणोपदेशसाहायकोपकृतश्रोत्रेन्द्रियग्राह्यत्वाभ्युपगमाद् यथा ब्राह्मणत्वादिजातिरुपदेशसव्यपेक्षचक्षुरिन्द्रियग्राह्यापि न प्रत्यक्षगम्यतामपोज्झति। यथाह। न यद् गिरिशृशङ्गमारुह्य गृह्यते तदप्रत्यक्षमिति, यथा वा सविकल्पकप्रत्यक्षप्रामाण्यसिद्धौ शब्दानुविद्धबोधेऽपि प्रामाण्यमुपपादितमादौ किल संज्ञोपदेशिना पनसोऽयमिति वृद्धवचसा चक्षुरिन्द्रियेण पनसज्ञानमुत्पद्यते सङ्केतकरणकाले तदुभयजमित्यव्यपदेशपदेन व्यपनीतं व्यवहारकाले पनसादिज्ञानमुपदेशस्मरणापेक्षचक्षुर्जनितमपिचाक्षुषमेवेतिवर्णितम्, एवमिहापि व्याकरणकोविदोपदेशसचिवश्रवणएन्द्रियग्राह्ये अपि साधुत्वासाधुत्वे न प्रत्यक्षतामतिवर्तेते, यथा च ब्राह्मणत्वादिजातिप्रकतीतौ कारणान्तरमुक्तम् `क्वचिदाचारतश्चापि सम्यग् राजानुपालितात्’ इति मन्वादिदर्शितानवद्यवर्त्मानुसरणनिपुणनरपतिपरिपाल्यमानवर्णाश्रमाणां शङ्कितकृतककपटार्यवेशदृष्टशूद्रव्यभिचारे देशे विशिष्टाचारगम्यापि ब्राह्मणत्वादिजातिर्भवति। एवमिहापि विशिष्टशब्दश्रवणोत्तरकालप्रवृत्तव्यवहारावगतार्थप्रतिपत्तिसहितं शब्दानुशासनशास्त्रोपदिष्टप्रकृतिप्रत्ययविकरणवर्णलोपागमादेशादिलिङ्गमव्यभिचारि तत्स्वरूपावधारेण कारणं भविष्यति, तदेवंलक्षणकमर्थप्रत्याकञ्च शब्दस्वरूपं तत्साधुतयावधृतमिति व्याप्तिग्रहणोपपत्तेः, शास्त्रमपि श्रुतिस्मृतिरूपसाधुशब्दप्रयोगोपनतक्रतूपकारकरणकस्वर्गादिफलसंयोगमुपदिशपदशब्दभाषणप्रभवप्रत्यवायप्रतिपादकञ्च `वाग्योगविद् दुष्यति चापशब्दैः’ इत्यादि साधुत्वेतरपरिच्छेदे प्रमाणत्वं प्रतिपद्यत एव।
आह। कलञ्जवत् तत्स्वरूपसिद्धौ सत्यां तद्विधिनिषेधयोः शास्त्रं क्रमते न तु तत्स्वरूपमेव विधत्ते, स्वरूपस्य भावार्थत्वेन विधिविषयार्थत्वायोगादित्युक्तम्। सत्यमुक्तम्। किन्तु श्रुतिस्मृतिशास्त्रयोर्धर्माधर्मधर्मोपदेशिनोर्यथोपवर्णितेनैवप्रकारेण साध्वसाधुविषयविधिनिषेधपरत्वम्, तत्स्वरूपप्रतिपत्तिकर्तव्यतापरन्तु विध्यपेक्षितं प्रमाणीभवत्येव। यदि वा पराणिन्यादिष्टस्मृतिद्रढिम्ना मूलभूतमाचमनविधिवद् वैदिकमपि तथाविधविधिवाक्यं कल्पयितुं शक्यमिति शास्त्रस्यापि न विषयः साधुत्वम्, शब्दववित्प्रयोगश्च सङ्कररहित एवा, तथा हि अन्या एव निरवद्यवर्णक्रमोदीरणोदारगम्भीरगतयः सूक्त्यः सूरिजनस्यान्या एव दुः श्रवाः कुत्सितसङ्कीर्णवर्णविभागविनिहितहृदयोद्वेगा ग्राम्यगिर इति प्रत्यक्षमुपलभ्यते। स चायमसङ्करः प्रयोगो व्याकरणसाहायकं प्रति पद्यमानः साधुत्वावगमोपायतां भजत एवेति सर्वथा नाप्रमाणकः साध्वसाधुशब्दविभाग इति।
एवञ्च `ब्राह्मणेन न म्लेच्छितवै नापभाषितवै, म्लेच्छो ह वा एष यदपशब्दः’ इत्याद्यागमवचनान्यपि तदुपयोगीनि व्याख्यतवाक्येन भवन्ति।
यत् पुनर्नियमशास्त्रे साधुभिर्भाषितव्यमसाधुभिर्नेत्यस्मिन्नपभाषितं तदपि न पेशलम्। न हि नीरपानोपदेशकृशानुपाननिषेध इवानवकाशमिदं शास्त्रम्, अपशब्दानामेव नार्यजनवदनप्रतिष्ठानां यथातथार्थप्रतीत्युपायत्वदर्शनपूर्वकप्रयोगप्रसङ्गानपायेन प्राप्तौ सत्यां प्रतिषेधस्यावकाशसम्भवात्साधुभिरेव भाषणस्य भोजनप्राङ्मुखतादिवन्नियम्ादृष्टसाफल्यात्।
यदपि साध्वसाधुस्वरूपानवधारणात् प्रतिपदोपदेशाद्यशक्यत्वमाशङ्कितं तदपि प्रतिहतम्। यादृगदं प्रत्यक्षानुमानगम्यं साध्वसाधुशब्दस्वरूपं व्याख्यातं तदवलम्बनपुरः सरनियमकरणस्य सुशक्यत्वात्। अत एव साधुत्वं नाम किमुच्यत इति यद्विकल्पितं तद्विहितमेव प्रति भवति। यतो व्याकरणलक्षणानुगमविशेषित्वं वाचकत्वं साधुत्वमित्युक्तम्, तच्च स्ववर्गानुगामिगोत्वादिवत्सामान्यं वा भवतु पाचकत्वादिवदसत्यपि सामान्येऽवच्छेदकत्वं भवतु, सर्वथा तत्कृतो निर्वहति सर्वो व्यवहारः, वर्गीकरणे हि तदेव कारणमिति।
अथवा पुनरस्तु वाचकत्वमेव साधुत्वं तथापि तत्र नियमशास्त्रं साधुभिरेव भाषितव्यमिति प्रवर्तितुमर्हत्येव। यद्यप्यसाधोरवाचकत्वाप्रत्योगप्रसङ्गो नास्ति तथापिसाधुस्मरणसरणिसमुपारूढवाचकत्वशङ्कोपप्लवमानप्रसङ्गनिवृत्तये नियमसाफल्यं भविष्यति, विधिफलत्वेन नियमस्य फलतः परिसंख्याकार्यम् असाधुशब्दनिवृत्तिः स्थास्यतीति सोऽपि न दोषः।
यदपि परार्थत्वात्फलश्रुतिमर्थवादीकुर्वता पुण्यपापफलत्वं दूषितं तदपि न साम्प्रतम्, अर्थप्रतीतिपारार्थ्ये सत्यपि प्रयोगनियमापूर्वद्वारकपुण्यपापफलत्वसम्भवात्। पर्णमय्यादिष्वपि तथा प्रसङ्ग इति चेत्, भवतु। को दोषो नैयायिकैरेकाकारनिरवलम्बनार्थवादपदोपदेशानभ्युपगमात्। शब्दशक्तितात्पर्यालोचनमपि तैरन्यथा क्रियत इति प्राग्विचारितमिति तिष्ठत्वेषा कथा। तेन कामधुग् भवतीत्यादिवचनान्यपि व्याकरणाध्ययनफलप्रकटनपटूनि तथैव नेतव्यानि।
यदपि सूत्रकृता स्वयं प्रयोजनं किमिति न व्याहृतमिति व्याहृतं तदप्यदूषणमेव। व्याकरण हि वेदाङ्गमिति प्रसिद्धमेतद् आ हिमवतः आ च कुमारीभ्यः। वेदश्च यदि निष्प्रयोजनः स्वस्ति प्रजाभ्यः; समाप्तानि दृष्टादृष्टफलानि सर्वकर्माणि, जितं चातुर्वर्ण्यबाह्यैरन्त्यजनपदवासिभिर्म्लेच्छैः। अथ सप्रयोजनो वेदः सोऽङ्गवत्त्वादङ्गैः सहैव सप्रयोजनतां भजत इति कोऽर्थः प्रयोजनान्तरचिन्तया? न हि दर्शपूर्णमासप्रयोजनादन्यत् प्रयाजादिप्रयोजनमन्विष्यत इति मन्वानः स्वयं सूत्रकृत् प्रयोजनं नाख्यत्।
व्याख्यातारस्तु मुख्यानुषङ्गिकभेदभिन्नप्रयोजनप्रपञ्चं प्रयोजनातिशयव्युत्पादनद्वारकश्रोतृजनोत्साहपरिपोषसिद्धये दर्शितवन्त इति न कश्चिदुपलभ्यः।
कथं पुनरङ्गता व्याकरणस्य, कमुपकारमावहतीति? क एष पर्यनुयोगो वेदवेदाङ्गानामनादित्वादीश्वरप्रणीतत्वाद्वा पर्यनुयोजनानुपपत्तेः। संक्षेपविस्तरविवक्षया हि पाणिनिपिङ्गलपराशरप्रभृतयस्तत्र तत्र कर्तारः प्रसिद्धिं गताः। परमार्थतस्तु वेद इव तदर्थोऽपि तदर्थावगमोऽपि प्रायो हि सर्व एवानादयः प्रजापतिनिर्मिता वेत्येवमपर्यनुयोज्या एव। अत एव वेदैस्तदङ्गैश्च सह चतुर्दश विद्यास्थानानि गण्यन्ते,
अङ्गानि वेदाश्चत्वारो मीमांसान्यायविस्तरः।
पुराणं धर्मशास्त्राणि विद्या ह्येताश्चतुर्दश॥ इति।
येऽपि शब्दसंस्कारादिविकल्पाः कृताः, तेऽपि बहुभाषित्वयोगमात्रनिर्मिता एव न वस्तुस्पृशः। के वा तद्विपरीताः कश्च तेषां संस्कार इति? न चैतावता शिष्टप्रयोगमूलमेव व्याकरणं ब्रूमो वेदवद् अनादित्वस्य दर्शितत्वाद्। अन्धपरम्पराप्रसक्तदोषपरिजिहीर्षया तु शिष्टप्रयोगमूलत्वामभिधीयते, वैदिकस्मृतेरिवान्वयव्यतिरेकमूलत्वम्। ये हि व्याकरणस्मृतौ साधव इत्यनुशास्यन्ते शब्दास्ते शिष्टैस्तथैव प्रयुज्यमाना दृश्यन्ते हरीतकीभक्षणादिवारोग्यम्, न तु शिष्टेभ्यः शब्दसमाम्नायमधिगम्य पाणिनिर्ग्रन्थं कृतवान्, न चान्वयव्यतिरेकाभ्यां द्रव्यशक्तीरवागत्य चरकं प्रणीतवानिति शिष्टानामनादित्वाभिधानात्।
एतेनेतरेतराश्रयत्वमपि प्रत्युक्तम्, न हि शिष्टेभ्यो व्याकरणस्य प्रभव इति।
यत्तु शिष्टानामपि प्रमादित्वमुपवर्णितं किल पुराणैर्मुनिभिरपि बहुभिरपशब्दाः प्रयुक्ता इति, तत्राभियुक्तैस्तदपनयनमार्गः प्रदर्शित एव। स तु ग्रन्थविस्तरत्रासादिह न प्रतन्यते।
यदपि पाणिनितन्त्रे धातुप्रातिपदिककारकाद्यनुशासनविसंष्ठुलत्वमनेकशाखमाख्यापितं तदपि निपुणमतिभिः प्रतिसमाहितमेव। न च तेषामपि दोषोत्प्रेक्षणसम्भवादनवस्था निपुणदर्शितमार्गे विप्लवकारिवैतण्डिकतस्करविकासानुपपत्तेः।
एतेन शोभाचीर्णवरेण्यगणेयभ्राजिष्णुकान्दिशीकादिशब्दासङ्ग्रहस्मृतिसन्देहविपर्ययादिदूषणान्यपि कैश्चिदुत्प्रेक्षितानि प्रतिक्षिप्तानि मन्तव्यानि, तानि च तैरेव समाहितानीति।
बार्हस्पत्यमपि सूत्रमसूत्रमेवेत्यलं स्वमनीषिकाकल्पितानल्पदुर्विकल्पाडम्बरोत्तम्भितालीकपाण्डित्यगर्वगलग्रहगद्गदगिरामुद्वेकारिणानेन वस्तुविचारेण, सर्वथा प्रकृतिनिर्मलमत्युदारं व्याकरणाडम्बरमेवंप्रायैः परिवादपांसुपातैर्न मनागपि दूरीकर्तुं पार्यत इति सिद्धम्।
न्यायामञ्जरीग्रन्थिभङ्गव्याख्या :–
%प्रयोगो नास्त्यसङ्कर% इति। प्रयोगादपि साधुत्वनिश्चयो नास्ति, साधुभिरिवासाधुभिरपि व्यवहारादित्यर्थः।
%ग्रस्तनिरस्तेति।% ग्रस्तो जिह्वामूलेन गृहीतोऽव्यक्तो वा, निरस्तो निष्ठुरः रोमशो गम्भीरः, अम्बूकृतो यो व्यक्तोऽप्यन्तर्मुख इव श्रूयते। आदिग्रहणं कलादिपरिग्रहार्थम्।
%क्वचिदाचारतश्चापीत्यस्य।% पूर्वमर्धम्—-`संस्थानेन घटत्वादिब्राह्यणत्वादिजातितः’ इति; व्यज्यत इति प्रकृतम्। %शास्त्रमपि श्रुतिस्मृतिरूपं% `साधुभिर्भाषितव्यम्’ इत्यादिकं प्रत्यवायप्रतिपादकं चेति।
यस्तु प्रयुङ्क्ते कुशलो विशेषे
शब्दान् यथावद् व्यवहारकाले।
सोऽनन्तमाप्नोति जयं परत्र
वाग्योगविद् दुष्यति चापशब्दैः॥ इति।
विशेषे कुशलो यथा स एव शब्दः क्वचित् प्रयुक्तः साधुरन्यत्रासाधुः `अस्व’ शब्दो हि निर्धने साधुः, तुरगे त्वसाधुरिति। दुष्यति चापशब्दैर्दुष्टो भवतीति। कः? अवाग्योगविदित्यर्थसम्बन्धः।
%व्रीहिकलञ्जवदिति% `व्रीहिभिर्यजेत’,`न कलञ्जं भक्षयेत्’ इति। कलञ्जाख्यः शाकभेदः। %यथोपदर्शितेन प्रकारेण।% साधुभिर्भाषणं कार्यं न तु असाधुभिः साधव एवंभूता इत्येवमिति %विध्यपेक्षितमिति।% येन येन विना विधेरसिद्धिस्तत्तत्स्वरूपसिद्धेय असावाक्षिपति, साधुत्वांशावगमञ्च विना अस्य न सिद्धिरिति यतः साधुत्वावगमस्तदपि व्याकरणमाक्षिपत्येव। %मूलशास्त्रमपीति% यदा ह्येतेन साधुस्वरूपं निर्णीतं तदा तदनिर्णयद्वारकं मूलशास्त्रस्य यदप्रामाण्यं तन्निवर्तत एव।
%पाचकत्वादिवदिति।% पाचकः पाचकः’ इति व्यपदेशस्य पचिक्रियानिबन्धनत्वाद् न पाचकत्वसामान्यम्, अपाचकव्यवच्छेदकं तु भवत्येव।
%फलतः परिसङ्ख्याकार्यमिति।% यथा `इमामगृभ्णन् रशनामृतस्य’ इत्यश्वाभिधानीमादत्त इत्यप्राप्तमेवाश्वरशनादानं मन्त्रेण विधीयमानं फलतो गर्दभरशनानिवृत्तिं करोतीति।
%अर्थप्रतीतिपारार्थ्ये% इति। अर्थप्रतीतौ पारार्थ्यमङ्गत्वम्। %प्रयोगनियमापूर्वद्वारकेति।% यथा पक्षे प्राप्तेऽपि प्राङ्मुखभोजने नियमादपूर्वम्, एवमर्थप्रतीतिपरत्वेन पक्षे प्राप्तेऽपि शास्त्रप्रयोगे नियमाद् यद् अपूर्वं तेन द्वारेण। %पर्णमय्यादिष्विति।% `यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति’ इत्यत्र जुह्वा होमसाधनत्वेन निर्ज्ञानात् फलश्रुतेरर्थवादतैव व्यवस्थापिता। ननु तात्पर्यपर्यालोचनयार्थवादतैव प्राप्नोति, तन्नेत्याह %शब्दशक्तितात्पर्येति।%
%शब्दसंस्कारादिविकल्पा% इति। बहुभाषित्वादित्येनेन भट्टं सूचयति, स हि बहुभाषित्वेन प्रसिद्धः। तथा च,
भट्टस्य तस्य बहुभाषणलब्धकीर्ते—
र्दिङ्नागदूषणमिदं न तु धर्मंकीर्तेः॥ इति।
तमेवं प्रतिपादयन्ति। तथा चाह सः,
संस्कृतानाञ्च शब्दानां साधुत्वे परिकल्पिते।
वक्तव्यः कस्य संस्कारः कथं वा क्रियते पुनः॥
न तावदस्ति शब्दत्ववर्णत्वव्यक्तिसंस्क्रिया।
सर्वत्रातिप्रसङ्गेन न व्यवस्था हि सिद्ध्यति॥
शब्दत्वे संस्कृते स्याद्धि ध्वनीनामपि साधुता।
वर्णत्वेऽप्येकवर्णानां गाव्यादीनाञ्च तुल्यता॥
गवादिषु गकारादिर्यः सकृत् संस्कृतः क्वचित्।
गाव्यादिषु स एवेति साधुरेव प्रसज्यते॥ इत्यादि।
%इतरेतराश्रयत्वमपि।% व्याकरणात् साधुत्वपरिज्ञाने सति तत्प्रयोक्तॄणां शिष्टत्वम्, सति च शिष्टप्रयोगे व्याकरणस्य प्रामाण्यमितीतरेतराश्रयत्वम्।
%तदपनयनमार्गः प्रदर्शित% इति। तत्र मन्वादिवचनानि तावच्छान्दसरूपसिद्ध्या सिद्ध्यन्ति `वेदविद्वचः’ इति वचनात्। `जनिकर्तुः’ `तत्प्रयोजकः’ इति च निपातनात् सिद्ध्यति। तत एव ज्ञापकात् `जातिवाचकत्वात्’ इति च सिद्धम्। `आन्यभाव्यम्’ इत्यगुणवचनत्वेऽपि ब्राह्मणादिपाठात् ष्यञ्। `अविरविकन्यायेन’ इत्यत्र तु यथा अविः अविशब्दः अविकन्यायेन अविकमुखेन प्रत्ययमुत्पादयतीति भिन्नपदत्वेन व्याख्येयम्। `अन्यथाकृत्वा चोदितम्’ इत्यत्र च सिद्धाप्रयोगत्वस्याविवक्षया णमुल् कृतः। भाष्कारवचनाद्वा सिद्धाप्रयोगत्वेऽपि साधुरेवायमित्येके।
%निपुणमतिभिः प्रतिसमाहितमेवेति% भर्तृहरिप्रभृतिभिर्हि तथा तद् व्याख्यातं यथा तेषां दूषणानामवकाश एव न भवतीति। तथाहि यत्तावच्चोदितं `क्रियावचनत्वेऽस्तिभवत्यादीनां धातुसंज्ञा न प्राप्नोति’ इति, तत्तत्रैव प्रतिसमाहितम्। नात्र लौकिक्याः क्रियायाः परिस्पन्दस्वभावाया धातुभ्यः प्रतीतिर्विवक्षिता, येनास्यादीनां धातुसंज्ञा न भवेदपि तु शब्दार्थभूतायाः। तथाहि कारकव्यापारविषयीकृतोऽर्थः क्रियेति क्रियाशब्दार्थः। एतदेव भाष्यकृता `कारकाणां प्रवृत्तिविशेषः क्रिया’ इति वदता प्रदर्शितम्। तदेवं कारकप्रवृत्तिविषयः पूर्वापरीभूतोऽर्थः क्रियेति विवक्षायामस्त्याद्यर्थस्य साधनाय व्यापारविषयत्वेन पूर्वापरीभूतस्य शब्देनाभिधानात् क्रियारूपता। तथाहि अस्ति आत्मानं बिभर्तीति पूर्वापरीभावस्तदुक्तम्,
यावत् सिद्धमसिद्धं वा साध्यत्वेन विवक्ष्यते।
आश्रितक्रमरूपत्वात् सा क्रियेत्यभिधीयते॥ इत्येवमन्यत्रापि।
%तेनैव प्रतिसमाहितानीति% तथाहि शोभेत्यादौ उद्भटेनैव प्रतिसमाधानं कृतम्। `अ प्रत्ययात्’ इति प्राक् प्रकृतिनिर्देशे कर्तव्ये प्राक् प्रत्ययनिर्देशाद् योगविभागकरणेनाप्रत्ययं कृत्वा `शोभा’ इति साधयेत्। `चीर्णम्’ इत्यत्र च प्रतिषेधविधेर्बलीयस्त्वात् क्वचिद् विहितबाधः, तेनेह विहितस्येटो बाधः। अनित्यमागमशासनमिति वा। उत्त्वं तु `ति च’ इत्यनेन सूत्रेण गत्यर्थचरेस्तेन लक्षणार्थस्येत्त्वेन भवितव्यम्। `ॠत इद्धातोः’ इत्यतः सूत्रादनन्तरं `कॄतश्च’ इति कर्तव्ये यद् उपधाग्रहणं तदावृत्तिज्ञापनार्थंम्, `च’ ग्रहणञ्चैतद् रेफान्तमवसेयम्। `उपधायाश्च’ उपधाया ऋत इत्त्वं भवति। चः चरश्चोपधाया इत्त्वमित्यर्थः। `चर्’ इति लुप्तषष्ठ्यन्तम्। `न याति वाक्यं प्रतिभेत्तुम्’ इत्यत्र च `याति’ इति तिङन्तप्रतिरूपको निपातः `शक्यते’ इत्यर्थे वर्तते। एवं हि `अद्यास’ इत्यत्रापि `आसशब्दो निपात एव `बभूव’ इत्यस्यार्थे। `कृत्यानां कर्तरि वा’ इत्यनन्तरेऽपि `वा’ग्रहणे `तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम्’ इत्यत्र यद् विकल्पवाचि `अन्यतरस्याम्’ ग्रहणं तद् व्यवस्थितविभाषार्थम्, तेन क्वचिद् द्वितीययापि सह विकल्पः सिद्धो भवति तेन `मातुरनुहरति’ इति सिद्धम्। कान्दीशीक इत्यत्रापि अभियुक्तैर्व्युत्पत्तिः कृतैव। सा च दर्शिता। प्रत्ययः विभक्त्यलुक् चात्रापि प्राङ्नीत्या प्रकारविशेषाश्रयणएन समर्थयितव्यः। भ्राजिष्णुरित्यत्र तु `भुवश्च’ इति `च’ शब्दास्यानुक्तसमुच्चयत्वाद् इष्णुप्रत्ययो वृत्तिकारेण दर्शितः। औणादिकानामपि गमि–गामि–भाविप्रभृतीनां यौगिकत्वदर्शनाद् `वृञ एण्यः’ इति एण्यप्रत्ययेन वरेण्यः। एवं गणेयशब्देऽपि णेरलोपः कयापि भङ्ग्या चोर्णमितिवत् समर्थ्यः। यत् पुन; स्मृतिविपर्ययापादनं तदभिप्रायापरिज्ञानादेव। शब्दानां हि राशित्रयेणानुशासनम्। छन्दोमूलप्रयोगदर्शनात्, छन्दोभाषाप्रयुक्तिदृष्टेः, भाषाप्रयोगावगमाच्च। न पुनर्विषयनियमस्तैस्तैः सूत्रे क्रियते। अवश्यं चैतदेवं विज्ञेयम्, यदि पुनः परिपन्थ्यादयः शब्दाश्छन्दोविषया एव स्युस्तदा पदपदार्थव्युत्पत्त्यभावादप्रतिपादकत्वलक्षणमप्रामाण्यं श्रुतेः प्रसज्येत। छन्दोग्रहणन्तु तेषु तेषु सूत्रेषु तेषां परिपन्थ्यादीनां काव्यादिषु पञ्चसु प्रभेदेषु प्रयोगप्रतिषेधार्थो न सर्वत्र। स्मृतिसन्देहोऽपि न कश्चित्। त्वामनुकरोतीत्यत्रार्थदृशेस्तत्र प्रयोगात्; अनुकृतिलक्षणश्चार्थो धात्वर्थ एवेति नास्ति कश्चित् सन्देहः। अप्रतिपादकत्वञ्च नास्ति, गत्यर्थादिसूत्रस्य प्रत्याख्यानानश्रयणादिति।
%बार्हस्पत्यसूत्रमसूत्रमेव% प्रमाणविरुद्धार्थसूचनादसूत्रपदतुल्यमित्यर्थः।
%तिमयो% मत्स्यविशेषाः।
न्यायामञ्जरी
%स्वमते व्याकरणस्यावश्याध्येयत्वम्।%
तस्मात् पवित्रात् सर्वस्यात् पवित्रं जनबहुमतमधिगतचतुर्वर्गमग्राम्यमात्मानं कर्तुमध्येतव्यं व्याकरणम्। आह,
आपः पवित्रं परमं पृथिव्या अद्भ्यः पवित्रं परमं हि मन्त्राः।
तेषाञ्च सामर्ग्यजुषां पवित्रं महर्षयो व्याकरणं निराहुः॥
इहाप्युक्तम्,
रूपान्तरेण देवास्ते विहरन्ति महीतले।
ये व्याकरणसंस्कारपवित्रितमुखा नराः॥
किञ्च,
वरं हि जातास्तिमयो गभीरे जलाशये पङ्किनि नित्यमूकाः।
न मानवा व्याकरणप्रयोगप्रबुद्धसंस्कारविहीनवाचः॥
मनुना च पङ्क्तिपावनत्वेनाधिगतव्याकरणो मीमांसकश्च स्वस्मृतौ पठितौ `यश्च व्याकुरुते वाचं यश्च मीमांसतेऽध्वरम्’ इति। पुष्पदन्तोऽप्याह,
भ्रष्टः शापेन देव्याः शिवपुरवसतेर्वन्द्यहं मन्दभाग्यो।
भाव्यं वा जन्मना मे यदि मलकलिले मर्त्यलोके सशोके।
स्निग्धाभिर्दुग्धधारामलमधुरसुधाबिन्दुनिष्यन्दिनीभिः।
कामं जायेय वैयाकरणभाणितिभिस्तूर्णमापूर्णकर्मः॥
एवं व्याकरणाभियोगसुलभप्रौढोक्तिभिः पणिडतै—
रक्लेशेन विचित्रवैदिकपदव्युत्पत्तिरासाद्यते।
अन्यैरप्युपबृहिते दुढतरासङ्गैर्निरुक्तादिभि—
र्वेदे स्वार्थधियं वितन्वति कुतः प्रामाण्यभङ्गो भवेत्॥
अङ्गभावनिरपेक्षयैव नः प्रत्ययो यदिह शब्दविद्यया।
वैदिकार्थविषयो विधियते तत् परास्तमितरेतराश्रयम्॥
व्याकरणं कथमेतदनादि प्राकृतलक्षणतौल्यमुपेयात्॥
न्यायामञ्जरीग्रन्थिभङ्गव्याख्या :–
%दुग्धधारेति% दुग्धधारावदमला मधुराश्च तथा सुधाबिन्दुनिष्यन्दिन्यस्तु याः।
%तत् कुतस्त्यमितरेतराश्रयमिति।% सति वेदाङ्गत्वेन व्याकरणात् प्रमाणभूतादर्थनिश्चये वेदस्याप्रतिपादकत्वाभावात्। प्रामाण्यम्, सति च तत्प्रामाण्ये तदङ्गत्वेन व्याकरण्प्रामाण्यमिति यदितरेतराश्रयं तत् कुतस्त्यम्। %भोगिमतश्रुतसङ्गिभिः।% भोगी शेषः, तन्मतं महाभाष्यं तच्छ्रुतेन सङ्गशीला ये भर्तृहरिप्रभृतय आर्या इति भद्रम्।
भट्टश्रीशङ्करात्मजश्रीचक्रधरकृते
न्यायमञ्जरीग्रन्थिभङ्गे षष्ठमाह्निकं समाप्तम्।
॥ ॐ ॥ जयत्येकशराघातविदारितपुरत्रयः॥
धनुर्धराणं धौरेयः पिनाकी भुवनत्रये॥
न्यायामञ्जरी
%एतेनागमप्रामाण्यं सिद्धम्%
एवं मृषात्वमुदगीयत येन येनच्छिद्रेण कल्पितपिशाचरवैरनार्यैः।
तत्तत्समग्रमपसारितमित्यतश्च प्रामाण्यमप्रतिहतं स्थितमागमानाम्॥
इति प्रमाणानि यथोपदेशमेतानि चत्वारि परीक्षितानि।
प्रतन्वतां संव्यवहारमेभिः सिध्यन्तु सर्वे पुरुषार्थसार्थाः॥
॥ समाप्तं न्यायमञ्जर्यां प्रमाणप्रकरणम्॥
—————————-**********************——————————
सप्तमाह्निकम्
प्रमेयप्रकरणम्
न्यायमञ्जरी
%प्रमेयोद्देशविभागौ%
एवं प्रमाणपदार्थे परीक्षिते सति यदर्थं तत्परीक्षणं तत् प्रमेयमिदानीं दर्शयितुमाह,
%आत्मशरीरेन्द्रियार्थबुद्धिमनः प्रवृत्तिदोषप्रेत्यभावफलदुः खापवर्गास्तु प्रयेयम्॥%
प्रमाणवदिहाप्येतत् सूत्रं व्याख्यायि सूरिभिः।
एवं विभागसामान्यलक्षणप्रतिपादकम्॥
प्रमेयश्रुतिरात्मादिपदपर्यन्तोवर्तिनी॥
तेषामेव प्रमेयत्वं नान्यस्तेति नियच्छति॥
यथा देवदत्तयज्ञदत्तविष्णुमित्रा भोज्यन्तामित्येवकारादिश्रतिमन्तरेणापि शब्दसामर्थ्यात् त एव भोजनक्रियायोगिनोऽवगम्यन्ते, नान्ये, तथेहाप्यात्मादयः प्रमेयमित्युक्ते तथैव तदितरप्रमेयनिषेधोऽवधार्यते।
%प्रमेयस्य द्वादशविधत्वविचारः%
ननु कथं द्वादशविधमेव प्रमेयमुपपद्यते, यावता समानतन्त्रे पृथिव्यादीनि नवर द्रव्याणि, रूपादयश्चतुर्विंशतिर्गुणाः, उत्क्षेपणादीनि पञ्च कर्माणि, परापरभेदेन द्विविधं सामान्यम्, नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः, एकः समवाय इति षट्पदार्थीमनुक्रम्य तदवान्तरविशेषैरानन्त्यं प्रमेयस्योपवर्णितमिति?
उच्यते। किं पुनरिह प्रमेयं विवक्षितमिति। तत्सामान्यलक्षणं तावत् परीक्ष्यताम्। आह। सूक्तमिदं कस्यापि `कर्णे स्पृष्टः कटिं चालयति’ इति। द्वादशविधत्वमाक्षिप्तं न प्रतिसमाधत्ते भवान्, प्रमेयस्य सामान्यलक्षणन्तु परीक्षत एव।
उच्यते। अलं केलिना, एतदेवात्र प्रतिसमाधानं भवति। न हि प्रमाणविषयमात्रमिह प्रमेयमभिमतमेवंविधस्य प्रसिद्धत्वेन लक्षणानर्हत्वात्। प्रमाण एव ज्ञाते सति तद्विषयोऽर्थः प्रमेयमिति ज्ञायत एव। किं तेन लक्षितेन? तस्माद् विशिष्टमिह प्रमेयं लक्ष्यते।
ज्ञातं सम्यगसम्यग् वा यन्मोक्षाय भवाय वा।
तत् प्रमेयमिहाभीष्टं न प्रमाणार्थमात्रकम्॥
तच्च द्वादशविधमेव भवति, न न्यूनमधिकं वेति समाहित इत्थं भवति विभागाक्षेपः। कुतः पुनरेष प्रमेयविशेषो लभ्यते? निः श्रेयसार्थत्वाच्छास्त्रस्य, प्रमेयज्ञानस्य प्रमाणज्ञानवदन्यज्ञानोपयोगितामन्तरेण स्वत एव मिथ्याज्ञाननिवृत्त्यादिक्रमेणापवर्गे हेतुत्वप्रतिज्ञानात्, तथाविधस्य चापवर्गोपायत्वस्यात्मादिष्वेव भावात्।
भवत्वेवम्, सूत्रस्य तु कथमीदृशप्रमेयविशेषसमर्पणे सामर्थ्यं विशेषात्तुशब्दप्रयोगसामर्थ्याच्च? सत्यम् आकाशकालदिगादि प्रमाणविषयत्वात् प्रमेयं भवति, तत्तु न सप्रयोजनम्। आत्मशरीरेन्द्रियार्थमनः प्रवृत्तिदोषप्रेत्यभावफलदुः खापवर्गास्तु प्रमेयं निः श्रेयसहेतुत्वादित्याशयः। तदित्थमेष तुशब्दो निः श्रेयसाङ्गभूतप्रमेयान्तरपरिहारद्वारेण विशिष्टमात्मादि प्रमेयमिह सूचयति।
न्यायमञ्जरी
%प्रमेयपरीक्षाप्रयोजनम्%
तद् द्वादशविधत्वेऽपि हेयोपादेयभेदतः।
द्विधोच्यते मुमुक्षूणां तथैव ध्यानसिद्धये॥
तत्र देहादिदुः खान्तं हेयमेव व्यवस्थितम्।
उपादेयोऽपवर्गस्तु द्विधावस्थितिरात्मनः॥
सुखदुः खादिभोक्तृत्वस्वभावो हेय एव सः।
उपादेयस्तु भोगादिव्यवहारपराङ्मुखः॥
आत्मनो हि भोगाधिष्ठानं शरीरम्, भोगसाधनानीद्रियाणि, भोक्तव्या इन्द्रियार्थाः, भोगो बुद्धिः, आन्तरं हि भोगकारणं मनः, प्रवृत्तिः पुण्यपापात्मिका, रागादयश्च दोषाः शरीरादिजन्महेतवः, एतत्कृतश्च शरीरादियोगाध्यासः प्रेत्यभावः, एतत्कृतमेव च संसारे सुखदुः खरूपं फलम्, तच्च द्विविधमेव। विवेकवतः सर्वं दुः खमेवेति। एवं शरीरादिदुः खान्तं हेयतयैव भावनीयम्, एतदनुषक्तश्चात्मापि तथैव, एतद्वियुक्तस्त्वात्मैवापवर्ग उच्यते, स चोपादेयतया भावनीय इत्यत एवात्मपदसंगृहीतस्याप्यस्य पुनर्निर्देशः। स हि परमः पुरुषार्थ इति। एवमिदं द्वादशभेदं प्रमेयं हेयोपादेयतया तत्त्वज्ञानेन भावयन्नभ्यासात्तद्विषयविपरीतग्रहहात्मकं मिथ्याज्ञानं क्षिणोति।
तत्त्वज्ञानेन तेनास्य मिथ्याज्ञानेऽपबाधिते।
रागद्वेषादयो दोषास्तन्मूलाः क्षयमाप्नुयुः॥
क्षीणदोषस्य नोदेति प्रवृत्तिः पुण्यपापिका।
तदभावान्न तत्कार्यं शरीराद्युपजायते॥
अशरीरश्च नैवात्मा स्पृश्यते दुः खडम्बरैः।
अशेषदुः खोपरमस्त्वपवर्गोऽभिधीयते॥
तदित्थमेव द्वादशविधं प्रमेयमतिगहनसंसारमारवस्थलप्रभवतीव्रसन्तापनिर्वापणमहाह्रदतामुपयातीति तदेवादेशार्हमिति सिद्धम्।
%आत्मपरीक्षायां लौकायतिकमतम्।%
विरक्तसङ्कथास्तावदसञ्जातफलोचिताः।
आत्मैव त्वस्ति नास्तीति कथं न परिचिन्त्यते॥
तथा च लौकायतिकाः परलोकापवादिनः।
चैतन्यखचितात् कायान्नात्मान्योऽस्तीति मन्वते॥
न तावदात्मा प्रत्यक्षतो गृह्यते घटादिवद् बाह्येन्द्रियेण, सुखादिवन्मनसा परिच्छेतुमशक्यत्वात्। अनुमानन्तु न प्रमाणमेव चार्वाकाणाम्। न चात्मसिद्धौ किञ्चन लिङ्गमस्ति। ज्ञानादियोगस्तु भूतानामेव परिणामविशेषोपपादितशक्त्यतिशयजुषां भविष्यति। यथा गुडपिष्टादयः प्रागसतीमपि मदशक्तिमासादितसुराकारपरिणामाः प्रपद्यन्ते, तथा मृदाद्यवस्थायामचेतनान्यपि भूतानि शरीराकारपरिणतानि चैतन्यं स्प्रक्ष्यन्ति। कालान्ते स्वव्याध्यादिना विशेषमवजहति तान्येव चैतन्यशून्यतामुपयास्यन्ति, चैतन्यत्वानपायाच्च तावन्तं कालं तान्येव स्मृत्यनुसन्धानादिव्यवहारनिवहनिर्वाहणनिपुणतामनुभविष्यन्तीति किमनुमानक आत्मा स्याद्? आगमास्तु मनोरथाधिरूढप्रामाण्याः कथमात्मनमवबोधयितुं शक्यन्ते? अयमपि चागमोऽस्त्येव `विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञाऽस्तीति। तदात्मनो नित्यस्य परलोकिनोऽभावात् कृतमेताभिरपार्थकपरिश्रमकारिणीभिः परलोककथाभिः।
न्यायमञ्जरी
%तत्रैव मीमांसकमतम्%
तत्र प्रत्यक्षमात्मानमौपवर्षाः प्रपेदिरे।
अहंप्रत्ययगम्यत्वात् स्वयूथ्या अपि केचन॥
अस्त्ययमहंप्रत्ययः कश्चिच्छरीसमानाधिकरणः स्थूलोऽहं कृशोऽहम्, कश्चिद् ज्ञातृसमानाधिकरणो जानाम्यहं स्मराम्यहमिति। तत्र स्थूलादिसमानाधिकरणस्तावदास्तामहंप्रत्ययः।
ज्ञानेच्छासुखदुः खादिसामानाधिकरण्यभाक्।
यस्त्वहंप्रत्ययस्तत्र नात्मनोऽन्यः प्रकाशते॥
न हि ज्ञानसुखेच्छादियोगः कर्मेन्द्रियादिषु।
न च ज्ञानादिशून्येऽर्थे जानामीत्यादिसंविदः॥
ज्ञानमात्रावभासोऽपि वारितः प्रत्यभिज्ञया।
ज्ञातवानहमेवादावहमेवाद्य वेद्मि च॥
नोत्तरस्य न पूर्वस्य न ज्ञानक्षणयोर्द्वयोः।
न सन्तानस्य चैतस्मिन् प्रत्ययेऽस्त्यवभासनम्॥
नोत्तरो ज्ञातवान् पूर्वं पूर्वो जानाति नाधुना।
न द्वयोर्द्वयमप्यस्ति सन्तानस्तु न वास्तवः॥
अवस्तुत्वाच्च नासौ पूर्वं किञ्चिद् ज्ञातवान्न चाद्य किञ्चिज्जानातीति। तस्मादहमेव ह्यो ज्ञातवानहमेवाद्य जानामीत्यस्मिन् प्रत्यये ह्यश्चाद्य चानुवर्तमानो ज्ञाता प्रतीयत इति गम्यते। न चासौ कार्यः, बाल्याद्यवस्थाभेदेन नानात्वादचेतनत्वाच्च। एवं सप्रत्यभिज्ञाहंप्रत्ययग्राह्ये ज्ञातरि सिद्धे सोऽयं स्थूलादिसमानाधिकरणोऽहंप्रत्ययस्तदभेदोपचारेण शरीरे वर्तमानो मिथ्येति कल्पयिष्यते। न पुनरेतदनुरोधेन आज्ञानादिसमानाधिकरणाहंप्रत्ययस्य मिथ्यात्वकल्पनं युक्तमबाधितत्वात्। न खल्वहं जानामीति प्रत्ययः केनचिदल्पीयसा दोषरेणुना धूसरीकर्तुं पार्यते। तदस्यात्मैव मुख्यो विषयस्तदतिरिक्तं वस्तु भाक्तमिति। तस्मादहंप्रत्ययगम्यत्वादात्मा प्रत्यक्ष इति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%औपवर्षाः प्रपेदिरे% औपवर्षा मीमांसकाः।
%नोत्तरस्य% यदुत्तरकालमिदमनुसन्धानज्ञानं तदुत्तरम्। %न द्वयोर्द्वयमप्यस्तीति% पूर्वस्योत्तरज्ञानम्, उत्तरस्य च पूर्वज्ञानम्।
%तदभेदोपचारेणेति% आत्मोपकारकत्वाच्छरीरमात्मवाचिना पदेन निर्दिश्यत इति।
न्यायमञ्जरी
%आत्मनो ज्ञानानतिरिक्तत्वम्।%
अत्र वदन्ति। शब्दमात्रोच्चारणमेतदहं जानाम्यहमिच्छाम्यहं सुख्यहं दुः खीति, न तु ज्ञानादिस्वरूपातिरिक्तस्तदाश्रयः कश्चिदेतासु बुद्धिषु परिस्फुरतीति, कथमेकस्यामेव संविदि कर्ता च कर्म चात्मा भवेत्?
ग्राह्यग्राहकतैकस्य ज्ञानस्यापाकरिष्यते।
त्वयापि नेष्यते चेति तथा सत्यात्मनोऽपि सा॥
यच्चावस्थाकृतं भेदमवलम्ब्य ग्राह्यग्राहकभावसमर्थनमेकस्यैवात्मनः कृतं किल, द्रव्यादिस्वरूपमात्मनो ग्राह्यं ज्ञातृरूपञ्च ग्राहकमिति, तदनुपपन्नम्, द्रव्यादिस्वरूपे ग्राह्ये न ज्ञातरि ग्राहकता साधिता स्यात्, आत्मवर्तिनोऽपि द्रव्यादिरूपस्य घटादितुल्यत्वात्।
यद्यपि निपुणमन्यैरुच्यते भवतु ज्ञातृतैव ग्राहिका तथापि विषयोपाधिकृतोऽस्त्येव भेदः, घटावछिन्ना हि ज्ञातृता ग्राह्या शुद्धैव तु ज्ञातृता ग्राहिकेति, अन्यत्र तु शुद्धविषयग्रहणमेव भवति घटोऽयमिति। तदेतदपि सरलमतिप्रतारणमात्रम्, तथा हि घटोऽयमित्यत्र घटमात्रप्रवणैव बुद्धिः;। इयांस्तु विशेषः पूर्वं केवलं घटग्रहणमधुना तु ज्ञानविशिष्टघटावमर्श इति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%द्रव्यादिस्वरूपे ग्राह्ये नेति।% ततश्च घटादिवत् `इदम्’ निर्देश्यः स्याद् ग्राह्यांशः पृथगेव, पुनरप्यात्मनो ज्ञातुर्न ग्राह्यत्वम्।
%विषयोपाधिकृत% इति। विषयलक्षणो य उपाधिस्तत्कृतः।
%अस्मत्प्रयोगसम्भेदाच्चेति% तदुक्तम्,
अस्मत्प्रयोगसम्भिन्ना ज्ञानस्यैव च कर्तरि।
भवन्ती तत्र संवित्तिर्युज्येताप्यात्मकर्तृका॥ इति।
न्यायमञ्जरी
%शरीरस्यैवाहंप्रत्ययविषयत्वेनात्मनः परोक्षत्वम्%
ननु विभज्यमानायां प्रतीतौ घटोऽयमिति तावद् विषयग्रहणम्, जानामीति ज्ञानग्रहणमपि भवतु नाम्, अहमिति तु कस्य ग्रहणम्? न चैकस्यामेव प्रतीतावंशविभागेन प्रामाण्यमप्रामाण्यं वा वक्तुं युक्तम्। घटमिति जानामीति च प्रमाणमहमिति तु न प्रमाणमिति। तस्मादत्र ज्ञातुरवभासोऽभ्युपेयः। उक्तमात्र नैकस्यां प्रतीतावात्मनः कर्मता कर्तृता च स्यात्, यस्तूपाधिस्त्वयोन्नेतुमुपक्रान्तः सोऽयं न घटते घटप्रवणत्वादहं जानामीतिप्रतीतेर्विभज्यमानत्वेऽपि घटमिति जानामीति चांशद्वयं विशेषनिष्ठमेव जातम्। अहिमिति त्वयमंशो यद्यात्मविषयो दृश्यते, तर्हि स एव शुद्धोऽवशिष्यते ग्राह्यग्राहकश्चेति नावश्थाकृतस्तद्भेदः समर्थितः स्यात्, भेदाभावेन चैकस्यैव ग्राह्यग्राहकभावमुपाधिमभिदधता विज्ञानवादवर्त्म संश्रितं स्यात्। तस्मादहंप्रत्ययस्य ग्राहकाद्भिन्नं ग्राह्यमभिधित्सता शरीरमेव ग्राह्यमभ्युपगन्तव्यं ज्ञानसामानाधिकरण्यानुपपत्तेश्च वरमस्य नात्मालम्बनता। अत एव कृशश्यामसामानाधिकरण्यधीः शरीरालम्बनत्वस्य साक्षिणी न विरोत्स्यते।
ननु ममेदं शरीरमिति भेदप्रतिभासात् कथमहंप्रत्ययः शरीरालम्बनः स्यात्? भोः साधो! नैवंविधेषु प्रत्ययेषु विश्वास्यत्वमर्हसि ममात्मेत्यपि भेदप्रत्ययस्य दर्शनादवस्थाभेदादिना यथा तथा तत्समर्थनमास्थीयते तदिह शरीरालम्बनत्वेऽपि सैव सरणिरनुसरिष्यते। तस्मादहंप्रत्ययः शरीरामलम्बन एवेति। स च ज्ञानादिसमानाधिकरणो मिथ्या, स्थूलादिसमानाधिकरणस्तु सम्यगिति। ये तु मम शरीरं ममात्मेति च बुद्धी ते द्वे अपि मित्थ्या ममप्रत्ययस्याहंप्रत्ययवदात्मानालम्बनत्वाच्छरीरं च भेदानुपपत्तेः।
तस्मादहङ्कारममकारयोर्द्वयोरप्यविषयत्वादात्मा परोक्ष इति सिद्धम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
अस्मदो यः प्रयोगोऽहमिति तेन सम्भिन्ना तदनुप्रवेशवती। % घट[मात्र] प्रवमैव,% न घटज्ञानतृताविशिष्टात्मविषया। %ज्ञानविशिष्टघटावमर्श% इति यमहं जानामि स घट इत्येवं ज्ञानविशिष्टघटावमर्शः।
%त्वयोन्नेतुमुपक्रान्तः% त्वया उम्बेकेन पूर्वैरनुन्नीतोऽपि।% विशेषनिष्ठं% ग्राह्यग्रहीतृनिष्ठम्। %विज्ञानवादवर्त्मेति% अनेनैव दृष्टान्तेन विज्ञानवादस्यावतारणात्। एकमेव ज्ञानं ग्राह्यं ग्रहीता च ज्ञतृत्वाद् आत्मवदिति। %ज्ञानसामानाधिकरण्यानुपपत्तेरिति।% यदाहं जानामीत्येवं प्रत्यय उत्पद्यते तदा मित्थैवायं प्रत्ययः। न ह्यहमिति प्रतिभासमानस्य शरीरस्य जानामीति सम्बन्ध उपपद्यत इत्यर्थः।
न्यायमञ्जरी
%तत्र पूर्वपक्षविरसनम्%
अपरे पुनराहुः। न ग्राह्यग्राहकरूपोभयसम्पत्तेरेकस्य कर्मत्वं कर्तृत्वञ्च युगपदात्मनो मन्यामहे; किन्तु चितिशक्तिस्वभावमपरसाधनमपरोक्षमात्मतत्त्वं प्रचक्ष्महे। न ह्यात्मा जन्येन ज्ञानेन घटादिरिव प्रकाशते, अपि तु स्वत एव प्रकाशते। चेतनत्वमपि तस्य नैसर्गिकमेव, न करणोपजनितचितियोगनिबन्धनम्। चिद्योगाद्धि चेतनत्वे घटादावपि तत्प्रसङ्गः। न चास्ति नियमहेतुरनेककारकपरिघट्टिततनुरपि चितिरात्मानमेव ज्ञातारं करोति, न कारकान्तरमिति। तस्मात् स्वत एव चित्स्वभावतास्य भद्रिका। तदिदमात्मप्रकाशनं संविद्वदवगन्तव्यम्। यदाहुः, `संवित् संवित्तयैव संवेद्या न वेद्यतया’ इति। नास्याः कर्मभावो विद्यत इत्यर्थः। एवमात्मा ग्राहकतयैव प्रकाशते, न ग्राह्यतयैवेति तद्द्वैरूप्यस्य चोदनमनुपपन्नमिति।
एतदपि न चतुरश्रम्। अपरसाधनमिति कोऽर्थः? उपायान्तरनिरपेक्षमेव प्रकाशमानमात्मतत्त्वमास्त इति, तदयुक्तमकरणिकायाः प्रतीतेरदृष्टत्वात्। अपूर्वञ्च तत्किमपि यथाभ्युपगतं प्रमाणातिरिक्तमेव प्रमाणं स्यात्। न च नियमकराणमत्र पश्यामः। तथा प्रकाशमानः स एवात्मा प्रकाशते न परात्मेति, प्रकाशामानत्वेनात्मनो नूनमनुभूयमानता वाच्या, अनुभूयमानता चानुभवकर्मत्वमितरथास्याः प्रत्यक्षतैव न स्यात्।
अथोच्यते। न प्रत्यक्ष आत्मा किन्त्वपरोक्ष इति। नेदमर्थान्तरवचनम्। शिशव एवं प्रतार्यन्ते न प्रामाणिकाः। प्रत्यक्षश्च न भवत्यपरोक्षश्च भवतीति चित्रम्! प्रत्यक्षज्ञानकर्मत्वमस्य नास्तीति चेत्, तर्ह्यपरोक्षत्वमपि मा भूत्। प्रकाशत्वादपरोक्षत्वमिति चेत्, न, दीपादेः प्रकाशस्याप्यन्धादिभिरगृह्यमाणस्य प्रकाशमानत्वायोगात्। तस्मात् प्रकाशते चिदात्मा नूनमनुभूयेतापि इति बलात् कर्मत्वमपरिहार्यम्। अतश्च तदवस्थैव द्वैरूप्यचोदना। प्रकाशज्ञानपक्षञ्च प्रतिक्षेप्स्यामः। स चात्मन्यपि तुल्यो न्यायः। कल्पनाद्वैरूप्यञ्च भवतामात्मा च स्वप्रकाशः संविच्च स्वप्रकाशेति। न च निपुणमतिरपि विवेकमीदृशमुपदर्शयितुं शक्नोति भवान्। इयं स्वप्रकाशफलरूपा संवित्, अयं स्वप्रकाशो ज्ञातृरूप आत्मेति। चित्रञ्चेदं यत् तयोर्द्वयोः प्रकाशयोरन्तराले तद्व्यापारः परोक्षज्ञानाख्यः सम्पन्न इति।
ननु घटमहं जानामीत्यत्र त्रयप्रतिभासो घटमिति विषयः प्रकाशते, अहमित्यात्मा, जानामीति संविदिति, उक्तमत्र घटं जानामीति ज्ञानविशेषणविप्रयप्रतिभासः, अहमिति तु शरीरे ज्ञातृत्वभ्रम एकस्यात्मनो ग्राह्यग्राह्यकत्वानुपपत्तेः।
यदपि स्वतश्चेतनस्वभावत्वमात्मनः कथ्यते तदपि न सोपपत्तिकम्।
सचेतनश्चिता योगात् तद्योगेन विना जडः।
नार्थावभासादन्यद्धि चैतन्यं नाम मन्महे॥
यदि च स्वत एवार्थावभाससामर्थ्यपक्षे च सर्वज्ञतापत्तिः, अतोऽवश्यं ज्ञानसमवायनिबन्धनमेवात्मनश्चेतयितृत्वम्, न च घटादिभिरतिप्रसङ्ग आशङ्कनीयः, पदार्थस्वभावोपनतस्यैव क्रियावैचित्र्यस्य सर्वलोकप्रसिद्धत्वाच्चेतनादिक्रियाः कर्मसमवायिन्यो न भवन्ति गमनादिक्रियास्तु कर्तृसमवायिन्य एव। न च वस्तुशक्तिरनुयोज्या भवति।
न जडत्वाविशेषेऽपि कर्मादौ समवैति चेत्।
न द्रव्यत्वाविशेषेऽपि गन्धः स्पृशति पावकम्॥
तस्मान्न प्रत्यक्ष आत्मा, नापि स्वतश्चेतयितेति स्थितम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%चिद्योगाद् हि चेतनत्व% इति। उत्पद्यमानया चिता ज्ञानेन यस्य सम्बन्धः स चेतन इति हि यद्युच्येत ततो घटस्यापि तयोत्पद्यमानया कारणत्वाविशेषात् सम्बन्धः केन वार्येतेति। अथात्मसम्बद्धैव सा उत्पद्यते न घटादिकारकान्तरसम्बद्धेति। तत्राप्याह %न चास्ति नियमहेतुरिति। न ग्राह्यतयेति।% एकस्यां संविद्यनुभवारूढस्य त्रयस्य स्वेन स्वेन रूपेणावभासनात् प्रमातुः प्रमेयस्य प्रमितेश्च। प्रमातात्मा प्रमातृतयैव भासते अन्यथा भासनेऽस्य प्रमेयादविशेषः स्यात्; एवं प्रमितिरपि स्वरूपेणैव भासते, न प्रमातृप्रमेयरूपतया; प्रमेयन्तु प्रमेयरूपतयैव। अत एव त्रितयप्रतिभासोऽभ्युपगतो भवति, अन्यथा सर्वं प्रमेयमेव स्यात्।
%किन्त्वपरोक्ष% इति प्रत्यक्षं हि तदुच्यते यत्राक्ष्यापाराद् ज्ञानमुत्पद्यते। तदन्यत् परोक्षम्। [%प्रकाशत्वाद् अपरोक्षमिति%]तत् पुनः प्रकाशते, अथवा अक्षव्यापारं नापेक्षते तदपरोक्षमिति। इह चात्मा प्रतीतिकर्तृतया प्रकाशते घटस्तु प्रतीतिकर्मतयेति।
%न च घटादिभिरतिप्रसङ्ग% इति। यदि [सं] वित्तिजनकत्वाद् वैषम्यं तर्हि घटादीनामपि प्राप्तं तदिति।
%द्रव्यत्वाविशेषेऽपीति।% यथा द्रव्यत्वे सति पृथिव्या सम्बध्यते गन्धो नैव तेजसेत्यर्थः।
न्यायमञ्जरी
%आत्मनः प्रत्यक्षत्वसाधनम्।%
स्वयूथ्यास्तु केचिदाचक्षते। यदेकस्य कर्तृत्वकर्मत्वमनुपपन्नमित्यप्रत्यक्ष आत्मेष्यते, तदयमनुमानेनापि कथं ग्रहीष्यते?
आत्मानमात्मनात्मैव लिङ्गादनुमिनोति हि।
तत्र नूनमुपेतव्या कर्तृता कर्मतास्य च॥
तत्रानुमानज्ञानस्य यथात्मा याति कर्मताम्।
तथाहंप्रत्ययस्यैव प्रत्यक्षस्यापि गच्छतु॥
देहादिव्यतिरिक्तश्च यथा लिङ्गेन गम्यते।
तथाहंप्रत्ययेनापि गम्यतां तद्विलक्षणः॥
न चात्मनः किं रूपं यत् प्रत्यक्षेण साक्षात्क्रियते? यद्येवं सुखादेरपि किं रूपं यन्मानसप्रत्यक्षसमधिगम्यमिष्यते?
नन्वानन्दादिस्वभावरूपं प्रसिद्धमेव सुखादेस्तर्हि तदाधारत्वमात्मनोऽपि रूपमवगच्छतु भवान्।
सुखादि चेत्यमानं हि स्वतन्त्रं नानुभूयते।
मतुबर्थानुवेधात्तु सिद्धं ग्रहणमात्मनः॥
इदं सुखमिति ज्ञानं दृश्यते न घटादिवत्।
अहं सुखीति तु ज्ञप्तिरात्मनोऽपि प्रकाशिका॥
अपि च,
ज्ञातृज्ञानविशिष्टार्थग्रहणं किल भाष्यकृत्।
स्वयं प्रादीदृशत् तच्च किं वा युक्तमुपेक्षितुम्॥
विशेष्यबुद्धिमिच्छन्ति नागृहीतविशेषणाम्।
पूर्वञ्चाननुभूतस्य स्मरणं नावकल्पते॥
न चानुमानतः पूर्वं ज्ञात्वात्मानं विशेषणम्।
तद्विशिष्टार्थबुद्धिः स्यात् क्रमस्यानवधारणात्॥
तस्मात् प्रत्यक्ष आत्मा।
सामानाधिकरण्यञ्च स्मरणानुभवादिषु।
अनुसन्धीयमानं यद् दृश्यते तत्कथं भेत्॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%भाष्यकृत स्वयं प्रादीदृशदिति।% तथा च न्यायभाष्यम्—-`येयं स्मृतिरगृह्यमाणेऽर्थेऽज्ञासिषम[हम] मुमर्थमिति, अस्या ज्ञातृज्ञानविशिष्टः पूर्वंज्ञातोऽर्थो विषयो नार्थमात्रम्, अज्ञासिषममुमर्थम्, ज्ञातवानहममुमर्थम्, असावर्थो मयाः ज्ञातः,
अमुष्मिन्नर्थे मे ज्ञानमभूदिति चतुर्विधमप्येतद् वाक्यं स्मृतिविषयप्रज्ञापकं समानार्थम्। सर्वत्र खल्वत्र ज्ञाता ज्ञानं ज्ञेयञ्च गृह्यते’ इत्यादि। अत्र ज्ञातृविशिष्टार्थस्मरणं समर्थितम्। तथाभूतस्यैवानुभवो वाच्यः। न च अगृहीतविशेषणन्यायेन तज्ज्ञेयग्रहणसमये ज्ञातुरप्यवगमोऽभ्युपेयः। न च यदा ज्ञेयग्रहणं तदानुमानतो ज्ञाततादिलिङ्गाद् आत्मनो गृहीतिर्गृही तस्य च स्मरणमिति। यदाह %क्रमस्यानवधारणाद्% ग्रहणसमय इत्यर्थः।
न्यायमञ्जरी
%आत्मनोऽनुमानगम्यत्वमपि%
पूर्वमहममुमर्थमनुभूतवानहमेवाद्य पुनरनुभवामीति तुल्यविषयतावत् तुल्यकर्तृकतापि तत्र प्रकाशते,इतरथा त्वनुमातुमप्यात्मा न शक्यते।
ज्ञानेच्छासुखदुः खादि किलेदं लिङ्गमात्मनः।
एकाश्रयतया ज्ञातमनुसन्धातृबोधकम्॥
तथात्वेन च तज्ज्ञानमाश्रयज्ञानपूर्वकम्।
ज्ञाते तत्राफलं लिङ्गमज्ञाते तु न लिङ्गता॥
तस्मात् प्रत्यक्ष एवात्मा वरमभ्युपगम्यताम्।
वृद्धागमानुसारेण संविदालोकनेन च॥
अथवाभिनिवेशेन किमनेन प्रयोजनम्।
अनुमेयत्वमेवास्तु लिङ्गेनेच्छादिनात्मनः॥
तदाह सूत्रकारः, `इच्छाद्वेषप्रयत्नसुखदुः खज्ञानान्यात्मनो लिङ्गम्’। इच्छा नाम तावदित्थमुपजायते यज्जातीयमर्थमित्थमुपयुञ्जानः पुरुषः पुरा सुखमनुभूतवान्, पुनः कालान्तरे तज्जातीयमुपलभ्य सुखासाधनतामनुस्मृत्य तदादातुमिच्छति सेयमनेन क्रमेण समुपजायमानेच्छा पूर्वापरानुसन्धानसमर्थमाश्रयमनुमापयति कार्यस्य निराधारस्यानुपपत्तेराश्रयमात्रप्रतीतौ चान्वयव्यतिरेकवानेव हेतुर्भवति। इच्छा धर्मिण्याश्रितेति साध्यो धर्मः कार्यत्वाद् घटादिवद् गुणत्वादिति वा हेतुर्वक्तव्यः। गुणत्वञ्चेच्छादीनामचाक्षुषप्रत्यक्षत्वादिना रसादिवद्दर्शितमाचार्यैः। एवमन्वयव्यतिरेकवतामुना हेतुनाधिष्ठानमात्रेऽनुमिते तदधिष्ठानत्वे च देहेन्द्रियादौ प्रसकत्ते पूर्वानुभूतसुखसाधनत्वानुसन्धानसव्यपेक्षतदुत्पादनपर्यालोचनया तत्कार्यसमानकर्तृकत्वावगमाच्छरीरादिविलक्षणाश्रया, शरीरादिषु बाधकोपपत्तौ सत्यां कार्यत्वादित्यत्र च साधर्मदृष्टान्तो न सम्भवतीति वैधर्म्यदृष्टान्तः कार्यत्वे निर्विशेषणे य एव साधर्म्यदृष्टान्तो घटः स एव वैधर्म्यदृष्टान्तः सविशेषणे, यत्र विलक्षणाश्रितत्वं नास्ति तत्र सविशेषणं कार्यत्वमपि नास्ति यथा घटादाविति तु शक्यते वक्तुम्, तत्र कार्यमात्रयोगेऽपि सविशेषणानां कार्यत्वाभावाद् विलक्षणाश्रयाश्रितत्वं नास्ति भूतलाश्रितत्वेन प्रत्यक्षमुपलभ्यमानत्वात्।
ननु चान्वयदर्शनमन्तरेण केवलव्यतिरेकः प्रतीयमानः सन्दिग्धो भवति किं ततक्साध्याभावकृतैव तस्य तस्माद् व्यावृत्तिरुत निमित्तान्तरकृतेति, सन्दिग्धव्यतिरेकस्य हेतोरगमकत्वं निश्चितव्यभिचारहेतुवदिति तार्किकाः।
उच्यते। स्यादेतदेवं यदि प्रथममनवगतान्वय एव केवलव्यतिरेकशरणो हेतुः प्रयुज्यते, यतस्त्वन्वयव्यतिरेकता आवकाशं लभते। घटो हि भूतलाश्रितत्वेन प्रत्यक्षमुपलभ्यते, तदस्य विशेषणाश्रयविरहादेव सविशे,णहेतुशून्यता जाता, निर्विशेषणावस्थायां तद्योगदर्शनादिति न सन्दिग्धो व्यतिरेकः। अथवा शरीरत्वं सामान्यमिह वैधर्म्यदृष्टान्तीकर्तव्यम्। तत्र हि सर्वात्मना कार्यत्वस्पर्शोऽस्ति नास्ति, न च तद्विलक्षणाश्रितम्, शरीराश्रितत्वस्य प्रत्यक्षत उपलम्भादिति। तदियमिच्छा प्रथमपदार्थदर्शनादिकार्यसमानकर्तृकतयावगम्यमाना शरीरादिविलक्षणमाश्रयमवगमयति सविशेषणात् कार्यत्वादिति स्थितम्’ यश्च स विलक्षण आश्रयस्तत्रात्मसंज्ञा आगमिकी।
एवमेव द्वेषादेरात्मलिङ्गता वक्तव्या। यज्जातीयस्यार्थस्य सन्निधानाद् दुःखमनुभूतवान् पुरुषः, तज्जातीयमर्थं पुनरुपलभमानो दुः खसाधनतामनुसन्धाय तं द्वेष्टीति सोऽपि प्रतिसन्धातारमेकमन्तरेण नोपपद्यते। आभ्यामिच्छाद्वेषाभ्यामनन्तरं प्रयत्नः समुत्पद्यते। सोऽपि यथोक्तेन क्रमेणानुसन्धानपूर्वक एव प्रयतमानस्य सुखदुः खे भवतः। ते अपि तथैव द्रष्टव्ये। ज्ञातं यद्यपि प्रथममनुसन्धाननिरपेक्षमपि भवति, तदपि च शक्यत एवात्मलिङ्गमभिधातुं तथाप्यनुसन्धानपूर्वेच्छादिकार्यप्रकरणान्निर्णयात्मकमिह ज्ञानमुदाहर्तव्यम्। तत्र हि बुभुत्साविमर्शादिपूर्वकत्वमुपकल्प्यते। तदेवमिच्छादीन्यात्मलिङ्गानीति स्थितम्॥
शास्त्रे चानेकहेतूक्तिर्न दोषाय कथास्विव।
शिष्यः कश्चित् क्वचित् किञ्चिदनुस्मृत्याभिधास्यति॥
इति कारुणिको मुनिरनेकमिह हेतुमार्गमुपदिष्टवान्।
नन्वत्र चोदितमनुसन्धातारमन्तरेण तदेतदिच्छादिकार्यं नावकल्पत इति कथं ज्ञायते? एकत्र प्रमातरि तद्दर्शनादिति। यदुच्यते तदिदमेकप्रमातृग्रहणादात्मप्रत्यक्षत्वमङ्गीकृतं स्यादिति व्यर्यमनुमानम्; अग्रहणे तु प्रमातुरेकस्य तत्पूर्वकेच्छादेः प्रतिबन्धाग्रहणादशक्यमनुमानमिति, परिहृतमेतत्; कार्यत्वे नैव लिङ्गत्वमिच्छादेरुपवर्णितमस्माभिर्न स्मरणादिसमानाश्रयतयेति। किमर्थस्तर्हि प्रतिसन्धानोपन्यासः? शरीरादिषु तदाश्रयत्वप्रतिषेधार्थः। न त्वेवं व्याख्यातवन्तो वयमेकस्य प्रमातुरिच्छादिकार्याश्रयत्वदर्शनादेकाश्रयत्वानुमानमिति तस्मान्न दोषः, शरीराश्रयत्वप्रतिषेधसाधनत्वेऽपि प्रमातृनियततयानवधारितम्। तत् कथमस्मदवस्थादिभिन्नशरीराद्याश्रयत्वनिषेधस्य तत्पूर्वकस्य वात्माश्रितत्वस्य सिद्धिः?
क एवमाह न गृहीतमेककर्तृकतया कार्यमिच्छादीति। यदि गृहीतं तर्हि वक्तव्यं क्व गृहीतं केन वा प्रमाणेन गृहीतमिति? स्वात्मन्येवेति चेत् सोऽयं प्रत्यक्ष आत्मा भवेत्, एवमनभ्युपगमे न व्याप्तिग्रहणमिति।
उच्यते। न च प्रत्यक्ष आत्मा, न च व्याप्तेरग्रहणम्, न चैव धर्म्यन्तरे व्याप्तिर्गृह्यते किन्तु स्वसन्तान एव; तथापि न सिद्ध्यति प्रमातृनियतानुमानम्; कथमिव सिद्ध्यति सन्तानान्तरेषु प्रतिसन्धानस्य दृष्टत्वात्।
किञ्च कोऽत्र व्याप्तिग्रहणकालः? प्रमातृवद्धि तद्भेदेन भवितव्यम्। ततः किम्? इदं ततो भवति। कथं स्वसन्तान एव व्याप्तिर्गृह्यतां कथञ्च तत्रैव प्रमातृनियमोऽनुमीयतामिति सेयमुभयतः पाशा रज्जुः आत्मा वा प्रत्यक्षो व्याप्तिर्वा दुरवगमेति। नैतदेवम्। यथा शाक्यपक्षे सत्त्वात् क्षणिकत्वानुमाने व्याप्तिग्रहणम्, तथेहापि भविष्यति। तत्र हि यैव क्रमयौगपद्यव्यावृत्त्या सत्त्वस्य नित्येभ्यो व्यावृत्तिः, स एव क्षणिकैरन्वय इति धर्म्यन्तरनिरपेक्षतयैव साध्येऽपि धर्मिणि प्रतिबन्धग्रहणञ्चानुनानञ्च दर्शितम्। तद्वदिहाप्येकप्रमातृपूर्वकत्वेन प्रतिसन्धानस्य धर्म्यन्तरे यद्यपि ग्रहणं नास्ति तथापि सन्तानान्तरभेदे यदस्य दर्शनं तदेवैककर्तृकत्वदर्शनमिति कोऽनयोर्हेतुत्वे विशेषः?
ननु तत्र नित्येभ्यः क्रमयौगपद्यव्यावृत्त्या व्यावृत्तं सत्त्वं शक्यग्रहणम्, इह तु प्रमातृभेदेन प्रतिसन्धानव्यावृत्तिर्दुरवगमा, स्वसन्तानेऽपि ज्ञानक्षणाभिन्ना एव प्रमातारः। न च तेभ्यो व्यावृत्तं प्रतिसन्धानमिति, तिष्ठत्वन्वयः। व्यतिरेकमुखेनापि कष्टमिदमनुमानं वर्तते, स्वसन्ताने सन्तानान्तरवत् प्रमातृभेदाग्रहणात्, तद्भेदग्रहे हि स्वसन्तानविवेको न स्यात्, न चैवं प्रमातृभेदाग्रहणाभावात् पुनरप्यात्मा प्रत्यक्ष आयातः।
मैवम्, नात्मा प्रत्यक्षः प्रमातृभेदो हि स्वसन्ताने न गृह्यते। अन्यच्च भेदाग्रहणमन्यच्च तदैक्यग्रहणम् भेदाग्रहवेदेव च व्याप्तिसिद्धेर्न कष्टमनुमानम्।
ननु च स्वसन्ताने प्रमातृभेदाग्रहणं किं प्रमातुरेकत्वादुत ज्ञानानां कार्यकारणभावादिति न निश्चीयते, ततश्च सन्दिग्धो व्यतिरेकः; तथा ज्ञानानां कार्यकारणभावो नास्ति यथा च न तत्कृतोऽयं व्यवहारस्तथानन्तरमेव वक्ष्यामः। तस्मादिच्छादिकार्येण युक्तमेकप्रमात्रनुमानम्।
ननु चाश्रितमिच्छादि देह एव भविष्यति।
भूतानामेव चैतन्यमिति प्राह बृहस्पतिः॥
उक्तञ्च मदशक्तिवद्विज्ञानमिति। उच्यते, शरीरं तावन्नेच्छादेराश्रयः शैशवयौवनवार्धकादिदशाभेदेन भिन्नत्वात्।
तथा हि नान्यदृष्टोऽर्थः स्मर्तुमन्येन शक्यते।
न चान्येन स्मृते तस्मिन्नन्यस्येच्छोपजायते॥
तेनाद्यादर्थविज्ञानात् प्रभृतीच्छासमुद्भवात्।
एकस्य कार्यचक्रस्य वक्तव्यः कश्चिदाश्रयः॥
शरीरञ्च बाल्याद्यवस्थाभेदेन भिन्नम्, अतस्तस्य नाश्रयो भवितुमर्हति, सन्तानान्तरवत्। यथा हि देवदत्तदृष्टेऽर्थे यज्ञदत्तस्य न स्मरणमेवं बालशरीराद् अनुभूते युवशरीरस्य तन्न स्यात्।
नन्ववस्थामात्रमेव भिन्नमवस्थातृशरीरस्वरूपमभिन्नमेव प्रत्यभिज्ञाप्रत्ययप्रामाण्यादवगम्यते, न चेयं प्रत्यभिज्ञा लूनपुनर्जातनखादिप्रत्यत्रभिज्ञानवदन्यथासिद्धा विनाशस्यासम्भवात्। स्तम्बादौ हि क्षणभङ्गित्वप्रतिषेधः प्रत्यभिज्ञयैव करिष्यते, सा चेहापि तादृश्येव। तदयुक्तम्। स्मम्बादौ नानात्वकारणाग्रहणात्, इह तु रूपपरिमाणपरिवेशाद्यन्यत्वदर्शनात्। सादृश्यनिबन्धनेयं भ्रान्तिरेव प्रत्यभिज्ञा। न खलु शिशुशरीरे तरुणशरीरे जरच्छरीरे च तुल्यमेव परिमाणाद्युपलभ्यते।
आहारपरिणामाच्च देहभेदोऽवगम्यते।
पाकजोत्पत्तिमार्गेण न जीर्येतान्नमन्यथा॥
न भवेत् परिपोषो हि दधिक्षीरादिभक्षणे।
काञ्चनाद्युपयोगेन दृश्यते तस्य रक्तता॥
क्षीणैरवयवैः कैश्चित् कैश्चित् त्विनवोद्गतैः।
अभिन्न एवावयवी कथं भवितुमर्हति॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%एकाश्रयतया ज्ञातमिति।% यस्यैव प्रागनुभवस्तस्यैव दर्शनक्रमेणेच्छोपजायमाना पूर्वापरयोरनुसन्धातारमेकं गमयतीत्येकाश्रयत्वं प्रागवश्यमभ्युपेयम्। अनुभवेनैकाश्रया इच्छा अनुसन्धातृपूर्विका, एकाश्रयत्वे सतीच्छारूपत्वात्; यत्र पुनरेकानुसन्धातृपूर्वकत्वं नास्ति तत्रैकाश्रयत्वे सतीच्छारूपत्वमपि नास्ति, यज्ञदत्तो (त्ता) नुभूत इव देवदत्तेच्छायाः। %तथात्वेन% एकाश्रयतया। %अज्ञाते तु न लिङ्गता।% न हि यथा तल्लिङ्गं तथा अज्ञातलिङ्गं भवति।
%गुणत्वञ्चेच्छादीनामिति।% इच्छाधर्मो गुण इति साध्यम्, कार्यत्वे सति नियमेनाचाक्षुषप्रत्यक्षत्वात्, रसवदिति। %तत्कार्यसमानकर्तृत्वेति% सुखसाधनत्वज्ञानादिकार्यैणैककर्तृकत्वावगमात् शरीरादिप्रतिषेधे सतीति। तेषां नानात्वात् पूर्वोपलम्भाद्येककर्तृकत्वविशिष्टकार्याश्रयत्वाभावात्। %शरीरादिषु बाधकोपपत्ताविति% पूर्वानुभवादिसव्यपेक्षकार्यत्वमेवेच्छायाः शरीराद्याश्रयत्वे बाधकम्, सविशेषणकार्यत्वायोगादिति। शरीरादिष्वित्यत्र आदिपदेन यान्युपात्तानि भूतानि तत्कार्यत्वे बाधकाभावात् `शरीरादिषु बाधकोपपत्तौ कार्यत्वात्’ इति सविशेषणस्य कार्यत्वाभावात्। %सविशेषणानां कार्यत्वाभावाद् विलक्षणाश्रयाश्रितत्वं नास्तीत्यादिना% एतदेव व्यक्तीकृतम्।
%तस्य तस्माद् व्यावृत्तिरिति% यदिदं शरीरादिषु बाधकोपपत्तिविशिष्टं कार्यत्वं तत् किं घटादौ शरीरादिविलक्षणाश्रितत्वस्य साध्यस्याभावाद् नास्त्युत कारणान्तरत इति। अन्वये पुनः प्रदर्शित एवं वक्तुं न शक्यते। अन्यत्र साध्यान्विततयोपलम्भादिह तस्याभाव इति हि तदा वक्तुं शक्यत एव।
%तत्रात्मसंज्ञा आगमिकी% न पुनः प्रमाणादिसंज्ञावद् यौगिकी।
%ते अपि तथैव द्रष्टव्ये% पूर्वानुसन्धानं विना प्रयत्नाभावः, प्रयत्नाभावाच्च तयोरप्यभाव इति। तदुत्पत्तावपि सर्वः पूर्वोक्तः क्रमः।
%न दोषाय कथास्विव।% यथा वादादिकथासु दोषाय।
%किन्तु स्वसन्तान एवेति।% एकशरीरावच्छिन्ने क्वचिद् वस्तुनि। %सन्तानान्तरेषु प्रतिसन्धानस्यादृष्टत्वात्।% प्रमातृनियमस्य `ये केचिदत्र न प्रमातारोऽपि तु नियम एव कश्चित्’ इत्येवंरूपस्य।
%सेयमुभयतः पाशा।% यथोभयतः पाशारज्जावेकदिशा योजनेऽपरदिशा विघटनम्। तद्वद् इदम्। यद्यात्मा न प्रत्यक्ष इत्यब्युपगम्यते तदा व्याप्तेरघटनम्, व्याप्तिघटने त्वात्मप्रत्यक्षसिद्धिरिति। %स एव क्षणिकैरन्वय% इति। न हि सत्त्वक्षणिकत्वयोः क्वचिद् धर्मिणि सिद्धेरन्वयग्रहणं सम्भवति, सर्वस्य क्षणिकत्वेन साध्यत्वात्। अतोऽक्षणिकेभ्यो व्यावृत्तिरेव क्षणिकैरन्वयः सत्त्वस्य। क्षणिकाक्षणिकाद् राश्यन्तरस्याभावाद् अक्षणिकेभ्यो व्यावृत्तं सत्त्वं क्वान्यत्र यायात् क्षणिकान् मुक्त्वेति।
%व्यतिरेकमुखेनापि% इति। यत्रैककर्तृकत्वं नास्ति तत्र प्रतिसन्धानादि नास्तीति व्यतिरेकासिद्धिः। ज्ञानक्षणेषु भिन्नेष्वपि प्रमातृषु प्रतिसन्धानस्य बौद्धदृष्ट्या सम्भाव्यमानत्वादिति।
%भेदाग्रहणादेव च व्याप्तिसिद्धेरिति% यावदेव भेदान् अगृहीतस्तावदेव प्रतिसन्धानादेरभिन्नकर्तृकत्वेनान्वयो गृहीत इति।
%मदशक्तिवद् विज्ञानमिति।% यथा किण्वादिद्रव्यपरिणआमादेव मदशक्तिरुदेति तद्वद् भूतपरिणामविशेषाच्चैतन्यमिति।
%आहारपरिणामाच्चेति% आहारो हि तदा परिणतो भवति यदा पुष्टिरुत्पद्यते। पुष्टिश्चोपचयः, स चापचयनिरोधेन भवति। अपचयोपचयनिरोधोत्पत्तिभ्यां चापचीयमानोपचीयमाननिरोधोत्पत्ती। ते च %पाकजोत्पत्तिन्यायेन। न जीर्येतान्नमन्यथा,% अपरिणतं स्यात्। %न भवेत् परिपोषः% विनाशानभ्युपगमे। सर्वस्मिन्नेव हि शरीरे विनष्ट आरम्भकाणामवयवानामाहारभूतदध्यादिसारावयवसहितानामारम्भकत्वे स्थूलशरीरनिष्पत्तौ पुष्ट्यर्थानां दध्यादीनामुपयोगस्य साफल्यम्। शरीरस्य %प्राक्तनस्याविनाशे% चयाभावाद् आहाराभावाद् आहाराभावकृता रिक्ततापि न भवेत्।
न्यायमञ्जरी
%बाल्यादिशरीरभेदसाधकं पीलुपाकवादिमतम्%
तथा च केचित् पच्यमानस्य घटादेरपि प्रागवस्थाविसदृशरूपादियोगिनः पाककारणभूतवेगवदग्निद्रव्यसंयोगपर्यालोचनयैव प्रलयोदयौ कल्पितवन्तः।
यद्यपि कन्तुकनिक्षिप्ता घटादयस्तृणपर्णादिपिहितवपुषोऽपि तद्विवरप्रसृतेन नयनरश्मिना न विनष्टा इत्युपलभ्यन्ते, यद्यपि तत्संख्या तत्परिमाणं तत्सन्निवेशस्तद्देशाश्च पक्वा अपि दृश्यन्ते, यद्यपि ततो विभक्ता न विभाव्यन्ते, ततस्तेषां कर्त्रादिकारणकलापासम्भवात् पुनर्घटनमघटमानमिव लक्ष्यते; तथापि तेषामनुमानेन विनाशः परिकल्प्यते, सर्वावयवेष्वन्तर्बहिश्च पाकपूर्वकपूर्वरूपादिविलक्षणगुणोपलब्धेरन्तः प्रवेशः कृशानोरनुमीयते; तेन वेगवता वह्निद्रव्येण नोदनादभिघाताद् वा नूनं घटाद्यारम्भकेष्ववयवेषु क्रिया जायते, क्रियातो विभागः, विभागाद् द्रव्यारम्भकसंयोगविनाशः, तद्विनाशाद् द्रव्यविनाश इति। अनुप्रवेशपक्षेऽपि सूक्ष्मविवरपरिकल्पनादवश्यमवयवसंयोगविघटनं घटादेरिति विनाश एव। अपि च पाकानन्तरं कन्दुकादपकृष्यमाणाः पिठरादयः केचित् स्फुटिताः केचिद् वक्रतां गताः, केचित् सन्निवेशान्तरमेव प्रतिपन्ना दृश्यन्ते। तस्मादपि पश्यामो नश्यन्तीति, तत्संख्यत्वादिति सर्वमनैकान्तिकं सूच्यग्रविद्धकण्ठकोणैः कुम्भादिभिः, पूर्वोक्तनीत्या नेष्टेषु घटादिकार्यद्रव्येषु परमाणव एव पच्यन्ते, पक्वाच्च श्यमादिगुणानवजहतो रक्तादिगुणान्तरयोगमनुभवन्तः प्राणिगतसुखदुः खोपभोगसाधनभूतादृष्टप्रेर्यमाणाः परस्परं संयुज्य द्व्यणुकादिप्रक्रमेण तादृशमेव घटादिकार्यमारभन्ते। तत्रामुष्मिन् क्षणेऽमुष्य कार्यस्य प्रसवोऽमुष्य प्रलय इति प्रक्रिया न लिख्यते ग्रन्थविस्तरभयादप्रयोजनत्वाच्चेति।
एवं तपनातपदृश्यमानेष्वाम्रादिफलेष्वेष एव न्यायः। शरीरेऽप्युदर्येण तेजसा पच्यमानेष्वन्नपानादिषु रसमलधातुभावेन परिणाममुपगच्छत्सु प्रायेण प्रतिक्षणमुत्पादविनाशौ सम्भवत इति स्थैर्याभावात् कथमनुसन्धानादिकार्ययोगोऽस्येति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%अनुप्रवेशपक्षेऽपीति% तेजः परमाणवो ह्यविनष्टेऽपि घटे प्रविशन्तीति पिठरपाकवादिनां मतम्। %अमुष्य कार्यस्य प्रसव% इति। अप्रयोजनन्तु कार्यमिदमस्ति किं कारणविकल्पैरित्यनेन न्यायेन। तथा च वैशेषिकैर्नानाप्रक्रियाः प्रदर्शिता एव। श्यामादिनिवर्तके वह्नौ क्रियाया उत्पादः, प्राक्तनाकाशदेशेन विभागस्योत्पद्यमानता, तदवयवे क्रियाया उत्पद्यमानता, रक्ताद्युत्पादके च वह्नौ क्रियाया उत्पद्यमानतेत्येषामेकः कालस्तदनन्तरं श्यामादिनिवर्तके वह्नौ प्राक्तनाकाशदेशेन विभागस्योत्पादः, संयोगस्य विनश्यत्ता, तदवयवे क्रियाया उत्पादः, प्राक्तनाकाशदेशेन विभागस्योत्पद्यमानता, रक्ताद्युत्पादके वह्नौ क्रियाया उत्पादः, प्राक्तनाकाशदेशेन विभागस्योत्पद्यमानता, रक्ताद्युत्पादके वह्नौ क्रियाया उत्पादः, प्राक्तनाकाशदेशेन विभागस्योत्पद्यमानतेत्येषामेकः काल इत्याद्यास्तत एवावसेयाः।
न्यायमञ्जरी
%तत्रैव पिठरपाकवादिमतम्%
अपरे पुनः प्रत्यक्षबलवत्तया घटादेरविनाशमेव पच्यमानस्य मन्यन्ते। सुषिरद्रव्यारम्भाच्चान्तर्बहिश्च पाकोऽप्युपपत्स्यते। दृश्यते च पक्वेऽपि कलशनिषिक्तानामपां बहिः शीतस्पर्शग्रहणम्। अतश्च पाककाले ज्वलदनलशिखानुप्रवेशकृतविनाशबलादपि शिशिरतरनीरकणनिकरानुप्रवेशकृतनाशप्रसङ्गः। न चेदृशी प्रमाणदृष्टिः। अतः प्रकृतिसुषिरतयैव कार्यद्रव्यस्य घटादेरारम्भादन्तस्तेजः कणानुप्रवेशकृतपाकोपपत्तेरलं विनाशकल्पनया। पिठरपाकपक्ष एव पेशलः।
यादृगेव हि निक्षिप्तो घटः पाकाय कन्दुके।
पाकेऽपि तादृगेवासावुद्गतो दृश्यते ततः॥
क्वचित्तु सन्निवेशान्तरदर्शनं काष्ठाद्यभिघातकृतमुपपत्स्यते पावकसम्पर्कंस्य तत्कारित्वे तु सर्वत्र तथाभावः स्यात्। तस्मादविनष्टा एव घटादयः पच्यन्ते। सोऽयं तु घटादिन्यायः शरीरे नेष्यते।
न ह्यन्नपाकस्थैर्येऽपि तत्र कुम्भादिपाकवत्।
चयापचययुक्तं हि शरीरमुपलभ्यते॥
तस्मात् परिमाणादिभेददर्शनान्नैकं शरीरमिति ज्वालादिप्रत्यभिज्ञावत् तत् प्रत्यभिज्ञेति स्थितम्।
न्यायमञ्जरी
%शरीराभेदसाधने युक्त्यन्तरनिराकरणम्%
यदप्युच्यते, अवस्थानामेव नानात्वमवस्थाता पुनरेक एव देहाख्य इति, तदप्ययुक्तम्, भेदाभेदविकल्पानुपपत्तेः। यदि शरीरादव्यतिरिक्ता एव तदवस्थास्तदावस्थानामप्यन्योन्यं भेदो न स्यात्। अथ व्यतिरिक्ताः शरीरादवस्थास्तर्हि भेदेन तदुपग्रहो दर्शयितव्यः। न चासावस्ति। गोत्वादावनुवृत्ता बुद्धिरनन्यथासिद्धा सती न केनचित् प्रतिहन्यते। इह पुनरवस्थान्तरैकत्वग्राहिणी बुद्धिः पूर्वनीत्या प्रमाणबाधितत्वाद् भ्रान्तेति। तस्माच्छरीरस्य भिन्नत्वात् सन्तानान्तरवत् स्मृत्यनुसन्धानादिकार्ययोगो दुर्घट इति न तस्येच्छादिकार्याश्रयत्वम्। इतश्च न शरीरस्य ज्ञानादियोगः परिणामित्वात् क्षीरादिवद्, रूपादिमत्त्वात् तद्वदेव, अनेकसमूहस्वभावत्वात् त्रिदण्डदिवत्, सन्निवेशविशिष्टत्वाच्च बाह्यभूतवत्; चैतन्यशून्यंशरीरंशरीरत्वान्मृतशरीरवत्। न शरीरधर्मश्चैतन्यमयावद्द्रव्यभावित्वात्। न च कण्ड्वादिभिर्व्यभिचारस्तदुपजनापाययोर्निमित्तान्तरजन्यत्वदर्शनादिह च तदभावात्, विशेषगुणत्वे सतीति वा विशेषणोपादानान्न व्यभिचारः। तद्विशेषगुणत्वे, हि चैतन्यस्य रूपादिवत्तदवस्थानादविनाशप्रसङ्गः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%उपजनापाययोः% कार्ष्ण्याद्युपजनापाययोर्निमित्तान्तरानुपयोगादिति।
न्यायमञ्जरी
%भूतचैतन्यवादोत्थापनं तन्निरासश्च%
यत्तु मदशक्तिवदित्युक्तं तत्र मदशक्तेर्दृष्टत्वादभ्युपगमो न ज्ञानस्य तत्र दर्शनम्। ननु ज्ञानमपि तदन्वयव्यतिरेकानुविधायि प्रायेण दृश्यते भूतेष्वन्नपानाद्युपयोगपुष्टेषु पट्वी चेतना भवति द्विपर्यये विपर्ययः। ब्राह्मीघृताद्युपयोगसंस्कृते च कुमारशरीरे पटुप्रज्ञता जायते, वर्षासु च स्वेदादिना नातिदवीयसैव कालेन दध्याद्यवयवा एव चलन्तः पूतनादिक्रिमिरूपा उपलम्भन्ते। चैतन्यगुरुलाघवव्यवहारोऽपि भूतातिशयसदसत्त्वकृतो भविष्यतीति भूतचैतन्यवादपक्ष एव युक्तियुक्तो लक्ष्यते।
नैतच्चारु। `चेष्टेन्द्रियार्थाश्रयः शरीरम्’ वक्ष्यते। तत्र तदनुग्रहादिन्द्रियानुग्रहे सति पटुकरणत्वाद् विषयग्रहणपाटवम्। न हि विषयग्रहणादन्यच्चैतन्यं नाम। एतेन ब्राह्मीघृतोपयोगोऽपि व्याख्यातः। व्यापकत्वादात्मनः सर्वत्र भावे सिति भोगायतनत्वेन कदाचित् केषाञ्चिद् भूतावयवानां समुपादानतः शुक्रशोणइतादिवद् दध्यवयवान् विकृतानुपादास्यते। तथा च स्वेदजादिभेदे बहुभेदो भूतसर्गः प्रवर्तते विचित्रकर्मपरिपाकापेक्षयेति यत्किञ्चिदेतत्। तस्मान्न सर्वथा भूतानां चैतन्यमिति सिद्धम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%चैतन्यगुरुलाघवेति% गुरुलाघवव्यवहारस्तीव्रमन्दताव्यवहारः।
न्यायमञ्जरी
%इन्द्रियचैतन्यवादस्तन्निरासश्च%
नापीन्द्रियाणि यथोक्तस्य ज्ञानादेः कार्यस्याश्रयतां प्रतिपद्यन्ते दर्शनस्पर्शनाभ्यामेकार्थग्रहणात्। यमर्थमद्राक्षं चक्षुषा तमेवैतर्हि स्पर्शनेन स्पृशामि, यमस्प्राक्षं स्पर्शनेन तमधुना चक्षुषा पश्यामीति कतरदिन्द्रियमेवमनुसन्दधीत। न चक्षुः स्पर्शाविषयत्वात्, न त्वगिन्द्रियं रूपाविषयत्वात्। तस्मादुभयविषयग्रहणसमर्थः कश्चिदनुसन्धातास्तीति स इन्द्रियव्यतिरिक्तो गम्यते।
अमुनैव प्रसङ्गेन रूपादिव्यतिरेकिणः।
वक्तव्या गुणिनः सिद्धिरेतद्बुद्धिनिबन्धना॥
रूपादिषु स्वतन्त्रेषु न ह्येष प्रत्ययो भवेत्।
न रूपमस्य विषयो न स्पर्शो न च तद् द्वयम्॥
अतश्च न गुणाव्यतिरिक्तो गुणी भेदेनाग्रहणादित्यसिद्धः परोक्तो हेतुः, भेदग्रहणस्य दर्शितत्वात्। वृत्तविकल्पादीनान्तु प्रतिसमाधानं सामान्यसमर्थनावसरे कथितमवयविसिद्धौ वक्ष्यते चेत्यलमवान्तरचिन्तया। इतश्च नेन्द्रियाणां चैतन्यं करणत्वाद् वास्यादिवत्। भौतिकानि चेनद्रियाणि वर्णयिष्यामः। तेन य एष भूतचैतन्यनिराकरणे न्यायो वर्णितः स तेष्वपि योजनोयः। अतश्चैवम् `इन्द्रियान्तरविकारात्’।
आम्रे हि चक्षुषा दृष्टे रसनिष्यन्दसुन्दरे।
रसनस्य विकारः स्यान्नुर्दन्तोदकविप्लवः॥
बहूनामिन्द्रियाणाञ्च भिन्नाभिप्रायता भवेत्।
तेनैकत्रैव सन्ताने नानाचेतनता भवेत्॥
इतितुच्छश्चायमिन्द्रियचैतन्यपक्ष इति किमत्र बहु लिख्यते।
न्यायमञ्जरी
%मनसश्चेतनत्ववादनिरसनम्%
ननु मनस्तर्हीच्छादेरधिष्ठानं भविष्यति, तद्धि नित्यमेकंसर्वविषयमभौतिकमिति न प्राक्तनदोषैः स्पृश्यते? उच्यते। मनसोऽपि तदाश्रयत्वमनुपपन्नम्। कुतः? `ज्ञातुर्ज्ञानसाधनोपपत्तेः, संज्ञाभेदमात्रम्’ मनसो हीच्छाद्याश्रयत्वे ज्ञानादौ कर्तृत्वात् तस्यापि बाह्यगन्धादिविषयज्ञानायौगपद्यानुपपत्तेस्तद्ग्रहणे घ्राणाद्यधिष्ठानपटुना केनचिदान्तरसुखदुः खादिविषयग्राहिणा स्मृत्यादिक्रियाकारिणा च करणेन भवितव्यमिति तत्रात्मसंज्ञा भवेदात्मनि च कर्तरि मनः—संज्ञेति।
न चास्य बाह्यकरणैः सिध्यन्ति सकलाः क्रियाः।
न च स्मृतिसुखेच्छादौ शक्ताः स्युश्चक्षुरादयः॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%दिक्प्रदर्शनमिदं कृतमिति% सूत्रकारेणेति शेषिः। %बहुरन्य% इति कोऽसावित्याह
न्यायमञ्जरी
%ज्ञानाश्रयत्वेन सद्धि आत्मा%
तेनेच्छासुखकृतिदुः खवेदनानामाधारो न खलु मनो न चेन्द्रियाणि।
देहोऽपि व्रजति न तत्समाश्रयत्वं तेनान्यं पुरुषमतः प्रकल्पयामः॥
दिक्प्रदर्शनमिदं कृतमिच्छाद्वेषयत्नसुखदुः खमतीनाम्।
लिङ्गताकथनमात्मनि तत्र त्वस्ति हेतुनिवहो बहुरन्यः॥
कर्तृप्रयोज्यता खलु दृष्टा दात्रादिकरणजातस्य।
त्वक्श्रोत्राद्यपि करणं तथैव कर्त्रा प्रयुज्यते॥
हिताहितप्राप्तिविमर्शयोग्या चेष्टा न दृष्टा नियता शरीरे।
तच्चेतनाधिष्ठितताममुष्य गन्त्र्यारथादेरिव कल्पयामः॥
प्राणादिमारुतानामन्तश्चलतां चलाचलगतीनाम्।
सहजनिजकर्मविकृतौ कारणमनुमीयते किञ्चित्॥
इदञ्च देहादितरत्र दुर्लभं निरीक्ष्य वृद्धिक्षतभग्नरोहणम्।
ध्रुवं ग्रहस्येव गतिं प्रकल्पते निजाश्रमक्षेमपरायणो नरः॥
युक्तञ्च नैवं मनसा ह्यनधिष्ठितानां स्वार्थप्रमाकरणकौशलमिन्द्रियाणाम्।
स्यात् कश्चिदिष्टविषयानुगुणप्रयत्नो यत्प्रेरितं सदधितिष्ठति तानि चेतः॥
ज्ञानप्रयत्नादिमतोऽथ कस्य दृष्टान्तता स्यात् करणादिलिङ्गे।
कार्ये च नः पर्यनुयोग एष सामान्यमात्रस्य तवापि सिद्धेः॥
प्रत्यक्षादिप्रमाणैर्यो व्यवहारः स चात्मना।
विना नित्येन नेत्येवं ततस्तस्य प्रकल्पनम्॥
यत्प्रत्यक्षं प्रत्यभिज्ञास्वभावं ज्ञात्रन्यच्चेत्तस्य न ह्यात्मलाभः।
ग्राह्यस्यैक्यं यद्वदर्थस्य तस्मात् सिद्ध्यत्येवं ग्राहकस्यापि पुंसः॥
अविनाभावग्रहणं लिङ्गज्ञानं तदन्वयस्मरणम्।
लिङ्गिप्रमितिरितीदं न बोद्धृभेदेऽनुमानं स्यात्॥
ज्ञाते वनेचरमुखादतिदेशवाक्ये दृष्टे मृगे विपिनवर्तिनि गोसदृक्षे।
तत्संज्ञतामितिफलं लभते प्रमातृभेदे न चेदमुपमानमितिप्रतिष्ठम्॥
वर्णानां श्रवणं क्रमेण समयस्मृत्या पदार्थग्रह—
स्तत्संस्कारजमन्त्यवर्णकलनाकाले तदालोचनम्।
आकाङ्क्षादिनिबन्धनान्वयकृतं वाक्यार्थसम्पिण्डनं
ज्ञात्रैकेन विनातिदुर्घटमतो नित्यात्मसिद्धिर्ध्रुवम्॥
मयेदं पूर्वेद्युर्विहितमिदमन्येद्युरपरम्।
विधातव्यञ्चेति श्रुतिकृषिवणिज्यादिषु जनाः॥
यदेवं चेष्टन्ते निपुणमनुसन्धाय तदमी।
ध्रुवं सर्वावस्थानुगतमवगच्छन्ति पुरुषम्॥
इत्यादि लक्षणमवादि तदेतदिच्छाद्वेषप्रयत्नसुखदुः खसमाश्रयत्वम्। तत्सङ्गिनं तदिह हेयतया व्यवस्येत् तद्विप्रयुक्तमधिगम्यतया मुमुक्षुः॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%कर्तृप्रयोज्यता खलु दृष्टेति। चेष्टा न दृष्टा नियता,% अपि तु कादाचित्की गन्त्र्याः रथादेश्च यथा। %सहजनिजकर्मविकृतौ% सहजं यन्निजं कर्म तिर्यग्गतिलक्षणं तस्य विकृतिः ऊर्ध्वम् अधश्च गतिः। %वृद्धिक्षतभग्नरोहणमिति।% क्षतं मांसस्य भङ्गेः, अस्योद्भेदो रोहणम्। वृद्धिश्च क्षतभग्नरोहणञ्च तत्। %चेतो% मनः। ज्ञानप्रयत्नादिमत% इति। करणं धर्मि ज्ञानप्रयत्नादिमदधिष्ठितकरणत्वाद् वाक्यादिवदित्यत्र वास्यादौ किमधिष्ठातृ विवक्षितम्, शरीरमन्यद्वा? शरीरस्याधिष्ठातृत्वे साध्यविकलत्वं साध्यविपरीतसाधनाद् विरुद्धश्च हेतुः; तदन्यस्त्वसिद्ध एवेति। %सामान्यमात्रस्य तवापि सिद्धेः% प्रयत्नादिमन्मात्राधिष्ठितत्वं भवताप्यभ्युपगमतमेवेति। एवञ्च विशेषविरुद्धोद्भावने सकलानुमानोच्छेदप्रसङ्ग इत्यसकृदुक्तम्।
%तत्संज्ञितामिति फलम्% अयं स गवय इति या संज्ञितामितिः संज्ञासंज्ञिसम्बन्धप्रतिपत्तिः सैव फलम्।
न्यायमञ्जरी
%अनित्यज्ञानानतिरिक्तात्मवादिबौद्धमतम्।%
अथो तथागताः प्राहुः किं पुंसा कल्पितेन वा।
ज्ञानमात्रेण पूर्वोक्तो व्यवहारोऽवकल्पते॥
प्राग्दर्शितानुसन्धानस्मरणादिक्रियाक्षमम्॥
ज्ञानं बौद्धगृहे तावत् कुतो नित्यं भविष्यति।
अन्येऽपि %सर्वे संस्काराः% क्षणिका इति गृह्यताम्॥
क्षणिकञ्चेष्यते कार्यं न क्वचित् किञ्चिदाश्रितम्।
स्वतन्त्रं ज्ञानमेवातो नान्यस्तेनानुमीयते॥
ज्ञानस्यैव प्रभेदोऽयमिच्छाद्वेषसुखादिकः।
न वस्त्वन्तरमित्येवं न ततोऽप्यन्यकल्पनम्॥
गुणत्वमपि नास्त्यस्य यतोऽधिष्ठानकल्पना।
न गुणव्यतिरिक्तश्च गुणी नामास्ति कश्चन॥
निराश्रयेषु विज्ञानस्कन्धेषु क्षणभङ्गिषु।
कथं स्मृत्यादि कार्यं वा परलोकोऽपि वा कथम्॥
सत्यपि वा परलोके कथमकृताभ्यागमकृतविप्रणाशौ पराक्रियेते, येन हि ज्ञानेन चैत्यवन्दनादि कर्म कृतं तस्य विनाशान्न ततफलोपभोगः, यस्य च फलोपभोगस्तेन न तत्कर्म कृतमिति। नैष दोषः। कार्यकारणभावस्य नियामकत्वादनादिप्रबन्धप्रवृत्तो हि ज्ञानानां हेतुफलभावप्रवाहः। एष एव च सन्तान इत्युच्यते। तत्कृतश्चायमनुसन्धानादिकार्यनियमः। सन्तानानादित्वादविच्छेदाच्च परलोकोऽपि न क्लिष्टकल्पनः। यद्यपि च सन्तत्यन्तरपतितज्ञानजन्यमपि सन्तत्यन्तरे ज्ञानं दृश्यते, तथापि न तादृशकार्याकारणभावेन सन्तानव्यवहारः, प्रतिसन्धानादिकार्यनिर्वाहो वा; किन्तूपादानरूपतद्विशेषणनिबन्धन एवैष निर्वहति नियमः। तस्मिन्नेव सति स्वरूपसन्तानविभागोऽवकल्पते।
स्मृतिवत् परिहर्तव्यौ कृतमाशाकृतागमौ।
तत्सन्तानोपसङ्क्रान्त्या कुसुमे बीजरागवत्॥
आह च,
यस्मिन्नेव च सन्तान आहिता कर्मवासना।
फलं तत्रैव बध्नाति कार्पासे रक्तता यथा॥
नित्यस्त्वात्माभ्युपगम्यमानो यदि सुखादिजन्मना विकृतिमनुभवति तदयं नित्य एव धर्मादिवदुक्तः स्यात्,निर्विकारत्वे तु सतासता वा सुखदुःखादिना कर्मफलेन कस्तस्य विशेष इति कर्मवैफल्यमेव। तदुक्तम्,
वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम्।
चर्मोपमश्चेत् सोऽनित्यः खतुल्यश्चेदसत्समः॥ इति।
तस्मादुत्सृज्यतामेष मूर्धाभिषिक्तः प्रथमो मोह आत्मग्रहो नाम। तन्निवृत्त्या चात्मीयग्रहोऽपि विरंस्यति अहमेव न किं ममेति। तदिदमहङ्कारममकारग्रन्थिप्रहाणेन नैरात्म्यदर्शनमेव निर्वाणद्वारमालम्ब्यताम्। तस्य स मार्गः क्षणिकपदार्थनिश्चयः। क्षणिकेषु हि सर्वभावेषु निराश्रयेषु ज्ञानस्याप्याश्रयविरहात् कुतस्त्यमात्मकल्पनमिति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%सर्वे संस्काराः% सर्वे ते सम्भूय हेतुभिः क्रियन्त इति संस्काराश्च ते। न %क्वचित् किञ्चिदाश्रितम्% क्षणिकत्वे सति आश्रयाश्रयिभावादिति भावः। %यतोऽधिष्ठानकल्पना।% गुणस्य निरधिष्ठानस्यानुपलम्भादिति। %निराश्रयेष्विति% विज्ञानान्येव कार्यकारणभावेन स्थितानि राशीक्रियमाणानि विज्ञानस्कन्ध इत्युच्यते।
%यद्यपि च सन्तत्यन्तरेति% तथाहि—समीहादिनाऽनुमीयमाना सन्तानान्तरबुद्धिरनुमेयज्ञानस्यालम्बनकारणतां प्रतिपद्यते; उपाध्यायज्ञानस्य च शिष्यज्ञानोत्पत्तौ कारणत्वदर्शनात्। %न तादृशकार्यकारणभावेनेति% अत्र सहकारित्वेनोपाध्यायादिज्ञानं जनकं नोपादानत्वेनेति भावः।
%तत्सन्तानोपसङ्क्रान्त्येति।% व्यवस्थितायां सन्ततौ विज्ञाने %आहिता कर्मवासना% कर्मजनितः संस्कारः, सा पुनः कालान्तरे सहकारिसन्निधानाद् लब्धपरिपाकवती तत्रैव सन्ताने फलं समुत्पादयति, न सन्तानान्तरे। यथा कस्याञ्चित् कर्पाससन्ततौ बीजावस्थायामाहिता रक्तता मध्ये विच्छिन्नापि कुतश्चिद्देशकालाद्यनुग्रहात् तत्कुसुमे आविर्भवति, नान्यत्र। एवं हेतुफलभावेन व्यवस्थितेषु क्षणेषु येन ज्ञानेनानुभूतं वस्तु तेनोत्तरज्ञाने शक्तिराहिता; तेनाप्यन्यत्र यावत् प्रणिधानादिवशात् प्रबोधे सति स्मृतिर्भवति तत्रैव, न सन्तानान्तरे। पूर्वानुभवजनितो हि संस्कारः संस्कारान्तरजननद्वारेण स्मृतिजनकं क्षणमुपस्कारसहितं जनयति तत्रैव सन्ताने बाचोयुक्तिः।
%वर्षातपाभ्या किं व्योम्नः% नैव ताभ्यां व्योम्नः किञ्चित् कर्तुं शक्यत इत्यर्थः।
%उत्सृज्यतामेष इति% यदुक्तम्—
सर्वासां दोषजातीनां जातिः सत्कायदर्शनात्।
साऽविद्या तत्र तत्स्नेहस्तस्माद् द्वेषादिसम्भवः॥
आत्मात्मीय—ध्रुवोच्छेद—नास्ति–हीनोच्चदृष्टयः।
अहेत्वमार्ग—तद्दृष्टिरेता हि पञ्च दृष्टयः॥
इत्यादि। %अहङ्कारममकारग्रन्थिप्रहाणेति% अहङ्कारममकाराविव दुर्मोचत्वाद् ग्रन्थी।
न्यायमञ्जरी
%प्रसङ्गात् क्षणिकपदार्थवादः%
कथं पुनरेष सकलप्रमातीतः क्षणिकपदार्थवादः शक्यते शाक्यैरभ्युपगन्तुम्?
न खलु क्षणभङ्गित्वे भावनामक्षजा मतिः।
न भूमिरनुमानस्य विकल्पनियतस्थितेः॥
स्मरणप्रत्यभिज्ञाने प्रत्युत स्थैर्यसाधके।
एवञ्च वञ्चनामात्रमाशुनाशित्वदेशना॥
उच्यते। प्रत्यक्षगम्यं क्षणिकत्वं भवति न भवत्येष करिष्यते विचारः। अनुमानन्तु सम्प्रत्येवमभिधीयते। सत्त्वात् क्षणिकाः पदार्था इति। सत्त्वतावदर्थक्रियाकारित्वमुच्यते। यथार्थमर्थक्रियासमर्थं यत् तदेव परमार्थसदिति। सत्प्रत्ययगम्यत्वे हि सत्त्वे केशोण्ड्रकादेरपि सत्त्वप्रसङ्गः। सत्तासम्बन्धे सत्त्वे सामान्यादीनां तदसम्बन्धादसत्त्वं स्यात्। अर्थक्रियासामर्थ्यसत्त्वानुवर्त्ती च लौकिको व्यवहारः। सत्यपि पुत्रे तत्कार्यादर्शनादपुत्रा वयमिति व्यपदिशन्ति लौकिकाः। पुत्रादन्यस्मिन्नपि तत्कार्यकारिणि सति सपुत्रा वयमिति च ब्रुवते। तस्मादर्थक्रियाकारित्वमेव सत्त्वम्। भवत्वेवम्। तस्य तु कुत्र कथं वा क्षणिकत्वेन व्याप्तिग्रहणम्? कुत्रेति यत् पृच्छसि यत्र रोचते महाभागाय घटे पटे वा गृह्यतां व्याप्तिः, किं साध्यधर्मिण्येव व्याप्तिग्रहणमुपपद्यते? धीमन्! कोऽत्र प्रमादः? न हि दैवनिर्मितः कश्चित् साध्यधर्मी नाम ग्रहीतुं शक्यते चेद् व्याप्तिर्यत्र तत्र सा गृह्यतामिति। तदुच्यते। भावानां हि सत्त्वं क्षण (क्रम) यौगपद्याभ्यां व्याप्तम्।
नित्येषु च पदार्थेषु व्यापकानुपलम्भनात्।
तद्व्याप्तमपि सत्त्वं हि बलात्तेभ्यो निवर्तते॥
न च राशिस्तृतीयोऽस्ति तेन गत्यन्तरक्षयात्।
क्षणिकानेव तान् भावान् सत्त्वं समवलम्बते॥
तच्च स्वग्राहकाद्बोधादसन्दिग्धं प्रतीयते।
ज्ञानोत्पत्त्यैव तद्धेतोरसामर्थ्ये पराकृते॥
असमर्थात् समुत्पादो दृश्यते न हि कस्यचित्।
शक्तशक्तप्रसक्तत्वे तत्र बोधोऽस्ति संशयः॥
अत एव च तज्ज्ञानं प्रमाणं जगदुः स्वतः।
स्वरूपे शक्तिजत्वे तु संशयादेरसम्भवात्॥
किमिदं रजतमुत शुक्तिकेति विशेषांशे संशेरतां नाम प्रमातारः, न तु सामर्थ्यं प्रति दोला काचित् सम्भवति, किमिदं ज्ञानं समर्थेन जनितमुत तदितरेणेत्यसमर्थस्य जनकत्वानुपपत्तेः, व्यापकानुपलम्भस्यापि व्याप्तिग्राहिणः स्वतः प्रामाण्यम्, संशयविपर्यययोस्तत्राप्यभावात्।
कथं पुनर्नित्येषु पदार्थेषु सत्त्वव्यापकयोः क्रमयौगपद्ययोरनुपलम्भः? उच्यते। नित्यो हि भावः क्रमेण वा कार्यं कुर्याद् यौगपद्येन वा, परस्परविरहस्थितात्मनां तृतीयप्रकारानुपपत्तेः।
न तावत् क्रमेण, स हि समर्थो वा असमर्थो वा? समर्थश्चेत् क्रमेण कथम्? समर्थस्य क्षेपायोगात्। असमर्थस्त्वसमर्थत्वादेव न करोति किञ्चिदिति तस्यापि किं क्रमेण? सहकार्यपेक्षया करोतीति चेत्, न, असमर्थस्य सहकारिणापि सामर्थ्याधानानुपपत्तेः, समर्थस्य स्वत एव सामर्थ्ये सति सहकारित्ववैयर्थ्यात्। सहकारिसन्निधानेऽपि चास्य स्वरूपेण वा कर्तृत्वं स्यात् पररूपेण वा? स्वरूपस्य च प्रागपि भावात् तस्य च कारकत्वात् किं सहकारिणा? पररूपेण कर्तृत्वे पूर्वरूपपरित्यागात् तद्रूपान्तरापत्तेश्च क्षणिकत्वमुपपद्यते। एवं सहकार्यपि समर्थासमर्थतया विकल्पनीयः। स्वतोऽपि सामर्थ्ये किं परोपकारणदैन्येन? असमर्थस्य तु सचिवः किमागत्यापि सर्वत्र कार्ये साचिव्यमुपगच्छेत्?
किञ्चित्करश्चेत्, वक्त्व्यं किं करोतीति। उपकारमिति चेत्, स उपक्रियमाणाद्भिन्नोऽभिन्नो वा? अभिन्नश्चेत्, स एव कृतः स्यात्; भेदे तस्य किमायातम्, यदसौ न पूर्ववदास्ते। कार्यादपि भेदाभेदाभ्यां चिन्त्य उपकारः। न कार्याद्भिन्नोऽनुपलम्भाद् द्वयकारणभावाच्च। कार्यादव्यतिरिक्ते तूपकारे सहकारिणा क्रियमाणे कार्यमेव तेन कृतं स्यादिति मूलकारणानर्थक्यम्।
ननु चैक एव भावः कारकः, स एव हि समर्थस्तदितरपदार्थसन्निधानन्तु स्वहेतुवशादुपनतमिति नोपालम्भमर्हति। नैतद्युक्तम्। एकस्य कदाचिदपि कारकत्वानुपलब्धेस्तत्सामर्थ्यस्य दुरधिगमत्वात्। एवं ह्यसौ समर्थ उच्यते यद्येकः कदाचित् कार्यमुत्पादयन् दृश्येत न तु विस्मृत्यापि दृश्यते। अथ कार्यस्यायं स्वभावो यदेकस्मान्नोत्पद्यते कारणन्तु शक्तमेवेति।
तदप्ययुक्तम्। कार्यस्वभावपराधीनत्वेन कारणस्य सामर्थ्यविरहप्रङ्गात्। एवं ह्यसौ समर्थः कथ्येत यदि कार्यस्वभावमनादृत्य स्वतन्त्र एक एव प्रसह्य कार्यं जनयेत्, न चैवं दृश्यत इति यत्किञ्चिदेतत्।
अथ समर्थमेव कारणं तस्य त्वयं स्वभावो यत् सहसैव कार्यं न करोति, कतिपयक्षणव्यवधाने तु करोतीति। यद्येवं न कदाचित् कार्योत्पादः स्यात्, कार्योत्पादसमयेऽपि कतिपयक्षणव्यवहितकार्यजननस्वभावानपायात्, पुनः कतिपयक्षणाद्यवेक्षणं स्यात्, तेष्वपि कतिपयेषु क्षणेष्वतिक्रान्तेषु स एवास्य स्वभावस्तदवस्थ इति पुनरप्येवं भवेदिति कदा नाम कार्यं जनयेत्? तदेवमादिदोषोपहतत्वान्न क्रमेण भावानामर्थक्रियासामर्थ्यम्।
नापि युगपत्, लोके तथा व्यवहारादर्शनात्। युगपत् कृतकस्यापि स्थिरस्य पुनरकरणे हेत्वभावः, पुनश्च कुर्वन्नपि भावः कार्यं न तदेव कुर्यात्, कृतस्य करणायोगात्, कार्यान्तरकरणे तु स एवायं पुनः क्रमपक्ष आपतेदित्येवं क्रमयौगपद्ये नित्येभ्यः पदार्थेभ्यो निवर्तेते, ते च निवर्तमाने सत्त्वस्य व्यापके इति सत्त्वं तेभ्य आदायैव निवर्तेते, तेभ्यः प्रच्युतं सत्त्वं गत्यन्तरविरहात् क्षणिकेष्वेव निविशते। अतो यद्यपि कार्ये हेतौ धूमाग्न्योरिव स्वभावहेतावपि वा क्वचिद् वृक्षत्वशिशपात्वयोरिव पूर्वमिह साध्यसाधनधर्मयोर्ग्रहणं धर्म्यन्तरे न वृत्तं तथापि साध्यधर्मिण्येव व्याप्तिग्रहणमुपपत्स्यते विपक्षव्यावृत्तेः सुपरिनिश्चितत्वात्। यैव च विपक्षाद् व्यावृत्तिः स एव चास्य हेतोः स्वसाध्येनान्वयः। न ह्येवं सम्भवति नित्येभ्य श्च व्यावृत्तं सत्त्वं क्षणिकेषु च न निष्ठमिति, तृतीयराश्यभावान्निराश्रयत्वानुपपत्तेश्च। तदेवं क्वचिद्धर्मिणि व्याप्तौ गृहीतायां यदि स एव कदाचित् परं प्रति दृष्टान्तोक्रियते, तदैवं नाम भवतु, को दोष इति।?
ननु व्यापकानुपलब्धेरनुमानमनुमानेन चानुमानस्य व्याप्तिग्रहणेऽनवस्था? नानवस्था, तावत्येव पर्यवसानात्। न हि व्यापकानुपलब्धेरनुमानान्तराद् व्याप्तिनिश्चयः, किन्तु प्रत्यक्षविकल्पादेव। तदनया व्याप्तिनिश्चयात् सिद्धमेतद् यत् सत् तत् क्षणिकमिति।
अन्ये तु नीत्यन्तरेण व्याप्तिनिश्चयमाचक्षते। विरुद्धयोरेकपरिच्छेदेऽन्यतरनिवृत्तिरवश्यम्भाविनी विरुद्धत्वादेव, विरुद्धे च सत्त्वनित्यत्वे पूर्वोक्तयैव नीत्या। सत्त्वञ्च विस्पष्टमुपलभ्यते भावानामिति तदुपलम्भान्नित्यत्वनिवृत्तिः, नित्यत्वनिवृत्तेरेतव क्षणिकत्वनिश्चयः, प्रकारान्तराभावात्।
ननु शीतोष्णयोः पृथगुपलम्भाद् विरोधनिश्चये युक्त एकग्रहणे द्वितीयव्युदासः, इह तु सत्त्वमेवोपलभ्यते न नित्यत्वमिति कथं तद्विरोधादितरव्यावृत्तिः? नैष दोषः। पृथगुभयानुपलम्भेऽपि सत्त्वबुद्ध्यैव नित्यत्वनिराससिद्धेः कथमन्यविषयबुद्धिरन्यमुदस्यति? उच्यते,
द्विचन्द्रदर्शनस्यैकशशभृद् बिम्बवेदिनी।
धीरतद्विषयत्वेऽपि तद्व्यवच्छेदकारिणी॥
सत्त्वं नानास्वभावत्वं स्थैर्यमेकस्वभावता।
तयोर्विरोधो युक्त्यापि वक्तुं न हि शक्यते॥
तस्मात् सत्त्वप्रतीतेरेव नित्यत्वनिवृत्तिः, सैव च क्षणिकत्वव्याप्तिरिति सिद्धं सत्त्वात् क्षणिकत्वम्।
अपि च सर्वदा कार्यानुत्पादात् कारकावस्था नूनमेकक्षणस्थायिनी भावानामुपगन्तव्या व्यापारावेशवशेन वा श्रोत्रियादिपक्षे, सहकार्यादिसन्निधानापादनेन वा नैयायिकादिपक्षे। कारकत्वं नाम वस्तुनो रूपमेकक्षणवृत्त्येव कार्योत्पत्त्यैव तत्कल्पनात्। ततः पूर्वमुत्तरकालं वा कारकायोगात्। कारकत्वमेव च परमार्थसत् अकारकस्य ज्ञानजनकत्वाभावादस्तित्वमपि दुर्वचम्। अतश्च सर्ववादिभिरेव प्रायेण क्षणिकत्वमिदमभ्युपगतमिति यश एव केवलं सौगताः पीतवन्तः। तस्मात् सिद्धं यत् कारकं यच्च सत्त्वत्क्षणिकमिति।
अतश्च क्षणभङ्गिनो भावाः प्रलयं प्रति हेतुनिरपेक्षत्वात्। भावो हि स्वतो नश्वरात्मा भवेत्तद्विपरीतो वा,
विनश्वरस्वभावेऽस्मिन् कृतं प्रलयहेतुभिः।
अनश्वरस्वभावेऽपि कृतं प्रलयहेतुभिः॥
क्व तर्हि मुद्गरादीनां व्यापारः? विजातीयसन्ततिन्मनीति ब्रूमः। अभावस्तु तज्जन्यो न सम्भवत्येव प्रमाणविरुद्धत्वात्। भावो हि स्वरूपेण न भवति न त्वभावोऽपि भवतीति। स्वरूपं भावात्मकञ्चेत् सर्वदैव भवेदेव, न न भवेत्। अभावात्मकन्तु तदेव न भवेत् परापेक्षाया अभावात्। न हि मुद्गरादिकारणान्तरसापेक्षः कुम्भादेर्विनाशो भवितुमर्हत्युत्पत्ताविव नाशेऽपि समर्थासमर्थभिन्नाभिन्नोपकारिसहकार्यादिविकल्पकलापानपायात्।
अथ कतिपयक्षणव्यवहितविनाशस्वभावो भाव इष्यते तर्हि प्राक्तननयेन कदाचिदपि न विनश्येत्। विनाशसमयेऽपि तत्स्वभावानपायेन पुनः कतिपयक्षणापेक्षणप्रसङ्गात्। अपि च यदापि तेन नष्टव्यं तदाप्यस्य न स्वरूपादतिरिक्तः कश्चन विनाशहेतुरवतरति। तच्च स्वरूपाद्यपेक्षणे तस्य तादृशमेवेति तदैव वा नश्येन्न कदाचिद्वा।
अथ मृत्योरपक्रान्तस्तस्य चेत् प्रथमः क्षणः।
अविनाशिस्वभावत्वादास्तां युगशतान्यपि॥
न चैवमभ्युपगम्यते। तस्मादात्मलाभाविनाभावो भावानां विनाश इति सिद्धः क्षणभङ्गः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%न भूमिरनुमानस्येति% यत्र धूमस्तत्राग्निरिति तदपि नाभावात्मके विकल्पे नियता प्रतिबद्धा स्थितिर्यस्य।
%तच्च स्वग्राहकाद् बोधादिति% य एव पदार्थस्य ग्राहको बोधः स एव तत्सत्त्वनिश्चायकः। %प्रमाणं जगदुः स्वतः% इति। यदाहुः,
विषयाकारभेदाच्च धियोऽधिगमभेदतः।
भावादेवास्य तद्भावे स्वरूपस्य स्वतो गतिः॥
%विशेषांशे संशेरतां नाम% जनाः, न पुनः सत्त्वे संशेरते, असतो ज्ञानजनकत्वाभावात्। %संशयविपर्यययोस्तत्राप्यभावादिति% यथा वृक्षत्वस्य व्यापकस्यानुपलम्भाद् व्याप्यस्य शिंशपात्वस्याभावे न सन्देहस्तथा क्रमयौगपद्यलक्षणस्य व्यापकस्याक्षणिकेऽनुपलम्भात् तद्व्याप्तस्य सत्त्वस्याभावो निः संदेहः, अतः सत्त्वं तेभ्यो निवर्तमानं क्षणिकेष्वेवावतिष्ठत इति व्यापकानुपलम्भेन सत्त्वक्षणिकत्वयोर्व्याप्तिग्रहः।
%परस्परव्यवच्छेदव्यवस्थितात्मनां तृतीयप्रकारानुपपत्तेरिति% यथा नित्यानित्यादयः सदसदादयश्च परस्परपरिहारव्यवस्थितात्मानस्तथा क्रमोऽप्यक्रमव्यवच्छेदेनैव व्यवस्थितः। क्रमव्यवस्थापकेन प्रमाणेन ततोऽन्योऽक्रमत्वेन व्यवस्थाप्यते। अक्रमश्च यौगपद्यम्। सोऽपि प्रमाणादवगम्यमानः क्रमव्यवच्छेदेनै गम्यते नीलमिवानीलव्यवच्छेदेन। यदा तु तृतीयो राशिः क्रमाक्रमरूपोऽभ्युपेयते तदैकस्य विरुद्धरूपद्वययोगिता युगपदिति।
%कार्यादपि भेदाभेदाभ्यामिति% किं कार्यमेवोपकार उत तदन्य इत्यर्थः।
%लोके तथा व्यवहारादर्शनादिति% स्नान–भोजन–शयनादीनां युगपत् क्रियाया अदृष्टेरित्यर्थः। %तृतीयराश्यभावादिति% क्षणिकाक्षणिकापराया अभावात्।
%ननु व्यापकानुपलब्धेरनुमानमिति।% तथाहि यथा सत्त्वं क्षणिकत्वसाधने व्याप्तिग्रहणमपेक्षते, अगृहीतव्याप्तिकस्य हेतोरगमकत्वात्; एवं व्यापकानुपलब्धे रप्यनुमानत्वाद् व्याप्तिग्रहणमवश्यापेक्षणीयम्, अनपेक्षणे वा क्षणिकत्वानुमानस्यापि न स्यादपेक्षणम्, अनुमानत्वाविशेषात्। %अनुमानान्तराद् व्याप्तिनिश्चय% इति। ययोर्धर्मयोरविनाभावग्रहणाद् व्यापकानुपलब्धिः प्रवर्तते तयोर्नानुमानादविनाभावनिश्चयः, अपि तु प्रत्यक्षात्। तथाहि, येनैव दर्शनपृष्ठभाविना निश्चयेन `इदमस्मादत्र’ इति निश्चीयते तेनैव तदपि व्यवस्थाप्यते `जनकस्य जन्यं प्रत्युत्पत्तौ सामर्थ्यं क्रमेण यौगपद्येन वा’ इति।
%नित्यत्वनिवृत्तिरेव% स्थिरत्वनिवृत्तिरेव।
%न नित्यत्वमिति।% भवद्दर्शनेऽक्षणिकस्य सत्त्वेन दर्शनाभावात्।
%अतद्विषयत्वेऽपि% द्विचन्द्राविषयत्वेऽपि % सत्त्वं नानास्वभावत्वम्% अर्थक्रियाभेदादेव, अर्थक्रियाकारित्वलक्षणस्य सत्त्वस्य भेदसिद्धेः। तस्यार्थक्रियाकारित्वस्य स्वभावस्याभेदे वा क्रियाणामभेदप्रसङ्गात्। %तयोर्विरोधो युक्त्याप्यनुमानेनापि% विरुद्धे सत्त्वस्थिरत्वे धर्मिर्णी सह न भवत इति साध्यम्, विरुद्धत्वाच्छीतोष्णादिवत्।
%व्यापारावेशवशेन वेति% स्वरूपाविशेषेऽपि कदाचित् कार्यजननात्, प्राक् कार्योत्पत्तेर्व्यापारावेशः पदार्थस्यानुमानतो निश्चेय इति प्रागेव निर्णीतम्।
न्यायमञ्जरी
%प्रत्यभिज्ञा न क्षणिकपदार्थवादविरोधिनी%
यदपि क्षणभङ्गसाधनस्य पदार्थस्यैर्यावसायि प्रत्यभिज्ञानमनुमानस्य बाधकमभिधीयते, तदपि न पेशलम्, अशिथिलप्रतिबन्धहेतौ बाधकस्य निरवकाशत्वात्। उक्तं हि, `बाधाविनाभावयोर्विरोधान्नैकत्र समावेशः’ इति। अनुष्णस्तेजोऽवयवी कृतकत्वादित्यत्रापि प्रतिबन्धवैधुर्यमेव साध्यसिद्धिं विरुणद्धि नाध्यक्षबाध्यत्वम्। अथ वा किमनेन निर्बन्धनेन?
अग्निशैत्यानुमानादौ युक्तं प्रत्यक्षबाधनम्।
तस्य ह्यनन्यथासिद्धेरिह त्वेवं न युज्यते॥
प्रत्यभिज्ञायाः क्षणभङ्गपङेऽपि सदृशपरापरक्षणगणप्रसवप्रतारितमतीनामुपलभ्यमानत्वात्। एवञ्च सति,
यदि हि व्याप्तिशैथिल्यं सिद्धं किं प्रत्यभिज्ञया।
अथ न व्याप्तिशैथिल्यं सिद्धं किं प्रत्यभिज्ञया॥
न च प्रत्यभिज्ञैव व्याप्तिविप्लवकारणमितरेतराश्रयप्रसङ्गात्। व्याप्तिविप्लवेनानुमाने न्यग्भूते प्रत्यभिज्ञा प्रमाणं भवति। तस्याञ्च प्रमाणीभूतायां व्याप्तिवैधुर्यादनुमानाप्रामाण्यम्। अनुमानप्रामाण्येऽपि समानो दोष इति चेन्न, तस्य प्रतिबन्धमहिम्नैव प्रामाण्यसिद्धेः। न हि तस्य प्रतिभिज्ञादौर्बल्यनिबन्धनं प्रामाण्यम्।
न्यायमञ्जरी
%प्रत्यभिज्ञास्वरूपविचारः%
अपि च केयं प्रत्यभिज्ञा नामेति नैपुण्येन निरूपयितुमर्हन्त्यत्रभवन्तः। किं स एवायं कुम्भ इत्येकं ज्ञानमुत द्वे एते स्मृत्यनुभवज्ञाने? यद्येकं तदस्य कारणं वाच्यं यत उत्पद्यते? नेन्द्रियं स इत्यस्मिन्नंशे तस्यासामर्थ्यात्, न संस्कारस्तस्याप्ययमित्यंशे कौशलाभावात्।
उभाभ्यां न च सम्भूय तज्ज्ञानमुपजन्यते।
पृथक् पृथक् स्वकार्ये हि निर्ज्ञातं कौशलं तयोः॥
संस्कारस्य स्मृतिरेव कार्यमिन्द्रियस्यानुभव एव। सम्भूय न ताभ्यामेकं कार्यमारभ्यते। न हि मृत्पिण्डतन्तुनिर्वर्त्यमेकं घटपटरूपं कार्यमुपलब्धम्। न चेन्द्रियं केवलमीदृशि कार्ये समर्थम्। यथासन्निहिताकारमात्रग्राह्ये विचारकमिन्द्रियं प्रत्यभिज्ञानमातनोतीति विस्मयः! तस्माद् द्वे एते ज्ञाने, स इति स्मरणमयमित्यनुभवः।
स्मृतिः स्मर्तव्यविषया ग्रहणं ग्राह्यगोचरम्।
न तदैक्यपरामर्शि दृश्यते प्रत्ययान्तरम्॥
यथा निरन्तरोत्पन्ने घटज्ञानपटस्मृती।
न तुल्यविषये तद्वदेते अपि भविष्यतः॥
यद्वा भवतु नामेदमेकमेव हि वेदनम्।
तथापि कीदृशं वस्तु स्पृशतीति परीक्ष्यताम्॥
अतीतकालयुक्तञ्चेत् स्मरणान्न विशिष्यते।
अनागतविशिष्टञ्चेत् सङ्कल्पप्रायमेव तत्॥
वर्तमानैकनिष्ठञ्चेत् स्थिरत्वं तर्हि सुस्थितम्।
कालत्रयपरीतञ्चेद्विरोधात्तत्तु दुर्लभम्॥
परस्परपरित्यागव्यवस्थितनिजात्मनाम्।
एकत्र न समावेशः कथञ्चिदुपपद्यते॥
यथा हि,
नीलाभावाविनाभूतलौहिताद्यपसारणम्।
कुर्वता नीलबोधोन नीलं भवति निश्चितम्॥
तद्वदिहापि,
तदभावाविनाभूतस्वस्वकालाद्यपोहनम्।
वेदयद् वर्तमानार्थज्ञानं तद्ग्राहिता भवेत्॥
एतेन पूर्वज्ञानविशिष्टार्थग्राहित्वं प्रत्यभिज्ञायाः प्रत्युक्तम्। पूर्वज्ञानस्येदानीमसत्त्वेन विशेषणत्वानुपपत्तेः, अगृहीतविशेषणायाश्च विशिष्टबुद्धेरभावात्, अर्थोपजननापायरहितवस्तुस्वरूपग्राहिणी प्रत्यभिज्ञेत्युच्यते।
तदप्ययुक्तम्, वर्तमानैकनिष्ठतायाः प्रदर्शितत्वात्। भावानाञ्च विनाशजन्मनोर्वर्तमानो वा कालः स्यादन्यो वा? तदन्यस्तावद् ग्रहीतुमशक्य इत्युक्तम्। वर्तमाने तु तदुत्पादविनाशकाले कथ्यमाने तद्ग्रहणात्तदविनाभूतौ भावानामुत्पादविनाशावपि गृहीतौ स्याताम्।
सेयं तपस्विनी स्थैर्यं प्रसाधयितुमागता।
प्रत्यभिज्ञा विनाशित्वं प्रतिष्ठाप्य गमिष्यति॥
अपि च लूनपुनर्जातकेशनखादिषु सादृश्यदृश्यमानप्रत्यभिज्ञा स्तम्भादिष्वपि तद्वदेव न स्थिरतामुपपादयेत्। तत्र बाधकयोगादिति चेदिहाप्युक्त एव बाधकः परस्परविरोधिभूतादिकालसमावेशस्यैकत्र दुर्घटत्वादिति। तस्मात् प्रत्यभिज्ञाप्रत्ययस्य बाधकस्याभावात् सिद्धमानुमानिकं भावानां क्षणिकत्वम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%अविचारकमिति।% अर्थसन्निधिमात्रेण ज्ञानस्योत्पत्तेरविचारकत्वम्। तदुक्तम् `सन्निहितविषयबलोत्पत्तेरविचारकत्वम्’ इति।
%सङ्कल्पप्रायमेव तदिति% सङ्कल्पस्यानागतविषयत्वेन दर्शनात् तत्प्रायता। %स्थिरत्वं तर्हि सुस्थितम्।% एतदेव क्षणिकत्वं यतः।
%यथाहि नीलाभावोति% नीलपरिच्छेदकं हि प्रमाणं तद्विरुद्धस्य नीलाभावस्येव तदविनाभूतानां पीतादीनामपि व्यवच्छेदं करोत्येव। %तदभावाविनाभूतेति% वर्तमानाभावाविनाभूता ये भूतादय इति।
न्यायमञ्जरी
%मतान्तरेण पदार्थानां क्षणिकत्वं प्रत्यक्षसिद्धम्%
अपरे पुनः प्रत्यक्षगम्यमेव क्षणिकत्वमाचक्षते।
नातीतानागतौ कालौ विचारयति चाक्षुषम्।
वर्तमानक्षणश्चैक इति तन्निष्ठमेव तत्॥
यदि वर्तमानातिरिक्तग्राहि प्रत्यक्षमिष्यते, तद्वक्तव्यं किं पूर्वं विज्ञानमनागतकालावच्छिन्नपदार्थग्रहणनिपुणम्। अथोत्तरज्ञानमतीतकालालिङ्गितभावाकलनकुशलमिति? तत्राद्यज्ञानसमुपजननसमये तत्तत्क्षणातिरिक्तभाविकालासन्निधानान्न तेन तद्ग्रहणम्, अनागतग्रहणे वा कथमागामिजन्मग्रहणं न स्यादुत्तरज्ञानप्रसवसमयेऽपि भूतकालस्य भूतत्वादेव न सन्निधानमसन्निहितभूतकालग्रहणे वा पूर्वजन्मग्रहणप्रसङ्गः।
अथ वर्तमानानुप्रवेशेन भूतभाविनोः कालयोर्ग्रहणं मन्यसे तत्र वर्तमानानुप्रवेशाद् वर्तमान एव गृहीतः स्यात्, न भूतो भावी वा। अथ न कश्चिदेव कालः क्वचिद् गृह्यते, अर्थ एव प्रकाश्यः केवल इति।
तदयुक्तम्, तदविच्छिन्नभावप्रतिभासस्य भवद्भिरेवाभ्युपगमात्।
ननु कोऽयं कालो नाम शाक्यानाम्? न कश्चिद् वास्तवः। किं काल्पनिक एव व्यवहारः?
सर्वथेन्द्रियजं ज्ञानं वर्तमानैकगोचरम्।
पूर्वापरदशास्पर्शकौशलं नावलम्बते॥
वर्तमानः कियान् काल एक एव क्षणस्ततः।
पूर्वः क्षणोऽतीततां स्पृशत्युत्तरस्त्वनागतताम्॥
ननु पचति पठतीति वर्तमानोऽपि वितत एव कालः प्रतीयते।
नैतत् सारस्।
न ह्यस्ति कालावयवी नानाक्षणगणात्मकः।
वर्तमानक्षणो दीर्घ इति बालिशभाषितम्॥
क्षणसमुदायात्मकत्वन्तु नानारूपत्वमेव तस्य भवेत्, अतीतानागतक्षणात् पूर्वमूर्ध्वं वा तदस्तित्वान्नास्तित्वमपि न गृहीतमेवेति कथं क्षणिकत्वम्? क एवमाह न गृहीतं नास्तित्वमनुपलब्ध एव नास्तित्वव्यवहारात्। उपलम्भो हि भवेत् सत्ताऽनुपलम्भाच्च नास्तित्वम्। दर्शनादर्शने एव सदसत्त्वयोर्लक्षणम्। तस्मात् क्षणान्तरं तदनुपलम्भाद् नास्तित्वमेवेत्येव क्षणिकत्वग्राहि प्रत्यक्षमिति स्थितम्।
ननु च प्रत्यभिज्ञातो दीर्घकालत्वनिश्चयः।
किमद्यापि न मुक्तोऽसि तत्प्रामाण्यकुतृष्णया॥
परीक्षितं हि तस्याः स्वरूपं कार्यं कारणञ्च।
न शक्नोतीव सा स्थैर्यमुपपादयितुं निजम्॥
न पूर्वो नोत्तरं ज्ञानं ग्राहि कालान्तरस्थिते।
तदिदं बोध्यमानोऽपि रागान्धो नावबुद्ध्यते॥
पूर्वं हि ज्ञानं तत्कालमेव उत्तरमपि स्वकालमेव वस्तु गृह्णाति, मध्ये तु नास्त्येव। ग्रहणमग्रहणमेव मध्यमाहुः।
नन्वविच्छिन्नदृष्टीनां न हि त्रुट्यदवस्थितिः।
स्तम्भादिवभातीति कथमेतस्य भङ्गिताः॥
नैतदेवम्। तत्राप्येकक्षणवृत्तित्वाज्ज्ञानस्य, क्षणान्तरे तु ज्ञानमेव नास्ति। कस्य विच्छिन्नसत्ता, कस्यात्रुटितसत्ता, कस्य वा बोधकम्?
नन्वस्त्येव क्षणान्तरे तु ज्ञानमविच्छिन्नत्वाद् दृष्टेरिति चेत्। मैवम्, बुद्धेरदीर्घकालत्वाज्ज्ञानान्तरोत्पादन एवासावित्यवधारयत्वायुष्मान्।
तस्माद्यथैव सन्तानवृत्त्या ज्ञानक्षणोदयः।
तथैवोत्पाद्यतामेष स्तम्भक्षणपरम्परा॥
सोऽयमविच्छिन्नदृष्टीनामत्रुटितपदार्थंसत्ताग्रहणाभिमान इत्थमुत्थितः॥
स्थिरेणापि न बोधेन दीर्घग्राहस्थितिग्रहः।
न ह्यसन्निहितग्राहि प्रत्यक्षमिति वर्णितम्॥
तत्काले सन्निधिर्नास्ति क्षणयोर्भूतभाविनोः।
वर्तमानक्षणश्चैको न दीर्घत्वं प्रपद्यते॥
तेन बुद्धिस्थिरत्वेऽपि स्थैर्यमर्थस्य दुर्वचम्।
न त्वनन्तरया नीत्या तस्या अपि चिरं स्थितिः॥
सापि हि स्वसंवेद्यत्वादेकक्षणपरीतैव प्रकाशत इति तस्मात् क्षणिकग्राहि प्रत्यक्षमिति सिद्धम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%वर्तमानैकनिष्ठताया पूर्वं प्रदर्शितत्वादिति% अतीतविषयत्वे स्मृतितुल्यता, अनागतविषयत्वे सङ्कल्पप्रायतेत्यादि वदद्भिर्वर्तमानैकनिष्ठता प्रदर्शिता।
%अथ वर्तमानानुप्रवेशेनेति।% अननुप्रवेशेऽसन्निधानाद् यदि अग्रहणं तर्हि अनुप्रवेशोऽस्त्वित्यभिप्रायः। %अर्थ एव केवलः प्रकाशत% इति। अर्थश्चानेकविषय एकोऽर्थ इत्यवतिष्ठते, न `पूर्वप्रतिभात, इदानीं च प्रतिभासते’ इति कालविशिष्टत्वेन। न च प्रतिपत्ति भेदेनैकत्वाभिमतस्य चन्द्रमसोऽनेकत्वमनेकदर्शनविषयत्वेऽप्यस्तीत्याशयः।
%न कश्चिद् वास्तव% इति। वास्तवत्वे हि वस्तुस्वलक्षणवन्निर्विकल्पकेन प्रतीयेत। न च प्रतीयते। अतो निर्विकल्पोत्तरकालभाविसामान्यादिविकल्पवत् तद्विकल्पोत्पत्तेरवस्तुत्वम्। काल्पनिकेनापि च तेन व्यवहारः सिद्ध्यत्येव सन्तानादिनेव।
%एक एव क्षणस्तत% इति। एकस्मात् क्षणात्।
%पूर्ववितत एककालः प्रतीयत% इति। बहूनां क्षणानामस्मिन् प्रत्यये विश्रयणादीनां क्रियारूपाणां प्रतिभासनात्। %नैतत् सारमिति।% तत्र हि एकफलोत्पादकत्वेन वर्तमानक्षणसहचरिताः पूर्वापरभाविनः क्षणा वर्तमानतया व्यपदिश्यन्ते साक्षादवर्तमाना अपि।
%क्षणो दीर्घ% इति। क्षणो हि परमापकृष्टा कालमात्रा भण्यते। स कथं दीर्घः? दीर्घश्चेत् क्षणः कथमिति।
%उपलम्भ एव भावानां सत्त्वमिति% यस्मिन् हि सति सदिति प्रत्ययस्तदेव सत्त्वम्। स च प्रत्ययः सदित्युपलम्भे सति भवति, अत उपलम्भ एव सत्त्वम्। एवमनुपलम्भोऽप्यसत्त्वमिति।
%बुद्धेरदीर्घकालत्वात्% भवद्भिरप्याशुतरविनाशित्वाभ्युपगमाद् बुद्धेः।
%स्थिरेणापि न बोधेनेति% तेनापि वर्तमानकालस्थितिरिव शक्या ग्रहीतुं न कालान्तरस्थितिः। कालान्तरस्थितिर्हि तेन गृह्यमाणा तदनुप्रवेशेनान्यथा वा गृह्येत। तदनुप्रवेशेन ग्रहणे एकक्षणग्रहणमेव। अनुप्रविष्टक्षणस्थितेर्न क्षणान्तरस्थितिः प्रतिभातीति नैकताग्रहः। न हि सकृदनेकक्षणस्थायिताग्रह इति।
न्यायमञ्जरी
%पदार्थानां क्षणिकत्वेऽनुमानमबाधकम्%
ननु स्थैर्यं पदार्थानामनुमानात् प्रतीयते।
अन्वयव्यतिरेकाभ्यां मुद्गरादिर्विनाशकः॥
निश्चीयते घटादीनां तेन पूर्वं तदागमात्।
विनाशरहितत्वेन सिद्ध्यत्येषामवस्थितिः॥
नानुपलम्भव्यतिरिक्तस्य हेतुमतो विनाशस्यानुपपत्तेरुपलम्भ एवास्तित्वम्, भावानामनुपलम्भाच्च नास्तित्वम्। न च घटानुपलब्धिर्मुद्गरादिकार्या, ततः प्रागपि भावात्।
ननु दृशानुपलब्धेरसत्त्वनिश्चयः, स च कपालकाल एव घटस्यावकल्पते मध्ये तु दर्शनमन्यथापि स्यादिति नादर्शनमात्रमेव नास्तित्वम्? मैवम्। त्वदभिमते मध्येऽपि दृश्यस्यैव घटस्यानुपलम्भनम्, तद्वा कपालकालेऽपि न सर्वेषामिति का प्रमा? यदहं न वेद्मि, तत्परोऽपि नैवं वेत्ति चेत्, तर्हि मध्येऽपि घटं सर्व एव पश्येयुरिति नास्त्येवासौ, कपालीभूतघटवत्।
अपि च,
यदि यत्त्वं न जानासि तदन्योऽपि न गम्यते।
स्वजायाजघनस्पर्शसुखमप्यधिगच्छतु॥
तदलं ते परगृहवृत्तान्तचिन्तया। यत्पश्यसि तदस्तीति जानीहि, य्न्न पश्यसि तन्नास्तीति विद्धि। एवमनुलम्भ एव भावानां विनाश इति न तस्य मुद्गरादिकार्यत्वम्। अतोऽनुमानमपि न स्थैर्यसाधकम्। तस्माद्यथोक्तक्रमेण प्रत्यक्षमेव क्षणिकपदार्थपरिच्छेत्रिति स्थितम्।
स्मरणप्रत्यभिज्ञानस्वकर्मफलभोक्तृता।
क्षणिकत्वेऽपि कथिता कार्यकारणभावतः।
तदेवमुपपन्नेयं गृह्यतां क्षणभङ्गिता।
त्यज्यतां दीर्घसंसारकारिणः स्थिरताग्रहः॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%त्वदभिमते मध्येऽपीति।% यत्र त्वं न पश्यसि। %न सर्वेषाम षाम्% तवैव तु केवलस्य। (1) %एष मा ग्रहीदिति% एषोऽन्यः।
(1.अस्य प्रतीकस्य मूलं न लभ्यते)
%स्मरणप्रत्यभिज्ञेति% तुल्येऽपि भेदे कार्यकारणभावेन नियतत्वात् तत्रैव सन्ताने स्मरणादिकार्यं न सन्तानान्तर इति। %दीर्घसंसारकारणम्,% आस्थानिवृत्त्यभावात्।
न्यायमञ्जरी
%भावानां क्षणभङ्गित्वखण्डनम्%
अत्राभिधीयते नैव प्रमाणद्वयमप्यदः।
भावानां क्षणभङ्गित्वमुपपादयितुं क्षमम्॥
अर्थक्रियासमर्थत्वं सत्त्वं यत्तावदुच्यते।
तदसत्कूटहेमादि व्यभिचारावधारणात्॥
किन्त्वबाधितसद्बुद्धिगम्यता सत्त्वमिष्यते।
सदसद्व्यपदेशस्तु पुत्रादावौपचारिकः॥
एवञ्च बाधकाभावपर्येषणपरायणम्।
न सत्त्वग्राहकं ज्ञा(मा) नं स्वतः प्रामाण्यमर्हति॥
सत्त्वे च संशयोऽप्यस्ति सकलप्राणिसाक्षिकः।
उपलब्धिव्यवस्थात इत्येवं वर्णयिष्यते॥
अर्थक्रियासमर्थस्य त्वदुक्त सत्त्वमस्तु वा।
तदपि व्याप्तिशून्यत्वान्न हेतुर्गन्धवत्त्ववत्॥
क्षणिकस्यापि भावस्य सत्त्वं नास्त्येवसो।डपि हि।
क्रमेण युगपद्वापि न कार्यकरणे क्षमः॥
क्षणिकस्य क्रमः कीदृग्युगपत्करणेषु नः।
एकवस्तुक्रमस्यापि रूपभेदः प्रसज्यते॥
कार्याण्येकेन रूपेण भिन्नानि जनयेत् कथम्।
रूपभेदविरोधात्तु वस्तुनो नास्तिता भवेत्॥
स्थिते च वस्तुसद्भावे क्षणिकत्वं परीक्ष्यते।
तदसत्त्वे तु तच्चिन्ता व्योम्नि रोमन्थकेलिवत्॥
ज्ञाने क्षणिकचिन्ता चेत् किं तस्यापि पराकृतौ।
वदन्त्येतानि शास्त्राणि ज्ञेयाभावे च तत्कुतः॥
अपि च क्षणिकत्वपक्षे किमेकस्मादेकोत्पादः, उत बहुभ्य एकोत्पत्तिः। अथैकस्मादनेकनिष्पत्तिराहो बहुभ्यो बहुसम्भव इति परीक्षणीयम्। न तावदेकस्मादेकोत्पत्तिरलौकिकत्वात्, एकस्मादप्यग्नेर्भस्मधूमेन्धनविकाराद्यनेककार्योत्पाददर्शनात् कार्यसिद्धये च सर्वसहकारिसन्निधापनप्रयत्नदर्शनात् `नैकं किञ्चिदेकं जनकम्’ इति ग्रन्थविरोधाच्च। एतेन तृतीयः पक्षो निरस्तः। एकस्मादनेकनिष्पत्तिरिति, एकश्च नैकं जनयन् क्रमेण जनयेद युगपद्वा? न क्रमेण, स्थैर्यप्रङ्गात्; न युगपद् अदृष्टत्वात्। एकस्य चानेककार्यकरणशक्तियोगे तद्भेदान्नानात्वप्रसङ्गः।
विरुद्धधर्मयोगेऽपि यदि चैकत्वमिष्यते।
अनेकक्षणयोगेऽपि भाव एकोऽभ्युपेयताम्॥
अथ बहुब्य एकगोत्पादनमिति पक्ष आश्रीयते, तद् वक्तव्यं किमेतदेकं कार्यं कैर्वा बहुभिरुत्पाद्यत इति? न ह्यस्माकमिव भवतामनेकावयवनिवहनिर्मितमवयविस्वरूपं कार्यमस्ति, सञ्चितैः सञ्चिता एव जन्यन्त इत्यभ्युपगमात्, यदि चानेककार्यमेकमुच्यते तदस्य कारणभेदोपनतस्वभावनानात्वयोगादेकत्वमेव तावद्विरुध्यते, अन्यथात्वे हि न कारणाधीनं भावानां रूपमित्याकस्मिकत्वप्रसङ्गः। कारणभेदोपपादितनानात्वस्यापि यदि वैकत्वं तदस्य नानाकालयोगिनोऽप्येकत्वं स्यात्। असत्त्वं भिन्नस्वभावस्य वस्तुन इति पूर्त्रवद्वक्तव्यम्, लोचनालोकमनस्कारादिकारणभेदात्। कार्यमप्येकरूपं ज्ञानमिति चेत्, न, तस्य भवन्मते विषयाकारग्राहकत्वस्वसंवेदनरूपभेदात्। निराकारज्ञानवादिनो हि बौद्धस्य प्रतिकर्मव्यवस्थानमिष्यते जनकस्य कर्मणः प्रतिभासे स्थैर्यप्रसङ्गादेकसामग्र्यधीनत्वपक्षस्यासम्भवात्, सम्भवेऽपि ग्राह्यनिमित्तत्वाभावादिति।
अथोच्यते। किमनभ्युपगतपक्षोपमर्दनेन बहुभ्यो बहुसम्भव इत्येष एव नः पक्षः, सन्तानवृत्त्या वर्तमानपूर्वसामग्रीसारूप्यमुत्तरसामग्रीमारभते विजातीयकरणानुप्रवेशे तु विरूपमिति।
अथ केयं सामग्री नाम? न समग्रेभ्यो भिन्नात् पृथगनुपलम्भाद् अव्यतिरेके तु समग्र एव सामग्री। तत्र पूर्वसमुदायेनोत्तरसमुदायारम्भे तदन्तर्गतं समुदायिनमेकमेव एक उत्पादयेदेकं वा सम्भूयेति। तत्राद्ये पक्षे सैवेयमेकस्मादेकोत्पत्तिरुक्ता स्यात्, सा च प्रतिषिद्धा।
अथैकैकफलसमुदायिनिष्पत्तौ सर्वसमुदायिनं व्यापारयेत्, क्रमेण वा यौगपद्येन वा? तत्र क्रमपक्षे क्षणिकत्वहानिः, ये हि तत्र पञ्चदश समुदायिनः क्षणं तत्र वर्तन्ते, ते तत एकं तमुत्पाद्य पुनरपरमारभेरन् पुनरन्यमिति तावत्कालप्रतीक्षणादक्षणिकत्वम्।
अथ युगपदेव सर्वनिष्पत्तौ सर्वे व्याप्रियन्ते, तर्हि निकुरुम्बरूपादेव कारणादुत्पन्नमिति कारणविवेकनियमाभावाद्रूपरसादिप्रविभागो न स्यात्। इदं रूपमेष रस इति कथं निश्चीयते। चित्रमुत्पादितमिति सर्वं रूपं स्यात् सर्वो रसः, यद्वा न रूपं न रसोऽन्यदेव किञ्चिद्वस्त्वन्तरं स्यात्।
अथोच्यते। यद्यपि रूपरसादिसामग्री तत्सामग्र्या एव जनिका तथापि क्वचित्किञ्चिदुपादानकारणमिति तत्सहकारिकारणम्, तत्र रूपक्षणनिष्पत्तौ रूपस्योपादनकारणत्वादितरेषाञ्च सहकारिकारणत्वान्न पदार्थसङ्कर इति। एतदयुक्तं सर्वथा कारणत्वानपायात्। अपि च येन रूपेण रूपस्य रूपं प्रत्युपादानकारणता तेनैव यदि रसं प्रति सहकारिकारणता तदा पुनरपि रूपरसयोरविशेषः।
अथान्येन रूपेण रूपस्य रूपोपादानता अन्येन च रससहकारितेति, तर्हि स्वभावभेदान्नानात्वम्,नानात्वे त्वस्थैर्यमसत्त्वं वेत्युक्तम्।
अथ नास्त्येतयोः किञ्चिद्विरुद्धत्वं स्वभावयोः।
कथं बौद्धगृहे जातस्वमेवमतिभाषसे॥
भावानां परस्परपरिहारव्यवस्थितरूपत्वमस्त्येवैषां लाक्षणिको विरोधः। अपि च क्षणिकत्वे पदार्थानामिदमत्रोपादानकारणमिदं सहकारिकारणमिति विशेषोऽपि दुरवगमः। तथा हि किमिदमुपादानं नाम? किं स्वसन्तानविनाशेन बीजादिवत्कार्यजननमुपादानमुत स्वविशेषसमर्पणेनोत्पादकमिति। यदि पूर्वः पक्षः, परलोकचर्चा चार्वाकवदुपेक्षिता स्यात्, ज्ञानसन्तानविनाशेन ज्ञानान्तरारम्भप्रसङ्गात्। स्वविशेषार्पणपक्षेऽपि सर्वविशेषार्पणं स्यात् कतिपयविशेषार्पणं वा? सर्वविशेषार्पणे निर्विकल्पकस्य नोपादानकारणं स्यात्,
लिङ्गदर्शनजन्या च प्रतिबन्धस्मृतिः कथम्।
कथं वा रसविज्ञानं रूपज्ञानादनन्तरम्॥
सन्तानभूयस्त्वाद् भविष्यतीति चेन्न, एकप्रमात्रधीनप्रतिसन्धानोपनिबन्धनव्यवहारप्रतिबन्धविप्लवप्रसङ्गात्। नित्यमेकमात्मानमन्तरेण सन्तानैकतायामपि तावदसौ व्यवहारो नावकल्पते, किमुतैकत्रैव देवदत्ते सन्तानभूयस्त्वे सतीति, कतिपयविशेषार्पणेन तु यद्युपादानता, तदानीं रूपमपि आज्ञानोपादानकारणतां प्रतिपद्यते। तस्मान्नोपादानं नाम किञ्चित्, तन्निरासे च तद्वैलक्षण्यलक्ष्यमाणस्वरूपस्य सहकारिणोऽपि व्युदासो वेदितव्यः। अपि च,
प्रतिक्षिपसि तत्पक्षे सर्वथा सहकारिणम्।
भिन्नाभिन्नोपकारादिविकल्पास्त्वत्प्रकल्पिताः॥
सहकारिप्रतिक्षेपकारिणः क्वाधुना गताः।
आं ज्ञातं युक्तिशक्त्यैव युष्माभिरुपकल्पितः॥
दोषो न बाधते युष्मान् मन्त्रोत्थापितसर्पवत्॥
अथवा तिष्ठतु तावदुपादानसहकारिकारणभाव एव भदन्तसिद्धान्ते
दुरुपपादः। परोत्पत्तावव्याप्रियमाणमेव यदि कारणमुच्यते सर्वं सर्वस्य कारणं स्यात्।
न चालब्धात्मनस्तस्य व्यापारः परजन्मनि।
लब्धात्मनस्तु व्यापारे स्थितिः सिद्धा क्षणान्तरे॥
अथ ब्रूयादिदंप्रतीत्येदं प्रतीयते इतीदं प्रत्ययतामात्रमेव कार्यकारणभाव इति, तथापि लब्धात्मनः क्षणस्य प्रतीतिरिति द्वितीयक्षणावस्थानमपरिहार्यमेव।
न चानन्तर्यमात्रेण कार्यकारणताग्रहः।
अहेतुफलभावेऽपि तथानन्तर्यदर्शनात्॥
व्यापारस्तु परोत्पत्तौ नास्त्येव क्षणभङ्गिनः।
न वर्तमानकालस्य न भूतस्य न भाविनः॥
अथ मन्येथा यथा तुलान्तयोर्नामोन्नामौ भवतः एवं पूर्वोत्तरयोः क्षणयोर्नाशोत्पादावित्येवं पूर्वक्षणविनाशेनोत्तरक्षणनिर्वृत्तेरियतैव कार्यकारणभावमश्नुवीयातामिति।
तदप्यमनोरमम्। न ह्ययमायुष्मतामस्त्यवधृतस्तुलान्तदृष्टान्तः।
तत्रान्यदेव हेमादि नामोन्नामनिबन्धनम्।
तन्नामो न तु नामैव तेन वा स विधीयते॥
इहापि न पूर्वेण क्षणेन नापि तद्विशेषेणोत्तरः क्षण उत्पद्यते, न च हेमस्थानीयमिहान्यदस्तीत्यनुत्पत्तिरेवावशिष्यते।
सर्वथा परनिष्पत्तौ निर्व्यापारं न कारणम्।
स्वयापारस्य कर्तृत्वे क्षणिकत्वन्तु दुर्घटम्॥
इत्थञ्च सत्त्वं व्यावृत्तं क्षणिकेभ्यो विशेषतः।
तेनासाधारणत्वेन यायात् संशयहेतुताम्॥
अथवा लब्धात्मनः पदार्थस्य परोत्पत्तौ व्याप्रियमाणत्वेन कारणत्वावधारणाद् द्वित्रिक्षणस्थायित्वमवश्यमनन्तरनीत्या भवेदिति। प्रत्युत सत्त्वादक्षणिकत्वसिद्धेर्विरुद्धोऽयं हेतुः। अतश्चैवं नित्यानामेवार्थक्रियाकारित्वोपपत्तेः, समवाय्यसमवायिनिमित्तभेदेन त्रिविधा कारणसामग्री परस्परसंसर्गमागत्य यथासन्निधानं कार्यं प्रसूत इति कृतं क्रमयौगपद्यविकल्पैस्तावकैः। यदैवाविकलसामग्री तदैव कार्योत्पत्तिः।
अत एव च कार्याणां युगपन्न समुद्भवः।
न चापि कृत्वा करणं सामग्री हि न सर्वदा॥
प्राणिकर्मविपाकोऽपि सामग्र्यन्तर्गतो नवः।
सर्वत्र सुखदुः खादिहेतुस्त्वत्रोपपाद्यते॥
न च समग्रव्यतिरेकाव्यतिरेकविकल्पोऽस्मत्पक्षे सामग्रीं बाधते समग्रधर्मत्वात्सामग्र्याः समग्रापेक्षया च समाग्र्येव तमबर्थातिशययोगात् कारणमिति प्रमाणसामान्यलक्ष्णे निर्णीतम्।
समर्थत्वासमर्थत्वविकल्पेऽपि प्रसङ्गतः।
सामग्र्या एव सामर्थ्यं ततः कार्यस्य दर्शनात्॥
तदन्तर्गतस्य तु कारकजातस्य शकटाद्यङ्गस्येव सामर्थ्यं यावत्तावदभ्युपगतमेव तदपेक्षस्य सामग्र्या साधकतमत्वस्य निर्वहणम्। न हि भवति कृष्णाच्छुक्ल इति, अविकल्पन्तु सामग्र्या एव सामर्थ्यं यदनन्तरं कार्यनिष्पत्तिरिति कार्यनिष्पत्तिदर्शनादेवावगम्यते।
यदप्येकक्षणस्थायि कारकं स्यादित्युद्घोषितं परैः, तदप्यसत्। कार्यनिष्पत्तिपर्यन्तत्वादवस्थानस्य, एकेन क्षणेन तेषामेककार्यनिष्पत्तेरघटमानत्वात्। कार्यसम्पत्तेरूर्ध्वन्तु सामग्री विप्लवते न समग्राणि तेषामेकैकशः क्वचित्क्वचिदुपलम्भाच्चक्रसूत्रदण्डादीनाम्। इत्थं स्थिराणामेव पदार्थानामर्थक्रियासामर्थ्यं समर्थितमिति न ततः क्षणभङ्गसिद्धिः।
एवञ्च सत्त्वनित्यत्वयोर्विरोधात् सत्त्वप्रतीत्यैव एकचन्द्रबुद्धिवत्तदितरनिराकरणमित्यादि यत्प्रलपितं तत्प्रतिक्षिप्तं भवति। यदप्यभाणि नाशं प्रत्यनपेक्षत्वात् क्षणिकाः पदार्था इति, तदपि यत्किञ्चिद् दण्डादिव्यापारान्वयव्यतिरेकानुविधायिनस्तत्कार्यस्य घटाद्यभावस्य विस्तरतः प्रमाणचिन्तावसरे प्रसाधितत्वात्। प्रध्वंसाभावश्च विनाश इत्युच्यते।
नश्वरानश्वरत्वादिविकल्पास्तु न साधवः।
सामग्र्यधीनः प्रध्वंसो भावानामात्मलाभवत्॥
मुद्गरादिसामग्र्या घटस्य किं क्रियते? मृत्पिण्डदण्डसामग्र्या किमस्य क्रियते? आत्मलाभ इति चेत्, अनयाप्यात्महानं करिष्यते।
ननु नश्वरत्वे तत्कारणमफलमनश्वरत्वे त्वशक्तमिति। उत्पत्तावपि तुल्योऽयं प्रलापः। भवनस्वभावश्चेद् घटः स्वतः एव भवति, किं दण्डादिसामग्र्या? अभवनस्वभावस्तु कर्तुमशक्यः खरविषाणवदिति। कारकव्यापारकार्यत्वदर्शनादपर्यनुयोग एष इति चेद्विनाशेऽपि समः समाधिः उत्पत्तिवद्विनाशस्यापि कारकान्वयव्यतिरेकानुविधायित्वम्,
तस्मादुत्पन्नमात्रस्य विनाशो नास्ति वस्तुनः।
आविनाशकसद्भावादवस्थानमिति स्थितम्॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%उपलब्ध्यव्यवस्थात% इति। सदप्युपलभ्यते असदप्युपलभ्यत इति। %न हेतुर्गन्धवत्त्ववत्।% यथा गन्धवत्त्वं नित्यत्वेऽनित्यत्वे वा न हेतुः, तेन सहान्यत्रादृष्टेः, एवं सर्वस्य साध्यत्वात् सत्त्वस्य क्षणिकत्वेन सहान्यत्रादृष्टिः %एकवस्तुक्षणस्यापि% एको यो वस्तुक्षणः। %रूपभेदविरोधाच्चेति% न ह्येकमनेकरूपं भवति, अनेकरूपत्वे एकत्वविरोधाद् वस्तुनः काल्पनिकत्वं प्रसज्यते, विरुद्धस्वभावयोगेऽप्येकत्वे विश्वस्यैकताप्रसङ्गात्। घटादीनामपरमार्थसत्त्वान्मा भूत पारमार्थिकं बाह्यं वस्तु, ज्ञानमेव परमार्थसत्, तत्र क्षणिकत्वमित्याह ज्ञाने क्षणिकचिन्तेति।
न %क्रमेण स्थैर्यप्रसङ्गात्।% द्वितीयकार्यकालेऽपि भावात् स्थैर्यप्रसङ्गः।
%सञ्चिता एव जन्यन्त इत्यभ्युपगमादिति% तदुक्तम्,
अर्थान्तराभिसम्बन्धाज्जायन्ते येऽणवोऽपरे॥
उक्तास्ते सञ्चितास्ते हि निमित्तं ज्ञानजन्मनः॥ इति।
%अन्यथा हि% इति। कारणायत्तः कार्यस्वभाव इत्यनभ्युपगमे। %नानाकालायोगिनोऽप्येकत्वं स्यात्।% ततश्च स्थिरतापत्तिः।
%विषयाकारग्राहकेति% विषयाकारो ग्राह्याकारः।
ग्राह्याकारग्राहकं प्रमाणम्। स्वसंवेदनं फलम्। निराकारत्वाद् विज्ञानस्य नास्ति विषयाकार इति चेत् तत्राह %निराकारज्ञानेति।% अथ नीलेन जनितत्वाद् नीलस्येदमिति प्रतिकर्मव्यवस्था सेत्स्यति। नेत्याह %जनकस्य कर्मण% इति। एकसामग्र्यधीनपक्षस्य च सम्भवेऽपीति।% न सम्भवति स पक्षः, क्षणिकत्वाभावदर्थक्षणस्य तदानीमुत्पत्त्यभावात् पूर्वोत्पन्नस्यैव ज्ञानेन विषयोकरणात्। सम्भवाभ्युपगमे तु द्वयोरेकसामग्र्युत्पन्नत्वेऽर्थ एव ग्राहो न बोध इति नियमो नोपपद्येत इत्यतोऽवश्यं साकारत्वमभ्युपेयमिति रूपभेद आयातः।
%विजातीयप्रकारेणेति।% विजातीयो मुद्गरादिः। %विरूपाम्,% कपालरूपाम्।
%नानात्वे त्वस्थैर्यमसत्त्वं चेति% नानास्वभावत्वेऽपि यथा दर्शनेनात्रैकत्वेन ग्रहणं न विरुध्यते तथा तदतत्स्वभावत्वेऽप्यक्षणिकानामेकत्वेन ग्रहणं न विरोत्स्यत इति स्थैर्यापत्तिर्वस्तुनो वा विरुद्धस्वभावयोगात् काल्पनिकत्वम्।
%अस्त्येवैषां लाक्षणिको विरोध% इति। लक्षणमिति स्वरूपम्, तद्व्यवस्थापको लाक्षणिकः परस्परपहिरारस्थिततालक्षणः। तौ हि द्वौ स्वभावौ परस्पररूपपहिराहेण स्थितौ नीलपीताविव, अन्यथा तयोर्भेद एव न स्यादिति। पदार्थो हि स्वप्रकृत्या विरुध्यते। न हि नीलञ्च नीलाभावश्च युगपद् भवतः। यथा नीलानीलप्रकृत्योर्युगपदसम्भवाद् विरोधस्तथानीलप्रकृत्यविनाभूतैः पीतादिभिरपि विरोध एव। स्वप्रकृत्या यद् विरुध्यते वस्तुनो रूपं तत् तदविनाभूतेन स्वभावान्तरेणापि। तस्य विरोधः केन वार्यते भवन्मते। तदेवं वस्तुव्यवस्थापको विरोधो भवद्भिः सर्वत्राभ्युपेय इति। %परलोकचर्चा चार्वाकवदुपेक्षिता स्यादिति।% `यस्मिन्नेव हि सन्ताने आहिता कर्मवासना’ इत्यस्य पक्षस्य परित्यागात्। येन हि ज्ञानक्षणेन कृतं कर्म तस्य विनाशेऽपि कार्यकारणभावेन ज्ञानप्रवाहस्य सन्तानरूपस्याभ्युपगमेन जन्मान्तरोपपत्तिलक्षणास्य परलोकसिद्धिरुपपादिता; सैवं त्रुट्यति। सन्तानस्य ह्यात्मकल्पस्याविच्छेदे जन्मान्तरसम्भव आत्मन इव आत्मवादिना न पुनस्तद्विनाशे। यथैकस्मिन् शरीरे कार्यकारणभावेनावस्थानवशाद् भिन्नानामपि क्षणानामभेदेनाध्यवसानं क्षणान्तरकृतस्य च कर्मणः क्षणान्तरोपभोगेऽपि नान्येन भुक्तमिति प्रत्ययः, न च सन्तानान्तरेण तत्फलोपभोगः, तद्वत् सन्तानानाशे जन्मान्तरभाविक्षणेष्वपि भवति, नान्यथेति भावः। %निर्विकल्पज्ञानं वेति%। तद् वस्तुसाक्षात्कारि, सविकल्पकं न तथा। तथा प्रतिबन्धस्मृतिरपि, स्मृतेर्वस्तुसंस्पर्शाभावात्।
%सन्तानभूयस्त्वादिति% रसज्ञानरूपज्ञानस्मरणादिसन्तानानां भेदाभ्युपगमपक्षे %रूपमपि ज्ञानोपादानकारणत्वं प्रतिपद्यते% तदाकारस्योत्पादाद् ज्ञानस्य।
%इदं प्रतीत्येति। इदं प्रतीत्य ज्ञात्वा समनन्तरमेवेदं प्रतीयत इत्येतावन्मात्रं पूर्वोत्तरभावित्वं कार्यकारणत्वहेतुः, न पुनर्व्यापारात् कारणत्वमिति। इदं पूर्वमिदमुत्तरमित्येवंरूप इदंप्रत्ययो ययोः कार्यकारणयोस्ताविदंप्रत्ययौ, तयोर्भाव %इदंप्रत्ययता। तथापि लब्धात्मन% इति। न ह्यनुत्पन्नस्य प्रतीतिः सम्भवति। सर्वंस्य सुखदुः खादि यत् तद्धेतुत्वेन %प्राणिकर्मविपाकस्य% धर्माधर्मलक्षणस्योपपादनात्।
%न हि भवति कृष्णाच्छुक्लतर% इति। अपि तु शुक्लात् शुक्लतरः, एवं साधकतम इति।
न्यायमञ्जरी
%कदाचिद् घटस्य विनाशहेतोरनुपस्थितौ तस्य नित्यत्वमिति शङ्कानिरासः%
ननु सापेक्षाणां भावानां नावश्यम्भाविता भवेदिति घटस्य विनाशहेतुर्नोपनिपतेदपि कदाचिदित्येवमसौ किं नित्य एव भवत्विति, अहो महान् प्रमाद उत्सन्नाः प्रजाः पतितो महान् वज्राशनिर्दुष्प्रतरोऽयं दोष उत्थितः। यदिह घटो नित्यो भवेत्तदिह कालाग्निरुद्र इव त्रिभुवनमपि भस्मीकुर्यात्। अपि च मूढ! सावयवस्याश्रितस्य कार्यस्य च नूनमवयवविभागादाश्रयविनाशाद्वा यदा कदाचिद्भवितव्यमेव विनाशेनेति कस्तन्नित्यत्वशङ्कावसरः। तथा हि न रामाभिषेककलशमद्य यावदनुवर्तमानमीश्वरवेश्मस्वपि पश्यति लोक इत्यवश्यंभावी तस्य विनाशे हेतुः तस्मात् सहेतुको विनाश इति न स्वत एव नश्वरो भावः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%अहोमान् प्रमाद% इति। अनेन `यदि नित्योऽपि कदाचित् स्यात् तत् कस्य क्षतिः’ इत्याह। पुनरनेनैवाभिप्रायेण %सोत्प्रासमुत्सन्नाः प्रजा% इत्यादि।
न्यायमञ्जरी
%प्रत्यभिज्ञायां न क्षणिकत्वविरोधित्वमित्यस्य निरसनोपक्रमः%
अपि च प्रत्यभिज्ञा स्वतेजोविभवविधूतबौद्धसिद्धान्तध्वान्तसिद्धनिर्भङ्गुरमेव भावनिवहमनिशमुपदर्शयन्ती दिनेशदीधितिदशशतविभागवती सर्वतो जाज्वलीतीति कस्तस्यां सत्यां क्षणभङ्गिनो भावानभिदध्यात्? यत् किञ्चन तस्य समभाषितं तत् सर्वमसमञ्डसम्।
यत् तावदिदं कल्पितं स एवायमिति किमेकं विज्ञानमुत द्वे इति, तत्रोच्यते। सामानाधिकरण्येन नैकविषयावद्योतनप्रवणैकप्रतीतिसंवेनदात् केयं द्बित्वाशङ्का योऽयं समः यः समोऽयमित्येकत्वावमर्शिनी, स्वतस्तु या अनेकप्रतीतिरनुभूयते घटोऽयं पटोऽयमिति तत्र निरन्तरोत्पन्नघटज्ञानपटस्मरणवद्भिन्नविषयं बुद्धिद्वयमिति। यत्तु किमेकप्रतीतिजन्मनि कारणमिति,
कार्यञ्चेदवगम्येत किं कारणपरीक्षया।
कार्यञ्चेन्नावगम्येत किं कारणपरीक्षया॥
न च कार्यमाकरणं भवितुमर्हतिः कार्यत्वस्यानुपपत्तेरिति भवितव्यमेव तत्र कारणेन। अस्ति च संस्कारसहितमिन्द्रियमस्याः प्रतीतेः करणं पृथक्कार्यतापि तयोर्दर्शनादेवाभ्युपगतम्, इदन्तु दृष्टत्वाद् दुरपलपम्। क्वचित्तु केवलेन्द्रियव्यापारकार्यदर्शनान्न सर्वस्य तथाविधस्यैव तस्य कार्यकारित्वम्, सहकार्यपेक्षणेन कार्यान्तरजननात्।
न्यायमञ्जरी
%स्वमते प्रत्यभिज्ञास्वरूपम्%
यत् तूक्तं कीदृशोऽर्थः प्रत्यभिज्ञायामवभातीति, तत्रैते वादिनः शतकृत्वो दत्तोत्तरा अपि यत् पुनरस्माननुयुञ्जते तेन बलवदुद्विग्नाः स्मः। उक्तमत्र प्रमितयः प्रष्टव्या न तु वादिन इति। अतीतकालविशिष्टो वर्तमानकालावच्छिन्नश्चार्थ एतस्यामवभासते,
ननु पूर्वापरौ कालौ परस्परविरोधिनौ।
नैकत्र विशतस्तेन तद्भेदाद् वस्तु भिद्यते॥
नैतदेवम्, केयूरकिरीटकटककुण्डलादिभेदेऽपि देवदत्तस्याभेदात्, अवयवी अस्ति नास्तीति परीक्षणं वादान्तरगमनम्। अपवर्गाह्णिके च विस्तरेण अवयवी साधयिष्यत इत्यास्तामेतत्। कुण्डलादीनामविरोधादिति चेन्न, लाक्षणिकविरोधाभ्युपगमात् परस्परव्यवहारव्यवस्थितात्मानो हि सर्वे भावा इति वदद्भिर्भवद्भिरभ्युपेत एषां विरोधः।
ननु केयूरादीनां विरोधेऽपि तदवस्थानादेकदेवदत्तसम्बन्धित्वमभ्युपपद्येतापि, भूतवर्तमानयोस्तु युगपदसन्निधानात् तद्विशिष्टता स्तम्भादेरुच्यते प्रतीयते च, द्वौ कालौ न च सन्निहिताविति चित्रम्। किं भूतोऽपि काल इदानीमस्ति? मैवम्। नासावस्तीत्युच्यते अपि त्वासीत्, अस्तीत्युच्यमानं वर्त्तमान एव न भूतः। हन्त तर्हि भूतो भूतत्वादेव नेदानीमस्तीति कथं प्रतिभासते? भूतत्वेनैवेति ब्रूमः। भूतः कालो भूततया गृह्यते वर्तमानो वर्तमानतयैव, अर्थस्तूभयानुगत एक एव तथा ग्रहणात्।
ननु भूतकालस्येदानीमभावात् तद्विषयं ज्ञानमनर्थजं स्यात्? न धर्मिंणस्तदवच्छिन्नस्य ज्ञानजनकस्य भावात्। भूतः कथमवच्छेदक इति चेत्, तथा प्रतिभासात्, प्रतीतिमवमृषतु भवान् स एवायमिति यः पूर्वमासीत् स इदानीमप्यस्तीति सोऽयमतीतकालविशिष्टोऽर्थ एतस्यां बुद्धाववभासते।
नन्वसता भूतकालेन विशेषितमर्थं कथमिन्द्रियजप्रतीतिरालम्बनीकुर्य्यात्? उच्यते,
अन्त्यसंख्येयसंवित्तिकाले प्रागवलोकिताः।
यथा शतादिज्ञानानि जनयन्ति घटादयः॥
अतीतकालसंसर्गो भवन्नेव विशेषणम्।
स्तम्भादिप्रत्यभिज्ञायाः कारणत्वं प्रपत्स्यते॥
संख्येयाः घटादयः सन्त्यतीतकालो नास्तीति चेत्, कपित्थेषु भक्ष्यमाणेषु किं वक्ष्यति देवानां प्रियः? शतं कपित्थानां भक्षितवान् वाहीक इति प्रतीतिदर्शनात्? न च नवनवतावनुपयुक्तेषु कपित्थेष्वत्रैव शततमे शतमिति भवति, यथा तत्रातिक्रान्तान्यपि नवनवतिः कपित्थानि शतप्रतीतिहेतुतामुपयान्ति प्रतिभासोपारूढत्वात्, एवमतीतकालयोगोऽपि प्रतिभासमानः प्रत्यभिज्ञामाधास्यतीति।
विकल्पमात्रं शतप्रत्यय इति चेत्, भो महात्मन्! किं वा न विकल्पमात्रम्? किन्तु जीवन्त्यमी सविकल्पकप्रामाण्यवादिनः।
यश्च सामान्यसंसिद्धौ प्रकारः प्राक् प्रदर्शितः।
योज्यः स एव द्वित्वादिसंख्यासद्भावसिद्धये॥
इत्यलं कथाक्षेपेण।
नन्वतिक्रान्तग्राहि च प्रत्यभिज्ञाविज्ञानमिन्द्रियार्थसन्निकर्षजञ्चेति नः कौतुकमिदं कियत् कौतुकम्? अर्थस्तावदस्य पुरोऽवस्थितोऽस्त्येव जनकः स्तम्भादिः। नन्वस्ति स तु वर्तमानकाल एव। न केवलं वर्तमानकालयोगिनार्थेन तत् प्रत्ययजननात् तस्य वर्तमान इवातीतोऽपि कालोऽवच्छेदकतां प्रतिपद्यते स च तदवच्छिन्नोऽर्थ इदं ज्ञानमादधातीत्यर्थजमेतदिन्द्रियजमपि भवति तद्भावाभावानुविधानात्।
नन्वतीतेऽर्थे कथमिन्द्रियं प्रवर्त्तते? कस्यैष पर्यनुयोगः? नेन्द्रियस्याचेतनत्वात्। पुरुषस्त्वविस्फारिताक्षो नेदृशीं प्रतिपत्तिं लभते विस्फारिताक्षस्तु लभत इति सोऽपि नानुयोज्यः।
नन्वतीतग्राहित्वाद् वरमप्रामाण्यं कल्पयितुं युक्तमस्या बुद्धेरिन्द्रियस्यातीतेऽपि सामर्थ्यमदृष्टमिति, अप्रामाण्यं नाम बाधकात् प्रत्ययात् कल्प्यते न चासावस्ति प्रत्यभिज्ञायाम्, अनुमानन्तु तावकं प्रतिक्षिप्तम्।
ननु कारणदोषादवकल्पते एवाप्रामाण्यम्, आयुष्मन्! सोऽप्युच्यताम्। उक्त एवेन्द्रियस्यातीतविषयग्रहणे सामर्थ्यविरहः। वत्स! सम्यगुक्तवानसि नायमिन्द्रियस्य तिमिरादिरिव दोषः, अतीते काले स्वतन्त्रे तस्य सामर्थ्यम्, न तद्ग्राह्यवर्तमानवस्तुविशेषणीभूते, संस्कारसचिवस्य चास्य सामर्थ्यं न केवलस्येत्युक्तम्। तस्मादतिक्रान्तकालविशेषितपूर्ववर्त्तिस्तम्भादिपदार्थविषयमिन्द्रियादिसन्निकर्षोत्पन्नमेवेदं प्रत्यभिज्ञाज्ञानमिति सिद्धम्।
अथ वा पूर्वाभिज्ञानविशिष्टग्राह्यमाणमिष्यतां प्रत्यभिज्ञानं गन्धवत्कुन्दबुद्धिवद्, यथा हि लोचनगोचरेऽपि कुन्दकुसुमे तदविषयगन्धविशेषिते बाह्येन्द्रियद्वारकग्रहणमघटमानमिति मानसमेव सुरभिकुसुममिति ज्ञानम्, एवं पूर्वज्ञानविशेषितस्य स्तम्भादेर्विशेषणमतीतक्षणविषय इति मानसी प्रत्यभिज्ञा। पूर्वप्रवृत्तबाह्येन्द्रियोपजनितज्ञानविशिष्टबाह्यविषयग्राहिणि चान्तः करणेऽभ्युपगम्यमाने सति नान्धाद्यभावप्रसङ्ग इति बहुशः कथितम्।
ननु कुन्दादेर्विशेषणं वर्त्तमानमस्ति सौरभम्, इह त्वतीतं पूर्वविज्ञानमिति कथं विशेषणमत्र? किं तेन सता करिष्यसि शतादिबुद्धिष्वतिक्रान्तस्यापि कपित्थादेः कारणत्वदर्शनादिति। तदेवमन्तः करणजन्मनापि प्रत्यभिज्ञानेन स्थैर्यमवस्थाप्यत एव भावानाम्।
या तु मुण्डितकेशादिप्रत्यभिज्ञानतुल्यता।
स्तम्भादिप्रत्यभिज्ञायाः कथ्यते साप्यसङ्गता॥
तत्रान्तराले मुण्डितशिरोदर्शनमेव बाधकमिह तु न किंचिदस्ति, अत एव शब्दे सदैव स्फुरन्त्या विनाशबुद्ध्या वैधुर्यमुपनीता प्रत्यभिज्ञा तु न तामवस्थापयितुं समर्थेत्युक्तम्, ज्वालादावपि तैलवर्त्तिक्षयानुमानबाधितत्वाद् भ्रान्ता प्रत्यभिज्ञा, न तु तथा स्तम्भादावनुमानमपि बाधकमस्ति, सत्त्वानुमानन्तु निरस्तमेव। यद्यपि च नैष नियमः प्रत्यक्षानुमानयोर्विरोधे प्रत्यक्षं बलीय इति, त्वरिततरपरिभ्रमितचक्रीभवदलातग्राहिणः प्रत्यक्षस्यानुमानबाधितत्वदर्शनादिति। तथा प्रकृतं क्षणिकत्वानुमानमन्यथासिद्धमनन्यथासिद्धन्तु प्रत्यक्षमिति प्रत्यक्षमेव क्षणिकत्वानुमानस्य बाधकम्, न चेतरेतराश्रयत्वमनुमानमिथ्यात्वनिबन्धनं प्रत्यभिज्ञाप्रत्यक्षप्रामाण्यानभ्यपगमात्, स्वहेतुबलवत्तयैव प्रत्यभिज्ञा प्रत्यक्षं न तस्येदं दैन्यं यदनुमानमिथ्यात्वे सति तत्प्रमाणीभविष्यतीति।
आस्तां वा प्रत्यभिज्ञानं य एष प्रथमक्षणः।
स्तम्भादिबोधस्तेनापि बाध्यते क्षणभङ्गिता॥
तुल्यसामग्र्यधीनत्वनिराकृतत्वात् साकारस्य निराकरिष्यमाणत्वादन्वयव्यतिरेकोपकृतमानसप्रत्यक्षनिश्चितजनकस्य चार्थस्यावभास्यत्वनिश्चयादुत्पन्नोऽर्थो ज्ञानं जनयति, जातेन च ज्ञानेन गृह्यत इति बलाद् द्वित्रक्षणावस्थायित्वमस्योपलभ्यत इति कुतः क्षणिकत्वम्।
यदि लब्धस्वरूपोऽपि न नष्टः प्रथमे क्षणे।
हेत्वन्तराद् विनाशोऽस्य नस्वरूपनिबन्धनः॥
विचित्रा च पदार्थानां प्रतीतिरिह दृश्यते।
चिरन्तनमतिः काचित्काचित्तत्कालजातधीः॥
सलिलाहरणव्यग्रकुम्भावगतिरन्यथा।
तदैव कन्दुकाकृष्टकुम्भावगतिरन्यथा।
एतेन रविगुप्तोऽपि परिम्लानमुखीकृतः।
क्षणिकत्वक्षमादित्वसमुत्प्रेक्षणपण्डितः॥
तथा हि वर्तमानवस्तुविग्रहग्राहि विज्ञानमनन्तरोक्तनयेन जनकार्थप्रतिभासनाद् द्वित्रक्षणस्थायितामर्थस्य गमयतीत्युक्तम्। आद्यञ्च किञ्चिद् विज्ञानमनागतकालस्पर्शि भवति, यथाह भट्टः `रजतं गृह्यमाणं हि चिरस्थायीति गृह्यते’ इति। उत्तरमपि प्रत्यभिज्ञानं प्रतीतकालावच्छिन्नमर्थमवद्योतयतीति दर्शितम्।
न चातीतानागतजन्मग्रहणमाशङ्कनीयमिति कारणसामर्थ्यनियमात्, न ह्यतीतानागतजन्मग्रहणमशक्यक्रियमिति यावदपि दृश्यमानं ग्रहणं तदप्यपह्नोतुं युक्तम्। न चैतावतातीतानागतकालावच्छिन्नवर्तमानवस्तुग्रहणमात्रेण सामान्यतो दृष्टेनादृष्टमप्यतीतानागतज्ञानं कल्प्यम्, यथादर्शनं हि वस्तूनि व्यवस्थाप्यन्ते न किञ्चिद् दृष्ट्वा, अन्यदपि कल्प्यते दृष्टमपि वा निह्नुयत इति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%तैलवर्त्तिक्षयाद्यनुमानबाधितत्वादिति% तैलवर्त्तिरूपस्य क्षयदर्शनात् कारणभेदः पूर्वकालाद् उत्तरकालानां गम्यते। न हि यदेव तैलवर्त्तिरूपपूर्वकालायाः कारणं तदेवोत्तरासामिति वक्तुं शक्यम्। प्रत्यक्षेण पूर्वकालाकारणस्य तैलवर्त्तिरूपस्य क्षयदर्शनादेतत्कारणभेदस्तावदिति। ततश्च काला धर्मिण्यः परस्परभिन्ना इति साध्यम्, भिन्नकारणजन्यत्वाद् घटपदादिवदित्यनुमानप्रवृत्तिः। %प्रत्यक्षस्याप्यनुमानबाधितत्वदर्शनादि% चक्रं हि परिमण्डलाकारत्वाद् सर्वदिग्भिर्युगपतृ सम्बध्यते, तथारूपत्वं च अलातस्य नास्ति, अतोऽनुमानेन बाधः। तथाहि अलातधर्मी युगपत् सर्वाभिर्दिग्भिर्न सम्बध्यत इति साध्यम्, अलातत्वात्, भूमिस्थितालातवदित्युनुमानम्। %क्षणिकत्वानुमानमन्यथासिद्धम्% क्षणिकत्वपरिहारेणैव सत्त्वस्य प्राङ्नीत्या सम्भवात्।
न्यायमञ्जरी
%उत्पत्त्यनन्तरमेव विनाशे न प्रत्यक्षं सम्भवति।%
अपि च निमेषदृष्टेरत्रुटितसत्ताकस्तम्भादिपदार्थग्राहि प्रत्यक्षमुत्पद्यते, तत् कथं क्षणिकग्राहि कथ्यते।
यच्च तत्र विकल्पितम्, अतीतानागतक्षणयोरसन्निहितत्वेन प्रत्यक्षग्राह्यतानुपपत्तेर्वर्तमानक्षणस्य चातिसूक्ष्मत्वात् तत्कालग्राहिणा प्रत्यक्षेण क्षणिकत्वं गृहीतं भवतीति, तदनुपपन्नम्। मा नाम भूदतीतानागतकालग्रहणं वर्तमान एव तत्रानिमेषदर्शनस्य कियान् काल इति चिन्त्यताम्। निमेषकृतस्यापि दर्शनविच्छेदस्यानवकाशाद् यावद्धि दर्शनं न विच्छिन्नं तावान् वर्तमानः काल इति तद्ग्रहणे स्थैर्यं गृहीतं भवति न क्षणिकत्वम्।
ननु तावानसौ कालः स क्षणसमुदायो भवति न क्षणः। क्षणश्चैक एव वर्तमानो भवति, न ततः पूर्वापरौ क्षणावतीतानागतौ भवतः, तयोश्च न ग्रहणमित्युक्तम्, सिद्धे क्षणिकत्वे एवं शक्यते वक्तुं न तु तत्साधनावसरे। कालो ह्येको नित्यो विभुरिति साधितोऽनुमानपरीक्षायाम्। न तु क्षणसमुदायात्मा कालः। कालस्य तु भेदाः क्रियोपजनविनाशाद्युपनिबन्धनाः कल्प्यन्त इत्यपि तत्रैव परीक्षितम्। तदयमनिमेषदृष्टेर्दर्शनविच्छेदानुपग्रहात् तावानेकः स वर्त्तमान एव भवतु।
ननु कालो नाम न कश्चित् पारमार्थिकः पदार्थ एव परिदृश्यमानो वर्त्तमानादिव्यवहारहेतुः, स च न चिरमनुभूयत इति क्षणिक उच्यते। भिक्षो! अलमवान्तरगमनेन, मा भूत् कालः पदार्थस्त्वनिमेषदृष्टिना दृष्ट्यविच्छेदादविच्छिन्नसत्ताक एव दृश्यत इति न क्षणिकग्राहि प्रत्यक्षम्।
ननु भवद्भिरपि न स्थिरं ज्ञानमिष्यते क्षीणे च ज्ञाने सोऽर्थो द्वितीयक्षणे केन गृह्यते, ज्ञानान्तरेण तु गृह्यमाणः स एवेत्यत्र को निश्चयः? अनिमेषदृष्टेर्ज्ञानं न क्षीयत एवेत्येके।
अथवा किं न एतेन, न हि विषयप्रतिभासकाले ज्ञानमवभासत इत्यसकृदुक्तम्, वक्ष्यते च तत्र तत् कीदृशमिति कुतो वयं विद्मः? अर्थस्त्वविच्छिन्नसत्ताक एव गृह्यते ज्ञानन्तु वर्त्तमानकालमप्यतीतानागतकालग्राहि भवति स्मरणमिव प्रातिभमिव भूतभविष्यद्वृष्ट्यनुमानमिव।
नन्विद्रियव्यापारो न क्षणान्तरस्थायीति तस्मिन् असति कुतोऽस्य विततकालग्रहणम्, तदलं भवतु श्रान्तोऽसि मज्जस्वैवं ब्रुवाणः। निमेषकृतोऽपि विच्छेदोऽस्य नास्ति, अथ च न स्थिर इन्द्रियव्यापार इति साहसिकतामात्रम्। सन्निकर्षश्चास्य विषयग्रहणे व्यापारः स च स्थिर एव। तस्माद् विततकालस्य वस्तुनः प्रत्यक्षेण ग्रहणमिति स्थितम्, एवञ्च स्थिते न स्वरूपमात्रमेव भावानां विनाशकारणं कारणानाञ्च नित्यत्वमेव दण्डादीनामिति सिद्धम्।
यत् पुनरभाणि दर्शनादर्शने एव सत्त्वासत्त्वे भावानामिति, तदपि व्यामूढभाषितम्, दर्शनादर्शनाभ्यामेव भावाभावयोः परिच्छेदो न पुनर्दर्शनादर्शने एव भावाभावावभासश्च विस्तरतः प्राक् साधितः, स च सहेतुक इति न स्वत एव विशरारवो भावाः। एवन्तु निष्प्रमाणे पदार्थस्थैर्यपक्षे ज्ञानन्तुजनकस्य नियतस्य वस्तुनो दर्शनम्, दर्शनविषयीकृतस्य प्रवृत्तिः, प्रवृत्तिविषयीकृतस्य प्राप्तिरिति व्यवहारो न स्यादर्थक्षणनानात्वात्, बाध्यबाधकभावश्च क्वचिद् ज्ञानानां दृष्टः स च न स्यात्। पूर्वावगतरजतादिविषयभावग्राहिणो ज्ञानस्य गृहीतमुद्गरदलितघटाभावज्ञानवद् बाधकत्वानुपपत्तेः। पूर्वदृष्टस्य स्मरणम्, स्मृतस्य, कस्यचित् प्रत्यभिज्ञानम्। प्रत्यत्रभिज्ञातस्य गृहादेरर्धकृतस्य समापनमित्यादयश्च व्यवहारा विप्रलुप्येरन्।
अथ सन्तानमाश्रित्य क्रियते तत्समर्थनम्।
न तस्य भिन्नाभिन्नत्वविकल्पानुपपत्तितः॥
अभेदपक्षे क्षणवद् व्यवहारो न सिध्यति।
व्यतिरेके तु चिन्त्योऽसौ वास्तवोऽवास्तवोऽपि वा॥
अवास्तवत्वे पूर्वोक्तं कार्यं विघटते पुनः।
वास्तवत्वे स्थिरोवास्यात् क्षणिको वेति चिन्त्यताम्॥
सन्तानिनिर्विशेषः स्तात्सन्तानः क्षणभङ्गुरः।
न सिध्येत् पुनरप्येष व्यवहारः पुरोदितः॥
अथापि नित्यं परमार्थसन्तं सन्ताननामानमुपैषि भावम्।
उत्तिष्ठ भिक्षो! फलितास्तवाशाः सोऽयं समाप्तः क्षणभङ्गवादः॥
तदेवं सति सन्तानच्छद्मनो विनिवारणात्।
लोकयात्रा स्थिरैरेव पदार्थैरुपपद्यताम्॥
एवमन्तरनिगदितदूषणनिकुरुम्बविनिहतप्रसरम्।
नाध्यक्षं क्षणिकत्वे न चानुमानप्रमाणं तत्।
क्षणभङ्गे निरस्ते च कार्यमाधारवद् ध्रुवम्।
अतो ज्ञानादिकार्येण युक्तमाश्रयकल्पनम्॥
सुखादेरपि कार्यस्य विज्ञानाद् व्यतिरिक्तता।
प्रागुक्तेति तदप्यन्यद् भवत्यस्यानुमापकम्॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%निमेषकृतस्यापीति% अनिमेषदृष्टिमङ्गीकृत्य कथनात् तत्कृतो दर्शनविच्छेदोऽनवकाशोऽसम्भवतीति। %तद्ग्रहणे यावति% दर्शनं न विच्छिन्नं तावद्वर्तमानकालविशिष्टवस्तुग्रहणे।
् %ननु तावानसौ काल% इति क्षणसमुदायो वर्तमानादिक्षणसमुदायः, न वर्तमान एक एवेत्यर्थः। %कालस्य तु भेदाः क्रियोपजनेति।% यदा क्रियोपजायते तदा वर्तमानता, उपरतायामतीतता, अनागतायां भविष्यत्तेति।
%पदार्थ एव परिदृश्यमानो वर्तमानादिव्यवहारहेतुः,% यथा सामान्यादिव्यवहारो न व्यक्तिव्यतिरिक्तालम्बनोऽपि त्वेकार्थक्रियाकारित्वाद्युपाधिनिबन्धनोऽसौ तत्र, तथा दृश्यमानत्वोपाधिनिबन्धनं पदार्थेषु वर्तमानताव्यवहार इति।
%तत् कीदृशमिति कुतो विद्मः।% कीदृशं क्षीयते न वेति।
%मुद्गरदलितेति% यथा मुद्गरभग्नघटाभावज्ञानं न पूर्वस्य घटसत्ताकालभाविघटज्ञानस्य बाधकं तथा नेदं रजतमित्यपि न स्यात् पूर्वानुभूतस्यानष्टत्वात्।
%सन्तानच्छद्मनो विनिवारणात्% सन्तान एव छद्म; अङ्गीक्रियते लोकयात्रा अथ च सन्तानच्छद्मना, न साक्षात् स्थिरपदार्थाश्रयणेन। %सन्तानान्तरबुद्धिभिरिति% उपाध्यायबुद्धि—-शिष्यबुद्ध्योः कार्यकारणभावेऽप्यन्यत्वस्य स्फुटतया दर्शनात्। %फलभोगस्तु दुर्घट% इति।
न्यायमञ्जरी
%क्षणिकज्ञानात्मवादस्वीकारे कर्त्तुः कर्मफलसम्बन्धाभावः%
किञ्च नाङ्गीकरोषि त्वमात्मानं पारलौकिकम्।
उपैषि परलोकञ्च किमिदन्ते वकव्रतम्॥
कर्म सन्तानिनान्येन यत्कृतं चैत्यवन्दनम्।
ततोऽद्य फलमन्येन भुज्यतेऽकृतकर्मणा॥
न वा निर्वृतिरप्येति चैत्यवन्दनकर्मणा।
ज्ञानक्षणेन नैकेन किञ्चित् कर्म समाप्यते॥
कार्यकारणभावश्च यस्त्वदुक्तः स दूषितः।
कार्यकारणभावे हि न ह्यन्तत्वं निवर्तते।
अनैकान्तिकता चास्य सन्तानान्तरबुद्धिभिः॥
उपादानत्वरूपोऽपि विशेषः प्राङ् निराकृतः॥
कार्पासरागसङ्क्रान्तिदृष्टान्तो यश्च वर्णितः।
सोऽप्ययुक्तः स्वरूपेण तत्र तस्यैव दर्शनात्॥
य एव रागः कार्पासे बीजे समुपकल्पितः।
स एव दृश्यते पुष्पे न तु तस्मात् फलान्तरम्॥
एवं कर्मानुवृत्तिः स्यात् फलभोगस्तु दुर्घटः।
कर्मानुवृत्तिरप्येषा न चैकस्यास्ति कस्यचित्॥
कार्यकारणयोर्भेदात् कार्पासकुसुमादिवत्।
अन्यत्रैव हि कर्म स्यादन्यत्रैव च तत्फलम्॥
न च सन्तानभोगाय कश्चित् कर्मानुतिष्ठति।
फलमस्मान्ममैव स्यादिति सर्वः प्रवर्तते॥
सर्वथा शाक्यभिक्षूणां परलोको विसंष्ठुलः।
न तत्प्रसाधने तेषां काचिद् गमनिकास्ति वा॥
न्यायमञ्जरी
%क्षणिकज्ञानात्मवादे दोषप्रदर्शनम्%
गर्भादौ प्रथमं ज्ञानं विज्ञानान्तरपूर्वकम्।
ज्ञानत्वादित्ययं हेतुरप्रयोजक इष्यते॥
मूर्छाद्यनन्तरोद्भूतज्ञानैश्च व्यभिचार्ययम्।
मूर्च्छितस्यापि विज्ञानमस्तीत्येतत्तु कौतुकम्॥
नि ह्यर्थावगतेरन्यद् रूपं ज्ञानस्य किञ्चन।
मूर्च्छादिषु कुतस्तत् स्यात् कुतो वा कललादिषु॥
कललादिदशायां वा यदि विज्ञानमिष्यते।
मातापितृस्थयोरस्ति शुक्रशोणितयोरपि॥
ततश्चैकत्र सन्ताने चैतन्यद्वयमापतेत्।
चेतनानां बहुत्वं वा दम्पत्योर्बहुपुत्रयोः॥
न चैष नियमो लोके सदृशात् सदृशोद्भवः।
वृश्चिकादेः समुत्पादो गोमयादपि दृश्यते॥
शरीरान्तरसंचारचातुर्यञ्च धियां कथम्।
ज्वालादिवन्न मूर्तत्वं न च व्यापकतात्मवत्॥
आतिवाहिकदेहेन नीयन्ते चेद् भवान्तरम्।
नन्वातिवाहिकेऽप्यासां कथं संचारसम्भवः॥
आस्तामिवैष वा जीवद्देहेऽपि पथि गच्छताम्।
प्रदेशान्तरसञ्चारो ज्ञानानां भवतः कथम्॥
न ह्येषां भूतधर्मत्वं न स्वतो गतिशक्तिता।
न च जात्यादिवद् वृत्तिर्न च व्यापकतात्मवत्॥
एवं यदैव निष्क्रान्तो विहारकुहराद् भवान्।
तदा कष्टी भवद्देहो ज्ञानसंक्रान्तिसम्भवात्॥
तदयं संक्षेपार्थस्त्यक्तव्यो वा निरस्य कुरुकुर्वीम्।
सुरगुरुवत् परलोके नित्यो वात्माभ्युपेतव्यः॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
अकृताभ्यागमदोषस्य तदवस्थत्वात्। %न चैष नियमो लोक% इति। अस्मिन् हि नियमे सिद्धे सति गर्भशरीरज्ञानस्य वैसादृश्यादुत्पत्त्यसम्भवात् मुमूर्षुशरीरस्तु न तस्योपादानत्वे कल्पते, ततश्च न परलोकसिद्धिः। %आतिवाहिकदेहेनेति% अतिवाहो मुमूर्षुशरीराद् गर्भशरीरसञ्चरणं ज्ञानस्य, तत् प्रयोजनं यस्य तदातिवाहिकम् अन्तराभवशरीरम्। तदुक्तम्।
नात्मास्ति स्कन्धमात्रं तु क्लेशकर्माभिसंस्कृतम्।
अन्तराभवसन्तत्या याति कुक्षिं प्रदीपवत्॥ इति।
न्यायमञ्जरी
%ज्ञानातिरिक्तात्मबोधे दोषोद्धारः%
यत्त्वस्य चर्मगगनोपमतां विकल्प्य।
नाशित्वमुक्तमथ वा विफलत्वमेव।
तन्नैव साधु सुखदुः खदृशोपभोग—
योगेऽपि नाशमधिगच्छति नायमात्मा॥
विकृतिश्च तस्य सुखदुः खजन्मनो।
न हि तादृशी भवति लुप्यते यय।
सहकारिकारणवशात्तु जायते।
तदमुष्य येन समुपैति भोक्तृताम्॥
अथ वोपजनव्ययस्वभावः।
स्वदशाभेदसमन्वये हि पुंसः।
फणिनः किल कुण्डलाद्यवस्था—
नुगतस्येव न भिन्नतेति केचित्॥
अवस्था एव ताः प्रसभविलयातङ्कविधुराः।
अवस्थाता त्वेकः स्फुरति निरपायस्थिरवपुः।
असत्यस्मिन् पूर्वावगतिविषयानुस्मृतिभुवां
न सिद्धः कार्याणामिति निपुणमावेदितमिदम्॥
ननु विमृशति भोगे कर्म नित्योऽपि नात्मा
न हि नरकनिमग्नो मन्यते कश्चिदेवम्।
किल यदहमकार्षं प्राग्भवे कर्म पापं
फलमुपनतमस्माद् भुज्यते तन्मयेति॥
कार्योपभोगसमये किमनेन कृत्यं नास्य प्रवृत्तिरधुना न निवृत्तिरस्मात्।
यस्तु प्रवृत्तिजननौपयिकोऽपमर्शः शास्त्रादसौ भवति शास्त्रविदामवश्यम्॥
विमर्शोऽयं पश्चादपि भवति दृष्टे तु विषये।
मया यूना यत् तत् किमपि सदसद् वा कृतमभूत्।
ततो वृद्धोऽद्याहं फलमनुभवामीति तदयं
पुमानस्ति स्थायी सुकृतफलभोगादिनिपुणः॥
नास्त्यात्मा फलभोगमात्रमथ च स्वर्गाय चैत्यार्चनं
संस्काराः क्षणिका युगस्थितिभृतश्चैते विहाराः कृताः।
सर्वं शून्यमिदं वसूनि गुरवे देहीति चादिश्यते।
बौद्धानां चरितं किमन्यदियती दम्भस्य भूमिः परा॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%कुरुकुची% लोकवञ्चनार्थं क्षान्तिमा धार्यते दम्भरूपा। %सुखदुः खजन्मनो न हि तादृशीति% सुखदुः खजन्मन इति पञ्चमी। %ननु विमृशति भोग% इति। अतश्च भोगकाले `एवंरूपं कर्म यन्मया कृतं तस्यैव फलमथवान्यकृतस्य, को विशेषः? इति विमृशति नैव कश्चित् कर्मकरणे प्रवर्तते इति। %कार्योपभोगसमय% इति उत्तरकाले। %यस्तु प्रवृत्तिजननौपयिक% इति। संसारानित्यत्वादिः विमर्शः। %यूना यत् कृतमीश्वरसेवादि।% %स्वकृतफलभोगादिनियत% इति। स्वकृतानां कर्मणां यत् फलभोगादि तेन नियतो नियम्यमानोऽवश्यंभावी च कृतकर्मफलोपभोग इत्यर्थः।
न्यायमञ्जरी
%उद्भटभट्टमते शरीरादूर्ध्वं न प्रमातृतत्त्वं विद्यते।%
अत्र सुशिक्षिताश्चार्वाका आहुः, यावच्छरीरमवस्थितमेकं प्रमातृतत्त्वमनुसंधानादिव्यवहारसमर्थमस्तु नाम, कस्तत्र कलहायते, शरीरादूर्ध्वन्तु तदस्तीति किमत्र प्रमाणम्? न च पूर्वशरीरमपहाय शरीरान्तरं सङ्क्रामति प्रमाता, यदि ह्येवं भवेत् तदिह शरीरे शैशवदशानुभूतपदार्थस्मरणवदतीतजन्मानुभूतपदार्थस्मरणमपि तस्य भवेत्, न हि तस्य नित्यत्वाविशेषे च शरीरभेदाविशेषे च स्मरणविशेषे कारणमुत्पश्यामो यद् इह जन्मन्येवानुभूतं स्मरति नान्यजन्मानुभूतमिति। तस्मादूर्ध्वं देहान्नास्त्येव प्रमातेति, नित्यात्मवादमूलपरलोककथाकुरुकुर्वीमपास्य यथासुखमास्यताम्। यथाह,
यावज्जीवं सुखं जीवेन्नास्ति मृत्योरगोचरः।
भस्मीभूतस्य शान्तस्य पुनरागमतनं कुतः॥ इति।
न्यायमञ्जरी
%तन्मतखण्डनम्%
अत्रोच्यते। न खलु निपुणमिव सुशिक्षितमायुष्मता चार्वाकाचार्यचातुर्यम्। यावच्छरीरमेकमनुयायि प्रमातृतत्त्वमस्तीति यदुक्तवानसि तन्न विस्मर्तुमर्हसि, न चास्तित्वाविनाभावी भावानां विनाशः स्वाभाविकः, किन्तु हेत्वन्तरनिमित्तक इति सौगतैः सह कलहमतिमात्रमधुनैव कृत्वा समर्थितोऽयमर्थः।
न च विनाशहेतुः प्रमातरि चिरमपि विचार्यमाणः कश्चित् कुतश्चिदवाप्यते। न चानुपलभ्यमानोऽप्यसौ कल्पयितुं पार्यते। न ह्यात्मा पटादिरिव सावयव उपलभ्यते, यदवयवविभागादिना नङ्क्ष्यतीति गम्यते। उत्पत्तिर्नात्मनो दृष्टा यतस्तदविनाभाविनो निरवयवस्यापि कर्मादेरिव विनाशः प्रतीयेत।
न चैष कस्यचिदात्मा गुणो येनाश्रयविनाशाद् वा विरोधिगुणान्तरप्रादुर्भावाद् वा प्रध्वंसमासादयेत्। न चैवं शक्यते वक्तुं किं विनाशहेत्वनुमानेन प्रत्यक्ष एवास्य विनाशो दृश्यत इति, यतो न शरीरवदसौ दह्यमानः शकुनिभिरवलुप्यमानो वा कदाचिदुपलब्ध इति। तस्माद् विनाशादर्शनाद् विनाशहेत्वनुमानासम्भवाच्च अस्ति चेदात्मा नित्य एवेत्यवधार्यताम्।
तस्माद् भूतचैतन्यमेव चिरन्तनचार्वाकाचार्यवत् परलोकापलापपरितोषालम्बितयत्किञ्चनकारित्वसुलभसुखासिकासक्तहृदयैर्वरमाश्रितव्यम्, आशरीरमवस्थिते तु प्रमातृतत्त्वे सति न फलन्त्येते परलोकापलापमनोरथाः।
भूतचैतन्यपक्षोऽपि च पुरा पराकृत एव। तस्मादस्ति नित्यः परलोके प्रमातेति। नित्यत्वे सति पूर्वदेहसंबन्धो भविष्यद्देहान्तरसम्बन्धश्चास्य न दुरुपपादः। शरीरान्तरसञ्चारस्तस्य नास्तीति यदुक्तं तद्युक्तमेव, व्यापिनः सर्वत्र विद्यमानस्यात्मनः कः सञ्चारार्थः? व्यापित्व एव किं प्रमाणमिति चेत् सर्वत्र कार्योपलम्भः प्रमाणम्। यतो वाराणसीमपि गतस्य मे भवत्येव स्मरणेच्छादिकार्ययोगः, स चात्मैकप्रभवः।
आत्मनश्च शरीरस्येव न तत्र गमनम्, अमूर्तत्वात्। न शरीरगुणवत्, तदनाश्रितत्वात्। न प्राणादिवद् अन्तः शरीरवर्त्तित्वाभावात्। अन्तः शरीरवृत्तित्वे हि द्वयी गतिरेकदेशवृत्तित्वं सर्वशरीरमापूर्य वा। तत्र सर्वशरीरापूरकत्वे शरीरपरिमाणानुविषयत्वाद् बालशरीरयुवस्थविरशरीरवत् पूर्वनीत्या परिमाणान्यत्वेन तदन्यत्वात् पुनरपि प्रतिसन्धानादिकार्यवैधुर्यप्रसङ्गः। करिमशकशरीरयोगे च कर्मपरिणआमोपनते तस्य सङ्कोचविकासौ प्राप्नुतः। तौ च नित्यस्य विरुध्येते। एकदेशवृत्तित्वे तु तदनधिष्ठितानामवयवानामनात्मकत्वान्मृतशरीरावयववदयथेष्टविनियोज्यता कष्टीभावः स्यात्।
प्रदीपवदेतद्देशवृत्तेरप्यात्मनः सकलशरीराधिष्ठातृत्वमिति चेत्, वर्त्तिप्रदेशोपचिततेजः पिण्डवदेकत्र शरीरावयवे सविशेषचैतन्यसंवित्तिः स्यात्। अस्त्येव हृदयदेशे तदतिशय इति चेन्न, अनुपलम्भात्। दहनहिमकृपाणादिस्पर्शे हि न हृदयस्य प्रदेशान्तरस्य वा शरीरवेदनाविशेषं पश्यामः। तस्मान्न हृत्पुण्डरीके यावदवस्थानमात्मनः। अत एव `अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष बलाद् यमः’ इति व्यासवचनम् अनेवंपरमवगन्तव्यम्।
यदि तु मनोवदेकदेशवृत्तेरणुपरिमाणस्याशु सञ्चरतः शरीराधिष्ठातृत्वमात्मनः कथ्यते, तथापि सहसैव चिरप्रोषितगतागतदयितजनदर्शनोद्गतसकलशरीरव्यापिस्वेदरोमाञ्चादिदर्शनं विरुध्यते, न च द्वयोरण्वोरात्ममनसोः कर्तृकरणव्यवस्थापि निर्वहतीति, तस्मान्नाणुरात्मा।
न च शरीरपरिमाण इति व्यापक एवावशिष्यते, तदेवं वाराणस्यामप्ययमात्मा विद्यत एवेति तत्र तत्र तत्कार्यदर्शनमवकल्पते नान्येन गमनादिप्रकारेणेति।
ननु सर्वत्र सुखदुः खज्ञानादिकार्यदर्शनात् सर्वप्राणिनामेक एवात्मा भवेत्, न सुखदुः खव्यवस्थादर्शनाद् बन्धमुक्तविभागोपपत्तेश्चात्मभेदस्य दर्शयिष्यमाणत्वात्।
व्यापिनः कथं कर्तृत्वमिति चेत्, ज्ञानचिकीर्षाप्रयत्नसमवाय एवास्य कर्तृत्वं न व्यापारयोग इति निर्णीतमेतत्।
ननु व्यापिन्यात्मनि कथं सरीरबहिरण्वपि कार्यं न दृश्यते? कर्माक्षिप्तशरीरेन्द्रियादिसहकारिसन्निधाननिबन्धनो हि तत्कार्योत्पादः, स कथं बहिर्भवेद् इति।
तस्मादनन्तरोक्तेन प्रक्रमेणोपपाद्यते।
नित्यत्वाद् व्यापकत्वाच्च परलोकित्वमात्मनः॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%चिरन्तनचार्वाकाचार्यवदिति% चिरन्तनचार्वाकैर्हि भाविविक्तप्रभृतिभिः `भूतेभ्यश्चैतन्यम्’ इति सूत्रं भूतेभ्य इति पञ्चम्यन्तपदयोजनया व्याख्यातम्, भूतेभ्य उत्पद्यते चैतन्यमिति। उद्भटेन तु `भूतेभ्यः’ इति पदं चतुर्थ्यन्ततया व्याख्यातम्, भूतेभ्यश्चैतन्यं भूतार्थं चैतन्यं स्वतन्त्रमेव शरीरारम्भकभूतोपकारकमित्यर्थः। %स्मरणेच्छादिकार्ययोग% इति। यथेह स्थितेन मया स्मरणेच्छादिकार्ययोगेनात्मास्तित्वं निश्चितम्, एवं वाराणस्यामपि तस्य कार्यस्य दर्शनात् तत्राप्यात्मनो भावः कल्प्यः। %अङ्गुष्ठमात्रपुरुषमिति% सावित्र्युपाख्याने श्लोकस्य पूर्वमर्धम् `ततः सत्यवतः कायात् पाशबद्धं वशं गतम्’। इति। काष्ठभङ्गसञ्जातशिरोवेदनातिशयस्य सत्यवतः स्वाङ्के सुप्तस्य हृदयदेशादात्मानं निष्कर्षयन्तं यमं सा सावित्री सतीमाहात्म्याद् ददर्शेति। अत एवं परं सतीमाहात्म्येऽस्य तात्पर्यम्। %कर्तृकरणव्यवस्थापीति% व्यापकस्य युगपत् सर्वविषयोपलब्धिप्रसङ्गे सूक्ष्मकरणापेक्षया तदाभावो वक्तुं युज्यते। द्वयोस्तु सूक्ष्मत्वे कर्तृकरणव्यवस्थानां किं नियामकमिति।
%ननु सर्वत्र सुखः दुखज्ञानादीति% सर्वप्राणिनां सर्वत्र सुखदुः खादिकार्यमुपलभ्यते तत्र सर्वव्यापी कल्प्यः, तेन च कल्पितेनैकेनैव कार्यसिद्धे नानात्वकल्पनायां किं प्रमाणमिति।
न्यायमञ्जरी
%सूत्रकारमते पारलौकिकात्मप्रतिपादनम्%
सूत्रकारस्तु पारलौकिकत्वसिद्धये हेत्वन्तराणि प्रत्यपादयत्। सद्यो जातस्य बालस्य वदनविकासरोदनाद्यनुमितो हर्षशोकादियोगस्तावदस्ति। युवशरीरादौ रोदनादि शोकादिकारणकमवगतमिदमाननविकासादिहर्षहेतुकमेवं शिशोरपि तन्निबन्धनस्तदुत्पादः। तौ च हर्षशोकौ सुखदुःखसाधनाधिगमतदनुस्मरणान्यतरकारणौ भवितुमर्हतस्तथा दृष्टत्वात्। इह चास्य न सुखदुःखसाधनपदार्थानुभवस्तदानीमस्तीति तदनुस्मरणमेव हर्षशोकहेतुर्भवेत्। स्मरणमपि तदनुभवप्रभवम्, अनुभवश्चेह जन्मनि सद्यो जातस्य न समस्तीति जन्मान्तरानुभूतसुखदुः खसाधनानुस्मरणनिमित्तिक एवास्य हर्षशोकसमुत्पाद इति जन्मान्तरानुगमाद् नित्य आत्मा।
%उक्तविषे शङ्कासमाधाने%
नन्वभिनवजीवलोकावलोकाह्लादनिबन्धन एवास्य मुखविकासस्तथा योनिद्वारनिर्गमनोद्गतनिरर्गलक्लेशपीडितस्य रोदनमिति न जन्मान्तरानुभूतस्मारणं कल्पयितुं युक्तमतिप्रसङ्गात्। मैवम्, सुखदुःखहेतुमीदृशमननुभव तोऽप्यकस्मादेव हर्षशोकदर्शनात्।
ननु कमलमुकुलविकासादिवत् स्वाभाविकमेव शिशोर्मुखविकाशादिकार्यं स्यात्? स्वाभाविकं नाम किमुच्यते, किमहेतुकम्, अविज्ञातहेतुकम्, अनियतहेतुकं वा?न तावदहेतुकं कार्यं सम्भवति कार्यत्वहानिप्रसङ्गात्। नाप्यविज्ञातहेतुकं तद्भावयितुं युक्तं कार्यमुपलभ्यत इति तद्धेतुपरिज्ञाने यततां भवान्, किमुदास्ते। न चासौ ज्ञातुमशक्यः, कार्यस्यैव तत्र ज्ञापकत्वात्। नाप्यनियतहेतुकं कार्यं किञ्चिदस्ति कार्योत्पादननियमेनैव हेतुनियमसिद्धेः अत एव तत्कार्यमुपपादयितुकामास्तन्नियतमेव कारणमुपाददते लौकिकाः।
यत्राप्यनियतो हेतुर्वृश्चिके गोमयादिकः।
अभियुक्तास्तदत्रापि विशेषं न न मन्वते॥
तदेवं कारणनियमोऽपि कार्यविशेषदर्शनाद् दुरुपह्नव इति मुखविकासस्य हर्ष एव कारणमवगम्यते, सहस्रकृत्वस्तथा दर्शनात्। अचेतनानां तु तामरसादीनां विकासकारणं तरणिकिरणनिकरपरिष्वङ्गाद्युपलब्धम् इति तदपि न स्वाभाविकम्।
तस्मान्मुखविकासस्य हर्षो हर्षस्य च स्मृतिः।
स्मृतेरनुभवो हेतुः स च जन्मान्तरे शिशोः॥
ननु शिशोर्जन्मान्तरानुभूतस्मरणे सर्वदा सर्वस्मरणप्रसङ्गः? न। यावत् कार्यं कारणकल्पनान्न सर्वदा सर्वस्मरणं संवेद्यते। न च तत्कल्पनायां कारणमुपलभ्यते। न चैकदर्शनात् सर्वं कल्प्यम्, दृष्टमपि वा निह्नोतव्यमिति परीक्षकाणामुचित एव पन्था इत्यसकृदुक्तम्।
अपि च पयसस्तृप्तिहेतुत्वमनुस्मरन् बालकः स्तन्याभिलाषेण मातुः स्तनतटे दृष्टि निदधाति न चाद्य तेन तस्य तत्साधनत्वमवगतमिति जन्मान्तरे सम्बन्धग्रहणमस्य वृत्तमिति मन्यामहे।
न चायस्कान्तदृष्टान्तसमाश्रयेण स्वाभाविकमेतद् बालकस्य कुचकलशनिमित्तोपसर्पणमिति वक्तुमुचितमनन्तरमेव निरस्तत्वात्।
ननु च गर्भशय्याशायिनोऽप्यपरितोषदर्शनात् तत्साधनोपादाने तदनुस्मरणमेव प्राप्नोति? यदि कार्यमवगम्यते तत्रापि तत्कारणं कल्प्यतां को दोषः, तत्र तु जनयित्रीजठरपतितान्नपानपरिपाकसङ्क्रान्त्या तत्परिपोषमायुर्वेदविदो वदन्तीति कथं तत्र स्मरणादिकल्पना? कल्पनायां वा प्रथमं निषेकान्तरमेव कललादिशुक्रशोणितविकारसम्भवात्तद्दशास्वपि स्मरणकल्पनाप्रसङ्गः। न तावत् कल्पनायामपि काचिदस्माकं क्षतिः। अयन्तु स्तन्याभिलाषेण कुचक्षीरकलशावलोकनोपसर्पणादरो दारकस्य तदनुस्मरणकृत एवेति सर्वथा जन्मान्तरसम्बन्धानुमानान्नित्य आत्मेति। अतश्चैवं `वीतराग जन्मादर्शनात्’ रागादिवासनाभ्यासेन सुदृढप्ररूढेनानादिप्रबन्धप्रवृत्तेन परित्याज्यमानाः सरागा एव जन्तवो। न खलु लोके कश्चन तादृशो दृश्यते प्राणी यो जातो वीतरागश्चेति। स एष सरागो जायमानः पूर्वोपचितां रागादिवासनामनुसरतीति सिद्धो जन्मान्तरसम्बन्धः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%कल्पियुतं युक्तमतिप्रसङ्गादिति% दृष्टे हेतौ सम्भवति, अदृष्टकल्पनायां हि सर्वत्रैवंप्रसङ्ग इति।
%सुखदुः खमीदृशमीति।% यादृशमभिनवजीवलोकावलोकनादिजमुक्तम्।
%कार्यत्वहानिप्रसङ्गादिति% कार्यं तदुच्यते यत् केनापि क्रियत इति।
%अनन्तरमेव निरस्तत्वादिति% अयस्यपि क्रियायाः सनिमित्तत्वम्, कार्यस्य निर्हेतुकत्वे कार्यत्वहानिप्रसङ्गादिति।
%`वीतरागजन्मादर्शनात्% द्ति न्यायसूत्रम्।
न्यायमञ्जरी
%जगद्वैचित्र्यदृष्टकारणजन्यमित्यदृष्टसिद्धिः%
तथा च केचिज्जायन्ते लोभमात्रपरायणाः।
द्रव्यसङ्ग्रहणैकाग्रमनसो मूषिकादयः॥
मनोभवमयाः केचित सन्ति पारावतादयः।
कूजत्प्रियतमाचञ्जुचुम्बनासक्तचेतसः॥
केचित् क्रोधप्रधानाश्च भवन्ति भुजगादयः।
ज्वलद्विषानलज्वालाजालपल्लविताननाः॥
जगतो यच्च वेचित्र्यं सुखदुः खादिभेदतः।
कृषिसेवादिसाम्येऽपि विलक्षणफलोदयः॥
अकस्मान्निधिलाभश्च विद्युत्पातश्च कस्यचित्।
क्वचित् फलमयत्नेऽपि यत्नेऽप्यफलता क्वचित्॥
तदेतद् दुर्घटं दृष्टात् कारणाद् व्यभिचारिणः।
तेनादृष्टमुपेतव्यमस्य किञ्चन कारणम्।
अदृश्यो भूतधर्मस्तु जगद्वैचित्र्यकारणम्।
यदि कश्चिदुपेयेत को दोषः कर्मकल्पने॥
संज्ञामात्रे विवादश्च तथा सत्यावयोर्भवेत्।
भूतवद्भूतधर्मस्य न चादृश्यत्वसम्भवः॥
दृष्टश्च साध्वीसुतयोर्यमयोस्तुल्यजन्मनोः।
विशेषो वीर्यविज्ञानसौभाग्यारोग्यसम्पदाम्॥
स्वाभाविकत्वं कार्याणामधुनैव निराकृतम्।
तस्मात् कर्मभ्य एवैष विचित्रजगदुद्भवः॥
कर्मणां यदि वैचित्र्यं कर्मान्तरकृतं यदि।
अनिष्टं तत् स्वतः सिद्धं जगत्येव तदिष्यताम्॥
कर्मणां शास्त्रतो ज्ञाता विचित्रफलशक्तता।
दृष्टार्थेषु च वाक्येषु दृष्टा प्रत्यक्षतोऽपि सा॥
तस्माद् दृष्टस्य कार्यस्य युक्ता कारणकल्पना।
कारणस्य त्वदृष्टत्वात् किं हेत्वन्तरचिन्तया॥
हेत्वन्तरनिमित्तेऽपि कर्मवैचित्र्यकल्पने।
संसारस्य त्वनादित्वान्नानवस्था भयावहा॥
तथा च पुण्यः पुण्येन पापः पापेन कर्मणा।
जायते जन्तुरित्येवं धर्मशास्त्रेषु पठ्यते॥
तथा च गौतमः `पुण्यः पुण्येन कर्मणा भवति पापः पापेन’ इति।
तस्मात् कुतर्कमूलेन दृष्टकार्योपघातिना।
सर्वलोकविरुद्धेन चोद्येन कृतमीदृशा॥
तस्मात् कल्प्यानि कर्माणि दृष्टकार्योपपत्तये।
एवञ्च क्षणभङ्गित्वात् संस्कारद्वारिका स्थितिः॥
स कर्मजन्यसंस्कारो धर्माधर्मगिरोच्यते।
विना च नित्यमात्मानं क्व धर्माधर्मयोः स्थितिः॥
नित्यस्तस्माद् भवति पुरुषः स्वप्रणीतानुगच्छद्।
धर्माधर्मक्रमपरिणतानन्ततापोपभोगः।
प्रामाण्यञ्च स्फुटमभिहितं पूर्वमेवागमानां
तेभ्योऽप्यात्मा जनननिधनातीततत्त्वः प्रसिद्धः॥
यद्विज्ञानघनादिवेदवचनं तत् पूर्वपक्षे स्थितं
पौर्वापर्यविमर्शशून्यहृदयैः सोऽर्थो गृहीतस्तदा।
मैत्रेय्या परिचोदितस्तु भगवान् यद् याज्ञवल्क्योऽब्रवी—
दात्मा नैव विनश्यतीति तदिदं सिद्धान्तसारं वचः॥
तेनात्मनित्यत्वसमर्थनेन सुस्पष्टसिद्धः परलोकमार्गः।
य एव देहान्तरसङ्गमोऽस्य तमेव तज्ज्ञाः परलोकमाहुः॥
इति कवलने मांस्पाकानां परस्वपरिग्रहे
कितवजनतागोष्ठ्यां वेश्यामुखाम्बुजचुम्बने।
रतमतिरभूद् धूर्तो मत्वा भवान्तरनास्तितां
तदयमधुना तत्संसिद्धेरहो बत दूयते॥
तस्मान्नित्योऽयमात्मा न च कलुषफलस्तस्य नैसर्गिकोऽयं
रागद्वेषादियोगोऽपि तु सकलगुणापोढमेवास्य रूपम्।
तेनानादिप्रबन्धोपचितपरिणमत् कर्मपाकोपनीतं
दुः खं सन्त्यज्य निः श्रेयसमखिलभयातीतमाप्तुं यतेत॥
इति श्रीभट्टजन्तकृतौ न्यायमञ्जर्यां
सप्तममाह्निकम्
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%ज्वालाजालपल्लवितानना इति% ज्वालाजालेन पल्लवितानि संजातानि पल्लवानीवाननानि येषाम्। %अदृश्यो भूतधर्मस्त्विति।% यथा उद्भटेन उक्तम्, `शरीरारम्भककारणानामेव भूतानां स कश्चित् तादृशो विचित्रसुखदुः खोपभोगदो धर्मः स्वभावविशेष इत्यर्थः’ %दृष्टश्च साध्वीसुतयोरिति% अनेनैव स्वमातृगतं वैगुण्यं निरस्यति । %कर्मणा ननु वैचित्र्यमिति% प्राणिनां विचित्रसुखदुः खादिकार्यदर्शनाद् यद् एतत् कर्मवैचित्र्यमनुमीयते तत् किं स्वाभाविकम् आहोस्वित् फलवैचित्र्यवद् हेत्वन्तरजम्? किं स्वभावत एव तादृशविचित्रकर्मसम्पादनं तस्य वृत्तमुत कर्मान्तरप्रयुक्तस्येत्यर्थः । स्वाभाविकत्वे फलवैचित्र्यमपि स्वाभाविकमस्तु, हेत्वन्तरजत्वेऽनवस्था, तद्धेतूनामपि तथाविचित्रकर्मजनकत्वस्य हेत्वन्तरजनितत्वादिति। %कर्मणां शास्त्रतो ज्ञातेति% अग्निहोत्रादिकर्मणां शास्त्रतः फलशक्रियोगितां ज्ञात्वा फलार्थी तेषु प्रवर्तते, न पुनः कर्मान्तरं तत्प्रवृत्तौ कारणमित्यर्थः। %दृष्टार्थेषु% हरीतकीभक्षणादिषु। %हेत्वन्तरनिमित्तेऽपि कर्मान्तरकृतकर्मवैचित्र्ये। %पुण्यः% पुण्यकर्मकारी।
%स्व्प्रणीतानुगच्छद्धर्माधर्मेति% स्वप्रणीतौ स्वकृतौ अनुगच्छन्तौ अनुवर्तमानौ यौ धर्माधर्मौ ताभ्यां क्रमेण परिणते अनन्ततापाय ये सुखदुः खे तयोरुपभोगो यस्य। %मैत्रेय्या परिचोदित% इति। मैत्रेय्या भार्ययेति। पूर्वपक्षत्वेन `विज्ञानघन एवायम्’ इत्यागमस्य ग्रहणम्। %आत्मा नैव विनश्यति% इति। `अविनाशी वा अरे अयमात्मा अशीर्यो न हि शीर्यते’ इत्याद्युक्तम्। %सिद्धान्तसारं% सिद्धान्ततात्पर्यम्। %इति कवलने मांस्पाकानामिति% मांसस्य पाकः मांस्पाक इति। `पदादिषु मांस्पृत्स्नूनामुपसङ्ख्यानाम्’ इति अकारलोपः। %कितवजनतागोष्ठ्यां कितवजनसमूहगोष्ठ्याम्। अस्मिन्नस्मिन् पदार्थे रता मतिर्यस्येति। श्रेयम्॥
भट्टश्रीशङ्करात्मजचक्रधरकृते न्यायमञ्जरीग्रन्थिभङ्गे सप्तममाह्निकम्
———————-**********************——————————–
अष्टमाह्निकम्
न्यायमञ्जरी
%शरीरसामान्यलक्षणम्%
आत्मनन्तरं विभागसूत्रे शरीरनिर्देशात् तदनुक्रमेण तत्स्वरूपनिरूपणार्थमाह
चेष्टेन्द्रियार्थाश्रयः शरीरम्।
शरीरस्य यल्लक्षणं येन च रूपेण भाव्यमानस्यापवर्गोपयोगिता तदुभयमपि प्रतिपाद्यते। तत्र शरीरत्वमेव तावत् प्रथमं शरीरस्य लक्षणं तेन हि सामानासमानजातीयेभ्यस्तद् व्यवच्छिद्यते, तस्मिन् सत्यपि चेष्टेन्द्रियार्थाश्रयत्वं यदस्य लक्षणामुच्यते तत् तेन रूपेणात्मनो भोगायतनं शरीरमिति ज्ञापयितुम्। चेष्टेन्द्रियार्थाश्रयतया हि शरीरमात्मनो भोगायतनं भवति। मुमुक्षुणा च सुखदुः खोपभोगरहितान्मतत्त्वस्वभावनिः श्रेयसाधिगमविनिहितमनसा तथा भोगाधिष्ठानतया शरीरं भावयता तत्परिहरणे यत्नः कार्य इत्याचार्यश्चेष्टेन्द्रियार्थाश्रयत्वमस्य लक्षणमुक्तवान्।
%शरीरस्य चेष्टाश्रयत्वे शङ्कासमाधाने%
ननु चेष्टा क्रिया, क्रियाश्रयत्वे च सत्यपि न वृक्षादीनां शरीरत्वमित्यतिव्यापकं लक्षणम्? न। विशिष्टचेष्टाश्रयत्वस्य विशिष्टप्रमेयलक्षणप्रक्रमतोऽवसीयमानत्वात्, हिताहितप्राप्तिपरिहायोग्यव्यापाराधिकरणं शरीरमुच्यते न चेष्टामात्रस्याधिष्ठानम्। रथादिनापि नातिव्याप्तिर्यथोक्तप्रक्रमवशादेवान्येन प्रेरणायामसत्यामिति विशेषलाभात्। आत्मप्रयत्नातिरिक्तप्रेरकनिरपेक्षहिताहितोपादानपरित्यागोपाधिकचेष्टाविशेषाश्रयः शरीरमित्यर्थः। ननु पाषाणान्तर्गतमण्डूकादिशरीरेषु तदाश्रयत्वादर्शनादव्याप्तिः? न, योग्यतायास्तत्रापि भावात्। सत्यामुपि क्रियायोग्यतायां सर्वतो निर्विवरनिचितदृष्टत्कर्परोपरुद्धावकाशतया चलितुमसौ न प्रभवति भेको वराकः, तथा च स्फुटिते तस्मिन्नेवाश्मनि तत्क्षणमेवासौ चलन् दृश्यत इति निबिडपाशसंयतशरीरवात् तदानीं चेष्टाया अदर्शनेऽपि नाव्याप्तिः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%विशिष्टप्रमेयप्रक्रम% इति। चेष्टामात्राश्रयत्वं वृक्षादीनामप्यस्ति। न च तेषां लक्षणमिह प्रस्तुतम्, मुमुक्षोस्तत्परिज्ञाने प्रयोजनाभावात्। %आत्मप्रयत्नातिरिक्तप्रेरकनिरपेक्षेति।% रथादि हि प्रयत्नातिरिक्तेन शरीरादिना प्रेर्यते, इदन्तु आत्मप्रयत्नेनैव।
न्यायमञ्जरी
%मुमुक्षूणां शरीरमेवात्र लक्ष्यभूतमिति मतनिरसनम्%
मुमुक्षुशरीरमेव लक्ष्यमित्येके, तेन न मण्डूकशरीरादिभिरव्याप्तिरलक्षणीयत्वात् तेषामिति, तदयुक्तम्। नियतस्य मुमुक्षूणां शरीरस्याभावात्, तादृंशि च भेकादिशरीराणि नितरां निर्वेदकारीणि भवन्ति। मुमुक्षुरपि च कर्मविपाकमनेकप्रकारमाकलयन् मण्डूकीभावमात्मनोऽपि न शङ्कते। प्रत्यासन्नापवर्गपुरप्रवेशं विपश्चित्तममपश्चिमजन्मानं मुमुक्षुं प्रति लक्षणाद्युपदेश एव क्वोपयुज्यते, इत्यतः पूर्वोक्त एवाव्याप्तिपरिहारः श्रेयान्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%नियतस्य मुमुक्षुशरीरस्याभावात्% कर्मविपाकवशात् कदाचिद् मण्डूकादिशरीरोऽप्यसौ भवेदित्यर्थः।
न्यायमञ्जरी
%शरीरस्येन्द्रियाश्रयत्वे शङ्कासमाधाने%
भवत्वेवं चेष्टाश्रयत्वं शरीरलक्षणम्, इन्द्रियाश्रयत्वन्तु कथम्? भौ
तिकानि हीन्द्रियाणि स्वावयवसमाश्रितानि, घ्राणनयनस्पर्शनरसनानि, श्रोत्रमनसी तु नित्यद्रव्यत्वादनाश्रित एवेति कथमिन्द्रियाश्रयता शरीरस्येति।
उच्यते। नात्राधाराधेयभाव आश्रयार्थः, किन्तु तदनुग्राह्यत्वात् तदाश्रितानीन्द्रियाण्युच्यन्ते, देशकालदशानुकूलपथ्यभोजनाभ्यङ्गव्यायाममर्दनाभ्युपचारोपचितशरीरस्य हि पुंसः पटुतराणि स्वविषयपुरन्ध्रिग्रहणे भवन्तीन्द्रियाणि दीर्घाध्वलङ्घनकदशनशुष्कजरत्सचन्द्र(?) सेवनादिक्लिष्टशरीरस्य हि पुंसो मन्दशक्तीनि भवन्तीति तदनुग्राहकत्वादिन्द्रियाणमाश्रयः शरीरम्।
अर्थानान्तु रूपरसगन्धादीनां केषाञ्चिदाश्रयः शरीरं भवत्येव तत्समवायिनाम्, न तु तावता किञ्चिद् भोगायतनत्वोपयोगि रूपमभिहितं भवति। लक्षणमपि तदतिव्यापकम्, रूपसादिसमवायस्य वृक्षादावपि भावात्। तस्मात् तदर्थाश्रयत्वमीदृशमत्र विवक्षितम्, यदेते वरवनितादिशरीरवर्तिनः, प्रविकचमुचुकुन्दकुन्दकन्दलकमलादिबाह्यविषयसमवायिनश्च रूपरसादयोऽर्था रमणीयतामादधाना रागवृद्विहेतवो भवन्ति भोक्तुरात्मनः शरीरे सति, न शरीररहितस्य, इत्यर्थानां भोगसाधनभावादाश्रयः शरीरमतः सूष्ठूक्तं चेष्टेन्द्रियार्थाश्रयः शरीरमिति। तदित्थं भोगायतनत्वेन बन्धहेतुत्वाद्धेयमित्यर्थः।
न्यायमञ्जरी
%शरीरपरीक्षाप्रयोजनवर्णनम्%
तदिदानीमस्मदादिशरीरं किं पार्थिवमेव, किं वा नानाभूतनिर्मितमिति परीक्ष्यते। ननु किमनया परीक्षया प्रयोजनम्?
निः श्रेयसोपयोगो हि यः शरीरस्य दर्शितः।
नानैकप्रकृतित्वे हि न स तस्य विशिष्यते॥
मैवं वोचः,
प्रतिपन्नस्वरूपस्य चिन्त्याकारोपयोगिता।
कार्यः कार्यार्थिनाप्यादौ यत्नस्तद्रूपनिर्णये॥
तथा चेन्द्रियाणि भौतिकत्वाहङ्कारित्वविवेकेन परीक्षिष्यन्ते। अर्था अपि कति किंगुणा इति। बुद्धिरपि किं प्रधानस्य प्रथमो विकारो महच्छब्दवाच्य उतात्मन एव धर्मो ज्ञानाख्यः क्षणिक इत्येवं द्रष्टव्यम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%सितेतरसरणिः% अग्निः
न्यायमञ्जरी
%तत्र विप्रतिपत्तयः%
तत्र पार्थिवमेवास्मदादिशरीरमिति केचित्, साधारणो हि धरणिधर्मो गन्धस्तस्मिन्नुपलभ्यत इति।
पृथिव्युदककारणमित्यन्ये, क्लेदस्यापि तस्मिन् दर्शनात्, असति हि सलिलसंसर्गे न पार्थिवाः क्लेदमनुभवन्तीति।
क्षितिजनलज्वलनजनितमित्यपरे, गन्धक्लेदवदूष्मणोऽपि तत्रोपलम्भादिति।
वसुमतीसलिलसितेतरसरणिसमीरणरचितमिति चान्ये, रचनाविशेषस्य पवनकार्यस्य तत्रावधारणादिति।
अवनिवनदहनपवगगनविनिर्मितमिति चापरे, गन्धादिवदवकाशस्याप्याकाशकार्यस्य तत्र दर्शनात्। सुषिरं हि शरीरमुपलभ्यते अवकाशे चाकाशैकदेशेऽप्यवच्छेदाभिप्रायेण श्रोत्रवद् भक्त्या तत्कार्यत्वव्यपदेश इति।
न्यायमञ्जरी
%पार्थिवमेव शरीरम्%
तदत्र किं तत्त्वम्? पार्थिवमेवास्मदादिशरीरमिति, विजातीयकार्यस्यावयविनोऽनुपपत्तेः, पार्थिवावयवसमवेतशरीरावयवग्राहिणश्चाभेदप्रत्ययस्य तृणपर्णपाषाणमूलकाद्यभेदप्रत्ययवदपवादासम्भवात्। न च वयमिह भूतान्तराणां कारणभावनिषेधं विद्मः, केवलपार्थिवतया निर्विवादसिद्धेऽपि कुम्भादावम्भः—प्रभृतीनां कारणत्वानपायात् तद्व्यतिरेकेण घटादेर्घटयितुमशक्यत्वात्। किन्तु घट इव शरीरेऽपि समवायिकारणतां पृथिव्यवयवानामेवाचक्ष्महे तदाश्रितत्वस्यास्य प्रत्यक्षेण ग्रहात् सहकारिकारणत्वानुप्रविष्टभूतान्तरसम्बन्धनिबन्धनस्ततः सिद्धः क्लेदोष्मव्यूहावकाशसम्प्रत्ययः, तत्पथागमपठितेषु वरुणलोकादौ केवलजलादिजन्येषु सहकारित्वानुप्रविष्टपार्थिवावयवावष्टम्भवशेन स्थैर्याद्युपलम्भ इति। तस्मादस्मदादिशरीरं पार्थिवम्।
वेदे च तथैव व्यवहारो दृश्यते, अग्नीषोमीयादिपशोः प्रलयकाले, यजमानस्य वा प्रेतस्य पात्रचयनकर्मणि `सूर्यं चक्षुर्गमयतात्’ इत्याद्युपक्रम्य `पृथिवीं ते शरीरम्’ इति पठ्यते, तच्च प्रकृतिगामित्ववचनम्, यद् यतः प्रकृतेरुत्थितं तत् तस्यामेवास्य लीयतामित्यर्थः। तत्र यथा तैजसं चक्षुरिति सूर्याख्ये तेजसि उद्गमनमुपदिष्टमेवं पृथिव्यां शरीरस्येति। तस्मात् पृथिव्यवयवैरयमस्मदादिदेहो निबद्ध इति नात्र सतां विवादः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%अवच्छेदाभिप्रायेणेति।% विशिष्टरचनावच्छिन्न आकाशदेश एवाकाशकार्यत्वे नोपचर्यते।
%तच्च प्रकृतिगामित्ववचनमिति% `सूर्यं ते चक्षुर्गमयतात्’ इत्यादिकम्।
न्यायमञ्जरी
%क्रमप्राप्तमिन्द्रियपरीक्षणम् घ्राणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्यः%
अत्रेन्द्रियाणां विषयोपलब्धिकारणत्वं सामान्यलक्षणं प्रसिद्धमेव। विभागोऽपि पञ्चबाह्येन्द्रियाणां त्वेष सूत्रित एव। स चानन्तरमेव तीर्थान्तरकथितकर्मेन्द्रियानिषेधात् साधयिष्यते।
विशेषलक्षणानि तु पञ्चानां पञ्चसमाख्यानिर्वचनसामर्थ्यात् प्रमाणवदवगन्तव्यानि। जिघ्रत्यनेनेति घ्राणम्, घ्रेयं गृह्णातीति गन्धोपलब्धावसाधारणं करणं घ्राणम्। चक्षुरीक्षणं लोचनं तदुच्यते। स्पृशत्यनेन स्पर्शनम्, स्पर्शं गृह्णतीति स्पर्शोपलब्धावसाधारणं करणं स्पर्शनम्। स्पर्शनमिति वक्तव्ये त्वग्ग्रहणमुपचारात्, मञ्चाः क्रोशन्तीति तदधिष्ठानत्वं दर्शयितुम्। यथा त्रिपुटिकाधिष्ठानं घ्राणम्, जिह्वाधिष्ठानं रसनम्, गोलकाधिष्ठानं चक्षुः, तथा सकलत्वगधिष्ठानं स्पर्शनम्, शिरः प्रभृत्यापादाङ्गुष्ठं स्पर्शोपलम्भात्। त्वगिति च न बाह्यमेव चर्म केवलमुच्यते अपि तु सकलशरीरव्यापि, तुहिनकणशिशिरसलिलपानसमयेऽन्तर्हृदयेऽपि शीतस्पर्शोपलम्भादिति। स्वावयवसमवायित्वे चेन्द्रियाणां त्रिपुटिकाद्याश्रयत्वमाश्रयमात्रापेक्षयोच्यते, न समवायित्वादिति। शृणोत्यनेनेति श्रोत्रम, शब्दं गृह्णातीति शब्दोपलब्धावसाधारणं करणं श्रोत्रम्। तच्चाकाशैकदेशत्वादनाश्रितमपि कर्णशष्कुल्यधिष्ठानमुच्यते।
तदेवं विशेषलक्षणानि पञ्च पञ्चानामुक्तानि भवन्ति, तानीमानीन्द्रियाणि स्वविषयग्रहणलक्षणान्यात्मनो भोगसाधनत्वात् संसारकारणानीति हेयतया भावयितव्यानि, तथा भाव्यमानानि निर्वेदोत्पादनादिद्वारेणापवर्गाय कल्पिष्यन्त इति।
न्यायमञ्जरी
%इन्द्रियाणां भौतिकत्वम्%
भूतेभ्य इति किमर्थम्? उक्तं हीन्द्रियाणां स्वविषयग्रहणं भूतप्रकृतित्वे सति निर्वहति नान्यथेति तद्विनिश्चयार्थम्, यथाप्तोपदेशः सब्द इत्याप्तग्रहणम्। विषयोपलब्धिलक्षणत्वं हीन्द्रियाणां भूतप्रकृतित्वे सति निर्वहति नान्यथेति, तानि पुनरिन्द्रियकारणानि पृथिव्यापस्तेजो वायुराकाशमिति भूतानि। भूतेभ्यः पञ्चभ्यो यथासङ्ख्यं घ्राणरसनचक्षुस्त्वक्श्रोत्राणि पञ्चेन्द्रियाणि भवन्ति। भूतप्रकृतित्वमिति भूतस्वभावत्वम्, भूतकारणकत्वन्त्वन्येषु चतुर्ष्वपि तथैव, श्रोत्रे तु कथञ्चित् कर्णशष्कुल्यवच्छिन्नभोभागाभिप्रायेण व्यवहारतः समर्थनीयम्। एवं भौतिकानीन्द्रियाणि स्वं स्वं विषयमधिगन्तुमुत्सहन्त इति तल्लक्षणत्वमेषां सिध्यतीति। अतो भूतेभ्य इत्युक्तम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%कर्णशष्कुल्यवच्छिन्नभोभागाभिप्रायेणेति% श्रोत्रशब्दं यतः प्रयुञ्जते व्यवहर्तारोऽतः श्रोतव्यवहारे नभोनिमित्तत्वाच्छ्रोत्रस्यापि भौतिकत्वम्। %व्यवहारतः समर्थनीयम्,% तन्निमित्तत्वाद् व्यवहारस्य व्यवहारद्वारेण समर्थनीयमित्यर्थः।
न्यायमञ्जरी
%इन्द्रियाणां भौतिकत्वे विषयग्रहणासम्भव इति सांख्यमतम्।%
तत्रैतत् परीक्षणीयं वर्तते किं भौतिकानामिन्द्रियाणां स्वविषयग्रहणकरणत्वमुतान्यथेति। एवं हि साङ्ख्याः सम्प्रवदन्ते आहङ्कारिकाणीन्द्रियाण्यर्थं साधयितुमर्हन्ति, नान्यथा। तथा हि कारकं कारकत्वादेव प्राप्यकारि भवति, भौतिकानि चेन्द्रियाणि कथं प्राप्यकारीणि दूरवर्तिनि विषये भवेयुः? आहङ्कारिकाणान्तु तेषां व्यापकत्वाद् विषयाकारपरिणामात्मिका वृत्तिर्वृत्तिमतो नान्या सती सम्भवत्येवेति सुवचं प्राप्यकारित्वम्। अपि च महदणुग्रहणमाहङ्कारिकत्वे तेषां कल्पते न भौतिकत्वे, भौतिकत्वे हि यत्परिमाणं ग्रहणं तत्परिमाणंग्राह्यं गृह्णीयात्। अस्ति च गौलकादधिकपरिमाणस्य पटपिठरादेर्ग्रहणं हीनपरिमाणस्य च वटधानादेरतोऽपि न भौतिकानीन्द्रियाणि। भौतिकानामपि दीपादीनां परं प्रकाशयतां स्वात्मप्रकाशकत्वमपि दृष्टम्। एवमिन्द्रियाण्यपि पटादिरूपं प्रकाशयन्ति स्वरूपमपि न प्रकाशयन्तीत्यतोऽपि न भौतिकानि।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%आहङ्कारिकाणीन्द्रियाणीति।% यथा घटादयो मृद्विशेषाद् एकस्माद् मृत्तत्त्वादुत्पन्ना इति निश्चीयन्ते तथा प्रकाशविशेषाच्चक्षुरादय एकस्यात् प्रकाशविशेषादुत्पद्यन्ते। योऽसौ च प्रकाशविशेषः सोऽहङ्कारः। %तेषां तु व्यापकत्वादिति।% व्यापकत्वं त्वहङ्कारस्य, तत्कार्याणामिन्द्रियाणां सर्वत्र सद्भावश्च, तेषां तद्वृत्तीनां सर्वत्रापि भावः। इन्द्रियाणामव्यापकत्वमिति चेत् तदाह %वृत्तिर्वृत्तिमतो नान्येति% यतोऽनन्यत्वमतो विषयदेशेऽपि तेषां भावात् तदाकारनिर्भासवृत्त्युदयः।
न्यायमञ्जरी
%भौतिकान्यपीन्द्रियाणि प्राप्यकारोणि%
अत्राभिधीयते, यत् तावत् प्राप्यकारित्वं भौतिकत्वपक्षे नावकल्पत इति जल्पितवानसि, तन्मन्ये त्वया गोलकमेव चक्षुरिति चेतसि गृहीतम्, अन्यथा कथमित्थमकथयिष्यः, स चायम् आयुष्मतो महान् भ्रमः। न खलु कृष्णसारं चक्षुस्तदधिकरणन्तु तेजश्चक्षुः, तच्च वेगवद्द्रव्यत्वाद् दूरमपि प्रसरतीति कोऽस्य प्राप्यकारितायां प्रमादः?
ननु च गोलके चिकित्सादिप्रयोगाद् गोलकगुणदोषानुवर्तित्वाच्च विषयोपलब्धेर्गोलकमेव चक्षुः स्यात्, अनुपलभ्यमानञ्च तेजः कथमिन्द्रियमुच्यते, कथञ्च तेजसा वेगवतापि सहसैव विस्फारिते चक्षुषि योजनशतसहस्रव्यवहितसितकरतरणितारकादि ग्रहीतुं शक्येत। कथं वा तदल्पकं वराकं नायनं तेजः समन्ततः प्रसरता सकलभुवनप्रथितप्रभावेण महीयसापि मिहिरमहसा न प्रतिहतगति भवेदभ्यक्षमिति भास्करदर्शनमित्थं न सम्पद्येत? तेजः पक्षे च काचाभ्रकपटबालस्फटिकान्तरितपदार्थोपलब्धिः कथं समर्थ्येत? तत्प्रतिबद्धं हि तेजः कथं प्रतिष्ठेतेति। तद्वरं शक्तिविशेषयुक्तं गोलकमेव साधो! चक्षुरभ्युपगच्छेति।
उच्यते। न खलु भवदनुशासनेन युक्तिविरुद्धपक्षमभ्युपगच्छामः। प्राप्यकारि हि कारकं दृष्टं कृष्णसारपक्षे च कुतः प्राप्यकारित्वम्? शक्तिरपि कल्प्यमाना निराश्रया न परिकल्पनीयैवेति तदाश्रयचिन्तायां न गोलकमात्रमाश्रयोक्तेराश्रयो भवेत्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%ननु गोलके चिकित्सादिप्रयोगादित्यादि% बौद्धः प्रत्यवतिष्ठते।
न्यायमञ्जरी
%न सर्वेषामिन्द्रियाणां प्राप्यकारित्वम् इति शङ्का तत्समाधानञ्च%
ननु च प्राप्यकारित्वमेव चिन्त्यं वर्तते, तद्धि रसनस्पर्शनयोः केवलमवलोक्यते लोके, चक्षुः श्रोत्रे तु दूरदेशव्यवस्थितविषयग्राहिणी कथं प्राप्यकारिणी स्याताम्। घ्राणे तु त्रिपुटिकानिकटनिहितपदार्थगन्धमपि गृह्णाति दूरतोऽपि च प्रचलदनिलबलवेल्लितफुल्लमल्लिकादिसौरभमुपलभते। त्रिपुटिकोपकण्ठढौकितेनापि द्रव्येण न तस्य सन्निकर्ष इति तदप्यप्राप्यकार्येव। तस्माच्छक्रिविशेषणमधिष्ठानमेव तत्तदिन्द्रियमिति गृह्यताम्, उत्सृज्यतां प्राप्यकारित्वपक्षः। चक्षुषि च चन्द्रार्कग्रहादिग्राहिणि नतरां प्राप्यकारित्वमित्युक्तमेव।
अत्रोच्यते। न प्राप्यकारित्वमुत्स्रष्टुं शक्नुमः, कारकत्वमेव हि तथा सत्येषामुत्सृजेम्, कारकञ्चाप्रप्यकारि चेति चित्रम्। अदृष्टमपि कारणमात्मनो व्यापकत्वात् तद्वृत्ति धर्मादिकं न प्राप्यकारि भवेत्, किमुत दृष्टं चक्षुरादि कारकमिति। अप्राप्यकारित्वे च शक्तेरविशेषात् कुड्यादिव्यवहितमपि वस्तु चक्षुषा दृश्येत। तत्र कार्यानुपलम्भान्न शक्तिः कल्प्यत इति चेत्, किं शक्तिः कल्प्यतां किं तेज इति सम्प्रधारणायां तेजसो द्रव्यत्वाद् व्यवधानाद्यनुगुणममूर्तायास्तु शक्तेर्व्यवधानमबाधकं भवेदिति तेज एवेन्द्रियं कल्पनीयं न शक्तिः शक्तिमदधिष्ठानं वा। प्राप्यकारिता च श्रोत्रस्य तावद् देशसन्तानसदृशशब्दपरम्परारम्भणद्वारेण दर्शिता शब्दाधिकरणे। घ्राणस्यापि समीरणान्दोलितकुन्दलतादिप्रसृततत्परमाणुनिकराधिकरणगन्धग्रहणात् प्राप्यकारिता।
न च परमाणूपसर्पणाद् द्रव्यपरिक्षयाद्याशङ्कनीयम्, भूयस्त्वात् परमाणूनाम्। अत एव गन्धद्वारकतद्द्रव्यसम्पर्कदोषनिर्हरणाय प्रायश्चित्तमशुचिद्रव्यघ्राणे समामनन्ति। चक्षुषस्तेजः प्रसरणात् प्राप्यकारिता, अनुपलभ्यमानं तेज इति चेत्, किं चन्द्रमसः परभाग उपलभ्यते पृथिव्याश्चाधोभागः? न खलु प्रत्यक्षैकशरणाः पदार्थाः, अनुमानादिभिरेषामुपलम्भः सम्भवत्येव। उक्तञ्चानुमानं रूपोपलब्धिकार्येण तैजसमेव चक्षुरनुमीयते, तेजोद्रव्यं हि दीपादि रूपस्य प्रकाशकं दृष्टमिति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%प्रायश्चित्तमशुचिद्रव्यघ्राण% इति। तथा च पठन्ति।
अनृतं मद्यगन्धञ्च दिवामैथुनमेव च।
भुनक्ति वृषलस्यान्नं बहिः सन्ध्यास् उपासीत॥ इत्यादि।
न्यायमञ्जरी
%चक्षुषस्तैजसत्वे प्रत्यक्षत्वापत्तिनिरासः%
प्रत्यक्षेण तु नायनं तेजः किमिति नोपलभ्यत इति, तदुच्यते, विचित्रा हि द्रव्यगुणानामुद्भवाभिभवादिवशेन गतयो भवन्ति। तद् यथा, सर्वतः प्रसरता धवलबहलेन शीतस्पर्शाश्रयेण द्रव्येण व्याप्तौ हेमन्तशिशिरौ ऋतू भवतः, निराधारस्य शीतस्पर्शगुणस्यानुपपत्तेः।
अथ सत्यपि तत्र सलिलद्रव्ये तद्गुणस्य शीतस्पर्शस्यैवोपलब्धिर्न शुक्लरूपस्येति। तेजोद्रव्येण च निरर्गलं विजृम्भमाणेन भूयसा ग्रीष्मो भवति। तत्र सत्यपि तेजोद्रव्ये तद्गुणस्योष्णस्पर्शस्यैव ग्रहणं न भास्वररूपस्येति। भास्वरञ्च कार्तस्वरादौ तैजसद्रव्ये रूपमुपलभ्यते नोष्णस्पर्शः। उदकान्तर्गते च तेजसि ज्वलनतप्ते जले ज्वलनगुण उष्णस्पर्शोऽनुभूयते, न भास्वरं रूपमिति। एवमिह नयनरश्मौ तैजसे द्रव्ये द्वावपि रूपस्पर्शौ नोपलभ्येते इति कमुपालभेमहि। उक्तञ्च `दृष्टानुमितानां हि नियोगप्रतिषेधानुपपत्तिः, प्रमाणस्य तत्त्वविषयत्वात्’ इति। न च सर्वत्र नयनरश्मेरनुपलम्भः। क्वचिद्धि वृषदंशप्रभृतीनां नक्तञ्चराणां निशि निबिडतमतमः पङ्कपटलावलिप्ते वेश्मनि सञ्चरतां चाक्षुषं तेजोभास्वरं रूपं दूरमपि प्रसरदुपलभ्यत एव। अन्यत्र तु मध्यन्दिनोल्काप्रकाशवदग्रहणमस्मदादिनयनरश्मेः। अयन्तु विशेषः उल्कारूपस्य दिवा दिवाकरकरविभवाभिभूतत्वादग्रहणं नयनरश्मिरूपस्य त्वनुद्भूतत्वादेवेति।
न्यायमञ्जरी
%काचादिव्यवहितदर्शित्वेऽपि चक्षुषः प्राप्यकारित्वमेव%
यत्तु काचाभ्रपटलस्फटिकान्तरितपदार्थोपलम्भनम्, तत्र काचादीनां केषाञ्चिदतिस्वच्छत्वात् केषाञ्चिच्च ससुषिरत्वाच्चाक्षुषतेजः प्रसरनिरोधकौशलं नास्तीति प्राप्यकारित्वं चक्षुषस्तावता भवति।
यत्तु कुतो नयनरश्मेरियती गतिर्गगनमाक्रम्य यद्गभस्तिमालिनं स्पृशति, न प्रतिहन्यते च सावित्रेण वेगवता तेजसेति, उक्तमत्र दृष्टानुमितानां नियोगप्रतिषेधानुपपत्तिरिति। कार्यसत्तया हि तथाविधं कारणं कल्प्यते यद् दूरमपि प्रसरति प्रसरदपि परेण न च निरुध्यते। दृष्टश्चानिरोधो भर्जनकपालादौ तेजसः पच्यमानद्रव्यपाकसिद्धेः, कलशे च निषिक्तानामपां बहिः शीतस्पर्शग्रहणादनिरोधः, एवं नयनरश्मेरपि भविष्यति, न तु गोलकस्यैव शक्तिकल्पना लघ्वीति वक्तव्यम्, प्राप्यकारित्वव्याघातादिति। अत एव सर्वेन्द्रियाणां प्राप्यकारित्वं पश्यद्भिः शास्त्रज्ञैरिन्द्रियार्थसन्निकर्षः षट्प्रकारो व्याख्यातः। प्राप्यकारिता च न गोलकस्योपपद्यते तदप्राप्तस्य पर्वतादेर्ग्रहणात् तत्प्राप्तस्य च प्रत्युताञ्जनशलाकादेरग्रहणादगोलकं चक्षुः।
चिकित्सादिप्रयोगस्तु गोलके यः प्रवर्त्तते।
सोऽयमाधारसंस्कार आधेयस्योपकारकः॥
अत एव गोलकगुणदोषानुवर्तित्वमपि विषयोपलब्धेर्घटमानम्, आधारद्वारकौ हि तदाधेयस्यैव तौ गुणदोषाविति, तस्मादप्राप्तविषयग्रहणानुपपत्तेर्गोलकचक्षुः पक्षो भिक्षूत्प्रेक्षितः प्रेक्षावतां हृदयेषु न विश्राम्यतीति प्राप्यकारी तेज एव चक्षुरिति स्थितम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%दृष्टानुमितानामिति% एवं भवतेति यो नियोगः, एवं मा भूद् इति च यः प्रतिषेधः, तयोरनुपपत्तिः। %तत्त्वविषयत्वाद्% यथाऽस्तिवस्तुविषयत्वात्।
%नियतगुणोत्कर्षयोगित्वादिति% नियतस्य गन्धादेर्गुणस्य पृथिव्यादीनां य उत्कर्षो भूयस्त्वम्।
न्यायमञ्जरी
%इन्द्रियाणां नाहङ्कारिकत्वम्%
इत्थं भौतिकेन्द्रियवादेऽपि प्राप्यकारित्वसिद्धेर्न कापिलकथितमाहङ्कारिकत्वमिन्द्रियाणामुपपद्यते।
ननु पक्षद्वयेऽपि प्राप्यकारित्वोपपत्तेः कोऽयं भौतिकत्वं प्रत्यभिनिवेशातिशयो भवतामिति, उच्यते, एकप्रकृतित्वे हीन्द्रियाणामेकमेव सर्वविषयप्रकाशनकुशलमिन्द्रियं भवेत् सर्वाणि वा सर्वविषयग्राहीणि भवेयुः, कारकस्याविशेषात्। कारणनियमाधीनो हि कार्यनियमः। अहङ्काराख्यञ्च कारणम्, सकलविषयप्रकाशनशक्तियुक्ते तस्मिन् कथमिन्द्रियान्तराणि विषयान्तरग्राहीणि ततो भवेयुः? भौतिकत्वे तु भूतानां भेदान्नियतगुणोत्कर्षयोगित्वान्नियतविषयग्राहीन्द्रियप्रकृतित्वम्। तथा च प्रदीपादितेजो रूपरसाद्यनेकविषयसन्निधानेऽपि रूपस्यैव प्रकाशीभवितुमर्हति। एवमिन्द्रियान्तरेष्वपि वक्तव्यम्। तदेष विषयनियमः प्रकृतिनियमकारित इन्द्रियाणामिति भौतिकानीन्द्रियाणि।
न्यायमञ्जरी
%चक्षुषस्तैजसत्वे द्रव्यादिग्रहणं कथमिति शङ्कानिरासः%
यत्त्वेवं तैजसेन चक्षुषा कथं पार्थिवस्य रूपस्य ग्रहणं पृथिव्या एव वा, आप्येन च रसनेन पार्थिवस्य रसस्य, वायवीयेन स्पर्शनेन्दियेण च पृथिव्यादिस्पर्शस्य, तदिदं प्रकृतिनियमेऽपि कथं विषयसाङ्कर्यमिति? नैष दोषो रूपादिविषयविषयोऽपि ह्येषां नियमो न तदाश्रयविषयः, तैजसं हि प्रदीपादिद्रव्यं रूपमेव प्रकाशयद् दृश्यते न तेजोवृत्त्येव रूपम्। आप्यमपि द्रव्यं रसमेव व्यनक्ति न तु सलिलस्थमेवेति, घ्राणे तु न कश्चिद्दोषः, तद्ग्राह्यस्य तस्य पृथिव्येकवृत्तित्वादिति, द्रव्यस्यापि दर्शनस्पर्शनग्राह्यत्वमविरुद्धमित्थं भौतिकत्वेऽपीति। यदुक्तं महदणुग्रहणाच्चाभौतिकानीन्द्रियाणीति, तन्न, दूरप्रसारित्वस्य दर्शितत्वात्, ततश्च विततत्वाद् विततग्राहि भवत्येव, विततत्वेनापि नाहङ्कारिकत्वम्।
यत् पुनरभ्यधायि भौतिकत्वे परगुणवत् स्वगुणस्यापि प्रकाशमिन्द्रियं स्यादिति, तदयुक्तम्, सगुणस्येन्द्रियस्येन्द्रियभावात्। इन्द्रियेण हि सता तेन विषयः परिच्छिद्यते सगुणस्य चास्येन्द्रियत्वं स्वगुणरहितं तदिन्द्रियमेव न स्यात्, अनिन्द्रियञ्च कथं ग्राहकमत इन्द्रियगुणानाम् अन्तः पतितत्वान्न प्रमेयत्वम्। तस्माद्भौतिकानीन्द्रियाणि स्वं स्वं विषयमुपलभन्त इति सिद्धम्।
प्रयोगस्तु पार्थित्वं घ्राणं द्रव्यत्वे सति रूपादिमध्ये गन्धस्यैव व्यञ्जकत्वाद् गन्धयुक्तद्रव्यवत्, तत्र व्यञ्जकत्वमात्रमनैकान्तिकमिति गन्धस्यैव विशेष्यते। सोऽयमसिद्धो हेतुर्भवेत्, गन्धत्वस्यापि घ्राणव्यङ्ग्यत्वादिति रूपादिमध्य इत्युक्तम्। तथापि सन्निकर्षेण व्यभिचार इति तद्व्युदासाय द्रव्यत्वे सतीति विशेषणम्, एवं रसनादिष्वपि प्रयोगा रचनीयाः। श्रोत्रं त्वाकाशैकदेश इति शब्दाधिकरणे निर्णीतम्। गन्धादिविषयोपलब्धिनिबन्धनसुखदुः खोपभोगहेतुभूतधर्माधर्मोपनिबद्धानां चेन्द्रियाणामिन्द्रियत्वमिति। तद्वशाद् यथा नियतविषयग्रहणकारणता घटते, तथा कल्प्यत इति सर्वमनवद्यम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%गन्धयुक्तद्रव्यवदिति।% गन्धयुक्तद्रव्याणां कस्तूरिकादीनां गन्धविशेषार्थमुपादानम्, यस्मात् तेषामेव गन्धव्यञ्जकत्वम्। यथाहि क्षितिद्रव्यव्यक्तयः प्रत्येकं सामस्त्येन च गन्धाभिव्यक्त्यर्थमुपादीयन्ते नैवं जलादिव्यक्तय इति पृथिवीद्रव्यव्यक्तीनामेव गन्धाभिव्यञ्जकत्वम्। न च वाच्यं गन्धयुक्तिद्रव्याणि गन्धविशेषस्योत्पादकानि नाभिव्यञ्जकानीति, उत्पादकत्वेऽप्यभिव्यञ्जकत्वाविरोधात्। ग्रहणयोग्यत्वापादकत्वं हि द्रव्यव्यञ्जकत्वम्। तच्चोत्पादकत्वेऽप्यविरुद्धमिति। %एवं रसनादिष्वपि प्रयोगा% इति। आप्यं रसनेन्द्रियम्, द्रव्यत्वे सति रूपादिषु मध्ये रसस्यैव व्यञ्जकत्वात्, घटोदकवत्। तैजसं चक्षुः, द्रव्यत्वे सति रूपादिषु मध्ये रूपस्यैव व्यञ्जकत्वात् प्रदीपवत्। वायवीयं स्पर्शनेन्द्रियम्, द्रव्यत्वे सति रूपादिषु मध्ये नियमेन स्पर्शग्राहकत्वाद् व्यजनानिलवत्।
न्यायमञ्जरी
%त्वगेवैकमिन्द्रियमिति मतखण्डनम्%
आह, भवन्तु भौतिकानि इन्द्रियाणि, पञ्चेति तु न युक्तमुक्तम्, त्वगेव ह्येकमिन्द्रियं भवितुमर्हति सर्वत्रानपायात्। करतलकपोलकण्ठादिवर्तिनापि त्वगिन्द्रियेण रूपोपलम्भप्रसङ्ग इति चेत्, न, अवयवविशेषशक्तिविशेषनियमात्। न हि पाणिना पादेन वोपस्थकार्यं कर्तुं शक्यते, अस्ति चावयवविशेषस्वभावविशेषवैचित्र्यम्।
तुषारकर्पूरापूर्णवारिण्युत्तरमानसे।
यथा च वृषणौ स्नातुः स्फुटतो न तथा स्फिचौ॥
क्लिन्नार्द्रंतृणकाष्ठादिधूमेन कटुना यथा।
मूर्धाक्षिवेदनोदेति न तथावयवान्तरे॥
तस्मादवयवविशेषव्यवस्थितनानाशक्तिखचितं त्वगेवैकमिन्द्रियमिति।
उच्यते, कुतोऽयमपूर्व एव महाप्राज्ञो वादी सरलमतीनस्मान् वञ्चयितुमागतः, योऽवयवविशेषं चाश्रयन्नप्येकमिन्द्रियं मन्यते शक्तिभेदादाश्रयभेदाच्च। नानात्वमेवैतदिन्द्रियाणामिल्यलं महात्मभिः सह कलहेन।
मनुष्यैः सह संवादो मादृशानां हि शोभते।
देवास्तु नररूपेण त इमे भान्ति वादिनः॥
ननु नानात्वपक्षेऽपि पञ्चत्वनियमः कथम्।
द्वे श्रोत्रे चक्षुषी द्वे च कथं ते एकमिन्द्रियम्॥
आह च `सव्यदृष्टस्येतरेण प्रत्यभिज्ञानाद्’ इति। चक्षुष्ट्वजातेरेकत्वादिति चेत्, तर्हीन्द्रियत्वजातेरेकत्वादेकमिन्द्रियं स्यात्? उच्यते, चक्षुस्तावत् तेज इति निर्णीतम्, ततश्चैकमेव तदधिष्ठानमेकघ्राणवंशव्यवहितमनेकमिवोपलभ्यते, भिन्नं वा तद् भवतु तेजः तत्कार्यैक्यादाश्रयभेदेऽप्येकमेव। श्रोत्रमपि कर्णच्छिद्रद्वयानुस्यूतमेकमेव नभोदेशप्रायं कार्यैकत्वस्यापि भावात्।
तेनाधिष्ठानभेदेऽपि कार्यैकत्वस्य दर्शनात्।
तत्सामान्यस्य चैकत्वादेकत्वं श्रोत्रचक्षुषोः॥
न चेन्द्रियजातेरैक्यादेकमिन्द्रियम्। कार्यस्योपलब्धिलक्षणस्य, कारणस्य पृथिव्यादेः, विषयस्य गन्धादेः, अधिष्ठानस्य त्रिपुटकादेर्गतेश्च, घ्राणत्वादेर्जातिशब्दवाच्यस्य, योनेर्वा पृथिव्यादेः पञ्चविधत्वात् पञ्चैवेन्द्रियाणि कल्प्यन्ते। यथा परमाणुसामान्याविशेषेऽपि पृथिव्यादिचतुर्विधकार्यदर्शनाच्चतुर्विधाः परमाणवः कल्प्यन्त इति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%सर्वत्रानपायाद् इति।% चक्षुरादावपि त्वचः सम्भवात्। %उत्तरमानसे% सरोविशेषे।
%कार्यस्योपलब्धिलक्षणस्येत्यादिना% `न, बुद्धिलक्षणाधिष्ठानगत्याकृतिजातिपञ्चत्वेभ्यः’ इति सूत्रं व्याचष्टे। बुद्धिरेव लक्षणं कार्यभूता।
न्यायमञ्जरी
%कर्मेन्द्रियत्वेन स्वीकृतानामिन्द्रियत्वखण्डनम्%
ननु तथापि न पञ्चेन्द्रियाणि, बुद्धीन्द्रियवत् कर्मेन्द्रियाणामपि पञ्चानामुपसंख्येयत्वात्। तदुक्तं वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियाण्याहुः। तेषाञ्च वचनादानविहरणोत्सर्गानन्दात्मकपञ्चविधकार्यसाधनादिन्द्रियत्वं तत्कार्यस्यानितरेतरसाध्यत्वादिति।
अत्राहुः, अत्यल्पमिदमुच्यते पञ्च कर्मेन्द्रियाणीति। अन्यान्यपि खलु न सन्ति कर्मेन्द्रियाणि? तथा हि कण्ठोऽन्ननिगरणेन, स्तनकलशालिङ्गनादिना वक्षो भारवहनेन चांसद्वयमिन्द्रियमुच्यते न कथम्? तत्कार्यस्य शरीरावयवान्तरेऽपि दर्शनादिति चेत्, किन्तु भावन्नपानं पाणिपादेन निगिरति पायुना वा? आदानमपि किमास्यादिना वा न कुर्वते तिर्यञ्चो मनुष्या अपि हि क्वचित्, असत्स्वपि भवत्कल्पितेषु कर्मेन्द्रियेषु तत्कार्यं यावत्तावदन्यथापि दृश्यते न त्वेवं बुद्धीन्द्रियेषु।
भवत्युत्पाटिताक्षस्य न मनागपि रूपधीः।
ईषद्विहारादानादि दृष्टं यन्त्राङ्घ्रिपाणिषु॥
अपि च विहरणमपि न केवलं चरणयुगलकार्यम्, अपि तु जानूरुजङ्घादिसहितपादसम्पाद्यमानमपि बाहुसहिताभ्यां पाणिभ्यामपि निर्वर्त्यते न केवलाभ्याम्, वागिन्द्रियन्तु नाभेरूर्ध्वं सर्वमेव स्यादित्याहुः `वायुर्नाभेरुत्थित उरसि विस्तीर्णः कण्ठे विवर्तितो मूर्धानमाहत्य परावृत्तो वक्त्रे चरन् विविधाञ् शब्दानभिव्यनक्ति’ इति। अस्ति चेदृगनुभवो जल्पतां विशेषतस्त्वखण्डगेयं गायतामिति। एवञ्च कर्मेन्द्रियमयमेव विश्वमिति न च शरीरमिन्द्रियव्यतिरिक्तं किञ्चिद् भवेत्। अथ शरीरावयवेष्वेव भिन्नकार्यकारिषु कर्मेन्द्रियव्यवहारस्तर्हि कण्ठादिभिरतिप्रसङ्ग इत्ययुक्तम्, उपस्थेन्द्रियञ्च कथमेकं गण्यते तेनानन्दवन्मूत्रोत्सर्गस्यापि साधनात्, वागिन्द्रियन्तु सुतरामहृदयङ्गमम्, संयोगविभागनिर्वर्त्यो हि बाह्यः शब्द उपलभ्यते, तद्भेदाश्च विद्यन्ते यादृशो भेरीदण्डसंयोगजः शब्दो न तादृशः कूर्मीकोणसंयोगजः। एवं विचित्रस्थानकरणसंयोगाद् विचित्रो वर्णात्मकः शब्द उदेतीति न वागिन्द्रियं नाम किञ्चित्। लोकश्च वाक्शब्देन वर्मात्मकं शब्दमेव व्यपदिशति शब्दश्चेन्द्रियविषयो नेन्द्रियम्, तस्मादनेकविधसुखदुः खोपभोगाक्षेपक्षमकर्मपरिणामनिर्मितमेतच्छरीरं तैस्तैरवयवैस्तं तं कर्मफलोपभोगमात्मनः सम्पादयतीत्यलमेवंविधेन्द्रियकल्पनार्जवेन।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%वागिन्द्रियं त्विति% शब्दोत्पत्तौ करणस्य वागिन्द्रियत्वाभिधानात्।
न्यायमञ्जरी
%मनस एवान्तः करणत्वम्%
अन्तः करणस्यापि त्रैविध्यमनुपपन्नम्, एकेन मनसैव पर्याप्तेः। बुद्धिस्तु उपलब्धिस्वभावत्वात् करणकार्या न तु करणम्। अहङ्कारोऽपि ज्ञानविषय एव न करणम्, एतच्च सविस्तरं बुद्धिलक्षणे वक्ष्यामः। तस्मान्न त्रयोदशविधं करणमिति सिद्धम्।
न्यूनाधिकत्वशमनादत इन्द्रियाणि।
पञ्चैव बाह्यविषयाधिगमक्षमाणि।
अन्तः सुखादिविषयग्रहणोपयोगि
षष्ठं मनस्तु कथयिष्यति सूत्रकारः॥
तानि
पुंसो भवाब्धिपतितस्य विवेकरत्न—
मानन्ददायि न हरन्ति तथा विधेयम्॥
————————**********************——————————–
अर्थपरीक्षा
%गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्थाः%
तदर्था इत्यत एवापकृष्य वा प्रक्रमाद्वा अर्था इति लक्ष्यपदं दर्शयितव्यम्, तदर्थ इति लक्षणम्। तदिति प्रकृतेन्द्रियपरामर्शः। सामान्यलक्षणन्तु पुनस्तदर्था इत्येव योजनीयम्। तदिति घ्राणादीनां विशेषसंख्यानिर्दिष्टानामवमर्शः। एवञ्च घ्राणस्य विषयो गन्धः, रसनस्य विषयो रसः, इत्यादि विशेषलक्षणमुक्तं भवति। गन्धत्वादीनान्तु घ्राणादिग्राह्यत्वादतिव्याप्तिरिति पृथिव्यादिगुणा इति विशेषणोपादानम्। ते चामी गन्धादय इन्द्रियार्था भोग्याः सन्तः सक्तिहेतवः संसारद्राघिमाणमावहन्तीति हेयतया भावयितव्याः।
नन्वेवं गन्धादिगुणाधिकरणस्यावयविनः प्रथमस्यरागहेतोरसड्ग्रहः स्यात्? वक्ष्यति च `तन्निमित्तं त्ववयव्यभिमानः’ इति, संख्यापरिमाणादिगुणान्तराणामपि रागहेतुत्वमस्त्येव। यथा बर्हिकलापानुकारिपरिमृदितकुसुमदलपटलशबलविलासिनीकेशपाशवृत्ति रूपं हरति हृदयं यूनाम्, तथा तद्गता बहुत्वसंख्यापि। उत्तप्तकनकशिलानिभनितम्बबिम्बरूपवत् तत्परिमाणमपि हरति च सरभसम्। अवयवसंयोगविभागाद्यपि तथा कन्दुकादिक्रीडासु किसलयितविसरसविलासविसरमधरपरिभ्रमणादि कन्दुकान्तम्। तथान्त्यजजात्यादिपरिहारेण स्वानुरूपजातियोगित्वमपीत्यादि सर्वं द्रव्यगुणकर्मादि सक्तिकारणमनुक्तं स्यात्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%आनन्ददायीति% आनन्दशब्देन दुः खाभावे वर्तमानेन मोक्षो लक्षितः।
%प्रक्रमाद् वा% प्रमेयसूत्रेऽस्मिन्नवसरे तेषां पाठात्।
%तन्निमित्तम्% रागादिनिमित्तम्। %अवयव्यभिमानः% अवयविग्रहः।
न्यायमञ्जरी
%सूत्रस्थपदविचारः%
तत्र केचित् पृथिव्यादिगुणा इति द्वन्द्वसमासं व्याचक्षते पृथिव्यादीनि च गुणाश्चेति। पृथिव्यादिपदेन गुणाधिकरणमवयवि द्रव्यमुक्तमाश्रितत्वविशेषणत्वाभ्यां सर्वे गुणा इति। गुणग्रहणेन च संख्यापरिमाणादिवत् कर्मसामान्याद्यपि सर्वमुक्तमतो नासङ्ग्रह इति।
तदिदमनुपपन्नम्, गन्धादिग्रहणस्य हि तदानीमानर्थक्यम्, गुणाश्चेत्यनेनैव गतार्थत्वात्। विशेषख्यापनार्थं तदुपादानमिति चेत् तर्हि किं द्वन्द्वसमासवर्णनेन। अयमेवास्तु मसाधिः।
यद्यपि द्रव्यकर्मसामान्यानाम्, अन्येषाञ्च संख्यापरिमाणादिगुणानामस्त्येव सक्तिहेतुता, तथापि प्राधान्येन गन्धादीनामेव सा, दृश्यते हि रूपादिनिरपेक्षस्य द्रव्यस्य संख्यादेः सामान्यस्य वा न सक्तिहेतुत्वं समस्तीति, रूपादय एव मुख्यं रागकारणम्, तत्र झटिति बुद्धेः प्रसरकणात्। उक्तञ्च,
तथापि नितरां रागवृद्ध्यै रूपादयो नृणाम्।
त एव कविभिर्गीताः पञ्चेषोः पञ्च सायकाः॥
तस्मात् पृथिव्यादीनां गुणा इति षष्ठीसमास एव श्रेयान्। गुणव्यतिरिक्तश्च गुणी पूर्वमेव समर्थितो यमहमद्राक्षं तं स्पृशामीति प्रत्ययप्रामाण्यात्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%आश्रितत्व–विशेषणत्वाभ्यां सर्वे गुणा इति% वैयाकरणपक्षपरिग्रहः। तथा च तेऽवोचन्,
संसर्गि भेदकं यद् यत् सव्यापारं प्रतीयते।
गुणत्वं परतन्त्रत्वात् तस्य शास्त्र उदाहृतम्॥ इति।
%तर्हि किं द्वन्द्वसमासवर्णनेनेति% प्राधान्यात्, तेषामेवास्तु ग्रहणमित्यभिप्रायेणेदमाह।
न्यायमञ्जरी
%पृथिव्यादीनां गुणविभागः%
पृथिव्यादिगुणा इति यदुक्तं तदिदानीं विभज्य वर्ण्यते कस्य कति गुणा इति। तत्र
गन्धादयो नियोक्तव्याश्चत्वारः पृथिवीगुणाः।
अप्तेजोमरुतामेकं पूर्वपूर्वमपोह्य तु॥
गन्धवर्जं रसरूपस्पर्शा अपाम्, रसवर्जं रूपस्पर्शौ तेजसः रूपवर्जं स्पर्शाख्यः वायोरिति, आकाशस्य तु गुणः शब्दः।
न्यायमञ्जरी
%पृथिव्यादीनां गुणनिश्चये शङ्का तत्समाधानञ्च%
ननु नायं गुणविनियोगः साधीयान्, पृथिव्याश्चतुर्गुणत्वे पार्थिवेन घ्राणेन्द्रियेण चतुर्णामपि तद्गुणानां ग्रहणं स्यात्, एवमुत्तरेष्वपि वक्तव्यम्। तस्मादेकैकगुणत्वमेव भूतानामुच्यताम्। नैतदेवं गुणाः स्वेच्छया विप्रलभ्यन्ते, यथोपलभ्यन्ते तथा व्यवस्थाप्यन्ते, प्रतीतिप्रमाणका वयम्। तत्र पार्थिवे द्रव्ये चतुर्णामपि गुणानामुपलम्भः कथमेकगुणां पृथिवीं ब्रूमः? रूपैकगुणे च तेजसि पृथिव्युदकयोर्वायुवदरूपत्वादप्रत्यक्षत्वं स्यात्, तस्मात् त्रीणि रूपवन्ति द्रव्याणि।
यद्येवं सर्वेषां सर्वत्रोपलम्भात् सर्वाणि सर्वगुणानि भवन्तु भूतानि, पटपटायते पृथिवी, छलछलायन्ते आपः, धकधकायते तेजः, कथकथायते वायुरिति सर्वेषां गुणः शब्दः स्यात्? उच्यते, न सर्वे गुणाः सर्वत्रापलभ्यन्ते निर्गन्धानामपां सर्वत्र दर्शनात्, क्लिन्नरूपादौ तु पार्थिवावयवनिष्क्रान्त्या गन्धः पयस्युपलभ्यते।
एवं सुवर्णादौ तैजसे द्रव्ये संयुक्तसमवायाद्रसाद्युपलब्धिः, शब्दस्तु सर्वकालमाकाशवृत्तिरेव प्रतीयते, पृथिव्याद्यवयवसंयोगविभागप्रभवस्त्वसाविति तदाश्रितत्वभ्रममावहति न त्वाकाशाद् विना तस्य ग्रहणमिति आकाशां तत एव शब्द इत्येतच्च प्राङ् निर्णीतं गुणत्वम्।
यच्च पृथिव्याश्चतुर्गुणत्वे तद्गुणानां चतुर्णामपि पार्थिवघ्राणेन्द्रियग्राह्यत्वं स्यादिति, तन्न, गुणोत्कर्षस्य नियामकत्वात्। सातिशयगन्धगुणाधिकरणे विजातीयद्रव्यावयवसंस्पर्शलेशरहितैः केवलपृथिव्यवयवैरदृष्टसहकारिभिर्घटितं घ्राणेन्द्रियमिति गन्धस्यैव ग्राहकम्। एतदेव च भूयस्त्वमाचक्षते। यथाह कणव्रतः `भूयस्त्वाद् गन्धवत्त्वाच्च पृथिवी गन्धज्ञानप्रकृतिः’, इहाप्युक्तम् `तद्व्यवस्थानन्तु भूयस्त्वात्’ इति। दृश्यन्ते च केवलपृथिव्यवयवोपादानेष्वपि पदार्थेषु व्यवस्थितकार्यनियमाः शक्तयः। यथा,
पार्थिवत्वाविशेषेऽपि विषं मरणकारणम्।
अगदद्रव्यमन्यत्तु जीविताय प्रकल्पते॥
तस्मादपर्यनुयोगोऽयं `पार्थिवेन घ्राणेन गन्धवत् तद्रसादयोऽपि कथं न गृह्यन्ते’ इति, सातिशयप्रकृतियोगेऽपि च न स्वगुणग्रहणनैपुणमिन्द्रियाणामितीन्द्रियचिन्तायां निर्णीतम्। श्रोत्रेणाकाशगुणस्य शब्दस्य ग्रहणमिति परिशेषानुमानप्रमाणकोऽयमर्थः शब्दपरीक्षायामेव परीक्षित इत्यलमतिप्रसङ्गेन।
इति निपुणधियामसम्मता सकलगुणैकगुणत्वकल्पना।
तदयमकलुषोऽभ्युपेयतां गुणविनियोगविधिर्यथोदितः॥
तेऽमी हेयाः कृतकमधुरं रूपमादर्शयन्त—
स्तिक्ताहाराः परिणतिविपत्कारिणो हीन्द्रियार्थाः।
त्यक्ताश्चैते व्यपगतमहामोहपङ्केन पुंसा।
तीर्णंश्चायं भवजलनिधिः क्लेशकल्लोलरौद्रः॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%गन्धज्ञानप्रकृतिरिति% गन्धो ज्ञायते येन तद् गन्धज्ञानं घ्राणम्, तत्र प्रकृतिः कतारणम्। %तद्व्यवस्थानम्,% तेषां व्यवस्थानं नियतविषयग्राहकत्वम्।
%कृतकमधुरमिति% यत एवेदृशाः विभाव्यन्तेऽत एव तिक्ताहार इव। कथमिति चेत्, तदाह %परिणतिविपत्कारिणो हि% इति।
न्यायमञ्जरी
%बुद्धिपरीक्षा%
%बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम्॥%
ननु पर्यायोच्चारणमेतन्न बुद्धेर्लक्षणमभिधीयते, न। पर्यायप्रयोगस्यैव लक्षणक्षमत्वात्। लक्षणं हि तदुच्यते येन समानेतरजातीयेभ्यो लक्ष्यं व्यवच्छिद्यते, व्यवच्छिद्यते च बुद्धिर्बुद्ध्यादिपर्यायवाच्यतयैव तेभ्य इति नाभिधानमालामात्रमिदम्।
ननु सामयिकत्वाच्छब्दार्थप्रत्ययस्य, समयस्य च पुरुषेच्छानिर्वर्त्यत्वात् कथमिदं व्यवस्थितं लक्षणं स्यात्? मैवम्। सर्वजनीनस्य समयस्य विप्लावयितुमशक्यत्वात् तद्वदिष्टस्य तद्वाच्यस्य लक्षणत्वात्।
प्रकारान्तरेण लक्षणमस्याः किमिति नोक्तिमिति चेत्। शिंशपाचोद्यमिदम्, तस्मिन्नप्युक्तेऽनुयुञ्जीत भवान् इत्यं किमिति नोक्तमिति। अस्ति च प्रयोजनं पर्यायद्वारकलक्षणोपवर्णनस्य यत् साङ्ख्यानां व्यामोहनिरसनम्। एवं हि सांख्याः सङ्गिरन्ते `बुद्धिरन्या ज्ञानमन्यदुपलब्धिरन्या’ इति तद्भ्रमापनयनायैवमुच्यते `बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम्’। एक एवार्थ इत्यर्थः। इत्थञ्च स्वरूपतो निर्ज्ञाता बुद्धिर्भोगस्वभावात् तत्साधनत्वाच्च संसारहेतुरिति हेयत्वेन भाव्यते।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%शिंशपाचोद्यमिति।% यथा `सत्यस्वन्येष्वशोकवनिकायां तालतमालप्रभृतिषु रावणेन जानकी किमिति शिंशपाम् एवाधः स्थापिता’ इति यदि चोद्येत तदा `अन्यं वृक्षमधः स्थापिता इति’ अस्य चोद्यस्यानिवृत्तिः किमिति शिंशपाम् अधो न स्थापिता इति। %बुद्धिरन्येति।% बुद्धिर्महत् तत्त्वम्, तस्या वृत्तिविशेषो ज्ञानम्, उपलब्धिस्त्वात्मनस्तत्प्रतिबिम्बनम् इति।
न्यायमञ्जरी
%बुद्ध्यादीनां भेदवादिसांख्यमतम्%
सुखादिबुद्धिर्भोगः, तत्साधनबुद्धिस्तु भोगसाधनमिति कथं पारमर्षाः प्रवदन्ति `बुद्धिरन्योपलब्धिरन्या’ इति, नित्यां हि बुद्धिं ते मन्वते, तत् किमात्मैवैतैः बुद्धिरिति गृहीतम्? न, अचेतनाया भोग्यायाः प्रकृतेः प्रथमा विकृतिर्महच्छब्दवाच्या बुद्धिः, पुरुषस्तु चेतनो भोक्ता अन्य एव, ताविमौ प्रकृतिपुरुषौ विवेकेनापश्यतां संसारः, प्रकृतिपुरुषविवेकज्ञानान्मोक्षः। का पुनः प्रकृतिर्नाम? सत्त्वरजस्तमसां त्रयाणां गुणानां साम्यावस्था प्रकृतिः। प्रधानमव्यक्तं च तदुच्यते यत्साम्यावस्थागतं गुणत्रयमिति।
ननु तत्सत्त्वे किं प्रमाणम्? अनुमानमित्याह। तथा हि चराचरमिदं विश्वं सुखदुः खमोहाविनाभूतमुपलभ्यते। न हि ब्रह्मादौ स्तम्बपर्यन्ते जगति तथाभूतं किमपि भूतमुपलम्भते यत् सुखदुः खमोहैरविकृतम्। तत्र सुखस्वभावं सत्त्वं दुः खस्वभावं रजो मोहस्वभावं तमः, सर्वत्र प्रीत्यप्रीतिविषादादिदर्शनात् प्रकाशप्रवृत्तिनियमावगमाच्च सर्वं त्रिगुणात्मकं जगत्। कार्यञ्च तत् परस्परान्वितरूपं तदेकरूपात् कारणादुत्पद्यमानं दृश्यते, मृदन्वितानि हि घटाशरावोदञ्चनप्रभृतीनि कार्याण्येकस्मान्मृदात्मनः कारमादुद्भवन्ति, तदिदं विश्वं सुखदुः खमोहान्वितमिति तदात्मककारणकार्यं भवितुमर्हति। यत् सुखदुः खमोहात्मकं कारणं सा सत्त्वरजस्तमोरूपा प्रकृतिः। एवमन्वयपुरः सराः परिमाणादिहेतवोऽपि वक्तव्याः, इयत्तया वा, चतुरश्रतादिना वा परिमाणेन, तद्वतां कार्याणामेकप्रकृतित्वदर्शनात् विषयवृत्तयश्चैते गुणाः कार्येषु। दृश्यन्ते च क्वचित् सत्त्वमधिकमूने रजस्तमसी, क्वचिन्द्रजः प्रकृष्टमल्पे सत्त्वतमसी क्वचित्तमः प्रवृद्धं तुच्छे सत्त्वरजसी इति। तदेषां वैषम्यभेदोपदर्शितविश्वरूपकार्याणां क्वचित् साम्यावस्थया भाव्यम्, सा प्रकृतिरुच्यते। सेयमचेतना भोग्या प्रकृतिः, तस्यास्तु भोक्ता चेतनः पुरुषः। पुरुष इदानीं किमनुमानकः? उक्तमेव भोग्येन भोक्तुरनुमानम् न ह्यचेतनस्य बोग्यस्य भोक्तारमन्तरेण भोग्यतोपपद्यते, दृष्टा च सेति भोक्ता कल्प्यते। स च चितिशक्तिस्वभावक एव सर्वप्रकारकर्तृत्वादिव्यवहारनिवहबहिष्कृतस्वरूपः, द्रष्टृत्वमेव पुरुषस्य स्वरूपमाहुः, न यथा भवन्तः एकमात्मानमध्यवसायादिधर्मयोगिनं मन्यन्ते तथासौ भवितुमर्हति अध्यवसायादेर्बुद्धिधर्मत्वात्।
कर्त्तुं शक्नेति पुरुषस्तृणस्यापि न कुब्जताम्।
अन्योपनीतमथ तु स पश्यत्येव केवलम्॥
प्रकृतिरेवैनं भोगापवर्गाभ्यां संयुनक्ति, न च निर्विकारा सती भोगसम्पादनसमर्था असौ भवतीति महदादिविकृतीः प्रतिपद्यते। पङ्ग्वन्धन्यायेन प्रकृतिपुरुषौ संयुज्येते। प्रकृतिरचेतना दृश्या भोग्या द्रष्टारं भोक्तारं पुरुषमपेक्षते, पुरुषोऽपि द्रष्टा भोक्ता दृश्यं भोग्यमपेक्षते इत्येवं तयोः पङ्ग्वन्धवत् संयोगो भवति। दर्शनशक्त्या पङ्गोर्गमनशक्त्या चान्धस्यैकत्र मेलनात् कार्यसिद्धिरेवं प्रकृतिपुरुषसंयोगात् सर्गः प्रवर्तते। तदुक्तम्,
पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य।
पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः॥
यच्चेत्थं प्रधानान्महत्तत्त्वमुत्पद्यते सा बुद्धिरध्यवसायात्मिका धर्मज्ञानैवराग्यैश्वर्यतद्विपर्ययरूपवृत्तियोगिनी महत्तत्त्वमेवोच्यते। बुद्धेरहङ्कार उदेति स चाभिमानस्वभावः। अहङ्कारात् प्राणादीनि, पञ्च बुद्धीन्द्रियाणि, वागादीनि पञ्च कर्मेन्द्रियाणि, सङ्कल्पकमेकादशं मनः, गन्धादितन्मात्राणि च पञ्चेति षोडशको गणः प्रभवति। ततो गन्धादितन्मात्रपञ्चकात् पञ्च पृथिव्यादीनि महाभूतानि जायन्त इति। आह च,
प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद् गणश्च षोडशकः।
तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि।
तानीमानि पञ्चविंशतितत्त्वानि सञ्चक्षते। प्रधानं प्रकृतिरेव न विकृतिः महदहङ्कारतन्मात्राणि सप्त पूर्वापेक्षया विकृतया एव, उत्तरोत्तरकार्यापेक्षया प्रकृतयः, एकादशेन्द्रियाणि पञ्च भूतानि विकृतय एव, अप्रकृतिविकृतिरूपस्तु शुद्धः पुरुष इति। तदाह,
मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त।
षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः॥
एवं महदादिविकारवती प्रकृतिरात्मनो भोगं साधयति। कश्चास्य भोगः? बुद्धिवृत्त्यनुपातित्वम्, विषयाकरपरिणतेन्द्रियवृत्त्यनुरक्तां बुद्धिवृत्तिं ज्ञानात्मिकां पुरुषः पश्यति, दर्शनेऽपि न तस्य किञ्चिच्चान्यत्वम्, किन्तु तदेव दर्शनं यत् तत्र प्रतिबिम्बनमिति। इत्थं तयोर्बुद्धिपुंसोः संयोगे सति पुरुषधर्मश्चेतयितृलक्षणो बुद्धावसन्नपि सन्निव लक्ष्यते। तदाह,
तस्मात् तत्संयोगादचेतनं चेतनावदिव लिङ्गम्।
गुणकर्तृत्वेऽपि तथा कर्तेव भवत्युदासीनः॥
अपवर्गाय कथमात्मनः प्रकृतिरवकल्पते? स्वरूपं प्रकाशयतीत्याचक्षते। अनवधृतप्रकृतिस्वरूपः पुमान् प्रकृतिकृतमखिलमात्मकृतमिति मन्यमानस्तदुपार्जितं भुङ्क्ते, यदा तु पृथग्भूतामेनां मन्यते तदा भवत्वियमायासहेतुरेव ममेति बुद्ध्यमानस्तत्कृतमनुपभुञ्जानः स्वरूपनिष्ठ एवावतिष्ठते। प्रकृतिरपि भवतु दृष्टाहमनेन पृथङ् मामेष मन्यत इति न तदभिमुखीभवितुमुत्सहते। तदाह,
प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति।
या दृष्टास्मीति पुनर्न दर्शनमुपैति पुरुषस्य॥
परस्परञ्च भग्नरसयोः प्रकृतिपुरुषयोर्व्यापकत्वात् सत्यपि संयोगे सर्गो न प्रवर्तत एवेत्याह,
दृष्टा मयेत्युपेक्षक एको दृष्टाहमित्युपरमत्येका।
सति संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्य॥
अपरिम्लानकुतूहलो हि पुमान् वञ्चयितुं शक्यते न दृष्टं तत्त्वमिति मत्वा, सत्यामपि योग्यतायां निवर्तते प्रकृतिर्नटीव रङ्गभूमौ प्रदर्शितनिखिलनिजनृत्तवृत्तान्तनैपुणा तत इत्याह `रङ्गस्य दर्शयित्वा निवर्तते प्रकृतिः’। तदेवं प्रकृतिरेव संसारे प्रवर्तते प्रकृतिरेव मोक्षमनुभवतीत्याह,
तस्मान्न बध्यतेऽद्धा नापि मुच्यते नापि संसरति कश्चित्।
संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः॥
किमर्थं पुनरसावेव विशेष्यते प्रकृतिरिति? किं क्रियते, स्वभाव एवैष दैवहतिकायास्तस्याः।
नानाविधैरुपायैरुपकारिण्यनुपकारिणः पुंसः।
गुणवत्यगुणस्य सतस्तस्यार्थमपार्थकं चरति॥
अचेतनत्वादस्याः कथमेवङ्कारित्वमिति चेदुक्तमत्र,
वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य।
पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य॥
ननूत्पन्नतत्त्वज्ञाने भोगानुकूलमहदादिकार्यारम्भपराङ्मुखत्वात् तस्याश्चैकत्वाद् एकस्मिंस्तत्त्वविदि मुक्ते सति सर्वे मुक्ताः स्युः? नैष दोषः, तत्त्वविदमेव पुमांसं प्रति तस्या औदासीन्यात्, अन्यसाधारणत्वेन तत्कार्यानपायात्। तथा च पतञ्जलिः `कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात्। नन्वेवं यदैव तत्त्वज्ञानमुत्पन्नं तदैव प्रकृत्युपार्जितकर्मफलोपभोगपरिहानितः पुंसः शरीरपातः स्यात्? नेत्याह `तिष्ठति संस्कारवशाच्चक्रभ्रमिवद्धृतशरीरः’; ततः संसारविरतौ सत्याम्,
प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानविनिवृत्तौ।
ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति॥ इति।
अहो नु खलु कपिलकविकथारसाक्षिप्तहृदयैरतिबहु प्रसक्तानुप्रसक्त्या लिखितमस्माभिः। तदियं प्रधानप्रकृतिः प्रथमा महच्छब्दवाच्या सा बुद्धिसत्त्वविदं प्रति नष्टाप्यन्यसाधारणत्वादनष्टैवेति नित्या। नित्यत्वाच्च प्रत्यभिज्ञानुसन्धानादिव्यवहारप्रबन्धनिर्वाहणक्षमा बुद्धिः। ज्ञानन्तु तस्या वृत्तिः। उपलब्धिस्तु पुंसो वृत्तिमद्बुद्धिदर्शनमिति नैषां पर्यायशब्दत्वमितिं।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%सर्वत्र च प्रीत्यप्रतीतिविषाददर्शनादिति% शब्दादायो हि कस्यचित् प्रीतिं सुखमपरस्याप्रीतिं दुःखं कस्यचित् तु विषादं दुः खातिशयरूपं जनयन्तो दृश्यन्ते। यथा स्तनयित्नुशब्दः कर्षकाणां प्रीतिनिमित्तम्, वियोगिनीनान्तु दुः खस्य च विषादस्य च हेतुरिति। %प्रकाशप्रवृत्तिनियमावगमाच्चेति% यथा बुद्धेः प्रकाशकत्वं सत्त्वधर्मः, अर्थग्रहणं प्रति प्रवृत्तिर्या सा रजोधर्मः, नियतविषयप्रकाशकत्वं तमोधर्म इति। %एवमन्वयपुरः सराः परिमाणादिहेतव% इति। यदुक्तम्,
भेदानां परिमाणात् समन्वयाच्छक्तितः प्रवृत्तेश्च।
कारणकार्यविभागादविभागाद् वैश्वरूप्यस्य॥ इति।
प्रधानसिद्धौ पञ्च वीतहेतवोऽनेनोद्दिष्टाः, तत्र समन्वयोऽमुनैव व्याख्यातः। शिष्टा व्याख्यायन्ते। यथाहि, ये ये परिमिता उत्पद्यन्ते ते ते शक्त्यात्मना संस्पृष्टाः, तद्यथा अङ्कुरादयः परिमिताः कललार्बुदादयश्च, देशप्रमाणकालरूपजातिप्रत्यासत्तिभिरनुक्रमेण चोत्पद्यमाना नूनं व्रीहौ शुक्रे शोणिते च संस्पृष्टाः। उत्पद्यन्ते च कार्यकारणात्मका आध्यात्मिका भेदाः षोडशसङ्ख्याकाः बाह्याश्च देवमनुष्यतिर्यग्भेदात् त्रिविधाः। तेऽपि क्वचित् संस्पृष्टाः। यद्धि नियतपरिमाणं समुत्पद्यमानं दृष्टं सहदादि तदेकत्र संस्पृष्टम्। अन्यथा नियतक्रमेण नियतपरिमाणस्योत्पत्त्यसम्भवात्। तथा चामी आध्यात्मिका बाह्याश्च भेदाः। तस्मात् तेऽप्येकत्र संस्पृष्टा जायन्ते। तेषां यत्र संसर्गोऽभूत् तत् प्रधानमिति। शक्तितः प्रवृत्तेश्च। इह त्रिकालावस्थितप्रकृत्यनुगताः कार्यकारणात्मका भेदा इति धर्मिनिर्देशः। शक्तिरूपैककारणपूर्वका इति साध्यम्। प्रवृत्तिदर्शनादिति हेतुः। परिनिष्ठितं कार्येण कारणरूपं मृदादि रथादिवत्। मृदादीनां रथादीनाञ्च प्राक् प्रवृत्तेरस्ति प्रवृत्तिशक्तिः। कथमन्यथा घटादिकरणे वाहनादिकरणे च अशक्तत्वात् ते प्रवर्तेरन्? प्रवृत्तिकाले चैषामस्ति प्रवृत्तिशक्तिरन्यथा ते कार्यमनारभेरन्। अतः प्रवृत्तिकाले शक्तेः सद्भावः। एवमूर्ध्वमपि प्रवृत्तिशक्तिसद्भावः, यतः निवृत्तव्यापारा अपि रथादयः शक्तेरनिवृत्तत्वात् तथाविधकार्यकरणे पुनः प्रवर्तमाना दृश्यन्ते। अन्यथा शक्तेरभावाद् न प्रवर्तेरन्। अतस्तेषां प्राग्भाविनी शक्तिः प्रवृत्तेः कारणम्। तेन ते शक्तिरूपैकारणपूर्वकाः सन्ति चाध्यात्मिकानां कार्यकारणात्मकानां भेदानां प्रवृत्तयः। तस्मात् तेऽप्यवश्यं शक्तिपूर्वकाः। यत्र चैषां शक्त्यवस्था तत् प्रधानम्। कारणकार्यविभागादिति। इहावस्थितभावपूर्वकाः भेदाः कारणकार्यविभागात् परस्परोपकारकोपकार्यविभागाच्छयनाद्यङ्गवत्। खट्वादीनां ह्यवयवा आरभन्ते उत्तरकार्येण व्यवस्थिताः परस्परोपकारेण चवर्तमाना बुद्धिमदेककर्तृका, दृष्टाः। वर्तन्ते चाध्यात्मिका बाह्याश्च भेदा इतरेतरोपकारेण, तस्मान्न ते यतस्तत आगता, अपि त्वितरेतरौन्मुख्येन, अत एवैकरूपात्मनावस्थितास्ते त्रिगुणात्मके प्रधाने यस्येदं विश्वं प्रेक्षापूर्वमिव कृतमवसीयते। इह पुरुषार्थप्रयुक्ता गुणा परस्परोपकारेण वर्तन्ते। यथा सत्त्वं रजस्तमसोः शब्दादौ कार्ये श्रवणादौ च कारणे प्रवर्तमानयोः कार्यसम्पत्त्यर्थं प्रकाशयति। सत्त्वतमसोः स्वस्वकार्ये प्रवर्तमानयोः रजः प्रवृत्तिं करोति। सत्त्वरजसोस्तु स्वकार्यप्रवर्तमानयोस्तमो नियमयति। यता तथाविधकार्यसम्पत्तिरेवं शरीरादिपृथिव्यादीनां वृत्तिसंग्रहयुक्तिव्यूहावकाशदानैः परस्परार्थंकरणं दृष्टम्, तदेवं पस्स्परोपकारकोपकार्यभावेनावस्थितं विश्वमवश्यमेककर्तृकमवसीयते। यश्चैकः कर्ता स त्रिगुणात्मकं प्रधानमिति। अविभागाद् वैश्वरूप्यस्य। इह विश्वरूपा बाह्याध्यात्मिका भावा अविभागा उत्पद्यन्ते वैश्वरूप्यात्, जलभूम्यविभागपूर्वकस्थावरजङ्गमवैश्वरूप्यवत्। देशादिप्रत्यासत्त्या जलभूम्योः पारिणामिकं रसादिवैश्वरूप्यं स्थावरे दृष्टम्। स्थावराणां जङ्गमेषु, जङ्गमानां स्थावरेषु, स्थावराणां स्थावरेषु, जङ्गमानां जङ्गमेषु इत्येवंजात्यनुच्छेदेनोपादानकारणानुपदेन सर्वं सर्वात्मकम्, देशाकालाकारनिमित्तानुबन्धात् तु खलु न समानकालं सर्वेषामात्मनामभिव्यक्तिरिति। दृश्यते चेदं विश्ववैश्वरूप्यम्, तस्यादविभक्तरूपसुखदुःखमोहरूपजातिपूर्वकमिति परमाविभागावस्थारूपप्रधानसिद्धिः। %इयत्तया चतुरस्रत्वादिना चेति% सूत्रगतस्य परिमाणशब्दस्योभयथापि व्याख्याने हेतुत्वेन सङ्गतिरुपपद्यत एवेति दर्शयितुमुक्तम्, `चतुरस्रत्वादिना परिमाणेन येऽन्विता घटादयः—स्तेऽप्येकेनात्मना मृत्त्वादिना संसृष्टा उपलब्धाः’ इति। व्याख्यातञ्च सविस्तरमिदं प्राक्। %विषमप्रवृत्तयश्चेत्यादिना% अविभागाद् वैश्वरूप्यस्येति हेतोस्तात्पर्यं दर्शितम्। %कार्येषु दृश्यन्ते% शरीरादिषु। सत्त्वबहुलानि हि देवशरीराणि, रजोबहुलानि मनुष्यशरीराणि, तमोबहुलानि’ तिर्यक्शरीराणि। %अध्यवसायादिकर्मयोगिनमिति।% न हि आत्मा व्यवस्यति निश्चिनोति गौरेवायमित्येवमादि, अपि तु बुद्धिमध्यवस्यन्तों पश्यत्वेव स इति।
%निर्विकारा सती% स्तब्धत्वात्।
%सा बुद्धिरध्यवसायात्मिका% वृत्तिवृत्तिमतोरभेदादध्यवसायलक्षणा वृत्तिरात्मा यस्याः। %तद्विपर्ययेति% अधर्माज्ञानावैराग्यानैश्वर्याणि तद्विपर्ययः। %स चाभिमानस्वभावः।% अभिमानलक्षणं कार्यं यतोऽहङ्कारस्य तेनाभिमानस्वभाव इत्युक्तः। %वागादीनि पञ्च कर्मेन्द्रियाणीति।% ताल्वादिस्थानविकारहेतुत्वात् तेषामिन्द्रियत्वम्। ताल्वादिस्थानविकारभूतो हि शब्दः, तस्य विकारस्य हेतुर्वागिन्द्रियम्। एवमन्येष्वपि बोद्धव्यम्। %गन्धादितन्मात्राणीति% मालतीकुसुमगन्धादिना विशेषेणानाक्रान्ता गन्धाद्यविशेषावस्था तन्मात्रशब्दवाच्या।
%लिङ्गमिति।% प्रधानस्य प्रमितस्य प्रचयावस्था मूर्तिरूपा बुद्ध्यादिकोच्यते।
%प्रकृतेः सुकुमारतरमिति।% यथा कुलाङ्गना सौकुमार्याल्लज्जातन्वितत्वेन पुरुषेण च दृष्टा पुनस्तस्य दर्शनपर्थ नावतरत्येवं प्रकृतिः सर्वतो दृष्टा पुरुषेणेत्यतो निवर्तते, न पुनस्तस्य दर्शनमुपगच्छति।
%ऐकान्तिकमात्यन्तिकमिति% ऐकान्तिकमवश्यंभावात् आत्यन्तिकमपुनर्विनिवृत्तेः। अभयं जन्मादिभीतिशून्यम्।
%तं प्रति नष्टमप्यनष्टमिति% कृतार्थं सन्नष्टमप्यदर्शनीभूतमपि।
न्यायमञ्जरी
%सांख्यमतनिरसनम्%
अत्र प्रतिविधीयते, आत्मन्येव नित्ये वापिनि बोद्धरि ज्ञातर्यवसातरि धर्माधर्मादियोगिनि प्रत्यभिज्ञानादिकार्याणां कर्तरि सेयं बुद्धिरज्ञा सांख्यैः कल्पिता, चेतनत्वं ज्ञानादियोगिन्या अपि यत्त्वस्या नाभ्युपगनं सोऽयमतीव तपस्विनां भ्रमः। य एव बुध्यते जानात्यध्यवस्यति स एव पश्यति चेतयते च, न खल्वत्र वस्तुरूपभेदं पश्यामः। तत्र बुद्धिर्बुध्यते जानात्यध्यवस्यति, पुरुषस्तु पश्यति चेतयते चेति वञ्चानायैवमुच्यते मुग्धतया वा।
यच्चेदमुच्यते, `बुद्ध्याध्यवसितमर्थं पुरुषः पश्यति’ इति, तद् व्याख्येयं किमिदं तस्य द्रष्टृत्वमिति? प्रतिबिम्बनमिति चेत्, किं स्वच्छे पुंसि वृत्तिमती बुद्धिः सङ्क्रामत्युत वृत्तिमत्यां बुद्धौ प्रमातेति। तत्र `चितिशक्तिरपरिणामिन्यप्रतिसङ्क्रमा’ इति न बुद्धौ पुरुषस्य सङ्क्रमणम्। बुद्धौ तु पुंसि सङ्क्रान्तायामपि पुंसः किं वृत्तिं येन द्रष्टा? सम्बन्धो द्रष्टृत्वं स्वभाव एवास्येति चेत्, किं बुद्धिप्रतिबिम्बनेन? विशिष्टविषयावच्छेद इति चेत्, ततः पूर्वमानलम्बनं द्रष्टृत्वमघटमानमिति न नैसर्गिकं द्रष्टृरूपं पुंसः स्यात्, दर्शनशक्तिः स्वाभाविकीति चेत्, न, तस्य भेदाभेदाभ्यां निरूपयितुमशक्यत्वात्। प्रतिबिम्बपक्षे च परस्परानुरागस्य तुल्यत्वादवियोगाच्च कथमिदं निर्धार्यताममी पुंधर्मा इति। न हि तयोः पार्थगर्थ्येन कदाचित् स्वरूपावधारणं वृत्तम्, अनवधारितकार्यभेदत्वाच्च नानात्वमपि तयोर्दुर्वचम्। चेतनाचेतनत्वाद् भोक्तृ भोग्यत्वाच्च विस्पष्टं तयोर्नानात्वमिति चेत्, ज्ञानादियोगित्वञ्च बुद्धेरचेतनत्वञ्चेति चित्रम्।
अपि च कल्पयित्वा भेदधर्मं बुद्धिधर्माः पुंसि पुंधर्माश्च बुद्धावारोपणीया इति किं भेदेन, भेदे च बुद्धेर्ज्ञानादियोगित्वे च चेतनत्वापत्तेः, एकत्र कार्यकारणसङ्घाते चेतनद्वयमनिष्टं प्रसज्यते। नित्यमन्तः करणमन्तरेण पुंस उपलब्धिर्न भवेदिति बुद्धेः कल्पना चेत्, अस्त्येव नित्यमन्तः करणं मनः, तेन करणेन कर्तुरात्मनो विषयोपलब्धिक्रिया निर्वर्त्यते सैव च बुद्धिरित्याख्यायते न त्वन्य नित्या बुद्धिरस्तीति। किञ्च कस्य कृते परिदृश्यमानमात्मनो ज्ञानादिक्रियाकर्तृत्वमुत्सृज्य बुद्धेरदृश्यमानमुपेयते, कोऽत्राशयः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%बोद्धरि विज्ञातर्यध्यवसातरीति% पुनरुक्त्या बुद्धेर्ज्ञानाख्यवृत्तियोगाद् बोद्धृत्वम्,अध्यवसायोत्पादकत्वाच्चाध्यवसादृत्वाम्।……..घृतादीनां सम्भवः, घृतादिषु च पुष्टेर्घृताद्युपयोगे हि पुष्टेः सम्भवात्। पुष्टौ च सत्यां रेतआदयः रेतसि च पुत्रादयः। तेषाञ्च प्राप्तकाले मरणाच्छरीरस्य क्वाथः, क्वथितस्य च कृमिभावेन परिणामः, तदेव च क्वथितम्। वृक्षायुर्वेदे वृक्षाणां वृद्धये श्रूयते, `तथा च सति वृक्षस्यापि तत्र सम्भवः, वृक्षाच्च फलम्, फलाद् रसः, रसाद् बलमिति सर्वं क्षीरेऽस्ति, देशकालाकारापबन्धाद् न समानकालमभिव्यज्यन्ते’ इति।
न्यायमञ्जरी
%सांख्यमतिसिद्धायाः बन्धमोक्षव्यवस्थाया अग्राह्यत्वम्%
ननु पुरुषस्य स्वातन्त्र्यात्मककर्तृत्वे सति स्वकृतकर्मफलोपभोगानन्त्यादनिर्मोक्षः स्यात्। न हि कर्मणां परिक्षयो जन्मकोटिशतैरपि शक्यक्रियः। यदा तु कर्तारमुदासीनं प्रकृतिर्बध्नाति तदा सैव ज्ञाता सती मोक्ष्यतीति न दूरं मोक्षवर्त्म भविष्यति। अहो बत निखिलमेव सौर्ख्यं सांख्यहृदयेष्वेव प्रतिष्ठितमिति कथमन्यो जन इदानीं मूर्खो भविष्यति? अचेतने हि निरङ्कुशे प्रधाने बन्धरि सुतरामनिर्मोक्षः स्यात्। तत्त्वविदमपि पुमांसं न बध्नाति प्रकृतिरिति कोऽस्या नियन्ता, पङ्ग्वन्धन्यायेन संयोगस्य तदापि तुल्यत्वात्, निवृत्तकुतूहलः पुमानिति चेत्, प्रकृतिरनिर्मुक्तकौतुका अभिनववधूरिव स्थितैव।
अपि च रे मूढ! पूर्वमेव पतस्विना पुंसा किं कृतं यदसौ बद्धोऽभूत्? द्रष्टृत्वन्तु तस्य रूपं तदविनाभूतं कैवल्यदशायामपि तन्न नश्यत्येवेति तदापि तद्बन्धनाय कथं न प्रवर्तते निर्मर्यादा प्रकृतिः। दृष्टास्मीति विरमतीति चेत्, मैवम्। न ह्यसावेकपत्नीव्रतदुर्ग्रहगृहीता, निः संख्यपुरुषोपभोगसौभाग्या पण्यवनितेव नासौ नियमेन व्यवहर्तुमर्हतीत्यास्तामेतत्।
यच्च `सत्त्वरजस्तमोभिस्त्रिभिर्गुणैः समावस्थतयाप्रधानशब्दव्यपदेशभाग्भिः महन्नाम्नी बुद्धिरुत्पद्यते’ इत्यादि प्रक्रियाजालमालपितं तन्महान्धपरम्परान्यायप्रवृत्तगुरुपाठक्रमोपनतमेव, न प्रमाणमूलम्। कार्याद्धि कारणमल्पपरिमाणमुपलभ्यते न तु विपर्ययः, स्वावयवाश्रितस्य घटादेस्तथा दर्शनात् तदवयवानां तदपेक्षयाल्पत्वादन्यस्यास्यादो महापरिमाणत्वमप्रयोजकम्।
अपि च बुद्धिर्नाम विषयोपलम्भः। अहंकारोऽप्यहंप्रत्ययरूपोऽभिमानो बुद्धिविशेष एव। तेन बाह्यानीन्द्रियाणि जन्यन्ते गन्धादयश्च गुणाः गुणैश्च पृथिव्यादीनि भूतानिति महाव्यामोहः। इद़ञ्च चित्रम्, विषयजन्या हि सुखादयः प्रसिद्धास्ते च सुखादिजन्या विषयाः संवृत्ता इति, नवेयं विश्वामित्रस्येव सांख्यमुनेः सृष्टिः। न च प्रधानास्तित्वमपि प्रमाणवत्, अन्वयादिहेतूनामसाधनत्वात्। चेतनानां हि सम्भवेदपि सुखदुः खमोहान्वितत्वम्, अचेतनानि भूतानि सुखदुः खमोहवन्तीति सुभाषितम्, घटे पटे शकटे च सुखदुः खमोहाः सन्तीति कः प्रतिपद्यते? प्रकाशप्रवृत्तिनियमा अपि चेतनेष्वेव दृश्यन्ते नाचेतनेष्वित्यसिद्धत्वाद्धेतोर्न प्रधानसिद्धिः।
अपि च सत्कार्यवादमूल एष तपस्विनां विभ्रमः सर्वः सर्वत्रास्तीति। ततोऽन्वयसिद्धिं बुद्ध्यमानास्ते प्रधानसिद्धावध्यवसिताः। सत्कार्यवादश्च विचार्यमाणो न समस्त्येवेति कुतस्त्या हेतुसिद्धिः?
न्यायमञ्जरी
%सांख्यमतसिद्धसत्कार्यवादः%
ननु सत्कार्यवादे कार्यकारणभावो भवति भावानां नान्यथा। तथा हि चतुष्टयी गतिरिह स्यात्, घटादिकार्यं मृत्पिण्डादिना कारणेन क्रियमाणमपि क्रियते सद्वा असद्वा सदसद्वा अनुभयं वेति, तत्रासतः करणत्वे खरविषाणादेः करणत्वं स्यात्। असत्त्वे हि घटस्य खरविषाणस्य च को विशेषः? घटस्यापि च प्राक्प्रध्वंसाभावदशयोरसत्त्वाविशेषात्प्रागभावदशायामिवप्रध्वंसावस्थायामपि करणत्वं भवेत्? असत्करणे नियतोपादानग्रहणं न प्राप्नोति, तैलार्थी हि तिलसर्षपानुपादत्ते न सिकताः, असत्त्वे च तैलस्य को विशेषः सर्षपाणां सिकताभ्यः असति कार्ये निरालम्बनः कारकव्यापारो भवेत्, न ह्यसौ मृत्पिण्डादिविषयो भवितुमर्हति कार्यं चासत्, अपि चाविद्यमाने कारणव्यतिरिक्ते च कार्ये जन्ये कारणस्य मृत्पिण्डादेर्घटादिकार्यं जनितवतः किमिति न स्वरूपमुपलभ्यते।
अथ स्वविनाशेन कारणं कार्यस्य जनकमिष्यते, तदियमभावाद् भावोत्पत्तिर्भवेत्, तस्याञ्च कुतोऽयं नियमो यदनन्तरवृत्त एव मृत्पिण्डाभावः कुम्भमभिनिर्वर्तयति न चिरातिक्रान्त इत्यतश्च परुन्मृत्पिण्डे नष्ट एव स कुम्भोत्पादः स्यात्।
अथ स्वाव्यतिरिक्तमेव कारणेन कार्यं जन्यते? तर्हि कारणस्य सत्त्वात् तदव्यतिरिक्तं वक्तुं युक्तम्, सदसतोर्विप्रतिषेधेनैकत्र समावेशायोगात्। रूपभेदादाविरोध इति चेत्, न कार्यस्य विचार्यमाणस्यैकत्वात् ततश्च तेनैव स्वेन कार्येण रूपेणासच्चेन्नासद्भवेददसच्च न सदिति। पररूपेण त्वसत्त्वं समस्तभावानामस्त्येव, अनुभयात्मकन्तु नाम वस्तु नास्त्येवेति, तत् पारिशेष्यात् सदेव कार्यम्। किमिति च नोपलभ्यत इति, अनुमानेनापि यदुपलब्धं तत् किमनुपलब्धं भवति? प्रत्यक्षेण तु तदानीमनुपलम्भोऽनभिव्यक्तत्वात्, अभिव्यक्तिसम्पादन एव च कारकप्रयत्नसाफल्यम्, कार्यं तु सदेवेति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%न ह्यसौ मृत्पिण्डादिविषयो भवितुमर्हति% यद्धि क्रियते तत्र कारकव्यापारः; न च मृत्पिण्डादि क्रियते, तस्य पूर्वकृतत्वादेवेति।
%रूपभेदादविरोधः% कारणरूपेण सत्त्वम्, स्वरूपेण त्वसत्त्वादिति। %वस्तुनास्त्येव।% सन्नसन्नप्यसत्, तत् किं वस्तु भवति? %अनुमानेनापि यदुपलब्धम्% असदकरणात्’ इत्यादिना।
न्यायमञ्जरी
%तत्खण्डनम्%
अत्राभिधीयते, केन रूपेण तदानीं कार्यं सदिति मन्यते? यदि कारकव्यापाराभिनिर्वर्त्येन सलिलाहरणाद्यर्थक्रियासमर्थेन पृथुबुध्नोदराकारतारूपेण चक्रमूर्धनि घटोऽस्ति तदाभिव्यक्तेनापि रूपेण सत्त्वादत्यन्ताय कारकव्यापारवैफल्यम्, इत्थमपि च कारकप्रवृत्तौ तद्व्यापारानुपरमप्रसङ्गः, किं हि तदोपलभ्य कारकाणि निवर्तेरन्, कार्यस्य प्रागप्युलब्धत्वात्।
अथ मृत्पिण्डरूपेण तदानीं घटोऽस्तीति कथ्यते, तत्र न ह्यसौ तदानीं घटोऽस्ति मृत्पिण्ड एवासावदो न स्वरूपमुत्तरकालमपि निवर्तते घटस्तु ततो निवर्तते, यद्येवं यदैवासौ निवर्तते तदैवास्ति न ततः पूर्वमिति।
अथ पूर्वं शक्त्यात्मना तस्यास्तित्वम् इदानीमभिव्यक्त्यात्मना क्रियत इति, तदप्यनुपपन्नम्, अभिव्यक्तिरपि तत्स्वरूपाद् भिन्ना अभिन्ना वा सत्यसती वेति विकल्प्यमाना न पूर्वोक्तं दोषमतिवर्तते।
का चेयमभिव्यक्तिः? किं कार्यात्मनावस्थानम्, अथ संस्थानविशेषः, उत प्रतीतिरिति। यदि कार्यात्मनावस्थानम्? तत् पूर्वं नाभूत् तदधुना भूतमित्यसत् कार्यम्, पूर्वपि वा यदि तदासीत् तदा पुनः कारकवैफल्यम्। संस्थानमप्यवयवसन्निवेशविशेषः सन्नेव, ते अवयवास्तु सन्तीति कस्यात्र विवादः? न खलु परमाणवोऽस्माभिर्नाङ्गीकृताः। प्रतीतिस्तु घटस्य चक्षुरादिकारकसामग्र्यधीनत्वेऽपि मृत्पिण्डदण्डचक्रादिकारकचक्रसाध्येति सा चक्रमूर्धनि घटस्य नास्त्येवेत्यसन् घटः।
दर्शनादर्शनाधीने सदसत्त्वे हि वस्तुनः।
दृश्यस्यादर्शनात् तेन चक्रे कुम्भस्य नास्तिता॥
चक्रमुर्धवत् प्रध्वंसदशायामनुपलम्भाद् घटनास्तित्वमेवेत्यतश्च `नासतो विद्यते भावो नाभावो विद्यते सतः’ इत्यप्रमाणकम्, पूर्वापरान्तयोर्भावस्वरूपादर्शनात्। शक्त्यात्मनापि यदस्तित्वमस्योच्यते तत्रापि चिन्त्यम्, केयं शक्तिर्नामेति? यदि घटस्वरूपाद् भिन्नासौ तर्हि पररूपेण घटोऽस्तीति स्वरूपेणैव घटास्तित्वमुक्तं भवेत् तच्च प्रत्यक्षविरोधान्निरस्तम्। असत्करणपक्षे च यच्चोदितं `शशविषाणाद्यपि क्रियेत’ इति, तन्न, वचनव्यक्त्यपरिज्ञानात्, यदसत् तत्क्रियते इति नेयं वचनव्यक्तिरपि तु यत् क्रियते तदसदिति।
स्वरूपसहकार्यादिहेतवो यद्विधायिनः।
दृश्यन्ते जन्यते तद्धि न व्योमकुसुमादिकम्॥
प्रागभावदशायाञ्च हेतुव्यापारदर्शनम्।
न तु प्रध्वंसवेलायामतः कमनुयुञ्ज्महे॥
उपादानन्तु सर्वस्य यन्न सर्वत्र दृश्यते।
तन्न कार्यस्य सद्भावादपि त्वेवं निरीक्षणात्॥
अद्यत्वे व्यवहारोऽपि नैवापूर्वः प्रवर्त्यते।
यथोपलब्धं वृद्धेभ्यः स तथैवानुगम्यते॥
तैलार्थी सिकताः कश्चिदाददानो न दृश्यते।
अदृष्ट्वा चाद्य नान्योऽपि तदर्थी तासु धावति॥
अन्वयव्यतिरेकौ च गृह्येते व्यवहारतः।
अनादिश्चैष संसार इति कस्यानुयोज्यता॥
अथवा शक्तिनियमादेवोपादाननियम उपपत्स्यते।
शक्तिस्त्वनित्या सूक्ष्मा च नेह काचिदुपेयते।
तदभ्युपगमे नित्यं कार्योत्पादप्रसक्तितः॥
किन्तु योग्यतावच्छिन्नस्वरूपसहकारिसन्निधानमेव शक्तिः। सैवेयं द्विविधा शक्तिरुच्यते अवस्थिता आगन्तुका च। सत्त्वाद्यवच्छिन्नं स्वरूपम् अवस्थिता शक्तिः, आगन्तुका तु दण्डचक्रादिसंयोगरूपा। शक्तिद्वयकृता च कार्यनिष्पत्तिरसकृद् दृष्टेति तदर्थिभिस्तु तदुपादानम्। योग्यतापि नार्थान्तरं किञ्चित् किन्तु वस्तुविशेष एवेत्येवं सद् विनियमादुपादाननियमसिद्धेर्न सत् कार्यम्। न च शक्तिरेव कार्यमिति वक्तव्यम्, कार्यस्वरूपस्य ततः पृथग्भूतस्य प्रतीत्या व्यवस्थापनात्। शक्तेश्च कार्यत्वे कार्यादेव कार्यस्योत्पादोऽङ्गीकृतः स्यात्। न च घटाद् घट उत्पत्तुमर्हति। शक्तेश्चकार्यमुत्पद्यते इत्युभ्युपगतम्, अतो अन्यत् कार्यमन्या च शक्तिः, अनुवाद्यवाचकयोर्व्यङ्ग्यव्यञ्जकयोश्च दीपघटयोरुभयाश्रिता शक्तिर्दृष्टेति कार्यकारणयोरपि सा कथमनुभयाधिष्ठाना भवितुमर्हति? सति च द्वितीये कार्याख्ये तदाश्रये कथमियमुभयाश्रिता स्यादिति, नैतदेवम्। यथादर्शनं शक्तेरभ्युपगमात्। तच्चैकत्र दृष्टरूपमन्यत्रापि मृग्यते। वाच्यवाचकयोर्व्यङ्ग्यव्यञ्चकयोश्च द्वयोः पृथक्त्वेन दर्शनादुभयाश्रिता शक्तिरङ्गीकृतेति हेतुद्वयस्यानुपलम्भात् केवलकारणवृत्तिरेव सक्तिस्तत्कृतश्चोपादाननियमविचारो युक्तः।
उत्पत्तौ खलु सिद्धायामुपादानं विचार्यते।
सतस्तु सैव नास्तीति किमुपादानचिन्तया॥
सत्कार्यवादे च सुतरामुपादाननियमो दुर्घटः, सर्वस्य सर्वत्र भावात्, सिकतातिलसरस्तीरकेदारव्युप्तबीजजनिताङ्करादिकार्यक्रमोत्पाद्यमानतिलस्वरूपपर्यालोचनया तिलेष्विव सिकतास्वपि तैलसम्भवात्। सर्वस्य सर्वत्र चास्तित्वे नियतपदार्थप्रतिष्ठितहानोपादानादिव्यवहारः सकल एव विप्लवेत। अपि च प्रायश्चित्तमेष तपस्वी तप्तकृच्छ्रुमतिकष्टं कथं चरिष्यतीति। महन्! गतोऽसि कारुण्यम्। अन्नञ्च तावदश्नात्यन्ते च वर्चोऽस्तीति विड्भक्षणात् प्रायश्चित्तीयत एवायमित्यलं सत्कार्यवादप्रमादेन।
यत्पुनरत्राभाणि, कारणानुपमर्देन कार्यानुत्पादादभावाद्भावोत्पत्तिर्भवेत् तत्र चानन्तरवृत्त्युत्पत्तिनियमो न स्याद् इति, तदप्ययुक्तम्, मूर्तानां समानदेशत्वविरोधात्। कार्यकारणयोरेकदेशत्वं नेष्यते, नैतावता भावोत्पत्तिरभावाद् भवितुर्हति, कारणपदेन तदुपादानदर्शनात्, अत एवानन्तर्यनियमोऽप्युपपन्नः, न च कार्यकारणयोरभेदात् सत्कार्यमिति वक्तव्यम्, तयोः प्रत्यक्षसिद्धभिन्नस्वरूपत्वात्।
यत्तु निरालम्बना कारकप्रवृत्तिरिति चोदितं परिहृतं तद् भाष्यकारेण `बुद्धिसिद्धन्तु तदसत् इति’। वृद्धव्यवहारतः कार्यकारणभावमवगम्यामुष्मात् कारणादिदमीदृशं कार्यमुत्पद्यत इति बुद्धौ निर्धार्य कारकाणि कर्ता नियुङ्क्ते इति न निर्विषयः कारकव्यापारः। तदेवं सत्कार्यवादस्य निष्प्रमाणकत्वात् तन्मूलान्वयादिहेतुसिद्ध्यभावान्न प्रधानास्तित्वसिद्धिः, तदभावाच्च न तद्विकृतिर्नित्या बुद्धिः, अपि तु ज्ञानोपलब्धिरूपैवेति सम्यक् सूत्रितं `बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम्’ इति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%चक्रमूर्धनि घटोऽस्तीति% चक्रमूर्धनि घटसम्पत्तये यदुपात्तो मृत्पिण्डस्तत्र।
%नासतो विद्यते भाव% इत्यस्योत्तरमर्धम् `उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः।’ इति। असतः शशविषाणादेः करणं नास्ति, सतश्च विनाशो नास्ति, भूतपरिणाममात्रं केवलमित्युभयोः सदसतोस्तत्त्वदर्शिभिरन्तः स्वरूपमवधृतमित्यर्थः। %पूर्वापरान्तयोः% प्रागभावध्वंसाभावयोः।
%न च शक्तिरेव कार्यमिति।% कारकाणां तत्रैव व्यापारः। कार्यन्तु सदेव शक्तौ कृतायामभिव्यज्यत इति।
%बुद्धिसिद्धन्तु तदसत्% इति। `प्राङ्निष्पत्तेर्निष्पत्तिधर्मकं नासदुपादाननियमात्। कस्यचित् सिद्धये किञ्चिदुपादेयम्, न सर्वं सर्वस्य’ इति। अस्य निराकरणायाह—-बुद्धिसिद्धन्तु तदसदिति। इदमस्योत्पत्तये समर्थं न सर्वमिति प्रागुत्पत्तेर्नियतकारणं कार्यं बुद्ध्या सिद्धम्, उत्पत्तिनियमदर्शनात्। तस्मादुपादाननियमोपपत्तिरिति। %ओदनादिफलावच्छेदेति% यावता कालेन ओदनादिफलप्रादुर्भाव आदित आरभ्य तावत्कालावस्थायिन्येव पाकादिक्रिया।
न्यायमञ्जरी
%बुद्धेरनित्यत्वात्माश्रितत्वे च%
इतश्चानित्या बुद्धिः, जानामि ज्ञास्याम्यज्ञासिषमित्युपजननापायधर्मतया पाकादिवत् कालत्रयेऽपि प्रकाशमानत्वात्, ज्ञातृव्यतिरिक्तायाश्च बुद्धेरप्रतिभासनात्।
अयन्तु विशेषः, पाकादिक्रियाणामोदनादिफलावच्छेदद्वारकं कालवैतत्यमपि भवति, उपलब्धेस्तु वस्तुस्वरूपप्रकाशनमात्रपरिसमाप्तप्रयोजनायाः कालवैतत्यं नास्त्येव, अत एवानित्यत्वेऽप्युत्पन्नापवर्गिणीमेव बुद्धिमाचक्षते शब्दवन्न घटादिवत् कालान्तरस्थायिनीमिति;सा चेयं बुद्धिरात्मान्तः करणशब्ददीपेन्द्रियार्थाद्यनेककारककलापकार्यापि सती न बाह्ये, न बाह्यकर्मणि समवैति, न बाह्यकरणे चक्षुरादौ, नान्तः करणे मनसि किन्तु कर्तर्येव। कर्तापि च नित्यो विभुरात्मा, न भूतसङ्घातस्वभावः कार्यः तस्या आश्रय इत्यात्मपरीक्षायां निर्णीतं गुणत्वमपि च तस्यास्तत्रैव दर्शितम्।
न्यायमञ्जरी
%बुद्धेरनित्यत्वप्रदर्शनम्%
नन्वेवं तर्हि न बुद्धेरनित्यत्वं विनाशकारणाभावाद्, द्विविधो हि गुणानां विनाशहेतुराश्रयविनाशो विरोधिगुणप्रादुर्भावो वा, नेहाश्रयाविनाशो नित्यत्वादात्मनो, न च विरोधिनमस्याः कञ्चिद् गुणमुपलभामहे, न, शब्दवदाशुविनाशित्वात्, नित्याकाशगुणोऽपि शब्दः शब्दान्तरमारभ्य यथा विनश्यति तथा बुद्धिर्बुद्ध्यन्तरमारभ्य विनश्यतीति तथादर्शनात् कल्प्यते, यावांश्च कश्चन विनाशदर्शनभेदोपलम्भादिः शब्दस्यानित्यतायां न्याय उक्तः स सर्वोऽपि बुद्ध्या प्रयोजनीयः, अत एव न बुद्धिनामेकप्रमातृवृत्तीनां यौगपद्यं विद्यते शब्दानामिवैकवक्तृप्रयुक्तानाम्। विनश्यदविनश्यद्दशयोस्तु बुद्ध्योराशुविनाशित्वेऽपि यौगपद्यमनुभवादुपेयत इत्यलमतिविस्तरेण। बुद्धेरनित्यतायाञ्च प्रायेण सर्ववादिनामविवादः, अन्यथा कथमाह जैमिनिः `सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम्’ इति।
अचिररुचिवत् तस्माद् बुद्धिर्निसर्गविनश्वरी
भवति जनकः स्वात्मा तस्याः स एव तदाश्रयः।
भवमनुभवैस्तापैः पापा तमेव युनक्ति सा
व्यसनजननीमेतामस्मात् त्यजेत् परमार्थवित्॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
ननु यदि बुद्धिः बुद्ध्यन्तरमुत्पाद्य विनश्यति तदा तज्जातोयपदार्थदर्शनानन्तरं सुखसाधनत्वात् स्मरणकाले तज्जातीयपदार्थदर्शनस्य विनाशात् स्मरणानन्तरमुपलभ्यानुवादेन परामर्शज्ञानं सुखसाधनत्वज्ञानं वा न स्यादित्याशङ्क्याह %विनश्यदविनश्यद्दशयोरिति% स्मरणसमये वध्यघातकन्यायेन विनश्यत्ता अतः तस्य विनाश इति। %बुद्धिजन्म तत्प्रत्यक्षमिति% बुद्धेः जन्म उत्पत्तिः।
न्यायमञ्जरी
%मनः परीक्षणम्%
%युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्॥%
मनसो यदेव सत्त्वे प्रमाणं तद्गम्यत्वमेवास्य लक्षणम्, समानेतरजातीयव्यवच्छेदकारित्वात्।
ननु मनस इन्द्रियत्वात् तद्वर्ग एव पठनं युक्तं किमर्थोऽयं पृथङ्निर्देशः? न, धर्मभेदात्। भौतिकानीन्द्रियाणि नियतविषयाणि, सगुणानाञ्चैषामिन्द्रियभावो मनस्तु न भौतिकं न नियतविषयं न चास्य सगुणस्येन्द्रियभाव इति। तच्च न भौतिकमकार्यत्वादत एव न तद्गुणयोगि, न च नियतविषयं सर्वविषयत्वन्त्वस्य सकलबाह्येन्द्रियाणामधिष्ठानत्वात् तदधिगम्यसुखादिविषयग्राहित्वाच्च। बाह्येन्द्रियाणि हि मनोऽधिष्ठितानि स्वविषये प्रवर्त्तितुमुत्सहन्ते चक्षुरादीनि नान्यथा, कस्मादेवमिति चेद् युगपज्ज्ञानानुपपत्तेः, उत्तरकालञ्च बाह्येन्द्रियव्यापारविरहेऽपि तदर्थावमर्षात्।
अस्त्येकेन्द्रियगम्येषु क्वचिज्जातिगुणादिषु।
विज्ञानयौगपद्यं यन्मनसस्तन्न साधनम्॥
तत्र विषयादिदोषेण दूरत्वादिना जात्यादेर्युगपद् ग्रहीतुमशक्यत्वात्।
यत्तु नानेन्द्रियाग्राह्येषु युगपत्सन्निहितेष्वपि गन्धरसरूपादिषु विषयेषु तद्ग्रहणेषु च स्वकार्यानुमितसन्निधानेषु सत्स्वपि यदसन्निधानात् तेषु करणेषु युगपदुपलब्धयो न भवन्ति ततोऽवसीयते नूनं कारणान्तरधर्मेषु करणेषु युगपदुपलब्धयो न भवन्ति तच्च मन इत्याख्यायते।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%अस्त्येकेन्द्रियगम्येष्विति% दूराद्धि कदाचिद् जातिमात्रग्रहणं `गौरयमायाति’ कदाचित् तु गुणमात्रग्रहणं `शुक्लोऽयं कश्चित्’ इति।
न्यायमञ्जरी
%बुद्धेयौगपद्याभाव एव मनः साधनम्%
ननु च
सुगन्धिं शीतलां दीर्घामश्नन्तः पूपशष्कुलीम्।
कपिलब्राह्मणाः सन्ति युगपत्पञ्चबुद्धयः॥
अपि च अयं खल्वध्यापकोऽधीते व्रजति कमण्डलुं धारयति पन्थानं पश्यति शृणोत्यरण्यजाञ् शब्दान् बिभ्यद् व्याललिङ्गानि वुभुत्सत इति क्रमाग्रहणाद् युगपदेता बुद्धयोऽस्य भवन्तीति? न, आशूत्पत्तेः। सुच्यग्रभिद्यमानकोकनददलकदम्बकवदतिसूक्ष्मत्त्वात् कालस्य क्रमस्तत्र न विभाव्यते भवितव्यन्तु तेनेति। यदि कारणान्तरनिरपेक्षचक्षुरादिकरणसाध्या एव रूपादिविषयोपलब्धयस्तदुत्तरकालमुपहतकरणानामपि कथं स्मरणादिरूपस्तदवमर्शः? अतो नूनं नयनादिवत् करणान्तरं तद्ग्राहि विद्यते।
अव्यापकञ्च तत्, व्यापित्वे हि बुद्धीनां यौगपद्यं न निवर्त्तेत। अपि चायं व्यवहारः, उक्तेऽपि क्वचिद् वचसि कश्चिदाह नाहमेतदश्रौषमन्यत्र मे मनोऽभूत् इति, तस्माद् न व्यापकं मनः।
प्रतिशरीरमेकञ्च च तत् अनेकत्वे पुनरपि ज्ञानयौगपद्यानपायात्।
क्रियावच्च तन्निष्क्रियेणेन्द्रियाणामधिष्ठातुमशक्यत्वात्।
मूर्तञ्च तत्, अमूर्तस्य क्रियानुपपत्तेः, मूर्तत्वे सति नित्यञ्च निरवयवत्वादनाश्रितत्वाच्च। मूर्तत्वन्त्वनित्यतायामप्रयोजकमिति वक्ष्यामः।
निरवयवञ्च तत्, अवयवकल्पनायां प्रमराणाभावात्।
वेगवच्च तत्, आशुसञ्चारात्, आशुसञ्चारमन्तरेणोपलब्धिदैर्घ्यस्य दृष्टस्यानुपपत्तेः।
इन्द्रियसंयोगि च तत्, द्रव्यत्वाद्, द्रव्यञ्च तत्, वेगादिगुणयोगात्, क्रियावत्त्वाच्चेतनाश्रितत्वाच्च।
अचेतनञ्च तत्, करणत्वादितरेषां ह्येकत्र शरीरे चेतनद्वयसमावेशादव्यवहारः स्यादिति, तस्मादेवंरूपं मनः।
सांख्योक्तन्तु तस्य रूपमयुक्तमिति तत्प्रक्रियानिषेधादेव व्याख्यातम्।
अन्यान्यपि स्मृत्यनुमानागमसंशयप्रतिभास्वप्नोहज्ञानाति अनन्तरसुखदुः खेच्छाद्वेषादिविषयग्राहीणि च ज्ञानानि मनसो लिङ्गानि सन्त्येव, तेषां बाह्येन्द्रियव्यापारसाध्यत्वासम्भवात्, करणरहितायाश्च क्रियाभिनिर्वृत्तेरदर्शनादिति। स्मृतिस्तावन्मनोजन्यैव, अनुमानागमज्ञानन्तु परोक्षार्थविषयत्वान्मानसं, संशयोऽपि मानसः कश्चिद् वक्ष्यते, प्रतिभा सा मासी दर्शितैव `श्वो मे भ्राता आगन्तेति’। स्वप्नज्ञानमुपरतेन्द्रियाग्रामस्य भवत् कथं न मानसम्? तर्कोऽपि संशयवत् क्वचिद्विषये मानसो भवत्येव, सुखादीनान्तु ज्ञप्तिवदुत्पत्तिरपि मनोनिबन्धनैव, कार्याणामात्मगुणानामुत्पत्तौ प्रत्यासन्नकारणान्तरसम्भवेऽप्यात्ममनः संयोगस्यावधृतसामर्थ्यस्यासमवायिकारणत्वात्, अतश्च विषयानुभवजन्येऽपि सुखादौ मनः संयोगः कारणम्, सुखादीनाञ्च बोधस्वरूपत्वं संवेद्यत्वञ्च निरस्तम्, अतस्तदुपलब्धौ मनस एव कारणता।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%दीर्घामश्नन्त% इति दोर्घामित्यनेन भक्ष्यमाणायाश्चक्षुर्ग्राह्यतामप्याह, दैर्घ्याद् बहिर्भागस्य त्रक्षुषा ग्रहणात्।
%प्रत्यासन्नकारणान्तराभावेऽपीति।% ज्ञानाद्यपि तत्र कारणमस्त्येव किन्तु मूर्च्छाद्यवस्थानन्तरकालं ज्ञानोत्पत्तौ तस्याभावादकारणत्वेनाव्यापकत्वम्। अतोऽन्येषां व्यभिचारात् तस्यैव सामर्थ्यावधारणम्।
न्यायमञ्जरी
%शरीरे एव आत्ममनः संयोगः%
तदिदं मनः पूर्वकृतशुभाशुभकर्मसंस्कारवतात्मना तद्वशादेब शरीरदेशे संयोगं प्रतिपद्यते तत्रैव च जीवनव्यवहारः, `विपच्यमानकर्माशयसहित आत्ममनः संयोगो जीवनमिति हि वदन्ति, संयुक्तमात्मना मनस्तेषु तेषूपपत्तिस्थानेषु नानाविधभोगसाधनतया संसारकारणं भवति, नित्यत्वादात्ममनसोः संयोग इति। न हि प्रथमो नाम कश्चित् कालः समस्ति आदिसर्गस्यापि पूर्वसर्गसापेक्षत्वात्, ईश्वरोऽपि कर्मापेक्ष एव विचित्रस्य जगतः स्रष्टेति निर्णीतमेतदिति कृतं विस्तरेण।
विदधत् सुखादिभोगं वहच्च तरलेन्द्रियाश्वसारथिताम्।
बन्धनिमित्तं मन इति मनस्विना यत्नतो हेयम्॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%विपच्यमानकर्माशयेति% आशयः संस्कारः, तत्सहितः, केवलस्य संयोगस्य मृतावस्थायामपि नित्यत्वेन व्यापकत्वेन चात्मनः, सद्भावात्। उपपद्यते, देहसम्बन्धमनुभवति येषु तानि %उपपत्तिस्थानानि%
न्यायमञ्जरी
%प्रवृत्तिपरीक्षा%
%प्रवृत्तिर्वाग्बुद्धिशरीराम्भः॥%
वागिति वर्णात्मकशब्दकारणसंयोगाद्युच्यते नेन्द्रियमिति व्याख्यातम्। बुद्धिरिति मन इहोच्यते नोपलब्धिः। शरीरं प्रसिद्धम्, तेषामारम्भो व्यापारः सैवारम्भ इति सर्वथा तदीयक्रिया प्रवृत्तिरित्युच्यते।
न्यायमञ्जरी
%प्रवृत्तिविभागः%
सा च द्विविधा पुण्या पापिका च। तत्र पापिका, वाचा चतुविंधा, मनसा त्रिविधा, शरीरेण त्रिविधैवेति दशविधा। वाचा प्रवृत्तिस्तत्रानृतपरुषसूचनासम्बद्धवचनरूपा चतुर्विधा, परद्रोहपरद्रव्याभिलाषनास्तिक्यानुध्यानरूपा त्रिविधा मनसः प्रवृत्तिः। हिंसास्तेयप्रतिषिद्धाचरणरूपा त्रिविधाशरीरेण प्रवृत्तिः, मैथुनकरणमेवंप्रकारसुखाद्युपलक्षणम्, सेयं दशविधा प्रवृत्तिरनवरतमभिज्वलतो निरतिशयदुः खवेदनादायिनो नरकानलस्येन्धनम्। पुण्यापि सत्यप्रियहितवचनस्वाध्यायाध्ययनरूपा चतुर्विधा वाचा प्रवृत्तिः, जपयज्ञो हि स्वाध्यायपाठः, उपांशुनान्तः सङ्कल्पेन वा, अस्पृहानुकम्पापरलोकश्रद्धात्मिका त्रिविधा मनसा प्रवृत्तिः, दानपरित्राणपरिचरणरूपा त्रिविधा शरीरेण प्रवृत्तिरितीयमपि दशविधैव। एषा च स्वर्गसदनद्वारसोपानकल्पा। सेयमुभयतो विंशतिभेदा प्रवृत्तिः सङ्क्षेपतो द्विधैव विधिनिषेधात्मकतदवगमोपायभेदात्।
न्यायमञ्जरी
%प्रवृत्तेरेव संसारकारणता%
विधिनिषेधकारण एव हि सदसत्कर्मावगमः, तत्र विहितानुष्ठानं स्वर्गाय निषिद्धाचरणं नरकायेत्येवं सुखदुः खोपभोगस्थानशरीरेन्द्रियाद्यनभिसम्बन्धनिबन्धनमेषा प्रवृत्तिर्भवन्ती संसारस्य परमं कारणं भवति। यो ह्ययं देवमनुष्यतिर्यग्भूमिषु शरीरसर्गः, यश्च प्रतिविषयं बुद्धिसर्गः, यश्चात्मना सह मनसः संसर्गः स सर्वः प्रवृत्तेरेव परिणामविभवः। प्रवृत्तेश्च सर्वस्याः क्रियात्वात् क्षणिकत्वेऽपि तदुपहितो धर्माधर्मशब्दवाच्य आत्मसंस्कारः कर्मफलोपभोगपर्यन्तस्थितिरस्त्येव, न च फलमदत्त्वा धर्माधर्मौ क्षीयेते। अन्त्यसुखदुः खसंविद्विरोधिनौ हि धर्माधर्मावुदाहरन्ति, न च जगति तथाविधं किमपि कार्यमस्ति वस्तु यन्न धर्माधर्माभ्यामाक्षिप्तसम्भवमिति तदुच्छेदे मुमुक्षुणा यत्न आस्थेयः।
इति वितनुतः पुण्यापुण्यप्रवृत्तिसमुद्भवौ
निगमवदिमौ धर्माधर्मौ रुचं भवबन्धने।
यदि निरवधेर्दुः खस्यान्तं चिकीर्षसि सर्वथा
परिहा मनोवाक्कायानां प्रवृत्तिमनर्गलाम्॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%अन्त्यसुखेति।% यतः परं फलमन्यत् ताभ्यां देयं नास्ति तदन्त्यम्।
न्यायमञ्जरी
%दोषपरीक्षा%
%प्रवर्तनालक्षणा दोषाः%
प्रवर्तना प्रवृत्तिः, सा लक्षणमेषामिति प्रवर्तंनलक्षणा दोषाः। दोषप्रयुक्तो हि पुरुषः पुण्ये कर्मणि पापे वा प्रवर्तते।
ननु च प्रत्यात्मवेदनीयदोषाणां स्वरूपमपरोक्षमेतत्, किमेतेषां लक्षणतो रूपंनिरूप्यते? सत्यम्, प्रत्यात्मवेदनीयत्वेऽपि यदेषां प्रवर्तनालक्षणत्वमुपदिश्यते तदनेन रूपेण संसारकारणत्वज्ञापनार्थम्, धर्माधर्मविहितो हि शरीरादि दुःखाधिष्ठानसम्बन्धः, तद्बीजस्य च कर्मणः करणां दोषाः कर्मणि पुमांसं प्रवर्तयन्तीति प्रवर्तनालक्षणा इत्युक्ताः। परसन्तानवर्तिनां दोषाणामप्रत्यक्षत्वात् तत्प्रतीतये प्रवर्तनालक्षणत्वकथनमिति त्वपव्याख्यानमल्पप्रयोजनत्वादिति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%परसन्तानवर्तिनामिति।% स्वात्मनि रागादिनिबन्धनां प्रवृत्तिमनुभूतवान्, अतः परत्रापि प्रवृत्तिं दृष्ट्वा दोषसम्बन्धमनुमिमीत इति।
न्यायमञ्जरी
%दोषविभागः%
तेषां दोषाणां त्रयो राशयो भवन्ति रागो द्वेषो मोह इति। तत्रानुकूलेष्वर्थेष्वभिलाषलक्षणो रागः, प्रतिकूलेष्वसहलक्षणो द्वेषः, वस्तुपरमार्थापरिच्छेद लक्षणो मिथ्यावसायो मोहः।
न्यायमञ्जरी
%दोषविभागे न्यूनतापरिहारः%
ननु चेर्ष्यासूयालोभमानमदमत्सरादिदोषान्तरसम्भवात् कथं त्रय एव दोषाः? न, ईर्ष्यादीनां यथानिर्दिष्टेष्वेवान्तर्भावात्। कामो मत्सरः स्पृहा तृष्णा लोभ इति पञ्च प्रकारो रागपक्षः। स्त्रीसम्भोगेच्छा कामः, यदन्यस्मै निवेद्यमानमपि वस्तु धनवन्न क्षीयते तदपरित्यागेच्छा मत्सरः, अनात्मीयवस्त्वादित्सा स्पृहा, पुनर्भवप्रतिसन्धानहेतुभूतेच्छा तृष्णा, निषिद्धद्रव्यग्रहणेच्छा लोभ इत्यभिलाषप्रकारभेदाद्रागपक्ष एवायम्।
द्वेषपक्षोऽपि पञ्चविधः क्रोधेर्ष्यासूयाद्रोहोऽमर्ष इति। अक्षिभ्रवादिविकारहेतुः प्रज्वलनात्मकः क्रोधः, साधारणेऽपि वस्तुनि परस्य दर्शनाद्य सहनमीर्ष्या, परगुणेष्वक्षमासूया, परापकारो द्रोहः, अदर्शितमुखादिविकारः परं प्रति मन्युरमर्ष इत्यसहनप्रकारभेदादेव द्वेषपक्षः।
मोहपक्षस्तु चतुर्विधो मिथ्याज्ञानं विचिकित्सा मानः प्रमाद इति। अतस्मिंस्तदिति ज्ञानं मिथ्याज्ञानम्, किंस्विदिति विमर्शो विचिकित्सा, असद्गुणाध्यारोपेण स्वोत्कर्षबुद्धिर्मानः, कियदेतदित्यवज्ञया कर्तव्याकरणं प्रमादः, स एव मद इत्याख्यायते, सोऽयं तत्त्वापरिज्ञानप्रकारभेदान्मोहपक्षः। एवं त्रय एवैते दोषाः शोकहर्षौ तु सुखदुः खे उच्येते न दोषान्तरम्। तेषान्तु मोहः पापतमः इतरयोस्तु तदधीनात्मलाभत्वात्। मृढस्य हि रागद्वेषौ भवतो मिथ्यासङ्कल्पादुत्पद्यमानयोरनुभवात्, कुसङ्कल्पश्च मिथ्याज्ञानप्रवृत्तिरेव। मिथ्याज्ञानस्यैव भगवतः सर्वमिदं विलसितं योऽयमनेकप्रकारः संसारदुः खभार। यद्येवं न तर्हि मोहस्य दोषत्वं दोषकारणत्वादिति? न, लक्षणानपायात्, सत्यपि दोषान्तरहेतुत्वे स्वयमपि पुरुषप्रवृत्तिप्रयोजनकत्वलक्षणयोगाद् रागवद् दोषत्वं न मोहो विजहाति।
न्यायमञ्जरी
%दोषस्य हेयत्वम्%
त इमे दोषाः संसारहेतव इति यत्नतः शमनीयाः। कथं पुनरमी शमयितुं शक्याः? उक्तमत्र नाकस्मिका न नित्या नाज्ञातशमनोपाया न चाशक्यप्रतिक्रिया इति। विस्तरतश्चैतदपवर्गाह्निके परीक्षिष्यते, मिथ्याज्ञाननिमित्ताः खल्वेते दोषास्तस्मिन् सम्यग्ज्ञानप्रभावनिहते हेतोरभावाद् न भवन्त्येवेति।
नन्वेवं प्रसविवनाशकारणयोरेकत्वादेक एव दोषो भवेदिति त्रित्वं नोपपद्यते, न, अनुभबसिद्धभेदत्वात्। अनुभूयते हि रागद्वेषमोहानामितरेतरविभक्तं स्वरूपम्, कारणैकत्वन्तु न प्रयोजकम्, एकस्मादेव ज्वलनसंयोगादुत्पद्यमानानां विनश्यताञ्च पार्थिवपदार्थवृत्तीनां गन्धरसरूपस्पर्शानां नानात्वदर्शनात्। अतः सूक्तं दोषाणां त्रैराश्यमिति।
संसारकाराभवनप्रवेशमार्गास्त एते त्रय एव दोषाः।
एषां प्रहाणोद्यममादधातो न जन्ममृत्यू पुनरभ्युपैति॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%न चाशक्यप्रतिक्रिया% इति। ज्ञातशमनोपायानामपि तदुपायस्य वैकल्येनप्रतिकर्तुमशक्यत्वादशक्यप्रतिक्रियत्वम्।
न्यायमञ्जरी
%प्रेत्यभावपरीक्षणम्%
पुनरुत्पत्तिः प्रेत्यभावः॥
कस्येयं पुनरुत्पत्तिरुच्यते, आत्मनः शरीरस्य वा? तत्रात्मनो नित्यत्वादुत्पत्तिरेव नास्ति का कथा पुनः शब्दार्थस्य। शरीरस्य तूत्पत्तिरस्ति न तु पौनः पुन्येन। न हि मृतं शरीरं तदेव पुनरुत्पद्यते, तस्मात् पुनरुत्पत्तिः प्रेत्यभाव इत्यवाचकं सूत्रम्। उच्यते, पुनः शब्दार्थस्य यत्नत उपदिष्टस्य परिहर्तुमशक्यत्वादात्मनश्च स्थायित्वेन क्रियाभ्यावृत्तिसम्भवात् तस्यैव पुनः पुनरुत्पत्तिं ब्रूमः, उत्पत्तिवन्मरणमपि। सोऽयमात्मन एव मृत्वा पुनर्जन्म प्रेत्यभाव इति।
ननु जन्ममरणे उभे अपि नित्यत्वादात्मनो न संस्त इत्युक्तम्, सत्यम्, शरीरादिसंयोगवियोगयोस्तु तथाभिधानान्न दोषः। मरणम्आत्मनो भोगायतनदेहेन्द्रियादिवियोग उच्यते, जन्म तु तत्सम्बन्धः। ते च ते विपच्यमानकर्माशयानुसारेण देहेन्द्रियादित्यागोपादाने एव मरणजन्मनी क्रियाभ्यावृत्त्या भवन्ती प्रेत्यभाव इत्युच्यते। स एव च संसारः। तदित्थमनुध्यायतः कस्य सचेतसो निर्वेदो नोदीयात्? तदुक्तम्
जरावियोगमरणव्याधयस्तावदासताम्।
जन्मैव किं न धीरस्य भूयो भूयस्त्रपाकरम्॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%शरीराद्युत्पत्तौ कारणत्वेन परमाणुसाधनम्%
अथ यैरुत्पद्यमानैर्देहेन्द्रियादिभिरात्मनः सम्बन्धस्तेषां कथमुत्पत्तिरित्युक्तं सूत्रकृता `व्यक्ताद् व्यक्तानामुत्पत्तिः प्रत्यक्षप्रामाण्यात्’ इति। व्यक्तादिति कपिलाभ्युपगतत्रिगुणात्मकाव्यक्तरूपकारणनिषेधेन परमाणूनां शरीरादौ कार्ये कारणत्वमाह।
तथा हि पार्थिवमाप्यं तैजसं वायवीयमिति चतुर्विधं कार्य स्वावयवाश्रितमुपलभ्यते। तत्र यथा घटः सावयवः कपालेष्वाश्रित एवं कपालान्यपि सावयवत्वात् तदवयवेषु, तदवयवा अपि तदवयवान्तरेष्वित्येवं तावद् यावत् परमाणवो निरवयवा इति। यत्र यावतः कार्यजातस्य स्वावयवाश्रितस्य प्रत्यक्षेण ग्रहणं तत्र तदेव प्रमाणम्, तदपि हि कार्यं सावयवत्वात् परिदृश्यमानकार्यवत्। निरवयवत्वे तु तस्य परमाणुत्वमेव। परमाणुषु च सावयवत्वस्य च हेतोरसिद्धत्वान्नावयवान्तरकल्पना। तेषां हि सावयवत्वे तदवयवाः परमाणवोऽनुमीयन्ते। लोष्टस्य प्रविभज्यमानस्य भागास्तद्भागानाञ्च भागान्तराणीत्येवं तावद् यावदशक्यभङ्गत्वम् अदर्शनविषयत्वञ्च भवति। तद् यदि ततः परमवयवविभागो न सम्भवति ते परमाणव उच्यन्ते, तेष्वपि हि विभज्यमानेषु तदवयवाः परमाणवो भवेयुर्न ते। तदेवमुत्पत्तिविनाशक्रमस्येदृशो दर्शनात् सन्ति परमाणवः।
अत्र हि त्रयी गतिः, अस्य घटादेः कार्यस्यनिरवयवत्वमेव वा, अवयवानन्त्यं वा, परमाण्वन्तता वा। तत्र निरवयवत्वमनुपपन्नमवयवानाम् पटे तन्तूनां घटे च कपालानां प्रत्यक्षमुपलम्भात्। अनन्तावयवयोगित्वमपि न युक्तम्, मेरुसर्षपयोरनन्तावयवयोगित्वाविशेषेण तुल्यपरिमाणत्वप्रसङ्गात्। तस्मात् परमाण्वन्ततैव युक्तिमती।
न्यायमञ्जरी
%अचेतनानां परमाणूनां न स्वतः संयोग इति तदर्थम् ईश्वरसिद्धिः%
त इमे परमाणवश्चेतनेच्छाप्रेरणमन्तरेण विशिष्टक्रमकमितरेतरसङ्घटनमलभमानाः कार्यसिद्धये न पर्याप्नुयुरचेतनत्वादिति चेतन एषामधिष्ठाता सकलभुवननिर्माणतिरीश्वरोऽभ्युपगतः। तत्सिद्धये च सकलकुतर्कतिमिरतिरस्कारपूर्वकं पूर्वमेव निरवद्यमनुमानमुपपादितम्। इश्वरोऽपि नानेकात्मवृत्तिविपाकोन्मुखधर्माधर्मसंस्कारवैचित्र्यमननुरुध्यमानो विचित्रस्य जगतो जन्म निर्मातुमर्हतीत्येतदपि दर्शितम्।
न्यायमञ्जरी
%परमाणुभिर्द्व्यणुकादिक्रमेणैव कार्योत्पत्तिः%
न च सकृदेव सतो निर्वर्त्यमानकार्यपरिमाणानुगुणसंख्याः परमाणव एकत्र संयोज्य कार्यमारभन्ते, किन्तु द्व्यणुकादिक्रमेण, सकृदारम्भे हि कुम्भे भज्यमाने कपालशकर्कराकणचूर्णादिक्रममपहाय प्रथममेव परमाण्वन्तता भवेत्। सर्वसंयोगस्य सर्वविभागेन सहसैव विनाशादतश्च कर्परादिक्रमदर्शनं विरुध्येत। अविनष्टेऽपि पटादौ तन्त्वाद्यवयवाश्रितत्वस्य ग्रहीतुमशक्यत्वात् `परमाणूनां घटस्य च मध्ये कार्यान्तरानारम्भादिति। तस्माद् द्व्यणुकादिप्रक्रमेण परमाणवः कार्यमारभन्ते।
न्यायमञ्जरी
%द्व्यणुकारम्भे युक्तिः%
ननु द्वावेव परमाणू प्रथमं सङ्घटेते इत्यत्र का युक्तिः? उच्यते,बहुत्वसंख्याया महत्त्वपरिमाणकारणत्वदर्शनात् त्रिषु परमाणुषु प्रथमं मिलत्सु तत्कार्ये बहुत्वसंख्यया महत्त्वारम्भात् तत्प्रत्यक्षत्वं प्रसज्येत। न च तत्प्रत्यक्षमतिसूक्ष्मत्वादतो द्वाभ्यां परमाणुभ्यां द्व्यणुकमादावुत्पद्यते, तच्च परमाणुवदप्रत्यक्षमेव महत्त्वानुत्पादात्। द्व्यणुकद्वयेन तु कार्यारम्भ इष्यमाणे तदविशेषप्रसङ्गात्, द्व्यणुक इव तत्रापि महत्त्वोत्पत्तौ कारणाभावात्। अतस्त्रिभिर्द्व्यणुकैस्त्र्यणुकमारभ्यते, तत्र च बहुत्वसंख्यया महत्त्वमारप्स्यते प्रत्यक्षञ्च तद्भविष्यति, ततः परन्तु क्रमसामान्ये प्रमाणमस्ति लोष्टादिभक्तेः सावयवखण्डावयवनिदर्शनम्। क्रमविशेषे तु प्रमाणं नास्तीत्थमारम्भ इति। यत्र वा दर्शनमस्ति तत्र तदस्तु क्रमविशेषप्रमाणम्, आरभ्यारम्भकत्वन्तु नेष्यते मूर्तानां समानदेशत्वविरोधात्। न हि परमाणवः प्रथमं कार्यमारभ्य तदनु त एवोत्तरोत्तरकालं कार्याण्यारभन्ते किन्तु यत् परमाणुनिर्वृत्तं कार्यं द्व्यणुकं तत् कार्यान्तरस्यारम्भकम्, तदप्यन्यस्य कार्यस्येत्येवं तावद् यावत् परिपूर्णावयविनिष्पत्तिः। इत्थञ्च तन्तुभिः पटः क्रियते न तन्त्ववयवैरशुभिः, इतरथा ह्युत्तरोत्तरकार्यारम्भेऽपि पूर्वपूर्वकारणानपायान्मूर्तानामेकदेशत्वं स्यात्, न च तद् दृश्यत इति यथोक्त एव क्रमः श्रेयान्। तदेवमनेकात्मसमवेतधर्माधर्मसंस्कारपरिपाकानुरूपप्रसरदीश्वरेच्छाप्रेर्यमाणपरमाणुक्रियानुपूर्वीनिर्वर्त्यमानद्व्यणुकादिकार्यक्रमेण शरीराद्यवयविनिर्वृत्तिरिति स्थितम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%तत्प्रत्यक्षत्वं प्रसज्यते, न च तत्प्रत्यक्षमिति% तस्य हि प्रत्यक्षतायां भूयोऽवयवग्रहणसहकारिणेन्द्रियेणावयविग्रहणात् परमाणोः प्रत्यक्षत्वं प्राप्नोतीति केचित्। तस्य महत्त्वानुत्पादकत्वादेव वा अग्रहणमिति युक्तम्। तदेवाह %महत्त्वानुत्पादादिति। आरभ्यारम्भकत्वेति% यदि ह्येकमारभ्यान्यदप्यारभ्येत तर्हि मूर्तानां कार्याणामेकदेशत्वं स्यात्। तद्यथा, तदेकं यत्र वर्तते एवं द्वितीयमपि तत्रैव वर्तेत। न चायं मूर्तानां धर्मो दृश्यत इति।
न्यायमञ्जरी
%द्व्यणुकादिप्रक्रमेण शरीरोत्पत्तिविरुद्धदर्शनानि प्रमाणविरुद्धानि%
एतद्विपरीतानि तु मतान्तराणि प्रमाणविरुद्धानि। तथा हि नित्यमेव शरीरादि अनुत्पत्तिधर्मकमिति प्रत्यक्षविरुद्धम्, पृथिव्यादेरप्यवयवसन्निवेशविशिष्टतया कार्यत्वादितीश्वरसिद्धौ निर्णीतम्। आकस्मिकत्वमपि शरीरादे- कार्यस्य न युक्तम्, कारणनियमोपलम्भादनिमित्तायाश्च भावोत्पत्तेरनुपपत्तेः। अभावादपि भावोत्पत्तिस्तादृगेवेति। गुणात्मकप्रधानविकारमहदहङ्कारादिकारणकत्वमपि कार्यस्य पृथिव्यादेः प्रागेव प्रपञ्चतः प्रतिषिद्धम्। अनारब्धावयविरूपकार्याः परमाणव एवैते सञ्चयविशिष्टाः सन्तो लोकयात्रां वहन्तीत्येतदपि न समीचीनम्, सञ्चयस्य भेदाभेदविकल्पाभ्यामनुपपद्यमानत्वात्, परमाणूनाञ्चातिसौक्ष्म्यादप्रत्यक्षत्वात्। पौद्गलिककार्यपक्षेऽपि पर्यायान्तरेण परमाणूनां कथनम्, अप्रमाणकत्वं वा। शब्दविवर्तत्वं तदनुगमाग्रहणादनुप पन्नम्। परमात्मोपादानत्वमपि न सम्भवति तस्यैव निष्प्रमाणकत्वात्। न च न कदाचिदनीदृशं जगदिति पादप्रसारिकामात्रं कर्तुमुचितम्, सर्गप्रबन्धप्रलयप्रबन्धस्य समर्थितत्वादिति।
अतश्च पक्षान्तरदुर्बलत्वाद् यथोदितः सिध्यति भूतवर्गः।
तं यस्तु पश्यन्नपि निह्नुवीत तस्मै नमः पण्डितशेखराय॥
अनादौ संसारे स्थितमिदमहो मूढमनसां
जनित्वा जन्तूनां मरणमथ मृत्वापि जननम्।
इयं सा दुः खानां सरणिरिति सञ्चिन्त्य कृतिना
विधातव्यं चेतो जननमरणोच्छेदिति पदे॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%अनारब्धावयविरुपकार्या% इत्यादिना सौत्रान्तिकमतमाह। %पौद्गलिककार्या% इत्यादिना अर्हन्मतमुक्तम्। %पर्यायान्तरेण% परमाणुशब्देन। %तदनुगमाग्रहणादिति% मृद्विवर्ता घटादयो मृद्रूपानुगता गृह्यन्ते नैवं शब्दानुगतार्थस्ता अर्थाः। %परमात्मोपादानत्वमिति% सर्वत्र पृथिव्यादौ परिणामवशेन चैतन्याभिव्यक्तिदर्शनात् चेतनोपादानत्वमेव सर्वस्य युक्तम् नाचेतनप्रधानपरमाण्वाद्युपादानत्वम् अचेतनावदुत्पत्त्यसम्भवादिति परमात्मोपादानत्ववादिनां मतम्। प्रमाणमप्याहुः यत् सामान्यविशेषवद् वस्तु तत् सर्वं कारणैकनिष्ठम्, यथा घटादि, यत् पुनः कारमैकनिष्ठं न भवति तत् सामान्यविशेषवदपि न भवति। परमकारणं परमात्मा, न हि तस्यैकत्वात् केनचित् सह सामान्यं रूपमस्ति, एकत्वादेव च न तस्य कुतश्चिद् विशेष इति। अत एव न परमाणूनां परमाकरणत्वं प्रधानस्य च, तेषामपि सामान्यविशेषवत्त्वात्। तथाहि, परमाणूनां परमाणुत्वं सामान्यम्, अन्त्यविशेषाश्च विद्यन्त एव। सत्त्वरजस्तमसामपि अचेतनत्वं सामान्यम्, परस्परञ्च विशेषा विद्यन्त एव, अन्यथा त्रित्वानुपपत्तेरिति। श्रुतिमप्याहुः, `यथोर्मनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति। यथा सतः पुरुषात् केशलोमानि तथा अक्षरात् सम्भवतीह विश्वम्’ इति।
न्यायमञ्जरी
%फलपरीक्षा%
प्रवृत्तिदोषजनितोऽर्थ फलम्॥
प्रवृत्तिर्दोंषाश्च व्याख्याताः, तज्जनितोऽर्थः फलमित्युच्यते। अर्थग्रहणंगौणमुख्यभेदप्रदर्शनार्थम्। सुखदुः खे मुख्यं फलं तत्साधनन्तु शरीरेन्द्रियविषयादिगौणम्। सर्वं हीदं प्रवृत्तिदोषाक्षिप्तं फलमित्युक्तम्। तदिदमनादिना प्रबन्धेन प्रवर्तमानं फलं पुनरुपयुज्यते पुनस्त्यज्यत इति महतः खेदस्य हेतुरिति भाव्यमानं निर्वेदवैराग्यादिमार्गेणापवर्गोपयोगितां प्रतिपद्यते।
आत्तमात्तं विजहतस्त्यक्तं त्यक्तञ्च गृह्णतः।
पुंसः फलपटीयन्त्रमहो कष्टः परिश्रमः॥
तत् पुनः फलं कर्मणा किं सद्य एव सम्पद्यते कालान्तरेण वा? उच्यते, द्विविधं कर्म विहितं निषिद्धञ्च, तत्र विधिफलानां कालनियमो नास्ति, क्रियाफलं दोग्धि पचतीति समनन्तरमुत्पद्यमानं दृश्यते। विधिफलानान्तु नैष नियम इति शब्दपरीक्षायां चित्राक्षेपपरिहारावसरे निरूपितमेतत्। विधिफलमपि च किञ्चन चोदनावचनपर्यालोचनया सद्य इति निश्चीयते वृष्टिरिव कारीर्याः, किञ्चिदैहिकफलमपि कर्म वस्तुबलात् कालान्तरापेक्षं भवति पुत्रेष्ट्यादि, न हि सहसैव निधिलाभवत् पुत्रलाभः सम्भवति गर्भसम्भवहेतुभूतभार्यापरीरम्भादिक्रमापेक्षत्वात्। ज्योतिष्टोमादि तु स्वर्गफलं कर्म फलस्वरूपमहिम्नैव पारलौकिकफलमवतिष्ठते। सर्वर्गो हि निरतिशया प्रीतिस्तदन्यथानुपपत्तिपरिकल्पितः कनकगिरिशिखरादिर्वा देशः, उभयथापि नैतद्देहोपभोग्यतां प्रतिपद्यते।
अनियतफलन्तु चित्रादि कैश्चिदुक्तम्, तच्च युक्तमयुक्तं वेति तत्रैव परीक्षितम्। निषिद्धस्य तु कर्मणः सर्वस्यैव प्रायेण परलोक एव फलम्,परदाराभिमर्षणादौ हि क्रियाफलं सुरतसुखादि सद्यः फलम्, निषेधविधिफलन्तु नरकपतनं पारलौकिकम, स्वर्गवन्नरकस्यापि निरतिशयदुः खात्मनस्तदन्यथानुपपत्तिकल्पितदेशस्य वा एतच्छरीरानुपभोगयोग्यत्वात्। तीव्रसंवेगनिर्वृत्तकर्म विहितमितरद् वा प्रत्यासन्नविपाकमिहैव भवति नन्दीश्वरनहुषयोरिवेत्यागमविदः। चौरब्रह्मघ्नादयश्च केचित् प्रत्यासन्नप्रत्यवायाः प्रायेण दृश्यन्त एवेत्येवमेष विचित्रः कर्मणां विपाकः।
यदपि चोच्यते कर्मकाले फलं नास्ति फलकाले कर्म नास्ति कालान्तरे च फलस्यान्यत् प्रत्यक्षं कारणमुपलभ्यते सेवादिकमिति, तदपि पूर्वं परिहृतम्। कर्मणां विनाशेऽपि तज्जनितस्यात्मसंस्कारस्य धर्माधर्मशब्दवाच्यस्य भावात्, दृष्टस्य च सेवादेः कारणस्य व्यभिचाराददृष्टकल्पनाया अवश्यम्भावित्वात्। `धर्मादेरात्मनि फलसमवायात् फलस्य च पुत्रपश्वादेरन्यसमवेतत्वाद् भिन्नाधिकरणत्वं कर्मफलयोः’ इत्यपि न चोद्यम्, मुख्यस्य सुखदुः खात्मनः फलस्य भिन्नाश्रयत्वानुपपत्तेः, सुखदुः खे ह्यात्मनि वर्तेते धर्माधमौ च तत्स्थावेवेति।
दुष्टेनैव सुखस्य कारणमतस्तद्धेतुरागेण किं
दुः खस्यापि न तन्निबन्धनमिति द्वेषस्तदर्थेषु कः।
तस्मात् कर्मनिमित्तकं फलमिति ध्यायन्न कुर्यात् कृती
सङ्गं कर्मणि येन दुस्तरमसौ संसारमापद्यते॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%नन्दीश्वरनहुषयोरिति% नन्दिनामा ब्राह्मणकुमारको विप्रेभ्य आत्मनोऽल्पायुष्ट्वमवगम्य तादृशं तीव्रतपोविशेषरूपं कर्माकरोद् येन तेनैव शरीरेण भगवतः शङ्करस्य गणाधिपत्यपूर्वकमजरामरत्वमवाप येनाद्यापि नन्दीश्वर इति ईश्वरशब्देन व्यवह्रियते। नहुषाख्यश्च सोमवंशप्रभवो राजर्षिर्महता पुण्यकर्मसम्भारेणैन्द्रपदमवाप्य ब्राह्मणान् स्ववाहनकर्मण्यश्ववद् नियुञ्जानो ब्राह्मणशापात् सद्य एवाजगरत्वमवाप। %तीव्रसंबेगेति।% तीव्रसंवेगेन महता प्रयत्नेन सर्वात्मना तत्परायणत्वेन निर्वृंत्तम्।
%फलस्य च पुत्रपश्वादेरन्यत्र समवेतत्वादिति।% अन्यत्रसमवेतत्वं स्वावयवसमवेतत्वम् पुत्रादेरत्र विवक्षितम्। %मुख्यस्य% पुत्रजन्मजस्य। %तद्धेतुरागेण% सुखहेतुरागेण।
न्यायमञ्जरी
%दुः खपरीक्षा%
बाधनालक्षणं दुःखम्॥
बाधना पीडनं सन्तापनम्, सा लक्षणमस्येति बाधनालक्षणं दुःखम्। तत्र मुख्ये दुःखे लक्ष्ये लक्षणशब्दो यथाश्रुत एव, बाधनयैव हि दुःखस्वरूपं लक्ष्यते बाधयति पीडयतीति। गौणे तु दुःखे शरीरादौ लक्ष्ये बाधनानुषक्तमिति व्याख्येयम्।
ननु च पूर्वसूत्राख्यातेन फलग्रहणेनैव दुःखस्योपदिष्टत्वात् किमर्थं पुनरुपदेशः, सुखप्रत्याख्यानार्थमिति चेत्, न, पूर्वापरविरोधात्, सकलप्राणभृदनुभवसाक्षिकत्वेन च सुखस्य प्रत्याख्यातुमशक्यत्वात्। तत्प्रत्याख्याने च विवक्षिते किमर्थं प्रमेयसूत्रे फलोपादानम्? फले खलु सुखदुः खे इति व्याख्यातम्, ततश्च सुखप्रत्याख्याने दुःखमेवावशिष्यते तच्चानेन दुःखशब्देनैव निर्दिष्टमिति किं फलग्रहणेन? उच्यते, न सुखलेशस्य संसारे जन्तुभिरन्तरान्तरानुभूयमानस्य प्रत्याख्यानाय दुःखग्रहणम्, सर्वत्र तथात्वभावनोपदेशार्थं सन्नपि सुखलवो दुःखमेवेति भावयितव्यस्तत्साधनमपि सर्वं दुः खमेवेति मन्तव्यम्।
न तद् व्यवसितं पुंसां न तत् कर्म न तद् वचः।
न तद् भोग्यं समस्तीह यन्न दुःखाय जायते॥
तदित्थं दुःखमुत्कृष्टं तिरश्चाम्, मध्यमं मनुष्याणाम्, हीनं देवानाम्, हीनतरं वीतरागाणामित्यागमविदः। वीतरागाणां दुःखतानवं युक्तितोऽप्यवगम्यते, दुःखस्य रागनिबन्धनत्वात्।
तत्त्वतश्चिन्त्यमानं हि सर्वं दुः खं विवेकिनः।
विषसम्पृक्तमधुवत् सर्व दुःखीभवत्यदः॥
सुखाधिगमलोभेन यतमानो हि पूरुषः।
सहस्रशाखामाप्नोति दुःखमेव तदर्जने॥
एवं सर्वमिदं दुःखमिति भावयतोऽनिशम्।
सर्वोपपत्तिस्थानेषु निर्वेदोऽस्य प्रवर्त्तते॥
निर्विण्णस्य च वैराग्यं विरक्तस्य च देहिनः।
क्लेशकर्मप्रहाणादिद्वारो निः श्रेयसोदयः॥
नन्वेवं तर्हि फलग्रहणं न कर्तव्यम्, दुः खपदेनैव गतार्थत्वादित्युक्तं, मैवम्, तस्यान्यप्रयोजनत्वात्। प्रवृत्तिदोषजनितत्वेन हि फलमनुचिन्तितवतस्तत्कारणयोरनुकूलप्रतिकूलयोरस्य रागद्वेषौ मा भूताम्, अभ्यावृत्त्या च ससाधनस्य फलस्य हानोपादानस्रोतसोह्यमानस्तत्रात्यन्ताय निर्विद्यतामिति फलग्रहणम्। तदेवमन्यथा फलस्य निः श्रेयसोपयोगित्वमन्यथा तु फलत्वे सत्यपि दुःखस्येति।
दीर्घस्य दुःखस्य निमित्तभूतं सुखञ्च दुःखात्मकमेव सर्वम्।
मुमुक्षुणा हेयतया विचिन्त्यं देहादिदुः खान्तमिदं प्रमेयम्॥
इति निपुणमतिर्यो दुःखमेवेति सर्वं
परिहरति शरीरे क्लेशकर्मादिजातम्।
अजममरमनन्तं चिन्तयन्नात्मतत्त्वं
गतभयमपवर्गं शाश्वतं सोऽभ्युपैति॥
इति श्रीभट्टजयन्तस्य कृतौ न्यायमञ्जर्यामष्टममाह्णिकम्॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्याः–
%न पूर्वापरविरोधादिति% पूर्व दुःखवत् सुखस्यापि फलतया प्रतिपादनात्।
%तत्कारणयोरनुकूलप्रतिकूलयोरिति% तदा हि तयोरकारणत्वाद् न तद्विषयौ रागद्वैषौ युक्तौ।
%अजममरम्% जन्मविनाशरहितम्, %अनन्तमात्मनस्तेन% रूपेणावस्थानात् %शाश्वतम्%व्यापकमिति।
भट्टश्रीशङ्करात्मजचक्रधरकृते
न्यायमञ्जरीग्रन्थिभङ्गे
अष्टमम् आह्निककम्
————————********************——————————–
॥ श्रीः ॥
न्यायमञ्जरी :—
[नवममाह्निकम्]
न्यायमञ्जरी :—
%अपवर्गपरीक्षा%—
एवं शरीरादौ दुःखपर्यन्ते हेये प्रमेये निर्णीते यदर्थमेतदुपदेशो यत् परमुपादेयं प्रमेयम्, यदर्थः शास्त्रारम्भस्तमपवर्गं लक्षयितुमाह—
%तदत्यन्तविमोक्षोऽपवर्गः।%
तदिति प्रक्रान्तस्य दुःखस्यावमर्शः। न च मुख्यमेव दुःखं बाधनास्वभावमवमृश्यते, किन्तु तत्साधनं तदनुषक्तञ्च सर्वमेव। तेन दुःखेन वियोगोऽपवर्गः। अस्ति प्रलयवेलायामात्मनो दुःखवियोगः, स तु अपवर्गो न भवति, सर्गसमये पुनरक्षीणकर्माशयानुरूपशरीरादिसम्बन्धे सति दुःखसम्भवात्, अतस्तद्व्यावृत्त्यर्थमत्यन्तग्रहणम्। आत्यन्तिकी दुःखव्यावृत्तिरपवर्गो न सावधिका। द्विविधदुःखावमर्शिना सर्वनाम्ना सर्वेषामात्मगुणानां दुःखवदवमर्शात्। अत्यन्तग्रहणेन च सर्वात्मना तद्वियोगाभिधानान् नवानामात्मगुणानां बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराणां निर्मूलोच्छेदोऽपवर्ग इत्युक्तं भवति।
यावदात्मगुणाः सर्वे नोच्छिन्ना वासनादयः।
तावदात्यन्तिकी दुःखव्यावृत्तिर्नावकल्पते॥
धर्माधर्मनिमित्तो हि सम्भवः सुखदुःखयोः।
मूलभूतौ च तावेव स्तम्भौ संसारसद्मनः॥
तदुच्छेदे तु तत्कार्यशरीराद्यनुपप्लवात्।
नात्मनः सुखदुःखे स्त इत्यसौ मुक्त उच्यते॥
इच्छाद्वेषप्रयत्नादि भोगायतनबन्धनम्।
उच्छिन्नभोगायतनो नात्मा तैरपि युज्यते॥
प्राणस्य क्षुत्पिपासे द्वे लोभमोहौ च चेतसः।
शीतातपौ शरीरस्य षडूर्मिरहितः शिवः॥
तदेवं नवानामात्मगुणानां निर्मूलोच्छेदोऽवर्ग इति यदुच्यते, तदेवेदमुक्तं भवति तदत्यन्तवियोगोऽपवर्ग इति।
न्यायमञ्जरी :—
%अपवर्गे जीवात्मस्थितिः%
ननु तस्यामवस्थायां कीदृगात्मावशिष्यते।
स्वरूपैकप्रतिष्ठानः परित्यक्तोऽखिलैर्गुणैः॥
ऊर्मिषट्कातिगं रूपं तदस्यादुर्मनीषिणः।
संसारबन्धनाधीनदुःखक्लेशाद्यदूषितम्॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%ऊर्मिषट्कातिगमिति।% अशनायापिपासाशोकमोहजरामृत्युरूप ऊर्मिषट्कः, तमतिक्रमेण स्थितम्। ईश्वराव्याकृतप्राणविराट्भूतेन्द्रियाख्या ऊर्मयः। परस्य ब्रह्मणो ज्ञानक्रियायोगेन सिसृक्षोः स्थितिरीश्वराख्योर्मिः, तस्यैव सत्त्वरजस्तमोरूपतया यदवस्थानं तदव्याकृतत्वम्। तदेव प्राणरूपेण बीधनाद् बुद्धिः प्राणाख्योर्मिः। तस्यैवाहमित्यवमर्शोऽहङ्कारो `विराट्’ शब्दवाच्यः। तस्यैव स्थूलरूपपृथिव्यात्मना स्थितिर्भूताख्योर्मिः। इन्द्रियाणि बुद्धिकर्मविभागेनैकादशम्, तद्रूपेणावस्थानमिन्द्रियाख्योर्मिः।
न्यायमञ्जरी :—
%वेदान्तवादिमतेऽपवर्गस्वरूपम्%
तत्र वेदान्तवादिन आहुः, नायमीदृशो मोक्षः प्रेक्षावतां प्रयत्नभूमिर्भवितुमर्हति, को हि नाम शिलाशकलकल्पमपगतसकलसुखसंवेदनसम्पदमात्मानमुपपादयितुं यतेत? सोपाधिसावधिकपरिमितानन्दनिःष्यन्दात् स्वर्गादप्यधिकमनवधिकनिरतिशयनैसर्गिकानन्दसुन्दरमपरिम्लानतत्संवेदनसामर्थ्यं चतुर्थं पुरुषार्थमाचक्षते विचक्षणाः। यदि तु जडः पाषाणनिर्विशेष एव तस्यामवस्थायामात्मा भवेत्, तत् कृतमपवर्गेण, संसार एव वरमवस्थानम्, यत्र तावदन्तरान्तरापि दुःखकलुषितमपि स्वल्पमपि सुखमुपभुज्यते। चिन्त्यतां तावदिदं किमल्पसुखानुभवो भद्रकः, उत सर्वसुखोच्छेद एव। तस्मान्नित्यसुखम् आत्मनो महत्त्ववदस्तीत्यागमप्रामाण्यादुपगम्यताम्। तच्च संसारदशायामविद्यावरणवशेन नानुभूयते, तत्त्वज्ञानाभ्यासभावनाभिभूतनिरन्तराविद्यावरणस्त्वात्मा तस्यामवस्थायां तदनुभवतीति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%सोपाधिसावधिकेति।% अप्सरः प्रभृतिपदार्थदर्शनोपभोगाद्युपाधिजन्यः। कर्मक्षयपर्यन्तत्वाच्च सावधिः।
न्यायमञ्जरी :—
%तन्मतखण्डनम्%
तदिदमनुपपन्नम्, आत्मनो नित्यसुखसत्तायां प्रमाणाभावात्। प्रत्यक्षं तावदस्मदादीनामन्येषां वा केषाञ्चिदस्मिन्नर्थे न प्रभवतीति केयं कथा? अनुमानमपि न सम्भवति, लिङ्गलेशानवलोकनादिति।
ननूक्तमेवानुमानम्, अपवर्गाय यः प्रेक्षावतां प्रयत्नः सुखसिद्धये हि बुद्धिमन्तो यतन्ते, नाश्मकल्पमात्मानं कर्तुमिति तदयमिष्टाधिगमार्थो मुमुक्षोः प्रयत्नः प्रेक्षापूर्वकारिप्रयत्नत्वात् कृष्यादिप्रयत्नवदिति।
नानिष्टोपरमार्थत्वादनिष्टस्यापि शान्तये।
सन्तः प्रयतमाना हि दृश्यन्ते व्याधिखेदिताः॥
अतिदुर्वहश्चायं संसारदुःखभार इति तदुपशमाय व्यवस्यन्तः सन्तो न निष्प्रयोजनप्रयत्ना भवन्तीत्यनैकान्तिको हेतुः।
अथागमादवगम्यते विभुत्वेनेव नित्येन सुखेनाविनाकृत आत्मेति, तथा च पठ्यते `विज्ञानमानन्दं ब्रह्म’ इति स्यादेतदेवं यद्येतदेव केवलमागमवचनमश्रोष्यत वचनान्तरमपि तु श्रूयते `न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति, अशरीरं वाव सन्तं प्रियाप्रिये न स्पृशतः’ इति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%विभुत्वेनेव नित्येन सुखेनावियुत आत्मेति।% अनेन श्रौतावानन्दब्रह्मशब्दौ व्याख्यातौ।
%विज्ञानम्।% विज्ञानस्वभावं नित्यविज्ञानात्मकमित्यर्थः।
न्यायमञ्जरी :—
%श्रुतिवाक्यानां द्वैतवादानुसारिणी व्याख्या%
ननु भवत्पठितमागमवचनमन्यथापि व्याख्यातुं शक्यते। सशरीरस्येति प्रक्रमात् सांसारिके सुखदुःखे अनुकूलेतरविषयोपलम्भसम्भवे तदानीमशरीरमात्मानं न स्पृशत इत्यर्थः। हन्त तर्हि त्वदधीतमपि वेदवचनम् `आनन्दं ब्रह्म’ इति संसारदुःखपरिहारक्रमे प्रकरणादेव तद्दुःखापायविषयं व्याख्यास्यते, न खलु व्याख्यानस्य भगवतः काचिद् भूमिरस्ति, दृष्टाश्च दुःखोपशमे सुखशब्दप्रयोगाः।
चिरज्वरशिरोर्त्त्यादिव्याधिदुःखेन खेदिताः।
सुखिनो वयमद्येति तदपाये प्रयुञ्जते॥
न्यायमञ्जरी :—
%नित्येसुखनिरसाः%
यदि च आनन्दमिति वचनान्नित्यं सुखमात्म इष्यते, तर्हि ब्रह्मेति वचनाद् व्यापकत्वमिव विज्ञानमिति वचनाज् ज्ञानमपि नित्यमस्याभ्युपगन्तव्यमतश्च सुखवज् ज्ञानस्यापि नित्यत्वात् संसारेऽपि नित्यसुखोपलब्धिः स्यात्, ततश्च धर्माधर्मफलाभ्यां सुखदुःखाभ्यामस्य नित्यस्य सुखस्य साहचर्यमनुभूयेत।
अपि च,
सुखवज् ज्ञानवच्चास्य कामं देहेन्द्रियाद्यपि।
नित्यं प्रकल्प्यतामित्थं मोक्षो रम्यतरो भवेत्॥
अथ कार्यं सुखज्ञानं हेतुरस्य चिन्तनीयो यत उत्पद्यत इति वाच्यम्, योगसमाधिज इति चेत्, तस्य कार्यत्वात् स्वकार्यसुखसंवेदनावसानत्वान्न शाश्वतिकत्वं स्यात्। अप्रक्षयश्च धर्मस्य निरनुमानकः, न हि योगसमाधिजो धर्मो न क्षीयत इत्यत्र किञ्चिदनुमानमस्ति, विपर्यये तु प्रसिद्धमेवानुमानं सर्वस्य कृतकस्यानित्यत्वदर्शनादिति। क्षीणे तु धर्मे तत्कार्यज्ञानाभावात् सदपि सुखमनुपलभ्यमानमसतो न विशिष्यते। स्वप्रकाशं तत्सुखमिति चेत्, संसारेऽपि तदुपलब्धिप्रसङ्गः। शरीरादिसम्बन्धः प्रतिबन्धहेतुरिति चेत्, न शरीरादीनामुपभोगार्थत्वाद् भोगप्रतिबन्धं विदधतीति न साध्वी कल्पना। अविद्यावरणात् संसारे स्वप्रकाशसुखानुपलम्भ इति चेत्, न, प्रकाशस्य तुच्छेनावरीतुमशक्यत्वात्, नहि प्रकाशरूपं पारमार्थिकमात्मनः सुखं तद्विपरीततुच्छस्वभावेयमविरलगवलमलीमसं बलाहकव्यूहपिहितरविबिम्बं तदपि न रजनीसदृशं दिनमिति सहसा मोहमहिमा।
मेघा अपि रवेरन्ये स्वरूपेण च वास्तवाः।
तत्त्वान्यत्त्वाद्यचिन्त्या तु नाविद्यावरणक्षमा॥
तस्माद् न नित्यानन्दत्वमात्मनः सुवचम्।
न्यायमञ्जरी :—
%मोक्षे नित्यसुखसम्भावना नास्ति%
अपि च मोक्षे नित्यसुखस्वभावे तद्रागेण प्रयतमानो मुमुक्षुर्न मोक्षमधिगच्छेत्। न हि रागिणां मोक्षोऽस्तीति मोक्षविदः। दुःखनिवृत्त्यात्मकेऽपि मोक्षे दुःखद्वेषात् प्रयतमानस्य समानो दोष इति चेत्, न, मुमुक्षोर्द्वेषाभावात्। रागद्वेषौ हि संसारकारणमिति च जानाति मुमुक्षुः, द्वेष्टि च दुःखमिति कथमिदं सङ्गच्छते ? सुखेऽप्यस्य रागो नास्त्येवेति चेत्, न, स्वर्गनिर्विशेषेऽपवर्गे स्वर्गवद्रागस्य सम्भाव्यमानत्वात् । दुःखेन तु निर्विण्णस्य मुमुक्षोर्वैराग्यं जायते न दुःखविषयो द्वेषः, विरक्तस्य चास्य मोक्षं प्रति यत्नो भवति न दुःखं द्विषत इति समानो न्यायः।
यत्तूक्तम्—निरानन्दो मोक्षः प्रेक्षावतां प्रयत्नविषयो न भवतीति, तदपि न साम्प्रतम्, प्रयोजनानुसारेण प्रमाणव्यवस्थानुपपत्तेः। न हि प्रयोजनानुवर्ति प्रमाणं भवितुमर्हति। यदि निरानन्दो मोक्षः प्रेक्षावतां न रुचितः, कामं मा भूत्, न त्वप्रमाणकमानन्दं तत्र कल्पयितुं शक्नुमः। न च सर्वात्मना साधूनामनभिमत एव तथाविधो मोक्षः। न च तदवाप्तये न प्रयतत्ने। ते ह्येवं विवेचयन्ति दुःखसंस्पर्शे शास्वतिकसुखसम्भोगासम्भवाद् दुःखस्य चावश्यहातव्यत्वात्, विवेकहानस्य चाशक्यत्वाद् विषमधुनी इवैकत्र पात्रे पतिते उभे अपि सुखदुःखे त्यज्येतामिति। अतश्च संसारान्मोक्षः श्रेयान् यत्रायमियानतिदुःखप्रबन्धोऽवलुप्यते, वरमियतो कादाचित्की सुखकणिका त्यक्ता न तस्याः कृते दुःखभार इयानूढ इति। तस्माद् न सुखोपभोगात्मको मोक्ष इति।
न्यायमञ्जरी :—
%सुखासत्त्वखण्डनम्%
अन्यस्त्वाह, तिष्ठतु तावन्मोक्षः संसारेऽपि न सुखं नाम किञ्चिदस्तीति सर्व एवायं दुःखाभावमात्रे सुखव्यवहारः। तथा हि—
तृषा शुष्यत्यास्ये पिबति सलिलं स्वादु सुरभि
क्षुदार्तः सञ्छालीन् कवलयति सम्पाकवलितान्।
प्रदीप्ते रागाग्नौ घननिबिडमाश्लिष्यति वधूं
प्रतीकारो व्याधेः सुखमिति विपर्यस्यति जनः॥ इति ।
उच्यते, तदिदमतीव कृतकवैराग्यप्रकटनकौरुकुचीकूर्चकौशलम्, आनन्दस्य प्रतिप्राणिसंवेद्यस्य निह्नोतुमशक्यत्वात्। अनिवृत्तेऽपि दुःखे क्वचित् सुखसंवेदनान्न दुःखाभावः सुखम्, निरभिलाषस्याप्यतर्कितोपनतसुखसाधनविषयसम्पर्के सति सुखसंवेदनदर्शनात्, अभिलाषात्मकदुःखाभावः सुखमित्यपि न मनोज्ञम्, यस्तु दुःखाभावे क्वचित् सुखमित्यपि व्यपदेशः प्रशान्तरोगाणामिव पूर्वदर्शितः, स भाक्त इति न तावता स्वसंवेदनसाक्षिकसुखापह्नवः कर्तुमुचितः। मोक्षे तु नित्यसुखमसम्भवत् प्रमाणं नाभ्युपगम्यते।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%प्रतीकारो व्याधेरिति।% व्याधेः ज्वरादिजनितस्य दुःखस्य निवर्तकं शाल्यादि। सुखं सुखजनकमिति विपर्यस्यति, दुःखनिवृत्तिजनकं हि तत्।
%कौरुकुचीकूर्चकौशलमिति।% कौरुकुची दम्भः, लोकवञ्चनार्थकं दीर्घश्मश्रुधारणं कूर्चशब्देन सूचितम्। %अनिवृत्तेऽपि दुःख% इति। यथासीद् ह्रदावनिनिमग्नकायस्य युगपदुभयानुभवः। अभिलाषात्मकदुःखाभाव इति। यद्विषयोऽभिलाषो जायते, तस्याप्राप्त्या यावदभिलाषो न निवर्तते, तावद् दुःखित इव पुरुषो भवति।
न्यायमञ्जरी :—
%मोक्षे आत्मनः स्वरूपेऽवस्थितिविचारः%
अपि च मोक्षे सुखमस्ति न वेति विचार एष न प्रामाणिकजनोचितः। स्वरूपेण व्यवस्थानमात्मनो मोक्ष इति मोक्षविदः। तत्रात्मस्वरूपमेव कीदृगिति चिन्त्यं न पृथङ् मोक्षस्वरूपम्। आत्मनश्च सुखदुःखबुद्ध्यादय आगन्तुका गुणा न महत्त्ववत् सांसिद्धिका इति निर्णीतमेतदात्मलक्षणे, सुखादिकार्येण चात्मनोऽनुमानादिति। अत एव कपिलकथितचितिशक्तिस्वभावत्वमपि न युक्तमात्मनः।
सचेतनश्चिता योगात् तदभावादचेतनः।
चितिर्नामार्थविज्ञानं कादाचित्कन्तु तस्य तत्॥
नार्थसंवेदनादन्यच्चैतन्यं नाम विद्यते।
तच्च सामग्र्यधीनत्वात् कथं मोक्षे भविष्यति॥
जाग्रतः स्वप्नवृत्तेर्वा सुषुप्तस्यापि वात्मनः।
ज्ञानमुत्पद्यतेऽन्या तु चतुर्थी नास्ति तद्दशा॥
जाग्रद्दशायां स्वप्ने च बुद्धेः प्रत्यात्मवेद्यता।
सुखं सुप्तोऽहमद्येति पश्चात् प्रत्यवमर्शनात्॥
तदा त्वचेत्यमानापि सुषुप्ते धीः प्रकल्प्यते।
तुर्यावस्था तु संवित्तिशून्यस्य स्थितिरात्मनः॥
तुर्यावस्थातिगं रूपं यदाहुः केचिदात्मनः।
प्रमाणागोचरत्वेन कल्पनामात्रमेव तत्॥
संवित्प्रसवसामर्थ्यं सामग्रीसन्निधानतः।
यदि नामात्मनोऽस्त्यस्य तावता न चिदात्मता॥
यदि तु दर्शनशक्तियोग्यतामात्रमेव पुंसश्चैतन्यमुच्यते तर्हि, तथाविधस्य तस्य कैवल्यस्यास्माकीनमोक्षसदृक्षत्वमेव योग्यतामात्रसम्भवेऽपि दृश्येन्द्रियसंयोगादेः सामग्र्या वैकल्यावस्थायामात्मनो द्रष्टृत्वासम्भवाद् दर्शनशून्यस्य चान्यस्य चैतन्यस्य निरस्तत्वादिति।
निर्वाणादिपदाख्येयमपवर्गन्तु सौगताः।
सन्तत्युच्येदमिच्छन्ति स्वच्छां वा ज्ञानसन्ततिम्॥
एतद् द्वितयमप्युक्तं पूर्वमेव, तद् ध्वस्तञ्च, ज्ञानसन्ततिर्नित्यश्चात्मा समर्थितः।
सन्तत्युच्छेदपक्षस्तु नैयायिकमतादपि।
शोच्यो यत्राश्मकल्पोऽपि न कश्चिदवशिष्यते॥
अर्हत्पक्षेऽपि यद्रूपमन्यसापेक्षमात्मनः।
न केवलस्य तद्रूपमित्यस्मन्मततुल्यता॥
विकारित्वन्तु जीवानामत्यन्तमसजञ्जसम्।
शब्दपुद्गलवच्चैतत् प्रत्याख्येयमसम्भवात्॥
तस्मान्न वेदान्तविदो विदन्ति मोक्षं न सांख्या न च सौगताद्याः।
इत्यक्षपादाभिहितोऽपवर्गः श्रेयांस्तदत्यन्तविमोक्ष एव॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
ननु जाग्रत्स्वप्नयोर्भेदग्रहणात्मकाविद्यावशाद् आत्मस्वरूपस्य विज्ञानादेर्मा भूत् प्रकाशः, सुषुप्तावस्थायां वा अभेदाग्रहरूपा अविद्या समर्थ्यमाना, मास्तु तत्तत्त्वावगमः; चतुर्थी तुर्यावस्था यस्याम् उभयरूपाविद्याविलयः, तत्र यथावस्थितात्मतत्त्वावगतिर्भविष्यतीत्याशङ्क्याह, %जाग्रतः स्वप्नवृत्तेर्वा% इति। ननु यत्र सुप्तो न कञ्चन कामं कामयते, न कञ्चन स्वप्नं पश्यति तत्सुषुप्तम्, तत्र कथं ज्ञानमुत्पद्यत इत्याह, %सुषुप्ते धीः प्रकल्प्यते।% कथं प्रकल्प्यत इति चेत् तदाह, पश्चात् प्रत्यवमर्शनादिति। पश्चाद्भाविनः प्रत्यवमर्शात्, स्मरणादित्यर्थः। ननु कथं चतुर्थी दशा नास्ति ? यावता तुर्यावस्थायाम् आत्मस्वरूपप्रतिपादिकां श्रुतिं पठन्ति “नान्तः प्रज्ञम्, न बहिःप्रज्ञम्, नोभयतः प्रज्ञम्, न प्रज्ञानघनम्, न प्रज्ञम्, नाप्रज्ञम्, अदृष्टम्, अव्यवहार्यम्, अग्राह्यम्, अलक्षमम्, प्रपञ्चोपशमम्, शिवम्, अद्वैतम्, चतुर्थीं मन्यन्ते स आत्मा, स विज्ञेयः।” इति। तदाह, %तुर्यावस्था त्विति।% संवित्तिशून्यस्यात्मनो या स्थितिः सा तुर्यावस्था, न युष्मत्परिकल्पितेत्यर्थः। आगमस्त्वन्यपर इति। अन्ये त्ववस्थाचतुष्टयमेवं वर्णयन्ति, इन्द्रियमनोऽर्थसन्निकर्षेण व्यवहारो जाग्रत्। इन्द्रियदौर्बल्येन ग्राह्यार्थं प्रति मनसः स्मृतिमात्रशेषा बहिरप्रसृतेन्द्रियत्वेन च स्वप्नावस्था। ज्ञातुर्ज्ञेयग्रहणासामर्थ्यं मौढ्येनावस्थानं सुषुप्तम्। अविलुप्तवेदनावृत्तित्वात् तिसृणामवस्थानां वेदनं तुर्यमिति। आगमं च पठन्ति,
योऽयमर्थग्रहो द्रष्टुरक्षद्वारश्चिदात्मनः।
शब्दादिविषयाकारस्तज्जाग्रदिति कथ्यते॥ 1 ।
तस्यैवार्पितसंस्कारवृत्तेर्मानसदर्पणे।
स्मृतिर्भवति या भूयस्तामाहुः स्वप्नरूपकम्॥ 2 ।
यत्रार्थस्मरणे नष्टे ह्यद्रष्ट्रदृग्व्यवस्थितिः।
अभावभावे संज्ञेयः सुषुप्त इति योगिभिः॥ 3 ।
अलुप्तवेदानावृत्तेरवस्थात्रयभाविनः।
रूपस्य वेदिकामाहुस्तर्यावस्थां मनीषिणः॥ 4 ।
अवस्थाचतुष्टयोत्तीर्णन्तु यदात्मनश्चिद्रूपतया स्वभावेनावस्थानं सा तुर्यातीता स्थितिरिति। आह च—
त्रिप्रकारं यदा वेद्यं न वेत्ति स्वव्यवस्थितः।
वेदकत्वं तदानश्यत् तुर्यातोतस्थितिस्तु सा॥ इति ।
तं तुर्यावस्थातिगं रूपमित्यादिना निराकरोति।
स्वच्छां वा ज्ञानसन्ततिमिति। समुच्छिन्नसकलवासनात्वाद् विषयाकारोपप्लवरहिताम्।
%न केवलस्य तद्रूपमिति।% तज्ज्ञानादिलक्षणं रूपम्, कैवल्यावस्थायामपि तस्य रूपस्याभ्युपगमे ऐकान्तिकत्वात् तस्य रूपस्यानैकान्तिकरूपत्वहानिप्रसङ्गात्। %विकारित्वं तु जीवानामि%त्यादिना जैनमतं निराकरोति। इदं तेषां मतं भवति बोद्धा पुरुषः, स च कायमात्रः सङ्कोच विकासधर्मा मणिप्रभावादिति। तदनेन निराकरोति एतदभ्युपगमे हि पुरुषस्यानित्यत्वं प्राप्नोति, कायपरिमाणत्वेनावयवित्वापत्तेः। निरवयवे एवंरूपपरिमाणासम्भवाद् अमूर्तस्य च व्योमादेर्विभुत्वदर्शनात्, परिमाणवतः क्रियावतश्चावश्यमनित्यत्वमस्य दर्शनस्य। यथा शब्दपुद्गलाः सूक्ष्माः स्थूलशब्दात्मना विक्रियन्ते विपरिणमन्ते तथा जीवपुद्गलाः सूक्ष्मा जीवात्मना विक्रियन्ते विपरिणमन्त इति यद् मतं तदेव तु ग्रन्थकृता दूष्यत्वेनास्मिन् श्लोके विवक्षितमिति लक्ष्यते। दृष्टान्त-दार्ष्टान्तिकयोर्ह्येवं स्फुटतरोऽर्थोऽवगम्यत इति। यथा वा अकलङ्कादयः स्थितास्तथाप्यसम्भवित्वमेव। ते ह्याहुः “ज्ञानसन्तानपक्षस्तावदनुपपन्नः, सर्वबुद्धिष्वेकस्य चेतनस्यानुवर्तमानस्योपलम्भात्। तत्र किं तस्य ज्ञातृत्वं ज्ञानसमवायाद् उत स्वतः ? तत्र न तावद् ज्ञानसमवायात्। समवायस्यैकत्वाद् व्यापकत्वाच्च यावत् तस्यासौ समवायो व्यतिरिक्तेन ज्ञानेन ज्ञातृत्वमापादयति तावच्चेतनस्य घटादेरपि किमिति नापादयति। अथ समवायस्य स्वतः शक्तिविशेषः तादृगस्ति येनात्मना एव ज्ञातृत्वमापादयति नान्येषामिति, तर्ह्यात्मन एव तादृशः शक्तिविशेषो ज्ञातृत्वाख्यः कल्प्यताम्, किं समवायस्य तत्कल्पितेन। एवं तावद् ज्ञातृतास्वभाव आत्मा तस्य ये पर्यायभाविनो मिथ्याज्ञातृत्वादयः स्वभावविशेषास्ते किं तद्धर्मसम्बन्धाद् आहोस्वित् तेन रूपेण विकारित्वात् ? न तावद् धर्मशम्बन्धाद् धर्मे ह्यस्योपकारः कार्यः, तेन च धर्माणाम्, उपकारप्रभावितत्वात् सम्बन्धस्य। न चाप्रवर्तमान उपकार्य उपकारको वा भवति। प्रवर्तते चेत् पूर्वमप्रवृत्तस्य प्रवर्तनाद् विकारित्वम्। एवमस्य स्वतश्चित्स्वभावस्य जीवस्य कर्मसम्बन्धवशाद् मिथ्यादर्शनादेर्विकारस्योदयो दृष्टः। वस्त्वन्तरसम्बन्धवशात् त्वस्य विकारयोगो यथा मदिराविषादिसम्बन्धाद् मूर्छितत्व-मृतत्वादिविकारप्रादुर्भावः। तदेवं वस्त्वन्तरं कर्मैवास्य नानाविधविकारहेतुत्वाज्जीवस्य संसारकारणम्, तत्परिक्षयात् मोक्षः” इति। यथाह अकलङ्कदेवः,
जीवस्य संविदो भ्रान्तेर्निमित्तं मदिरादिवत्।
तत्कर्मागन्तुकं तस्य प्रबन्धोऽनादिरिष्यते॥ इति ।
अस्यार्थः। सम्यग् वेत्तीति संवित्। तस्य संविदः स्वतो ज्ञानस्वभावस्य जीवस्य भ्रान्तेर्मिथ्याज्ञानस्य कर्म निमित्तं नेश्वरादिकं मदिरादिवदिति व्याख्यातम्। यदि कर्म तन्निमित्तं तर्हि सर्वदा कर्मसद्भावाद् मोक्षाभाव इत्याह तदागन्तुकमिति। आगन्तुकत्वेनानित्यत्वेन तत्क्षयात् कदाचिद् मोक्षसम्भव इत्यर्थः। यद्यागन्तुकं तत् कदाचिन्न भवेदपि। तदा संसारावस्थायामपि मध्ये कर्मवियोगादात्मनो मुक्ताः स्युस्तदर्थमाह, तस्य प्रबन्धोऽनादिरिष्यते। अविच्छेदेन कर्माण्यनादिप्रवाहेण स्थितानीत्यर्थः। तथा
आत्मलाभं विदुर्मोक्षं जीवस्यान्तर्मलक्षयात्।
नाभावो नाप्यचैतन्यं [न चैतन्यम्] अनर्थकम्॥ इति ।
आत्मलाभं जीवस्य विकारापगमे सति मोक्षमाहुः। कुतः ? अन्तर्मलक्षयाद्धेतोः। स त्वात्मलाभलक्षणो मोक्षो नाभवः सन्तत्युच्छेदलक्षणो यथाहुर्बौद्धाः। नाप्यचैतन्यं बुद्धिशून्यस्यावस्थानं यथाहुर्वैशेषिकादयः। नाप्यनर्थकं दृश्यार्थशून्यचिन्मात्रं यथाहुः साङ्ख्याः। किन्तु अनन्तज्ञानादिगुणयुक्तस्यावस्थानमित्यर्थः। तथा अपरमाहुः,
शब्दः पुद्गलगपर्यायः स्कन्धश्छायातपादिवत्।
बुद्धिकार्यविशेषात्माभिलापः स्वार्थगोचरे॥ इति ।
पुद्गलानां परमाणूनां पर्यायः क्रमभावो विकार परिणामविशेषः शब्दः। स च स्कन्ध, अनन्तानन्तपरमाणुवत्त्वसंसिद्धेः। न तु दृष्टः क्वचित् स्कन्धरूपपर्यायः परमाणूनाम्। तदाह, छायातपादिवदिति। यथा छायारूप आतपादिरूपश्च पुद्गलपर्यायः स्कन्धः तद्वच्छब्द इत्यर्थः। बुद्धिरेव श्रावणं ज्ञानमेव कार्यविशेषात्मा कार्यत्रिशेषरूपं यस्य स बुद्धिकार्यविशेषात्मा। एवमपि समुद्रघोषादिरपि वाचकः प्राप्त इत्याह, स्वार्थगोचर इति। यो बुद्धिकार्यविशेषात्मा स्वार्थविषये बुद्ध्या लक्ष्यमाणः स्वार्थे यो व्याप्रियते स बुद्धिकार्यविशेषात्मा अभिलापः। अभिलाप्यतेऽनेनेत्यभिलापः वाचको न सर्व इत्यर्थः। तथापरमाह,
न्यायमञ्जरी :—
%अपवर्गोत्पत्तौ क्रमः%
आह भवत्वयमीदृगपवर्गः, स तु कथमधिगम्यते इत्युच्यताम्। उक्तमेव भगवता सूत्रकारेण,
न्यायमञ्जरी :—
%दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावादिति।%
दुःखोच्छेदस्तावदपवर्ग इति कथितम्, कार्यत्वाच्च दुःखस्य कारणच्छेदात्तदुच्छेदः, कारणं चास्य जन्म, जन्मनि हि सति दुःखं भवति, जायते इति जन्म देहेन्द्रियादिसम्बन्ध आत्मनः तदपि जन्मकारणोच्छेदादेवोच्छेद्यम्, अतस्तत्कारणं प्रवृत्तिरुच्छेद्या, तस्या अपि उच्छेदो हेतूच्छेदादिति तद्धेतवो दोषा उच्छेद्याः। तेषान्तु निमित्तं मिथ्याज्ञानं तस्मिन्नुच्छिन्ने दोषा उच्छिन्ना भवन्तीति मिथ्याज्ञानमुच्छेत्तव्यम्, तदुच्छित्तये च तत्त्वज्ञानमुपायः, प्रसिद्धो ह्ययमर्थः समर्थितश्च पूर्वं विस्तरतः `तत्त्वज्ञानं मिथ्याज्ञानस्य बाधकम्'९ इति, तस्मान्मिथ्याज्ञानदोषप्रवृत्तिजन्मदुःखनिवृत्तिक्रमेणापवर्ग इति।
यद्यपि च मिथ्याज्ञानमपि जन्मकार्यमशरीरस्यात्मनो मिथ्याज्ञानानुत्पत्तेः, इतरेतरकार्यकारणभावेन बीजाङ्कुरवदनादिप्रबन्धप्रवृत्तेन प्रवर्तमाना मिथ्याज्ञानादयो भावाः संसार इत्युच्यते, तथापि तत्कारणोच्छेदचिन्तायां कुतः प्रभृतिच्छेद उपक्रम्यतामिति विचार्यमाणे विशेषनियमाभावाद्यतः कुतश्चिदिति प्राप्ते मिथ्याज्ञानस्य प्रतिकूलमुच्छेदकारणं तत्त्वज्ञानमुपलब्धमिति विशेषे प्रमाणभावात् तदुच्छेद एवोपक्रम्यते। अत एव मिथ्याज्ञानमूलः संसार उच्यते, तस्मिन्नुच्छिन्ने तदुच्छेदसम्भवान्न ततः प्रभृति संसारप्रवृत्तिरिति निपुणमतिभिरपि निर्धारयितुं शक्यमनादित्वात् तस्येति, तदेवं तत्त्वज्ञानान्मिथ्याज्ञानापाये तत्कार्यदोषापायो दोषापाये प्रवृत्त्यपायः प्रवृत्त्यपाये जन्मापायः जन्मापाये दुःखापायः स एवापवर्ग इति। तदिदमुक्तम् `उत्तरोत्तरापाये तदनन्तराभावादिति’।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
संसर्गात् परमाणवः परिणताः शब्दाः श्रुतेर्गोचराः।
तद्भेदः प्रतिलब्धवर्णपदवाक्यात्माभिलापः स्वतः॥
सिद्धार्थो यमुपेत्य वक्ति किमयं प्राहेत्यसङ्केतितः।
स्वार्थेऽक्षादिव भेदकाङ्क्षणमनाः सामान्यवेदी जनः॥
परमाणवः परस्परसंसर्गात् परिणताः स्कन्धतामापन्नाः शब्दाः श्रुतेः श्रवणस्य श्रवणस्थानस्य वा गोचरा विषयभूताः। एवं सर्वे काकवाशितादयोऽपि वाचकाः प्राप्ताः, तदर्थमाह, तद्भेदस्तद्विशेषोऽभिलापो वाचको न सर्वं इत्यर्थः। कोऽसौ तद्भेदः ? इत्याह प्रतिलब्धवर्णपदवाक्यात्मेति। अन्यश्च कीदृक् ? स्वतः सङ्केतनिरपेक्षः सिद्धोऽर्थो यस्य स स्वतः सिद्धार्थसम्बद्ध इत्यर्थः। कथं स्वतः सिद्धार्थोऽभिलापः ? इत्याह यमुपेत्येति। यमुपेत्य प्रतिपद्य श्रुत्या। किं वस्तु अयं शब्दः प्राहेति वक्ति जनः। किंभूतः ? असङ्केतितः सङ्केतरहितः। अतः कारणादसावभिलापः स्वतः सिद्धार्थः। किंभूतः पुनरेवं वक्तीत्याह स्वार्थे सामान्यवेदी। स्वार्थे सामान्यविशेषात्मके सामान्यमात्रं प्रतिपद्य विशेषाकाङ्क्षणमनाः, विशेषकाङ्क्षणं विशेषार्थि मनो यस्य। दृष्टान्तमाह अक्षादिव। यथाक्षात् सामान्यविशेषात्मके पानकादौ द्रव्ये ग्राह्ये सामान्यमात्रं गृहीत्वा विशेषाकाङ्क्षी भवति, किमिदमास्वाद्यत इति। तद्वदिति। प्रसङ्गात् श्लोक अपि व्याख्याताः। तदेतदुभयमपि अनुपपन्नम्, प्रमाणाभावादिति दृष्टान्तदार्ष्टान्तिकत्वेनोपन्यस्य निराकृतम्, शब्दपुद्गलपक्षस्य च पूर्वं निराकृतत्वाद् दृष्टान्तत्वेनोपादानम्।
न्यायमञ्जरी :—
%मोक्षस्य कथामात्रसारता तदुपायानाञ्चानुष्ठानायोग्यत्वम्%
आह, विदितोऽयं सूत्रार्थः, किन्त्वघटमानमनोरथविडम्बनामात्रमिदम्, अलीकश्रद्दधानताप्रकटनं वा, दुरधिगमस्तु सङ्कटो मोक्षमार्गः।
साध्यस्त्रिवर्ग एवैष धर्मकामार्थलक्षणः।
चतुर्थः पुरुषार्थस्तु कथास्वेव विराजते॥
यदा प्रियवियोगादि भवत्युद्वेगकारणम्।
तदा मोक्षकथाः काम क्रियन्तां शोकशान्तये॥
न तूद्यमसमये तदधिगमसमर्थामुपलभामहे सरणिम्, ऋणक्लेशप्रवृत्त्यनुबन्धस्य दुस्तरत्वात्, ऋणानुबन्धस्तावत् `जायमानो ह वै ब्राह्मणस्त्रिभिर्ऋणैर्ऋणवान् जायते, ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः’ इति। इदं हि वेदे पठ्यते, तत्र प्रथममृषीणामनृणः स्यामिति ब्रह्मचर्यमाचरति, ततः पितॄणामनृणः स्यामिति कृतदारसङ्ग्रहः प्रजोत्पादनाय व्यवहरति, तदनु गृहस्थ एव दर्शपूर्णमासादिषु सहस्रसंवत्सरपर्यन्तेषु कर्मस्वधिकृतः क्रतूननुतिष्ठतीति देवानामनृणः स्यामिति, कोऽस्य मोक्षव्यवसायावसरः ?
ननु च `ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत्’ इति मन्वादिस्मरणादस्त्येव तदवसरः ? न, श्रुतिवाक्यविरोधात्। एवं हि श्रूयते `जरामर्यं वा एतत्सत्रं यदग्निहोत्रं दर्शपौर्णमासौ च, जरया ह वा एष एतस्मान्मुच्यते मृत्युना वेति’ न च कर्मप्रयोगाशक्त्या कर्मभ्यो विरन्तुं लभ्यते, स्वयमशक्तस्य बाह्यशक्त्युपदेशात्, `अन्तेवासी जुहुयाद् ब्रह्मणा हि स परिक्रीतः क्षीरहोता जुहुयाद् घृतेन हि स परिक्रीतः’ अशक्तस्य च मोक्षोपायानुष्ठानेऽप्यस्य कथं शक्तिः। क्लेशानुबन्धादपि अपवर्गाभावः।
ये हि रागादयो दोषा आत्मनश्चिरसम्भृताः।
कस्तान् वञ्चयितुं शक्तः पुनरावृत्तिध्रमकान्
कामं चिरं विजित्यापि क्रोधं वा लोभमेव वा।
पुनर्गच्छन् वशं तेषां लोकः प्रायेण दृश्यते॥
तथा हि, चिरमपि तपसि नियमितमतिरवजितविषमशरविकृतिरपि तनुपवनापनीतवसनकामिनीस्तनजघनधर्शनादेव वशं विश्वामित्रः कुसुमधन्वनो गत इति श्रूयते किल ह्याख्यायिकया। अद्यत्वेऽप्येवं शतशो दृश्यन्त इति दुरुच्छेद्या दोषाः। `वीतरागजन्मादर्शनात्, इति च विचारितमात्मपरीक्षायामवियुक्त एव दोषैर्जन्तुर्जायत इति, दोषविवृद्धिहेतवश्च रूपादयो विषयास्ते कथमिव स्वकर्मण्युदासते ?
ताम्बूलं कुसुमसुगन्धयः समीराः सौधेषु प्रतिफलिताः शशाङ्कभासः।
वाचश्च प्रणयनवामृतद्रवार्द्रा दूतीनां दधति न कस्य रागवृद्धिम्॥
अपि च,
मुग्धस्मितसुधाधौतमधुरालापशालिना।
मुखेन पक्ष्मलाक्षीणां कस्य नाक्षिप्यते मनः॥
इत्येवं निदानानुपशमादपि स्थित एव क्लेशानुबन्धः। प्रवृत्त्यनुबन्धः खल्वपि,
रागादिप्रेर्यमाणो हि कर्माण्यारभते नरः।
दीर्घदीर्घाः प्रतायन्ते यैर्धर्माधर्मवासनाः॥
स प्रवृत्त्यनुबन्धश्च हेतुरन्यस्य जन्मनः।
एकमेवेदृशं कर्म कर्तुमापतति क्वचित्॥
जन्मायुतशतेनापि यत्फलं भुज्यते न वा॥
क्लेशकर्मानुबन्धोत्थजन्मदुःखादिशृङ्खला।
पुनरावर्तमानैषा केनोपायेन भज्यताम्॥
विना फलोपभोगेन न हि नाशोऽस्ति कर्मणाम्।
तेषां ज्ञानाग्निना दाह इति श्रद्धाविजृम्भितम्॥
कार्यकारणभावो हि शास्त्रादेवावधारितः।
कर्मणाञ्च फलनाञ्च स कथं वा निवर्तताम्॥
न चास्य ज्ञानसापेक्षं कर्मेष्टं बन्धकारणम्।
येनात्मज्ञानयुक्तानां तदुदासीत तं प्रति॥
अज्ञाननैरपेक्ष्येण कर्मणां स्वभाव एवैष यत् फलाविनाभावित्वमिति।
तस्मादित्थमृणक्लेशप्रवृत्त्यभ्यनुबन्धतः।
न मोक्षसिद्धिरस्तीति तदर्थो विफलः श्रमः॥
अशक्येऽर्थे वृथायासं परित्यज्य मनस्विभिः।
मोक्षचर्चाः परित्यज्य स्वे गृहे सुखमास्यताम्॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%जरामर्यम्,% जरामरणपर्यन्तम्। %ब्रह्मणा हि स परिक्रीत% इति। ब्रह्मणा वेदलक्षणेन मूल्येन आपणे स्वीकृतः। %क्षीरहोता% अध्वर्युः।
%निदानानुपशमादिति।% क्लेशानां रागादीनां निदानानि कारणानि।
न्यायमञ्जरी :—
%मोक्षोपायानामनुष्ठानयोग्यत्वम्%
अत्राभिधीयते, यत् तावदुक्तमृणानुबन्धादिति, तदयुक्तम्, विधिपक्षश्रवणादौपचारिकमृणशब्दं जायमानशब्दं च प्रयुज्य कर्मस्तुतिरियं क्रियते `जायमानो ह वै ब्राह्मण इति’। न तद्व्यतिरिक्तपुरुषार्थविषयप्रयत्नप्रतिषेधो विधीयते। तथा हि ऋणशब्दोऽयं विषयान्तरे मुख्यार्थः प्रसिद्धो यत्रोत्तमर्णः सलाभममुतः प्रतिग्रहीष्यामीति धनमधमर्णाय प्रयच्छति, अधमर्णोऽपि सलाभमस्मै प्रदास्यामीति मत्वा गृह्णाति, सोऽयमृणशब्दस्य मुख्यो विषय इह नास्त्येव, जायमानोऽपि मुख्य उत्पद्यमानोऽपि मातुः कुक्षिकुहरान्निस्सरन्नभिधीयते, न चासौ बाधकः कर्मभिरभिसम्बध्यते, तस्माद् ब्रह्मचर्यमपत्योत्पादनमध्वरप्रयोग इति त्रयमिदमवश्यकर्तव्यमिति कर्मस्तुतिरियम् औपचारिकपदप्रयोगाद् गम्यते, न चैतावता मोक्षव्यवसायावसरविरह इति परिशङ्कनीयम्, आश्रमान्तरस्य तदौपयिकस्य दर्शनात्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%विधिपक्षश्रवणादिति।% तद्विषये हि विधौ प्राधान्याद् औपचारिकत्वासम्भवः। घोषः। प्रतिवसतीति यथा न प्रतिवसनं प्रधानम् अत उपचर्यते।
न्यायमञ्जरी :—
%चतुर्थाश्रमसमर्थनम्%
ननु मरणावधिदर्शपूर्णमासकर्मोपदेशात् कथमाश्रमान्तरग्रहणम् ? न जरामर्यवादस्याप्यपरित्यागप्रतिपादनाय कर्मप्रशंसार्थत्वात्, `ये चत्वारः पथयो देवयानाः’ इत्यादयो हि चतुर्थाश्रमशंसिनो भूयांसः सन्ति मन्त्रार्थवादाः, मन्वादिस्मृतिवचनानि चतुर्थाश्रमोपदेशीनि चतुर्थाश्रमोचितश्रौताचारादीतिकर्तव्यतावितानविधानपराणि च प्रबन्धेनैव दृश्यन्ते।
एवं गृहाश्रमे स्थित्वा विधिवत् स्नातको द्विजः।
वने वसेत्तु नियतो भैक्षभुग् विजितेन्द्रियः॥
इत्युपक्रम्य चतुर्थाश्रमोचितमोक्षोपायानुष्ठानोपदेशाय षष्ठोऽध्यायः समस्त एव मनुनानुक्रान्तः, जाबालश्रुतौ च विधायकेनैव ब्राह्मणवाक्येन प्रतिपदमाश्रमचतुष्टयमुपदिष्टम्, जाबालश्रुतौ च विधायकेनैव ब्राह्मणवाक्येन प्रतिपदमाश्रमचतुष्टयमुपदिष्टम्, `ब्रह्मचारी भूत्वा गृही भवेद् गृही भूत्वा वनी भवेद्वनी भूत्वा प्रव्रजेत्’इति, अग्निसमारोपणविधानोपदेशश्च प्रत्यक्षश्रुतः कथमपह्नुयेत `आत्मन्यग्नीन् समारोप्य ब्राह्मणः प्रव्रजेद् गृहात्’ इति, अपि च उपनिषदामध्ययनमसति मोक्षोपयोगसमर्थे चतुर्थाश्रमे निरर्थकमेव प्राप्नोति, क्रियाकाण्डानुष्ठाननिष्ठत्वे हि वेदस्य ज्ञानकाण्डोपदेशः किम्प्रयोजनः स्यात्। तदेवं वर्णवदाश्रमाणामपि चतुर्णां प्रत्यक्षोपदेशसिद्धत्वाच्चतुर्थाश्रमिणाञ्च मोक्षाधिगमोपायतत्त्वज्ञानभावनाभ्यासावसरसम्भवात् सोऽयं जरामर्यवादः प्रशंसामात्रपर एवावतिष्ठते, `जरया ह वा एष एतस्मान्मुच्यते मृत्युना वा’ इति च वचनाज्जरसा कर्मत्यागानुज्ञानात् स एव चतुर्थाश्रमावसर इति गम्यते। तदुक्तम्,
गृहस्थस्तु यदा पश्येद् बली पलितमात्मनः।
अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत्॥
इतरथा हि मृत्युनैव च तस्मान्मुच्यते इत्यवक्ष्यत न त्वेवमब्रवीत्, तस्माद्वार्धकदशोचितं चतुर्थमाश्रममनुमन्यते।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%ये चत्वारः पथय% इति। आदिपदेन `ये चैते अरण्ये श्रद्धा-तप इत्युपासते’ इत्येवमादीनां परिग्रहः। पन्थानः देवयाना देवत्वप्राप्तिहेतवः।
%अग्निसमारोपणविधिश्चेति% समारोपणं विलोड्य भस्मनः पानम्।
न्यायमञ्जरी :—
%गृहस्थोऽपि मोक्षाधिकारी%
तिष्ठतु वा वार्धकदशायतोऽपि परिपक्वकषायस्याश्रमचतुष्टयक्रममनपेक्ष्यैव मोक्षाधिकार आख्यातः। यथोक्तं `ब्रह्मचर्यादेव प्रव्रजेत्’ इति। अथ एव द्विविधो ब्रह्मचारी भवत्युपकुर्वाणो नैष्ठिकश्च, तत्रोपकुर्वाणको यो ब्रह्मचर्यमनुभूय गृहस्थाश्रममनुभवति स चापरिपक्वकषायोऽनुपशान्तगार्हस्थ्यरागस्तमेव प्रतीदमुच्यते।
अनधीत्य द्विजो वेदाननुत्पाद्य च सन्ततिम्।
अनिष्टवा चैव यज्ञैश्च मोक्षमिच्छन् व्रजत्यधः॥ इति ।
यस्तु परिपक्वकषायः स नैष्ठिक एव ब्रह्मचारी भवति न गृहस्थाश्रमं प्रतिपद्यते। गृहस्थोऽपि परिपक्वकषायो वानप्रस्थाश्रममुल्लङ्घ्य यतित्वेऽधिक्रियते। यथोक्तम् `गृहाद् वनाद् वा प्रवजेत्’ इति।
केचित्तु कर्मफलाभिसन्धिरहितस्य कर्तव्यमिति कर्म कुर्वतः क्षीणरागस्यात्मविदो गृहस्थस्यापि मोक्षः। योऽतिथिप्रियः श्राद्धकृद् वेदविद्याविद् गृहस्थोऽपि विमुच्यते इति, तस्मादृणानुबन्धादपवर्गाभाव इत्ययुक्तम्।
यत्तु क्लेशानुबन्धादिति तदप्यनध्यवसायमात्रम्, प्रतिपक्षभावनादिना क्लेशोपशमस्य सुशकत्वात्। यद्येषां नित्यो हेतुर्भवेत् कार्यो वा, यद्यसौ न ज्ञायेत, ज्ञातोऽपि वानुष्ठातुमसौ न शक्येत तदा क एवैनमुच्छिन्द्यात्। किन्तु,
नाकस्मिका न नित्यास्ते न नित्याज्ञातहेतुकाः।
नाज्ञातशमनोपाया न चाशक्यप्रतिक्रियाः॥
न हि दोषाणामात्मस्वरूपवन्नित्यत्वमुपजननापायधर्मकत्वेन ग्रहणात्, मिथ्याज्ञानञ्च प्रसवकारणमेषामवधृतमिति नाकस्मिकत्वम्, अविनाशिहेतुकत्वम्, अज्ञातहेतुकत्वं वा। मिथ्याज्ञानस्य च सम्यग्ज्ञानं प्रतिपक्षः, प्रतिपक्षभावनाभ्यासेन च समूलमुन्मूलयितुं शक्यन्ते दोषा इति नाज्ञातप्रतीकारत्वं तेषाम्। उक्तञ्च केनचित्,
सर्वेषां सविपक्षत्वान्निर्ह्रासातिशयाश्रिताः।
सात्मीभावात् तदभ्यासाद्धीयेरन्नामुना क्वचित्॥ इति ।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%अपरिपक्वकषाय% इति। अस्यैवानुपशान्तराग इति पर्यायकथनम्।
%सर्वेषां सविपक्षत्वादिति%। येन बाधकेन नैरात्म्यदर्शनेन विपक्षाः सर्वे आस्रवा रागादयः। तस्य बाधकस्याभ्यासाद् नैरन्तर्येणोत्पादात् सात्मीभावस्तन्मयत्वम्, तस्माद् बाधकसात्मीभावात्। क्वचित् सन्ताने हि परं ते निर्ह्रासातिशयाश्रिता अपकर्षोत्कर्षस्वभावाः, तथा चापकर्षोत्कर्षस्वभावत्वेन विपक्षाभिभवस्याप्यपकर्षोत्कर्षसिद्धिः। निर्ह्रासधर्मत्वे तेषां विपक्षकृतस्याभिभवस्योत्कर्षः। अतिशयधर्मत्वे त्वनुच्छेदाद् विपक्षकृतस्यापकर्षस्तदुच्छेदासमर्थत्वात्। आस्रवन्ति भवाग्राद् अवीच्यग्रं पातादित्यास्रवा रागादिदोषाः आसयन्ति वा आसंसारमित्यास्रवाः। तदुक्तम्,
आसयन्त्यास्रवन्त्येते हरन्ति श्लेषयन्त्यथ।
उपगृह्णन्ति चेत्येवमास्रवादिनिरुक्तयः॥
न्यायमञ्जरी :—
%रागशमनार्थ विषयेषु दोषदर्शनम्%
विषयदोषदर्शनेन हि तेषु सक्तिलक्षणो रागः शाम्यति यदा ह्येवं चिन्तयति विवेकी।
असौ तरलताराक्षी पीनोत्तुङ्गघनस्तनी।
विलुठ्यमाना कान्तारे विहगैरद्य भक्ष्यते॥
विभाति बहिरेवास्याः पद्मगन्धनिभं वपुः।
अन्तर्मज्जास्थिविण्मूत्रमेदः क्रिमिकुलाकुलम्॥
अस्थीनिपित्तमुच्चाराः क्लिन्नान्यन्त्राणि शोणितम्।
इति चर्मपिनद्धं सत् कामिनीति विधीयते॥
मेदोग्रन्थी स्तनौ नाम तौ स्वर्णकलशौ कथम्।
विष्ठादृतौ नितम्बौ च कोऽयं हेमशिलाभ्रमः॥
मूत्रासृग्द्वारमशुचि च्छिद्रं क्लेदि जुगुप्सितम्।
तदेव हि रतिस्थानमहो पुंसां विडम्बना॥
प्रीतिर्यथा निजास्योत्थं लिहतः शोणितं शुनः।
शुष्केऽस्थनि तथा पुंसः स्वधातुस्पन्दिनः स्त्रियाम्॥
व्यात्तानना विवृत्ताक्षी विवर्णा श्वासघुर्घुरा।
कथमद्य न रागाय म्रियमाणा तपस्विनी॥
अहो व्रणे वराकोऽयमकाले तृषितः फणी।
प्रसारितमुखोऽप्यास्ते शोणितं पातुमागतः॥
किमनेनापराद्धं नः स्वभावो वस्तुनः स्वयम्।
स्पृश्यमानो दहत्यग्निरिति कोऽस्मै प्रकुप्यति॥
नानुकूलः प्रिये हेतुः प्रतिकूलो न विप्रिये।
स्वकर्मफलमश्नामि कः सुहृत् कश्च मे रिपुः॥
एवमहर्दिवं चिन्तयतां नितान्तं मनः समचित्तता सर्वत्र समुद्भवतीति विलीयन्ते दोषग्रन्थयः।
अत एवोपदिश्यन्ते मोक्षशास्त्रेष्वनेकशः।
तस्य तस्योपघाताय तास्ताः प्रत्यूहभावनाः॥
ननु च प्रतिपक्षभावनेऽपि न सर्वात्मना दोषपक्षः क्षयमुपयाति निम्बाद्युपयोगे इव क्रियमणे कफधातुरिति, नैतदेवम्, तत्र निम्बोपयोगवत् तदनुकूलस्यातपादेरुपयोगदर्शनात्। अपि च,
धर्मिलोपभयात् तत्र नेष्टः सर्वात्मना क्षयः।
कफाधिक्यन्तु हन्तव्यं धातुसाम्यस्य सिद्धये॥
इह सर्वात्मनोच्छेद्याः क्लेशाः संसारकारिणः।
छेदश्चैकान्ततस्तेषां प्रतिपक्षोपसेवनात्॥
न च प्रतिपक्षभावनाभ्यासमेकमस्त्रमपास्य तदुपशमे निमित्तान्तरं किमपि क्रमते, न हि विषयाभिलाषस्तदुपभोगेन विरस्यति। यथाह,
न जातुः कामः कामानामुपभोगेन शाम्यति।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते॥
अन्यत्राप्युक्तम्, मोक्षाभ्यासमनुविवर्धन्ते कौशलानि चेन्द्रियाणाम् इति। पाराशर्योऽपि,
तृष्णाखनिरगाधेयं दुष्पूरा केन पूर्यते।
या महद्भिरपि क्षिप्तैः पूरणैरेव खन्यते॥ इति ।
तस्मात् प्रतिपक्षभावनैव भगवती भीमकान्तिरन्तः करणकान्तारे निरन्तरमभिज्वलन्ती दावदहनदीधितिरिव दहति दोषविटपकानिति। तदेवं दोषानुबन्धविध्वंसोपायसम्भवान्न तत्कृतो मोक्षमार्गरोधोऽभिधातव्यः, अत एव केचन चेतनस्य प्रकृत्या निर्मलत्वान्मलानामागन्तुकत्वान्मलनिबर्हणहेतोश्च यथोक्तस्य सम्भवात् तदावरणापाये सति स्वतः सकलपदार्थदर्शनसामर्थ्यस्वभावचित् तत्त्वावस्थानात् सर्वज्ञत्वसिद्धिमदूरवर्तिनीमेव मन्यन्ते।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%न जातु कामः कामानामिति।% काम्यन्त इति कामा विषयास्तेषाम्।
%भोगाभ्यासमनु% भोगाभ्यासानन्तरमेव पुनस्तदुपभोगविषया रागा अभिलाषाः।
%कौशलानि चेन्द्रियाणां% यद्बलादनिच्छयापि तेषु विषयेषु प्रवर्तन्ते।
%अत एव केचने%त्यादि अर्हद्दृष्ट्याह। %यथोक्तस्य% तत्त्वज्ञानलक्षणस्य।
%मलानामागन्तुकत्वादिति।% यथा स्फटिकस्य स्वच्छस्यौपाधिको वर्णान्तरानुरागः, एवं स्वच्छस्यात्मनो मिथ्याज्ञानप्रभवो मलसम्भव इति। सूर्यस्येवाभ्रादिकावरणापगमे स्वरूपेणावस्थानमिति।
न्यायमञ्जरी :—
%क्लेशशून्यत्वमात्मनोऽनपवर्गेऽपि सिद्ध्यति%
यदप्युच्यते, `क्लेशशून्यत्वमात्मनो न कदाचिदपि दृष्टमनुबन्धवृत्तित्वात् क्लेशानाम्’ इति, तदप्यसत्यम्, सुषुप्तावस्थायामस्पृष्टस्य दोषैरात्मनः प्रत्यहमुपलम्भात्, जाग्रतोऽपि काचन तादृशी दशा दृश्यत एव यस्यामेवात्मस्वरूप एवात्मा निर्मलोऽवतिष्ठते। यथोक्तम् `अहरहर्ब्रह्मलोकं यान्ति’ इति, तदलमनेन दोषानुबन्धकथानुबन्धेन।
यदपि प्रवृत्त्यनुबन्धादिति, तदपि सूत्रकृता समाहितम्, `न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य’ इति। दोषेषु बन्धहेतुषु विगलितेषु प्रवृत्तिरपि न देहेन्द्रियादिजन्मने प्रभवतीति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%अनुबन्धवृत्तित्वात् क्लेशानामि%ति अनुबन्धेनैकस्योत्पत्तौ पुनरन्यस्योत्पत्तिरित्येवंरूपेणोत्पन्नस्य च तस्यैव पुनरुत्पत्त्या सदात्मनस्तैरवियुतत्वात् तदनुबन्धित्वम्’।
%अहरहर्ब्रह्मलोकं यान्तीति%। सुषुप्तावस्थाभिप्रायेणाह।
%`न प्रवृत्तिः प्रतिसन्धानाय’% इति पदं `%न देहेन्द्रियजन्मने प्रभवति%’ इत्यनेन व्याख्यातम्।
न्यायमञ्जरी :—
%दोषक्षयान्तरमनुष्ठितानां कर्मणां न बन्धहेतुत्वम्%
ननु दोषक्षयान्मा भूदुत्तरः कर्मसङ्ग्रहः।
कथं फलमदत्त्वा तु प्राक्तनं कर्म शाम्यति॥
अत्र केचिदाहुः, ददत्येव कर्माणि फलम्, दत्त्वा शाम्यन्ति, तथापि न बन्धहेतवो भवन्ति, यतः शमसन्तोषादिजनितं योगिनः सुखमुपपाद्य धर्मो विनङ्क्ष्यति, अधर्मश्च शीतातपक्लेशादिद्वारकं दुःखं दत्त्वेति।
नन्वमुष्मात् कर्मण इदं फलं भवतीति कर्मफलानां कार्यकारणभावनियमात् कथमियता कर्मफलोपभोगो भवेदित्यन्यथा तदुपभोगमपरे वर्णयन्ति, योगी हि योगर्द्धिसिद्ध्या विहितनिखिलनिजधर्माधर्मकर्मा निर्माय तदुपभोगयोग्यानि तेषु तेषूपपत्तिस्थानेषु तानि तानि सेन्द्रियाणि शरीराणि रण्डान्तः-करणानि च मुक्तैरात्मभिरुपेक्षितानि गृहीत्वा सकलकर्मफलमनुभवति प्राप्तैश्वर्य इतीत्थमुपभोगेन कर्मणां क्षयः।
न्यायमञ्जरी :—
%ज्ञानेनैव कर्मक्षयः%
अन्ये त्वाचक्षते, किमनेन भोगायासेन अदत्तफलान्येव कर्माणि योगिनो नङ्क्ष्यन्ति, तत्त्वज्ञानस्यैव भगवत इयान् प्रभावो यदस्मिन्नुत्पन्ने चिरसञ्चितान्यपि कर्माणि सहसैव प्रलयमुपयान्ति, भोगादपि तेषां प्रक्षयः शास्त्रप्रामाण्यादेवावगतः, तथा तत्प्रामाण्यादेव तत्त्वज्ञानादपि तत्प्रक्षयं प्रतिपत्स्यामहे। तथा चाह,
यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्जुन।
ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा॥ इति ।
न चेदं श्रद्धामात्रं वेदविदामग्रण्या व्यासमुनिनैव समभिधानाद् अवेदार्थं हि नासावभिदधीतेति।
न्यायमञ्जरी :—
%दोषक्षयेऽपि कर्मणां न दाह इति मतप्रदर्शनम्%
तदन्ये न मन्यन्ते, न सर्वात्मना कर्मणां दाहः किन्तु स्वरूपेण सतामपि सहकारिवैकल्यात् स्वकार्यकरणोदासीनता तेषां भवति भृष्टानामिव बीजानामङ्कुरकरणकौशलहानिः। यतः सामग्री कार्यस्य जनिका न केवलं कारकम् अतो न कर्माण्येव केवलानि फलोपभोगयोग्यशरीरेन्द्रियादिजन्मनिमित्ततामुपयान्ति किन्तु मिथ्याज्ञानेन दोषैश्च सहितानि। तदुक्तम् `अविद्यातृष्णे धर्माधर्मौ च जन्मकारणम्’ इति। तत्त्वविदश्च तत्त्ववित्त्वादेव नाविद्या मिथ्याज्ञानात्मिका भवति, दोषाणान्तु प्रशमे दर्शित एव क्रमः, तदभावे भवन्तावपि धर्माधर्मौ न बन्धाय कल्पेते। न हि स्वकार्यमङ्कुरादि कुसूलवर्तीनि बीजानि जनयितुमुत्सहन्ते, भृष्टबीजानामपि स्वरूपशक्तिरपि तावनं गता, तद्वत् कर्मणां स्वरूपशक्तिशैथिल्यं नाम मा भूत् तथापि कुसूलवर्तिबीजवत् सहकारिवैधुर्यात् कार्यानारम्भ इति। तदिदमुक्तम् `न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य’ इति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%अविद्यातृष्णे% इति। तृष्णाशब्देन रागादयः क्लेशा अभिहिताः।
न्यायमञ्जरी :—
%कर्मसु स्वरूपेण स्थितेषु कथमुपवर्ग इत्यस्य परिहारः%
ननु स्वरूपसत्तायां धर्माधर्मयोः कथमिदमुक्तम् `नवानामात्मगुणानां निर्मूलोच्छेदोऽपवर्ग’ इति, नैष दोषः, मनः संयोगवदकिञ्चित्करयोरवस्थानमप्युच्छेदान्न विशिष्यते। उक्तस्यात्मनो विभुत्वादपरिहार्यो मनः संयोगः, न च तदानीमसौ सन्नपि सुखदुःखज्ञानादिजन्मनि व्याप्रियते, एवं धर्माधर्मौ सन्तावपि फलमाक्षिपन्तौ किं करिष्यत इति फलत उच्छिन्नावेव भवतः। तस्मान्नवानामात्मगुणानामुच्छेदोऽपवर्ग इत्यविरुद्धण्। एवं प्रवृत्त्यनुबन्धस्यापि बन्धहेतोरभावान्न दुर्गमोऽपवर्गः।
न्यायमञ्जरी :—
%कर्मणामुपभोगादेव क्षय इति मतम्%
अपरे पुनराहुः, कर्मफलानां शास्त्रतः कार्यकारणभावनियमावगतेः शमसन्तोषशीतातपादिद्वारकसुखदुःखमात्रोपपादनेन कर्मपरिक्षयानुपपत्तेः, योगर्द्ध्या च दीर्घकालावधिसुखदुःखोपभोगस्य सकृदेव सम्पादयितुमशक्यत्वात्, ज्ञानाग्निना च दाहे तत्कर्मोपदेशिवैदिकवचनसार्थानर्थक्यप्रसङ्गात्, अदत्तफलस्य कर्मणोऽनुपरमात्, अवस्थानपक्षे चिरमप्युषित्वा कुसूलावस्थितबीजवत् कालान्तरेणापि तत्फलाक्षेपप्रसङ्गादवश्यं स्वफलोपभोगद्वारक एव कर्मक्षयो वाच्यः। न चानिर्मोक्ष आशङ्कनीयश्चिरादपि तत्सिद्धिसम्भवात्। तथा च मुमुक्षुर्नित्यनैमित्तिकं कर्मावश्यमनुतिष्ठेदननुतिष्ठन् प्रत्यवेयादिति तत् कुतोऽस्य बन्धः स्यात्। काम्यं निषिद्धञ्च कर्म स्वर्गनरककारि विस्पष्टमेव बन्धसाधनमिति तत् परिहरेदेवेत्येवं तावदुत्तरोऽस्य न कर्मसञ्चयः प्रवर्तते। तदाह,
नित्यनैमित्तिके कुर्यात् प्रत्यवायजिहासया।
मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः॥ इति ।
प्राक्तनस्य तु कर्मसञ्चयस्य भोगादेव क्षयः। आत्मविदश्च मुमुक्षोरयमनुष्ठानक्रमो भवति नेतरस्येति स एवेत्थमपवर्ज्येतेति। आह च,
आत्मज्ञे चैतदस्तीति तज्ज्ञानमुपयुज्यते।
तत्र ज्ञातात्मतत्त्वानां भोगात् पूर्वक्रियाक्षये॥
उत्तरप्रचयासत्त्वाद्देहो नोत्पद्यते पुनः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%आत्मज्ञे चैतदस्ती%त्यस्य पूर्वमर्धम्, “प्रार्थ्यंमानं फलं ज्ञातं नानिच्छोस्तद् भविष्यति”। इति। उत्तरस्य भाविनः कर्मप्रचयस्याकरणादेवासत्त्वात्।
न्यायमञ्जरी :—
%आत्मतत्त्वज्ञस्य नित्यकर्मानुष्ठानेऽपि मोक्षसम्भावना%
ननु नित्यकर्मानुष्ठानपक्षे नास्त्येव मोक्षः, यान्येव हि नित्यानि दर्शपौर्णमासादिकर्माणि `यावज्जीवं दर्शपौर्णमासाभ्यां यजेत’इत्यादिचोदनोपदिष्टानि तान्येव फलवन्ति श्रूयन्ते इति काम्यान्यपि भवितुमर्हन्ति, `दर्शपौर्णमासाभ्यां स्वर्गकामो यजेत, अग्निहोत्रं जुहुयात् स्वर्गकामः’ इति। न, फलाभिसन्धानपूर्वकत्वेनाप्रयोगात्। यथाह,
प्रार्थ्यमानं फलं ज्ञातं नानिच्छोस्तद्भविष्यति।
इति संयोगप्रवृत्तौ विशेषः, प्रयोगेऽपि विशेषः। काम्यं कर्म सर्वाङ्गोपसंहारेण प्रयुज्यमानं फलसाधनमिति। यथा शक्तिस्तत्तथा प्रयोक्तव्यमिति, नित्यस्य कर्मणोऽकरणात् प्रत्यवाय इति यथाशक्त्यपि तत् प्रयोक्तव्यम्, अनुष्ठाता तु सर्वाण्यङ्गानि यद्यसावुपसंहर्तुं न शक्नुयान्मा प्रवर्त्तिष्ट न त्वप्रवर्तमानः प्रत्यवेयादिति। एवं तदेव दर्शपौर्णमासादिकर्म `यावज्जीवम्’ इति चोदनयोपदिष्टं नित्यं सत् तत्फलानभिसन्धानात् प्रयुक्तं न बन्धाय कल्पते। क्व सा स्वर्गसाधनशक्तिरस्य गतेति चेत्, न वयं कर्मणां शक्तिमशक्तिं वा प्रत्यक्षतः पश्यामः, शास्त्रैकशरणास्तु श्रोत्रिया वयम्। चोदनैव धर्मे प्रमाणमिति नः कुलव्रतमेतत्। सा च चोदनैकत्र कामिनमधिकारिणमाश्रित्य प्रवृत्ता तदधिकारश्च फलनिर्वृत्तेर्विना न स्यादिति फलपर्यन्ततां प्रतिपद्यते, अन्यत्र तु यावत्पदोपबद्धजीवनपदार्थावच्छिन्नाधिकारिलाभेन प्रवर्तमाना न फलाय भवति, अक्रियमाणे तु शास्त्रार्थे प्रत्यवायाय प्रभवत्यधिकृतेन सता शास्त्रार्थस्त्यक्त इति। काम्ये त्वनुत्पन्नकामोऽधिकृत एव न भवति इति नाधिकृतेन सता विधिस्त्यक्त इति न प्रत्यवैतीति। उपक्रम्य त्वन्तराले त्यक्तुं न लभ्यत एव, वीतायां फलेच्छायामवाप्ते वा फले तत्कर्मसमानमवश्यकर्त्तव्यमेव तदित्यलं शास्त्रान्तरगर्भेण भूयसा कथाविस्तरेण, सर्वथा सुष्ठूक्तं नित्यनैमित्तिके कुर्यादिति। न खलु सुलभोऽयं पुरुषार्थः। किं न श्रुतमिदमायुष्मता व्यासवचनम्,
`अनेकजन्मसंसिद्धस्ततो याति परां गतिम्’ इति।
ज्ञानाग्निदाहवचनन्तु ज्ञानप्रशंसार्थमेव। सोऽयं ज्ञानकर्मसमुच्चयान्मोक्ष उच्यते।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%वीतायां फलेच्छायामिति।% तथाहि, फलेच्छया कर्मणि प्रवृत्तस्य यदि मध्ये फलेच्छा व्यपेयात् तथाप्यसौ शिष्टविगर्हणभयात् कर्म समापयति एवं वृष्ट्यर्थं च कारीर्यां प्रस्तुतायां मध्ये वृष्टिसम्भवेऽपि तां समापयत्येव शिष्टविगर्हणभयादेव। %किं त्वया ज्ञातमधुनैव हुंकृत्येति।%? हुंकृत्येत्यनेन शैवशास्त्रप्रसिद्धं दोक्षाविधानमन्त्रं सोत्प्रासं दर्शयति। ते हि विशिष्टमन्त्रोपपादितदीक्षासमनन्तरमेवाशेषपाशविमोचनाद् मुक्तिमभिमन्यन्ते।
%ज्ञानकर्मसमुच्चयात्।% ज्ञानेन नित्यकर्मानुष्ठानेन च।
न्यायमञ्जरी :—
%उपभोगेन क्षये कर्मणां न मोक्षसम्भावनैव%
अत्राभिधीयते, न खलु फलोपभोगद्वारकः कर्मणां परिक्षयो जन्मशतैरपि शक्यक्रियः। उक्तं हि,
एकमेवेदृशं कर्म कर्त्तुमापतति क्वचित्।
जन्मायुतशतेनापि यत्फलं भुज्यते न वा॥
देहैस्तत्कर्मभोगार्थैः कर्मान्यन्न करिष्यते।
कर्मसाधनमित्येषा दुराशैव तपस्विनाम्॥
तदीदृशमेनं मोक्षपथमुपदिशद्भिर्याज्ञिकैर्मोक्षोपेक्षणमनक्षरमुपदिष्टं भवतीति, तस्मात् पूर्वोक्तनीत्यैव कर्मणां बन्धहेतुत्वमपाकरणीयम्।
ननु पक्षचतुष्टयेऽपि दोष उक्तः ? न, चतुर्थपक्षस्य निरवद्यत्वात् सहकारिवैकल्यात् कुसूलावस्थितबीजवत् कर्मणामनारम्भकत्वे सति न कश्चिद्दोषः। एष एव च तेषां दाहो यत् कार्यानारम्भकत्वम्।
नन्वविनष्टस्वरूपाणि कुसूलबीजवदेव कदाचिदारप्स्यन्ते कार्याणि तस्माद् वरमुच्छिद्यन्तामेव, किमिदानीं नित्यमात्मानमप्युच्छेत्तुं यतामहे स हि पुरा भोक्ताभूदिति मुक्तोऽपि पुनर्भोक्तृतां प्रतिपद्येतेति वरमुच्छिद्यतामेव। सामग्र्यभावात् कथं भोक्तृतां गच्छेदिति चेत्, कर्माण्यपि सहकार्यभावात् कथं कार्यमारभेरन् ? न च कर्मणां बन्धकरणे रागादयो न सहकारिण इति वक्तुं शक्यम्, `वीतरागस्य जन्मादर्शनात्’ इत्यसकृदुक्तत्त्वात्। तस्मादयमेव सूत्रकारोपदिष्टः पन्थाः पेशलः, `न प्रवृत्तिः प्रतिसन्धानानाय हीनक्लेशस्य’ इति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%मोक्षपथमुपदिशद्भिर्याज्ञिकैरिति।% यद्रान् (भाट्टान् ?) परामृशति।
न्यायमञ्जरी :—
%ज्ञानकर्मसमुच्चयस्य मोक्षहेतुत्वखण्डनम्%
यच्चेदमुच्यते `ज्ञानकर्मसमुच्चयान्मोक्षः’ इति, तत्रेदं वक्तव्यम्, कर्मणां कीदृशो मोक्षं प्रत्यङ्गभावः ? न हि कर्मसाध्यो मोक्ष इत्युच्यते, स्वर्गादिवदनित्यत्वप्रसङ्गात्। अपि चात्मैव स्वरूपावस्थितो मोक्ष इत्युच्यते, न चात्मस्वरूपं कर्मसाध्यम्, अनादिनिधनत्वेन सिद्धत्वात्।
ननु नित्यकर्माननुष्ठाने प्रत्यवेयादिति तद्द्वारकबन्धपरिहारोपायत्वात् कर्मापि मोक्षाङ्गं स्यात् ? न, सन्न्यासविधानस्य प्रत्यक्षोपदेशादित्युक्तत्वात्। अपरिपक्वकषायाणां शनैः शनैस्तत्परिपाकौपयिकत्वेन कर्मानुष्ठानं पारम्पर्येणापवर्गोंपाय इति तु वाढमभ्युपगम्यते। यथाह मनुः,
`महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः’ इति।
अध्यात्मविदश्च ज्ञानकाण्डौपयिकमेव क्रियाकाण्डमन्यत्, साक्षात्तु कर्मसाध्येऽपवर्गे स्वर्गवदपायित्वप्रसङ्गात्, कृतकस्य सर्वस्यानित्यत्वात् तत्त्वज्ञानमेव मोक्षोपाय इत्युक्तम्।
यदपि यमनियमादिषु साध्यभूतं तदपि तदङ्गतां गच्छन् न वार्यते, तत्कार्यत्वेऽपि यावद्गुणप्रध्वंसाभावस्वभावत्वान्मोक्षस्य न क्षयित्वं स्वर्गवददन्यस्तु न मोक्ष इत्युक्तम्।
तत्पूर्वोंक्तप्रक्रमेणापवर्गप्राप्तेस्तत्त्वज्ञानमेवाभ्युपायः।
कर्म त्वङ्गम्, तत्र शौचादि किञ्चित् किञ्चित् स्यादात्मसंस्कार्पूर्वम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%अध्यात्मविदश्चेति।% यथोक्तं प्राक् श्रौतस्मार्तकर्मानुष्ठानात् कषायपरिपाकद्वारेणोत्पन्नातिशयस्य आत्मज्ञानेऽधिकारात्। “तमेव वेदानुवचनेन ब्राह्मणाविविदिषन्ति ब्रह्मचर्येण तपसा श्रद्धया यज्ञेनानाशकेन च” इत्यादिविधिभिश्च कर्मणामात्मज्ञानसहकारित्वेन विनियोगात्। यथा प्रतिपादितम् “महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः” इति।
%आत्मसंस्कारपूर्वमिति।% आत्मसंस्कारस्य कैवल्यप्राप्तियोग्यतायाः कारणम्।
न्यायमञ्जरी :—
%तत्त्वज्ञानस्यापवर्गसाधनतायां शङ्का%
आह, तत्त्वज्ञानमिदानी चिन्त्यतां किंविषयं तदपवर्गाय कल्पते, कुतो वा तस्य निःश्रेयससाधनत्वमवगतमिति।
नन्वात्मज्ञानमपवर्गहेतुरिति बहुशः कथितमेवैतदिति कोऽयं प्रश्नः ? न, विप्रतिपत्तेः, विप्रवदन्ते ह्यत्र वादिन एक एवायमविद्यापरिकल्पितजीवात्मविभागः परमात्मा तत्त्वज्ञानादविद्यापाये मोक्ष इति ब्रह्मवादिनः। शब्दाद्वैतनिश्चयादिति वैयाकरणाः। विज्ञानाद्वैतदर्शनादिति शाक्यभिक्षवः। प्रकृतिपुरुषविवेकविज्ञानादिति पारमर्षाः। ईश्वरप्रणिधानादिति चान्ये। तदेवं कस्मै तत्त्वज्ञानाय स्पृहयन्तु मुमुक्षव इति वाच्यम्।
न्यायमञ्जरी :—
%आत्मतत्त्वज्ञानमेव निःश्रेयससाधनम्%
उच्यते, भिन्नास्तावदात्मान इति गृह्यताम्, आत्मज्ञानमेव च निःश्रेयसाङ्गमिति। यत्तु कुतस्तस्य नि श्रेयससाधनत्वमवगतमिति, अक्षपादवचनादिति ब्रूमः। अक्षपादस्तावदिदमुपदिष्टवान् `आत्मज्ञानान्निः श्रेयसाधिगमः’ इति। न च निष्प्रमाणकमर्थमेव ऋषिरुपदिशतीति भवितव्यमत्र प्रमाणेन। तत्तु वैदिकविधिवाक्यम् `आत्मा ज्ञातव्यः’ इति। सा एष तावन्निरधिकारो विधिः। अधिकाररहितस्य च विधेः प्रयोगयोग्यत्वाभावादधिकारान्वेषणमुपक्रमणीयम्। परप्रकरणपरिपठनविरहाच्च नास्य सम्पदादिविधिवत् प्रधानाधिकारनिवेशित्वम्, अतो विश्वजिदधिकरणन्यायेन स्वर्गकाममधिकारिणमिह यावदुपात्तमध्यवस्यामस्तावदेव च `न पुनरावर्त्तते’ इत्यर्थवादसमर्पितेयमपुनरावृत्तिरेव हृदयपथमवतरति `रात्रिसत्र इव प्रतिष्ठा’ इति तामेवास्य फलत्वेन प्रतिपद्यामहे।
सा चेयं साध्यमानापि रूपादेव हि शाश्वती।
चकास्त्यपुनरावृत्तिर्न स्वर्गवदपायिनी॥
ननु दुष्टप्रयोजनालाभे सत्यदृष्टप्रयोजनपरिकल्पनावसरः, इह च दृष्टमेव प्रयोजनमात्मज्ञानस्य कर्मप्रवृत्तिहेतुत्वमुपलभ्यते, नित्येनात्मना विना भूतेष्वेव चेतनेषु श्मशानावधिषु बहुवित्तव्ययायाससाध्यानि को नाम ज्योतिष्टोमादिकर्माण्यनुतिष्ठेदिति नित्य आत्मा परलोकी ज्ञातव्यः। एवं हि निर्विशङ्कः कर्मसु प्रवर्तेतेति। तदिदमनुपपन्नम्, अन्यत एव सिद्धत्वात्। प्रत्यभिज्ञाप्रत्यक्षप्रत्ययेन, जैमिनीयैरनुमानमहिम्ना च नैयायिकादिभिरात्मा नित्य इति निश्चित एव किमत्र विधिः करिष्यतीति। इतिकर्त्तव्यताफलोपदेशश्च तदानीमत्यन्तनिष्प्रयोजनः स्यात्, अमी च तथ्या नाम पातिमहान्तो वेदग्रन्था इयत्येव पर्यवसिता इति, तददिमुपनतं सेयं महतो वंशस्तम्बाल्लटवा निष्कृष्यत इति। तस्मादर्थवादसमर्पितमपुनरावृत्तिरूपमेव फलमात्मज्ञानविधिरवलम्बत इत्येवं केचित्।
सूक्ष्मतरदर्शिनस्त्वाहुः, इयमपि महती दुर्गतिर्यदर्थवादमुखप्रेक्षित्वम् अस्योत्तमाधिकारविधेः विश्वजिति रात्रिसत्रेवा किमन्यत् क्रियताम्, न हि विधिस्वरूपपर्यालोचनातः कश्चिदधिकारी लभ्यते इति बलात् स्वर्गकामादिः कल्प्यते वा अर्थवादसमर्पितो वावलम्ब्यते। यत्र तु विधिस्वरूपमहिम्नैव तदुपलम्भस्तत्र किं कल्पनया, किमर्थवादवदनावलोकनदैन्येन वा। इह च स्वाध्यायोऽध्येतव्य इतिवदग्नीनादधीतेतिवद् वा कृत्येन द्वितीयया वेप्सिततमनिर्देशात् तन्निष्ठत्वमेवावतिष्ठते। तत्र यथा अग्न्यर्थतया आधानविधिरवगम्यमानोऽग्नीनामनेकविधपुरुषार्थौपयिककर्मकलापोपयोगात् तदर्जनेनैव कृतार्थत्वमुपगत इति न फलान्तरमपेक्षते, यथा वा स्वाध्यायोऽध्येतव्य इत्यक्षरग्रहणार्थत्वादस्य विधेरक्षरग्रहणस्य च फलवत्कर्मावबोधद्वारेण परमपुरुषार्थोपायत्वावधारणान्नतदतिरिक्तघृतमधुकुल्यादिफलान्तरापेक्षित्वम्, न चाध्ययनाविध्यङ्गत्वं स्वमहिम्नैवेप्सिततमसंस्कारद्वारकाधिकारलाभात्। एवमिहाप्यपहतपाप्मत्वाद्यात्मस्वरूपपरिज्ञानमेव तस्य परमपुरुषार्थतामवबोधयन् अस्य विधेरन्यप्रयोजनतामापादयति। कश्चित् किल संस्कारविधिः संस्क्रियमाणप्रयोजनापेक्षया परमुखप्रेक्षी भवति व्रीहीन् प्रोक्षतीतिवत्, कश्चित्तु संस्क्रियमाणप्रयोजनमलभमानस्तदीप्सिततमत्वानिर्वाहणात् संस्कारविधित्वमेव जहाति सक्तून् जुहोतीतिवत्। यथोक्तम्,
भूतभाव्युपयोगं हि द्रव्यसंस्कारमिष्यते।
सक्तवो नोपयोक्ष्यन्ते नोपयुक्ताश्च ते क्वचित्॥ इति ।
संस्कार्यमनर्घमिव रत्नमपर्युषितमिवामृतमनस्तमिव चन्द्रबिम्बमपरिम्लानमिव शतपत्रमस्ति। कस्तर्हि प्रकरणपाठापेक्षायामर्थवादमुखप्रेक्षणे, फलकल्पनायां वाभिलाषः ? अत एव न कामश्रुतप्रयुक्तत्वमाधानस्य, न चाचार्यकरणविधिप्रयुक्तत्वमध्ययनस्येति, तस्मात् स्वाध्यायाध्ययनाग्न्याधानविधिसमानयोगक्षेमत्वादात्मज्ञानविधेः तत एवात्मज्ञानमपवर्गार्थमवगम्यते। तथाविधस्वरूप आत्मैव परोपजनितधर्मरहितोऽपवर्ग इत्युच्यते यतस्तदिदमिथ्यमात्मज्ञानमेव निःश्रेयससाधनमनन्यलभ्यमिति तमेवोपदिष्टवानाचार्योऽक्षपादः। यत्तु विज्ञानसत्तात्मशब्दाद्यद्वैतदर्शनं तन्मिथ्याज्ञानं वेति न निःश्रेयससाधनम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%इतिकर्तव्यताफलोपदेशश्चेति।% उपासनादिक क्रमप्रतिपादकवाक्यविशेषाः।
%महतो वंशस्तम्बादिति।% वंशस्तम्बं महान्तम्, तं छित्त्वा मध्याद् बालक्रीडनकस्य लट्वाभिधानस्य निष्कर्षणं यद्वदिति।
%व्रीहीन् प्रोक्षतीति% व्रीहीणां पुरोडाशसाधनत्वाद् भाव्युपयोगित्वं संस्कारविधित्वमेव जहाति।
%सक्तून् जुहोतीतिवदिति।% अत्र सक्तूनां भूतभाव्युपयोगाभावेनानपेक्षणात् संस्कार्यत्वाभावम्। न च प्रयाजादीनामिवेतिकर्तव्यताया अपेक्षणम्, होमसंस्कृतानामक्रियारूपत्वेनेतिकर्तव्यतात्वाभावात् सक्तूनम्, होमस्य तु क्रियारूपत्वादितिकर्तव्यतात्वेनान्वयो युक्तः स च द्रव्यापेक्षित्वात् तादर्थ्यमेव सक्तूनामिति। अत एव न कामश्रुतिप्रयुक्तत्वमाधानस्य तत्संस्कार्यस्य प्रयोजनवत्त्वेनैव तदर्थानुष्ठानसिद्धेः।
न्यायमञ्जरी :—
%ब्रह्माद्वैतदर्शनम्%
ननु कथमद्वैतदर्शनं मिथ्या कथ्यते तत् प्रत्युत द्वैतदर्शनम्, अविद्या, मायापि, मिथ्याज्ञानमिति युक्तम्। तथा हि प्रत्यक्षमेव तावन्निपुणं निरूपयतु भवान् । तत्र हि यदन्यानपेक्षतया झटिति पदार्थस्वरूपमवभासते तत् पारमार्थिकमितरत् काल्पनिकमिति गम्यते। सद्रूपमेव च तत्राभिन्नमन्यनिरपेक्षमवभाति, भेदस्त्वन्यापेक्षयेति नाक्षरणविज्ञानविषयतामुपयाति। तत्र यथा मृद्रुपतातः प्रवृत्तिं यावत् कुम्भावस्थेति, अस्मिन्नन्तराले आविर्भवताञ्च घटकपालशकलशर्कराकणादीनां रूपमपरमार्थसदेव व्यवहारपदवीमवतरति, परमार्थतस्तु मृत्तिकैव। यथाहुः `मृत्तिकेत्येव सत्यम्’इति, एवं तदपि मृत्तिकारूपं सत्तापेक्षया न परमार्थसदिति सत्तैव सर्वत्र परमार्था तदेव सल्लक्षणं ब्रह्मेत्याहुः। आगमश्च `एकमेवाद्वितीयम्’ इत्यादिरभेदमेव दर्शयति `नेह नानाऽस्ति किञ्चन मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति’ इति च। वेदस्य च सिद्धेऽप्यर्थे प्रामाण्यमुपवर्णितमेव भवद्भिः। न च प्रत्यक्षविरुद्धत्वमभेदशंसिनो वक्तुं शक्यमागमस्य। न ह्यन्यनिषेधे प्रत्यक्षं प्रभवति, स्वरूपमात्रग्रहणपरिसमाप्तव्यापारत्वात्। पररूपमन्तरेण च भेदस्य दुरुपपादत्वाद्, भेदे कुण्ठमेव प्रत्यक्षमिति कथमभेदग्राहिणमागमं विरुन्ध्यात्। तदुक्तम्,
आहुर्विधातृप्रत्यक्षं न निषेध्यं विपश्चितः।
नैकत्वमागमस्तेन प्रत्यक्षेण विरुध्यते॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%मृत्तिकेत्येव सत्यमिति।% “वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्” इति। नामधेयं घट इति, विकारश्च पृथुबुध्नोदरत्वादिसन्निवेशविशेषः, वाचारम्भणं वागिन्द्रियस्य शब्दोच्चारणे प्रवर्तकम्, वस्तुतस्तु न किञ्चिन् मृत्तिकैव परमार्थ इति। वाचेति षष्ठ्यर्थे तृतीया। आरम्भणम् आलम्बनम्।
%सल्लक्षणं ब्रह्मेति।% ब्रह्म हि व्यापकं सूच्यते। सत्तायाश्च सकलवस्तुव्यापकत्वात् तत्त्वम्। न तु `एकमेवाद्वितीयमेव’ इत्यादेरागमस्य सिद्धार्थप्रतिपादकत्वेन प्रामाण्यमेव नास्तीति तदाह %वेदस्य च सिद्धेऽप्यर्थ% इति।
न्यायमञ्जरी :—
%तत्र शङ्का%
नन्वेकमेव ब्रह्म न द्वितीयं किंचिदस्ति, तर्हि तद् ब्रह्म नित्यशुद्धबुद्धस्वभावत्वान्मुक्तमेवास्ते, केन तद्बद्धमिति, किमर्थोऽयं मुमुक्षूणां प्रयत्नः, कुतस्त्यो वा अयं विधिर्न जगदवभासकः ? अविद्योच्छेदार्थे मुमुक्षुप्रयत्न इति ब्रूमः, ततस्त्य एवायं विचित्रजगदवभासः।
केयमविद्या नाम, ब्रह्मणो व्यतिरिक्ता चेत् नाद्वैतम्। अव्यक्तिरेके तु ब्रह्मैव सा, ततो नान्येत्येषेति कथमुच्छेद्यते ? मैवम्, न वस्तुनीदृंशि तार्किकचोद्यानि क्रमन्ते। अविद्या त्वियमवस्तुरूपा माया मिथ्यावभासस्वभावा अभिधीयते। तत्त्वाग्रहणमविद्या, अग्रहणञ्च नाम कथं वस्तुधर्मे विकल्प्यते ?
ननु तत्त्वाग्रहणरूपापि कस्येयमविद्या ? न हि ब्रह्मणो नित्यप्रबुद्धस्वभावत्वादविद्या भवति, अन्यस्तु नास्त्येव तदाश्रयः, न च निरधिकरणमेव मिथ्याज्ञानं भवितुमर्हति ?
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%ततस्त्य एव चायमिति।% ततस्त्योऽविद्यात आगतः।
न्यायमञ्जरी :—
%शङ्कायाः समाधानम्%
उच्यते, जीवात्मनामविद्या न ब्रह्मणः।
ननु के ते जीवात्मानस्तेऽपि ब्रह्मणोऽन्या अनन्यतया चिन्त्या एव ? आः क्षुद्रतार्किक ! सर्वत्रानभिज्ञोऽसि। ब्रह्मैव जीवात्मानः न ततोऽन्ये । न हि दहनपिण्डाद् भेदेनापि भान्तः स्फुलिङ्गा अग्निस्वरूपा न भवन्ति। तत् किं ब्रह्मण एवाविद्य ? न च ब्रह्मणोऽविद्या। यथा चैकमेव घटाद्यावरणोपहितभेदतया भिन्नमिव विभाति नभः पटाकाशं घटाकाशमिति तदावरणवशादेव च रजोधूमादिकलुषितमपि भवति, तदावरणविरतौ तु गलितकालुष्यमले तत्रैव परमे व्योम्नि लीयते, तथैव चात्मानोऽप्यविद्यापरिकल्पितभेदात् तत्कृतमनेकप्रकारकालुष्यमनुभवन्ति, तदुपरमे च परब्रह्मणि लीयन्त इति च।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%न हि दहनपिण्डादिति।% तथा च श्रुतिः “तदेतत् सत्यम्,
यथा प्रदीप्तात् पावकाद् विस्फुलिङ्गाः
सहस्रशः प्रभवन्ति सरूपाः।
तथाक्षराद् विविधाः सौम्य भावाः
प्रजायन्ते तत्र चैवापयान्ति॥”
न्यायमञ्जरी :—
%पुनस्तत्रैव शङ्का तत्समाधानञ्च%
नन्वेवमप्यविद्यापरिकल्पित एष ब्रह्मजीवात्मविभागः, सा च जीवात्मनामविद्येत्युच्यते, तदेतदितरेतराश्रयमापद्यते, अविद्याकल्पनायां सत्यां जीवात्मानो जीवात्मसु च सत्स्वविद्येति ? भवत्वितरेतराश्रयत्वम् अविद्याप्रपञ्च एवायमशेषः, कस्यैव दोषः, यदि चानादित्वम्, अस्य परिहारो बीजाङ्कुरवद् भविष्यति, भवद्भिरपि चायमनादिरेव संसारोऽभ्युपगतः, अविद्यैव च संसार इत्युच्यते।
नन्वनादेरविद्यायाः कथमुच्छेदः ? किमनादेरुच्छेदो न भवति भूमे रूपस्य ? भवद्भिर्वा कथमनादिस्संसार उच्छेद्यते ? ननूपाये सत्यनादिरप्युच्छेद्यते, अद्वैतवादिनान्तु कस्तदुच्छेदोपायः ? अविद्यैवेति ब्रूमः। श्रवणमननध्यानादिरप्यविद्यैव, सा त्वभ्यस्यमाना सत्यविद्यान्तरमुत्सादयति स्वयमप्युत्सीदति, यथा पयः पयो जरयति स्वयं च जीर्यति, विषं विषान्तरं शमयति स्वयं च शाम्यति, यथा वा द्रव्यान्तररजः क्षिप्तं रजः कलुषितेऽन्भसि तच्चात्मानं संहत्य स्वच्छमम्बु करोति, तदेवमियमविद्यैवाविद्यान्तरमाच्छिन्दन्ती विद्योपायतां प्रतिपद्यते।
ननु स्वरूपेणासत्यैवेयमविद्या कथं सत्यकार्यं कुर्यात् ? उच्यते,
असत्यादपि सत्यार्थसम्पत्तिरुपपत्स्यते।
मायासर्पादयो दृष्टाः सत्यप्रभयहेतवः॥
रेखागकारादयश्चासत्याः सत्यार्थप्रतीत्युपाया दृश्यन्ते। स्वरूपेण सत्यास्ते इति चेत्, किं तेन क्रियते ? गकारादित्वेन हि ते प्रतिपादकास्तच्चैषामसत्यमिति।
ननु ब्रह्मणो नित्यशुद्धत्वाज्जीवानाञ्च ततोऽनन्यत्वात् कथं तेष्वविद्या अवकाशं लभेत ? परिहृतमेतद् घटाकाशदृष्टान्तोपवर्णनेनैव। अपि च यथा विशुद्धमपि वदनबिम्बमम्बुमणिकृपाणदर्पणाद्युपाधिवशेन श्यामदीर्घस्थूलादिरूपमपारमार्थिंकमेव दर्शयति तथा ब्रह्मणस्तदभावेऽपि जीवेषु तदवकाश इति।
न्यायमञ्जरी :—
%मोक्षे पुनरपि शङ्का%
ननु परमात्मनो नित्यत्वाज्जीवानामप्यन्योन्यमप्यनन्यत्वमित्येकस्मिन् बुद्धे मुक्ते वा सर्वे बुद्धा मुक्ता वा स्युः ? अयि कुतर्ककलुषितमते ! कथं बोध्यमानोऽपि न बुध्यसे ? घटाकाशेऽपि घटभङ्गात् परमाकाशप्रतिष्ठे जाते पटाकाशोऽपि तथा भवति। एकस्यापि जीवात्मन उपाधिभेदात् सुखदुःखानुभवभेदो दृश्यते पादे मे वेदना शिरसि मे सुखं न वेदनेति, तीव्रतरतरणितापोपनतातनुक्लमस्य च यत्रैव शरीरावयवे शिशिरहरिचन्दनपङ्कस्थासकमुपरचयति परिम्लानस्तत्रैव तद्दुःखोपरमानुभवो नेतरत्रेत्येवमेकस्मिन्नपि परमात्मनि कल्पनामात्रप्रतिष्ठेष्वपि जीवात्मसु बद्धमुक्तव्यवस्था सिध्यतीत्येकात्मवाद एवायमागमानुगुण उपयुक्तः, नानन्त्यमात्मनाम्।
ब्रह्मदर्शनमेवातो निःश्रेयसनिबन्धनम्।
भेददर्शनमूढानां संसारविरतिः कुतः॥ इति ।
न्यायमञ्जरी :—
%अद्वैतवादखण्डनम्%
अत्राभिधीयते, कपटनाटकरहस्यप्रक्रियापूर्चोपरचने तदनुगुणदृष्टान्तपरम्परोपपादने च किमुच्यते परं कौशलं भवताम् ! प्रमाणवृत्तनिरूपणे तु तपस्विन एव भवन्तः। तथा हि भेदस्य प्रमाणबाधितत्वात् किम् अयमभेदाभ्युपगमो भवताम्, उत स्विदभेदस्यैव प्रमाणसिद्धत्वादिति ? द्वयमपि नास्ति, प्रत्यक्षादीनि हि सर्वाण्येव भेदप्रतिष्ठानि प्रमाणानि, यत् तावद् भेदस्य परापेक्षत्वान् मृत्पिण्डात् प्रभृति घटकर्परचूर्णपर्यन्तकार्यपरम्परापरिच्छेदे तदनुगतमृद्रूपताग्रहणे च सति मृदस्तभिन्नरूपत्वमवतार्यते नान्यथा, भिक्षवश्चाचक्षते चाक्षुषं व्यात्तवृस्वलक्षणग्राहि नाभेदविषयम् अभेदस्य परापेक्षत्वादिति। अयमस्मादन्य इतीयं परापेक्षा प्रतीतिरिति चेत्, अयमस्मिन् अनुस्यूत इतीयमपि परापेक्षैव। तदत्रभवांश्च भिक्षुश्च द्वावपि दुर्ग्रहोपहतौ। भेदाभेदग्रहणनिपुणमक्षजमिति परीक्षितमेतद्विस्तरतः सामान्यचिन्तायाम्। अङ्गुलिचतुष्टयं हि प्रतिभासमानमितरेतरविभक्तरूपमप्यनुगतरूपमपि प्रकाशते इत्युक्तम्।
व्यावृत्तिरनुवृत्तिर्वा परापेक्षास्तु वस्तुषु।
असङ्कीर्णस्वभावा हि भावा भान्त्यक्षबुद्धिषु॥
यदप्युक्तम्, `आहुर्विधातृप्रत्यक्षम्’ इति, तदप्यसाधु, विधातृ इति कोऽर्थः, इदमपि वस्तुस्वरूपं गृह्णाति नान्यरूपं निषेधति प्रत्यक्षमिति चेन्मैवम्, अन्यरूपनिषेधमन्तरेण तत्स्वरूपपरिच्छेदस्याप्यसम्पत्तेः। पीतादिव्यवच्छिन्नं हि नीलं नीलमिति गृहीतं भवति नेतरथा। तथा चाह `तत् परिच्छिन्नं त्वन्यद् व्यवच्छिनत्ति’इति, भाववदभावमपि ग्रहीतुं प्रभवति प्रत्यक्षमिति च साधितमस्माभिरेवैतत्। तस्मादितरेतरविविक्तपदार्थस्वरूपग्राहित्वान्नाभेदविषयं प्रत्यक्षम्। शब्दानुमानयोस्तु सम्बन्धग्रहणादीनस्वविषयव्यापारयोर्भेदमन्तरेण स्वरूपमेव नावकल्पत इति तावुभावपि भेदविषयावेव। विशेषविषयत्वाभावेऽपि लिङ्गसामान्यस्य तदितरविलक्षणस्य परिच्छेदात्। वाग्रूपस्य तु परस्परोपरक्तपदार्थपुञ्जस्वभावः इतरपदार्थविशेषितान्यतमपदार्थरूपो वा वाक्यार्थो विषय इति पूर्वमेव निरूपितम्, अतः सर्वथा न भेदस्य प्रमाणाबाधितत्वम्। नाप्यभेदग्राहि किञ्चन प्रमाणमस्ति यथोक्तेनैव न्यायेन। यस्त्वागमः पठितः `एकमेवाद्वितीयं ब्रह्म नेह नानास्ति किञ्चन’ इत्यादि, तस्यार्थवादत्वान्न यथाश्रुत एवार्थो ग्रहीतव्यः।
ननु सिद्धेऽप्यर्थे वेदस्य प्रामाण्यमभ्युपगतमेव भवद्भिः, बाढमभ्युपगतम्, किन्तु `धूम एवाग्नेर्दिवा ददृशे नार्चिः’ इत्येवमादीनां प्रत्यक्षादिविरुद्धार्थाभिधायिनामर्थवादानां मुख्यां वृत्तिमपहाय गौण्यापि वृत्त्या व्याख्यानमाश्रितम्। एवमिदमपि वचनमितरप्रमाणाविरुद्वमर्थमभिदधदपरथा व्याख्यायते, ये तु प्रमाणान्तरविरुद्वार्थानुवादिनो न भवन्त्यर्थवादास्तेषामस्तु स्वरूपे प्रामाण्यं `वायुर्वै क्षेपिष्ठा देवता’ इत्येवमादीनाम्। तस्मात् सुखदुःखाद्यवस्थाभेदेऽपि नावस्थातुरात्मनो भेदः, देहेन्द्रियादिनानात्वे वा न तस्य नानात्वमित्येवं यथाकथञ्चिदयमर्थवादो योजनीयः। अबेदोपदेशी तु तत्परः शब्दो विधिरूप इह नास्ति, एवमागमबलादपि नाद्वैतसिद्धिः।
यत्पुनरविद्यादिभेदचोद्यमाशङ्क्य परिहृतं तत्राशङ्का साधीयसी समाधानं तु न पेशलम्। तत्त्वान्यत्वाभ्यामनिर्वचनीयेयमविद्यैति कोऽर्थः ?
अनादिना प्रबन्धेन प्रवृत्तावरणक्षमा।
यत्रोच्छेद्याप्यविद्येयमसती कथ्यते कथम्॥
अस्तित्वे क एनामुच्छिन्द्यादिति चेत्, कातरसन्त्रासोऽयम्। सतामेव हि वृक्षादीनामुच्छेदो दृश्यते नासतां शशविषाणादीनाम्, तदियमुच्छेद्यत्वादविद्या नित्या मा भूत् सती तु भवत्येव।
नित्यं न शक्यमुच्छेत्तुं सदनित्यन्तु शक्यते।
असत्त्वमन्यदन्या च पदार्थानामनित्यता॥
न च तत्त्वाग्रहणमात्रमविद्या संशयविपर्ययावप्यविद्यैव, तौ च भावस्वभावत्वात् कथमसन्तौ भवेताम् ? ग्रहणप्रागभावोऽपि नासन्निति शक्यते वक्तुमभावस्याप्यस्तित्वसमर्थनादिति सर्वथा नासत्यविद्या।
असत्त्वे च निषिद्धेऽस्याः सत्त्वमेव बलाद् भवेत्।
सदसद्व्यतिरिक्तो हि राशिरत्यन्तुदुर्लभः॥
सत्त्वे च द्वितीयाया अविद्याया भावान्नाद्वैतम्।
यत्तु, ब्रह्मणः सततप्रबुद्धत्वादविद्याक्षेत्रता नेति जीवानामविद्यास्पदत्वमभिहितम्, अविद्योपरमे ब्रह्मणि परमे त एव घटाकाशवल्लीयन्त इति।
तदपि न चतुरस्रम्, आकाशावच्छेदहेतोर्घटमानत्वात्, अविद्यायास्त्वसत्त्वात् तत्कृतः परमात्मनोऽवच्छेद इतिविषमोदृष्टान्तः। अवच्छेदकत्वाभावाच्च जीवविभागकल्पनापि निरवकाशैव। यच्चेतरेतराश्रयत्वं परिहर्त्तुमनादित्वमावेदितमविद्यायास्तत्र बीजाङ्कुरवद् वेद्यान्तरोपगतसंसारवच्च तस्याः सत्यत्वमेव स्यात्, अनादिप्रबन्धप्रवृत्तत्वे चास्याः प्रतिकूलहेत्वन्तरोपनिपातकृतमपाकरणमुचितम्, एकात्मवादिनान्तु तदतिदुर्घटमित्यनिर्मोक्ष एव स्यात्। यथाह भट्टः,
स्वाभाविकीमविद्याञ्च नोच्छेत्तुं कश्चिदर्हति।
विलक्षणोपपाते हि नश्येत् स्वाभाविकं क्वचित्॥
न त्वेकात्माभ्युपाधीनां हेतुरस्ति विलक्षणः॥ इति ।
यत्पुनरविद्यैव विद्योपाय इत्यत्र दृष्टान्तपरम्परोद्घाटनं कृतम्, तदपि क्लेशाय, नार्थसिद्धये, सर्वत्रोपायस्य स्वरूपेण सत्त्वादसतः खपुष्पादेरुपायत्वाभावात्, रेखागकारादीनान्तु वर्णरूपतया सत्त्वं यद्यपि नास्ति तथापि स्वरूपतो विद्यत एव।
ननु गकारोऽयमिति गृह्यमाणः स रेखासन्निवेशोऽर्थप्रत्यायको भवति न चासौ तेन रूपेणास्ति।
मैवम्, स्वरूपेणासतोऽर्थस्य रूपान्तरेणापि गृह्यमाणस्य कूटकार्षापणादेरिव व्यवहारहेतुता दृश्यते च युक्ता च। वस्तु स्वरूपत एव नास्ति तस्य स्वात्मना परात्मना वा व्यवहाराङ्गता समस्ति, रेखासन्निवेशश्च स्वरूपेण सन्निति वर्णात्मत्वेनासन्नपि तत्कार्याय पर्याप्नुयान्न त्वयमविद्यायां न्यायः स्वरूपासत्त्वात् तस्याः। सर्पादौ तु सर्पादिस्वरूपवत् तज्ज्ञानस्यापि तत्कार्यत्वमवगतमत एव शङ्काविषस्यापि स्वशास्त्रेषु चिकित्सामुपदिशन्ति। एवं नवगुहाकुहरादेष निः सृतः केसरी सरोषमित एवाभिवर्तत इत्यसत्येऽप्युक्ते यद् भीरूणां भयपलायनादि शूराणाञ्च सोत्साहमायुधोद्यमनादि सत्यं कार्यमुपलभ्यते तत्र सिंहज्ञानस्य तत्कार्यत्वात् तस्य च स्वरूपसत्त्वान्नासत एवोपायत्वम्। एतेन प्रतिबिम्बदृष्टान्तोऽपि प्रत्याख्यातः, खड्गादेर्मुखादिकालुष्यकल्पनाकारणस्य तत्र सद्भावादिह तदसद्भावादिति।
यद्यपि बद्धणुक्तव्यवस्थासिद्धिये पादवेदनाद्युदाहृतम्, तदप्येवमपाकृतम्, अवच्छेदकस्य पादादेस्तत्र तात्त्विकत्वात्, इह तु भेदकल्पनाबीजमद्वैतवादिनो दुर्घटमिति बहुशः प्रदर्शितम्।
तदेवमत्र वस्तुसंक्षेपः, अविद्यायामसत्यां सर्व एवायं यथोदाहृतो व्यवहारप्रकारस्तत्कृत इति नावतिष्ठते, सत्यान्तु तस्यां नाद्वैतमिति। अत एवाह सूत्रकारः `संख्यैकान्तासिद्धिः प्रमाणोपपत्त्यनुपपत्तिभ्याम्’ इति, यदि तावदद्वैतसिद्धौ प्रमाणमस्ति तर्हि तदेव द्वितीयमिति नाद्वैतम्। अथ नास्ति प्रमाणं तथापि नतरामद्वैतम् अप्रामाणिकायाः सिद्धेरभावादिति।
मन्त्रार्थवादोत्थविकल्पमूलमद्वैतवादं परिहृत्य तस्मात्।
उपेयतामेष पदार्थभेदः प्रत्यक्षलिङ्गागमगम्यमानः॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%अस्यार्थवादत्वान्न यथाश्रुत एवेति।% आत्ममाहात्म्यप्रतिपादनेन तदधिगमार्थे शास्त्रार्थे प्ररोचनार्थमिमे अर्थवादाः।
%तस्मात् सुखदुःखाद्यवस्थाभेदेऽपी%त्यादिना सालम्बनत्वमर्थवादानाह।
%ग्रहणप्रागभावोऽपीति।% अभेदग्रहणस्यानुत्पत्तिर्भेदग्रहणं चेति द्विविधा अविद्या तैरुक्ता।
%तत्कृतः परमात्मनोऽवच्छेद% इति। अभिन्नस्य भेदेन प्रतिभासनम्। %वाद्यन्तरोपगतसंसारवच्छे%ति। नैयायिकोक्तः संसारो यथाऽनादित्वात् तात्त्विकः तथेयं स्यादिति।
%विलक्षणोपपाते ही%ति। यथा अग्निसंयोगोपपाते परमाणुगतायाः श्यामतायाः निवृत्तिः। एकात्मविषयोऽभ्युपायोऽभ्युपगमो येषां तेषां मते न विलक्षणो द्वितीयो हेतुरस्ति आत्मैवाभ्युपायः। अविद्यानिवृत्तौ विद्या हि तदभ्युपायः, सा चात्मनो न भिन्नेति।
%सङ्गख्यैकान्तासिद्धिरिति।% अथेमे सङ्ख्यैकान्ताः सर्वमेकं सदविशेषात्, सर्वं द्वैतं नित्यानित्यभेदात्, सर्वं त्रिधा ज्ञाता ज्ञेयं ज्ञानमिति, सर्वं चतुर्धा प्रमाणं प्रमाता प्रमेयं प्रमितिरिति। एवं यथासम्भवमन्येऽपि। तामननेन सूत्रेण निराकरोति।
न्यायमञ्जरी :—
%शब्दाद्वैतवादखण्डनम्%
अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम्।
विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः॥ इति ।
उच्यते, तत्रानादिनिधनपदनिवेदिता पूर्वापरान्तरहिता वस्तुसत्ता नित्यत्वम् ब्रह्मपदप्रतिपादितञ्च व्यापित्वमित्युभयमपि शब्दस्य प्रागेव निरस्तम्। निरवयवश्च स्फोटात्मा शब्दः प्रतिक्षिप्त एव। यत्तु नित्यं वा किञ्चिदुच्यते तच्छब्दतत्त्वमित्यत्र का युक्तिः ? आह, शभ्दोपग्राह्यतया च शब्दतत्त्वम्, तथा हि सर्वः प्रत्यय उपजायमानो नानुल्लिखितशब्दक उपजायते तदुल्लेखविरहिणोऽनासादितप्रकाशस्वभावस्य प्रत्ययस्यानुत्पन्ननिर्विशेषत्वात्। इदमीदृशमित्यादिपरामर्शमुषितवपुषि वेदने वेदनात्मकतैव न भवेत्। येऽपि वृद्धव्यवहारोपयोगिवैधुर्यानवाप्तशब्दार्थसम्बन्धविशेषव्युत्पत्तयो बालदारकप्रायाः प्रमातारस्तेऽपि नूनं यत्, तत्, सत्, किमित्यादि शब्दजातमनुल्लिखन्तो न प्रतियन्ति किमपि प्रमेयम्, अतः शब्दोन्मेषप्रभावप्राप्तप्रकाशस्वभावत्वात् सर्वप्रत्ययानाम्।
न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते।
अनुविद्धमिव ज्ञानं सर्वं शब्देन गम्यते॥ इति ।
एवमनभ्युपगमे तु संविदः प्रकाशशून्यतया अनधिगतविषयः सर्व एवान्धमूकप्रायो लोकः स्यात्। आह च,
वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती।
न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी॥ इति ।
अतः क्रमेण तावदेवं बोध्यसे शब्दाख्यविशेषणानुवेधविशेषाननुभवात् सर्वंनिर्विकल्पकमिन्द्रियजमविकल्पकं वा ज्ञानं शब्दविशिष्टमर्थमवद्योतयति। गौः शुक्लो गच्छतीति जातिगुणक्रियावच्छिन्नविषयावभासिनि प्रत्यये शब्दविशिष्ट एवार्थः प्रस्फुरतीति बुद्ध्यस्व, एवं चेद् बोद्धुमवतीर्णोऽसि शब्दास्यविशेषणानुरक्तस्य तस्य विशेष्यस्य स्वरूपं पृष्टः शब्देनैव दर्शयसि शब्दापरित्यागलब्धप्रकाशस्वरूपयैव वा अनुभूत्यानुभवसीति सोऽपि विशेष्यः शब्दरूप एवेति जानीहि। तदेवं शब्द एवार्थोपारूढः प्रतिभातीति व्यवतिष्ठते। इत्थमियन्तमध्वानं चेत् प्राप्तोऽसि तदधुना यदुपारूढः शब्दः प्रकाशते तस्य पृथक् प्रदर्शयितुमनुभवितुञ्चाशक्यत्वाच्छब्द एव तथा प्रतिभातीति शब्दविवर्त एवायमर्थो नान्यः कश्चिदिति प्रतिपत्तुमर्हसि। यथा चायमिन्द्रियजेषु प्रतिभासेषु प्रक्रमस्तथा शाब्देष्वपि प्रत्ययेषु शब्दविशिष्टो वार्थः प्रतिभाति शब्दो वार्थारूढः। शब्द एवार्थरूपेण विवर्तत इति गृह्यताम्। अतश्च शब्दब्रह्मेदमेकमविद्योपाधिदर्शितविचित्रभेदमविद्योपरमे यथावस्थितरूपं प्रकाशत इति युक्तम्।
तत्राभिधीयते, न खलु प्रकारत्रयमपीदमुपपद्यते। पदपदार्थसम्बन्धव्युत्पत्तिविरहिणामनवाप्तशब्दयोजनावैरूप्यसारूप्यमात्रप्रतिशुद्धवस्तुग्रहणप्रवणेन्द्रियजप्रत्ययदर्शनात्, वृद्धव्यवहारपरिचयाधिगतशब्दार्थसम्बन्धसंस्थाधियामपि शब्दस्मरणसंस्कारप्रबोधहेतुभूतप्रथमोद्भूतविशुद्धवस्त्ववभासस्यापरिहार्यत्वात्। यत्र हि वस्तुनि निविशमानः शब्दः शब्दविद्व्यवहारेषु योऽवधृतस्तद्दर्शने तत् संस्कारप्रबोधात् स्मृतिपथमेति नान्यथेति, सामान्यशब्देष्वपि यत्, तत्, सत्, किमित्यादिषु विशेषशब्देष्विव सैव वार्ता तेषामपि व्युत्पत्त्युपयोगविरहे विविधवनविहारिविहङ्गकूजितादिव अर्थप्रतीतिहेतुत्वानुपपत्तेः। सविकल्पकदशायामपि न वाचकविशिष्टं वाच्यं मेचकगुणखचितमिव कुवलयमवलोकयतीति विस्तरतः प्रत्यक्षलक्षणे परीक्षितमेतत्। अह च,
न शब्दाभेदरूपेण बुद्धिरर्थेषु जायते।
प्राक् शब्दाद् यादृशी बुद्धिः शब्दादपि हि तादृशी॥ इति ।
संज्ञित्वमात्रमधिकमधुना ध्वनिसन्निधाने बुद्धिमधिरोहति, न तद्विशिष्टोऽर्थः, तस्य हि श्रोत्रेण नेत्रेणोभाभ्यां न, केवलेन मनसा वा ग्रहणमुपपद्यते, अतिप्रसङ्गात्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%अनादिनिधनमि%ति यद् ब्रह्मैवंरूपं तस्य प्राप्त्युपायोऽनुकारश्च वेद इति सम्बन्धः। तथा चैतच्छ्लोकपाठोत्तरकालं कतिपयश्लोकव्यवधानेन—
प्राप्त्युपायोऽनुकारश्च तस्य वेदो महर्षिभिः।
एकोऽप्यनेकधर्मेव समाम्नातः पृथक् पृथक्॥
इति पठितम्। तत्रानादिनिधनं ब्रह्मेति स्वयं व्याख्यातम्। प्रत्यक्चैतन्यात्मना विवृतस्याकारहेतुत्वादक्षरमित्युक्तम्। तच्च तस्यापारमार्थिकं रूपमद्वैतावस्थायामभावात्। एवमर्थाकारोऽपि तस्यामवस्थायां नास्ति। तदेवाह, विवर्ततेऽर्थभावनेति। ननु यथा प्रधानं साङ्ख्यदृष्ट्या तत्तदाकारपरिग्रहाद् विपरिणामि तथा ततोऽर्थोत्पत्तेर्विपरिणामित्वं प्राप्तमित्याह, प्रक्रिया जगतो यत इति। उत्पत्तेरवास्तवत्वात् प्रक्रियामात्रं संव्यवहारमात्रप्राप्तमित्याह, प्रक्रिया जगतो यत इति। उत्पत्तेरवास्तवत्वात् प्रक्रियामात्रं संव्यवहारमात्रमेव ततो जगतो न पुनः परमार्थतः किंचिदुत्पद्यते। माययैव व्यवहारपदवीमवतरन्तोऽमी जगदाख्या विकाराः, न तु ब्रह्मणा जन्यन्ते, विशुद्धादविशुद्धोत्त्पत्ययोगात्। विवर्तलक्षणं चाह हरिः, “एकस्य तत्त्वादप्रच्युतस्य भेदानुकारेणासत्यविभक्तान्यरूपोपग्राहिता विवर्तः, स्वप्नविषयप्रतिभासवत्” इति एकस्यान्यरूपस्वीकारं स्वरूपविनाशेन प्रतिपद्यते प्रतीत्यसमुत्पादवादिन इति तद्व्यवच्छेदार्थं तत्त्वादप्रच्युतस्येति विशेषणम्। एवमपि कारणस्य स्वात्मसमवायि यत् कार्यं तस्यापि परिग्रहः स्यादिति विभक्तग्रहणम्। विभक्तस्य नानाभूतस्येत्यर्थः। तथापि तत्त्वादप्रच्युतस्य धर्मान्तरतिरोधानाविर्भावाभ्यां विभक्तान्यरूपो यः परिणामस्तस्यापि प्रसङ्ग इत्यस्य इत्यसत्यग्रहणम्। एवमपि तत्त्वतस्तत्त्वमधिजहतोऽन्यरूपेण वितथत्वात् समारोपवशेन पररूपावेशाद् गोत्वस्येव बाहोकार्थोपग्राह इति तद्व्यवच्छेदार्थमाह भेदानुकारेणेति।
%शब्दोपग्राह्यतये%ति। शब्द उपग्राह्यः स्वीकर्तव्योऽस्य तदाकारस्यात्मनि व्यवहारावस्थायाः प्रकाशनात्। शब्दे तदुपग्राह्यत्वेन विवृतस्य तेन प्रतिपाद्यतयाऽलम्बनात् %शब्दोपग्राहितया% चेति शब्दमुपगृह्णाति तदाकारमात्मनि स्वीकरोति। शब्दः उपग्राही वाचकत्वेन वास्येति।
%अविद्योपाधिदर्शितविचित्रबेदमिति।% तदाह,
यः सर्वपरिकल्पानामभावेऽप्यनवस्थितः।
तर्कागमानुमानेन बहुधा परिकल्पितः॥ 1 ।
व्यतोतो भेदसंसर्गौ भावाभावौ क्रमाक्रमौ।
सत्यानृते च विश्वात्मा प्रविवेकात् प्रकाशते॥ 2 ।
अन्तर्यामी स भूतानामाराद् दूरे च दृश्यते।
सोऽत्यन्तमुक्तो मोक्षाय मुमुक्षुभिरुपास्यते॥ 3 ।
प्रकृततित्वमपि प्राप्तान् विकारानाकरोति यः।
वसुधामेव धर्मान्ते महती मेघसम्प्लवात्॥ 4 ।
तस्यैकमपि चैतन्यं बहुधा प्रविभज्यते।
अङ्गाराङ्कितमुत्पाते वारिराशेरिवोदकम्॥ 5 ।
तस्मादाकृतिगोत्रस्थाद् व्यक्तिग्रामा विकारिणः।
मारुतादिव जायन्ते वृष्टिमन्तो बलाहकाः॥ 6 ।
यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः।
सङ्कीर्णमिव मात्राभिश्चित्राभिः प्रतिपद्यते॥ 7 ।
तथेदममलं ब्रह्म निर्विकारमविद्यया।
कलुषत्वमिवापन्नं भेदरूपं प्रतीयते॥ 8 । इत्यादि ।
न्यायमञ्जरी :—
%नापि शब्दाध्यासवादः%
शब्दो ह्यनेकधर्मके धर्मिण्येकतरधर्मावधारणाभ्युपायो भवति, न तत्रात्मानमारोपयति। न हि दीपेन्द्रियप्रभृतयः प्रतीत्युपायास्तदुपेये रूपादावात्मानमारोपयन्ति, अत एव तदुपायत्वभ्रमकृतस्तदभेदवादोऽपि न युक्तः।
न ह्युपायादभिन्नत्वं तदुपेयस्य युज्यते।
रूपस्य न ह्यभिन्नत्वं दीपाद् वा चक्षुषोऽपि वा॥
अपि च, यदि शब्दादभिन्नोऽर्थः प्रतिभात्येव कोऽध्यासार्थः अध्यासभ्रमस्तु वैयाकरणानामेकाकारनिर्देशदोषनिर्मितः, यथा गौरित्येष हि निर्देशो वाच्यतद्बुद्धिवाचिनाम्। कस्त्वया दृष्टोऽर्थ इति पृष्टो गौरिति, कीदृशं ते ज्ञानमुत्पन्नं गौरिति, कीदृशं शब्दं प्रयुक्तवानसि गौरिति, तत एषा भ्रान्तिः। वस्तुतस्तु विविक्ता एवैते शब्दज्ञानार्थाः। तदुक्तम्,
गवि सास्नादिमद्रूपा गादिरूपाभिधायके।
निराकारोभयज्ञाने संवित्तिः परमार्थतः॥ इति ।
एवमिन्द्रियजेष्विव शाब्देष्विपि प्रत्ययेषु न शब्दः स्वरूपमध्यस्यतीति युक्तम्, यदि च शब्दः स्वरूपेणार्थं प्रतिपादयति तदा अक्षशब्दस्यैक्याद् देवनविभीतकरथाक्षेषु तुल्या प्रतीतिः स्यात्, न चाक्षशब्दा भिन्ना इति वक्तव्यं रूपप्रत्यभिज्ञानपायात्, तदुच्चारणे चार्थत्रय्यां संशयदर्शनात्, `भवति’ शब्दयोश्च सुप्तिङन्तयोस्तुल्यरूपत्वादध्यासपक्षे तुल्यार्थप्रतीतिहेतुत्वं प्राप्नोति, तथा च सिद्धसाध्यबुद्धिः संवेद्यमानापि निह्नुयेत। एवम् अगादिति, अश्व इति, अजापय इत्यादावपि द्रष्टव्यम्।
शब्दस्य सिद्धरूपत्वात् तदध्यासेनार्थबुद्धाविष्यमणायां `यजेत दद्याज्जुहुयाद्’ इत्यादौ न क्वचित् सा बुद्धिर्भवेत्, सिद्धाध्यासेन साध्यबुद्धेरननुरूपत्वात्। जातिगुणक्रियाशब्दाश्च `गौः शुक्लो गच्छति’ इत्यादयः केन कारणएन नियतमध्यासमनुरुन्धत इति नावगच्छामः, शब्दस्यार्थानपेक्षनिसर्गसिद्धवैश्वरूप्यकल्पनाबीजाभावात्। प्रतिनियतशब्दवृत्तेश्च कस्यचिल्लक्षणोऽनुपलक्षणात्। वृक्षपक्षशब्दयोश्च घटपटशब्दयोरिव स्वरूपभेदाविशेषादर्थानपेक्षित्वाच्च विशेषणविशेष्यभावसामानाधिकरण्ये शब्दाध्यासवादिनो न भवेताम्। न ह्येकत्र वस्तुनि वाच्ये क्वचिदनयोः शब्दयोर्वृत्तिः।
एतेन नीलोत्पलमपि प्रत्याख्यातम्। तत्रैतत्स्यात्, न नीलगुणविशेषितमुत्पलं नाम किञ्चिदस्ति विशेष्यम्, अपि तु तन्निरस्तावयवार्थम् अश्वकर्णादिवदर्थान्तरमेवेदम्, व्युत्पत्तिप्रकारमात्रन्तु विशेषणविशेष्यभाववर्णनमिति। तदेतदसमीचीनम्, अनुभूयमानावयवार्थप्रतीतिनिह्नवनिमित्तानुपलम्भात्। अश्वकर्णादौ हि युक्तमर्थान्तरत्वम्, तत्र हि नाश्वार्थो न कर्णार्थः। निरवयववाक्यार्थवादश्च प्रागेव विस्तरेण निरस्त इत्यलं पुनरुक्तालापेन।
अथ शब्दाद्वयाभ्यासनिबन्धनमेव सामानाधिकरण्यं वृक्षो वृक्ष इत्युच्यते, तदपि न चारु, वृक्षस्तरुरिति पर्याययोरपि तत्सम्भवे सति सामानाधिकरण्यप्रसङ्गात्।
अपि च, पर्यायेषु `हस्तः करः पाणिः’ इत्यादिषु शब्दरूपभेदाध्यासपक्षे अर्थबुद्धिभेदः प्राप्नोति, न चासावस्तीति नाध्यासः।
किञ्च सम्बन्धग्रहणनिरपेक्षोऽपि शब्दः स्वसामर्थ्यामनुरुध्यमानः स्वाध्यासेन बुद्धिं विदध्यात्, तदपेक्षायां कस्य केन सम्बन्ध इति न बुध्यामहे, शब्दादर्थस्य पृथग्व्यवस्थितात्मनस्तन्मते दुर्लभत्वात्। शब्दव्यतिरिक्तार्थोपगमे वा किमनेन शब्दाध्याससमर्थनाडम्बरेण ? विरम्यतामतो मृगतृष्णानुसरणरणरणकात्।
अपि चाध्यासः क्वचित् सादृश्याद् भवति शुक्ताविव रजतस्य, क्वचिदनुरागाद् भवति लाक्षया इव स्फटिके। शब्दार्थयोर्मूर्त्तामूर्त्ततयातिदूरभिन्नस्वरूपयोः सादृश्यं तावदनुपपन्नम्, अनुरागोऽपि तत एव दुर्घटः पृथग्देशत्वाद् भिन्नेन्द्रियग्राह्यत्वाच्च।
प्रतिबिम्बवर्णनमपि न सुन्दरम्। दूरदेशत्वेन शब्दार्थयोः प्राप्तेरभावात्, अप्राप्तयोश्च प्रतिबिम्बो दये द्वारकोद्याननिवासिवासुदेवसुन्दरीवदनतामरसानि सागरतरङ्गपवनपरिचयचलदलकलतिकालाञ्छितानि स्वच्छेषु ज्योत्स्नावदातद्युतिषु तुषारगिरिगह्वरगततुहिनशिलाकर्पूरदर्पणेषु प्रतिबिम्बितानि दृश्यरेन्।
अथ सर्वगतत्वेन शब्दानामर्थदेशे प्राप्तिरभिधीयते, तर्हि सकलशब्दसार्थसाधारण्यादत्यन्तमध्याससाङ्कर्यमनवधार्यमनवधार्यमाणविशेषनियमकारणमापद्यत इत्यलमतिप्रसङ्गेन। सर्वथा न सम्बद्धः शब्दाध्यासवादः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%वाच्यतद्बुद्धिवाचिनामिति% वाच्यं च तद्बुद्धिश्च वाची चेति वाच्यतद्बुद्धिवाचिनः। अस्य पूर्वमर्धम्,
शब्देनैव हि निर्देशो गृहीतेऽर्थेऽवकल्पते।
%गवि सास्नादिमद्रूपेति।% सास्नादिमदाकारा। अर्थेन स्वप्रकटनायै गृहीतत्वाद् बुद्धेस्तदाकारत्वमुच्यते, न पुनर्वस्तुतः, निराकारज्ञानवादित्वाद् मीमांसकस्य।
न्यायमञ्जरी :—
%न च शब्दविवर्त्तः%
विवर्तवादोऽपि न समञ्जसः। तथा हि विवर्ते क्षीरमिव दधिरूपेण परिणामित्वेन विकारितया वा क्षीरादेरिवानित्यत्वप्रसङ्गात्। तथाभावेऽपि च नाद्वैतसिद्धिः, दध्न इव क्षीरविकारस्य शब्दविकारस्यार्थस्य ततोऽन्यत्वात्; अन्यत्वाच्च बाधकारणकालुष्याद्युपप्लवविरहितकिसलयप्रतीतिसमर्पितभेदत्वात्। अथार्थप्रतिभासमसत्यमपीन्द्रजालवदुपदर्शयति शब्द इत्ययं विवर्तार्थः, सोऽपि न युक्तः, बाह्यस्य वस्तुनः पदाभिधेयस्य जातिव्यक्त्यादेः, वाक्यवाच्यस्यापि भावनादेः पूर्वप्रसाधितत्वात्। अवयव्यादेश्चादूर एवाग्रे समर्थितत्वात्। न चेन्द्रजालमायादिवदयथार्थतायामिह किमपि कारणमुत्पश्यामः।
अथार्थरूपेण शब्दः शुक्तिरिव रजताकारतयावभासत इतीयं विवर्तवाचोयुक्तिः, इयमपि न साधीयसी। शुक्तिका हि रजतवत् प्रकाशत इति शक्यं वस्तुं शुक्तेराकारसारूप्येण तथावभाससम्भवात्। इह तु शब्दार्थयोरत्यन्तविसदृशवपुषोराकारसमारोपकारणानवधारणात् कथमितररूपणेतरस्यावभासः। शुक्तिकारजतादिप्रतीतिषु च बाधकवशात् तथात्वमवगतम्, इह तु धर्ममहजहत् सत्यामसत्यां वा अर्थबुद्धिमादधाति शब्द इत्ययं विवर्तार्थः। एषोऽपि सम्प्रत्येव प्रतिक्षिप्तः, शब्दानुवेधविरहिणीनां प्राचुर्येण प्रतिपत्तीनां प्रदर्शितत्वात्। न चान्यः कश्चिद् विपश्चिच्चेतसि विपरिवर्तते विवर्तप्रकार इत्यवाचकमुच्यते `विवर्ततेऽर्थभावेन’ इति।
अथ शब्दब्रह्मैव सृजति जगन्तीत्ययं विवर्तप्रकार उच्यते, सोऽपि न सम्यक्, अचेतनत्वेन शब्दस्य ईश्वरस्येव स्रष्टृत्वानुपपत्तेः। न च परमाणुवदस्य कारणत्वम्, अवयवसमवायित्वेन पृथिव्यादेः कार्यस्य ग्रहणात्।
अथ `विज्ञानमानन्दं ब्रह्म’ इत्यागमवचनमनुसरता विभुत्वमिव चेतनत्वमपि शब्दब्रह्मणो वर्ण्यते, तर्हीश्वरस्यैव शब्दब्रह्मेति नाम कृतं स्यात्। यदरप्युच्यते,
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परञ्च यत्।
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति॥ इति ।
तदपि ब्रह्मसुभिक्षमत्यन्तमलौकिकमेकतरस्य ब्रह्मणः काल्पनिकत्वात्। अकाल्पनिकत्वे वा कथमद्वैतवादः ? तस्मात् कृतमनेन शब्दब्रह्मणा, स्वस्ति परस्मै ब्रह्मणे भूयात्, अविद्यामायाविनिर्मितविविधप्रथनकल्पश्च सत्ताद्वैतदूषणावसर एव निवारित इति शब्दाद्वैतमपि तद्वदसमञ्जसमसिद्धम्।
एतेन परमात्मोपादानत्वमपि प्रत्युक्तम्, परमात्मनो निसर्गनिर्मलस्य एवम्प्रायकलुषविकारकारणत्वानुपपत्तेः। असत्यमेव विकारजातमविद्यातः परमात्मनि विभातीत्येतदपि दूषितम्। अतः सर्वथा नाद्वैतपक्षः कश्चिदनवद्यः।
अथ सर्वप्राणिनामेक एवात्मा नाना नात्मान इतीदृशमद्वैतमुच्यते, तदप्यप्रमाणकम्, एकस्मिन् सुखिते न सर्वे सुखिनः, एकस्मिन् दुःखिते वा न सर्वे दुःखिता इति व्यावस्थादर्शनात्। आत्मपरव्यवहारस्य च सर्वजनप्रतीतिसिद्धस्य दुरपह्नवत्वात्। अन्यदृष्टे च सुखसाधने वस्तुनि स्मरणानुसन्धानपूर्वकेच्छाद्वेषादिकार्यजातस्यान्यत्रानुपलम्भात्। एकस्मिंश्च वीतरागे मोक्षमासादितवति संसारिणामन्येषामानन्त्यदर्शनात्। अहम्प्रत्ययस्य प्रत्यगात्मवृत्तेः परत्रासम्भवात्। जगद्वैचित्र्यस्य च पुरुषभेदनियतधर्मानिबन्धनस्यान्यथानुपपत्तेः। आत्मभेदस्य विस्पष्टसिद्धत्वात्। तप्तलोहस्फुलिङ्गक-घटाकाश-पादवेदनादिदृष्टान्तकदम्बस्य च निषेधः कृत एवेति एकात्मवादोऽपि न युक्तिमान् इत्यलं विस्तरेण।
शब्दस्यायं विवर्तः कथमखिलमिति प्रस्फुरत्तद्विविक्त-
स्वाकारोऽर्थप्रपञ्चः कथमिव विकृतिर्ब्रह्मणो वेदृशी स्यात्।
तस्मान्नानात्मतत्त्वे परिचितसदसत्कर्मपाकानुसार-
प्रादुर्भूतेश्वरेच्छावशविचलदणुप्रोद्भवो भूतसर्गः॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%द्वे ब्रह्मणी वेदितव्ये% इति। वैखर्याद्यवस्थात्रयेण विवृतं शब्दब्रह्म, परन्तु अविवृतावस्थं सकलपरिकल्पनातीतम्।
%अविद्यामायाविनिर्मिते%ति। अविद्यैव मायेन्द्रजालप्रख्या।
%एतेन परमात्मोपादनात्वमपी%ति पूर्वं त्वभेदादर्शनमविद्येत्युक्तम्, अधुना तु भेदानां परमात्मैवोपादानकारणमित्यभिधीयते। मा भूद्भेदप्रपञ्चस्य मायाप्रदर्शितत्वमसत एव। तस्मात् परमात्मैव तथाविधस्य भेदप्रपञ्चस्योपादानमिति। पूर्वत्र केवलाविद्यावशादभेदाग्रह इह तु परिणत्या अविद्यया चेति। सर्वत्र चैतन्याभिव्यक्तेरचेतनाच्चैतन्योत्पत्तेरयोगाद् व्यापकत्वात् तस्यैव कारणत्वं युक्तम्। प्रकाशात्मिकयैव शक्त्या पदार्थानामचेतनानां सत्त्वव्यवस्थापनात् तच्छक्त्या अविनिर्भाग इति।
%प्रत्यगात्मवृत्तेरि%ति प्रतिशरीरम् अञ्चतीति प्रत्यङ् नियतशरीरवर्त्ती य आत्मा तद्वृत्तेः।
%परिस्फुरदि%त्यादि प्रस्फुरन् शब्दविविक्तः स्वाकारो यस्य।
%कथमेवमिव विकृतिर्ब्रह्मणो वेदृशो स्याद्% अविशुद्धा विशुद्धस्य। विकारा हि दध्यादयो न सर्वात्मना प्रकृतिधर्मविसदृशा दृश्यन्ते। अमी तु जीवादयो विकारा नित्यप्रबुद्धशुद्धस्वभावस्य तदीयधर्माननुवर्तनात् कथं विकाराः।
न्यायमञ्जरी :—
%विज्ञानाद्वैतवादः%
एवं स्थितेषु सर्वेषु तूष्णीमद्वैतवादिषु।
विज्ञानाद्वैतवादी तु पुनः प्रत्यवतिष्ठते॥
सत्यमनुपजनमनपायमेकमपरिमितमद्वयं ब्रह्म न युक्तिमदिति युक्त एव तदनभ्युपगमः, विज्ञानमेव तु क्षणिकमुपजनापायधर्मकमनादिसन्तानप्रबन्धप्रवृत्तमिदं तथा तथावभातीति न ततोऽद्वितीयमर्थंरूपं नाम किञ्चिदस्तीति पश्यामः।
ननु प्रत्यक्षादीना प्रमाणेन परस्परविसदृशपदार्थरूपसंवेदनस्य दर्शितत्वात् कथं विज्ञानस्यायमवभासः, अर्थाभावे तत्स्वरूपानुपपत्तेः, ग्राह्यग्रहणं हि विज्ञानं नाम भवति नाग्रहणमिति।
उच्यते, इदं तावत् परीक्ष्यतां यदेतत् प्रत्यक्षविज्ञानं नीलमिदं पीतमिदमुत्पद्यते तत्र किमेक आकारः प्रकाशते उत द्वितीय इति ? यदि द्वितीयोऽवभाति अयमर्थो नीलमिदं तज्ज्ञानमिति तत् किमत्र विचार्यते, जितं भवद्भिर्जितस्य यदापद्यते तदस्मासु विधीयताम्।
अथैक एव आकारः प्रथते ? तर्ह्यस्ति विचारावसरः कस्यायमाकारः किमर्थस्य किं ज्ञानस्येति। स चैवं विचार्यमाण आकारो यद्यर्थस्येति स्थास्यति तद्भवन्तो जेष्यन्ति, ज्ञानाकारपक्षे तु वयं जेष्याम इति। किं तावदत्र युक्तम् ? ज्ञानस्यायमाकार इति। कुतः ? कल्पना भवति ह्यल्पीयसीति। अर्थाकारपक्षे ह्यर्थस्य जडात्मनः प्रकाशायोगात् तस्य ग्राह्यत्वमन्यथा न स्यादिति ग्राहकान्तरपरिकल्पनावश्यम्भाविनीति कल्पनाद्वैगुण्यम्।
अथार्थ एव ग्राह्यात्मा यः स एव ग्राहक इति कथ्यते ? स तर्हि प्रकाश एवेति संज्ञायामेष विवादः स्यात्। बाह्यान्तरकृतो विशेष इति चेत्, अहो विशेषज्ञो देवानां प्रियः। ग्राहकाद् विच्छिन्नता हि ग्राह्यस्य बाह्यता। न शरीरापेक्षिणी बाह्यता भवति, यदा च ग्राह्यादर्थादव्यतिरिक्त एव ग्राहक इष्यते, तदास्य ततोऽविच्छिन्नतेत्यबाह्यत्वाज्ज्ञानमेव तदिति कथं न नाम्नि विवादः ? उभयसिद्धत्वाज्ज्ञानस्य तस्यायमाकारो भवितुमर्हति, ज्ञाने हि न केचन विवदन्ते, अतस्तस्यैवायमाकार इति युक्तम्, अनेककल्पनातो ह्येकार्थकल्पना ज्यायसीति। अतश्च ज्ञानस्यायमाकारः।
ज्ञानं हि प्रकाशकमप्रकाशस्यार्थस्य भवद्भिरभ्युपगम्यते, ततश्चार्थात् प्रथमतरस्य ग्रहणेन भवितव्यम्, अगृहीतस्य दीपादेः प्रकाशस्य प्रकाशकत्वादर्शनात्। उत्पन्नेष्वपि च घटादिष्वर्थेषु प्रकाशवैकल्याद् वा प्रतिबन्धवैधुर्याद् वा भवत्यग्रहणं ज्ञानस्य, उत्पन्नस्य सतो न कश्चिद् ग्रहणे प्रतिबन्धकः, न च प्रकाशान्तरापेक्षणं स्वत एव दीपवत् प्रकाशस्वभावात्। अतो यदैव तस्योत्पादस्तदैव ग्रहणमवश्यं भवेत्, न चेत्, कालान्तरेऽपि न स्यात्। किं हि तस्य कालान्तरे भविष्यति, किं वा तदा नाभूद् येन तत् कालान्तरे ग्रहीष्यते तदा च न गृह्यत इति। ज्ञानान्तरेण कालान्तरे तद् ग्रहीष्यत इति चेत्, तदपि केन ग्रहीष्यते ? अन्येनेति चेत्, तदप्यन्येनेति कोऽवधिः ? श्रम इति चेत्, कामं श्रान्तो विरंस्यति भवान्, अर्थन्तु न गृहीतवानेव। प्रकाशाग्रहणे तत् प्रकाश्यपरिच्छेदायोगादित्येवं न कदाचिदर्थग्रहणं स्यात्। तस्मादर्थग्रहणवादिनापि पूर्वं ज्ञानग्रहणमवश्याश्रयणीयम्। यथोक्तम,
`अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिद्ध्यति’॥ इति ।
अतश्चैतदेवं ज्ञानपृष्ठेन चोत्तरकालमवमर्शदर्शनात्, ज्ञातो मयायमर्थ इति हि प्रत्यवमृशन्तः प्रमातारः प्रथमं ज्ञानग्रहणमनुमोदन्ते, न ह्यगृहीतविशेषणा विशेष्यबुद्धिर्भवति। तस्मादपि पूर्वं ज्ञानग्रहणमिति सिद्धम्, ज्ञानञ्च ग्राह्यमाणमाकाररहितं ग्रहीतुमशक्यमिति बलात् साकारमेव तद् ग्रहीतव्यम्। साकारे च ज्ञाने गृहीते सति द्वितीयकारणाभावात् कुतो ज्ञानातिरिक्तो बाह्योऽर्थः ? अतश्च साकारं ज्ञानमाकारवत्तामन्तरेणास्य प्रतिकर्मव्यवस्थानुपपत्तेः, कल्पयित्वापि बाह्यमर्थमवश्यमाकारवत्ता विज्ञानस्य विषयनियमसिद्धये वक्तव्या। नीलज्ञानं हीदमनेकसन्निधाने समुपजायमानं कथमखिलतदितरपदार्थपरिहारेणकेवलनीलानुलग्नतामवलम्बेत, बोधस्वभावतायाः सर्वान् प्रत्यविशिष्टत्वात्। प्रवृत्तिरपि प्रेक्षापूर्वकारिणां कथं तदेकविषयैव स्यात्। न च नीलजनितत्वेनार्थत एष तदधिगतिनियम इति कथयितुमुचितम्, आलोकलोचनादिकारकान्तरजनितत्वस्यापि भावे तद्विषयत्वप्रसङ्गात्। नीलाकारतैव नीलविषयत्वव्यवस्थाहेतुर्न निमित्तान्तरम्। आह च,
तत्रानुभवमात्रेण ज्ञानस्य सदृशात्मनः।
भाव्यं तेनात्मना येन प्रतिकर्म विभज्यते॥
तत एवाकारग्रहणमेवातिशयमाश्रित्य तमबर्थसमर्थने सति साधकतमं ज्ञानमेव प्रमाणं भविष्यति, अपरथा कारकातिशयदर्शनाभावे तत्तत्साधकतमत्वस्य दुरुपपादत्वात्, साकारज्ञानसाक्षी च लौकिकोऽपि दृश्यते व्यवहारः। एवञ्च वक्तारो भवन्ति लौकिकाः `नेलोऽर्थोऽयं यतोऽत्र तदाकारं ज्ञानमुत्पन्नमिति’। तेन प्रतिकर्मनियमान्यथानुपपत्तेरवश्यं साकारमेव ज्ञानम्।
इत्थं सत्यपि बाह्यार्थे ज्ञानस्याकारकल्पना।
भवेदेवेति तत्रैव सन्तोष्य स्थीयतां वरम्॥
ये तु ज्ञानस्य स्वतः स्वच्छस्वभावत्वेन नीलपीताद्यवभासः परोपाधिरेव भवितुमर्हति स्फटिकस्येव लाक्षादिनारुणिमाद्यनुवेधः। अतः पृथगननुभूयमानोऽपि बाह्योऽर्थः साकारज्ञानावभासान्यथानुपपत्त्यानुमीयते। यथोक्तम्, `बाह्यसिद्धिः स्याद् व्यतिरेकत’ इति।
तदिदमनुपपन्नम्, अन्वयानुपलब्धेः।
अर्थे ज्ञानं हि साकारं निराकारं तदत्यये।
नित्यानुमेयबाह्यार्थवादी ज्ञानं क्व दृष्टवान्॥
लाक्षास्फटिकादौ तु तथा युक्तम्, तदनुरक्तस्फटिकावलोकनात्। इह पुनः,
अर्थेन रज्यमानं हि निराकारं निसर्गतः।
ज्ञानंन खलु पश्यामो लाक्षया स्फटिकं यथा॥
आकारद्वयप्रतीतिर्हि नास्तीत्युक्तम्, अभ्युपगमे वा दुरुत्तरमनवस्थादूषणम्, अर्थाकारश्च प्रत्यक्षस्तत्कृतश्च ज्ञानाकारः प्रत्यक्ष इत्युच्यमानेऽर्थाकारस्तावत् साकारेण ज्ञानेन गृहीतः, स इदानीं ज्ञानाकारोऽपि, ग्राह्यत्वात् साकारज्ञानान्तरग्राह्य एव स्यादित्यनिष्टम्।
अथ स्वप्रकाशंतत् साकारं ज्ञानमिष्यते तेन ज्ञानान्तरानपेक्षणान्नानवस्थेति, तर्हि स्वप्रकाशसाकारज्ञानव्यतिरिक्तार्थाकारानवभासात् तदेवास्तु कुतो द्वितीय इदानीमर्थाकारः ? न चान्यथानुपपत्त्यापि तत्कल्पना युक्तिमती, न हि राजशासनमिदमर्थेनाकारवता भवितव्यमिति। ज्ञानमेव नीलाद्याकारं यदि भवेत् को दोषः स्यादिति। नीलाद्याकारयोगादर्थः स इति चेत्, संज्ञायां विवाद इत्युक्तम्। द्वितीयस्याभावात् स्वच्छत्वाज्ज्ञानस्य कालुष्यमन्यकृतमिति चेद् अविद्यावासनाकृतं तद् भविष्यति। स्वतः स्वच्छमपि ज्ञानमनाद्यविद्यावासनाविभवेनतत्तदनेकाकारकालुष्यरूषितवपुरिवप्रकाशते। ज्ञानवासनाभेदसन्तानयोश्च बीजाङ्कुरवदनादित्वान्नास्य पर्यनुयोगस्यावसरः `कुतो वासना प्रवृत्ता’ इति। तस्मादनादिवासनावैचित्र्यरचितज्ञानवैचित्र्योपपत्तेः कृतमनुमेयेनापि बाह्येनार्थेनेति ज्ञानस्यैवायमाकार इति सिद्धम्। अतश्च ज्ञानमर्थरहितमपि गन्धर्वनगरमायादिषु विस्पष्टमुपलभ्यते इत्यन्वयव्यतिरेकाभ्यामपि ज्ञानाकारत्वमवगच्छामः। यदि च ज्ञानादर्थः पृथगवस्थितात्मा भवेज्ज्ञानान्तरेणाप्यसावुपलभ्येत न चैवमस्ति। तस्मादभेद एव ज्ञानार्थयोः। तथाह,
`सहोपलम्भनियमादभेदो नीलतद्धियोः’। इति ।
न च ज्ञानार्थसंसर्गधर्म आकारो भवितुमर्हति, यदि हि पृथगर्थमनाकारं पृथक् च ज्ञानमनाकारमुपलभ्य संसृष्टयोर्ज्ञानार्थयोराकारवत्तामुपलभेमहि तत इममाकारं संसर्गधर्मं प्रतिपद्येमहि, न त्वयमस्ति क्रमः। अर्थरहितत्वेऽपि च स्मरणस्वप्नादिज्ञानानामाकारवत्त्वमस्तीत्युक्तम्, अतः कथं संसर्गधर्म आकारः ?
अपि च नक्षत्रं तारका तिष्य इति कथमेकस्मिन्नर्थे परस्परविरुद्धलिङ्गसमावेशः ? परिव्राजककामुककौलेयकानाञ्च कथमेक एव वनितारूपोऽर्थः कुणप इति कामिनीति भक्ष्य इति च प्रतिभासत्रितयविषयतामनुभवेत् ? दारा इति कथमेकैव स्त्रीव्यक्तिः पुंवचनबहुवचनविषयतां यायात् ? षण्णगरीति च कथं बहूनामन्यलिङ्गानामेकता स्त्रीलिङ्गता च भवेत् ? ह्रस्वदीर्घयोश्च कथं परस्परापेक्षग्रहणयोरर्थेनैकतर आकारः पारमार्थिकः स्यात् ? ज्ञानानान्तु भिन्नत्वाद् विचित्रवासनाभेदसहकारिरूपानुविधानेन जायमानानां न कश्चिदपि विरोधः। तस्माज्ज्ञानमेवेदं सर्वत्र तथा तथा प्रतिभाति न तद्व्यतिरिक्तोऽर्थो नाम कश्चिदिति ज्ञान एव चैकत्रायं प्रमाणप्रमेयप्रमितिव्यवहारः परिसमाप्यते। तस्य हि विषयाकारता प्रमेयम्, ग्राहकाकारता प्रमाणम्, स्वसंवित्तिश्च फलमिति। यथोक्तम्,
यदाभासं प्रमेयं तत् प्रमाणफलते पुनः।
ग्राहकाकारसंवित्त्योस्त्रयं नातः पृथक् कृतम्॥ इति ।
तदिदमनाद्यविद्यावासनाविलासविपर्यासिततत्त्वदर्शनतया ज्ञानमेव ग्राह्यग्राहकसंवित्तिभेदवदिव लक्ष्यते। अविद्याविरतौ तु स्वच्छमेव तत् सम्पद्यते, न किञ्चिद्वेति। तदुक्तम्,
नान्योऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवोऽपरः।
ग्राह्यग्राहकवैधुर्यात् स्वयमेव प्रकाशते॥
अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः।
ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते॥
इत्यर्थरूपरहितं संविन्मात्रं किलेदमिति पश्यन्।
परिहृत्य दुःखसंसृतिमभयं निर्वाणमाप्नोति॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%पुनः प्रत्यवतिष्ठते।% स्वमते विशेषं पश्यन्।
%न ग्रहणग्रहणम्।% स्वरूपग्रहणमित्यर्थः।
%येन प्रतिकर्म विभज्यते।% प्रतिकर्म प्रतिविषयं विभज्यते विभक्त उत्पद्यते।
%बाह्यसिद्धिः स्याद् व्यतिरेकत% इति। असति बाह्ये तदाकारस्य ज्ञानस्यानुत्पादादित्यर्थः।
%षण्णगरीति च कथं वहूनामन्यलिङ्गानामिति।% अन्यलिङ्गानां नपुंसकलिङ्गानाम्, तैश्च नगरैस्तन्तुभिरिव पटैकस्यानारम्भात् तेषामपि समुदायरूपत्वात् परमार्थसतामभावात्।
%ह्रस्वदीर्घयोश्च परस्परापेक्षग्रहणयोरिति।% किञ्चिदन्यापेक्षया ह्रस्वमपरापेक्षया च दीर्घमिति।
%तस्या नानुभवोऽपर% इति। अनुभव इति ग्राहकांशमाह। %ग्राह्यग्राहकवैधुर्यादिति।% ग्राह्यग्राहकलक्षणवैकल्यादित्यर्थः। उत्पत्तिसारूप्याम्यां हि बाह्यस्य ग्राह्यत्वं व्यस्थापितम्, तत उत्पत्तेस्तत्स्वरूपत्वाच्च बाह्यं ग्राह्यं ज्ञानञ्च ग्राहकमिति। तदेतद् ग्राह्यग्राहकयोर्लक्षणं विधुरम्, व्यभिचारादसम्भवाच्च। तथा च समनन्तरप्रत्ययादुत्पद्यते तज्ज्ञानं तत्स्वरूपञ्च, अथ तस्य न ग्राहकमिति व्यभिचारः। असम्भवस्तु ज्ञाने स्थूलस्याऽऽकारस्य प्रतिभासाद् बहिस्त्ववयव्यादेरसत्त्वादिति।
न्यायमञ्जरी :—
%विज्ञानाद्वैतवादखण्डनम्%
अत्राभिधीयते, न खल्वेक एव बोधात्मा ग्राह्यग्राहकोभयस्वभावो भवितुमर्हति ग्राह्यग्राहकरूपयोरितरेतरविसदृशत्वेनैकत्र समावेशानुपपत्तेः। तथा हि नीलज्ञानं पीतज्ञानं शुक्लज्ञानमिति नीलपीताद्युपजनापायेऽप्यनुवर्तमानबोधरूपता नीलादिविलक्षणान्वयव्यतिरेकाभ्यामवधार्यते।
अपि च ज्ञानमहङ्कारास्पदमानन्दादिस्वभावं स्वकर्मणि च सव्यापारमिव भवद्भिरभ्युपगतम्, अर्थस्तु नैवमात्मक इति कथमनयोरभेदः। यद्यपि ज्ञानमिदमर्थ इत्येवमाकारद्वयप्रतिभासो नास्ति तथाप्ययमेकोऽप्याकारः प्रतिभासमानः प्रकाश एव प्रतिभाति न प्रकाशकः। इदं नीलमिति ग्राहकाद् विच्छिन्न एव ग्राह्याकारोऽवभासते, न त्वहं नीलमिति तदैक्येनावभासोऽस्ति।
अपि च प्रकाश्यस्य नीलादेः प्रकाशकबोधाधीनं युक्तं नाम ग्रहणम् बोधस्य तु तद्ग्राहकस्य तदा किं कृतं ग्रहणमिति चिन्त्यम्, न बोधान्तरनिबन्धनम्, अनवस्थाप्रसङ्गात्, नापि स्वप्रकाशं ज्ञानम् अहं नीलमत्यप्रतिभासात्।
ननु नैव ग्राह्यग्राहकयोरन्यत्वमिति योऽयं ग्राह्यावभास इति भवता अभ्युपगतः स एव ग्राहकावभासः, ग्राहकादन्यो हि ग्राह्यो जडात्मा भवेत्, ग्राहकस्तु प्रकाशस्वभावो ग्राहकत्वादेव द्वयप्रतिभासश्च नास्तीत्युक्तम्। ततोऽन्यतरस्य प्रकाशने जडप्रकाशयोः कतरस्यावभासितुं युक्तमिति चिन्तायां बलात् प्रकाश एव प्रकाशते न जडः, निराकारश्च न प्रकाशः प्रकाशत इति, तस्मिन् साकारे प्रकाशमाने ततो जडात्मा तदतिरिक्तोऽर्थः स्यात्।
तदिदमपेशलम्, उपायेनोपेयनिह्नवस्याशक्यकरणीयत्वात्। रूपस्य हि प्रकाशकं चक्षुर्न चक्षुरेव प्रकाशतामित्युक्त्वा रूपमपह्नोतुं शक्यते। तदिदमर्थस्य मूर्तिद्रवत्वकाठिन्यादिधर्मविशेषितात्मनस्तद्विपरीतस्वच्छस्वभावम्, ज्ञानं प्रकाशकं स्वभावत्वात्। चक्षुर्जन्यो हि प्रकाशो नाम ज्ञानमुच्यते। न चागृहीतः प्रकाशः प्रकाश्यं प्रकाशयतीति। चक्षुर्जन्यः प्रकाशो नाम ज्ञानमुच्यते स तु प्रकाशो रूपादिविषयप्रकाशो न प्रकाशप्रकाशः। न हि चक्षुषा प्रकाशः प्रकाश्यतेऽपि तु रूपं प्रकाश्यते। तत्र यद्रूपमित्युच्यते स विषयो ग्राह्यः। यत् तत्प्रकाशते इत्युच्यते स प्रकाशो ज्ञानं ग्राहकम्। तदुत्पत्तिमात्रेण च रूपं प्रकाशितं भवतीति न प्रकाशो ग्रहणमपेक्षते।
ननूक्तम्,
अत्र नानुपलब्धायां बुद्धावर्थः प्रकाशते।
अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति॥ इति ।
तदयुक्तम्, अप्रत्यक्षोपलम्भस्य च प्रत्युतार्थदृष्टिः सिद्ध्यति। उपलम्भोत्पाद एवार्थदृष्टिर्न पुनरुपलम्भदृष्टिः।
ननूपलब्धेरग्रहणे तदुत्पाद उत्पन्नोपलम्भस्याप्यर्थः प्रत्यक्षः स्यादिति सर्वसर्वज्ञत्वप्रसङ्गः, तदिदमतिसुभाषितम्। अर्थप्रकाशात्मैव खलूपलम्भः स कथमनुत्पन्नादुत्पन्नेन विशेष्यते ? तस्मादर्थप्रत्यक्षीकरणात्मकत्वाज्ज्ञानस्य उत्पाद एवार्थप्रत्यक्षता, न तद्ग्रहणम् इत्यगृहीतमेव ज्ञानमर्थप्रकाशकमिति युक्तम्।
यत्त्वरूपत्वाज्ज्ञानस्य पूर्वं ग्रहणमुच्यते, तच्चक्षुरादिभिरनैकान्तिकमित्युक्तम्।
गृहीतं यदि च ज्ञानं भवेदर्थप्रकाशकम्।
धूमवद्दीपवच्चेति वक्तव्यं यदि धूमवत्॥
भवेदर्थानुमेयत्वं यत्त्वयैव च दूषितम्।
आकारद्वयसंवित्तिविरहान्न च दीपवत्॥
घटं दीपञ्च पश्यामीत्यस्ति द्वितयवेदनम्।
न तु ज्ञानेन विज्ञेयं जानामीति द्वयग्रहः॥
यदपि प्रकाशत्वाज्ज्ञानस्य दीपवत् पूर्वग्रहणमुक्तम्, तदपि व्याख्येयम्। प्रकाशत्वादिति कोऽर्थः ? प्रकाशयतीति प्रकाशत्वमिति तच्चक्षुरादिभिरनैकान्तिकमुक्तमेव। अथ प्रकाशनं प्रकाशस्तर्हि प्रकाशत्वादित्यसिद्धो हेतुर्न ह्यर्थग्रहणकाले बुद्धेः प्रकाशनमस्ति। अथ प्रकाशशब्दो बोधपर्याय एव प्रकाशत्वाद् बोधरूपत्वादित्यर्थस्तदा साधनविकलो दृष्टान्तः, प्रदीपस्य बोधरूपत्वाभावात्। अतश्च स्वसंवेदनपक्षो न युक्तियुक्तः स्वप्रकाशस्य कस्यचिदप्यदृष्टत्वात्।
ननु ज्ञानशब्ददीपास्त्रयः प्रकाशाः स्वपरप्रकाशा इत्याहुः, तदयुक्तं शब्ददीपयोः स्वग्रहणेऽर्थप्रकाशने च सामग्र्यन्तरसव्यपेक्षत्वात्। शब्दोऽर्थप्रकाशने समयग्रहणमपेक्षते, स्वप्रकाशने च श्रोत्रादि। दीपोऽपि चक्षुराद्यपेक्ष एव गृह्यते ग्राहयति चार्थम्। इयांस्तु विशेषो घटादिग्रहणे आलोकसापेक्षं चक्षुः प्रवर्तते आलोकग्रहणे तु निरपेक्षमिति। नैतावता दीपस्य स्वप्रकाशता स्यात्। इत्थञ्च मार्जारादिनक्तंचरचक्षुरपेक्षया सर्व एव घटादयः स्वप्रकाशाः स्युः। ज्ञानस्य तु परप्रकाश्यत्वमेव दृश्यते न स्वप्रकाशत्वम्, अर्थप्रकाशकाले तदप्रकाशस्य दर्शितत्वात्।
मुधैव, तस्माद् गणितास्त एते त्रयः प्रकाशाः स्वपरप्रकाशाः। आत्मप्रत्यक्षवादिनां त्ववस्थाभेदेन ग्राह्यग्राहकांशयोर्भेदो विद्यत एवेति सर्वथा न स्वप्रकाशं विज्ञानम्।
यदप्यभिहितमुत्पद्यमानमेव ज्ञानमनपेक्षत्वादप्रतिबन्धत्वाच्च तदैव गृह्यते नवा कदाचिदिति, तन्न साम्प्रतम्, तदानीं तद्ग्रहणसामग्र्यभावात्,
न चाविबन्धमात्रेण प्रतीतिरवगम्यते।
उपायविरहेणापि तदा ज्ञानस्य न ग्रहः॥
न च जैमिनीया इव वयं ज्ञानं नित्यपरोक्षमाचक्ष्महे। ज्ञातो मयायमर्थ इति कालान्तरे तद्विशिष्टार्थग्रहणदर्शनात्।
शुक्लः पट इति ज्ञाने यथासौ भाति तद्गुणः।
तता ज्ञातोऽर्थ इत्यत्र भात्यर्थो धीविशेषणः॥
न विशेष्ये च संवित्तिरगृहीतविशेषणा।
नानुसायधियं वेत्थं प्रतीयेत भ्रमाग्रहात्॥
न च नित्यपरोक्षा बुद्धिरनुमातुमपि शक्यत इति च विचारितमेव। तदलमनया कथया, किमिति शाक्यमुत्सृज्य श्रोत्रियमिदानीमभियुञ्ज्महे।
अतश्च यदुक्तं ज्ञानपृष्ठावमर्शदर्शनाज्ज्ञानग्रहणपूर्वकमर्थग्रहणमिति, तन्न सार्वत्रिकमपि तु क्वचिदेव ज्ञाननिष्ठार्थसंवेदनात् तथाभ्युपगम्यते। तस्मादर्थग्रहणात् पूर्वं ज्ञानस्यानवभासान्निराकारत्वावसायविरहाच्च ज्ञानस्यैवायमाकार इति कदाशाप्रलपितमेतदरुणाम्बराणाम्।
यत्पुनरभ्यधायि `ज्ञानाकारपक्षे कल्पना अल्पीयसी’ इति, तत्र यथोक्तनीत्या प्रत्यक्षगम्ये बाह्ये ग्राह्येऽर्थाकारे कल्पनोक्तिः कीदृशी ? कीदृशं वा तदल्पत्वं महत्त्वमित्युभयसिद्धमपि यदवादि ज्ञानस्य ? तत्र यदि प्रमाणायत्ता वस्तुस्थितिः, अर्थोऽप्युभयसिद्ध एव, इच्छाद्वेषनिबन्धनायान्तु वस्तुस्थितौ ज्ञानमपि कथमुभयसिद्धं स्यादिति यत्किञ्चिदेतत्।
यत् पुनरिदमभिहितमभ्युपगम्यापि बाह्यमर्थम्, अप्रत्याख्येयः प्रतिकर्मव्यवस्थासिद्धये ज्ञानस्याकारयोग इति, तदपि न साम्प्रतम्, प्रतिकर्मव्यवस्थायाः प्रकारान्तरेणाप्युपपत्तेः।
यदप्यनेकसन्निधाने नीलज्ञानमुपजायते यद्यपि बोधरूपत्वमशेषसाधारणं तथापि नीलेनैव कर्मकारकेण तदुपजनितमिति नीलनिष्ठमेवावतिष्ठते। चक्षुरादिनापि तज्जनितमिति चेत्, सत्यं जनितं न तु कर्मभूतेन तदुत्पाद्यत इति तदेकविषयमेव भवति। कुत एष नियम इति चेत्, वस्तुस्वभावत एव, आकारपक्षेऽपि समानोऽयं पर्यनुयोगः।
यदुच्यते किमिति नीलमेव कर्म कारकं किमिति वा कर्मविषयमेव ज्ञानमिति, तत्र वस्तुस्वभावैरुत्तरं वाच्यम्। आकारमपि च ज्ञानमुपाददानमर्थस्यैव कथमुपाददीत न कारकान्तरस्येत्यत्रापि वस्तुस्वभाव एव शरणमिति। अर्थस्य च ज्ञानजनकत्वमन्वयव्यतिरेकाभ्यामवगम्यते।
यदा हि देवदत्तार्थी कश्चिद् व्रजति तद्गृहम्।
तत्रासन्निहितं चैनं गत्वापि न स पश्यति॥
क्षणान्तरे स आयान्तं देवदत्तं निरीक्षते।
तत्र तत्सदसत्त्वेन तथात्वं वेत्ति तद्वियः॥
अनागते देवदत्ते न देवदत्तज्ञानमुदपादि तस्मिन्नागते तदुत्पन्नमिति तद्भावभावित्वात् तज्जन्यं तदवसीयते। इत्थञ्च तज्जन्यत्वेन तत्र नियमसिद्धेरलमाकारकल्पनया। एतेन पुरुषप्रवृत्तिरपि नियतविषया व्याख्याता, साधकतमत्वं तु सामग्र्याः प्रमाणसामान्यलक्षणे निर्णीतमेव।
यस्तु लौकिकव्यपदेश उदाहृतः, सोऽपि व्यभिचरति नीलोऽयं यतस्तद्विषयं ज्ञानमुत्पन्नमित्यपि न तद् व्यपदिशन्ति लौकिकाः, तस्मात् `अर्थे सत्यपि साकारं ज्ञानमेषितव्यम्’ इति यदुक्तं तदनुपपन्नम्।
यदप्यवर्णि `सहोपलम्भनियमादभेदो नीलतद्धियोः’ इति तदपि बालभाषितमिव नः प्रतिभाति, अभेदे सहार्थानुपपत्तेः, अथ `एकोपलम्भनियमात्’ इति हेत्वर्थो विवक्षितः, तदयमसिद्धो हेतुर्नीलादिग्राह्यग्रहणसमये तद्ग्राहकानुपलम्भात्। ग्राहकाकारानुवेधरहिततद्विच्छिन्नो बाह्यग्राह्यमात्रप्रतिभास एवायं नीलमिदमित्यादिनादर्शितः। क्वचिच्च ग्राह्याकारानुपश्लिष्टकेवलग्राहकावमर्शनमपि दृश्यते, न स्मरामि मया कोऽपि गृहीतोऽर्थस्तदेति हीति। तदेवमितरेतरविभक्तज्ञानार्थाकारसंवेदनात् कथम् `एकोपलम्भनियमादभेदो नीलतद्धियोः’ इत्युच्यते। नीलतद्धियोरिति च वदता भवताप्येष भेद एव निर्दिश्यते। परमतानुवादमात्रमेतदिति चेत्, न, अभेदे पृथङ् निर्देशस्याप्यघटमानत्वात्। तस्मादपि न ज्ञानस्यायमाकारः।
यदप्युक्तम् `असत्यपि बाह्येऽर्थे स्वप्नगन्धर्वनगरमायादिषु ज्ञानस्याकारवत्ता दृश्यत इति तस्यैवायमाकारो युक्तः’ इति, तदपि दुराशामात्रम्, सर्वत्र ज्ञानाद् विच्छिन्नस्य ग्राह्याकारस्य प्रतिभासनात्। तथा हि, भ्रमज्ञानेषु चतुष्टयी गतिरात्मख्यातिरसत्ख्यातिरख्यातिर्विपरीतख्यातिर्वा। तत्र रजतमिदमिति सामानाधिकरण्येनैकार्थप्रतिभासात् तन्मते च संवित्तेरपरोक्षत्वाद् रजताधिगमाभिधानेन तदर्थिनस्तत्र प्रवृत्तेर्बाधकप्रत्ययस्य तथाविधबोधनिषेधपरत्वेन प्रादुर्भावात् न तावदख्यातिरिति प्रागेव प्रसाधितमेतत्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%अहं नीलमित्यप्रतिभासादिति।% ग्राहकस्यापि साकारत्वाभ्युपगमात् तदीयस्य नीलाकारस्य `अहं’ शब्दसामानाधिकरण्येनाप्रतिभासनात्।
%तदिदमर्थस्य मूर्तिद्रवत्वैति।% तद्विपरीतस्य गुणकर्मसामान्यादेः।
%भवेदर्थानुमेयत्वं यत् त्वयैव च दूषितमिति।% “बाह्यसिद्धिः स्याद् व्यतिरेकतः” इति सौत्रान्तिकमतं दूषयता त्वया दूषितमिति।
%सर्व एव घटादयः स्वप्रकाशाः स्युरिति।% यदि हि दीपो दीपान्तरं नापेक्षत इति स्वप्रकाशस्तर्हि मार्जारचक्षुषा प्रकाशनिरपेक्षेण गृह्यन्त इति अन्येनापि पदार्था गृह्यमाणाः स्वप्रकाशाः स्युरिति।
न्यायमञ्जरी :—
%असत्ख्यातिखण्डनम्%
असत्ख्यातिरपि नास्ति, एकान्तासतः खपुष्पादेः प्रतिभासायोगात्। देशकालव्यवहितानुभूतपूर्वपदार्थविषय एव भ्रान्तोऽपि प्रत्ययः प्राणभृतो भवति, न त्वत्यन्तासदर्थविषयः। तथा हि द्विविधा भ्रान्तिर्बाह्येन्द्रियजा मानसी च। तत्र बाह्येन्द्रियजे भ्रमज्ञाने विषयदोषादिन्द्रियदोषाद् वा समुत्पद्यमाने न क्वचिन्निरालम्बनता दृश्यते। भास्वररूपसादृश्येन हि विषयदोषेण शुक्तिकारजतमिति परिस्फुरति। मरुस्थलपतितोत्फलितं सावित्रं तेजस्तरलतरङ्गसारूप्येण पय इति चकास्ति। इन्द्रियदोषादपि पित्तोपहतरसनस्य तिक्ततया शर्करावभासते, तिमिरसीमन्तितनयनवृत्तेश्चन्द्रमण्डलमेकमपि द्विधा प्रतिभाति, तिमिरकणनिकरविवरविरचितप्रसृताश्च नयनरश्मयः सूर्यांशुसंवलिताः सन्तः सूक्ष्मतया केशकूर्चकाकाराः प्रतिभान्तीति।
अन्तः करणदोषेण विभ्रमो यस्तु जायते।
असत्यपि महेलादौ पुष्पेषु मुषितात्मनाम्॥
सोऽपि कश्चिद्विषयदोषहा भवति कुत्रचित्।
कोमलानिलकल्लोलवेल्लिते बालपल्लवे॥
अनपेक्षिततत्तुल्यपदार्थस्यैव या पुनः।
मानसी मन्मथोन्मादमहिम्ना मानिनीमतिः॥
तस्यामपि रोगादिवासनाबलोपप्लवमानसंवृत्याद्युपस्थापितदेशकालव्यवहितोपलब्धपूर्वपुरन्ध्रिरूपसमुल्लेखो न त्वेकान्तासतः खरविषाणादेरिव, प्रतिभानिद्रादिमनोदोषजन्मनि स्वप्नेऽपि दृष्टपूर्वस्यैव तस्याकारस्योल्लेखः।
ज्वलज्जलगद्वह्निद्रवदद्र्यादिदर्शने।
रूपमन्यस्थमन्यत्र वेत्ति न त्वसदेव तत्॥
तदेवं भ्रान्तबोधेषु नास्त्यत्यन्तासतां प्रथा।
देशकालान्यथात्वं तु केवलं भाति वस्तुनः॥
ननु तत्रासतोऽर्थस्य प्रतिभासे देशान्तरादिषु सत्त्वं क्वोपयुज्यते, देशान्तरेऽपि सन्नसन् वा ? तत्र तावन्नास्त्येव सोऽर्थः, न च द्वयोरसत्त्वयोः कश्चिद् विशेषः। देशकालावपि किं सन्तावसन्तौ वा प्रतिभासेते इति विकल्पनायां तथा तयोरपि तुल्यो दोषः।
मैवम्, भवतोऽप्यसत्ख्यातिवादिनः किं सर्वत्रैव तदर्थासत्त्वं सम्यतम्, उत तद्देश एव ? तत्रासन्निधानमात्रेण तावत्क इव तव स्वार्थः। सर्वत्रासतस्त्ववभासे कुतस्त्य एष नियमो यदसत्त्वाविशेषेऽपि रजतादि सम्प्रतीयते न खरविषाणादीति। अयञ्च द्वयोरसत्त्वयोर्विशेषो देशान्तरादिषु सतोऽर्थस्य स्मरणआद्युपारोहेण प्रतिभासमानता दृश्यते, न त्वेकान्तासत इति। एवं देशकालयोरपि सदसद् विकल्पचोद्यं परिहर्तव्यम्। अतश्च किञ्चिदपि नात्यन्तासदर्थग्राहि ज्ञानमस्तीति किं दृष्टान्तबलेन सर्वत्रार्थशून्यता कल्प्येत ? तस्मान्नासत्ख्यातिः।
न्यायमञ्जरी :—
%आत्मख्यातिखण्डनम्%
आत्मख्यातेस्तु निराकरणाय सोऽयमियान् कलिर्वर्तते, तत्र च बहुशः कथितं ग्राहकाद् विच्छिन्नमेव ग्राह्यमवभासते नीलमिदमिति। न तु तदभेदेन नीलमहमिति। भ्रान्तिज्ञानेषु तदर्थसन्निधानाद् भ्रान्तत्वमस्तु नात्मतत्त्वग्रहणमिति यच्चोद्यते `तदन्तर्ज्ञेयरूपं हि बहिर्वदवभासते’ इति सेयं विपरीतख्यातिरेवाङ्गीकृता स्यात्, तद्वरमेव तपस्विनी साधीयसी।
अथ कथ्यते ग्राहकात् सत्यं विच्छिन्नं ग्राह्यं तत्तु ज्ञानरूपमेवेति, तत्र विच्छिन्नमिति प्रियमावेदितं ज्ञानत्वे तु तस्य का युक्तिः ? न च ज्ञानयोर्युगपदुत्पन्नयोर्वा क्रमभाविनोर्वा ग्राह्यग्राहकभाव उपपद्यते, यौगपद्ये सव्येतरगोविषाणवद् ग्राह्यग्राहकनियमाभावात्। क्रमपक्षेऽपि पूर्वमुत्तरस्य ग्राहकात् तदुत्पत्तिस्तद्ग्रहणकालप्रतीक्षणात् क्षणिकतां जह्यात्। उत्तरमपि यदि पूर्वस्य ग्राहकं तथापि सैव वार्ता, तावत्कालस्थितिमन्तरेण तद्ग्राह्यतानुपपत्तेः। न च ज्ञानत्वं नाम सामान्यं ग्राह्यग्राहकयोरनुगतं गोत्वमपि शाबलेयादौ भाति, अतो विच्छिन्नश्चेद् ग्राहकाद् ग्राह्यः सोऽन्य एव भवेदिति न ज्ञानस्यायमाकारः।
यत्तु संसर्गधर्म आकारो न भवति इति भाषितम्, तद्युक्तमेव।
न कुण्डदधिवत् कश्चित् संसर्गोंऽस्त्यर्थबोधयोः।
तत्कृताकारवत्ता वा प्रागनाकारयोस्तयोः॥
तदेवं शाक्योक्तयुक्तिकौशलदौर्बल्यात् सर्वत्र विच्छेदप्रतिभासात् स्वच्छात्मनश्च ज्ञानस्य स्वतो विचित्रत्वानुपपत्तेरर्थस्यैवायमाकार इति सिद्धम्।
यत्त्वाकारपक्षे चोदितमेकत्रार्थो नक्षत्रं तारका तिष्य इति परस्परविरुद्धाकारसमावेशो न युक्त इति, तत्रोच्यते, अनुपपन्नमिति नः क्व संप्रत्ययो यन्न प्रमाणेनावगतं विरुद्धमपि तद् बुद्ध्यामहे यदेकत्र निविशमानं न पश्यामः। तदिह यद्यबाधितेन ज्ञानेन विस्पष्टमाकारत्रयमेकत्र गृह्यते तत्कथमनुपपन्नं स्याद् विरुद्धमिति।
अथैकं सम्यक्प्रमाणपरिनिश्चितरूपमितरत् काल्पनिकमिति प्रतीयते तदेवमस्तु को दोषः ? दृष्टश्च चित्रादावनेकवर्णसमावेशः, न चैकत्र विरोधमविरोधं वा दृष्ट्वा सर्वत्र तत्कल्पनमुचितम्, अबाधितावगतिनिबन्धना हि वस्तुस्थितयो भवन्ति न कल्पनानिर्मिताः।
अपि वा वस्तुताद्रूप्यसदसत्तानपेक्षया।
शब्दप्रयोगसाधुत्वमन्वाख्यायेत केवलम्॥
दारा इति नैकस्याः स्त्रीव्यक्तेः पुंस्त्वं बहुत्वं वा विद्यते शब्दस्त्वेष तत्र प्रयुज्यमानः साधुर्भवति।
नार्थासंस्पर्शिता चास्य तावतां व्यवतिष्ठते।
असौ तदात्मकं वस्तु तथा शक्नोति भाषितुम्॥
परिव्राट्प्रभृतीनाञ्च कुणपादिप्रतीतयः।
अर्थस्यानेकशक्तित्वान्नावहन्त्यर्थशून्यताम्॥
किं न भक्षयितुं शक्या नारी कौलेयकेन सा।
किं वा न शमयत्येषा कामिनो मदनज्वरम्॥
शवाद् वा केन रूपेण सा विशिष्येत योगिनः।
धीत्रयन्तु न सर्वेषामभावात् सहकारिणः॥
प्रतिप्राणिनियतानेकविधवासनासहकारिसापेक्षो हि तस्य ज्ञानस्यात्मलाभ इति न सर्वेषां सर्वसारूप्येण ज्ञानम्।
यद्येवं वासनाभेद एव विविधप्रतिभोद्भवहेतुर्भवति किमर्थकल्पनया ? अयि साधो किमद्यापि न परिहरसि सुचिरं गुणितां कल्पनावाचोयुक्तिम्। न ह्यर्थः कल्प्यते अपि तु प्रतिभासत एव। बहुरूपस्य तु तस्यैकतमरूपपरिच्छेदनियमे किमपि वासनादि कारणं क्वचित् कल्प्यते, कस्तावतार्थनिह्नवस्यावकाशः ?
यच्चेत्थम्, वासनाभेद एव ज्ञानवैचित्र्यकारणम् इतरेतरकार्यकारणभावप्रबन्धश्च बीजाङ्कुरवदनादिर्ज्ञानवासनयोरिति, तदप्यघटमानम्। केयं वासना नाम ? ज्ञानादव्यतिरिक्ता चेत् सापि स्वच्छरूपत्वान्न ज्ञानकालुष्यकारणं भवेत्, ज्ञानव्यतिरिक्ता चेद् वासना तद्वैचित्र्यहेतुश्च सोऽर्थ एव पर्यायान्तरेणोक्तः स्यात्।
अपि च वासना विषयानुभवसमाहितः संस्कार इति लोके प्रसिद्धः। संस्कारश्च यदनुभवघटितस्तत्रैव क्वचिदवसरे स्मरणमनुभवति, न पुनरसदेव वैचित्र्यमिदमीदृशमावहति।
किञ्च भिक्षुपक्षे क्षणिकत्वेन ज्ञानानां ग्राह्यग्राहकभाव इव वास्यवासकभावोऽपि निराकर्त्तव्यः। स्थायिनो हि भावास्तिलादयः स्थायिभिरेव चम्पकादिभिर्वास्यन्ते न तूत्पद्य सपद्येव नश्यद्भिर्ज्ञानैस्तादृंश्येव ज्ञानानीति।
निरन्वयविनाशाच्च न तदंशोऽनुवर्तते।
यतः कथञ्चिद् वास्येत पूर्वेण ज्ञानमुत्तरम्॥
अपि चैकत्र देवदत्तसन्ताने वासना यतः सहस्राणि ज्ञानवैचित्र्यकारीणि भवेयुः, न हि गोवासनातो हस्तिज्ञानमुदेति।
अनन्तत्वेऽपि खल्वासामारम्भे नियमः कुतः।
असमञ्जसकारित्वे व्यवहारस्य विप्लवः॥
धूमज्ञानसमुत्पादे धूमवासनया कृते।
कं तदा न जलज्ञानं जनयेज्जलवासना॥
वासनाश्च स्वसदृशवासनासन्तानारम्भहेतव एव भवेयुर्न पुनरनुभवज्ञानमाधातुमुद्यच्छेयुः। सदृशात् सदृशोत्पत्तिरिति हि भवतां दर्शनम्।
अपि च न निराधारा वासना आसते न च भवत्पक्षे तदाधारः कश्चन सम्भवति, भङ्गुरत्वेन ज्ञानस्य तदाश्रयत्वानुपपत्तेः, एकज्ञानाश्रितत्वे सर्वासां वासनानां तद्विनाशे नाशः स्यात्। प्रतिवासनमाश्रयभेदे तदानन्त्यम्, अनियमश्च शतशाखः। न चालयविज्ञानं नाम किञ्चिदस्ति, सत्यपि तस्मिन्नशेषवासनासहस्रसमाश्रये तत् क्षणिकत्वात् सकृदेव तथाविधवासनानुकूलमूलज्ञानविनाशः स्यात्। पुनरुत्पादे तथाविधमेव तज्ज्ञानमुत्पद्यते न तु गवाश्वादिक्रमनियमो भवेदिति सर्वथा सङ्कटोऽयं पन्थाः। तस्मान्मृगतृष्णैषा तपस्विनां वासनात एव लोकयात्रासिद्धेः किं बाह्येनार्थेनेति।
कृतमतिवाचालतया चिरमपि निपुणैर्निरूप्यमाणोऽतः।
अर्थस्यैव न बुद्धेः सिध्यति नीलादिराकारः॥
एकश्च बोधः प्रमितिप्रमाणप्रमेयरूपाणि कथं बिभर्ति।
भिन्नप्रमाणात् फलमभ्यधायि प्रत्यक्षचिन्तावसरे पुरस्तात्॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%न च ज्ञानत्वं सामान्यमिति।% यदि हि ज्ञानत्वमुभयोरनुगतं प्रतिभासेत ज्ञानयोर्ग्राह्यग्राहकत्वं कथञ्चित् कल्प्येत। %अतो विच्छिन्नश्चेदि%ति। यत एव ज्ञानत्वे च ग्राह्यांशस्य परामर्शो नास्ति तत एव।
%दुष्टश्च चित्रादावनेकवर्णसमावेश% इति। न चासौ दृष्टत्वादेवापारमार्थिक इति शेषः।
%तथा शक्नोति भाषितम्% बहुवचनादियुक्तो नान्यथा।
%किञ्च भिक्षुपक्षे क्षणिकत्वेन ज्ञानाना%मित्यादिना वासनामात्रेण शब्दार्थाघटमानतामाहुः।
द्वौ हि विज्ञानसन्तानौ, शक्तिविज्ञानसन्तानः प्रवृत्तिविज्ञानसन्तानश्च। तत्र प्रवृत्तिविज्ञानं शक्तिविज्ञानात् सहभाविनो लब्धपरिपाकां वासनामपेक्ष्य विशिष्टमुत्तरं प्रवृत्तिज्ञानं जनयति। शक्तिविज्ञानं च सहजप्रवृत्तिविज्ञानसहितं विशिष्टमुत्तरमालयविज्ञानमित्येवमुत्तरोत्तराण्यपि ज्ञानानि। वासनापरिपाकहेतुश्च क्वचित् तदेव सहभावि प्रवृत्तिज्ञानम्, यथा धूमज्ञानं स्वयमालयविज्ञानगतामग्निज्ञानवासनामुद्बोधयत् तया सहितमग्निज्ञानं जनयतीत्येवं च ज्ञानवैचित्र्यस्यापि न निर्हेतुकत्वम्। यदाह,
अनादिवासनाहेतुरलीकस्यावभासनम्।
आलयज्ञानसन्तत्या ततो नाहेतुकं भवेत्॥
तावुभौ ज्ञानसन्तानावेकत्रावस्थितावपटुत्वात् तु शक्तिरूपविज्ञानसन्तानाननुभवपटुत्वेन चेतरस्य संवित्तिरिति, एवं च कथं निराधारत्वादिचोद्यावकाश इत्याशङ्क्याह, %न चालयविज्ञानं नाम किञ्चिदस्ती%ति। आलीयन्ते प्रवृत्तिज्ञानैर्जनिता वासना एकत्र यस्मिंस्तदालयविज्ञानं शक्तिविज्ञानमिति चोच्यते।
न्यायमञ्जरी :—
%बाह्यार्थाभावखण्डनम्%
ये तु ब्रुवते, तिष्ठतु तावत् प्रमाणमात्रं प्रमेयमेव विकल्पयन्तो न बाह्यमर्थं कञ्चन निरपवादं प्रतिपद्यामहे। तथा हि न तावदयमवयवी घटादिरवकल्पते अवयवव्यतिरेकेणावयविनोऽनुपलम्भात्। यो हि यस्माद् व्यतिरिक्तः स तदधिष्ठितदेशव्यतिरिक्तदेशाधिष्ठान उपलभ्यते घटादिव पटः, न चैवमवयवेभ्यः पृथग्देशा दृश्यन्ते, न चावयवानुपलब्धाववयवीति कथमेतेभ्यो भिद्यते, अवयवग्रहणानुपपत्तेश्च। न हि सर्वे तदवयवाः शक्यन्ते ग्रहीतुमर्वाग्भागवर्तिन एव गृह्येरन्न मध्यपरभागगता इति। यदा बुद्ध्या विविनक्तिः एष तन्तुरेष तन्तुरिति तदा प्राच्यादञ्चलात् प्रभृति प्रतीचीनमञ्चलं यावद् विवञ्चन्नसौ तन्तुसन्ततिमेव केवलामुपलभते न ततोऽतिरिक्तपटावयविनम्। वृत्त्यनुपपत्तेश्च, नैकत्रावयवे कार्त्स्न्येनावयवी वर्तते, तेष्वपि कथं वर्तते अन्यैरेकदेशैस्तेष्वपि अन्यैरिति नास्त्यन्यः। असम्बद्धस्त्वेकदेशैरवयवेष्वस्तीति कथं तद्द्वारकैरपि सम्बध्येत। तस्माद् अयमपि न, अस्य वृत्तिरवयवेष्वस्तीति। कथं धारणाकर्षणादि त्वनारब्धकार्ये काष्ठमूलककार्पासादावपि दृश्यते इत्यनैकान्तिकम्। एकाकारा तु प्रतीतिर्विकल्पमात्रम्, एकदेशावस्थानादिनिमित्तमाश्रित्य करितुरगपदातिष्विव सेनेति, धवखदिरपलाशादिष्विव वनमिति। सञ्चितेष्ववयवेष्वेव घट इत्यादि प्रतीतिर्भविष्यतीत्येवमवयव्यवयवावयवपर्यालोचनयाणुसञ्चयमात्रमेवावशिष्यते नान्यत्। सञ्चयोऽपि च व्यतिरिक्ताव्यतिरिक्ततया चिन्त्यमानो नास्त्येव इत्यणव एवावशिष्यन्ते। परमाणवोऽपि,
`षट्केन युगपद् योगात् परमाणोः षडंशता’।
इत्येवं विकल्प्यमाना विप्लवन्त एव, न च तैरतिसूक्ष्मैरेष व्यवहारोऽभिनिर्वर्त्यत इति। तस्माद् बाह्यस्य प्रमेयस्यैव निरूप्यमाणस्यानुपपत्तेर्विज्ञानमात्रमेवेदमित्यभ्युपगमनीयम्।
तेऽप्येवं वदन्तः प्राक्तनेभ्योऽपि भिक्षुभ्यः कृपणतरा इव लक्ष्यन्ते। अपूर्व एष तर्कमार्गो यत्र प्रतीतिमुत्सृज्य तर्जनीविस्फोटनेन वस्तुव्यवस्थाः क्रियन्ते।
दृढेन चेत् प्रमाणेन बाधादिरहितात्मना।
गृहीत एवावयवी किमेभिर्बालवल्गितैः॥
अथ नास्ति प्रमाणेन केनचित् तदुपग्रहः।
एतदेवोच्यतां वृत्तिविकल्पैः किं प्रयोजनम्॥
न च शक्नुमः पदे पदे वयमेभिरभिनवमल्पमपि किञ्चिदपश्यद्भिस्तदेव पुनः पुनः प्रकुर्वद्भिः शाक्यनर्तकैः सह कलहमतिमात्रं कर्तुम्। अविकल्पं प्रत्यक्षं प्रमाणमिति साधितम्। निर्विकल्पकेनापि शब्दोल्लेखमात्ररहितमविकल्पकग्राह्यमेव वस्तु गृह्यत इति दर्शितम्। एकाकारविषयव्यतिरेकेण च तद्बुद्धेरेककार्यत्वैकदेशव्यवस्थानाद्यन्यथासिद्धिनिबन्धनमपि न किञ्चिद्वक्तुं शक्यत इत्युपवर्णितम्। क्वचिद् वा पृतनादौ बाधकोपनिपातादेवावगतिमिथ्यात्वान्न सर्वत्र मिथ्यात्वकल्पना युक्तेत्यप्युक्तम्। किं वा तदस्ति यत् सामान्यसमर्थनावसरे न कथितम्। तस्मात् तयैव नीत्यावयव्यपि सिद्ध एव, तद्ग्राहिणः प्रत्यक्षस्य निरपवादत्वात्।
यत्तु `देशभेदेनाग्रहणात्’ `तदग्रहे तद्बुद्ध्यभावात्’ इति, तत्रावयवाश्रितत्वमेव निमित्तं नासत्त्वम्।
देशभेदेन हि ज्ञानं तत्त्वे तस्य कथं भवेत्।
न हि कश्चित् स्वतन्त्रोऽसावपि त्ववयवाश्रितः॥
यावतां ग्रहणे चास्मिन् बुद्धिर्भवति तावताम्।
अपेक्षतेऽसौ ग्रहणे न सर्वेषामिति स्थितिः॥
विविच्यमानेष्वंशेषु युक्तस्तदनुपग्रहः।
तदावयविनाशो हि बुद्धौ विपरिवर्तते॥
अवयवविभागो ह्यवयविनो विभागहेतुस्तस्मिन् बुद्ध्या समुल्लिख्यमानेऽवयवविनाशोऽपि नानुल्लिखितो भवेदिति कथमवयवी तदानीं गम्यते।
वृत्तिश्चावयवेष्वस्य व्यासज्यैवेति गम्यते।
न प्रत्यवयवं तस्य समाप्तिर्व्यक्तिजातिवत्॥
व्यासज्य वर्तमानोऽपि न खल्ववयवान्तरैः।
वर्तते तदसंवित्तेः किन्तु वर्तत एव सः॥
तथा चाहुः `वर्तत एव ब्रूमः, अनाश्रितस्यानुपलम्भात्’।
वृत्तिरेवंविधान्यत्र क्व दृष्टेति तदुच्यते।
प्रत्यक्षदृष्ट एवार्थे दृष्टान्तान्वेषणेन किम्॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%धारणाकर्षणादि त्विति।% एकस्यावयवस्य धारयणे सर्वस्य धारणमेकस्य चाकर्षणे सर्वस्याकर्षणमसत्यवयविनि न स्यादिति। %काष्ठेति% काष्ठमूलकेऽनारब्धकार्यत्वम् अन्त्यावयविनामनारम्भकत्वात्। %षट्केण युगपद् योगादि%त्यस्योत्तरमर्धम् `तेषां समानदेशत्वे पिण्डः स्यादणुमात्रकः’। दिक्चतुष्टयादूर्ध्वभागादधोभागाच्चागतैः परमाणुभिरेकस्य परमाणोरवश्यंयोगो वक्तव्योऽन्यथा सञ्चयाभावात्। तत्र भिन्नैर्भागैर्योगः परमाणोः। सावयवत्वात् तस्यान्येऽवयवाः कल्प्याः, तेषामपि कल्पितावयवानां परस्परमयमेव न्याय इत्यनवस्था। अथ निर्भागत्वात् परमाणोयंथैकेन सम्बन्धस्तथापरेणापीति, तदेवमेकदेशत्वादणुमात्रपरिमाणस्तत्सञ्चयः स्यादित्यर्थः।
%अवयविविनाशोऽपि नानुल्लिखितो भवेद्% अवयवविभागहेतुत्वात् तन्नाशस्य।
%वृत्तिश्च व्यासज्यैवेति।% कार्त्सन्येन सकलावयवेषु न, एकैकपरिसमाप्त्या।
न्यायमञ्जरी :—
%वाह्यार्थसिद्धिः%
तस्मात् प्रत्यक्षत एवावयववृत्तेरवयविन उपलब्धेर्न तद्वृत्तौ विकल्पानामवसरः। स्रक्सूत्रादिवृत्तिरपि तथा दर्शनादभ्युपगता तदियमवयविवृत्तिरपीदृशी दृश्यमाना किमिति निह्नूयते। न चावयविग्राहिणः प्रत्यक्षस्य कश्चिदपवादः समस्ति।
अदृष्टकरणोद्भूतमनाविर्भूतबाधकम्।
असन्दिग्धञ्च विज्ञानं कथं मिथ्येति कथ्यते॥
न च सेनावनवदवयविग्रहणमभिधातुमुचितम् अबाधितत्वात्, सेनादौ च बाधकसम्भवात्। अपि च गजवाजिपदातिपीलुपलाशशिंशपादिदर्शनस्य तत्र घटमानत्वात् तत्समवाये सेनावनादिप्रतीतिरुत्पद्येतापि, इह तु किंसमुदायविषयः पटप्रत्यय इति चिन्त्यम्। तन्तुसमुदायालम्बन इति चेत्, तन्तुप्रत्यय इदानीं किमालम्बनः ? सोऽपि स्वावयवालम्बन इत्येवमवयवावयवनिरूपणे परमाणवः पत्त्यश्वशमीशिंशपादिस्थानीया वक्तव्याः, तेषाञ्च तद्वद्ग्रहणमनुपपन्नमतीन्द्रियत्वादिति न तदालम्बनोऽवयविप्रत्ययः। तस्मादवयवी प्रत्यक्षग्राह्योऽस्तीति सिद्धम्। परमाणवोऽपि कार्यानुमानपरिनिश्चितनित्यनिरवयवस्वरूपाः सन्तीति पूर्वमेव समर्थितम्। अतो न षट्कयोगादिना सावयवत्वमेषामुपपादयितुं पार्यते। मूर्तत्वमप्यनित्यतायामप्रयोजकमिति दर्शयिष्यतेऽतः प्रमेयपर्यालोचनवर्त्मनापि शून्यवादसमर्थनं न सुशकम्। प्रमेयविचारोऽपि निष्प्रमाणवृत्तमेव निरूप्यते। ततश्च प्रमाणचर्चातो बिभ्यद्भिः पलायप्य या प्रमेयकथावीथी तथागतैरवलम्बिता तस्यामपि सैव भीषणमुखी प्रमाणचर्चैवोपनता।
सर्वतो विपदां मार्गमादेशयितुमुद्यते।
विधौ विधुरतां याते प्रपलाय्य क्व गम्यते॥
तस्मात् प्रमाणतोऽशक्ये शक्ये वा वस्तुनिर्णये।
एवम्प्रायमयुक्तं यत् कुशकाशावलम्बनम्॥
तेन निष्फलमुत्सृज्य शून्यवादवकव्रतम्।
बाह्येनैवार्थजातेन व्यवहारो विधीयताम्॥
अथास्थाशैथिल्यजननाय सर्वं शून्यं क्षणिकं सर्वं निरात्मकमित्युपदिश्यते, तर्हि किमनेन मृषोद्यमेन ? सत्यप्यात्मनि सत्स्वपि स्थिरेषु पदार्थेषु विषयदोषदर्शनद्वारेण भवत्येव विवेकवतां वैराग्यमिति तदुपजननाय शून्यवादादिवर्णनं वक्रः पन्थाः, प्रत्युत प्राज्ञो मुमुक्षुः क्षणिकनैरात्म्यशून्यवादिवचनं युक्तिबाधितमवबुध्यमानो वञ्चनामयमिव तदुपदेशमाशङ्कते।
स एष बुद्धिशून्यानां शून्यवादपरिग्रहः।
प्रतारणपराणां वा न तु तत्त्वार्थदर्शिनाम्॥
तस्मात् परीक्ष्यमाणोऽयं शब्दाद्यद्वैतपक्षवत्।
विज्ञानाद्वैतपक्षोऽपि गन्धर्वनगरायते॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%किंसमुदायालम्बन% इति। केषां समुदाय इति किंसमुदायः।
%तस्मात् प्रमाणतोऽशक्त% इति। यदि प्रामाणिको वस्तुनिर्णयस्तत्तूष्णीं स्थातव्यम्, अप्रामाणिकश्चेत् प्रमाणाभाव एवोद्भाव्य इति।
न्यायमञ्जरी :—
%अपवर्गपरीक्षोपसंहराः%
तदेवमद्वैतदृशा न दृश्यते जनस्य निःश्रेयससम्पदागमः।
अतो यथोक्तात्मसतत्त्वचिन्तया कृती व्यवस्येदपवर्गसिद्धये॥
सांख्यैर्यंस्त्वपवर्गसाधनविधावुक्तः प्रकृत्यात्मनो-
रन्यत्वाधिगमोऽभ्युपाय इति स प्रागेव निर्वासितः।
अज्ञा शक्तिमती विकारबहुला बध्नात्यकिञ्चित्करं
भूयो न प्रकृतिः पुमांसमिति वा कस्तां नियन्तुं क्षमः॥
पुंसा न किञ्चिदपि बन्धनिदानभूत-
मत्यल्पमात्रमपि कर्म कृतं कदाचित्।
मथ्नाति तं प्रकृतिरेव निरङ्कुशैषा
मत्ता करेणुरिव पद्मवनानि भूयः॥
कचनिलुञ्चनदिक्पटधारणक्षितिपराक्रमणक्रमपूर्वकम्।
क्षपणकास्त्वपवर्गमुशन्त्यमी अतितरां परमार्थविदस्तु ते॥
लोम्नां नित्यमसम्भवात् खलतयो मोक्षं क्षणात् प्राप्नुयुः
संसारोपरमो दिगम्बरतया सद्यस्तिरश्चां भवेत्।
मुक्ताः स्युर्गिरिशृङ्गयायिन इमे शश्वत् तदारोहणा-
ज्जन्तूनामपवर्गवर्त्म निकटं केनेदृशं दर्शितम्॥
तस्मादात्मज्ञानं सन्तो मोक्षप्राप्तौ हेतुं प्राहुः।
तीर्थे तीर्थे तच्चाचार्यैस्तैस्तैरुक्तं संज्ञाभेदैः॥
यदपीह केचिदविकल्पमीश्वरप्रणिधानमाहुरपवर्गसाधनम्।
इदमात्मदर्शनमवादि तैरपि प्रथितो हि पुरुषविशेष ईश्वरः॥
दृष्टा बाह्यान्तराणां गतिरियमियती नापवर्गस्य मार्गं
स्प्रष्टुं द्रष्टुं समर्थास्त इति चिरमिह श्वभ्र एव भ्रमन्ति।
नेदीयानेष तस्माद् भवमरुपतितैरक्षपादोपदिष्टः
पन्थाः क्षेमाय मोक्षाधिगमसमुचितः क्षिप्रमालम्बनीयः॥
%इति भट्टजयन्तकृतौ न्यायमञ्जर्य्यां नवममाह्निकम्।%
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%कस्तां नियन्तुं क्षमः% इति यदुक्तं तदेव स्फुटयितुमाह, %पुंसा न किञ्चिदि%त्यादिना। %यदपीह केचिदि%त्यादिना पाशुपतमतमाह। महेश्वरप्रणिधानात् तद्देहप्राप्तिं मोक्षमाहुः। भट्टश्रीशङ्करात्मजचक्रधरकृते न्यायमञ्जरीग्रन्थिभङ्गे नवममाह्निकम्।
—- **** —-
दशममाह्निकम्
–***–
संशयप्रकरणम्
न्यायमञ्जरी :—
%संशयपरीक्षणम्%
संशयादेः पदार्थगणस्य प्रमाणप्रमेयपदसंगृहीतस्यापि न्यायप्रवृत्तिप्रयोजनतया पृथग्व्युत्पादनीयत्वस्य प्रागेव समर्थितत्वात्, प्रथमसूत्रे च प्रमेयानन्तरं संशयोद्देशादुद्देशानुक्रमेण तस्य लक्षणं प्रतिपादयितुमाह
न्यायमञ्जरी :—
%समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः॥%
ननु संशयस्य समानधर्मोपपत्त्यादिकारणभेदेन पञ्चविधत्वात् सामान्यलक्षणम्, विभागः, विशेषलक्षणानि चवक्तव्यानि। तत्र सामान्यलक्षणे विभागे च सूत्रद्वयं विशेषलक्षणार्थञ्च पञ्चानां तत्प्रभेदानां सूत्रपञ्चकम् इत्येव सप्त सूत्राणि प्रणेतुं युक्तानि। एकञ्चेदं सूत्रं श्रूयते तत्कथमेतद्भविष्यति ?
उच्यते। सत्यमाह भवान्, किन्त्वेकमेवेदं सूत्रमावृत्तिन्यायमाश्रित्य सप्तधा कल्पयिष्यते।
न्यायमञ्जरी :—
%रुचिकारमतेन सूत्रव्याख्यानम्%
तत्राचार्यास्तावदेवमाचक्षते, समानधर्मोंपपत्तेरुपलब्ध्यनुपलब्धिव्यवस्थातो विशेषापेक्षो विमर्शः संशय इतीयत् सूत्रं सामान्यलक्षणप्रतिपादकम्। समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातो विशेषापेक्षोविमर्शः संशय इयदस्य विशेषलक्षणप्रतिपादकमिति।
नन्वेतदेव सूत्रं सामान्यलक्षणार्थम्, इयदेव चेदमन्यूनानतिरिक्तं विशेषलक्षणार्थमिति कथमेतत् ? उच्यते, विशेषस्मरणकारणभूतसाधारणधर्मग्रहणाद् विशेषाग्रहणाद् विशेषस्मृतेश्च संशयो भवतीति प्रत्यात्मवेदनीयं तावदेतत्। तत्र विशेषापेक्षइत्यनेन पदेन विशेषस्मरणमुपदिष्टम्, उपलब्ध्यनुपलब्ध्यव्यवस्थापदेन च विशेषाग्रहणम् इतीयता च द्वयोरपि समानविशेषसामान्यलक्षणयोः संग्रहः। समानशब्दस्त्वाक्षिप्तसामान्यवचनः सत्सामान्यवचनमाह अनुगतसामान्यवचनस्तु विशेषलक्षणमिति।
कथं पुनरयमेवाक्षिप्तसामान्यवचनः कथं वानुगतसामान्यवचन इति ? उच्यते, संशयोत्पत्त्यैव सामान्यधर्ममात्रमाक्षिप्यते यद् गृह्यमाणं विशेषस्मरणबीजसंस्कारोद्बोधनिमित्ततां प्रतिपद्यते, तद्व्यतिरेकेण संशयानुत्पादात्। तथाहि, विरुद्धविशेषावमर्शस्वभावस्तावत् संशयः, न च विरुद्धविशेषाणां पुरोऽवस्थिते धर्मिणि सन्निहितानामवमर्शनम्, विरुद्धतयैवैकत्र सन्निधानाभावाद्। अतः स्मृत्युपारूढानामवमर्शनं स्मृतिश्च नाकस्मादुद्भवतीति यत्सहचरितानां तेषां विशेषाणां पूर्वं पर्यायेण ग्रहणं वृत्तं तद्दर्शनसंस्कारप्रबोधद्वारेण स्मरणकारणमवश्यमेवाश्रयणीयम्। तच्चानुगतं वा भवतु व्यावृत्तं विप्रतिपत्त्यात्मकं वा, आन्तरमुपलब्ध्यनुपलब्ध्यव्यवस्थारूपं वा इत्येवमाक्षिप्तसामान्यवाचिनि समानशब्दे पञ्चसाधारणरूपावगमात् सामान्यलक्षणार्थता। यदा त्वनुगतमेव धर्ममारोहपरिणाहादिस्वभावमाचष्टे समानशब्दस्तदा विशेषलक्षणार्थ इति।
तत्र चेत्थं सूत्रयोजना, समानो धर्मः परिणाहादिस्तस्य गुणत्वेन प्रतिद्रव्यमन्यत्वेऽपि तुल्यरूपावगतिविषयीकृतत्वात् समानत्वमुच्यते, तस्योपलब्धिरुपपत्तिः। अथापि सत्ता उपपत्तिशब्देनोच्यते साप्युपलब्ध्यधीनस्थितिरेव भवतीति सर्वथा समानधर्मोपलब्धेः संशय इत्युक्तं भवति।
ननु समानधर्मोऽर्थान्तरं धर्मिणः, न चार्थान्तरे दृष्टेऽन्यत्र संशयो भवितुमर्हति ? न, अर्थान्तरविशेषत्वात्, अर्थान्तरविशेषस्तु धर्म्येवोच्यते, अर्थान्तरेण परिणाहादिना विशेष्यत इति। तस्मिन्नेव साधारणधर्माध्यासितवपुषि धर्मिणि नयनपथवर्तिनि तद्गतविशेषावमर्शात्मा तत्रैव संशयो जायते योऽयमूर्ध्वत्वविशिष्टधर्मा दृश्यते स स्थाणुर्वा स्यात् पुरुषो वेति नार्थान्तरत्वदूषणम्। तथापि वक्रकोटरकरचरणादिविशेषदर्शिनो न दृष्टः संशय इति कारणान्तरमुच्यते उपलब्ध्यनुपलब्ध्यव्यवस्थात इति। अनेन कथं विशेषाग्रहणमुच्यते ? इत्थमुच्यते, इदन्तया अनिदन्तया वा तत्रोपलब्धिर्न व्यवतिष्ठते अनुपलब्धिर्वेति। विशेषग्रहणे सति तद् व्यवस्थानं सम्भवति स्थाणुरयं न पुरुष इति वक्रकोटरादिविशेषग्रहणे, शिरः पाण्यादिपरिच्छेदे तु पुरुषोऽयं न स्थाणुरिति। एवमनेन पदेन विशेषग्रहणमुक्तम्। तथापि प्रेङ्खारूढस्य साधारणधर्मदर्शिनो विशेषानुपलभमानस्यापि न दृष्टः संशय इति कारणान्तरमुच्यते विशेषापेक्ष इति, विशेषस्मृत्यपेक्ष इत्यर्थः।
ननु विशेषापेक्ष इति श्रूयते न विशेषस्मृत्यपेक्ष इति, सत्यम्, अश्रूयमाणमपि तत्स्मरणं संशयप्रस्तावादवगम्यते। स्मर्यमाणत्वेन हि विशेषाणां संशयोत्पत्तावपेक्षा नानुभूयमानतया। अनुभूयमानेषु हि तेषु संशयच्छेदो भवति न संशयः। अपेक्षाशब्दार्थनिरूपणादेव वा स्मृतिर्लभ्यते। विशेषाणामपेक्षा आकाङ्क्षा ते चानुपलभ्यमानाः पूर्वानुभूताश्चाकाङ्क्ष्यन्ते इतीयं सा तेषां स्मृतिः, सम्प्रत्युपलभ्यमानेष्वेकान्ताननुभूतेषु वा तेष्वाकाङ्क्षानुपपत्तेः।
ननु समानधर्मोपपत्तेर्विशेषस्मृतेश्चेति कारणद्वयमेवास्तु किं विशेषाग्रहणेन ? अपि च,
विशेषस्मरणादेव नन्वाक्षिप्तस्तदग्रहः।
ग्रहणं स्मरणञ्चैव भवेतां युगपत् कथम्॥
किन्तु नातिदूरगतायां निजप्रमदायामनुरागवतः कामिनः समानधर्मदर्शने तद्गतविशेषादर्शने तदनुस्मरणे च सत्यपि न भवत्येव संशयः। अतः संशयोत्पत्त्यव्यभिचारे देशकालव्यवहितविशेषाग्रहणसिद्धये पदानन्तरमुपादीयते। देशान्तरे कालान्तरे वा चिरदृष्टानां विशेषाणामिदानीमग्रहणं संशयकारणं न विशेषाग्रहणमात्रम्। एवममुना पदत्रयेण संशयलक्षणमिदमुक्तम्।
ननु च `संभूय कारकैः कार्यमारभ्यते’ इति न्यायात् समानधर्मोपलब्धिविशेषानुपलब्धितत्स्मृतिलक्षणकारणत्रयजन्ये संशये ज्ञानयौगपद्यमापद्यते, क्रमभावित्वे हि बुद्धीनां नैककार्योत्पत्तौ युगपद् व्यापारः समस्ति, विशेषाश्च बहवोऽपि सम्भवन्तीति तत्स्मरणान्यपि युगपद् भूयांसि भवेयुः ?
नैतदेवम्, समानधर्मग्रहणानन्तरं पूर्वोपजातविविधविशेषानुभवपरम्परोपचितपीवरसंस्कारजमेव तद्विषयं स्मरणं भविष्यति, यथा वर्णानामर्थप्रतीतौ वर्णितम्। उपलब्ध्यनुपलब्ध्यव्यवस्थापदसूचिता च विशेषानुपलब्धिरेव, न सा ज्ञानात्मिका किन्तु ज्ञानानुत्पाद इति। तत् तृतीयं कारणमपि भवन्न ज्ञानात्मकम्। ज्ञानात्मके कारणे समानधर्मग्रहणं विशेषस्मरणञ्च, तयोः प्रथमं समानधर्मग्रहणं विनश्यदवस्थं द्वितीयमविनश्यदवस्थं संशयमुपजनयतः। ईदृशोश्च ज्ञानयोर्यौगपद्यमविरुद्धमिति शास्त्रे स्थितम्। एवं समानधर्मग्रहणाद् विशेषाग्रहणाद् विशेषस्मृतेश्च संशय इति पदत्रयेण संशयलक्षणमनवद्यमुच्यत इति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%तच्चानुगतं वा भवतु व्यावृत्तं वे%ति सर्वथा यादृक् तादृग् भवतु सामान्यरूपतामात्मानोऽनाक्षिपन्न संशयः जन्मनि समर्थं भवतीति आक्षिप्तसामान्यवाचकः, यत्पुनः साक्षादेवोभयवृत्तित्वेन सामान्यं नाक्षेपवृत्त्या तद्वाचकः अनुगतसामान्यवाचको %विशेषलक्षण% इति।
%नार्थान्तरविशेषत्वादिति% प्राक्तनचोद्यपरिहाराय भाष्यकृतोक्तम्। तदेव भाष्यं पठित्वोत्तरग्रन्थेन व्याचष्टे %अर्थान्तरविशेषश्च धर्म्येवे%त्यादिना।
%तथापि प्रेङ्खारूढस्ये%ति। प्रेङ्खारूढो द्रुततरं गच्छन् वृक्षत्वं धवखदिरसामान्यधर्मं पश्यति, अनध्यवसायाच्च व्याक्षेपेण दृश्यानपि विशेषान् नावधारंयति, न च संशयः; विशेषस्मृत्यभावादिति। चलद्वृक्षादिज्ञानं वा यत् प्रेङ्खाद्यारूढस्य न तत् संशयज्ञानम् अनध्यवसायरूपत्वात् तस्येति।
न्यायमञ्जरी :—
%मतान्तरेण सूत्रव्याख्यानम्%
तदेतदाचार्यव्याख्यानमरोचयन्तः परेऽपरथा व्याचक्षते। सामान्यलक्षणं तावद् विमर्शपदेनैव प्रतिपाद्यते। न हि पर्यायोच्चारणमात्रमिदं विमर्शः संशय इति, किन्तु संशय इति लक्ष्यपदं विमर्श इति लक्षणप्रवणपदम्। प्रमाणपदवच्च निर्वचनसव्यपेक्षमेतत्पदं लक्षणप्रतिपादनक्षमं भवति। विरुद्धार्थावमर्शो विमर्शः स्थाणुर्वा पुरुषो वेति। इयता च सजातीयसंशयपञ्चकानुगतं विजातीयेभ्यः प्रमाणादिभ्यो व्यवच्छिन्नं सामान्यलक्षणमुक्तं भवति। संशयोत्पादककारणपरिगणनं पुनरिन्द्रियार्थसन्निकर्षोत्पन्नग्रहणवदिहापि नोपयुज्यते, कारणान्तराणामप्यात्ममनः सन्निकर्षादीनामपरिहार्यत्वात्। अत्राप्यसाधारणकारणनिर्देशश्चिकीर्षितस्तेनापि कोऽर्थः, सामान्यलक्षणस्य प्रतिपिपादयिषितत्वात् तस्य च विमर्शपदादेव सिद्धत्वात्, उपलब्ध्यनुपलब्ध्यव्यवस्थापदप्रतिपाद्यमानविशेषाग्रहणवर्णनं चातीव क्लिष्टमिति। पुनश्च विशेषलक्षणाप्रसङ्गे यथाश्रुतमेव तद् व्याख्येयमित्यतिभारः। एवं विमर्शपदेन विजातीयव्यवच्छेदकारिणि सामान्यलक्षणे वर्णिते समानधर्मोपपत्तेरित्येकमेव पदं सजातीयसंशयान्तरव्यवच्छेदकारि विशेषलक्षणक्षमं भवतीति तत्रापि पदत्रययोजनं नोपयुज्यत इति। अत्र व्याख्यानद्वयेऽपि कतरत् साध्विति तद्विदः प्रमाणम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%इन्द्रियार्थसन्निकर्षोत्पन्नग्रहणवदिति।% यथा प्रत्यक्षलक्षणे `इन्द्रियार्थसन्निकर्षोत्पन्न’ ग्रहणमसाधारणलक्षणमुक्तम्, न तु कारणान्तरव्यवच्छेदकम् `इन्द्रियसन्निकर्षादेव’ इति।
न्यायमञ्जरी :—
%रुचिक्रारमतेन लक्षणस्वरूपम्%
अनेकधर्मोपपपत्तेरित्यत्रापि त्रिपदपरिग्रहणेनैव लक्षणमाचार्या वर्णयन्ति। अनेकधर्मोपपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातो विशेषापेक्ष इत्यसाधारणधर्मग्रहणाद् विशेषाग्रहणाद् विशेषस्मृतेश्च संशय इत्यर्थः। एकैकपदोपादानफलञ्च पूर्ववदत्रापि दर्शयितव्यम्, न चेन्द्रियमनः संयोगादिकारणान्तरपरिगणनचोदनं युक्तम्, तेषां सर्वबुद्धिजन्मसु तुल्यत्वाद् इहासाधारणसंशयज्ञानकारणोपदेशप्रस्तावादिति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%एकैकपदोपादानफलञ्च पूर्ववद् अत्रापि दर्शयितव्यमिति।% पनसत्वाद्यसाधारणधर्मिदर्शनादुपलब्ध्यनुपलब्ध्यव्यवस्थातोऽनेकधर्मोपपत्तेः इत्येतावदस्तु मा भूद् `विशेषापेक्षः’ इति पदम्। उक्तमत्र, विशेषानुपलम्भादपि न संशय इति विशेषापेक्षया इतिपदम्। यद्येवमनेकधर्मोपपत्तेर्विशेषापेक्ष इत्येतावदस्तु मा बूदुपलब्ध्यनुपलब्ध्यव्यवस्थापदम्। उक्तमत्रष असाधारणधर्मनिश्चये द्रव्यत्वाद्यनुस्मृतावपि अधिगतविशेषस्य संशयाभावात्। यद्येवं विशेषापेक्ष इति न वाच्यं पूर्वोक्तादेव पदद्वयात् संशयोऽस्तु। न, पनसत्वाद्यसाधारणधर्मदर्शनेऽपि विशेषस्मृत्यभावाद् न संशयः किन्त्वनध्यवसाय एव। अनेकधर्मोपपत्तेरिति पदं विना उपलब्ध्यनुपलब्ध्यव्यवस्थातो विशेषापेक्ष इति च पदद्वयं संशयहेतुत्वेन नाशङ्कनीयम्; अनेकध्रमोपलब्धिं विना कस्य द्वितीयपदेनाभिधानम्, पूर्वपदार्थस्य विशेषणत्वेनोत्तरपदार्थस्य व्यवस्थितत्वादिति। तदेवमत्रापि पदत्रयसाफल्यम्।
न्यायमञ्जरी :—
%तत्र मतान्तरप्रदर्शनम्%
अन्ये तु सामान्यलक्षणसमुत्पादिते विजातीयव्यवच्छेदे केवलसजातीयव्यवच्छिन्नलक्षणप्रतिपादननिपुणमनेकधर्मोंपपत्तिरूपमेव पूर्ववद् वर्णयाञ्चक्रुः।
नन्वनेकधर्मशब्देन कथमसाधारणो धर्म उच्यते, समानजातीयमसमानजातीयमनेकं तस्मात् परावृत्तो धर्मोऽनेकधर्म इति। यद्वा किमनया क्लिष्टकल्पनया। अस्त्ययमेकशब्दः समानपर्यायः, तत्र स्पष्ट एव नञ्समासेनासमानधर्मोऽनेकधर्मः साधारणधर्म उच्यत एवेति।
भवत्वेवम्, असाधारणधर्मस्य तु कथं संशयकारणत्वमिति चिन्त्यम्। विरुद्धविशेषानुस्मरणकारणकं हि संशयमाहुः। विशेषाणाञ्च स्मरणहेतोः संस्कारस्य तद्बोधकं भवति येन सहैते पूर्वपर्यायेणोपलब्धाः। असाधारणधर्मस्य त्वसाधारणधर्मत्वादेव न केनचित् सह पूर्वं दर्शनमभवत्, भावे त्वसाधारणधर्मतैव ह्रीयेत इत्यतः कथमसौ तत्स्मृतिहेतुः ? व्यावृत्ततयैव तु स्मृतिहेतुत्वेऽस्य त्रैलोक्यस्मरणनिमित्तता प्रसज्येत, ततोऽपि व्यावृत्तत्वाद् इति।
नैष दोषः, प्रकारान्तरेणास्य स्मृतिहेतुत्वात्। इह हि केषुचित् केषुचिदसाधारणधर्मा धर्मान्तरसहचरिता भवन्ति, तद् यथा पृथ्वीत्वगन्धवत्त्वादयो धर्माः पृथिव्यामसाधारणाः सन्तः स्नेहवत्त्वादिधर्माश्च तथैवाप्सु द्रव्यत्वसहचारिणो दृष्टाः। रूपादिषु रूपत्वादिधर्मा गुणत्वसहचारिणः। उत्क्षेपणादिषु उत्क्षेपणत्वादिधर्माः कर्मत्वसहचारिणः। एवं प्रकृतेऽपि धर्मिणि कस्मिंश्चित् कश्चिदसाधारणो धर्म उपलभ्यमानः केनापि साधारणधर्मान्तरेण सहचरितो भवेदिति विशेषानुस्मृतिद्वारेण संशयसाधनम्।
नन्वेवं तर्हि व्यावृत्तत्त्वादेव समानधर्मादेष संशयो नानेकधर्माद् इति। मैवम्, अनेकधर्म एवासौ तेन वर्त्मना विशेषान् स्मारयन् संशयजन्मने कल्पते, सति हि तस्मिन् किमालम्बनं व्यावृत्तत्वं स्यादित्यलमतिसूक्ष्मेक्षिकया।
न्यायमञ्जरी :—
%अनेकधऱ्मपदसार्थक्यप्रदर्शनार्थ विचारः%
तस्योदाहरणं भाष्यकारेण दर्शितं शब्दे विभागजत्वम्। यथा हि पृथिव्यादौ पृथिवीत्यादि र्व्यावृत्तो धर्मो द्रव्यत्वाद्यनुगतधर्मसहचारी दृष्ट एवं शब्दे विभागजत्वं धर्मः केन द्रव्यत्वादीनामन्यतमेन धर्मेण सहचरितः स्यादिति संशयः।
ननु विभागजत्वमसाधारणं न भवत्येव शब्दधर्मो विभागेऽपि भावात्, तथा च प्रयोगो गुणः सब्दो विभागजत्वाद् विभागजविभागवद् इति।
तत्र केचिदाहुः, सत्यम्, अस्ति विभागेऽपि विभागजत्वम्, शब्दे तु विशेषो विवक्षितः। द्विविधो हि विभागजो विभागः कारणविभागपूर्वकः कारणाकारणविभागपूर्वकश्च, कारणं समवायिकारणमत्राभिप्रेतम्। कारणविभागपूर्वकस्तावत् तन्तुविभागात् तन्त्वाकाशविभागः। कारणाकारणविभागपूर्वकस्त्वङ्गुल्याकाशविभागाद् हस्ताकाशविभागो हस्ताकाशविभागादपि शरीराकाशविभाग इति। शब्दस्तु नियमेनैव कारणविभागपूर्वकविभागप्रभवः, वंशदलविभागाद् दलाकाशविभागो दलाकाशविभागाच्च समवायिकारणाच्छब्दो निष्पद्यत इत्यनेन विशेषेणास्येदृशविभागत्वस्यासाधारणत्वं शब्दधर्मस्योच्यत इति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%कारणाकारणविभागपूर्वकस्त्विति।% हस्तस्य कारणमङ्गुलयः, आकाशं त्वकारणम्, तयोर्विभागः कारणाकारणविभाग इति।
न्यायमञ्जरी :—
%केषाञ्चिन्मते विभागजविभागानङ्गीकारविचारः%
अन्ये तु विभागजं विभागममृष्यमाणा यथाश्रुतस्यैव शब्दे विभागजत्वस्यासाधारणधर्मतामाचक्षते।
ननु किमिति विभागजं ते विभागं न मृष्यन्ति ? अस्ति ह्ययं तत्सिद्धौ न्यायः, यदा ह्यवयवे कर्मोत्पन्नमवयवान्तराद् विभागं करोति न तदाकाशादिदेशात्, यदा त्वाकाशादिदेशाद् न तदावयवान्तरादिति स्थितिः। किंकृता पुनरियं स्थितिरिति चेत्, उच्यते, या ह्यवयवक्रिया नभोविभागकारिणी नासौ द्रव्यारम्भकसंयोगप्रतिपक्षभूतं विभागमारभमाणा दृश्यते, दिनकरकिरणपरामर्शोपजनितकमलदलविकासकारिक्रियावत्। तदेव कथमिति चेत्, कमलस्य मुकुलविकासदशयोः प्रत्यभिज्ञायमानत्वेनाविनाशनिश्चयात्। इयन्तु पाट्यमानवंशदलक्रिया द्रव्यारम्भकसंयोगप्रतिद्वन्द्विभूतविभागारम्भिकोपलभ्यत इति, नासौ नभसो विभागमारभेतेत्यत एषा स्थितिरस्तीति विभागजविभागकल्पना क्रियते। संयोगान्तं कर्मेति च तावत् स्थितम्, अन्यथा हि तस्य कालान्तरस्थायित्वं नित्यद्रव्यसमवेतस्य च नित्यत्वं स्यात्। तस्मात् कर्मणोऽचिरजीवित्वात् तद्विनाशकेन संयोगेन भवितव्यम्। उत्तरश्च संयोगः पूर्वसंयोगोपरमे सति जायते नान्यथा। न च विभागव्यतिरिक्तः कश्चन संयोगस्य हन्ता समस्ति।
कर्म तूत्तरसंयोगजन्मनिर्ज्ञातकौशलम्।
न हि प्राक्तनसंयोगविनाशाय प्रकल्पते॥
तस्माद् विभागेनैव संयोगनाशकारिणा भाव्यम्। स च यदधिकरणो विभागस्तदधिकरणमेव संयोगमुपशमयति, न त्वङ्गुलिविभागः कुण्डबदरसंयोगोपमर्दाय प्रभवतीत्यतो न वंशदलवृत्तिर्विभागो दलाकाशसंयोगमपहन्तुमलमिति नूनं दलाकाशसंयोगेन भवितव्यम्। तदिदानीं तस्योत्पत्तिकारणचिन्तायां क्रियाया वंशदलविभागमात्रोपजनने चरितार्थत्वात् तं निर्माय विभागान्तरनिर्माणे विरम्य व्यापारासंवेदनादवश्यं वंशदलविभाग एव प्रत्यासन्नतया दलाकाशविभागारम्भकोऽभ्युपगमनीयः। एवमनभ्युपगमे कर्मनित्यत्वप्रसङ्गाद् इति।
अत्र वदन्ति, न कर्मनित्यत्वमनभ्युपगम्यमानेऽपि विभागजे विभागे भविष्यति, उत्तरसंयोगस्य कर्मविनाशहेतोरस्तित्वात्। पूर्वसंयोगानुपरमे कथं तदुत्पाद इति चेत्, बाढमुपरत एव पूर्वसंयोगः, कस्तस्योपरमहेतुरिति चेत्,
कर्म ह्युत्तरसंयोगनिमित्तं यदुपेयते।
तदेव पूर्वसंयोगध्वंसकारि भविष्यति॥
न च यज्जनने शक्तमशक्तं तद्विनाशने।
हेतुर्दहनसंयोगः पाकजोत्पादनाशयोः॥
यथा च विभागेऽधिकरणनियमः, यदाधारो विभागस्तदाधारमेव संयोगं निरुणद्धि; तथा कर्मण्यपि नियमः, कर्मापि स्वाश्रयस्य यदन्यदिक्सम्बन्धनिबन्धनं तत् तद्विरुद्धदिग्वृत्तेः संयोगस्योपमर्दकमिति नातिप्रसङ्गः। एवं कर्माविष्टस्योत्तरसंयोगदर्शनमदूषणं दिगन्तरसंयोगस्य तेनोपमर्दनात्। अपि च यदेव कर्म वंशदलविभागकारि कथ्यते तदेव दलाकाशविभागकारि भविष्यति को दोषः ?
ननु व्योमविभागकारिकर्म न द्रव्यारम्भकसंयोगप्रत्यनीकभूतविभागारम्भकम् अम्भोरुहपल्लवकर्मवदित्युक्तम्, सत्यमुक्तम्, अयुक्तन्तु शतपत्रपत्रकर्मणोऽपि द्रव्यारम्भकसंयोगप्रतिकूलविभागारम्भकत्वात् तच्च कुड्मलकमलाद् विकचकमलस्यान्यत्वनिश्चयान्निश्चितम्।
ननु तदेवेदमरविन्दमिति सन्देहविपर्ययरहिततामरसप्रत्यभिज्ञादर्शनात् कथं सङ्कोचविकासदशामात्रभेदात् तदन्यत्वम् इति, कृतमनया दुराशया, शरीरेऽपि सुस्पष्टोपलभ्यमानशैशवयौवनवार्धकादिदशाभेदभिन्नस्वरूपे प्रत्यभिज्ञानदर्शनात्। न च शरीरकुशेशययोर्विशेषलेशमपि पश्याम इति कुतस्तदेकत्वम्, भवतु वा पुण्डरीकस्याविनाशः, निदर्शनमात्रमिदन्तु वर्णितं न तु प्रतिबद्धः कश्चन हेतुरभ्यधायि येन वंशदलकर्मणः कोकनदपल्लवकर्मसाम्यं कल्प्येत। क्रियात्वन्त्वप्रयोजकमेव, कर्मणां विचित्रकार्यहेतुत्वात्, यद् वा नान्यो वंशदलविभागो नान्यश्च तत्कार्यो दलाकाशविभागः; किन्तु,
एक एव विभागोऽयं भेदोऽस्याश्रयभेदतः।
एकत्र देशेऽवस्थानाद् व्योम्नो वंशदलस्य च॥
समानदेशे वृत्तित्वं मूर्तानां हि विरुद्ध्यते।
व्योम्नः सर्वगतत्वात्तु विद्यते तत्र सन्निधिः॥
एकदेशाश्रयत्वे तु यदेकस्माद् विभागकृत्।
तदेवान्यत इत्यस्ति न विभागो विभागजः॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%विरुद्धदिग्वृत्तेः संयोगस्य निवर्तकमिति नातिप्रसङ्गः% इति। यदि हि कर्म स्वाश्रयादन्यस्य संयोगं निर्वर्तयेत् तदा विभागजविभागानभ्युपगमः, न तु `अङ्गुलिविभागः कुण्डबदरसंयोगोपमर्दाय प्रभवति’ इति सूचितो योऽतिप्रसङ्गः स आपतेद् न त्वेवमस्तीति भावः। %एवं कर्माविष्टस्योत्तरसंयोगदर्शनमदूषणमिति।% कर्माविष्टस्य कर्म विनोत्तरसंयोगाभावात् संयोगोत्पत्तौ कर्मण एव कारणत्वमवगतम्। यच्च यस्योत्पत्तिकारणं तदेव तस्य विनाशहेतुरिति न वाच्यम्, विरुद्धदिक्संयोगोपमर्दं विनोत्तरसंयोगस्यैव कर्तुमशक्यत्वादिति भावः।
%कर्मणां विचित्रकार्यहेतुत्वादिति।% न ह्येकेन कर्मणा नोदनाख्यः संयोगविशेषो जनित इत्यन्येनापि जनयितव्यो नाभिघातादिरिति।
न्यायमञ्जरी :—
%विभागजविभागानह्गीकर्त्रा कर्मजविभागोऽपि नाङ्गीकर्तव्य इति मतविचारः%
अपरे पुनर्विभागजविभागपराकरणोपारूढरभसा सङ्गिरन्ते, तिष्ठतु तावद् दूरत एव विभागजो विभागः कर्मजोऽपि न विभागो नाम कश्चिदस्ति। संयोगविरोधिनि तस्मिन्नभ्युपगम्यमाने मुद्गरादिवत् पूर्वसिद्धता अवश्यम्भाविनी, ततश्च पूर्वसिद्धो विभागः संयोगमुन्मूलयतीति घटमुद्गरयोरिव संयोगविभागयोरेकत्र युगदुपलब्धिर्भवेत्, न चैवमस्ति। तस्मात् संयोगाभावविषय एव विभक्तप्रत्यय इति न विभागालम्बनतां प्रतिपद्यते। सत्यपि विभागे तस्मिन् क्षणे संयोगस्य विनाशान्न भवति विभक्तप्रतिभासः। क्षणान्तरे च संयोगविनाशे सति भवतीत्यन्वयव्यतिरेकाभ्यां संयोगाभावविषय एवावसीयते न प्रत्यक्षगम्यता विभागस्य। संयोगभङ्गलिङ्गेन च तत् परिकल्पनक्रियैव तं हिनस्तीति पुरस्तात् प्रतिपादितम्।
कथं तर्हि विभागजत्वं शब्दस्य भाष्यकार उदाहृतवान् ? उच्यते, त्रिविधं कारणं कार्योत्पत्तिं विधत्ते, समवायिकारणम् असमवायिकारणं निमित्तकारणञ्चेति। तत्र समवायिकारणं तदुच्यते यत्राश्रितं कार्यमुपलभ्यते यथा पटस्य तन्तवः। असमवायिकारणन्तु द्विविधं कार्यैकार्थसमवायलक्षणप्रत्यासत्त्या प्रत्यासन्नं कारणैकार्थसमवायलक्षणया वा। तत्र कार्यैकार्थसमवायेन प्रत्यासन्नं यथा पटस्य तन्तुसंयोगः। कारणैकार्थसमवायेन तु प्रत्यासन्नं यथा पटरूपस्य तन्तुरूपमिति । अवधृतसामर्थ्यञ्च तदसमवायिकारणमाश्रयणीयम् अतो बुद्धिजन्मनि सत्यप्येकार्थसमवाये नान्येषामात्मगुणानामिच्छादीनामसमवायिकारणत्वम्, अपि तु अवधृतसामर्थ्यस्यात्ममनः संयोगस्यैवेति। समवाय्यसमवायिव्यतिरिक्तन्तु कार्योत्पत्तौ निर्ज्ञातसामर्थ्यं यत् कारणं तन्निमित्तकारणमुच्यते। इत्येवं स्थिते शब्दस्य नित्यत्वे निरस्ते कार्यत्वे च साधिते तदुत्पत्तौ आकाशं समवायिकारणं निमित्तकारणानि तु भूयांसि सन्त्येव, असमवायिकारणं तु चिन्त्यम्, तच्चाकाशाश्रितमवश्यमन्यथा प्रत्यासत्त्यभावात् तद्गुणान्तराणाञ्च विभुत्वादीनामनवधृतशक्तित्वात्, वंशदलपाटनसमनन्तरञ्च शब्दोत्पाददर्शनादेवं मन्यामहे,
क्रिया यदैव संयोगं हन्ति वंशदलाश्रितम्।
तदैव गगने कञ्चित् करोत्यतिशयं ध्रुवम्॥
आकाशातिशयो यश्च क्रियाजः शब्दकारणम्।
असौ विभागनामेति शब्दे तज्जन्यतोच्यते॥
तदेवमेतद् यथागमाचार्यमतमभिहितमस्माभिः। एतच्च मतिमद्भिर्विचारणीयम्, किमाकाशातिशयमात्रमसमवायिकारणमुत यथा भेहीदण्डसंयोगकार्ये तस्मिन् दलगगनविभागस्येति। दलाकाशविभागोऽपि किं दलविभागज उत कर्मण एवेति, सर्वथा कश्चिदसाधारणो धर्मः संशयहेतुरुदाहर्तव्य इतीयता नः प्रयोजनम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%कार्यकारणैकार्थसमवायेन तु प्रत्यासन्नमिति।% कार्यस्य पटरूपस्य कारणं समवायिकारणं, यः पटस्तेन सहैकस्मिंस्तन्तुलक्षणेऽर्थे समवायस्तन्तुरूपस्य।
न्यायमञ्जरी :—
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
न्यायमञ्जरी :—
%अवसरतः सूत्रपदव्याख्यानम्%
विरुद्धा प्रतिपत्तिर्विप्रतिपत्तिः। अस्त्यात्मेत्येके नास्त्यात्मेत्यपरे, सेयं विप्रतिपत्तिरुपलभ्यमाना विशेषस्मरणद्वारेण संशयमावहति। न चेह कश्चिदनुगतो व्यावृत्तो वा धर्मः संशयकारणम् अपि तु विप्रतिपत्तिरेवेति। अत्रापि त्रिरूपपरिग्रहेण लक्षणवर्णनमेकेनैव वा पदेनेति पूर्ववदाचार्यद्वयमतमनुसरणीयम्। उपलब्ध्यव्यवस्थातः खल्वयं भवति संशयः, सच्च उदकमुपलभ्यते यथा ह्रदादिषु, क्वचिदसच्च भास्करकरनिकरप्रतिफलिततरलितासु मरुस्थलीषु। तदेवमुपलब्धेरव्यवस्थितत्वात् क्वचिदुपलभ्यमाने भवति संशयः `किमिदं सदुपलभ्यते किमसत्’ इति। अनुपलब्ध्यव्यवस्थातश्च भवति संशयः, किञ्चिदसदेव नोपलभ्यते नभः कुसुमादि, किञ्चित् सदपि नोपलभ्यते मृदन्तरितशङ्कुमूलकादि तदन्यत्रानुपलभ्यमाने संशेते पुमान् `किमिदमसदेव नोपलभ्यते उत सत्’ इति। अव्यवस्थाशब्देनात्र पूर्वं पर्यायेण वृत्तसदसदाश्रितविशेषादर्शनं सूचितम्, इदानीं पुनरर्थक्रियासमर्थतादिविशेषदर्शनशून्यचेतसामुपलब्ध्यनुपलब्ध्यदर्शनमात्रोपपत्तेः संशयो वर्ण्यते। न चैवं सति सर्वत्रानाश्वास इति शङ्कनीयम्, यथानुभवं संशयाभ्युपगमात्, सर्वत्र च तदुत्पादकविशेषाग्रहणतत्स्मरणादिकारणसान्निध्यासम्भवादिति। अत्रापि पदत्रयेणैकेन वा पदेन लक्षणोपपादनं पूर्ववद् द्रष्टव्यम्।
ननु चोपलब्ध्यनुपलब्धी सदसतोः समान एव धर्म इति पूर्वेण गतार्थत्वम्, नैतत्, पूर्वनिर्दिष्टस्योर्ध्वत्वादेर्धर्मस्य ज्ञेयस्थत्वाद् उपलब्ध्यनुपलब्ध्योश्च ज्ञातृस्थत्वात्। अत एव च मानसमिमं संशयमाचक्षते न बाह्यधर्मिसम्बद्धसाधारणोर्ध्वतादिधर्माधिगमाधीनसंशयवद् बाह्येन्द्रियजम्। ननु चोपलब्धित्वमनुपलब्धित्वं वात्र संशयकारणं तद्धि न ज्ञातरि वर्तते किन्तु बुद्धाविति कथमयं विशेषः ? सत्यमेवम्, किन्तु समानधर्मोऽप्युपलब्धित्वादिको यदाश्रितो तद्धि बोद्धरि वर्तते। अतो विशेषात् पृथगेव कथ्यते यथा ह्यसाधारणतासमाश्रयः।
एवम्प्रकारमेव च विशेषमाश्रित्य किञ्चित् पञ्चविधत्वं विपञ्च्यते। परमार्थतस्तु सर्वत्रानुगतसम्बन्धो दुष्परिहरः, विशेषस्मरणजन्यत्वात् संशयस्य। विशेषाणाञ्च येन सह पूर्वं दर्शनमभूत् तस्मिन्ननुपलभ्यमाने स्मरणासम्भवात्। अतस्तस्यानेकविशेषानुगामित्वात् समानत्वात् समानत्वमपरिहार्यम्। अत एवाक्षिप्तसामान्यवाचिसमानशब्दं सामान्यलक्षणे व्याचख्युराचार्या इत्यलमतिविस्तरेण।
इति पञ्चविधः प्रपञ्चतो मुनिना दर्शित एष संशयः।
फलवद्व्यवहारहेतुतामनुमानाङ्गतया बिभर्ति यः॥
अनुमानिरपेक्ष एव वा किल दृष्टे विषयेऽर्थसंशयः।
वहति व्यवहारवर्त्तिनीमिति पूर्वञ्च विचारितं बुधैः॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%अत्रापि त्रिपदपरिग्रहेण लक्षणवर्णनमिति।% तथाहि, विप्रतिपत्तेः संशयः इत्युक्ते अग्रहणेऽपि तस्याः संशयप्रसक्तिस्तदर्थं विप्रतिपत्त्युपपत्तेरिति। तथापि विप्रतिपत्तिशब्दार्थमुपलभमानस्यावगतविशेषस्य न संशय इति तदर्थमुपलब्ध्यनुपलब्ध्यव्यवस्थात इति। तथापि द्रुततरं गच्छतो विप्रतिपत्तिशब्दार्थोपलम्भे उपलब्ध्यनुपलब्ध्योश्चाव्यवस्थाने न दृष्टः संशय इति तदर्थं विशेषापेक्ष इति पदम्। ननूपलब्ध्यव्यवस्थातश्चेत् संशयस्तदानीं सर्वत्र संशयप्रसङ्ग इत्याशङ्क्यातिप्रसङ्गं निराकर्तुमाह %अव्यवस्थापदेनात्र पूर्वमिति।% पूर्वं सदाश्रिता विशेषा अर्थक्रियासमर्थत्वादयोऽसदाश्रिताश्च तद्विपरीता उपलब्धाः पुनर्यदा सदश्रितान् अर्थक्रियासमर्थत्वादीन् विशेषान् नोपलभते तदैव संशयो न सर्वदेति तात्पर्यम्। एतदेव च %न चैवं सति सर्वत्रानाश्वास इति% इत्यादिनाह। %अत्रापि पदत्रयेणेति।% नोपलब्धिमात्रं संशयजनकमिति। तदर्थंमुपलब्ध्युपपत्तेरिति। उपलब्ध्युपलम्भादित्युक्तेऽधिगतविशेषस्यापि संशयप्रसङ्ग इत्यतस्तद्व्यावृत्तये उपलब्ध्यनुपलब्ध्यव्यवस्थात इति तथापि कुतश्चिद् विक्षेपादनर्थित्वाद्वा विशेषस्मृत्यभावे न संशय इति तदर्थं विशेषापेक्ष इति पदम्। एवमनुपलब्धावपि पदत्रययोजना कार्या।
न्यायमञ्जरी :—
%प्रयोजनपरीक्षणम्%
%यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम्॥%
`यम्’ इत्यत्र देशकालपुरुषदशाभेदभिन्नप्रयोजनविशेषव्याप्तये वीप्सा द्रष्टव्या। अर्थोऽर्थ्यमान उच्यते न वस्तुरूप एव अभावस्यापि प्रयोजनत्वसम्भवात्। अधिकारोऽर्थस्य व्यवसायः। यं यमर्थमाप्तव्यं हातव्यं वाधिकृत्य व्यवसायः प्रवर्तते, तत्प्राप्तये परिहाराय वा चेष्टते पुरुषस्तत् प्रयोजनमिति। तच्च गौणमुख्यभेदेन द्विविधम्। मुख्यं सुखप्राप्तिर्दुःखपरिहारश्च। तत् साधनं गौणम्। सुखसाधनमपि चन्दनघनसारमहिलादि प्राप्तव्यत्वान्मुख्यत्वेन यदा विवक्षितं भवति तदा तदवाप्त्युपाये गौणता द्रष्टव्या।
तच्च प्रयोजनं देशकालपुरुषदशाभेदादव्यवस्थितम्। तद् यथा ग्रीष्मे मरुस्थले निशातमलातनिकरमिव किरति किरणमिषेण पूषणि तृषातुरस्य तुषारकणोत्करदन्तुरमम्बु परमं सुखसाधनम्, तदेव शिशिरे सकलजगत् कम्पकारिणि दारुणसमीरणशिथिलीकृतनीरेषु कश्मीरेषु श्लेष्मोपचयजनितजठरशिखिनः खेदाय जायते। तस्मादनियत एवायं सुखदुःखसाधनभावो भावानाम्। यद्यपि च यदेकदा सुखसाधनमिति विदितमुपयुक्तमतिक्रान्तं वस्तु तथापि तज्जातीयत्वलिङ्गावधृतसुखसाधनभावे भावान्तरेऽपि प्रवर्तन्त एव तदर्थिनः।
ननु प्रयोजनस्य प्रवर्तकत्वमयुक्तं सदसद्विकल्पानुपपत्तेः। सत्त्वे कर्णनासादिवन्न तदर्था प्रवृत्तिः, असत्त्वे तु खपुष्पादिवन्नतराम्। नैष दोषः, ईप्साजिहासाविषयीकृतस्य प्रवर्तकत्वात्, न हि तत् खपुष्पादिवदसाध्यम्, नापि शिरः पाण्यादिवत् सिद्धमेव; अपि तु साध्यत्वेन बुद्ध्युपारूढं तत् प्रवर्तकमिति युक्तम्, तदेव च वाक्यार्थ इति पूर्वमुक्तम्।
इत्थं प्रवर्तकत्वे प्रयोजनस्योपपादिते मुनिना।
भग्ना भवन्ति सर्वे प्रेरकपक्षाः पराभिहिताः॥
प्रयोजनमतोऽखिलैर्विधिवचोभिरादिश्यते
प्रयोजननिबन्धनास्तनुभृतामशेषाः क्रियाः।
क्रिमेरपि यथा तथा किमपि जीवितं बिभ्रतः
प्रयोजनबहिष्कृतं न खलु चेष्टितं दृश्यते॥
वैतण्डिकः प्रयतते निजपक्षसिद्ध्यै
तां चैष वेद परपक्षनिषेधलक्ष्याम्।
तस्मादियं स्वमतसाधनवर्जितापि
युक्ता प्रयोजनवती भवितुं वितण्डा॥
न्यायमञ्जरी :—
%दृष्टान्तपरीक्षणम्%
%लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः॥%
लौकिकपरीक्षकौ वादिप्रतिवादिनौ दृष्टान्तप्रस्तावलक्षणाद् वेदितव्यौ, न तु मूर्खपण्डितौ प्रकृतासङ्गतेः, तयोश्च सङ्गत्यभावात्। तयोर्यस्मिन्नर्थे भावस्वभावेऽभावात्मके वा बुद्धिसाम्यम्, प्रयोज्यप्रयोजकभावव्यवस्थितसाध्यसाधनधर्माधिकरणत्वे, साध्यव्यावृत्तिपूर्वकसाधनधर्मव्यावृत्ततायां वा तुल्यरूपा बुद्धिः स दृष्टान्तः। तस्य तथाविधधर्माधारत्वं तद्रहितत्वं वा लक्ष्यमाणान्मन्तव्यम्। यथा चानुमानलक्षणे `तत्पूर्वकम्’ इति प्रतिबन्धग्रहणोपायमात्रं प्रतिपादितं तत् स्वरूपन्त्ववयवलक्षणे निर्णीतम् `उदाहरणसाधर्म्यात् साध्यसाधनं हेतुस्तथा वैधर्म्यात्’ इति, एवमिह वादिप्रतिवादिप्रसिद्धिमात्रं दृष्टान्तस्य दर्शितम्, रूपन्तु तस्य द्विविधमपि तत्रैव वक्ष्यते, `साध्यसाधर्म्यात् तद्धर्मभावी दृष्टान्त उदाहरणम्, तद्विपर्ययाद् वा विपरीतम्’ इति अनित्यः शब्दः कृतकत्वाद् यत् कृतकं तदनित्यं दृष्टं यथा घट इति साधर्म्यदृष्टान्तः। यत् पुनरनित्यं न भवति तत् कृतकमपि न भवत्येव यथाकाश इति वैधर्म्यदृष्टान्तः। यथोक्तलक्षणवैकल्यात्तु दृष्टान्ताभासता इति।
आभासभेदविभवात् कथयिष्यते तु तेषामुदाहरणलक्षणवाक्प्रसङ्गे।
आभासता वचनदोषकृतापि काचिदस्तीति सावयवलक्षण एव वाच्या॥
द्विविधोऽपि च दृष्टान्तः सुदृष्टिभिर्यत्नतोऽधिगन्तव्यः।
स हि निश्चलः फलनिधेरनुमानमहातरोः स्कन्धः॥
न्यायमञ्जरी :—
%सिद्धान्तपरीक्षणम्%
%तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः॥%
तन्त्र्यतेऽनेन पदार्थस्थितिरिति तन्त्रं प्रमाणमुच्यते। अधिकरणमाश्रयः। तन्त्रमधिकरणं यस्य स तन्त्राधिकरणः प्रमाणमूल इत्यर्थः। अभ्युपगमः स्वीकारः, तस्य संस्थितिरित्थम्भावव्यवस्था धर्मनियमः। इदमिति सामान्यनिर्देश इत्थमिति विशेषः। एवञ्च तन्त्राधिकरणाभ्युपगमसंस्थितिः प्रमाणमूलाभ्युपगमव्यवस्था सिद्धान्त इत्युक्ते प्रमाणमूलाभ्युपगमविषयीकृतः सामान्यविशेषवानर्थः सिद्धान्त इति सामान्यलक्षणमुक्तं भवति।
अन्ये तु व्याचक्षते, तन्त्रम् इतरेतरसम्बद्धस्यार्थसमूहस्योपदेशः शास्त्रम्। अधिक्रियत इत्यधिकरणं पक्ष उच्यते। अभ्युपगमो यथोक्त एव। संस्थितिशब्दः प्रत्येकमभिसम्बध्यते। तन्त्रसंस्थितिरधिकरणसंस्थितिरभ्युपगमसंस्थितिरित्यनेन तन्त्रनिर्देशसाम्यात् सर्वतन्त्रसिद्धान्तयोः सूचनम् इतराभ्यां पदाभ्यामुत्तरयोरधिकरणाभ्युपगमसिद्धानतयोरिति। एतत्त्वपव्याख्यानम्, न ह्येवं सिद्धान्तचतुष्टयानुगतं किञ्चित् सामान्यलक्षणमुक्तं भवति। न चेदं विभागार्थं विशेषलक्षणार्थं वा सूत्रम्। तत् प्रतिपादनस्योत्तरसूत्रैः करिष्यमाणत्वात्, उक्तस्य च पुनर्वचने प्रयोजनाभावात्। अतः पूर्वक्रमेणैव सिद्धान्तस्य सामान्यलक्षणवर्णनं श्रेयः। तस्य स्वकण्ठेन विभागमाह,
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
सिद्धान्तलक्षणे %इत्थम्भावव्यवस्थेति।% अस्य विवरणं %धर्मनियम% इति। शब्दस्य सामान्येन सिद्धस्येत्थम्भावव्यवस्था अनित्य एव शब्द इत्यनित्यत्वाख्यधर्मनियमः। %इतरेतरसम्बद्धस्यार्थसमूहस्येति।% नासम्बद्धस्य दशदाडिमादिवत्।
न्यायमञ्जरी :—
%स चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात्॥%
चतुष्प्रकारो हि सिद्धान्तः सर्वतन्त्रसिद्धान्तः प्रतितन्त्रसिद्धान्तोऽधिकरणसिद्धान्तः अभ्पुपगमसिद्धान्तः। तत्र,
न्यायमञ्जरी :—
%सर्वतन्त्राविरुद्धः स्वतन्त्रेऽधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः॥%
अत्र तन्त्रशब्देन शास्त्रमुच्यते, स्वशास्त्रे य उपदिष्टोऽर्थः सर्वशास्त्राविरुद्धश्च स सर्वतन्त्रसिद्धान्तः, यथा चाक्षुषं प्रमाणमिति। नन्वत्रापि विवदन्ते ब्रह्मवादिनां हि सर्वैवेयमविद्या, अविद्या च कथं प्रमाणमिति। न व्यवहारावस्थायां तैरपि तत्प्रामाण्याभ्युपगमात्। संख्यालक्षणविषयविप्रतिपत्तितिस्तु प्रतिशास्त्रं भवतु, चाक्षुषं प्रमाणमितीयति सर्ववादिनामविवादः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%ब्रह्मवादिनां हि सर्वैवेयमविद्येति।% ग्राह्यस्य प्रपञ्चस्यासत्यत्वात्। तद्ग्राहकस्य ज्ञानस्याविद्यात्वम्। %सङ्ख्या-लक्षण-विषयविप्रतिपत्तिस्त्विति% सङ्ख्याविप्रतिपत्तिः, `द्वे एव प्रमाणे’ इत्यादिका। विप्रतिपत्तिः `प्रत्यक्षं कल्पनापोढम्’ इत्यादिका। विषयविप्रतिपत्तिः `स्वलक्षणविषयं प्रत्यक्षम्’ इत्यादिका।
न्यायमञ्जरी :—
%समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः॥%
तन्त्रेऽधिकृतोऽर्थ इति वर्तते, यथास्माकमीश्वरेच्छाप्रेरितपरमाणुनिर्मितानि पृथिव्यादीनि समानतन्त्रे कणव्रतमते तथैव सिद्धानि, परतन्त्रे च सांख्यादिशास्त्रे तथा नाभ्युपगम्यन्त इति। यथा वा गुणत्रयात्मिकायाः प्रकृतेर्महदहङ्कारादिक्रमेण भूतसर्ग इति साङ्ख्यानां स्वतन्त्रसिद्धोऽर्थः समानतन्त्रेऽपि पातञ्जले योगशास्त्रे सिद्ध एव, परतन्त्रे तु वैशेषिकादिमते न सिद्ध इति। नन्वस्य कथं प्रमाणमूलता ? स्थाने प्रश्नः, सत्यमेतत्, आस्माकीने हि प्रतितन्त्रसिद्धान्ते प्रमाणमूलत्वं यथार्थमेव, साङ्ख्यसिद्धान्तस्तु प्रमाणमूलत्वाभावेऽपि परतन्त्रत्वख्यापनायोदाहृतस्तदभिप्रायेण मूलता वक्तव्येति।
न्यायमञ्जरी :—
%यत्सिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः॥%
प्रक्रियते इति प्रकरणं पक्ष उच्यते। यस्यार्थस्य सिद्धौ सत्यां प्रकरणान्तरसिद्धिर्भवति सोऽधिकरणसिद्धान्तः, तदधिकरणानामर्थान्तराणां सिद्धेः।
कः पुनर्यत्सिद्धाविति सर्वनाम्ना प्रत्यवमृश्यते पक्षो हेतुर्वा ? किञ्चातः, पक्षः कथं पक्षान्तरसिद्धये कल्पते, हेतुना हि पक्षसिद्धिः क्रियते न पक्षेण, हेतोस्त्वधिकरणसिद्धान्तत्वे कथं सिद्धान्ताश्रया न्यायप्रवृत्तिरिति तदुद्देशप्रयोजनं वर्णितम्, न्यायो हि हेतुरेव स एव चाधिकरणसिद्धान्तो न च हेतुर्हेत्वाश्रयः इति।
उच्यते, उभयथाप्यदोषः, हेतुरपि क्वचित् पक्षीभवति, पक्षो हि हेतुर्भवत्येव तत्र तावदाञ्जस्येन हेत्वधीना पक्षसिद्धिरिति हेतुरेव सर्वनाम्नावमृष्यते यत्सिद्धावन्यप्रकरणसिद्धेः स एवाधिकरणसिद्धान्तः।
कथं तर्हि तदाश्रया न्यायप्रवृत्तिः ? उच्यते, हेतुरपि तदन्यतराभिन्न इव साध्यमानत्वात् पक्षीभवन् न्यायान्तराश्रयतां प्रतिपत्स्यते, अपि वा पक्ष एव सर्वनाम्नावमृष्यमाणो भवत्वधिकरणसिद्धान्तः स च स्पष्ट एव न्यायस्याश्रयः। स च सिद्ध्यै पक्षान्तराण्याक्षिपन्नेव सिद्ध्यतीत्यधिकरणसिद्धान्ततां भजते। तस्योदाहरणम् इन्द्रियव्यतिरिक्तो ज्ञाता दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिति। अत्रेन्द्रियव्यतिरिक्ते ज्ञातरि सिद्ध्यति तदनुषङ्गीण्यर्थान्तराण्यपि सिध्यन्ति; नानेन्द्रियाणि नियतविषयाणि, गुणव्यतिरिक्तं द्रव्यमित्येवमादीनि।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%इन्द्रियव्यतिरिक्तो ज्ञातेति।% एकार्थग्रहणादेकार्थप्रसाधकात् प्रतिसन्धानलक्षणाद् हेतोरित्यर्थः। यदि हि एकमिन्द्रियं स्यात् तदा यमहमद्राक्षं तं स्पृशामीति तत्कृतमेव प्रतिसन्धानं भवेत्। यदि वा अनियतविषयं स्यात् तदाप्यनियतविषयत्वादेकेनैवेन्द्रियेण प्रतिसन्धानं सिद्ध्येद् विनाप्येकेनानियतविषयेण ज्ञात्रा। यदि गुणव्यतिरिक्तं द्रव्यं न स्यात् तदा विषयशून्यत्वात् प्रतिसन्धानस्य अप्रमाणं तत् स्यादेकार्थसिद्धौ।
न्यायमञ्जरी :—
%अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः॥%
अत्रापरीक्षिताभ्युपगमादिति यथाश्रुतपञ्चमीनिर्देशमनुरुध्यमानाः प्रमाणमूलाभ्युपगमविषयीकृतोऽर्थः सिद्धान्त इति च सामान्यलक्षणमनुसरन्तः केचिदेवं व्याचक्षते, धर्मिणः शब्दादेर्नित्यत्वविचारचर्चायाम् अपरीक्षितस्यैवाकाशविशेषगुणत्वादिधर्मपरीक्षारहितस्यैवाभ्युपगमात् किं सिध्यति ? उच्यते, तद्विशेषपरीक्षणं तद्गतनित्यानित्यत्वपरीक्षणं हि सामान्येन धर्मिण्युपादीयमाने व्योमविशेषगुणत्वादिधर्मपरीक्षारहिते सत्युपपद्यते। यदि पुनराकाशविशेषगुणत्वविशिष्टः शब्दो धर्मित्वेनोपादीयते परं प्रत्यसिद्धविशेषणः पक्षो भवेदिति। एवमपि कृते यदि पुरो धर्मिणं विकल्पयेत् कीदृशस्य सतः शब्दस्य भवता नित्यत्वं साध्यते द्रव्यस्य गुणस्य वेति, स एवं विकल्पयन्नर्थान्तरगमनात् तावत् पराजित एव भवति। जितमप्येनं पुनर्जेतुं स्वबुद्ध्यतिशयचिख्यापयिषया परबुद्ध्यवज्ञया च वादी ब्रवीति `अस्तु द्रव्यं शब्दः’ इति।
न्यायमञ्जरी :—
%अत्रारुचिप्रदर्शनम्%
एतत्तु व्याख्यानं न बुद्ध्यामहे। एवं व्याचक्षाणानामेषामभ्युपगमसिद्धान्त इति को नु व्यवस्थित इति। यदि तावदनित्यः शब्द इति द्रव्यत्वगुणत्वादिविशेषरहितशब्दाख्यधर्मनिर्देशो यः प्रथममुपात्तः स एवाभ्युपगमसिद्धान्तस्तत्राभ्युपगमार्थः कीदृशः, कश्च प्रतितन्त्रसिद्धान्तादस्य विशेषः ? अथास्तु द्रव्यं शब्दार्थ इति स्वबुद्ध्यतिशयाभिमानेन पश्चादभ्युपगम्यमानद्रव्यत्वविशिष्टशब्दनिर्देशोऽभ्युपगमसिद्धान्तः, तर्हि तत्र सूत्रऽपरीक्षिताभ्युपगमादिति न योजितम्, अन्यत्रैव तैः सूत्रार्थो नीत इति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%अभ्युपगमार्थः कीदृश% इति। प्रमाणेनैव स्वार्थस्य साधयितुमभिप्रेतत्वादिति। %अन्यत्रैव तैः सूत्रार्थो नीत% इति। आकाशविशेषगुणत्वादिधर्मपरीक्षारहितस्याभ्युपगमादित्यत्रार्थे तैः सूत्रार्थो योजितः।
न्यायमञ्जरी :—
%स्वमते सूत्रव्याख्यानम्%
तस्मादेवं व्याख्यायते, अपरीक्षिताभ्युपगम एव स्वमतिकौशलेन क्रियमाणोऽभ्युपगमसिद्धान्तः। अस्तु द्रव्यं शब्द इति प्रमाणमूलाभ्युपगमविषयीकरणं तु सामान्यलक्षणे प्रौढवाद्यभिप्रायेण योज्यम्। द्रव्यत्वमपि प्रमाणमूलं शब्दस्य भवतु तथापि तस्यानित्यत्वमिति किल निरवयवं द्रव्यमनित्यं नास्त्येव शब्दस्य तु तादृशस्याप्यनित्यत्वमहं साधयामीति। कथं तर्हि पञ्चमी ? किं पञ्चम्या ? वस्तु तावदीदृशं यथा व्याख्यातमस्माभिः, पञ्चम्यपि चेत्थं योज्यते। किमर्थं पुनरयमपरीक्षित एव शब्दद्रव्यत्वाभ्युपगमः क्रियत इति पृच्छत उतरं पञ्चम्याभिधीयते, यस्मादपरीक्षिताभ्युपगमात् तद्विशेषानित्यत्वपरीक्षणमेव सामानाधिकरण्यनिर्देशादभ्युपगमसिद्धान्त इति मन्तव्यम्, परीक्षणस्य सिद्धान्ताश्रितत्वात्। तस्माद् विशेषपरीक्षणार्थोऽपरीक्षिताभ्युपगमः प्रौढवादिना क्रियमाणोऽभ्युपगमसिद्धान्त इति सूत्रार्थः। इत्थमेव च तत्र तत्र प्रावादुकानां व्यवहारः।
इमाश्च सिद्धान्तभिदाश्चतस्रो न्यायप्रवृत्तेः प्रथमं निमित्तम्।
प्रवर्तते नैव परीक्षकाणामनाश्रया न्यायकथा कदाचित्॥
न्यायमञ्जरी :—
%अवयवपरीक्षा%
%अवयवस्य परार्थानुमानापरपर्यायस्य स्वरूपे संशयप्रदर्शनम्%
इह हि स्वयमवगतमर्थमनुमानेन परस्मै प्रतिपादयता साधनीयस्यार्थस्य यावति शब्दसमूहे सिद्धिः परिसमाप्यते तावान् प्रयोक्तव्यः। तमेव च परार्थमनुमानमाचक्षते नीतिविदः।
ननु नैव परार्थमनुमानं नाम किञ्चिदस्ति, वक्त्रपेक्षया श्रोत्रपेक्षया वा तदनुपपत्तेः।
वक्त्रान्वमायि स ह्यर्थो नेदानीमनुमीयते।
श्रोतुः स्वार्थानुमानं तद् वाक्यावगतिहेतुकम्॥
यथा प्रत्यक्षतो धूमं दृष्ट्वाग्निमधिगच्छति।
तथा तदीयाद् वचनादिति कस्य परार्थता॥
आगमस्त्वेष भिद्येत कश्चिदर्थोपदेशकः।
कश्चिच्च तत्प्रत्ययोपायन्यायमार्गोपदेशकः॥ इति ।
सत्यम्, न परमार्थतः परार्थमनुमानमुपपद्यते, किन्तु द्विविधः प्रतिपत्ता स्वयमवगतयथाप्रकृतलिङ्गव्याप्तिकः, तद्विपरीतश्च। यत्र स्वयमवधृतप्रतिबन्धं प्रति नोपदिश्यते एवमनुमानं स्वत एव तस्य प्रतीत्युत्पत्तेः, अनवधारितव्याप्तिकस्य तु व्याप्तिरेव व्युत्पाद्यत इति तं प्रति परार्थमनुमानं तदुपदेशकं वाक्यमेवाख्यायते। तथा हि,
वक्त्रा स्वप्रत्ययेनेदं न हि वाक्यं प्रयुज्यते।
परो मद्वचनादेव तमर्थं बुद्ध्यतामिति॥
किन्त्वेनमनुमानेन बोधयामीति मन्यते।
सोऽपि तद्वचनान्नैव तमर्थमवबुध्यते॥
किन्तु व्याप्तिमतो लिङ्गात् स्वयं तत्तु न पश्यति।
तत्प्रतीत्यभ्युपायत्वात् परार्थमिदमुच्यते॥
अतश्च श्रोतुः स्वार्थानुमानमेवेदं वक्ता तु तथा परं प्रतिपादयन् परार्थमनुमानं प्रयुङक्ते इत्युच्यते।
न चानुवादमात्रं तद् वक्तुरित्युपपद्यते।
यतो व्याप्रियते सम्यक् परस्य प्रतिपत्तये॥
तेनानधिगतार्थोपदेशकत्वान्नानुवादमात्रम्, स्वागमापेक्षया त्वनुवादत्वेनेदानीमाप्तवचनमनुवादरूपं किंचिद् भवेत् सर्वस्य स्वोपलब्धिपूर्वकत्वादिति। तस्मात् परार्थानुमानवाक्योपपत्तेस्तदेकदेशा अवयवा युक्ता इति लक्ष्यन्ते।
न्यायमञ्जरी :—
%अवयवविभागः%
%प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः॥%
एतच्च सूत्रमेकमेव सामान्यलक्षणमवयवानामभिधत्ते विभागञ्च प्रमाणानामिव प्रत्यक्षानुमानोपमानशब्दाः, साधनीयार्थप्रतिपत्तिपर्यन्तवचनकलापैकदेशत्वमवयवानां सामान्यलक्षणमाचष्टे। यद्यपि चैकवक्तृवचननिर्गतानां निसर्गभङ्गुराणामदीर्घायुषामपरिहार्यक्रमजन्मनां द्रुमाणामिव पारमार्थिकः समूहो न समस्त्येव; तथापि सिषाधयिषितार्थप्रतिपादनरूपैककार्योपयोगमूलीकृतात्मनां तेषां काल्पनिकः कलापः पूर्वमेव वाक्यकल्पनावसरे समर्थित इति तद्भागा अपि सम्भवन्त्येव।
न च पदानामेवानुमानवाक्यावयवत्वम् अपि तु खण्डवाक्यानाम् एकेन पदेन प्रतिज्ञोदाहरणादीनामभिधातुमशक्यत्वात्। हेतुवचनन्त्वेकमपि पदं क्वचिद् भवति कृतकत्वादिति। तदपि वा सविशेषणं प्रयुज्यमानं पदसमुदायेनैव प्रतिपाद्यते वस्तुत्वे सति कृतकत्वादिति। उदाहरणवचनमपि पटवदित्येवमालस्यादेव प्रयुज्यते। तद्धि व्याप्तिदर्शनायैव वक्तव्यं यत् कृतकं तदनित्यं दृष्टं यथा घट इति। तस्मादवयवानामवयवत्वमेव लक्षणं न पदत्वम्। विभागोऽपि प्रतिज्ञादिपदसन्निधाववयवश्रुतेरेवावगम्यते प्रतिज्ञादयः पञ्चावयवा न न्यूनातिरिक्ता इति।
न्यायमञ्जरी :—
%अवयवसंख्यायां विप्रतिपत्तिप्रदर्शनम्%
नन्वत्र विवदन्ते केचित्, न्यूनतामवयवानामाचक्षते त्र्यवयवं द्व्यवयवं वा साधनवाक्यं वदन्तः। अन्ये तु जिज्ञासा संशयः शक्यप्राप्तिः प्रयोजनं संशयव्युदास इति पञ्चभिः सह प्रतिज्ञादीन् दशावयवानाहुः। उच्यते, न्यूनता यथावसरं प्रतिसमाधास्यते, आधिक्यमप्ययुक्तं जिज्ञासादीनामशब्दस्वभावत्वेन वाक्यावयवत्वायोगात्। तथा ह्यप्रतीयमानेऽर्थे प्रतीतिप्रयोजनस्य प्रवर्तिका जिज्ञासा, सा चेच्छास्वभावत्वादान्तरः प्रमातृधर्मो न वाक्यावयवः। अर्थक्रियासाधनेऽर्थे विमर्शः संशयः किमेवमयम् अथवैवमिति ज्ञानात्मकत्वान्न वाक्यावयवः। प्रमातुः प्रमाणानि प्रवर्तमानानि प्रमेयमर्पयितुं पारयन्तीति सम्भावना शक्यप्राप्तिः, सापि तथैव न वाक्यावयवं स्पृशेत्। तत्त्वावधारणफलात्मकं प्रयोजनमपि न वाक्यैकदेशः। संशयव्युदासस्तु प्रतिपक्षोपालम्भः, स च वचनस्वभावत्वेऽपि न साधनवाक्यावयवः किन्तु वाक्यान्तरमेवेति न साधनवाक्यस्यावयवत्वं प्रतिपद्यते। तदिमे संशयादयः प्रवृत्तिहेतवो भवन्ति न वाक्यावयवा इति सूक्तं प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवा इति। तेषाम्
न्यायमञ्जरी :—
%साध्यनिर्देशः प्रतिज्ञा॥%
प्रतिज्ञेति लक्ष्यनिर्देशः, साध्यनिर्देश इति लक्षणम्। शुद्धस्य धर्मिणो धर्मस्य वा द्वयोर्वा स्वतन्त्रयोः, धर्मिविशिष्टस्य वा धर्मस्य साध्यत्वानुपपत्तेः धर्मविशिष्टो धर्मी साध्य इत्यनुमानलक्षणे निर्णीतमेतत्। तस्य निर्देशः परिग्रहवचनं प्रतिज्ञेति। ननु साधारणत्वाद् वाक्यानां किं साध्यनिर्देश एव प्रतिज्ञेत्यवधारणमुत प्रतिज्ञैव साध्यनिर्देश इति। यदि साध्यनिर्देश एव प्रतिज्ञेत्यवधार्यते तदा यत एवकारकरणं ततोऽन्यत्रावधारणमिति प्रतिज्ञा नियम्यते साध्यनिर्देशं मा त्याक्षीदिति। साध्यनिर्देशस्त्वनियमित इति प्रतिज्ञामपहायापि भवेदित्यतिव्यापकं लक्षणम्। अत प्रतिज्ञैव साध्यनिर्देश इत्यवधार्यते ततः साध्यनिर्देशो नियम्यते प्रतिज्ञा मा त्याक्षीदिति। प्रतिज्ञा त्वनियमिते साध्यनिर्देशमपहायापि भवेदिति साध्यनिर्देशेन प्रतिज्ञाया अव्याप्तत्वादव्यापकं लक्षणमिति। तदेतदयुक्तम्। न हि सर्वं वाक्यं सावधारणं भवति यथैष पन्थाः स्रुघ्नं गच्छतीति। न हि तत्रैष एवेति, स्रुघ्नमेवेति वा नियन्तुं शक्यत इति। अथाप्यवधारणमवश्याश्रयणीयं तद् भवतु साध्यनिर्देश एव प्रतिज्ञेति। न चातिव्याप्तिः प्रतिज्ञामपहायान्यत्र साध्यनिर्देशस्यादर्शनात्, अनियमितोऽप्यसावन्यत्र न दृश्यत एवेति। तस्मात् साध्यनिर्देश एव प्रतिज्ञेति स्थितम्, तद् यथा अनित्यः शब्द इति।
नन्वत्रापि किमनित्य एवेत्यवधारणमुत शब्द एवानित्य इति। तत्र अनित्य एव शब्द इत्युक्ते तद्गतधर्मान्तरतिरस्कारात् कृतकत्वमपि तत्र न भवेदित्यसिद्धो हेतुः। शब्द एवानित्य इति त्ववधार्यमाणे घटादावनित्यत्त्वप्रतिषेधादन्वयशून्यता हेतोः स्यादिति। नैष दोषः, निरवधारणस्यापि वचनप्रयोजस्य दर्शितत्वाद् अनित्य एव शब्द इत्यवधारहणे वा नानित्यत्वव्यतिरिक्ततदविरुद्धकृतकत्वाद्यशेषधर्मान्तरनिषेधस्तत्र विधीयते; किन्तु तद्विरुद्धनित्यत्वमात्रनिषेध एव अनित्य एव शब्दो न नित्य इत्यर्थः। तदुक्तम्,
नियमस्तद्विरुद्धाच्च कल्प्यते नाविरोधिनः। इति ।
तस्मान्न हेतोरसिद्धत्वम्।
ननु साधनवाक्ये प्रतिज्ञावचनमसञ्जसमसाधनाङ्गवचनत्वात्, हेतुदृष्टान्तवचनाभ्यां हि साध्यसिद्धेस्ते एव वक्तव्ये। न च स्वप्रतिपत्तावुपलब्धं सर्वमेव परस्मै आख्येयम्, आख्याने वा धर्मिमात्रमाख्यायताम्, स्वप्रतिपत्तौ हि पूर्वं पर्वतादेः शुद्धस्य धर्मिणो ग्रहणं न तु सिषाधयिषितहुतवहादिधर्मविशेषरूषितवपुषः। एवमभ्युपगमेऽनुमानवैफल्यप्रसङ्गात्। अतः कथं प्रथममेव साध्यधर्माध्यासितस्वरूपधर्मिनिर्देशकरणम् ? अपि च विवादादेव प्रतिज्ञार्थो लभ्यत इति किं स्वकण्ठोक्तेन तेन प्रयोजनम् ? उच्यते, स्वप्रतिपत्तिमनुसरता परस्य प्रतिपत्तिरुत्पादनीयेति स्वप्रतिपत्तौ प्रथममुपलब्धो धर्मी तावदाख्येय एव अनुद्देश्यमाने हि धर्मिणि निरधिकरणो हेतुः क्व साध्यं साधयेत् ? धर्म्यनवच्छिन्ने च धर्ममात्रेऽनुमानमनर्थकमविवादसिद्धत्वात्। अस्ति हि यत्र क्वचिदनित्यत्वमित्याश्रयासिद्धश्च धर्मिनिर्देशाद् विना हेतुर्भवेदित्यवश्यनिर्देश्यो धर्मः। यद्यपि च धर्मिमात्रदर्शनमेव प्रथममभूत् तथापि किं साधयितुं हेतुः प्रयुक्तो भवेदित्युपप्लवशमनाय साध्यधर्मनिर्देशोऽपि कर्तव्यः। शब्दः कृकत्वादिति हि प्रयुज्यमानं तदिदमन्धपदमिव साधनं भवेत्।
अथ व्याप्तिप्रदर्शननिपुणेन यत् कृतकं तदनित्यं दुष्टमिति दृष्टान्तवचसा, तस्मादनित्य इति निगमनवचनेन वा विरंस्यति स उपप्लव इति। तत्रापि श्रोतुबुभुत्सोपरमपरिश्रमफले साधनवाक्ये साधनाधिगमकाङ्श्रासमुत्पादनाय साध्यं निर्देष्टव्यम्। न हि शब्द इत्येतावत्युक्ते तत्र साधनमाकाङ्क्षति कश्चिदितिसाधनवचनावसरतत्प्रयोगसाफल्योत्पादनायैव नूनमनित्यः शब्द इति प्रतिज्ञावचनं प्रयोक्तव्यम्। यच्च विवादादेव प्रतिज्ञार्थस्य लब्धत्वमभिधीयते, तदभ्युपगमनमेव शब्दान्तरेण प्रतिज्ञायाः। यतो विरुद्धो वादो विवादः, एक आह नित्यः शब्दः, इतरस्त्वनित्य इत्याह, सोऽयं पक्षप्रतिपक्षपरिग्रहो विवादः प्रतिज्ञैव। स तु पक्षप्रतिपक्षपरिग्रहस्तदहरेव भवतु दिनान्तरे वेति किमनेन विशेषेण। तस्मादपरिहार्यं प्रतिज्ञावचनमिति सिद्धम्। प्रतिज्ञैव च पक्ष इत्युच्यते।
तदेवंविधे पक्षलक्षणे प्रदर्शिते बलात् पक्षाभासाः प्रतिक्षिप्ता भवन्ति। तद् यथा अनुष्णोऽग्निरिति प्रत्यक्षविरुद्धः पक्षः। न रूपग्राहि चक्षुरित्यनुमानविरुद्धः। शब्दविरुद्धस्तु बहुशाखः, ब्राह्मणेन सुरा पेयेत्यागमविरुद्धः, जनित्री मे वन्ध्या, पिता ब्रह्मचारीति धर्मधर्मिपदयोरेव विप्रतिषेधात् स्वचनविरुद्धः। न चन्द्रः शशीति लोकप्रसिद्धिविरुद्धः। उपमनविरुद्धस्तु न गवयशब्दवाच्योऽयं गोसदृश इति। अप्रसिद्धविशेषणो नभः कुसुमकृतावतंसश्चैत्र इति, अप्रसिद्धविशेष्यः सुगन्धि गगनकमलमिति। अप्रसिद्धोभयः खपुष्पकृतशेखरो वन्ध्यासुत इति। यत्रापि विशेषणविशेष्ययोः प्रमाणान्तरतः स्वरूपं निश्चितमेव तन्निर्देशोऽपि पक्षाभास एव, शीतं तुहिनमुष्णोऽग्निरिति, साध्यत्वाभावेनानुमानप्रयोगावसरविरहाद् इतीयमेव च सा सिद्धसाध्यतोच्यत इति। ये चैते प्रत्यक्षविरुद्धतादयः पक्षदोषाः, ये च वक्ष्यमाणाः साधनविकलत्वादयो दृष्टान्तदोषास्ते वस्तुस्थित्या सर्वे हेतुदोषा एव, प्रपञ्चमात्रन्तु पक्षदृष्टान्तदोषवर्णनम्। दृष्टान्तदुष्टतया च हेतोरेव लक्षणमन्वयव्यतिरेकयोरन्यतरद् हीयत इति सर्वे च ते हेतुदोषा एव।
अत एव च शास्त्रेऽस्मिन् मुनिना तत्त्वदर्शिना।
पक्षाभासादयो नोक्ता हेत्वाभासास्तु दर्शिताः॥
कश्चिद्धेत्वनपेक्षोऽपि पक्षमात्रप्रतिष्ठितः।
बाधोऽनुमानरूपस्य स्ववाक्यादिकृतो यथा॥
एवंलक्षणको हेतुरिति तत्स्वरूपावधारणे सति तदभिधायकं वचनं सुखमेव लक्ष्यते इत्यर्थात्मकहेतुलक्षणं तावदुच्यते,
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
अवयवलक्षणे %साध्यनिर्देशस्त्वनियमित% इति। तमपहायापि भवेदित्यतिव्यापकं लक्षणमिति। एवं हि सति यः साध्यनिर्देशः सा प्रतिज्ञेति न स्यात्, अप्रतिज्ञारूपस्यापि साध्यनिर्देशस्य सम्भवात्। %यथैष पन्थाः स्रुघ्नं गच्छती%ति। नन्वत्रापि वाक्ये गच्छत्येवेति अवधारणमस्त्येव। नैतदेवम्। अवधारणं हि विशेषणेन समानविषयम्। न च `ए, पन्थाः स्रुघ्नं गच्छति’ इति अत्र विशेषणं सफलम्। तस्य हीष्टानिष्टसंदेहेऽनिष्टव्यवच्छेदः फलम्। यथा च विशेषणस्येष्टानिष्टप्रसत्तौ `नीलमेवोत्पलं नानीलम्’ इत्यनिष्टव्यवच्छेदः प्रयोजनं तथावधारणस्य। न चोत्पलस्येव नीलानीलत्वं गमस्य द्वैरूप्यमस्ति येन गच्छत्येवेत्यनेन रूपान्तरस्य व्यवच्छेदः क्रियेत। %न हि तत्रैष एवे%ति। एष एवेति नियमो मार्गान्तराणामपि स्रुघ्नगामिनां सम्भवाद् वक्तुं न पार्यते। %स्रुघ्नमेवेति%वेति। न चासौ नियमेन स्रुघ्नमेव गच्छति, स्रुघ्नात् परतोऽवस्थितानामपि नगरान्तरग्रामान्तराणां तेन मार्गेण प्राप्यत्वात्।
%नियमस्तद्विपक्षादिति।% तस्यानित्यत्वस्य विपक्षो नित्यत्वम्, ततो नियमः क्रियते अनित्य एवेत्यनेन। %नाविरोधिनो गुणत्वादेः।%
%बाधोऽनुमानसारूप्ये%ति। सारूप्यकृत उपमानकृतः।
न्यायमञ्जरी :—
%उदाहरणसाधर्म्यात् साध्यसाधनं हेतुरिति॥%
नौप३?पथात्मको हेतुरनुमानं तच्च लक्षितमेव पूर्वं तत्पूर्वकं त्रिविधमनुमानमिति। सत्यम्, तस्य तत्पूर्वकमिति सर्वनामपरामृष्टप्रत्यक्षमूलतोपवर्णनेन प्रतिबन्धपरिच्छेदोपायमात्रनिरूपणं कृतमिह तु न प्रतिबन्धस्वरूपमपि प्रतिपाद्यते। तत्र अर्थात्मके हेतौ लक्ष्ये पञ्चमीमपास्योदाहरणसाधर्म्ये साध्यसाधनं हेतुरिति सूत्रं पठन्ति। व्याचक्षते च साधर्म्यं हेतुरित्युच्यमाने गन्धवत्त्वादेरसाधारणहेतोः साध्यधर्मिव्यक्तिभेदवृत्तित्वेन साधर्म्यरूपसम्भवाद् विरुद्धस्य पक्षविपक्षवृत्तेस्तत्साधर्म्यस्वभावत्वाद् हेतुत्वं प्रसज्यत इति तन्निवृत्त्यर्थमुदाहरणग्रहणम्। उदाह्रियतेऽस्मिन् साध्यसाधनयोः प्रयोज्यप्रयोजकभाव इत्युदाहरणं दृष्टान्तः, तेन साधर्म्यम्। कस्येति ? प्रकृतत्वात् प्रत्यासत्तेश्च साध्यस्य धर्मिण इत्यवगम्यते। उदाहरणसाधर्म्यं साध्यदृष्टान्तधर्मिसाधारणो धर्मो हेतुरिति नासाधारणादौ तथात्वप्रसक्तिरिति। एवमपि प्रमेयत्वादेरनैकान्तिकहेतोः, तथा भागासिद्धस्यानित्यत्वसिद्धये चतुर्विधपरमाणुपक्षीकरणे गन्धवत्त्वादेः, प्रकरणसमकालात्ययापदिष्टयोश्चोदाहरणसाधर्म्यसम्भवाद् हेतुत्वं भवेदिति तद्व्यवच्छेदाय साध्यसाधनग्रहणम्। साध्यदृष्टान्तधर्मिणोश्च समानो धर्मः साध्योऽप्यनित्यत्वादिर्भवत्येवेति तस्यापि हेतुता मा प्रसाङ्क्षीदिति साध्यसाधनग्रहणम्। लिङ्गसामान्यलाभार्थं साध्यसाधनं यदुदाहरणसाधर्म्यं स हेतुरिति। साध्यसाधनपदेन च प्रतिबन्धो लक्ष्यते, स च सव्यभिचारादिषु नास्तीति न ते हेतवः। प्रतिबन्धश्च पञ्चलक्षणक इत्येकैकलक्षणाभावकृतहेत्वाभासपञ्चकनिर्देशादेव सूचितवानाचार्यः।
नन्वेवं तर्हि साध्यसाधनग्रहणमेव हेतुलक्षणमस्तु, तद्धि सकलहेत्वाभासव्युदाससमर्थमिति, किमुदाहरणसाधर्म्यग्रहणेन ? समानजातीयव्यवच्छेदार्थत्वात्। अहेतवो हि विजातीयास्तद्व्यवच्छेदः साध्यसाधनग्रहणात् समानजातीयस्य केवलव्यतिरेकिणो व्यवच्छेदायोदाहरणसाधर्म्यग्रहणमिति। तत् किं केवलान्वयी हेतुरिति लक्ष्यत्वेन विवक्षितः ? न, तथाविधस्य हेतोरभावाद् अन्वयव्यतिरेकलक्ष्यमत्रोदाहरणसाधर्म्यम्, वैधर्म्यसम्भवे तु सति साधर्म्यमप्यस्त्येवेति, न सावधारणं वा विशेषविधिरूपेणैवेदमुदाहरणसाधर्म्यग्रहणं केवलान्वयिलक्षणं वर्णनीयमिति।
ननु यदि द्विविधो हेतुरिष्यते तर्हि सामान्यलक्षणमादौ वक्तव्यं ततो विशेषलक्षणमिति। उच्यते, साध्यसाधनग्रहणमेव प्रतिबन्धसूचकं सामान्यलक्षणं भविष्यति, उदाहरणसाधर्म्यग्रहणन्त्वन्वयव्यतिरेकिणो लक्षणम्, उत्तरसूत्रं चे केवलव्यतिरेकिणः, केवलान्वयी हेतुर्नास्त्येवेत्येवं पञ्चमीमुपेक्ष्यार्थात्मकहेतुलक्षणमाचख्युः। अपि वा भवतु तत्रापि संशयव्यवच्छेदफलः पञ्चमीपाठः। कश्चिदेवमभिदधीत साध्यसाधनमिति पर्यायपठनमात्रमेतन्न हेतुलक्षणम्। अपि च यत्रैव दृष्टान्तधर्मिणि हेतुधर्मप्रयुक्ततया साध्यधर्मोऽवधारितस्तत्रैव पुनरसावुपलभ्यमानस्तमुपस्थापयतु धर्म्यन्तरे तु तदुपलम्भाद् भवतु संशयः किं तत्साध्याविनाभूतमिह हेतोः सत्त्वमुतान्यथेति। अस्येदमुत्तरमुच्यते, उदाहरणसाधर्म्यादिति। अयमर्थो देशकालव्यक्तिविशेषाणां व्यभिचारान्न तेषु प्रतिबन्धावधारणमपि तु सामान्यधर्मयोरेव,
व्यक्तिभेदाश्रयत्वे हि नैव व्याप्तिग्रहो भवेत्।
दृष्टान्तेऽप्यभ्यनुज्ञैवं भवता दीयते कथम्॥
तदभ्यनुज्ञानात्तु सामान्येन व्याप्तिग्रहणमङ्गीकृतमेव भवति। तस्मिंश्च सत्युदाहरणसाधर्म्यात् साध्यसाधनमेव भवति न संशयः, संशयस्य विशेषग्रहणकारणकत्वात्। इह चोदाहरणसाधर्म्यपदोपात्तं लिङ्गसामान्यमेव विशेषो गृह्यत इति कुतः संशयः ? साध्यसाधनपदमपि न पर्यायमात्रमपि तु पञ्चलक्षणकप्रतिबन्धसूचनेन हेतोर्हेतुत्वसमर्थनार्थमेतत्, कस्माद्धेतुहेतुर्भवति साध्यसाधनत्वाद् गमकत्वादित्यर्थः। साध्यसाधनता चास्च पञ्चलक्षणकात् प्रतिबन्धाद् विना न निर्वहतीत्यसौ साध्यसाधनपदेन लक्ष्यते। सोऽपि च प्रयोज्यप्रयोजकभावगर्भः साधनाङ्गतामेतीति तथाविध एव सूच्यते। अत एव चाप्रयोजक एवैकः परमार्थतो हेत्वाभास इति वक्ष्यते। तदिदमीदृशं साध्यसाधनत्वं हेतोः कुतो भवतीत्युदाहरणसाधर्म्यादिति संशयं व्यवच्छिन्दन्त्या पञ्चम्या कथ्यते, अतश्च यदुच्यते परैः `साधर्म्यं यदि हेतुः स्यान्न वाक्यांशो न पञ्चमी’इति, तदिदमनुपपन्नम्, पञ्चम्याः अर्थात्मकत्वे हेतावनुपयोगात् तत्रापि वा तस्याः समर्थितत्वात्, वाक्यांशे लक्षणान्तरकरणात्। तच्चेदमिदानीमुच्यते उदाहरणसाधर्म्यात् साध्यसाधनं हेतुः। यद्यपि च ज्ञानस्याप्युदाहरणसाधर्म्यात् कर्मभूतात् करणात्मकत्वाद् वा भवत्यभिनिर्वृत्तिस्तथापि वाक्यावयव प्रकरणसामर्थ्याद् वचनमवसीयते।
यदि वाक्यावयवप्रकरणमिदं किमर्थं तर्ह्यर्थव्युत्पादनम् ? उक्तमत्र तदौपयिकत्वाद् इति। साध्यसाधनग्रहणं वचनलक्षणे किमर्थम्, हेत्वाभासवचननिरसनमर्थात्मकहेतुलक्षणादेव हि सिद्धम्। न, हेत्वाभासवचनव्यवच्छेदकं पक्षधर्मवचनं कृतकत्वादित्येवमादि प्रयोक्तव्यमपि तु हेतुविभक्त्यन्तं कृतकत्वादित्येवमादि प्रयोक्तव्यमिति कृतकत्वेनेति कृतकोऽयमस्मादिति वा अभिधातव्यम्, एवं हि तत् साध्यसाधनं भवतीति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%पक्षविपक्षवृत्तेस्तत्साधर्म्यस्वभावत्वादिति।% विरुद्धस्य असति पक्षवृत्तित्वेऽसिद्धत्वं स्यान्न विरुद्धत्वमिति। %तदुदाहरणसाधर्म्यं साध्यदृष्टान्तधर्मिसाधारणो धर्मो हेतुरिति।% ननु साधर्म्यशब्देन कथं धर्मोऽभिधीयते। समानो धर्मो यस्यासौ सधर्मा तद्भावः साधर्म्यमिति सधर्मशब्दस्य धर्मिणि प्रवृत्तिनिमित्तं धर्म एवेति स एव साधर्म्यशब्देनोच्यत इत्यदोषः।
%सोऽपि च प्रयोज्यप्रयोजकभावगर्भः साधनाङ्गतामेती%ति। असति साधनधर्मस्य साध्यधर्मप्रयोजकत्वे हेतुत्वाभावात् । %न वाक्यांशो न पञ्चमी%ति। साधर्म्यप्रतिपादकं हि वचो वाक्यांशो न साधर्म्यमित्यर्थः।
न्यायमञ्जरी :—
%व्यतिरेकहेतुलक्षणम्%
%तथा वैधर्म्यात्॥%
उदाहरणग्रहणमनुवर्तते, साध्यसाधनमिति च। एतच्च तथाशब्दोपादानसामर्थ्याद् गम्यते उदाहरणवैधर्म्यात् साध्यसाधनं हेतुः। अत्राप्यर्थात्मकहेतुपूर्वकत्वाद् वचनस्यार्थात्मक एव हेतुः प्रथमं लक्ष्यत इति तल्लक्षणाय पूर्ववत् पञ्चमीपाठशून्यमेव सूत्रं वर्णयन्ति। वैधर्म्यं हेतुरित्युच्यमाने पक्षवैधर्म्यस्यापि विपक्षवृत्तेरशेषाश्वव्यक्तिपक्षीकरणे तुरगा इमे विषाणादित्येवमादेर्हेतुत्वं स्यादित्युदाहरणग्रहणम्। तथाप्यसाधारणादेरुदाहरणवैधर्म्यस्य हेतुता प्रसज्यत इति पूर्ववत् साध्यसाधनग्रहणं प्रतिबन्धसूचके सकलहेत्वाभासव्यवच्छेदके योजनीयम्, तस्मादेव सकलहेत्वाभासव्यवच्छेदसिद्धेः, उदाहरणवैधर्म्यग्रहणं समानजातीयान्वयव्यतिरेकिहेतुव्यवच्छेदसिद्धये व्याख्येयम्।
ननु च वैधर्म्यशब्दः केवलान्वयिनमेव हेतुमव्यतिरेकं व्यवच्छेत्तुमलम्, तस्य वैधर्म्यशून्यत्वात्, अन्वयव्यतिरेकिणोस्तु हेत्वोरुदाहरणसाधर्म्यस्यापि भावात् कथमनेन व्यावर्तनम् ?
उच्यते,
वैधर्म्यशब्दोपादानात् केवलान्वयिनो यथा।
निवृत्तिर्गम्यते तद्वदन्वयव्यतिरेकिणः॥
साध्यसाधनशब्दो हि प्रतिबन्धोपलक्षणः।
व्याख्यातः प्रतिबन्धश्च व्यतिरेकान्वयात्मकः॥
वैधर्म्यसाधनेऽप्यस्मिन् स एव यदि वर्ण्यते।
पूर्वत्र कथनाद् व्यर्थं वैधर्म्यग्रहणं भवेत्॥
केवलव्यतिरेकाख्यप्रतिबन्धाभिधित्सया।
वैधर्म्यवचनं तस्मात् सफलं व्यवतिष्ठते॥
अध्याहृतैवकारं वा तद्व्युदासाय पठ्यताम्।
विशेषविधिरूपेण व्याख्यानं वा विधीयताम्॥
केवलान्वयिहेतुश्च न कश्चिदुपलभ्यते।
तेन पूर्वोक्त एवास्य व्यवच्छेद्यो भविष्यति॥
नन्वेवं तर्ह्यनेनैव न्यायेन पूर्वसूत्रं केवलान्वयिलक्षणार्थं स्यात्, यथेह वैधर्म्यग्रहणं साधर्म्यव्यवच्छेदकमेवं तत्र साधरम्यग्रहणं वैधर्म्यव्यवच्छेदाय स्यादिति। उक्तमत्र न केवलान्वयी नाम हेतुः सम्भवतीत्यलक्षणीय एवासौ, तदेवमन्वयव्यतिरेकवतो हेतोर्लक्षणाय पूर्वसूत्रम्, इदन्तु केवलव्यतिरेकिलक्षणाय इति स्थितम्। अर्थात्मकहेतुलक्षणपक्षेऽपि पञ्चमीपाठः पूर्ववत् संशयपराकरणफलत्वेन वर्णनीयः। वचनात्मकहेतुलक्षणेऽपि तथैव सूत्रं योज्यम्, यथोक्तवैधर्म्यात् प्रवृत्तं वचनं साध्यसाधनं हेतुविभक्त्यन्तं प्रयोक्तव्यमित्यर्थः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%विशेषविधिरूपेणे%ति। साधर्म्यवैधर्म्याभ्यां पूर्वं प्रतिपाद्य केवलवैधर्म्येणैव प्रतिपादनं विशेषविधिः शेषप्रतिषेधफलो वामेनाक्ष्णा पश्यतीतिवत्।
न्यायमञ्जरी :—
%केवलव्यतिरेकिहेतौ दोषप्रदर्शनम्%
तदेतदाक्षिपन्ति, लक्ष्ये सति लक्षणं वक्तव्यं भवति, केवलव्यतिरेकी तु नाम न समस्त्येव हेतुरिति कस्येदं लक्षणमुच्यते ? प्रतिबन्धेन हि हेतोर्गमकत्वमुक्तम्, प्रतिबन्धश्च पञ्चलक्षणको व्याख्यातः, एकैकलक्षणविरहनिबन्धनाश्च पञ्च हेत्वाभासा भविष्यन्ति, तत्पक्षधर्मत्वविरहिण इवासिद्धस्य हेतोरन्वयशून्यस्यापि न हेतुता युक्ता। केवलव्यतिरेकमात्रशरणेन हेतुना साध्यसिद्धौ तथाविधहेतुसुभिक्षसम्भवाद् यद् यस्मै रोचते स तत्सर्वं साधयेत्। असाधारणस्य वा किमिति न हेतुत्वम्, व्यतिरेकवतोऽपि संशयः `साध्याभावकृता तस्माद् व्यावृत्तिरुत वान्यथा’, अन्वये हि क्वचिद् गृहीतेऽन्यत्र हेतुव्यावृत्तिरवगम्यमाना साध्यव्यावृत्तिकृतैवेत्यवधार्यते नेतरथा, इत्थमेव सन्दिग्धव्यतिरेकता व्यावर्तते नान्यथेति।
सन्दिग्धव्यतिरेके च साध्यसाधनता कथम्।
लक्ष्याभावादतश्चेदं कथ्यते तस्य लक्षणम्॥
तस्मान्न साधनग्रहणेन हेतुद्वयसामान्यलक्षणमभिधायोदाहरणसाधर्म्यग्रहणेनान्वयव्यतिरेकिणो लक्षणम् उदाहरणवैधर्म्यग्रहणेन च केवलव्यतिरेकिणो वर्णनीयमपि तु सूत्रद्वयेनैतस्यैवान्वयव्यतिरेकवतो हेतोर्लक्षणं व्याख्येयम्। अन्वयव्यतिरेकयोर्गमकाङ्गत्वादेकेनान्वयनिरूपणमपरेण च सूत्रेणाव्यतिरेकव्युत्पादनम्। अत एव च भाष्यकारः `किमेतावद्धेतुलक्षणं नेत्युच्यते, तथा वैधर्म्यात्’ इत्येकवाक्यतयैव व्याख्यातवान्। उदाहरणमपि च सूत्रद्वये तुल्यमेवान्वयव्यतिरेकिहेतोरुक्तवान् `उत्पत्तिधर्मकत्वात्’ इति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%अत एव च भाष्यकार% इति। स हि “उदाहरणसाधर्म्यात् साध्यसाधनं हेतुः” इति सूत्रं व्याख्याय `तता वैधर्म्यात्’ इत्यस्य सूत्रस्यावतारणाय `किमेतावद्धेतुलक्षणम्’ इत्याह। `अनित्यः शब्दः’ इति च प्रतिज्ञामुक्त्वा `उत्पत्तिधर्मकत्वात्’ इत्युभयत्र हेतुमाह।
न्यायमञ्जरी :—
%केवलव्यतिरेकिहेतुसिद्धिः%
अत्र वदन्ति यदि वयं यं कञ्चन शुष्कमेव केवलव्यतिरेकिणं हेतुमुपगच्छेम तत एवमनुयुज्येमहि, किन्त्वन्वयव्यतिरेकवानेव हेतुः क्वचित् साध्यविशेषे विशेषणविशेषवशात् केवलव्यतिरेकितामवलम्बत इति ब्रूमः। तद्यथा इच्छादिगतं कार्यत्वमात्मसिद्धौ, तत्र हि कार्यत्वमाश्रितत्वमात्रेण व्याप्तमुपलब्धमन्वयव्यतिरेकयुक्तमेव घटादेः कार्यस्याश्रितस्य दृष्टत्वात्, यत्र ह्याश्रितत्वं नास्ति तत्र कार्यत्वमपि नास्त्येव व्योमादौ। सोऽयमन्वयव्यतिरेकवानेव हेतुर्यदा परिदृश्यमानशरीराद्याश्रयव्यतिरिक्ताश्रयाश्रितत्वे साध्ये देहादिषु बाधकोपपत्तौ सत्यां कार्यत्वादिति सविशेषणः प्रयुज्यते तदा केवलव्यतिरेकी सम्पद्यते, देहादिव्यतिरिक्तस्याश्रयस्यात्मनो नित्यपरोक्षत्वेनान्वयानुपलम्भादिति। ईदृशस्य चान्वयमूलस्य तस्यां दशायां केवलव्यतिरेकितामुपगतस्य हेतुत्वानुपगमान्न पूर्वोक्तदोषावसरः। न हीदृशा हेतुना सर्वः सर्वं साधयितुमुत्सहते, न चासाधारणस्य हेतुत्वमित्थंस्थिते प्रसज्यते, पञ्चलक्षणत्वमपि पूर्वाश्रयापेक्षमस्य भविष्यति।
यच्च सन्दिग्धव्यतिरेकित्वमाशङ्कितं तदप्यन्वयव्यतिरेकमूले केवलव्यतिरेकिणि निरवकाशं कार्यस्याश्रितस्योपलम्भादाश्रितत्वव्यावृत्त्या व्योमादौ च कार्यत्वव्यावृत्तिदर्शनादिदानीं घटादौ शरीरे वा सविशेषणकार्यत्वाव्यावृत्तिर्दृश्यमाना विशिष्टाश्रयव्यावृत्तिगतैवगम्यते इति न संदिग्धो व्यतिरेकः। एतच्चात्मसिद्धिप्रसङ्गे निर्णीतमिति निरपवादः केवलव्यतिरेकी हेतुरस्त्येव, लक्ष्यते इति तल्लक्षणार्थमुत्तरसूत्रमन्वयव्यतिरेकिहेतुलक्षणार्थञ्च सूत्रम्। केवलान्वयी हेतुर्नास्त्येव, सामान्यलक्षणन्त्वनुमानलक्षणात् साध्यसाधनपदाद् वा अवगन्तव्यम्। भाष्याक्षराणि तु कथमप्युपेक्षिष्यामहे। अथवा यथाकथञ्चिद् वा व्याख्यास्यामः, केवलव्यतिरेकिणन्त्वीदृशमात्मादिप्रसाधने परममस्त्रमुपेक्षितुं न शक्नुम इत्ययथाभाष्यमपि व्याख्यानं श्रेयः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%यथाकथञ्चिद् व्याख्यास्याम% इति। अन्वयव्यतिरेकिणो यल्लक्षणं प्राक् प्रतिपादितम् आहोस्विद् अन्यस्यापि हेतोरन्यत् किञ्चिल्लक्षणं विद्यत इति प्रश्नभाष्यमेवं व्याख्येयमुत्तरभाष्यं तु स्पष्टमेव।
न्यायमञ्जरी :—
%साधर्म्योदाहरणलक्षणम्%
%साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्त उदाहरणम्॥%
यथा `तत्पूर्वकमनुमानम्’ इत्यत्र प्रतिबन्धग्रहणोपायमात्रं प्रतिपादितम्, इह तु प्रतिबन्धस्वरूपमुदाहरणसाधर्म्यवैधर्म्ययुक्तम् एवं `लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः’ इत्यत्र वादिप्रतिवादिप्रतिपन्नत्वं द्विविधस्यापि दृष्टान्तस्य सामान्यलक्षणमुक्तम्। इह तु प्रयोज्यप्रयोजकभावव्यवस्थितसाध्यसाधनधर्माधिकरणत्वमेकस्य द्वितीयस्य च तद्रहितत्वं लक्षणमुपपाद्यते। तत्र `साध्यसाधर्म्यात्तद्धर्मभावी’ इति साधर्म्यदृष्टान्तस्य लक्षणम्, वचनाधिकरणेऽप्यर्थात्मकदृष्टान्तचिन्तनं तदौपयिकत्वाद्धेतुवत् कर्त्तव्यम्। साध्यं धर्मविशिष्टो धर्मी तेन साधर्म्यं साधनधर्मो लिङ्गसामान्यं यद् उदाहरणसाधर्म्ये पूर्वमुक्तं तदेव द्विष्ठत्वादुभाभ्यां व्यपदिश्यते इतीह साध्यसाधर्म्यशब्देनोक्तम्। तस्मात् साध्यसाधर्म्याद् यस्तद्धर्मभावी तस्य साध्यस्य धर्मो नित्यत्वादिर्यस्मिन् भवति स तद्धर्मभावी, पञ्चम्या प्रयोजकत्वमुच्यते, हेतुधर्मप्रयुक्तः साध्यधर्मो यत्रास्ति स साध्यधर्मदृष्टान्त इत्यर्थः। स एव वचसा कर्मतां प्रतिपद्यमान उदाहरणं भवतीत्यर्थवचनवाचिनोर्दृष्टान्तोदाहरणशब्दयोः सामानाधिकरण्यमविरुद्धम्, दृष्टान्त एकान्वयव्यापकेन वचनेनोद्यमान उदाहरणमित्युक्ते तदभिधायकं वचनमुदाहरणमुक्तं भवत्येव `यद् यत् कृतकं तत्तदनित्यं दृष्टं यथा घटः’ इति।
नन्वेवं यत्र हेतुकृता साध्यधर्मसत्ता यथा जलधरोन्नमनवृष्ट्यादौ तादृश एव दृष्टान्त उपदिष्टो भवेन्न यत्र साध्यधर्मकृता हेतुसत्ता यथा धूमानुमान इति।
अदर्शनज्ञो देवानां प्रियः ! नात्रोत्पत्त्यपेक्षया प्रयोज्यप्रयोजकभावो विवक्षितः किन्तु ज्ञप्त्यभिप्रायेण, ज्ञप्तौ च धूम एवाग्नेः प्रयोजकतां प्रतिपद्यते, न हि धूमाग्न्योः कार्यकारणभावेन गम्यगमकभावः किन्तु नित्यसाहचर्येणैव नियमनाम्ना सम्बन्धेनेत्यसकृदुक्तम्।
धूमः स्वरूपतो नाम जायतां जातवेदसः।
नाग्निस्तमाक्षिपत्येनं स एव ह्यग्निमाक्षिपेत्॥
प्रयोजकत्वमग्नेश्च पञ्चम्या यदि कथ्यते।
यत्र तत्राग्निरित्येवं तन्निर्देशः प्रसज्यते॥
यस्य प्रयोजकत्वं हि चिख्यापयिषितं भवेत्।
यच्छब्देन च पूर्वत्र स हि निर्देशमर्हति॥
भवेदेवञ्च हेतुत्वं धूमं प्रति विभावसोः।
न च तद् युज्यते वक्तुमनैकान्तिकदोषतः॥
प्रयोजकत्वमिच्छन्ति तस्मान्नोत्पत्त्यपेक्षया।
अपि तु ज्ञप्त्यभिप्रायं हेतोरेवोचितं तत्, तस्माद्धेतुधर्मप्रयुक्तः साध्यधर्मो य उत्थाप्यते स साध्यधर्मदृष्टान्तस्तद्वचनमुदाहरणमिति सिद्धम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%समानो धर्मो लिङ्गसामान्यमि%ति। लिङ्गसामान्यधूमत्वं द्वयोः सम्भवति न धूमव्यक्तिरिति लिङ्गसामान्यग्रहणम्। %दृष्टान्तोदाहरणशब्दयोः सामानाधिकरण्यमविरुद्धमिति% दृष्टान्त उदाहरणप्रतिपाद्यो दृष्टान्त इत्यर्थः।
%नन्वेवं यत्र हेतुकृतेति।% साध्यसाधर्म्याद् लिङ्गसामान्यात् तस्य साध्यस्य धर्मस्य भावः ख्याप्यते यत्र स दृष्टान्त उदाहरणमिति तत्र व्याख्यानात्।
%प्रयोजकत्वमग्नेश्चेति।% साध्येन धर्मिणा साधर्म्यं समानो धर्मोऽनुमेयसामान्यं तस्मादित्येवं व्याख्या। %न चैवं युज्यते वक्तुमनैकान्तिकदोषत% इति यत्र यत्राग्निस्तत्र तत्र धूम इति ह्युच्यमाने शुष्केन्धनप्रभवेऽग्नौ धूमस्याभावादनैकान्तिकत्वम्।
न्यायमञ्जरी :—
%तद्विपर्ययाद्वा विपरीतम्॥%
दृष्टान्त उदाहरणमिति वर्तते, तदिति साध्यधर्मपरामर्शः। तच्च यद्यपि पूर्वसूत्रे लिङ्गसामान्यं तथाप्यत्र साध्यसाधर्म्यम्, तद्विपर्ययात् साध्याभावाद् विपरीतोऽतद्धर्मभावी साधनरहितो यो दृष्टान्तः स वैधर्म्यदृष्टान्तः। पूर्ववद्वचसः कर्मतामापद्यमानो वैधर्म्योदाहरणं भवति। विपरीतमित्युदाहरणापेक्षया नपुंसकलिङ्गनिर्देशः।
किमर्थं पुनः साध्याभावात् साधनाभावो वैधर्म्यदृष्टान्तः स वर्ण्यते, न पुनः साधर्म्यदृष्टान्तस्थित्या साधनाभावादेव साध्यबाव इति
उक्तमत्र,
व्याप्यव्यापकभावो यः साध्यसाधनधर्मयोः।
स एव वैपरीत्येन मन्तव्यस्तदभावयोः॥ इति ।
किं कारणम् ? साधनधर्मे हि धूमे साध्यधर्मेणाग्निना व्याप्तेनाग्निस्तत्र निवेशमलभमानोऽनन्यत्रावकाशत्वाद् धूम एव निवेशितः, एवं साध्यधर्माभावेऽनग्नौ साधनधर्माभावेनाधूमेन व्याप्ते सति धूमस्तत्र लब्धावकाशोऽनन्यगतित्वादग्नावेव निविशत इति। यदि तु साधर्म्यदृष्टान्तवत् तथैव व्याप्यव्यापकभावः ख्याप्यते साधनाभावे साध्यं नास्तीति तदा धूमाभावेनानग्निना व्याप्तेनाग्निस्तत्रालब्धनिवेशो धूममवलम्बेतेति स्यात्, न चैतन्निर्वहत्यधूमेऽपि वह्निदर्शनादित्येवं सपक्षैकदेशवृत्तेर्हेतुत्वमपि प्रसिद्धं हीयेत व्याप्तिवैधुर्यादिति। अपि च धूमाभावेनाग्न्यभावे व्याप्ते कथ्यमाने सत्यधूमो नियमितो भवत्यनग्निं मा हासीदित्यग्निस्त्वनियमितः स्वातन्त्र्यादधूममपि स्पृशेदिति व्यभिचारात् प्रतिबन्धो विप्लवेत। तदुक्तम् `यदा तु साध्याभावेन हेत्वभावो विरुध्यते साधनं ख्यापितं भवेत्, साध्यं पुनः स्वतन्त्रत्वाद्धेतुभावेऽपि सम्भवेत्’ इति। तस्माद् यत्रापि समव्याप्तिकौ साध्यसाधनधर्माविति सपक्षैकदेशवृत्तित्वेनाहेतुत्वमाशङ्क्यते तत्रापि साधनधर्मस्य विपक्षाद् व्यावृत्तिमभिधित्सता साध्याभावे साधनाभावो दर्शयितव्यःष यत्रानित्यत्वं नास्ति तत्राकृतकत्वमपि नास्ति यथाकाश इति। यो ह्यविद्यमानविपक्षो हेतुः सोऽपि सुतरां ततो व्यावृत्तो भवति तदभावात् तत्रावृत्तेरिति। अतश्च सर्वपदार्थानित्यत्वं नास्ति, तत्र कार्यत्ववाद्येवमपि वैधर्म्यदृष्टान्तमप्रदर्शयन्न वार्यते यत्र नित्यत्वं नास्ति तत्र कार्यत्वमपि नास्ति यथा शशविषाणादाविति। ते एते साधर्म्यवैधर्म्योदाहरणे अन्वयव्यतिरेकवति हेतावुभे अपि सम्भवन्ती विकल्पेन प्रयोक्तव्ये, एतेनैव व्याप्तेः प्रदर्शनात् किमन्येन कृत्यम्।
केचित्तु व्याप्तिसौष्ठवप्रदर्शनाय द्वयोरपि प्रयोगमिच्छन्ति। भवतु मा वा भून्नेदं महद् विमर्दस्थानम्। ननु हेतूदाहरणाधिकमिति निग्रहस्थानमिदमादिष्टम्। समानजातीयाभिप्रायं तद् भविष्यति, साधर्म्यदृष्टान्तानेकत्वे वा तन्निग्रहस्थानमित्यास्तामेतत्। इत्थं साधर्म्यवैधर्म्यदृष्टान्तरूपे व्युत्पादिते बलात् तल्लक्षणरहिता दृष्टान्ताभासा भवन्ति। तत्र साध्यविकलः साधनविकल उभयविकल इति वस्तुदोषकृतास्त्रयः साधर्म्यदृष्टान्ताभासाः, अनन्वयो विपरीतान्वय इति द्वौ वचनदोषकृतौ। यथा नित्यः शब्दः अमूर्तत्वादित्यत्र बुद्धिवदिति साध्यविकलो दृष्टान्तः, परमाणुवदिति साधनविकलः, घटवदित्युभयविकलः। व्योम्नि नित्यत्वाद् मूर्तत्वं विद्यते इत्यनन्वयः, यदमूर्तं तन्नित्यमिति वक्तव्ये यन्नित्यं तदमूर्तमिति विपरीतान्वय इति। वैधर्म्यदृष्टान्ताभासा अपि पञ्चैव साध्याव्यावृत्तः साधनाव्यावृत्तः उभयाव्यावृत्त इति वस्तुदोषास्त्रयः। अव्यतिरेको विपरीतव्यतिरेक इति वचनदोषौ द्वौ। यथा तत्रैव हेतौ यत्र नित्यत्वं नास्ति तत्र मूर्तत्वमपि नास्ति यथा परमाणुष्विति साध्याव्यावृत्तः, बुद्धाविति साधनाव्यावृत्तः, यथा आकाश इत्युभयाव्यावृत्तः। नित्यत्वामूर्तत्वे घटे न विद्येते इत्यव्यतिरेकः, यत्र नित्यत्वमपि नास्ति तत्रामूर्तत्वमपि नास्ति इति वक्तव्ये यत्रामूर्तत्वं नास्ति तत्र नित्यत्वमपि नास्तीति विपरीतव्यतिरेक इति। एते च वस्तुवृत्तेन हेतुदोषा एव तदनुविधायित्वात्, अत एव हेत्वाभासवत् सूत्रकृता नोपदिष्टाः, अस्माभिस्तु शिष्यहिताय प्रदर्शिता एव।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%सपक्षैकदेशवृत्तेरिति।% धूमो हि हेतुः सपक्षैकदेशवृत्तिः, अग्निमन्तो हि प्रदेशाः सपक्षाः, न च सर्वेष्वसावस्ति, शुष्केन्धनप्रभवेऽग्नावसम्भवात्। %व्योम्नि नित्यत्वाद् मूर्तत्वं विद्यते इत्यनन्वय% इति। एवं ह्युच्यमाने प्रकृतेन हेतुवचनेन साध्यसम्बन्धेनान्वयो न प्रदर्शितो भवति। %यन्नित्यं तदमूर्तमिति विपरीतान्वय% इति। व्याप्यस्य प्राथम्येन यच्छब्देन च निर्देशः कर्तुमुचितो व्यापकस्य तु पश्चाद् निर्देशस्तच्छब्देनैव कार्यः, यत्र धूमस्तज्ञाग्निरितिवत्। तदुक्तम्,
उद्देश्यो व्याप्यते धर्मो व्यापकश्चेतरो मतः।
यद्वृत्तयोगः प्राथम्यमित्याद्युद्देश्यलक्षणम्॥
तद्वृत्तमेवकारश्च स्यादुपादेयलक्षणम्।
दोषश्च स्फुट एव मनसो नित्यस्याप्यमूर्तत्वाभावात्।
न्यायमञ्जरी :—
%उदाहरणापेक्षस्तथेत्युपसंहारो न ततेति वा साध्यस्योपनयः॥%
उदाहरणमात्मलाभेऽपेक्षत इत्युदाहरणापेक्षः पक्षधर्मोपसंहार उपनयः। द्विविधश्चासौ तथेति न तथेति वा, उदाहरणद्वैविध्यात्। तत्र साधर्म्योदाहरणापेक्षस्तथेत्युपनयो यत् कृतकं तदनित्यं दृष्टं यथा आकाशः। न च न तथा कृतकः शब्द इति, अत्रापि निषेधद्वययोगाद् विधिरेव गम्यते।
ननु साध्यस्येत्यवाचकः सूत्रावयवः। पक्षधर्मोपसंहारो ह्युपनयो न साध्योपसंहारः। साध्यो धर्मो धर्मी वा स्यान्न तयोरन्यतरस्याप्ययमुपसंहार इति।
उच्यते, साध्यो धर्म्येव न धर्म इह विवक्षितः। तत्रायं हेतोरुपसंहारस्तथा च कृतकः शब्द इति। सेयं साध्यस्येति सप्तम्यर्थे षष्ठी मन्तव्या। साध्ये धर्मिणि हेतोरुपसंहार उपनय इति।
नन्वाधारविवक्षायामिह प्राप्नोति सप्तमी।
सम्बन्धमात्रे वाच्ये वा कथमाधारतोच्यते॥
नैतत् सम्बन्धसामान्येऽप्युक्ते भवति धर्मिणा।
योगो विशेषचिन्तायां तस्य त्वाधारता भवेत्॥
विशेषेऽन्तर्निगूढे च प्रायः षष्ठी नियुज्यते।
शेषो नामाविवक्षैव कारकाणामिति स्थितिः॥
तथा च राज्ञः पुरुषो ब्राह्मणस्य कमण्डलुः।
तरोः शाखेति सर्वत्र विशेषोऽन्तर्व्यवस्थितः॥
अतश्च धर्माय जिज्ञाया धर्मजिज्ञासा, सा हि तस्य ज्ञातुमिच्छेतिवत् सम्बन्धमात्रसमर्पिकापि सेयं षष्ठी विशेषपर्यवसाना भविष्यतीति सूक्तं `साध्यस्योपसंहारः’ इति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%पक्षधर्मोपसंहारः पक्षधर्मस्य हेतोरुपसंहारः `तता चायं कृतकः’% इति।
%नन्वाधारविवक्षायामिति।% अथास्यानाश्वास इतिवत्। सम्बन्धमात्रापेक्षया षष्ठ्या निर्देशस्तथाप्याधाराधेयभाव एवासौ सम्बन्ध इति कुतो लभ्यत इति तदेवाह %सम्बन्धमात्रे वाच्ये% वेति। %सर्वत्र विशेषोऽन्तर्व्यवस्थित% इति। राजा पुरुषं बिभर्ति यतो राजपुरुष इति।
%अतश्च धर्माय जिज्ञासेति।% यथात्र सामान्येन भाष्यकृता `सा हि तस्य ज्ञातुमिच्छा’ इत्यनेन षष्ठीसमासनिर्देशाय प्रदर्शिता, `धर्माय जिज्ञासा’ इति त्वनेन तादर्थ्याख्यसम्बन्धविशेषपर्यवसायित्वं प्रतिपादितम्। तदुक्तम् `सा हि तस्य’ इत्यनेनोक्तधर्मस्येत्येष विग्रहः, `धर्माय’ इति तु पूर्वोक्तमस्यैवार्थोपवर्णनमिति, तद्वदिह।
न्यायमञ्जरी :—
%उपनयवैयर्थ्यशङ्का%
ननूपनयवचनमनर्थकम्, पक्षहेतुदृष्टान्तवचनैः किं न पर्याप्तं यदर्थमुपनयवचनमुच्चार्यते ? यदि धर्मिणि हेतोः सत्त्वसिद्धये तदभिधानं तदैष वृथैव श्रमः, पक्षधर्मवचनेनैव कृतकत्वादित्येवमादिना सिद्धत्वात्। अत साध्यदृष्टान्तधर्मिणोः साध्यापादनाय तदुच्चारणम्, तदपि न, चतुरस्रम् उदाहरणसाधर्म्यादित्यनेनैव गतार्थत्वात्। उदाहरणसाधर्म्यवचनं हि हेतुवचनमेव भवेत्। अथ स्वप्रतिपत्तौ तदर्थदर्शनात् परं प्रति तद्वचनम्, तत्रापि परामर्शज्ञाने विवदन्ते। अपि च स्वयं दधिभक्षणसमनन्तरं यदि कदाचिदनुमेयमिति उपजायते तत् किं परस्मै तदुपदिश्यताम्। योऽप्ययं प्रतिज्ञाहेतूदाहरणोपनयनिगमनप्रयोगक्रम आश्रीयते सोऽपि स्वप्रक्रियानुरागनिर्मित एव न वस्तुबलप्रवृत्तः। तथा हि यद् यत् कृतकं तत् तदनित्यं दृष्टं कृतकश्च शब्द इतीयतो वचनात् को नाम शब्दानित्यतां नावगच्छेत् ? वामे चात्र सत्यव्रतधनः प्रमाणम् `डिण्डिकरागं परित्यज्याक्षिणी निमील्य चिन्तय तावत् किमियतार्थं बुद्ध्यसे न वा। तस्मात् स्वप्रक्रियापक्षपातमपास्य पञ्चावयवम् एवंक्रमकं वाक्यं प्रयुङ्क्षव’ इति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%डिण्डिकरागं परित्यज्ये%ति। क्षपणकाभिनिवेशं त्यक्त्वेत्यर्थः।
न्यायमञ्जरी :—
%उपनयव्यर्थतोद्धारः%
अत्रोच्यते, इदं तावद् भवान् पृष्टो व्याचष्टाम्, किं स्वप्रतिपत्तिमनुसरन्तः परप्रतिपादनाय वाक्यरचनां कुर्म उत परहृदयानुवर्तनेनेति। तत्र पराभिप्रायस्य वैचित्र्यात् परोक्षत्वाच्चदुरवगमत्वेन न विद्मः किं विदध्महे। किं भुवमुत्क्षिपामः किमरत्निनां परं पीडयाम उत हस्तसंज्ञया व्यवहरामः, आहो हेतुमात्रमेव केवलं प्रयुञ्ज्महे किं वा त्र्यवयवं वाक्यमभिदध्मः, उत पञ्चावयवादपि वाक्यादधिकमाख्यानकमस्मै वर्णयामः, इत्येवमनवस्थितत्वात् पराभिप्रायस्य स्वप्रतिपत्तिमेवानुसरता परः प्रत्याय्यः। तत्र स्वप्रतिपत्तौ पर्वतादिधर्मी प्रथमं दृष्ट इति स प्रतिज्ञया कथ्यते। ततो धूमादिलिङ्गमुपलब्धमिति हेतुवचनेन तदावेद्यते। ततो यत्र धूमस्तत्राग्निर्यथा महानस इति व्याप्तिस्मरणमभवदिति दृष्टान्तवचसा तदभिधीयते। ततस्तथा चायं धूम इति परामर्शज्ञानमुदपादीति तदुपनयवचनेन प्रतिपाद्यते। ततस्तस्मादत्राग्निरित्यनुमेयज्ञानमुपजायत इति निगमनेन तदुच्यते। ततः परं प्रति पर्यवसानात् किमन्यदुपदिश्यतामिति, न च दधिभक्षणसदृशमतोऽन्यतममपि भवितुमर्हत्यनुमेयप्रतिपत्तावुपादेयत्वात्।
येषामपि मते पारमर्शज्ञानं नास्ति तैरप्युपनयवचनमवश्यमेवापरिहार्यमनुमेयप्रतिपत्तये, दृष्टान्ते दर्शितशक्तिरेव हेतुः प्रभवति नान्यथेति। अतो यद्यपि पक्षधर्मवचनेन हेतुसम्बन्धमात्रमुपपादितम्, तथाप्यत्र दृष्टान्तदर्शितशक्तिधर्मः स तस्मिन् धर्मिणि तथाविधो हेतुः स्यात्। न वा इत्यसिद्धाशङ्काशमनमुपनयवचनमन्तरेण न भवत्येवेत्यवश्यं प्रयोक्तव्यं तदिति। स्वप्रतीत्यनुसरणेन च वाक्यरचनायाः स्तितत्वात् क्रमोऽपि यथोक्त उपयुज्यते। अत एव च यत् कृतकं तदनित्यं दृष्टमित्यभिधानमनुपपन्नम्, अनवगते धर्मिणि तद्वर्तिनि च हेतौ प्रथममेव व्याप्तिस्मरणासम्भवेन तद्वचनायोगात्। तदिदमवयवविपर्यासवचनमप्राप्तकालनिग्रहस्थानमुपदेक्ष्यामः। अपि च `यत् कृतकं तदनित्यं दृष्टं कृतकश्च शब्द इत्येतावदेव प्रयोक्तव्यम्’ इति वदता भवता कृतकश्च शब्द इत्येतावदेव प्रयोक्तव्यमिति इतीदमुपनयवचनमनुज्ञातम्, कृतकत्वादिति पक्षधर्मवचनन्तु निह्नुतम्। कृतकश्च शब्द इत्येतदेव हेतुवचनमिति चेत्, न, प्रयोजकस्य पञ्चम्यादिनिर्देशार्हत्वादिति यत्किंचिदेतत्। यदप्युच्यते विदुषां वाच्यो हेतुरेव केवल इति, तदप्यचारु, विद्वद्भिर्विद्वत्त्वादेव हेतोरपि प्रज्ञानात्, अपूर्वा इमे विद्वांसो ये प्रतिज्ञावयवचतुष्टयस्यार्थं जानन्ति हेतुवचनस्य न विदन्तीति। तस्मात् पराशयस्य सर्वथा दुर्बोधत्वात् पूर्वोक्तेनैव क्रमेण स्वानुभवसाक्षिकेण वाक्यरचनां कृत्वा परः प्रत्याय्य इति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%विदुषां वाच्यो हेतुरेवेति।%
तद्भावहेतुभावौ हि दृष्टान्ते तदवेदिनः।
ख्याप्येते विदुषां वाच्यो हेतुरेव हि केवलः॥
न्यायमञ्जरी :—
%निगमनलक्षणम्%
%हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम्॥%
हेतुधर्मिणि निर्ज्ञातशक्तिः साध्ये धर्मिण्यपदिश्यतेऽनेनेति हेत्वपदेश उपनयः, तस्माद् हेत्वपदेशात् प्रवृत्तं प्रतिज्ञायाः पुनर्वचनं निगमनम्। निगम्यन्तेऽनेन पूर्वोक्ता अवयवा एकत्र साध्येऽर्थे समर्थ्यन्ते नियोज्यन्ते इति निगमनम्। तस्मात् कृतकत्वादनित्यः शब्द इति तदिदं निगमनं साधर्म्यवैधर्म्यभेदेन हेतोर्दृष्टान्तस्य च तदपेक्षिणश्च तथा न तथेत्युपनयस्य द्वैविध्येऽपि प्रतिज्ञावचनवत् तुल्यमेव भवति।
न्यायमञ्जरी :—
%प्रतिज्ञावन्निगमनमपि व्यर्थमिति शङ्का%
ननु प्रतिज्ञावचनमेव तावदसाधनाङ्गवचनत्वादपार्थकम्, तस्या एव तु पुनर्वचनं निगमनमसाधनाङ्गवचनत्वादपार्थकम्, तस्या एव तु पुनर्वचनं निगमनमधुना सफलं भविष्यतीति केयं कथा, प्रतिज्ञायाः पुनर्वचनमिति च न वाचको ग्रन्थः, साध्यनिर्देशो हि प्रतिज्ञा सिद्धनिर्देशस्तु निगमनमिति। वाचके वा ग्रन्थे पौनरुक्त्यादेव निगमनस्य नैष्फल्यम्। स्वप्रतिपत्तौ च परामर्शज्ञानान्तरं साध्यावगतिरेव भवन्ती दृश्यन्ते, सा परस्याप्युपनयवचनश्रवणसमनन्तरमुपजायत एवेति किं तदुक्त्या प्रयोजनम् ?
न्यायमञ्जरी :—
%निगमनव्यर्थतानिरासः%
उच्यते, प्रतिज्ञायास्तावत् साफल्यं समर्थितमेव। तस्याश्चेदं पुनर्वचनं सिद्धसाध्यभेदे सत्यपि धर्मिधर्मनिर्देशमात्रमास्यादुच्यते, सिद्धसाध्यभेदादेव च न पौनरुक्त्यकृतमसाफल्यम्, स्वप्रतिपत्तिसमये च परामर्शज्ञानानन्तरं साध्यबुद्धिरुत्पन्ना, सा परस्मै कथ्यमाना न निष्प्रयोजना भवति।
तस्माद्धेतोरिदं साध्यमहमज्ञासिषं यथा।
तथा त्वमपि जानीहि मा स्म विघ्नोऽत्र ते भवेत्॥
एवमुक्ते संशयानस्य संशयः शाम्यति विपर्यस्तमतेश्च विपर्य्यः। तदर्थश्च परार्थानुमानोपन्यासश्रमः। तदिदं विपरीतप्रसङ्गनिषेधार्थ निगमनमाहुः।
ये तु यथाश्रुतसाध्यनिर्देशात्मकप्रतिज्ञापुनर्वचनसमर्थनलोभादपि प्रतिज्ञायाः सिद्दिमबुध्यमाना असाधारणशङ्काव्यवच्छेदाय निगमनवचनमिच्छन्ति ते न सम्यगभ्ययुः। असाधारणशङ्कायाः दृष्टान्तवचनेनैव निरस्तत्वात्। विशेषस्य हि हेतुत्वशङ्कायामसाधारणशङ्का स्याद् यत् कृतकं तदनित्यमिति। दृष्टान्तवचसा सामान्यस्य हेतुत्वे कथिते कथमसाधारणत्वमाशङ्क्येत ? यदि पुनरुपनयवचनेन साध्ये धर्मिणि हेतोरुपसंहारादसाधारणत्वमाशह्क्येत तत् पुनर्दृष्टान्तधर्मिवृत्तित्वमस्य दर्शियितव्यम्। तस्मिन् दर्शिते पुनस्तद्वृत्तित्वाद्धर्मिण्यसिद्धत्वमाशङ्कनीयं पुनस्तद्व्यावृत्तये धर्मिणि हेतोरुपसंहारो विधेय इत्येवमसाधारणाशङ्काव्युदासाय प्रयोगः किन्तु पूर्वरीत्यैवेति। तस्माद् विवक्षितेऽर्थे तथोदिते क्रमनिवेशिनोऽवयवान् एकत्र सङ्घटयितुं निगमनवचनं प्रयोक्तव्यम्।
न्यायमञ्जरी :—
%अवयवेषु प्रमाणसंप्लववर्णनम्%
त इमे प्रतिज्ञादयो निगमनपर्यन्ताः पञ्चावयवा यथासम्भवमागमादिप्रमाणानुगृहीताः परस्परानुषक्ताश्च स्वार्थं साधयन्ति। तत्र मुख्यया वृत्त्या प्रतिपाद्येनानुमानेनैव सर्वेऽवयवा अनुगृह्यन्ते प्रपञ्चाय तु प्रमाणान्तरानुग्रह एषामुच्यते। प्रतिज्ञायास्तावदागमोऽनुग्राहक उपेयते उपदेशस्वभावत्वात्। अनित्यः शब्द इत्युक्त्वा त्वेवंविधे विषये ऋषिवदस्वतन्त्रत्वादनुमानमुपदिशन्ति। प्रतिज्ञावचनन्तु तच्छायानुपातित्वाच्छब्दप्रामाण्यसिद्ध्यर्थे वा शास्त्रे तत्प्रतिज्ञायाः शब्दविषयत्वादागमानुगृहीतमुच्यते। हेतुवचनमनुमानेनानुगृह्यते। उदाहरणन्तु प्रत्यक्षेण, तन्मूलत्वाद्व्याप्तिपरिच्छेदस्य। यथा गौस्तथा गवय इति च यथा घटस्तथा शब्द इत्यनया च्छाययोपमानकरणभूतवनेचरादिवचनसदृशत्वादुपमानमुपनयस्यानुग्राहकमभिधीयते। निगमनस्य तु सर्वावयवानामेकत्र नियोजनार्थत्वात् सर्वप्रमाणानुग्राह्यतैवेतरेतरानुषक्तत्वात्, प्रतिज्ञां विना निराश्रयो हेतुर्भवेदिति सा पूर्वं प्रयोक्तव्या अनित्यः शब्द इति। ततो हेतुं परो जिज्ञासत इति हेतुवचनमुच्चार्यते कृतकत्वादिति। हेतौ श्रुते क्वास्य व्याप्तिरवधृतेति दर्शयितुमुदाहरणमुच्यते यत् कृतकं तदनित्यं दृष्टं यथा घट इति। एवमुक्ते किमीदृशो निर्ज्ञातशक्तिरेष हेतुः साध्यधर्मिणि भवेन्न वेत्यसिद्धताशह्कामपाकर्तुमुपनयः प्रसज्यते। ततोऽमुना क्रमेण तथापि साध्यप्रतीतिर्भवत्विति सर्वावयवानेकत्र साध्येऽर्थे समर्थयितुं निगमनमभिधीयते। अन्यतममवयवमन्तरेण सकलमिदमननुषक्तार्थवाक्यं स्यादिति पञ्चावयवमेव यथोपदिष्टक्रमकं वाक्यं प्रयोक्तव्यम्।
इत्यारब्धोपकारास्तदनुगुणफलैरागमादिप्रमाणै-
रन्योऽन्यापेक्षिणोऽमी नियतमवयवाः साधयन्त्यर्थजातम्।
यश्चैतेषां प्रमेये वचसि च चतुरस्तस्य जातिप्रयोग-
प्रायैः शक्यो न पक्षः क्षपयितुमिति हि व्याहरद् वृत्तिकारः॥
%इति भट्टजयन्तस्य कृतौ न्यायमञ्जर्य्यां दशममाह्निकम्।%
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%प्रतिज्ञायास्तावदागमोऽनुग्राहक उपयेत% इति। सर्वा एव हि प्रतिज्ञाः प्रथममुच्चरन्त्य आगमवत् प्रतिभान्तीति तत्तुल्यविषया एव भवन्त्यतस्तेनानुगृह्यन्ते। आगमवत् प्रतिभानेन तद्विषयोपादेयतासंभवादागमानुग्रहः। यद्येवमागमवत् प्रतिभानात् प्रतिज्ञायाः कथं हेतुवचनमित्याह %उक्त्वा त्विति। तत्प्रतिज्ञायाः शब्दविषयत्वादिति% शब्दप्रमाणविषयत्वादिति। इयं तद्विषयभूतेन शब्देनानुगृह्यते, स शब्दो ह्यभिधेयत्वेनास्यां प्रतिज्ञायां स्थित इति। अयं तु सर्वप्रतिज्ञासम्भवी न भवत्यागमानुग्रह इति भाष्यकृन्मतं त्विदमपीति कृत्वा केवलं दर्शितम्। %हेतुवचनं त्वनुमानेनानुगृह्यते।%सत्यर्थरूपेऽनुमाने तत्प्रतिपादकस्य वचनस्य सम्भवोऽनुग्रहःष।
%इत्यारब्धोपकारा% इति प्राङ्नीत्या कृतानुग्रहाः। %तदनुगुणफलैरिति। तथाहि प्रत्यक्षेण व्याप्तिग्रहे सत्युदाहरणं प्रवर्तते, इतरथा व्याप्त्यग्रहाद् उदाहरणाप्रवृत्तिरित्युदाहरणानुगुणं प्रत्यक्षफलं व्याप्तिपरिच्छेद इति। %इति हि व्याहरद् वृत्तिकार% इति। वृत्तिकारो भाष्यकारः। स ह्याह “न ह्येतस्यां हेतूदाहरणविशुद्धो साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानस्य विकल्पाज्जाती निग्रहस्थानबहुलत्वं प्रक्रमते। अव्यवस्थाप्य खलु धर्मयोः साध्यासाधनभावमुदाहरणे जातिवादी प्रत्यवतिष्ठते। व्यवस्थिते तु खलु धर्मयोः साध्यसाधनभावे दृष्टान्तस्थे गृह्यमाणे साधनभूतस्य हेतुत्वेनोपादानं न साधर्म्यमात्रस्य वैधर्म्यमात्रस्य वा इति”। अस्य पञ्चावयवस्य वाक्यस्य लौकिकत्वाद् नाग्निहोत्रादिवाक्यवत् स्वतन्त्रप्रामाण्यमपि तु प्रमाणोपस्थापकत्वेन, तत् कस्यावयवस्य किंप्रमाणोपस्थापकत्वमित्याशङ्कानिवारणाय प्रमाणानुग्रहचिन्ता भाष्यकृतामुना सूचितेति। भद्रम्॥
भट्टश्रीङ्करात्मजचक्रधरकृते
न्यायमञ्जरीग्रन्थिभङ्गे
दशममाह्निकम्
–**–
एकादशमाह्निकम्
–***–
तर्कप्रकरणम्
न्यायमञ्जरी :—
%तर्कपरीक्षणम्%
%अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः॥%
अविज्ञाततत्त्वेऽर्थे इति सामानाधिकरण्यनिर्देशादर्थ एवान्यपदार्थो न पुरुषः। पुरुषो हि षष्ठ्या निरदेक्ष्यत अविज्ञातं तत्त्वमस्येति। तत्त्वपदोपादानेन धर्मिणः सामान्यधर्ममात्रविशिष्टस्य विज्ञातत्वं सूचयति। कारणोपपत्तित इति संशयज्ञानोल्लिख्यमानपक्षद्वयान्यतरपक्षोत्थापनानुकूलकारणावलोकनं तत्त्वस्योत्थापकमाह। अत एवाविज्ञाततत्त्वेऽर्थे भवन्तावपि बुभुत्साविमर्शौ न तर्कतां प्राप्नुतः। तत्त्वज्ञानार्थमिति साक्षात् प्रमाणतामस्य निरस्यति। प्रमाणानुग्रहन्तु विशेषपरिशोधनद्वारेण विदधत् तत्त्वज्ञानाय कल्पते। तर्क ऊह इति पर्यायोपादानस्य प्रयोजनं वक्ष्यामः। तेनायं सूत्रार्थः, अविज्ञाततत्त्वे सामान्यतो ज्ञाते धर्मिण्येकपक्षानुकूलकारणदर्शनात् तस्मिन् सम्भावनाप्रत्ययो भवितव्यतावभासस्तदितरपक्षशैथिल्यापादने तद्ग्राहकप्रमाणमनुगृह्य तान् सुखं प्रवर्त्तयंस्तत्त्वज्ञानार्थमूहस्तर्क इति। यथा बाह्यकेलिप्रदेशादावूर्ध्वत्वविशिष्टधर्मिदर्शनात् पुरुषेणानेन भवितव्यमिति प्रत्ययः।
ननु तत्त्वज्ञानार्थमित्युक्ते सति सामर्थ्यादविज्ञाततत्त्वता लभ्यत एवेति किमर्थं स्वकण्ठेन पुनरनूद्यते ? बाढम्। किन्तु क्वचिद्विषये ज्ञाततत्त्वेऽपि पूर्वतर्केणावमृष्टे सत्युत्तरकालं तर्कितो मया अयमर्थ इति स्मर्यमाणतर्कविशेषणतया गृह्यमाणो विशेषणीभूतस्तर्कस्तत्त्वज्ञानार्थो भवतीति तद्व्युदासाय पुनरविज्ञाततत्त्वग्रहणम्। मार्गशोधनद्वारेण तर्कस्य तत्त्वज्ञानार्थत्वमिह विवक्षितम्, तच्चाविज्ञाततत्त्वेऽर्थे सम्भवतीति।
ननु नैव संशयनिर्णयान्तरालवर्ती तर्कप्रत्ययः कश्चिदस्ति, तथा हि यदि तावदनवगतविशेषस्य भवत्यसौ प्रत्ययस्तर्हि संशय एव भवेद् अवगतविशेषस्य भवन्निर्णयतामेव स्पृशेत्। पुरुष एवेत्येवकारार्थाद्युन्मेषरहितोऽपि प्रत्ययो निर्णयो न न भवितुमर्हति, तुरगपरिसरणसमुचितदेशकर्शनमपि यदि स्याणुपक्षे स्थगयितुमलमिति मन्यसे तत्करचरणादिनविशेषदर्शनवत्तन्निर्णयकारणमेव स्यात्। अत तस्यामपि तुरगविहरणभुवि निखनति कञ्चन स्थाणुमिति शङ्कसे, यद्येवं स्थाणुपक्षानपायात् पुनः संशय एव स्यादिति। न तृतीयः पक्षः समस्तीति लक्षणाभावात् कस्येदं लक्षणमिति ?
उच्यते, न खलु स्वमतिपरिकल्पितविकल्पवितानेन प्रत्यात्मवेदनीयाः प्रतीतयो वरीतुं शक्याः, तथा हि स्थाणुर्वा पुरुषो वेति प्रतीतिरेका, पुरुष एवायमित्यन्या, पुरुषेणानेन भवितव्यमिति मध्यवर्तिनी तृतीया सम्भावनाप्रतीतिः स्वहृदयसाक्षिकैव,
साम्येन हि समुल्लेखः संशये पक्षयोर्द्वयोः।
निर्णये त्वितरः पक्षः स्पृश्यते न मनागपि॥
तर्कस्त्वेकतरं पक्षं विभात्युत्थापयन्निव।
ननु सम्भावनाबीजवाजिवाहनदर्शनाद् वाहकेलिप्रदेशविशेषदर्शनं हि पुंसि सम्भावनामात्रमुपजनयितुमलं न तु शिरः पाण्यादिविशेषदर्शनवत् सर्वात्मना स्थाणुपक्षापसरणेन पुरुषनिर्णयाय प्रभवति, अतोऽयमगृहीतविशेषस्यैव भवति प्रत्ययो न तु संशयः, एकतरपक्षानुकूलकारणोपपत्त्या जायमानत्वात्। कथं पुनः पाणिपादादिपुरुषविशेषवदश्ववाहनदेशविशेषो विशेषकार्यं न कुर्यात्, करेणैवास्थाणुपक्षोत्सारणान्निर्णय एवायमिति कस्यैष पर्यनुयोगः। यथा हि शिरः पाण्यादिदर्शने सति पुरुषनिर्णयो भवति न तथा तुरगवहनदर्शने सति। अननुयोज्याश्च पदार्था एवं भवत एवं मा भूतेति। यथा च देशान्तरे स्पर्धमान एव स्थाणुपक्ष आस्ते, न तथा वाहकेलिभूमौ, अपि तु शिथिलीभवति सम्भवत्प्रमादत्वाच्च न सर्वात्मना निवर्तते।
ननु यदि न निर्वतते तहि स्पर्धतां मा वा स्पर्धिष्ट स्थितस्तावत् स्थाणुपक्ष इति संशय एवायमिति, मैवम्। स्थाणुपक्षः सर्वात्मना न निवर्तते नाप्यास्ते एवमेवायं त्रिशङ्कुरिवालम्बमानः प्रत्ययान्तरनिवृत्तये प्रभवतीति तथा प्रत्ययानुभवादेव परिकल्प्यते। वाहकेलिप्रदेशदर्शने हि यथा पुरुषविशेषाः स्मरणपथमवतरन्ति न तथा स्थाणुविशेषाः। उभयविशेषस्मरणजन्मा च संशय इति सोऽयं वाहकेलिप्रदेशविशेषः शिथिलयति स्थाणुपक्षं न सर्वात्मनोच्छिनत्तीति। जन्मोच्छेददर्शनात् कृतकतत्कारणप्रत्यय इति न तद्हृदयंगमम्। तेन क्रमेण निर्णय एवासौ तत्कारणतथात्वं न तर्क इति। अथवा कार्योदाहरणत्वादयस्य तत्रापि संशयनिर्णयान्तरालवर्ती तर्कप्रत्ययो द्रष्टव्यः स उदाहरणं भविष्यति।
ऊह इति पर्यायाभिधाने किं प्रयोजनम् ? लक्षणप्रतिपादनमेव । तदेव हि तर्कस्य लक्षणं यदूहरूपत्वम् इतरस्तु सूत्रे कारणविशेषाय फलनिर्देशः, कारणोपपत्तित इति कारणनिर्देशः। अविज्ञाततत्त्वेऽर्थे इति विषयनिर्देशः। तत्त्वज्ञानार्थ इति फलनिर्देशः।
अपि च तर्कशब्दं केचिदनुमाने प्रयुञ्जते। यथा स्मृतिकाराः पठन्ति,
आर्षं धर्मोपदेशञ्च वेदशास्त्राविरोधिना।
यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः॥ इति ।
तदिहापि तर्कोऽनुमानं मा विज्ञायीत्यूहग्रहणम्। ऊहोऽत्र तर्क उच्यते नानुमानम्। तत्त्वज्ञानार्थताप्यस्य प्रमाणानुग्राहकत्वेन न साक्षात् तथैव चार्थं साधयितुमेष वादे प्रयुज्यते हृदयशुद्धिप्रकाशनार्थम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
तर्कलक्षणे %विज्ञाततत्त्वेऽपि पूर्वतर्केणावमृष्ट% इति। यत्र तर्केण तत्त्वविज्ञानमभूत्।
%त्रिशङ्कुरिवे%ति। त्रिशह्कुर्नाम राजा वसिष्ठशापाच्चण्डालतां प्राप्तो विश्वामित्रेण याजयित्वा स्वर्गं प्रापितः, चण्डालत्वेन देवैः प्रच्याव्यमानो विश्वामित्रहुङ्कारेण नाधः प्राप्तो भूमिम्, मध्य एव व्योम्नोऽवलम्बमात्रोऽद्यापि तिष्ठतीति। %जन्मोच्छेददर्शनात् कृतकतत्कारणप्रत्यय% इति। यदि हि जन्मकारणमकृतकं नित्यं स्यात् कारणानुच्छेदः स्यादिति कृतकधर्माधर्मकारणनिश्चय इति। तथा च भाष्यम् “तस्योदाहरणम्, किमिदं जन्म कृतकेन हेतुना निर्वर्त्यते ? आहोस्विद् अकृतकेन ? अथाकस्मिकम् ? इत्येवमविज्ञाततत्त्वेऽर्थे कारणोपपत्या ऊहः प्रवर्तते। यदि कृतकेन हेतुना निर्वर्त्यते, हेतूच्छेदोपपन्नो जन्मोच्छेदः। अथाकृतकेन, हेतूच्छेदस्याशक्यत्वादनुपपन्नो जन्मोच्छेदः। अथाकस्मिकम्, ततोऽकस्मान्निवर्तमानं पुनर्न निवर्त्स्यतीत्यनुवृत्तिकारणं नोपपद्यते इति जन्मानुच्छेदः। एतस्मिंस्तर्कविषये कर्मनिमित्तं जन्मेति प्रमाणानि प्रवर्तमानानि तर्केणानुगृह्यन्ते, तत्त्वज्ञानविषयस्य च विभागात् तत्त्वज्ञानाय कल्प्यते तर्क इति”। %अथवा कार्योदाहरणत्वावस्येति।% यथा वृद्धसंज्ञायां शालामालेति रूपोदाहरणं शालीयो मालीय इति तु कार्योदाहरणं तथात्र तर्कः स्वरूपेण न दर्शितस्तर्ककार्यः पुनर्निर्णयो दर्शित इति। तथाहि, धर्माधर्मरूपकृतकहेतुजन्यत्वे जन्मनो यावन्निर्णयफलमनुमानं सुप्रतिष्ठं नाभिहितं तावन्मध्ये तर्कदशात्र स्थितैवेति।
%हृदयशुद्धिप्रकाशनार्थमि%ति। मयैवमयमर्थो ज्ञात इति प्रकाशनेन हि वीतरागता ततो दर्शिता भवति।
न्यायमञ्जरी :—
%तर्कविषये मतान्तराणि%
कापिलास्तु बुद्धिधर्ममूहमाहुः, स तत्सिद्धान्तप्रसिद्धसत्त्वरजस्तमोरूपप्रकृतिप्रभवभुवनसर्गादिव्यवहारनिराकरणवर्त्मना पूर्वमेव निरस्तः।
जैमिनीयास्तु ब्रुवते, युक्त्या प्रयोगनिरूपणमूह इति। इह हि किञ्चिदुपदिष्टदृष्टादृष्टस्वभावसकलेतिकर्तव्यताकलापं कर्म भवति, यथा आग्नेयोऽष्टाकपाल इति दर्शपूर्णमासकाण्डे पठितम्, क्वचित् पुनः प्रधानकर्ममात्रमुपदिश्यते इतिकर्तव्यता तु काचन नाम्नायते, यथा `सौर्यं चरुं निर्वपेद् ब्रह्मवर्चसकामः’ इति। तत्र विचार्यते किम् इतिकर्तव्यताविरहित यथाश्रुतप्रधानमात्रसम्पादनेन तत्र शास्त्रार्थप्रयोगः परिसमाप्यते उत तदपि सेतिकर्तव्यताकं प्रधानमनुष्ठेयमिति, तत्रापूर्वप्रयुक्तत्वेन धर्माणां प्रतिकरणं भेदे स्थिते निरङ्गस्य प्रधानस्याननुष्ठेयत्वाद् विध्यन्ताधिकरणसिद्धान्तन्यायेन प्राकृतवद् वैकृतं कर्म कर्तव्यमिति सेतिकर्तव्यताकं तदनुष्ठीयते। एवं सामान्यातिदेशे स्थिते सति कस्य वैकृतस्य कर्मणः प्रकृतेर्धर्मा अधिगन्तव्या इति चिन्तायां द्रव्यदेवतादिचोदनासारूप्यपर्यालोचनोपनतहृदयसन्निधानप्राकृतकर्मविशेषसम्बन्धिन एव तत्र धर्मा भवितुमर्हन्तीति स्थापिते युगपदुपनिपतदनर्गलचोदकव्यापारोपनीतनिखिलाखण्डमण्डलविध्यन्तकाण्डाधिगम्यधर्मसम्बन्धप्राप्तौ सत्यां ते धर्माः कथं प्रयोक्तव्या इति युक्त्या प्रयोगनिरूपणमूह उच्यते। येनेत्थं प्रयोक्तव्या इति धर्मा व्यवस्थाप्यन्ते। स च त्रिविधो मन्त्रसामसंस्कारविषयः। मन्त्रविषयस्तावद् यथात्रैव सौर्ये चरौ प्रकृतिवद्भावेनाग्नेयात्, `अग्नये त्वा जुष्टं निर्वपामि’ इति निर्वापमन्त्रः प्राप्तः कथं प्रयोक्तव्य इति विचारणायामुच्चारणमात्रेणमन्त्राणाममुपयोगात् प्रयोगसमवेतद्रव्यदेवतादिप्रकाशनद्वारेण तदुपयोगस्य व्यवस्थितत्वाद् इह अविकृत् एवायमग्नये जुष्टमिति प्रयुज्यमानो मन्त्रः प्रयोगसमवायिनोऽर्थस्याप्रकाशनादसङ्गतो भवेत्, सर्वात्मना चोत्सदृज्यमानो मन्त्रो मन्त्रप्रकाशितकर्माननुष्ठानान्न प्रकृतिवत् कृतं भवेदित्यग्निपदोद्धारेण सूर्यपदप्रक्षेपेण मन्त्र ऊहेनेत्थं प्रयोक्तव्य इति गम्यते सूर्याय त्वा जुष्टं निर्वपामीति।
ननु ऊहप्रवरनामधेयानाममन्त्रत्वादित्थमपि न मन्त्रेण स्मृतं कर्मकृतं स्यात् ? नैतत्, `एकदेशविकृतमनन्यवद्भवति’ इति न्यायात्। सामविषयस्तु गीतयः सामानीति स्थिते क्वचित् कर्मण `रथनन्तरमुत्तरयोर्गायति, बृहदुत्तरयोर्गायति’ इति श्रुतेः सा बृहद्रथन्तरगीतिर्यस्यामृचि योनिभूतायामुत्थिता ततोऽन्यस्यामपि प्रयुज्यते। तादृगक्षरापायेऽपि च सामगीतिर्ऋगन्तराक्षरेष्वपि प्रत्यभिज्ञायते रथन्तरमनेन श्लोकमिति व्यवहारर्शनात्। संस्कारविषयः खल्वपि प्रकृतौ `प्रोक्षिताभ्यामुलूखलमुसलाभ्यामवहन्ति’ इति संस्कारश्चोदितः, क्वचिच्च विकृतौ श्रूयते `नखनिर्भिन्नश्चरुर्भवति’ इति, तत्रोलूखलमुसलयोः प्रकृतौ पुरोडाशापेक्षिततुषकणविप्रमोकर्पूर्वकतण्डुलीभावसम्पादनद्वारेणोपयोगाद् विकृतावपि तत्कार्यापन्नानां नखानां प्रोक्षणाख्यः संस्कारः क्रियत इति। सोऽयं त्रिविध ऊहः।
केचित्तु पञ्चविधमूहमाचक्षते `धर्मस्यार्थकृतत्वाद् द्रव्यगुणविकारव्यतिक्रमप्रतिषेधे चोदनानुबन्धः समवायात्’ इति सूत्रमनुसरन्तः। एतत्तु प्रतत्यमानमतिप्रसङ्गमावहति विविधमेव चोहं याज्ञिका अनुमन्यन्त इति।
अत्र वदन्ति, सोऽयमूहशब्दः श्रोत्रियैरनुमाने प्रयुक्तो यथा स्मृतिकारैस्तत्र तर्कशब्दः `यस्तर्केणानुसन्धत्ते’ इति। तथा हि वैकृतं कर्म धर्मि, तत्समवेतार्थप्रकाशकमन्त्रप्रयोगनिर्वर्त्यमिति साध्यो धर्मः, कर्मत्वात् प्राकृतकर्मवत्। मन्त्रो वा तत्समवेतप्रकाशकः प्रयोज्यो मन्त्रत्वात् प्राकृतमन्त्रवदिति। प्राकृतेषु च कर्मसु तथा तथा व्याप्तिग्रहणात् सर्वोऽयमनुमानमार्ग एव। नखाः प्रोक्षणीयाः प्रयोगोपयोगितण्डुलनिर्वर्तकत्वादुलूखलमुसलवदिति। सामसु तु स्पष्टमेव वचनमस्ति `रथन्तरमुत्तरयोर्गायति’ इति तदभावेऽपि मन्त्रसंस्कारसमानयोगक्षेमत्वमेव।
अपि च शब्दपृष्ठिस्थितन्याये सहस्रव्युत्पादनात्मके मीमांसाशास्त्रे तन्न्यायलक्ष्योऽर्थश्चोदनार्थ एवेति स्थापितम्, अतश्च यथोक्तोहलभ्यस्यार्थस्य चोदनार्थता म निर्वर्तिष्टेति सोऽयमूहः शब्द एवान्तर्भावणीयः, प्रमाणान्तरगोचरो वा धर्मः स्यात्। न्यायविशेषात्मकस्तूहो नानुमानादर्थान्तरं स्यात्। अग्नय इत्यस्य स्थाने सूर्यायेति पदस्य प्रयोग ऊहस्य फलम्, नोहः। इह तु पूर्वोक्तया नीत्या प्रमाणव्यतिरिक्त ऊह उपपादितः, श्रोत्रियास्तु तदनभिज्ञतया न्याये न्यायफले वोहशब्दमुपचरितवन्त इत्यलं शास्त्रान्तरोद्गारगहनाभिः कथाभिः।
तदेष मीमांसककल्प्यमानो नोहः प्रमाणव्यतिरेकमेति।
प्रमाणसन्देहदशान्तरालवर्ती तु तर्कः कथितोऽत्र शास्त्रे॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%कापिलास्तु बुद्धिधर्ममूहमिति।% शुश्रूषा-श्रवण-ग्रहण-धारण-विज्ञानोहापोहतत्त्वाभिनिवेशा अष्टौ ते बुद्धेर्धर्मा उक्ताः। तथा च `विज्ञानमूहनम्’ इत्याद्याहुः।
%तत्रापूर्वप्रयुक्तत्वेन धर्माणां प्रतिकरणं भेदे स्थिते% इति। प्रथमाह्निके व्याख्यातम्।
%विध्यन्ताधिकरणसिद्धान्तन्यायेनेति।% “इतिकर्तव्यताऽविधेर्यजतेः पूर्ववत्त्वम्” इत्यत्र विध्यन्ताधिकरणे चिन्तितम्। `सौर्यं चरुं निर्वपेद् ब्रह्मवर्चसकामः’ इत्यत्र तावद् यागेनापूर्वसाधनमिति प्रतीयते, तत्र यागो लौकिकत्वाज्ज्ञायते, कथं चापूर्वं साधयेदित्येतन्न ज्ञायते। इह त्वपूर्वं साधयेदित्येतावन्मात्रमुक्तम्, कथं साधयेदितीतिकर्तव्यता नोक्ता। तेषां चार्थानां ज्ञायत एवेतिकर्तव्यता तेषां कर्तव्यतामात्रमुपदिश्यते यथौदनं पचेति। येषां तु न ज्ञायते ते सहेतिकर्तव्यतयोपदिश्यन्ते यथा दर्शपूर्णमासौ, एवं चेत्तन्न ज्ञायते यागेनापूर्वनिर्वृत्तावितिकर्तव्यता यस्मान्नोक्ता। सा चास्ति लौकिकी वैदिकी च। अत इतिकर्तव्यताया अविधिः, अविधानेन यजतेः पूर्ववत्त्वं विहितेतिकर्तव्यताकत्वम्। एवं च लौकिकी। सा कार्या स्याद् वैदिकी निःसंशया। “स लौकिकः स्याद् दृष्टप्रवृत्तित्वात्” इति लौकिकीमाशङ्क्य “लिङ्गेन वा नियम्येत लिङ्गस्य तद्गुणत्वात्” इत्यादिना वैदिक्येवेति सिद्धान्तितम्। स कर्तव्यतोपायो लौकिकः स्यात् पार्वणस्थालोपाकादौ तस्यैव प्रवृत्तिदृष्टेरिति पूर्वपक्षसूत्रार्थः। लिङ्गेन वेतिकर्तव्यता नियम्येत वैदिक्येव न लौकिकीति, लिङ्गं च सौर्ये चरौ प्रयाजे कृष्णलं जुहोतीत्यादि, एवमादिर्लिङ्गैर्ज्ञायते वैदिकीति, कथं कृत्वा ? लिङ्गस्य तद्गुणत्वात्। एते हि प्रयाजादयो वैदिकस्य दर्शपूर्णमासापूर्वस्य गुणाः। अतो वैदिकाः पूर्वाङ्गत्वादेषां विकृतौ दर्शनमेवमुपपद्यते यदि तद् वैदिकमपूर्वं तेभ्यो विकृतियागेभ्यो धर्मान् प्रयच्छति, ते च तद्गुहणेन तत्पूर्वका भवेयुः, नान्यथा अस्ति च दर्शनम्, अतो वैदिक्येवेति द्वितीयसूत्रार्थः। %प्राकृतवद् वैकृतं कर्म कर्तव्यमिति।% विहितेति कर्तव्यताकस्य धर्मा अवहितेतिकर्तव्यताके कर्तव्या इत्यर्थः। %द्रव्यदेवतादिचोदनासारूप्ये।% तथा च सूत्रम् “यस्य लिङ्गमर्थसंयोगादभिधानवत्” इति यस्य वैदिकस्य विध्यन्तस्य लिङ्गं किञ्चिच्छब्दगतमर्थगतं वै वैदिक्यां कर्मचोदनायां तद्गुणवाक्ये वा दृश्यते, तत्र स विध्यन्तः स्यात् । कुतः ? अर्थसंयोगात्। तस्यार्थस्य लिङ्गस्य तेन विध्यन्तेन संयोगोऽनुभूतपूर्वः संयोगिनोश्चान्यतरो दृश्यमान इतरददृश्यमानमनुमानाद् बुद्धौ सन्निधापयति, अभिधानवत्। यथाग्निहोत्रमित्यभिधानं कौण्डपायिनामयने श्रूयमाणं तैयमिकाग्निहोत्रधर्मान् बुद्धावुपस्थापयति।
%ननूहप्रवरेति।% तदुक्तम् “अनाम्नातेषूहमात्रत्वमाम्नायेषु हि विभागः” इति। ऊहः `अग्नये’ इत्यस्य स्थाने `सूर्याय’ इति पदस्य प्रयोगः। अध्वर्युणा प्रवरानुश्रावणे क्रियमाणे ये यजमानसम्बन्धिगोत्रप्रसिद्धाद् उपयोगमभिस्वरैरुच्चर्यान्ते ते प्रवराः। सुब्रह्मण्य इन्द्र आगच्छेति सुब्रह्मण्यनिगदे अमुकगोत्रो यजत इति। यद् यजमानस्य संकीर्तनं तन्नामधेयं येषूहप्रवरनामधेयेषु। अमन्त्रत्वं शिष्टैर्मन्त्रत्वेनानभिधानादिति। रथन्तरमुत्तरयोर्गायतीति। यद् योनिभूतायाम् ऋचि कवतीषु रथन्तरं गायतीति वचनात् “कया नश्चित्र आभुवदूतो” इत्यस्यामुत्पन्नम्, तदुत्तरयोर्धातोरुत्तराख्यग्रन्थविशेषविपठितयोः, गायतीति प्राकृतं रूपं येन विशिष्टस्तोत्रसाधनता रथन्तरस्य प्रकृतौ जाता ऊह्यते %प्रोक्षिताभ्यामुलूखलेति।% प्रोक्षणाख्यो यः संस्कारस्तुषकणविप्रमोकाख्यसंस्कारजनकयोरुलूखलमुशलयोः कृतः, स नखेषु तत्संस्कारजनकत्वादूह्यते।
%धर्मस्यार्थकृतत्वाद् द्रव्यगुणविकारेति।% तत्र द्रव्योदाहरणं प्रतिपादितम्। बार्हस्पत्यं चरुं नैवारं सप्तदशशरावं निर्वपेदिति नीवारव्यक्तिरूपद्रव्याश्रयणेन तत्प्रवृत्तेः। गुणोदाहरणं तु संस्थिते षडहे मध्वश्नातीति, षडहेनोपासीतेति द्वादशाहे चोदना स्वतन्त्रा वा। तत उक्तम्, संस्थिते षडहे मध्वश्नातीति। यदि दैवात् षडहः संतिष्ठते न क्रियतेऽशनम्। मध्वशनं कर्तव्यमिति षडहकार्ये मध्वशनं विधीयते। गुणत्वं तु मध्वशनस्य प्रदेशान्तरे षडहाङ्गत्वेन विधानात्। यदा षडहेनोपासनं क्रियते तदा तदङ्गत्वेन मध्वशनमपि क्वचित् प्रतिपादितमिति तद् दृष्ट्वा गुणशब्देन मध्वशनस्य प्रतिपादनम्। विकारोदाहरणम्, नखनिर्भिन्नश्चरुर्भवतीत्यत्र नखा विकारशब्देनाभिधीयन्ते, तुषकणविप्रमोकलक्षणे वाधिकारे नखाः श्रुताः। व्यतिक्रमः पुनरप्रागागम्यसमर्थस्य यूपस्य परित्यागोऽन्यस्यासमर्थस्याश्रयणं यथा परिधौ पशुं नियुञ्जीतेति। न हि परिधिरल्पपरिमाणस्य पशोरप्यागम्ये समर्थः इति। प्रतिषेधस्तु न गिरा गिरेति ब्रूयादैरं कृत्वोद्गायेदिति ज्योतिष्ठोमे यज्ञ-याज्ञीयं साम प्रकृत्य स्तुतं न गिरा गिरेति कुर्यादिति। तत्र साम्नि यद् गिरेति पदमस्ति तन्न ब्रूयात्। किं तर्हि कुर्यादित्याह, ऐरं कृत्वोद्गायेदिति इराशब्दस्य विकारमिरा इरेत्यादिकं कृत्वा गायेदित्यर्थः। तदेतेषु नीवारमधुभक्षणनखपरिधीरापदेषु द्रव्य-गुण-विकार-व्यतिक्रमप्रतिषेधरूपेषु व्रीहि-षडहोलूखलमुशल-यूप-गिरापदधर्माः कर्त्तव्याः। नेति तत्र पूर्वपक्षवादी, ये व्रीहौ विदितास्ते कथमविहितत्वाद् नीवारेषु क्रियेरन्, ये च षडहधर्मास्ते कथं मध्वशने, ये चोलूखलमुशलयोः श्रुताः प्रोक्षणादयस्ते कथं नखेषु, यूपोपदिष्टाश्च कथं परिधौ, गिरापदे च ये श्रुता गीत्यादयस्ते कथम् इरापदे श्रुत्यभावादनुष्ठीयेरन्नित्याह ततः सिद्धान्तसूत्रमिदं %धर्मस्यार्थकृतत्वादिति।% एतेषु नीवारादिषु चोदनानुबन्धः। व्रीह्यादिसम्बन्धेन या धर्माणां चोदना तयानुबन्धः सम्बन्धः, तत्सम्बन्धेन नीवारादिसम्बन्धेन व्रीह्यादिगतत्वचोदितधर्मसम्बन्धः स्यात्। कुतः ? समवायात्। यतोऽसौ धर्मः प्रोक्षणादि व्रीहीन् प्रोक्षतीति व्रीह्यादिसम्बन्धेन श्रुतस्तत्र तत्र समवैतीति सम्भाव्यते कारणान्तरादतः कारणान्तरसम्भाव्यमानात् तत्समवायात् कर्तव्या एव ते धर्मा इत्यर्थः। किन्तु कारणान्तरमित्याह, धर्मस्यार्थकृतत्वादिति। प्रकृतौ तावद् धर्माणामर्थकृतत्वमपूर्वप्रयुक्तत्वं प्रतिपादितम्, योऽसावपूर्वसाधनभूतोंऽसौ व्रीह्यादेः, तमुद्दिश्य धर्मप्रयोगः, प्रयोजनत्वात्। न स्वरूपोद्देशेनार्थत्वप्रसङ्गादिति। तस्य चांशस्य नीवारादिषु भावात् तेषु तद्धर्मप्राप्तिरित तत्र नानर्थत्वम्, तदेवमुदाहरणपञ्चकेनोहपञ्चकमत्र सूत्रे दर्शितम्। भट्टेन तु दृष्टमुख्यार्थता-स्वार्थसमवेतार्थतादिभिः प्रयुक्ताः प्रकृतौ मन्त्रागताः कार्यातिदेशतो विकारेष्वनिषिद्धोहकार्यापन्नेषउ पञ्चधेति पञ्चविधत्वं यत् प्रतिपादितं तद् मन्त्रोहस्यैवेत्यलम्।
%तदभावेऽपि मन्त्रसंस्कारसमानयोगक्षेमत्वमिति।% उत्तराधरं रथन्तरं योनाविव विशिष्टस्तोत्रसम्पादकत्वेनोपकारि रथन्तरत्वात् प्रकृतरथन्तरवदिति। मन्त्रसंस्कारसमानयोगक्षेमत्वम्, यथा मन्त्रसंस्कारयोरनुमानं प्रदर्शितं तथात्रापीत्यर्थः।
न च वितर्कासहायः शब्दस्तात्त्विकमर्थं प्रतिपादयत्यतो वितर्कमात्रस्य शब्द एवान्तरभावो वितर्कविशेषेऽस्तूहोऽनुमानमेवेत्याह %न्यायविशेषात्मकस्त्विति।% अतो नास्ति मीमांसकदृष्ट्या पृथगूहः कश्चिदिति अथ `सूर्यायेति पदप्रक्षेप ऊहः’ स कथमनुमानं स्यादिति। तत्राप्याह %अग्नय इत्यस्य स्थाने% इति।
न्यायमञ्जरी :—
%निर्णयलक्षणम्%
तर्कानन्तरं निर्णयो भवति पठितश्चेति स लक्ष्यते,
न्यायमञ्जरी :—
%विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः॥%
अवधारणमपि तथा तस्यादित्यर्थग्रहणम्। इन्द्रियादिजनितमपि तदवधारणमस्त्येव न्यायोपरमहेतोस्तु निर्णयस्योद्देशात् स एवानुमानजन्यो लक्षणीय इहेति पक्षप्रतिपक्षाभ्यामित्युक्तम्।
एकाधिकरणौ धर्मौ तुल्यकालौ विरोधिनौ।
पृथक्परिग्रहौ पक्षप्रतिपक्षावुदाहृतौ॥
न हि ताभ्यां निर्णयः, तयोरन्यतरविषयो हि भवति न तत्करणक एवेति, सत्यम्, इह तु पक्षप्रतिपक्षशब्दाभ्यां तद्विषयौ साधनतदुपालम्भौ लक्ष्येते, तौ च तस्मिन् करणमेव। किमर्थं पुनर्लक्षणा आश्रीयते साधनोपलम्भाभ्यामेवेति कथं न शूत्रितम् ? एवमभिधीयमाने पुनस्तयोर्विषयो मृग्यः, लक्षणाप्रयोगे तु सोऽप्यवगतो भवेत्, मुख्यमभिधाय तदितरो लक्ष्यते। भवत्वेवम्, द्वाभ्यां कथं तु निर्णयः, एकमेव हि साधनं निर्णयाय कल्पते ? एवमेतत्, न द्वितीयमपि साधनं निर्णयनिमित्तमाचक्ष्महे, किन्तु तदुपालम्भं साधनञ्च साधनोपालम्भश्च साधनोपालम्भौ ताभ्यां निर्णयः ।
एतदुक्तं भवति स्वपक्षं प्रमाता निर्णयतीति न खल्वेवं न जाने च दूषणमुत्प्रेक्षमाणः स्वपक्षे साधनमधिगच्छन् परपक्षसाधने च दूषणमुत्प्रेक्षमाणः प्रमाता निर्णयतीति, किन्तूपालम्भस्य क इव निर्णयजन्मनि व्यापारः ? स हि परपक्षसाधनमवच्छिन्द्यादिति। अस्त्वेतत् तदुच्छेदद्वारेण अपि तु स्वपक्षसाधनमहिमानमाविष्कुर्वन् कल्पत एव निर्णयायेति युक्तो द्वयोरपि करणभावः।
नन्विदानीमर्थग्रहणमनर्थकम् एवंविधसाधनाधीनजन्मा हि न निर्णयाभासः सम्भवति। साधनोपालम्भलक्षणार्थावपि च पक्षप्रतिपक्षशब्दौ विषयमभिवदितुं ननु शक्नुत इत्युक्तमेवेति कोऽर्थोऽर्थग्रहणेन ?
उच्यते पक्षप्रतिपक्षयोस्तु द्वयोरन्यतरत्रार्थेऽवधारणं भवति नोभयत्र। स एव च परमार्थतोऽर्थः, इतरस्तु भ्रान्तिकल्पित इति प्रदर्शनायार्थपदोपादानम्। लक्ष्यमाणसाधनोपालम्भनिष्ठत्वात्तु पक्षप्रतिपक्षशब्दयोर्विषयनिर्देशार्थमर्थपदमित्येके। विमृश्येति किमर्थम् ? वस्तुस्वरूपकथनार्थमेव। अनुमानकरणको हि निर्णय इह लक्ष्यते इत्युक्तम्, अनुमानञ्च संशयविषये प्रवर्तत इति तर्कानन्तरमप्यनेनैवाशयेनास्योपादानम्। संशयादनन्तरं तर्कस्तर्कादूर्ध्वञ्च निर्णयो दृष्टः प्रवर्तमानोऽतः स तत्पूर्वक उच्यते।
निर्णये तु समुत्पन्ने बुभुत्सा विनिवर्तते।
अत एव हि मन्यन्ते तदन्तं न्यायचिन्तनम्॥
भवत्वेवम्, इदन्तु चिन्त्यतां क्व नियमः ? किं विमर्शे, किं पक्षप्रति, पक्षयोः किं निर्णय इति, त्रयेऽपि च नोपपद्यत इति। न विमृश्यैव निर्णयोऽविमृश्यापि भावात्। न प्रक्षप्रतिपक्षाभ्यामेवेन्द्रियादेरपि तदुत्पादात्। न निर्णय एव तर्कस्यापि क्वचिदनिवृत्तेः। उक्तमत्रोद्देशसूत्रे तत्त्वज्ञानपदोपादानात् प्रमाणपदेन च तत्फलाक्षेपान्न निर्णयमात्रोद्दिष्टेन किमपि प्रयोजनम्, विशिष्टस्तु निर्णयो लक्षणत्वेन विवक्षितः।
परीक्षाविषयो यो हि निर्णयो न्यायनिर्मितः।
नियमत्रयमप्येतत् तस्मिन्न हि न युज्यते॥
न हि न विमृश्यैव भवन्ति, विमर्शपूर्वकत्वात् परीक्षायाः। अनुमानञ्च सन्दिग्धे विषये प्रवर्तते इति प्रायेण तद्व्यवहारः।
यद्यपि क्वचिदसन्दिग्धेऽपि विषये दृष्टं प्रवर्तमानमनुमानमनलानर्थितायामतर्कितोपनतपर्वतनितम्बनिर्गतधूमदर्शनेन कृशानुकल्पनमिव, तथापि वस्तुयोग्यतावशेन सन्दिग्धविषयमेवानुमानमिच्छन्ति न्यायविदः। प्रकृतश्च निर्णयः पक्षप्रतिपक्षाभ्यामेव निर्णय एवेति न शक्यते नियन्तुमन्यथा न्यायानुपरमादिति। शास्त्रे तु विनापि संशयादस्ति निर्णयः।
यद्यपि च तत्रापि सूत्रकृता सर्वपरीक्षाणां संशयपूर्वकत्वमुपदेशातिदेशाभ्यामभ्यधायि तथापि नासौ शास्त्रीयो निर्णयः परीक्षाकार्यत्वात्। यस्तु शास्त्र एव क्वचिद्विषयनिर्णयः स विमर्शवर्जमुत्पद्यते। वादेऽपि विमर्शरहिते भवति निर्णयः, उभौ निश्चितौ वादं कुरुतः सान्दिग्धस्य तत्रानधिकारात्, कथं तर्ह्येष प्रवादः संशयच्छेदो वादस्य फलमिति ? प्रथममुभयोरपि निश्चितयोर्वादप्रवृत्तावन्तराले बलादापतति युक्तिद्वयोपनिपातवतः संशय इति वस्तुनिर्णयावसानत्वाद् वादस्य संशयच्छेदफलत्वमाचक्षते।
यद्यप्यनिश्चितमतिः कुरुते न वादं श्रुत्वा तथापि परकीयनयप्रवेशम्।
अन्तर्मतद्वयबलाबलचिन्तनेन संशय्य निर्णयति नूनमसौ स्वपक्षम्॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
निर्णयलक्षणे %मुख्यमभिधाय तदितरो लक्ष्यत% इति। पक्ष-प्रतिपक्षाभ्यां पक्षप्रतिपक्षविषयाभ्यां साधनदूषणाभ्यां पक्षप्रतिपक्षयोः %साधनोपलम्भाविति।%
%विषयनिर्देशायार्थपदमिति।% अर्थः पक्ष इति।
%अत एव हि मन्यन्त% इति। यत एव बुभुत्सा निवर्ततेऽत एव बुभुत्सापूर्वकत्वात् संशयस्य, तदभावे तत्पूर्वकन्यायप्रवृत्त्यभावः। %अविमृश्यापि भावादिति।% %इन्द्रियादिजन्मन इति शेषः।% %न निर्णय एव तर्कस्यापि क्वचिदनिवृत्तेरेति।% प्रतिबन्धसामग्रीवैकल्याभ्यामिति शेषः।
%वस्तुयोग्यतावशेन सन्दिग्धविषयमेवानुमानमिति।% सन्दिग्धं हि वस्तु परीक्ष्यते तत्त्वज्ञानार्थं न निश्चितमिति वस्तु योग्यता।
%संशयपूर्वकत्वमुपदेशातिदेशाभ्यामिति।% उपदेशेन यथा संशयादीनां “समानानेकधर्माध्यवसायादन्यतरधर्माध्यवसायाच्च न संशयः” इत्यादिना; प्रयोजनादीनां तु “यत्र संशयस्तत्रैवमुत्तरोत्तरप्रसङ्गः” इत्यतिदेशेन। %वादेऽपि विमर्शरहितो भवति निर्णय% इति । न हि तत्र सन्देहविषयः परस्मै निश्चितत्वेन प्रतिपद्यते, वीतरागकथात्वात् तस्य।
न्यायमञ्जरी :—
%वादलक्षणम्%
न्यायपरीक्षाद्वारकवस्तुविचारयोग्यास्तिस्रः कथा वादिनो भवन्ति वादो जल्पो वितण्डेति। तत्र वादस्तावदुच्यते,
न्यायमञ्जरी :—
%प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः॥%
पक्षप्रतिपक्षौ व्याख्यातौ, तयोः परिग्रहोऽभ्युपगमो नियमः। एको वक्ति नित्यः शब्दः अपरस्त्वनित्यः शब्दः इत्याह, सोऽयं पक्षप्रतिपक्षपरिग्रहो वादः। एतच्च रूपं कथात्रयेऽपि साधारणमिति विशेषमाह प्रमाणतर्कसाधनोपालम्भ इति। प्रमाणैस्तर्केण च साधनं साधनोपालम्भश्चास्मिन् क्रियत इति प्रमाणतर्कसाधनोपालम्भः। न त्वीदृशी वितण्डा तस्याः प्रतिपक्षसाधनोपन्यासशून्यस्वभावत्वात्।
न्यायमञ्जरी :—
%तर्कस्य वादोपयोगित्वे शङ्कानिरासः%
ननु प्रत्यक्षादेः प्रमाणस्य परप्रतीत्यनुपायत्वान्न तेन वादे साधनोपालम्भो शक्यक्रियौ। तर्कस्य तु प्रतीतिसाधनत्वमपि तावन्न सम्भवति सम्भावनाप्रत्ययस्वभावत्वात् किमुत परप्रत्यायनाङ्गतेति नतरां तस्य साधनोपालम्भहेतुत्वम्। सत्यमेवम्, इह तु न प्रमाणशब्देन प्रत्यक्षादेरनुमानमपि तु प्रमाणमूला अवयवा उच्यन्ते। तैश्च सिद्ध्युपालम्भौ क्रियेते, एवं तर्कस्य तु स्वतः साधनोपालम्भकरणकौशलशून्यात्मनोऽपि प्रमाणानुग्राहकत्वात् पारम्पर्येंण तद्धेतोराशयशुद्धिप्रदर्शनार्थमुपादानम्।
न्यायमञ्जरी :—
%पञ्चावयवोपपन्नपदसार्थक्यम्%
यद्येवं प्रमाणपदेनैव तन्मूलावयवप्रतिपादनात् पञ्चावयवोपपन्नग्रहणमतिरिच्यते।
तत्र केचिदाचक्षते, प्रमाणतर्कसाधनोपालम्भ इति वादलक्षणे, छलजातिनिग्रहस्थानसाधनोपालम्भ इति च जल्पलक्षणे श्रवणाद् वादे सर्वात्मना छलादिनिषेधप्रसक्तौ कतिपयनिग्रहस्थानोद्भावनाभ्यनुज्ञानार्थं पञ्चावयवोपपन्नग्रहणम्। अनेन च `हीनमन्यतमेनाप्यवयवेन न्यूनम्।’ `हेतूदाहरणाधिकमधिकम्’इति न्यूनाधिकयोरुद्भावनमनुज्ञायते। सिद्धान्ताविरुद्धग्रहणेनापि `सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः’ इति विरुद्धाख्यहेत्वाभासोद्भावनमनुज्ञातमित्येवं वादे त्रीणि निग्रहस्थानान्युद्भावनीयानि।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
वादलक्षणे %कतिपयनिग्रहस्थानेति।% पञ्चावयवोपपन्नं न न्यूनावयवमधिकावयवं वेति व्यवच्छेदो लभ्यत एव।
न्यायमञ्जरी :—
%सूत्रपदसार्थक्यप्रदर्शनम्%
अन्ये वदन्ति, विरुद्ध एव हेत्वाभासो वादे चोद्यते नानैकान्तिकादिरिति। कथमेतद् युज्यते `निग्रहस्थानेभ्यः पृथगुपदिष्टा हेत्वाभासा वादे चोदनीया भविष्यन्ति, इति भाष्यकारवचनात् प्रमाणपदेन च तन्मूलावयवाक्षेपात् प्रमाणाभासमूलनिरासे सति सकलहेत्वाभासोद्भावनमपि तत्र सिद्धमिति। सिद्धान्ताविरुद्धाग्रहणेन `सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङ्गोऽपसिद्धान्त इत्यपसिद्धान्ताख्यनिग्रहस्थानानि वादे उद्भाव्यन्त इति तदनुपपन्नम्, न हि त्रीणि वा अष्टौ वा वादे निग्रहस्थानानि चौदनीयानीति चोदना वैदिकी, राजशासनं वा। वस्तुपरिशुद्धिसाधनं सर्वमेव तत्र प्रयोगार्हम्।
अयन्तु विशेषः। जल्पे कस्याञ्चिदवस्थायां बुद्धिपूर्वकमपि छलादिप्रयोगः क्रियते, वादे तु वृथा तेषां प्रयोगः। भ्रान्त्या तु कथञ्चित् प्रयुक्तानामवश्यमुद्भावनम्, अनुद्भावने वस्तुपरिशुद्धेरभावात्।
कथं तर्हीदं पदद्वयं `सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः’ इति अपसिद्धान्तादिसम्यग्दूषणदिक्प्रदर्शनेनैवम्प्रकारवस्तुशुद्ध्यनुगुणनिग्रहस्थानजाताद्यनुज्ञानार्थमेवेत्यभियुक्ताः। अप्रतिभाविक्षेपादयो हि न वादे पराजयहेतवः, क्षणान्तरेणाप्यागत्यानुस्मृत्य च साधनमुपालम्भं वा तत्र वदन्न पराजीयते। प्रतिज्ञाहान्यादि तु सम्यक्पराजयकारणमखिलमाभ्यां पदाभ्यामभ्यनुज्ञातमत्रेति।
नन्विदानीं प्रमाणतर्कग्रहणमपार्थकं पञ्चावयवोपपन्नपदेनैव प्रमाणमूलवयवोपदेशाद् वस्तुपरिशुद्ध्यनुगुणनिग्रहस्थानाभ्यनुज्ञानाच्च किमिव नोक्तम् ? न। अभिप्राये नैर्मल्यनिवेदनद्वारकवादजल्पविवेकप्रतिपादनार्थत्वात् स्वप्रतिपत्तिसाधनमपि प्रत्यक्षादि वादे प्रयोक्तुमुचितमाशयशुद्धिमुपदर्शयितुम्। अत्र वस्तुनि मम प्रथमं तर्क इत्थं प्रवृत्त आसीत्ततः प्रमाणमिदं प्रवृत्तमित्येवमपि तत्र वक्तव्यमत एव चान्यतरपक्षनिर्णयावसान एव भवति वादः, न जल्पवदलोकदूषणडम्बरविरचितपरपरिभवपर्यवसानोऽपीति तथा बुद्धिपूर्वमाभासानामप्रयोग इति। निर्मत्सरकथात्वमस्योक्तमित्यकलुषाकूतकथनाय प्रमाणतर्कपदम्।
अपि च साधनोपलम्भव्यतिषङ्गप्रतिपादनमपि तस्य फलम्, उभावपि परस्परमनुबन्धेन वादिभ्यां परीक्षमाणौ पक्षप्रतिपक्षौ वादतां प्रयोजयतः, न तु स्वगृहे शास्त्रे वा विविच्यमानौ। प्रमाणैरेव जल्पे व्यवहार इति नियमशङ्कानिरसनमपि तत्पदोपादानप्रयोजनमुक्तमन्यैरिति कृतमतिविस्तरेण, सर्वथा वादलक्षणं सर्वं सुस्थम्।
वादञ्च निर्णयफलार्थिभिरेव शिष्यसब्रह्मचारिगुरुभिः सह वीतरागैः।
न ख्यातिलाभरभसप्रतिवर्धमानस्पर्धानुबन्धविधुरात्मभिरारभेत्॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%विरुद्ध एव हेत्वाभासो वादे चोद्यते नानैकान्तिकादिरिति कथमेतद् युज्यत% इति। प्राक्पक्षे हि विरुद्ध एव हेत्वाभासो विशेषेणोपदिष्ट इतीतरानैकान्तिकादिहेत्वाभासप्रतिषेधोऽर्थादायात इति स्थितम्, तदनेन निराकरोति। ननु यद्यष्टौ निग्रहस्थानानि पञ्च हेत्वाभासा हीनाधिकापसिद्धान्तैः सह तदा भाष्यविरोधः। भाष्यकारेण हि सिद्धान्ताविरुद्धपदव्याख्यानावसरे “सिद्धान्तमभ्युपेत्य तद्विरोधो विरुद्धः” इति विरुद्ध एव हेत्वाभासो विशेषेण संगृहीत इति। मैवम्। `सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङ्गोऽपसिद्धान्तः’ इति भाष्यकारेण पठितं सूत्रप्रतीकसाम्यात् लेखकदोषेणासौ पाठो नास्त्यत्रेति अष्टनिग्रहस्थानवाद्यभिप्रायः।
न्यायमञ्जरी :—
%यथोक्तोपपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः॥%
यथोक्तोपपन्नग्रहणेन सर्वातिदेशे वादजल्पयोरविशेष इति शङ्कमानाः केचन पक्षप्रतिपक्षपरिग्रहमात्रातिदेशमेव व्याचक्षते। इयतस्तु पूर्वसूत्रानुवृत्त्याऽपि सिद्धेर्मन्दफलमेव यथोक्तोपपन्नवचनं भवेदिति समस्तातिदेश एव वरम्।
न च तत्रापि वादजल्पयोः साम्यं गम्यमानार्थण्। अतिदेशाच्छ्रौत एवार्थोऽतिदिश्यते न गम्यमानस्तत्कृत एव च तयोर्भेदः। तथा च प्रमाणतर्कसाधनोपालम्भ इत्यत्र गम्यमानोऽर्थोऽभिप्रायनियमः स नातिदिश्यते। सिद्धान्ताविरुद्धः पञ्चावयवोपपन्न इत्यत्रापि बुद्धिपूर्वजात्यादिप्रयोगप्रतिषेधतदुद्भावननियमरूपो गम्यमानोऽर्थः सोऽपि नातिदिश्यत इति कुतस्तयोरविवेकः। अत एव च बुद्धिपूर्वकप्रयोगानुज्ञानाय छलजातिनिग्रहस्थानसाधनोपालम्भ इत्युक्तम्। भवत्वेवं छलादीनां त्वसदुत्तरत्वात् कथमिव साधनोपालम्भहेतुत्वाम् ? परपक्षप्रतिपक्षेपद्वारकमिति चेत्, न, असदुत्तरत्वेन प्रतिक्षेपेऽपि तेषामसामर्थ्यात्। एवमपि च साधनग्रहणमनर्थकमेवेति, सत्यमेवम्, किन्तु कस्याञ्चिदवस्थायां स्वप्रतिपत्तिसाधनोपहिततत्त्वज्ञानरक्षायै तान्यपि व्याप्रियन्ते। यदा जानन्नपि परपक्षक्रशिमानं स्वपक्षे द्रढिमानञ्च क्वचिदवसरे परप्रयुक्ते साधने दूषणं सपदि न पश्यति स्वपक्षसाधनञ्च झगिति न स्मरति तदा छलादिभिरप्युपक्रम्य परमभिभवत्यात्मानञ्च रक्षतीति।
ननु यदि परश्चलादीनि जानीयात् तेषु चानुरूपमुत्तरमभिदधीत कथं जीयेत प्रयुत जयत्येव, सत्यम्, तथाप्येकान्तपराजयाद् वरं सन्देह इति युक्तमेव तत् प्रयोगेणस्फुटादोपकरणम्।
नन्वीदृंशि प्रयोजनानि जिगीषतो जनस्य जनपदसदसि भवन्ति, तस्यापि न निपुणमतिसदसि, मुमुक्षोस्तु दूरापेतैव कथेयमिति कथमिह मोक्षशास्त्रे जल्पाद्युपदेशः ?
नैतदेवम्, मुमुक्षोरपि क्वचित् प्रसङ्गे तदुपयोगात्। यथोक्तं तत्त्वाध्यवसायसंरक्षणासीनम् अनेकशिष्यगणोपास्यमानं रहस्यतत्त्वमुपदिशन्तं शान्तमानसमाचार्यम् अनार्यः कश्चिद् विपश्चिदाभासः कुतश्चिदागत्य दुरधिगतकतिपयाक्षरपरिचयजनितगुरुतरगर्वगद्गदया गिरा भोस्तपस्विन् ! किमाख्यायते हुङ्कारम्, आन्वीक्षिकी सरलमतिप्रियेयं विद्या, क्व वेदाः, क्व वेदप्रामाण्यम्, क्वात्मज्ञानम्, क्वापवर्ग इत्यादि मन्दं विहस्य सहस्यसहसादृष्टमेघ इव प्रकटितकाण्डदण्डकाशनितम्बवित्रासिताश्रममृगवर्गमुद्ग्राहयन्नाकुलयति, तदा जगज्जालमिन्द्रजालपण्डितविलसितमिति जानन्नप्याशाभ्यो यदि तदुपेक्षते, न तिरस्करोति, सद्यः सम्यक् साधनाप्रतिभासेऽपि यदि छलादिभिरेनं न शमयति, तदा तस्मिन् गते तत उत्थाय शिष्यगणा ब्रूयुः कष्टमस्थाने क्लिष्टाः स्मः।
योऽसावस्माकमाचार्यः प्रख्यातो न्यायवित्तमः।
अद्य त्वागत्य सोऽन्येन पण्डितेन पराजितः॥
तच्छ्रुत्वा जन इतरोऽपि सत्पथस्याशैथिल्यात् सपदि तमेव माऽनुयासीत्।
तन्नूनं परिभवभूमिकामसह्यां नेतव्यः सदसि स वावदूकपाशः॥
तद्विघातघटने निरर्गलं जल्पमन्त्रमुपदिष्टवान् मुनिः।
आनुषङ्गिकमपि प्रयोजनं तस्य रागिजनतासु वर्णितम्॥
न्यायमञ्जरी :—
%वितण्डजालक्षणम्%
%स प्रतिपक्षस्थापनाहीनो वितण्डा॥%
स एव यथोक्तलक्षणको जल्पो वितण्डा भवति। को विशेष इति चेत्, आह `प्रतिपक्षस्थापनाहीनः’ इति। उत्तरपक्षवादी वैतण्डिकः प्रथमवादिप्रसाध्यमानपक्षापेक्षया `हस्तिप्रतिहस्ति’ न्यायेन प्रतिपक्ष इत्युच्यते। तमसावभ्युपगच्छत्येव न तत्र साधनमुपदिशति परपक्षमेवाक्षिपन्नास्ते। तर्हि साधनाद् विपक्षोऽपि सोऽस्य नास्त्येवेति प्रतिपक्षहीनो वितण्डेत्युच्यतां किं स्थापनाग्रहणेन ? न, अभ्युपगममात्रेण तद्भावात् तमनभ्युपगम्य प्रलपतः कस्तस्य शृणुयात्। औपचारिको वा परमतपराकरणरूप एवास्य पक्षः, तस्मिन् हि सति स्वपक्षो हि तस्य सिध्येदिति। परमताक्षेपप्रवणप्रवृत्तश्च बलाद् द्वितीयपक्षवाद्येव वैतण्डिक इति। तदेवं पक्षोऽस्यास्तीति साधनन्तु नास्तीति सम्यक् सूत्रितं `स प्रतिपक्षस्थापनाहीनो वितण्डा’ इति।
इत्युदाहृतमिदं कथात्रयं यत् परस्परविविक्तलक्षणम्।
स्थूलमप्यनवलोक्य कथ्यते वाद एव इति शाक्यशिष्यकैः॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%तर्हि साधनाद् विना पक्षोऽपि सोऽस्य नास्तीति।% साध्यो हि पक्षो भवति न साधनशून्य इति। %औपचारिको वा परमतनिराकरणरूप% इति। परमतनिराकरणं परमत प्रतिषेधवाक्यम्, तस्य च यद्यपि स्वतः साध्यत्वाभावात् पक्षत्वं नास्ति तथापि पक्षसिद्धिहेतुत्वेनोपचरितं पक्षत्वम्, पक्ष एव च प्रतिपक्षः। %तदेवं पक्षोऽस्यास्तीति% वदन्। %स प्रतिपक्षस्थापनाहीन% इत्यनेन प्रतिपक्षस्य स्थापना प्रतिपक्षस्थापना, तया हीनम्। न प्रतिपक्षेण स्वपक्षेणापीति प्रतिपादितं भवतीति मन्यते, अन्यथा हि स्थापनापदं निरर्थकं स्यादिति।
न्यायमञ्जरी :—
%हेत्वाभासविभजनम्, तल्लक्षणञ्च%
पक्षधर्मत्वादीनि पञ्च लक्षणानि हेतोरुक्तानि, तेषामेकैकापायात् पञ्च हेत्वाभासा भवन्तीति तान् दर्शयितुमाह,
न्यायमञ्जरी :—
%सव्यभिचार विरुद्धप्रकरणसमसाध्यसमातीतकाला हेत्वाभासाः॥%
अत्र हेत्वाभासश्रुतिरेव निर्वचनसहितासामान्यलक्षणं बोधयति। अहेतवो हेतुवदाभासन्त इति हेत्वाभासाः, लक्षणैकदेशयोगाच्च हेतुवदाभासनमहेतोरप्युपपद्यते। सकललक्षणापायेऽपि पञ्चमीनिर्देशादिर्भ्रमहेतुरित्येके। सव्यभिचारादिपदपर्यन्तवर्तिनी तु सैव श्रुतिर्विभागमवगमयति प्रमाणश्रुतिवदित्युक्तम्। पक्षधर्मादिलक्षणानाञ्च क्रमनियमाभावात् साध्यसमविरुद्धसव्यभिचारातीतकालप्रकरणसमा हेत्वाभासा इति पाठो नाश्रितः।
ननु त्रय एव हेत्वाभासा इति शाक्याः ? न, प्रत्यक्षागमबाधितस्य सप्रतिपक्षस्य च हेतोः पूर्वप्रदर्शितत्वात्।
नन्वेकस्यैव रूपद्वयवैकल्यात् कथं न षष्ठादयस्तत्प्रभेदेः स्युः, यथा नित्यः शब्दश्चाक्षुषत्वादिति। एष हि पक्षे वृत्त्यभावादसिद्ध उच्यतामुत सामान्यादिविपक्षादप्रच्युतेः सव्यभिचारः, उत जात्यन्तरमेव ताभ्यामिति।
नैतदेवम्, एकैकरूपापायनिमित्तभेदपञ्चकप्रतिपादने कृते द्वित्रिरूपापायान्न रूपान्तरमवतरति किन्तु तेषामेव समावेशः स्यात्। अपि च प्रथमगृहीतान्यतमरूपवैकल्यलब्धके हेत्वाभासरूपेऽस्मिन् किं रूपान्तरनिरूपणेनेत्यास्तामेतत्।
नन्वप्रयोजको नाम षष्ठो हेत्वाभासः समस्मीति न पुनरपि पञ्चत्वम्। न, तस्यान्यथासिद्ध एवान्तर्भावं वक्ष्यामः। अवान्तरभेदविवक्षायान्तु हेत्वाभासा इति सिद्धम्।
न्यायमञ्जरी :—
%सव्यभिचारलक्षणम्%
तेषां सव्यभिचारस्तावदुच्यते।
%अनैकान्तिकः सव्यभिचारः॥%
व्यभिचार एकत्र व्यवस्थाऽनियमः, तेन सह वर्तते इति सव्यभिचारः, विपक्षादप्रच्युत इत्यर्थः। एकस्मिन्नन्ते भवन् ऐकान्तिकस्तद्विपर्ययादनैकान्तिक इति स एवार्थः। एवमिह लक्ष्यलक्षणपदयोर्यथाकाममभ्युपगमो न प्रत्यक्षादिवद् व्यवस्थया। सव्यभिचारपदे लक्ष्याभिधायिनि लक्षणवचनमैकान्तिकपदम्, अनैकान्तिकपदे तु लक्ष्यवाचिनि सव्यभिचारपदं लक्षणप्रतिपादकम्, प्रसिद्धाप्रसिद्धविभागापेक्षया पिककोकिलवद् द्रष्टव्यम्। पिकः कोकिल इत्युक्ते यस्य पिकशब्दार्थः प्रसिद्धः स ततः कोकिलशब्दार्थमवभोत्स्यते प्रसिद्धकोकिलशब्दार्थश्च पिकशब्दार्थमिति।
आह, भवत्वेवम्, इदन्तु चिन्त्यताम्, अनैकान्तिक इति किमयं पर्युदासः प्रसज्यप्रतिषेधो वा ? किञ्चातः ? पर्युदासपक्षे स्वपक्षनियतादैकान्तिकादन्यः स एवानैकान्तिक इति स एवैको हेत्वाभासः स्यात्, अतश्च पञ्चसंख्या विप्रलुप्येतेति। प्रसज्यप्रतिषेधे त्वैकान्तिकाभावस्य निवृत्तिरूपस्य हेत्वाभासता भवेत्, न लक्ष्यत्वेनाभिमतस्य विपक्षवृत्तेर्हेत्वन्तरस्य प्रमेयत्वादेरिति।
उच्यते, प्रश्न एवायमनुपपन्नः। संशयानो हि परं पृच्छति, संशयश्चोभयथादर्शनाद् भवति। न च नामपदसम्बद्धस्य नञो द्वयी वृत्तिर्दृष्टा। अश्राद्धभोजीत्यादौ हि भुजिना नञ् संबध्यते श्राद्धं न भुङ्क्त इति, न तु नाम्रा श्राद्धेनेति। आख्यातेनापि प्रयोज्यमानः क्वचित् प्रकरणसामर्थ्यानुरोधात् प्रत्ययार्थसम्बन्धमवधूय धात्वर्थमेव केवलमालिङ्गन् पर्युदासवृत्तिर्भवति, यथा `नेक्षेतोद्यन्तमादित्यम्’ इति। न तु नाम्ना सम्बध्यमानः क्वचिदपि पर्युदासवृत्तिमुल्लङ्घ्य प्रसज्यप्रतिषेधमात्रतामवलम्बमानो दृश्यते, अब्राह्मणादौ सर्वत्र तदन्यावगतिदर्शनादिति कुतस्त्यः संशयः ? अथवा किमनयावान्तरचिन्तया यथा पृष्टं प्रकृत एवोत्तरमुच्यते, एकस्मिन्ननित्यपक्षे वा नियत ऐकान्तिक एकपक्षवृत्तिरुच्यते, ततोऽन्यः पक्षद्वयवृत्तिरनैकान्तिको भवति, एवं न सर्वे हेत्वाभासाः पक्षद्वयवृत्तय इति न संख्याहानिः। अतः पर्युदासपक्षे तावन्न दोषः। प्रसज्यप्रतिषेधेऽप्यैकान्तिको न भवति स एवाहेतुरिति न निवृत्तिमात्रपरत्वम्। अश्राद्धभोजीति कृता पुरुष उच्यते न श्राद्धबोजनाभावमात्रम्, एवमिहापि तद्धितेनैकान्तिनियतताप्रतिषेधविशिष्टो हेतुरेवोच्यते नाभावमात्रम्, इत्येव मुभयथापि न दोषः। तस्योदाहरणम्, अनित्यः शब्दः प्रमेयत्वादिति। एष हि नित्यानित्यपक्षयोरन्यतरस्मिन्नपि न नियत इति विपक्षवृत्तित्वादनैकान्तिकः, तदेवं व्यतिरेकाख्यहेतुलक्षणशून्योऽनैकान्तिक उक्तो भवति।
ननु षट्प्रकाराः परैरनैकान्तिका इष्यन्ते। सपक्षैकदेशवृत्तिर्विपक्षव्यापी, विपक्षैकदेशवृत्तिः सपक्षव्यापी, उभयपक्षैकदेशवृत्तिः, उभयपक्षव्यापी, साधारणश्चतुष्प्रकारःष असाधारणो विरुद्धाव्यभिचारी चेति स कथमिह न निर्दिश्यते ?
उच्यते, सपक्षव्याप्यादिभेददर्शनं तावदप्रयोजनकमशक्यञ्च हेत्वाभासानामवान्तरभेदेनानन्त्यात्। विपक्षाद् व्यावृत्तिर्यस्य नास्ति स सव्यभिचार इत्यन्यतमहेतुरूपरहितत्वमनैकान्तिकलक्षणमिह विवक्षितम्, तच्चोक्तमेव किमवान्तरभेदपरिगणनेन। असाधारणविरुद्धाव्यभिचारिणौ तु न सम्भवत एव हेत्वाभासाविति न व्याख्यायेते।
ननु साधारणादशाधारणस्यापि गन्धवत्त्वादेः संशयहेतुत्वदर्शनात् कथमसम्भवः ? अनेकध्रमोपपत्तेश्च संशयो भवद्भिरपि व्याख्यायत एव।
नैतदेवम्, उभयविशेषसहचरितधर्मदर्शनं हि तदनुस्मरणप्रायं संशयमुपजनयति, अशाधारणस्तु असाधारणत्वादेव न तत्सहचरः कदाचिदुपलब्ध इति कथं संशयहेतुः ? कथं तर्ह्यनेकधर्मोपपत्तेरिति वर्णयिष्यते ? वर्णितमेतत्। वस्तुनो हि विशेषधर्मः कश्चिदसाधारणः केनापि धर्मान्तरेण द्रव्यत्वेन गुणत्वेन वा सहचरितो भवेदितीत्थमनेकधर्मोपपत्तेः संशयो वर्णितः। तदिहापि गन्धवत्त्वमसाधारणमित्थमेव यदि संशयहेतुतया वर्ण्यते तर्हि साधारणाद् वस्तुधर्मादेव संशयो भवेन्नासाधारणाद् गन्धवत्त्वात्। न हि तन्नित्यानित्ययोरन्यतरेणापि सहचरितमुपलब्धम्। वस्तुधर्मस्तु धर्मान्तरानुयायी दृश्यत इति वस्तुधर्मत्वमेव तत्कारणमतो नित्या भूर्गन्धवत्त्वादित्यसाधारणानैकान्तिको न वक्तव्यः। विरुद्धाव्यभिचार्यपि न वाच्य एव, एकत्र धर्मिणि परस्परविरुद्धद्वयप्रयोजकहेतुद्वयोपनिपातस्यानुपपत्तेः।
ननु प्रत्यक्षो वायुः स्पर्शवत्त्वाद् घटवत्; अप्रत्यक्षोवायुः अरूपत्वादाकाशवत् इत्यस्ति हेतुद्वयसन्निपातः, स एव च विरुद्धाव्यभिचार्युच्यत इति। अत्र तावदेतदेव वक्तव्यम्, कोऽयमपूर्वः प्रामाणिकव्यवहार ईदृशो यदनुमानेन प्रत्यक्षत्वमप्रत्यक्षत्वं वा साध्यत इति। इन्द्रियजप्रमितिविषयो हि प्रत्यक्षोऽर्थो भवति। स एव वायुर्यदीन्द्रियजे प्रत्यये प्रतिभात्येव किमनुमानेनेति। किं वानयोरन्यतरो हेतुरवश्यमप्रयोजकः, वस्तुनो द्वैरूप्यानुपपत्तेः। हेतौ च प्रयुक्ते तद्गुणदोषपरीक्षणमेव प्रतिवादी विधत्ताम्, कोऽवसरः प्रतिहेतूपन्यासस्य ?
विडम्बनार्थस्तदुपन्यास इति चेत्, न, विडम्बनोपन्यासस्य जायुत्तरप्रकारत्वात्। इह च हेत्वाभासा वास्तवा एवानुमानदोषाः प्रतिपाद्यन्ते, न च विरुद्धाव्यभिचारी नाम वास्तवो हेतुदोषः, एकत्र प्रयोजकविरुद्धहेतुद्वयसमावेशासंभवस्योक्तत्वात्।
कथं तर्हि प्रकरणसम इति चेत्, तत्रैव विशेषं वक्ष्यामः।
अथ हेतुप्रयोगरहितोभयवादिपरिगृहीतपक्षप्रतिपक्षोपन्यासमात्रं विरुद्धाव्यभिचारिणो रूपमुच्यते ? सोऽयं विप्रतिपत्तेः संशयो भवति, न हेत्वाभासादस्मादिति।
अपि च संशयजननमनैकान्तिकलक्षणमुच्यते चेत् ? काममसाधारणस्य विरुद्धाव्यभिचारिणो वा यथा तथा संशयहेतुतामधिरोप्य कथ्यतामनैकान्तिकता, न तु संशयजनकत्वं तल्लक्षणमिन्द्रियादेरपि तज्जनकत्वेन तथाभाव प्रसक्तेः, अपि तु पक्षद्वयवृत्तित्वमनैकान्तिकलक्षणम्, स तु पक्षद्वयवृत्तित्वात् संशयमपि जनयतीति वस्तुस्वभावोऽयम्, अतोऽसाधारणविरुद्धाव्यभिचारिणोः कथञ्चित् संशयहेतुत्वेऽपिपक्षद्वयवृत्त्यभावान्नानैकान्तिकवर्गेऽन्तर्भावः।
क्व तर्हि तावन्तर्भविष्यतः ? जात्युत्तराणामानन्त्यात् तत्रेति वक्ष्यामः। तस्मादसाधारणसंज्ञकस्य हेतोर्विरुद्धाव्यभिचारिणो वा।
विपक्षवृत्तित्वमतर्कयन्तो वदन्त्यनैकान्तिकतां नयज्ञाः॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
हेत्वाभासलक्षणे %यथा नेक्षेतोद्यन्तमादित्यमिति।% अत्र हि ईक्षणसम्बद्धेन, ततो ईक्षणादन्यो धात्वर्थः प्रतिपद्यते सङ्कल्पाख्यः, नेक्षेतानीक्षणसङ्कल्पं कुर्यादित्यर्थः। %प्रकरणसामर्थ्यानुरोधादिति।% तत्र हि तस्य व्रतानीत्युपक्रमः, नेक्षतोद्यन्तमादित्यमित्यादीनां प्रजापतिव्रतानां प्रतिपादनात्। व्रतशब्दश्च विशिष्ट एव सङ्कल्पे रूढ इति तद्वशातत्तः प्रकृतिप्रतिपादितेऽर्थे वृत्तिः।
%ननु षट्प्रकारः परैरनैकान्तिका इष्यन्त इति।% सपक्षैकदेशवृत्तिः, यथा अगौरयं विषाणित्वादिति; विपक्षव्यापी चायम्, सर्वेषु गोषु विषाणित्वस्य सद्भावादिति। विपक्षैकदेशवृत्तिः सपक्षव्यापी यथा गौरयं विषाणित्वादिति; सर्वेषु गोषु सपक्षेषु विषाणित्वस्य भावादगोषु च विपक्षेषुकेषुचिन्महिषादिषु भावात् अश्ववादिषु चाभावात्। उभयपक्षैकदेशवृत्तिर्यथा नित्यः शब्दः स्पर्शवत्त्वादिति, नित्येष्वाकाशादिषु सपक्षेषुस्पर्शवत्त्वस्य अभावात् परमाण्वादिषु च भावात् सपक्षैकदेशवृत्तिता, विपक्षेषु चानित्येषु बुद्ध्यादिष्व भावाद् घटादिषु भावाद् विपक्षैकदेशवृत्तित्वम्। उभयपक्षव्यापी यथा नित्यः शब्दः प्रमेयत्वादिति।
न्यायमञ्जरी :—
%विरुद्धलक्षणम्%
%सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः॥%
सपक्षविपक्षयोर्वृत्त्यवृत्ती हेतौ लक्षणमुक्तम्, ते यस्य विपर्यस्ते दृश्येते यः सपक्षे न वर्तते विपक्षे च वर्तते स साध्यविपर्ययसाधनाद् विरुद्धो भवति, सोऽयमुच्यते सिद्धान्तमभ्युपेत्येति। सिद्धान्तशब्दो यद्यपि धर्मविशिष्टे धर्मिणि व्याख्यातः, अयमित्थमित्यभ्युपगमविषयीकृतोऽर्थः सिद्धान्त इति, तथापीह तदेकदेशसाध्यधर्मविषयो लक्ष्यते। तं सिद्धान्तसाध्यधर्ममभ्युपगम्य यो विरुणद्धि व्याहन्ति, तद्विपर्ययं साधयति स विरुद्ध इत्यर्थः।
ननु समानकर्तृकयोः क्त्वाप्रत्ययः स्मर्यते, इह च हेतोरचेतनस्याभ्युपगमे कर्तृत्वासम्भवात् पुरुषस्तत्कर्ता भवेत्, सिद्धान्तञ्च विरुणद्धि हेतुरिति भिन्नकर्तृकत्वम्, उच्यते, समानकर्तृकत्वसिद्धये हेतोरेवाभ्युपगमे कर्तृत्वमुपचाराद्वर्णयिष्यते, हेतुबलात् पुरुषेणाभ्युपगमः क्रियमाणो हेतुनैव कृतो भवति। एवं च स एवाभ्युपगन्ता स एव विरुणद्धीति न भिन्नकर्तृकत्वम्।
ननूपचारपरिग्रहश्चेदभिमतस्तदत्र त्रितयं वक्तव्यम्, साध्येऽर्थे प्रमाणबाधः, निमित्तम्, प्रयोजनञ्चेति। साध्येऽर्थे प्रमाणबाध उक्तःष एवं हेतोरचेतनत्वं नि मितितमप्यस्ति हेतुसाधनको ह्युपगम इति, प्रयोजनन्तु विशेषविरुद्धानां हेत्वाभासत्वनिवारणम्। सिद्धान्तशब्दस्य समुदायवाचिनो यदेकदेशेऽवस्थापनं तस्यापि विशेषविरुद्धव्यवच्छेद एव फलम्। विशेषविरुद्धानां हि हेत्वाभासत्वाभ्युपगमे सर्वानुमानोच्छेदप्रसङ्गः। न हि तथाविधो हेतुरिह जगति कश्चिदवाप्यते यः साध्यसिद्धयेऽभिधीयमानो धर्मस्य वा धर्मिणो वा विशेषं न कञ्चन बाधते। तथा हि अनित्यः शब्दः कृतकत्वादिति सकलतार्किकगृहप्रसिद्ध एव हेतुरनित्यतां साधयन्नपि यद् यत् कृतकं तत्तदश्रावणं दृष्टम्, यो यः कृतकः स स व्योमविशेषगुणो न भवतीति धर्मिणो विशेषं बाधत एवेत्यहेतुः स्यात्, न चैवं युक्तमिति न विशेषविरुद्धो नाम हेत्वाभासोऽभ्युपगन्तव्यः, किन्तु साध्यस्वरूपविपर्ययसाधन एवेति।
अत एव यथा तीर्थान्तरे वर्ण्यते विरुद्धश्चतुष्प्रकारः, धर्मस्वरूपविपरीतसाधनः, धर्मिस्वरूपविपरीतसाधनः, धर्मविशेषविपरीतसाधनः, धर्मिविशेषविपरीतसाधन इति, तथेह नेष्यतेऽतिप्रसङ्गस्य दर्शितत्वादिति। अस्योद्हरणं नित्यः शब्दः कृतकत्वादिति।
ननेवेकैकलक्षणापायात् पञ्च हेत्वाभासा इत्युक्तम्। अस्य च हेतोरुभे लक्षणे न स्तः, यथा ह्यस्य सपक्षे वृत्तिर्नास्ति तथा विपक्षादपि व्यावृत्तिः। यदि हि सपक्षादिव विपक्षादपि व्यावृत्त एव भवेद् गन्धवत्त्ववदसाधारण एव स्यादिति। सत्यमेवम्, किन्तु विपक्षादव्यावृत्तिर्व्यभिचारं प्रति प्रयोजकतां प्रतिपद्यते, प्रतिपक्षगामी हि व्यभिचरित इत्युच्यते। सपक्षे वृत्तिविच्छेदस्तु विपर्ययसिद्धौ प्रयोजक इति सत्यामपि विपक्षवृत्तौ सपक्षवृत्तिविच्छेदनिबन्धनमेवास्य विरुद्धत्वमुच्यते विपक्षादप्रच्युतः स्वसाध्यमेव न साधयेत् सपक्षे त्ववर्तमानोऽसौ विपरीतमपि साधयतीति तल्लक्षणापायकृतमेवास्य विरुद्धत्वमाचक्षते, इत्यलं सूक्ष्मेक्षिकया। तदित्थमुक्तं सिद्धान्तमभ्युपेत्य तद्विरुधी विरुद्ध इति।
अन्ये त्वन्यथा व्याचक्षते किल साध्यधर्मविपर्ययसाधकवद् अपसिद्धान्तप्रतिज्ञाविरोधादयोऽपि सिद्धान्तविरोधिनः सङ्ग्रहीतुं युक्ता एव। ते चैवं व्याख्यायमाने न संगृहीताः स्युः। क्त्वाप्रत्ययसिद्धान्तशब्दौ च न समन्वितौ स्याताम्। तस्मादभ्युपगतसिद्धान्तविरोधी विरुद्ध इति सूत्रार्थे वर्णिने अभ्युपगतं सिद्धान्तं यो विरुणद्धि स विरुद्धः, तत्कालोपात्तप्रतिज्ञाविषयीकृतं वा अवसरान्तरव्यवस्थापितं वेत्येतत्सङ्ग्रहश्च कृतो भविष्यति। सिद्धान्तशब्दश्च न सङ्कोचितो भविष्यति। क्त्वाप्रत्ययस्त्वसङ्गतत्वादुपेक्ष्यत एव भिन्नकर्तृकत्वादानन्तर्यस्य गम्यमानस्य चानुपयुक्तत्वादिति। तथा च भाष्यकारेण पूर्वाभ्युपगतसिद्धान्तानुगुणमेवोदाहरणमुक्तम् `सोऽयं विकारो व्यक्तेरपैति नित्यत्वप्रतिषेधात्, अपेतोऽप्यस्ति विनाशप्रतिषेधात्’ इति। अत्र हि प्रतिषिद्धनित्यधर्मत्वादित्ययं हेतुर्व्यक्तेरपेतोऽपि विकारोऽस्तीत्यमुं सिद्धान्त विरुणद्धि अनेन वा विरुध्यत इति।
एतत्त्वहृदयङ्गममिव व्याख्यानम्। अपसिद्धान्तप्रतिज्ञाविरोधादेर्निग्रहस्थानसूत्रे हेत्वाभासेभ्यः पृथगुपदेशात् किमिह तत्सङ्गग्रहेण प्रत्युत सङ्ग्रह एव दोषः। यो हि मीमांसकोऽहमित्यभ्युपगम्य नित्यः शब्दः कृतकत्वाद् घटवदिति ब्रूयान्न तस्यायां हेतुर्विरुद्धो भवेदपि त्वपसिस्धान्तान्निगृह्येत। तस्मात् साध्यविपर्ययसाधन एव विरुद्ध उच्यते न तु पूर्वाभ्यपगतस्वसिद्धान्तविरुद्धः। न च निरभिप्राय एव सूत्रकृता क्त्वानिर्देशः कृतः, किन्तु ततः प्रतीयमानमानन्तर्यमप्यपेक्षमाणेन यो हि सिद्धान्तमभ्युपेत्य प्रतिज्ञाय तत्सिद्ध्यर्थतयोपादीयमानस्तमेव विरुणद्धि स विरुद्धो हेत्वाभास इति प्राक्तनमेव व्याख्यानमनवद्यम्।
अतः प्रतिज्ञाविपरीतसाधनाद् विरुद्धतामेति न हेतुरन्यथा।
विशेषबाधादिनिबन्धनं पुनर्बहुप्रकारत्वममुष्य नेष्यते॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%वुरुद्धश्चतुष्प्रकार% इति। धर्मस्वरूपविपरीतसाधनः, यथा नित्यः शब्दः कृतकत्वादिति। धर्मिस्वरूपविपरीतसाधनः, यथा समवायो धर्मी द्रव्यादिभ्यो व्यतिरिच्यत इति साध्यम्, इहप्रत्ययहेतुत्वात् संयोगवदिति; इहप्रत्ययहेतुत्वं संयोगत्वेन सह व्याप्तमुपलब्धं दृष्टान्त इति समवायस्यासमवायरूपतां साधयति। धर्मविशेषविपरीतसाधनः, यथा परार्थाश्चक्षुरादयः सङ्घातत्वाद् शयनासनादिवदिति। सङ्घातत्वस्य संहतपरार्थत्वेन शयनादिषु व्याप्तस्योपलम्भाच्चक्षुरादिष्वपि संहतपरार्थत्वं साधयन्नसंहतपरार्थतारूपधर्मविपर्ययसाधनः। धर्मिविशेषविपरीतसाधनः, यथा न द्रव्यं न गुणः कर्म वा भावः सप्रत्ययहेतुत्वात् सामान्यविशेषवदिति। अयं हेतुर्यथा सत्ताया द्रव्यादिवैलक्षण्यं साधयति तथा सत्प्रत्ययकर्तृत्वं विशेषमपि बाधते, गोत्वादिषु सामान्यविशेषेशु तस्यासम्भवादिति।
%सोऽयं विकारो व्यक्तेरपैतीति।% तथा च भाष्यम्, “सोऽयं विकारो व्यक्तेरपैति नित्यत्वप्रतिषेधात्, न नित्यो विकार उपपद्यते। अपेतोऽपि विकारोऽस्ति विनाशप्रतिषेधात्। सोऽयं नित्यत्वप्रतिषेधादिति हेतुर्व्यक्तेरपेतोऽपि विकारोऽस्तीत्यनेन स्वसिद्धान्तेन विरुद्ध्यते। कथम् ? व्यक्तिरात्मलाभः। अपायः प्रच्युतिः। यद्यात्मलाभात् प्रच्युतो विकारोऽस्ति नित्यत्वप्रतिषेधो नोपपद्यते। यत् खलु व्यक्तेरपेतस्यापि विकारस्यास्तित्वं तत् खलु नित्यत्वमिति। नित्यत्वप्रतिषेधो नाम विकारस्यात्मलाभात् प्रच्युतेरुपपत्तिः। यदात्मलाभात् प्रच्यवते तदनित्यम्, तदस्ति न तदात्मलाभात् प्रच्यवते। अस्तित्वं चात्मलाभात् प्रच्युतिरिति च विरुद्धावेतौ धर्मौ सह न सम्भवत इति। सोऽयं हेतुर्यं सिद्धान्तमाश्रित्य प्रवर्तते तमेव व्याहन्तीति”। परिदृश्यमानोऽयं महाभूतादिविकारो व्यक्तेरपैत्यभिव्यक्ताद् रूपात् प्रच्यवते। %प्रतिषिद्धनित्यधर्मकत्वादिति% साङ्ख्यप्रयोगः।
%विशेषबाधादिनिबन्धनमिति।% यथा प्रतिपादितं धर्मविशेषबाधादि।
न्यायमञ्जरी :—
%सत्प्रतिपक्षलक्षणम्%
%यस्मात् प्रकरणचिन्ता स निर्णयार्थमदिष्टः प्रकरणसमः॥%
एकैकलक्षणापायनिमित्तहेत्वाभासपञ्चकप्रतिज्ञानादसत्प्रतिपक्षत्वलक्षणवैकल्यात् किल प्रकरणसमो नाम हेत्वाभासो वक्तव्यः। स च न सम्भवति सत्प्रतिपक्षस्य हेतोरभावाद् अद्व्यात्मकत्वाद्धि वस्तूनामेकत्र परस्परविरोधिधर्मद्वयप्रयोजकहेतुसमावेशो नास्तीत्यसकृदुक्तम्। अत एव विरुद्धाव्यभिचारी निरस्तः। अनुमानविरुद्धमनुमानञ्च नेष्यत एव। तत् कुतः सत्प्रतिपक्षो हेत्वाभासः ? अतश्च लक्ष्याभावात् कस्येदं लक्षणमित्याशङ्क्याह यस्माद् इत्यादि। विचार्यमाणौ प्रागुक्तलक्षणकौ पक्षप्रतिपक्षौ प्रकरणम्, तस्य चिन्ता संशयात् प्रभृति आ निर्णयाद् यद्यपि भवति तथापीह विमर्शात्मिकैव गृह्यते, सा यस्माद् भवति। कस्माच्च सा भवति ? विशेषानुपलम्भात्। स एव विशेषानुपलम्भो यदि निर्णयार्थमुपदिश्यते तत्प्रकरणम् अनतिवर्तमानत्वात् प्रकरणसमो भवति, नित्यः शब्दः अनित्यधर्मानुपलब्धेराकाशवत्, अनित्यः शब्दो नित्यधर्मानुपलब्धेर्घटवदिति। सोऽयं सत्प्रतिपक्षो हेतुरिह लक्ष्यो विद्यते। न च द्व्यात्मकानि वस्तूनि, प्रमातारस्तु रूपमेषां नियतमवधारयितुमशक्नुवन्त एव भ्राम्यन्तीति। तथा ह्येको विशेषानुपलब्धेः पक्षधर्मान्वयव्यतिरेकावपश्यंस्ततस्तथेति साध्यं बुध्येत, तथैव च परं प्रत्याययेदिति।इतरोऽपि द्वितीयविशेषानुपलब्धेः साधनतां बुद्ध्वा प्रत्यवस्थानञ्च करोतीति सप्रतिपक्षक एवैष प्रकरणसमो हेत्वाभासः। तथा च न तावदयं सम्यग् हेतुः, प्रतिपक्षोपहतत्वेन स्वसाध्योपस्थानसामर्थ्यशून्यत्वात्। हेत्वाभासोऽपि च भवन् न तावदसिद्धः, साध्ये धर्मिणि शब्देऽनुपलभ्यमाननित्यधर्मत्वस्य हेतोः सद्भावात्। नापि विरुद्धः, साध्यविपर्ययसाधननिमित्तभूतः सपक्षवृत्तिवियोगानुपपत्तेः। नाप्यनैकान्तिकः, पक्षद्वयसाधारणत्वानवधारणात्, संशयजनकत्वन्तु न तस्य लक्षणमित्युक्तमेव।
नन्वेकस्मिन् पक्षे नियत एकान्तिकस्तद्विपर्ययादनैकान्तिकः। स चायं नित्यानित्यपक्षयोरन्यतरत्रापि न नियत इत्यनैकान्तिक एव स्यात् ? अपि चाहुः `अप्रामाण्यं त्रिधा भिन्नं मिथ्यात्वाज्ञानसंशयैः’ इति। तत्र यथेन्द्रियादेरबोधकत्वाद् वा संशयविपर्ययस्वभावावभाससमुत्पादनदौरात्म्याद् वा भवत्यप्रामाण्यव्यवहारः, एवमनुमानमपि तथैव वर्त्मना प्रमाणाभासतामवलम्बते। तत्र असिद्धस्तावदलभमानो धर्मिणि वृत्तिं तत्र साध्यधर्मधियमाधातुमनधिकृत इत्यज्ञानफलत्वादप्रामाण्यमनुभवति। विरुद्धस्तु विपर्ययसाधन इति भवन्त एव प्रतिपन्नाः। संशयजनकस्त्वनैकान्तिको भवितुमर्हति, न तु पारिभाषिकविपक्षवृत्तित्वमेव तस्य लक्षणमुचितम्। अयमपि चान्यतरपक्षनियमविरहिततनुरिति किमिति न भवति विमर्शमुपदधदनैकान्तिक इति त्रय एव हेत्वाभासाः।
उच्यते, न फलनियमेन लक्षणनियमः कर्तुं शक्यते, यद्यपि द्विविधं त्रिविधं वा भवत्यप्रमाणफलं तथापि न त्रिलक्षणके लिङ्गेऽविनाभावः परिसमाप्यते अपि तु पञ्चलक्षणक इति प्रसाधितोऽयमर्थः। तद्वैकल्याच्च हेत्वाभासानामपि पञ्चत्वमेव, फलन्तु द्विविधमस्तु त्रिविधं वा न ह्यप्रतिपत्तिजनकं किञ्चिल्लिङ्गमुपलभामहे, न चाप्रतिपत्तिः प्रयत्नजन्या प्रागभावस्य निसर्गसिद्धत्वादित्यलमवान्तरचिन्तनेन, न फलापेक्षो लिङ्गलक्षणनियमः। तत्र यथा पक्षधर्मरहितत्वमसिद्धलक्षणमेष च हेतुः पक्षधर्मान्वयव्यतिरेकाणामन्यतमेनापि रूपेण न विकल इति कथमनैकान्तिकतां प्रतिपत्स्यते ? व्यस्ततायां हि सर्वाण्येतानि सन्ति लक्षणानि, समस्तं वस्तु नोपन्यस्तमेव हेतुत्वेन नित्यानित्यधर्मानुपलब्धेरिति।
ननु यद्यस्य पक्षधर्मान्वयव्यतिरेका निरपवादाः सन्ति कथं तर्हि न हेतुरेवायम्, इतरस्यापि पक्षधर्मान्वयव्यतिरेकाणां निरपवादानां सम्भवात् सोऽपि न कथं हेतुरस्त्विति चेत्, न, वस्तुनो द्वैरूप्यानुपपत्तेः। एवमिमौ हेतू पक्षद्वयेऽपि बुद्धिं जनयन्तौ संशयमावहतो नानैकान्तिकवद्विपक्षवृत्तित्वेनेति हेत्वाभासान्तरत्वम्, एवंविधस्य चास्य प्रकरणसमस्य विरुद्धाव्यभिचारीति नाम यदि क्रियते तदपि भवतु न पुनरैकान्तिकप्रभेदतामवलम्बते तल्लक्षणासंस्पर्शादुभयप्रतीतिजनकौ हीमौ चेद् उभयतो नोभयपक्षवृत्तीति। नाप्ययं कालात्ययापदिष्टः प्रत्यक्षागमयोरन्यतरस्यापि बाधकस्यानुपलम्भात्। अनुमानन्तु नानुमानस्य बाधकं भवितुं क्षममित्युक्तम्। न चेतरेतरवाद्यपेक्षया अनयोरसिद्धत्वमभिधेयम्, संशयजनकत्वेऽनुभवसिद्धे सति विशेषानुपलब्धेरप्रत्याख्येयत्वात्।
ननु निश्चितस्य साधनप्रयोगाधिकारात् कथं चिन्तावान् साधनं प्रयुञ्जीत निश्चितत्वञ्च तद्धर्मानुपलब्ध्योः परस्परमसिद्धत्वं स्थितमेव, नैतदेवम्, अन्यतरधर्मानुपलब्धेरेव पक्षधर्मान्वयव्यतिरेकान् पश्यन्नसौ निश्चिततां प्राप्तो न द्वितीयधर्मानुपलब्धेरसिद्धतां बुध्यमानः, अत एवायं भ्रान्तिमूलहेत्वाभासो द्वितीयधर्मानुपलब्धिसिद्धत्वनिश्चये तु सम्यग् हेतुरेव स्यात्। तदसिद्धत्वानवधारणेऽप्यसौ स्वस्य हेतोस्त्रैरूप्यदर्शनान्निश्चितमतिर्भूत्वा साधनं प्रयुञ्जान इतरेण तथैव निश्चितमतिना प्रतियोगे कृते तस्यापि त्रैरूप्यमुपलभमानः संशयमधिगच्छतीत्यलं प्रसङ्गेन। तदेवमसिद्धादिलक्षणवैपरीत्यात् प्रतीत्यनुगुणः प्रकरणसमो नाम सिद्धो हेत्वाभासः।
अपरे पुनरुदाहरणान्तरमस्य व्याहरन्ति, नित्यः शब्दः पक्षसपक्षयोरन्यतरत्वाद् आकाशवत्, अनित्यः शब्दः पक्षसपक्षयोरन्यतरत्वाद् घटवदिति।
ननु पक्षसपक्षयोरन्यतरः पक्षो वा स्यात् सपक्षो वा स्यान्न तृतीयो न हि मित्रावरुणयोरन्यतरः सोमो भवितुमर्हति, तत्र पक्षेऽन्यतरशब्दवाच्येऽनन्वयः, न हि शब्दाख्यः पक्षो धर्मी धर्म्यन्तरे वर्तते, सपक्षे त्वन्यतराभिधेये पक्षधर्मता नास्ति, न ह्याकाशादिः सपक्षः शब्दाख्ये धर्मिणि वर्तते।
उच्यते, न पक्षत्वादिति हेतुः प्रयुक्तः, सपक्षत्वादिति वा येनैवं स्यात्, किन्तु पक्षसपक्षयोरन्यतरत्वादिति। ततश्च द्वयोरपि किमपि साधारणरूपं न हि वरुणो यष्टव्य इति यादृशी बुद्धिस्तादृश्येव मित्रावरुणयोरन्यतरो यष्टव्य इति। विशेषनिष्ठतायान्तु बलादापाद्यमानायां सकलानुमानोच्छेदः। न चान्यतरत्वं शब्दमात्रारोपितरूपमवास्तवमिति वदितुमुचितम् अर्थासंस्पर्शितायाः प्रतिक्षिप्तत्वात्।
अन्यतरत्वादित्यसिद्धो हेतुरिति चेत् किल पक्ष एवायं न पक्षसपक्षयोरन्यतर इति। तदयुक्तम्, यत एवायं पक्षस्तत एव पक्षसपक्षयोरन्यतरो न ह्यपक्षः पक्षसपक्षयोरन्यतरः स्यात्, न ह्यवरुणो मित्रावरुणयोरन्यतर इत्युक्तमेव। पक्षोऽपि च भवन्नेष न पक्षत्वादित्यनेन रूपेण हेतूक्रियते, किन्त्वन्यतरत्वादितीत्थञ्च हेतूकरणे नैष दोष इति।
अपरमुदाहरणम्, सन् सर्वज्ञः इतरतद्विपरीतविनिर्मुक्तत्वाद् घटवता। असन् सर्वज्ञः इतरतद्विपरीतविनिर्मुक्तत्वात् खरविषाणवद् इत्यत्राप्याक्षेपप्रतिसमाधानप्रकारः पूर्ववदनुसरणीयो धर्म्यसिद्धता च यत्नतः परिचिन्तनीया।
एवंजातीयकन्तूदाहरणं नानुमोदन्ते मतिमन्तः। यत्र हि हेतुना स्वयमर्थं सम्यगसम्यग् वानुमाय प्रमाता परप्रत्यायनाय तं हेतुं प्रयुञ्जीत स प्रयुज्यमानो वस्तुबलप्रवृत्ततया हेतूभवति हेत्वाभासीभवति वा, तथा ह्यारोहपरिणाहवति पुरोऽवस्थिते धर्मिणि स्थाणुगुतविशेषानुपलम्भादेकस्य पुरुष इति भवति प्रतीतिरितरस्य तु पुरुषगतविशेषानुपलब्धेः स्थाणुरिति भवति मतिः। एवं यदा असावेकः पुरुषत्वसिद्धये परं प्रति स्थाणुधर्माग्रहणं हेतुत्वेन ब्रूयाद् इतरोऽपि पुरुषधर्माग्रहणेन स्थाणुतां प्रतिष्ठापयन् प्रत्यवतिष्ठते तदा स्वप्रतीत्यनुसरणपुरः सरसाधनाभिधानाद् भ्रान्तिसम्भवाच्च युक्तं तथाविधोदाहरणकीर्तनम्।
एवं नित्यः शब्दोऽनित्यधर्मानुपलब्धेराकाशवत्, अनित्यः शब्दो नित्यधर्मानुपलब्धेर्घटवदित्यपि द्रष्टव्यम्। यस्तु न वस्तुमूलः, केवलोत्प्रेक्षामात्रावलम्बनः स्वप्रतीतिषु न दृष्टपूर्वः किं तदुपन्यासेन ? एतेन सिद्धितीयप्रयोगा अपि प्रत्युक्ताः। यथा क्वचित् साधनप्रयोगे कृते सति तत्रैवं परः प्रत्यवतिष्ठते, यथा प्रस्तुतसाध्यधर्माधिकरणत्वशून्यधर्मिघटान्यतरसद्वितीयो घटः, अनुत्पन्नत्वात् कुड्यवदिति। यथा प्रस्तुतेन सिषाधयिषितेन धर्मेण शून्यो यः प्रकृतो धर्मो घटश्च तयोरन्यतरेण न सिद्धतीयोऽयं घटरूपो धर्मी तत्र हेतुरनुत्पननत्वं तस्य कुड्यादौ व्याप्तिरिति। सत्यं वदत, यद्यस्ति लोके क्वचिदीदृशः प्रतीतिक्रमः, घटश्च धर्मो धर्मिघटयोरन्यतरेण सद्वितीय इत्यत्रान्यतरशब्दः सामान्यवचनोऽपि धर्मिणि व्याख्येयः। न हि घट एव घटेन सद्वितीयो भवितुमर्हतीत्यलमलीककल्पनाकौशलप्रख्यापनेन।
सम्यग् वा यदि वान्यथा विदधते ये हेतवः संविदं
दृष्टाः स्वात्मनि ते प्रयोक्तुमुचिताः कामं परज्ञप्तये।
ये तु स्वप्रतिपत्तिमेव न तथा कर्तूं क्षमाः कल्पना-
सामर्थ्योत्थितवस्तुशून्यघटनाः किं तत्प्रयोगे फलम्॥
ये तु सूक्ष्मोत्प्रेक्षमप्रज्ञातिशयाभिधानदुर्विदग्धास्तथाविधानपि प्रयुञ्जते।
कृतकवचनाचातुर्यं तैः प्रदर्शितमात्मनो
भवति न पुनः शुद्धिः काचित् प्रमेयदिशः कृता।
क्वचिदवसरे त्वेवंप्रायाः परभ्रमकारिणः
किल सफलतां दध्युर्जल्पे यथा कथितं पुरा॥
तत्र त्वेतान् कथयति परः प्राज्ञमानी यदा वा
तस्याख्येयो निपुणमतिना पूर्वनीत्या समाधिः।
द्राघीयस्या तदलमनया तार्किकम्मन्यगोष्ठ्या
हेत्वाभासः प्रकरणसमस्त्वेष निर्णीत एव॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%विशेषानुपलब्धेरप्रत्याख्येयत्वादिति।% अयमाशयः, उभयधर्मानुपलब्ध्या तावदुभयोः संशयोऽस्ति, यस्य चोभयधर्मानुपलब्धिः संशयहेतुत्वेनाभिप्रेता स कथमन्यतरधर्मानुपलब्धिः प्रत्याचक्षीत, यो ह्युभयधर्मानुपलब्धिपभ्युपगच्छत्यभ्युपगच्छत्येवासौ अन्यतरधर्मानुपलब्धिमपि, तथा विनोभयधर्मानुपलब्धेरभावादिति।
%इतरतद्विपरीतविनिर्मुक्तत्वादिति।% सत्त्वस्य साध्यत्वादितरतद्विपरीतमसत्त्वम्, तेन विनिर्मुक्तत्वादिति। अन्यत्रापि असन् सर्वज्ञ इत्यत्राप्यसत्त्वं साध्यं तदितरतद्विपरीतं सत्त्वमेवं केचिद् व्याचक्षते। तच्चायुक्तम्, एवं हि सत्त्वात् सन्नित्युक्तं स्यादितरशब्दवैयर्थ्यं च तस्मादेवं व्याचक्षते, सर्वज्ञः सन् कुतः ? इतरतद्विपरीतविनिर्मुक्तत्वात्। इतरो द्वितीयो यः सर्वज्ञ एव तद्विपरीतः सन् सर्वज्ञविपरीतः असन्, तेन विनिर्मुक्तत्वात् तदभावोपलक्षितत्वादित्यर्थः। यदि हि इतरो द्वितीयः कश्चिद् विपरीतोऽसन्नपि सर्वज्ञशब्दवाच्यः सर्वज्ञतया सिद्धः स्यात् तदा असतोऽपि सर्वज्ञतया समुपलम्भात् प्रकृतेऽपि सर्वज्ञतया असत्त्वमासज्ज्येत। नन्वस्ति इतरोऽस् सर्वज्ञः कश्चित्, अतः सन्नेव सर्वज्ञ इति, यथा इतरेणासता घटशब्दवाच्येन घटेन विनिर्मुक्तो घटः सन्नेव नासन्; यः पुनरसन्नेव सोऽपि इतरेणासता विनिर्मुक्तःष यथा काचिच्छशविषाणव्यक्तिः शशविषाणव्यक्त्यन्तरस्यासत्त्वभूतस्योपलम्भान्न सती। एवं द्वितीयप्रयोगे असन् सर्वज्ञः, द्वितीयस्य सत्त्वेन सिद्धस्य सर्वज्ञस्य उपलम्भाद् यदि सन्नपि सर्वज्ञतया सिद्धः स्यात् तत्प्रकृतेऽपि सत्त्वमाशङ्क्येत, न त्वसावस्ति; यथेतरस्य शशविषाणस्य सिद्धस्याभावादसन्नेव शशविषाण इति। %अत्राप्याक्षेपः प्रतिसाधनं चेति।% अत्रापीतरशब्दस्य प्रकृतपरामर्शकत्वात् तेन किं सर्वज्ञस्य परामर्श उत घटस्येत्यन्तरशब्दवदाक्षेपप्रतिसमाधाने। सत्त्वे च साध्ये `नासिद्धे भावधर्मोऽस्ति’ इत्यादि परिचिन्तनीयम्। किमस्ति न वेति तत्राक्षेपे वाद्यस्तीत्याह, प्रतिसमानाधवादी तु बुद्ध्यारूढस्य बाह्यानुपादानत्वसाधनाद् बौद्धेन च रूपेण सत्त्वान्नास्ति धर्मीत्याह धर्म्यसिद्धतेति।
न्यायमञ्जरी :—
%असिद्धलक्षणम्%
%साध्याविशिष्टः साध्यत्वात् साध्यसमः॥%
अन्यतरवादिप्रसिद्धमन्यतरं प्रति यत् साधयितुमुपादीयते तत् साध्यम्, तदविशिष्टो हेतुः साध्यसमः। कथं साध्येन तुल्यता हेतोरिति चेदाह साध्यत्वादिति। यथा साध्यमसिद्धत्वात् साध्यं तथा तत्सिद्ध्यर्थमुपात्तो हेतुरपि योऽसिद्धत्वात् साध्यः स साध्याविशिष्टत्वात् साध्यसम इत्युच्यते।
एतच्चान्यतरासिद्धस्यैव लक्षणम्। यथा मीमांसकं प्रत्यनित्यः शब्दः कृतकत्वाद् घटवदिति। न चाक्षुषत्वादेरुभयासिद्धस्य, न हि तस्य साध्यत्वं सम्भवतीत्यर्थः।
सकलासिद्धभेदसङ्ग्रहाय साध्यत्वादित्येतत्पदरहितं साध्याविशिष्ट इत्येवासिद्धलक्षणमुपवर्णनीयम्। साध्यस्य च रूपद्वयस्यासिद्धत्वं साध्यत्वञ्च तत्रासिद्धत्वमेव। तदविशिष्टत्वकारणमिहाश्रीयते सर्वासिद्धभेदसाधारणम्, न तु साध्यत्वमन्यतरासिद्धैकलग्नमिति। एवञ्चासिद्धत्वमेवासिद्धस्य लक्षणमुक्तं भवति। पक्षधर्मत्वं यस्य नास्ति साध्ये धर्मिणि यो न वर्तते हेतुः सोऽसिद्ध इति।
न्यायमञ्जरी :—
%असिद्धभेदाः%
तस्य तु भूयांसो भेदा भवन्ति। हेतुस्वरूपे तावदन्यतरस्य वादिनो द्वयोर्वा अज्ञानं सन्देहो विपर्यय इति। तथा तदाश्रयेऽपि धर्मिण्येकस्य वा द्वयोर्वा तथैवाज्ञानसन्देहविपर्यया इति। भूयसि च पक्षीकृतेऽर्थे तदेकदेशे क्वचिद् वृत्तिस्तदितरत्रावृत्तिरिति। एकदेशवृत्तावपि द्वयोरेकस्य वा तथैवाज्ञानसंशयविपर्यया इति। एवंप्रकारभेदोदाहरणवर्णनमल्पप्रयोजनमिति न प्रस्तूयते।
अन्यतरासिद्धेर्न विवदन्ते प्रमाणस्यापक्षपातित्वात्, यदि तावत् कृतकत्वं शब्दे प्रमाणतो निर्णीतं तर्हि मीमांसकस्यापि तार्किकस्येव तत् सिद्धमेव। अथ तत्र कृतकत्वनिश्चयनिपुणं नास्त्येव प्रमाणं तदा तार्किकोऽपि तूष्णीमास्ताम्, द्वयोरप्यसौ चाक्षुषत्वादिवन्न सिद्ध्येद् हेतुः। वाङ्मात्रेण त्वसिद्धिकथनमसाम्प्रतमतिप्रसङ्गादेव।
सत्यम्, एवं न सर्वदान्यतरासिद्धस्य हेत्वाभासत्वमभिदध्महे; किन्तु कञ्चित् कालमिति, यदैकेन वादिना हेतौ प्रयुक्ते द्वितीयो वदति सम्प्रति न सिद्ध एष इति तदा हेतोः प्रयोगाद् विना तत् साधनमभिधेयम्; अनभिधानात् स पराजीयते। साधने तु तेनोक्ते तदसिद्धतोद्भावनवादी पराजीयते इति। यावत् तत्सिद्धौ नोपन्यस्तं साधनं तावदेव असावन्यतरसिद्ध्यनन्तरन्तु सम्यग् हेतुरुभयासिद्धो वा भविष्यतीति।
व्यधिकरणासिद्धस्तु यथोक्तभेदान्तर्गत एव, यथा नित्यः शब्दः काकस्य कार्ष्ण्यादिति। क्वचित् पुनश्च व्यधिकरणासिद्धोऽपि भवति गमक इत्येके। तद् यथा बहलबहलः प्रचलजलधरश्यामलवपुरम्बरतलमाक्रामन् धूमप्रबन्धः क्षोणीध्रकन्दरादिविशेषधर्मत्वानवधारणेऽपि तत्र गमयितुमलमनलमिति। यथा व् अग्निमानेषु देशो धूमोपलब्धेरिति प्रयुज्यते तदोपलब्धेरात्मधर्मतया वैयधिकरण्येऽपि गमकतास्तीति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%हेतुस्वरूपे तावदन्यतरस्य वाचिनो द्वयोर्वा अज्ञानं सन्देहो विपर्य्य% इति। अज्ञानमसिद्धत्वं यथा अनित्यः शब्दः कृतकत्वादिति, कृतकत्वे मीमांसकस्यासिद्धता। अनित्यः शब्दश्चाक्षुषत्वादित्युभयासिद्धिः। किमयं बाष्पो धूमो वेति हेतुत्वेनोपादीयमानो द्वयोरेकस्य वा संदिग्धः। वह्निर्न दाहकः शैत्यात्, अनित्यः शब्दोऽश्रावणत्वादित्युभयोर्विपर्ययः। %तथा तदाश्रयेऽपि धर्मिण्येकस्य वेति।% आत्मा धर्मी सर्वगत इति साध्यं सर्वत्र दृष्टकार्यत्वादित्यत्र हेत्वाश्रये आत्मनि अज्ञानं बौद्धस्य, लौकिकानां तु संशयः। अस्मिन्नेव बौद्धेन चार्वाकं प्रत्युक्तम् उभयोरज्ञानम्। %तदेकदेशे क्वचिद् वृत्तिः।% यथा नित्याः परमाणवो गन्धवत्त्वादिति। गन्धवत्त्वस्य पार्थिवेषु परमाणुषु वृत्तिस्तदितरत्र आप्यादिष्ववृत्तिः। %एकदेशवृत्तावपि द्वयोरेकतरस्य वेति।% यथात्रैव योगाचारस्याज्ञानं तस्य परमाणूनामसिद्धत्वादिति, तस्य माध्यमिकं प्र्तयेवं ब्रुवत् उभयोरज्ञानं लौकिकानां तु संदेहः, कस्यचिद् विपर्यय इति। पदासिद्धाद्यपेक्षया वा अज्ञान-संदेह-विपर्यया व्याख्येयाः। यथाह भट्टः,
अलक्षणमसिद्धं च पदाभासं स्वगोचरम्।
सिद्धपोषधविज्ञप्तिपश्यनादि प्रकल्पयेत्॥
हेतौ विवक्षिते तत्र पदासिद्धोऽभीधीयते।
अन्यस्य वाचको यत्र शभ्दोऽन्यत्र प्रयुज्यते॥
तत्रासिद्धाभिधो हेतुर्विज्ञाने कायशब्दवत्।
प्रामाण्यं बुद्धवाक्यादेः सर्वज्ञोक्ततया यदा॥
साध्यते तत्र हेत्वर्थस्वरूपासिद्धता मता॥ इत्यादि ।
यत्र सङ्कोचप्रसिद्धयोगत्वाच्चेतनास्तरवो जङ्गमशरीरवत्, चतुर्दश्यां हलेष्वयोजनं वृषाणां धर्मः पोषधत्वाद् यवसादिदानवदित्यादौ सिद्ध-पोषध-विज्ञप्ति-पश्यनादिपदानां साधनप्रतिपादकत्वेन प्रयुक्तानां पदासिद्धताव्यपदेशः। तत्र बौद्धसिद्धान्तसमाश्रयणेन प्रयुञ्जानस्य वादिन एव स्वाज्ञान-संदेह-विपर्ययाः, प्रतिवादिनस्तु बौद्धस्याज्ञानमेव, बौद्धेन वा प्रयुक्तेषु प्रतिवादिनोऽज्ञानादय इति।
%एवंप्रकारभेदोपवर्णनमल्पप्रयोजनमिति।% तथा च प्रकारभेदानाह भट्टः,
पदासिद्धादयस्त्रेधा भिद्यन्ते वाद्यपेक्षया।
कश्चिद्धिवादिनोऽसिद्धः कश्चिद्धि प्रतिवादिनः॥
उभयोरपि कश्चित्तु सोऽपि भिन्नः पुनस्त्रिधा।
प्रत्येकाज्ञानसंदेहविपर्यासनिरूपणात्॥
वादिना कश्चिदज्ञातस्तथान्यः प्रतिवादिना।
उभायभ्यामपरस्तद्वत् तत्संदेहविपर्ययौ॥
संदिग्धो वादिनो वा स्यादज्ञातः प्रतिवादिनः।
तथैकस्य पदासिद्धस्तदाज्ञानादिभिस्त्रिभिः॥
इत्यादि वितायमानं ग्रन्थगौरवमावहतीत्यलम्।
न्यायमञ्जरी :—
%अन्यथासिद्धस्यासिद्धभेदरूपतेति शङ्का तत्समाधानञ्च%
अन्ये त्वन्यथासिद्धत्वं नाम तद्भेदमुदाहरन्ति। यस्य हेतोर्धर्मिणि वृत्तिर्भवन्त्यपि साध्यधर्मप्रयुक्ता भवति न सोऽन्यथासिद्धो यथा अनित्या मनः–परमाणवो मूर्तत्वाद् घटवदिति।
ननु कथमयमन्यथासिद्ध उच्यते, किमिति सम्ग् हेतुरेव न भवति, किं परमाणुषु मूर्तत्वं न वर्तते, किं घटादावनित्यतया व्याप्तं न दृश्यते, किमाकाशादेः खपुष्पादेर्वा विपक्षान्न प्रच्यवते ? किं प्रत्यक्षेणागमेन वा बाध्यते, किं प्रतिपक्षेण प्रतिबाध्यते येनाभासतां प्रतिभजते ? न, प्रतिबन्धाभावात्।
ननु पञ्चानां प्रतिबन्धलक्षणानां कतमदस्य श्लथीभूतम् ? नान्यतमस्यापि शैथिल्यं ब्रूमः। तत् किं पञ्चस्वपि लक्षणेषु प्रतिबन्धः समाप्यते ? तानि चासां सन्त्येव, न चैष प्रतिबन्ध इति कैतवम्।
उच्यते, प्रयोज्यप्रयोजकभावेन साध्यसाधनधर्मयोर्धूमाग्निवत् प्रतिबन्धोऽवधार्यते, स चात्र प्रयोज्यप्रयोजकभावो नास्तीत्यत एवायमन्यथासिद्धोऽप्रयोजक इति कथ्यते।
कथ् पुनरस्याप्रयोजकत्वमवगतम् ? उच्यते, मूर्तत्वं हि सर्वगतेतरद्रव्यपरिमाणविशेषादिधर्मो वस्तुस्वभावमात्रनिबन्धनो न कृतकत्वादिवदनित्यतां प्रयोक्तुमुत्सहते। तथा हि परमाणुषु सिद्धेषु सत्सु तत्र वर्तमानं मूर्तत्वमनित्यतां साधयेत, अन्यथा त्वाश्रयासिद्धतामुपेयात्। सिध्यन्त एव सावयवकार्यानुमानमार्गेण, लोष्टविभागावभासमानभागपरम्परापरिकल्पनक्रमेण वा परमाणवो निरवयवाः सिध्यन्ति। सावयवत्वे तदवयवाः परमाणवो भवेयुर्न ते, तेषामप्यवयवान्तरपरिकल्पनायामप्यवयवानन्त्यविशेषात् सर्षपस्य मेरोश्च साम्यमापद्यते, न च तदस्ति। तदेवं निरवयवेषु परमाणुषु निसर्गसिद्धमनाश्रितत्वम्। अतश्चाश्रयविनाशावयवविभागादिविनाशकारणाभावात् स्वाभाविकविनाशवादनिराकरणाच्च कथं परमाणूनां नित्यतां स्पृशेत् ? मूर्तत्वन्तु वस्तुधर्मत्वाद् भवदपि प्रमेयत्वादिवन्न प्रयोजकम्।
इयांस्तु विशेषः प्रमेयत्वमुभयपक्षस्पर्शादनैकान्तिकं भवदप्रयोजकम्। इदन्तु मूर्तत्वमनित्यव्यतिरिक्तस्त्वन्तरपरचयविरहितमपि न प्रयोजकमिति।
नन्विदमपि प्रमेयत्ववद् विपक्षवृत्त्येव मूर्तत्वम् ? क्व विपक्षे वर्तते ? परमाणुष्वेव ? ननु तेषां पक्षीकृत्वात् कथं विपक्षता, न पुरुषेच्छानुरोधेन वस्तु विपरिवर्तते ? विपक्षो हि नाम स उच्यते यः सिषाधयिषितधर्माध्यासिततया दृढप्रमाणासिद्धः। परमाणवश्चैतेऽनन्तरनिर्दिष्टनीतिक्रमेणानिर्णीतनित्यत्वाः तान् पक्षतया ब्रवीति ब्रवीतु नाम, न तु सुस्पष्टासिद्धनित्यतानां परमाणूनां विपक्षभावो निवर्तते इति।
तदिदमनुपपन्नम्, अनेन क्रमेण धूमानुमानस्याप्यनैकान्तिकत्वप्रसङ्गात्। धूमो हि महीभृति हुतवहविरहितवपुषि विपक्षे वर्तत एव। न तत्र चित्रभानोरभावो निश्चित इति चेत्, किन्नु खलु सद्भावोऽस्य तत्र गृहीतः ? तथा सति वा कृतमनुमानेन।
अथ सत्त्वमसत्त्वं वा नावधारितमेव धराधरे धूमकेतोः ? तर्हि सन्दिग्धा तत्र विपक्षता, निश्चितविपक्षवत्तिवत् संशयितविपक्षवृत्तिरपि नानैकान्तिकतामतिवर्तत इति सर्वानुमानानामेव निवापाञ्जलिर्दत्तः स्यात्। न च वादिहृदयपरिकल्पनोपारूढस्थितेरपि पक्षो नाम नास्ति, तदभावे किमपेक्षः सपक्षविपक्षव्यवहारः ? बुद्ध्यारूढत्वपक्षेऽपि न सपक्षविपक्षयोः पक्षत्वम्, न च वस्तूनामुभयात्मकता भवेत्; किन्तु कञ्चित् कालमन्यतरासिद्धवद् विमतिपथापतितस्य वस्तुनः पक्षत्वमुपेयते, निर्णयजन्मना तु विमतिविरतौ नूनमन्यतरवर्गपतितोऽसौ भविष्यतीति सर्वथा न तस्यां दशायां तेनानैकान्तिकत्वोद्भावनं युक्तम्।
नन्वनेन पथा पृथक्कृते सपक्षविपक्षाभ्यां पक्षे न तत्रान्वयव्यतिरेकयोरन्यतरस्यापि ग्रहणं भवेत्। सपक्षे ह्यन्वयो गृह्यते विपक्षे च व्यतिरेकः। एष तु ताभ्यामर्थान्तरमिति तत्रागृहीतान्वयव्यतिरेकात्मकनियमो हेतुः षण्ढ इव न पुत्रजन्मनि समर्थ एव साध्यसाधने भवेत्। अलमनया डिम्भविभीषिकया। न हि सकलसपक्षविपक्षसाक्षात्करणकेकोल्लासपुरः सरं व्याप्तिग्रहणमिति पूर्वमेव निर्णीतोऽयमर्थः, न च तद्वर्जमिति व्याप्तिग्रहणं भवति, येन षण्ढुसुतसाम्यचोदनावकाशः स्यात्। सामान्येन हि व्याप्तिर्गृह्यमाणा तत्रापि गृहीता भवत्येव, तेनापि च क्रालान्तरे सपक्षविपक्षान्यतरवर्गानुप्रवेशिना भवितव्यमेव। विमत्यवस्था, या तु पृथगेव ताभ्यामसाविति न तत्र वर्तमानो हेतुरनैकान्तिकीभवति। एतेनेश्वराद्यनुमानानामप्यनैकान्तिकत्वमपाकृतं वेदितव्यम्। तस्मान्नानैकान्तिकत्वेनागमकं मूर्तत्वमपि त्वन्यथासिद्धत्वेनैवेति।
नन्वेवमपि परमाणुप्रसाधनानुमानमहिमहतशक्तितया मूर्तत्वमनित्यत्वसिद्धावक्षमं जातमिति। ततश्च कालात्ययापदिष्टत्वान्नान्यथासिद्धतामधिगच्छेत्।
नैतदेवम्, कालात्ययापदिष्टो हि प्रत्यक्षागमापहृतविषय उच्यते। अनुष्णः कृष्णवर्त्मा, मदिरा द्विजैः पातव्या इत्यादौ दर्शितः। यत्पुनरनुमानं प्रत्यक्षागमविरुद्ं न्यायाभासः स इति। न च परमाणुषु परमाणुतयैव सततपरोक्षेषु प्रत्यक्षम् अनित्यताविपर्ययग्राहि प्रवर्तितुं शक्तम्, आगमस्तु नास्त्येवेति कुतः कालात्ययापदिष्टता ?
ननु किमिदम् अवनिपतिवचनम् उत वैदिकी चोदना, यत् प्रत्यक्षागमयोरेव बाधकत्वमनुमानं प्रति नानुमानान्तरस्येति। परमाणुप्रसाधनानुमानं हि दृढम् अदृढस्य तदनित्यतानुमानस्य मूर्तत्वादेर्यदि बाधकं स्यात् को दोषः स्यादिति।
अथ मनुषे, नियम एवैष प्रत्यक्षानुमानयोर्विरोधे प्रत्यक्षमेव बलीय इति तदेवानुमानस्य बाधकमुचितं नानुमानान्तरमिति। तदसत्, अलातचक्रादौ प्रत्यक्षमप्यनुमानेनानन्यथासिद्धेन बाध्यत एव, ननु भ्रमणविरतौ परिमितपरिमाणोल्मुकग्राहि प्रत्यक्षमेव तत्र प्रत्यक्षस्य बाधकं नानुमानमिति, मैवम्, अनवरतपरिभ्रमणसमुद्भूतचक्रावभाससमय एवानुमानेन तद्भ्रान्ततानिश्चयात्।
पूर्वप्रवृत्तमचक्राकारतदलातपरिच्छेदि प्रत्यक्षं बाधकमिति चेत्, न, पूर्वप्रवृत्तत्वेनैवातिक्रान्तत्वात्, तस्मादनुमानमेव चक्रज्ञानबाधकम्। एवञ्चानन्यथासिद्धमनुमानमपि प्रत्यक्षस्य बाधकं भवति। यच्चानन्यथासिद्धतया मूलस्तम्भभूतमखिलानुमानप्रतिष्ठायतनं प्रत्यक्षमपि बाधते तदनुमानस्य तपस्विनः कथं न बाधकम् ? अतश्च प्रत्यक्षागमग्रहणस्योपलक्षणार्थत्वादनुमानं बाधितमपि कालात्ययापदिष्टमेवेति।
तदेतदसमीचीनम्, अनुमानादेर्बाध्यबाधकभावानुपपत्तेः। सर्वत्र खलु प्रमाणाभासरूपं बाध्यते न तु प्रमाणं नाम शक्यते बाधितुम्। अलातचक्रादावपि प्रत्यक्षाभासस्य बाधकमनुमानं न प्रत्यक्षस्य, एवमत्राप्यनुमानभासस्य बाध्यता नानुमानस्य, तदिदानीमनुमानाभासत्वमस्य किंकृतमिति चिन्त्यताम्। स्वलक्षणवैधुर्यादिति चेत्, किमनुमानान्तरेण बाधकेन। तद्बाध्यतया तु तदाभासत्वकथनमितरस्यापि तादृशमेव। परमाणुषु प्रसाधनानुमानमनन्यथासिद्धमिदन्तु मूर्तत्वमन्यथासिद्धमिति चेत्, आगतोऽपि मदीयं पन्थानम्, अन्यथासिद्धत्वादेव च तदप्रामाण्ये सिद्धे किं तद्बाधया। अन्यथासिद्धत्वमेव कथमिति चेत्, न घटादौ मूर्तत्वप्रयुक्तमनित्यत्वम् अपि तु कार्यत्वप्रयुक्तम्। कार्यस्य कारणविभागाद् वा तद्विनाशाद् वा विनाशोपलब्धेः कार्यत्वमेवानित्यत्वप्रयोजकमुक्तं मूर्तत्वमनित्यतायाः कारकं ज्ञापकं वेति भवत्यन्यथासिद्धम्।
भवत्वेवम्, असिद्धवर्गे तु कथमेष हेतुर्गण्यते ? साध्यधर्मप्रयुक्ता धर्मिणी वृत्तिरस्य नास्तीति चेत्, यद्येवं पञ्चानामपि तत्प्रयुक्तवृत्तिरहितत्वादसिद्ध एवैको हेत्वाभासः स्यात्।
अथ सत्यपि प्रयोजकत्वे विपक्षवृत्त्याद्यवान्तररूपभेदनिबन्धनानैकान्तिकत्वादिव्यपदेशपञ्चकभाज इमे हेत्वाभासा इष्यन्ते, हन्त तर्हि प्रकृतोऽयं हेतुर्मूर्तत्वादिति किमनैकान्तिक उच्यतामथ कालात्ययापदिष्ट आहोस्विद् विरुद्ध उत प्रकरणसम इति ? नैषामन्यतमोऽपि वक्तुं शक्यते एतल्लक्षणानुपपत्तेरिति चेत्, काममसिद्धोऽपि मा वादि, पक्षे वर्तमानत्वेन तल्लक्षणस्यानुपपत्तेरिति। आस्तां तर्हि षष्ठ एवायं हेत्वाभासः, सम्यग् हेतुतां तावद् यथोक्तनयेन नाश्नुत एव, न च तेष्वन्तर्भवतीति, बलात् षष्ठ एवावतिष्ठते।
कथं विभागसूत्रमिति चेत्, अतिक्रमिष्याम इदं सूत्रम्। अनतिक्रामन्तः सुस्पष्टदृष्टमपीममप्रयोजकं हेत्वाभासमपह्नुवीमहि, न चैवं युक्तमतो वरं सूत्रातिक्रमो न वस्त्वतिक्रम इति।
अथ वा न सूत्रकारनियमोल्लङ्घनं श्रेयः। प्रमाद्यन् खलु परिमितदर्शी मादृशोऽन्यथा ब्रूयात्, न न्यायमहोदधेः पारदृश्वा भगवानक्षपादः। तदेनं हेत्वाभासमसिद्धवर्ग एव निक्षिपामः।
ननु पक्षे वर्तमानः कथं तत्र निक्षेप्तुं शक्यते। यथा साध्यधर्मप्रयोजकतयापक्षेऽपि वर्तितुं युक्तम्, तथा न वर्तत एवायं तत्रेत्यदूरविप्रकर्षेण भवत्येवायमसिद्धः। अत एवायमन्यथासिद्ध इत्युच्यते। यथा सिद्धः सिद्धो भवति तथा न सिद्धः अन्यथा तु सिद्ध इत्यनया नीत्योत्तानवृत्तिमात्रलम्भेऽप्ययमसिद्ध एव । अन्येषु तु हेत्वाभासेषु भङ्ग्यापि नान्तर्भवतीत्युक्तमेतत्। अथ वा सर्वहेत्वाभासानुवृत्तिमिदमन्यथासिद्धत्वं नाम रूपमिति न षष्ठोऽयं हेत्वाभासः। तत्तु क्वचित् केवलमेव दृश्यते क्वचिद् व्यभिचारादिरूपान्तरसहचरितम्, अतश्च व्यभिचारादिरूपापेक्षमेव पञ्चत्वमुपदिष्टवान् मुनिरिति न विभागसूत्रविरोध इत्यलमतिविस्तरेण।
युक्तस्तस्मादन्यथासिद्धानामा हेत्वाभासः सोऽयमेकप्रकारः।
यस्योत्ताना विद्यमानापि पक्षे वृत्तिर्न स्यात् साध्यधर्मप्रयुक्ता॥
हेत्वाभासकुटम्बकस्य तदिदं सर्वस्य साधारणं
रूपं यद्यपि लक्षणान्तरकृतो भेदस्तथा नान्यतः।
सामान्यन्तु विशेषरूपरहितं नास्ति प्रमाणं यथा
मा भूदत्र तथेति नास्य विषयश्चोद्यस्य वस्तुस्थितिः॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%सिध्यन्त एव च सावयवकार्यानुमानमार्गेणेति।% तत्र यावत् कार्यजातस्य प्रत्यक्षेण ग्रहणम्, तत्र तदेव प्रमाणम्, तत ऊर्ध्वमनुमानम्; तदपि हि `कार्यं स्वावयवाश्रितम्, सावयवत्वात् परिदृश्यमानकार्यवत्’ इत्यादिना अष्टमाह्निकेऽनुमानं प्रतिपादितम्।
%तत्तु क्वचित् केवलमेव दृश्यत% इति। केवलं दृश्यते तत्रासिद्ध एवान्तर्भाव इति भावः।
%सामान्यं तु विशेषरूपरहितमिति।% यथा प्रमाणेषु न प्रत्यक्षादि विशेषशून्यमन्यत् प्रमाणं पञ्चममस्ति तथात्रापि विरुद्धादिविशेषरूपशून्यं कथमन्यथासिद्धं सामान्यभूतं पृथग् हेत्वाभासो भवेदिति, एवंविधस्य चोद्यस्य वस्तुस्थितिर्न विषयः; वस्तुस्वभावोऽयं यद् विशेषरहितमपि सामान्यं दृश्यत इत्यर्थः।
न्यायमञ्जरी :—
%बाधलक्षणम्%
%कालात्ययापदिष्टः कालातीतः॥%
यथाप्राप्तं हेतुप्रयोगकालमतीत्य यो हेतुरपदिश्यते स कालात्ययापदिष्टः कालातीत इत्युच्यते।
तत्र केचिदाचक्षते, प्रतिज्ञानन्तरं हि हेतुः प्रयोक्तुं युक्तः, तत्र यः प्रतिज्ञायाः पूर्वमेव दृष्टान्तवचनादेरप्यूर्ध्वं वा प्रयुज्यते स कालात्ययापदिष्ट इति, तदनुपपन्नम्।
अक्षतप्रतिबन्धस्य साध्यावगतिकारिणः।
क्रमातिक्रममात्रेण न हेत्वाभासता भवेत्॥
कियांश्चैष दोषः ? पदान्तरव्यवहितोच्चारणं नाम, व्यवहितमपि येन सह समुचितसमयमन्वेतुमधिकृतमितरदतिनिकटपठितमपि पराणुद्य दवीयसापि तेनैव सम्बन्धमनुभवति। यथा,
अयसा पथि गच्छन्तीमोषधीं दीर्घलोचनाम्।
दृष्टवानसि केदारं यो लुनासि मम प्रियाम्॥ इति ।
अप्राप्तकालमेव तत् कथितं पृथगेव निग्रहस्थानम्। तच्च पुनरुच्यमानं न कञ्चन स्वार्थमावहति तस्मादपव्याख्यानमेतत्।
अपर आह, सविशेषणस्य हेतोः प्रयुज्यमानस्य विशेषणं कार्यकालमत्येति न तत्पर्यन्तमवतिष्ठते स कालात्ययापदिष्ट इति। यथा कालान्तरस्थायी शब्दः संयोगव्यङ्ग्यत्वाद् रूपवदिति। अत्र न व्यङ्ग्यत्वमात्रं हेतुत्वेन विवक्षितम्, अपि तु सविशेषणं संयोगव्यङ्ग्यत्वम्। स चायं संयोगो व्यञ्जके दृष्टान्तधर्मिणि रूपे तदवगतिपर्यन्तस्थितरुपलभ्यते दीपादिसंयोगः, साध्यधर्मिणि तु शब्दे न तदवस्थानमिति। दूरतो हि दारुपरशुयोगविच्छिन्ने छेत्रा पुनरुद्यम्यमाने परश्वधे श्रूयते शब्द इति तदुपलब्धिकाले तदत्ययात् कालात्ययापदिष्टोऽयं हेतुरिति। एतदपि न सङ्गतमसिद्धत्वेनास्य हेत्वाभासान्तरत्वानुपपत्तेः।
तस्मादयमर्थः, हेतोः प्रयोगकालः प्रत्यक्षागमानुपहतपक्षपरिग्रहसमय एव, तमतीत्य प्रयुज्यमानः प्रत्यक्षागमबाधिते विषये वर्तमानः कालात्ययापदिष्टो भवति। तस्योदाहरणं पूर्वमेव प्रदर्शितम्।
उष्मणो न तेजोऽवयवी कृतकत्वाद् घटादिवत्।
ब्राह्मणेन सुरा पेया द्रवत्वात् क्षीरनीरवत्॥
यच्च किञ्चिदभिधेयमत्र तत् सर्वमुक्तमनुमानलक्षणे।
अप्रयोजकनिरूपणे पुनः किञ्चनोदितमतो विरम्यते॥
हेत्वाभासास्त एतेऽवगतिनियमितानन्यसङ्कीर्णरूपा
निर्णीताः पञ्च येऽर्थे विदधति महतीं शुद्धिमभ्यस्यमानाः।
पक्षादौ वृत्तिभेदाकलनगुरुतरक्लेशनिष्पद्यमाना
नेयत्ता त्वेतदीया क्वचन फलवती नादृता तेन तज्ज्ञैः॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%अयसा पथि गच्छन्तीमिति।% यस्त्वमयसा ओषधीं लुनासि स त्वं मम प्रियां दृष्टवानिति सम्बन्धः। सिंभूताम् ? पथि गच्छन्तीं दीर्घलोचनां च।
%अवगतिनियमितानन्यसङ्कीर्णरूपा% इति। अनन्यसङ्कीर्णमेषां परस्परं रूपमित्यत्र किं प्रमाणमिति चेत् तदाह, अवगतिनियमितेति। रूपमेषामुपलभ्यमानं यतः परस्परासङ्कीर्णमवगम्यते तथा सिद्धमेव तेषां रूपमसङ्कीर्णमित्यर्थः।
%पक्षादौ वृत्ति…पक्षैकदेशवृत्तिरयं तु पक्ष….इत्यादिना वृत्तिभेदेन। छलस्तु एव….अन्यथासिद्धात्माविशेषनिष्ठम्।%
न्यायमञ्जरी :—
%छलप्रकरणम्%
तत्त्वाध्यवसायसंरक्षणं जल्पवितण्डयोः प्रयोजनमुक्तम्। तदङ्गभूतानि च्छलजातिनिग्रहस्थानानि। यद्यपि च वादे केषाञ्चिदभ्यनुज्ञानमस्ति तथापि जल्पवितण्डे एव तेषां प्राचुर्येण क्षेत्रमिति तदौपयिकतया तत्स्वरूपनिरूपणं युक्तमित्युद्देशक्रमेणच्छलस्य तावल्लक्षणमाह,
%वचनविघातोऽर्थविकल्पोपपत्त्या छलम्॥%
छलस्य भेदवत्त्वात् सामान्यलक्षणानि च वक्तव्यानि । तानीह सर्वाणि स्वकण्ठेन किल `तत्पूर्वकमनुमानम्’ इत्यत्र त्रिचतुराक्षरसमर्पितापरिमितविषयवितण्डानुमानलक्षणब्धनिरतिशयसूत्रकरणकौशलस्य मे किमधुना शिष्यजनमनः क्लेशकारिणा संक्षिप्ताभिधानदोहदेनेति मन्यमानः सूत्रकृदुक्तवान्। तत्र `वचनविघात इति सूत्रं सामान्यलक्षणप्रतिपादकम्’। परस्य वदतो वचनविघातोऽभिधाननिरोधश्चलम्। किमास्यपिधानादिना ? न, इत्याह `अर्थविकल्पोपपत्त्या’ इति। वस्तुरनभिप्रेतमर्थात् तदुक्ते वचसि समारोप्य तन्निषेधं छलवादी करोति। कथमर्थान्तरारोपणमिति चेत्, अर्थविकल्पोपपत्त्या विकल्पमानार्थघटनयेत्यर्थः।
किमुदाहरणम् ? विशेषलक्षणेषु वक्ष्यामः। इहैव कस्मान्नोच्यते ? असम्भवादिति ब्रूमः। न हि निर्विशेषं सामान्यमुपपद्यत इति तदुदाह्रियमाणं बलाद् विशेषनिष्ठमेवावतिष्ठते। अन्येष्वपि गौर्न पदा स्प्रष्टव्येति सामान्योपदेशेषु नामूर्त्तायामाकाशनिर्विशेषवपुषि जातौ स्पर्शप्रसक्तिस्तन्निषेधो वा कल्पते, किन्तु व्यक्तिष्वेवेति विशेषविषय एव सर्वत्र क्रियायोग इति तत्रैवोदाहरणवर्णनं युक्तम्।
कथं तर्हि सकलहेत्वाभाससार्थसामान्यलक्षणमप्रयोजकमनपेक्षितसव्यभिचारविरुद्धादिविशेषमप्युदाहरणद्वारेण दर्शितम्, अनित्याः परमाणवो मूर्तत्वाद् घटवदिति।
उच्यते, प्रमाणे तर्हि प्रत्यक्षादिविशेषनिरपेक्षं कथं प्रमाणसामान्यं नोदाहृतम् ? न च तत्सामान्यादन्यत्रापि तथास्त्विति वक्तव्यम्, न हि चाक्षुषेण पञ्चाशद् भवतुमर्हति, तस्मान्नैवं वक्तुं शक्यम्। यथा विरुद्धादिविशेषरूपरहितमप्रयोजकत्वं हेत्वाभासे सामान्यरूपं दृश्यते तथा प्रमाणेष्वपि प्रत्यक्षादिविशेषरूपरहितं तद् दृश्यताम्, यथा वा प्रमाणेषु तन्न दृश्यते तथा हेत्वाभासेष्वपि मा दर्शीति वस्तुस्वभावानामनुयोगक्षेत्रतानुपपत्तेः।
अपि चाप्रयोजकत्वं सामान्यं विरुद्धादिविशेषेष्विव तद्रूपरहितेषु स्वविशेषेष्वपि सम्भवद् दृश्यते। अत एव तदपि स्वविशेषनिष्ठमेवोदाहृतम्, अनित्याः परमाणवो मूर्तत्वादिति, न त्वाकाशवदनवलम्बनमेव किंचित् प्रयोजकत्वसामान्यमिति, तस्मात् सुष्ठुक्तं न सामान्यलक्षणे शक्यमुदाहर्तुमिति।
न्यायमञ्जरी :—
%छलविभागः%
एवं सामान्यलक्षणमभिधाय छलस्य विभागमाह,
%तत् त्रिविधं वाक्छलं सामान्यच्छलमुपचारच्छलञ्च ॥%
निगदव्याख्यातं सूत्रम्। विभागसामान्यलक्षणयोश्चोपदेशपौर्वापर्यनियमो नास्तीति पूर्वमेवोक्तम्।
न्यायमञ्जरी :—
%वाक्छललक्षणम्%
अथ विभागक्रमेण विशेषलक्षणान्याह,
%तत्राविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम्॥%
सम्भवद्विशेष्यविशेषणसाधारणार्थसमर्पणकौशलशालिनि श्लेषालङ्कारवति शब्दे प्रयुक्ते सति वक्तुरभिप्रेतमर्थमपह्नुत्य ततोऽर्थान्तरं परिकल्प्य तन्निषेधवचनं वाचि निमित्तभूतायां छलं वाक्छलम्।
नवकम्बलोऽयं माणवक इति नवः कम्बलोऽस्य नव कम्बला अस्येति च विग्रहदृशा दृश्यमानविशेषमपि समासपदमिदमर्थद्वयेऽप्यविशिष्टम्। तत्राभिनवकम्बलयोगं वक्तुरभिप्रेतं प्रमाणोपपन्नञ्च निह्नुत्य नवसंख्यासम्बन्धमध्यारोप्य तत्प्रतिषेधेन परः प्रत्यवतिष्ठते कुतोऽस्य नव कम्बला इति। तदेतत् साधारणशब्दे वाचि छलं वाक्छलमिति। यथा च कस्याञ्चिदवस्थायां जल्पादौ छलादिप्रयोगो युक्त इति तद्व्युत्पादनम्। एवं परप्रयुक्तस्यापि सतश्छलादेः प्रतिसमाधानमभिधेयमिति तदपि व्युत्पाद्यते।
नव कम्बला अस्येति मम विवक्षितमिति कुतः प्रतिपन्नामायुष्मता ? किमयमभिनवकम्बलयोगप्रतिपादको न भवत्येव ? बहुव्रीहिः पक्षद्वयेऽपि च सम्भवति, यदि तावदर्थप्रकरणादिसामर्थ्यपर्यालोचनयावसितनियताभिधेयवृत्तिशब्दव्यवहाराभिज्ञोऽसि तदर्थसिद्धमर्थमभिनवकम्बलसम्बन्धमेव बुद्ध्वा तूष्णीमास्स्व।
अथ शुष्कतार्किककुटुम्बकगर्भदास इव शब्दवृत्तानभिज्ञ एव त्वम्, तर्हि पक्षद्वयसम्भवे संशयानो मामेव पृच्छ किं ते विवक्षितमिति निषेधकः सन् वक्तुमुपक्रमसे।
ननु त्वमप्यक्षप्राप्त्यादिफलपर्यन्तशब्दप्रयोगप्रवृत्तः किमिति साधारणमिदम् अन्धपदप्रायं वचः प्रयुङ्क्षे ?
अयि बालिश ! तवैतद् अन्धपदम्,
अर्थप्रकरणाधीननियतस्वार्थवृत्तिताम्।
यो न जानाति शब्दानां स एवमपभाषते॥
इदमर्थद्वये तावत् साधारणपदं भवेत्।
जातिशब्दाः पुनर्व्यक्तिसहस्राक्षेपकारिणः॥
स्पृशन्ति नियतं वाच्यं तेऽपि प्रकरणादिना।
ब्राह्मणान् भोजयेत्यादौ तद् बालेन न शिक्षितम्॥
तस्माच्छब्दार्थसन्देहे प्रयोक्ता वत्स ! पृच्छ्यते।
न त्वर्थान्तरमारोप्य तन्निषेधो विधीयते॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%ब्राह्मणान् भोजयत्यादौ तद्बालेन शिक्षितमिति।…..%
न्यायमञ्जरी :—
%सामान्यच्छललक्षणम्%
%सम्भवतोऽर्थस्यातिसामान्ययोगादसद्भूतार्थकल्पना सामान्यच्छलम्॥%
अतिव्यापकं सामान्यमतिसामान्यम्, तद्योगात् तत्सम्भवात् क्वचिद् व्यक्तार्थस्य कस्यचित् संभवतः संभाव्यमाननिष्पत्तेर्वक्त्राभिहितस्य सतो या असद्भूतार्थकल्पना वक्तुरनभिप्रेतातिसामान्यहेतुत्वकल्पना तया च प्रत्यवस्थानम्, तत् सामान्यनिमित्तं छलं सामान्यच्छलम्।
यथा क्वचिदुचितोपचारवचनाराध्यमानगुणवद्ब्राह्मणकुले तत्कथाबहुले राजकुले कश्चित् सुजन्मा कञ्चिदग्रजन्मानं स्तैति `अहो नु खल्वसौ ब्राह्मणो विद्याचरणसम्पन्नः’ इति, तस्मिन् प्रसङ्गे तथाविध एवापरस्तमुत्साहयन् कथयति `सम्भवति ब्राह्मणे विद्याचरणसम्पद्’ इति, तत्र पिशुनश्चलवाद्याह यदि ब्राह्मणे विद्याचरणसम्पत् सम्भवति तर्हि व्रात्येऽपि ब्राह्मणत्वजात्यनपनयनात् सम्भवेदिति तत्रेदमतिव्यापकं ब्राह्मणत्वसामान्यं यतो विद्याचरणसम्पदमत्येति च स्पृशति तद्योगाद् ब्राह्मणव्यक्तौ सम्भवतो विद्याचरणसम्पद्रूपस्यार्थस्य वक्त्राभिहितस्य सतस्तत्र वक्त्रभिमतामेवातिसामान्यहेतुतामारोप्यच्छलवादी प्रत्यवतिष्ठत इति।
अत्रोत्तरम्, केन ब्राह्मणत्वस्य हेतुत्वमभिहितं यदनैकान्तिकीकुर्वन् प्रत्यवस्तितोऽसि ? सम्भावनावचनमिदं स्तुत्यर्थमुपन्यस्तम्। विद्याचरणसम्पदः पात्रं हि ब्राह्मणाः, सति ब्राह्मणत्वे पूर्वजन्मोपचितसुकृतपरिणामाद् भवति विद्याचरणसम्पत्, न तु तदेव तस्या हेतुरिति। यथा सम्भवन्त्यस्मिन् क्षेत्रे शालय इति क्षेत्रप्रशंसापरे वाक्ये प्रयुक्ते नैवं वक्तुमापद्यते, यदि क्षेत्रमेव शालिसम्भवहेतुस्तत्र विनापि हलबलीवर्दादिसामग्र्या महत्यवग्रहेऽपि शालयोऽस्मिन् सम्यवेयुरिति। तदिदमर्थवादादिगत्यनभिज्ञस्य भवतो भाषितमित्यास्तामेतत्।
इदन्तु भवन्तं पृच्छामि भो महात्मन् !
स्वभावशुद्धा परिनिश्चितार्थसंस्पर्शिनो पुण्यसहस्रलभ्या।
केनेदृशी सर्वजनानुकूला कल्याणिनी ते निरमायि वाणी॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%केनेदृशी सर्वजनानुकूलेति…….%
न्यायमञ्जरी :—
%उपचारच्छललक्षणम्%
%धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेध उपचारच्छलम्॥%
अभिधानस्य धर्मोऽनेकप्रकारो मुख्यया वृत्त्या गौण्या वा लाक्षणिक्या वा। यदर्थे प्रत्यायनं तदनेन विकल्पमानेन धर्मेण गौणेन लाक्षणिकेन वा निर्देशे प्रयोगे कृते योऽर्थसद्भावप्रतिषेधो मुख्यार्थनिषेधः स उपचारनिमित्तं छलमुपचारच्छलम्।
यथा मञ्चाः क्रेशन्तीत्युक्ते छलवाद्याह कथमचेतनाः काष्ठरचनात्मानो मञ्चाः क्रोशन्ति ? मञ्चस्थाः पुरुषा एते क्रोशन्ति न मञ्चा इति।
अत्र समाधिः, वृद्धव्यवहाराच्छब्दार्थव्युत्पत्तिः। तत्र न केवलयैव मुख्यया वृत्त्या शब्दाः प्रवर्तमाना दृश्यन्ते, वृत्त्यन्तरव्यवहारस्यापि सुप्रवर्तितत्वात्। न च निर्निमित्तमेव परशब्दं परत्र प्रयुक्तवन्तो वयम्। सहचरणादिसूत्रनिवेदितनिमित्तनिकुरुम्बान्यतमनिमित्तपूर्वकत्वादस्य प्रयोगस्य स्थानादयं तद्वदुपचारः।
सत्यम्, गोणलाक्षणिकादिशब्दप्रयोगावगतिबाह्य एव य एवं प्रत्यवतिष्ठते। गौणलाक्षणिकयोः कथं विशेष इत्येतत् कथ्यताम्। सत्यम्, गोशब्दः स्वार्थमभिधाय सास्नादिमन्तं तदीयान् गुणानेन जाड्यमान्द्यादीन् न मूत्रादीन् लक्षयति, न तावत्येव विरमति, स तु सामानाधिकरण्येन वाहीकेऽपि प्रवर्तते, गौर्वाहीक इत्येवं प्रयुज्यमानः स गौणो भवति। यस्तु स्वार्थाभिधानानन्तरं तदितरमर्थं गुणमगुणं वा लक्षयत्येव न सामानाधिकरण्येन परत्र प्रयुज्यते शब्दः, स लाक्षणिको भवति गङ्गायां घोषः प्रतिपसतीति। यथा चोक्तम् `गौणे हि प्रयोगो न लक्षणायाम्’ इत्यलं शास्त्रान्तरोद्गारगहनाभिः कथाभिः।
मुख्यमर्थमथ लाक्षणिकं वा गौणमप्यवगमय्य च शब्दः।
लोकवेदविहितं व्यवहारं सन्तनोति तदभिज्ञमतीनाम्॥
कुर्यादाक्षेपं यश्च भाक्ते प्रयोगे वाच्यं मत्वार्थं तत्र वक्तुर्न दोषः।
तेन त्वात्मीयं शब्दवृत्तानभिज्ञं रूपं व्यक्तं स्यादत्र वृद्धाः प्रमाणम्॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%सहचरणादिसूत्रनिवेदितेति।% `सहचरण-स्थान-तादर्थ्य-वृत्त-मान-धारण-सामीप्ययोग-साधनाधिपत्येभ्यो ब्राह्मण-मञ्च-कट-राज-सक्तु-चन्दन-गङ्गा-शाटक-न्न-पुरुषेष्वतद्भावेऽपि तदुपचारः॥’ इति। सर्वत्र यष्टिसाहचर्याद् यष्टिर्ब्राह्मणः। मञ्चस्थाः पुरुषाः। कटर्था वीरणाः कटशब्देनोच्यन्ते। वृत्ताद् यमो राजा इति। आढकमिताः सक्तव आढकशब्दवाच्याः। तुलया धृतं चन्दनं तुलाचन्दनम्। गङ्गायाः समीपे गङ्गायाम्। कृष्णेन गुणेन शाटकः कृष्ण इति। साधनाद् अन्नं प्राणा इति। कुलाधिपत्याद् अयं पुरुषः कुलमित्युच्यते।
%स तु सामानाधिकरण्येन बाहीकेऽपि प्रवर्तत% इति। बाहीकं विशिष्टगुणसम्बन्धेनान्यस्मात् पुरुषादवच्छेत्तुमिति। %गौणे हि प्रयोगो न लक्षणायामिति% प्रभाकरलघुटीका। यस्य वाहीकस्य जाड्यादिगुणं प्रतिपादयति गोशब्दस्तस्य सामानाधिकरण्येन तस्य प्रयोगः गौणे, न पुनर्लक्षणायां गङ्गाशब्दोऽन्यत्र सामानाधिकरण्येन प्रयुज्यत इत्यर्थः ।
भट्टश्रीशङ्करात्मजचक्रधरकृते
न्यायमञ्जरीग्रन्थिभङ्गे
एकादशमाह्निकम्।
न्यायमञ्जरी :—
%छलपरीक्षणम्%
एवं छलस्य विशेषलक्षणान्यभिधाय तत्परीक्षायामाक्षेपं करोति,
%वाक्छलमेवोपचारच्छलं तदविशेषात्॥%
न खलु वागुपचारच्छलयोः कश्चिद्विशेषः। अनेकधा शब्दार्थे सम्भवति वक्तुरभिमतादर्थादन्यस्य कल्पनं तत्प्रतिषेधनञ्चोभयत्रापि समानम्, अवान्तरविशेषकृतनानात्वाभ्युपगमे वा तदानन्त्यप्रसङ्गः ।
अत्र समाधिमाह,
न्यायमञ्जरी :—
%न तदर्थान्तरभावात्॥%
नैतदेवम्, वाक्छलमेवोपचारच्छलमिति। ततोऽर्थान्तरत्वात्, वाक्छले हि नवकम्बल इति नवसु कम्बलेषु नवे च कम्बले मुख्यार्थ एव शब्दः, स राम इत्यादिवत्। ततस्त्वेकतरं वक्त्रनभिप्रेतं छलवादिना आरोप्य निषिध्यते। उपचारच्छले तु काष्ठसन्निवेशे मुख्यार्थे मञ्चशब्दः पुरुषे भक्त्या प्रवृत्तः। मुख्यमभिधाय च गौणः प्रत्याय्यो भवति न त्वेष क्रमः साधारणशब्देष्विति महान् भेदः। वाक्छले चार्थसत्तैव निषिध्यते कुतोऽस्य नव कम्बला इति। इह तु सतो मञ्चस्य क्रोशनशक्तिर्निषिध्यते।
समाधिरपि साधारणशब्दानभिज्ञतां परस्य प्रदर्शयता वाक्छले वाच्यः। उपचारच्छले तु गौणादिशब्दवृत्त्यनभिज्ञतामिति महान् विशेषः ।
न्यायमञ्जरी :—
%अविशेषे वा किञ्चित्साधर्म्यादेकच्छलप्रसङ्गः॥%
छलस्य द्वित्वमभ्यनुज्ञाय त्रित्वं भवता प्रतिषिध्यते, यतः सामान्यच्छलं पार्श्वे कृत्वा वागुपचारच्छलयोरभेदमुपहितवानसि। यथा चायं तदविशेषादिति त्रित्वप्रतिषेधस्तथा द्वित्वस्यापि किञ्चित्साधर्म्यस्य सामान्यच्छलेऽपि भावात्। तथा हि यदि तावद् वाचि निमित्तभूतायामिदं प्रवृत्तं छलमिदञ्चेति तदभेदं मन्यसे तर्हि सामान्यच्छलमपि मा वोचः। तदपि हिन शरीरे मनसि बुद्धौ वा निमित्ते, अपि तु वाचि एवेति वाक्छलमेवैकं स्यात्। अथैवं सत्यपि तद्विशेषो दृश्यमानो न पराणुद्यते, सामान्यच्छलेऽपि न शब्दार्थोऽन्यथा कृतः किन्तु सामान्यस्य हेतुत्वमनुक्तमारोपितमिति पृथगिष्यते, तर्हि वागुपचारच्छले अपि भिद्येते एवेति दर्शितम्। अतो युक्तं भवत्विदम्, न चानन्त्यम् इयत्तानियमकारिणो निमित्तत्रयस्य दर्शितत्वात्। अवान्तरभेदकृतन्तु तदानन्त्यमिष्यत एव जातिवदित्यलं प्रसङ्गेन।
तस्मात् परस्परविविक्तनिजस्वरूपमीदृक् छलत्रितयमेतदिहोपदिष्टम्।
तस्य क्वचित् स्वयमपि क्रियते प्रयोगो वाच्यः परैरभिहितस्य तथा समाधिः॥
इति श्रीमद्भट्टजयन्तकृतौ न्यायमञ्जर्यामेकादशमाह्निकम्॥
—- **** —-
द्वादशमाह्निकम्
जातिप्रकरणम्
—***—
न्यायमञ्जरी :—
%जातिलक्षणम्%
छलानन्तरं जातेरुद्देशात् तस्याः सामान्यलक्षणं तावदाह,
%साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः॥%
अत्र त्रैकाल्यसमादिसकलविशेषसङ्ग्रहाय साधर्म्यवैधर्म्यादिनिरपेक्षमेव `प्रत्यवस्थान’ पदं जातिसामान्यलक्षणप्रतिपादकमाहुः। प्रतीपमवस्थानं प्रत्यवस्थानम्, तावन्मात्रमेव च यत्किञ्चिदुत्तरं परप्रयुक्तेहेतौ जायमानत्वाज्जातिरित्यभिधीयते।
तदनुपपन्नम्, प्रत्यवस्थानमात्रस्य साधर्म्यादिनिरपेक्षस्य जातित्वे हेत्वाभासोद्भावनमपि जातितामश्नुवीत।
अथ तस्य सम्यगुत्तरत्वादिह च निर्विशेषणप्रत्यवस्थानमात्रोपपादनात् फल्गुप्रायमसदुत्तरं जातित्वेन विवक्षितमित्युच्यते। तथापि छलस्य जातित्वप्रसक्तिरपरिहार्यैव, तद्व्युदासाय तु तदन्यत्वे सतीत्यादिकं यदि किञ्चिदध्याह्रियते तदमुष्य श्रुयमाणस्य साधर्म्येण वैधर्म्येण वा प्रत्यवस्थानमस्तीति नैष दोषः। साधर्म्यवैधर्म्याभ्यामित्यसमासकरणेन दिक्प्रदर्शनस्य सूचनात्। साधर्म्येण वैधर्म्येण वा कथमेष हेतुर्हेतूभवतीति वा, किमनेन क्रियत इति वा, यदेवंप्रकारप्रत्यवस्थानं हेतुप्रतिबिम्बवर्त्मना क्रियते सा भविष्यति जातिरित्युच्यमाने सकलविशेषसङ्ग्रहः, त्रैकाल्यसमादिष्वपियादृशस्य तादृशस्य साधर्म्यवैधर्म्यप्रकारस्य योजयितुं शक्यत्वात्। न ह्युदाहरणसाधर्म्यं साध्यसाधनमिह विवक्षितं तद्वैधर्म्यं वा, साधर्म्यादिमात्रन्तु तत्रापि नात्यन्ताय दूरगमिति यथाश्रुतं साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिरिति सामान्यलक्षणं युक्तम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
अथ जातिलक्षणे %त्रैकाल्यसमादिष्वपि यादृशस्य तादृशस्य साधर्म्यवैधर्म्यप्रकारस्य योजयितुँ शक्यत्वादिति।% अहेतुः कालत्रयेऽप्यसाधकः, एवमस्य कालत्रयेऽप्यसाधकत्वादहेतुसाघर्म्यमिति भाष्यकृता प्रथमं साधनाभास एव जात्युत्तरोदाहरणं दर्शितमिति। “तेन हि क्रियावान् आत्मा द्रव्यस्य क्रियाहेतुगुणयोगात्। द्रव्यं लोष्ट क्रियाहेतुगुणयुक्तः क्रियावान्, तथा चात्मा।” इतिजात्युदाहरणरूपं स्थापनावाद्युदाहरणमुक्तम्।
न्यायमञ्जरी :—
%जातिविभागः%
अथ भेदवत्त्वाज्जातेश्चतुर्विंशतिधा विभागमाह,
%साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणहेतुवर्थापत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमाः॥%
अत्र समा इति स्त्रियां पुंसि च तुल्यत्वान्निर्देशस्य जात्यपेक्षया स्त्रीनिर्देशो वा प्रतिषेधापेक्षया वा पुंनिर्देशो वर्णनीयः। विशेषलक्षणसूत्रेषु पुनः प्रायेण पुंल्लिङ्गनिर्देशो दृश्यते स तु प्रतिषेधापेक्षया तेषु व्याख्येय इति तद्व्याख्यानावसर एव वक्ष्यामः।
न्यायमञ्जरी :—
%जातिव्युत्पादनस्य शास्त्राङ्गत्वपरीक्षा%
नन्वास्तां तावद्विशेषलक्षणवर्णनम्, इदमेव त्वादौ चिन्त्यतां किमर्थमेवंविधमसदुत्तरजातं शास्त्रे व्युत्पाद्यते ?
एवम्प्रकारणाञ्च धूलिप्रक्षेपसदृशानां सारेतरपरीक्षणक्षमविचक्षणोपेक्षणीयानामसदुत्तराणामानन्त्यच्चतुर्विंशतिसंख्यापि कथमिति मनसि महान् विस्मयोऽस्माकम्।
यदपि च तत्त्वाध्यवसायसंरक्षणं तत्प्रयोजनमभिधीयते तदपि न हृदयङ्गमम्, असदुत्तरोपन्यासेन तत्त्वाध्यवसायस्य संरक्षितुमशक्यत्वात्।
अथ विकटाटोपप्रकटनपाटवोपहितापरसम्मोहनद्वारेण तद्रक्षणमास्थीयते ? तर्हि षष्ठीवितहसितांसमर्दनकौपीनावरणविदाहरणचरणावस्फोटनाद्यपि व्युत्पाद्यतामिह मोक्षविद्यायाम्।
तथापि चेदं विचार्यतां क्व जातिप्रयोगैः प्रत्यवस्थेयम्। सम्यक्साधने परेण प्रयुक्ते तदाभासे वा ? न तावत् साधनाभासे, तस्य हि येन निमित्तेनासिद्धत्वादिना साधनाभासत्वमुपनतं तदेव तत्र प्रयोक्तुमुचितं न जातयः, तेनैव च परः पराजीयते। नापि सम्यक्साधने, तत्र प्रयुक्तानामपि तासामकिञ्चित्कार्यकरत्वात्, न हि जातिप्रयोगकलुषितमपि सम्यक्साधनमसाधनीभवितुमर्हति।
अथ एकान्तपराजयाद् वरं सन्देह इति ताभिरुपक्रमते, तत्रापि स तथोपक्रममाणः कमिव प्रत्याययेत् ? नीतिविदस्तावज्जानन्त्येव सोऽयं यथोचितमभिवदितुमपारयन् किमप्यालजालमालपितुं प्रवृत्त इति। शाकटिकादिप्रत्यायनार्थं तु प्रत्यन्तगह्वरजनपदेषु ग्राम्यसदसि लाभादिकामस्य कस्यचित् प्रयोजनवद् भवेदपि कदाचित्, न तु मोक्षशास्त्रे तथाविधोपदेशः पेशल इति।
अत्राभिधीयते, समाहितमेतद् भगवता सूत्रकारेणैव `तत्त्वाध्यवसायसंरक्षणार्थं कण्टकशाखापरिवरणवत्’ इति वदता। जल्पवितण्डाङ्गभूतानि च च्छलादीनि। तदुक्तम्, `छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः’ इति। भाष्यकृदप्याह `छलजातिनिग्रहस्थानानां पृथगुपदेश उपलक्षणार्थम्, उपलक्षितानां स्ववाक्ये परिवर्जनं परवाक्ये च पर्यनुयोगः, जातेस्तु परेण प्रयुज्यमानायाः सुवचः समाधिः, स्वयञ्च सुकरः प्रयोगः’ इति। यदा हि मुमुक्षोरागमाद् वा युक्तितो वा तत्त्वज्ञानमुत्पन्नम्। न चाद्यापि भावनाभ्यासप्रसादसमासाधितद्रढिमातिशयं वर्तते, तस्यामवस्थायां यदि केनचित् किमप्यनुमानप्रायमभिधाय तदा व्याकुलीक्रियते तदासौ विदितयुक्त्यागमगौरवोऽपि सदपि तदुत्पादिते तत्त्वज्ञाने मनागसम्भवानालेशमिवाधिगच्छेत्, तस्मिन् वा दृढप्रत्ययेऽपि तत्पार्श्ववर्तिनः शिथिलास्था भवेयुः। अतो झगिति स दूषणमपश्यन् प्रतिपक्षं जातिप्रयोगैरप्यसौ शमयेदेव नोदासीतेत्युक्तं जल्पलक्षणे। परोदिता वा जातीः प्रत्यभिज्ञाय तत्क्षणमेव परिहरेदिति सफलं जातिव्युत्पादनम्। यथा क्वचिदचिरव्युप्तसस्ये सम्प्रत्युद्भिद्यमानकोमलाङ्कुरनिकरदन्तुरितसीमनि केदारे तदुपद्रवो द्वुततरगामिनो यतः कुतश्चन चतुष्पदाद् द्विपदाद् वाभिशङ्क्यत इति तत्परिहाराय समन्ततो निरन्तरकण्टकशाखासन्ततिपरिचरणमाधीयत एवमिहापि जात्यादिप्रयोगः, तद्द्वारकं तत्त्वाध्यवसायसंरक्षणं कर्तव्यम्।
यत्तु विकल्पितं क्व जातेः प्रयोगः सम्यक्साधने तदाभासे वेति, तदुच्यते, सम्यग् दूषणमपश्यता किल जात्यादि प्रयोक्तव्यम्, तच्च सम्यक्साधने तदभावादेव भवतु, साधनाभासे वा, प्रमादादिना वेति कोऽत्र विशेषः ? मुमुक्षोस्तु ज्ञाततत्त्वस्य यत् प्रतिकूलवादिना केनचिदाक्षिप्तस्य तत्प्रयुक्ते तत्त्वप्रतिक्षेपबलात् साधनाभास एव सम्यग् दूषणमपश्यतो जातिप्रयोगावसरः। ज्ञात्वापि साधनाभासतां यथा तथा सत्वरमेव निर्भर्त्स्यतामयं दुराचार इति पार्श्वस्थितसुकुमारमतिशिष्यजनोत्साहजननाय जात्याद्याडम्बरविरचनमुचितमेव मुमुक्षोः। मुमुक्षुं प्रति च शास्त्रारम्भादाक्रम्येन तदपेक्षया साधनाभासविषय एव जातिप्रयोगः। अत एव च भाष्यकृता प्रथमं साधनाभास एव जात्युदाहरणं दर्शितम्। लाभादिकामानान्तु सम्यक्साधनेऽपि प्रयुक्ते युक्त एव जात्याद्युपक्रमः। इतरथा हि निः संशय एव पराजयः स्यादित्येतच्चानुषङ्गिकं प्रयोजनमित्युक्तम्।
यत् पुनरभिहितमसदुत्तरकथने कथं न चपेटादिकं प्रयुज्यत इति, तदप्यसत्, तस्यात्यन्तमलौकिकत्वात्। लोको हि तदैवं मन्यते,
नूनमेष न जानाति वक्तुं सदृशमुत्तरम्।
अन्यथा वाचमुत्सृज्य पाणिना प्रहरेत् कथम्॥
खेदयेद् वादिनं यस्तु हस्तपादादिचापलैः।
स संसद्युच्यते सद्भिर्भण्ड एव न पण्डितः॥
जात्योपक्रममाणस्तु न तथैव विहस्यते।
न हि सन्दूषणच्छाया तत्रात्यन्तमसङ्गता॥
तन्न कौपीनवसनापासनादिसाम्यं जात्युत्तराणामिति। यत्तु कस्तैः प्रत्याय्यत इति, न सर्वः सर्वज्ञकल्पो भवति न च शाकटिकतुल्यः। सन्ति हि मध्यमदशावर्तिनो जनास्त आराधयिष्यन्त इत्यलं प्रसङ्गेन।
यत् पुनरसदुत्तराणामानन्त्यात् कथं चतुर्विशतिसंख्येति, तत्राप्युच्यते, सत्यप्यानन्त्ये जातीनामसङ्गीर्णोदाहरणविवक्षया चतुर्विंशतिप्रकारत्वमुपवर्णितं न तु तत्संख्यानियमः कृत इति।
तदत्र साधर्म्येण प्रत्यवस्थानमविशिष्यमाणं स्थापनाहेतोस्तत्साधर्म्यसमा जातिः। सा च साधर्म्यहेतौ वैधर्म्यहेतौ च प्रयुज्यते। वैधर्म्येण प्रत्यवस्थानं वैधर्म्यसमा जातिः। उत्कर्षापकर्षाभ्यां प्रत्यवस्थानमुत्कर्षापकर्षसमे जाती इत्येवं सर्वत्र योज्यम्। स्थापनहेतुतश्चाविशेष्यमाणत्वं जातिवाद्यभिप्रायेण तासां द्रष्टव्यम्। जातिवादी ह्येवं वदति यथा भवत्प्रयुक्तं साधनं तथेदमपि किमिति न भवतीति, अत एव हेतुप्रतिबिम्बनद्वारक एव जात्युपन्यास इत्युक्तम्।
न्यायमञ्जरी :—
%साधर्म्यवैधर्म्यसमयोर्लक्षणे%
अथ विशेषलक्षणान्याह। तत्र,
%साधर्म्यवैधर्म्याभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ॥%
प्रतिषेधापेक्षयां पुंल्लिङ्गनिर्देश इति तत्र द्रष्टव्यम्। साधर्म्येण वैधर्म्येण वा साधनमभिधाय सिधाययिषितपक्षोपसंहारे साधनवादिना कृते साध्यधर्मविपर्ययोपपादनाय साधर्म्येण प्रत्यवस्थानमविशिष्यमाणं स्थापनाहेतुतः साधर्म्यसमः प्रतिषेधः। तत्रैव साधर्म्येण वैधर्म्येण वोपसंहारे तथैव वैधरम्येण प्रत्यवस्थानं वैधर्म्यसमः प्रतिषेधः।
उदाहरणन्तु अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् यत् प्रयत्नानन्तरीयकं तदनित्यं दृष्टं यथा घट इति साधर्म्येण हेतौ प्रयुक्ते जातिवादी साधर्म्येणैव प्रत्यवतिष्ठते, नित्यः शब्दो निरवयवत्वाद् निरवयवं द्रव्यमाकाशादि नित्यं दृष्टमिति। न चात्र विशेषहेतुरस्ति घटसाधर्म्यात् प्रयत्नानन्तरीयकत्वादनित्यः शब्दो न पुनराकाशसाधर्म्यान्निरवयवत्वान्नित्य इति। वैधर्म्यहेतावपि साधनादिना प्रयुक्ते अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् यदनित्यं न भवति, तत् प्रयत्नानन्तरीयकमपि न भवत्याकाशादिवदित्यत्रैतदेव पूर्वोक्तं साधर्म्यवैधर्म्यप्रत्यवस्थानद्वयमुदाहर्तव्यमिति।
यथा च क्वचिदवसरे स्वयं प्रयोगो जातीनामुपयुज्यत इति तत्स्वरूपव्युत्पादनमुपक्रान्तम्, एवं परप्रयुक्तानां तासामुत्तरमपि वक्तव्यमतस्तद्व्युत्पादनार्थमाह,
न्यायमञ्जरी :—
%गोत्वाद् गोसिद्धिवत् तत्सिद्धिः॥%
साधर्म्यवैधर्म्ययोरिदमुत्तरम्। यदि साधर्म्यमात्रं वैधर्म्यमात्रं वा साध्यसाधनं प्रतिज्ञायेत स्यादियमव्यवस्था, भवेच्च भवत्प्रयुक्तानामीदृशामपि स्थापनहेतोरविशेषः। विशिष्टन्तु साधर्म्यं वैधर्म्यं वा प्रयोजकमुच्यमानं नैवंविधः प्रत्यवस्थानैरुपहन्यते। यथा सत्यपि सत्तादिसामान्यसम्बन्धे, सत्यपि शुक्लादिगुणसम्बन्धे, सत्यपि चलनादिकर्मयोगेन गौस्तथा तत्साधर्म्यात् सिध्यति अश्वादिवैधर्म्याद् वा किन्त्वव्यभिचारिणो गोत्वादिसम्बन्धादेव। तथेहाप्यस्खलितनियमं साधर्म्यं वैधर्म्यं वा साध्यसिद्धिनिबन्धनम्, न साधर्म्यादिमात्रमिति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%चलनादिकर्मयोगेन गौस्तथात्वेन तत्साधर्म्यात् सिध्यतीति।% गौरयं चलत्वाद् बाहुलेयवदित्यादि।
न्यायमञ्जरी :—
%उत्कर्षसमादीनां षण्णां लक्षणानि%
%साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाधसमाः॥%
दृष्टान्तधर्मं साध्ये धर्मिणि योजयन्नसन्तमध्यारोपयन्ननुत्कर्षेण प्रत्यवस्थानं यत्करोति स उत्कर्षसमः प्रतिषेधः। यथा अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवद्, अनित्यः शब्दो घटवदेव मूर्तोऽपि भवतु, न चेन्मूर्तो घटवदनित्योऽपि तद्धर्मो मा भूदिति मूर्तस्य धर्मान्तरस्य प्रसञ्जनमुत्कर्षः।
दृष्टान्तधर्मविकल्पेनैव साध्यधर्मिणि सिद्धस्यापि धर्मस्यापकर्षेण प्रत्यवस्थानमपकर्षसमः। पूर्वस्मिन्नेव प्रयोगे शब्दः खलु प्रयत्नानन्तरीयकत्वादश्रावणोऽस्तु, न चेदश्रावणो घटवदनित्योऽपि मा भूदिति सतः श्रावणत्वस्यापसरणमपकर्षः।
ख्यापनीयो वर्ण्यः प्रतिपिपादयिषितः साध्यधर्मः, तद्विपर्ययादवर्ण्यः सिद्धो दृष्टान्तधर्मः। तावेतौ वर्ण्यावर्ण्यसमौ प्रतिषेधौ भवतः। यदि शब्दो नित्यत्वेन वर्ण्यते साध्यते घटोऽपि वर्ण्यतामिति वर्ण्यसमः। घटश्चेन्न वर्ण्यते शब्दोऽपि मा वर्णीत्यवर्ण्यसमः।
धर्मान्तरविकल्पेन प्रत्यवस्थानं विकल्पसमः प्रतिषेधः। तत्रैव प्रयोगे प्रयत्नानन्तरीयकं किञ्चिन्मृदु दृष्टं दुकूलराङ्कवशय्यादि, किञ्चित् कठिनं कर्परपरश्वदादि, एवं प्रयत्नानन्तरीयकं किञ्चिदनित्यं भविष्यति घिटादि, किञ्चिन्नित्यं शब्दादीति।
उभयोरपि साध्यदृष्टान्तयोः साध्यत्वापादनेन प्रत्यवस्थानं साध्यसमः प्रतिषेधः। यदि यथा घटस्तथा शब्दः, प्राप्तं तर्हि यथा शब्दस्तथा घट इति। शब्दश्चानित्यतया साध्य इति घटोऽपि साध्य एव स्यात्, अन्यथा हि न तेन तुल्यो भवेदिति।
अत्र पञ्चानामुत्तरम्,
न्यायमञ्जरी :—
%किञ्चित्साधर्म्यादुपसंहारसिद्धेवैधर्म्यदप्रतिषेधः॥%
किञ्चित्साधर्म्यादुपसंहारः सिध्यति, यथा गौरेवमयं गवय इति। न तु सर्वथा रूपाभेदस्तयोः कर्त्तुं शक्यः, प्रमाणावगतस्वभावभेदानां भावानामितरेतररूपसङ्करस्य कर्तुमशक्यत्वात्। एवं स्वप्रतिबिम्बसामर्थ्यसुस्थिते स्वसाध्यमुत्थापयति स्थापनाहेतौ साध्यदृष्टान्तयोर्धर्मविकल्पमापादयता वैधर्म्यञ्च किञ्चिदभिदधता प्रतिषेधः कर्तुं लभ्यत इति।
अथ षष्ठस्योत्तरम्,
न्यायमञ्जरी :—
%साध्यातिदेशाच्च दृष्टान्तोपपत्तेः॥%
यदुच्यते, घटोऽपि शब्दवत् साध्यो भवत्विति, तन्नैवम्। `लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः’। तेनाविपरीततया शब्दोऽतिदिश्यते यथा घटः प्रयत्नानन्तरीयकः सन्ननित्यः एवं शब्दोऽपीति। एवं साध्यातिदेशाद् दृष्टान्त उपपद्यमाने न तस्य साध्यत्वाभिधानमुपपद्यते।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%तेनाविपरीततया शब्दोऽतिदिश्यत% इति। तेन दृष्टान्तेनाविपरीततया तुल्यतया यथा घटस्तथा शब्द इत्यतिदिश्यते।
न्यायमञ्जरी :—
%प्राप्त्यप्राप्तिसमयोर्लक्षणे%
%प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याविशिष्टत्वादप्राप्त्यासाधकत्वाच्च प्राप्त्यप्राप्तिसमौ ॥%
प्राप्त्यप्राप्तिविकल्पनपूर्वकमुभयत्रापि दोषापादनं प्राप्त्यप्राप्तिसमौ प्रतिषेधौ भवतः। हेतौ साधनवादिना प्रयुक्ते पर आह सोऽयं हेतुः प्राप्य वा साध्यं साधयेदप्राप्य वा ? प्राप्य चेद् द्वयोर्लब्धस्वरूपयोरप्राप्तिर्भवतीति किं कस्य साध्यं वेत्यविशेषः। अप्राप्य तु साधकत्वमनुपपन्नमतिप्रसङ्गात्, न ह्यप्राप्य प्रदीपः प्रकाश्यं प्रकाशयतीति।
अनयोरुत्तरम्,
न्यायमञ्जरी :—
%घटादिनिष्पत्तेः पीडने चाभिचारादप्रतिषेधः॥%
नायं प्रतिषेध उपपद्यते, उभयथापि कारणस्य भावदर्शनात्। दण्डचक्रसूत्रादिकारकाणि प्राप्य मृदं घटादिकार्यं निष्पादयन्ति, दृश्यन्ते अभिचारकर्मणा च श्येनादिना दूरस्थस्यापि शत्रोः पीडनं सम्पाद्यत इति।
न्यायमञ्जरी :—
%प्रसङ्गप्रतिदृष्टान्तसमयोर्लक्षणे%
%दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ॥%
अत्र प्रसङ्गापादनेन प्रत्यवस्थानं प्रसङ्गसमः प्रतिषेधः। पूर्वोदाहृत एव हेतौ यद्यनित्यत्वे प्रयत्नानन्तरीयकत्वं साधनं प्रयत्नानन्तरीयकत्वे इदानीं किं साधनं तत्साधने किमिति। दृष्टान्तस्य घटादेरनित्यतायां कारणं किञ्चिदुपदिश्यते, तेन तत्कारणान्वेषणातिप्रसङ्गात् प्रसङ्गसमोऽयं प्रतिषेधः। प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमः।
यथा घटः प्रयत्नानन्तरीयकः सन्निनित्यो दृष्ट एवमाकाशं प्रयत्नानन्तरीयकं नित्यं दृश्यते, तद्वच्छब्दोऽपि नित्यः स्यादिति। कः पुनराकाशस्य प्रयत्नानन्तरीयकत्वं वदेत् कूपखननादिना अवकाशकरणं मन्वान एवं ब्रूयादपि कश्चित्।
नन्वेवमपि व्यभिचारोद्भावनेमेतत् सम्यगुत्तरं नासदुत्तरप्रकारो जातिप्रयोगः ? नैतदेवम्, न हि हेतोरनैकान्तिकत्वमुद्भावयन्नसौ साधुरिव जातिवादी प्रत्यवतिष्ठते; अपि तु दृष्टान्तबलेन नित्यत्वमेव साधयन्नुत्थित इति जातिप्रयोग एवायम्। हेत्वाभासा अपि स्वरूपनिग्रहपुरः सरमपरहेतुप्रतिबिम्बवर्त्मना प्रदर्श्यमाना जातितां प्रतिपद्यन्त एव।
अत्र प्रसङ्गसमस्य तावदुत्तरमाह,
न्यायमञ्जरी :—
%प्रदीपोपादानप्रसङ्गविनिवृत्तिवत् तद्विनिवृत्तिः॥%
असिद्धं हि नाम साध्यते न सिद्धं प्रयत्नवैफल्यात्, सान्धकारे सद्मनि पिठरादिपदार्थदर्शनाय प्रदीपमुपाददते लौकिकाः, न दीपदर्शनार्थं दीपान्तरपरम्परामाहरन्तीति। अन्तरेणापि हि दीपान्तराणि दृश्यत एव प्रदीपः। एवं लौकिकपरीक्षकाणां घटादौ प्रयत्नानन्तरीयकत्वस्य सिद्धत्वात् तत्र कारणापदेशो निष्प्रयोजन इति तस्मान्नायमतिप्रसङ्गापादनस्य विषयः।
अथ प्रतिदृष्टान्तसमस्योत्तरम्,
न्यायमञ्जरी :—
%प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः॥%
प्रतिदृष्टान्त एव साधकबुद्ध्या यदि त्वयोपन्यस्तस्तर्हि विशेषहेतुर्वक्तव्योऽनेन हेतुना प्रतिदृष्टान्त एव साधको न दृष्टान्त इति। न चासौ विशेषे हेतुरुच्यते, तस्मान्न प्रतिदृष्टान्तः सिद्धिहेतुरिति दृष्टान्त एव साधको भवति। प्रतिदृष्टान्तहेतुत्वेऽपि स्थिते सत्यहेतुदृष्टान्तो न हि साधकः स्यात्, न च तदस्तीत्युक्तम् अतो न हेतुर्दृष्टान्तः।
अथ यथा प्रतिदृष्टान्तो न साधक एवं दृष्टान्तोऽपि मा भूद्, इत्यनया नीत्या प्रत्यवतिष्ठसे, हन्त तर्हि प्रतिदृष्टान्तस्य तावदहेतुत्वं स्वकण्ठेन कथितमिति। तस्मिन्नसाधके दृष्टान्त एव साधक इति।
न्यायमञ्जरी :—
%अनुत्पत्तिसमस्य लक्षणम्%
%प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः॥%
अनुत्पत्त्या प्रत्यवस्थानमनुत्पत्तिसमः प्रतिषेधः। प्राक्तन एव प्रयोगे जातिवाद्याह `अनित्यः’ इत्युत्पत्तिधर्मक उच्यते। यश्चोत्पत्तिधर्मकस्तस्योत्पत्तेः पूर्वमनुत्पत्त्या भवितव्यम्, अनुत्पन्ने च शब्दाख्ये धर्मिणि प्रयत्नानन्तरीयकत्व धर्मः क्व वर्तताम्, अलब्धपक्षवृत्तेश्च कथमनित्यत्वं साधयतु, असिद्धे चानित्यत्वे शब्दस्य बलान्नित्यत्वमेव भवति कारणाभावादित्यनित्यत्वसिद्धिकारणस्य प्रयत्नानन्तरीयकत्वस्याभावादित्यर्थः। तथा च शब्दोत्पादककारणाभावादनुत्पन्ने शब्दे निराश्रयो हेतुरिति।
अस्योत्तरम्,
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%यश्चोत्पत्तिधर्मकस्तस्योत्पत्तेरिति।% यस्य व्याख्यानं पूर्वमुत्पत्त्या भवतिव्यमिति।
न्यायमञ्जरी :—
%तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः॥%
शब्दाख्यधर्मिणः सिद्धस्य सतो नित्यत्वमनित्यत्वं वा विचार्यते, तदसिद्धौ हि नित्यत्वमपि कस्य भवानभिदधीत ? उत्पन्नस्य चास्य तथाभावो भवति नानुत्पन्नस्य, उत्पन्नः खल्वयं शब्द इति भवति प्रागुत्पत्तेरलब्धात्मनः किमुच्यते, लब्धस्वरूपस्य पुनरनित्यत्वकारणप्रयत्नानन्तरीयकत्वसद्भावादयुक्त एवायं प्रतिषेधः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%प्रागुत्पत्तेरलब्धात्मनः किमुद्दिश्यते% किमुच्यते। नास्त्यत्र विमतिरित्यर्थः।
न्यायमञ्जरी :—
%संशयसमस्य लक्षणम्%
%नित्यानित्यत्वसाधर्म्यात् संशयसमः॥%
नित्यानित्यसाधर्म्योपन्यासेन संशयापादनप्रवणं प्रत्यवस्थानं संशयसमः प्रतिषेधः। अनित्यः शब्दः प्रयत्नानन्तरीयकत्वादित्यस्मिन्नेव हेतौ अस्ति शब्दस्य नित्यसाधर्म्यम्, प्रयत्नानन्तरीयकत्वादनित्यः शब्द उत नित्यसाधर्म्यादैन्द्रियकत्वान्नित्य इति संशयः, एवं परः प्रत्यवतिष्ठते। न च साधर्म्यसमप्रयोग एवायमाशङ्कनीयः संशयापादनप्रवणत्वादस्येति।
अस्योत्तरम्,
न्यायमञ्जरी :—
%साधर्म्यात् संशये न संशयो वैधर्म्यादुभयथा वा संशयेऽत्यनतसंशयो नित्यत्वानभ्युपगमाच्च सामान्यस्याप्रतिषेधः॥%
स्थाणुर्वा पुरुषो वेति स्थाणुपुरुषयोश्च साधर्म्यादूर्ध्वत्वादेः संशयो भवति, न तु शिरः पाण्यादिवैधर्म्यात् प्रत्युत ततोऽसौ निवर्त्तते। यदि पुनरुभयथापि साधर्म्यादिव वैधर्म्यादपि संशयः स्यात् तथा सत्यनन्तसंशयः प्राप्नोति। इह च विशेषदर्शनस्यानीयमनित्यतासाधनं शब्दे प्रयत्नानन्तरीयकत्वमस्तीति नित्यत्वं सामान्यगतं संशयकारणमिति नाभ्युपगम्यते। तस्मादप्रतिषेधोऽयं नित्यसामान्यसाधर्म्यनिबन्धनसंशयापादनरूपः।
न्यायमञ्जरी :—
%प्रकरणसमस्य लक्षणम्%
%उभयसाधर्म्यात् प्रक्रियासिद्धेः प्रकरणसमः॥%
पक्षप्रतिपक्षौ निर्णयलक्षणे व्याख्यातौ। तावेव प्रकरणम्। प्रकरणमनतिवर्त्तमानः प्रकरणसमः प्रतिषेधो भवति। पूर्वस्मिन्नेव प्रयोगे नित्यः शब्दो निरवयवत्वादाकाशवदित्येवञ्जातीयकं प्रतिप्रयोगमुपन्यस्यन् स्वपक्षमुत्थापयति जातिवादी। साधर्म्यग्रहणञ्चोपलक्षणं वैधर्म्येणापि प्रतिप्रयोगोपन्यासे प्रकरणसम एव प्रतिषेधो भवति उभयवैधर्म्यात् प्रक्रियासिद्धेः प्रकरणसम इति। मूलहेतावपि साधर्म्येण वैधर्म्येण वा प्रयुक्ते प्रयोगद्वयमेतद्वेदितव्यम्।
ननु ते एवैते साधर्म्यवैधर्म्यसमे जाती साधर्म्यहेतौ वैधर्म्यहेतौ वा प्रयुज्यमानत्वाच्च तवोत्थिते इति ताभ्यामेव गतत्वान्नाभिनवोऽयं जातिप्रयोगः। चतस्रश्चैता जातय इत्येकत्वमपि न सङ्गतम्।
उच्यते, तत्र परपक्षप्रवणप्रतिषेधतयैव प्रत्यवस्थानमुदाहृतमिहैव साधनच्छाययेति, अत एव प्रकरणसमोऽयं जातिरनित्यपक्षवन्नित्यपक्षोऽपि प्रतिक्रियतेऽस्यामिति, उद्भावनभङ्गिभेदाच्च जातिनानात्वमसङ्कीर्णोदाहरणविवक्षया चतुर्विंशतिभेदत्वम् वस्तुतस्तु तासामानन्त्यमित्युक्तम्।
अत्रोत्तरम्,
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%उभयसाधर्म्यात् प्रक्रियासिद्धेरिति।% उभयेन नित्येनानित्येन च साधर्म्यात् प्रतिपक्षपक्षयोः प्रवृत्तिः प्रक्रिया। %प्रकरणमनतिवर्तमान% इति। निर्णयोत्पत्तौ प्रकरण निवृत्तिभर्वति, प्रतिपक्षहेतौ च सति कुतो निर्णय इति। %मूलहेतावपि सार्म्येणेति।% यदा स्थापनावाद्येष साधर्म्यमात्रे नित्यः शब्दोऽस्पर्शत्वादाकाशवदिति मूलहेतुत्वेन प्रयुङ्क्ते तदापि अनित्यः शब्दः प्रयत्नान्तरीयकत्वादित्यादि प्रयोक्तव्यमित्यर्थः।
न्यायमञ्जरी :—
%प्रतिपक्षात् प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः॥%
निर्णयोत्पत्त्या प्रकरणं पर्यवसितं भवति, प्रागुक्तनिर्णयात् तदवस्थानमेव।तदिह प्रकरणमुत्थापयता भवतोभयसाधर्म्यं तदुत्थापनकारणमभिहितमुभयसाधर्म्यात् प्रक्रियासिद्धेरिति ब्रुवता। उभयसाधर्म्यञ्च मदुक्तमपि साधर्म्यमस्त्येव, अन्यथोभयपदार्थः कः ? एवञ्च तदभ्यनुज्ञातं भवतीति तत्प्रतिषेधो नोपपद्यते, प्रतिषेधोपपत्तौ वा नोभयसाधर्म्यं प्रकरणकारणं सिध्यतीति। निर्णयोत्पत्तिनिमित्तञ्च प्रकरणोपरमाय न किञ्चिदुक्तमुभयसाधर्म्याभिधानादिति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%तदिह प्रकरणमुत्थापतया भवतेति।% प्रकरणं प्रतिपक्षः । %निर्णयोत्पत्तिनिमित्तं प्रकरणोपरमायेति।% एवं हि प्रतिषेधः सिद्ध्यति यद्येकतरपक्षनिर्णये व्यवस्थितं प्रकरणं भवति, न च निर्णयनिमित्तं किञ्चिदुक्तम्; उभयसाधर्म्याभिधानाद्धि संशयो भवति न निर्णय इत्यर्थः।
न्यायमञ्जरी :—
%अहेतुसमस्य लक्षणम्%
%त्रैकाल्यानुपपत्तेर्हेतोरहेतुसमः॥%
कालत्रयानुपपत्त्या हेतुमाक्षिप्य क्रियमाणः प्रतिषेधोऽहेतुसमो भवति। हेतुः साधनम्, साधनञ्च साध्यात् पूर्वं साधनम्, तदसति साध्ये कस्य साधनम् ? अथ पश्चाद्, असति साधने कस्येदं साध्यम् ? अथ युगपत् साध्यसाधने भवतः, न तर्हि तयोः सव्येतरगोविषाणयोरिव साध्यसाधनभावो भवेदित्ययं हेतुरहेतोर्नं विशिष्यते।
अस्योत्तरम्,
न्यायमञ्जरी :—
%न हेतुतः साध्यसिद्धेस्त्रैकाल्यासिद्धिः॥%
न त्रैकाल्यासिद्धिः, कस्मात् ? हेतुतः साध्यसिद्धेः। उत्पत्तौ तावदयमपर्यनुयोगः, पूर्वसिद्धेन हेतुना तन्त्वादिना पश्चाद्भाविनोऽसत एव कार्यस्य पटादेः सिद्धिरित्युक्तत्वात्। `बुद्धिसिद्धन्तु तदसत्’ इति ज्ञप्तावपि परिहृत एष दोषः, उपलब्धिहेतोरुपलब्धिविषयस्य पूर्वापरसहभावनियमाद् यथादर्शनं व्यवस्थेति प्रमाणपरीक्षायामभिदानात्। दृश्यते च निर्वर्तनहेतुना निर्वर्तनीयस्य निर्वृत्तिरुपलब्धिहेतुना चोपलभ्यस्योपलम्भ इति, प्रमाणसिद्धे वस्तुनि कोऽयमाक्षेपः ?
प्रतिषेधे च तुल्योऽयमनुयोग इत्याह,
न्यायमञ्जरी :—
%प्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्याप्रतिषेधः॥%
प्रतिषेधोऽपि प्रतिषेध्यात् पूर्वं पश्चात् सह वा भवेदिति विकल्प्यमाने न प्रतिषेध्यं प्रतिषेद्धुमुत्सहत इति।
न्यायमञ्जरी :—
%अर्थापत्तिसमस्य लक्षणम्%
%अर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसमः॥%
अर्थादापद्यते प्रतिपक्षसिद्धिरित्येवं क्रियमाणः प्रतिषेधोऽर्थापत्तिसमो भवति। पूर्वस्मिन्नेव प्रयोगे यदि घटसाधर्म्यात् प्रयत्नानन्तरीयकत्वादनित्यः शब्दः, अर्थादापद्यते आकाशसाधर्म्यान्नित्य इति। अस्ति चास्य नित्येन साधर्म्यमाकाशादिना द्रव्येण निरवयवत्वमिति। उद्भावनप्रकारभेदाच्च जातिभेद इत्युक्तम्।
अस्योत्तरम्,
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%अर्थादापद्यते आकाशसाधर्म्यान्नित्य% इति। ननु साधर्म्यसमाभ्योऽस्याः को भेद इत्याह %उद्भावनप्रकारभेदाच्चेति।%
न्यायमञ्जरी :—
%अनुक्तस्यार्थादापत्तेः पक्षहानेरुपपत्तिः॥%
अनुपपादितसाधनमनुक्तमर्थादापद्यत इति वदतः पक्षहानिरप्युपपद्यते, मामकानित्यपक्षसिद्धौ हि सत्यामर्थादापद्यते तावकस्य नित्यपक्षस्य हानिरिति।
दोषान्तरमाह,
न्यायमञ्जरी :—
%अनैकान्तिकत्वाच्चार्थापत्तेः॥%
उभयपक्षसमर्थेयमर्थापत्तिः, विपर्ययेणापि प्रयोक्तुं शक्यत्वात्। नित्यः शब्दो निरवयत्वादित्येवमप्युक्ते शक्यं वक्तुं यदि नित्याकाशसाधर्म्यान्निरवयवत्वान्नित्यः शब्दः, अर्थादापद्यते यदनित्यघटादिसाधर्म्यात् प्रयत्नानन्तरीयकत्वादनित्य इति। न चैवमपि काचिदर्थसिद्धिः। न खलु वै घनस्य ग्राव्णः पतनमित्युक्तेऽर्थादापद्यते द्रवस्य वारिणः पतनाभाव इति।
न्यायमञ्जरी :—
%अविशेषसमस्य लक्षणम्%
%एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात् सद्भावोपपत्तेरविशेषसमः॥%
अविशेषोपपादनेन प्रत्यवस्थानमविशेषसमः प्रतिषेधः। यदि शब्दघटयोरेकधर्मः प्रयत्नानन्तरीयकत्वमस्तीति तयोरनित्यत्वाविशेष उच्यते, तर्हि सर्वभावानामविशेषप्रसङ्गः, कथम् ? सद्भावोपपत्तेः। सत्तासम्बन्धादित्यर्थः। सोऽयमविशेषसमः प्रतिषेधः।
एतस्योत्तरम्,
न्यायमञ्जरी :—
%क्वचित् तद्धर्मोपपत्तेः क्वचिदनुपपत्तेः प्रतिषेधाभावः॥%
क्वचिदविशेषापादनहेतुरुपपद्यते धर्मः, क्वचित् तु नोपपद्यत इत्येवमयमप्रतिषेधः। शब्दघटयोरेको धर्मः प्रयत्नानन्तरीयकत्वमस्ति येन तयोर्धर्मान्तरमविशेषरूपमुपपद्यते, न तु सर्वभावानामीदृशमविशेषकारणं धर्मजातमस्ति। यत्तु सद्भावोपपत्तेरिति तेन किं धर्मान्तरमविशेषरूपं साध्येत ? अनित्यत्वमेवं चेत्, तर्ह्ययं प्रतिज्ञार्थो व्यवतिष्ठेतानित्याः सर्वे भावाः सत्त्वादिति। न चायमनुपपत्तेर्दृष्टान्तानुपपत्तेः सर्वभावानां पक्षीकृतत्वाद् दृष्टान्तो न कश्चिदवशिष्यते।
न च प्रतिज्ञातैकदेश एव दृष्टान्तीकर्तुं शक्यते सिद्धसाध्यभेदात्। साध्यः प्रतिज्ञातोऽर्थो भवति, सिद्धश्च दृष्टान्तः। न च दृष्टान्तरहितो हेतुः स्वसाध्योपस्थापनसामर्थ्यमश्नुते। न च सौगतोक्तनीत्या नित्येभ्यो व्यापकानुपलब्ध्या सत्त्वं व्यावर्तितमनित्येष्वेव प्रतिष्ठां लभते। यैव विपक्षाद् व्यावृत्तिः, स एव साध्येनानुगम इति वक्तव्यम्, तन्नीतेः प्रागेव प्रतिक्षेपात्। प्रत्युक्तं हि विस्तरतः क्षणभङ्गसाधनमिति। किञ्चिद्धि सत्त्वयोगि भावरूपमनित्यं भवति किञ्चिन्नित्यमिति। नायमेकान्तः सत्त्वादनित्याः सर्वभावा इति। अपि च सर्वभावानामनित्यत्वे साध्यमाने तदन्तर्गतत्वाच्छब्दस्याप्यनित्यत्वमभ्युपगतं भवेदित्येवमप्ययमप्रतिषेधः।
न्यायमञ्जरी :—
%उपपत्तिसमस्य लक्षणम्%
%उभयकारणोपपत्तेरुपपत्तिसमः॥%
उभयकारणोपपत्त्या पक्षद्वयोपपत्तिवर्णनमुपपत्तिसमः प्रतिषेधः, यद्यनित्यत्वकारणं प्रयत्नानन्तरीयकत्वमुपपद्यते शब्दस्येत्यनित्यः शब्दो नित्यत्वकारणमपि निरवयवत्वमस्योपपद्यते इति नित्यः स्याद् उभयत्रापि कारणोपपत्तेः।
ननु सैवेयं साधर्म्यादिसमा प्रकरणसमा वा जातिर्न भेदान्तरम्। मैवम्, उद्भावनप्रकारेण भेदात् परपक्षोपमर्दबुद्ध्या साधर्म्यादिसमा जातिः प्रयुज्यते पक्षान्तरोत्थापनास्थया प्रकरणसमा अप्रतिपत्तिपर्यवसायित्वाशयेनेयमुपपत्तिसमेति।
अत्रोत्तरम्,
न्यायमञ्जरी :—
%उपपत्तिकारणानुज्ञानादप्रतिषेधः॥%
उभयकारणोपपत्त्या प्रतिषेधमभिदधता पक्षद्वयकारणोपपत्तिरनुज्ञाता भवति। सा चेदनुज्ञाता कथमेकतरपक्षप्रतिषेधः, एकतरपक्षप्रतिषेधश्चेत् कथमुभयकारणोपपत्तिः। उभयपक्षकारणोपपत्तिरेकतरपक्षप्रतिषेधश्चेति विप्रतिषिद्धम्। व्याघातादेव तत्प्रतिषेधो विकल्पयिष्यत इति चेत्, समानो व्याघातः, तेन हि परपक्षवत् स्वपक्षोऽपि प्रतिहन्यत एव। न हि व्याघात एकं पक्षं साधयत्येकं बाधत इति।
न्यायमञ्जरी :—
%उपलब्धिसमस्य लक्षणम्%
%निर्दिष्टकारणाभावेऽप्युपलम्भादुपलब्धिसमः प्रतिषेधः॥%
यदेतदनित्यतायां शब्दस्य प्रयत्नानन्तरीयकत्वं कारणमपदिष्टं तस्याभावेऽपि प्रबलप्रभञ्जनजवभज्यमानजरत्पादपपातप्रभवे शब्दे दृश्यत एवानित्यत्वमन्यत्रापि विद्युदादौ विनापि प्रयत्नानन्तरीयकत्वमुपलभ्यत एवानित्यतेति।
अत्रोत्तरम्,
न्यायमञ्जरी :—
%कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः॥%
अत्रैतावदेव तावद् वक्तव्यं सपक्षैकदेशवृत्तित्वमिदमस्य हेतोरुद्भावितम्, न च सपक्षैकदेशवृत्तिरगमकः। प्रयत्नानन्तरीयकत्वमनित्यत्वप्रतिबद्धं न पुनरनित्यत्वं प्रयत्नानन्तरीयकत्वेन। यत् प्रयत्नानन्तरीयकं कदनित्यमिति हि व्याप्तिर्न तु यदनित्यं तत् प्रयत्नानन्तरीयकमिति। यथा यत्राग्निस्तत्र धूमो न यत्र धूमस्तत्राग्निरिति। एवं प्रयत्नानन्तरीयकत्वमन्तरेण समीरणपात्यमानवनस्पत्यादिशब्दे विद्युदादौ वा येयमनित्यतोपलब्धिर्न सा तस्य हेतुतामपहन्तीति। अपि च प्रयत्नानन्तरीयकत्वादिति कारणाद् उत्पत्तिरियमभिधीयते न तु कारणं नियम्यते प्रयत्न एवेति। तत्र पवननोदनजनिततरुशब्दवत् सत्यपि प्रयत्ने कारणान्तरं तदुत्पादकम्भविष्यति कारणान्तरजन्येऽप्यनित्यत्वं शब्दे विद्युदादौ वा न विरुद्धमिति। कथं पुनरिदमेव गम्यते प्रयत्नादिभिरसन्नुत्पाद्यते शब्दो न पुनः सन्निभिव्यज्यत इति ? सतोऽनुपलब्धौ निमित्ताभावाद् आवरणं निमित्तमिति चेत्, न, मूलोदकादिषु मृद इव शब्दे कस्यचिदावरणस्याग्रहणात्। तस्मान्न मूलोदकादिना तुल्यः शब्द इत्यसन्नेव प्रयत्नादिना क्रियत इति।
न्यायमञ्जरी :—
%अनुपलब्धिसमस्य लक्षणम्%
%तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेरनुपलब्धिसमः प्रतिषेधः॥%
यदुक्तमावरणानुपलम्भादसत्याच्चानुपलम्भादसत्यावरणे प्रागुच्चारणादसन्नेव शब्दः प्रयत्नेनाभिनिर्वर्त्यत इति तदयुक्तमावरणानुपलब्धेरप्यनुपलम्भात्तस्याश्चानुपलम्भादभावः, अनुपलब्धेरभावादुपलिब्धिर्भवति प्रतिषेधद्वयेन विधेरेव प्रतीतेः, आवरणोपलब्धेश्चावरणसत्ता सिध्यतीति प्रकृतमेव शब्दस्याग्रहणं नासत्त्वकृतमित्यभिव्यञ्जकत्वकृतमेवास्य प्रयत्नादि कारणमिति।
अस्योत्तरम्,
न्यायमञ्जरी :—
%अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः॥%
आवरणानुपलब्धिर्नास्त्यनुपलब्धेरिति योऽयं हेतुरुक्तः स न हेतुः अनुपलम्भस्वभावत्वादनुपलब्धेरुपलम्भप्रतिधार्थकत्वादित्यर्थः। अस्तित्वनास्तित्वे हि भावानामुपलम्भानुपलम्भाभ्यामवस्थाप्ये यदुपलभ्यते तदस्ति शशवद् यन्नोपलभ्यते तन्नास्ति तद्विषाणवत्, नोपलभ्यते च शब्दस्यावरणं मूलोदकादेरिव मृत्तिकेत्यनुपलम्भान्नास्तीति गम्यते। अनुपलम्भो ह्ययमावरणविषयो नानुपलब्धिविषयः, स आवरणस्यैव भावं गम्यति नानुलब्धेरित्यनुपलब्धेर्भावादावरणमेव नास्तीति।
न्यायमञ्जरी :—
%ज्ञानविकल्पानाञ्च भावाभावसंवेदनादध्यात्मम्॥%
ज्ञानविकल्पाः प्रतीतिप्रकारास्तेषां भावाभावौ प्राणिसंवेद्यौ भवतः, अस्ति मे ज्ञानं नास्ति मे ज्ञानमित्येवं सर्वः प्रत्यक्षानुमानागमज्ञानानि प्रमाणफलानि, स्मरणसंशयादिज्ञानानि च प्रमाणफलान्यनुभवतीति। सा चेयमावरणानुपलब्धिरुपलब्धिवदध्यात्मं संवेद्यते नोपलभे शब्दस्यावरणं मृदमिव मूलोदकादेरिति। तदेवं बाह्यपदार्थभावाभाववदान्तरज्ञानभावाभावयोरपि प्रत्यक्षत्वादपर्यनुयोगोऽयमनुपलब्धेरनुपलम्भादावरणमस्ति शब्दस्येति। तस्मात् प्रागुच्चारणादसन्नेव शब्द इति सिद्धम्।
न्यायमञ्जरी :—
%अनित्यसमस्य लक्षणम्%
%साधर्म्यात् तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः॥%
सर्वभावानित्यत्वप्रसङ्गेन प्रत्यवस्थानमनित्यसमः प्रतिषेधः। अनित्येन घटेन साधर्म्यमस्ति शब्दस्येति तस्यानित्यत्वमुच्यते तर्हि सर्वभावानामपि घटेन किमपि साधर्म्यमस्तीति सर्व एवानित्याः स्युः। अविशेषसमैवेयं जातिरिति चेत्, तत्र हि सत्तायोगात् सर्वभावानामविशेष आपादित इह तु घटसाधर्म्यादेवानित्यत्वमापादितम् इति उद्भावनभङ्गिभेदाच्च जातिनानात्वमित्यसकृदुक्तम्।
अत्रोत्तरम्,
न्यायमञ्जरी :—
%साधर्म्यादसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधर्म्यात्॥%
अतिप्रसङ्गमापादयतो ह्येतद्विवक्षितं घटसाधर्म्यादसिद्धिरनित्यत्वस्येति। यदि च घटसाधर्म्यादनित्यत्वस्यासिद्धिस्तर्हि तावकस्यास्य प्रतिषेधवाक्यस्याप्यसिद्धिः, प्रतिषेध्यवाक्यसाधर्म्यात्। अस्ति हि प्रतिषेधवाक्यस्य प्रतिषेध्येन साधर्म्यं प्रतिज्ञाद्यवयवयोगित्वमिति। किञ्च,
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%अस्ति हि प्रतिषेधवाक्यस्य प्रतिषेध्येन साधर्म्यमिति।% प्रतिज्ञाद्यवयववाक्यं पक्षनिवर्तकं प्रतिपक्षलक्षणं प्रतिषेधः, तस्य पक्षेण प्रतिषेध्येन साधर्म्यं प्रतिज्ञादियोगः।
न्यायमञ्जरी :—
%दृष्टान्ते साध्यसाधनभावेन प्रतिज्ञातस्य धर्मस्य हेतुत्वात् तस्य चोभयथा भावान्नाविशेषः॥%
न हि साधर्म्यमात्रं साधनं भवति, अपि तु दृष्टान्तधर्मिण्यवधृतसामर्थ्यं साधर्म्यं वैधर्म्यं वा तथाविधं चेत् सर्वभावानामस्ति भवतु तेषामनित्यत्वं को दोषः, नास्ति चेत् कोऽयमतिप्रसङ्गः ? न हि दृष्टान्तधर्मिणि प्रज्ञातसामर्थ्यं साधर्म्यमुभयथा भवति पक्षान्तरं स्पृशति, तेन साधर्म्यविशेषस्य हेतुत्वात् तस्य च सर्वत्रासम्भवान्न सर्वानित्यत्वम्। अविशेषसमायां जातौ यत् साधनमुक्तं तदिहापि वक्तव्यमिति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%अविशेषसमायां च यः समाधिरुक्तः% क्वचिद्धर्मानुपपत्तेरित्यादि।
न्यायमञ्जरी :—
%नित्यसमस्य लक्षणम्%
%नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसमः॥%
अनित्यत्वसाध्यधर्म स्वरूपविकल्पनेन शब्दनित्यत्वापादनं नित्यसमः प्रतिषेधः। अनित्यः शब्द इति प्रतिज्ञाते सति जातिवादी विकल्पयति किमिदमनित्यत्वं शब्दस्य नित्यमथानित्यमिति, यदि तावदनित्यं तत् कदाचित् प्रच्यवते तत्प्रच्युतेर्नित्यः शब्दः, अथ नित्यमनित्यत्वं तर्हि धर्मस्य नित्यत्वात् तस्य च निराधारस्यानुपपत्तेस्तदाश्रयस्य शब्दस्यापि नित्यत्वमनित्यत्वे हि शब्दे विनष्टे न तदाधारो धर्मो वर्तेतेति।
अस्योत्तरम्,
न्यायमञ्जरी :—
%प्रतिषेधे नित्यमनित्यभावादनित्यत्वोपपत्तेः प्रतिषेधाभावः॥%
प्रतिषेध्ये नित्यमनित्यत्वस्य भावश्चेदुच्यते तदनित्य एवासावुक्तो भवति अनित्योपपत्तेश्च तत्प्रतिषेधो नोपपद्यते, नित्यमनित्यत्वं शब्दस्येति च ब्रवीषि, नित्यताञ्च तद्योगादस्योपपादयसीति महानयमायुष्मतो भ्रमः। अथ निरधिकरणो धर्मः कथं स्याद् इति, तदुच्यते, अनित्यत्वं हि नाम निरोधः प्रध्वंसाभाव इत्यनर्थान्तरम्। अनित्यत्वादभाव इति तु व्यवहारमात्रम्। सा चेयमनित्यता शब्दावच्छिन्ना न शब्दाधिकरणा। न खलु धटाभावो घटाश्रितो भवितुमर्हति, भावस्वभावा हि धर्मा धर्म्याश्रिता भवन्ति नाभावः। अभावस्त्वाश्रितोऽपि न प्रतियोग्याश्रितो भवति किन्त्वर्थान्तरवृत्तिर्भूप्रदेश इव घटाभाव इति। नित्यानित्यत्वविरोधाच्च, नित्यत्वमनित्यत्वञ्चैकत्र धर्मिणि विरुध्यते, तत् कथमभिधीयते नित्यमनित्यत्वस्य भावान्नित्यः शब्द इति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%अनित्यत्वोपपत्तेश्च तत्प्रतिषेधो नोपपद्यत% इति। नानित्यः शब्द इत्येवंरूपः प्रतिषेधः।
%अनित्यत्वादभाव इति तु व्यवहारमात्रमिति।% असत्यपि भेदे राहोः शिर इतिवदिति भावः। घटाभाव इति नास्माद् व्यपदेशादाश्रयाश्रयिभावः सिद्ध्यति, प्राग्वद् व्यवहारमात्रत्वादस्येति तात्पर्यम्।
न्यायमञ्जरी :—
%कार्यसमस्य लक्षणम्%
%प्रयत्नकार्यानेकत्वात् कार्यसमः॥%
प्रयत्नकार्यनानात्वोपन्यासेन प्रत्यवस्थानं कार्यसमः प्रतिषेधः। अनित्यः शब्दः प्रयत्नानन्तरीयकत्वादित्युक्ते पर आह प्रयत्नस्य हि कार्यद्वैविध्यमुपलब्धं किञ्चिदसदेव प्रयत्नेन निर्वर्तते, यथा घटादिकम्, किञ्चित् सदेवावरणव्यपनयनादिना प्रयत्नेनाभिव्यज्यते यथा मृदन्तरितमुदकादि। एवं प्रयत्नानानात्वादिह प्रयत्नेनाविद्यमानः शब्दो निर्वर्त्येत घटवत्, उत विद्यमान एवाभिव्यज्येत मृदन्तरितसलिलादिवदिति संशयः। न चेयं संशयसमा जातिर्हेत्वर्थविकल्पनेनेह प्रत्यवस्थानात्, तत्र हि निरवयवत्वाद्याकाशसाधर्म्योपन्यासेन संशय आपादितः, इह तु साधनवाद्युक्तप्रयत्नानन्तरीयकत्वहेत्वर्थनिरूपणेनेति, उद्भावनप्रकारभेदश्च जातीनां वैचित्र्यकारणमित्युक्तमेव।
अत्रोदाहरणम्,
न्यायमञ्जरी :—
%कार्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणानुपपत्तेः॥%
यद्यपि प्रयत्नकार्यान्यत्वमुपलभ्यते तथापि प्रकृते शब्दे प्रयत्नस्याभिव्यक्तावहेतुत्वम्, न प्रयत्नतः शब्दमभिव्यनक्ति किन्त्वभूतप्रादुर्भावमेव विधत्ते, कस्माद् अनुपलब्धिकारणानुपलब्धेः। यत्र हि सतः पदार्थस्य प्रयत्नोऽभिव्यक्तिहेतुस्तत्र तस्य सतः सलिलादेरनुपलब्धिकारणमस्ति मृदादिव्यवधानम्, तदपोहमाचरता प्रयत्नेन तदभिव्यक्तिः सम्पद्यते। शब्दस्य तु न किञ्चिदनुपलब्धिनिबन्धनं व्यवधानादि सम्भवतीति वर्णितमतस्तस्यासत एवात्मलाभनिमित्तमुच्चारणादिप्रयत्नो न सतो व्यक्तिनिमित्तम्। तस्मादनित्यः शब्द इति स्थितम्।
न्यायमञ्जरी :—
%पक्षप्रतिपक्षयोरसिद्धिसाधिका षट्पक्षी%
तदेवमनेन चतुर्विंशतिजात्युदाहरणप्रतिसमाधानोपदेशवर्त्मना शब्दानित्यत्वसाधने परकीयमुपालम्भजातमेवंप्रायमखिलमपाकृतमाम्रसेकपितृतर्पणन्यायेन भवति। भगवता सूत्रकारेण इदमपरमिदानीमुपदिश्यते, चतुर्विंशतावपि जातिषु जातिवादिना प्रयुक्तासु मूलसाधनवादी विस्पष्टानुमानोदन्तपरीक्षणपुरःसरं सत्यमेवोत्तरं यथोपदिष्टमभिदधीत, न तु जातिप्रयोगानुकारिदुरुत्तरालापचापलेन षटपक्षीं प्रवर्तयेत। तस्यां हि प्रस्तुतायामुभयोरपि वादिप्रतिवादिनोरसिद्धिरसद्वादित्वात्।
कथं पुनः षट्पक्षी प्रवर्तत इति तत्पथं दर्शयितुमाह,
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%आम्रसेकपितृतर्पणन्यायेनेति।% जातयोऽप्यवश्यं व्युत्पाद्याः व्युत्पादिताः, परोक्तदूषणाभासानि च सिद्धान्तसारभऊते शब्दानित्यत्वसाधन उद्धर्तव्यान्युद्धतानीति।
न्यायमञ्जरी :—
%प्रतिषेधेऽपि समानो दोषः॥%
(1)स्थापनाहेतुवादिना प्रथमपक्षस्येन स्थापनाहेतुः प्रयुक्तःष अनित्यः शब्दः प्रयत्नानन्तरीयकत्वादिति, (2) ततो जातिवादी द्वितीयपक्षस्थः प्रयत्नकार्यानेकत्वादिति प्रयत्नानन्तरीयकत्वमभिव्यङ्ग्येऽपि शब्दे भवतीति हेतोरनैकान्तिकत्वमित्याह, (3) तदधुना तृतीयपक्षस्थः स्थापनाहेतुवादी यदि यथोपदिष्टमावरणानुपलब्धिक्रममनुस्मृत्य विशेषमुपदर्शयन्ननैकान्तिकतामुद्धरति ततस्तावत्येव पर्यवस्यति कथेति चतुर्थादिपक्षावसरविरहान्नावतरत्येव षट्पक्षी।
यदि तु तं क्रममपहायैव (3) तृतीयपक्षस्थोऽसौ वदति हेतोश्चेदनैकान्तिकत्वमुद्भावयसि अनैकान्तिकत्वादसाधकः स्यादिति, नन्वयं तावकः प्रतिषेधोऽप्यनैकान्तिकः किञ्चित् प्रतिषेधति, किञ्चिन्नेति हेतोः साधकत्वं प्रतिषेधति न स्वरूपमिति। अत एवेत्थं प्रतिषेधस्यानैकान्तिकता सोऽपि हि नाभिव्यक्तिपक्षमेव साधयेत् प्रतिपक्षेऽपि प्रयत्नासाफल्योपपत्तेरुभयत्रापि च विशेषहेतोरनपदेशात्। एवमनैकान्तिकत्वमभिहितवति साधनवादिनि प्रतिषेधवादिनोऽपि वचनावसर इत्यवतरति षट्पक्षी।
(4) स हि चतुर्थपक्षस्थ एवं वदति,
न्यायमञ्जरी :—
%प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद्दोषः॥%
विविधः प्रतिषेधो विप्रतिषेध इहोच्यते न व्याघातः, प्रकृतसङ्गतेरभावात्। योऽयं प्रतिषेधेऽपि समानानैकान्तिकदोष उच्यते स प्रतिषेधप्रतिषेधेऽपि भवत्प्रयुक्ते समानः सोऽपि पूर्ववदनैकान्तिक एवेति। (5) ततः पञ्चमं पक्षमवलम्ब्य मूलसाधनवादी मतानुज्ञामुद्भावयति। स च,
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%विविधः प्रतिषेधो विप्रतिषेध% इति। अनित्यः शब्दः प्रयत्नान्तरीयकत्वादिति स्थानवाद्युक्तः प्रथमः पक्षः, प्रयत्नाकार्यानेकत्वादिति प्रतिषेधवाद्युक्तो द्वितीयः पक्षः, स च प्रतिषेधाख्यस्तस्यास्य प्रतिषेधस्य प्रतिषेधेऽपि समानो दोष इत्ययं तृतीयः पक्षो विप्रतिषेध इत्युच्यते, `वि’ शब्दश्चात्राविवक्षितार्थः। तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः इतिवत्। %सोऽपि पूर्ववदनैकान्तिक एव।% प्रतिषेधस्य साधकत्वं निषेधति %न स्वरूपमि%त्यादिना।
न्यायमञ्जरी :—
%प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानदोषप्रसङ्गो मतानुज्ञा॥%
प्रतिषेधेऽपि समानदोष इति समुद्भावितं दोषमनुद्धृत्य तं प्रतिषेधं सदोषमभ्युपेत्य मदुक्ते प्रतिषेधे विप्रतिषेधे समानदोषप्रसङ्गमापादयतस्ते मतानुज्ञानिग्रहस्थानं भवति। चोरो भवानित्यभियुक्तेन चौर्यमात्मनो निराकरणीयं न तु भवानपि चोर इति परः प्रतिपत्तव्य इति। (6) एवं पञ्चमपक्षस्थे मूलसाधनवादिनि कथितवति परः षष्ठं पक्षमास्थाय पुनरभिधत्ते, यदि स्वपक्षदोषानुद्धरणपुरस्सरपरपक्षदोषोपादानोपनतमतानुज्ञानिग्रहस्थानपात्रमहमादिश्ये, हन्त तर्हि तवापि तदेव निग्रहस्थानमवतरति त्वमप्येवमकार्षीस्तथा हि द्वितीयपक्षस्थेन मया प्रयत्नकार्यानेकत्वादिति यदनैकान्तिकत्वमुद्भावितं तदनुद्धृत्यैव प्रतिषेधेऽपि समानो दोष इति मय्येव प्रतीपमापीपदः। तदेवं त्वत्त ेव शिक्षत्वाहमपि चतुर्थपक्षस्थस्तथैव त्वयि दोषमर्पितवानिति। मम चेद् मतानुज्ञा, प्रथमतरं तवासौ भवेदिति। तदेतदाह,
न्यायमञ्जरी :—
%स्वपक्षतल्लक्षणापेक्षोपपत्त्युपसंहारहेतुनिर्देशे परपक्षदोषाभ्युपगमात् समानो दोषः॥%
स्वपक्षो मूलसाधनवाद्युक्तः प्रयत्नानन्तरीयकत्वादनित्यः शब्द इति (1), तल्लक्षणस्तत्समुत्थानस्तद्विषयः प्रयत्नकार्यानेकत्वादिति प्रतिषेधः (2), तपमेक्षमाणस्तमनुद्धृत्यानुज्ञाय प्रवृत्तः प्रतिषेधेऽपि समानो दोष इति (3), उपपद्यमानः परपक्षे अनैकान्तिकत्वदोषोपसंहारस्तस्य च हेतुनिर्देश इत्ययमनैकान्तिकः प्रतिषेध इति (4), तस्मिन् सति पक्षकथितानैकान्तिकत्वदोषाभ्युपगमात् तदनुद्धरणेन तस्यैव प्रतीपदोषोद्भावनात् समानो मतानुज्ञादोष इति (6) षष्ठः पक्षः।
सेयं षट्पक्षी। तस्यां प्रथमतृतीयपञ्चमाः स्थापनाहेतुवादिनः पक्षाः, द्वितीयचतुर्थषष्ठाः प्रतिषेधवादिनः।
एते च साध्यसाधकतया परीक्ष्यमाणाः पौनरुक्त्यमतानुज्ञादिदोषोपहतत्वादन्यतरस्यापि वादिनः साध्यसिद्धये न प्रकल्पन्ते। तथा हि चतुर्थषष्ठयोः पक्षयोरर्थाविशेषात् पुनरुक्तदोषप्रसङ्गः। चतुर्थे पक्षे परस्य समानदोषत्वमुच्यते षष्ठेऽपि तथैव समानः। तृतीयपञ्चमयोस्तृतीये पक्षे परोक्तं समानदोषत्वमभ्युपगम्यते, पञ्चमेऽपि मतानुज्ञामुद्भावतया तदङ्गीकृतमेव भवति। तृतीयचतुर्थयोश्च परोक्तदोषानुद्धरणान्मतानुज्ञेत्येवं षट्पक्ष्यामुभयोरसिद्धिः। तस्मात् सदुत्तरैर्दोषचिकित्सा साधीयसी नासदुत्तरैः षट्पक्षीप्रसङ्गादिति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%स्वपक्षतल्लक्षणापेक्षोपपत्त्युपसंहार% इति। स्वपक्षलक्षणेऽपेक्षोपपत्तिर्यस्य %प्रतिषेधेऽपि समानो दोष% इति। अस्यानैकान्तिकत्वदोषस्य स्वपक्षेणापेक्षोपपत्तिस्तस्योपसंहारस्तथात्वेनोद्भावनम्। %तस्य च हेतुनिर्देशः, इत्थमनैकान्तिकः प्रतिषेध% इति। इत्थमिति कोऽर्थः ? साधकत्वं प्रतिषेधति न स्वरूपमिति। %षष्ठेऽपि तथैवेत्यतः% परं समानं तृतीयपञ्चमयोरिति सूत्रम्।
न्यायमञ्जरी :—
%असदुत्तरशृङ्खला कुत्र समाप्ता भवेदिति प्रदर्शनम्%
नन्वसदुत्तरकथनेऽपि कथं षट्पक्ष्यामेव विश्रामः शतपक्षी सहस्रपक्षी वा कथं न प्रवर्तते कोऽत्र नियम इति चेत्, उच्यते, इयत्येव निवर्त्यते वचनावकाश इति नानन्तपक्षता सम्भवति। तथा हि पूर्वोत्तरपक्षवादिनौ भवत एव कोऽत्र विचारः। तत्र स्थापनाहेतुवादिना तावत् प्रथमं स्वपक्षसाधनेऽभिहिते दूषणवादिना तत्र दूषणे वर्णिते, तृतीये वचसि वर्तमानः साधनवादी सम्यङ्नीत्योपक्रममाणस्तद्दूषणमुद्धर्तुं शक्नुयान्न वेति तस्यामेव दशायां प्राड्विवाकायते निर्णयः। असदुत्तरोपन्यासे तु तृतीयवचसा तेन कृते दूषणवाद्यपि लब्धावकाशस्तत एव शिक्षित्वा चतुर्थे वचसि वर्तमानस्तत्प्रतीपं योजयति, ततः स्थापनाहेतुवादी प्रतीपयोजनायामफलायां दुरन्तायां समव्ययफलायामशक्यक्रियायाञ्च निरुद्योगः किञ्चिदभिनवं दूषणमुत्प्रेक्ष्य पञ्चमे वचसि स्थितो मतानुज्ञामाह, ततस्तामपि परपक्षमनतिवर्तमानां पश्यन् प्रतिषेधवादी षष्ठे वचसि स्थित्वा तां तत्पक्षे योजयतीत्येवं वृत्ते दूषणान्तरासम्भवात्, प्रतीपयोजने च भग्नरसत्वात् तूष्णीमेवासितुमुचितमिति तावत्येव भवति वचनविरतिर्न शतसहस्रादिपक्षप्रसङ्गः प्रवर्तत इत्यतः षट्पक्षीमेव प्रदर्शितवानाचार्यः। स चान्तेवासिनं बोधयितुमेवमुपादिक्षदनेन पथा प्रवर्तेत भवान् अन्येन मा प्रवर्तिष्टेति।
वाच्यमुत्तरमतो निरवद्यं जातिवादिनमपि प्रति तज्ज्ञैः।
कश्मलोत्तरगिका न तु कार्या पक्षषट्कपरिकल्पनगोष्ठी॥
यादृग् यक्षो बलिरपि तथेत्येवमाधाय बुद्धौ
यस्तु ब्रूयात् कलुषमफलस्तस्य शुद्धोऽपि हेतुः।
षट्पक्षादिप्रसरणपरिम्लानकान्तिर्न बुद्धिं
शक्तः स्वार्थे जनयितुमसावग्रतः प्राश्निकानाम्॥
इतीदं व्याख्यातं निजसरणिसाङ्कर्यरहितं
स्वरूपं जातीनां स्फुटमिह चतुर्विंशतिविधम्।
अमूषां तत्त्वज्ञः परविरचितानां परिहृतौ
स्वयं चोपन्यासे न हि सदसि संमुह्यति नरः॥
न्यायमञ्जरी :—
%निग्रहस्थानानां मूलनिर्देशः%
जात्यनन्तरं निग्रहस्थानोद्देशात् तल्लक्षणप्रतिपादनार्थमाह,
न्यायमञ्जरी :—
%विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम्॥%
विग्रहः पराजयस्तस्य स्थानमाश्रयः कारणमित्यर्थः। किञ्च पराजयनिमित्तं विप्रतिपत्तिरप्रतिपत्तिश्च कुत्सिता विगर्हणीया प्रतिपत्तिर्विप्रतिपत्तिः, साधनाभासे साधनबुद्धिः, दूषणाभासे दूषणबुद्धिः अप्रतिपत्तिस्त्वारम्भविषयेऽनारम्भः, आरम्भस्य विषयः साधने दूषणं दूषणे चोद्धारः, तयोरकरणमप्रतिपत्तिः, द्विधा हि वादी पराजीयते, यथा कर्तव्यतामनारभमाणो विपरीतं वा प्रतिपाद्यमानः। अत एव न कर्मकरणयोर्निग्रहमादिशन्ति। न हि ताभ्यां किञ्चिदपराद्धं स्वविषये प्रयुज्यमानयोः सामर्थ्यानपायात्। कर्ता तु प्रमाद्यन्नप्रयोज्यं प्रयुञ्जानः प्रयोज्यमप्रयुञ्जानो वा निग्रहमर्हति। प्रायेण चातत्त्ववादिनो निगृह्या भवन्ति, तत्त्ववाद्यपि कदाचन जल्पे वितण्डायां वा सम्यक्साधनमप्यपदिश्य प्रतिवादिप्रतिपादितदूषणाभासनिराकरणसरणिमनुगुणामपश्यन् निगृह्यत एव। अत एव भाष्यकृतोक्तं तत्त्ववादिनमतत्त्ववादिनञ्चाभिप्लवन्ते निग्रहस्थानानीति। असमासकरणमनेकनिग्रहस्थानभेदावरोधार्थम्।
अत एवानन्तरमाह,
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
निग्रहस्थानेषु %अत एव कर्मकरणयोर्न निग्रहमादिशन्तीत्य%नेन वार्तिककारं निर्दिशति। स हि परपक्षोऽपि दूष्यत इति पराभ्युपगमं निराकर्तुमाह “एतत् तु न सम्यक्, कर्मणस्तादवस्थ्यात्। न हि दूषणाभिधानेन कर्मणोऽन्यथात्वं भवति यथाभूत एवासौ दूष्यमाणस्तथाभूत एवादूष्यमाण इति न करणस्य विषयान्तरेऽसामर्थ्यात्, साधनमपि प्रतिज्ञादिकं न दूष्यते विषयान्तरेऽसामर्थ्यात् न हि किञ्चित् साधनं यद् विषयान्तरे समर्थं स्यात् सर्व साधनं सविशेषणं विषये समर्थमिति। तस्मादसमर्थयोः कर्मकरणयोरुपादानेन कर्तुर्निग्रहः” इत्यादि।
%तत्त्ववादिनमतत्त्ववादिनं चाभिप्लवन्ते% व्याप्नुवन्त्याक्रामन्ति।
न्यायमञ्जरी :—
%तद्विकल्पाज्जातिनिग्रहस्थानबहुत्वम्॥%
तदिति साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानस्य विप्रतिपत्त्यप्रतिपत्त्योश्च परामर्शः। नानाकल्पो विकल्पः प्रकारभेद इत्यर्थः। साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानप्रकारस्य बहुत्वाज्जातिबहुत्वम्।
न्यायमञ्जरी :—
%निग्रहस्थानविभागः%
तद् द्वाविंशतिधा विभज्य दर्शयति,
न्यायमञ्जरी :—
%प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासो हेत्वन्तरम् अर्थान्तरं निर्थकमविज्ञातार्थमपार्थकम् अप्राप्तकालं न्यूनम् अधिकम् पुनरुक्तम् अननुबाषणम् अज्ञानम् अप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगः अपसिद्धान्तो हेत्वाभासाश्च निग्रहस्थानानि॥%
अत्राननुभाषणम् अज्ञानम्, अप्रतिभा विक्षेपः पर्यनुयाज्योपेक्षणमित्यप्रतिपत्त्या सङ्गृहीतानि, शेषाणि विप्रतिपत्त्या। पुनरुक्तम् अधिकमित्यसमासकरणेन विप्रतिपत्त्यैव वाभिमतम्, असमासक्लिष्टकल्पनया सापि हि कुत्सितैव प्रतिपत्तिर्यत् पुनरुक्तमधिकं वा प्रयुज्यत इति। असङ्कीर्णोदाहरणविवक्षया च द्वाविंशतिभेदसङ्कीर्तनम् अवान्तरभेदैस्तु जातिवदानन्त्यमेव तेषामिति।
न्यायमञ्जरी :—
%धर्मकीर्तिमते निग्रहस्थानद्वयमिति निर्दिश्य तत्खण्डनम्%
अत्र कीर्तिराह, द्वाविंशतिधा निग्रहस्थानानि विभज्यन्ते, तेषाञ्च प्रतिपदमिदानीं विशेषलक्षणानि वर्ण्यन्त इति न मृष्यामहे। कुतः,
असाधनाङ्गवचनमदोषोद्भावनं द्वयोः।
निग्रहस्थानमन्यत्तु न युक्तमिति नेष्यते॥
वादिना सिषाधयिषितपक्षसिद्धये साधनमभिधेयम्, स चेदसाधनाङ्गं ब्रूयान्निगृह्यते। प्रतिवादिनापि वाद्युक्ते साधने दूषणमुद्भावनीयम्, स चेददोषमेव दोषत्वेनोद्भावयेन्निगृह्यते। ते एव द्वयोर्वादिप्रतिवादिनोर्निग्रहस्थाने। अतोऽन्यथा निग्रहकरणमन्याय्यमेव, प्रतिज्ञाहान्यादिषु तत्प्रभेदेषु च प्रतिपदमयुक्ततां दर्शयिष्यति। कतिचिच्चात्र शिशुप्रलापप्रायाणि निग्रहस्थानानि निर्दिष्टानि। तादृंशि शास्त्रे लक्ष्यन्त इति परममप्रतिष्ठानम्।
अत्रोच्यते, शह्क्षेपविवक्षया द्वे एव निग्रहस्थाने इति वयमपि किं नोक्तवन्तो विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानमिति, एतच्च सामान्यलक्षणमखिलभेदसङ्ग्रहक्षमं भवति, न भवदुक्तम्। तथा हि उत्तराप्रतिभानेन वादिप्रतिवादिनोरन्यतरः पराजीयते न वा ? न पराजीयते इति कथमुच्यते ? किं मूक इव जित्वा गच्छतु ? निगृह्यते चेत् किमनेनापराद्धम् ? न साधनाङ्गमुक्तं न दोष उद्भावितः।
अथ प्रसज्यप्रतिषेधेनोद्भावनमादौ व्याख्याय पुनरदोषोद्भावनमावृत्त्या पर्युदासेन वर्ण्यते, तर्हि ते एवैते विप्रतिपत्त्यप्रतिपत्ती उक्ते स्याताम्। दोषानुद्भावनमप्रतिपत्तिः। एवमसाधनाङ्गवचनमपि विकल्पनीयम्। प्रसज्यप्रतिषेधवृत्त्यासाधनाङ्गस्यावचनमिति चेत्, सेयमप्रतिपत्तिः। अतः शब्दान्तरेणाक्षपादपादेभ्य एव शिक्षित्वा तदेव निग्रहस्थानद्वयमनेन श्लोकेन निबद्धं न पुनरभिनवमल्पमपि किञ्चिदुत्प्रेक्षितमिति। न च यथासंख्यनियमेन द्वयोर्द्वे निग्रहस्थाने कल्पनीये; अपि तु यथासम्भवमुभयोरपि यथावसरं तत्तन्निग्रहस्थानमादेष्टव्यम्। द्वाविंशतिभेदत्वञ्च निग्रहस्थानानामसङ्कीर्णोदाहरणविवक्षया कथ्यते न नियमायेत्युक्तमेव। परस्परविसदृशञ्च लक्षणमेषामिदानीमुपदिश्यत एव। तत्रैव चायुक्तत्वमेषां बालिशप्रलापकल्पत्वं पर पराक्रियत एवेत्यलमतिप्रसङ्गेन।
न्यायमञ्जरी :—
%प्रतिज्ञाहानेर्लक्षणम्%
एवं सामान्यलक्षणं विभागञ्चाभिधाय विशेषलक्षणान्याह,
न्यायमञ्जरी :—
%प्रतिदृष्टान्तधर्मानुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः॥%
प्रतिज्ञासिद्धये वादिना साधनेऽभिहिते तत्र प्रतिवादिना च दूषणे उद्भाविते, तृतीये वचसि तु वर्तमानो वादी यदि प्रतिदृष्टान्तधर्मं स्वदृष्टान्तेऽनुजानाति तदस्य प्रतिज्ञा हीयत इति प्रतिज्ञाहानिर्निग्रहस्थानं भवति। तद् यथा अनित्यः शब्दः ऐन्द्रियकत्वाद् घटवदित्युक्ते पर आह सामान्यमैन्द्रियकमपि नित्यं दृष्टमित्यनैकान्तिको हेतुरिति, तत्र साधनवाद्याह सामान्यमैन्द्रियकमपि नित्यं दृष्टमित्यनैकान्तिको हेतुरिति, तत्र साधनवाद्याह सामान्यमैन्द्रियकं नित्यं तर्हि तथैव घटोऽपि नित्योऽस्त्विति। अयमस्य एवं वदतो भ्रमः किल नित्यानित्यपक्षवृत्तिरनैकान्तिकतामेष विजह्यादिति। तदेवमस्य ब्रूवतः प्रतिज्ञाहानिर्भवति। घटस्य हि नित्यत्वे तद्दृष्टान्तबलादेव शब्दोऽपि नित्यः स्यादिति।
तत्र कीर्तिराह, प्रतिज्ञैव तावदसाधनाङ्गवचनमिति तदभिधानं निग्रहस्थानं भवितुमर्हति न तद्धानिः। न च हानिरप्यस्ति। यदि नाम घटस्य दृष्टान्तीकृतस्य प्रतिदृष्टान्तध्रमं नित्यत्वमयमभ्युपैति किमियता शब्दानित्यत्वप्रतिज्ञामवजहाति ? अपि च हेत्वाभासा अपि निग्रहस्थानवर्गे गणिता एव। स चायमनैकान्तिकहेत्वाभासप्रयोगादेव पराजीयते न प्रतिज्ञाहान्येति तस्या विषयान्तरं वक्तव्यम्।
अत्रोच्यते, प्रतिज्ञायास्तावदसाधनाङ्गवचनता नास्तीत्यवयवलक्षणे निर्णीतमेतत्। प्रतिज्ञासिद्ध्यर्थमेव सर्ववादिनां प्रयासः। अनिर्दिष्टा च साधयितुमशक्यैवेति न तद्वचनमसाधनाङ्गवचनम्। लौकिकेष्वपि च ऋणादानादिविवादपदेषु प्रतिज्ञाहानिमेष मुख्यं पराजयकारणमाहुः।
तदाह नारदः,
सारस्तु व्यवहाराणां प्रतिज्ञा समुदाहृता।
तद्धानौ हीयते वादी तरंस्तामुत्तरो भवेदिति॥
प्रतिदृष्टान्तधर्मञ्च स्वदृष्टान्तेऽभ्युपगच्छद् उत्सृजत्येव प्रतिज्ञाम्। नित्यत्वं हि सामान्यवद् घटस्यापि सहते, तद्दृष्टान्तबलेन च तद्धर्मं शब्दे सिषाधयिषतीति नूनमिदानीं नित्यत्वमेव घटधर्मः शब्दे सिद्ध्येदिति कथं तदनित्यत्वप्रतिज्ञा अस्य न हीयते ? यत्तूक्तं हेत्वाभासप्रयोग एव निग्रहनिमित्तं न प्रतिज्ञाहानिरिति, स्यादेतदेवम्, यदि द्वितीये वचसि व्यवस्थितेन प्रतिवादिना व्यभिचारोद्भावनया प्रत्यवस्थितो वादी तावत्येव विरमेत्। स तु तृतीये वचसि वर्तमानस्तदुद्धरणबुद्ध्या तथाविधमभिधत्ते येन प्रतिज्ञां जहाति। अतश्च व्यभिचारपरिहरणलोभाभिहितप्रतिदृष्टान्तधर्माभ्यनुज्ञावचनोपनततदर्थप्रतिज्ञाहानिनिबन्धन एवास्य निग्रहो युक्तो न हेत्वाभासप्रयोगकृत इति। अयमेव मुख्यः प्रतिज्ञाहानेर्विषयः।
न्यायमञ्जरी :—
%प्रतिज्ञान्तरस्य लक्षणम्%
%प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात् तदर्थनिर्देशः प्रतिज्ञान्तरम्॥%
प्रतिज्ञातार्थप्रतिषेधे परेण कृते तत्रैव धर्मिणि धर्मान्तरं साधनीयमभिदधतो वादिनः प्रतिज्ञान्तरं नाम निग्रहस्थानं भवति। अनित्यः शब्द ऐन्द्रियकत्वाद् इत्युक्ते पूर्ववत् सामान्येन व्यभिचारोद्भावनया प्रत्यवस्थित आह, सामान्यमैन्द्रियकं यन्नित्यं तद्युक्तं तद्धि सर्वगतम्, असर्वगतस्तु शब्द इति प्रतिज्ञां कुर्वन् प्रतिज्ञान्तरेण निगृहीतो भवति।
अत्राह, नेदमप्रस्तुतप्रतिज्ञान्तरकरणम्, अपि तु परोद्भावितव्यभिचारनिवारणं विशेषणोपादानमेतत्। एतदुक्तं भवति, असर्वगतत्वे सत्यैन्द्रियकत्वादनित्यः शब्द इति। तदिदमसर्वगतत्वं प्रतिज्ञासिद्ध्यर्थमुपात्तं कथं निग्रहस्थानम् ? यो हि मीमांसकं प्रत्यनित्यः शब्दः कृतकत्वादित्युक्तवांस्तेन कृतकत्वं सिद्धमित्युपलब्धे कृतकत्वे स प्रतिज्ञान्तरं कुर्वाणो निगृह्येत, यस्तु पूर्वप्रतिज्ञामवधीर्य तदनौपयिकमकस्मादेव प्रतिज्ञान्तरमारभेत तदा उन्मत्त एव भवेत्। न चोन्मत्तप्रलापानां शास्त्रे लक्षणकरणं युक्तम्। स्पष्टे निग्रहहेतौ हेत्वाभासाभिदाने सम्भवति किमिति प्रतिज्ञान्तरं निग्रहस्थानमुच्यत इति।
अत्रोच्यते, प्रतिज्ञासिद्धये हेतुदृष्टान्तौ प्रयोक्तव्यौ न पुनः प्रतिज्ञान्तरं करणीयमिति स्थितिः, इह च यो हेतुरनेनोपात्तस्तस्मिन् परेणानैकान्तिकीकृते सति न तत्परिहारप्रकारमनुगुणमयमास्थितवान्, अपि त्वसर्वगतत्वप्रतिज्ञामन्यामधिरूढः।
ननु विशेषणमेतदनैकान्तिकत्वपरिहारार्थं न प्रतिज्ञान्तरमित्युक्तम्, न, सिद्धत्वात्। असिद्धं हि विशेषणं भवति। नित्यत्ववादिनञ्च प्रति शब्दस्यासर्वगतत्ववादिनञ्च प्रति शभ्दस्यासर्वगतत्वमसिद्धम्। साध्यते चेत्, तर्हि प्रतिज्ञान्तरमेवेदं हेत्वाद्यवयववैलक्षण्यात् प्रतिज्ञालक्षणस्य च साध्यनिर्देशस्योपपत्तेः। अनैकान्तिकत्वपरिहृतये हि हेतुविशेषणं सिद्धञ्च वाच्यं न तु धर्मिविशेषणं साध्यञ्चेति। अन्यतरासिद्धे तु हेत्वाभासे तत्समर्थनं प्रक्रमानुरूपमेवेति न प्रतिज्ञान्तरं निग्रहस्थानं भवति। इह तु अनैकान्तिकत्वपरिहाराय यतमानो मार्गमनुगुणमपश्यन् स्खलित इव निगृह्यते। न च हेतूदाहरणादिप्रयोगनिपुणमतेरपि भ्रमादेवंविधमभिधानं न सम्भवति। न च प्रतिज्ञामात्रेण सिद्धिमिच्छन्नेवं ब्रवीति, अपि तु व्यभिचारं परिजिहीर्षन्निति।
न चायमुन्मत्तप्रलाप एव, प्रस्तुतानुगुण्यबुद्ध्या प्रयोगात्। अपि चानित्यः शब्दश्चाक्षुषत्वादित्युभयासिद्धो नाम हेत्वाभासो भवद्भिरपि शास्त्रे लक्षित एव, स उन्मत्तप्रलापो न भवति। यथोदाहृतं प्रतिज्ञान्तरमुन्मत्तप्रलाप इत्यपूर्व एष भिक्षोः स्वदर्शनरागः परदर्शनद्वेषो वा। को हि नाम शिशुरपि शब्दे चाक्षुषतां ब्रूयात्, इदं सम्भवत्येवाभिधानं केवलं हेतुविशेषणे सिद्धे च वक्तव्ये भ्रमाद् धर्मिविशेषणं साध्यं वा अयमुक्तवानिति, निमित्तान्तरमिदमस्य निग्रहे निरूपितम्। द्वितीय एव तु वचसि कथाविरतौ हेत्वाभासप्रयोगादेव निग्रहमाप्नुयादिति प्रतिज्ञाहानिप्रस्ताव एवोक्तम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%साध्यते चेत् तर्हि प्रतिज्ञान्तरमेवेति।% कथं ज्ञायत इत्याह %हेत्वाद्यवयववैलक्षण्यादिति।%
न्यायमञ्जरी :—
%प्रतिज्ञाविरोधस्य लक्षणम्%
%प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः॥%
यत्र प्रतिज्ञा हेतुना विरुध्यते हेतुर्वा प्रतिज्ञया स प्रतिज्ञाविरोधो नाम निग्रहस्थानं भवति। गुणव्यतिरिक्तं द्रव्यमिति प्रतिज्ञा रूपादिभ्योऽर्थान्तरस्यानुपलब्धेरिति हेतुःष सोऽयं प्रतिज्ञाहेत्वोर्विरोधः। यदि गुणव्यतिरिक्तं द्रव्यं न, तर्हि रूपादिभ्योऽर्थान्तरस्यानुपलब्धिः, अथ रूपादिभ्योऽर्थान्तरस्यानुपलब्धिर्न तर्हि गुणव्यतिरिक्तं द्रव्यम्, रूपादिभिश्चार्थान्तरस्यानुपलब्धिरिति व्याहतम्।
अत्राह, नेदं प्रतिज्ञाहेत्वोर्विरोधोदाहरणं भवितुमर्हति, हेतोरसम्भवात्। सम्भवे हि हेतुः प्रतिज्ञां विरुणद्धि तया वा विरुध्यते। इह तूपलब्धिलक्षणप्राप्तस्यानुपलब्धिर्न समस्त्येव रूपादिभ्योऽर्थान्तरस्य पृथक्त्वेनोपलब्धियोग्यत्वानुपपत्तेः। सम्भवन्नपि चैवंविधे विषये प्रतिज्ञाविरोधे हेतुर्न द्वयीं दोषजातिमतिवर्तते विरुद्धत्वमसिद्धत्वं वा। गुणव्यतिरिक्तद्रव्यवादिनो हि भेदेनाग्रहणगतार्थत्वान्न पृथग् वक्तव्यमिदं निग्रहस्थानम्। यदन्यदन्यैरुदाहरणमभाणि नित्यः शब्दः सर्वस्यानित्यत्वादिति तदप्यसाधु, वैधर्म्यदृष्टान्तस्यानेन प्रकारेण कुशिक्षितैरभिधानात्। तथा हि सर्वशब्दोऽत्र सावयववचन इति निरवयवत्वं हेतुर्विवक्षितः, नित्यः शब्दो निरवयवत्वात् सावयवस्यानित्यत्वादिति। सोऽयमपि शिक्षितवैधर्म्यदृष्टान्तप्रदर्शनताप्रक्रमैर्विपर्ययेण वैधर्म्यदृष्टान्त एव कथितः सर्वस्यानित्यत्वादिति। तदुक्तं स हि दृष्टान्त एवोक्तो वैधर्म्येण सुशिक्षितैरिति। तस्मान्नेदमपि प्रतिज्ञाहेतुविहोधोदाहरणमिति।
अत्रोच्यते, यदुक्तं हेतोरसम्भवान्नेदं निग्रहस्थानेम्, तदचारु, पञ्चम्यन्तनिर्दिष्टस्य हेतोः प्रदर्शितत्वात्। निरवद्यहेत्वभावात्तु यदि तदसम्भव उच्यते तर्हि हेत्वाभासव्याकरणमप्यकरणीयं भवेत्, पुरुषबुद्धिप्रमादनिबन्धनहेत्वाभासप्रयोगवत्तु तथाविधमप्यभिधानं सम्भवत्येव।
यत् पुनरभ्यधायि सम्भवन्नपि हेतुरयमसिद्धविरुद्धयोरन्यतरो भवेन्न दूषणान्तरम् इति। तत्र ब्रूमः, सत्यमेतत्, किन्तु हेतुस्वरूपनिरूपणावसरे सपदि तद्गतदोषादोषदर्शनाद् विरुद्धता तस्याभिधीयते। यथा भवद्भिर्नित्यः शब्दः कृतकत्वादिति विरुद्धहेतोर्वर्ण्यते, क्वचित् सिद्धसाध्यत्वदृष्टान्तहीनतादिदोषान्तरसम्भवेऽपि तदवधीरणया विरुद्धत्वमेव दर्शितम्, यथा वा हेत्वाभासलक्षणे कथितमस्माभिरनित्यः शब्दश्चाक्षुषत्वादित्यस्यानैकान्तिकत्वदोषे सत्यपि प्रथमतरमसिद्धतैव हृदयपथमवतरति तेनासिद्धोऽयमुच्यते न सव्यभिचार इति, एवमिहापि हेतुगुणदोषविचारे क्रियमाणे विरुद्धादिहेत्वाभासतैव नास्य कथ्यते। यदा तु परार्थानुमानवाक्यस्य पञ्चावयवस्य, परमतेन वा त्र्यवयवस्य परस्परान्वितपदार्थसमुदायात्मा वाक्यार्थश्चिन्त्यते तत्रेतरेतरव्याहतार्थवादिनोः प्रतिज्ञाहेतुपदयोरसंसर्गात् तद्विरोध एव झटिति मनसि विपरिवर्तते इति स एव निग्रहनिमित्तं भवितुमर्हति, यत इतरेतरविरोधिनमनन्वितमर्थमभिवदति वाक्येऽप्रतिपत्तिर्विप्रतिपत्तिर्वा भवेदित्यद एव निग्रहस्थानम्। अपि च साध्यविपर्ययसाधक एव विरुद्धहेतुरुच्यते यः प्रतिज्ञामेव बाधते। इह तु प्रतिज्ञया हेतुर्वाध्यते प्रतिज्ञा वा हेतुनेति विकल्प्यमानत्वान्निग्रहस्थानान्तरमेवेदम्। इत्थमस्यैवोदाहरणस्योपपत्तेरुदाहरणान्तरनिरूपणं वृथाटाट्यैव। भाट्टैस्तु भवदीयं निरालम्बनसाधनं प्रतिज्ञाविरोधोदाहरणं वर्णितम्, निरालम्बनाः सर्वे प्रत्ययाः प्रत्ययत्वादिति। यतः प्रत्ययत्वहेतुग्राहकज्ञानस्य सालम्बनत्वे तेनैव प्रतिज्ञा विरुध्यते तन्निरालम्बनत्वे तु हेत्वभाव एव स्यादिति। तदुक्तम्,
विस्पष्टश्चाक्षपादोक्तो विरोधो हेतुसाध्ययोः।
यमदृष्ट्वा परैरुक्तमदूषणमिदं किल॥ इति।
तत् सर्वथा सुलभोदाहरणमिदं प्रतिज्ञाहेतुविरोधाख्यं निग्रहस्थानमिदं स्थितम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%इह तूपलब्धिलक्षणप्राप्तस्यानुपलब्धिर्न सम्भवतीति।% अयं भावःष नानुपलब्धिमात्रादसत्त्वं सिद्ध्यति, अपि तूपलब्धिलक्षमप्राप्तेऽनुपलब्धेः। न चात्र रूपादिपृथग्भूतस्योपलब्धिलक्षणप्राप्तत्वमस्तीति हेतोरभावः, निर्विशेषणाया अनुपलब्धेरभावसाधने सामर्थ्याभावाद् हेतोरभाव इत्यर्थः। %वैधर्म्यदृष्टान्तस्यानेन प्रकारेण कुशिक्षितैरभिदानादिति।% अयं भावः, नित्यः शब्दः सर्वस्यानित्यत्वादिति। यदि शब्दस्य नित्यत्वे साध्ये सर्वस्यानित्यत्वं हेतुरुच्येत, स्यात् प्रतिज्ञाहेतुविरोधः। सर्वश्चेदनित्यः कथं शब्दो नित्यः ? तस्यापि सर्वमध्येऽन्तर्भावादिति। यावता तु नित्यः शब्दोऽमूर्तत्वादिति हेतुस्तस्याभिमतः सर्वस्यानित्यत्वादिति वैधर्म्यदृष्टान्तः सर्वशब्दं सावयवपर्यायमाश्रित्य, यत् पुनः सावयवं तदनित्यमिति। एवं च प्रतिज्ञा-हेतुविरोधस्य किमायातमिति। अथ यदि वैधर्म्यदृष्टान्तो विवक्षितः स्यात् साध्याभावे साधनव्यावृत्तिप्रदर्शनेनानित्यस्य सर्वत्वादिति ब्रूयात्। नैवम्। एवं दृष्टान्तानुभणनमस्य, न त्वेतावता हेतुपदत्वमस्य सिद्ध्यति। %स हि दृष्टान्त एवोक्त% इत्यस्य पूर्वमर्धम्,
“हेतुप्रतिज्ञाव्याघाते प्रतिज्ञादोष इत्यसत्” इति।
%सिद्धसाध्यत्वदृष्टान्तहीनतादिदोषान्तरसम्भवेऽपि% इति। नित्यः शब्दः कृतकत्वादिति साङ्ख्यं मीमांसकं च प्रति सिद्धसाध्यत्वम्, कृतकस्य नित्यत्वेन व्याप्तस्यान्यत्रानुपलम्भाच्च दृष्टान्तहीनता।
न्यायमञ्जरी :—
%प्रतिज्ञासंन्यासस्य लक्षणम्%
%पक्षप्रतिषेधे प्रतिज्ञार्थापनयनं प्रतिज्ञासन्न्यासः॥%
पक्षसाधने परेण दूषिते तदुद्धरणाशक्त्या प्रतिज्ञामेव निह्नुवानस्य प्रतिज्ञासन्न्यासो नाम निग्रहस्थानं भवति। अनित्यः शब्द ऐन्द्रियकत्वादित्युक्ते तत्रैव सामान्येनानैकान्तिकतायामुट्टङ्कितायां प्रतिब्रवीति क एवमाह नित्यः शब्द इति ? सोऽयमेवं ब्रुवन् प्रतिज्ञासन्न्यासात् पराजीयते।
अत्राह, अतिस्थूलः खल्वयं प्रमादः। को हि नाम प्रतिवादिप्राश्निकसन्निधाने प्रतिज्ञां कृत्वा तदैव तेषामेवाभ्रष्टसंस्काराणां पुरतोऽपस्मारकाद्यनुपप्लुतमतिस्तामेव निह्नुवीत। अपि च द्यूतपराजितपणरहित एव कितववदासीनः प्रतिज्ञामजहदपि हेतावनैकान्तिके किमसौ न निगृह्यते ? न हि प्रतिज्ञायास्त्यागात्यागौ तदीयौ निग्रहानिग्रहयोः प्रयोजकौ, अपि तु हेतुगुणदोषावेव। स चायं साधनव्यभिचारादेवासिद्धपक्षः पराजीयत इत्यलं सन्न्यासेनेति।
अत्रोच्यते, परोद्भावितहेत्वनैकान्तिकत्वदूषणोद्धरणरणरणकतरलितमतेर्भवेदप्ययं प्रमादः। एवं ह्यसौ वदति, न मयोक्तं संयोगवियोगव्यङ्ग्यः शब्दो न भवति न त्वनित्य इति। अयमाशयोऽस्यैवं वदतः किल संयोगविभागानभिव्यङ्ग्यत्वे मया पक्षीकृते सामान्येन व्यभिचारो न भविष्यतीति। तदपि हि तादृशमेव स्वाश्रयव्यङ्ग्यत्वादिति मुह्यतो नातिस्थूलममुमीदृशं प्रमादम् प्रतिपन्नस्य भवत्येव निग्रहः। अप्रमादिनोस्तु निग्रहो नाम नास्त्येव कश्चिदिह लोके परलोके वा। यत्तु तदीययोः प्रतिज्ञात्यागात्यागयोरप्रयोजकत्वादनैकान्तिकत्वेनैवासौ निगृह्यते, स्यादेतदेवं यदि व्यभिचारोद्भावनया समनन्तरमसौ तृष्णीमेवासीत। तथाविधन्तु ब्रुवाणस्तस्यैव पराजयहेतोः सन्निकृष्टत्वात् तैरेव निगृहीतो भवति नानैकान्तिकप्रयोगेणेति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%यमदृष्ट्वा परैरुक्तमदूषणमिदं किलेति।% `गुणव्यतिरिक्तं द्रव्यम्’ इत्यादि यद् भाष्यकारेण प्रतिज्ञाहेतुविरोध्याख्यं दूषणं निग्रहस्थानमुक्तं न तैरदूषणतया समर्थितम्। इदं तु स्पष्टमुदाहरणम्, अस्यादूषणत्वं नैवोद्भावयितुं शक्यत इत्यर्थः। यं चादृष्ट्वा दिङ्नागेन `स हि दृष्टान्त एवोक्तो वैधर्म्येण सुशिक्षितैः’ इति वदता नित्यः शब्दः सर्वस्यानित्यत्वादिति प्रतिज्ञाहेतुविरोध्याख्यमिदं दूषणं न भवतीत्युक्तम्।
न्यायमञ्जरी :—
%हेत्वन्तरस्य लक्षणम्%
%अविशेषोक्ते हेतौ प्रतिषिद्धं विशेषमिच्छतो हेत्वन्तरम्॥%
अविशेषाभिहिते हेतौ प्रतिषिद्धे तद्विशेषणमभिदधतो हेत्वन्तरं नाम निग्रहस्थानं भवति। यथा सांख्यस्येत्थं वदतः, एकप्रकृतीदं व्यक्तं परिमाणाद् घटादिवत्, विविधञ्च परिमाणं विकारेषु दृष्टमियत्तालक्षणमङ्कुरादेः फलान्तरस्य चतुरश्रिता च पटादेः मूत्पूर्वकस्य। तदेतत् परिमितं निराकारजातमेकप्रकृतिकं दृष्टमित्यतः सर्वमिदमेकप्रकृति भवितुमर्हति, या च सैका प्रकृतिस्तत् प्रधानमिति। अस्य हेतोर्व्यभिचारो नानाप्रकृतीनामपि परिमाणदर्शनादिति। तत्परिजिहीर्षया विशेषणमाह समन्वयादिति। सुखदुःखमोहसमन्वितं हि सर्वं व्यक्तं परिमितं दृश्यत इति, तस्य प्रकृत्यन्तररूपसमन्वयाभावादेकप्रकृतित्वमिति। तदिदं हेत्वन्तरं निग्रहस्थानं प्रागुक्तस्य विशेषस्य हेतोः स्वयमेवाहेतुत्वमर्षणादिति।
अत्राह, किमयं दग्धो दह्यते मृतो वा मार्यते। अनैकान्तिकहेतूपन्यासेनैव खल्वयं तपस्वी निगृहीतः, असाधनाङ्गवचनादिति किं हेत्वन्तराख्यनिग्रहस्थानान्तरोदीरणेनेति।
अत्रोच्यते, युक्तमेव तद् द्वितीये वचसि कथासमाप्तौ यथा तु भवानाह। यदा तु व्यभिचारनिराकरणाय विशेषणमपरमधिकमधुनाभिधातुं प्रवृत्तस्तदा तदुपादानादेव निगृह्यत इति पिष्टपेषणं सम्प्रत्येवायमिष्यते। पुरुषशक्तिपरीक्षात्मके च जल्पे निग्रहस्थानमिदम्, वादे तु विशुद्धाशयतया वस्तुनि परीक्ष्यमाणे विशेषणान्तरोपादानेऽपि तद्विचारः प्रस्तोतव्यो न निग्रहः कार्य इत्यभियुक्ताः।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%प्रकृत्यन्तररूपसमन्वयाभावादिति।% सुखदुःखमोहात्मिकायाः प्रधानलक्षणायाः प्रकृतेरन्यत् प्रकृत्यन्तरम्। विशेषणमाह समन्वयादिति। एकप्रकृतिसमन्वये सति विकाराणां परिमाणादिति सविशेषणो हेतुः।
न्यायमञ्जरी :—
%अर्थान्तरस्य लक्षणम्%
%प्रकृतादर्थादप्रतिसम्बद्धमर्थान्तरम्॥%
प्रकृतादर्थादर्थान्तरं तदनौपयिकमभिदधतोऽर्थान्तरं नाम निग्रहस्थानं भवति। यथा कश्चिद्वैयाकरणविटः स्फोटात्मानं शब्दं चेतसि निधाय तन्नित्यत्वसिद्धये नित्यः शब्दो निरवयवत्वादित्यभिधित्सुरेव दुरितकर्मादिभिरनैकान्तिकतामाशङ्कमानोऽर्थान्तरं नाम निग्रहस्थानं जिगमिषुस्तत्रैव वाक्यशेषच्छाययोत्तिष्ठति नित्यः शब्दो निरवयवत्वादिति। वयं पाणिनीयाः प्रपन्ना इति ये भगवतः पाणिनेश्छात्राः। कः पुनर्भगवान् पाणिनिरिति ?
येनाक्षरसमाम्नायमधिगम्य महेश्वरात्।
कृत्स्नं व्याकरणं प्रोक्तमाचार्यो नः स पाणिनिः॥
कः पुनर्महेश्वरोः ? यतोऽक्षरसमाम्नायमधिजगाम पाणिनिरिति
अस्त्युद्भटजटाजूटकोटिग्रथितचन्द्रमाः।
विश्वस्थितिलयोत्पादहेतुरेको महेश्वरः॥
अपि च,
अचिन्त्यवेशाभरणस्य तत्त्वतो यदृच्छया यस्य निशासु ताण्डवत्।
स भस्मभक्तीनि बिभर्ति मौलिना कृताञ्जलिः पादरजांसि वासवः॥
कीदृशं पुनस्ताण्डवं तनोति खण्डपरशुरिति ?
इत्थं चारीक्रमो यस्मिन्नित्थञ्च करवर्तनाः।
इत्थं यत्र घटीच्छेदा दात्रपादास्तथेदृशाः॥
इत्येकैक्मुपदेशयन्नुत्थाय नृत्यति, तदेतदर्थान्तरं निग्रहस्थानमसाधनाङ्गवचनमिति कीर्तिनाप्यनुमोदितम्। द्वयोरपि च वादिप्रतिवादिनोः प्रकृताननु गुणमभिदधतोर्भवत्यदो निग्रहस्थानम्। यथाक्रममेकस्य साधनमनवद्यमपश्यतो द्वितीयस्य दूषणमिति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%कीर्तिनाऽप्यनुमोदितम्।% स ह्याह “कश्चिदाह नास्त्यात्मेति वयं बौद्धा ब्रूमः। के बौद्धाः ? ये बुद्धस्य भगवतः शासनमभ्युपेताः। को बुद्धो भगवान् ? यस्य शासने भदन्तः अश्वघोषः प्रव्रजितः। कः पुनर्भदन्तः अश्वघोषः ? यस्य राष्ट्रपालं नाम नाटकम्। कीदृशं च राष्ट्रपालं नाम नाटकम् इति, प्रसङ्गं कृत्वा नान्द्यन्ते ततः प्रविशति सूत्रधार इत्यादिकं पठेन्नृत्येच्च।”
न्यायमञ्जरी :—
%निरर्थकस्य लक्षणम्%
%वर्णक्रमनिर्देशवन्निरर्थकम्॥%
अभिधेयरहितवर्णानुपूर्वीप्रयोगमात्रं निरर्थकं नाम निग्रहस्थान भवति। अनित्यः शब्दः कचटतपानां गजडदबत्वाद् घझढधभवदित्येवंप्रकारम्। इदमपि वादिप्रतिवादिनोः प्रकृताननुगुणमभिदधतोर्भवत्यदो निग्रहस्थानम्। यथाक्रमं साधनं दूषणञ्च यथोचितमभिधातुमजानतोः पूर्वदुभयोरपि निग्रहस्थानम्।
अत्राह, सोऽयमुन्मत्तप्रलाप एव शास्त्रे लक्षयितुमुपक्रान्तः, न ह्यनुन्मत्तानामीदृंश्यक्षराणि मुखान्निर्गच्छन्ति। ईदृशाञ्च निर्देशे कपोलवादित्रकक्ष्याभिताडनादीन्यपि कामं शास्त्रे निर्दिश्यन्ताम्। अपि च वर्णक्रमनिर्देशवदिति मतुपा निर्देश एष सूत्रे वदिति वतिप्रयोगो वा, मतुप्पक्षे सर्वं वर्णक्रमनिर्देशयुक्तं निग्रहस्थानं भवेदिति हस्तसंज्ञादिभिरिदानीमुद्ग्राहणिकाः प्रस्तूयेरन्। अथानर्थकर्रमनिर्देशयुक्तमिति व्याख्यायते तथापि नियमानुपपत्तिः। न ह्यर्थरहितवर्णोच्चारणमेव प्रकृतानुपयोगान्निरर्थकमेव, वर्णक्रमनिर्देशस्यापि च क्वचित् प्रकरणे सार्थकता दृश्यत एव प्रत्याहारवत्। वतिपक्षे तु भवति दिक्प्रदर्शनमेतत्, किन्त्वर्थान्तरेणैव गतार्थत्वात् पृथङ्न वक्तव्यम्।
अत्रोच्यते, मतुपा वतिना वाभिधेयशून्यत्वमात्रमत्र विवक्षितम्। अभिधेयशून्यं वचो निरर्थकमित्युक्तमिति भवति। एष एव चार्तान्तरादस्य विशेषः। तत्राभिधेयस्य भावेऽपि प्रकृतानुपयोगः, इह त्वभिधेयमेव नास्तीति। यत्र क्वचित् प्रकरणवशेन वर्णक्रमनिर्देशस्यापि सार्थकता तदिहोदाहरणम्, उदाहरणं यदि स्फुटं पृच्छसि, न कुप्यसि चेत्, तद् भवदीयं सर्वमेव वचनमिहोदाहरणम्, सौगतदर्शने शब्दानामर्थासंस्पर्शित्वात्, स्वलक्षणे तेषामप्रवृत्तेः, अपोहस्य चातितुच्छत्वात् सर्वं तदभिधानं निरर्थकम्। अत एव चोन्मत्तप्रलापतः शाक्यभिक्षवोऽपि परिशुद्धबोधिनः परलोकयाथार्थ्यदर्शिनः शौचाचारव्यवहारेष्वबाह्या महान्तो विद्वांसः काममर्थशून्यमपि कथयन्तो नोन्मत्ता भवितुमर्हन्ति। एवमन्यस्यापि प्रज्ञाप्रमादात् कचटतपादि व्यावहरतो नोन्मत्तता भविष्यति। यच्चोक्तमीदृशां गणने का परिनिष्ठेति, तत् परिहृतमसकृदसङ्कीर्णोदाहरणविवक्षया द्वाविंशतिभेदत्वमाश्रितमिति। कपोलवादनादीनि पुनरकथास्वभावत्वादचिन्त्यान्येव। यस्य चास्मिन् कथाप्रसङ्गे गण्डवादित्रादि चेतसि परिस्फुरति तस्यान्यदतिजघन्यमपि हृदयमवतरेदित्यलमसम्बद्धगोष्ठ्येति।
न्यायमञ्जरी :—
%अविज्ञातार्थस्य लक्षणम्%
%पर्षत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थम्॥%
यत् साधनवाक्यं दूषणवाक्यं वा त्रिरभिहितं पर्षदा प्रतिवादिना च न विज्ञायते क्लिष्टशब्दप्रयोगमिति तीव्रमुच्चारितमित्येवंप्रकारमविज्ञातार्थं नाम निग्रहस्थानं भवति। असामर्थ्यसंवरणाय च धूर्तैरिदमाश्रीयते।
अत्राह, अर्थासम्प्रत्ययस्य समानत्वात् कोऽस्य निरर्थकाद् भेदः ? अथ प्रकृतोपयोगयोग्यमर्थमसौ वदति तदा पर्षत्प्रतिवादिनोरमेधाविता कामं भवेन्न तु विदुषो वक्तुं विवदमानस्य पराजयो भवितुमर्हति। किं कृतश्चैष त्रिरुच्चारणनियमः ? किं राजाज्ञया उत वाक्येनेति न विद्मः।
अत्रोच्यते, निरर्थके सर्वेण सर्वमर्थशून्यता, इह तु भवन्नर्थो नावगम्यते, द्रुतोच्चारणादिव्यतिकरवशादिति कथमविशेषः ? तत्र च कल्प्यते नूनमसामर्थ्यमात्मीयं संवरीतुमना एवमभिधत्ते। न हि समर्थो विद्वान् विस्पष्टं न वक्तीति। त्रित्वनियमोऽपि न वेदवचननरपतिशासननिबन्धनः; किन्तु वस्तुस्थित्युपनत एव। यतः सकृद् द्विरप्यभिहितमप्यनवधानादिना न गृहीतमिति सम्भाव्यते, त्रिस्तु यदुक्तं न ज्ञायते तत्र वक्तुरेव जाड्यम्, अनेकप्राश्निकादिसमाजे कथितमवश्यं केनाप्यवगम्यते, सर्वैरनवगमात्तु वक्तैव निगृह्यते। चतुर्धा पञ्चकृत्वो वाभिधाने त्विष्यमाणे निरवधिता अभिधानस्य प्रसज्यत इति युक्तस्त्रिर्वचननियम इति।
न्यायमञ्जरी :—
%अपार्थकस्य लक्षणम्%
%पौर्वापर्यादियोगादप्रतिसम्बद्धार्थमपार्थकम्॥%
पूर्वापरासङ्गतपदकदम्बकोच्चारणादप्रतिष्ठितवाक्यार्थमपार्थकं नाम निग्रहस्थानं भवति। तद्यथा `दश दाडिमानि, षडपूपाः, कुण्डमजाजिनम्, पललखण्डः, अर्द्धोरुकमेतत् कुमार्याः स्फैय्यकृतस्य पिता प्रतिशीनः’ इति।
अत्राह, असम्बद्धवाक्यमसम्बद्धं प्रकरणञ्च निग्रहस्थानान्तरं कस्मान्नोक्तम् ? एतेनैव गतार्थत्वादिति चेत्, यद्येवमनर्थकेनैव गतार्थत्वादपार्थकमपि पृथङ्न वक्तव्यम्।
अत्रोच्यते, निरर्थकेन पदार्थेन वाक्यार्थः केवलं वर्णा एव शुष्का उच्चार्यन्ते, अर्थान्तरेऽपि समन्वितपदार्थे व्यवस्थापितवाक्यार्थमप्रकृतं तूच्यते, इह तु पदार्थसम्प्रत्ययेऽपि तदन्वयासम्भवेन वाक्यार्थानवसाय इति स्पष्टो भेदः। प्रकृतविवादास्पदीभूते वस्तुनि को वा विशेष इति चेत्, उक्तमत्र सङ्क्षेपविवक्षायां द्वे एव निग्रहस्थाने, असङ्कीर्णोदाहरणविवक्षया तु द्वाविंशतिभेदत्वम्, प्रकृतवस्तुसिद्धिस्तु द्वाविंशतावपि तुल्यैव।
यत्तु असम्बद्धं वाक्यमसम्बद्धं प्रकरणञ्च पृथगुपसंख्येयमिति, तन्न, असम्बद्धपदार्थेनैव तत्सङ्ग्रहात्, यदि त्वसम्बद्धवाक्यमसंबद्धप्रकरणञ्चावश्यं वक्तव्यं तदुक्तमेव भवदीयं शास्त्रम्। तथा हि वैभाषिकाणामस्ति बाह्यार्थः, स च प्रत्यक्षः। सौत्रान्तिकानां च सन्नप्यनुमेयः। योगाचाराणां साकारं ज्ञानमेव न बाह्यार्थः स च प्रत्यक्षः। माध्यमिकानामाकारशून्यं स्वच्छं ज्ञानम्। एवमितरेतरानन्वितवाक्यप्रकरणमिदमशेषमेव शाक्यशास्त्रम्। आह च, `दशदाडिमवाक्यस्य बौद्धशास्त्रस्य चाप्यबद्धस्य प्रतिष्ठा केन लभ्यते’।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%प्रकृते विवादास्पदीभूते वस्तुनि को विशेष% इति। यथा निरर्थकस्य प्रकृतासाधकत्वं तथास्यापीत्यर्थः।
%माध्यमकानामाकारशून्यं स्वच्छज्ञानमात्रमेवेति।% ज्ञाने स्थूलस्याकारस्य प्रतिभासनात् तस्य वृत्तिविकल्पादिना असत्त्वाज्ज्ञानस्यैव परमार्थत्वं नाकारस्येति।
न्यायमञ्जरी :—
%अप्राप्तकालस्य लक्षणम्%
%अवयवविपर्यासवचनमप्राप्तकालम्॥%
प्रतिज्ञाहेतूदाहरणोपनयनिगमनवचनं क्रममुल्लङ्घ्यावयविपर्यासेन प्रयुज्यमानमप्राप्तकालं नाम निग्रहस्थानं भवति।
अत्राह, न हि पदार्थानां वाक्येषु नियतः क्रमः कश्चिदस्ति, नियतक्रमका हि वर्णाः पदतामापद्यन्त इति युक्तं तदन्तरेण तदर्थानवगमात्। न हि `टघ’ इत्युक्ते घटार्थावगतिर्भवति। वाक्येषु तु देवदत्त गामभ्याज दण्डेन, दण्डेन शुक्लां गामभ्याज देवदत्तेति क्रमान्तरेणापि तथैवार्थप्रतिपत्तेः किं क्रमेण ? अनुमानवाक्ये तु पञ्चावयवा ित्येतदेव तावत् प्रथममसाम्प्रतम्, प्रतिज्ञाद्यवयवानामसाधनाङ्गवचनत्वात्। तत्र तेषां पञ्चावयवानामपि प्रयोगः, प्रयोगेऽपि च क्रमो विवक्षितः, तदुत्लङ्घनं निग्रहस्थानमिति महती मूर्खप्रक्रियेति।
अत्रोच्यते, वाक्यान्तरेषु क्रमापेक्षा भवतु मा वा भूद् नानेन नः प्रयोजनम्। अनुमानवाक्ये त्वार्थः क्रमो बलादापतति स्वप्रतिपत्त्यनुसारेण परप्रतिपत्तेरुत्पादनात्। स्वप्रतिपत्तौ च धर्मिदर्शनतद्गतहेतुधर्मावधारणप्रतिबन्धस्मरणपरामर्शज्ञानसाध्यनिश्चयानां क्रमेण दर्शनात् परं प्रमाणतयैव तदभिधानं कर्तव्यमिति सविस्तरमवयवलक्षणे निर्णीतमेतत्। असाधनाङ्गवचनत्वमपि प्रतिज्ञाद्यवयवानां तत्रैव निरस्तम्। अतः क्रमस्येह युक्तियुक्तत्वात्तदतिक्रमो भवत्येव निग्रहस्थानम्।
न्यायमञ्जरी :—
%न्यूनस्य लक्षणम्%
%हीनमन्यतमेनाप्यवयवेन न्यूनम्॥%
पञ्चावयवे वाक्ये प्रयोक्तव्ये स्थिते तदन्यतमेनाप्यवयवेन हीनं प्रयुञ्जानस्य न्यूनं नाम निग्रहस्थानं भवति।
अत्राह, प्रतिज्ञाद्यवयवजातमसाधनाङ्गवचनमित्यतस्तदनभिदधतो न निग्रहःष प्रत्युत तद्वतो निग्रहो युक्त इति।
अत्रोच्यते, अनन्तरमेवैतत् परिहृतम्ष विस्तरतश्चावयवलक्षणे। तथा हि श्रोतुराकाङ्क्षानिवृत्तयेऽनुमानवाक्यं प्रयुज्यते। प्रथमं तदाकाङ्क्षाविषयः साघ्यधर्मविशिष्टो धर्मी प्रदर्श्यते, ततः कारणाकाङ्क्षया हेतुवचनमभिधीयते, क्वास्य प्रतिबन्धो दृष्ट इति बुभुत्सायामुदाहरणमुपपाद्यते, इत्थमेष सिद्धप्रतिबन्धो हेतुर्धर्मिणि भवेन्नवेति शङ्कायामुपनयवचनमुच्चार्यते, तदनन्तरं सर्वावयवानामेकत्रोपसंहाराय निगमनं प्रयुज्यत इत्यन्यतमस्याप्रयोगान्निग्रहार्हता भवत्येवेत्यलमत्रैव वस्तुनि पदे पदे कलहप्रस्तावेनेति।
न्यायमञ्जरी :—
%अधिकस्य लक्षणम्%
%हेतूदाहरणाधिकमधिकम्॥%
एकेनैव हेतुना दृष्टान्तेन वा प्रतिपादितेऽर्थे हेत्वन्तरं दृष्टान्तान्तरं वा प्रयुञ्जानस्याधिकं नाम निग्रहस्थानं भवति। एतच्च वादे तावद् वीतरागकथात्मके वस्तुनि निर्णयफले नेष्यत एव। जल्पेऽपि नियमाद्युपगमनेन वदतो वादिन इदं निग्रहस्थानम्। यो हि न मया साधनमधिकाभिधेयमुदाहरणं वेति नियमस्योद्ग्राहयति स एव तथा निगृह्यते नान्य इति। एतच्च कीर्तिनाप्येवं कथितं प्रपञ्चकथायान्तु न दोष इति।
अपर आह, नियमाभ्युपगमेऽपि नायं दोषः, प्रतिपत्तिद्रढिम्ने तदभिधानादिति। तदयुक्तमभ्युपगतनियमत्यागादसौ निग्रहार्हो भवेत्। कश्चायं प्रतिपत्तिद्रढिमा ? प्रथमप्रयुक्तस्य हि हेतोरदृढप्रतिपत्तिकारिणो हेतुत्वमेव न स्यात्। उत्पन्नस्य प्रत्ययस्य पुनरुत्पादनं न युक्तम्, तन्न। पूर्वहेतोरद्रढिमेत्युत्तरो द्रढिम्ने तस्मान्नियमाभ्युपगमेऽधिकाभिधानं दोष एव। अपरं मतम् अकृतनियमस्यापि दोष एव। प्रपञ्चकथायामप्येकेन हेतुना दृष्टान्तेन वा कृते निर्णये द्वितीयस्य वैयर्थ्यम्, निर्णीतस्य निर्णयानुपपत्तेःष अनिर्णयकारिणश्च प्रथमस्य हेतोः प्रयोगानर्हत्वादिति।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%प्रपञ्चकथायां न दोष% इति। यत्र प्रपञ्चेन कथा प्रस्तुता तत्राधिक्यमदोषमिति वदता। यत्र तु नियमेनैक एव हेतुः प्रयोक्तव्य इति परिभाष्यकथा, तत्र दोष एवेत्युक्तं भवति। तथा च स आह `प्रपञ्चकथायां न कश्चिद् दोषो नियमाभावात्’ इति।
न्यायमञ्जरी :—
%पुनर्वचनस्य लक्षणम्%
%शब्दार्थयोः पुनर्वचनं पुनर्वचनमन्यत्रानुवादात्॥%
अर्थादापन्नस्य स्वशब्देन पुनर्वचनम्, शब्दार्थस्य वाभिहितस्य पुनरभिधानं पुनरुक्तं नाम निग्रहस्थानं भवति, अनुवादं वर्ज्जयित्वा। शभ्दपुनरुक्तं तावद् यत्र पूर्वोच्चारित एव शब्दः पुनरुच्चार्यते, यथा नित्यः शब्दो नित्यः शब्द इति। अर्थपुनरुक्तन्तु यत्र सोऽर्थः पूर्वमन्येन शब्देनोक्तः पर्यायान्तरेण पुनरुच्यते, यथा नित्यः शब्दोऽनिरोधधर्मको ध्वनिरिति, यद्यपि च शब्दपुनरुक्तेऽप्यर्थपौनरुक्त्यमस्त्येव, तथापि शब्दपूर्वकत्वादर्थप्रत्यभिज्ञायाः प्रथमतरं शब्दप्रत्यभिज्ञानात् तत्पौनरुक्त्यमेव तदुच्यते। जात्यपेक्षश्च शब्दपौनरुक्त्यव्यवहारो न व्यक्त्यपेक्षः, क्षणभिङ्गित्वाद् वर्णानां पुनः प्रयोगासम्भवात्। अनुवादे तु पौनरुक्त्यमदोषो यथा `हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम्’ इति। अर्थादापन्नस्यापि स्वशब्देन पुनर्वचनं भवत्येव पुनरुक्तम्, यथा असत्सु मेघेषु वृष्टिर्न भवतीत्युक्ते अर्थादापद्यते सत्सु भवतीति किमर्थं स्वकण्ठेन पुनरुच्यते ? अर्थप्रतीत्यर्थो हि शब्दप्रयोगः प्रतीतेऽर्थे किं तेनेति। एतच्च नियमाभ्युपगमे निग्रहस्थानं वेदितव्यमकृतनियमस्य तु नातीव महानयमपराधः।
अत्राह, नार्थपुनरुक्तादन्यच्छब्दपौनरुक्त्यमुपपद्यते, शब्दसाम्येऽप्यर्थभेददर्शनात्, स्मरत गिरिशं गिरीशो नगरी यस्यासमस्मरद्वेषस्य, गौरी यदीयस्य मुदा न गरीयस्या समस्मरद्वेषस्य’ इति। तस्मादर्थत एव पौनरुक्त्यं न शब्दतः। अपि च विस्तरकथासु कदाचनाश्रवणशङ्कया पुनरभिधानं नाम कियान् प्रमादः ? अर्थादापन्नस्य च स्वशब्देन पुनर्वचनं यदि निग्रहस्थानमुच्यते तर्हि प्रतिज्ञावचनमेव प्रथमं निग्रहस्थानम्। अधिकपुनरुक्तयोर्वा विशेष इति वक्तव्यम्। यादृशं तादृशञ्च विशेषलेशमाश्रित्य पृथगभिधाने निग्रहस्थानभेदपरिगणनमशक्यक्रियं स्यात्। अनुवादश्च य उच्यते `हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम्’ इति, तत्तु प्रतिज्ञैव तावदसाध्वी तस्याः पुनर्वचनं साधु भविष्यतीति केयं कथा ?
अत्रोच्यते, यजुक्तमर्थपुनरुक्तादन्यन्न शब्दपुनरुक्तमिति तदेवमेव, पृथङ्निर्देशस्त्वनया विवक्षया। यो हि शक्त्यतिशयचिख्यापयिषया सकृत् प्रयोक्तव्यमिति प्रतिज्ञाय जल्पं प्रवर्तयति, स शब्दपुनरुक्तेनापि निगृह्यत इति। नियम्यवादिनश्च निग्रहात् ततोऽन्यस्य सम्यगश्रवणशङ्कया पुनर्वदतोऽपि न दोषः। अर्थाक्षिप्तकथनमपि कृतनियमस्यैव दोषो नान्यस्येत्यत एव न वादे निग्रहस्थानमिदम्, अपि तु जल्पितण्डयोरेव। विजिगीषुकथयोस्तयोश्च सप्रयोजनत्वं कथान्तरत्वञ्च पुरा समर्थितमेव।
यत्तु प्रतिज्ञोच्चारणमर्थाक्षिप्तत्वात् तदनुवादश्च निगमनवचनमफलतरमिति, तदवयवलक्षणे विस्तरेण समाहितम्। अधिकपुनरुक्तयोस्त्वयं विस्पष्ट एव विशेषः। अन्यं हेतुमन्यं वा दृष्टान्तं तत्रैव साध्येऽभिदधदधिकवादी भवति। तमेव हेतुं दृष्टान्तं वा पुनर्वदन् पुनरुक्तवादीति। यत्त्वेवंविधविशेषाश्रयणे परिगणनमघटमानमिति तदवान्तरविशेषविवक्षयैव, असङ्कीर्णोदाहरणदर्शनाय द्वाविंशतिनिर्देश इत्युक्तम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%जात्यपेक्षश्च शब्दपौनरुक्त्यव्यवहार% इति। यज्जातीयः प्रयुक्तस्तज्जातीयस्यैव पुनः प्रयोगेण तस्यैवेति। %अनुवादे तु पौनरुक्त्यमदोषः।% अर्थविशेषोपपत्तेरिति शेषः। तमेव दर्शयितुमाह %हेत्वपदेशादित्यादिना।%
%स्मरत गिरिशं गिरीशो नगरीति।% गिरिं स्वाश्रयमुपभोगेन श्यति तनूकरोतीति गिरिशः शर्वः, तं स्मरत ध्यायत। कीदृशम् ? यस्य गिरीशो नगरी, गिरीणां पर्वतानामीशो हिमवान् नगरी स्थानं यस्य इत्यर्थः। कीदृशस्य सतः ? सातत्यस्थानमाह, असमस्मरद्वेषस्य असमः अतुल्यः अनन्यसाधारणः स्मरं कामं प्रति द्वेषो यस्य तादृस्य,…यदीयस्य वेषस्य गरीयस्या गुरुतरया मुदा हर्षेण संस्मृतवानित्यर्थः।
न्यायमञ्जरी :—
%अननुभाषणस्य लक्षणम्%
%विज्ञातस्य पर्षदा त्रिरभिहितस्याप्रत्युच्चारणमननुभाषणम्॥%
पर्षदा विदितस्य वादिना त्रिरुच्चारितस्यापि यदप्रत्युच्चारणम्, तदननुभाषणं नाम निग्रहस्थानं भवति। अप्रत्युच्चारयन् किमाश्रयं दूषणमभिधीयते।
ननु यद्यननुभाष्यापि तत्रोत्तरं ब्रूयात् किमिति निगृह्यते ? न च योऽनुभाषितुमसमर्थः स उत्तरमपि दातुमक्षमो भवति, विचित्रत्वात् पुरुषशक्तीनाम्। नैतदेवम्, अननुभाषणे तदुत्तरविषयापरिज्ञानात् क्वोत्तरं प्रयुज्येत ? प्रयुक्तं वा कथमवधार्यते ? न चैवं ब्रूमो यावत् किञ्चिद्वादिना सविकारमभिधीयते तदखिलमखिन्नानतिरिक्तमनुज्झितक्रमकमेकं प्रति वाग्रमी तथैवानुभाषेतेति। यस्तु समस्तानुभाषणं तथा कुर्यादपि नाम तेन स्वकौशलमेव केवलमुपदर्शितं भवति मेधावित्वम्, न त्वेवमकुर्वन्नसौ प्रत्यवेयादिति। स्तोकस्तोकमनुभाषमाणस्तथैव च क्रमेण दूषयन्न निग्रहमाप्नुयादिति।
अत्राह, यदि वादी स्वपक्षसाधनविवरणवर्त्मना बहुतरमपरमप्रकृतमर्थमुपक्षिपेत् तत् किं प्रतिवादिना सर्वमनुभाषणीयम् ? हेतुमात्रं त्वनूद्य दूषणमुद्भावयतो नास्य निग्रहो युक्तः ? दूषणविषयन्तु हेतुमात्रमपि योऽनुभाषितुमकौशलः स उत्तरविषयापरिज्ञानादुत्तरमपि प्रतिपत्तुमसमर्थ एवेत्यप्रतिभया निगृह्यतां किमननुभाषणेन ? अपि च त्रिरभिहितस्येति केयं परिभाषा ? यथा च वादिना परावबोधार्थं वाक्यं प्रयुक्तं परोपद्रवार्थं वा तत्र परावबोधार्थे वाक्ये परावबोध एवाभिधानावधिर्न द्विस्त्रिर्वा नियमः, यावत्कृत्वः प्रयुक्ते वाक्ये परस्यावबोधो जायते तावत्कृत्वः प्रयोक्तव्यम्। परोपद्रवार्थ तु वाक्योच्चारणमक्षत एव धर्मः, प्राश्निकान् यथा तथा सङ्केतेनापि बोधयित्वा दुःश्लिष्टशब्दप्रयोगाद्याडम्बरविरचनयाप्यान्ध्यमुत्पाद्य परानुपरुध्येतेति महत् कश्मलमेतत्, न चेदृशं शास्त्रे व्युत्पादनार्हम्। तस्माद् बहुकृत्वोऽप्यभिधाय प्रतिवादी बोधयितव्यो न तु द्विरुच्चारितमप्रत्युच्चरन्निग्रहीतव्य इति।
अत्रोच्यते, न खलु सकृदेव सकलमपरविरचितवचनसन्दर्भानुभाषणमविचलितक्रमकमस्माभिरपि कर्तव्यतयोपदिष्टम् अपि तु यथोचितदूषणविषयानुभाषणमात्रमेव।
यस्तु स्तोकमप्यनुभाषितुमप्रगल्भस्तस्योत्तरप्रतिभानमपि नास्तीति यदुच्यते, तदसम्यक्, अन्यदननुभाषणमन्यदुत्तराप्रतिभानम्। कस्यचिदशेषमनुभाषितवतो न मुच्यतेऽनेनोत्तराप्रतिभावनम्। उत्तराप्रतिभानमनन्तरं वक्ष्यते।
यत्तु त्रिरुच्चारणपरिभाषा कुतस्त्येति विकल्पितम्, तदविज्ञातार्थनाम्नि निग्रहस्थाने प्रतिविहितम्। वीतरागकथात्मके वादे शिष्टादिभिः सह क्रियमाणे काममस्तु परावबोधावधि वाक्योच्चारणम्, जल्पे तु विजिगीषुकथायां पुरुषशक्तिपरीक्षणादवश्यमुच्चारणनियम आश्रयणीयः। तत्र सकृद् वा द्विर्वाभिहितस्याग्रहणमनवधानादिनापि सम्भवन्न निग्रहाय कल्पते, त्रिरभिहितस्य तु सर्वैरग्रहणे वक्तुरेवापराधः। अन्यैर्गृहीतस्य प्रतिवादिना अग्रहणे तस्य निग्रहः। वारत्रयादप्यूर्ध्वमभिदाने त्वाश्रीयमाणे जल्पादौ कथासमाप्तिरेव न स्यात्, छात्रशाला ह्यसौ भवेन्नोद्ग्राहणिकं तदिति।
न्यायमञ्जरी :—
%अज्ञानस्य लक्षणम्%
%अविज्ञातञ्चाज्ञानम्॥%
परिषदा विज्ञातस्यापि वादिवाक्यस्य प्रतिवादिना यदविज्ञानं तदज्ञानं नाम निग्रहस्थानं भवति। अविदितोत्तरविषयो हि क्वोत्तरं ब्रूयादिति।
अत्राह, अज्ञानमप्रतिभेति नानयोर्विशेषं पश्यामः।
अत्रोच्यते, भिन्नविषयत्वाददोषः। उत्तरविषयाप्रतिपत्तिरज्ञानम्, उत्तराप्रतिपत्तिस्त्वप्रतिभेति।
ननूत्तरविषयं यो न जानाति स उत्तरमपि न जानात्येव, मैवम्, उत्तरविषयं जानन्नपि कश्चिदुत्तरं न जानातीति लोकदृष्टमेतत्। एवं तर्हि अननुभाषणेन गतार्थमज्ञानम् अज्ञाते हि परकीये वाक्यार्थे तदनुभाषणे सामर्थ्याभावदर्शनात्। सन्ति हि केचिद् येऽनुभाषितुमशक्नुवन्तः पत्रिकादिलिखितं तदावेदयन्तीति, एवं त्रयाणामपि च न पौनरुक्त्यम्। उत्तरविषयाप्रतिपत्तिरज्ञानम्, प्रतिपत्तावपि तदप्रत्युच्चारणमननुबाषणम्, अनुभाषितेऽप्युत्तराप्रतिपत्तिरप्रतिभेति।
ननु यद्यज्ञानसाम्येऽपि विषयभेदमाश्रित्य निग्रहस्थाननानात्वमित्थमभिधीयते तर्ह्यज्ञानप्रकारवैचित्र्याद् भेदान्तराण्यपि वक्तव्यानीति। उक्तमत्र सारसङ्ग्रहविवक्षया, द्वे एव निग्रहस्थाने विप्रतिपत्तिरप्रतिपत्तिश्चेति। इतरेतरविसदृशोदाहरणदिक्प्रदर्शनाय द्वाविंशतिभेदत्वमुच्यते, अवान्तरविशेषैस्तु तदानन्त्यमभ्युपगम्यत एव। तथा च द्वाविंशतिवर्गे हेत्वाभासाश्चेति पठितम्, ते च स्वरूपेणैव तावत् पञ्च `सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतकाला हेत्वाभासाः’ इति, अवान्तरभेदाश्च तेषामतिबहवः सन्त्येव। इह त्वेकमेव तन्निग्रहस्थानमादिष्टम् `हेत्वाभासाश्च यथोक्ताः’ इति। तस्मादित्थं समासव्यासवर्णनादलं पदे पदे पर्यनुयोगेनेति।
न्यायमञ्जरी :—
%अप्रतिभाया लक्षणम्%
%उत्तरस्याप्रतिपत्तिरप्रतिभा॥%
परपक्षे गृहीतेऽपि तस्मिन्नुत्तराप्रतिभानमप्रतिभा नाम प्रतिवादिनो निग्रहस्थानं भवति। अज्ञानादिभ्यो भिन्नता अस्य वर्णितैव। कीर्तिरपि चैतदनुमन्यत एव निग्रहस्थानम्। ननूत्तरमप्रतिपद्यमानः सदसि प्रतिवादी कथमासीत यत् किञ्चिद् विकत्थमानः। तद्यथा,
हृत्पुण्डरीकविकसत्सकलानवद्यविद्यावदातवदनः क्व जनोऽस्मदादिः।
क्वायं बटुः कतिपयाक्षरलेशलिप्तजिह्वान्वितः कथमनेन सहाभिध्मः॥
दानार्द्रगन्धगजकुम्भकपाटभेदिभीमस्फुरन्नखशिकाशिखरः क्व सिंहः।
क्वामी समीरणविधूतपुराणपर्णपातोद्भवद्भयविलोलदृशः कुरङ्गाः॥
इत्यादि यद्वा तद्वा प्रलपन्नास्ते।
न्यायमञ्जरी :—
%विक्षेपस्य लक्षणम्%
%कार्यव्यासङ्गात् कथाविच्छेदो विक्षेपः॥%
उद्ग्राहणिकामुपक्रम्य वा तद् ग्राहयितव्यं मयेति प्रतिश्रुत्य वाभिमुखं प्रतिवादिनि सन्निहितेषु प्राश्निकेषु कार्यव्यासङ्गं व्यपदिशति इदं मे करणीयमपहीयते गच्छामि इत्यभिधाय कथां विच्छिनत्ति यः स विक्षेपेण पराजीयते। अन्यतरनिग्रहान्ता हि कथा भवति। स चेत्थं कथां कुर्वन्नात्मनैवात्मानं निगृह्णाति, प्रतिश्यायेन मे कण्ठोपरोध उदपादि। पदमपि वक्तुं न युज्यते। जननी मे जीवितं जहाति स्म तां श्मशानभुवं प्रापय्य वह्निसात्करोमीति।
अत्राह, यदि तावत् परमार्थत एव मातृमरणादिकार्यमस्योपस्थितं तत् किमिति तपस्वी पराजीयते ? उद्ग्राहणिकाजितो मा भूदिति किमसौ मृतां मातरमपि मा धाक्षीदिति महत् सुभाषितमिति। पीनसापरुद्धस्थानकरणो वाचमुदीरयतु, अथासामर्थ्यस्थगनाय वितथमपि कथयति तथाविधमसौ कार्यव्यासङ्गं तर्हि सत्यं निगृह्यते न तु विक्षेपेण, किन्तु अन्येनैव। वादी तावत् कर्तव्यव्याजव्यपदेशादर्थान्तरगमनादिना निगृह्यते, प्रतिवादी त्वप्रतिभयैवेति, अतिप्रसङ्गश्चैवंप्रकाराणां निर्देशे भवेदिति।
अत्रोच्यते कथामुपक्रम्य प्रतिज्ञां वा हेतुमभिधाय तद्विवरणसरणिमिषमवलम्ब्य किञ्चिदर्थान्तरमुपन्यस्यति यत् तदर्थान्तरमुदाहृतमादावेव। इह तु कथापूर्वरङ्गे तत्तुल्यता भवति ? अप्रतिभयापि श्रुतपूर्वपक्षः पराजीयते। इह तु पूर्वपक्षमेव न शृणोति वा न करोति वा प्रथममेव पलायत इति महान् विशेषः। अतिप्रसङ्गस्त्वसकृत् पराकृतः। यत्तु हेत्वाभासेष्वन्तर्भावमस्य कीर्तिरकीर्तयत् तदतीव सुभाषितम्। क्व हेत्वाभासः, क्व कार्यव्यासङ्गः। संप्रधारणैव रमणीयेयम्, अहेतोर्हेतुवदाभासनं कीर्तिना दृष्टमिति परमं नः कुतूहलम्।
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%अतिप्रसङ्गश्चैवंप्रायाणां निर्देशे भवेदिति।% असम्बद्धप्रतिपत्तिरूपत्वादेते अप्रतिपत्तावन्तर्भवन्ति। पृथक् त्वेवंप्रायाणां निर्देशे क्रियमाणे नेयत्तानिर्देशः क्रियेतेत्यव्यवस्था। %किमस्य% कार्यव्यासङ्गस्य।
%अहेतोर्हेतुवदाभासनं कीर्तिना दृष्टमिति।% ननु धर्मकीर्तिनापि किं निरनुबन्धनमेव कथाविक्षेपस्य हेत्वाभासत्वमुक्तम् ?, अस्ति तस्याभिप्रायः। स हि प्रकृतसाधनासम्बन्धप्रतीते हेत्वाभासतां मन्यते। प्रकृतस्य साध्यस्य साधने यस्य सामर्थ्यं नास्ति तस्य सर्वस्य हेत्वाभासतेति हि तत्पक्षः। तथा चाह,
पक्षधर्मस्तदंशेन व्याप्तो हेतुस्त्रिधैव सः।
अविनाभावनियमाद् हेत्वाभासास्ततोऽपरे॥
न्यायमञ्जरी :—
%मतानुज्ञाया लक्षणम्%
%स्वपक्षे दोषाभ्युपगमात् परपक्षे दोषप्रसङ्गो मतानुज्ञा॥%
स्वपक्षे परापादितदोषमनुद्धृत्याभ्युपगम्य परपक्षे तमेवापादयतः परमतानुज्ञा नाम निग्रहस्थानं भवति। यथा चौरो भवान् पुरुषत्वात् प्रसिद्धचौरवदित्युक्ते सत्याह भवानपि चोरः पुरुषत्वादिति। सोऽयमेवं वदन्नात्मनः परापादितं दोषमभ्युपगतवानिति मतानुज्ञया निगृह्यते।
अत्राह, अनैकान्तिके हेतौ परेणोक्ते तदुद्भावनमनेन प्रकारेण प्रतिवादी करोतीति किमिति निगृह्यते ? वाद्येव हेत्वाभासप्रयोगान्निग्राह्य इति।
अत्रोच्यते, उक्तमादावेव स्वपक्षे दोषमनुद्धृत्येति। एवं हि तेन वक्तव्यमनैकान्तिकोऽयं हेतुरचौरेऽपि पुरुषत्वदर्शनादिति। एवं हि स दोष उद्धृतो भवति। एवं त्वनभिधाय भवानपि चौरः पुरुषत्वादिति वतन्ननुजानात्येव परमतम् अतोऽनैकान्तिकत्वे वक्तव्ये तदुद्भावनानुक्रममवधीर्य प्रसङ्गमापादयन्निग्राहार्हो भवत्येवेति। वादिनश्चानैकान्तिकहेतुप्रयोगेऽपि तदनुद्भावनान्न पराजयः। प्रतिवादिन एव हीदं सन्निकृष्टं निग्रहस्थानमिति।
न्यायमञ्जरी :—
%पर्यनुयोज्योपेक्षणस्य लक्षणम्%
%निग्रहस्थानप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणम्॥%
पर्यनुयोज्यो नाम निग्रहोपपत्त्या चोदनीयः, इदं ते निग्रहस्थानमुपनतम् अतो निगृहीतोऽसीत्येवं वचनीयः, तं य उपेक्षते नानुयुङ्क्ते स पर्यनुयुज्योपेक्षणान्निगृह्यते।
अत्राह, कः कस्येदं निग्रहस्थानमापादयति, किं पर्यनुयोज्य उत तदुपेक्षकः ? उपेक्षकस्तावदस्य पर्यनुयोज्यतां न जानाति जानन् वा कथमेनमुपेक्षेत। उपेक्ष्य वा किमात्मन एव निग्रहस्थानमुद्भावयन्नेवमाचष्टामेष पर्यनुयोज्योऽपि मयोपेक्षित इति निगृहीतोऽस्मि। पर्यनुयोज्योऽपि कथमात्मीयमवद्यम् प्रकाशयेदिदं मे दूषणं तच्च भवता नोद्भावितमतो भवान् जित इति। स खल्वेवमभिदधमेध्यं पाणौ निधाय परं कलङ्कयितुकामः परं कलङ्कयन्नेवात्मकलङ्कमनुभवत्येवेति, अपि च नेदं निग्रहस्थानान्तरमपदिश्यते किन्त्वप्रतिभैवेति। तथा हि यदि तावदुत्तरपाक्षिकः पूर्वपाक्षिकं साधनाभासमप्याचक्षाणमुपेक्षेत, तत्र दूषणं नोद्भावयेत्, तदुत्तराप्रतिपत्त्या स निगृह्यते, न पर्यनुयोज्योपेक्षणेन। वस्तुतस्तु द्वयोरपि तत्र जयपराजयनिर्धारणमनुपपन्नमेकस्य साधनाभासवादित्वादितरस्य च तदुत्तराप्रतिभानात्। अथ पूर्वपाक्षिकं दूषणाभासवादिनं दोषप्राप्तमुत्तरपाक्षिको न निगृह्णाति तथा दूषणाभासवादित्वादितरस्य च तदनुद्भावनादिति।
अत्रोच्यते, न, अप्रतिभायाः सम्यक्साधनविषयत्वात्। सम्यक्साधने च प्रयुक्ते तदुत्तरस्याप्रतिपत्तिरप्रतिभा भवति, साधनाभासे तु प्रयुक्ते तदाभासतानुद्भावनात् पर्यनुयोज्योपेक्षणं भवति। अत्र हि साधनाभासवादी पर्यनुयोज्य एवेति विशेषः। यत्तु वस्तुवृत्तेन न कस्यचिज्जयः पराजयो वेति, तदेवमेव, किन्तु जल्पे पुरुषशक्तिपरीक्षायामिदं निग्रहस्थानमुच्यते। तदुद्भावयिता तु यद्विकल्पितस्तत्राप्युच्यते, पूर्वपाक्षिकेण साधनाभासे प्रयुक्ते उत्तरपाक्षिकेण तस्मिंस्तथात्वेनानुद्भाविते प्राश्निकानामपृष्टानां वक्तुमवसराभावात् स एव साधनाभासवादी कदाचिद् वैयात्यादेवं ब्रूयान्मया अस्य शक्तिं जिज्ञासमानेन साधनाभासप्रयोगः कृतः, एष तु मूर्खस्तं न जानातीति तदा कथं न निगृह्यते, एतेन दूषणाभासवाद्यपि व्याख्यातः। अथ वोभयाभ्यर्थिताः सभापतिनियुक्ता वा प्राश्निकास्तथा कियन्तो निगृह्णन्त्येव पर्यनुयोज्योपेक्षिणम्। साधनाभासवादिनो हि धूर्ततया तदभिधानं सम्यक्साधनमसाधनादर्थसंशयाद् वा सम्भवति उत्तरपाक्षिकस्य उत्तरानुद्भावनं मोहादेवेति स एव पराजीयते।
न्यायमञ्जरी :—
%निरनुयोज्यानुयोगस्य लक्षणम्%
%अनिग्रहस्थाने निग्रहस्थानाभियोगो निरनुयोज्यानुयोगः॥%
अनुज्झितयथोचितक्रममुपपन्नवादिनमप्रमादिनमनिग्रहार्हमपि निगृहीतोऽसीति यो ब्रूयात् स एवाभूतदोषोद्भावनान्निगृह्यते।
अत्राह, यदि तावदुत्तरपाक्षिकः पूर्वपाक्षिकमदुष्टसाधनमभूतैरेव दोषैरभियुङ्क्ते, तथा सति भूतदोषोद्भावनस्योत्तरस्याप्रतिपत्तेरप्रतिभयैव स निगृह्यतां किं निरनुयोज्यानुयोगाख्यन्यूनतानिग्रहस्थानकथनेन, भूतदोषाभियोगपक्षे तु पूर्वपाक्षिक एव साधनाभासप्रयोगात् पराजीयते, अनुयोज्यः खल्वसौ न निरनुयोज्यानुयोगस्य विषयो भवितुमर्हति।
अत्रोच्यते, अहो नु खल्वयं तपस्वी पर्युदासस्य प्रसज्यप्रतिषेधस्य च विशेषमपश्यन्नतिमात्रं मुह्यति भूतदोषाप्रतिभानमन्यदन्यच्चाभूतदोषप्रतिभानम्। एकत्राप्रतिपत्तिरितरत्र विपरीतप्रतिपत्तिः। तत्र भूतदोषाप्रतिपत्तिरप्रतिभा, अभूतदोषप्रतिपत्तिरननुयोज्यानुयोगः। अपि च असाधनाङ्गवचनमदोषोद्भावनञ्च यद् भवता निग्रहस्थानमाख्यातं तत्र प्रसज्यप्रतिषेध एव केवल आश्रीयमाणे हेत्वाभासा अपि च निग्रहस्थाने भवेयुः। साधनाङ्गस्यानभिधानं मौर्ख्यमेव केवलं निग्रहस्थानं भवेत्। साधनाङ्गवचनमदोषोद्भावनमपि पर्युदासव्याख्यानार्हं भवत्येव। ततश्च भूतदोषानुद्भावनमप्रतिभा अभूतदोषोद्भावनञ्च निरनुयोज्यानुयोगः।
अथाभूतदोषोद्भावनेऽपि भूतदोषाप्रतिभानमस्त्येवेति तदेवास्तु निग्रहस्थानमित्युच्यते, तर्हि मूकत्वमेवैकं निग्रहस्थानं स्यादसाधनाङ्गवचनेऽप्येवं वक्तुं शक्यत्वादित्युक्तमेव।
न्यायमञ्जरी :—
%अपसिद्धान्तस्य लक्षणम्%
%सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङ्गोऽपसिद्धान्तः॥%
यः कञ्चन प्रथमं सिद्धान्तमभ्युपगम्य कथामुपक्रमते कथाप्रसङ्गाच्च सिषादयिषितार्थसमर्थने रभसेन दूषणोद्धरणाश्रद्धया वा सिद्धान्तविरुद्धमभिधत्ते सोऽपसिद्धान्तेन पराजीयते। तद्यथा सांख्यः प्रतिवादिनि सन्निधाने `नासतो विद्यते भावो नाभावो विद्यते सतः’ इति स्वसिद्धान्तं प्रथमं प्रतिज्ञाय प्रधानसिद्धये साधनप्रयोगं करोति। व्यक्तं विकारजातमेकप्रकृति समन्वयदर्शनात्, मृदन्विता हि मृद्विकाराः कुण्डपिठरशरावप्रभृतय एकप्रकृतिका दृष्टाः, एवमस्यापि गवाश्वादिविकारजातस्य सुखदुःखमोहान्वयदर्शनात् तदात्मकैकप्रकृतिप्रभवत्वेन भवितव्यम्। एवमुक्तवानसौ नैयायिकेनानुयुज्यते, अथ का प्रकृतिर्नाम का च विकृतिरिति ? अविदितप्रकृतिविकृतिस्वरूपो हि कथं विकृतीनामेकप्रकृतित्वमेकत्वं जानीयादिति। एवमनुयुक्तः कापिल आह, यस्यावस्थितस्य धर्मान्तरनिवृत्तौ धर्मान्तरं प्रवर्तते, सा प्रकृतिः, यत् तद्धर्मान्तरं प्रवर्तते सा विकृतिरिति। सोऽयमेवं वदन् प्रागभ्युपगतसदसन्निरोधप्रभवाभावसिद्धान्तविरुद्धाभिधानादपसिद्धान्तेन निगृह्यते। यदि पूर्वधर्मनिरोधे धर्मान्तरप्रादुर्भावस्तदा `नासतो विद्यते भावो नाभावो विद्यते सतः’ इति स्वसिद्धान्तो हीयते। अथ सिद्धान्तो न त्यज्यते तर्हि प्रकृतिविकारानिश्चयाद्धेत्वसिद्धौ साध्याभावः प्रसज्यत इति।
अत्राह, हेतुप्रयोगं कृतवति कापिले नैयायिकस्तदसिद्धतोद्भावनया प्रत्यवतिष्ठताम्, प्रकृतिविकृतिस्वरूपप्रश्नस्य कोऽवसरः ? तदिदमर्थान्तरगमनमस्य भवेदेवं पृच्छतः। अर्थान्तरगमनं स्वग्रन्थे निग्रहस्थानं लिख्यते। अथ चाधुना तेनैव व्यवह्रियत इति कोऽयं नयः ? यदि तु सांख्यमतं निराचिकीर्षितं तदसिद्धतैव हेतोरुद्भाव्यतां प्रकृत्यन्वयस्य विकारेषु सम्भवादिति। विकारा हि प्रवृत्तिनिवृत्तिधर्मकाः। न चैवंप्रकारमव्यक्तधर्ममव्यक्तान्वये हि विकाराणां प्रवृत्तिनिवृत्त्यात्मकत्वं हीयेतेत्येवमसिद्धत्वाद्धेतोर्हेत्वाभासप्रयोगादेव सांख्यो निगृहीत इति न निग्रहस्थानान्तरमपसिद्धान्त इति।
अत्रोच्यते, सत्यम्। असिद्धो भवत्वयं कापिलकल्पितो हेतुः, प्रकृतितद्विकृतिप्रश्नप्रक्रमणेनापि तदसिद्धमवधारयितुं शक्यत एव; किन्तु हेतुस्वरूपेऽवधारिते तद्दूषणमभिधानीयमनवधारितस्य दूषयितुमशक्यत्वादिति तत्प्रश्नो नार्थान्तरगमनम्। प्रश्नोत्तरमेव भाषमाणः परामर्शे निकटतरपरिस्फुरदपसिद्धान्ताभिधाननिबन्धननिग्रहान्तरविषयतां प्रतिपन्न इति हेत्वाभासवर्त्मनि न दूरं गम्यते।
क्वचिदपि परनिग्रहस्य हेतौ हृदयपथं प्रथमं किलावतीर्णे।
अपरमपि न कारणं विचिन्त्यं किमिव फलं खलु पिष्टपेषणस्य॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%तदा नासतो विद्यते भावो नाभावो विद्यते सत% इति। पूर्वधर्मान्तरनिरोधाभ्युपगमे हि सतोऽभावोऽभ्युपगतः, अपूर्वधर्मान्तरप्रादुर्भावे चासतो भावोऽभ्युपगत इति।
%अव्यक्तधर्मान्वये हि विकाराणां प्रवृत्तिनिवृत्त्यात्मकत्वं न स्यादिति।% प्रधानस्य नित्यत्वे तद्धर्मस्य नित्यत्वस्यान्वये विकाराणामपि नित्यत्वादुत्पत्तिनिरोधयोरभावः स्यादित्यर्थः।
न्यायमञ्जरी :—
%हेत्वाभासाश्च यथोक्ताः।%
हेत्वाभासास्तु पूर्वोक्तलक्षणैरेव लक्षिताः।
निग्रहस्थानतां यान्ति, यथोक्ता इत्यतोऽब्रवीत्॥
प्रमाणस्य प्रमेयत्वं प्रमेयस्य प्रमाणता।
यथा लक्षणभेदेन न तथैतेषु दृश्यते॥
भेदेनोक्ताः किमर्थं त इति निगदिता पूर्वमेवात्र युक्ति-
र्वादे ह्येते प्रयोज्याः प्रगुणनयविदा तत्त्वशुद्धिं विधातुम्।
एतेषां धर्मकीर्तेरपि च न विमतिर्निग्रहस्थानताया-
मित्थं द्वाविंशतिर्नो गुरुभिरभिहिता निग्रहस्थानभेदाः॥
न्यायमञ्जरीग्रन्थिभङ्गव्याख्या :—
%पूर्वोक्तलक्षणैरेव लक्षिता% इति। पूर्वोक्तानि यानि हेत्वाभासानां लक्षणानि तैरेव, न निग्रहस्थानत्वेन पृथग् लक्षणान्तरप्रणयनं कार्यम्। प्रमाणस्य प्रमितिविषयत्वेन प्रमेयत्वम्, प्रमेयस्य प्रमितिकरत्वेन प्रमाणत्वं यथा न स्वरूपेणैव नैवं हेत्वाभासानां निग्रहस्थानत्वम्, हेत्वाभासरूपतयैव तेषां निग्रहस्थानत्वमित्यर्थः।
%धर्मकीर्तेरपि च न विमतिः% इति। स ह्याह “हेत्वाभासाश्च यथान्यायाद् निग्रहस्थानमित्येतावन्मात्रमिष्टम्” इति।
भट्टश्रीशङ्करात्मजचक्रधरकृते
न्यायमञ्जरीग्रन्थिभङ्गे
द्वादशमाह्निकम्
न्यायमञ्जरी :—
%उपसंहारः%
इत्येवं सूत्रकारागममनुसरतानुज्झता भाष्यभूमिं
स्थाने स्थाने परेषां मतमतुलगति क्षिण्वता तार्किकाणाम्।
काञ्चिद्वाक्यार्थचर्चामपि विरचयतानुक्रमेणावतीर्णा
निर्णीताः स्वे निबन्धे निपुणमिह मया षोडशैते पदार्थाः॥
न्यायोद्गारगभीरनिर्मलगिरा गौरीपतिस्तोषितो
वादे येन किरीटिनेव समरे देवः किराताकृतिः।
प्राप्तोदारवरस्ततः स जयति ज्ञानामृतप्रार्थना-
नाम्नानेकमहर्षिमस्तकवलत्पादोऽक्षपादो मुनिः॥
वादेष्वाप्तजयो जयन्त इति यः ख्यातः सतामग्रणी-
रन्वर्थो नववृत्तिकार इति यं शंसन्ति नाम्ना बुधाः।
सूनुर्व्याप्तिदिगन्तरस्य यशसा चन्द्रस्य चन्द्रत्विषा
चक्रे चन्द्रकलावचूलचरणध्यायी स धन्यां कृतिम्॥
नमः शशिकलाकोटिकल्प्यमानाङ्कुरश्रिये।
प्रपन्नजनसंकल्पकल्पवृक्षाय शम्भवे॥
** इति श्रीजयन्तभट्टकृतायां न्यायमञ्जर्य्यां द्वादशमाह्निकम्।
॥ समाप्ता चेयं न्यायमञ्जरी ॥**
———————————————-