न्यायमञ्जरी गौतमसूत्रतात्पर्यविवृतिः

[[न्यायमञ्जरी गौतमसूत्रतात्पर्यविवृतिः Source: EB]]

________________

M",". T
FT"F
AVAT,
A H C
“”, "
"
“.
THE KUPPUSWAMI SAS :: RESEARCH INSTITUTE,
MADRAS.
THE KASHI SANSKRIT SERIES ( HARIDĀS SANSKRIT GRANTHAMĀLĀ)
NO. 106. -6:+3 ( Nyaya Section, No. 16.)
silleshlesh rashion THE
2160ps NYÀYA MAÑJARI
of . JAYANTA BHATTA
With Notes by PANDIT S’RI SŪRYA NARAYANA SUKLA
Ngāga Vgākaranaonārga Professor, Govt. Sanskrit College, Benares.
Edited by PANDIT DHUNDHIRĀJA SĀSTRI Ngayopadhyaga Rāoyatirtha Principal N. V. Vidyalaya, Benares.
(Part II)
BENARES. JAI KRISHNADAS-HARIDAS GUPTA The Chowkhamba Sanskrit Series Office,
1934. ________________

[ Registered According to Act XXV of 1867
All Rights Reserved by the Publisher. ]
1934.
PRINTED BY JAI KRISHNA DAS CUPTA Vidya Vilas Press;
Benares City. ________________

हरिदाससंस्कृतग्रन्थमालासमाख्यकाशीसंस्कृतसीरिज़पुस्तकमालायाः
न्यायविभागे (१६) षोडशं पुष्पम् ।
1
.
1
___ *श्रीः *
न्यायमञ्जरी। गौतमसूत्रतात्पर्यविवृतिः।
पदवाक्यप्रमाणपारावारपारीणश्रीजयन्तभकृता।
तदुत्तरभागः। बाराणसेयराजकीयसंस्कृतपाठशालानन्यप्राच्यन्यायशास्त्राध्यापकेन न्यायव्याकरणाचार्यसूर्यनारायणशर्मशुक्लेन विषमस्थल विवरणपूर्वकं सम्पादितः काशीस्थ नित्यानन्द वेदविद्यालय प्रधानाध्यापकेन पण्डितदुण्डिराज़.
शास्त्रिणा संशोधितः ।
प्रकाशकःजयकृष्णदास हरिदास गुप्तःचौखम्बा संस्कृत सीरिज़ आफिस,
बनारस सिटी।
१६११ मस्य सर्वेऽधिकाराः प्रकाशकेन स्वायत्तीकृताः । ________________

भूमिका ।
श्रीविश्वेश्वरः शरणम् नाविदितमिदं तत्रभवतां भवतां दार्शनिकानां यद्वाराणसेयराजकीय संस्कृतमहाविद्यालयाध्यक्षैः प्राच्यप्रतीच्योमयदर्शननिष्णातैर्महामहोपाध्याय श्रीगोपीनाथकविराज एम. ए. महोदयैः प्राचीनन्यायशानि. परीक्षायां पाठयत्वेन पदवाक्यप्रमाणपारावारपारीण श्रीमजयन्तप्रणीत न्यायमञ्जर्याः प्रमेयप्रकरणं निर्धारितमिति विद्यार्थिनामनुरोधेन प्रमेयप्रकरणादिर्निग्रहस्थानप्रकरणान्तो द्वितीयो भागः प्रथमं प्रकाश्यते ।
इतः परं प्रमाणप्रकरणाभिधः प्रथमो भागोऽपि झटिति प्रकाशमेष्यति, सवानीमेव च प्रन्थकर्तुः समयादिकं सविस्तरं निवेदयिष्यते, इदानीं तु अयं अन्धकारः न्याये साहित्ये व्याकरणे मीमांसायां च महत्पाण्डित्यमासादितपानिति भनेन प्रन्येन समो पायदर्शने कोऽपि प्रन्यो नास्तीति च निवेष विरमामि ।
अस्य द्वितीयभागस्य मुद्रणवेलायां श्रीमन्माध्वसम्प्रदायाचार्य दार्शनिकसार्वभौमसाहित्यदर्शनाद्याचार्य तर्करत्नन्यायरलगोस्वामिवामो. परशास्त्रिमहोदयैरन्तिमपूर्वरूपस्य (प्रूफ) दर्शनेनाहमनुगृहीत इति तेषामनुप्रहं शिरसा विभर्मि ।
एवं मदन्तेवासिना ब्याकरणाचार्यब्रह्मदत्तमिश्रेण प्रूफदर्शने साहाम्यं कृतमिति एनं शुभाशिषाऽभिनन्दामि इति
१९९१ वि० भा० शु० । सूर्यनारायणशर्म शताः ।
अनन्त चतुर्दशी
काशी। ________________

643
न्यायमञ्जा उत्तराद्धे प्रतिपादितानां विषयाणां
सूचीपत्रम् ।
२ प्रमेयप्रकरणे विषयः विषयः
पृष्ठम् चार्वाकमतनिरासः प्रमेयपरीक्षा
१ अदृष्टसाधनम् शरीरात्मवादिचार्वाकमतम् ३ नित्यात्मसाधनम् मीमांसकमतेनात्मप्रत्यक्षत्वम् ३ शरीरनिरूपणम् ज्ञानात्मवादखण्डनम्
शरीरपरीक्षा अहंप्रत्ययस्य शरीरालम्बनत्वेनात्मनः शरीरस्य पार्थिवत्वम् परोक्षत्वम्
५ इन्द्रियपरीक्षा नैयायिकमतेनात्मनः प्रत्यक्षत्वम् ७ सालयमतेनेन्द्रियाणामाहारिकत्वम् ४९ आत्मनोऽनुमानगम्यत्वम् ७ भौतिकत्वेऽपीन्द्रियाणां प्राप्यकारित्वम् ४१ पीलुपाकवादिमतम्
११ इन्द्रियाणामाहारिकत्वखण्डनम् १२ पिठरपाकवादिमतम्
१२ एकेन्द्रियवादः भूतचैतन्यवादनिरासः १३ एकेन्द्रियवादनिरासः इन्द्रियचैतन्यवादनिरासः १३ वागादीनामिन्द्रियत्वखण्डमम् मनश्चैतन्यबादनिरासः
१४ अन्तःकरणत्रैविध्यखण्डनम् । ज्ञानाश्रयत्वेनात्मनः साधनम् १४ अर्थस्वरूपनिरूपणम् विज्ञानवादपूर्वपक्षः सर्वभावानां क्षणिकत्वम् १६ सांख्यमतोपपादनम् क्षणभङ्गे प्रत्यभिज्ञाया अबाधकत्वम् २० सांख्यमतखण्डनम् प्रत्यभिज्ञानिरूपणम्
२१ सत्कार्यवादः क्षणिकत्वस्य प्रत्यक्षगम्यत्वम्
सत्कार्यवादनिरासः क्षणिकत्वेऽनुमानल्याबाधकत्वम् २४ । मनसो लक्षणम् क्षणभङ्गनिरासोपक्रमः
२५ प्रवृत्तिलक्षणम् क्षणि चहेतोवियत्वम्
प्रवृत्तिभेदाः प्रत्यभिज्ञायां भूतकालस्य विषयत्वम् ३१ दोषलक्षणम् क्षणभङ्गानिरासः
दोषभेदाः प्रत्यक्षस्य स्थिरवस्तुपाहकत्वम् । ३९ पोपशमनोपायः अणमामहोपसंहार पाकिमतेन पूर्वपक्षा
३१ परमाणुसाधनम्
प्रत्यमावलक्षणम् ________________

पृष्ठम्
१२५
७४
१२७
१२७ १२८ १२८
१२८ १२८ १२९
on oma
सूचीपत्रम् । विषयः
पृष्ठम् । ४प्रयोजनप्रकरणे ईश्वरसाधनम्
७. विषयः श्यणुकादिक्रमेण कार्योत्पत्तिनिरूपणम् ७३ प्रयोजनलक्षणम् কষ্ট
५ दृष्टान्तप्रकरणे दुःखलक्षणम्
दृष्टान्तलक्षणम् तार्किकामिमतापवर्गनिरूपणम् वेदान्त्यमिमतापवर्गनिरूपणम्
६ सिद्धान्तप्रकरणेवेदान्त्यभिमतमोक्षस्वल्पखण्डनम्
सिद्धान्तलक्षणम् सुखसत्तासमर्थनम्
सिद्धान्तस्य चातुर्विध्यम् मोक्षोपायनिरूपणम्
सर्वतन्त्रसिद्धान्तस्य लक्षणम् मोक्षोपायानुष्ठानासम्भवः
प्रतितन्त्रसिद्धान्तस्य लक्षणम् मोक्षोपायानुष्ठानोपपादनम्
अधिकरणसिद्धान्तस्य लक्षणम् विषयेषु दोषभावना
अभ्युपगमसिद्धान्तस्य लक्षणम् ज्ञानकर्मसमुपयवादः
७ अवयवप्रकरणेज्ञानकर्मसमुषयवादनिरासः
प्रतिज्ञालक्षणम् आत्मनि विपत्तिपत्तिप्रदर्शनम्
हेतुलक्षणम् स्वमतेनात्मतत्वज्ञाननिरूपणम्
केवलव्यतिरेक्याक्षेपः प्रवादिमतेन मोक्षोपायनिरूपणम् ९४
केवलव्यतिरेकिस्थापनम् ब्रह्मवादिमतखण्डमम्
उदाहरणलक्षणम् शब्दाद्वैतवारिवैयाकरणमतखण्डनम् ९९
उपनयलक्षणम् शब्दाध्यासवादखण्डनम् १००
उपनयानीकारे आक्षेपः शब्दविवर्तवावखण्डनम् १०१
उपनयाक्षेपसमाधिः विज्ञानाद्वैतमतम्
निगमनलक्षणम् विज्ञानाद्वैतमतखण्डका १०७
प्रतिज्ञावयवाक्षेपः असत्ख्यातिनिरासः
प्रतिज्ञाक्षेपसमाधिः आत्मस्यातिनिरासः
अवयवेषु प्रमाणाभिसंप्लवः बागायशून्यत्वनिरासः

  • तर्कप्रकरणे पासार्थसाधनम्
    तर्कलक्षणम् अपवर्ग निरूपणोपसंहार
    निर्णयप्रकरणे३ संशवप्रकरणे निर्णयलक्षणम् संशयशक्षणम्
    ११८ १० पादप्रकरणेआचार्यव्याख्यानम्
    वादलक्षणम् व्याख्यानान्तरम्
    . ११ जल्पप्रकरणेविभागजविभागलण्डनम्
    १२२ । जल्पलक्षणम्
    १२
    १४२ १४२
    ११० १११ ११४
    a
    १२० ________________

१८५

सूचीपत्रम् । १२ वितण्डाप्रकरणे- विषयः
पृष्ठम् विषया
पृष्ठम् अविशेषसमलक्षणम् वितण्डालक्षणम्
१५३ उपपत्तिसमलक्षणम् १३ हेत्वाभासप्रकरणे- उपलब्धिसमलक्षणम् सव्यभिचारलक्षणम्
१९४ अनुपलब्धिसमलक्षणम् विरुद्धलक्षणम् १९६ अनित्यसमलक्षणम्
१८९ प्रकरणसम ( सत्प्रतिपक्ष ) लक्षणम् १५८ नित्यसमलक्षणम् सत्प्रतिपक्षस्योदाहरणान्तरम् १६१ । कार्यसमलक्षणम् सत्प्रतिपक्षोदाहरणान्तरदूषणम्
१६ निग्रहस्थामप्रकरणेअसिद्धलक्षणम्
निग्रहस्थानलक्षणम् अन्यथासिद्धनिरूपणम् वाधितलक्षणम्
निग्रहस्थानभेदार १९१ १४च्छलप्रकरणे
प्रतिज्ञाहानिलक्षणम् १५२ छललक्षणम्
प्रतिज्ञान्तरलक्षणम् छलभेदाः
प्रतिज्ञाविरोधलक्षणम् १९४ वाक्छललक्षणम्
प्रतिज्ञासंन्यासलक्षणम्
१९२ सामान्यच्छललक्षणम्
हेत्वन्तरलक्षणम् उपचारच्छललक्षणम्
अर्थान्तरलक्षणम् छलपरीक्षा
निरर्थकलक्षणम् १५ जातिप्रकरणे
अविज्ञातार्थलक्षणम् जातिलक्षणम् १७३ अपायकलक्षणम्
१९९ जातिभेदाः
अप्रासकाललक्षणम् जातिव्युत्पादनपरीक्षा
न्यूनलक्षणम्
२०० साधर्म्यवैधय॑समलक्षणे १७६ उत्कर्षसमादीनां षण्णां लक्षणानि १७७ पुनरुक्कलक्षणम्
२०१ प्राप्त्यप्रातिसमलक्षणे
१७८ मननुभाषणलक्षणम् प्रसङ्गप्रतिदृष्टान्तसमलक्षणे १०८ সকাল अनुत्पतिसमलक्षणम् २७९ अप्रतिमालक्षणम्
२०४ संशयसमलक्षणम् १८० विक्षेपलक्षणम्
२०४ प्रकरणसमलक्षणम् १८१ मतानुशालक्षणम्
२०५ अहेतुसमलक्षणम्
निरनुयोज्यानुयोगलक्षणम् अर्थापत्तिसमलक्षणम् १८२ अपसिद्धान्तलक्षणम्
२०.
१०३
१५४
२०२
२०३
२०६ ________________

न्यायमञ्जर्या उत्तरभागस्य शुद्धिपत्रम् ।
अशुबम् शुद्धम् पृ० प० । अशुद्धम् शुद्धम् पृ० ५० मिथ्याने मिथ्याज्ञान- २ ५ \। समय समर्थ २१ १९ समर्थने । समर्पणे २ ८ तत्तत्क्षणा तत्क्षणा २२ सामथ्य सामथ्य
मेष मेषा २४ ३ दुःखान्ते दुःखान्त २ २३
पिनगम्यते नाधिगच्छति २४ २६ ज्ञातृसमाना ज्ञानसमाना ३ २५ सुखमष्य सुखं नैवा २४ पतस्मिन् चैतस्मिन् ४ ६ निर्वत्य निर्वर्त्य ९८ १० आत्मवत्तिनो भात्मनो ४ २६ मागणा मार्गेणा ७४ २७ मित्र भिनं ९ २५
माक्षः मोक्षः काऽत्र कोऽत्र १० १ धर्म धर्मि १४९ २८ नियमा नियमो
मितिउप मितिरुप १४१ २६ प्रमातृभेदा प्रमातृभेद १० १४ तस्याएवपुनर्वचनं- ) अर्थ पाठो समयः समर्थः वृत्त वृत्ति नैवं
१४ २८
लक्षणा लक्षणीया १४५ १९ फलापभोगा फलोपभोगो १६ १
नजाने नजाने जाने १४८ २८ विकृत विकृति १६ १४
साधारणाद साधारणवद १५५ २० समयेन
रणाविरु समर्थन १७ २१
णविरु १५६ २० १८ ६
वृत्तीति सामध्य
वृत्ती हति १६० ३ भाविना भाविनी १९ १३
\। साधना साधन १८७ ३१ कुम्भा २० १५ तरीकत्व न्तरीयकत्व १८८
22
साधना
१३ २६
area नास्ति ११३७
सामय
सूचना६४ पृष्ठानन्तरं ४१ पृष्टादारभ्य ४८ पृष्ठपर्यन्तम् ६५-६६-इत्येवं क्रमेण ७२ पर्यन्तमा योध्याः।
रेफपातो मात्रापातश्च बहुच जात इति सुधीभिः समीकृत्य पठनीयः । ________________

श्रीविश्वेश्वरः शरणम् । जयन्तभट्टकृतन्यायमञ्जरी। तत्र प्रमेयप्रकरणम् ।

  • प्रमेयपरीक्षारम्भः। एवं प्रमाणपदार्थे परीक्षिते सति यदर्थ तत्परीक्षणं तत्प्रमेयमिदानी दर्श यितुमाह
    आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम् ॥(१)
    प्रमाणवदिहाप्येतत्सूत्रं व्याख्यायि सूरिभिः । एवं विभागसामान्यलक्षणप्रतिपादकम् ॥ प्रमेयश्रुतिरात्मादिपदपर्यन्तवत्तिनी ।
    तेषामेव प्रमेयत्वं नान्यस्येति नियच्छति ॥ यथा देवदत्तयज्ञदत्तविष्णुमित्रा भोज्यन्तामित्येवकारादिश्रुतिमन्तरेणापि शब्दसामर्थ्यात्त एव भोजनक्रियायोगिनोऽवगम्यन्ते नान्ये तथेहाप्यात्मादयः प्र. मेयमित्युक्ते तथैव तदितरप्रमेयनिषेधोऽवधार्यते,
    ननु कथं द्वादशविधमेव प्रमेयमुपपद्यते यावता समानतन्त्रे (२)पृथिव्यादीनि नव द्रव्याणि, रूपादयश्चतुर्विशतिर्गुणाः, उत्क्षेपणादीनि पञ्च कर्माणि, परापरभे. देन द्विविधं सामान्यं, नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः, एकः समवाय, इति षट्पदार्थीमनुक्रम्य तदवान्तरविशेषेरानन्त्यं प्रमेयस्योपवर्णितमिति ?
    उच्यते-किं पुनरिह प्रमेयं विवक्षितमिति तत्सामान्यलक्षणं तावत्परीक्ष्यताम् ? पाह-सूक्तमिदं कस्यापि ‘कणे पृष्टः कटिं चालयती’ति द्वादशविधत्वमातिप्तं न प्रतिसमाधत्ते भवान् प्रमेयस्य सामान्यलक्षणंःतु परीक्षत एव, ___ उच्यते-अलं केलिना, एतदेवात्र प्रतिसमाधानं भवति न हि प्रमाणविषय. मात्रमिह प्रमेयमभिमतमेवंविधस्य प्रसिद्धत्वेन लक्षणानहत्वात् प्रमाण एव ज्ञाते सति तद्विषयोऽर्थः प्रमेयमिति ज्ञायत एव किं तेन लक्षितेन; तस्माद्वि. शिष्टमिह प्रमेयं लक्ष्यते,
    (१) गौ० स० अ० १ आ० १ सू० ९। (२) कणाददर्शने । ________________

. न्यायमअर्याम्
.
ज्ञातं सम्यगसम्यग्वा यन्मोक्षाय भवाय वा।
तत्प्रमेयमिहाभीष्टं न प्रमाणार्थमात्रकम् ॥ तच द्वादशविधमेव भवति न न्यूनमधिकं वेति समाहित इत्थं भवति वि. भागाक्षेपः, कुतः पुनरेष प्रमेयविशेषो लभ्यते, निःश्रेयसार्थत्वाच्छास्त्रस्य, प्रमेयज्ञानस्य(१) प्रमाणज्ञानवदन्यज्ञानोपयोगितामन्तरेण स्वत एव मिथ्याज्ञाने निवृत्त्यादिक्रमेणापवर्गे हेतुत्वप्रतिज्ञानात् तथाविधस्य चापवर्गोंपायत्वस्यात्मादि. वेव भावात्, __ भवत्वेवं, सूत्रस्य तु कथमीदृशप्रमेयविशेषसमर्थने सामर्थ्य-विशेषात्तुशब्दप्रयोगसामर्थ्याच्च ? सत्यमाकाशकालदिगादि प्रमाणविषयत्वात् प्रमेयं. भवति तत्तु न सप्रयोजनम् , आत्मशरीरेन्द्रियार्थमनःप्रवृत्तिदोषप्रेत्यभावफल. दुःखापवर्गास्तु प्रमेयं निःश्रेयसहेतुत्वादित्याशयः, तदित्थमेष तुशब्दो निःश्रेय. साङ्गभूतप्रमेयान्तरपरिहारद्वारण विशिष्टमात्मादि प्रमेयमिह सूचयति,
तद्द्वादशविधत्वेऽपि हेयोपादेयभेदतः । द्विधोच्यते मुमुक्षुणां तथैव ध्यानसिद्धये ॥ तत्र देहादिदुःखान्तं हेयमेव व्यवस्थितम् । उपादेयोऽपवर्गस्तु द्विधाऽवस्थितिरात्मनः ॥ सुखदुःखादिभोक्तृत्वस्वभावो हेय एव सः ।
उपादेयस्तु भोगादिव्यवहारपराङ्मुखः ॥ आत्मनो हि भोगाधिष्ठानं शरीरं, भोगसाधनानीन्द्रियाणि, भोक्तव्या इन्द्रि. यार्थाः, भोगो बुद्धिः, आन्तरं हि भोगकारणं मनः, प्रवृत्तिः पुण्यपापात्मिका, रागा. दयश्च दोषाः शरीरादिजन्महेतवः, एतत्कृतश्च शरीरादियोगाध्यासः प्रेत्यभावः, एतत्कृतमेव च संसारे सुखदुःखरूपं हि फलं, तच्च द्विविधमेव-विवेकवतः सर्व दुःखमेवेति, एवं शरीरादिदुःखान्ते हेयतयैव भावनीयम् , एतदनुषक्तश्चात्माऽपि तथैव, एतद्वियुक्तस्त्वात्मैवापवर्ग उच्यते, स चोपादेयतया भावनीय इत्यत ए. वात्मपदसंगृहीतस्याप्यस्य पुननिर्देशः स हि परमः पुरुषार्थ इति, एवमिदं द्वाद. शभेदं प्रमेयं हेयोपादेयतया तत्त्वज्ञानेन भावयन्नभ्यासात्तद्विषयविपरीतप्रहात्मकमिथ्याज्ञानं क्षिणोति,
तत्त्वज्ञानेन तेनास्य मिथ्याज्ञानेऽपबाधिते । रागद्वेषादयो दोषास्तन्मूलाः क्षयमाप्नुयुः ॥ क्षीणदोषस्य नोदेति प्रवृत्तिः पुण्यपापिका । तदभावान्न तत्कायै शरीराद्यपजायते ॥
अशरीरश्च नैवात्मा स्पृश्यते दुःखडम्बरैः । (१) ‘प्रमेयस्य’ इति ख० पु० पाठः । ________________

आत्मन्याक्षेपः।
अशेषदुःखोपरमस्त्वपवर्गाऽभिधीयते ॥ तदित्यमेव द्वादशविधं प्रमेयमतिगहनसंसारमारवस्थल (१) प्रभवतीव्रसंता. पनिर्वापणमहाह्रदतामुपयातीति तदेवादेशाहमिति सिद्धम् ।
शरीरात्मवादिचार्वाकमतम् । विरक्तसंकथास्तावदसंजातफलोचिताः ।
आत्मैव त्वस्ति नास्तीति कथं न परिचिन्त्यते॥ तथा च लोकायतिकाः परलोकापवादिनः ।
चैतन्यखचितात्कायानात्माऽन्योऽस्तीति मन्वते ॥ न तावदात्मा प्रत्यक्षतो गृह्यते घटादिवद् बाह्येन्द्रियेण, सुखादिवन्मनसा परिच्छेतुमशक्यत्वाद्, अनुमानं तु न प्रमाणमेव चार्वाकाणां, न चात्मसि. द्धौ किंचन लिङ्गमस्ति । ज्ञानादियोगस्तु भूतानामेव परिणामविशेषोपपादितशक्त्यतिशयजुषां भविष्यति, यथा गुडपिष्टादयः प्रागसतीमपि मदशक्तिमासा. दितसुराकारपरिणामाः प्रपद्यन्ते तथा मृदाद्यवस्थायामचेतानान्यपि भूतानि श. रीराकारपरिणतानि चैतन्यं स्प्रत्यन्ति । कालान्ते स्वव्याध्यादिना विशेषमवजहति तान्येव चैतन्यशून्यतामुपयास्यन्ति, चैतन्यत्वानपायाच्च तावन्तं कालं. तान्येव स्मृत्यनुसंधानादिव्यवहारनिवहनिर्वाहणनिपुणतामनुभविष्यन्तीति कि मनुमानक आत्मा स्याद्, आगमास्तु मनोरथाधिरूढप्रामाण्याः कथमात्मा. नमवबोधयितुं शक्यन्ते, अयमपि चागमोऽस्त्येव ‘विज्ञानघन एवैतेभ्योभूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञाऽस्तीति तदात्मनो नित्यस्य परलो. किनोऽभावात्कृतमेताभिरपार्थकपरिश्रमकारिणीभिः परलोककथाभिः । ।
मीमांसकमतेनात्मप्रत्यक्षत्वनिरूपणम्तत्र प्रत्यक्षमात्मानमौपवर्षाः (२)प्रपेदिरे ।
अहंप्रत्ययगम्यत्वात्स्वयूथ्या (३)अपि के चन ॥ अस्त्ययमहंप्रत्ययः कश्चिच्छरीरसमानाधिकरणः स्थूलोऽहं कृशोऽहं, कश्चिअज्ञातृसमानाधिकरणो जानाम्यहं स्मराम्यहमिति, तत्र स्थूलादिसमानाधिक. रणस्तावदास्तामहं प्रत्ययः,
ज्ञानेच्छासुखदुःखादिसामानाधिकरण्यभाक् । यस्त्वहंप्रत्ययस्तत्र नात्मनोऽन्यः प्रकाशते ॥
(१) मरोरिदमारवं तच्च तत्स्थलं मारवस्थलं संसार एव मारवस्थलं संसार. मारवस्थलं, संसार एव मदेश इति यावत् तत्राधिकः सूर्यकृतस्तापो भवतीति ॥
(२) उपवर्षो मीमांसासूत्रवृत्तिकारः पाणिनिगुरोर्वर्षस्य कनिष्ठनाता, औप. वर्षाः =मीमांसकाः। (३) नैयायिकैकदेशिनः । ________________

न्यायमअर्याम् न हि ज्ञानसुखेच्छाऽऽदियोगः कर्मेन्द्रियादिषु । न च ज्ञानादिशून्येऽर्थे जानामीत्यादिसंविदः ॥ ज्ञानमात्रावभासोऽपि वारितः प्रत्यभिज्ञया। ज्ञात(१)वानहमेवादावहमेवाद्य वेद्मि च । नोत्तरस्य न पूर्वस्य न ज्ञानक्षणयोर्द्वयोः । न संतानस्य चतस्मिन्प्रत्ययेऽस्त्यवभासनम् ॥ नोत्तरो ज्ञातवान्पूर्व पूर्वो जानाति नाधुना।
न द्वयोर्द्वयमप्यस्ति संतानस्तु न वास्तवः ॥ - अवस्तुत्वाच्च नासौ पूर्व किं चिज्ज्ञातवान्न चाद्य किं चिन्जानातीति, तस्मादहमेव हयो ज्ञातवानहमेवाद्य जानामीत्यस्मिन्प्रत्यये ह्यश्चाद्य चानुवर्तमानो. शाता प्रतीयत इति गम्यते, न चासौ कायो;(२) बाल्याद्यवस्थाभेदेन नानात्वाद. चेतनत्वाच, एवं सप्रत्यभिज्ञाहंप्रत्ययग्राह्ये ज्ञातरि सिद्धे सोऽयं स्थूलादिसमानाधिकरणोऽहंप्रत्ययस्तदभेदोपचारेण शरीरे वर्तमानो मिथ्येति कल्पयिष्यते. न पुनरेतदनुरोधेन ज्ञानादिसमानाधिकरणाहंप्रत्ययस्य मिथ्यात्वकल्पनं युक्तमबाधितस्वाद, न खल्वहं जानामीति प्रत्ययः केन चिदल्पीयसा दोषरेणुना धसरीक. सपार्यते तदस्यात्मैव मुख्यो विषयस्तदतिरिक्तं वस्तु भाक्तमिति; तस्मादहं. प्रत्ययगम्यत्वादात्मा प्रत्यक्ष इति ।
ज्ञानात्मवादिखण्डनम् - अत्र वदन्ति–शब्दमात्रोच्चारणमेतदहं जानाम्यहमिच्छाम्यहं सुख्यहं. दुःखीति न तु ज्ञानादिस्वरूपातिरिक्तस्तदाश्रयः कश्चिदेतासु बुद्धिषु परिस्फुरतीति, कथमेकस्यामेव संविदि कर्ता च कर्म चात्मा भवेत् ?
प्रायदाहकतैकस्य ज्ञानस्यापाकरिष्यते ।
त्वयाऽपि नेष्यते चेति तथा सत्यात्मनोऽपि सा॥ यथावस्थाकृतं भेदमवलम्ब्य ग्राह्यप्राहकभावसमर्थनमेकस्यैवात्मनः कृतं. किल द्रव्यादिस्वरूपमात्मनो ग्राह्यं ज्ञातृरूपं च ग्राहकमिति, तदनुपपन्न, द्रव्या. दिस्वरूपे प्राये न ज्ञातरि ग्राहकता साधिता स्याद्, आत्मवत्तिनोऽपि द्रव्या. दिरूपस्य घटादितुल्यत्वाद्,
यदपि निपुणंमन्यैरुच्यते भवतु ज्ञातृतैव (३)प्राहिका तथाऽपि विषयोपा. धिकृतोऽस्त्येव भेदः, घटावच्छिन्ना हि ज्ञातृता ग्राह्या शुद्धवतु ज्ञातृता प्राहि.
(१) ‘ज्ञातव्यमह’ ख० पु० पाठः । (२) ‘कायो’ इत्यस्य स्थाने ‘वयो इति । ख० पु० पाठ सचायुक्तः । (३) ज्ञातृवैव-ज्ञानमेव प्राहकमित्यर्थः । ________________

.
आत्मन्याक्षेपः । केति, अन्यत्र तु शुद्धविषयग्रहणमेव भवति घटोऽयमिति-तदेतदपि सरलमतिप्रतारणमात्रम्, तथा हि घटोऽयमित्यत्र घटमात्रप्रवणैव बुद्धिः; इयांस्तु विशेषः पूर्व केवलं घटप्रहणमधुना तु ज्ञानविशिष्टघटावमर्श इति ।
अहंप्रत्ययस्य शरीरालम्बनत्वेनात्मनः परोक्षत्वम्ननु विभज्यमानायां प्रतीतौ घटोऽयमिति तावद्विषयग्रहणं, जानामीति ज्ञानग्रहणमपि भवतु नाम, अहमिति तु कस्य ग्रहणम् ? न चैकस्यामेव प्रतीतावंशविभागेन प्रामाण्यमप्रामाण्यं वा वक्तं युक्तम्-घटमिति जानामीति च प्रमाणमहमिति तु न प्रमाणमिति, तस्मादत्र ज्ञातुरवभासोऽभ्युपेयः, उक्तमत्र नैकस्यां प्रतीतावात्मनः कर्मता कर्तृता च स्याद्, यस्तूपाधिस्त्वनयोर्नेतुमुपक्रान्तः सोऽयं न घटते घटप्रवणत्वादहं जानामीतिप्रतीतेविभज्यमानत्वेऽपि घटमिति जानामीति चांशद्वयं विषयनिष्ठमंव जातम्-अहमिति त्वयमंशो यद्यात्मविषयो दृश्यते तर्हि स एव शुद्धोऽवशिष्यते ग्राह्यग्राहकश्चेति नावस्थाकृतस्तवेदःसमर्थितः स्याद्, भेदाभावेन चैकस्यैव ग्राह्यग्राहकभावमुपाधि(१)मभिदधता विज्ञानवादवम संश्रितं स्यात्तस्मादहंप्रत्ययस्य ग्राहकाद्भिनं ग्राह्यमभिधित्सता शरारमेव ग्राह्यमभ्युपगन्तव्यं ज्ञानसामानाधिकरण्यानुपपत्तेश्च वरमस्य ना. स्मालम्बनता, अत एव कृशश्यामसामानाधिकरण्यधीः शरीरालम्बनत्वस्य साक्षिणी न विरोत्स्यते,
ननु ममेदं शरीरमिति भेदप्रतिभासात्कथमहंप्रत्ययः शरीरालम्बनः स्याद् ? भोः साधो ! नैवंविधेषु प्रत्ययेषु विश्वास्यत्वमहसि ममात्मेत्यपि भेदप्रत्ययस्य दर्शनादवस्थाभेदादिना यथा तथा तत्समर्थनमास्थीयते त. दिह शरीरालम्बनत्वेऽपि सैव सरणिरनुसरिष्यते; तस्मादहंप्रत्ययः शरीराल. म्बन एवेति, स च ज्ञानादिसमानाधिकरणा मिथ्या स्थूलादिसमानाधिकरणस्तु सम्यगिति, ये तु मम शरीरं ममात्मेति च बुद्धी ते द्वे अपि मिथ्या ममप्रत्य. यस्याहंप्रत्ययवदात्मानालम्बनत्वाच्छरीरे च भेदानुपपत्तः,
मम पाणिर्भुजो वेति भिन्नत्वादुपपद्यते ।
शरीरं तु ममेत्येषा कल्पना राहुमूर्धवत् ॥ तस्मादहकारममकारयोर्द्वयोरप्यविषयत्वादात्मा परोक्ष इति सिद्धम् । अपरे पुनराहुः-न ग्राह्यग्राहकरूपोभयसम्पत्तेरेकस्य कर्मत्वं कर्तृत्वं च युग. पदात्मनो मन्यामहे किन्तु चितिशक्तिस्वभावमपरसाधनसपरोक्षमात्मतत्त्वं प्रचक्ष्महे न ह्यात्मा जन्येन(२)ज्ञानेन घटादिरिव प्रकाशतऽपितु स्वत एव प्रकाशते। चेत
(१) ‘अनुपाधिकम्’ इति ख.पु०पा० । उपाधिकृतमिति तु युक्तः प्रतिभाति । (२) ‘अन्यजन्येन’ इति १० पु. पाठः । ________________


न्यायमर्याम् । नत्वमपि तस्य नैसर्गिकमेव न करणोपजनितचितियोगनिबन्धनम् , चिद्योगाद्धि चेतनत्वे घटादावपि तत्प्रसङ्गो न चास्ति नियमहेतुरनेककारकपरिघट्टिततनुरपि चितिरात्मानमेव ज्ञातारं करोति न कारकान्तरमिति, तस्मात्स्वत एव चित्स्व. भावताऽस्य भद्रिका, तदिदमात्मप्रकाशनं संविद्वदवगन्तव्यम् , यदाहुः ‘संविरसंवित्तयैव संवेद्या न वेद्यतयेति । नास्याः कर्मभावो विद्यत इत्यर्थः एवमात्मा प्राहकतयैव प्रकाशते न ग्राह्यतयैवेति तद्वैरूप्यस्य चोदनमनुपपन्नमिति,
एतदपि न चतुरश्रम-अपरसाधनमिति कोऽर्थ उपायान्तरनिरपेक्षमेव प्रकाशमानमात्मतत्त्वमास्त इति, तदयुक्तमकरणिकायाः प्रतीतेरदृष्टत्वाद्, अपूर्व च तकिमपि यथाऽभ्युपगतं प्रमाणातिरिक्तमेव प्रमाणं स्याद्, न च नियमकारणमत्र पश्यामः तथा प्रकाशमानः स एवात्मा प्रकाशते न परात्मेति, प्रकाश मानत्वेनात्मनो नूनमनुभूयमानता वाच्याऽनुभूयमानता चानुभवकर्मत्वमित. रथाऽस्याः प्रत्यक्षतव न स्यात् । ___ अथोच्यते-न प्रत्यक्ष प्रात्मा किं त्वपरोक्ष इति नेदमर्थान्तरवचनं शिशवएवं प्रतार्यन्ते न प्रामाणिकाः, प्रत्यक्षश्च न भवत्यपरोक्षश्व भवतीति चित्रम् प्रत्यक्षज्ञानकर्मत्वमस्य नास्तीति चेत् , तीपरोक्षत्वमपि मा भूत्। प्रकाशत्वादपरोतत्वमिति चेन्न, दीपादेः प्रकाशस्याप्यन्धादिभिरगृह्यमाणस्य प्रकाशमानत्वा. योगात्तस्मात्प्रकाशते चिदात्मा नूनमनुभूयेतापीति बलात्कर्मत्वमपरिहार्यमतश्च तदवस्थैव द्वैरूप्यचोदना, प्रकाशज्ञानपक्षं च प्रतिक्षेप्स्यामः, स चात्मन्यपि तुल्योन्यायः, कल्पनाद्वैरूप्यं च भवतामात्मा च स्वप्रकाशः संविञ्च स्वप्रकाशेति, न च निपुणमतिरपि विवेकमीदृशमुपदर्शयितुं शक्नोति भवान् इयं स्वप्रकाश फलरूपा संविद्, अयं स्वप्रकाशो ज्ञातृरूप आत्मेति चित्रं चेदं यत्तयोर्द्वयोः प्रकाशयोरन्तराले तद्यापारः परोक्षज्ञानाख्यः संपन्न इति,
ननु घटमहं जानामीत्यत्र त्रयप्रतिभासो घटमिति विषयः प्रकाशते; अहमित्यात्मा; जानामीति संविदिति, उक्तमत्र घटं जानामीति ज्ञानविशेषणविषयप्रतिभासः, अहमिति तु शरीरे ज्ञातृत्वभ्रम एकस्यात्मनो ग्राह्यप्राहकत्वानुपपत्तेःयदपि स्वतश्चेतनस्वभावत्वमात्मनः कथ्यते तदपि न सोपपत्तिकम् ,
सचेतनश्चिता योगात्तद्योगेन विना जड़ः ।
नार्थावभासादन्यद्धि चैतन्यं नाम मन्महे ॥ यदि च स्वत एवार्थावभाससामर्थ्यपक्षे च सर्वस्य सर्वज्ञताऽऽपत्तिरतोऽवश्यं ज्ञानसमवायनिबन्धनमेवारमनश्चतयितृत्वं, न च घटादिभिरतिप्रसङ्ग पाशङ्कनीयः, पदार्थस्वभावोपनतस्यैव क्रियावैचित्र्यस्य सर्वलोकप्रसिद्धत्वाचेतनादिक्रियाः कर्मसमवायिन्यो न भवन्ति गमनादिक्रियास्तु कर्तृसमवायिन्य एव न च वस्तुशक्तिरनुयोज्या भवति, ________________

आत्मनोऽनुमानागम्यत्वम् । न जड़त्वाविशेषेऽपि कर्मादौ समवैति चेत् ।
न द्रव्यत्वाविशेषेऽपि गन्धः स्पृशति पावकम् ॥ तस्मान प्रत्यक्ष आत्मा नापि स्वतश्चेतयितेति स्थितम् ।
नैयायिकमतेनात्मनः प्रत्यक्षत्वोपपादनम्स्वयूथ्यास्तु के चिदाचक्षते-यदेकस्य कर्तृत्वकर्मत्वमनुपपन्नमित्यप्रत्यक्ष. प्रात्मष्यते तदयमनुमानेनापि कथं ग्रहीष्यते ?
आत्मानमात्मनाऽऽत्मैव लिङ्गादनुमिनोति हि । तत्र नूनमुपेतव्या कर्तृता कर्मताऽस्य च ॥ तत्रानुमानज्ञानस्य यथाऽऽत्मा याति कर्मताम् । तथाऽहंप्रत्ययस्यैव प्रत्यक्षस्यापि गच्छतु ॥ देहादिव्यतिरिक्तश्च यथा लिङ्गेन गम्यते ।
तथाऽहंप्रत्ययेनापि गम्यतां तद्विलक्षणः ॥ न चात्मनः किं रूपं यत्प्रत्यक्षेण साक्षाक्रियते ? यद्येवं सुखादेरपि किं रूपं. यन्मानसप्रत्यक्षसमधिगम्यमिष्यते ?
नन्वानन्दादिस्वभावरूपं प्रसिद्धमेव सुखादेः, तर्हि तदाधारत्वमात्मनोऽपि रूपमवगच्छतु भवान् ,
सुखादि चेत्यमानं हि स्वतन्त्रं नानुभूयते । मतुबर्थानुवेधात्तु सिद्धं ग्रहणमात्मनः ॥ इदं सुखमिति ज्ञानं दृश्यते ने घटादिवत् ।
अहं सुखीति तु ज्ञप्तिरात्मनोऽपि प्रकाशिका ॥ अपि च
ज्ञातृज्ञानविशिष्टार्थग्रहणं किल भाष्यकृत् । स्वयं प्रादीहशत्तच्च किं वा युक्तमुपेक्षितुम ॥ विशेष्यबुद्धिमिच्छन्ति नागृहीतविशेषणाम् । पूर्व चाननुभूतस्य स्मरणं नावकल्पते । न चानुमानतः पूर्व ज्ञात्वाऽऽत्मानं विशेषणम् ।
तद्विशिष्टार्थबुद्धिः स्यात् स्मरणानवधारणात् ॥ तस्मात्प्रत्यक्ष आत्मा।
सामानाधिकरण्यं च स्मरणानुभवादिषु । अनुसन्धीयमानं यद् दृश्यते तत्कथं भवेत् ॥
आत्मनोऽनुमानगम्यत्तनिरूपणम् - पूर्वमहममुमर्थमनुभूतवानहमेवाद्य पुनरनुभवामीति तुल्यविषयतावत्तुल्यकर्तकताऽपि तत्र प्रकाशते, इतरथा त्वनुमानुमप्यात्मा न शक्यते . . ________________

न्यायमञ्जर्याम् । ज्ञानेच्छासुखदुःखादि किलेदं लिङ्गमात्मनः । एकाश्रयतया ज्ञातमनुसंधातृबोधकम् ॥ तथात्वेन च तज्ज्ञानमाश्रयज्ञानपूर्वकम् । ज्ञाते तत्राफलं लिङ्गमज्ञाते तु न लिङ्गता॥ तस्मात्प्रत्यक्ष एवात्मा वरमभ्युपगम्यताम् । बृद्धागमानुसारेण संविदालोकनेन च ॥ अथ वाऽभिनिवेशेन किमनेन प्रयोजनम् ।
अनुमयत्वमेवास्तु लिङ्गनेच्छाऽऽदिनाऽऽत्मनः ॥ तदाह सूत्रकारः-‘इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम्’(१), इच्छा नाम तावदित्थमुपजायते यजातीयमर्थमित्थमुपयुजानः पुरुषः पुरा सुखमनुभू. तवान् पुनः कालान्तरे तज्जातीयमुपलभ्य सुखसाधनतामनुस्मृत्य तमादातुमिच्छति सेयमनेन क्रमेण समुपजायमानेच्छा पूर्वापरानुसंधानसमर्थमाश्रयमनुमा. पयति कार्यस्य निराधारस्यानुपपत्तेराश्रयमात्रप्रतीतो चान्वयन्यतिरेकवानेव हे. तुर्भवति, इच्छा धर्मिण्याश्रितेति साध्यो धर्मः कार्यत्वाद् घटादिवद् गुणत्वा. दिति वा हेतुर्वक्तव्यः, गुणत्वं चेच्छाऽऽदीनामचाक्षुषप्रत्यक्षत्वादिना रसादिवद्द. शितमाचार्यः(२), एवमन्वयव्यतिरेकवताऽमुना हेतुनाऽधिष्ठानमात्रेऽनुमिते तद. धिष्ठानत्वे च देहेन्द्रियादौ प्रसक्ते पूर्वानुभूतसुखसाधनत्वानुसंधानसव्यपेक्षतदुत्पादनपयोलोचनया तत्कार्यसमानकतृकत्वावगमाच्छरीरादिविलक्षणाश्रया(३), श. रीरादिषु बाधकोपपत्तौ सत्यां कार्यत्वादित्यत्र च साधर्म्यदृष्टान्तो न संभवतीति वैध’ Hदृष्टान्तः-कार्यत्वे निर्विशेषणे य एव साधर्म्यदृष्टान्तो घटः स एव वैधर्म्यदृष्टान्तः सविशेषणे, यत्र विलक्षणाश्रितत्वं नास्ति तत्र सविशेषणं कार्यत्वमपि नास्ति यथा घटादाविति तु शक्यते वक्तुम् , तत्र कार्यमात्रयोगेऽपि सविशेषणानां कार्यत्वाभावाद्विलक्षणाश्रितत्वं नास्ति भूताश्रितत्वेन प्रत्यक्षमुपलभ्यमानत्वात् ।
ननु चान्वयदर्शनमन्तरेण केवलव्यतिरेकः प्रतीयमानः संदिग्धो भवति किं तत्साध्याभावकृतैव तस्य तस्माद्यावृत्तिरुत निमित्तान्तरकृतेति, संदि. ग्धव्यतिरेकस्य हेतोरगमकत्वं निश्चितव्यभिचारहेतुवदिति तार्किकाः, ___ उच्यते-स्यादेतदेवं यदि प्रथममनवगतान्वय एव केवलव्यतिरेकशरण हेतुः प्रयुज्यते, यतस्त्वन्वयव्यतिरेकताऽवकाशं लभते घटो हि भूतलाश्रितत्वेन प्रत्यक्षमुपलभ्यते सदस्य विशेषणाश्रयविरहादेव सविशेषणहेतुशून्यता जाता निर्विशेषणावस्थायां तद्योगदर्शनादिति न संदिग्धो व्यतिरेकः, अथ वा शरीरत्वं सा. मान्यमिह वैधर्म्यदृष्टान्तीकर्तव्यं, तत्र हि सर्वात्मना कार्यत्वस्पर्शोऽपि नास्ति
(१) गौतमसूत्रम् अ० १ आ० १ स० १०॥ (२) वल्लभाचार्य॥ (३) इच्छेति शेषः । ________________

आत्मानुमापकः। न च तद्विलक्षणाश्रितं ; शरीराश्रितत्वस्य प्रत्यक्षत उपलम्भादिति, तदियमिच्छा प्रथमपदार्थदर्शनादिकार्यसमानकर्तृकतयाऽवगम्यमाना शरीरादिविलक्षणमा. श्रयमवगमयति सविशेषणात्कार्यत्वादिति स्थितम् , यश्च स विलक्षण आश्रयस्तत्रात्मसंज्ञाऽऽगमिकी, ____ एवमेव द्वेषादेरात्मलिङ्गता वक्तव्या, यज्जातीयस्यार्थस्य सन्निधानाद् दुःखमनुभूतवान् पुरुषः तज्जातीयम) पुनरुपलभमानो दुःखसाधनतामनुसंधाय तं द्वेष्टीति सोऽपि प्रतिसंधातारमेकमन्तरेण नोपपद्यते, आभ्यामिच्छाद्वेषाभ्यामनन्तरं प्रयत्नः समुत्पद्यते सोऽपि यथोक्तेन क्रमेणानुसंधानपूर्वक एव प्रयतमानस्य सुखदुःखे भवतः, ते अपि तथैव द्रष्टव्ये, ज्ञानं यद्यपि प्रथममनुसंधाननिरपेक्षमपि भवति तदपि च शक्यत एवात्मलिङ्गमभिधातुं तथाऽप्यनुसं. धानपूर्वेच्छाऽऽदिकार्यप्रकरणानिर्णयात्मकमिह ज्ञानमुदाहर्तव्यं, तत्र हि बुभुसाविमर्शादिपूर्वकत्वमुपकल्प्यते तदेवमिच्छाऽऽदीन्यात्मलिङ्गानीति स्थितम् ,
शास्त्रे चानेकहेतूक्तिने दोषाय कथास्विव ।
शिष्यः कश्चित्क चित्किंचिदनुस्मृत्याभिधास्यति ॥ इति कारुणिको मुनिरनेकमिह हेतुमार्गमुपदिष्टवान , । नन्वत्र चोदितमनुसंधातारमन्तरेण तदेतदिच्छाऽऽदिकाय नावकल्पत इति कथं ज्ञायते ? एकत्र प्रमातरि तदर्शनादिति यदुच्यते तदिदमेकप्रमातृग्रहणा. दात्मप्रत्यक्षत्वमङ्गीकृतं स्यादिति व्यर्थमनुमानम ; अग्रहणे तु प्रमातुरेकम्य तत्पूर्वकेच्छाऽऽदेः प्रतिबन्धाग्रहणादशक्यमनुमानमिति, परिहृतमेतत् कार्यत्वेनैव लिङ्गत्वमिच्छाऽऽदेरुपवणितमस्माभिन स्मरणादिसमानाश्रयतयेति, किमर्थस्तहि प्रतिसंधानोपन्यासः ? शरीरादिषु तदाश्रयत्वप्रतिषेधार्थः, न त्वेवं. व्याख्यातवन्तो वयमेकस्य प्रमातुरिच्छाऽऽदिकार्याश्रयत्वदर्शनादेकाश्रयत्वानुमानमिति तस्मान्न दोषः, शरीराश्रयत्वप्रतिषेधसाधनत्वेऽपि हेतोयाप्तिग्रहणा. सम्भवाद् , ग्राहक(१)बुद्धिदर्शनस्मरणेच्छाऽऽदिकायजातमेकत्र प्रमातृनियतत. याऽनवधारितम , तत्कथमस्मदवस्थाऽऽदिभिन्नशरीराद्याश्रयत्वनिषेधस्य तत्पू. वकस्य वाऽऽत्माश्रितत्वस्य सिद्धिः, ___ क एवमाह न गृहीतमेककर्तृकतया कार्यमिच्छाऽऽदीति, ? यदि गृहीतं तर्हि वक्तव्यं क गृहीतं केन वा प्रमाणेन गृहीतमिति ? स्वात्मन्येवेति चेत्सोऽयंप्रत्यक्ष आत्मा भवेद् एवमनभ्युपगमे न व्याप्तिग्रहणमिति,
उच्यते-न च प्रत्यक्ष आत्मा न च व्याप्तेरग्रहणं न चैव धर्मान्तर व्याप्ति. ह्यते किं तु स्वसंतान एव तथाऽपि न सिद्धर्यात प्रमातृनियतानुमान; कथमिव सिद्धयति संतानान्तरषु प्रतिसंधानस्य दृष्टत्वात् ,
(१) ‘ग्राहक’ इत्यस्य स्थाने ‘यावदू’ इति क० पु० पा० । २ न्या० ________________

न्यायमअर्याम् किं च काऽत्र व्याप्तिग्रहणकालः प्रमातृवद्धि त देन भवितव्यं, ततः किम् ? इदं ततो भवति कथं स्वसंतान एव व्याप्तिर्गृह्यतां कथं च तत्रैव प्रमातृनिय. माऽनुमीयतामिति सेयमुभयतः पाशा रज्जुः; आत्मा वा प्रत्यक्षो व्याप्तिर्वा दुर. वगमति, नैतदेवं, यथा शाक्यपक्षे सत्त्वाक्षणिकत्वानुमाने व्याप्तिग्रहणं तथेहापि भविष्यति, तत्र हि यैव क्रमयोगपद्यव्यावृत्त्या सत्त्वस्य नित्येभ्यो व्यावृत्तिः स एव क्षणिकैरन्वय इति धर्म्यन्तरनिरपेक्षतयैव साध्येऽपि धर्मिणि प्रतिबन्धग्रहणं चानुमानं च दर्शितं, तद्वदिहाप्येकप्रमातृपूर्वकत्वेन प्रतिसंधानस्य धर्म्यन्तरे यद्यपि ग्रहणं नास्ति तथाऽपि संतानान्तरभेदे यदस्य दर्शनं तदेव. ककर्तृकत्वदर्शनमिति कोऽनयोहेतुत्वे विशेषः,
ननु तत्र (१)चित्येभ्यः क्रमयोगपद्यव्यावृत्त्या व्यावृत्तं सत्त्वं शक्यग्रहणमिह तु प्रमातृभेदेन प्रतिसंधानव्यावृत्तिर्दुरवगमा स्वसंतानेऽपि ज्ञा. नक्षणा भिन्ना एव प्रमातारः, न च तेभ्यो व्यावृत्तं प्रतिसंधानमिति, तिष्ठत्व. न्वयो व्यतिरेकमुखेनापि कष्टमिदमनुमानं वर्तते स्वसंताने संतानान्तरवत्प्रमातृभेदाग्रहणात् तद्भेदग्रहे हि स्वसन्तानविवेको न स्यान्न चैवं प्रमातृभेदाग्रहणाभावात्पुनरप्यात्मा प्रत्यक्ष आयातः,
मैवम्-नात्मा प्रत्यक्षः प्रमातृभेदो हि स्वसंताने न गृह्यते, अन्यच्च भेदानहणमन्यश्च तदैक्य ग्रहणं भेदापहवदेव च व्याप्तिसिद्धेर्न कष्टमनुमानम् ,
ननु च स्वसन्ताने.प्रमातृभेदाग्रहणं किं प्रमातुरेकत्वादुत ज्ञानानां कार्यकारणभावादिति न निश्चीयते’ ततश्च संदिग्धो व्यतिरेकः यथा ज्ञानानां. कार्यकारणभावो नास्ति यथा च न तत्कृतोऽयं व्यवहारस्तथाऽनन्तरमेव वक्ष्यामः, तस्मादिच्छाऽऽदिकार्येण युक्तमेकप्रमात्रनुमानम् ,
ननु चाश्रितमिच्छाऽऽदि देह एव भविष्यति ।
भूतानामेव चैतन्यमिति प्रोह बृहस्पतिः ॥ उक्तं च मदशक्तिवद्विज्ञानमिति, उच्यते-शरीरं तावन्नेच्छाऽऽदेराश्रयः शैशवयौवनबार्धकादिदशाभेदेन भिन्नत्वात् ,
तथा हि नान्यदृष्टोऽर्थः स्मर्तुमन्येन शक्यते । न चान्येन स्मृते तस्मिन्नन्यस्येच्छोपजायते ॥ तेनाद्यादर्थविज्ञानात्प्रभृतीच्छासमुद्भवात् ।
एकस्य कार्यचक्रस्य वक्तव्यः कश्चिदाश्रयः । शरीरं च बाल्यावस्थाभेदेन भिन्नमतस्तस्य नाश्रयो भवितुमर्हति सन्ता. नान्तरवद् यथा हि देवदत्तदृष्टेऽर्थे यज्ञदत्तस्य न स्मरणमेवं बालशरीराधनुभूते युवशरीरस्य तन्न स्यात्,
(१) ‘चित्येभ्यः’ इत्यत्र ‘नित्येभ्यः’ इति० क० पु० पा० । ________________

शरीरस्येच्छाऽऽधाश्रयत्वानुपपत्तिः । ११ नन्ववस्थामात्रमेव भिन्नमवस्थातृशरीरस्वरूपमभिन्नमेव प्रत्यभिज्ञाप्रत्यय. प्रामाण्यादवगम्यते, न चेयं प्रत्यभिज्ञा लूनपुनर्जातनखादिप्रत्यभिज्ञावदन्यथासिद्धा विनाशस्यासम्भवात् , स्तम्बादौ हि क्षणभङ्गित्वप्रतिषेधः प्रत्यभिज्ञयैव करिष्यते सा चेहापि तादृश्येव, तदयुक्तम्-स्तम्बादौ नानात्वकारणाग्रहणाद् इह तु रूपपरिमाणपरिवेशाद्यन्यत्वदर्शनात्सादृश्यनिबन्धनेयं भ्रान्तिरेव प्रत्यभिज्ञा न खलु शिशुशरीरे तरुणशरीरे जरच्छरीरे च तुल्यमेव परिमाणाधुपलभ्यते,
आहारपरिणामाच्च देहभेदोऽवगम्यते । पाकजोत्पत्तिमार्गेण न जीर्येतानमन्यथा ॥ न भवेत्परिपोषो हि दधिक्षीरादिभक्षणे । काञ्चनाद्युपयोगेन दृश्यते तस्य रक्तता ॥ क्षीणैरवयवैः कैश्चिकैश्चित्त्वभिनवोद्गतः ।
अभिन्न एवावयवी कथं भवितुमर्हति ॥ तथा च के चित्पच्यमानम्य घटादेरपि प्रागवस्थाविसदृशरूपादियोगिनः पाककारणभूतवेगवदग्निद्रव्यसंयोगपर्यालोचनयैव प्रलयोदयौ कल्पितवन्तः ।
पालुपाकवादिमतम्यद्यपि कन्दुकनिक्षिप्ता घटादयः तृणपर्णादिपिहितवपुषोऽपि तद्विवरप्रसतेन नयनरश्मिना न विनष्टा इत्युपलभ्यन्ते, यद्यपि तत्संख्या तत्परिमाणं तत्सनिवेशस्तद्देशाश्व पक्का अपि दृश्यन्ते यद्यपि ततो विभक्ता न विभाव्यन्ते; ततः तेषांकादिकारणकलापासंभवात्पुनर्घटनमघटमानमिव लक्ष्यते; तथाऽपि तेषामनुमानेन विनाशः परिकल्प्यते, सर्वावयवेष्वन्तर्बहिश्च पाकपूर्वकपूर्वरूपादिविलक्ष. णगुणोपलब्धेरन्तः प्रवेशः कृशानोरनुमीयते, तेन वेगवता वह्निद्रव्येण नोदनादभिघाताद्वा नूनं घटाघारम्भकेष्ववयवेषु क्रिया जायते क्रियातो विभागः विभा. गाद् द्रव्यारम्भकसंयोगविनाशस्तद्विनाशाद् द्रव्यविनाश इति, अनुप्रवेशपतेऽपि सूक्ष्मविवरपरिकल्पनादवश्यमवयवसंयोगविघटनं घटादेरिति विना. श एव, अपि च पाकानन्तरं कन्दुकादपकृष्यमाणाः पिठरादयः के चित्स्फुटिताः के चिद्वक्रतां गताः के चित्संनिवेशान्तरमेव प्रतिपन्ना दृश्यन्ते तस्मादपि प. श्यामो नश्यन्तीति, तत्संख्यत्वादिति सर्वमनैकान्तिकं सूच्याविद्धकण्ठकोणः कुम्भादिभिः, पूर्वोतनीत्या नष्टेषु घटादिकार्यद्रव्येषु परमाणव एव पच्यन्ते, प. काश्च श्यामादिगुणानवजहतो रक्तादिगुणान्तरयोगमनुभवन्तः प्राणिगतसुखदुःखोपभोगसाधनभूतादृष्टप्रेर्यमाणाः परस्परं संयुज्य द्यणुकादिप्रक्रमेण ताहशव घटादिकार्यमारभन्ते तत्रामुज्मिन्क्षणेऽमुष्य कार्यस्य प्रसवोऽमुष्य प्रलयइति प्रक्रिया न लिख्यते प्रन्थविस्तरभयादप्रयाजनत्वाच्चेति, एवं तपनातपदृश्यमानेष्वानादिफलेष्वेष एव न्यायः, शरीरेऽप्युर्येण तेजसा पच्यमाने. ________________

न्यायमअर्याम् ध्वन्नपानादिपु रसमलधातुभावेन परिणाममुपगच्छत्सु प्रायेण प्रतिक्षणमुत्पाद. विनाशौ सम्भवत इति स्थैर्याभावात्कथमनुसन्धानादिकार्ययोगोऽस्येति ।
पिठरपाकवादिमतम्अपरे-पुनः प्रत्यक्षबलवत्तया घटादेरविनाशमेव पच्यमानस्य मन्यन्ते सुषिरद्रव्यारम्भाचान्तर्बहिश्च पाकोऽप्युपपत्स्यते दृश्यते च पक्केऽपि कलशे निषिक्तानामपां बहिः शीतस्पर्शग्रहणमतश्च पाककाले ज्वलदनलशिखाकलाऽनुप्रवे. शकृतविनाशबलादपि शिशिरतरनीरकणनिकरानुप्रवेशकृतनाशप्रसङ्गः, न चेडशी प्रमाणदृष्टिरतः प्रकृतिसुषिरतयैव कार्य द्रव्यस्य घटादेरारम्भादन्तरन्तस्तेजःक. रणानुप्रवेशकृतपाकोपपत्तेग्लं विनाशकल्पनया पिठरपाकपक्ष एव पेशलः,
__ याहगेव हि निक्षिप्तो घटः पाकाय कन्दुके(१)।
पाकऽपि तादगेवासावुद्गतो दृश्यते ततः ॥ क चित्तु संनिवेशान्तरदर्शनं काष्ठाद्यभिघातकृतमुपपत्स्यते पावकसंपर्कस्य तत्कारित्वे तु सर्वत्र तथाभावः स्यात्, तस्मादविनष्टा एव घटादयः पच्यन्ते सोऽयं तु घटादिन्यायः शरीर नष्यते,
न ह्यन्नपाकस्थैर्येऽपि तत्र कुम्भादिपाकवत् ।
चयापचययुक्तं हि शरीरमुपलभ्यते ॥ तस्मात्परिमाणादिभेददशनानक शरीरमिति ज्वालाऽऽदिप्रत्यभिज्ञावत्तत्प्र. स्यभिज्ञेति स्थितम्।
यदप्युच्यते-अवस्थानामेव नानात्वमवस्थाता पुनरेक एव देहाख्य इति तद. ध्ययुक्तम् , भेदाभेदविकल्पानुपपत्तेः, यदि शरीराव्यतिरिक्ता एव तदवस्थाः तदाऽवस्थानामप्यन्योन्यं भेदा न स्याद्, अथ व्यतिरिक्ताःशरीरादेवस्थाः तहि भेदेन तदुपग्रहो दर्शयितव्यः, न चासावस्ति गोत्वादावनुवृत्त्या बुद्धिरनन्यथासिद्धा सती न केन चित्प्रतिहन्यत, इह पुनरवस्थान्तरकत्वग्राहिणी बुद्धिः पूर्वनीत्या प्रमाणबाधितत्वाद् भ्रान्तेति, तस्माच्छरीरस्य भिन्नत्वात्संतानान्तरवत् स्मृत्यनुसंधानादिकार्ययोगो दुर्घट इति न तस्येच्छाऽऽदिकार्याश्रयत्वम् , इतश्च न शरीरस्य ज्ञानादियोगः परिणामित्वात्क्षीरादिवत् रूपादिमत्त्वात्तद्वदेव, अनेकसमूहस्वभावत्वात् त्रिदण्डादिवत् सनिवेशविशिष्टत्वाच्च बाह्यभूतवत् , चैतन्यशून्यंशरीरं शरीरत्वान्मृतशरीरवत्, न शरीरधर्मश्चैतन्यमयावद्व्यभावित्वात, न च कण्ड्वादिभिर्व्यभिचारः तदुपजनापाययोनिमित्तान्तरजन्यत्वदर्शनादिह च तदभावाद्विशेषगुणत्वे सतीति वा विशेषणोपादानान्न व्यभिचारः, तद्विशेषगुणत्वे हि चैतन्यस्य रूपादिवत्तवस्थानादविनाशप्रसङ्गः ।
(१) कन्तुकम् – ‘पजावा’ इति प्रसिद्धः । ________________

आत्मन्यालेपः । यत्तु मदशक्तिवदित्युक्तम् तत्र मदशक्तेदृष्टत्वादभ्युपगमो न ज्ञानस्य तत्र दर्शनम् ।
भूतचैतन्यवादनिरासःननु ज्ञानमपि तदन्वयव्यतिरेकानुविधायि प्रायेण दृश्यते भूतेष्वनपानादयुपयोगपुष्टेषु पटवी चेतना भवति तद्विपर्यये विपर्ययः, ब्रा. मीघृतादयुपयोगसंस्कृते च कुमारशरीरे पटुप्रज्ञता जायते, वर्षासु च स्वेदादिनाऽतिदवीयसैव कालेन दध्याद्यवयवा एव चलन्तः पूतनादिक्रिमिरूपा उपलभ्यन्ते, चैतन्यगुरुलाघवव्यवहारोऽपि भूतातिशयसदसत्त्वकृतो. भविष्यतीति भूतचैतन्यवादपक्ष एव युक्तियुक्तो लक्ष्यते, _ नैतच्चारु–चेष्टेन्द्रियार्थाश्रयः शरीर(१) वक्ष्यते तत्र तदनुग्रहादिन्द्रियानुग्रह सति पटुकरणत्वाद्विषयग्रहणपाटवं, न हि विषयग्रहणादन्यच्चैतन्यं नाम, एतेन ब्राह्मीघृतोपयोगोऽपि व्याख्यातः, व्यापकत्वादात्मनः सर्वत्र भावे सति भोगायत. नत्वेन कदा चित्केषां चिद् भूतावयवानां समुपादानतः शुक्रशोणितादिवद्दध्यव. यवान्विकृतानुपादास्यते तथा च स्वेदजादिभेदे बहुभेदो भूतसर्गः प्रवर्तते विचित्रकर्मपरिपाकापेक्षयेति यत्किंचिदेतत् , तस्मान्न सर्वथा भूतानां चैतन्यमिति सिद्धम् ।
इन्द्रियचैतन्यवादनिरासःनापीन्द्रियाणि यथोक्तस्य ज्ञानादेः कार्यस्याश्रयतां प्रतिपद्यन्ते दर्शनस्पर्शनाभ्यामेकार्थग्रहणाद् (२) यमर्थमद्राक्षं चक्षुषा तमेवैतहि स्पर्शनेन स्पृशामि यमस्पाक्ष स्पर्शनेन तमधुना चक्षुषा पश्यामीति कतरदिन्द्रियमेवमनुसन्दधीत न चक्षु स्पर्शाविषयत्वात् , न त्वगिन्द्रियं रूपाविषयत्वात्तस्मादुभयविषयग्रहणसमथः कश्चिदनुसंधाताऽस्तीति स इन्द्रियव्यतिरिक्तो गम्यते,
अमुनैव प्रसङ्गेन रूपादिव्यतिरेकिणः ॥ वक्तव्या गुणिनः सिद्धिरेतबुद्धिनिबन्धना ॥ रूपादिषु स्वतन्त्रेषु न ह्येष प्रत्ययो भवेत् ॥
न रूपमस्य विषयो न स्पर्शो न च तद् द्वयम् ॥ अतश्च न गुणव्यतिरिक्तो गुणी भेदेनाग्रहणादित्यसिद्धः परोक्तो हेतुः भेदग्रहणस्य दर्शितत्वात् , वृत्तविकल्पादीनां तु प्रतिसमाधानं सामान्यसमर्थ. नावसरे कथितमवयविसिद्धौ वक्ष्यते चेत्यलमवान्तरचिन्तया, इतश्च नेन्द्रि. याणां चैतन्यं करणत्वाद्वास्यादिवत् , भौतिकानि चेन्द्रियाणि वर्णयिष्यामः, तेन य एष भूतचैतन्यनिराकरणे न्यायो वर्णितः स तेष्वपि योजनीयोऽतश्चैवमिन्द्रियान्तरविकारात् ,(३)
(१) गौतमसूत्र अ० १ आ० १ सू० ११ । (२) गौ० सू० अ० ३ आ० १ सू० १ (३) गौ० सू० अ० ३ आ० १ सू० १२ ________________

न्यायमअर्याम् पाने हि चक्षुषा दृष्टे रसनिष्यन्दसुन्दरे । रसनस्य विकारः स्यान्नुर्दन्तोदकविप्लवः ॥ बहूनामिन्द्रियाणां च भिन्नाभिप्रायता भवेत् ।
तेनैकत्रैव सन्ताने नानाचेतनता भवेत् ॥ अतितुच्छश्चायमिन्द्रियचैतन्यपक्ष इति किमत्र बहु लिख्यते ।
मनश्चैतन्यवादनिरासःननु मनस्तीच्छाऽऽदेरधिष्ठानं भविष्यति तद्धि नित्यमेकं सर्वविषयमभौतिकमिति न प्राक्तनदोषैः स्पृश्यते ? उच्यते-मनसोऽपि तदाश्रयत्वमनुपपत्रं, कुतो? ज्ञातुर्ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम् मनसोहीच्छाऽऽद्याश्रयत्वे ज्ञानादौ कर्तृ. स्वात्तस्यापि बाह्यगन्धादिविषयज्ञानायोगपद्यानुपपत्तेस्तग्रहणे घ्राणायधिष्ठानपटुना केन चिदान्तरसुखदुःखादिविषयग्राहिणा स्मृत्यादिक्रियाकारिणा च क. रणेन भवितव्यमिति तत्रात्मसंज्ञा भवेदात्मनि च कर्तरि मनः संज्ञेति,
न चास्य बाह्यकरणैः सिध्यन्ति सकलाः क्रियाः । न च स्मृतिसुखेच्छाऽऽदौ (१)शक्ताः स्युश्चक्षुरादयः ॥
चैतन्याश्रयतयाऽऽत्मनः साधनम्तेनेच्छासुखकृतिदुःखवेदनानामाधारो न खलु मनो न चेन्द्रियाणि । देहोऽपि व्रजति न तत्समाश्रयत्वं तेनान्यं पुरुषमतः प्रकल्पयामः ॥
दिक्प्रदर्शनमिदं कृतमिच्छाद्वेषयत्नसुखदुःखमतीनाम् । लिङ्गताकथनमात्मनि तत्र त्वस्ति हेतुनिवहो बहुरन्यः ॥ कतप्रयोज्यता खलु दृष्टा दानादिकरणजातस्य । त्वक्श्रोत्राद्यपि करणं तथैव का प्रयुज्येत । हिताहितप्राप्तिविमर्शयोग्या चेष्टा च दृष्टा नियता शरीरे । तच्चेतनाधिष्ठितताममुष्य गन्त्रीरथादेरिव कल्पयामः ॥ प्राणादिमारुतानामन्तश्चलतां चलाचलगतीनाम् । सहजनिजकर्मविकृतौ कारणमनुमीयते किञ्चित् ॥ इदं च देहादितरत्र दुर्लभं निरीक्ष्य वृद्धिक्षतभग्नरोहणम् ।
ध्रुवं ग्रहस्येव गतिः प्रकल्पते निजाश्रमलेमपरायणो नरः ॥ युक्तं च नैवं मनसा ह्यनधिष्ठितानां स्वार्थप्रमाकरणकौशलमिन्द्रियाणाम् । स्यात्कश्चिदिष्टविषयानुगुणप्रयत्नो यत्प्रेरितं सदधितिष्ठति तानि चेतः ॥
ज्ञानप्रयत्नादिमतोऽथ कस्य दृष्टान्तता स्यात्करणादिलिङ्गे ।
काय च नः पर्यनुयोग एष सामान्यमात्रस्य तवापि सिद्धः ॥ (१) मातानिचक्षुरादीनि ख० पु० पा० ।

  • ________________

आत्मन्याक्षेपः।
प्रत्यक्षादिप्रमाणयों व्यवहारः स चात्मना। विना नित्येन नेत्येवं ततस्तस्य प्रकल्पनम् । यत्प्रत्यक्ष प्रत्यभिज्ञास्वभावं ज्ञात्रन्यञ्चत्तस्य न ह्यात्मलाभः । प्रायस्यैक्यं यद्वदर्थस्य तस्मात्सिद्धयत्येवं ग्राहकस्यापि पुंसः॥
अविनाभावग्रहणं लिङ्गज्ञानं तदन्वयस्मरणम् । लिङ्गिप्रमितिरितीदं न बोद्धभेदेऽनुमानं स्यात् ॥ ज्ञाते वनेचरमुखादतिदेशवाक्ये दृष्टे मृगे विपिनवत्तिनि गोसहक्षे । तत्संज्ञतामितिफलं लभते प्रमातृभेदे न चेद मुपमानमितिप्रतिष्ठम् ॥ वर्णानां श्रवणं क्रमेण समयस्मृत्या पदार्थग्रहस्तत्संस्कारजमन्त्यवर्णकलनाकाले तदालोचनम् ।
आकाक्षादिनिबन्धनान्वयकृतं वाक्यार्थसम्पिण्डनं
ज्ञात्रैकेन विनाऽतिदुर्घटमतो नित्यात्मसिद्धिर्धवम् । मयेदं पूर्वेद्युविहितमिदमन्येधुरपरं विधातव्यं चेति श्रुतिकृषिवणिज्यादिषु जनाः । यदेवं चेष्टन्ते निपुणमनुसन्धाय तदमी ध्रुवं सर्वावस्थानुगतमवगच्छन्ति पुरुषम् ॥
इत्यादि लक्षणमवादि तदेतदिच्छाद्वेषप्रयत्नसुखदुःखसमाश्रयत्वम् । तत्सङ्गिनं तदिह हेयतया व्यवस्येत्तद्विप्रयुक्तमधिगम्यतया मुमुक्षुः॥
विज्ञानात्मवादिनः पूर्वपक्षःअथो तथागताः प्राहुः कि पुंसा कल्पितेन वा। ज्ञानमात्रेण पूर्वोक्तो व्यवहारोऽवकल्पते ॥ ज्ञानं किमात्मवन्नित्यं सौगतैरुपगम्यते । प्राग्दर्शितानुसन्धानस्मरणादिक्रियाक्षमम् ॥ ज्ञानं बौद्धगृहे तावत्कृतो नित्यं भविष्यति । अन्येऽपि सर्वे संस्काराः क्षणिका इति गृह्यताम् ॥ क्षणिकं चेष्यते कार्य न क चित्किञ्चिदाश्रितम् । स्वतन्त्रं ज्ञानमेवातो नान्यस्तेनाऽनुमीयते ॥
ज्ञानस्यैव प्रभेदोऽयमिच्छाद्वेषसुखादिकः । न वस्त्वन्तरमित्येवं न ततोऽप्यन्यकल्पनम् ॥ गुणत्वमपि नास्त्यस्य यतोऽधिष्ठानकल्पना । न गुणव्यतिरिक्तश्च गुणी नामास्ति कश्चन ॥ निराश्रयेषु विज्ञानस्कन्धेषु क्षणभङ्गिषु ।
कथं स्मृत्यादि कार्य वा परलोकोऽपि वा कथम् ॥ सत्यपि वा परलोके कथमकृताभ्यागमकृतविप्रणाशौ पराक्रियेते, येन हि ________________

न्यायमअर्याम् शानेन चैत्यवन्दनादि कर्म कृतं तस्य विनाशान्न तत्फलापभोगो, यस्य च फलो. पभोगः तेन न तत्कर्म कृतमिति, नैष दोषः-कार्यकारणभावस्य नियामकत्वा. दनादिप्रबन्धप्रवृत्तो हि ज्ञानानां हेतुफलभावप्रवाहः, एष एव च सन्तान इत्युच्यते, तत्कृतश्चायमनुसंधानादिकार्यनियमः, सन्तानानादित्वादविच्छेदाच परलोकोऽपि न क्लिष्टकल्पनः, यद्यपि च सन्तत्यन्तरपतितज्ञानजन्यमपि सन्त. त्यन्तरे ज्ञानं दृश्यते तथाऽपि न तादृशः कार्यकारणभावेन सन्तानव्यवहारः प्रतिसन्धानादिकार्यनिर्वाहो वा किन्तूपादानरूपतद्विशेषणनिबन्धन एवैष निर्वहति नियमः, तस्मिन्नेव सति स्वरूपसन्तानविभागोऽवकल्पते,
स्मृतिवत्परिहर्तव्यो कृतनाशाकृतागमौ ।
तत्सन्तानोपसंक्रान्त्या कुसुमे बीजरागवत् ॥ आह च
यस्मिन्नेव च सन्तान आहिता कर्मवासना ।
फलं तत्रैव बध्नाति कार्पासे रक्तता यथा ॥ नित्यस्त्वात्माऽभ्युपगम्यमानो यदि सुखादिजन्मना विकृतिमनभवति तदयं नित्य एव धर्मादिवदुक्तः स्यात् , निर्विकारत्वे तु सताऽसता वा सुखदुः खादिना कर्मफलेन कस्तस्य विशेष इति कर्मवैफल्यमेव, तदुक्तम्
वर्षातपाभ्यां किं व्योम्नः चर्मण्यस्ति तयोः फलम्।
चोपमश्चेत्सोऽनित्यः खतुल्यश्चेदसत्समः ॥ इति । तस्मादुत्सज्यतामेष मूर्धाभिषिक्तो प्रथमो मोहः आत्मग्रहो नाम, तन्निवृत्या चात्मीयग्रहोऽपि विरंस्यति अहमेव न किं ममेति, तदिदमहंकारममका. रग्रन्थिप्रहाणेन नैरात्म्यदर्शनमेव निर्वाणदारमालम्ब्यताम् , तस्य स मार्गः क्षणिकपदार्थनिश्चयः, क्षणिकेषु हि सर्वभावेषु निराश्रयेषु ज्ञानस्याप्याश्रयविर• हात्कुतस्त्यमात्मकल्पनमिति ।
सर्वभावानां क्षणिकत्वम् - कथं पुनरेष सकलप्रमाऽतीतःक्षणिकपदार्थवादः शक्यते शाक्यैरभ्युपगन्तुम् ?
न खलु क्षणभङ्गित्वे भावानामक्षजा मतिः । न भूमिरनुमानस्य विकल्पनियतस्थितः ॥ स्मरणप्रत्यभिज्ञाने प्रत्युत स्थैर्यसाधके।
एवं च वञ्चनामात्रमाशुनाशित्वदेशना ॥ उच्यते-प्रत्यक्षगम्यं क्षणिकत्वं भवति न भवत्येष करिष्यते विचारः, अनुमानं तु संप्रत्येवमभिधीयते-सत्त्वात्तणिकाः पदार्था इति, सत्त्वं तावद. थक्रियाकारित्वमुच्यते, यथाऽर्थमर्थक्रियासमर्थ यत्तदेव परमार्थसदिति, सत्प्रत्य ________________

4
.
MADRASE
..
… .
….
सर्वभावानां क्षणिकत्वम् । यगम्यत्वे हि सत्त्वे (१)केशोण्डकादेरपि सत्त्वप्रसङ्गः, सत्तासंबन्धे सत्त्वे सामा. न्यादीनां तदसंबन्धादसत्त्वं स्याद् , अर्थक्रियासामर्थ्यसत्त्वानुवर्ती च लौकिको. व्यवहारः सत्यपि पुत्रे तत्कार्यादर्शनादपुत्रा वयमिति व्यपदिशन्ति लौकिकाः, पुत्रादन्यस्मिन्नपि तत्कार्यकारिणि सति सपुत्रा वयमिति च ब्रवते, तस्मादर्थः क्रियाकारित्वमेव सत्त्वम् , भवत्वेवं-तस्य तु कुत्र कथं वा क्षणिकत्वेन व्याप्तिग्रहणम् ? कुत्रेति यत्पृच्छसि यत्र रोचते महाभागाय घटे पटे वा गृह्यतां व्याप्तिः, किं साध्यधर्मिण्येव व्याप्तिग्रहणमुपपद्यते ? धीमन् ! कोऽत्र प्रमादः, न हि देव. निर्मितः कश्चित्साध्यधर्मी नाम, ग्रहीतुं शक्यते चेद्याप्तिः यत्र तत्र का गृह्यतः मिति, तदुच्यते-भावानां हि सत्त्वं क्षण (कम)योगपद्याभ्यां व्याप्तम, .
नित्येषु च पदार्थेषु व्यापकानुपलम्भनात् । तद्याप्तमपि सत्त्वं हि बलात्तेभ्यो निवत्तते ॥ न च राशिस्तृतीयोऽस्ति तेन गत्यन्तरक्षयात् । क्षणिकानेव तान्भावान सत्त्वं समवलम्बते ॥ तञ्च स्वग्राहकाद्वोधादसन्दिग्धं प्रतीयते। ज्ञानोत्पत्त्यैव तद्धतोरलामय पराकृते । असमर्थात्समुत्पादो दृश्यते न हि कस्य चित् ॥ शक्ताशक्तप्रसक्तत्वे तय बाधाऽस्ति संशयः ॥ अत एव च तज्ज्ञानं प्रमाणं जगदुः स्वतः ॥
स्वरूपे शक्तिजत्वे तु संशयादेरसंभवात … किमिदं रजतमुत शुक्तिकेति विशेषांशे संशेरतां नाम प्रमातारः, न तु सामर्थ्य प्रति दोला का चित्संभवति, किमिदं ज्ञानं समर्थन जनितमुत तदि. तरेणेत्यसमर्थस्य जनकत्वानुपपत्तेः, व्यापकानुपलम्भस्यापि व्याप्तिग्राहिणः स्वतः प्रामाण्यम , संशयविपर्ययोस्तत्राप्यभावात् , __कथं पुननित्येपु पदार्थेषु सत्त्वव्यापकयोः क्रमयोगपद्ययोरनुपलम्भः ? उच्यते-नित्यो हि भावः क्रमण वा कार्य कुर्याद्योगपद्येन वा, परस्परविरहस्थितात्मनां तृतीयप्रकारानुपपत्तः,
नतावत्क्रमण, स हि समर्थो वाऽसमर्थो वा? समर्थश्चक्रमेण कथं समर्थस्य क्षे. पा(२)योगाद् , असमर्थस्त्वसमर्थत्वादेव न करोति किं चिदिति तस्यापि किं क्रमे
. . .
THE KID!!**: %50 g
RESEAR.
ANYLAPORE
(१) चिरकालाध्ययनखिन्नस्योत्थितस्य नीललोहितादिगुणविशिष्टः कश्चिन्नयन. स्याने परिस्फुरति, अथ वा करसंमृदितलोचनरश्मिषु येयं केशपिण्डावस्था स केशोण्डकः, केशसमूहो वा केशोण्डूकः, स च मिथ्यैव तस्यापि सत्त्वं स्यादिति भावः ।
(२) क्षेपो विलम्बः । ________________

न्यायमञ्जर्याम् ण ? सहकार्यपेक्षया करोतीति चेद् न-असमर्थस्य सहकारिणाऽपि सामर्थ्याधानानुपपत्तेः, समर्थस्य स्वत एव सामर्थ्य सति सहकारित्ववैयर्थ्यात् , सहकारिसनिधानेऽपि चास्य स्वरूपेण वा कर्तृत्वं स्यात्पररूपेण वा ? स्वरूपस्य च प्रागपि भावात्तस्य च कारकत्वात् किं सहकारिणा, पररूपेण कर्तृत्वे पूर्वरूपपरित्यागात्त. दूपान्तरापत्तेश्च क्षणिकत्वमुपपद्यते, एवं सहकार्यपि समर्थासमर्थतया विकल्प. नीयः, स्वतोऽपि सामर्थ्य किं परोपकरणदैन्येन, असमर्थस्य तु सचिवः किमागत्यापि सर्वत्र काय साचिव्यमुपगच्छेत् ?
किचित्करश्चेद्वक्तव्यं किं करोतीति, उपकारमिति चेत्स उपक्रियमाणाद्भिन्नोऽभिन्नो वा ? अभिन्नश्चेत्स एव कृतः स्यात् , भेदे तस्य किमायातं. यसो न पूर्ववदास्ते, कायर्यादपि भेदाभेदाभ्यां चिन्त्य उपकारः, न कार्याद्भित्रो. ऽनुपलम्भाद् द्वयकारणभावाञ्च, कार्यादव्यातरिक्त तूपकारे सहकारिणा क्रि. यमाणे कायमेव तेन कृतं स्यादिति मूलकारणानर्थक्यम् ,
ननु चैक एव भावः कारकः स एव हि समर्थस्तदितरपदार्थसन्निधानं तु स्वहेतुवशादुपनतमिति नोपालम्भमहति,
नैतद्युक्तमेकस्य कदा चिदपि कारकत्वानुपलब्धेस्तत्सामर्थ्यस्य दुरधिगमत्वात , एवं ह्यसौ समर्थ उच्यते यद्येकः कदा चित्कार्यमुत्पादयन्दृश्येत न तु विस्मृत्यापि दृश्यते,
अथ कार्यस्यायं स्वभावो यदेकस्मान्नोत्पद्यते कारणं तु शक्तमेवेति ?
तदप्ययुक्तम्-कार्यस्वभावपराधीनत्वेन कारणस्य सामर्थ्यविरहप्रङ्गात् , एवं ह्यसौ समर्थः कथ्येत यदि कार्यस्वभावमनादृत्य स्वतन्त्र एक एव प्रसह्य कार्य जनयेन चैवं दृश्यत इति यत्किचिदेतत् ,
अथ समर्थमेव कारणं तस्य त्वयं स्वभावो यत्सहसैव कार्य न करोति कतिपयक्षणव्यवधाने तु करोतीति, ___ यद्येवं न कदाचित्कार्योत्पादः स्यात् , कार्योत्पादसमयेऽपि कतिपयक्षणव्यवहितकार्यजननस्वभावानपायात , पुनः कतिपयक्षणाद्यवेक्षणं स्यात् , तेष्वपि क. तिपयेषु क्षणेष्वतिक्रान्तेषु स एवास्य स्वभावस्तदवस्थ इति पुनरप्येवं भवेदिति कदा नाम कार्य जनयेत् ? तदेवभादिदोषोपहतत्वान्न क्रमेण भावानामर्थक्रियासामथ्यम् ,
नापि युगपद् , लोके तथा व्यवहारादर्शनात् , युगपत्कृतकस्यापि स्थिरस्य पुनरकरणे हेत्वभावः, पुनश्च कुर्वन्नपि भावः कार्य न तदेव कुर्यात् , कृतस्य करणायोगात् , कार्यान्तरकरणे तु स एवायं पुनः क्रमपक्ष आपतेदित्येवं क्रम. योगपद्ये नित्येभ्यः पदार्थेभ्यः निवतेते , ते च निवर्तमाने सत्त्वस्य व्यापके इति सत्त्वं तेभ्य आदायैव निवत्तेते , तेभ्यः प्रच्युतं सत्त्वं गत्यन्तरविरहात्क्षणिकेष्वेव ________________

सर्वभावानां क्षणिकत्वम् ।
निविशते(१), अतो यद्यपि कार्य हेतौ धूमाग्न्योरिव स्वभावहेतावपि वाक चिद् वृक्षत्वशिंशपात्वयोरिव पूर्वमिह साध्यसाधनधर्मयाग्रहणं धर्म्यन्तरे न वृत्तं तथाऽपि साध्यधर्मिण्येव व्याप्तिग्रहणमुपपत्स्यते विपक्षव्यावृत्तेः सुपरिनिश्चितत्वात् , यैव च विपक्षाद्यावृत्तिः स एव चास्य हेतोः स्वसाध्येनान्वयः, न ह्येवं संभ. वति नित्येभ्यश्च व्यावृत्तं सत्त्वं क्षणिकेषु च न निष्ठमिति, तृतीयराश्यभावानिराश्रयत्वानुपपत्तेश्च, तदेवं क चिद्धर्मिणि व्याप्तौ गृहीतायां यदि स एव कदा चित्परं प्रति दृष्टान्तीक्रियते तदैवं नाम भवतु को दोष इति,
ननु व्यापकानुपलब्धरनुमानमनुमानेन चानुमानस्य व्याप्तिग्रहणे ऽनवस्था?
नानवस्था, तावत्येव पर्यवसानात् , न हि व्यापकानुपलब्धेरनुमानान्तराद्याप्तिनिश्चयः, किं तु प्रत्यक्षविकल्पादेव, तदनया व्याप्तिनिश्चयात्सिद्धमेतद्यत्सतत्क्षणिकमिति,
अन्ये तु नीत्यन्तरेण व्याप्तिनिश्चयमाचक्षते –विरुद्धयोरेकपरिच्छेदेऽन्यतरनिवृत्तिरवश्यंभाविनी विरुद्धत्वादेव, विरुद्धे च सत्त्वनित्यत्वे पूर्वोक्तयैव नी. त्या, (२)सत्त्वं च विस्पष्ठमुपलभ्यते भावानामिति तदुपलम्भान्नित्यत्वनिवृत्तिः, नित्यत्वनिवृत्तरेव क्षणिकत्वनिश्चयः, प्रकारान्तराभावाद्,
ननु शीतोष्णयोः पृथगुपलम्भाद्विराधनिश्चये युक्त एकग्रहणे द्वितीयव्युदासः, इह तु सत्त्वमेवोपलभ्यते न नित्यत्वमिति कथं तद्विरोधादितरव्यावृत्तिः ?
नैष दोषः, पृथगुभयानुपलम्भेऽपि सत्त्वबुद्धयैव नित्यत्वनिराससिद्धः, कथमन्यविषयबुद्धिरन्य मुदस्यति ? उच्यत
द्विचन्द्रदर्शनस्यैकशशभृद्विम्बवेदिनी । धीरतद्विषयत्वेऽपि तद्यवच्छेदकारिणी ॥ सत्त्वं नानास्वभावत्वं स्थैर्यमेकस्वभावता।
तयोविरोधो युक्त्याऽपि वक्तं न हि न शक्यते ॥ तस्मात्सत्त्व प्रतीतेरेव नित्यत्वनिवृत्तिः, सैव च क्षणिकत्वव्याप्तिरिति सिद्धं सत्त्वात्तणिकत्वम् । ___ अपि च सर्वदा कार्यानुत्पादात्कारकावस्था नूनमेकक्षणस्थायिनी भावा.

1
(१) निविात इति-अयम्भावः सत्त्वमर्थक्रियाकारित्वं न तु सत्तायोगित्वम् सामान्यादौ सत्तायोगित्वाभावेनासत्त्वप्रसङ्गात , तच क्रमयोगपद्याभ्यां व्यासं ते च नित्येषु न सम्भवतः इतिसत्त्वव्यापकयोः क्रमयोगपद्ययोनित्येषु निवृत्त्या सत्त्वमपि निवतते इति क्षणिकेष्वेव सत्त्वं पर्यवस्वतीनि ।
(२) नीत्येति । सत्त्वव्यापकयोः क्रमयोगपद्ययोनित्ये निवृत्त्या सत्त्वस्यापि निवृत्तिरिति रीत्येत्यर्थः । तेन सत्त्वनित्ययोविरुद्धत्वमिति भावः । ________________

न्यायमञ्जर्याम्
नामुपगन्तव्या व्यापारावेशवशेन वा श्रोत्रियादिपक्षे, सहकार्यादिसन्निधानापादनेन वा नैयायिकादिपने, कारकत्वं नाम वस्तुनो रूपमेकक्षणवृत्त्येव कार्योत्पस्यैव तत्कल्पनात् , ततः पूर्वमुत्तरकालं वा कारकायोगात् , कारकत्वमेव च परमार्थसदकारकस्य ज्ञानजनकत्वाभावादस्तित्वमपि दुर्वचमतश्च सर्ववादिमिरेव प्रायेण क्षणिकत्वमिदमभ्युपगतमिति यश एव केवलं सौगताः पीतवन्तः, तस्मात्सिद्धं यत्कारकं यच्च सत्तत्क्षणिकमिति,
अतश्च क्षणभङ्गिनो भावाः प्रलयं प्रति हेतुनिरपेक्षत्वात , भावो हि स्वतोनवरात्मा भवेत्तद्विपरीतो वा
विनश्वरस्वभावेऽस्मिन् कृतं प्रलयहेतुभिः ।
अनश्वरस्वभावेऽपि कृतं प्रलयहेतुभिः ॥ क तर्हि मुद्रादीनां व्यापारः ? विजातीयसन्ततिजन्मनीति बमः, अभावस्तु सज्जन्यो न संभवत्येव प्रमाणविरुद्धत्वात् , भावो हि स्वरूपेण न भवति न स्वभावोऽपि भवतीति, स्वरूपं भवनात्मकं चेत्सर्वदैव भवेदेव न न भवेत् , अभावात्मकं तु तदेव न भवेत्परापेक्षाया अभावात् , न हि मुद्रादिकारणान्तरसापेक्षः कुम्भादेविनाशो भवितुमर्हत्युत्पत्ताविध नाशेऽपि समर्थासमर्थभिन्नाभिन्नोपकारिसहकार्यादिविकल्पकलापानपायात् ,
अथ कतिपयक्षणव्यवहितविनाशस्वभावो भाव इष्यते तर्हि प्राक्तननयेन कदा चिदपि न विनश्येत् , विनाशसमयऽपि तत्स्वभावानपायेन पुनः कतिप. यक्षणापेक्षमप्रसङ्गात् , अपि च यदाऽपि तन नष्टव्यं तदाऽप्यस्य न स्वरूपादति. रिक्तः कश्चन विनाशहेतुरवतरति, तच्च स्वरूपाद्यपेक्षणे तस्य तादृशमेवेति तदैव वा नश्येन कदा चिद्वा,
अथ मृत्योरपक्रान्तस्तस्य चेत्प्रथमः क्षणः ।
अविनाशिस्वभावस्वादास्तां युगशतान्यपि ॥ न चैवमभ्युपगम्यते, तस्मादात्मलाभाविनाभावो भावानां विनाश इति सिद्धः क्षणभङ्गः।
क्षणभङ्गे प्रत्यभिज्ञाया अबाधकत्वकथनम् । यदपि क्षणभङ्गसाधनस्य पदार्थस्थैर्यावसायि प्रत्यभिज्ञानमनुमानस्य बाध. कमभिधीयते, तदपि न पेशलशिथिलप्रतिवन्धहतो बाधकस्य निरवकाशत्वात् , उक्तं हि-बाधाविनाभाषयोविरोधानेकत्र समावेश’ इति, अनुषणस्तेजोऽवयवी कृतकत्वादित्यत्रापि प्रतिबन्धवैधुर्य्यमेव साध्यसिद्धि विरुणद्धि नाध्यक्षबाध्यत्वम् , अथ वा किमनेन निर्बन्धनेन
अग्निशत्यानुमानादौ युक्तं प्रत्यक्षबाधनम् । तस्य ह्यनन्यथासिद्धरिह त्वेवं न युज्यते ॥
. ________________

प्रत्यभिज्ञानिरासः
er.
HI
प्रत्यभिज्ञायाः झणभङ्गपक्षेऽपि सदृशपरापरक्षणगणप्रसवप्रतारितम मानापलभ्यमानत्वात् , एवं च सति
कालः यदि हि व्याप्तिशैथिल्यं सिद्धं किं प्रत्यभिज्ञया।
अथ न व्याप्तिशैथिल्यं सिद्धं कि प्रत्यभिज्ञया ॥ न च प्रत्यभिज्ञेव व्याप्तिविप्लवकारणमितरतराश्रयप्रसङ्गात् , व्याप्ति एव नानुमाने न्यग्भूते प्रत्यभिज्ञा प्रमाणं भवति तस्यां च प्रमाणीभूतायां व्या धुर्यादनुमानाप्रामाण्यम् , अनुमानप्रामाण्येऽपि समानो दोष इति चेन्न, प्रतिबन्धमहिम्नैव प्रामाण्यसिद्धः, न हि तस्य प्रतिभिज्ञादौर्बल्यनि प्रामाण्यम् ।
प्रत्यभिज्ञास्वरूपनिरूपणम् । अपि च केयं प्रत्यभिज्ञा नामेति नैपुण्येन निरूपयितुमर्हन्त्यत्र भवन्तः,। स एवायं कम्भ इत्येकं ज्ञानमुत द्वे एते स्मत्यनुभवज्ञाने ? यद्येकं तदस्य कार.. वाच्यं यत उत्पद्यते? नेन्द्रियं स इत्यस्मिन्नशे तस्यासामथ्योत ,न संस्कारस्तस्याप्ययमित्यंशे कौशलाभावात ,
उभाभ्यां न च सम्भूय तज्ज्ञानमुपजन्यते ।
पृथक् पृथक स्वकार्ये हि नितिं कौशलं तयोः ॥ संस्कारस्य स्मृतिरेव कार्यमिन्द्रियस्यानुभव एव, संभूय न ताभ्यामेकं का. र्यमारभ्यते, न हि मत्पिण्डतन्तुनिवर्त्यमेकं घटपटरूपं कार्यमुपलब्धम् , न चे. न्द्रियं केवलमीहशि कार्ये समर्थ, यथासन्निहिताकारमात्रग्राह्यविचारकमिन्द्रि. यं प्रत्यभिज्ञानमातनोतीति विस्मयः ! तस्माद् द्वे एते ज्ञाने, स इति स्मरणमयमित्यनुभवः,
स्मतिः स्मर्त्तव्यविषया ग्रहणं ग्राह्यगोचरम् । न तदैक्यपरामर्शि दृश्यते प्रत्ययान्तरम ॥ यथा निरन्तरोत्पन्ने घटज्ञानपटस्मती ॥ न तुल्यविषये तद्वदेते अपि भविष्यतः ॥ यद्वा भवतु नामेदमेकमेव हि वेदनम् । तथाऽपि कीदृशं वस्तु स्पृशतीति परीक्ष्यताम् ॥ अतीतकालयुक्तं चेत्स्मरणान्न विशिष्यते । अनागतविशिष्टं चेत्सङ्कल्पप्रायमेव तत् ॥ वर्तमानकनिष्ठं चेस्थिरत्वं तर्हि सुस्थितम । कालत्रयपरीतं चेद्विरोधात्तत्त दुर्लभम् ॥ परस्परपरित्यागव्यवस्थितनिजात्मनाम् । एकत्र न समावेशः कथं चिदुपपद्यते ॥ ________________

न्यायमअर्याम्
नामुपगथा हिदनेन व नीलाभावाविनाभूतलौहिताद्यपसारणम् ।
सेवन कर्वता नीलबोधेन नीलं भवति निश्चितम् ॥ मार्थसाद्वदिहापिप्रायेण तदभावाविनाभूतस्वस्वकालाबपोहनम् । तस्मा वेदयन्वर्तमानार्थज्ञानं तद्ग्राहिता भवेत् ॥
एतेन पूर्वज्ञानविशिष्टार्थ ग्राहित्वं प्रत्यभिज्ञायाः प्रत्युक्तम् , नार्वज्ञानस्येदानीमसत्त्वेन विशेषणत्वानुपपत्तेः, अगृहीतविशेषणायाश्च विशि
वाद्, अर्थोपजननापायरहितवस्तुस्वरूपग्राहिणी प्रत्यभिज्ञत्युच्यते, दप्ययुक्तम् , वर्तमानकनिष्ठतायाः प्रदर्शितत्वात् , भावानां च विनाशमनोर्वर्तमानो वा कालः स्यादन्यो वा ? तदन्यस्तावद् ग्रहीतुमशक्य इत्युक्तम् , मतमाने तु तदुत्पादविनाशकाले कथ्यमाने तद्ग्रहणात्तदविनाभूतौ भावानामु. सादविनाशावपि गृहीतौ स्याताम् ,
सेयं तपस्विनी स्थैर्य प्रसाधयितुमागता।
प्रत्यभिज्ञा विनाशित्वं प्रतिष्ठाप्य गमिष्यति(१) । अपि च लुनपुनर्जातकेशनखादिषु सादृश्यदृश्यमानप्रत्यभिज्ञा स्तम्भादिध्वपि तद्वदेव न स्थिरतामुपपादयेत्, तत्र बाधकयोगादिति चेदिहाप्युक्त एव बाधकः परस्परविरोधिभूतादिकालसमावेशस्यकत्र दुर्घटत्वादिति, तस्मात्प्रत्यभिज्ञाप्रत्ययस्य बाधकस्याभावात्सिद्धमानुमानिकं भावानां क्षणिकत्वम् ।
क्षणिकत्वस्य प्रत्यक्षगम्यत्वम् । अपरे पनः प्रत्यक्षगम्यमेव क्षणिकत्वमाचक्षते
नातीतानागतौ कालौ विचारयति चाक्षुषम् । __ वर्तमानक्षणश्चैक इति तनिष्ठमेव तत् ॥ __ यदि वर्तमानातिरिक्तग्राहि प्रत्यक्षमिष्यते तद्वक्तव्यं कि पूर्व विज्ञानमना. गतकालावच्छिन्नपदार्थग्रहणनिपुणम् , अथोत्तरज्ञानमतीतकालालिङ्गितभावाकल. नकुशलमिति ? तत्राद्यज्ञानसमुपजननसमये तमत्तणातिरिक्तभाविकालासन्निधानान्न तेन तद्ग्रहणम् , अनागतग्रहणे वा कथमागामिजन्मग्रहण न स्यादुत्तरज्ञानप्रसवसमयेऽपि भूतकालस्य भूतत्वादेव न सन्निधानमसन्निहितभूतकालग्रहणे वा पूर्वजन्मग्रहणप्रसङ्गः, (१) अमुमर्थमेवाह शानदीपिकाकारः
विवादाध्यासिता भावाः सत्त्वात्क्षणविनाशिनः । वीपवत्प्रत्यभिज्ञापि स्यात्प्रदीपवदेव नः ॥ इत्यनेन ।

  • ________________

प्रत्यक्षं क्षणिकत्वम् । अथ वर्तमानानुप्रवेशेन भूतभाविनोः कालयोग्रहणं मन्यसे तत्र वर्तमानानुप्रवेशाद्वर्तमान एव गृहीतः स्यान्न भूतो भावी वा, अथ न कश्चिदेव कालः क चिद्गाते, अर्थ एव प्रकाश्यः केवल इति,
तदयुक्तं, तदवच्छिन्नभावप्रतिभासस्य भवद्भिरेवाभ्युपगमात ,
ननु कोऽयं कालो नाम शाक्यानाम ? न कश्चिद्वास्तवः, कि काल्पनिक एव व्यवहारः
सर्वथेन्द्रियजं ज्ञानं वर्तमानैकगोचरम् । पूर्वापरदशास्पर्शकौशलं नावलम्बते॥ वर्तमानः कियान्काल एक एव क्षणस्ततः ।
पूर्वः क्षणोऽतीततां स्पृशत्युत्तरस्त्वनागतताम् ॥ ननु पचति पठतीति वर्तमनोऽपि वितत एव कालः प्रतीयते ? नैतत्सारम्
न ह्यस्ति कालावयवी नानाक्षणगणात्मकः ।
वर्तमानक्षणो दीर्घ इति बालिशभाषितम् ॥ क्षणसमुदायात्मकत्वं तु नानारूपत्वमेव तस्य भवेत, अतीतानागतक्षणा. त्पूर्वमूर्ध्व वा तदस्तित्वान्नास्तित्वमपि न गृहीतमेवेति कथं क्षणिकत्वम् ? क. एवमाह न गृहीतं नास्तित्वमनुपलब्ध एव नास्तित्वव्यवहारात् , उपलम्भो हि भवेन्नासत्ताऽनुपलम्भाच्च नास्तित्वम् , दर्शनादर्शने एव सदसत्त्वयोर्लक्षणम् ; तस्मान्क्षणान्तरं तदनुपलम्भाद् नास्तित्वमेवेत्येवं क्षणिकत्वमाहि प्रत्यक्षमिति स्थितम,
ननु च प्रत्यभिज्ञातो दीर्घकालत्वनिश्चयः ।
किमद्यापि न मुक्तोऽसि तत्प्रामाण्यकुतृष्णया ॥ परीक्षितं हि तस्याः स्वरूप काय कारणं च,
न शक्नोतीव सा स्थैर्यमुपपादयितुं निजम् ॥ न पूर्वा नोत्तरं ज्ञानं ग्राहि कालान्तरस्थितेः ।
तदिदं बोध्यमानोऽपि रागान्धो नावबुद्धयते ॥ पूर्व हि ज्ञानं तत्कालमेव उत्तरमपि स्वकालमेव वस्तु गहाति, मध्ये तु नास्त्येव ग्रहणमग्रहणमेव मध्यमाहुः,
नन्वविच्छिन्नदृष्टीनां न हि त्रुट्यदवस्थितिः । __स्तम्भादिरवभातीति कथमेतस्य भङ्गिता ॥ नैतदेवम् , तत्राप्येकक्षणवृत्तित्वाज्ञानस्य, क्षणान्तरे तु ज्ञानमेव नास्ति, कस्य विच्छिन्नसत्ता, कस्यात्रुटितसत्ता, कस्य वा बोधकम् ?
नन्वस्त्येव क्षणान्तरे तु ज्ञानमविच्छिन्नत्वाद् दृष्टेरिति चेद्, ________________

न्यायमअर्याम् मैवम्-बुद्धेरदीर्घकालत्वाज्ज्ञानान्तरोत्पादन एवासावित्यवधारयत्वायुष्मान,
तस्माद्यथैव सन्तानवृत्त्या ज्ञानक्षणोदयः ।
तथैवोत्पाद्यतामेषास्तम्भक्षणपरम्परा ॥ सोऽयमविच्छिन्नदृष्टीनामत्रटितपदार्थसत्ताग्रहणाभिमान इत्थमुत्थितः,
स्थिरेणापि न बोधेन दीर्घग्राहस्थितिग्रहः । न घसन्निहितग्राहि प्रत्यक्षमिति वर्णितम् ॥ तत्काले सन्निधिर्नास्ति क्षणयोर्भूतभाविनोः । वर्तमानक्षणश्चैको न दीर्घत्वं प्रपद्यते ॥ तेन बुद्धिस्थिरत्वेऽपि स्थैर्यमर्थस्य दुर्वचम् ।
न त्वनन्तरया नीत्या तस्या अपि चिरं स्थितिः ॥ साऽपि हि स्वसंवेद्यत्वादेकक्षणपरीतैव प्रकाशत इति तस्मात्क्षणिकग्राहि प्रत्यक्षमिति सिद्धम् ।
क्षणिकत्वेऽनुमानस्याबाधकत्वकथनम् । ननु स्थैर्य पदार्थानामनुमानात्प्रतीयते । अन्वयव्यतिरेकाभ्यां मुद्गरादिविनाशकः ॥ निश्चीयते घटादीनां तेन पूर्व तदागमात् ।
विनाशरहितत्वेन सिद्धयत्येषामवस्थितिः ॥ नानुपलम्भव्यतिरिक्तस्य हेतुमतो विनाशस्यानुपपत्तेरुपलम्भ एवास्तित्वभावानामनुपलम्भाच नास्तित्वं, न च घटानुपलब्धिर्मुद्गरादिकार्ग, ततः प्रा. गपि भावात् ,
ननु दशानुपलब्धेरसत्त्वनिश्चयः स च कपालकाल एव घटस्यावकल्पते मध्ये तु दर्शनमन्यथाऽपि स्यादिति नादर्शनमात्रमेव नास्तित्वं ? मैवम्-त्वदभिः मतोऽपि मध्ये ऽपि दृश्यस्यैव घटस्यानुपलम्भनम् , तद्वा कपालकाले ऽपि स. वेषामिति का प्रमा ? यदह न वेद्मि, तत्परोऽपि नैवं वेत्ति चेत्तर्हि मध्येऽपि घटं सर्व एव न पश्येयुरिति नास्त्येवासौ, कपालीभूतघटवत् , अपि च
यदि यत्त्वं न जानासि तदन्योऽपि ना ..
स्वजायाजघनस्पर्शसुखममधिगच्छतु ॥ जवा तदलं ते परगृहवृत्तान्तचिन्तया, यत्पश्यसि तदस्तीति जानीहि यन्न पश्यसि तन्नास्तीति विद्धि, एवमनुलम्भ एव भावानां विनाश इति न तस्य मुद्गरादिकार्यत्वमतोऽनुमानमपि न स्थर्यसाधकम , तस्माद्यथोक्तक्रमेण प्रत्यक्षमेव क्षणिकपदार्थपरिच्छेत्रिति स्थितम् ,
स्मरणप्रत्यभिज्ञानस्वकर्मफलभोक्तृता । क्षणिकत्वेऽपि कथितः कार्यकारणभावतः ॥

  • ________________


आत्मन्याक्षेपः। तदेवमुपपन्नेयं गृह्यतां क्षणभगिता । त्यज्यतां दीर्घसंसारकारिणः स्थिरताग्रहः(१) ।
क्षणभङ्गनिरासः। अत्राभिधीयते नैव (२)प्रमाणद्वयमप्यदः । भावानां क्षणभङ्गित्वमुपपादयितुं क्षमम ॥ अर्थक्रियासमर्थत्वं सत्त्वं यत्तावदुच्यते । तदसत्कूटहेमादि(३)व्यभिचारावधारणात् ॥ किं स्वबाधितसबुद्धिगम्यता सत्त्वमिष्यते ।
सदसद्वयपदेशस्तु (४)पुत्रादावौपचारिकः ॥ (१) अयन्तावदन क्षणभङ्गवादिमतनिष्कर्षः ।
अर्थक्रियाकारित्वं सत्त्वं तच्च क्रमाक्रमाभ्यां व्याप्तम् क्रमाक्रमौ च क्षणिकत्वे एवं सम्भवतः न तु स्थायित्वे ॥ ___ तथाहि-स्थायी पदार्थः सर्वाः क्रिया युगपत्कर्तुं न प्रभवति तथा सति द्वितीयक्षणे कृत्याभावात् अर्थक्रियाकारित्वाभावादमल्लक्षणापत्ते, नापि क्रमः सम्भवति, स्थायी भावो हि सर्वार्थक्रियासमर्थः किमिति कांचिदेवारभते नान्यां समर्थस्य विलम्बे कारणाभा. वात् । नच सहकार्यपेक्षया विलम्बत इति वाच्यम् , अकिञ्चित्कराश्चेत्सहकारिणस्तदाऽ. नपेक्ष्याः, किञ्चित्कराश्वेत्तदा तैरेव क्रियते ते एव कारणं तदनन्तरं कार्यनिष्पत्तः, त. स्मात् नाक्षणिकस्य सत्ता सम्भवतीति सन्मानानुबन्धित्वं क्षणिकत्वस्य,
किञ्च यथेषामवश्यंभावि न तत्र हेत्वन्तरापेक्षा कृतकानां च भावानामवश्यंभावी विनाशः तेन सिद्धं घटादीनां क्षणिकत्वम् , तथाहि - ध्रुवभावित्वं हि हेत्वन्तरानपेक्षि. स्वव्याप्तमग्न्युष्णत्वादिषूपलब्धमिति प्रकृते विनाशस्य ध्रुवभाविता सापेक्षत्वं प्रति. क्षिपति निरपेक्षश्च विनाशः स्वाभाविको जन्मान्तरमेव भवतीति सिद्धः क्षणभङ्गः ।
किञ्च प्रयत्नारक्षितानामपि घटादीनां मुसलादिप्रहारमन्तरैव कियतापि कालेन भव. यवविश्लेषवशेन विनाश उपलभ्यते स चायमुत्पत्तिप्रभृति किञ्चित्किञ्चिदन्यथात्वमन्तरेण नोपपद्यते, अभिनवपुराणावस्थयोश्च घटयोः प्रत्यक्षेणैवान्यथात्वमुपलभ्यते न चैकस्य घटस्य ननारूपत्वं सम्भवति नानात्वैकत्वयोविरोधात तस्मात्प्रतिक्षणमन्यत्वं घटादेरिति क्षणिकत्वसिद्धिरित्यलम् ।
(२) प्रमाणद्वयं-प्रत्यक्षमनुमान चेत्यर्थः । (३) कूटहेम-कृत्रिमहेम ।
(४) ननु अर्थक्रियासामर्थ्यमेव सत्त्वमत एव सत्यपि पुत्रे तत्कार्यादर्शनादपुत्रा वमिति व्यपदिशन्ति लौकिकाः पुत्रादन्यस्मिन् पुत्रकार्यकारिणि सपुत्रा चयमिति च बते तस्मादबाधितसदबुद्धिषयत्वं न सत्वमित्यत आह-पुत्रादाविति । औपचा.
न्या०

  • ________________

न्यायमञ्जयाम् एवं च बाधकाभावपर्येषण(१)परायणम् । न सत्त्वग्राहकं ज्ञा(मा)नं स्वतः प्रामाण्यमहति ॥ सत्त्वे च संशयोऽप्यस्ति सकलप्राणिसाक्षिकः । उपलब्धिव्यवस्थात(२) इत्येवं वर्णयिष्यते ॥ अर्थक्रियासमर्थस्य त्वदुक्तं सत्त्वमस्तु वा । तदपि व्याप्तिशून्यत्वान्न हेतुर्गन्धवत्त्ववत् ॥ क्षणिकस्यापि भावस्य सत्त्वं नास्त्येव, सोऽपि हि । क्रमेण युगपद्वाऽपि न कार्यकरणे क्षमः ॥ क्षणिकस्य क्रमः कोहग्युगपत्करणेषु नः । एकवस्तुक्रमस्यापि रूपभेदः प्रसज्यते ॥ कार्याण्येकेन रूपेण भिन्नानि जनयेत्कथम् । रूपभेदविरोधात्त वस्तुनो नास्तिता भवेत् ॥ स्थिते च वस्तुसद्भावे क्षणिकत्वं परीक्ष्यते । तदसत्त्वे तु तचिन्ता व्योम्नि(३) रोमन्थकेलिवत् ॥ ज्ञाने क्षणिकचिन्ता चेकिं तस्यापि पराकृतौ।
वदन्त्येतानि शास्त्राणि ज्ञेयाभावे च तत्कतः ॥ अपि च-क्षाणिकत्वपक्षे किमेकस्मादेकोत्पादः उत बहुभ्य एकोत्पत्तिरथैकस्मादनेकनिष्पत्तिराहो बहुभ्यो बहुसंभव इति परीक्षणीयम् , न तावदेकस्मादेकोत्पत्तिरलौकिकत्वात् , एकस्मादप्यग्नेभस्मधूमेन्धनविकाराद्यनेककार्योंत्पाददर्शनात् कार्यसिद्धये च सर्वसहकारिसन्निधापनप्रयत्नदर्शनात् ‘नैकं किंचि. देकंजनकम्’ इति ग्रन्थविरोधाच, एतेन तृतीयः पक्षो निरस्त एकरमादनेकनि. पत्तिरिति, एकश्च नैकं जनयत्क्रमेण जनयेधुगपद्वा ? न क्रमेण स्थैर्यप्रसङ्गात , न युगपददृष्टत्वात् , एकस्य चानेककार्यकरणशक्तियोगे तद्भेदान्नानात्वप्रसङ्गः,
विरुद्धधर्मयोगेऽपि यदि चैकत्वमिष्यते ।
__ अनेकक्षणयोगेऽपि भाव एकोऽभ्युपेयताम् ॥ अथ बहुभ्य एकोत्पादनमिति पक्ष आश्रीयते, तद्वक्तव्यं किमेतदेकं कार्य कैर्वा बहुभिरुत्पाद्यते इति ? न ह्यस्माकमिव भवतामनेकावयवनिवहनिर्मितमवयविस्वरूप कार्यमस्ति, संचितैः संचिता एव जन्यन्त इत्यभ्युपगमाद्, यदि रिक एव सपुत्रा वयमपुत्रा वयमिति व्यवहारो न मुख्यः अबाधितसबुद्धिविषयत्वरूप. सस्वस्य बाधितसद्धिविषयत्वरूपासत्त्वस्य चाभावादिति भावः ।
(२) उपलब्धीति । समाननेकधर्मोपत्ते रिति सूत्रे इत्यर्थः । (११) पर्येषणम्-अन्वेषणम् । (३) रोमन्थकेलिः- चर्वितचर्पणम् । व्योम्नश्चवर्णासम्भवादित्यर्थः ॥ ________________

शरीरस्येच्छाऽऽधाश्रयत्वानुपपत्तिः। चानेककार्यमेकमुच्यते तदस्य कारणभेदोपनतस्वभावनानात्वयोगादेकत्वमेव तावद्विरुध्यते, अन्यथात्वे हि न कारणाधीनं भावानां रूपमित्याकस्मिकत्व. प्रसङ्गः, कारणभेदोपपादितनानात्वस्यापि यदि वैकत्वं तदस्य नानाकालयोगिनो. ऽप्येकत्वं स्यात् , असत्त्वं भिन्नस्वभावस्य वस्तुन इति पूर्ववद्वक्तव्यम् , लोच. नालोकमनस्कारादिकारणभेदात , कार्यमप्येकरूपं ज्ञानमिति चेन्न, तस्य भव. न्सते विषयाकारग्राहकत्वस्वसंवेदनरूपभेदानिराकारज्ञानवादिनो हि बौद्धस्य प्रतिकर्मव्यवस्थानमिष्यते जनकम्य कर्मणः प्रतिभासे स्थैर्यप्रसङ्गादेकसामग्य. धीनत्वपक्षस्यासंभवात् , संभवेऽपि ग्राह्यनियमनिमित्तत्वाभावादिति।
अथोच्यते-किमनभ्युपगतपक्षोपमर्दनेन बहुभ्यो बहुसंभव इत्येष एव नः पक्षः, सन्तानवृत्त्या वर्तमानपूर्वसामग्रीसारूप्यमुत्तरसामग्रीमारभते विजा. तीयकरणानुप्रवेशे तु विरूपम्-इति, ___ अथ केयं सामग्री नाम ? न समग्रेभ्यो भिन्ना पृथगनुपलस्भादव्यतिरेके तु समग्र एव सामग्री, तत्र पूर्व समुदायेनोत्तरसमुदायारम्भे तदन्तर्गतं समुदायिनमेकमेव एक उत्पादयेदेकं वा संभूयेति, तत्राये पक्षे सैवेयमेकस्मादेकोत्पत्तिर. क्ता स्यात्सा च प्रतिषिद्धा,
अथैकैकफलसमुदायिनिष्पत्तौ सर्वसमुदायिनं व्यापारयेत् , क्रमेण वा योगपद्येन वा ? तत्र क्रमपक्षे क्षणिकत्वहानिः, ये हि तत्र पञ्चदश समुदायिनः क्षणं तत्र वर्तन्ते ते तत एकं तमुत्पाद्य पुनरपरमारभेरन पुनरन्यमिति तावत्कालप्र. तीक्षणादक्षणिकत्वम् , ____अथ युगपदेव सर्वनिष्पत्तौ सर्वे व्याप्रियन्ते, तहि(१)निकरुम्बरूपादेव कार. णादुत्पन्नमिति कारणविवेकनियमाभावाद्रपरसादिप्रविभागा न स्यात् , इदं. रूपमेष रस इति कथं निश्चीयते, चित्रमुत्पादितमिति सर्व रूपं स्यात्सों रसो, यद्वा न रूपं न रसोऽन्यदेव किं चिद्वस्त्वन्तरं स्यात् ,
अथोच्यते-यद्यपि रूपरसादिसामग्री तत्सामप्रया एव जनिका तथाऽपिक चित्किचिदुपादानकारणमिति तत्सहकारिकारणं, तत्र रूपक्षणनिष्पत्तौ रूप. स्योपादानकारणत्वादितरेषां च सहकारिकारणत्वान्न पदार्थसंकर-इति, एतद. युक्तं सर्वथा कारणत्वानपायात्, अपि च येन रूपेण रूपस्य रूपं प्रत्युपादानका. रणता तेनैव यदि रसं प्रति सहकारिकारणता तदा पुनरपि रूपरसयोरविशेषः,
अथान्येन रूपेण रूपस्य रूपोपादानताऽन्येन च रससहकारितेति, तर्हि स्वभावभेदानानात्वं, नानात्वे त्वस्थैर्यमसत्त्वं वेत्युक्तम,
अथ नास्त्येतयो. किंचिद्विरुद्धत्वं स्वभावयोः ।
कथं बौद्धगृहे जातस्त्वमेवमतिभाषसे ॥ (१) निकुरुम्बरूपात्-समुदायरूपात् । ________________

643
त्या
भावानां परस्परपरिहारव्यवस्थितरूपत्वमस्त्येवैषां लाक्षणिको विरोधः, ___ अपि च क्षणिकत्वे पदार्थानामिदमत्रोपादानकारणमिदं सहकारिकारणमिति विशेषोऽपि दुरवगमः, तथा हि किमिदमुपादानं नाम ? किं स्वसंतान. विनाशेन बीजादिवत्कार्यजननमुपादानमुत स्वविशेषसमर्पणेनोत्पादकमिति, यदि पूर्वः पत्तः, परलोकचर्चा चार्वाकवदुपेक्षिता स्यात् ज्ञानसन्तानविनाशेन ज्ञानान्तरारम्भप्रसङ्गात् , स्वविशेषार्पणपक्षेऽपि सर्वविशेषार्पणं स्यात्कतिपयवि. शेषार्पणं वा, सर्वविशेषापणे निर्विकल्पकस्य नोपादानकारणं स्यात् ,
लिङ्गदर्शनजन्या च प्रतिबन्धस्मृतिः(१) कथम् ।
कथं वा रसविज्ञानं रूपज्ञानादनन्तरम् … सन्तानभूयस्त्वाद्भविष्यतीति चेन्नैकप्रमात्रधीनप्रतिसन्धानोपनिबन्धनव्यव. हारप्रतिबन्धविप्लवप्रसङ्गात्, नित्यमेकमात्मानमन्तरेण सन्तानकतायामपिताव. दसौ व्यवहारो नावकल्पते किमुतैकत्रैव देवदत्ते सन्तानभूयस्त्वे सतीति, कति पयविशेषार्पणेन तु यद्यपादानता, तदानी रूपमपि ज्ञानोपादानकारणतां प्रतिपद्यते तस्मान्नोपादानं नाम किंचित् , तन्निरासे च तद्वैलक्षण्यलक्ष्यमाणस्वरूपस्य सहकारिणोऽपि व्युदासो वेदितव्यः, अपि च
प्रतिक्षिपसि तत्पने सर्वथा सहकारिणम् ॥ भिन्नाभिन्नोपकारादिविकल्पास्त्वत्प्रकल्पिताः ॥ सहकारिप्रतिक्षेपकारिणः क्वाधुना गताः । आं ज्ञातं युक्तिशक्त्यव युष्माभिरुपकल्पितः ।
दोषो न बाधते युष्मान् मन्त्रोत्थापितसपवत् ॥ अथ वा तिष्ठतु तावदुपादानसहकारिकारणभाव एव(२)भदन्तसिद्धान्ते दुरुपपादः, परोत्पत्तावव्याप्रियमाणमेव यदि कारणमुच्यते सवै सर्वस्य कारणं स्यात्,
न चालब्धात्मनस्तस्य व्यापारः परजन्मनि ।
लब्धात्मनस्तु व्यापारे स्थितिः सिद्धा क्षणान्तरे ॥ अथ ब्रूयादिदं प्रतीत्येदं प्रतीयते इतीदंप्रत्ययतामात्रमेव कार्यकारणभाव इति, तथाऽपि लब्धात्मनः क्षणस्य प्रतीतिरिति द्वितीयक्षणावस्थानमपरिहार्यमेव,
न चानन्तर्यमात्रेण कार्यकारणवाग्रहः । अहेतुफलभावेऽपि तथाऽऽनन्तयेदर्शनात् ॥ व्यापारस्तु परोत्पत्तो नास्त्येव क्षणभङ्गिनः ।
न वर्तमानकालस्य न भूतस्य न भाविनः ॥ अथ मन्येथा-यथा तुलान्तयो मोन्नामौ भवत एवं पूर्वोत्तरयोः क्षणयोना(१) प्रतिबन्धस्मृतिः-व्याप्तिस्मृतिः । ( • ) भदन्तसिद्धान्त-बौद्धसिद्धान्ते ।
। ________________

आत्मन्याक्षेपः। शोत्पादावित्येवं पूर्वक्षणविनाशेनोत्तरक्षणनिवृत्तरियतैव कार्यकारणभावमश्नुवीयाताम्-इति, __तदप्यमनोरमम्-न ह्ययमायुष्मतामस्त्यवधृतस्तुलान्तदृष्टान्तः
तत्रान्यदेव हेमादि नामोन्नामनिबन्धनम् ।
तन्नामो न तु नामैव तेन वा स विधीयते ॥ इहापि न पूर्वेण क्षणेन नापि तद्विशेषेणोत्तरः क्षण उत्पद्यते, न च हमस्थानीयमिहान्यदस्तीत्यनुत्पत्तिरेवावशिष्यते,
सर्वथा परनिष्पत्तौ निर्व्यापार न कारणम् । सव्यापारस्य कर्तृत्वे क्षणिकत्वं तु दुर्घटम् ॥ इत्थं च सत्त्वं व्यावृत्तं क्षणिकेभ्यो विशेषतः । तेनासाधारणत्वेन यायात्संशयहेतुताम् ॥
क्षणिकत्वहेतोविरुद्धत्वम् अथ वा लब्धात्मनः पदार्थस्य परोत्पत्ती व्याप्रियमाणत्वेन कारणत्वावधारणाद् द्वित्रिक्षणस्थायित्वमवश्यमनन्तरनीत्या भवेदिति प्रत्युत सत्त्वादक्षणिकत्वसिद्धेविरुद्धोऽयं हेतुः, अतश्चैवं नित्यानामेवार्थक्रियाकारित्वोपपत्तेः, समवाय्यसमवायिनिमित्तभेदेन त्रिविधा कारणसामग्री परस्परसंसर्गमागत्य यथासनिधानं कार्य प्रसूत इति कृतं क्रमयोगपद्यविकल्पैस्तावकः यदैवाविकल. सामग्री तदेव कार्योत्पत्तिः,
अत एवं च कायोणां युगपन्न समुद्भवः । न चापि कृत्वा करणं सामग्री हि न सर्वदा ॥ प्राणिकर्मविपाकोऽपि सामग्र्यन्तर्गतो नवः ।
सर्वत्र सुखदुःखादिहेतुस्त्वत्रोपपाद्यते ॥ न च समग्रव्यतिरेकाव्यतिरेकविकल्पोऽस्मत्पने सामग्री बाधते समग्र धर्मत्वात्सामग्रयाः समग्रापेक्षया च सामग्रयेव तमबर्थातिशययांगात्कारणः मिति(१) प्रमाणसामान्यलक्षणे निर्णीतम् ,
(१) ननु प्रमीयते येन तत्प्रमाणमिति करणसाधनोऽयं प्रमाणशब्दः । करणं च साधकतम तमबर्थश्चातिशयः । स चापेक्षिकः साधकान्तरसम्भवे तदितरापेक्षयातिपय योगात्किचित्साधकतममुच्यते । सामग्रवाश्चैकत्वात् तदतिरिक्तसाधकान्तरानुपलम्मात् किमपेक्षमस्या अतिशयं ब्रवीषि, अत्राच्यते-यत एव साधकतमं करण करणसंनिधान प्रमाणशब्दा तत एव सामग्रयाः प्रमाणत्वं युक्तम् । तद्वयतिरेकेग कारकान्तरे कचिद. पि तमबर्थ संस्पर्शानुपपत्तेः । फलोत्पादाविनाभाविस्वभावत्वमतिशया, सच सामप्रयन्तर्गतस्य न कस्यचिदेकस्य कारणस्य कथायितुं पार्यते सामग्रयास्तु सोऽतिशया अवध इति ग्रन्थेमेति शेषः । ________________

न्यायमअर्याम समर्थत्वासमर्थत्वविकल्पेऽपि प्रसङ्गतः ।
सामग्रथा एव सामर्थ्य ततः कार्यस्य दर्शनात् । तदन्तर्गतस्य तु कारकजातस्य शकटाद्यङ्गस्येव सामर्थ्य यावत्तावदभ्युपगसमेव तदपेक्षस्य सामग्रयाः साधकतमत्वस्य निर्वहणं न हि भवति कृष्णाच्छुक्ल इति, अविकल्पं तु सामग्र्या एव सामर्थ्य यदनन्तरं कार्यनिष्पत्तिरिति कार्यनिष्पत्तिदर्शनादेवावगम्यते, ___ यदप्येकक्षणस्थायि कारकं स्यादित्युद्घोषितं परैः, तदप्यसत् , कार्यनिष्पत्तिपर्यन्तत्वावस्थानस्य एकेन तणेन तेषामेककार्यनिष्पत्तेरघटमानत्वात् , कार्यसंपत्तेरूव॑तु सामग्री विप्लवते न समग्राणि तेषामकैकशः कचित्कचिदु. पलम्भाञ्चक्रसूत्रदण्डादीनाम् , इत्थं स्थिराणामेव पदार्थानामर्थक्रियासामर्थ्य समर्थितमिति न ततः क्षणभङ्गसिद्धिः,
एवं च सत्त्वनित्यत्वयोविरोधात्सत्वप्रतीत्यैव एकचन्द्रबुद्धिवत्तदितरनिराकरणमित्यादि यत्प्रलपितं तत्प्रतिक्षिप्तं भवति,
यदप्यमाणि नाशं प्रत्यनपेक्षत्वाक्षणिकाः पदार्था इति, तदपि यत्किंचिहएडादिव्यापारान्वयव्यतिरेकानुविधायिनस्तत्कार्यस्य घटायभावस्य विस्तरतः प्रमाणचिन्ताऽवसरे प्रसाधितत्वात , प्रध्वंसाभावश्च विनाश इत्युच्यते,
नश्वरानश्वरादिविकल्पास्तु न साधवः ।
सामग्र्यधीनः प्रध्वंसा भावानामात्मलाभवत् ॥ मुद्रादिसामग्र्या घटस्य किं क्रियते ? मृत्पिण्डदण्डसामप्रया किमस्य क्रियते ? आत्मलाभ इति चेदनयाऽप्यात्महानं करिष्यते,
ननु नश्वरले तत्कारणमफलमनश्वरत्वे त्वशक्तमिति, उत्पत्तावपि तुल्यो. ऽयं प्रलापः, भवनस्वभावश्चेद् घटः स्वत एव भवति कि दण्डादिसामग्रया अभवनस्वभावस्तु कर्तुमशक्यः खरविषाणवदिति, कारकव्यापारकार्यत्वदर्श. नादपर्यनुयोग एष इति चेद्विनाशेऽपि समः समाधिः, उत्पत्तिवद्विनाशस्यापि कारकान्वयव्यतिरेकानुविधायित्वम् ,
तस्मादुत्पन्नमात्रस्य विनाशो नास्ति वस्तुनः ।
आविनाशकसद्भावादवस्थानमिति स्थितम् ॥ ननु सापेक्षाणां भावानां नावश्यंभाविता भवेदिति घटस्य विनाशहेतु। पनिपतेदपि कदा चिदित्येवमसौ किं नित्य एव भवत्विति, अहो महान्प्रमा उत्सन्नाः प्रजाः पतितो महान वजाशनिर्दुष्प्रतरोऽयं दोष उत्थितः यदिह घटो नित्यो भवेत्तदिह कालाग्निरुद्र इव त्रिभुवनमपि भस्मीकुर्यात् , अपि च रे मुढ ! सावयवस्याश्रितस्य कार्यस्य च नूनमवयव विभागादाश्रयविनाशाद्वा यदा कदा. विद्भवितव्यमेव विनाशेनेति कस्तनित्यत्वशङ्काऽवसरः, तथा हि न रामाभिषेक ________________

आत्मानुमापकः। कलशमद्य यावदनुवर्तमानमीश्वरवेश्मस्वपि पश्यति लोक इत्यवश्यंभावी तस्य विनाशे हेतुः, तस्मात्सहेतुको विनाश इति न स्वत एव नश्वरो भावः ।
अपि च प्रत्यभिज्ञा स्वतजोविभवविधूतबौद्धसिद्धान्तध्वान्तसिद्धनिर्भङ्गुर. मेव भावनिवहमनिशमुपदर्शयन्ती दिनेशदीधितिदशशतविभागवती सर्व. तो जाज्वलीतीति कस्तस्यां सत्यां क्षणभगिनो भावानभिदध्यात् , यत् किं. घन तस्य समभाषितं तत्सर्वमसम खसम , - यत्तावदिदं कल्पितं स एवायमिति किमेकं विज्ञानमुत द्वे इति, तत्रोच्यते सामानाधिकरण्येन नैकविषयावद्योतनप्रवणकप्रतीतिसंवेदनात्केयं द्वित्वाशका योऽयंसमः यःसमोऽयमित्येकत्वावमर्शिनी, स्वतस्तु याऽनेकप्रतीतिरनुभूयते घटोऽयं पटोयमिति तत्र निरन्तरोत्पन्नघटज्ञामपटस्मरणवद्भिन्नविषयं बुद्विद्वय. मिति, यत्त किमेकप्रतीतिजन्मनि कारणमिति,
कार्य चेदवगम्येत किं कारणपरीक्षया ।
काय चेन्नावगम्येत किं कारणपरीक्षया … न च कार्यमकारणं भवितुमर्हति कार्यत्वस्यानुपपत्तेरिति भवितव्यमेव तत्र कारणेन, अस्ति च संस्कारसहितमिन्द्रियमस्याः प्रतीतः करणं पृथक्कार्यताऽपि तयोर्दर्शनादेव, अभ्युपगतमिदं तु दृष्टत्वाद् दुरपलपम् , क चित्त केवलेन्द्रियः व्यापारकार्यदर्शनान्न सर्वस्य तथाविधस्यैव तस्य कार्यकारित्वं सहकार्यपेक्षणेन कार्यान्तरजननात् ।
प्रत्यभिज्ञायां भुतकालस्य विषयत्वम् ! यत्तक्तं कीदृशोऽर्थः प्रत्यभिज्ञायामवभातीति, तत्रैते वादिनः शतकृत्वो द. त्तोत्तरा अपि यत्पुनरस्माननुयुजते तेन बलवदुद्विग्नाः स्मः, उक्तमत्र प्रमितयः प्रष्टव्या न तु वादिन इति, अतीतकालविशिष्टो वर्तमानकालावच्छिन्नश्वार्थ एत. स्यामवभासते,
’ ननु पूर्वापरौ कालौ परस्परविरोधिनौ ।
नैकत्र विशतस्तेन तद्भेदास्तु भिद्यते ॥ - नैतदेवम् , केयूरकिरीटकटककुण्डलादिभेदेऽपि देवदत्तस्याभेदात् , अव. यव्यस्ति नास्तीति परीक्षणं वादान्तरगमनम् , अपवर्गाह्निके च विस्तरेणावयवी साधयिष्यत इत्यास्तामेतत् , कुण्डलादीनामविरोधादिति चेन, लाक्षणिकविरोपाभ्युपगमात्परस्परव्यवहारव्यवस्थितात्मानो हि सर्वे भावा इति वदगिर्भवद्भिः रभ्युपेत एषां विरोधः । - ननु केयूरादीनां विरोधेऽपि तदवस्थानादेकदेवदत्तसम्बन्धित्वमभ्युपपद्यता. मि भूतवर्तमानयास्तु युगपदसन्निधानात्तद्विशिष्टता स्तम्भादेरुच्यते प्रतीयते च द्वो कालौ न च सन्निहिताविति चित्रम् , किं भूतोऽपि काल इदानीमस्ति ? मैवम् ________________

न्यायमअर्याम् नासावस्तीत्युच्यते अपि त्वासीदस्तीत्युच्यमानं वर्तमान एव न भूतः, हन्त तहि भूतो भूतत्वादेव नेदानीमस्तीति कथं प्रतिभासते, भूतत्वेनैवेति ब्रूमः, भूतः कालो भूततया गृह्यते वर्तमानो वर्तमानतयैवार्थस्तूभयानुगत एक एव तथा ग्रहणात्,
ननु भूतकालस्येदानीमभावात्तद्विषयं ज्ञानमनर्थजं स्यान्न धर्मिणस्तदवच्छि. नस्य ज्ञानजनकस्य भावात् , भूतः कथमवच्छेदक इति चेत्तथा प्रतिभासात् , प्रतीतिमवमृषतु भवान्स एवायमिति यः पूर्वमासीत्स इदानीमप्यस्तीति सोऽय. मतीतकालविशिष्टोऽर्थ एतस्यां बुद्धाववभासते,
नन्वसता भूतकालेन विशेषितमर्थ कथमिन्द्रियजप्रतीतिरालम्बनीकुर्यात् , उच्यते–
अन्त्यसंख्येयसंवित्तिकाले प्रागवलोकिताः। यथा शतादिज्ञानानि जनयन्ति घटादयः ॥ अतीतकालसंसर्गो भवन्नेव विशेषणम् ।
स्तम्भादिप्रत्यभिज्ञायाः कारणत्वं प्रपत्स्यते ॥ संख्येयाः घटादयः सन्त्यतीतकालो नास्ति इति चेत्कपित्थेषु भक्ष्यमाणेषु किं वक्ष्यति देवानांप्रियः, शतं कपित्थानां भक्षितवान्वाहीक इति प्रतीतिदर्श. नात्, न च(१)नवनवतावनुपयुक्तेषु कपित्थेष्वत्रैव शततमे शतमिति भवति यथा तत्रातिक्रान्तान्यपि नवनवतिः कपित्थानि शतप्रतीतिहेतुतामुपयान्ति प्रतिभा. सोपारूढत्वादेवमतीतकालयोगोऽपि प्रतिभासमानः प्रत्यभिज्ञामाधास्यतीति,
विकल्पमात्रं शतप्रत्यय इति चेद् भो महात्मन् किं वा न विकल्पमात्रम्, किन्तु जीवन्त्यमी सविकल्पकप्रामाण्यवादिनः,
यश्व सामान्यसंसिद्धौ प्रकारः प्राक् प्रदर्शितः ।
योज्यः स एव द्वित्वादिसंख्यासद्भावसिद्धये ॥ इत्यलं कथाक्षेपण।
नन्वतिक्रान्तग्राहि च प्रत्यभिज्ञाविज्ञानमिन्द्रियार्थसन्निकर्षजं चेति नः को. तुकमिदं, कियत्कौतुकमर्थस्तावदस्य पुरोऽवस्थितोऽस्त्येव जनकः स्तम्भादिः, नन्वस्ति स तु वर्तमानकाल एव, न केवलं, वर्तमानकालयोगिनाऽर्थेन तत्प्रत्यः यजननात्तस्य वर्तमान इवातीतोऽपि कालोऽवच्छेदकतां प्रतिपद्यते स च तदव. च्छिन्नोऽर्थ इदं ज्ञानमादधातीत्यर्थजमेतदिन्द्रियजमपि भवति तद्भावाभावानु. विधानात,
(१) नवेति । यदा नवतिः कपित्था भुक्का एकोऽवशिष्ट इति अवशिष्टमेक. मादाय शतमितिव्यवहारो भवितुं नाहति इति अतीतानपि कपित्थानादाय शतमिति व्यवहारः तथा अतीतकालयोगाऽपि प्रत्यभिज्ञामाधास्यतीति भावः । ________________

-
प्रत्यभिज्ञया स्थैर्यसाधनम् । नन्वतीतेऽर्थे कथमिन्द्रियं प्रवर्तते ? कस्यैष पर्यनुयोगः ? नेन्द्रियस्या. चेतनत्वात् पुरुषस्त्वविस्फारिताक्षो नेदृशीं प्रतिपत्तिं लभते विस्फारिताक्षस्तु लभते इति सोऽपि नानुयोज्यः, ___ नन्वतीतग्राहित्वाद्वरमप्रामाण्यं कल्पयितुं युक्तमस्या बुद्धेरिन्द्रियस्यातीते. ऽपि सामर्थ्यमदृष्टमिति, अप्रामाण्यं नाम बाधकात्प्रत्ययात्कल्प्यते न चासावस्ति प्रत्यभिज्ञायाम् अनुमानं तु तावकं प्रतिक्षिप्तम,
ननु कारणदोषादवकल्पते एवाप्रामाण्यम् , आयुष्मन् ! सोऽप्युच्यताम् , उक्त एवेन्द्रियस्यातीतविषयग्रहणे सामर्थ्यविरहः, वत्स! सम्यगुक्तवानसि नायमिन्द्रि. यस्य तिमिरादिरिव दोषः, अतीते काले स्वतन्त्रे तस्य सामर्थ्य न तग्राह्यव. तमानवस्तुविशेषणीभूते, संस्कारसचिवस्य चास्य सामर्थ्य न केवलस्येत्युक्तम् , तस्मादतिक्रान्तकालविशेषितपूर्ववत्तिस्तम्भादिपदार्थविषयमिन्द्रियादिसन्निकर्षोंत्पन्नमेवेदं प्रत्यभिज्ञाज्ञानमिति सिद्धम् ,
अथ वा पूर्वाभिज्ञानविशिष्टग्राह्यमाणमिष्यतां प्रत्यभिज्ञानं गन्धवत्कुन्दबुद्विवद्, यथा हि लोचनगोचरेऽपि कुन्दकुसुमे तदविषयगन्धविशेषिते बाह्येन्द्रियद्वारकग्रहणमघटमानमिति मानसमेव सुरभि कसुममिति ज्ञानम् एवं पूर्वज्ञानविशेषितस्य स्तम्भादेविशेषणमतीतक्षणविषय इति मानसी प्रत्यभिज्ञा पूर्वप्रवृत्त. बाह्येन्द्रियोपजनितज्ञानविशिष्टबाह्यविषयपाहिणि चान्तःकरणेऽभ्युपगम्यमाने सति नान्धाधभावप्रसङ्ग इति बहुशः कथितम् ,
ननु कुन्दादेविशेषणं वर्तमानमस्ति सौरभम् इह त्वतीतं पूर्व विज्ञानमिति कथं विशेषणमत्र, किं तेन सता करिष्यसि शतादिबुद्धिष्वतिक्रान्तस्यापि कपि. स्थादेः कारणत्वदर्शनादिति तदेवमन्तःकरणजन्मनाऽपि प्रत्यभिज्ञानेन स्थैर्यमवस्थाप्यत एव भावानाम्,
क्षणभङ्गनिरासः। या तु मुण्डितकेशादिप्रत्यभिज्ञानतुल्यता।
स्तम्भादिप्रत्यभिज्ञायाः कथ्यते सा(१)ऽप्यसङ्गता ॥ तत्रान्तराले मुण्डितशिरोदर्शनमेव बाधकमिह तु न किंचिदस्ति, अत. एव शब्दे सदैव स्फुरन्त्या विनाशबुद्ध्या वैधुर्यमुपनीता प्रत्यभिज्ञा तु न तामवस्थापयितुं समर्थेत्युक्तम् , ज्वालादावपि तैलवर्तिक्षयानुमानबाधितत्वाद् भ्रान्ता प्रत्यभिज्ञा न तु तथास्तम्भादावनुमानमपि बाधकमस्ति, सत्त्वानुमान
(१) पूर्व मुण्डितेषु पश्चादुत्पत्रेषु केशेषु त एवामी केशा इति प्रत्यभिज्ञा यथैकत्वस्य स्थिरत्वस्य वा न साधिका तद्वत्स्तम्भादिप्रत्यभिज्ञाऽपि ति तौल्यं खण्ड. यति-सापीति ।
+-

  • ________________

न्यायमञ्जर्याम् तु निरस्तमंव, यद्यपि च नैष नियमः प्रत्यक्षानुमानयोविरोधे प्रत्यक्षं बलीय इति त्वरिततरपरिभ्रमितचक्रीभवदलातग्राहिणः प्रत्यक्षस्यानुमानबाधित. त्वदर्शनादिति, तथा प्रकृतं क्षणिकत्वानुमानमन्यथासिद्धमनन्यथासिद्धं तु प्र. त्यक्षमिति प्रत्यक्षमेव क्षाणिकत्वानुमानस्य बाधकं, न चेतरेतराश्रयत्वमनुमाममिथ्यात्वनिबन्धनं प्रत्यभिज्ञाप्रत्यक्षप्रामाण्यानभ्युपगमात् , स्वहेतुबलवत्तयैव प्रत्यभिज्ञा प्रत्यक्षं न तस्येदं दैन्यं यदनुमानमिथ्यात्वे सति तत्प्रमाणीभवि. ष्यतीति,
आस्तां वा प्रत्यभिज्ञानं य एष प्रथमक्षणः ।
स्तम्भादिबोधस्तेनापि बाध्यते क्षणभङ्गिता ॥ तुल्यसामग्रयधीनत्वनिराकृतत्वात्साकारस्य निराकरिष्यमाणत्वादन्वयव्यतिरेकोपकृतमानसप्रत्यक्षनिश्चितजनकस्य चार्थस्यावभास्यत्वनिश्चयादुत्पन्नोऽर्थो ज्ञानं जनयति जातेन च ज्ञानेन गृह्यत इति बलाद् द्वित्रिक्षणावस्थायित्वमस्यो. पलभ्यत इति कुतः क्षणिकत्वम् ?
यदि लब्धस्वरूपोऽपि न नष्टः प्रथमे क्षणे । हेत्वन्तराद्विनाशोऽस्य न स्वरूपनिबन्धः । विचित्रा च पदार्थानां प्रतीतिरिह दृश्यते । चिरन्तनमतिः काचित्काचित्तत्कालजातधीः ॥ सलिलाहरणव्यग्रकुम्भावगतिरन्यथा । तदैव कन्दुकाकृष्टकम्भावगतिरन्यथा ॥ एतेन (१)रविगुप्तो ऽपि परिम्लानमुखीकृतः।
क्षणिकत्वक्षमादित्वसमुत्प्रेक्षणपण्डितः ॥ तथा हि वर्तमानवस्तुविग्रहमाहि विज्ञानमनन्तरीक्तनयेन जनकार्थप्रतिभा. सनाद् द्वित्रिक्षणस्थायितामर्थस्य गमयतीत्युक्तम् , आद्यं च किंचिद्विज्ञानमः नागतकालस्पशि भवति, यथाऽऽह भट्टः-रजतं गृह्यमाणं हि चिरस्थायीति गृह्यते’ इति, उत्तरमपि प्रत्यभिज्ञानं प्रतीतकालावच्छिन्नमर्थमवद्योतयतीति दर्शितम् , __न चातीतानागतजन्मग्रहणमाशङ्कनीयमिति कारणसामर्थ्यनियमान ह्यती. तानागतजन्मग्रहणमशक्यक्रियमिति यावदपि दृश्यमानं ग्रहणं तदप्यपन्होतुं युक्तम्, न चैतारताऽतीतानागतकालावच्छिन्नवर्तमानवस्तुग्रहणमात्रेण सामा. न्यतो दृष्टेनादृष्टमप्यतीतानागतज्ञानं कल्प्यम् , यथादर्शनं हि वस्तूनि व्यवस्था. प्यन्ते न किचिद् दृष्ट्वाऽन्यदपि कल्प्यते दृष्टमपि वा निन्हूयत इति,
(१) रविगुप्तो नाम कश्चित् क्षणिकवादी । ________________

-

।’
प्रत्यक्षस्य स्थैर्यसाधकत्वम् ।
प्रत्यक्षस्य स्थिरवस्तुग्राहकत्वम् । अपि च निमेषदृष्टरत्रुटितसत्ताकस्तम्भादिपदार्थग्राहि प्रत्यक्षमुत्पद्यते तकथंक्षणिकग्राहि कथ्यते, ___ यच्च तत्र विकल्पितमतीतानागतक्षणयोरसन्निहितत्वेन प्रत्यक्षग्राह्यताऽ. नुपपत्तेर्वर्तमानक्षणस्य चातिसूक्ष्मत्वात्तत्कालग्राहिणा प्रत्यक्षेण क्षणिकत्वंगहीतं भवतीति, तदनुपपन्नम्, मा नाम भूदतीतानागतकालग्रहणं वर्तमान एव तत्रा. निमेषदर्शनस्य कियान्काल इति चिन्त्यताम्, निमेषकृतस्यापि दर्शनविच्छेद. स्यानवकाशाद्यावद्धि दर्शनं न विच्छिन्नं तावान्वर्तमानः काल इति तद्ग्रहणे स्थैर्य गृहीतं भवति न क्षणिकत्वम्,
ननु तावानसौ कालः स क्षणसमुदायो भवंति न क्षणः क्षणश्चैक एव वर्तमानो भवति न ततः पूर्वापरौ क्षणावतीतानागतो भवतः तयोश्च न ग्रहणमि. त्युक्तम् , सिद्धे क्षणिकत्व एवं शक्यते वक्तुं न तु तत्साधनावसरे, कालोह्येको नित्यो विभुरिति साधितोऽनुमानपरीक्षायाम , न तु क्षणसमुदायात्मा कालः कालस्य तु भेदाः क्रियोपजनविनाशाद्युपनिबन्धनाः कल्प्यन्त इत्यपि तत्रैव परीक्षितम , तदयमनिमेषदृष्टेर्दर्शनविच्छेदानुपग्रहात्तावानेकः स वर्तमान एव भवतु,
ननु कालो नाम न कश्चित्पारमार्थिकः पदार्थ एव परिदृश्यमानो वर्तमा. नादिव्यवहारहेतुः स च न चिरमनुभूयत इति क्षणिक उच्यते, भिक्षो! अलम. वान्तरगमनेन मा भूत्कालः पदार्थस्त्वनिमेषदृष्टिना दृष्ट्यविच्छेदादविच्छिन्नस. त्ताक एव दृश्यत इति न क्षणिकग्राहि प्रत्यक्षम् ,
ननु भवद्भिरपि न स्थिरं ज्ञानमिष्यते क्षीणे च ज्ञाने सोऽर्थों द्वितीयक्षणे केन गृह्यते ज्ञानान्तरेण तु गृह्यमाणः स एवेत्यत्र को निश्चयः, अनिमेषदृष्टानं नक्षीयत एवेत्येके,
अथ वा किं न एतेन न हि विषयप्रतिभासकाले ज्ञानमवभासत इत्यसकृ. दुक्तं, वक्ष्यते च तत्र तत्कीदृशमिति कुतो वयं विद्मः, अर्थस्त्वविच्छिन्नसत्ताक एव गृह्यते ज्ञानं तु वर्तमानकालमप्यतीतानागतकालग्राहि भवति स्मरणमिव (१)प्रातिभमिव भूतभविष्यदृष्ट्यनुमानमिव,
(१) प्रातिभम् -कन्यका प्रीति वो मे भ्राता आगन्तेति हृदयं मे कथयतीति ज्ञानम् । तथाच प्रशस्तपादभाष्यम् ‘आम्नायविधातणामृषीणामतीतामागतवर्तमाने. व्यतीन्द्रियेष्वर्थेषु धर्मादिषु ग्रन्थोपनिबद्धेषु चात्ममनसोः संयोगाधर्मविशेषाच यत्प्रातिभं यथार्थ निवेदनं ज्ञाममुत्पद्यत तदार्षमित्याचक्षते । तत्तु प्रस्तारेण देवर्षीणाम् कदाचिदेव लौकिकानाम् यथा कन्यका ब्रवीति श्वो मे भ्राता आगन्तेति हदयं मे कय. बतौति’ इति ।
+

7
. ________________

न्यायमञ्जर्याम् नन्विन्द्रियव्यापारो न क्षणान्तरस्थायीति तस्मिन्नसति कुतोऽस्य वितत. कालग्रहणम् , तदलं भवतु श्रान्तोऽसि मज्जस्वैवं वाणः निमेषकृतोऽपि विच्छेदोऽस्य नास्ति अथ च न स्थिर इन्द्रियव्यापार इति साहसिकतामात्रम् , सन्निकर्षश्चास्य विषयग्रहणे व्यापारः स च स्थिर एव तस्माद्विततकालस्य व. स्तुनः प्रत्यक्षेण ग्रहणमिति स्थितम् , एवं च स्थिते न स्वरूपमात्रमेव भावानां विनाशकारणं कारणानां च नित्यत्वमेव दण्डादीनामिति सिद्धम् ,
यत्पुनरभाणि दर्शनादर्शने एव सत्त्वासत्त्वे भावानामिति तदपि व्यामूढभाषितम् , दर्शनादर्शनाभ्यामेव भावाभावयोः (१)परिच्छेदः न पुनदर्शनादर्शने एव भावाभावावभावश्च विस्तरतः प्राक् साधितः स च सहेतुक इति न स्वत. एव विशरारवो(२)भावा’, एवं तु निष्प्रमाणे पदार्थस्थैर्यपक्षे ज्ञानं तु जनकस्य नियतस्य वस्तुना दर्शनम् दर्शनविषयीकृतस्य प्रवृत्तिः प्रवृत्तिविषयीकृतस्य प्रा. प्तिरिति व्यवहारो न स्यादर्थक्षणनानात्वात् , बाध्यबाधकभावश्च क चिज्ज्ञाना. नां दृष्टः स च न स्यात्पूर्वावगतरजतादिविषयभावप्राहिणो ज्ञानस्य (३)गृहीत. मुद्गरदलितघटाभावज्ञानवद्वाधकत्वानुपपत्तेः, पूर्वदृष्टस्य स्मरणं स्मृतस्य कस्य. चित्प्रत्यभिज्ञानं प्रत्यभिज्ञातस्य गृहादेरर्धकृतस्य समापनमित्यादयश्च व्यवहारा. विप्रलुप्येरन् ।
क्षणभङ्गमङ्गोपसंहारः। अथ सन्तानमाश्रित्य क्रियते तत्समर्थनम् । न तस्य भिन्नाभिन्नत्वविकल्पानुपपत्तितः ॥ अभेदपक्षे क्षणवद्यवहारो न सिध्यति । व्यतिरके तु चिन्त्योऽसौ वास्तवोऽवास्तवोऽपि वा॥ अवास्तवत्वे पूर्वोक्त कार्य विघटते पुनः। वास्तवत्वे स्थिरो वा स्यात्क्षणिको वेति चिन्त्यताम् ॥ सन्तानिनिविशेषः स्यात्सन्तानः क्षणभङ्गुरः । न सिध्ये पुनरप्येष व्यवहारः पुरोदितः ॥ अथापि नित्यं परमार्थसन्तं सन्ताननामानमुपैषि भावम् । उतिष्ठ भिक्षो ! फलितास्तवाशाः सोऽयं समाप्तः क्षणभङ्गवादः ॥
तदेवं सति सन्तोनच्छद्मनो विनिवारणात् ।
लोकयात्रा स्थिरैरेव पदार्थैरुपपद्यताम् ॥ (१) परिच्छेदः-निश्चयः । (२) विशारखो- मश्वराः ।
(३) पूर्व गृहीतः पश्चाद् मुद्रेण दलितो यो घटस्तदभावज्ञानस्य न पूर्वज्ञानबा. धकत्वम् । पूर्व कालकेति समासः । . ________________

क्षणभङ्गनिरासः । एवमनन्तरनिगदितदूषणनिकरुम्ब(१)विनिहतप्रसरम् । नाध्यक्ष क्षणिकत्वे न चानुमानप्रमाणं तत् ॥ क्षणभङ्ग निरस्ते च कार्यमाधारवद् ध्रुवम् । अतो ज्ञानादिकार्येण युक्तमाश्रयकल्पनम् । सुखादेरपि कार्यस्य विज्ञानाद्यतिरिक्तता। प्रागुक्तति तदप्यन्यद्भवत्यस्यानुमापकम् ॥ किं च नाङ्गीकरोषि त्वमात्मानं पारलौकिकम् । उपैषि परलोकं च किमिदं ते बकवतम् ॥ कर्म सन्तानिनाऽन्येन यत्कृतं चैत्यवन्दनम् । ततोऽद्य फलमन्येन भुज्यतेऽकृतकमरणा ॥ न वा निवृतिरप्येति चैत्यवन्दनकर्मणा । ज्ञानक्षणेन नैकेन किंचित्कर्म समाप्यते ॥ कार्यकारणभावश्च यस्त्वदुक्तः स दूषितः ॥ कार्यकारणभावे हि न ह्यन्तत्वं निवर्तते । अनैकान्तिकता चास्य सन्तानान्तरबुद्धिभिः । उपादानत्वरूपोऽपि विशेषः प्राङ् निराकृतः ॥ कापोसरागसंक्रान्तिदृष्टान्तो यश्च वरिणतः ॥ सोऽप्ययुक्तः स्वरूपेण तत्र तस्यैव दर्शनात् ॥ य एव रागः कापासे बीजे समुपकल्पितः । स एव दृश्यते पुष्पे न तु तस्मात्फलान्तरम् ॥ एवं कर्मानुवृत्तिः स्यात्फलभोगस्तु दुर्घटः । कर्मानुवृत्तिरप्येषा न चैकस्यास्ति कस्य चित् ॥ कार्यकारणयोर्भेदात्कार्पासकुसुमादिवत् । अन्यत्रैव हि कर्म स्यादन्यत्रैव च तत्फलम् ॥ न च सन्तानभोगाय कश्चित्कर्मानुतिष्ठति । फलमस्मान्ममैव स्यादिति सर्वः प्रवर्तते ॥ सर्वथा शाक्यभिषणां परलोको विसंष्ठलः । न तत्प्रसाधने तेषां का चिद्गमनिका ऽस्ति वा॥ गर्भादौ प्रथमं ज्ञानं विज्ञानान्तरपूर्वकम् । ज्ञानत्वादित्ययं हेतुरप्रयोजक इष्यते ॥ मूर्छाद्यनन्तरोद्भुतज्ञानेश्च व्यभिचार्ययम् ।
मूर्छितस्यापि विज्ञानमस्तीत्येतत्तु कौतुकम् ॥ (१) दूषणनिकुरुम्बः-दूषणसमूहः । ________________

न्यायमअर्याम् न ह्यर्थावगतेरन्यदूपं ज्ञानम्य किं चन । मूछोदिषु कुतस्तत्स्यात्कुतो वा कललादिषु ॥ कललादिदशायां वा यदि विज्ञानमिष्यते । मातापितृस्थयोरस्ति शुक्रशोणितयोरपि । ततश्चैकत्र संताने चैतन्यद्वयमापतेत् ॥ चेतनानां बहुत्वं वा दम्पत्योर्बहुपुत्रयोः । न चैष नियमो लोके सहशात्सदृशोद्भवः । वृश्चिकादेः समुत्पादो गोमयादपि दृश्यते ॥ शरीरान्तरसंचारचातुर्य च धियां कथम् । ज्वालादिवन्न मूर्तत्वं न च व्यापकताऽऽत्मवत् ॥
आतिवाहिक देहेन नीयन्ते चेद्भवान्तरम् । नन्वातिवाहिकेऽप्यासां कथं संचारसंभवः ॥ प्रास्तामिवैष वा जीवदेहेऽपि पथि गच्छ ताम । प्रदेशान्तरसंचारो ज्ञानानां भवतः कथम ॥ न ह्येषां भूतधर्मत्वं न स्वतो गतिशक्तिता। न च जात्यादिवद् वृत्तिन च व्यापकताऽऽत्मवत् ॥ एवं यदैव निष्क्रान्ता विहारकुहराद्भवान् । तदा कष्टी भवदहो ज्ञानसंक्रान्तिसंभवात् ॥ तदयं संक्षेपार्थस्त्यक्तव्या वा निरस्य कुरुकुीम ।
सुरगुरुवत्परलाके १) नित्या वाऽऽत्माऽभ्युपेतव्यः ॥ यत्वस्थ चमगगनापमतां विकल्प्य नाशित्वमुक्तमथ वा विफलत्वमेव । तन्नेव साधु सुखदुःखदृशापभागयोगेऽपि नाशमधिगच्छति नायमात्मा विकृतिश्च तस्य सुखदुःखजन्मना न हि तादृशो भवति लुप्यते यया । सहकारिकारणवशात्तु जायते तदमुष्य येन समुपैति भोक्तताम् ॥ अथ वापजनव्ययस्वभावस्स्वदशाभेदसमन्वये हि पुंसः । फणिनः किल कुण्डलाद्यवस्थानुगतस्येव न भिन्नति के चित् ॥
अवस्था एवैताः प्रसभविलयातङ्कविधुराः अवस्थाता त्वेकः स्फुरति निरपायस्थिरवपुः । असत्यस्मिन्पूर्वावगतिविषयानुस्मृतिभुवां न सिद्धिः कायोणामिति निपुणमावेदितमिदम् ॥
ननु विमृशति भोगे कर्म नित्याऽपि नात्मा (१) परलोक इति । तथाच धर्मसंग्रहे नागार्जुनः-संजीवः कालसूत्रः संधातो रौ. रवो महारवस्तपनः प्रतापनोऽवीचिश्चेति, अष्टावष्णनरकाः’ इति । नास्तिकत्वं तु बेदनिन्दकत्वेन ‘मास्तिको वेदनिन्दक’ इतिमन्तः । ________________

चार्वाकमतखण्डनम् ॥ न हि नरकनिमना मन्यते कश्चिदेवम् ॥ किल यदहमकार्ष प्राग्भवे कर्म पापं ।
फलमुपनतमस्माद् भुज्यते तन्मयेति ॥ कार्योपभोगसमये किमनेन कृत्यं नास्य प्रवृत्तिरधुना न निवृत्तिरस्मात् । यस्तु प्रवृत्तिजननौपयिकोऽपमर्शः शास्त्रादसौ भवति शास्त्रविदामवश्यम ॥
विमर्शोऽयं पश्चादपि भवति दृष्टे तु विपये मया यूना यत्तत्किमपि सदसद्वा कृतमभूत । ततो वृद्धोऽद्याहं फलमनुभवामीति तदयं पुमानस्ति स्थायी सुकृतफलभोगादिनिपुणः ॥ नास्त्यात्मा फलभोगमात्रमथ च स्वर्गाय चैत्यार्चनं संस्काराः क्षणिका युगस्थितिभृतश्चेते विहाराः कृताः । सर्व शून्यमिदं वसूनि गुरवे देहीति चादिश्यते बौद्धानां चरितं किमन्यदियती दम्भस्य भूमिः परा॥
चार्वाकमतेन पूर्वपक्षः। अत्र सुशिक्षिताश्चार्वाका आहुः–यावच्छरीरमवस्थितमेकं प्रमातृतत्वमनुसंधानादिव्यवहारसमर्थमस्तु नाम कस्तत्र कलहायते शरीरादूर्व तु तदस्तीति किमत्र प्रमाणम् , न च पूर्वशरीरमपहाय शरीरान्तरं संक्रामति प्रमाता, यदि ह्येवं भवेत्तदिह शरीरे शैशवदशानुभूतपदार्थस्मरणवदतीतजन्मानुभूतपदार्थस्मरणमपि तस्य भवेन्न हि तस्य नित्यत्वाविशेषे च शरीरभेदाविशेषे च स्मरणविशेषे कारणमुत्पश्यामो यदिह जन्मन्येवानुभूतं स्मरति नान्यजन्मानुभूतमिति, तस्मादूर्ध्व देहान्नास्त्येव प्रमातेति नित्यात्मवादमूलपरलोककथाकुरुकु. बीमपास्य यथासुखमास्यताम् , यथाऽऽह
यावज्जीवं सुखं जीवेन्नास्ति मृत्योरगोचरः । भस्मीभूतस्य शान्तस्य पुनरागमनं कुत इति ॥
चार्वाकमतानगसः अत्रोच्यते-न खलु निपुणमिव सुशिक्षितमायुष्मता चार्वाकाचार्यचातु. यम् , यावच्छरीरमेकमनुयायि प्रमातृतत्त्वमस्तीति यदुक्तवानसि तन्न विस्मर्तुमहसि, न चास्तित्वाविनाभावी भावानां विनाशः स्वाभाविकः किन्तु हेत्वन्त. रनिमित्तक इति सौगतैः सह कलहमतिमात्रमधुनैव कृत्वा समर्थितोऽयमर्थः, न च विनाशहेतुः प्रमातरि चिरमपि विचार्य माणः कश्चित्कुतश्चिदवाप्यते, न चानुपलभ्यमानोऽप्यसौ कल्पयितुं पार्यते, न ह्यात्मा पटादिरिव सावयव उप. लभ्यते यदवयवविभागादिना नञ्जयतीति गम्यते, उत्पत्तिनोत्मनो दृष्टा यत. ________________

न्यायमअर्याम् स्तदविनाभाविनो निरवयवस्यापि कर्मादेरिव विनाशः प्रतीयेत, न चैष कस्य. चिदात्मा गुणो येनाश्रयविनाशाद्रा विरोधिगुणान्तरप्रादुर्भावाद्वा प्रध्वंसमासा. दयेत् , न चैवं शक्यते वक्तुं किं विनाशहेत्वनुमानेन प्रत्यक्ष एवास्य विनाशो दृश्यत इति , यतो न शरीरवदसौ दह्यमानः शकुनिभिरवलुप्यमानो वा कदा. चिदुपलब्ध इति, तस्माद्विनाशादर्शनाद्विनाशहेत्वनुमानासंभवाच अस्ति चेदात्मा नित्य एवेत्यवधार्यताम, तस्माद् भूतचैतन्यमेव चिरंतरचार्वकाचार्यवत्परलोका. पलापपरितोषालम्बितयत्किञ्चनकारित्वसुलभसुखासिकासक्तहृदयवरमाश्रितमाशरीरमवस्थिते तु प्रमातृतत्त्वे सति न फलन्त्येते परलोकापलापमनोरथाः, भूतचैतन्यपक्षोऽपि च पुरा पराकृत एव तस्मादस्ति नित्यः परलोके प्रमातेति, नित्यत्वे सति पूर्वदेहसंबन्धो भविष्यदेहान्तरसंबन्धश्चास्य न दुरुपपादः, शरीरान्तरसंचारस्तस्य नास्तीति यदुक्तं तद्यक्तमेव व्यापिना सर्वत्र विद्यमानस्या। स्मनः कः संचारार्थः, व्यापित्व एव कि प्रमाणमिति चेत्सर्वत्र कार्योपलम्भः प्रमाणम् , यतो वाराणसीमपि गतस्य मे भवत्येव स्मरणेच्छाऽऽदिकार्ययोगः स चात्मैकप्रभवः प्रात्मनश्च शरीरस्येव न तत्र गमनममूर्तत्वान्न शरीरगुणवत्ता दनाश्रितत्वान्न प्राणादिवदन्तःशरीरवर्तित्वाभावात् , अन्तःशरीरवृत्तित्वे हि द्वयी गतिरेकदेशवृत्तित्वं सर्वशरीरमापूर्य वा तत्र सर्वशरीरापूरकत्वे शरीरप. रिमाणानुविषयत्वादु बालशरीरयुवस्थविरशरीरवत्पूर्वनीत्या परिमाणान्यत्वेन तदन्यत्वात्पुनरपि प्रतिसन्धानादिकार्यवैधुर्यप्रसङ्गः, करिमशकशरीरयोगे च कर्मपरिणामोपनते तस्य संकोचविकासौ प्राप्नुतः तौ च नित्यस्य विरुध्येते, एकदेशवृत्तित्वे तु तदनधिष्ठितानामवयवानामनात्मकत्वान्मृतशरीरावयववदय. थेष्टविनियोज्यता कष्टीभावः स्यात्, प्रदीपवदेतदेशवृत्तरप्यात्मनः सकलशरीरा. धिष्ठातृत्वमिति चेत् , वर्तिप्रदेशोपचिततेजःपिण्डवदेकत्र शरीरावयवे सविशे. षचैतन्यसंवित्तिः स्यात्, अस्त्येव हृदयदेशे तदतिशय इति चेन्न, अनुपलम्भात्, दहनहिमकृपाणादिस्पर्श हि न हृदयस्य प्रदेशान्तरस्य, वा शरीरवेदनाविशेष पश्यामः, तस्मान हृत्पुण्डरीके यावद्वस्थानमात्मनः अत एवाङ्गष्टमात्रं पुरुषं निश्चकर्ष बलायम’ इति व्यासवचनमनेवंपरमवगन्तव्यम् , यदि तु मनोवदे. कदेशवृत्तेरणुपरिमाणस्याशु संचरतः शरीराधिष्ठातृत्वमात्मनः कथ्यते, तथाऽपि सहसैव चिरप्रोषितगतागतदयितजनदर्शनोद्गतसकलशरीरव्यापिस्वेदरोमाञ्चादिदर्शनं विरुध्यते, न च द्वयोरण्वोरात्ममनसोः कर्तृकरणव्यवस्थाऽपि निव. हतीति, तस्मानाणुरात्मा न च शरीरपरिमाण इति व्यापक एवावशिष्यते, तदेवं वाराणस्यामप्ययमात्मा विद्यत एवेति तत्र तत्र तत्कार्यदर्शनमवकल्पते नान्येन गमनादिप्रकारेणेति ।
ननु सर्वत्र सुखदुःखज्ञानादिकार्यदर्शनात्सर्वप्राणिनामेक एवात्मा भवेत् , ________________

.
आत्मनित्यत्वमाधनम् ।
४१ न सुखदुःखव्यवस्थादर्शनाद् बन्धमुक्तविभागोपपत्तेश्चात्मभेदस्य दर्शयिष्य. माणत्वात् , व्यापिनः कथं कर्तृत्वमिति चेज् , ज्ञानचिकीर्षाप्रयत्नसमवाय एवास्य कर्तृत्वं न व्यापारयोग इति निर्णीतमेतत् ।
ननु व्यापिन्यात्मनि कथं शरीरबहिरण्वपि(१) कार्य न दृश्यते कर्माक्षिप्तशरी. रेन्द्रियादिसहकारिसन्निधाननिबन्धनो हि तत्कार्योत्पादः स कथं बहिर्भवेद् इति ।
तस्मादनन्तरोक्तेन प्रक्रमेणोपपाद्यते ।
नित्यत्वाद्यापकत्वाच परलोकित्वमात्मनः॥ सूत्रकारस्तु पारलौकिकत्वसिद्धये हेत्वन्तराणि प्रत्यपादयत् , सद्यो जातस्य बालस्य वदनविकासरोदनाद्यनुमितो हर्षशोकादियोगस्तावदस्ति, युवशरीरादौ रोदनादि शोकादिकारणकमवगतमिदमाननविकासादि हर्षहेतुकमेवं शिशोरपि तनिबन्धनस्तदुत्पादः, तो च हर्षशोको सुखदुःखसाधनाधिगमतदनुस्मरणान्यतरकारणौ भवितुमर्हतस्तथा दृष्टत्वात्, इह चास्य न सुखदुःखसाधनपदाथानुभवः तदानीमस्तीति तदनुस्मरणमेव हर्षशोकहेतुभवेत, स्मरणमपि तदनु. भवप्रभवमनुभवश्वेह जन्मनि सद्यो जातस्य न समस्तीति(२) जन्मान्तरानुभवसुखदुःखसाधनानुस्मरणनिमित्तक एवास्य हर्षशोकसमुत्पाद इति जन्मान्तरानुगमानित्य आत्मा, ___ नन्वभिनवजीवलोकावलोकालादनिबन्धन एवास्य मुखविकासस्तथा यो. निद्वारनिर्गमनोगतनिरर्गलक्लेशपीडितस्य तस्य रोदनमिति न जन्मान्तरानुभूत. स्मरणं कल्पयितुं युक्तमतिप्रसङ्गात्,
मैवं, सुखदुःखहेतुमीदृशमननुभवतोऽप्यकस्मादेव हर्षशोकदर्शनात् । .
ननु कमलमुकुलविकासादिवत्स्वाभाविकमेव शिशामुखविकासादिकार्य स्यात् , स्वाभाविक नाम किमुच्यते किमहेतुकमविज्ञातहेतुकमनियतहेतुकं वा ? न तावदहेतुकं कार्य सम्भवति कार्यत्वहानिप्रसङ्गात् , नाप्यविज्ञातहेतुकं तदा वयितुं युक्तं कार्यमुपलभ्यत इति तद्धेतुपरिज्ञाने यततां भवान किमुदास्ते न चासो ज्ञातुमशक्यः कार्यस्यैव तत्र ज्ञापकत्वात् , नाप्यनियतहेतुकं कार्य किंचिदस्ति कार्योत्पादननियमेनैव हेतुनियमसिद्धरत एव तत्कार्यमुपपादयितुकामाम्तन्निय. तमेव कारणमुपाददते लौकिकाः,
यत्राप्यनियतो हेतुर्वृश्चिके गोमयादिकः ।
अभियुक्तास्तदत्रापि विशेषं न न मन्वते ॥ तदेवं कारणनियमोऽपि कार्यविशेषदर्शनाद् दुरुपह्नव इति मुखविकासस्य हर्ष एव कारणमवगम्यते सहस्रकृत्वस्तथा दर्शनात् , अचेतनानां तु तामरसादी.
(१) अण्वपि-किञ्चिदपीत्यर्थः।
(२) समस्ति-सम्भवतीत्यर्थः । ________________

न्यायमअर्याम् नां(१) विकासकारणं तरणिकिरणनिकरपरिष्वङ्गाद्युपलब्धम् इति तदपि न स्वाभाविकम् ,
तस्मान्मुखविकासस्य हर्षो हर्षस्य च स्मृतिः ।
स्मृतेरनुभवो हेतुः स च जन्मान्तरे शिशोः ॥ ननु शिशोर्जन्मान्तरानुभूतस्मरणे सर्वदा सर्वस्मरणप्रसङ्गः, न यावत्कार्य कारणकल्पनान्न सर्वदा सर्वस्मरणं संवेद्यते न च तत्कल्पनायां कारणमुपलभ्य. ते न चैकदर्शनात्सर्व कल्प्यं दृष्टमपि वा निह्रोतव्यमिति परीक्षकाणामुचित. एव पन्था इत्यसकृदुक्तम् ,
अपि च पयसस्तृप्तिहेतुत्वमनुस्मरन्बालकः स्तन्याभिलाषेण मातुः स्तनतटे दृष्टिं निदधाति न चाध तेन तस्य तत्साधनत्वमवगतमिति जन्मान्तरे सम्ब. न्धग्रहणमस्य वृत्तमिति मन्यामहे,
न चायस्कान्तदृष्टान्तसमाश्रयेण स्वाभाविकमेतद्वालकस्य कुचकलशनिमितोपसर्पणमिति वक्तमुचितमनन्तरमेव निरस्तत्वात् , ___ ननु च गर्भशय्याशायिनोऽप्यपरितोषदर्शनात्तत्साधनोपादाने तदनुस्मरण. मेव प्राप्नोति यदि कार्यमवगम्यते तत्रापि तत्कारणं कल्प्यतां को दोषः, तत्र तु जनयित्रीजठरपतितानपानपरिपाकसंक्रान्त्या तत्परिपोषमायुवेदविदो वद. न्तीति कथं तत्र स्मरणादि कल्पना, कल्पनायां वा प्रथमं निषेकानन्तरमेव क. ललादिशुक्रशोणितविकारसम्भवात्तद्दशास्वपि स्मरणकल्पनाप्रसङ्गः, न तावकल्पनायामपि काचिदस्माकं क्षतिः अयं तु स्तन्याभिलाषेण कुचक्षीरकलशावलोकनोपसर्पणादरो दारकस्य(२) तदनुस्मरणकृत एवेति सर्वथा जम्मान्तरस. म्बन्धानुमानान्नित्यं श्रात्मेति, अतश्चैवं ‘वीतरागजन्मादर्शनात्’ ( गो०३१०१
आ०२३सू० ) रागादिवासनाभ्यासेन सुदृढप्ररूढेनानादिप्रबन्धप्रवृत्तेन परित्या. ज्यमानाः सरागा एव जन्तवो जायन्ते न खलु लोके कश्चन तादृशो दृश्यते प्राणी यो जातो वीतरागश्चेति स एष सरागो जायमानः पूर्वोपचितां रागादि. वासनामनुसरतीति सिद्धो जन्मान्तरसम्बन्धः ।
अदृष्टसाधनम् । तथा च केचिज्जायन्ते लोभमात्रपरायणाः । द्रव्यसंग्रहणकाग्रमनसो मूषिकादयः ॥ मनोभवमयाः केचित्सन्ति पारावतादयः । कूजप्रियतमाचन्चुचुम्बनासक्तचेतसः ॥
केचित्क्रोधप्रधानाश्च भवन्ति भुजगादयः । (१) तामरसादीनां-कमलानाम् । (२) दारकस्य-बालकस्य ॥

  • ________________

आत्मनित्यत्वोपसंहारः । ज्वलद्विषानलज्वालाजालपल्लविताननाः ॥ जगतो यच्च वैचित्र्यं सुखदुःखादिभेदतः । कृषिसेवादिसाम्येऽपि विलक्षणफलोदयः ॥ अकस्मानिधिलाभश्च विद्युत्पातश्च कस्य चित् । क चित्फलमयत्नेऽपि यत्नेऽप्यफलता क चित ॥ तदेतद् दुर्घटं दृष्टात्कारणाद्यभिचारिणः । तेनादृष्टमुपेतव्यमस्य किं चन कारणम् ॥ अदृष्टो भूतधर्मस्तु जगद्वैचित्र्यकारणम् । यदि कश्चिदुपेयेत को दोषः कर्मकल्पने ॥ संज्ञामात्र विवादश्च तथा सत्यावयोर्भवेत् । भूतवद्भूतधर्मस्य न चादृश्यत्वसम्भवः ॥ दृष्टश्च साध्वीसुतयोयमयोस्तुल्यजन्मनोः । विशेषो वीयविज्ञानसोभाग्यारोग्यसम्पदाम् ॥ स्वाभाविकत्वं कार्याणामधुनव निराकृतम । तस्मात्कर्मभ्य एवष विचित्रजगदुद्भवः ॥ कर्मणां यदि वैचित्र्यं कर्मान्तरकृतं यदि । अनिष्टं तत्स्वतः सिद्धं जगत्येव तदिष्यताम् ॥ कर्मणां शास्त्रतो ज्ञाता विचित्रफलशक्तता। दृष्टार्थेषु च वाक्येषु दृष्टा प्रत्यक्षताऽपि सा ॥ तस्माद् दृष्टस्य कार्यस्य युक्ता कारणकल्पना। कारणस्य त्वदृष्टत्वात्किं हत्वन्तरचिन्तया ॥ हेत्वन्तरनिमित्तऽपि कर्मवेचियकल्पने। संसारस्य त्वनादित्वान्नानवस्था भयावहा ॥ तथा च पुण्यः पुण्येन पापः पापन कमणा।
जायते जन्तुरित्येवं धर्मशास्त्रेषु पठ्यते ॥ तथा च गौतमः । पुण्यः पुण्येन कर्मणा भवति पापः पापेनेति(१)।
तस्मात्कुतर्कमूलेन दृष्ट कार्योपघातिना।
सर्वलोकविरुद्धेन चौद्येन (२)कृतमीडशा॥ (१) अत एव-तद्य इह रमणीयचरणा अभ्यायो ह यत्ते रमणीयां योनिमा. पोरन ब्राह्मणयोनि वा क्षत्रिययोनि वा वैश्वयोनि वाऽथ य इहकपयचरणा अभ्यामोह. यो का योनिमापोरन श्वयोनि वा सकारयोनि वा चाण्डालयोनि वा इति (छा० ५-१०-.) ‘पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन’ (वृ० ३-२-१३) इति श्रुतिरपि।
(२) कृतम्-व्यर्थम् । ________________

न्यायमअर्याम् तस्मात्कल्प्यानि कर्माणि दृष्टकार्योपपत्तये । एवं च क्षणभङ्गित्वात्संस्कारद्वारिका स्थितिः ॥ स कर्मजन्यसंस्कारो धर्माधर्मगिरोच्यते।
नित्यात्मसाधनम् । विना च नित्यमात्मानं क धर्माधर्मयोः स्थितिः ॥ नित्यस्तस्माद्भवति पुरुषः स्वप्रणीतानुगच्छद्धर्माधर्मक्रमपरिणतानन्ततापोपभोगः । प्रामाण्यं च स्फुटमभिहितं पूर्वमेवागमानां. तेभ्योऽप्यात्मा जनननिधनातीततत्त्वः प्रसिद्धः ॥ [१]यद्विज्ञानघनादिवेदवचनं तत्पूर्वपक्षे स्थित. पौर्वापर्यविमर्शशून्यह्रदयैः सोऽर्थों गृहीतस्तदा । मैत्रेय्या परिचोदितस्तु भगवान्यद्याज्ञवल्क्योऽब्रवी.
दात्मा नैव विनश्यतीति तदिदं सिद्धान्तसारं वचः ॥ तेनात्मनित्यत्वसमर्थनेन सुस्पष्टसिद्धः परलोकमार्गः॥ य एव देहान्तरसङ्गमोऽस्य तमेव तज्ज्ञाः परलोकमाहुः ॥
इति कवलने मांस्पाकानां परस्वपरिग्रहे कितवजनतागोष्ठयां वेश्यामुखाम्बुजचुम्बने। गतमतिरभूद् धूतों मत्वा भवान्तरनास्तिता
तदयमधुना तत्संसिद्धरहो बत दूयते ॥ (२)तस्मानित्योऽयमात्मा न च कलुषफलस्तस्य नैसर्गिकोऽयं
रागद्वेषादियोगोऽपि तु सकलगुणापोढमेवास्य रूपम् । (१) बृहदारण्यके ( ४-अ ५ ब्रा०) याज्ञवल्क्यस्य द्वे भार्ये मैत्रेयी कात्यायनी च तत्र मैत्रेयी येनाहं नामृता स्यां किमहं तेन कुर्यो यदेव भगवान् वेद तदेव मे विहिः इति पृष्टवती ततः स यथा सैन्धवधनोऽनन्तरोऽबाह्यः कुत्स्नो रसघन एवै वा. रेहमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानधन एवैतेभ्यो भुतेभ्यः समुत्थाय तान्ये. वान विनश्यति न प्रेत्य संज्ञास्तीत्यरे ब्रवीमोति होवाच याज्ञवल्क्यः ’ इति एतन्मूलक एव देहात्मवादपक्षः स च पूर्वपक्षभूतः, सिद्धान्तस्तु सा होषाच मैत्रेय्यत्रैव माभग बान्मोहान्तमापीपन्नवा अहमिमं विजानामीति स होवाच न वा अरेऽहं मोहं प्रवीम्य विनाशी वा अरेऽयमात्माऽनुच्छित्तिधर्मा’ इति । तदेवाह-यदिशानधनादीति ।
(२) तस्मादिति । आत्मा नित्यः तस्य कलुषफलः दुःखादिफलः रामद्वेषा. दियोगः नैसर्गिकः स्वाभाविको न किन्तु अस्य आत्मनः सकलगुणापोडं सकगुणर.’ हितमेव स्पमस्ति तेन अनादिप्रबन्येन अनादिसंसारप्रवाहेण उपवितो जायमानापति णमन् यः कर्मपाका तेनोपचितं दुखं त्यक्त्वा सर्वभयरहितं निःश्रेयसमाप्तुं बताः । ________________

शरीरपरीक्षाः । तेनानादिप्रबन्धोपचितपरिणमत्कर्मपाकोपनीतं दुःखं संत्यज्य निःश्रेयसमखिलभयाऽतीतमाप्तुं यतेत ॥ इति श्रीजयन्तकृतौ न्यायमञ्जसप्तममाह्निकम् ॥
शरीरनिरूपणम् । आत्मानन्तरं विभागसूत्रे शरीरनिर्देशात्तदनुक्रमेण तत्स्वरूपनिरूपणार्थमाहचेष्टेन्द्रियार्थाश्रयः शरीरम् ॥ (गौ० अ० १ ० सू० ११) __ शरीरस्य यल्लक्षणं येन च रूपेण भाव्यमानस्यापवर्गोपयोगिता तदुभय. मपि प्रतिपाद्यते, तत्र शरीरत्वमेव तावत्प्रथमं शरीरस्य लक्षणं तेन हि समा. नासमानजातीयेभ्यस्तद् व्यवच्छिद्यते , तस्मिन्सत्यपि चेष्टेन्द्रियार्थाश्रयत्वं य. दस्य लक्षणमुच्यते तत्तेन रूपेणात्मनो भोगायतनं शरीरमिति ज्ञापयितुम् , चेष्टेन्द्रियार्थाश्रयतया हि शरीरमात्मना भोगायतनं भवति मुमुक्षणा च सुख. दुःखोपभोगरहितात्मतत्वस्वभावनिःश्रेयसाधिगमविनिहितमनसा तथा भोगा. धिष्ठानतया शरीरं भावयता तत्परिहरणे यत्नः कार्य इत्याचार्यश्चेष्टेन्द्रियार्थाश्रयत्वमस्य लक्षणमुक्तवान् ।
ननु चेष्टा क्रिया क्रियाश्रयत्वे च सत्यपि न वृक्षादीनां शरीरत्वमित्यतिव्याप. कं लक्षणम् ,नविशिष्टचेष्टाश्रयत्वस्य (१)विशिष्टप्रमेयलक्षणप्रक्रमतोऽवसीयमानत्वात , हिताहितप्राप्तिपरिहारयोग्यव्यापाराधिकरणं शरीरमुच्यते न चेष्टामात्रस्याधिष्ठानम् , रथादिनाऽपि नातिव्याप्तियथोक्तप्रक्रमवशा(२)देवान्येन प्रेरणाया. मसत्यामिति विशेषलाभात् , अात्मप्रयत्नातिरिक्तप्रेरकनिरपेक्षहिताहितोपादानपरित्यागोपाधिकचेष्टाविशेषाश्रयः शरीरमित्यर्थः, ननु पाषाणान्तर्गतमण्डू. कादिशरीरेषु तदाश्रयत्वादर्शनादव्याप्तिः, न योग्यतायास्तत्रापि भावात् , स. त्यामपि क्रियायोग्यतायां सर्वतो निर्विवरनिचितहषत्कर्परोपरुद्धावकाशतया च. लितुमसौ न प्रभवति भेको वराकः, तथा च स्फुटिते तस्मिन्नेवाश्मनि तत्क्षण. मेवासो चलन दृश्यते इति निबिडपाशसंयतशरीरवत्तदानीं चेष्टाया प्रदर्शन ऽपि नाव्याप्तिः। __ मुमुक्षुशरीरमेव ढक्यतामित्येके-तेन न मण्डूकशरीरादिभिरव्याप्तिरलक्षणीयत्वात्तेषामिति, तद्युक्तं नियतस्य मुमुक्षूणांशरीरस्याभावात् , तादंशि च
(१) विशिष्टचेष्टाश्रयत्वस्य-हिताहितप्राप्तिपरिहारयोग्यव्यापाराधिकरणत्व रूपस्य।
(२) यथोक्तप्रक्रमवशात्-प्रकरणवशात् अन्येन प्रेरणायामसल्या हिताहितप्रालि. परिहास्मोपण्यापाराधिकरणलं शरीरलक्षणं पर्यवसन्नमित्यर्थः ।

  • ________________

न्यायमअर्याम् ।
भेकादिशरीराणि नितरां निवेदकारीणि भवन्ति, मुमुक्षुरपि च कर्मविपाकमनंकप्रकारमाकलयन्मण्डूकीभावमात्मनोऽपि न शङ्कते प्रत्यासन्नापवर्गपुरप्रवेशं. विपश्चित्तममपश्चिमजन्मानं मुमुक्षु प्रति लक्षणाद्युपदेश एव कोपयुज्यते इत्यतः पूर्वोक्त एवाव्याप्तिपरिहारः श्रेयान ॥ ___ भवत्वेवं चेष्टाश्रयत्वं शरीरलक्षणम इन्द्रियाश्रयत्वं तु कथम् ? भौतिकानि हीन्द्रियाणि स्वावयवसमाश्रितानि घाणनयनस्पर्शनरसनानि, श्रोत्रमनसी तु नित्यद्रव्यत्वादनाश्रिते एवेति कथमिन्द्रियाश्रयता शरीरस्येति,
उच्यते नात्राधाराधेयभाव आश्रयार्थः किन्तु तदनुप्राह्यत्वात्तदाश्रितानी. न्द्रियाण्युच्यन्ते, देशकालदशानुकूलपथ्यभोजनाभ्यङ्गव्यायाममर्दनाभ्युपचारोपचितशरीरस्य हि पुंसः पटुतराणि स्वविषयपुरन्ध्रिग्रहणे भवन्तीन्द्रियाणि दी. _ध्वलधनकदशनशुष्कजरत्सचन्द्रसेवनादिक्लिष्टशरीरस्य हि पुंसो मन्दशक्तीनि भवन्तीति तदनुसाहकत्वादिन्द्रियाणामाश्रयः शरीरम् ।
अर्थानां तु रूपरसगन्धादीनां केषां चिदाश्रयः शरीरं भवत्येव तत्समवायिनां न तु तावता किं.चिद्भोगायतनत्वोपयोगि रूपमभिहितं भवति । लक्षणमपि त. दतिव्यापक रूपरसादिसमवायस्य वृक्षादावपि भावात्तस्मात्तदर्थाश्रयत्वमीहश. मत्र विवक्षितं यदेते वरवनितादिशरीरवर्तिनः, (१)प्रविकचमुचुकुन्दकुन्दकन्दल. कमलादिबाह्यविषयसमवायिनश्च रूपरसादयोऽर्था रमणीयतामादधाना रागवृ. द्विहेतवो भवन्ति भोक्तुरात्मनः शरीरे सति न शरीररहितस्येत्यर्थानां भोगसा. धनभावादाश्रयः शरीरमतः सुष्ठुक्तं चेष्टेन्द्रियार्थाश्रयः शरीरमिति, तदित्थं भो. गायतनत्वेन बन्धहेतुत्वाद्धयमित्यर्थः ।
शरीरपरीक्षा। तदिदानीमस्मदादिशरीरं किं पार्थिवमेव किंवा नानाभूतनिर्मितमिति परी. क्यते, ननु किमनया परीक्षया प्रयोजनम् ।
निःश्रेयसोपयोगो हि यः शरीरस्य दर्शितः ।
नानकप्रकृतत्वे हि न स तस्य विशिष्यते ॥ मैवं वोचः
प्रतिपन्नम्वरूपस्य चिन्त्याकारोपयोगिता ।
कार्यः कार्यार्थिनाऽप्यादौ यत्नस्तदूपनिर्णये ॥ तथा चेन्द्रियाणि भौतिकत्वाहङ्कारिकत्वविवेकेन परीक्षिष्यन्ते, अर्था अपि कति किंगुणा इति, बुद्धिरपि किं प्रधानस्य प्रथमो विकारो महच्छब्दवाच्य. उतात्मन एव धर्मों ज्ञानाख्यः क्षणिक इत्येवं द्रष्टव्यम् ।
(१) प्रविकचमुचुकुन्ध-विकसितपुष्पविशेषत्यर्थः । ________________

शरीरपरीक्षाः।
४७
शरीरपरीक्षार्थ विप्रतिपत्तयः। तत्र पार्थिवमेवास्मदादिशरीरमिति के चित, साधारणो हि धरणिधों ग. न्धस्तस्मिन्त्र पलभ्यते इति । __ पृथिव्युदककारणमित्यन्ये, क्लेदस्यापि तस्मिन्दर्शनादसति हि सलिलसं. सगें न पार्थिवाः क्लेदमनुभवन्तीति । क्षितिजलज्वलनजनितमित्यपरे, गन्धक्लेदवदूष्मणोऽपि तत्रोपलम्भादिति,
वसुमतीसलिलसितेतरसरणिसमीरणरचितमिति चान्ये, रचनाविशेषस्य पवनकार्यस्य तत्रावधारणादिति।
अवनि(१)वनदहनपवनगगनविनिर्मितमिति चापरे, गन्धादिवदवकाशस्या. प्याकाशकार्यस्य तत्र दर्शनासुषिरं हि शरीरमुपलभ्यते अवकाशे चाकाशैकदेशेऽप्यवच्छेदाभिप्रायेण श्रोत्रवद्भया तत्कार्यत्वव्यपदेश इति ।
शरीरस्य पार्थिवत्वम् । तदत्र किं तत्त्वं पार्थिवमेवास्मदादिशरीरमिति विजातीयकार्यस्यावयविनापपत्तेः, पार्थिवावयवसमवेतशरीरावयवग्राहिणश्वाभेदप्रत्ययस्य तृणपर्णपा. षाणमूलकाद्यभेदप्रत्ययवदपवादासम्भवात् , न च वयमिह भूतान्तराणां कार. णभावनिषेधं विद्मः केवलपार्थिवतया निर्विवादसिद्धेऽपि कुम्भादावम्भःप्रभृ. तीनां कारणत्वानपायात्तव्यतिरेकेण घटादेर्घटयितुमशक्यत्वात् , किन्तु घट. इव शरीरेऽपि समवायिकारणतां पृथिव्यवयवानामेवाचक्ष्महे तदाश्रितत्वस्था. स्य प्रत्यक्षेण ग्रहात्सहकारिकारणत्वानुप्रविष्ठभूतान्तरसम्बन्धनिबन्धनस्ततः सिद्रः क्लेदोष्मव्यूहावकाशसम्प्रत्ययस्तत्पथागमपठितेषु वरुणलोकादो केवलजलादिजन्येषु सहकारित्वानुप्रविष्टपार्थिवावयवावष्टम्भवशेन स्थैर्याधुपलम्भ इति , तस्मादस्मदादिशरीरं पार्थिवम्।
वेदे च(२) तथैव व्यवहारो दृश्यते अग्नीषोमीयादिपशोः प्रलयकाले यजमा. नस्य वा प्रेतस्य [३] पात्रचयनकर्मणि ‘सूर्य चतर्गमयतादित्याद्यपक्रम्य ‘पृथिवी ते शरीरमिति पठ्यते, तच प्रकृतिगामित्ववचनं यद्यतः प्रकृतेरुत्थितं तत्तस्यामे. वास्य लीयतामित्यर्थः । तत्र यथा तैजसं चतुरिति सूर्याख्ये तेजसि उद्गमनमुपदिष्टमेवं पृथिव्यां शरीरस्येति तस्मात्पृथिव्यवयवैरयमस्मदादिदेहो निबद्ध इति नात्र सतां विवादः ।
(१) अवनिः पृथ्वी, वन-जलं, दहनः-अमिः । (२) वेदे च-पीत्यर्थः । (३) प्रेतस्य-मृतस्य ।

  • ________________

४८
न्यायमअर्याम्
इन्द्रियपरीक्षा। घाणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि
भूतेभ्यः ॥ ( गौ० १ ० १ आ० १२ सू० ) अत्रेन्द्रियाणां विषयोपलब्धिकारणत्वं सामान्यलक्षणं प्रसिद्धमेव विभा. गोऽपि पञ्चबाह्येन्द्रियाणां त्वेष सूत्रित एव स चानन्तरमेव, तीर्थान्तरकथित कर्मेन्द्रियनिषेधात्साधयिष्यते ।
विशेषलक्षणानि तु पश्चानां पञ्च समाख्यानिर्वचनसामर्थ्यात्प्रमाणवदवगन्तव्यानि । जिघ्रत्यनेनेति प्राणं प्रेयं गृहातीति गन्धोपलब्धावसाधारणं क. रणं प्राणं, चक्षुः ईक्षणं लोचनं तदुच्यते, स्पृशत्यनेन स्पर्शनं स्पर्श गृहातीति स्पॉपलब्धावसाधारणं कारणं स्पर्शनं, स्पर्शन मिति वक्तव्ये त्वग्ग्रहणमुपचारान्मञ्चाः क्रोशन्तीति तदधिष्ठानत्वं दर्शयितुम्-यथा त्रिपुटिकाधिष्ठानं घ्राणं जिह्वाधिष्ठानं रसनं गोलकाधिष्ठानं चक्षुः तथा सकलत्वगधिष्ठानं स्पर्शनं शि. रःप्रभृत्यापादाङ्गुष्ठं स्पर्शोपलम्भात् , त्वगिति च न बाह्यमेव चर्म केवलमुच्यते अपि तु सकलशरीरव्यापि तुहिनकणशिशिरसलिलपानसमयेन्तहृदयेऽपि शी. तस्पशोपलम्भादिति, स्वावयवसमवायित्वे चेन्द्रियाणां त्रिपुटिकाद्याश्रयत्वमाश्रयमात्रापेक्षयोच्यते न समवायित्वादिति, शृणोत्यनेनेति श्रोत्रं शब्दं गृहा. तीति शब्दोपलब्धावसाधारणं करणं श्रोत्रम् , तच्चाकाशैकदेशत्वादनाश्रितमपि कर्णशष्कुल्यधिष्ठानमुच्यते,
तदेवं विशेषणलक्षणानि पञ्च पञ्चानामुक्तानि, भवन्ति तानीमानीन्द्रियाणि स्वविषयग्रहणलक्षणान्यात्मनो भोगसाधनत्वात्संसारकारणानीति हेय. तया भावयितव्यानि, तथा भाग्यमानानि निवेदोत्पादनादिद्वारेणापवर्गाय कल्पिष्यन्ते इति ।
भूतेभ्य इति किमर्थम् ? उक्तं हीन्द्रियाणां स्वविषयग्रहणं भूतप्रकृतित्वे सति निर्वहति नान्यथेति तत्तद्विनिश्चयार्थ यथाप्तोपदेशः शब्द इत्याप्तग्रहणम् । विषयोपलब्धिलक्षणत्वं हीन्द्रियाणां भूतप्रकृतित्वे सति निर्वहति नान्यथेति, तानि पुनरिन्द्रियकारणानि पृथिव्यप्तेजोवायुराकाशमिति भूतानि, भूतेभ्यः प. श्वभ्यो यथासङ्खयं घ्राणरसनचक्षुस्त्वकश्रोत्राणि पञ्चेन्द्रियाणि भवन्ति भूतप्र. कृतित्वमिति भूतस्वभावत्वं व्याख्यावसानम् (दिवादिभ्यो भूतेभ्यः सम्भवति त. दवनतौ पञ्चस्वपि सम्भवति)(१) भूतकारणकत्वं त्वन्येषु चतुर्ध्वपि तथैव श्रोत्र तु कथञ्चित्कर्णशष्कुल्यवच्छिन्ननभोभोगाभिप्रायेण व्यवहारतः समर्थनीयम्
(१) अयं पाठ कश्चिदपि न समन्धेतीति व्यर्थ एवेति बोध्यम् । ________________

इन्द्रियपरीक्षा।
४९ एवं भौतिकानीन्द्रियाणि स्वं स्वं विषयमधिगन्तुमुत्सहन्त इति तलक्षणत्वमेषां सिध्यतीति अतो भूतेभ्य इत्युक्तम् ।
साङ्ख्यमतेनेन्द्रियाणामाहङ्कारिकत्वम् । तत्रैतत्परीक्षणीयं वर्तते किं भौतिकानामिन्द्रियाणां स्वविषयग्रहणकरणत्वमुतान्यथेति, एवं हि साङ्ख्याः सम्प्रवदन्ते आहङ्कारिकाणीन्द्रियाण्यर्थ साधयितुमर्हन्ति नान्यथा, तथा हि कारकं कारकत्वादेव प्राप्यकारि भवति भौतिकानि चेन्द्रियाणि कथं प्राप्यकारीणि दूरवर्तिनि विषये भवेयुः प्राहकारिकाणां तु तेषां व्यापकत्वाद्विषयाकारपरिणामात्मिका वृत्तिवृत्तिमतो नान्या सती सम्भवत्येवेति सुवचं प्राप्यकारित्वम, अपि च महदणुग्रहणमाहङ्कारिकत्वे तेषां कल्पते न भौतिकत्वे, भौतिकत्वे हि यत्परिमाणं ग्रहणं तत्परिमाणं ग्राह्यं गृह्णीयादस्ति च गोलकादधिकपरिमाणस्य पटपिठरादेग्रहणं हीनपरिमाणस्य च वटधानादेरतोऽपि न भौतिकानीन्द्रियाणि, भौतिकानामपि दीपादीनां परं प्रकाशयतां स्वात्मप्रकाशकत्वमपि दृष्टम् , एवमिन्द्रयाण्यपि पटादिरूपं प्रकाशयन्ति स्वरूपमपि च प्रकाशयन्तीत्यतोऽपि न भौतिकानि ।
भौतिकत्वेपीन्द्रियाणां प्राप्यकारित्वम् । अत्राभिधीयते-यत्तावत्प्राप्यकारित्वं भौतिकत्वपक्षे नावकल्पते इति ज. ल्पितवानसि तन्मन्ये त्वया गोलकमेव चक्षुरिति चेतसि गृहीतमन्यथा कथ. मित्थमकथयिष्यः, स चायमायुष्मतो महान भ्रमः न खलु कृष्णसारं चक्षुस्तदधिकरणं तु तेजश्चक्षुस्तच वेगवद्रव्यत्वाद् दूरमपि प्रसरतीति कोऽस्य प्रा. प्यकारितायां प्रमादः।
ननु च गोलके चिकित्सादिप्रयोगागोलकगुणदोषानुवर्तित्वाच विषयोपलब्धेगालकमेव चक्षुः स्याद् अनुपलभ्यमानं च तेजः कथमिन्द्रियमुच्यते, कथं च तेजसा वेगवताऽपि सहसैव विस्फारिते चक्षुषि योजनशतसहस्रव्यवहित. सितकरतरणितारकादि ग्रहीतुं शक्येत, कथं वा तदल्पकं वराकं नायनं तेजः समन्ततः प्रसरता सकलमुवनप्रथितप्रभावन महीयसापि मिहिरमहसान प्रतिहतगति भवेदभ्यर्थमिति भास्करदर्शनमित्थं न सम्पद्येत, तेजःपक्षे च काचा. भ्रकपटबालस्फटिकान्तरितपदार्थोंपलब्धिः कथं समयंत तत्प्रतिबद्धं हि तेजः कथं प्रतिष्ठेतेति तद्वरं शक्तिविशेषयुक्तं गोलकमेव साधो! चक्षुरभ्युपगच्छति ।
उच्यते-न खलु भवदनुशासनेन युक्तिविरुद्धपक्षमभ्युपगच्छामः प्राप्य. कारि हि कारक दृष्टं कृष्णसारपक्षे च कुतः प्राप्यकारित्वम् ? शक्तिरपि कल्ल्यमाना निराश्रया न परिकल्पनीयैवेति तदाश्रयचिन्तायां न गोलकमात्रमाश्र. योक्तेराश्रयो भवेत्। ________________

न्यायमअर्याम् ननु च प्राप्यकारित्वमेव चिन्त्यं वर्तते तद्धि रसनस्पर्शनयोः केवल. मवलोक्यते लोके चक्षुःश्रोत्रे तु दूरदेशव्यवस्थितविषयग्राहिणी कथं प्राप्य. कारिणी स्याताम् घाणे तु त्रिपुटिकानिकटनिहितपदार्थगन्धमपि गृह्णाति दूरतोऽपि च प्रचलदनिलबलवेल्लितफुल्लमल्लिकादिसौरभमुपलभते त्रिपुटिकोप. कण्ठढौकितेनापि द्रव्येण न तस्य सन्निकर्ष इति तदप्यप्राप्यकार्येव, तस्माच्छ. क्तिविशेषणमधिष्ठानमेव तत्तदिन्द्रियमिति गृह्यताम् उत्सृज्यतां प्राप्यकारित्वपक्षः चक्षुषि च चन्द्रार्कग्रहादिग्राहिणि नतरां प्राप्यकारित्वमित्युक्तमेव । __ अत्रोच्यते न प्राप्यकारित्वमुत्स्रष्टुं शक्नुमः कारकत्वमेव हि तथा स. त्येषामुत्सजेम, कारकं चाप्राप्यकारि चेति चित्रम् , अदृष्टमपि कारणमा. स्मनो व्यापकत्वात्तवृत्ति धर्मादिकं न प्राप्यकारि भवेत् किमुत दृष्टं चतरादि कारकमिति, अप्राप्यकारित्वे च शक्तरविशेषात्कुड्यादिव्यवहितमपि वस्तु चक्षु. षा दृश्येत, तत्र कार्यानुपलम्भान्न शक्तिः कल्प्यते इति चेत् , किं शक्तिः कल्प्यता किं तेज इति सम्प्रधारणायां(१) तेजसो द्रव्यत्वाद्वयवधानाद्यनुगुणममूर्तायास्तु शक्तेर्व्यवधानमबाधकं भवेदिति तेज एवेन्द्रियं कल्पनीयं न शक्तिः, शक्ति मदधिष्ठानं वा, प्राप्यकारिता च श्रोत्रस्य तावद्देशसन्तानसदृशशब्दपरम्परार. म्भणद्वारेण दर्शिता शब्दाधिकरणे, प्राणस्यापि समीरणान्दोलितकुन्दलता. दिप्रसततत्परमाणुनिकराधिकरणगन्धग्रहणात्प्राप्यकारिता, न च परमाणप. सपणाद् द्रव्यपरिक्षयाद्याशङ्कनीयं भूयस्त्वात्परमाणूनाम , अत एव(२) गन्ध. द्वारकतद्रव्यसम्पर्कदोषनिहरणाय प्रायश्चित्तमशुचिद्रव्यघ्राणे समामनन्ति, चक्षुषस्तेजःप्रसरणात्प्राप्यकारिता, अनुपलभ्यमानं तेज इति चेत्किं चन्द्रमसः परभाग उपलभ्यते पृथिव्याश्चाधोभागः, न खलु प्रत्यक्षकशरणाः पदार्थाः अनुमानादिभिरेषामुपलम्भः सम्भवत्येव, उक्तं चानुमान रूपोपलब्धिकार्यण तैजसमेव चतुरनुमीयते, तेजोद्रव्यं हि दीपादि रूपस्य प्रकाशकं दृष्टमिति । । प्रत्यक्षेण तु नायनं तेजः किमिति नोपलभ्यते इति ? तदुच्यते विचित्रा हि द्रव्यगुणानामुद्भवाभिभवादिवशेन गतयो भवन्ति, तद्यथा सर्वतः प्रसरता धवलबहलेन शीतस्पर्शाश्रयेण द्रव्येण व्याप्तौ हेमन्तशिशिरौ ऋतु भवतः, निराधारस्य शीतस्पर्शगुणस्यानुपपत्तेः ।
अथ सत्यपि तत्र सलिलद्रव्ये तद्गुणस्य शीतस्पर्शस्यैवोपलब्धिर्न शुक्लरूप
(१) सम्प्रधारणायां-विचारणायाम् ।
(२) मत एवेति । घ्राणेन गन्धग्रहणाय गन्धवद्रव्यस्य वायुनाऽऽनबनाङ्गी. काराशुचिद्रव्यल्पर्श इति तदोषनिहरणाय प्रायश्चित्तं धर्मशास्त्रविहितं सहाच्छत इति भावः । ________________

इन्द्रियपरीक्षा।
स्येति । तेजोद्रव्येण च निरर्गलं(१) विज़म्भमाणेन भूयसा ग्रीष्मो भवति तत्र सत्यपि तेजोद्रव्ये तद्गुणस्योष्णस्पर्शस्यैव ग्रहणं न भास्वररूपस्येति, भास्वरं. च कार्तस्वरादौ तैजसद्रव्ये रूपमुपलभ्यते नोष्णस्पर्शः, उदकान्तर्गते च तेज. सि ज्वलनतप्ते जले ज्वलनगुण उष्णस्पर्शोऽनुभूयते न भास्वरं रूपमिति, एव. मिह नयनरश्मी तैजसे द्रव्ये द्वावपि रूपस्पर्शी नोपलभ्येते इति कमुपालभे. महि, उक्तं च-(२)दृष्टानुमितानां हि नियोगप्रतिषेधानुपपत्तिः प्रमाणस्य तत्त्वविषयत्वादिति [गौ० ३-१-५३] । न च सर्वत्र नयनरश्मेरनुपलम्भः क चिद्धि वृषदंशप्रभृतीनां (३)नक्तञ्चराणां निशि निबिडतमतमःपङ्कपटलावलिप्ते वेश्मनि सञ्चरतां चाक्षषं तेजो भास्वरं रूपं दूरमपि प्रसरदुपलभ्यत एव, अ. न्यत्र तु मध्यन्दिनोल्काप्रकाशवदग्रहणमस्मदादिनयनरश्मेः, अयं तु विशेषः उल्कारूपस्य दिवा दिवाकरकरविभवाभिभूतत्वादग्रहणं नयनरश्मिरूपस्य त्व. नुभूतत्वादेवेति।
यत्त काचाभ्रपटलस्फटिकान्तरितपदार्थोपलम्भनं तत्र काचादीनां केषांचिदतिस्वच्छत्वात्केषांचिच्च ससुषिरत्वाचाक्षुषतेजःप्रसरनिरोधकौशलं नास्तीति प्राप्यकारित्वं चतषस्तावता भवति ।
यत्त कुतो नयनरश्मरियती गतिर्गगनमाक्रम्य यद्गभस्तिमालिनं स्पृशति न प्रतिहन्यते च सावित्रण वेगवता तेजसेति, उक्तमत्र दृष्टानुमितानां नियोगः प्रतिषेधानुपपत्तिरिति, कार्यसत्तया हि तथाविधं कारणं कल्प्यते यद् दूरमपि प्रसरति प्रसरदपि परेण न च निरुध्यते, दृष्टश्वानिराधा भर्जनकपालादौ तेजसः पच्यमानद्रव्यपाकसिद्धः कलशे च निषिक्तानामपां बहिः शीतस्पर्शग्रहणादनिरोधः, एवं नयनरश्मेरपि भविष्यति, न तु गोलकस्यैव शक्तिकल्पना लध्वीति वक्तव्यम् , प्राप्यकारित्वव्याघातादिति, अत एव सर्वेन्द्रियाणां प्राप्यकारित्वं पश्यद्भिः शास्त्रज्ञौरिन्द्रियार्थसनिकपः षट्प्रकारा व्याख्यातः, प्राप्यकारिता च न गोलकस्योपपद्यत तदप्राप्तस्य पर्वतादेग्रहणात्तत्प्राप्तस्य च प्रत्युताअनशलाका. देरग्रहणादगोलकं चक्षुः,
चिकित्सादिप्रयोगस्तु गोलके यः प्रवर्तते ।
सोऽयमाधारसंस्कार आधेयस्योपकारकः ॥ (१) निरर्गलं-निष्प्रतिबन्धम् ॥
(२) दृष्टानुमितानामिति । दृष्टानामनुमितानां वा पदार्थानाम् एवं भवत’ इति नियोगः एवं मा भवत’ इति प्रतिषेधो वा नोपपद्यते तथाभूतविषयकं हि प्रमा. गमित्यर्थः।
(३) वृषलंगो-विडाला। ________________

न्यायमअर्याम् अत एव गोलकगुणदोषानुवर्तित्वमपि विषयोपलब्धेर्घटमानमाधारद्वारको हि तदाधेयस्यैव तौ गुणदोषाविति, तस्मादप्राप्तविषयग्रहणानुपपत्तोलकचतुःपक्षो भितत्प्रेक्षितः(१) प्रेक्षावतां हृदयेषु न विश्राम्यतीति प्राप्यकारि तेज एव चक्षरिति स्थितम् । इत्थं भौतिकेन्द्रियवादेऽपि प्राप्यकारित्वसिद्धर्न का. पिलकथितमाहङ्कारिकत्वमिन्द्रियाणामुपपद्यते ।
इन्द्रियाणामाहङ्कारिकत्वखण्डनम् ! ननु पक्षद्वयेऽपि प्राप्यकारित्वोपपत्तेः कोऽयं भौतिकत्वं प्रत्यभिनिवेशातिशयो भवतामिति, उच्यते–एकप्रकृतित्वे हीन्द्रियाणामेकमेव सर्व विषयप्रका. शनकुशलमिन्द्रियं भवेत्सर्वाणि वा सर्व विषयग्राहीणि भवेयुः कारकस्याविशे. षात् , कारणनियमाधीनो हि कार्यनियमः अहङ्काराख्यं च कारणं, सकलवि. षयप्रकाशनशक्तियुक्त तस्मिन् कथमिन्द्रियान्तराणि विषयान्तरमाहीणि ततो भवेयुः, भौतिकत्वे तु भूतानां भेदानियतगुणोत्कर्षयोगित्वानियतविषयग्राहीन्द्रियप्रकृतित्वं तथा च प्रदीपादितेजो रूपरसाद्यनेकविषयसन्निधानेऽपि रूपस्यैव प्रकाशीभवितुमर्हति एवमिन्द्रियान्तरेष्वपि वक्तव्यम् , तदेष विषयनियमः प्रकृतिनियमकारित इन्द्रियाणामिति भौतिकानीन्द्रियाणि । ____ यत्त्वेवं तैजसेन चक्षुषा कथं पार्थिवस्य रूपस्य ग्रहणं पृथिव्या एव वा, प्राप्येन च रसनेन पार्थिवस्य रसस्य, वायवीयेन स्पर्शनेन्द्रियेण च पृथिव्या. दिस्पर्शस्य तदिदं प्रकृतिनियमेऽपि कथं विषयसाकर्यमिति ? नैष दोषो रूपादि विषयविषयोऽपि ह्येषां नियमो न तदाश्रयविषयः, तैजसं हि प्रदीपादिद्रव्यं रूपमेव प्रकाशयदृश्यते न तेजोवृत्त्येव रूपम्, प्यमपि द्रव्यं रसमेव व्यनक्ति न तु सलिलस्थमेवेति, घ्राणे तु न कश्चिदोषः तग्राह्यस्य तस्य पृथिव्येकवृत्तित्वादिति, द्रव्यस्यापि दर्शनस्पर्शनग्राह्यत्वमविरुद्धमित्थं भौतिकत्वेऽपीति, यदुक्तं महदणुग्रहणाचाभौतिकानीन्द्रियारणीति, तन्न, दूरप्रसारित्वस्य दर्शितत्वात् ततश्च विततत्वाद्विततप्राहि भवत्येव, विततत्वेनापि नाहङ्कारिकत्वम्। ___ यत्पुनरभ्यधायि भौतिकवे परगुणवत्स्वगुणस्यापि प्रकाशकमिन्द्रियं स्या. दिति, तदयुक्तं सगुणस्येन्द्रियस्येन्द्रियभावात् , इन्द्रियेण हि सता तेन विषयः परिच्छिद्यते सगुणस्य चास्येन्द्रियत्वं स्वगुणरहितं तदिन्द्रियमेव न स्यादनि.
(१) मित्प्रेक्षिता-बौद्धकल्पितः । तेषामयमाशयः चक्षुर्हि विषयसनिकर्ष रहितमेव ग्राहकम् , यदि प्राप्यप्रकाशकारि स्यात् तदा रखनादिवदधिष्ठानसम्बद्धं गृह्णी. यात्म वैवं गोलकासम्बद्ध ग्रहणात्, किश्च यदि चक्षुः प्राप्य गृह्णीयात्तहि स्वतोऽधिकपरिमाणं न गृहीयात, एवञ्च प्राप्यकारित्वानुरोधेन गोलकातिरिक्तश्चक्षुः परमोक्रियते तदेव नास्तीति गोलकमेव चक्षुरिति । ________________

इन्द्रियपरीक्षाः ।
न्द्रियंःच कथं प्राहकमत इन्द्रियगुणानाम् अन्तःपतितत्वान्न प्रमेयत्वम्, त. स्माद्रौतिकानीन्द्रियाणि स्वं स्वं विषयमुपलभन्त इति सिद्धम् ।
प्रयोगस्तु- पार्थिवं घाणं द्रव्यत्वे सति रूपादिमध्ये गन्धस्यैव व्यजकत्वान द् गन्धयुक्तद्रव्यवत, तत्र व्यञ्जकत्वमात्रमनैकान्तिकमिति गन्धस्यैव विशे. ध्यते, सोऽयमसिद्धो हेतुर्भवेद् गन्धत्वस्यापि प्राणव्यङ्गयत्वादिति रूपादिमध्य इत्युक्तम् , तथाऽपि सन्निकर्षेण व्यभिचार इति तद्वयदासाय द्रव्यत्वे सतीति विशेषणम् , एवं रसनादिष्वपि प्रयोगा रचनीयाः, श्रोत्रं त्वाकाशैकदेश इति शब्दाधिकरणे निर्णीतम् , गन्धादिविषयोपलब्धिनिबन्धनसुखदुःखोपभोगहेतु. भूतधर्माधर्मोपनिबद्धानां चेन्द्रियाणामिन्द्रियत्वमिति तदशाद्यथा यथा नियत. विषयग्रहणकारणता घटते तथा कल्प्यते इति सर्वमनवद्यम् ।
एकेन्द्रियवादिमतम् । आह भवन्तु भौतिकानीन्द्रियाणि पञ्चेति तु न युक्तमुक्तं त्वमेव ह्येकमिन्द्रियं भवितुमर्हति सर्वत्रानपायात् , करतलकपोलकण्ठादिवर्तिनापि त्वगिन्द्रियेण रूपोपलम्भप्रसङ्ग इति चेद्, नाक्यवविशेषशक्तिविशेषनियमात् , न हि पाणिना पादेन वोपस्थकार्य कर्तुं शक्यते, अस्ति चावयवविशेषस्वभावविशेषवैचित्र्यम् ,
तुषारकपूरापूर्णवारिण्युत्तरमानसे ॥ यथा च वृषणौ स्नातुः स्फुटतो न तथा स्फिचौ ॥ क्लिन्नातणकाष्ठादिधूमेन कटुना यथा ।
मूर्धाऽतिवेदनोदेति न तथाऽवयवान्तरे ॥ तस्मादवयवविशेषव्यवस्थितनानाशक्तिखचितं त्वगेवैकमिन्द्रियमिति ।
एकेन्द्रियवादखण्डनम् । उच्यते, कुतोऽयमपूर्व एव महाप्राज्ञो वादी सरलमतीनस्मान्वञ्चयितुमागतः योऽवयव विशेष चाश्रयन्नप्येकमिन्द्रियं मन्यते शक्तिभेदादाश्रयभेदाच्च नानात्वमेवैतदिन्द्रियाणामित्यलं महात्मभिः सह कलहेन,
मनुष्यैः सह संवादो मादृशानां हि शोभते । देवास्तु नररूपेण त इमे भान्ति वादिनः ॥ ननु नानात्वपक्षेऽपि पञ्चत्वनियमः कथम् ।
द्वे श्रोत्रे चक्षुषी द्वे, च कथं ते एकमिन्द्रियम् ॥ श्राह च-सव्यदृष्टस्येतरेण(१) प्रत्यभिज्ञानाद् [गौ० ३।१।७] इति, चक्षु ।
(१) सव्येति । सव्येन चक्षुषा दृष्टस्य इतरण दक्षिणेन चक्षुषा प्रत्यभिज्ञाना. स्थिरात्मसिद्धिरित्यर्थः । एवम चक्षुषो द्वित्वमिति भावः । ________________

५४
न्यायमअर्याम
भावात् ,
ष्ट्रजातेरेकत्वादिति चेत्तीन्द्रियत्वजातरेकत्वादेकमिन्द्रियं स्यात् , उच्यते चक्षु. स्तावत्तेज इति निर्णीतम् , ततश्चैकमेव तदधिष्ठानमेकघाणवंशव्यवहितमनेकमिवोपलभ्यते, भिन्नं वा तद्भवतु तेजस्तत्कायॆक्यादाश्रयभेदेऽप्येकमेव, श्रोत्रमपि कर्णच्छिद्रद्वयानुस्यूतमेकमेव नभोदेशप्रायं वेदितव्यं कार्यकत्वस्यापि
’ तेनाधिष्ठानभेदेऽपि कार्यकत्वस्य दर्शनात् ।
तत्सामान्यस्य चैकत्वादेकत्वं श्रोत्रचक्षुषोः ॥ न चेन्द्रियजातेरैक्यादेकमिन्द्रियम् , कार्यस्योपलब्धिलक्षणस्य कारणस्य पृ. थिव्यादेविषयस्य गन्धादेरधिष्ठानस्य त्रिपुटकादेर्गतेश्च घाणत्वादेर्जातिशब्दवा. च्यस्य योनेर्वा पथिव्यादेः पञ्चविधत्वात्पञ्चैवेन्द्रियाणि कल्प्यन्ते, यथा परमाणुसामान्याविशेषेऽपि पृथिव्यादिचतुर्विधकार्यदर्शनाच्चतुर्विधाः परमाणवः कत्यन्त इति।
वागादीनामिन्द्रियत्वखण्डनम् । ननु तथाऽपि न पञ्चेन्द्रियाणि बुद्धीन्द्रियवत्कर्मेन्द्रियाणामपि पञ्चानामुप. संख्येयत्वात , तदुक्तं वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियाण्याहुः [ सां० का० २६] । तेषां च वचनादानविहरणोत्सर्गानन्दात्मकपञ्चविधकार्यसाधनादिन्द्रि. यत्वं तत्कार्यस्यानितरेतरसाध्यत्वादिति । ___ अत्राहुः अत्यल्पमिदमुच्यत पञ्च कर्मेन्द्रियाणीति, अन्यान्यपि खलु नसन्ति कौन्द्रियाणि ? तथा हि कण्ठोऽन्ननिगरेण स्तनकलशालिङ्गनादिना वक्षो भारव. हनेन चांसद्वयमिन्द्रियमुच्यते न कथम् ? तत्कायस्य शरीरावयवान्तरेऽपि दर्श. नादिति चेत्किं नु भवानन्नपानं पाणिपादेन निगिरति पायुना वा ? आदानमपि किमास्यादिना वा न कुर्वते तिर्यञ्चो मनुष्या अपि हि क चितू, असत्स्वपि भवत्कल्पितेषु कर्मेन्द्रियेषु तत्कार्य यावत्तावदन्यथाऽपि दृश्यते न त्वेवं बुद्धीन्द्रियेषु,
भवत्युत्पाटितातस्य न मनागपि रूपधीः ।
ईषद्विहारादानादि दृष्टं यन्त्राङ्क्रिपाणिषु ॥ अपि च विहरणमपि न केवलं चरणयुगलकार्यम् अपितु जानूरुजङ्घादिसहि. तपादसम्पाद्यमानमपि बाहुसहिताभ्यां पाणिभ्यामपि निर्वय॑ते न केवलाभ्याम . बागिन्द्रियं तु नाभेरूच सर्वमेष स्यादित्याहुः-‘वायुर्नाभेरुत्थित उरसि विस्तीर्णः कण्ठे विवतितो मूर्धानमाहत्य परावृत्तो वक्त्रे चरन्विविधान् शब्दानभिव्यनक्ति’ इति , अस्ति चेहगनुभवो जल्पतां विशेषतस्त्वखण्डगेयं गायतामिति, एवं च कर्मेन्द्रियमयमेव विश्वमिति न च शरीरमिन्द्रियव्यतिरिक्तं किं चिद्भवेत् । अथ शरीरावयवेष्वेव भिन्नकार्यकारिषु कर्मेन्द्रियव्यवहारस्तहिं कण्ठादिभिरतिप्रसङ्ग इत्युक्तम् , उपस्थेन्द्रियं च कथमेकं गण्यते तेनानन्दवन्मूत्रोत्सर्गस्यापि साथ ________________

.
..
इन्द्रियपरीक्षा। नात् , वागिन्द्रियं तु सुतरामहृदयङ्गमं संयोगविभागनिर्वयों हि बाह्यः शब्द उपलभ्यते तद्भदाश्च विद्यन्ते यादृशो भेरीदण्डसंयोगजः शब्दो न तादृशः कूर्मी. कोणसंयोगजः , एवं विचित्रस्थानकरणसंयोगाद्विचित्रो वर्णात्मकः शब्द उदे. तीति न वागिन्द्रियं नाम किं चित् , लोकश्च वाक्शब्देन वर्णात्मकंशब्दमेव व्यपदिशति शब्दश्वेन्द्रियविषयो नेन्द्रियम् , तस्मादनेकविधसुखदुःखोपभोगाक्षेपक्षमकर्मपरिणामनिर्मितमेतच्छरीरं तैस्तैरवयवैस्तं तं कर्मफलोपभोगमात्मनः स. म्पादयतीत्यलमेवंविधेन्द्रियजल्पनाऽऽजवेन ।
अन्तःकरणत्रैविध्यखण्डनम् । अन्तः करणस्यापि, (१)वैविध्यमनुपपन्नमेकेन मनसैव पर्याप्तेर्बुद्धिस्तु उपलब्धिस्वभावत्वात्करणकायो न तु करणम् , अहङ्कारोऽपि ज्ञानविषय एव न करणम् , एतच सविस्तरं बुद्धिलक्षणे वक्ष्यामः, तस्मान्न त्रयोदशविधं(२)। करणमिति सिद्धम् ।
न्यूनाधिकत्वशमनादत इन्द्रियाणि पश्चैव बाह्यविषयाधिगमक्षमाणि । अन्तःसुखादिविषयग्रहणोपयोगि
षष्ठं मनस्तु कथयिष्यति सूत्रकारः ॥ तानि
पुंसो भवाब्धिपतितस्य विवेकरत्नमानन्ददायि न हरन्ति तथा विधेयम् ।
अर्थस्वरूपनिरूपणम् । गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्थाः ।
[ गौ० १।१।१३ ] तदर्था इत्यत एवापकृष्य वा प्रक्रमाद्वा अर्था इति लक्ष्यपदं दर्शयितव्यम् , तदर्थ इति लक्षणम , तदिति प्रकृतेन्द्रियपरामर्शः, सामान्यलक्षणं तु पुनस्तदर्थाइत्येव योजनीयम् , तदिति प्राणादीनां विशेषसंख्यानिर्दिष्टानामवमर्शः, एवं च प्राणस्य विषयो गन्धः रसनस्य विषयो रसः इत्यादि विशेषलक्षणमुक्तं भवति,
(१) वैविध्यम्-सांख्या हि मनोऽहङ्कारचित्तमिति भेरेनान्तःकरण त्रिवि. धमित्याहुः।
(२) त्रयोदशविधमिति । पञ्चज्ञानेन्द्रियाणि पश्चकमेन्द्रियाणि त्रिविधमन्ताकर. णमिति सालनया त्रयोदश करणानि । ________________

न्यायमअर्याम्
गन्धवादीनां तु प्राणादिग्राह्यत्वादतिव्याप्तिरिति पृथिव्यादिगुणा इति विशेषणोपादानम् , ते चामी गन्धादय इन्द्रियार्था भोग्याः सन्तः सक्तिहेतवः संसारद्रा. घिमाणमावहन्तीति हेयतया भावयितव्याः ।
नन्येवं गन्धादिगुणाधिकरणस्यावयविनः प्रथमस्य रागहेतोरसंग्रहः स्यात, वक्ष्यति च ‘तन्निमित्तं त्ववयव्यभिमान’ [गो० अ० ४ आ०२ सू० ३] इति, संख्यापरिमारादिगुणान्तराणामपि रागहेतुत्वमस्त्येव, यथा बर्हिकलापानुकारि. परिमृदितकुसुमदलपटलशबलविलासिनीकेशपाशवृत्ति रूपं हरति हृदयं यूनाम् तथा तद्गता बहुत्वसंख्याऽपि, उत्तप्तकनकशिलानिभनितम्बबिम्बरूपवत्तत्परिमाणमपि हरति च सरभसम् , अवयवसंयोगविभागाद्यपि तथा कन्दुकादिकीडासु किसलयितविसरसविलासविसरमधरपरिभ्रमणादि कन्दुकान्तम् , तथान्त्यज. जात्यादिपरिहारेण स्वानुरूपजातियोगित्वमपीत्यादि सर्व द्रव्यगुणकर्मादि सक्तिकारणमनुक्तं स्यात् ।
तत्र के चित्पृथिव्यादिगुणा इति द्वन्द्वसमासं व्याचक्षते पृथिव्यादीनि च गुणाश्चति, पृथिव्यादिपदेन गुणाधिकरणमवयवि द्रव्यमुक्तमाश्रितत्वविशेषण. स्वाभ्यां सर्वे गुणा इति, गुणग्रहणेन च संख्यापरिमाणादिवत्कर्मसामान्याद्यपि सर्वमुक्तमतो नासंग्रह इति । __ तदिदमनुपपन्न गन्धादिग्रहणस्य हि तदानीमानर्थक्यं गुणाश्चेत्यनेनैव गता. थत्वात् , विशेषख्यापनार्थ तदुपादानमिति चेत्तर्हि किं द्वन्द्वसमासवर्णनेन अय. मेवास्तु समाधिः ।
यद्यपि द्रव्यकर्मसामान्यानाम् अन्येषां च संख्यापरिमाणादिगुणानामस्त्येव सक्तिहेतुता, तथापि प्राधान्येन गन्धादीनामेव सा, दृश्यते हि रूपादिनिरपेक्षस्य द्रव्यस्य संख्यादेः सामान्यस्य वा न सक्तिहेतुत्वं समस्तीति रूपादय एव मुख्यं रागकारणं तत्र झगिति बुद्धेः प्रसरकरणादुक्तं च
तथापि नितरां रागवृद्वय रूपादयो नृणाम् ।
त एव कविमिर्गीताः पञ्चेषोः पञ्च सायकाः ॥ तस्मात्पृथिव्यादीनां गुणा इति षष्ठीसमास एव श्रेयान् , गुणव्यतिरिक्तश्च गुणी पूर्वमेव समर्थितो यमहमद्राक्षं तं स्पृशामीति प्रत्ययप्रामाण्यात् ।
पृथिव्यादिगुणा इति यदुक्तं तदिदानी विभज्य वण्यते कस्य कति गुगा इति, तत्र
गन्धादयो नियोक्तव्याश्चत्वारः पृथिवीगुणाः ।
अप्लेजोमरुतामेकं पूर्वपूर्वमपोह्य तु ॥ गन्धवर्ज रसरूपस्पर्शा अपां, रसवर्ज रूपस्पशौं तेजसः, रूपवर्ज स्पर्शाख्यः वायोरिति आकाशस्य तु गुणः शब्दः । ________________

इन्द्रियपरीक्षा।
ननु नायं गुणविनियोगः साधीयान्पृथिव्याश्चतुर्गुणत्वे पार्थिवेन प्राणेन्द्रि. येण चतुर्णामपि तद्गुणानां ग्रहणं स्यात् , एवमुत्तरेष्वपि वक्तव्यं तस्मादेकैकगुणत्वमेव भूतानामुच्यताम् , नैतदेवं गुणाः स्वेच्छया विप्रलभ्यन्ते, यथोपलभ्यन्ते तथा व्यवस्थाप्यन्ते, प्रतीतिप्रमाणका वयम् , तत्र पार्थिवे द्रव्ये चतुर्णामपि गुणानामुपलम्भः कथमेकगुणां पृथिवीं ब्रूमः, रूपैकगुणे च तेजसि पृथिव्युदक योर्वायुवदरूपत्वादप्रत्यक्षत्वं स्यात् , तस्मात्त्रीणि रूपवन्ति द्रव्याणि। . ___ यद्येवं सर्वेषां सर्वत्रोपलम्भात्सर्वाणि सर्वगुणानि भवन्तु भूतानि, पटपटायते पृथिवी छलउलायन्ते आपः धकधकायते तेजः कथकथायते वायुरिति सर्वेषां गुणः शब्दः स्यात् , उच्यते-न सर्वे गुणाः सर्वत्रोपलभ्यन्ते निर्गन्धानामपां सवत्र दर्शनात् , क्लिन्नरूपादौ तु पार्थिवावयवनिष्क्रान्त्या गन्धः पयस्युपलभ्यते । ___ एवं सुवर्णादौ तैजसे द्रव्ये संयुक्तसमवायाद्रसाद्युपलब्धिः, शब्दस्तु स. वकालमाकाशवृत्तिरेव प्रतीयते, पृथिव्याद्यवयवसंयोगविभागप्रभवस्त्वसाविति तदाश्रितत्वभ्रममावहति न त्वाकाशाद्विना तस्य ग्रहणमिति आकाशं तत एव शब्द इत्येतच प्राङ् निर्णीतं गुणत्वम् ।
यच पृथिव्याश्चतुर्गुणत्वे तद्गुणानां चतुर्णामपि पार्थिवघ्राणेन्द्रियग्राह्यत्वं स्यादिति, तन्न गुणोत्कर्षस्य नियामकत्वात , सातिशयगन्धगुणाधिकरणे वि. जातीयद्रव्यावयवसंस्पर्शलेशरहितः केवलपृथिव्यवयवैरदृष्टसहकारिभिर्घटितं प्राणेन्द्रियमिति गन्धस्यैव ग्राहकम् , एतदेव च भूयस्त्वमाचक्षते यथाऽऽह कणव्रतः-[वै० ८।२५] ‘भूयस्त्वाद्गन्धवत्त्वाञ्च पृथिवी गन्धज्ञानप्रकृतिः’, इहा. प्यु(१)क्तम्-‘तयवस्थानं तु भूयस्त्वादिति [गो० ३।१।७१]’ दृश्यन्ते च केवल. पृथिव्यवयवोपादानेष्वपि पदार्थेषु व्यवस्थितकार्यनियमाः शक्तयो यथा
पार्थिवत्वाविशेषेऽपि विषं मरणकारणम् ।
अगदद्रव्यमन्यत्तु जीविताय प्रकल्पते ॥ तस्मादपर्यनुयोगोऽयं ‘पार्थिवेन घ्राणेन गन्धवत्तद्रसादयोऽपि कथं न गृह्यन्ते’ इति, सातिशयप्रकृतियोगेऽपि च न स्वगुणग्रहणनैपुणमिन्द्रियाणामितीन्द्रि. यचिन्तायां निर्णीतम् , श्रोत्रेणाकाशगुणस्य शब्दस्य ग्रहणमिति परिशेषानुमा. नप्रमाणकोऽयमर्थः शब्दपरीक्षायामेव परीक्षित इत्यलमतिप्रसङ्गेन ।
इति निपुणधियामसम्मता सकलगुणकगुणत्वकल्पना । तदयमकलुषोऽभ्युपेयतां गुणविनियोगविधिर्यथोदितः ॥

(१) हापि-न्यायदर्शनेऽपि । तद्वयवस्थानमिति । भूयस्त्वाजलापविशिष्टप. थिव्यारब्धत्वात् तयवस्थानं घ्राणादीन्द्रियत्वव्यवस्थितिः । ________________

न्यायमचर्याम्
तेऽमी हेयाः कृतकमधुरं रूपमादर्शयन्त. स्तिक्ताहाराः परिणतिविपत्कारिणो हीन्द्रियार्थाः । त्यक्तायेते व्यपगतमहामोहपङ्कन पुंसा तीर्णश्चायं भवजलनिधिः क्लेशकल्लोलरौद्रः ॥
बुद्धिलक्षणम् । बुद्धिरुपलब्धिनिमित्यनार्थान्तरम् ।१।१।१५॥ ननु पर्यायोचारणमेतन बुद्धेर्लक्षणमभिधीयते।न, पर्यावप्रयोगस्यैव लक्षणक्ष. मस्वात् ,लक्षणं हि तदुच्यते येन समानेतरजातीयेभ्यो लक्ष्यं व्यवच्छियते, व्यव. च्छिद्यते च बुद्धिर्बुद्ध्यादिपर्यायवाच्यतयैव तेभ्य इति नाभिधानमालामात्रमिदम् ।
ननु सामयिकत्वाच्छब्दार्थप्रत्ययस्य समयस्य च पुरुषेच्छानिवत्यत्वात्क. थमिदं व्यवस्थितं लक्षणं स्यात् । मैवम् सर्वजनीनस्य समयस्य विप्लावयितुम. शक्यत्वात्तद्वदिष्टस्य तद्वाच्यस्य लक्षणत्वात् ।
प्रकारान्तरेण लक्षणमस्याः किमिति नोक्तमिति चेत् । शिशिपाचोध(१)मिदं तस्मिन्नप्युक्तेऽनुयुजीत भवानित्थं किमिति नोक्तमिति, अस्ति च प्रयोजनं पर्यायद्वारकलक्षणोपवर्णनस्य यत्साङ्ख्यानां व्यामोहनिरसनम् ,एवं हि सांख्याः सङ्गिरन्ते-‘बुद्धिरन्या ज्ञानमन्यदुपलब्धिरन्येति तद्ममापनयनायैवमुच्यते– ‘बुद्धिरुपलब्धिनिमित्यनर्थान्तरम’ एक एवार्थ इत्यर्थः, इत्थं च स्वरूपतो निर्माता बुद्धिर्भोगस्वभावात्तत्साधनत्वाञ्च संसारहेतुरिति हेयत्वेन भाव्यते ।
सांख्यमतोपपादानम् । सुखादिबुद्धिर्भोगः तत्साधनबुद्धिस्तु भोगसाधनमिति कथं पारमर्षाः प्रवदन्ति ‘बुद्धिरन्योपलब्धिरन्येति, नित्यां हि बुद्धिं ते मन्वते, तत्किमात्मैवतः बु. द्धिरिति गृहीतः ? नाचेतनाया भोग्यायाः प्रकृतेः प्रथमा विकृतिर्महच्छब्दवाच्या बुद्धिः पुरुषस्तु चेतनो भोक्ताऽन्य एव, ताविमौ प्रकृतिपुरुषो विवेकेनापश्यतां संसारः प्रकृतिपुरुषविवेकज्ञानान्मोक्षः । का पुनः प्रकृति म ? सत्त्वरजस्तमसां त्रयाणां गुणानां साम्यावस्था प्रकृतिः, प्रधानमव्यक्तं च तदुच्यते यत्साम्याव. स्थागतं गुणत्रयमिति ।
ननु तत्सत्त्वे किं प्रमाणम् ? अनुमानमित्याह, तथा हि-चराचरमिदं विश्व सुखदुःखमोहाविनाभूतमुपलभ्यते न हि ब्रह्मादौ स्तम्बपर्यन्ते जगति तथाभूतं किमपि भूतमुपलभ्यते यत्सुखदुःखमोहैरविकृतम् , तत्र सुखस्वभावं सत्त्वं दुःखस्वभावं रजः मोहस्वभावं तमः, सर्वत्र प्रीत्यप्रीतिविषादादिदर्शनात्प्रका. शप्रवृत्तिनियमापगमाश्च सर्व त्रिगुणात्मकम् , जगत्कार्य च यत्परस्परान्वितरूपं
(१) कुत्सिताशङ्केत्यर्थः । ________________

बुदिपरीक्षायां सांख्यमतस्थापनम् । तदेकरूपात्कारणादुत्पद्यमानं दृश्यते, मृदन्वितानि हि घटशरावोदश्चनप्रभृतीनि कार्याण्येकस्मान्मृदात्मनः कारणादुद्भवन्ति, तदिदं विश्वं सुखदुःखमोहान्वितमिति तदात्मककारणकार्य भवितुमर्हति, यत्सुखदुःखमोहात्मकं कारणं सा सत्त्वरजस्तमोरूपा प्रकृतिः, एवमन्वयपुरःसराः परिमाणादिहेतवोऽपि वक्तव्याः, इयत्तया वा चतुरश्रतादिना वा परिमाणेन तद्वतां कार्याणामेकप्रकृतित्व. दर्शनात, विषयवृत्तयश्चैते गुणाः कार्येषु दृश्यन्ते च-कचित्सत्त्वमधिकमने रजस्तमसी कचिद्रजः प्रकृष्टमल्पे सवतमसी कचित्तमः प्रवृद्धं तुच्छे सत्त्व. रजसी इति, तदेषां वैषम्यभेदोपदर्शितविश्वरूपकार्याणां कचित्साम्यावस्थया भाव्यं सा प्रकृतिरुच्यते, सेयमचेतना भोग्या प्रकृतिः तस्यास्तु भोक्ता चेतनः पुरुषः । पुरुष इदानी किमनुमानकः? उक्तमेव-भोग्येन भोक्तरनुमानं, न ह्यचेत. नस्य भोग्यस्य भोक्तारमन्तरेण भोग्यतोपपद्यते दृष्टा च सेति भोक्ता कल्प्यते, स च चितिशक्तिस्वभावक एव सर्वप्रकारकर्तृत्वादिव्यवहारनिवहबहिष्कृतस्व. रूपः, द्रष्दृत्वमेव पुरुषस्य स्वरूपमाहुः, न यथा भवन्तः एकमात्मानमध्यवसा. यादिधर्मयागिनं मन्यन्ते तथाऽसौ भवितुमर्हत्यध्यवसायादेबुद्धिधर्मत्वात् ।
कत्त शक्नेति पुरुषस्तुणस्यापि न कुब्जताम् ।
अन्योपनीतमथ तु स पश्यत्येव केवलम् ॥ प्रकृतिरेवैनं भोगापवर्गाभ्यां संयुनक्ति, न च निर्विकारा सती भोगसम्पाद. नसमर्थाऽसौ भवतीति महदादिविकृतीः प्रतिपद्यते, पम्वन्धन्यायेन प्रकृतिपु. रुषो संयुज्येते-प्रकृतिरचेतना दृश्या भोग्या द्रष्टारं भाक्तारं पुरुषमपेक्षत, पुरुषो. ऽपि द्रष्टा भोक्ता दृश्यं भोग्यमपेक्षते इत्येवं तयोः पावन्धवत्संयोगो भवति दर्शनशक्त्या पङ्गार्गमनशच्या चान्धस्यैकत्र मेलनात्कार्यसिद्धिरेवं प्रकृतिपुरुषसंयोगात्सर्गः प्रवर्तते, तदुक्तम्
पुरुषस्य दर्शनार्थः कैवल्यार्थस्तथा प्रधानस्य ।
पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥ [ सां० का २१] यच्चेत्थं प्रधानान्महत्तत्वमुत्पद्यते सा बुद्धिरध्यवसायात्मिका धर्मज्ञानवैः राग्यश्वर्यतद्विपर्ययरूपवृत्तियोगिनी महतत्त्वमेवोच्यते, बुद्धरहङ्कार उदेति स चाभिमानस्वभावः, अहङ्कारात् प्राणादोनि पञ्च बुद्धीन्द्रियाणि वागादीनि पञ्च कर्मेन्द्रियाणि सङ्कल्पकमेकादशं मनः गन्धादितन्मात्राणि च पञ्चेति षोडशको गणः प्रभवति, ततो गन्धादितन्मात्रपञ्चकात्पञ्च पृथिव्यादीनि महाभूतानि जायन्त इति, प्राह च
प्रकृतेर्महांस्ततोपकारस्तस्माद्रणश्च षोडशकः ।
तस्मादपि षोडशकात्पञ्चम्यः पञ्च भूतानि ॥ [सा० का० २२] खानीमानि पञ्च पञ्चविंशतित्तत्वानि सश्चक्षते, प्रधान प्रकृतिरेव न विकृत ________________

न्यायमअाम् तिः, महदहङ्कारतन्मात्राणि सप्त पूर्वापेक्षया विकृतयः उत्तरोत्तरकार्यापेक्षया प्रकृतयः, एकादशेन्द्रियाणि पञ्च भूतानि विकृतय एव, अप्रकृतिविकृतिरूपस्तु शुद्धः पुरुष इति, तदाह
मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारो न प्रकृितिन विकृतिः पुरुषः ॥ [सा० का० ३] एवं महदादिविकारवती प्रकृतिरात्मनो भोगं साधयति, कश्चास्य भोगः ? बुद्धिवृत्त्यनुपातित्व-विषयाकारपरिणतेन्द्रियवृत्त्यनुरक्तां बद्धिवृत्तिं ज्ञानात्मिकां पुरुषः पश्यति, दर्शनेऽपि न तस्य किंचिच्चान्यत्वं किन्तु तदेव दर्शनं यत्तत्र प्रतिबिम्बनमिति, इत्थं तयोर्बुद्धिपुंसोः संयोग सति बुद्धिधर्मश्चेतयितृलक्षणों बुद्धावसन्नपि सन्निव लक्ष्यते, तदाह
तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम्। .
गुणकर्तृत्वेऽपि तथा कर्तेव भवत्युदासीनः ॥ [ सी० का०२०] अपवर्गाय कथमात्मनः प्रकृतिरवकल्पते ? स्वरूपं प्रकाशयतीत्याचक्षते, अनवधृतप्रकृतिस्वरूपः पुमान्प्रकृतिकृतमखिलमात्मकृतमिति मन्यमानस्तदुपाजितं भुङ्क्ते, यदा तु पृथग्भूतामेनां मन्यते तदा भवत्वियमायासहेतुरेव ममेति बुद्धयमानस्तत्कृतमनुपमुखानः स्वरूपनिष्ठ एवावतिष्ठते, प्रकृतिरपि भवतु दृष्टाऽहमनेन पृथङ् मामेष मन्यते इति न तदभिमुखीभवितुमुत्सहते,
प्रकृतेः सुकुमारतरं न किंचिदस्तीति मे मतिर्भवति ।
या दृष्टाऽस्मीति पुनर्न दर्शनमुपैति पुरुषस्य ॥ [ सां० का० ६१] परस्परं च भनरसयोः प्रकृतिपुरुषयोापकत्वात्सत्यपि संयोगे सगों न प्रवर्तत एवेत्याह
दृष्टा मयेत्युपेक्षक एको दृष्टाऽहमित्युपरमत्येका ।
सति संयोगे ऽपि तयोः प्रयोजनं नास्ति सर्गस्य ॥ [सा० का०६६] अपरिम्लानकुतूहलो हि पुमान्वञ्चयितुं शक्यते न दृष्टं तत्त्वमिति मत्वा, सत्यामपि योग्यतायां निवर्तते प्रकृतिर्नटीव रङ्गभूमौ प्रदर्शितनिखिलनिजनृत्त वृत्तान्तनैपुणा तत इत्याह-रङ्गस्य दर्शयित्वा निवर्तते प्रकृतिः’ तदेवं प्रकृतिरेवं संसारे प्रवर्तते प्रकृतिरेव मोक्षमनुभवतीत्याह
तस्मान्न बध्यतेऽद्धा नापि मुच्यते नापि संसरति कश्चित् ।
संसरति बध्यते मुच्यते च नानाऽऽश्रया प्रकृतिः । [सां० का० ६२१ किमर्थं पुनरसावेव विशेष्यते प्रकृतिरिति ? किं क्रियते स्वभाव एवैष देव हतिकायास्तस्याः
नानाविधरुपायैरुपकारिण्यनुपकारिणः पुंसः । गुणवत्यगुणस्य सतस्तस्यार्थमपार्थकं चरति ॥ [ सां० का०६०]
तदाह
m ________________

बुद्धिपरीक्षायां सांख्यंमतनिराकरणम् ।
अचेतनत्वादस्याः कथमेवंकारित्वमिति चेदुक्तमत्र
वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।
पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ [ सां.का. ५७] ननूत्पन्नतत्त्वज्ञाने भोगानुकूलमहदादिकायोरम्भपराङ्मुखत्वात्तस्याश्चैकस्वादेकस्मिंस्तत्त्वविदि मुक्ते सति सर्वे मुक्ताः स्युः । नैष दोषः, तत्त्वविदमेव पुमांसं प्रति तस्या औदासीन्यात् , अन्यसाधारणत्वेन तत्कार्यानपायात , तथा च पतञ्जलिः-[पा.२।२२] ‘कृतार्थ प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात्’(१) नन्वेवं यदेव तत्त्वज्ञानमुत्पन्नं तदैव प्रकृत्युपार्जितकर्मफलोपभोगपरिहानितः पुंसः शरीरपातः स्यान्नेत्याह-‘तिष्ठति संस्कारवशाच्चभ्रमिवद्धतशरीरः, ततः संसारविरतो सत्याम्–
प्राप्त शरीरभेदे चरितार्थत्वात्प्रधानविनिवृत्तौ ।
ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति ॥ [ सां. का. ] इति । अहो नु खलु कपिलकविकथारसाक्षिप्तह्रदयैरतिबहु प्रसक्तानुप्रसक्त्या लिखितमस्माभिस्तदियं प्रधानप्रकृतिः प्रथमा महच्छब्दवाच्या सा बुद्धिस्तत्त्व विदं प्रति नष्टाऽप्यन्यसाधारणत्वादनष्टवेति नित्या, नित्यत्वाञ्च प्रत्यभिज्ञान सन्धानादिव्यवहारप्रबन्धनिर्वाहणक्षमा बुद्धिः, ज्ञानं तु तस्य वृत्तिः, उपलब्धि. स्तु पुंसो वृत्तिमबुद्धिदर्शनमिति नेषां पयोयशब्दत्वमिति ।
सांख्यमतनिराकरणम् अत्र प्रतिविधीयते-आत्मन्येव नित्ये व्यापिनि बोद्धरि ज्ञातर्यवसातरि धर्माधर्मादियोगिनि प्रत्यभिज्ञानादिकार्याणां कर्तरि सेयं बुद्धिरज्ञा सांख्यैः कल्पिता, चेतनत्वं ज्ञानादियोगिन्या अपि यत्त्वस्या नाभ्युपगतं साऽयमतीव तपखिनां भ्रमः, य एव बुध्यते जानात्यध्यवस्यति स एव पश्यति चेतयते च, न खल्वत्र वस्तुरूपभेदं पश्यामः, तत्र बुद्धिबुध्यते जानात्यध्यवस्यति पुरुषस्तु पश्यति चेतयते चेति वश्चनायेवमुच्यते मुग्धतया वा।
यच्चेदमुच्यते-‘बुद्धयाध्यवसितमथ पुरुषः पश्यतीति, तद्याख्येयं किमिदं तस्य द्रष्टुत्वमिति ? प्रतिबिम्बनमिति चेकि स्वच्छे पुंसि वृत्तिमती बुद्धिः सं. क्रामत्युत वृत्तिमत्यां बुद्धौ प्रमातेति । तत्र चितिशक्तिरपरिणामिन्यपरप्रतिसं. क्रमेति न बुद्धौ पुरुषस्य संक्रमणं, बुद्धौ तु पुंसि संक्रान्तायामपि पुंसः कि वृत्तं
(१) अन भाष्यम् ‘कृतार्थमेक पुरुष प्रति हायं नष्टमपि नाशं प्राप्तमपि अनष्ट तत् मन्यपुरुषसाधारणस्वात्’ इति । ‘कृतार्थमिति’ बुद्धया कृतः समर्पितोऽर्थो यस्येति कृतार्थमेकं कचिन्मुफपुरुषं प्रति गुणादिकं नष्टं प्रपोजमकरणात राज्ञो राज्य. परमपि सामान्यतो न न तस्मिन्कृतार्थे भन्यपुरुषे च तस्य साधारणत्वादिस्यर्थ, इति पोगवार्तिकम् । ________________

न्यायमअर्याम् येन द्रष्टा, संबन्धः द्रष्टुत्वं स्वभाव एवास्येति चेत्किं बुद्धिप्रतिबिम्बनेन, विशि. ष्टविषयावच्छेद इति चेत्ततः पूर्वमनालम्बनं द्रष्टत्वमघटमानमिति न नैसर्गिक द्रष्टरूपं पुंसः स्यात्, दर्शनशक्तिः स्वाभाविकीति चेन्न, तस्य भेदाभेदाभ्यां निरूपयितुमशक्यत्वात्, पतिबिम्बपक्षे च परस्परानुरागस्य तुल्यत्वादवियोगाच कथमिदं निर्धार्यताममी पुंधर्मा इति, न हि तयोः पार्थगयेन कदाचित्स्वरूपावधारणं वृत्तम् , अनवधारितकार्यभेदत्वाच नानात्वमपि तयोदुवचम् , चे. तनाचेतनत्वाद्भोक्तभोग्यत्वाच विस्पष्टं तयोर्नानात्वमिति चेज , ज्ञानादियोगित्वं च बुद्धरचेतनत्वं चेति चित्रम् । ___ अपि च कल्पयित्वा भेदधर्म बुद्धिधर्माः पुंसि पुंधर्माश्च बुद्धावारोपणीया इति कि भेदेन, भेदे च बुद्धर्ज्ञानादियोगित्वे च चेतनत्वापत्तरेकत्र कार्यकार• णसंघाते चेतनद्वयमनिष्टं प्रसज्यते, नित्यमन्तःकरणमन्तरेण पुंस उपलब्धिर्न भवेदिति बुद्धः कल्पना चेत् , अस्त्येव नित्यमन्तःकरणं मनः, तेन करणेन कत. रात्मनो विषयोपलब्धिक्रिया निर्वय॑ते सैव च बुद्धिरित्याख्यायतेन त्वन्या निः त्या बुद्धिरस्तीति, किञ्च कस्य कृते परिदृश्यमानमात्मनो ज्ञानादिक्रियाकर्तृ. त्वमुत्सृज्य बुद्धेरदृश्यमानमुपेयते, को ऽत्राशयः ।
ननु पुरुषस्य स्वातन्त्र्यात्मककर्तृत्वे सति स्वकृतकर्मफलोपभोगानन्त्याद. निर्मोक्षः स्यात्, न हि कर्मणां परिक्षयो जन्मकोटिशतैरपि शक्यक्रियो, यदा तु कर्तारमुदासीनं प्रकृतिबध्नाति तदा सैव ज्ञाता सती मोक्ष्यतीति न दूरं मोक्ष. वम भविष्यति । अहो बत निखिलमेव मौख्य सांख्यहृदयेष्वेव प्रतिष्ठितमिति कथमन्यो जन इदानी मुखौं भविष्यति, अचेतने हि निरङ्कशे प्रधाने बन्धरि सुतरामनिर्मोक्षः स्यात् , तत्त्वविदमपि पुमांसं न बध्नाति प्रकृतिरिति कोऽस्या नियन्ता पविन्धन्यायेन संयोगस्य तदापि तुल्यत्वात, निवृत्तकुतूहलः पुमानि. ति चेत्, प्रकृतिरनिर्मुक्तकौतुकाऽभिनववधूरिव स्थितैव । ___ अपि च रे मूढ ! पूर्वमेव तपस्विना पुंसा किं कृतं यदसौ बद्धोऽभूत्, द्रष्ट. त्वं तु तस्य रूपं तदविनाभूतं कैवल्यदशायामपि तन्न नश्यत्येवेति तदाऽपि तद. न्धनाय कथं न प्रवर्तते निर्मर्यादा प्रकृतिः, दृष्टाऽस्मीति विरमतीति चेत्, मैवम् , न हसावेकपत्नीव्रतदुर्गहगृहीता, निःसंख्यपुरुषोपभोगसौभाग्या पण्यवनितेव नासौ नियमेन व्यवहर्तुमर्हतीत्यास्तामेतत् । ___यह ‘सत्त्वरजस्तमोभित्रिभिर्गुणैस्समावस्थतया प्रधानशब्दव्यपदेशभाम्भिः महन्नाम्ना बुद्धिरुत्पद्यते’ इत्यादि प्रक्रियाजालमालपितं तन्महान्धपरम्पराम्यायप्रवृत्तगुरुपाठक्रमोपनतमेव न प्रमाणमूलम् , कार्याद्धि कारणमल्पपरिमाणमुपल. भ्यते न तु विपर्ययः स्वावयवाश्रितस्य घटादेस्तथा दर्शनात्तदवयवानां तदपेक्षया ऽल्पत्वादन्यस्यास्यादो(?) महापरिमाणत्वमप्रयोजकम् । ________________

बुद्धिपरीक्षायां सत्कार्यवादनिरुपणम्। ६१ अपि च बुद्धिर्नाम विषयोपलम्भः अहंकारोऽप्यहंप्रत्ययरूपोऽभिमानो बुद्धिविशेष एव तेन बाह्यानीन्द्रियाणि जन्यन्ते गन्धादयश्च गुणाः गुणैश्च पृथि. व्यादीनि भूतानीति महाव्यामोहः, इदं च चित्रं-विषयजन्या हि सुखादयः प्रसिद्धास्ते च सुखादिजन्या विषयाः संवृत्ता इति, नवेयं विश्वामित्रस्येव सांख्यमुनेः सृष्टिः, न च प्रधानास्तित्वमपि प्रमाणवदन्वयादिहेतूनामसाधनत्वात्, चेतनानां हि संभवेदपि सुखदुःखमोहान्वितत्वमचेतनानि भूतानि सुखदुःखमो. हवन्तीति सुभाषितम् , घटे पटे शकटे च सुख दुःखमोहाः सन्तीति कः प्रतिपद्यते, प्रकाशप्रवृत्तिनियमा अपि चेतनेष्वेव दृश्यन्ते नाचेतनेष्वित्यसिद्धत्वाद्धेतोर्न प्रधानसिद्धिः। __ अपि च सत्कार्यवादमूल एष तपस्विनां विभ्रमः सर्व सर्वत्रास्तीति ततो. ऽन्वयसिद्धिं बुद्धयमानास्ते प्रधानसिद्धावध्यवसिताः, सत्कार्यवादश्च विचार्यमाणो न समस्त्येवेति कुतस्त्या हेतुसिद्धिः ।
सत्कार्यवादनिरूपणम् ननु सत्कार्यवादे कार्यकारणभावो भवति भावानां नान्यथा, तथा हि चतुष्टयी गतिरिह स्याद् घटादिकार्य मृत्पिण्डादिना कारणेन क्रियमाणमपि क्रियते सद्वाऽसद्वा सदसद्वाऽनुभयं वेति, तत्रासतः करणे खरविषाणादेः कर• णं स्यादसत्वे हि घटस्य खरविषाणस्य च को विशेषः, घटस्यापि च प्राक प्रध्वंसाभावदशयोरसत्त्वाविशेषात्प्रागभावदशायामिव प्रध्वंसावस्थायामपि क. रणं भवेत, असत्करणे नियतोपादानग्रहणं न प्राप्नोति, तैलार्थी हि तिलसर्प पानुपादत्ते न सिकताः असत्वे च तैलस्य को विशेषः सर्षपाणां सिकताभ्यः, असति कार्ये निरालम्बनः कारकव्यापारो भवेन्न ह्यसौ मृत्पिण्डादिविषयो भवि. तुमर्हति कार्य चासत् , अपि चाविद्यमाने कारणव्यतिरिक्त च कायें जन्ये कारणस्य मृत्पिण्डादेर्घटादिकायै जनितवतः किमिति न स्वरूपमुपलभ्यते ।
अथ स्वविनाशेन कारणं कार्यस्य जनकमिष्यते तदियमभावाद्भावोत्पत्तिभवेत्तस्यां च कुतोऽयं नियमो यदनन्तरवृत्त एव मृत्पिण्डाभावः कुम्भमभि. निवर्तयति न चिरातिक्रान्त इत्यतश्च परुन्मृत्पिण्डे नष्टे एव स कुम्भोत्पादः स्याद् ।
अथ स्वाव्यतिरिक्तमेव कारणेन कार्य जन्यते ? तर्हि कारणस्य सत्त्वात्तदव्यतिरिक्तं वक्तं युक्तं सदसतोविप्रतिषेधेनैकत्र समावेशायोगात्, रूपभेदादवि. रोध इति चेन्न, कार्यस्य विचार्यमाणस्यैकत्वात्, ततश्च तेनैव स्वेन कार्येण रु. पेणासन्नासद्भवेदसा न सदिति, पररूपेण त्वसत्त्वं समस्तभावानामस्त्येव, अनुभयात्मकं तु नाम वस्तु नास्त्येवेति, तत्पारिशेष्यात्सदेव कार्यम्, किमिति च ________________

६४ . न्यायमअर्याम् नोपलभ्यते इति ? अनुमानेनापि यदुपलब्धं तत्किमनुपलब्धं भवति, प्रत्यक्षण तु तदानीमनुपलम्भोऽनभिव्यक्तत्वादभिव्यक्तिसम्पादन एव च कारकप्रयत्नसा. फल्यं, कार्य तु सदेवेति ।
___ सत्कार्यवादखण्डनम् ___ अत्राभिधीयते, केन रूपेण तदानीं कार्य सदिति मन्यते?यदि कारकव्यापारराभिनिर्वत्येन सलिलाहरणाद्यर्थक्रियासमर्थेन पृथुबुध्नोदराकारतारूपेण चक्र. मूर्धनि घटोऽस्ति तदाऽभिव्यक्तेनापि रूपेण सरवादत्यन्ताय कारकव्यापारवैफल्यमित्थमपि च कारकप्रवृत्तौ तद्यापारानुपरमप्रसङ्गः, किं हि तदोपलभ्य कारकाणि निवर्तेरन्कार्यस्य प्रागप्युलब्धत्वात् ।
अथ मृत्पिण्डरूपेण तदानीं घटोऽस्तीति कथ्यते, तत्र न घसौ तदानीं घटोऽस्ति मृत्पिण्ड एवासावदो न स्वरूपमुत्तरकालमपि निवर्तते घटस्तु ततो निवर्तते, यद्येवं यदैवासौ निवर्तते तदैवास्ति न ततः पूर्वमिति ।
अथ पूर्व शक्त्यात्मना तस्यास्तित्वमिदानीमभिव्यक्त्यात्मना क्रियते इति, तदप्यनुपपत्रमभिव्यक्तिरपि तत्स्वरूपाद्भिन्ना भिन्ना वा सत्यसती वेति विकहप्यमाना न पूर्वोक्त दोषमतिवर्तते । ___ का चेयमभिव्यक्तिः ? किं कार्यात्मनाऽवस्थानमथ संस्थानविशेष उत प्रती. तिरिति, यदि कार्यात्मनाऽवस्थानं, तत्पूर्व नाभूत्तदधुना भूतमित्यसत्कार्यम, पूर्वमपि वा यदि तदासीत्तदा पुनः कारकवैफल्यम् , संस्थानमप्यवयवसन्निवे. शविशेषः सन्नेव, ते अवयवास्तु सन्तीति कस्यात्र विवादः, न खलु परमाणवोऽस्माभिर्नाङ्गीकृताः, प्रतीतिस्तु घटस्य चक्षुरादिकारकसामग्रयधीनत्व. मृत्पिण्डदण्डचक्रादिकारकचक्रसाध्येति सा चक्रमूर्धनि घटस्य नास्त्येवेत्य. सन् घटः।
दर्शनादर्शनाधीने सदसत्त्वे हि वस्तुनः ।
दृश्यस्यादर्शनात्तेन चक्रे कुम्भस्य नास्तिता॥ चक्रमर्धवत्प्रध्वंसदशायामनुपलम्भाद् घटनास्तित्वमेवेत्यतश्च ‘नासतो वि. घते भावो नाभावो विद्यते सत’ इत्यप्रमाणकं पूर्वापरान्तयोर्भावस्वरूपादर्शनात् , शक्त्यात्मना ऽपि यदस्तित्वमस्योच्यते, तत्रापि चिन्त्यम-केयं शक्तिर्नामेति ? यदि घटस्वरूपाद्भिन्नासौ, तर्हि पररूपेण घटोऽस्तीति स्वरूपेणैव घटास्तित्वमुक्तं भ. वेत्तच्च प्रत्यक्षविरोधानिरस्तम् , असत्करणपक्षे च यशोदितं ‘शशविषाणाद्यपि क्रियेते’ति, तन्न, वचनव्यक्स्यपरिज्ञानात्, यदसत्तक्रियते इति नेयं वचनव्यक्तिरपि तु यत्क्रियते तदसदिति ।
स्वरूपसहकार्यादिहेतवो यद्विधायिनः । दृश्यन्ते जन्यते वद्धि न व्योमकुसुमादिकम् ॥ ________________

सत्कार्यवादनिराकरणम् । प्रागभावदशायां च हेतुव्यापारदर्शनम् । न तु प्रध्वंसवेलायामतः कमनुयुज्महे ॥ उपादानं तु सर्वस्य यन्न सर्वत्र दृश्यते । तन्न कार्यस्य सद्भावादपि त्वेवं निरीक्षणात् ॥ अद्यत्वे व्यवहारो ऽपि नैवापूर्वः प्रवर्त्यते । यथोपलब्धं वृद्धेभ्यस्स तथैवानुगम्यते । तैलार्थी सिकताः कश्चिदाददानो न दृश्यते । अदृष्ट्वा चाद्य नान्यो ऽपि तदर्थी तासु धावति ॥ अन्वयव्यतिरेको च गृह्यते व्यवहारतः ।
अनादिश्वैष संसार इति कस्यानुयोज्यता॥ अथ वा शक्तिनियमादेवोपादाननियम उपपत्स्यते, शक्तिस्त्वनित्या सूक्ष्मा च नेह का चिदुपेयते ।
तदभ्युपगमे नित्यं कार्योत्पादप्रसक्तितः ॥ किन्तु योग्यतावच्छिन्नस्वरूपसहकारिसन्निधानमेव शक्तिः , सैवेयं द्विविधा शक्तिरुच्यते अवस्थिता ऽऽगन्तुका च , सत्त्वाद्यवस्छिन्नं स्वरूपम् अवस्थिता श. क्तिः , आगन्तुका तु दण्डचक्रादिसंयोगरूपा, शक्तिद्वयकृता च कार्यनिष्पत्तिरसकृद् दृष्टेति तदर्थिभिस्तु तदुपादानम् , योग्यता ऽपि नार्थान्तरं किञ्चित्किन्तु वस्तुविशेष एवेत्येवं सद्विनियमादुपादाननियमसिद्धेन सत्कार्यम् । न च शक्तिरेव कार्यमिति वक्तव्यम् , कार्यस्वरूपस्य ततः पृथगभूतस्य प्रतीत्या व्यवस्थापनात् , शक्तश्च कार्यत्वे कार्यादेव कार्योत्पादोऽङ्गीकृतः स्यात् , न च घटाद् घटउत्पत्तुमर्हति । शक्तेश्च कार्यमुत्पद्यते इत्यभ्युपगतमतो ऽन्यत्कार्यमन्या च शक्तिरनुवाद्यवाचकयोर्व्यङ्ग्यव्यञ्जकयोश्च दीपघटयोरुभयाश्रिता शक्तिईष्टेति कार्यकारणयोरपि सा कथमनुभयाधिष्ठाना भवितुमर्हति , सति च द्वितीये कार्या. ख्ये तदाश्रये कथमियमुभयाश्रिता स्यादिति, नैतदेवं यथादर्शनं शक्तरभ्युपगमात्तश्चैकत्र दृष्टरूपमन्यत्रापि मृग्यते, वाच्यवाचकयोव्यङ्गयव्यजकयोश्च द्वयोः पृथक्त्वेन दर्शनादुभयाश्रिता शक्तिरङ्गीकृतेति हेतुद्वयस्यानुपलम्भात्केवलकारण. वृत्तिरेव शक्तिस्तत्कृतश्चोपादाननियमविचारो युक्तः ।
उत्पत्तौ खलु सिद्धायामुपादानं विचार्यते ।
सतस्तु सैव नास्तीति किमुपादानचिन्तया । सत्कार्यवादे च सुतरामुपादाननियमो दुर्घटः, सर्वस्य सर्वत्र भावात्सिकतातिलसरस्तीरकेदारव्युप्तबीजजनिताकुरादिकार्यक्रमोत्पाथमानतिलस्वरूपपर्यालोचनया तिलेष्विव सिकतास्वपि तैलसम्भवात् , सर्वस्य सर्वत्र चास्तित्वे नियत. पदार्थप्रतिष्ठितहानोपादानादिव्यवहारः सकल एव विप्लवेत, अपि च प्रायश्चि ________________

४२
न्यायमचर्याम् त्तमेष तपस्वी तप्तकृच्छमतिकष्टं कथं चरिष्यतीति महन् ! गतोऽसि का. रुण्यम् , अन्नं च ताबदश्नात्यन्ते च वर्षोऽस्तीति विड्भक्षणात्प्रायश्चित्तीयत एवायमित्यलं सत्कार्यवादप्रमादेन ।
यत्पुनरत्रामाणि–कारणानुपमर्दैन कार्यानुत्पादादभावागावोत्पत्तिर्भवेत्तत्र चानन्तरवृत्त्युत्पत्तिनियमो न स्यात्-इति, तदप्ययुक्तम् , मूर्तानां समानदेशत्ववि. रोधात्कार्यकारणयोरेकदेशत्वं नेष्यते नैतावता भावोत्पत्तिरभावाद्भवितुमर्हति , कारणपदेन तदुपादानदर्शनादत एवानन्तर्यनियमो ऽप्युपपन्नः, न च कार्यकारणयोरभेदात्सत्कार्यमिति वक्तव्यम् , तयोः प्रत्यक्षसिद्धभिन्नस्वरूपत्वात् । ___ यत्तु निरालम्बना कारकप्रवृत्तिरिति चोदितं परिहतं तद्भाष्यकारेण(१) ‘बु. द्धिसिद्धं तु तदसत् ( गौ० ३।१।५०।११) इति’ वृद्धव्यवहारतः कार्यकारणभावमवगम्यामुष्मात्कारणादिदमीदृशं कार्यमुत्पद्यत इति बुद्धौ निर्धार्य कारका. णि कर्ता नियुक्त इति न निविषयः कारकव्यापारः, तदेवं सत्कार्यवादस्य नि. प्रमाणकत्वात्तन्मूलान्वयादिहेतुसिद्धयभावान प्रधानास्तित्वसिद्धिस्तदभावाच न तद्विकृतिनित्या बुद्धिरपि तु ज्ञानोपलब्धिरूपैवेति सम्यक्सूत्रितं ‘बुद्धिरुपलब्धि. निमित्यनान्तरमिति, इतश्चानित्या बुद्धिः जानामि ज्ञास्याम्यज्ञासिषमित्युः पजननापायधर्मतया पाकादिवत्कालत्रयेऽपि प्रकाशमानत्वाज ज्ञातृव्यतिरिक्तायाश्च बुद्धेरप्रतिभासनात् , अयं तु विशेषः-पाकादिक्रियाणामोदनादिफलावच्छेदद्वारकं कालवैतत्यमपि भवति, उपलब्धेस्तु वस्तुस्वरूपप्रकाशनमात्रपरिसमाप्त. प्रयोजनायाः कालवैतत्यं नास्त्येवात एवानित्यत्वेऽप्युत्पन्नापवर्गिणीमेव बुद्धिमाच क्षते शब्दवन्न घटादिवत्कालान्तरस्थायिनीमिति, सा चेयं बुद्धिरात्मान्तःकरणशब्ददीपेन्द्रियार्थाद्यनेककारककलापकायोपि सती न बाह्ये न बाह्यकर्मणि सम. वति, न बााकरणे चक्षुरादो नान्तःकरणे मनसि किन्तु कतयेव, कतोऽपि च नित्यो विभुरात्मा न भूतसङ्घातस्वभावः कार्यस्तस्या आश्रय इत्यात्मपरीक्षायां निर्णीतं गुणत्वमपि च तस्यास्तत्रैव दर्शितम् ।
नन्वेवं तहि न बुद्धरनित्यत्वं विनाशकारणाभावाद्, द्विविधो हि गुणानां विनाशहेतुराश्रयविनाशो विरोधिगुणप्रादुर्भावो वा, नेहाश्रयविनाशो नित्यत्वादा. त्मनो, न च विरोधिनमस्याः कं चिद् गुणमुपलभामहे। न, शब्दवदाशुविनाशित्वात् , नित्याकाशगुणो ऽपि शब्दः शब्दान्तरमारभ्य यथा विनश्यति तथा बुद्धिबुद्धयन्तरमारभ्य विनश्यतीति तथा दर्शनात्कल्प्यते, यावांश्च कश्चन विनाशद
(१) बुद्धिसिद्धमिति । तत्कार्यम् , असत्-प्रागभावप्रतियोगि, बुद्धिसिद्धम्बुद्धया विषयीकृतम् , तथाहि ह तन्तुषु पटो भविष्यतीति ज्ञात्वा कुविन्दः प्रवर्तते नतु पोऽस्तीति ज्ञात्वा तथासति सिद्धत्वेन ज्ञाते इच्छाभावात् प्रवृत्त्यनुपपत्ते. रित्यर्थः । ________________

मनसः परीक्षा। र्शनभेदोपलम्भादिः शब्दस्यानित्यतायां न्याय उक्तः स सर्वोपि बुद्धयां प्रयोज. नीयः, अत एव न बुद्धीनामेकप्रमातृवृत्तीनां योगपद्यं विद्यते शब्दानामिवैक. वक्तृप्रयुक्तानाम् , विनश्यदविनश्यद्दशयोस्तु बुढ्योराशुविनाशत्वेऽपि योगपद्य. मनुभवादुपेयत इत्यलमतिविस्तरेण, बुद्धरनित्यतायां च प्रायेण सर्ववादिनामविवादः, अन्यथा कथमाह जैमिनिः ‘सत्सम्प्रयोगे(१) पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमिति ।
अचिररुचिवत्तस्माद् बुद्धिनिसर्गविनश्वरी भवति जनकः स्वात्मा तस्याः स एव तदाश्रयः । भवमनुभवस्तापः पापा तमेव युनक्ति सा(२) व्यसनजननीमेतामस्माच्यजेत् परमार्थवित् ॥
मनसो लक्षणम् । युगपज् ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ॥ [गो० १।१।९६। ]
मनसो यदेव सत्त्वे प्रमाणं तद्गम्यत्वमेवास्य लक्षणं समानेतरजातीयव्य. वच्छेदकारित्वात् ।
ननु मनस इन्द्रियत्वात्तद्वर्ग एव पठनं युक्तं किमर्थोऽयं पृथङ निर्देशः, नः धर्मभेदात् , भौतिकानीन्द्रियाणि नियतविपयाणि, सगुणानां(३) चैषामिन्द्रिय. भावो,मनस्तु न भौतिकं न नियतविषयं न चास्य सगुणस्येन्द्रियभाव इति, तच्च न भौतिकमकार्यत्वादत एव न तद्गुणयोगि न च नियतविषयं सर्वविषयत्वं त्वस्य सकलबाह्येन्द्रियाणामधिष्ठानत्वात्तदधिगम्यसुखादिविषयग्राहित्वाच्च, बा. धेन्द्रियाणि हि मनोऽधिष्ठितानि स्वविषये प्रवर्तितुमुत्सहन्ते चक्षुरादीनि नान्य. था, कस्मादेवमिति चेयुगपज्ज्ञानानुपपत्तेः, उत्तरकालं च बाह्येन्द्रियव्यापार. विरहेऽपि तदर्थावमर्षात्(४)।
(१) सदिति । सता विद्यमानेन वस्तुना इन्द्रियाणां सम्प्रयोगे सम्बन्धे सति यदू बुद्धिजन्म सत्प्रत्यक्षमित्यर्थः ।
(२) सा बुद्धिरेव भवमनुभवैः भवतापैश्वात्मानं युनक्ति अतो ध्यसनजननी बुद्धि परमार्थविस्यजेदित्यर्थः ।
(३) सगुणानामिति । विशेषगुगवतामित्यर्थः । तेन सङ्ख्यादिगुगन्य मन. सि सत्त्वेऽपि न क्षतिः ।
( ४ ) तदर्थावमात्-तदर्थस्मरणात् । न च तदानी स्मरण बाहयेन्द्रियजन्य मवितुमर्हति बाहयेन्द्रियाणां विरमात् , नाप्यकरणकमतः स्मरणान्यथानुपपत्या मनः करप्यते इति भावः ।

  • ________________

ve, न्यायमञ्जर्याम्
अस्त्वेकेन्द्रियगम्येषु कचिजातिगुणादिषु ।
विज्ञानयोगाद्यं यन्मनसस्तन्न साधनम् ॥ तत्र विषयादिदोषेण दूरत्वादिना जात्यादेयुगपद् ग्रहीतुमशक्यत्वात् ,
यत्त नानेन्द्रियग्राह्येषु युगपत्सन्निहितेष्वपि गन्धरसरूपादिषु विषयेषु त. ग्रहणेषु च स्वकार्यानुमितसन्निधानेषु सत्स्वपि यदसंनिधानात् तेषु करणेषु युगपदुलब्धयो न भवन्ति ततो ऽवसीयते नूनं कारणान्तरधर्मेषु करणेषु युग. पदुपलब्धयो न भवन्ति (परीक्ष्यते ) तश्च मन इत्याख्यायते । ननु च
सुगन्धिं शीतला दीर्घामश्नन्तः पूपशष्कुलीम् ।
कपिलब्राह्मणास्सन्ति युगपत्पश्चबुद्धयः ॥ अपि च अयं खल्वध्यापको ऽधीते व्रजति कमण्डलुं धारयति पन्थानं प. श्यति शृणोत्यरण्यजाञ् शब्दान् बिभ्यद्वयाललिङ्गानि बुभुत्सत इति क्रमाग्रहणाधगपदेता बुद्धयोऽस्य भवन्तीति, नाशूत्पत्तेः सूच्यप्रभिद्यमानकोकनददलक. दम्बकवदतिसूक्ष्मत्वात्कालस्य क्रमस्तत्र न विभाव्यते भवितव्यं तु तेनेति, यदि कारणान्तरनिरपेक्षचक्षुरादिकरणसाध्या एव रूपादिविषयोपलब्धयस्तदुत्तरका. लमुपहतकरणानामपि कथं स्मरणादिरूपस्तदवमर्शः, अतो नूनं नयनादिवत्कर. णान्तरं तग्राहि विद्यते।
अब्यापकं च तत् , व्यापित्वे हि बुद्धीनां योगपद्यं न निवर्तेत, अपि चायं व्यवहार उक्तेऽपि कचिद्वचसि कश्चिदाह–नाहमेतदोवमन्यत्र मे मनोऽभूत्इति, तस्मान व्यापकं मनः।
प्रतिशरीरमेकं च तत् , अनेकत्वे पुनरपि ज्ञानयोगपद्यानपायात् । क्रियावच्च तन्निष्क्रियेणेन्द्रियाणामधिष्ठातुमशक्यत्वात् ॥ मत च तत् अमूर्तस्य क्रियानुपपत्तः, मूर्तत्वे सति नित्यं च निरवयवत्वादनाश्रितत्वाच, मूर्तत्वं त्वनित्यतायामप्रयोजकमिति वक्ष्यामः ।
निरवयवं च तत् अवयवकल्पनायां प्रमाणाभावात् । वेगवच्च तत् आशुसंञ्चारादाशुसञ्चारमन्तरेणोपलब्धिय॑स्य दृष्टस्यानुपपत्तेः ।
इन्द्रियसंयोगि च तद् द्रव्यत्वाद्, द्रव्यं च तद् वेगादिगुणयोगाक्रियाव. उचेतनाश्रितत्वाच ।
अचेतनं च तत् करणत्वादितरेषां छकत्र शरीरे चेतनद्वयसमावेशाव्यः बहारः स्यादिति, तस्मादेवंरूपं मनः ।
सांख्योक्तं तु तस्य रूपमयुक्तमिति तत्प्रक्रियानिषेधादेव व्याख्यातम् ।
अन्यान्यपि स्मृत्यनुमानागमसंशयप्रतिभास्वप्नोहज्ञानानि अनन्तरसुखदुः. खेच्छाद्वेषादिविषयमाहीणि च ज्ञानानि मनसो लिङ्गानि सन्त्येव, तेषां बाह्ये ________________

प्रवृत्तिपरीक्षा। न्द्रियव्यापारसाध्यत्वासम्भवात्करणरहितायाश्च क्रियाभिनिवृत्तेरदर्शनादिति, स्मृतिस्तावन्मनोजन्यैवानुमानागमज्ञानं तु परोक्षार्थविषयत्वान्मानसं, संशयो ऽपि मानसः कश्चिद्वक्ष्यते, प्रतिभा सा मानसी दर्शितैव-‘श्वो मे भ्राता ऽऽगन्ते’ ति, स्वप्नज्ञानमवरतेन्द्रियग्रामस्य भवत्कथं न मानसम् , तौ ऽपि संशयवस्क चिद्विषये मानसो भवत्येव, सुखादीनां तु ज्ञप्तिवदुत्पत्तिरपि मनोनिबन्धेनैव, कार्याणामात्मगुणानामुत्पत्तौ प्रत्यासन्न कारणान्तरसम्भवेऽप्यात्ममनःसंयोग स्यावधृतसामर्थ्यस्यासमवायिकारणत्वादतश्च विषयानुभवजन्ये ऽपि सुखादौ मनस्संयोगः कारणम् , सुखादीनां च बोधस्वरूपत्वं संवेद्यत्वं च निरस्तम् , अतस्तदुपलब्धौ मनस एव कारणता। __ तदिदं मनः पूर्वकृतशुभाशुभकर्मसंस्कारवताऽऽत्मना तदशादेव शरीरदेशे संयोग प्रतिपद्यते तत्रैव च जीवनव्यवहारः, विपच्यमानकर्माशयसहित आत्ममनःसंयोगो जीवनमिति हि वदन्ति, संयुक्तमात्मना मनस्तेषु तेषूपपत्तिस्थानेषु नानाविधभोगसाधनतया संसारकारणं भवति, नित्यत्वादात्ममनसोस्संयोग इति न हि प्रथमो नाम कश्चित्कालः समस्ति श्रादिसर्गस्यापि पूर्वसर्गसापेक्षत्वात् ईश्वरोपि कर्मापेक्ष एव विचित्रस्य जगतः स्रष्टेति निर्णतमेतदिति कृतं विस्तरेण
विधत्सुखादिभोगं वहच तरलेन्द्रियाश्वसारथिताम् । बन्धनिमित्तं मन इति मनस्विना यत्नता हेयम् ॥
प्रवृत्तिलक्षणम् । प्रवृत्तिर्वाग्बुद्धिशरीरारम्भः [गो० ९।११११] वागिति वर्णात्मकशब्दकारणसंयोगाद्युच्यते नेन्द्रियमिति व्याख्यातम् , बुद्धिरिति मन इहोच्यते नोपलब्धिः, शरीरं प्रसिद्धं तेषामारम्भो व्यापारस्सैवा. रम्भ इति सर्वथा तदीयक्रिया प्रवृत्तिरित्युच्यते ।
प्रवृत्तिभेदाः । साच द्विविधा पुण्यापापिका च, तत्र पापिका-वाचा चतुर्विधा, मनसा त्रिवि. धा. शरीरेण त्रिविधैवेति दशविधा, वाचा प्रवृत्तिः तत्रानृतपरुषसूचनासम्बद्धव चनरूपा चतुर्विधा, परद्रोहपरद्रव्याभिलाषानास्तिक्यानुध्यानरूपा त्रिविधा मन. सः प्रवृत्तिः, हिंसास्तेयप्रतिषिद्धाचरणरूपा त्रिविधा शरीरेणः प्रवृत्तिः, मैथुनकर. णमेवं प्रकारसुखाद्युपलक्षणं सेयं दशविधा प्रवृत्तिरनवरतमभिज्वलतो निरतिश. यदुःखवेदनादायिनो नरकानलस्येन्धनम् , पुण्या ऽपि सत्यप्रियहितवचनस्वाध्या. याभ्ययनरूपा चतुर्विधा वाचा प्रवृत्तिजपयज्ञे हि स्वाध्यायपाठ उपांशुना ऽन्तः। संकल्पेन वा, अस्पृहानुकम्पापरलोकश्रद्धात्मिका त्रिविधा मनसा प्रवृत्तिः, दान ________________

न्यायमअर्याम् परित्राणपरिचरणरूपा त्रिविधा शरीरेण प्रवृत्तिरितीयमपि दशविधैव, एषा चं स्वर्गसदनद्वारसोपानकल्पा, सेयमुभयतो विंशतिभेदाः प्रवृत्तिः संक्षेपतो द्विधैव विधिनिषेधात्मकतदवगमोपायभेदात् ।
विधिनिषेधकारण एव हि सदसत्कर्मावगमः, तत्र विहितानुष्ठानं स्वर्गाय निषिद्धाचरणं नरकायेत्येवं सुखदु.खोपभोगस्थानशरीरेन्द्रियाद्यनभिसम्बन्धनि. बन्धनमेषा प्रवृत्तिर्भवन्ती संसारस्य परमं कारणं भवति , यो ह्ययं देवमनुष्यतिर्यग्भूमिषु शरीरसो यश्च प्रतिविषयं बुद्धिसर्गो यश्चात्मना सह मनसः सं. सर्गः स सर्वः प्रवृत्तरेव परिणामविभवः , प्रवृत्तेश्च सर्वस्याः क्रियात्वात्क्षणिकत्वेऽपि तदुपहितो धर्माधर्मशब्दवाच्य श्रात्मसंस्कारः कर्मफलोपभोगपर्यन्तस्थि. तिरस्त्येव , न च फलमदत्त्वा धर्माधमौ क्षीयेते अन्त्यसुखदुःखसंविद्विरोधिनी हि धर्माधर्मावुदाहरन्ति , न च जगति तथाविधं किमपि कार्यमस्ति वस्तु यन्न धर्माधर्माभ्यामाक्षिप्तसम्भवमिति तदुच्छेदे मुमुक्षणा यत्न आस्थेयः ।
इति वितनुतः पुण्यापुण्यप्रवृत्तिसमुद्भवो निगमवदिमौ धर्माधौं रुचं भवबन्धने । यदि निरवधेर्दःखस्यान्तं चिकोषसि सर्वथा परिहर मनोवाक्कायानां प्रवृत्तिमनर्गलाम् ॥
दोषलक्षणम्। प्रवर्तनालक्षणा दोषाः ॥ (गो० १।१।१८) प्रवर्तना प्रवृत्तिः सा लक्षणमेषामिति प्रवर्तनालक्षणा दोषाः, दोषप्रयुक्तो हि पुरुषः पुण्ये कर्मणि पापे वा प्रवर्तते ।
ननु च प्रत्यात्मवेदनीयदोषाणां स्वरूपमपरोक्षमेतत्किमेतेषां लक्षणतो रूपं निरूप्यते, सत्यं, प्रत्यात्मवेदनीयत्वेऽपि यदेषां प्रवर्तनालक्षणत्वमुपदिश्यते तदनेन रूपेण संसारकारणत्वज्ञापनार्थ, धर्माधर्मविहितो हि शरीरादि दुःखाधिष्ठान. सम्बन्धः, तीजस्य च कर्मणः कारणं दोषाः कर्मणि पुमांसं प्रवर्तयन्तीति प्रवर्तनालक्षणा इत्युक्ताः , परसन्तानवतिनां दोषाणामप्रत्यक्षत्वात्तत्प्रतीतये प्रव. खनालक्षणत्वकथनमिति त्वपव्याख्यानमल्पप्रयोजनत्वादिति ।
दोषभेदाः। तेषां दोषाणां त्रयो राशयो भवन्ति रागो द्वेषो मोह इति, तत्रानुकूलेष्वर्थे। वभिलाषलक्षणो रागः प्रतिकूलेष्वसहलक्षणो द्वेषः वस्तुपरमार्थापरिच्छेद. लक्षणो मिथ्यावसायो मोहः ॥
ननु चेासूयालोभमानमदमत्सरादिदोषान्तरसम्भवात्कथं त्रय एव दोषाः, मईयादीनां यथानिर्दिष्टेष्वेवान्तर्भावात् , कामो मत्सरः स्पृहा तृष्णा लोभ इति ________________

४७
दोषपरीक्षा। पञ्चप्रकारो रागपक्षः , स्त्रीसंभोगेच्छा कामः , यदन्यस्मै निवेद्यमानमपि वस्तु धनवन्न क्षीयते तदपरित्यागेच्छा मत्सरः , अनात्मीयवस्वादित्सा स्पृहा, पुनर्भवप्रतिसन्धानहेतुभूतेच्छा तृष्णा , निषिद्धद्रव्यग्रहणेच्छा लोभ इत्यभिलाषप्र. कारभेदादागपक्ष एवायम् , द्वेषपक्षोऽपि पञ्चविधः, क्रोधेासूयाद्रोहोऽमर्ष इति, अतिभ्वादिविकारहेतुः प्रज्वलनात्मकः क्रोधः, साधारणेऽपि वस्तुनि प. रस्य दर्शनाचसहनमीा , परगुणेष्वक्षमाऽसूया, परापकारो द्रोहः, अदर्शितमु. खादिविकारः परं प्रति मन्युरमर्ष इत्यसहनप्रकारभेदादेव द्वेषपक्षः, मोहपक्षस्तु चतुर्विधो मिथ्याज्ञानं विचिकित्सा मानः प्रमाद इति, अतस्मिंस्तदिति ज्ञानं मिथ्याज्ञानम् , कि स्विदिति विमों विचिकित्सा, असद्गुणाभ्यारोपेण स्वो. स्कर्षबुद्धिर्मानः, कियदेतदित्यवज्ञया कर्तव्याकरणं प्रमादः, स एव मद इस्याख्यायते, सोऽयं तत्त्वापरिज्ञानप्रकारभेदान्मोहपक्षः, एवं त्रय एवैते दोषाः, शो. कहर्षों तु सुखदुःखे उच्यते न दोषान्तरम् , तेषां तु मोहः पापतमः इतरयोस्तु तदधीनात्मलाभत्वात् , मूढस्य हि रागद्वेषौ भवतो मिथ्यासङ्कल्पादुत्पद्यमानयो. रनुभवात्कुसङ्कल्पश्च मिथ्याज्ञानप्रवृत्तिरेव, मिथ्याज्ञानस्येव भगवतः सर्वमिदं विलसितं योऽयमनेकप्रकारः संसारदुःखभारः, यद्येवं न तहि मोहस्य दोषत्वं दोषकारणत्वादिति न लक्षणानपायात् ,सत्यपि दोषान्तरहेतुत्वे स्वयमपि पुरुष. प्रवृत्तिप्रयोजकत्वलक्षणयोगाद्रागवद् दोपत्वं न मोहो विजहाति ।
दोषशमनोपायः । ___ त इमे दोषाः संसारहेतव इति यत्नतः शमनीयाः, कथं पुनरमी शमयितुं शक्याः? उक्तमत्र नाकस्मिकाःन नित्याः नाज्ञातशमनोपायान चाशक्यप्रतिक्रिया इति, विस्तरतश्चैतदपवर्गाह्निके परीक्षिष्यते, मिथ्याज्ञाननिमित्ताः खल्वेते दोषा. स्तस्मिन्सम्यग्ज्ञानप्रभावनिहते हेतोरभावान भवन्त्येवेति ॥ __नन्वेवं प्रसवविनाशकारणयारेकत्वादेक एव दोषो भवेदिति त्रित्वं नोपपद्यते, न, अनुभवसिद्धभेदत्वात्,अनुभूयते हि रागद्वेषमोहानामितरेतरविभक्तं स्वरूपम् , कारणकत्वं तु न प्रयोजकमेकस्मादेव ज्वलनसंयोगादुत्पद्यमानानां विनश्यतां च पार्थिवपदार्थवृत्तीनां गन्धरसरूपस्पर्शानां नानात्वदर्शनात् , अतः सूक्तं दोषाणां त्रैराश्यमिति ।
संसारकाराभवनप्रवेशमार्गास्त एते त्रय एव दोषाः । एषां प्रहाणोद्यममादधानो न जन्ममृत्यू पुनरभ्युपैति ॥
प्रेत्य भावलक्षणम् । पुनरुत्पत्तिः प्रेत्यभावः (गो० १११११९) कस्येयं पुनरुत्पचिरुच्यते प्रात्मनः शरीरस्य वा, तत्रात्मनो नित्यत्वादुत्प. ________________

न्यायमअर्याम् त्तिरेव नास्ति का कथा पुनःशब्दार्थस्य, शरीस्य सूत्पत्तिरस्ति न तु पौनःपुन्येन, न हि मृतं शरीरं तदेव पुनरुत्पद्यते, तस्मात्पुनरुत्पत्तिः प्रेत्यभाव इत्यवाचकं सू. त्रम् , उच्यते, पुनःशब्दार्थस्य यत्नत उपदिष्टस्य परिहर्तुमशक्यत्वादात्मनश्च स्था. यित्वेन क्रियाभ्यावृत्तिसम्भवात्तस्यैव पुनः पुनरुत्पत्तिं ब्रमः, उत्पत्तिवन्मरणमपि, सोऽयमात्मन एव मृत्वा पुनर्जन्म प्रेत्यभाव इति ।
ननु जन्ममरणे उभे अपि नित्यत्वादात्मनो न संस्त इत्युक्तम, सत्यं शरीरादिसंयोगवियोगयोस्तु तथाऽभिधानान्न दोषः, मरणमात्मनो भोगायतनदेहेन्द्रि. यादिवियोग उच्यते जन्म तु तत्सम्बन्धः, ते च ते विपच्यमानकोशयानुसा. रेण देहेन्द्रियादित्यागोपादाने एव मरणजन्मनी क्रियाभ्यावृत्त्या भवन्तीप्रेत्यभाव इत्युच्यते, स एव च संसारः, तदित्थमनुध्यायतः कस्य सचेतसो निवेदो नोदी. यात् , तदुक्तम्–
जरावियोगमरणव्याधयस्तावदासताम् ।
जन्मैव कि न धीरस्य भूयो भूयस्त्रपाकरम् ॥ अथ यैरुत्पद्यमानैदेहेन्द्रियादिभिरात्मनः सम्बन्धस्तेषां कथमुत्पत्तिरित्युक्तं सूत्रकृता, व्यक्ताद्यक्तानामुत्पत्तिः प्रत्यक्षप्रामाण्यादिति, (गो० ५।१।११) व्यक्तादिति कपिलाभ्युपगतत्रिगुणात्मकाव्यक्तरूपकारणनिषेधेन परमाणूनां शरीरादौ कार्य कारणत्वमाह।
परमाणुसाधनम् । तथा हि पार्थिवमाप्यं तैससं वायवीयमिति चतुर्विधं कार्य स्वावयवाश्रित. मुपलभ्यते, तत्र यथा घटः सावयवः कपालेष्वाश्रित एवं कपालान्यपि सावय. वत्वात्तदवयवेषु तवयवा अपि तदवयवान्तरेष्वित्येवं तावद्यावत्परमाणवो नि. स्वयवा इति, यत्र यावतः कार्यजातस्य स्वावयवाश्रितस्य प्रत्यक्षेण ग्रहणं तत्र तदेव प्रमाणम् , तदपि हि कार्य स्वावयवत्वात्परिदृश्यमानकार्यवत् , निरवयवे तु तस्य परमाणुत्वमेव परमाणुषु च सावयवत्वस्य च हेतोरसिद्धत्वान्नावयवा. न्तरकल्पना, तेषां हि सावयवत्वे तद्वयवाः परमाणवोऽनुमीयन्ते लोष्टस्य प्रवि. भज्यमानस्य भागास्तद्भागानां च भागान्तराणीत्येवं तावद्यावदशक्यमगत्वमदर्श. नविषयत्वं च भवति, तद्यत्तयोः परमवयव विभागो न सम्भवति ते परमाणव उच्यन्ते तेष्वपि हि विभज्यमानेषु तदवयवाः परमाणवो भवेयुनं ते तदेवमुत्प. त्तिविनाशक्रमस्येदृशो दर्शनात्सन्ति परमाणवः।
अत्र हि त्रयी गतिरस्य घटादेः कार्यस्य निरवयवत्वमेव वा ऽवयवानन्त्यं वा परमाण्वन्तता वा, तत्र निरवयवत्वमनुपपन्नमवयवानां पटे तन्तूनां घटे च कपालानां प्रत्यक्षमुपलम्भात् , अनन्तावयवयोगित्वमपि न युक्तं मेरुसर्ष. ________________

परमाणुसाधनम् ।
पयोरनन्तावयवयोगित्वाविशेषेण तुल्यपरिमाणत्वप्रसङ्गात् , तस्मात्परमाण्व. न्ततैव युक्तिमती।
ईश्वरसाधनम् । त इमे परिमाणवश्चेतनेच्छाप्रेरणमन्तरेण विशिष्टक्रमकमितरेतरसंघटनम. लभमानाः कार्यसिद्धये न पर्याप्नुयुरचेतनत्वादिति चेतन एषामधिष्ठाता सक. लभुवननिर्माणमतिरीश्वरोऽभ्युपगतस्तत्सिद्धये च सकलकुतर्कतिमिरतिरस्कार• पूर्वकं पूर्वमेव निरवद्यमनुमानमुपपादितम् , ईश्वरोऽपि नानेकात्मवृत्तिविपाको. न्मुखधर्माधर्मसंस्कारवैचित्र्यमननुरुध्यमानो विचित्रस्य जगतो जन्म निर्मातुम. हतीत्येनदपि दर्शितम् ।
द्वयणुकादिक्रमेण कार्यारम्भनिरूपणम् । न च सकृदेव सतो निर्वय॑मानकार्यपरिमाणानुगुणसंख्याः परमाणव ए. कत्र संयोज्य कार्यमारभन्ते किन्तु द्यणुकादिक्रमेण, सकृदारम्भे हि कुम्भे भ. ज्यमाने कपालशर्कराकणचूर्णादिक्रममपहाय प्रथममेव परमाण्वन्तता भवेत्स. र्वसंयोगस्य सर्वविभागेन सहसैव विनाशादतश्च कर्परादिक्रमदर्शनं विरुध्येत अ. विनष्टेऽपि घटादौ तन्त्वाद्यवयवाश्रितत्वस्य ग्रहीतुमशक्यत्वात् , परमाणूनां घटस्य च मध्ये कार्यान्तरानारम्भादिति, तस्माद् द्वयणुकादिप्रक्रमेण परमाणवः कार्यमारभन्ते ।
ननु द्वावेव परमाणू प्रथमं संघटते इत्यत्र का युक्तिरुच्यते, बहुत्वसंख्याया महत्त्वपरिमाणकारणत्वदर्शनात्रियु परमाणुपु प्रथमं मिलत्सु तत्कायें बहुत्वसं. ख्यया महत्त्वारम्भात्तत्प्रत्यक्ष प्रसज्येत, न च तत्प्रत्यक्षमतिसूक्ष्मत्वादतो द्वा. भ्यां परमाणुभ्यां द्वयणुकमादावुत्पद्यते, तच्च परमाणुवदप्रत्यक्षमेव महत्त्वानुत्पादात् , द्वयणुकद्वयेन तु कार्यारम्भ इष्यमाणे तदविशेषप्रसङ्गाद् द्वयणुक इव तत्रापि महत्त्वोत्पत्तो कारणाभावात् , अतस्त्रिभिद्वयणुकैस्च्यणुकमारभ्यते, तत्र च बहुत्वसंख्यया महत्त्वमारप्स्यते प्रत्यक्षं च तद्भविष्यति, ततः परं तु क्रमसामान्ये प्रमाणमस्ति लोष्टादिभक्तः सावयवखण्डावयवनिदर्शनम् , क्रमविशेषे तुप्रमाणं नास्तीत्थमारम्भ इति, यत्र वा दर्शनमस्ति तत्र तदस्तु, क्रमविशेषप्रमाणमा. रभ्यारम्भकत्वं तु नेष्यते मूतानां समानदेशत्वविरोधात , न हि परमाणवः प्र. थम कार्यमारभ्य तदनु त एवोत्तरोत्तरकालं कार्याण्यारभन्ते किन्तु यत्परमाणु. निवृत्तं कार्य द्वयणुकं तत्कार्यान्तरस्यारम्भकं तदप्यन्यस्य कार्यस्येत्येवं तावद्यावत्परिपूर्णावयविनिष्पत्तिः, इत्थं च तन्तुभिः पटः क्रियते न तन्त्ववयवैरंशुभिरितरथा घुत्तरोत्तरकार्यारम्भेऽपि पूर्वपूर्वकारणानपायान्मूर्तानामेकदेशत्वं स्याद् न च तद् दृश्यते इति यथोक्त एव क्रमः श्रेयान् , तदेवमनेकात्मसमवेतधर्माधर्मसं. ________________

७४
न्यायमअर्याम् स्कारपरिपाकानुरूपप्रसरदीश्वरेच्छाप्रेर्यमाणपरमाणुक्रियानुपूर्वीनिवर्त्यमानद्वय. णुकादिकार्यक्रमेण शरीराद्यवयविनिर्वृत्तिरिति स्थितम् । ___ एतद्विपरीतानि तु मतान्तराणि प्रमाणविरुद्धानि, तथा हि नित्यमेव शरी. रादि अनुत्पत्तिधर्मकमिति प्रत्यक्षविरुद्धम् , पृथिव्यादेरप्यवयवसन्निवेशविशिष्ट. तया कार्यत्वादितीश्वरसिद्धौ निर्णीतम् , आकस्मिकत्वमपि शरीरादेः कार्यस्य न युक्तम् , कारणनियमोपलम्भोदनिमित्तायाश्च भावोत्पत्तेरनुत्पत्तः, अभावादपि भावोत्पत्तिस्ताहगेवेति, गुणात्मकप्रधानविकारमहदहंकारादिकारणकत्वमपि कार्यस्य पृथिव्यादेः प्रागेव प्रपञ्चतः प्रतिषिद्धम , अनारब्धावयविरूपकायोः परमाणव एवैते सञ्चयविशिष्टाः सन्तो लोकयात्रां वहन्तीत्येतदपि न समीचीनं सञ्चयस्य भेदाभेदविकल्पाभ्यामनुपपद्यमानत्वात्परमाणनां चातिसौम्यादप्रत्यक्ष त्वात् , पौद्गलिककार्यपक्षेऽपि पर्यायान्तरेण परमाणूनां कथनमप्रमाणकत्वं वा, (अप्रामाणिकम् (?)) शब्दविवर्तत्वं तदनुगमाग्रहणादनुपपन्नम , परमात्मोपा. दानत्वमपि न सम्भवति तस्यैव निष्प्रमाणकत्वात , न च न कदाचिदनीदृशं जगदिति पादप्रसारिकामात्रं कर्तुमुचितं सर्गप्रबन्धप्रलयप्रबन्धस्य समर्थितत्वादिति।
अतश्च पक्षान्तरदुबलत्वाद्यथोदितः सिध्यति भूतवर्गः। तं यस्तु पश्यन्नपि निह्नवीत तस्मै नमः पण्डितशेखराय ॥ अनादौ संसारे स्थितमिदमहो मूढमनसां जनित्वा जन्तूनां मरणमथ मृत्वाऽपि जननम । इयं सा दुःखानां सरणिरिति सञ्चिन्त्य कृतिना विधातव्यं चेतो जननमरणोच्छेदिनि पदे ॥
फललक्षणम् । प्रवृत्तिदोषजनितोऽर्थः फलम् ॥ (गो० १।१।२० )
प्रवृत्तिर्दोषाश्च व्याख्याताः, तजनितोऽर्थः फलमित्युच्यते, अर्थग्रहणं गौणमुख्यभेदप्रदर्शनार्थम् , सुखदुःखे मुख्यं फलं तत्साधनं तु शरीरेन्द्रियविषयादि गौणम् , सर्व हीदं प्रवृत्तिदोपाक्षिप्तं फलमित्युक्तम् , तदिदमनादिना प्रबन्धेन प्रवतमानं फलं पुनरुपयुज्यते पुनस्त्यज्यत इति महतः खेदस्य हेतुरिति भाव्यमानं निर्वेदवैराग्यादिमार्गणापवर्गोपयोगिता प्रतिपद्यते ।
आत्तमात्तं विजहतस्त्यक्तं त्यक्तं च गृद्धतः ।
पुंसः फलपटीयन्त्रमहो कष्टः परिश्रमः ॥ तत्पुनः फलं कर्मणा किं सद्य एव सम्पद्यते कालान्तरेण वा ? उच्यते-द्वि. विधं कर्म विहितं निषिद्धं च, तत्र विधिफलानां कालनियमो नास्ति, क्रियाफलं ________________

फललक्षणम् ।

.
दोन्धि पचतीति समनन्तरमुत्पद्यमानं दृश्यते, विधिफलानां तु नेष नियम इति शब्दपरीक्षायां चित्राक्षेपपरिहारावसरे निरूपितमेतत् , विधिफलमपि च किं चन चोदनावचनपर्यालोचनया मद्य इति निश्चीयते वृष्टिरिव कारीर्याः, किञ्चिदै. हिकफलमपि कर्म वस्तुबलात्कालान्तरापेक्षं भवति पुत्रष्ट्यादि, न हि सहसैव निधिलाभवत्पुत्रलाभः सम्भवति गर्भसम्भवहेतुभूतभार्यापरीरम्भादिक्रमापेक्षत्वात् , ज्योतिष्टोमादि तु स्वर्गफलं कर्मफलम्वरूपमहिम्नव पारलौकिकफलमवतिष्ठते स्वों हि निरतिशया प्रीतिस्तदन्यथानुपपनिपरिकल्पितः कनकगिरिशिखरादिर्वा देशः उभयथाऽपि नैतदेहोपभोग्यता प्रतिपद्यते, अनियतफलं तु चित्रादि कैश्चिदुक्तं तच युक्तमयुक्तं वेति तत्रैव परीक्षितम , निषिद्धस्य तु कर्मणः सर्व. स्यैव प्रायेण परलोक एव फलं, परदाराभिमषणादौ हि क्रियाफलं सुरतसुखादि सद्यः फलं, निषेधविधि फलं तु नरकपतनं पारलौकिकं स्वर्गवनरकस्यापि निरतिशयदुःखात्मनस्तदन्यथाऽनुपपत्तिकल्पितदेश(स्वभाव)स्य वा एतच्छरीरानुपभोग. योग्यत्वात् , तीव्रसंयोगनिवृत्तकर्म विहितमितरता प्रत्यासन्नविपाकमिहैव भवति नन्दीश्वरनहुषयोरिवेत्यागमविदः, चौरब्रह्मनादाश्च के चिलत्यासन्नात्यवायाः प्रायेण दृश्यन्ते एवेत्येवमप विचित्रः कर्मणां विपाकः ॥
यदपि चोच्यत-कर्मकाले फलं नास्ति फलकाले कर्म नास्ति कालान्तरे च फलस्यान्यत्प्रत्यक्ष कारणमुपलभ्यत सबादिकम्-इति, तदपि पूर्व परिहतम् , कर्मणां विनाशेऽपि तज्जनितस्यात्म कारस्य धर्माधर्मशब्दवाच्यस्य भावात् , हटस्य च सेवादेः कारणस्य व्यभिचाराददृश्कल्पनाया अवश्यंभावित्वात । ‘धमादेरात्मनि फलसमवायात्फलस्य व पुत्रपश्वादेरन्यसमवेतत्वाद्भित्राधिकरणत्वं कर्मफलयोरि’त्यपि न चोद्यम , मुग्न्यस्य नुखदुःखात्मनः फलस्य भिन्नाश्रयत्वानुपपत्ते’, सुखद् ख ह्यात्मनि वर्तेते धमोधमो च तत्स्थावेवेति ।
दुष्टेनैव सुखस्य कारगमतस्तदंतुरागेण किं दुःखस्यापि न तन्निबन्धनमिति द्वेपम्तदथेषु कः । तस्मात्कर्मनिमित्तकं फलमिति ध्यायन्न कुर्यात्कृती सझं कर्मणि येन दुस्तरमसौ संसारमापद्यते ॥
दुःखलक्षणम् । बाधनालक्षणं दुःश्वम् ॥ (गो० ११११२१ ) बाधना पीडनं सन्तापनं सा लक्षणमस्येति बाधनालत्तणं दुःखम , तत्र मुख्ये दुःखे लक्ष्ये लक्षणशब्दा यथाश्रुत एव बाधनयैव हि दुःखस्वरूपं लक्ष्यते बाधयति पीडयतीति, गौणे तु दुःखे शरीरादौ लक्ष्ये बाधनानुषक्तमिति व्या. ख्येयम्। ________________

न्यायमअयाम
__ननु च पूर्वसूत्राख्यातेन फलग्रहणेनैव दुःखस्योपदिष्त्वात्किमर्थ पुनरुपदेशः.? सुखप्रत्याख्यानार्थ इति चेन्न, पूर्वापरविरोधात्सकलप्राणभृदनुभवसाक्षिकत्वेन च सुखस्य प्रत्याख्यातुमशक्यत्वात्, तत्प्रत्याख्याने च विवक्षिते किमर्थं प्रमेयसूत्रे फलोपादानम् , फले खलु सुखदुःखे इति व्याख्यातं ततश्च सुखप्रत्याख्याने दुःखमेवावशिष्यते तश्चानेन दुःखशब्देनैव निर्दिष्टमिति किं फलग्रहणेन । उच्यते-न सुखलेशस्य संसारे जन्तुभिरन्तरान्तराऽनुभूयमानस्य प्रत्याख्यानाय दुःखग्रहणं सर्वत्र तथात्वभावनोपदेशार्थ सन्नपि सुखलवो दुःखमेवेति भावयितव्यः तत्सा. धनमपि सवै दुःखमेवेति मन्तव्यम् ।
न तयवसितं पुंसां तत्कर्म न तद्वचः ।
न तद्भोग्यं समस्तीह यन्न दुःखाय जायते ॥ तदित्थं दुःखमुत्कृष्टं तिरश्चां, मध्यमं मनुष्याणां, हीनं देवानां, हीनतरं वीत. रागाणामित्यागमविदः, वीतरागाणां दुःखतानवं युक्तितोऽप्यवगम्यते दुःखस्य रागनिबन्धनत्वात् ।
तत्त्वतश्चिन्त्यमानं हि सर्व दुःखं विवेकिनः । विषसम्पृक्तमधुवत्सर्वे दुःखीभवत्यदः ॥ सुखाधिगमलोभेन यतमानो हि पूरुषः । सहस्रशाखमाप्नोति दुःखमेव तदजेने॥ एवं सर्वमिदं दुःखमिति भावयतोऽनिशम् । सर्वोपपत्तिस्थानेषु निवेदोऽस्य प्रवर्तते ॥ निविण्णस्य च वैराग्यं विरक्तस्य च देहिनः ।
क्लेशकर्मप्रहाणादिद्वारो निःश्रेयसोदयः ॥ नन्वेवं तहि फलग्रहणं न कर्तव्यं दुःखपदेनेव गतार्थत्वादित्युक्तम्, मैवं त. स्यान्यप्रयोजनत्वात्., प्रवृत्तिदोषजनितत्वेन हि फलमनुचिन्तितवतस्तत्कारणयोरनुकूलप्रतिकूलयोरस्य रागद्वेषौ मा भूताम् , अभ्यावृत्त्या च ससाधनस्य फलस्य हानोपादानस्रोतसोह्यमानस्तत्रात्यन्ताय निविद्यतामिति फलग्रहणम् , त. देवमन्यथा,फलस्य निःश्रेयसोपयोगित्वमन्यथा तु फलत्वे सत्यपि दुःखस्येति ।
दीर्घस्य दुःखस्य निमित्तभूतं सुखं च दुःखात्मकमेव सर्वम् । मुमुक्षुणा हेयतया विचिन्त्यं देहादिदुःखान्तमिदं प्रमेयम् । इति निपुणमतियों दुःखमेवेति सर्व परिहरति शरीरे क्लेशकर्मादिजातम् । अजमजरमतत्त्वं चिन्तयन्नात्मतत्त्वं
गतभयमपवर्ग शाश्वतं सोऽभ्युपैति ॥ इति श्रीभट्टजयन्तस्य कृतौ श्रीन्यायमअर्यामष्टममाहिकम् ॥ ________________

-

अपवर्गनिरूपणम् । ताकिकाभिमतापवर्गनिरूपणम् । एवं शरीरादौ दुःखपर्यन्ते हेये प्रमेये निर्णीते यदर्थमेतदुपदेशो यत्परमुपादेयं प्रमेयं यदर्थः शास्त्रारम्भस्तमपवर्ग लक्षयितुमाह
तदत्यन्तविमोक्षोऽपवर्गः ॥ ( गो० १।१।२२ ) तदिति प्रक्रान्तस्य दुःखस्यावमशः, न च मुख्यमेव दुःखं बाधनास्वभाव. मवमृश्यते किन्तु तत्साधनं तदनुषक्तं च सर्वमेव, तेन दुःखेन वियोगोऽपवर्गः, अस्ति प्रलयवेलायामात्मनो दुःखवियोगः स त्वपवर्गो न भवति सर्गसमये पु. नरक्षीणकर्माशयानुरूपशरीरादिसम्बन्धे सति दुःखसम्भवादतस्तद्यावृत्त्यर्थमत्य. न्तग्रहणम् , श्रात्यन्तिकी दुःखव्यावृत्तिरपवर्गों न सावधिका, द्विविधदुःखा. वमशिना सर्वनाम्ना सर्वेषामात्मगुणानां दुःखवदवमर्शादत्यन्तग्रहणेन च सर्वारूपना तद्वियोगाभिधानान्नवानामात्मगुणानां बुद्धिसुखदुःखे च्छाद्वेषप्रयत्नधर्माधर्मसंस्काराणां निर्मूलोच्छेदोऽपवर्ग इत्युक्तं भवति ।
यावदात्मगुणाः सर्वे नोच्छिन्ना वासनादयः । तावदात्यन्तिकी दुःखव्यावृत्तिविकल्पते ॥ धर्माधर्मनिमित्तो हि सम्भवः सुखदुःखयोः । मूलभूतौ च तावेव स्तम्भौ संसारसद्मनः ॥ तदुच्छेदे तु तत्कार्यशरीराद्यनुपप्लवान् । नात्मनः सुखदुःखे स्त इत्यसो मुक्त उच्यत ॥ इच्छाद्वेषप्रयत्नादि भोगायतनबन्धनम् । उच्छिन्नभोगायतनो नात्मा तैरपि युज्यते ॥ प्राणस्य क्षुत्पिपासे द्वे लोभमोहौ च चेतसः ।
शीतातपो शरीरस्य पडूमिरहितः शिवः ॥ तदेवं नवानामात्मगुणानां निर्मूलोच्छेदोऽपवर्ग इति यदुच्यते तदेवेदमुक्त भवति तदत्यन्तवियोगोऽपवर्ग इति ।
ननु तस्यामवस्थायां कीगात्माऽवशिष्यते । स्वरूपैकप्रतिष्ठानः परित्यक्तोऽखिलैर्गुणैः ॥ ऊर्मिषट कातिगं रूपं तदम्याहुर्मनीषिणः । संसारबन्धनाधीनदुःखक्लेशाद्यदूषितम् ॥
वेदान्त्यभिमतापवर्गस्वरूपनिरूपणम् । तत्र वेदान्तवादिन आहुः-नायमीहशो मोक्षः प्रेक्षावतां प्रयत्नभूमिर्भवितुम

  • ________________

न्यायमअर्याम

.
.
.
हति, को हि नाम शिलाशकलकल्प(१)मपगतसकलसुखसंवेदनसम्पदमात्मानमुपपादयितुं यतेत, सोपाधिसावधिकपरिमितानन्दनिःष्पन्दात्स्वर्गादप्यधिकम. नवधिकनिरतिशयनैसर्गिकानन्दसुन्दरमपरिम्लानतत्सम्वेदनसामर्थ्य चतुर्थ पुरुषार्थमाचक्षते विचक्षणाः, यदि तु जडः पाषाणनिर्विशेष एव तस्यामवस्थायामात्मा भवेत्तत्कृतमपवर्गेण संसार एव वरमवस्था(नं ? ) यत्र तावदन्तरान्त. राऽपि दुःखकलुपितमपि स्वल्पमपिः सुखमुपभुज्यते, चिन्त्यतां तावदिदं किमल्पसुखानुभवो भद्रक उत सर्वसुखोच्छेद एव, तस्मानित्यसुखमात्मनो महत्त्ववद. स्तीत्यागमप्रामाण्यादुपगभ्यताम् , तच्च संसारदशायामविद्यावरणवशेन नानुभूयते तत्त्वज्ञानाभ्यालभावनाभिभूतनिरन्तराविद्यावरणस्त्वात्मा तस्यामवस्थायां तदनुभवतीति।
___ वेदान्त्यभिमतमोक्षस्वरूपखण्डनम् । तदिदमनुपपन्नम् , आत्मनो नित्यसुखसत्तायां प्रमाणाभावात् , प्रत्यक्ष तावदस्मदादीनामन्येषां वा केषां चिदस्मिन्नर्थे न प्रभवतीति केयं कथा, अनु. मानमपि न सम्भवति लिङ्गलेशानवलोकनादिति ।
ननूक्तमेवानुमानमपवर्गाय यः प्रेक्षावतां प्रयत्नः सुखसिद्धये हि बुद्धिमन्तो यतन्ते नाश्मकल्पमात्मानं कर्तुमिति तदयमिष्टाधिगमार्थो मुमुक्षोः प्रयत्नः प्रे. क्षापूर्वकारिप्रयत्नत्वात् कृष्यादिप्रयत्नवदिति ।
नानिष्टोपरमार्थत्वादनिष्ठस्यापि शान्तये ।
सन्तः प्रयतमाना हि दृश्यन्ते व्याधि वेदिताः । अतिदुर्वहश्चायं ससारदुःखभार इति तदुपशमाय व्यवस्यन्तः सन्तो न निष्प्रयोजनप्रयत्ना भवन्तीत्यनै कान्तिको हेतुः । ___ अथागमादवगम्यते विभुत्वेनेव नित्येन सुग्वेनाविनाकृत आत्मेति, तथा च पठ्यते विज्ञानमानन्दं ब्रह्मेति, स्यादेतदेवं यद्येतदेव केवलमागमवचनमश्रोष्यत वचनान्तरमपि तु श्रूयते ‘न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति अशरीरं वाव सन्तं प्रियाप्रिये न स्पृशत’ इति ।
ननु भवत्पठितमागमवचनमन्यथा ऽपि व्याख्यातुं शक्यते सशरीरस्येति प्रक्रमात्सांसारिके सुखदुःखे अनुकूलेतरविषयोपलम्भसम्भवे तदानीमशरीर. मात्मानं न स्पृशत इत्यर्थः, हन्त तहित् वदधीतमपि वेदवचनमानन्दं ब्रह्मेति संसारदुःखपरिहारक्रमे प्रकरणादेव तदुःखापायविषयं व्याख्यास्यते न
.
(१) शिलाकलकल्पम्-शिलाखण्डादीपन, शिलाखण्डसशं निःस्मुख निर्दःखं चेति यावत् । ________________

७९
अपवनिरूपणम् । खलु व्याख्यानस्य भगवतः काचिदभूमिरस्ति दृष्टाश्च दुःखोपशमे सुखशब्दप्रयोगाः ।
चिरज्वरशिरोगदिव्याधिदुःखेन खेदिताः ।
सुखिनो वयमद्येति तदपाये (१)प्रयुजते ॥ यदि चानन्दमिति वचनान्नित्यं सुखमात्मन इष्यते, तर्हि ब्रह्मेति वचना. द् व्यापकत्वमिव विज्ञानमिति वचनाज ज्ञानमपि नित्यमस्याभ्युपगन्तव्यमतश्व सुखवज् ज्ञानस्यापि नित्यत्वात्संसारेऽपि नित्यसुखोपलब्धिः स्यात्ततश्व धर्माधर्मफलाभ्यां सुखदुःखाभ्यामस्य नित्यस्य सुखस्य साहचर्यमनुभूयेत । अपि च
सुखवज ज्ञानवच्चास्य कामं देहेन्द्रियाद्यपि ।
नित्यं प्रकल्प्यतामित्थं मोक्षो रम्यतरो भवेत् ॥ __ अथ कार्य सुख ज्ञानं हेतुरम्य चिन्तनीयो यत उत्पद्यते इति वाच्यम् , यो. गसमाधिज इति चेत्तस्य कार्यत्वात्स्वकार्गसुखसंवेदनावसानन्वान्न शाश्वतिकत्वं स्यात् , अप्रक्षयश्च धर्मस्य निरनुमानको न हि योगसमाधिजो धर्मो न क्षीयते इत्यत्र किंचिदनुमानमस्ति, विपर्यये तु प्रसिद्धमेवानुमानं सर्वस्य कृतक. स्यानित्यत्वदर्शनादिति, क्षीणे त्वधर्म तत्कार्याज्ञानाभावात्सदपि सुखमनुपलभ्यमानमसतो न विशिष्यते, स्वप्रकाशं तत्सखमिति चेत्संसारे ऽपि तदपलब्धि. प्रसङ्गः, शरीरादिसम्बन्धः प्रतिबन्धहेतुरिति चेन्न, शरीरादीनामुपभोगाथत्वाद्भोगप्रतिबन्धं विदधतीति न साध्वी कल्पना, अविद्यावरणात्संसारे स्वप्रकाशसुखानुपलम्भ इति चेन्न, प्रकाशस्य तुच्छेनावरीतुमशक्यत्वात् , नहि प्रकाशरूपं पारमार्थिकमात्मनः सुखं तद्विपरीततुच्छ स्वभावेयमविरलगवलमली. मसं बलाहकव्यूहपिहितरविबिम्बं तदपि न रजनीसदृशं दिनमिति सहसा मोहमहिमा, .
मेघा अपि रवेरन्ये स्वरूपेण च वास्तवाः ।
तत्त्वान्यत्वाद्यचिन्त्या तु नाविद्यावरणक्षमा ॥ तस्मान्न नित्यानन्दत्वमात्मनः सुवचनम् ॥
अपि च मोक्षे नित्यसुखस्वभावे तद्रागेण प्रयतमानो मुमुक्षुन मोक्षमधिग. च्छेत् , न हि रागिणां मोक्षोऽस्तीति मोक्षविद’, दःखनिवृत्त्यात्मके ऽपि मोक्षे दुःखद्वेषात्प्रयतमानस्य समानो दोष इति चेन्न, मुमुक्षोद्वेषाभावात् । रागद्वेषौ हि संसारकारणमिति च जानाति मुमुक्षुः द्वेष्टि च दुःखमिति कथ. मिदं सङ्गच्छते । सुखेऽप्यस्य रागो नास्त्येवेति चेन्न, स्वर्गनिर्विशेषेऽपवगें स्वर्गवद्रागम्य सम्भाव्यमानत्वात् , दुःखेन तु निविण्णस्य मुमुक्षोवैराग्यं जा.
(१) तदपाये-दुःखोपाये।


—- ________________

न्यायमार्याम् यते न दुःखविषयो द्वेषः विरक्तस्य चास्य मोक्षं प्रति यस्नो भवति न दुःखं द्विषत इति समानो न्यायः। __ यत्तक्तं-निरानन्दो मोक्षः प्रेक्षावतां प्रयत्नविषयो न भवती ति, तदपि न साम्प्रतम् , प्रयोजनानुसारेण प्रमाणव्यवस्थाऽनुपपत्तेः, न हि प्रयोजनानुव. ति प्रमाणं भवितुमर्हति, यदि निरानन्दो मोक्षः प्रेक्षावतां न रुचितः कामं मा भून्न स्वप्रमाणकमानन्दं तत्र कल्पयितुं शक्नुमः, न च सर्वात्मना साधूनामन. भिमत एव तथाविधो मोक्षः, न च तवाप्तये न प्रयतन्ते, ते ह्येवं विवेचयन्ति दुःखसंस्पर्श शाश्वतिकसखसम्भोगासम्भवाद् दुःखस्य चावश्यहातव्यत्वाद्विवे. कहानस्य चाशक्यत्वाद्विषमधुनी इहैकत्र पात्रे पतिले उभे अपि सुखदुःखे त्यज्येतामिति, अतश्च संसारान्मोक्षः श्रेयान्यत्रायमियानतिदुःखप्रबन्धोऽवलुप्यत वरमियतः कादाचित्की सुखकणिका त्यक्ता न तस्याः कृते दुःखभार इया. नूढ इति, तस्मान सुखोपभोगात्मको मोक्ष इति ।
मुखसत्तासमथनम् । अन्यस्त्वाह-तिष्टतु तावन्मोक्षः संसारे ऽपि न सुखं नाम किं चिदस्तीति सर्व एवायं दुःखाभावमात्रे मुखव्यवहारः, तथा हि–
तृषा शुष्यत्यास्ये पिबति सलिलं स्वादु सरभि क्षुधातः सन्छालीकवलयति सम्पाकलितान् । प्रदीप्ते रागाग्नौ घननिबिडमाश्लिष्यति वधू
प्रतीकारे व्याधेः सुखमिति विपर्यस्यति जनः ॥ (-इति ?) उच्यते-तदिदमतीव कृतकवैराग्यप्रकटनकौरुकुचीकूर्चकौशलमानन्दात्मनः प्रतिप्राणिसंवेद्यस्य निहोतुमशक्यत्वादनिवृत्तेऽपि दुःखे कचित्सुखसम्वेदनान दु.खाभावः सुखं निरभिलाषस्याप्यर्कितोपनतसुखसाधनविषयसम्पर्क सति सुखसम्वेदनदर्शनादभिलाषात्मकदुःखाभावः सुखमित्यपि न मनोज्ञम् , यस्तु दुःखाभावे कचिस्सुखमित्यपि व्यपदेशः प्रशान्तरोगाणामिव पूर्वदर्शितः स भाक्त इति न तावता स्वसम्वेदनसाक्षिकसुखापह्नवः कर्तुमुचितः, मोक्षे तु नित्यसुखमसंभवत्प्रमाणं नाभ्युपगम्यते ॥
अपिच मोक्षे सुखमस्ति न वेति विचार एष न प्रामाणिकजनोचितः, स्वरूपेण व्यवस्थानमात्मनो मोक्ष इति मोक्षविदः, तत्रात्मम्वरूपमेव कीगिति चिन्त्यं न पृथङ् मोक्षस्वरूपम्, आत्मनश्च सुखदुःखबुद्ध्यादय आगन्तुका गुणा न महत्त्ववत्सांसिद्धिका इति निर्णीतमेतदात्मलक्षणे सुखादिकार्येण चा. त्मनो ऽनुमानादिति, अत एव कपिलकथितचितिशक्तिस्वभावत्वमपि न चुक्त. मात्मनः। ________________

MADRAS-4 THE KUPPUSWAMY SASTRI
RESEARCH INSTITUTE, UYLAPORE
अपवर्गनिरूपणम्। सचेतनश्चिता योगात्तदभावादचेतनः। चितिर्नामार्थविज्ञानं कादाचित्कं तु तस्य तत् ॥ नार्थसंवेदनादन्यच्चैतन्यं नाम विद्यते । तच्च सामग्रयधीनत्वात्कथं मोक्षे भविष्यति । जाग्रतः स्वप्नवृत्तेवों सुपुप्तस्यापि वा ऽऽत्मनः । ज्ञानमुत्पद्यते ऽन्या तु चतुर्थी नास्ति तहशा॥ जापरशायां स्वप्ने च बुद्धेः प्रत्यात्मवेद्यता। सुखं सुप्तो ऽहमद्येति पश्चात्प्रत्यवमर्शनात् ॥ तदा त्वचेत्यमाना ऽपि सुषुप्ते धीः प्रकल्प्यते । तुर्यावस्था तु संवित्तिशून्यस्य स्थितिरात्मनः ॥ तुर्यावस्थातिगं रूपं यदाहुः के चिदात्मनः । प्रमाणागोचरत्वेन कल्पनामात्रमेव तत् ॥ संवित्प्रसवसामर्थ्य सामग्रीसन्निधानतः ।
यदि नामात्मनो ऽस्त्यस्य तावता न चिदात्मता ॥ यदि तु दर्शनशक्तियोग्यतामात्रमेव पुंसश्चैतन्यमुच्यते तर्हि तथाविधस्य तस्य कैवल्यस्यास्माकीनमोक्षसहक्षत्वमेव योग्यतामात्रसंभवे ऽपि दृश्येन्द्रियसं. योगादेस्सामग्रया वैकल्यावस्थायामात्मनो द्रष्टुत्वासंभवाद् दर्शनशून्यस्य चान्यस्य चैतन्यस्य निरस्तत्वादिति ।
निर्वाणादिपदाख्येयमपवर्ग तु सौगताः ।
सन्तत्युच्छेदमिच्छन्ति(१)स्वच्छां वा ज्ञानसन्ततिम(२) ॥ एतद् द्वितयमप्युक्तं पूर्वमेव तद् ध्वस्तं च, ज्ञानसन्ततिनित्यश्चात्मा स. मर्थितः ।
सन्तत्युच्छेदपक्षस्तु नैयायिकमतादपि । शोच्यो यत्राश्मकल्पो ऽपि न कश्चिदवशिष्यते ॥ अहत्पक्षे ऽपि यद्रपमन्यसापेक्षमात्मनः । न केवलस्य तद्रूपमित्यस्मन्मततुल्यता ॥ विकारित्वं तु जीवानामत्यन्तमसमन्जसम् ।
शब्दपुद्गलवचैतत्प्रत्याख्येयमसम्भवात् ॥ तस्मान वेदान्तविदो विदन्ति मोक्षं न सांख्या न च सौगताद्याः । इत्यक्षपादाभिहितो ऽपवर्गः श्रेयांग्तदत्यन्तविमोक्ष एव ॥
(१) सन्तत्युच्छेद-ज्ञानसन्तत्युच्छेदं निर्वाणपदाख्येयमपवर्ग योगाचाराः । . (.) स्वच्छो ज्ञानसन्ततिं निर्वाणपाख्येयमपवर्ग माध्यमिकाः । दुई परनिसमये-मन्यन्ते वत मध्यमाः कृतधियः स्वच्छों पर संविमिति ।
– ________________

न्यायमअयाम्
मोक्षोपायनिरूपणम् । आह भवत्वयमीगपवर्गः स तु कथमधिगम्यते इत्युच्यताम् ? उक्तमेव भ. गवता सूत्रकारेण। दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावादिति(१) (गा० अ० ५ आ १ सू१)।
दुःखोच्छेदस्तावदपवर्ग इति कथितम् , कार्यत्वाच दुःखस्य कारणच्छेदात्तदुच्छेदः, कारणं चास्य जन्म जन्मनि हि सति दुःखं भवति, जायते इति ज. न्म देहेन्द्रियादिसंबन्ध आत्मनः, तदपि जन्मकारणोच्छेदादेवोच्छेद्यमतस्तत्का. रणं प्रवृत्तिरुच्छेद्या, तस्या अपि उच्छेदो हेतूच्छेदादिति तद्धतवो दोषा उच्छेद्याः, तेषां तु निमित्तं मिथ्याज्ञानं तस्मिन्नुच्छिन्ने दोषा उच्छिन्ना भवन्तीति मिथ्याज्ञा. नमुच्छेतव्यम् , तदुच्छित्तये च तत्त्वज्ञानमुपायः, प्रसिद्धो ह्ययमर्थः समर्थितश्च पूर्व विस्तरत’स्तत्त्वज्ञानं मिथ्याज्ञानस्य बाधकमि ति, तस्मान्मिथ्याज्ञानदोषप्रवृ. त्तिजन्मदुःखनिवृत्तिक्रमेणापवर्ग इति ।
यद्यपि च मिथ्याज्ञानमपि जन्मकार्यमशरीरस्यात्मनो मिथ्याज्ञानानुपत्तः, इतरेतरकार्यकारणभावेन बीजाकरवदनादिप्रबन्धप्रवृत्तेन प्रवर्तमाना मिथ्याज्ञा. नादयो भावाः संसार इत्युच्यते, तथा ऽपि तत्कारणोच्छेदचिन्तायां कुतः प्रभृति च्छेद उपक्रम्यतामिति विचार्यमाणे विशेषनियमाभावाद्यतः कुतश्चिदिति प्राप्त मिथ्याज्ञानस्य प्रतिकूलमुच्छेदकारणं तत्त्वज्ञानमुपलब्धमिति विशेषे प्रमाण. भावात्तदुच्छेद एवोपक्रम्यते, अत एव मिथ्याज्ञानमूलः संसार उच्यते तस्मिअच्छिन्ने तदुच्छेदसम्भवान्न ततःप्रभृति संसारः प्रवृत्त(रप्रवृत्तिः?)इति निपुणमये तिभिरपि निर्धारयितुं शक्यमनादित्वात्तस्येति, तदेवं तत्त्वज्ञानान्मिथ्याज्ञानापाये तत्कार्यदोषापायः दोषापाये प्रवृत्यपायः प्रवृत्त्यपाये जन्मापायः जन्मापाये दुःखारायः स एवापवर्ग इति, तदिदमुक्त मुत्तरोत्तरापाये तदनन्तराभावादिति’ ।
मोक्षासम्भवपूर्वपक्षः । आह विदितो ऽयं सूत्रार्थः किन्त्वघटमानमनोरथविडम्बनामात्रमिदमली. कश्रद्दधानताप्रकटनं वा, दुरधिगमस्तु सङ्कटो मोक्षमार्गः ।
साध्यस्त्रिवर्ग एवैष धर्मकामार्थलक्षणः । चतुर्थः पुरुषार्थस्तु कथास्वेव विराजते ॥ यदा प्रियवियोगादि भवत्युद्वेगकारणम् ।
तदा मोक्षकथाः कामं क्रियन्तां शोकशान्तये ॥ ग (१) तदन्तरामयादपवर्ष इतिःसूत्रपाठान्तरम् ।

  • ________________

.
T
अपवनिरूपणम् । न तूचमसमये तदधिगमसमर्थामुपलभामहे सरणिमृणक्लेशप्रवृत्त्यनुबन्ध. स्य दुस्तरत्वात् , ऋणानुबन्धस्ता वजायमानो ह वै ब्राह्मणस्त्रिभिऋणैऋणवान् जायते ब्रह्मचर्येण ऋषिभ्या यज्ञेन देवेभ्यः प्रजया पितृभ्य इति’ इदं हि वेदे पठ्यते, तत्र प्रथममृषीणामनृणः स्यामिति ब्रह्मचर्यमाचरति ततः पितृणामनृणः स्यामिति कृतदारसङ्ग्रहः प्रजोत्पादनाय व्यवहरति तदनु गृहस्व एवं दर्शपूर्णमासादिषु सहस्रसंवत्सरपर्यन्तेषु (१)कर्मस्वधिकृतः क्रतूननुतिष्ठतीति देवानामः नृणः स्यामिति को ऽस्य मोक्षव्यवसायावसरः ।
ननु च ‘ऋणानि त्रीण्यपाकृत्य मना मोक्षे निवेशयेत्’ इति मन्वादिस्मर. णादस्त्येव तदवसरः । न श्रतिवाक्यविरोधात् , एवं हि श्रूयते ‘जरामये वा एत. सत्रं यदमिहोत्रं दर्शपौर्णमासौ च जरया ह वा एष एतस्मान्मुच्यते मृत्युना वेति’ न च कर्मप्रयोगाशक्त्या कर्मभ्यो विरन्तुं लभ्यते, स्वयमशक्तस्य बाह्यशक्त्युपदे. शात्-‘अन्तेवासी जुहुयाद् ब्रह्मणा हि स परिक्रीतः क्षीरहोता जुहुयाद् घृतेन हिस परिक्रीतः’ अशक्तस्य च मोक्षोपायानुष्ठाने ऽप्यस्य कथं शक्तिः । क्लेशा. नुबन्धादपि अपवर्गाभावः
ये हि रागादयो दोषा आत्मनश्चिरसंभृताः । कस्तान्वश्चयितुं शक्तः पुनरावृत्तिधर्मकान् ॥ कामं चिरं विजित्यापि क्रोधं वा लोभमंव वा।
पुनर्गच्छन्वशं तेषां लोकः प्रायेण दृश्यते ॥ तथा हि-चिरमपि तपसि नियमितमतिरवजितविपमशरविकृतिरपि तनु(२)पवनापनीतवसनकामिनीस्तनजघनदर्शनादेव वशं विश्वामित्रः कुसुमधन्यनो गत इति श्रूयते किल याख्यायिकया, अद्यत्वे ऽप्येवं शतशो दृश्यन्ते इति दुरुच्छेद्या दोषाः, ‘वीतरागजन्मादर्शनादिति च विचारितमात्मपरीक्षायामवियुक्त एव दोषैर्जन्तुर्जायते इति, दोषविवृद्धिहेतवश्च रूपादयो विषयास्ते कथमिव स्वकर्मण्युदासते।
ताम्बूलं कुसुमसुगन्धयस्समीरास्सौधेषु प्रतिफलिताः शशाङ्कभासः । वाचश्च प्रणयनवामृतद्रवाी दूतीनां दधति न कस्य रागवृद्धिम् ॥ श्रपि च
मुग्धस्मितसुधाधीतमधुरालापशालिना। मुखेन पचमलाक्षीणां कस्य नाक्षिप्यते मनः ॥ इत्येवं निदानानुपशमादपि स्थित एव क्लेशानुबन्धः । प्रवृत्त्यनुबन्धः खल्वपि
(१) संवत्सरशब्दोऽत्र दिनवाची ‘नाहः संघस्ततोऽहः सु गौणी संवत्सराभिधा। , तस्मादिशमां सत्र सहनदिनमिष्यते इति न्यायमालादर्शनात् । (२) तनुः- मन्दः । ________________

न्यायमअयाम् रागादिप्रेर्यमाणो हि कर्माण्यारमते नरः। दीर्घदीर्घाः प्रतायन्ते यैर्धर्माधर्मवासनाः ॥ स प्रवृत्त्यनुबन्धश्च हेतुरन्यस्य जन्मनः । एकमेवेदृशं कम कतुमापतति कचित् ॥ जन्मायुतशतेनापि यत्फलं भुज्यते न वा ॥ ल्केशकर्मानुबन्धोत्थजन्मदुःखादिशृङ्खला । पुनरावर्तमानैषा केनोपायेन भज्यताम् ॥ विना फलोपभोगेन न हि नाशोऽस्ति कर्मणाम्। सेषां ज्ञानाग्निना दाह इति श्रद्धाविज़म्भितम् ॥ कार्यकारणभावो हि शास्त्रादेवावधारितः । कर्मणां च फलानां च स कथं वा निवर्तताम् ॥ न चास्य ज्ञानसापेक्षं कर्मेष्टं बन्धकारणम् ।
येनात्मज्ञानयुक्तानां तदुदासीत तं (१)प्रति ॥ अज्ञाननरपेक्ष्येण कर्मणां स्वभाव एवैष यत्फलाविनामावित्वमिति ।
तस्मादित्थमृणक्लेशप्रवृत्यभ्यनुबन्धतः । न मोक्षसिद्धिरस्तीति तदर्थो विफलः श्रमः ॥ अशक्ये ऽर्थे वृथा ऽऽयासं परित्यज्य मनस्विभिः । मोक्षचर्चाः परित्यज्य स्त्रे गृहे सुखमास्यताम् ।
__ मोक्षोपायानुष्ठानसम्भवः । अत्राभिधीयते-यत्तावदुक्तमृणानुबन्धादिति, तदयुक्तम् , विधिपक्षः श्रवणादौपचारिकमृणशब्दं जायमानशब्दं च प्रयुज्य कर्मस्तुतिरियं क्रियते. ‘जायमानो ह वै ब्राह्मण इति’ न तद्यतिरिक्तपुरुषार्थविषयप्रयत्नप्रतिषेधो विधीयते, तथा हि ऋणशब्दो ऽयं विषयान्तरे मुख्यार्थः प्रसिद्धो यत्रोत्तमर्णः सलामममुतः प्रतिग्रहीष्यामीति धनमधमर्णाय प्रयच्छत्यधमणोऽपि सलाममस्मै प्रदास्यामीति मत्वा गृहाति, सोऽयमृणशब्दस्य मुख्यो विषय इह नास्त्येव, जायमानो ऽपि मुख्य उत्पद्यमानो ऽपि मातुः कुक्षिकुहरान्निस्सरन्न भिधीयते,न चासौ बालकः कर्मभिरभिसम्बध्यते, तस्माद् ब्रह्मचर्यमपत्योत्पादनमध्वरप्रयोग इति त्रयमिदमवश्यकर्तव्यमिति कर्मस्तुतिरियमौपचारिकपदप्रयोगागम्यते, न पैतावता मोक्षव्यवसायावसरविरह इति परिशङ्कनीयमाश्रमान्तरस्य तदोप. यिकस्य दर्शनात् । ननु मरणावधिदर्शपूर्णमासकर्मोपदेशात्कथमाश्रमान्तरग्रहणम्?,नजरामर्यः (१) संपन्धम् । ________________

अपवर्गनिरूपणम् ।
८५ वादस्याप्यपरित्यागप्रतिपादनाय कर्मप्रसंशार्थत्वात् , ‘ये चत्वारः पथयो देवयाना’ इत्यादयो हि चतुर्थाश्रमशंसिनो भूयांसः सन्ति मन्नार्थवादाः, मन्त्रादिस्मृति. वचनानि चतुर्थाश्रमोपदेशीनि चतुर्थाश्रमोचितश्रोताचारादीतिकर्तव्यतावितानविधानपराणि च प्रबन्धेनैव दृश्यन्ते ।
एवं गृहाश्रमे स्थित्वा विधिवत्स्नातको द्विजः।
वने वसेत्तु नियतो भैक्षभुग्विजितेन्द्रियः ॥ (मनु अ० ६श्लो०१) । इत्युपक्रम्य चतुर्थाश्रमोचितमोक्षोपायानुष्ठानोपदेशाय षष्ठोऽध्यायः समस्त एव मनुना ऽनुक्रान्तः, जाबालश्रुतौ च विधायकेनैव ब्राह्मणवाक्येन प्रतिपद. माश्रमचतुष्टयमुपदिष्टम् -‘ब्रह्मचारी भूत्वा गृही भवेद् गृही भूत्वा वनी भवेद्वनी भूत्वा प्रव्रजेदिति, अमिसमारोपणविधानोपदेशश्च प्रत्यक्षश्रुतः कथमपन्हूयेत’प्रात्मन्यग्नीन्समारोप्य ब्राह्मणः प्रव्रजेद् गृहादिति, अपि च उपनिषदामध्यय. नमसति मोक्षोपयोगसमर्थे चतुर्थाश्रमे निरर्थकमेव प्राप्नोति , क्रियाकाण्डानुष्ठाननिष्ठत्वे हि वेदस्य ज्ञानकाण्डोपदेशः किम्प्रयोजनः स्यात् , तदेवं वर्णवदा. श्रमाणामपि चतुणो प्रत्यक्षोपदेशसिद्धत्वाश्चतुर्थाश्रमिणांच मोक्षाधिगमोपायत. वज्ञानभावनाभ्यासावसरसम्भवात्सो ऽयं जरामयवादः प्रशंसामात्रपर एवा वतिष्ठते, ‘जरया ह वा एष एतस्मान्मुच्यते मृत्युना वेति च वचनाज्जरसा कर्मः त्यागानुज्ञानात्स एव चतुर्थाश्रमावसर इति गम्यते, तदुक्तम्
गृहस्थस्तु यदा पश्येद्वली पलितमात्मनः ।
अपत्यस्यैव चापत्यं तदा ऽरण्यं समाश्रयेत् ॥ (मनुष०६ श्लो०२) इतरथा हि मृत्युनव च तस्मान्मुच्यते इत्यवक्ष्यत न खेवमब्रवीत् , त. स्माद्वार्धकदशोचितं चतुर्थमाश्रममनुमन्यते, तिष्ठतु वा वाधकदशा यतोऽपि परिपक्ककषायस्याश्रमचतुष्टयक्रममनोक्ष्यैव मोक्षाधिकार आख्यातः यथोक्तं ‘ब्रह्मचयोदेव प्रव्रजेदिति, अत एव द्विविधाब्रह्मचारी भवत्युपकुर्वाणो नैष्ठिकश्व, तत्रोपकुर्वाणको यो ब्रह्मचर्यमनुभूय गृहस्थाश्रममनुभवति स चापरिपककषायोऽनुपशान्तगाईस्थ्यरागः, तमेव प्रतीदमुच्यते-‘अनधीत्य द्विजो वेदाननुत्पाद्य च सन्ततिम् । अनिष्ट्वा चैव यज्ञैश्च मोक्षमिच्छन्द्रजत्ययः । (मनु० अ० ६श्लो३७) इति, यस्तु परिपककषायः स नैष्ठिक एव बह्मचारी भवति न गृहस्थाश्रमं प्रति. पद्यते, गृहस्थो ऽपि परिपककषायो वानप्रस्थाश्रममुल्लङ्य यतित्वे ऽधिक्रियते यथोक्तम् , ‘गृहाद्वनाद्वा प्रवजेदिति ।
के चित्त कर्मफलाभिसन्धिरहितस्य कर्तव्यमिति कर्म कुर्वतः क्षीणराग. स्यात्मविदो गृहस्थस्यापि (मोक्षः? ), यो ऽतिथिप्रियः श्राद्धकद्वेदविद्याविद् गृहस्थो ऽपि विमुच्यते इति, तस्मादृणानुबन्धादपवर्गाभाव इत्ययुक्तम् ।
यत्तु क्लेशानुबन्धादिति तदप्यनध्यवसायमात्रम्, प्रतिपक्षमावनादिना ________________

८६
न्यायमअर्याम् क्लेशोपशमस्य सुशकत्वात् । यद्येषां नित्यो हेतुर्भवेत्कार्यो वा, यद्यसौ न ज्ञा. येत ज्ञातोऽपि वाऽनुष्ठातुमसौ न शक्येत तदा क एवैनमुच्छिन्द्यात् , किन्तु
नाकस्मिका न नित्यास्ते न नित्याज्ञातहेतुकाः ।
नाज्ञातशमनोपाया न चाशक्यप्रतिक्रियाः ॥ न हि दोषाणामात्मस्वरूपवन्नित्यत्वमुपजननापायधर्मकत्वेन ग्रहणात्, मि. थ्याशानं च प्रसवकारणमेषामवधृतमिति नाकस्मिकत्वमविनाशिहेतुकत्वमज्ञात. हेतुकत्व वा। मिथ्याज्ञानस्य च सम्यग्ज्ञानं प्रतिपक्षः प्रतिपक्षभावनाभ्यासेन च समूलमुन्मूलयितुं शक्यन्त दोषा इति नाज्ञातप्रतीकारत्वं तेषाम् , उक्तं च केन चित्–
सर्वेषां सविपक्षत्वानि सातिशयाश्रिताः । सात्मीभावात्तदभ्यासाद्धीयेरनामुना क चित् ॥ इति ।
वैराग्याथै विषयेषु दोषभावना । विषयदोषादर्शनेन हि तेषु सक्तिलक्षणो रागः शाम्यति यदा ह्येवं चिन्त. यति विवेकी
असो तरलताराक्षी पीनोत्तुङ्गधनस्तनी । विलुप्यमाना कान्तारे विहगैरद्य दृश्यते ॥ विभाति बहिरेवास्याः पद्मगन्धनिभं वपुः । अन्तर्मज्जास्थिविणमूत्रमेदाक्रिमिकुलाकुलम् ॥ अस्थीनि पित्तमुच्चाराः क्लिन्नान्यन्त्राणि शोणितम् । इति चर्मपिनद्धं सत्कामिनीति विधीयते ॥ मेदोग्रन्थी स्तनो नाम तो स्वर्णकलशो कथम् । विष्ठाहतो नितम्बे च को ऽयं हेमशिलाभ्रमः ॥ मूत्रासग्द्वारमशुचि च्छिद्रं क्लेदि जुगुप्सितम् । तदेव हि रतिस्थानमहो पुंसां विडम्बना ॥ प्रीतियथा निजास्योत्थं लिहतः शोणितं शुनः । शुष्के ऽस्थनि तथा पुंसः स्वधातुस्पन्दिनः स्त्रियाम् ॥ व्यात्तानना विवृत्ताली विवर्णा श्वासघुधुरा । कथमघ न रागाय म्रियमाणा तपस्विनी ॥ अहो त्रणे वराको ऽयमकाले तृषितः फणी। प्रसारितमुखो ऽप्यास्ते शोणितं पातुमागतः ॥ किमनेनापराद्धं नः स्वभावो वस्तुनः स्वयम् । स्पृश्यमानो वहत्यग्निरिति को ऽस्मै प्रकुप्यति ॥
। ________________

अपवर्गानरूपणम् ।

नानुकूलः प्रिये हेतुः प्रतिकूलो न विप्रिये ।
स्वकर्मफलमश्नामि कः सुहृत्कश्च मे रिपुः ॥ ___एवमहर्दिवं चिन्तयतां नितान्तं मनःसमचित्तता सर्वत्र समुद्भवतीति वि. लीयन्ते दोषप्रन्थयः ।
अत एवोपदिश्यन्ते मोक्षशास्त्रष्वनेकशः ।
तस्य तस्योपघाताय तास्ताः प्रत्यूहभावनाः ॥ ननु च प्रतिपक्षभावने ऽपि न सर्वात्मना दोषपक्षः क्षयमुपयाति निम्बा. धुपयोगे इव क्रियमाणे कफधातुरिति, नतदेवं तत्र निम्बोपयोगवत्तदनुकूलस्यातपादेरुपयोगदर्शनात् ।
अपि च- , धमिलोपभयात्तत्र नेष्टः सर्वात्मना क्षयः ।
कफाधिक्यं तु हन्तव्यं धातुसाम्यस्य सिद्धये ॥ इह सर्वात्मनोच्छेद्याः क्लेशाः संसारकारिणः ।
छेदश्चैकान्ततस्तेषां प्रतिपक्षोपसेवनात् ॥ न च प्रतिपक्षभावनाभ्यासमेकमस्त्रमपास्य तदुपशमे निमित्तान्तरं किमपि क्रमते, न हि विषयाभिलाषस्तदुपभोगेन विरस्यति, यथा ऽऽह
न जातुः कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवरमेव भूय एवाभिवर्धते ॥
( मनु० अ० २श्लो ९३) अन्यत्राप्युक्तम्-मोक्षाभ्यासमनु विवर्धन्ते कौशलानि चेन्द्रियाणामिति, पाराशयों ऽपि
तृष्णाखनिरगाधेयं दुष्पूरा केन पूर्यते।
या महद्भिरपि क्षिप्तः पूरणैरेव खन्यते ॥ इति । तस्मात्प्रतिपक्षभावनैव भगवती भीमकान्तिरन्तः करणकान्तारे निरन्तर. मभिज्वलन्ती दावदहनदीधितिरिव दहति दोषविटपकानिति, तदेवं दोषानुब. न्धविश्वंसोपायसम्भवान्न तत्कृतो मोक्षमार्गरोधो ऽभिधातव्यः, अत एव के चन चेतनस्य प्रकृत्या निर्मलत्वान्मलानामागन्तकत्वान्मलनिबर्हणहेतोश्च यथो. क्तस्य सम्भवात्तदावरणापाये सति स्वतः सकलपदार्थदर्शनसामर्थ्यस्वभावचि. त्तत्त्वावस्थानात्सर्वज्ञत्वसिद्धिमदूरवर्तिनीमेव मन्यन्ते । ___ यदप्युच्यते-‘क्लेशशून्यत्वमात्मनो न कदा चिदपि दृष्टमनुबन्धवृत्तित्वात् क्लेशानामि’ति, तदप्यसत्यम् , सुषुप्तावस्थायामस्पृष्टस्य दोषैरात्मनः प्रत्यहमुपलम्भात् , जाप्रतो ऽपि का चन तादृशी दशा दृश्यत एव यस्यामेवात्मस्वरूप एवारमा निर्मलो ऽवतिष्ठते यथोक्तम् -अहरहब्रह्मलोकं यान्तीति’ सदलमनेन ________________

८८ (045 न्यायमअर्याम् दोषानुबन्धकथानुबन्धेन । ___यदपि प्रवृत्त्यनुबन्धादिति , तदपि सुत्रकृता समाहितम् , न प्रवृत्तिः प्रति सन्धानाय हीनक्लेशस्येति (गो० अ० ४ आ० १ सू०६४)। दोषेषु बन्धहेतुषु विगलितेषु प्रवृत्तिरपि न देहेन्द्रियादिजन्मने प्रभवतीति ।
ननु दोषक्षयान्मा भूदुत्तरः कर्मसंग्रहः ॥
कथं फलमदत्वा तु प्राक्तनं कर्म शाम्यति ॥ अत्र के चिदाहुः-ददत्येव कर्माणि फलं दत्त्वा शाम्यन्ति तथापि न बन्धहे. ववो भवन्ति, यतः शमसन्तोषादिजनितं योगिनः सुखमुपपाद्य धर्मो विनक्ष्यति अधर्मश्च शीतातपक्लेशादिद्वारकं दुःखं दत्त्वेति ॥
नन्वमुष्मात्कर्मण इदं फलं भवतीति कर्मफलानां कार्यकारणभावनियमा. स्कथमियता कर्मफलोपभोगो भवेदित्यन्यथा तदुपभोगमपरे वर्णयन्ति, योगी हि योगद्धिसिद्धया विहितनिखिलनिजधर्माधर्मकर्मा निर्माय तदुपभोगयोग्यानि तेषु तेषपपत्तिस्थानेषु तानि तानि सेन्द्रियाणि शरीराणि रण्डान्तःकरणानि च मुक्तैरात्मभिरुपेक्षितानि गृहीत्वा सकलकर्मफलमनुभवति प्राप्तैश्वर्य इतीत्थमुप. भोगेन कर्मणां क्षयः । ___ अन्ये त्वाचक्षते-किमनेन भोगायासेन अदत्तफलान्येव कर्माणि योगिनो नयन्ति तत्त्वज्ञानस्यैव भगवतः इयान प्रभावो यदस्मिन्नुत्पन्ने चिरस. श्चितान्यपि कर्माणि सहसैव प्रलयमुपयान्ति भोगादपि तेषां प्रक्षयः शास्त्र. प्रामाण्यादेवावगतः तथा तत्प्रामाण्यादेव तत्त्वज्ञानादपि तत्प्रक्षयं प्रतिपत्स्यामहे, तथो चाह
यथैधांसि समिद्धो ऽग्निर्भस्मसात्कुरुते ऽर्जुन! । ज्ञानाग्निस्सर्वकर्माणि भस्मसात्कुरुते तथा ॥ इति ।
(भ० गी० अ०४ श्लो० ३७) न चेदं श्रद्धामात्रं वेदविदामग्रण्या व्यासमुनिनैव समभिधानादवेदार्थ हि नासावभिदधीतेति ।
तदन्ये न मन्यन्ते, न सर्वात्मना कर्मणां दाहः किन्तु स्वरूपेण सतामपि सहकारिवकल्यात्स्वकार्यकरणोदासीनता तेषां भवति भृष्टानामिव बीजाना. मङ्करकरणकौशलहानिः, यतः सामग्री कार्यस्य जनिका न केवलं कारकमतो न कर्माण्येव केवलानि फलोपभोगयोग्यशरीरेन्द्रियादिजन्मनिमित्ततामुप. यान्ति किन्तु मिथ्याज्ञानेन दोषैश्च सहितानि, तदुक्तम्-‘अविद्यातूष्णे धर्माधौ च जन्मकारणमिति’ तत्त्वविदश्च तत्त्ववित्त्वादेव नाविद्या मिथ्याज्ञाना. त्मिका भवति, योषाणां तु प्रशमे दर्शित एव क्रमः, तदभावे भवन्तावपिंधर्मा. धमोन बन्धाय कल्पेते न हि स्वकार्यमकुरादि कुसूलवर्तीनि वीजानि जन. ________________

अपवर्गनिरूपणम् ।
49
यितुमुत्सहन्ते, भृष्त्रीजानामपि स्वरूपशक्तिरपि तानवं गता, तद्वत्कर्मणां स्व. रूपशक्तिशैथिल्यं मा नाम भूत्तथापि कुसूल वर्तिबीजवत्सहकारिवैधुर्यात्कार्यानारम्भ इति, तदिदमुक्तम् ‘न प्रवृत्तिः प्रतिसन्धानाय होनक्लेशस्येति’, (गो० अ. ४ आ० १ सू० ६४)
ननु स्वरूपसत्तायां धर्माधर्मयोः कथमिदमुक्तं-‘नवानामात्मगुणानां निर्मूलो. च्छेदो ऽपवर्ग’ इति, नैष दोषः-मनसंयोगवदकिञ्चित्करयोरवस्थानमप्युच्छेदान्न विशिष्यते , उक्तस्यात्मनो विभुत्वादपरिहार्यों मनसंयोगः, न च तदानीमसौ सन्नपि सुखदुःखज्ञानादिजन्मनि व्याप्रियते, एवं धर्माधमौ सन्तावपि फलमाक्षिपन्तौ किं करिष्यत इति फलत उच्छिन्नावेव भवतः, तस्मान्नवानात्मगुणाना. मुच्छेदोऽपवर्ग इत्यविरुद्धम , एवं प्रवृत्त्यनुबन्धस्यापि बन्धहेतोरभावान्न दुर्गमो ऽपवर्गः।
ज्ञानकर्मसमुच्चयवादः। अपरे पुनराहुः-कर्मफलानां शास्त्रतः कार्यकारणभावनियमावगतेः शमस. न्तोषशीतातपादिद्वारकसुखदुःखमात्रोपपादनेन कर्मपरिक्षयानुपपत्तेः योगर्या च दीर्घकालावधिसुखदु.खोपभोगस्य सकृदेव सम्पादयितुमशक्यत्वाज्ज्ञानामिना च दाहे तत्कर्मोपदेशिवदिकवचनसार्थानर्थक्यप्रसङ्गात् अदत्तफलस्य कर्मणो ऽनुपरमात् अवस्थानपक्षे चिरमप्युषित्वा कुसूलावस्थितबीजवकालान्तरेणापि तत्फलाक्षेपप्रसङ्गादवश्यं स्वफलोपमोगद्वारक एव कर्मक्षयो वाच्यः, न चानिर्मोक्ष आशङ्कनीयश्चिरादपि तत्सिद्धिसम्भवात् , तथा च मुमुक्षुनित्यनैमित्तिकं कर्मावश्यमनुतिष्ठेदननुतिष्ठन्प्रत्यवेयादिति तत्कुतोऽस्य बन्धः स्यात् , काम्यं नि. षिद्धं च कर्म स्वर्गनरककारि विस्पष्टमेव बन्धसाधनमिति तत्परिहरेदेवेत्येवं तावदुत्तरो ऽस्य न कर्मसञ्चयः प्रवर्तते, तदाह
नित्यनैमित्तिके कुयोत्प्रत्यवायजिहासया ।
मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः ॥ इति । प्राक्तनस्य तु कर्मसञ्चयस्य भोगादेव क्षयः, आत्मविदश्च मुमुक्षोरयमनुष्ठा. नक्रमो भवति नेतरस्येति स एवेत्थमपवय॑तेति, आह च
आत्मज्ञे चैतदस्तीति तज्ज्ञानमुपयुज्यते। तत्र ज्ञातात्मतत्त्वानां भोगात्पूर्व क्रियाक्षये ॥
उत्तरप्रचयासत्त्वादेहो नोत्पद्यते पुनः । ननु नित्यकर्मानुष्ठानपने नास्त्येव मोक्षः, यान्येव हि नित्यानि दर्शपौर्णमा. सादिकर्माणि ‘यावज्जीवं दर्शपौर्णमासाभ्यां यजेते’त्यादिचोदनोपदिष्टानि ता. न्येव फलवन्ति श्रूयन्ते इति काम्यान्यपि भवितुमर्हन्ति, ‘दर्शपौर्णमासाभ्यां ________________

न्यायमायाम् म्वर्गकामो यजेत, अग्निहोत्रं जुहुयात्स्वर्गकाम’ इति । न फलाभिसन्धानपूर्वक सेनाप्रयोगात् , यथा ऽऽह
प्रार्थ्यमानं फलं ज्ञातं नानिच्छोस्तद्भविष्यति । इति संयोगप्रवृत्तौ विशेषः, प्रयोगेऽपि विशेषः काम्यं कर्म सर्वाङ्गोपसंहारेण प्रयुज्यमानं फलसाधनमिति, यथा शक्तिस्तथा तत्तथा प्रयोक्तव्यमिति नित्यस्य. कर्मणा ऽकरणात्प्रत्यवाय इति यथाशक्त्यपि तत्प्रयोक्तव्यमनुष्टाता तु सर्वाण्य. ङ्गानि यद्यसावुपसंहर्तुं न शक्नुयान्मा प्रवत्तिष्ट न त्वप्रवर्तमानः प्रत्यवेयादिति, एवं तदेव दर्शपौर्णमासादिकर्म ‘यावज्जीवमिति चोदनयोपदिष्टंनित्यं सत्तत्फला. नभिसन्धानात्प्रयुक्तं न बन्धाय कल्पते, क मा स्वर्गसाधनशक्तिरस्य गतेति चेद्, न वयं कर्मणां शक्तिमशक्ति वा प्रत्यक्षतः पश्यामः शास्त्रकशरणास्तु श्रोत्रिया वयं चोदनैव धर्म प्रमाणमिति नः कुलव्रतमेतत् , सा च चोदनैकत्र कामिन मधिकारिणमाश्रित्य प्रवृत्ता तदधिकारश्च फलनिवृत्तविना न स्यादिति फलप. यन्ततां प्रतिपद्यते, अन्यत्र तु यावत्पदोपवद्धजीवनपदार्थावच्छिन्नाधिकारिलाभे. न प्रवर्तमाना न फलाय भवत्यक्रियमाणे तु शास्त्रार्थे प्रत्यवायाय प्रभवत्यधि. कृतेन सता शास्त्रार्थस्त्यक्त इति, काम्ये त्वनुत्पन्नकामोऽधिकृत एव न भवति इति नाधिकृतेन सता विधिस्त्यक्त इति न प्रत्यवतीति , उपक्रम्य त्वन्तराले त्यक्तुं न लभ्यत एव वीतायां फलेच्छायामवाप्ने वा फले तत्कर्मसमापनमव. श्यकर्त्तव्यमेव तदित्यलं शास्त्रान्तरगर्भेण भूयसा कथाविस्तरेण, सर्वथा सु. ष्ट्रक्तं नित्यनैमित्तिके कुर्यादिति, न खलु सुलभा ऽयं पुरुषार्थः कि न श्रुतमिदमायुष्मता व्यासवचनम्–
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् (भग०अ० ६ श्लो०४५) इति ।
ज्ञानानिदाहवचनं (१)तु ज्ञानप्रशंसार्थमेव, सोऽयं ज्ञानकर्मसमुच्चयान्मोक्ष उच्यते ।
ज्ञानकर्मसमुच्चयवादनिरासः । अत्राभिधीयत–न खलु फलोपभोगद्वारकः कर्मणां परिक्षयो जन्मशत. रपि शक्यक्रियः, उक्तं हि–
एकमेवेदृशं कर्म कर्तुमापतति क्वचित् । जन्मायुतशतनापि यत्फलं भुज्यते न वा ॥ देहैस्तत्कर्मभोगाथैः कर्मान्यन्न करिष्यते ।
कर्मसाधनमित्येषा दुराशैव तपस्विनाम् ॥ ( १ ) ज्ञानाग्निदाहवचन-ज्ञानामिः सर्वकर्माणि भस्मसात्कुरतेऽर्जुन !, इत्ये. घंरूपम् ।
. ________________

अपवर्गनिरूपणम् ।
3
तदीदृशमेनं मोक्षपथमुपदिशद्भिर्याज्ञिकर्मोक्षोपेक्षणमनक्षरमुपदिष्टं भवती. ति, तस्मात्पूर्वोक्तनीत्यैव कर्मणां वन्धहेतुत्वमपाकरणीयम् ।
ननु पक्षचतुष्टये ऽपि दोष उक्तः ? न चतुर्थपक्षरय निरवद्यत्वात्सहकारिव. कल्यात्कुसूलावस्थितबीजवत्कर्मणामनारम्भकत्वे सति न कश्चिदोषः, एष एव च तेषां दाहो यत्कायोनारम्भकत्वम् । ___ नन्वविनष्टस्वरूपाणि कुमूलबीजवदेव कदा चिदारप्स्यन्त कार्य तस्माद्व. रमुच्छिद्यन्तामेव ? किमिदानी नित्यमात्मानमप्युन्छेत्तु यतामहे , स हि पुरा भोक्ताऽभूदिति मुक्तो ऽपि पुनभाक्ततां प्रतिपद्यतति वरमुच्छिद्यतामेव । सामग्रयभावात्कथं भाक्ततां गच्छदिति चेलमाण्यपि सहकार्यभावात्कथं कार्यमा. रभेरन , न च कर्मणां बन्धकरणे रागादयोन सहकारिण इति वक्तुं शक्यं वीतरागस्य जन्मादर्शनादित्यसदु तत्वान , तस्माद यमेव सूत्रकारापदिष्टः पन्थाः पेशलो-‘न प्रवृत्तिः प्रतिमा धाना होनकलशस्येति ॥
यच्चेदमुच्यते–‘ज्ञानकर्मसमुच्चयान्माक्ष’ इति, तत्रेदं वक्तव्यम्-कर्मणां कीदृशो मोक्ष प्रत्यङ्गभावः ? न हि कर्मसाध्यो मोक्षः स्वर्गादिवनित्यत्वप्रसझात् , अश्चिात्मैव स्वरूपावस्थितो मात इत्युच्यते, न चात्मस्वरूपं कमसा. ध्यसनादिनिधनत्वेन सिद्धत्वात् ।
ननु नित्यकर्माननुष्ठाने प्रत्यवेवादिति तद्वारकबन्धपरिहारापायत्वात्कमापि मोक्षाङ्गं स्यात , न संन्यासविधानस्य प्रत्यक्षापदेशादित्यक्तत्वात , अपरि. पककपायाणां शनैः शनस्तत्परिपाकोपयिकत्वेन कमानुष्ठानं पारम्पर्यणापवर्गापाय इति तु बाढमभ्युपगम्यते, यथा ऽऽह मनुः-‘महायज्ञश्च यज्ञश्च ब्राह्मीयं क्रियते तनुरिति (अ०२ ला० ३८)। अध्यात्मविश्च ज्ञानकाण्डोपयिकमव क्रियाकाण्डमन्यन , साक्षात्त कर्मसाध्येऽपवर्ग स्वर्गवदपायित्वप्रसङ्गात्कृतकस्य सर्वस्यानित्यत्वात्तत्त्वज्ञानमव मादीवाय इत्युक्तम् ॥ ___ यदपि यमनियमादिपु साध्यभूतं तदपि तदङ्गतां गच्छन्न वार्यते, त. कार्यत्वेऽपि यावद्गुणप्रध्वंसाभावस्वभावत्वान्माक्षस्य न क्षयित्वं स्वर्गवद. देन्यस्तु न मोक्ष इत्युक्तम् ॥
तत्पूर्वोक्तप्रक्रमेणापवर्गप्राप्तस्तत्त्वज्ञानमेवाभ्युपायः । कर्म त्वङ्गं तत्र शौचादि किंचित्किञ्चित्तत्स्यादात्मसंस्कारपूर्वम् ॥

आत्मतत्त्वज्ञाननिरूपणाय वितिपत्तिप्रदर्शनम् ।
आह-‘तत्त्वज्ञानमिदानी चिन्त्यतां कि विषयं तदपवर्गाय कल्पते कुतो वा तस्य निा श्रेयससाधनत्वमवगतमिति । ________________

९२
न्यायमअयाम्
नन्वात्मज्ञानमपवर्गहेतुरिति बहुशः कथितमेवैतदिति को ऽयं प्रश्नः, न विप्रतिपत्तेः, विप्रवदन्ते ह्यत्र वादिनः एक एवायमविद्यापरिकल्पितजीवात्मविभागः परमात्मा तत्त्वज्ञानादविद्यापाये मोक्ष इति ब्रह्मवादिनः, शब्दाद्वैतनिश्चयादिति वैयाकरणः, विज्ञानाद्वैतदर्शनादिति शाक्यभिक्षवः, प्रकृतिपुरुषवि. वेकविज्ञानादिति पारमर्षाः, ईश्वरप्राणिधानादिति चान्ये, तदेवं कस्मै तत्त्वज्ञानाय स्पृहयन्तु मुमुक्षव इति वाच्यम् ।

___ स्वमतेनात्मतत्त्वज्ञाननिरूपणम् । उच्यत, भिन्नास्तावदात्मान इति गृह्यतामात्मज्ञानमेव च निश्रेयसाङ्गमिति, यत्तु कुतस्तस्य निःश्रेयससाधनत्वमवगतमिति, अक्षपादवचनादिति ब्रूमः, अक्ष. पादस्तावदिदमुपदिष्टवान् आत्मज्ञानानिःश्रेयसाधिगम इति, न च निष्प्रमाण. कमर्थमेष ऋषिरुपदिशति इति भवितव्यमत्र प्रमाणेन, तत्त वैदिकविधिवाक्य’मात्मा ज्ञातव्य’ इति, स एष तावनिरधिकारो विधिरधिकाररहितस्य च विधेः प्रयोगयोग्यत्वाभावादधिकारान्वेषणमुपक्रमणीयम् , परप्रकरणपरिपठनविरहाच नास्य सम्पदादिविधिवत्प्रधानाधिकारनिवेशित्वमतो विश्वजिदधिकरणन्यायेन स्वर्गकाममधिकारिणमिह यावदुपात्तमध्यवस्यामस्तावदेव च ‘न पुन. रावतते’ इत्यर्थवादसमर्पितेयमपुनरावृत्तिरेव हृद्यपथमवतरति रात्रिसत्र इव प्र. तिष्ठेति तामेवास्य फलत्वेन प्रतिपद्यामहे ।
सा चेयं साध्यमानापि रूपादेव हि शाश्वती ।
चकास्त्यपुनरावृत्तिन स्वर्गवदपायिनी ॥ ननष्प्रयोजनालाभे सत्यदृष्टप्रयोजनपरिकल्पनावसरः इह च दृष्टमेव प्रयोजनमात्मज्ञानस्य कर्मप्रवृत्तिहेतुत्वमुपलभ्यते, नित्येनात्मना विना भूतेष्वेव चेतनेषु श्मशानावधिषु बहुवित्तव्योयाससाध्यानि को नाम ज्योतिष्टोमादिकर्माण्य. नुतिष्ठेदिति नित्य आत्मा परलोकी ज्ञातव्यः, एवं हि निर्विशङ्कः कर्मसु प्रवते. तेति, तदिदमनुपपपन्नम् , अन्यत एव सिद्धत्वात्प्रत्यभिज्ञाप्रत्यक्षप्रत्ययेन जै. मिनीयरनुमानमहिम्ना च नैयायिकादिभिरात्मा नित्य इति निश्चित एव किमत्र विधिः करिष्यतीति, कर्त्तव्यताकलापोपदेशश्च तदानीमत्यन्तनिष्प्रयोजनः स्यात् , अमी च तथ्या नामातिमहान्तो वेदग्रन्था इयत्येव पर्यवसिता इति तदिदमुपनतं सेयं महतो वंशस्तम्बाल्लट्वा निष्कृष्यते इति, तस्मादर्थवाद. समर्पितमपुनरावृत्तिरूपमेव फलमात्मज्ञानविधिरवलम्बत इत्येवं केचित् ।
सूक्ष्मतरदशिनस्त्वाहुः-इयमपि महती दुर्गतिर्यदर्थवादमुखप्रेक्षित्वमस्योत्त ________________

अपवर्गनिरूपणम् । माधिकारविधेविश्वजिति (१)रात्रिसत्रे (२)वा किमन्यस्क्रियतां न हि विधिस्व. रूपपालोचनातः कश्चिदधिकारी लभ्यते इति बलात्स्वर्गकामादि. कल्प्यते वा अर्थवादसमर्पितो वा ऽवलम्ब्यते , यत्र तु विधिस्वरूपमहिम्नैव तदुपलम्भः तत्र कि कल्पनया किमर्थवादवदनावलोकनदैन्येन वा, इह च स्वाध्यायो ऽध्ये. तव्य इति वदग्नीनादधीतेतिवद्वा कृत्येन द्वितीयया वेप्सिततमनिर्देशात्तनिष्ठत्वमेवावतिष्ठते । तत्र यथा ऽग्न्यर्थतया ऽऽधानविधिरवगम्यमाना ऽनीनाम. नेकविधिपुरुषार्थोंपयिककर्मकलापोपयोगात्तदर्जनेनैव कृतार्थत्वमुपगत इति न फलान्तरमपेक्षते यथा वा स्वाध्यायो ऽध्येतव्य इत्यक्षरग्रहणार्थत्वादस्य विधेर. क्षरग्रहणस्य च फलवकर्मावबोधद्वारण परमपुरुषार्थोपायत्वावधारणान्न तदति. रिक्तघृतमधुकुल्यादिफलान्तरापेक्षित्वं न चाध्ययनविध्यगत्वं स्वमहिम्न वेप्सिततमसंस्कारद्वारकाधिकारलाभात् , एवमिहाप्यपहतपाप्माद्यात्मस्वरूपप. रिज्ञानमेव तस्थ परपुरुषार्थतामवबोधयन्नास्य विधेरन्यप्रयोजनतामापादयति, कश्चिक्किल संस्कारविधिः संस्क्रियमाणप्रयोजनापेक्षया परमुखप्रेक्षी भवति त्रीहीन्प्रोक्षतीतिवत् , कश्चित्तु संस्क्रियमाणप्रयोजनमलभमानस्तदीप्सिततमत्वा. निर्वाहणात्संकारविधित्वमेव जहाति सक्तून जुहीतीतिवत् , यथोक्तम्
भूतभाव्युपयोगं हि द्रव्यसंस्कारमिष्यते ।
सक्तवो नोपयोक्ष्यन्ते नोपयुक्ताश्च ते क चिद् ॥ इति । ___ संस्कार्यमनमिव रत्नमपर्युषितमिवामृतमनस्तमिव चन्द्रबिम्बमपरिम्ला. नमिव शतपत्रमस्ति कस्तहि प्रकरणपाठापेक्षायामर्थवादमुखप्रेक्षणे फलकल्पनायां वा ऽभिलापः, अत एव न कामश्रुतप्रयुक्तत्वमाधानस्य न चाचायकर.
(१) विश्वजितीति । अयमाशयः-विश्वजिद्यागे प्रवृत्यर्थमिष्टसाधनताज्ञान. मवश्यमपेक्षणीयमिष्टसाधनताज्ञामस्य प्रति प्रति कारणत्वात् तच्च इष्टं किमिति निया. मकं नास्ति विश्वजिता यजेतेति श्रुतौ फलविशेषानिर्देशादिति किंचित्फलं स्वेच्छयाकल्पनीयमिति पूर्वपक्षे स विश्वजिद्यागफलं स्वर्गः स्यात् सर्वसामिष्टत्वादिति, स स्वर्गः स्यात्सर्वान् प्रत्यविशिष्टत्वात् ( अ० ४ पा० ३ सू०० १५ ) इति सूत्रेण जैमिनि. ना सिद्धान्तितम् ।
(२) रात्रिसत्र इति । रात्रिसत्रवाच्यानां ज्योतिर्गौरित्यादिवाक्यास्पन्नकर्मणां फलजिज्ञासायाम् विश्वजिन्न्यायनोत्पत्राश्रुतस्वर्गादिफलकल्पने गौरवात् ‘प्रतितिष्ट. न्ति ह वा य एता रात्रीरुपयन्ति’ इति अर्थवादश्रुता ‘प्रतिष्ठेव फलमिति सिद्धान्तः तथा चन्यायमाला
स्वर्गाय वा प्रतिष्ठायै रात्रिसत्रभिहादिमः । पूर्ववत्स्यात्प्रतिष्ठा व श्रुता तेनाऽश्रुताद्वरम् ॥ ________________


न्यायमझयाम् णविधिप्रयुक्तत्वमध्ययनस्येति, तस्मात्स्वाध्यायाध्ययनाग्न्याधानविधिसमानयोगोमत्वादात्मज्ञानविधेस्तत एवात्मज्ञानमपवर्गार्थमवगम्यते, तथाविधस्वरूप आत्मैव परोपजनितधर्मरहितो ऽपवर्ग इत्युच्यते यतः तदिदमित्थमात्मज्ञानमेव निःश्रेयससाधनमनन्यलभ्यमिति तमेवोपदिष्टवानाचार्योऽक्षपादः । यत्त विज्ञानसत्तात्मशब्दाद्यद्वैतदर्शनं तन्मिथ्याज्ञानमेवेति न निःश्रेयससाधनम् ।
ब्रह्मवादिमतेन मोक्षोपायानरूपणम् । ननु कथमद्वैतदर्शनं मिथ्या कथ्यते तत्प्रत्युत द्वैतदर्शनमविद्या मायापि मिथ्या. ज्ञानमिति युक्तम , तथा हि प्रत्यक्षमेव तावनिपुणं निरूपयतु भवान , तत्र हि यदन्यानपेक्षतया झगिति पदार्थस्वरूपमवभासते तत्पारमार्थिकमितरत्काल्पनिकमिति गम्यते , सद्रपमेव च तत्राभिन्नमन्यनिरपेक्षमवभाति भेदस्त्वन्यापे. क्षयेति नाक्षणविज्ञानविषयतामुपयाति, तत्र यथा मृदूपतातः प्रवृत्तिं यावत्कु. म्भावस्थेत्यस्मिन्नन्तराले आविर्भवतां च घटकपालशकलशकराकणादीनां रूपमपरमार्थसदेव व्यवहारपदवीमवतरति परमार्थतस्तु मृत्तिकैव, यथा ऽऽहुः मृ. त्तिकेत्येव सत्यमिति, एवं तदपि मृत्तिकारूपं सत्तापेक्षया न परमार्थ सदिति सत्तैव सर्वत्र परमार्था तदेव सल्लक्षणं ब्रह्मेत्याहुः, आगमश्च ‘एकमेवाद्वितीय. मित्यादिरभेदमेव दर्शयति ‘नेह नानाऽस्ति किञ्चन मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यतीति च, वेदस्य च सिद्धे ऽप्यर्थे प्रामाण्यमुपवर्णितमेव भवद्भिः, न च प्रत्यक्षविरुद्धत्वमभेदशंसिनो वक्तुं शक्यमागमस्य न ह्यन्यनिषेधे प्रत्यक्ष प्रभव. ति स्वरूपमात्रग्रहणपरिसमाप्तव्यापारत्वात् , पररूपमन्तरण च भेदस्य दुरुपपा. दत्वाइँदे कुण्ठमेव प्रत्यक्षमिति कथमभेदग्राहिणमागमं विसन्ध्यात्तदुक्तम्–
आहुर्विधात प्रत्यक्ष न निषेध्यं विपश्चितः ।
नैकत्व आगमस्तेन प्रत्यक्षण विरुध्यते ॥ नन्वेकमेव ब्रह्म न द्वितीयं किचिदस्ति तर्हि तद् ब्रह्म नित्यशुद्धबुद्धस्वभा. वत्वान्मुक्तमवास्ते केन तद्व‘मति किमर्थो ऽयं मुमुक्षुणां प्रयत्नः कुतस्त्यो वा ऽयं विधिर्न जगदवभासकः ? अविद्योच्छेदार्थे मुमुक्षुप्रयत्न इति ब्रूमः, ततस्त्य एवायं विचित्रजगवभासः ।
केयमविद्या नाम,ब्रह्मणो व्यतिरिक्ता चेद् नाद्वैतम् अव्यतिरेके तु ब्रह्मैव सा, ततो नान्येत्येपेति कथमुच्छेद्यते ? मैवं,न वस्तुनीशि तार्किक चोद्यानि क्रमन्त, अविद्या त्वियमवस्तुरूपा माया मिथ्यावभासस्वभावा ऽभिधीयते, तत्त्वाग्रहण. मविद्या, अग्रहणं च नाम कथं वस्तुधर्म विकल्प्यते ।
ननु तत्त्वाग्रहणरूपापि कस्येयमविद्याान हि ब्रह्मणो नित्यप्रबुद्धस्वभावत्वादविद्या भवति अन्यस्तु नास्त्येव तदाश्रयो न च निरधिकरणमेव मिथ्याज्ञानं भवितुमर्हति ?
। ________________

अपवनिरूपणम् ।
उच्यते–‘जीवात्मनामविद्या न ब्रह्मणः ।
ननु के ते जीवात्मानस्ते ऽपि ब्रह्मणो ऽन्यानन्यतया चित्या एव ? आः क्षुद्रतार्किक सर्वत्रानभिज्ञो ऽसि, ब्रह्मव जीवात्मानो न ततो ऽन्ये न हि दह. नपिण्डाद्भेदेनापि भान्तः स्फुलिङ्गा अग्निस्वरूपा न भवन्ति, तत्किं ब्रमण एवा. विद्या ? न च ब्रह्मणो ऽविद्या, यथा चैकमेव घटायावरणोपहितभेदतया भिन्न. मिव विभाति नभः पटाकाशं घटाकाशमिति तदावरणव राादेव च रजोधमा. दिकलुषितमपि भवति तदावरणविरतौ तु गलितकालुष्यमले तत्रैव परमे व्योम्नि लीयते, तथैव चात्मानो ऽप्यविद्यापरिकल्पितभेदात्तकतमनेकप्रकारकालु. ष्यमनुभवन्ति तदुपरमे च परब्रह्मणि लीयन्ते इति च ।
नन्वेवमप्यविद्यापरिकल्पित एष ब्रह्म जीवात्मविभागः, सा च जीवात्मनामवि. घेत्युच्यते तदेतदितरेतराश्रयमापद्यते अविद्या कल्पनार्या सत्यां जीवात्मानो जी. वात्मसु च सत्स्वविद्येति ? भववितरेतराश्रयत्वम , अविद्याप्रपञ्च एवायम. शेषः, कस्यैष दोषः यदि चानादित्वमस्य परिहारो बीजाङ्कावद्भविष्यति, भव. द्भिरपि चायमनादिरेव संसारो ऽभ्युपगतः अविद्यैव च संसार इत्युच्यते ।
नन्वनादेरविद्यायाः कथमुच्छेदः ? किमनादेगच्छेदा न भवति भूमे रूपस्य, भवद्भिर्वा कथमनादिस्संसार उच्छेद्यते, ननूपाये सत्यनादिरप्युच्छेद्यते अद्वैतवा. दिनां तु कस्तदुच्छेदोपायः ? अविद्यवेति ब्रूमः, श्रवणमननध्यानादिरप्यविदयव सा त्वभ्यस्यमाना सत्यविद्यान्तरमुत्सादयति स्वयप्युत्सीदति यथा पयः पयो जरयति स्वयं च जीति विषं विषान्तरं शमयति स्वयं च शाम्यति यथा वा द्रव्यान्तररजःक्षिप्तं रजःकलुपितऽम्भमि तच्चात्मान संहत्य स्वच्छमम्बु करोति तदेवमियमविदयैवाविद्यान्तरमाच्छिन्दन्ती विद्यापायतां प्रतिपद्यते, ननु स्वरूपेणासत्येवेयमविद्या कथं सत्यकार्य कुर्यात्, उच्यते–
असत्यादपि सत्यार्थसम्पत्तिरुपपत्स्यते ।
मायासर्पादयो दृष्टाः सत्यप्रभयहेतवः ॥ रेखागकारादयश्चासत्याः सत्यार्थप्रतीत्युपाया दृश्यन्ते, स्वरूपेण सत्यास्त इति चेकिं तेन क्रियते, गकारादित्वेन हि ते प्रतिपादकाम्तच्चपामसत्यमिति !
ननु ब्रह्मणो नित्यशुद्धत्वाज्जीवानां च ततो ऽन्यत्वात्कथं तेप्वविद्याव. काशं लभेत ? परिहृतमेतद् घटाकाशहटान्तापवर्णनेनैव, अपि च यथा विशुद्धमपि वदनबिम्बमम्बुमणिकृपाणदर्पणादयुपाधिवशेन श्यामदीर्घस्थूलादिरूपमा पारमार्थिकमेव दर्शयति तथा ब्रह्मणस्तदभावे ऽपि जीवपु तदवकाश इति ।
ननु परमात्मनो नित्यत्वाज्जीवानामप्यन्योन्यमप्यनन्यत्वमित्येकस्मिन्बद्ध मुक्त वा सर्वे बद्धाः मुक्ता वा स्युः ? अयि कुतककलुक्तिमते ! कथं बोध्यमानो ________________

न्यायमभयोम्
ऽपि न बुध्यसे, घटाकाशे ऽपि घटभङ्गासरमाकाशप्रतिष्ठे जाते पटाकाशोऽपि तथा भवति, एकस्यापि जीवात्मन उपाधिभेदात्सुखदुःखानुभवभेदो दृश्यते पादे मे वेदना शिरसि मे सुखं न वेदनेति तीव्रतरतरणितापोपनतातनुक्लमस्य च यत्रैव शरीरावयवै शिशिरहरिचन्दनपङ्कस्थासकमुपरचयति परिम्लानस्तत्रैव तदुःखोपरमानुभवो नेतरत्रेत्येवमेकस्मिन्नपि परमात्मनि कल्पनामात्रप्रतिष्ठेव. पि जीवात्मसु बद्धमुक्तव्यवस्था सिध्यतीत्येकात्मगद एवायमागमानुगुण उपयुक्तो नानन्त्यमात्मनाम् ॥
ब्रह्मदशनमेवातो निःश्रेयसनिबन्धनम् । भेददर्शनमूढानां संसारविरतिः कुतः ॥ इति ।
ब्रह्मवादिमतखण्डनम् । अत्राभिधीयते, कपटनाटकरहस्यप्रक्रियाकू!पर चने तदनुगुणदृष्टान्तपरम्परोपपादने च किमुच्यते परं कौशलं भवताम् , प्रमाणवृत्तनिरूपणे तु तप. स्विन एव भवन्तः, तथा हि भेदस्य प्रमाणबाधितत्वात्किमयमभेदाभ्युपगमो भवतामुत स्विदभेदस्यैव प्रमाणसिद्धत्वादिति, द्वयमपि नास्ति, प्रत्यक्षादीनि हि सर्वाण्येव भेदप्रतिष्ठानि प्रमाणानि, यत्तावद्भेदस्य परापेक्षत्वान्मृत्पिण्डात्प्रभृति घटकपरचूर्णपर्यन्तकार्यपरम्परापरिच्छेदे तदनुगतमृद्पताग्रहणे च सति मृदस्त. दभिन्नरूपत्वमवतायते नान्यथा, भिक्षवश्चाचक्षते चाक्षुषं व्यावृत्तस्वलक्षण. ग्राहि नाभेदविषयमभेदस्य परापेक्षत्वादिति, अयमस्मादन्य इतीयं परापेक्षा प्रतीतिरिति चेदयमस्मिन्ननुस्यूत इतीयमपि परापेक्षव, तदत्र भवांश्च भिक्षुश्च द्वावपि दुर्घहोपहतो भेदाभेदग्रहणनिपुणमक्षजमिति परीक्षितमेताद्वेस्तरतः सामान्यचिन्तायाम् , अङ्गुलिचतुष्टयं हि प्रतिभासमानमितरेतरविभक्तरूपमप्य. नुगतरूपमपि प्रकाशते इत्युक्तम् ।
व्यावृत्तिरनुवृत्तिवा परापेक्षास्तु वस्तुषु ।
असङ्कीर्णस्वभावा हि भावा भान्त्यक्षबुद्धिषु ॥ यदप्युक्तम्–‘आहुर्विधात प्रत्यक्षमिति तदप्यसाधु, विधातृ इति को ऽर्थः, इदमपि वस्तु स्वरूपं गृहाति नान्यरूपं निषेधति, प्रत्यक्षमिति चेन्मैवम् अ. न्यरूपनिषेधमन्तरेण तत्स्वरूपपरिच्छेदस्याप्यसम्पत्तः, पीतादिव्यवच्छिन्नं हि नीलं नीलमिति गृहीतं भवति नेतरथा, तथा चाह-‘तत्परिच्छिन्नं त्वन्यद्वयव. च्छिनत्ती’ति, भाववभावमपि ग्रहीतुं प्रभवति प्रत्यक्षमिति च साधितमस्मा. भिरेवैतत् , तस्मादितरेतरविविक्तपदार्थस्वरूपप्राहित्वान्नाभेदविषयं प्रत्यक्षम् , शब्दानुमानयोस्तु सम्बन्धग्रहणाधीनस्वविषयव्यापारयोर्भेदमन्तरेण स्वरूपमेव नावकल्पते इति तावुभावपि भेदविषयावेव, विशेषविषयत्वाभावे ऽपि लिङ्गसामा. ________________

अपवर्गनिरूपणम् ।
९७ न्यस्य तदितरविलक्षणस्य परिच्छेदादि, वापस्य तु परस्परोपरक्तपदार्थपुजस्व भावः इतरपदार्थविशेषितान्यतमपदार्थरूपो वा वाक्यार्थों विषय इति पूर्वमेव निरूपितमतः सर्वथा न भेदस्य प्रमाणाबाधितत्वम् , नाप्यभेदग्राहि किश्चन प्रमाण मस्ति यथोक्तेनैव न्यायेन, यस्त्वागमः पठितः –‘एकमेवाद्वितीयं नेह नानास्ति किश्चने’त्यादि, तस्यार्थवादत्वान्न यथाश्रत एवार्थो ग्रहीतव्यः ।
ननु सिद्धे ऽप्यर्थे वेदस्य प्रामाण्यमभ्युपगतमेव भवद्भिः, बाढमभ्युपगतं किन्तु धूम एवामेदिवा ददृशे नाचिरित्येवमादीनां प्रत्यक्षादिविरुद्राभिधायि. नामर्थवादानां मुख्यां वृत्तिमपहाय गौण्यापि वृत्त्या व्याख्यानमाश्रितम् , एव. मिदमपि वचनमितरप्रमाणोविरुद्धमर्थमभिदधदपरथा व्याख्यायते, ये तु प्रमाणान्तरविरुद्धार्थानुवादिनो न भवन्त्यर्थवादास्तेषामस्तु स्वरूपे प्रामाण्यं ‘वायुर्वे क्षेपिष्ठा देवते’त्येवमादीनाम , तस्मात्सुखदुःखाद्यवस्थाभेदे ऽपि नावस्थातुरा. स्मनो भेदो देहेन्द्रियादिनानात्वे वा न तस्य नानात्वमित्येवं यथा कथं चिदय. मर्थवादो योजनीयः, अभेदोपदेशी तु तत्परः शब्दो विधिरूप इह नास्त्येव., मागमबलादपि नाद्वैतसिद्धिः ।
यत्पुनरविद्यादिभेदचोद्यमाशङ्कयाशङ्कय परिहतं तत्राशङ्का साधीयसी स. माधानं तु न पेशलम् , तत्त्वान्यत्वाभ्यामनिर्वचनीयेयमविद्येति कोऽर्थः ?
अनादिना प्रबन्धेन प्रवृत्ताऽऽवरणक्षमा ।
यत्रोच्छेद्याऽप्यविद्येयमसती कथ्यते कथम् ॥ अस्तित्वे क एनामुच्छिन्द्यादिति चेत्, कातरसन्त्रासोऽयं सतामेव हि वृ. क्षादीनामुच्छेदो दृश्यते नासतां शशविषाणादीनाम , तदियमुच्छेद्यत्वादविद्या नित्या मा भूत्सती तु भवत्येव ।
नित्यं न शक्य मुच्छेत्तुं सदनित्यं तु शक्यते ।
असत्त्वमन्यदन्या च पदार्थानामनित्यता ॥ न च तत्त्वाग्रहणमात्रमविद्या, संशयविपर्ययावप्यविद्येव तौ च भावस्वभा. वत्वात्कथमसन्तौ भवेताम् , ग्रहणप्रागभावो ऽपि नासन्निति शक्यते वक्तुमभा. वस्याप्यस्तित्वसमर्थनादिति सवेथा नासत्यविद्या ॥
असत्वे च निषिद्धेऽस्यास्सत्त्वमेव बलाद्भवेत् ।
सदसद्वयतिरिक्तो हि.राशिरत्यन्तदुर्लभः ॥ सत्त्वे च द्वितीयाया अविद्याया भावान्नाद्वैतम् ।
यत्त-ब्रह्मणः सततप्रबुद्धत्वादविद्याक्षेत्रता नेति जीवानामविद्यास्पदत्वमभिहितमविद्योपरमे ब्रह्मणि परमे त एव घटाकाशवल्लीयन्ते-इति ।
तदपि न चतुरस्रम् , आकाशावच्छेदहेतोघंटमानत्वादविद्यायास्त्वसत्त्वात्त. स्कृतः परमात्मनो ऽवच्छेद इति विषमो दृष्टान्तः, अवच्छेदकत्वाभावाच जीव. ________________

न्यायमझयाम्
विभागकल्पनापि निरवकाशैव । यच्चेतरेतराश्रयत्वं परिहतमनादित्वमावे. दितमविद्यायास्तत्र बीजाकरवद्वेद्यान्तरोपगतसंसारवञ्च तस्याः सत्यत्वमेव स्यात्, अनादिप्रबन्धप्रवृत्तत्वे चास्याः प्रतिकूलहेत्वन्तरोपनिपातकृतमपाकरणमुचि. तम, एकात्मवादिनां तु तदतिदुर्घटमित्यनिर्मोक्ष एव स्याद् , यथाह भट्टः–
स्वाभाविकीमविद्यां च नोच्छेतुं कश्चिदहति । विलक्षणोपपाते हि नश्येत्स्वाभाविकं क चित् ॥
न त्वेकात्माभ्युपाधीनां हेतुरस्ति विलक्षणः ॥ इति । यत्पुनरविद्येव विद्योपाय इत्यत्र दृष्टान्तपरम्परोद्घाटनं कृतम् , तदपि क्लेशाय नार्थसिद्धये, सर्वत्रोपायस्य स्वरूपेण सस्वादसतः खपुष्पादेरुपायत्वा. भावात् , रेखागकारादीनां तु वर्णरूपतया सत्त्वं यद्यपि नास्ति तथापि स्वरू. पतो विद्यत एव ।
ननु गकारोऽयमिति गृह्यमाणः स रेखासन्निवेशो ऽर्थप्रत्यायको भवति न चासौ तेन रूपेणास्ति,
मैवम् , स्वरूपेणासतोऽर्थस्य रूपान्तरेणापि गृह्यमाणस्य कूटकार्षापणादेरिव व्यवहारहेतुता दृश्यते च युक्ता च, वस्तु स्वरूपत एव नास्ति तस्य स्वात्मना परात्मना वा व्यवहाराङ्गता समस्ति, रेखासन्निवेशश्च स्वरूपेण सन्निति वर्णात्मत्वेना सन्नपि तत्कार्याय पर्याप्नुयान्न त्वयमविद्यायां न्यायः स्वरूपासत्वात्तस्याः, सर्पादौ तु सर्पादिस्वरूपवत्तज्ज्ञानस्यापि तत्कार्यत्वमवगतमत एव शङ्काविषस्यापि स्वशास्त्रेषु चिकित्सामुपदिशन्ति, एवं नवगुहाकुहरादेष निःः मृतः केसरी सरोषमित एवाभिवर्तत इत्यसत्येऽप्युक्ते यद्भोरूणां भयपलायनादि शूराणां च सोत्साहमायुधोद्यमनादि सत्यं कार्यमुपलभ्यते तत्र सिंहज्ञानस्य तत्कार्यत्वात्तस्य च स्वरूपसत्वान्नासत एवोपायत्वम् , एतेन प्रतिबिम्बदृष्टा. न्तो ऽपि प्रत्याख्यातः, खड्गादेर्मुखादिकालुष्यकल्पनाकारणस्य तत्र सद्भावा. दिह तदसद्भावादिति ।
यदपि बद्धमुक्तव्यवस्थासिद्धये पादवेदनाद्यदाहृतम्, तदप्येवमपाकृतमवच्छे. दकस्य पादादेस्तत्र तात्त्विकत्वात् इह तु भेदकल्पनाबीजमद्वैतवादिनो दुर्घट. मिति बहुशः प्रदर्शितम् ।
तदेवमत्र वस्तुसंक्षेपः-अविद्यायामसत्यां सर्व एवायं यथोदाहृतो व्यवहारप्रकारस्तत्कृत इति नावतिष्ठते सत्यां तु तस्यां नाद्वैतमिति, अत एवाह सूत्रकारः ‘संख्यैकान्तासिद्धिः प्रमाणोपपत्त्यनुपपत्तिभ्याम्’ (गौ० अ०४ श्रा०१ सू० ४१) इति, यदि तावदद्वैतसिद्धौ प्रमाणमस्ति तर्हि तदेव द्वितीयमिति ना. द्वैतम् अथ नास्ति प्रमाणं तथापि न तरामद्वैतमप्रामाणिकायाः सिद्धरमावादिति । ________________

अपवर्गनिरूपणम् ।
मन्त्रार्थवादोत्थविकल्पमूलमद्वैतवादं परिहत्य तस्मात् । उपेयतामेष पदार्थभेदः प्रत्यक्षलिङ्गागमगम्यमानः ॥
शब्दाद्वैतवादिवैयाकरणम तखण्डनम् । एतेन शब्दाद्वैतवादोऽपि प्रत्युक्तः।
अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्तते ऽर्थभावेन प्रक्रिया जगतो यतः॥ इति ।
( वाक्य० का० १ श्लो०१) उच्यते-तत्रानादिनिधनपदनिवेदिता पूर्वापरान्तरहिता वस्तुसत्ता नित्यत्वं ब्रह्मपदप्रतिपादितं च व्यापित्वमित्युभयमपि शब्दस्य प्रागेव निरस्तम् , निरव. यवश्व स्फोटात्मा शब्दः प्रतिक्षिप्त एव, यत्तु नित्यं वा किंचिदुच्यते तच्छब्द. तत्वमिस्यत्र का युक्तिः, आह शब्दोपग्राह्यतया च शब्दतत्त्वम् . तथा हि सर्वेः प्रत्यय उपजायमानो नानुल्लिखितशब्दक उपजायते तदुल्लेखविरहिणे ऽनासा. दितप्रकाशस्वभावस्य प्रत्ययस्यानुत्पन्ननिर्विशेषत्वात् , इदमीदृशमित्यादिपराम. शमुषितवपुषि वेदने वेदनात्मकतैव न भवेत् , ये ऽपि वृद्धव्यवहारोपयोगिवैधु. र्यानवाप्तशब्दार्थसम्बन्धविशेषव्युत्पत्तयो बालदारकप्रायाः प्रमातारस्तेपि नूनं यत्तत्सत्किमित्यादि शब्दजातमनुल्लिखन्तो न प्रतियन्ति किमपि प्रमेयमतः श. ब्दान्मेषप्रभावप्राप्तप्रकाशस्वभावत्वात्सर्वप्रत्ययानाम ।
न सो ऽस्ति प्रत्ययो लेोके यः शब्दानुगमाढते । अनुविद्धमिव ज्ञानं सर्व शब्देन गम्यते ॥ इति ।
(वाक्य ब्र० १२ श्लोक ११४) एवमनभ्युपगमे तु सम्विदः प्रकाशशून्यतया ऽनधिगतविषयः सर्व एवा. न्धमूकप्रायो लोकः स्यात् । आह च
वाग्रपता चेदुत्क्रामेदवबोधस्य शाश्वती। न प्रकाशः प्रकाशेत सा हि प्रत्यवमशिनी ॥ इति ॥
(वा० ब० श्लोक १२५) अतः क्रमेण तावदेवं बोध्यसे शब्दाख्यविशेषणानुवेधविशेषाननुभवात्सर्व निर्विकल्पकमिन्द्रियजमविकल्पकंवा ज्ञानं शब्दविशिष्टमर्थमवद्योतयति गौः शु. क्लो गच्छतीति जातिगुणक्रियावच्छिन्नविषयावभासिनि प्रत्यये शब्दविशिष्ट ए. वार्थः प्रस्फुरतीति बुद्धयस्व, एवं चेद्बोधुमवतीर्णो ऽसि शब्दाख्यविशेषणानुर. तस्य तस्य विशेष्यस्य स्वरूपं पृष्टः शब्देनैव दर्शयसि शब्दापरित्यागलब्धप्रका. शस्वरूपयैव वा ऽनुभूत्यानुभवसीति सो ऽपि विशेष्यः शब्दरूप एवेति जानीहि. तदेवं शब्द एवार्थोपारूढ. प्रतिभातीति व्यवतिष्ठते, इत्थमियन्तमध्वानं चेत्पा. ________________

1००
न्यायमअयाम्

तोऽसि तदधुना यदुपारूढः शब्दः प्रकाशते तस्य पृथक् प्रदर्शयितुमनुभवितुं चाशक्यत्वाच्छन्द एव तथा प्रतिभातीति शब्दविवत एवायमों नान्यः कश्चिदिति प्रतिपत्तुमर्हसि, यथा चायमिन्द्रियजेषु प्रतिभासेषु प्रक्रमस्तथा शाब्देष्वपि प्रत्ययेषु शब्दविशिष्टो वार्थः प्रतिभाति शब्दो वार्थारूढः, शब्द एवार्थरूपेण विवर्तत इति गृह्यताम् , अतश्च शब्दब्रह्मदमेकमविद्योपाधिदर्शितविचित्रभेदमविद्योपरमे यथावस्थितरूपं प्रकाशत इति युक्तम् । • तत्राभिधीयते न खलु प्रकारत्रयमपीदमुपपद्यते । पदपदार्थसम्बन्धव्युत्पत्तिविरहिणामनवातशब्दयोजनावरूप्यसारूप्यमात्रप्रतिशुद्धवस्तुग्रहणप्रवणेन्द्रियजप्रत्ययदर्शनात् , वृद्धव्यवहारपरिचयाधिगतशब्दार्थसम्बन्धसंस्थाधियामपि शब्दस्मरणसंस्कारप्रबोधहेतुभूतप्रथमोद्भुतविशुद्धवस्त्ववभासस्यापरिहार्यत्वात, यत्र हि वस्तुनि निविशमानः शब्दः शब्दविद्वयवहारपु यो ऽवधृतस्तदर्शने त.
संस्कारप्रबोधात्स्मृतिपथमेति नान्यथेति, सामान्यशब्देष्वपि यत्तत्सत्किमित्यादिषु विशेषशब्देष्विव सैव वार्ता तेषामपि व्युत्पत्त्युपयोगविरहे विविधवनवि. हारिविहङ्गकूजितादिवार्थप्रतीतिहेतुत्वानुपपपत्तेः, सविकल्पकदशायामपि न वा. चकविशिष्टं वाच्यं मेचकगुणखचितमिव कुवलयमवलोकयति इति विस्तरतः प्रत्यक्षलक्षणे परीक्षितमेतत् । आह च
म शब्दाभेदरूपेण बुद्धिरर्थेषु जायते । प्राक् शब्दाद्याशी बुद्धिः शब्दादपि हि तादृशी॥ इति ।
(श्लोक० वा०प्र० १७२ ) संज्ञित्वमात्रमधिकमधुना ध्वनिसन्निधाने बुद्धिमधिरोहति न तद्विशिष्टोऽर्थः, तस्य हि श्रोत्रेण नेत्रणोभाभ्यां न केवलेन मनसा वा ग्रहणमुपपद्यते ऽतिप्रसङ्गात।
शब्दाध्यासवादखण्डनम् । शब्दो ह्यनेकधर्मके धर्मिण्येकतरधर्मावधारणाभ्युपायो भवति न तत्रास्मानमारोपयति न हि दीपेन्द्रियप्रभृतयः प्रतीत्युपायास्तदुपये रूपादावात्मानमारोपयन्त्यत एव तदुपायस्वभ्रमकृतस्तदभेदवादो ऽपि न युक्तः ।
न झपायादभिन्नत्वं तदुपेयस्य युज्यते।
रूपस्य न घभिन्नत्वं दीपाद्वा चक्षुषो ऽपि वा॥ अपि च-यदि शब्दादभिन्नो ऽर्थः प्रतिभात्येव को ऽध्यासार्थः१ अध्यासम्र. मस्त वैयाकरणानामेकाकारनिर्देशदोषनिर्मितो यथा गौरित्येप हि निर्देशो वा. च्यतबुद्धिवाचिनाम्, कस्त्वया दृष्टोऽर्थ इति पृष्टो गौरिति, कोदशं ते ज्ञान. मापनं गौरिति, कीदृशं शब्दं प्रयुक्तवानसि गौरिति, तत एषा भ्रान्तिः, वस्तुतस्तु विविक्ता एवैते शब्दज्ञानार्थाः, तदुक्तम् - ________________

अपवर्गनिरूपणम् ।
गवि सास्नादिमदूपा गादिरूपा ऽभिधायके । निराकारोभयज्ञाने संवित्तिः परमार्थतः ॥ इति ।
(श्लोक० प्र० सू० श्लोक० ११८५) एवमिन्द्रियजेष्विव शाब्देष्वपि प्रत्ययेषु न शब्दः स्वरूपमध्यस्यतीति युक्तम् , यदि च शब्दः स्वरूपेणाथै प्रतिपादयति तदा ऽक्षशब्दस्यैक्याद् देवनविभीतकरथाक्षेषु तुल्या प्रतीतिः स्यान्न चाक्षशब्दा भिन्ना इति वक्तव्यं रूपप्र त्यभिज्ञाऽनपायात्तदुच्चारणे चार्थत्रय्यां संशयदर्शनात, भवतिशब्दयोश्च सुप्तिङन्तयोस्तुल्यरूपत्वादध्यासपने तल्यार्थप्रतीतिहेतुत्वं प्राप्नोति, तथा च सिद्धसाध्यबुद्धिः संवेद्यमाना ऽपि निन्हूयेत, एवमगादित्यश्व इत्यजापय इत्या. दावपि द्रष्टव्यम् । - शब्दस्य सिद्धरूपत्वात्तध्यासेनाथबुद्धाविष्यमाणायां ‘यजेत दद्याज्ञहयादि’. त्यादौ न क चित्साध्यबुद्धिर्भवेत्सिद्धाध्यासेन साध्यबुद्धेरननुरूपत्वात् , जातिगुणक्रियाशब्दाश्च ‘गौः शुक्लो गच्छती’त्यादयः केन कारणेन नियतमध्यासम. नुरुन्धत इति नावगच्छामः, शब्दस्याानपेक्षनिसर्गशुद्धवश्वरूप्यकल्पनाबीजाभावात् , प्रतिनियतशब्दवृत्तेश्व कस्य चिल्लक्ष्मणा ऽनुपलक्षणात् , वृक्षपक्षश. ब्दयोश्च घटपटशब्दयोरिव स्वरूपभेदाविशेषादानपेक्षित्वाञ्च विशेषणविशेष्यभावसामानाधिकरण्ये शब्दाध्यासवादिनो न भवेताम, न ह्येकत्र वस्तुनि वा. च्ये क चिदनयोः शब्दयोवृत्तिः।
एतेन नीलोत्पलमपि प्रत्याख्यातम् , तत्रैतत्स्यात्-न नीलगुणविशषित. मुत्पलं नाम किं चिदस्ति विशेष्यम् अपि तु तन्निरस्तावयवार्थमश्वकर्णादिवदर्थाः न्तरमेवेदं व्युत्पत्तिप्रकारमात्रं तु विशेषणविशेष्यभाववर्णनमिति, तदेतदसमी. चीनम-अनुभूयमानावयवार्थप्रतीतिनिह्नवनिमित्तानुपलम्भात् , अश्वकर्णादौ हि युक्तमर्थान्तरत्वं तत्र हि नाश्वार्थो न कर्णार्थः, निरवयवाक्यार्थवादश्च प्रागेव विस्तरेण निरस्त इत्यलं पुनरुक्तालापेन ।
अथ शब्दाद्वयाभ्यासनिबन्धनमेव सामानाधिकरण्यं वृक्षः वृक्ष इत्युच्यते, तदपि न चारु, वृक्षस्तरुरिति पर्याययोरपि तत्सम्भवे सति सामानाधिकरण्यप्रसङ्गात् ।
अपि च पर्यायेषु ‘हस्तः करः पाणिरि’त्यादिषु शब्दरूपभेदाध्यासपक्षे ऽर्थबुद्विभेदः प्राप्नोति न चासावस्तीति नाध्यासः ।
किं च सम्बन्धग्रहणनिरपेक्षा ऽपि शब्दः स्वसामर्थ्यमनुरुध्यमानः स्वाध्यासेन बद्धिं विध्यात् तदपेक्षायां कस्य केन संबन्ध इति न बुध्यामहे, शब्दाद. र्थस्य पृथव्यवस्थितात्मनस्तन्मते दुर्लभत्वात् , शब्दव्यतिरिक्तार्थोपगमे वा कि. मनेन शब्दाध्याससमर्थनाडम्बरेण विरम्यतामतो मृगतृष्णानुसरणरणरणकात् । ________________

न्यायमअर्याम्
अपि चाध्यासः क चित्सादृश्याद्भवति शुक्ताविव रजतस्य व चिदनुरागाद्भवति लाक्षाया इव स्फटिके शब्दार्थयोर्मू मूर्ततयातिदूरभिन्नस्वरूपयोः सादृश्यं तावदनुपनम् , अनुरागो ऽपि तत एव दुर्घटः पृथग्देशत्वाद्भिन्नेन्द्रियग्राह्यत्वाच ।
प्रतिबिम्बवर्णनमपि न सुन्दरम, दूरदेशत्वेन शब्दार्थयोः प्राप्तेरभावादप्राप्तयोश्च प्रतिबिम्बोदये द्वारकोद्याननिवासिवासुदेवसुन्दरीवदनतामरसानि सागरतरङ्गपवनपरिचयचलदलकलतिकालाञ्छितानि स्वच्छेषु ज्योत्स्नावदातद्युतिषु तुषारगिरिगह्वरगततुहिनशिलाकर्पूरदर्पणेषु प्रतिबिम्बतानि दृश्येरन् ॥
अथ सर्वगतत्वेन शब्दानामर्थदेशे प्राप्तिरभिधीयते, तर्हि सकलशब्दसार्थसाधारण्यादत्यन्तमध्याससांकर्यमनवधार्यमाणविशेषनियमकारणमापद्यत इत्यलमतिप्रसङ्गेन, सर्वथा न सम्बद्धः शब्दाध्यासवादः ।
शब्दविवर्तवादखण्डनम् । विवर्तवादोपि न समज्जसः, तथा हि विवर्ते क्षीरमिव दधिरूपेण परि. रणामित्वेन विकारितया वा क्षीरादेरिवानित्यप्रसङ्गात् , तथाभावे ऽपि च नाद्वैतसिद्धिर्दध्न इव क्षीरविकारस्य शब्दविकारस्यार्थस्य ततो ऽन्यत्वात, अन्यत्वाच्च बाधकारणकालुष्याद्युपप्लवविरहितकिसलयप्रतीतिसमर्पितभेदत्वात् । अथार्थप्रतिभासमसत्यमपीन्द्रजालवदुपदर्शयति शब्द इत्ययं विव. तार्थः, सो ऽपि न युक्तः, बाह्यस्य वस्तुनः पदाभिधेयस्य जातिव्यक्त्यादेर्वाक्यवाच्यस्यापि भावनादेः पूर्वप्रसाधितत्वात, अवयव्यादेश्वादूर एवाग्रे समर्थितत्वात, न चेन्द्रजालमायादिवदयथार्थतायामिह किमपि कारणमुत्पश्यामः । ___अथार्थरूपेण शब्दः शुक्तिरिव रजता कारतया ऽवभासतइतीयं विवर्तवाचोयुक्तिः इयमपि न साधीयसी,शुक्तिका हि रजतवत्प्रकाशत इति शक्यं वक्तुं शक्तराकारसारूप्येण तथा ऽवभाससम्भवात, इह तु शब्दार्थयोरत्यन्तविसह. शवपुषोराकारसमारोपकारणानवधारणात्कथमितररूपणेतरस्यावभासः, शुक्ति. कारजतादिप्रतीतिषु च बाधकवशात्तथात्वमवगतमिह तु धर्म(म)जहत्सत्या. मसत्यां वा ऽर्थबुद्धिमादधाति शब्द इत्ययं विवर्तार्थः, एषो ऽपि सम्प्रत्येव प्र. तिक्षिप्तः शब्दानुवेधविरहिणीनां प्राचुर्येण प्रतिपत्तीनां प्रदर्शितत्वात् , न चा. न्यः कश्चिद्विपश्चिच्चेतसि विपरिवर्तते विवर्तप्रकार इत्यवाचकमुच्यते विव. तते ऽर्थभावेनेति ।
अथ शब्दब्रह्मैव सजति जगन्तीत्ययं विवर्तप्रकार उच्यते, सो ऽपि न सम्यग अचेतनत्वेन शब्दस्येश्वरस्येव स्रष्टत्वानुपपत्तेः, नच परमाणुवदस्य का. रणत्वम् , अवयवसमवायित्वेन पृथिव्यादेः कार्यस्य प्रहणात् ।

. ________________

अपवनिरूपणम् । अथ ‘विज्ञानमानन्दं ब्रह्मेत्यागमवचनमनुसरता विभुत्वमिव चेतनत्वमपि शब्दब्रह्मणो वर्ण्यते, तश्विरस्यैव शब्दब्रह्मेति नाम कृतं स्यात् , यदप्युच्यते–
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ।
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ इति । तदपि ब्रह्मसुभितमत्यन्तमलौकिकमेकतरस्य ब्रह्मणः काल्पनिकत्वादका. हपनिकत्वे वा कथमद्वैतवादः, तस्मात्कृतमनेन शब्दब्रह्मणा स्वस्ति परस्मै ब्रह्मणे भूयात् , अविद्यामायाविनिर्मितविविधप्रथनकल्पश्च सत्ताद्वैतदूषणावस. र एव निवारित इति शब्दाद्वतमपि तद्वदसमन्जसमसिद्धम् ॥ ___एतेन परमात्मोपादानत्वमपि प्रत्युक्तम् , परमात्मनो निसर्गनिर्मलस्यैव. म्प्रायकलुषविकारकारणत्वानुपपत्ते, असत्यमेव विकारजातमविद्यातः पर. मात्मनि विभातीत्येतदपि दूषितमतः सर्वथा नाद्वैतपक्षः कश्चिदनवद्यः ।
अथ सर्वप्राणिनामेक एवात्मा नाना नात्मान इतीदृशमद्वैतमुच्यते, तदप्य. प्रमाणकमेकस्मिन् सुखिनि न सर्वे सुखिनः एकस्मिन्दुःखिते वा न सर्वे दुःखि. ता इति व्यवस्थादर्शनात् , आत्मपरव्यवहारस्य च सर्वजनप्रतीतिसिद्धस्य दुरपह्नवत्वात् , अन्यदृष्टे च सुखसाधने वस्तुनि स्मरणानुसन्धानपूर्वकेन्छाद्वेषा. दिकार्यजातस्यान्यत्रानुपलम्भात् , एकस्मिंश्च वीतरागे मोक्षमासादितवति सं. सारिणामन्येषामानन्त्यदर्शनात् , अहम्प्रत्ययस्य प्रत्यगात्मवृत्तः परत्रासम्भवात् , जगद्वैचित्र्यस्य च पुरुषभेदनियतधर्माधर्मनिबन्धनस्यान्यथाऽनुपपत्तः, आत्मभेदस्य विस्पष्टसिद्धत्वात् , तप्तलोहस्फुलिङ्गकघटाकाशपादवेदनादिदृष्टा. न्तकदम्बस्य च निषेधः कृत एवेति एकात्मवादोऽपि न युक्तिमानित्यलं विस्तरेण।
शब्दस्यायं विवर्तः कथमखिलमिति प्रस्फुरत्तद्विविक्तस्वाकारोऽर्थप्रपञ्चः कथमिव विकृतिब्रह्मणो वेदशी स्यात् । तस्मानानात्मतत्वे परिचितसदसत्कर्मपाकानुसार. प्रादुर्भूतेश्वरेच्छावशविचलदणुप्रोद्भवो भूतसर्गः ॥
विज्ञानाद्वैतमतम् । एवं स्थितेषु सर्वेषु तूष्णीमद्वैतवादिषु ।
विज्ञानाद्वैतवादी तु पुनः प्रत्यवतिष्ठते ॥ सत्यमनुपजनमनपायमेकमपरिमितमद्वयं ब्रह्म न युक्तिमदिति युक्त एव त. दनभ्युपगमः, विज्ञानमेव तु क्षणिकमुपजनापायधर्मकमनादिसन्तानप्रबन्धप्रवृ. त्तमिदं तथा तथाऽवभातीति न ततोऽद्वितीयमर्थरूपं नाम कि चिदस्तीति पश्यामः।
ननु प्रत्यक्षादिना प्रमाणेन परस्परविसदशपदार्थरूपसंवेदनस्य दर्शितत्वा. ________________

१०४
न्यायमअयाम् स्कथं विज्ञानस्यायमवभासः, अर्थाभावे तस्वरूपानुपपत्तेः, ग्राह्यग्रहणं हि विज्ञानं नाम भवति नाग्रहणमिति । ___ उच्यते, इदं तावत्परीक्ष्यतां यदेतत्प्रत्यक्षविज्ञानं नीलमिदं पीतमिदमुस्प. चते तत्र किमेक आकारः प्रकाशते उत द्वितीयमिति, यदि द्वितीयमवभाति अयमों नीलमिदं तज्ज्ञानमिति तकिमत्र विचार्यते जितं भवद्भिर्जितस्य यदापद्यते तदस्मासु विधीयताम , ___ अर्थक एवमाकारः प्रथते तद्यस्ति विचारावसरः, कस्यायमाकारः किमर्थस्य किं ज्ञानस्येति, स चैवं विचार्यमाण श्राकारो यद्यर्थस्येति स्थास्यति तद्भवन्तो जेष्यन्ति ज्ञानाकारपक्षे तु वयं जेष्याम इति, किं तावदत्र युक्तम , ज्ञानस्यायमाकोर इति, कुतः ? कल्पना भवति ह्यल्पीयसीति, अर्थाकारपक्षे ह्यर्थस्य जडात्मनः प्रकाशायोगात्तस्य ग्राह्यत्वमभ्यथा न स्यादिति ग्राहका. न्सरपरिकल्पनावश्यम्भाविनीति कल्पनाद्वैगुण्यम ।
अथार्थ एव ग्राह्यात्मा यः स एव ग्राहक इति कथ्यते, स तर्हि प्रकाश एवे. ति संज्ञायामेष विवादः स्यात् , बाह्यान्तरकृतो विशेष इति चेत , अहो विशेषज्ञो देवानांप्रियः, ग्राहकाद्विच्छन्नता हि ग्राह्यस्य बाह्यता, न शरीरापेक्षिणी बाह्यता भवति, यदा च ग्राद्यादर्थाव्यतिरिक्त एव ग्राहक इष्यते, तदाऽस्य ततोऽविच्छि. नतेत्यबाह्यत्वाज्ज्ञानमेव तदिति कथं न नाम्नि विवादः, उभयसिद्धत्वाज्ज्ञानस्य तस्यायमाकारो भवितुमर्हति ज्ञाने हि न के चन विवदन्ते अतस्तस्यैवायमाकार इति युक्तमनेककल्पनातो ह्येकार्थकल्पना ज्यायसीति, अतश्च ज्ञानस्यायमाकारः। __ज्ञानं हि प्रकाशकमप्रकाशस्यार्थस्य भवद्भिरभ्युपगम्यते ततश्चात्प्रथमत. रस्य ग्रहणेन भवितव्यमगृहीतस्य दीपादेः प्रकाशस्य प्रकाशकत्वादर्शनात, उत्प. नेष्वपि च घटादिष्वर्थेषु प्रकाशवैकल्याद्वा प्रतिबन्धवैधुर्याद्वा भवत्यग्रहणं ज्ञानस्य, उत्पन्नस्य सतो न कश्चिद्ग्रहणे प्रतिबन्धको, न च प्रकाशान्तरापेक्षणं स्वत एव दीपवत्प्रकाशस्वभावात् , अतो यदैव तस्योत्पादस्तदैव ग्रहणमवश्यं भ. वेत्, न चेत्कालान्तरेऽपि न स्यात, किं हि तस्य कालान्तरे भविष्यति किंवा तदा नाभूधन तत्कालान्तरे ग्रहोष्यते तदा च न गृह्यते इति, ज्ञानान्तरेण काला. न्तरे तद् प्रहीष्यते इति चेत् , तदपि केन ग्रहीष्यते, अन्येनेति चेत्, तदप्यन्येनेति को ऽवधिः, श्रम इति चेत्कामं श्रान्तो विरंस्यति भवानथे तु न गृहीतवानेव, प्रकाशाग्रहणे तत्प्रकाश्यपरिच्छेदायोगादित्येवं न कदा चिदर्थग्रहणं स्यात् , तस्मादर्थग्रहणवादिनाऽपि पूर्व ज्ञानग्रहणमवश्याश्रयणीयम् , यथोक्तम्-‘अप्रत्यक्षोपलम्भस्य नाथदृष्टिः प्रसिद्धयतीति ।
अतश्चैतदेवं ज्ञानपृष्ठेन चोत्तरकालमवमर्शदर्शनात् , ज्ञातो मयाऽयमर्थ इति हि प्रत्यवमृशन्तः प्रमातारः प्रथमं ज्ञानग्रहणमनुमोदन्ते, न घगृहीतवि. ________________

TA
अपवर्गनिरूपणम् । शेषणा विशेष्यबुद्धिर्भवति, तस्मादपि पूर्वज्ञानग्रहणमिति सिद्धम् , ज्ञानं च ग्राह्यमाणमाकाररहितं ग्रहीतुमशक्यमिति बलात्साकारमेव तद् ग्रही. तव्यम् , साकारे च ज्ञाने गृहीते सति द्वितीयकारणाभावात्कुतो ज्ञानाति. रिक्तो बाह्योऽर्थः अतश्च साकारं ज्ञानमाकारवत्तामन्तरेणास्य प्रतिकर्म व्यवस्थानुपपत्तेः, कल्पयित्वाऽपि बाह्यमर्थमवश्यमाकारवत्ता विज्ञानस्य विषयनियमसिद्धये वक्तव्या नीलज्ञानं हीदमनेकसन्निधाने समुपजायमानं कथमखिलतदितरपदार्थपरिहारेण केवलनीलानुलग्नतामवलम्बेत बोध. स्वभावतायाः सर्वान् प्रत्यविशिष्टत्वात् , प्रवृत्तिरपि प्रेक्षापूर्वकारिणां कथं तदेक. विषयैव स्यात् , न च नीलजनितत्वेनार्थत एष तदधिगतिनियम इति कथयितुमुचितमालोकलोचनादिकारकान्तरजनितत्वस्यापि भावे तद्विषयत्वप्रसङ्गादतो नीलाकारतेव नीलविषयत्वव्यवस्थाहेतुर्न निमित्तान्तरम् , आह च
तत्रानुभवमात्रेण ज्ञानस्य सहशात्मनः ॥
भाव्यन्तेनात्मना येन प्रतिकर्म विभज्यते ॥ तत एवाकारग्रहणमेवातिशयमाश्रित्य तमबर्थसमर्थने सति साधकतमं ज्ञानमेव पमाणं भविष्यत्यपरथा कारकातिशयदर्शनाभावे तत्तत्साधकतमत्वस्य दुरुपपादत्वात् , साकारज्ञानसाक्षी च लौकिको ऽपि दृश्यते व्यवहारः, एवं च वक्तारो भवन्ति लौकिकाः ‘नीलो ऽर्थो ऽयं यतो ऽत्र तदाकारं ज्ञानमुत्पन्न. मिति’ तेन पतिकर्मनियमान्यथाऽनुपपत्तेरवश्यं साकारमेव ज्ञानम् ।
इत्थं सत्यपि बाह्यार्थ ज्ञानस्याकारकल्पना ।
भवेदेवेति तत्रैव सन्तोष्य स्थीयतां वरम ॥ ये तु ज्ञानस्य स्वतः स्वच्छस्वभावत्वेन नीलपीताद्यवभासः परोपाधिरेव भवितुमर्हति स्फटिकस्येव लाक्षादिना ऽरुणिमाद्यनुवेधः, अतः पृथगननुभूय. मानोऽपि बाह्योऽर्थः साकारज्ञानावभासाऽन्यथाऽनुपपत्याऽनुमीयते, यथोक्तं’बाह्यसिद्धिः स्याद् व्यतिरेकत’ इति । तदिदमनुपपन्नम् , अन्वयानुपलब्धेः ॥
अर्थे ज्ञानं हि साकारं निराकारं तदत्यये ।
नित्यानुमेयबाह्यार्थवादी ज्ञानं क दृष्टयान् ॥ लाक्षास्फटिकादौ तु तथा युक्तं तदनुरक्तस्फटिकावलोकनाद्, इह पुनः
अर्थेन रज्यमानं हि निराकारं निसर्गतः ।
ज्ञानं न खलु पश्यामो लाक्षया स्फटिकं यथा ॥ आकारद्वयप्रतीतिहि नास्तीत्युक्तमभ्युपगमे वा दुरुत्तरमनवस्थादूषणम् , अर्याकारश्च प्रत्यक्षस्तत्कृतश्च ज्ञानाकारः प्रत्यक्ष इत्युच्यमानेऽर्थीकारस्ता. वत्साकारेण ज्ञानेन गृहीतः स इदानीं ज्ञानाकारोऽपि प्रायत्वात्साकारज्ञानान्तरमाय एव स्यादित्यनिष्ठम् ! ________________

न्यायमर्याम्
अथ स्वप्रकाशं तत्साकारं ज्ञानमिष्यते तेन ज्ञानान्तरापेक्षणान्नानवस्थेति, तहि स्वप्रकाशसाकारज्ञानव्यतिरिक्तार्थाकारानवभासात्तदेवास्तु कुतो द्वितीय इदानीमाकारः, न चान्यथाऽनुपपत्त्यापि तत्कल्पना युक्ति. मती, न हि राजशासनमिदमर्थेनाकारवता भवितव्यमिति, ज्ञानमेव नीलाद्याकारं यदि भवेत्को दोषः स्यादिति, नीलाद्याकारयोगादर्थस्स इति चेत्सं. ज्ञायां विवाद इत्युक्तम् , द्वितीयस्यामावात् , स्वच्छत्वाज्ञानस्य कालुष्यमन्य. कृतमिति चेदविद्यावासनाकृतं तद् भविष्यति, स्वतःस्वच्छमपि ज्ञानमनाद्यविद्या. वासनाविभवेन तत्तदनेकाकारकालुष्यरूषितवपुरिव प्रकाशते, ज्ञानवासनाभेद. संतानयोश्च बीजाकरवदनादित्वान्नास्य पर्यनुयोगस्यावसरः ‘कुतोवासना प्रवृत्ता’ इति, तस्मादनादिवासनावैचित्र्यरचितज्ञानवैचित्र्योपपत्तः कृतमनुमेयेनापि बाह्ये. नार्थनेति ज्ञानस्यैवायमाकार इति सिद्धम् , अतश्च ज्ञानमर्थरहितमपि गन्धर्वः नगरमायादिषु विस्पष्टमुपलभ्यते इत्यन्वयव्यतिरेकाभ्यामपि ज्ञानाकारत्वमव. गच्छामः, यदि च ज्ञानादर्थः पृथगवस्थितात्मा भवेज्ज्ञानान्तरेणाप्यसावुपलभ्येत न चैवमस्ति, तस्मादभेद एव ज्ञानार्थयोः, तथा ऽऽह-‘सहोपलम्भनियमादभेदो नोलतद्धियोः’इति, न च ज्ञानार्थसंसर्गधर्म आकारो भवितुमर्हति यदि हि पृथगर्थमनाकारं पृथक् च ज्ञानमनाकारमुपलभ्य संसृष्टयोआनार्थयोराकारवत्तामुपल. भेमहि तत इममाकारं संसर्गधर्म प्रतिपद्यमहि, न त्वयमस्ति क्रमः अर्थरहित. त्वे ऽपि च स्मरणस्वप्नादिज्ञानानामाकारवत्त्वमस्तीत्युक्तम् , अतः कथं संस. गंधर्म आकारः।
अपि च नक्षत्रं तारका तिष्य इति कथमेकस्मिन्नर्थे परस्परविरु. द्धलिङ्गसमावेशः, परिव्राजककामुककोलेयकानां च कथमेक एव वनितारूपो ऽर्थः कुणप इति कामिनीति भक्ष्य इति च प्रतिभासत्रितयविषयतामनुभवेत् , दारा इति कथमेकैव स्त्रीव्यक्तिः पुंवचनबहुवचनविषयतां यायोत्, षण्णगरीति च कथं बहूनामन्यलिङ्गानामेकता स्त्रीलिङ्गता च भवेत् , इस्वदीर्घयोश्च कथं परस्परापेक्षग्रहणयोरर्थेनैकतर श्राकारः पारमार्थिकः स्यात् , ज्ञानानां तु भि. नत्वाद्विचित्रवासनाभेदसहकारिरूपानुविधानेन जायमानोनां न कश्चिदपि विरो. धः, तस्माज्ज्ञानमेवेदं सर्वत्र तथा तथा प्रतिभाति न तद्यतिरिक्तो ऽयों नाम क. श्चिदिति ज्ञान एव चैकत्रायं प्रमाणप्रमेयप्रमितिव्यवहारः परिसमाप्यते, तस्य हि विषयाकारता प्रमेयं प्राहकाकारता प्रमाणं स्वसंवित्तिश्च फलमिति, यथोक्तम्
यदाभासं प्रमेयं तत्प्रमाणफलते पुनः ॥ __ ग्राहकाकारसंवित्योस्त्रयं नातः पृथक कृतम् ॥ इति ॥ तदिदमनायविद्यावासनाविलासविपर्यासिततत्त्वदर्शनतया ज्ञानमेव प्रामग्राहकसंवित्तिभेदवदिव लक्ष्यते, अविद्याविरतौ तु स्वच्छमेव तत्सम्पद्यते न ________________

अपवनिरूपणम् । किश्चिद्वेति, तदुक्तम्
नान्यो ऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवो ऽपरः । ग्राह्यग्राहकवेधुयोत्स्वयमेव प्रकाशते ॥ अविभागो ऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः । प्रााग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥ इत्यर्थरूपरहितं संविन्मात्रं किलेदमिति पश्यन् । परिहत्य दुःखसंसृतिमभयं निर्वाणमाप्नोति ॥
विज्ञानवादिमतखण्डनम् । अत्राभिधीयते, न खल्वेक एव बोधात्मा ग्राह्यग्राहकोभयस्वभावो भवि. तुमर्हति ग्राह्यग्राहकरूपयोरितरेतरविसदृशत्वेनैकत्र समावेशानुपपत्तेः, तथा हि नीलज्ञानं पीतज्ञानं शक्लज्ञानमिति नीलपीताापजनापायेऽप्यनुवर्तमानबोध. रूपता नीलादिविलक्षणान्वयव्यतिरेकाभ्यामवधार्यते ।
अपि च ज्ञानमहंकारास्पदमानन्दादिस्वभावं स्वकर्मणि च सव्यापारमिव भवनिरभ्युपगतमर्थस्तु नैवमात्मक इति कथमनयोरभेदः, यद्यपि ज्ञानमिदमयमर्थ इत्येवमाकारद्वयप्रतिभासो नास्ति तथा ऽप्ययमेको ऽप्याकारः प्रतिभासमा. नः प्रकाश एव प्रतिभाति न प्रकाशकः, इदं नीलमिति ग्राहकाद्विच्छिन्न एव प्राधाकारोऽवभासते न वह नीलमिति तदैक्येनावभासो ऽस्ति ,
अपि च प्रकाश्यस्य नीलादेः प्रकाशकबोधाधीनं युक्तं नाम ग्रहणं बोधस्य तु तद्ग्राहकस्य तदा किं कृतं ग्रहणमिति चिन्त्यम् , न बोधान्तरनिबन्धनमन. वस्थाप्रसङ्गात् , नापि स्वप्रकाशं ज्ञानमहं नीलमित्यप्रतिमासात् ॥
ननु नैव ग्राह्यग्राहकयोरन्यत्वमिति या ऽयं ग्राह्यावभास इति भवता ऽभ्य. पगतस्स एव ग्राहकावभासः , ग्राहकादन्या हि ग्राह्यो जडात्मा भवेत . ग्राह. कस्तु प्रकाशस्वभावो ग्राहकत्वादेव द्वयप्रतिभासश्च नास्तीत्युक्तम् , ततोन्यतर. स्य प्रकाशने जडप्रकाशयोः कतरस्यावभासितुं युक्तमिति चिन्तायां बलात्प्रका. श एव प्रकाशते न जडः , निराकारश्च न प्रकाशः प्रकाशत इति तस्मिन्साकारे प्रकाशमाने चतो जडात्मा तदतिरिक्तो ऽर्थः स्यात् ।
तदिदमपेशलम् , उपायेनोपेयनिहवस्याशक्यकरणीयत्वात् , रूपस्य हि प्रकाशकं चाक्षुन चक्षुरेव प्रकाशतामित्युक्त्वा रूपमपकोतुं शक्यते, तदिदमर्थस्य मूर्तिद्रवत्वकाठिन्यादिधर्मविशेषितात्मनस्तद्विपरीतस्वच्छस्वभावं ज्ञानं प्रकाशक स्वभावत्वात् , चक्षुर्जन्यो हि प्रकाशो नाम ज्ञानमुच्यते नचागृहीतः प्रकाशः प्र. काश्यं प्रकाशयतीति, चक्षुर्जन्यः प्रकाशो ज्ञानमुच्यते स तु प्रकाशो रूपादिविष. यप्रकाशो न प्रकाशप्रकाशः , न हि चक्षुषः प्रकाशः प्रकाश्यते ऽपि तु रूपं प्र. काश्यते , तत्र यद्विमित्युच्यते स विषयो ग्राह्यः यत्तत्प्रकाशते इत्युच्यते स प्र. ________________

१०८ काशो ज्ञानं ग्राहकं तदुत्पत्तिमात्रेण च रूपं प्रकाशितं भवतीति न प्रकाशो प्रह एमपेक्षते,
ननूक्तमत्र नानुपलब्धायां बुद्धावर्थः प्रकाशते ऽ प्रत्यक्षोपलम्भस्य नार्थः दृष्टिः प्रसिध्यती’ति, तदयुक्तम् , अप्रत्यक्षोपलम्भस्य च प्रत्युतार्थदृष्टिः सि. द्धयति , उपलम्भोत्पाद एवार्थदृष्टिर्न पुनरुपलम्भदृष्टिः ।
ननुपलब्धेरग्रहणे तदुत्पाद उत्पन्नोपलम्भस्याप्यर्थः प्रत्यक्षः स्यादिति सर्वसर्वज्ञत्वप्रसङ्गः, तदिदमतिसुभाषितम् , अर्थप्रकाशात्मैव खलूपलम्भः स कथमनुत्प मादुत्पन्नेन विशेष्यते , तस्मादर्थप्रत्यक्षीकरणात्मकत्वाज्ज्ञानस्य उत्पाद एवार्थप्रत्यक्षता न तद्ग्रहणमित्यगृहीतमेव ज्ञानमर्थप्रकाशकमिति युक्तम् । यत्वरूपत्वाज्ञानस्य पूर्व ग्रहणमुच्यते, तचक्षुरादिभिरनैकान्तिकमित्युक्तम्।
गृहीतं यदि च ज्ञानं भवेदर्थप्रकाशकम् । धूमवद्दीपवच्चेति वक्तव्यं यदि धूमवत् ॥ भवेदानुमेयत्वं यत्त्वयैव च दूषितम् ।
कारद्वयसंवित्तिविरहान्न च दीपवत् ॥ घटं दीपं च पश्यामीत्यस्ति द्वितयवेदनम् ।
न तु ज्ञानेन विज्ञेयं जानामीति द्वयग्रहः ॥ यदपि प्रकाशत्वाज्ज्ञानस्य दीपवत्पूर्वग्रहणमुक्तम् , तदपि व्याख्येयम् , प्रकाशत्वादिति को ऽर्थः ? प्रकाशयतीति प्रकाशत्वमिति, तचक्षुरादिभिरनैकान्तिकमुक्तमेव, अथ प्रकाशन प्रकाशः, तर्हि प्रकाशत्वादित्यसिद्धो हेतुः, न ह्यर्थप्रहणकाले बद्धः प्रकाशनमस्ति, अथ प्रकाशशब्दो बोधपयोय एव प्रकाशत्वाद बो. धरूपत्वादित्यर्थः, तदा साधनविकलो दृष्टान्तः प्रदीपस्य बोधरूपत्वाभावात् , अतश्व स्वसंवेदनपक्षो न युक्तियुक्तः स्वप्रकाशस्य कस्य चिदप्यदृष्टत्वात ,
ननु ज्ञानशब्ददीपास्त्रयः प्रकाशाः स्वपरप्रकाशा इत्याहुः, तदयुक्तं शब्द. दीपयोः स्वग्रहणेऽथ प्रकाशने च सामग्यन्तरसव्यपेक्षत्वात् , शब्दोऽर्थप्रकाशने समयग्रहणमपेक्षते, स्वप्रकाशने च श्रोत्रादि दीपो ऽपि चतराधपेक्ष एव गृह्यते पाहयति चार्थम् , इयांस्तु विशेषो-घटादिग्रहणे आलोकसापेक्षं चक्षुः प्रवर्तते
आलोकग्रहणे तु निरपेक्षमिति नैतावता दीपस्य स्वप्रकाशता स्यात् , इत्थं च मार्जारादिनक्तंचरचक्षुरपेक्षया सर्व एव घटादयः स्वप्रकाशाः स्युः, ज्ञानस्य तु परप्रकाशत्वमेव दृश्यते न स्वप्रकाशत्वमर्थप्रकाशकाले तदप्रकाशस्य दर्शितत्वात्।
मुधैव तस्माद्गणितास्त एते त्रयः प्रकाशाः स्वपरप्रकाशाः, आत्मप्रत्यक्ष. वादिनां त्ववस्थाभेदेन ग्राह्यप्राहकांशयोभदो विद्यते एवेति सर्वथा न स्वप्रकाशं विज्ञानम् ।
यदप्यभिहितमुत्पद्यमानमेव ज्ञानमनपेक्षत्वादप्रतिबन्धत्वाच तदैव गृ. ________________

अपवर्गनिरूपणम् ।
ह्यते नवा कदा चिदिति, तन्न साम्प्रतम् , तदानीं तद्ग्रहणसामध्यभावात् ,
न चाविबन्धमात्रेण प्रतीतिरवगम्यते ।
उपायविरहेणापि तदा ज्ञानस्य न ग्रहः ॥ न च जैमिनीया इव वयं ज्ञानं नित्यपरोक्षमाचधमहे ज्ञातो मयाऽयमर्थ इति कालान्तरे तद्विशिष्टार्थग्रहणदर्शनात् ।
शुक्लः पट इति ज्ञाने यथासौ भाति तद्गुणः । तथा ज्ञातो ऽर्थ इत्यत्र भात्यर्थो धीविशेषणः । न विशेष्ये च संवित्तिरगृहीतविशेषणा।
नानुसायधियं वेत्थं प्रतीयेत भ्रमाग्रहात् ॥ न च नित्यपरोक्षा बुद्धिरनुमातुमपि शक्यते इति च विचारितमेव, तदल. मनया कथया किमिति शाक्यमुत्सृज्य श्रोत्रियमिदानीमभियुज्महे ।
अतश्च यदुक्तं ज्ञानपृष्ठावमर्शदर्शनाज्ज्ञानग्रहणपूर्वकमर्थग्रहणमिति तन्न सार्वत्रिकमपि तु क चिदेव ज्ञाननिष्ठार्थसंवेदनात्तथा ऽभ्युपगम्यते, तस्मादथंग्रहणात्पूर्व ज्ञानस्यानवमासानिराकारत्वावसायविरहाच ज्ञानस्येवायमाकार इति कदाशाप्रलपितमेतदरुणाम्बराणाम् । ___ यत्पुनरभ्यधायि ‘ज्ञानाकारपक्षे कल्पना ऽल्पीयसी’ति, तत्र यथोक्तनीत्या प्रत्यक्षगम्ये बाह्ये ग्राह्येऽर्थाकारे कल्पनोक्तिः कीदृशी ? कीदृशं वा तदल्पस्वं मह. त्वमित्युभयसिद्धमपि यवादि ज्ञानस्य, तत्र यदि प्रमाणायत्ता वस्तुस्थितिः अर्थों ऽप्युभयसिद्ध एव, इच्छाद्वेषनिबन्धनायां तु वस्तुस्थितो ज्ञानमपि कथ. मुभयसिद्धं स्यादिति यत्किंचिदेतत् ।
यत्पुनरिदमभिहितमभ्युपगम्यापि बाह्यमर्थमप्रत्याख्येयः प्रतिकर्मव्यवस्थासि. द्धये ज्ञानस्याकारयोग इति, तदपि न साम्प्रतम् , प्रतिकर्मव्यवस्थायाः प्रकारा. न्तरेणाप्युपपत्तेः।
यदप्यनेकसन्निधाने नीलज्ञानमुपायते यद्यपि बोधरूपत्वमशेषसाधारणं तथा ऽपि नीलेनैव कर्मकारकेण तदुपजनितमिति नीलनिष्ठमेवावतिष्ठते, चक्षुरादिना ऽपि तज्जनितमिति चेत्सत्यं जनितं न तु कर्मभूतेन तदुत्पाद्यते इति तदेकविषय. मेव भवति, कुत एष नियम इति चेद्वस्तुस्वभावत एव, आकारपक्षे ऽपि समानो ऽयं पर्यनुयोगः।
यदुच्यते किमिति नीलमेव कर्म कारक किमिति वा कर्मविषयमेव ज्ञानमिति, तत्र वस्तुस्वभावैरुत्तरं वाच्यम , आकारमपि च ज्ञानमुपाददानमर्थस्यैव कथमुपाददीत न कारकान्तरस्येत्यत्रापि वस्तुस्वभाव एव शरणमिति, अर्थस्य च शानजनकत्वमन्वयव्यतिरेकाभ्यामवगम्यते । ________________

११०
न्यायमअर्याम
यदा हि देवदत्तार्थी कश्चिद् ब्रजति तद्गृहम् । तत्रासन्निहितं चैनं गत्वा ऽपि न स पश्यति ॥ क्षणान्तरे स आयान्तं देवदत्तं निरीक्षते।
तत्र तत्सदसत्त्वेन तथात्वं वेत्ति तद्धियः ॥ अनागते देवदत्ते न देवदत्तज्ञानमुदपादि तस्मिन्नागते तदुत्पन्न मिति तदा. वभावित्वात्तज्जन्यं तदवसीयते, इत्थं च तज्जन्यत्वेन तत्र नियमसिद्धेरलमाकारकल्पनया, एतेन पुरुषप्रवृत्तिरपि नियतविषया व्याख्याता, साधकतमत्वं तु सामग्रयाः प्रमाणसामान्यलक्षणे निर्णीतमेव ।
यस्तु लौकिकव्यपदेश उदाहृतः, सो ऽपि व्यभिचरति नीलोऽयं यतस्तद्विषयं ज्ञानमुत्पन्नमित्यपि न तद् व्यपदिशन्ति लौकिकाः, तस्मा दर्थे सत्यपि साकारं ज्ञानमेषितव्यम्’ इति यदुक्तं तदनुपपन्नम् ॥
यदप्यवणि सहोपलम्भनियमादभेदो नोलतद्धियोरिति, तदपि बालभाषित. मिव नः प्रतिभाति अभेदे सहानुपपत्तः, अर्थकोपलम्भनियमादिति हेत्वर्थों विवक्षितः, तदयमसिद्धो हेतुर्नीलादिग्राह्यग्रहणसमये तग्राहकानुपलम्भात, ग्राहकाकारानुवेधरहिततद्विच्छिन्नो बाह्यग्राह्यमात्रप्रतिभास एवायं नीलमिद. मित्यादि दर्शितः, कचिच्च ग्राह्याकारानुपश्लिष्टकेवलग्राहकावमर्शनमपि दृश्यते न स्मरामि मया को ऽपि गृहीतोऽर्थस्तदेति होति, तदेवमितरेतरविभक्तज्ञाना
कारसंवेदनात्कथमेकोपलम्भनियमादभेदो नीलतद्धियोरित्युच्यते, नीलतद्धि. योरिति च वदता भवताऽप्येष भेद एव निर्दिश्यते, परमतानुवादमात्रमेतदिति चेन्नाभेदे पृथङ निर्देशस्याप्यघटमानत्वात् , तस्मादपि न ज्ञानस्यायमाकारः । __ यदप्युक्तम् ‘असत्यपि बाह्ये ऽर्थे स्वप्नगन्धर्वनगरमायादिषु ज्ञानस्याकारवत्ता दृश्यते इति तस्यैवायमाकारो युक्त’ इति, तदपि दुराशामात्रं-सर्वत्र ज्ञानाद्विच्छिन्नस्य ग्राह्याकारस्य प्रतिभासनात् , तथा हि-भ्रमज्ञानेषु चतुष्टयी गतिरात्मख्यातिरसतख्यातिरख्यातिविपरीतख्यातिर्वा, तत्र रजतमिदमिति सामानाधिकर. ण्येनैकार्थप्रतिभासात्तन्मते च संवित्तेरपरोक्षत्वाद्रजताधिगमाभिधानेन तदर्थ.. नस्तत्र प्रवृत्त धकप्रत्ययस्य तथाविधबोधनिषेधपरत्वेन प्रादुर्भावान तावदख्यातिरिति प्रायिव प्रसाधितमेतत्
___ असत्ख्यातिनिरासः । असख्यातिरपि नास्ति एकान्तासतः खपुष्पादेः प्रतिमासायोगात् , देश. कालव्यवहितानुभूतपूर्वपदार्थविषय एष भ्रान्तोऽपि प्रत्ययः प्राणभृतां भवति म स्वत्यन्तासदर्थविषयः , तथा हि द्विविधा भ्रान्ति यन्द्रिय मानसी च, तत्र बान्द्रियजे भ्रमज्ञाने विषयदोषादिन्द्रियदोषाद्वा समुत्पद्यमाने नक ________________

अपवनिरूपणम् । चिनिरालम्बनता दृश्यते भास्वररूपसादृश्येन हि विषयदोषेण शुक्तिकारज. तमिति परिस्फुरति, मरुस्थलपतितोत्फलितं सावित्रं तेजस्तरलतरङ्गसारूप्येण पय इति चकास्ति , इन्द्रियदोषादपि पित्तोपहतरसनस्य तिक्ततया शर्करा. ऽवभासते , तिमिरसीमन्तितनयनवृत्तेश्चन्द्रमण्डलमेकमपि द्विधा प्रतिभाति तिमिरकणनिकरविवरविरचितप्रसृताश्च नयनरश्मयः सूर्याशुसंवलिताः सन्तः सूक्ष्मतया केशकूर्चकाकाराः प्रतिभान्तीति ॥
अन्तःकरणदोषेण विभ्रमो यस्तु जायते । असत्यपि महेलादौ पुष्पेषु मुषितात्मनाम् ॥ सो ऽपि कश्चिद्विषयदोषहा भवति कुत्र चित् । कोमलानिलकल्लोलवेल्लिते बालपल्लवे ॥ अनपेक्षिततत्तुल्यपदार्थस्यैव या पुनः ।
मानसी मन्मथोन्मादमहिम्ना मानिनीमतिः ॥ तस्यामपि रोगादिवासनाबलेपिप्लवमानसंवृत्यायुपस्थापितदेशकालव्यवहि. तोपलब्धपूर्वपुरन्धिरूपः समुल्लेखा न त्वेकान्तासतः खरविषाणादेरिव, प्रति. भानिद्रादिमनादोषजन्मनि स्वप्ने ऽपि दृष्टपूर्वस्यैव तस्याकारस्योल्लेखः ।
ज्वलज्जलगलद्वह्निद्रवदद्रयादिदर्शने । रूपमन्यस्थमन्यत्र वेत्ति न त्वसदेव तत् ॥ तदेवं भ्रान्तबोधेषु नास्त्यत्यन्तासतां प्रथा ।
देशकालान्यथात्वं तु केवलं भाति वस्तुनः ॥ नन तत्रासतो ऽर्थस्य प्रतिभासे देशान्तरादिषु सत्त्वं कोपयुज्यते देशान्तरे दि सनसन्वा ? तत्र तावन्नास्त्येव सोर्थः , न च द्वयोरसत्त्वयोः कश्चिद्विशेषः दे. शकालावपि किं सन्तावसन्तौ वा प्रतिभासेते इति विकल्पनायां तथा तयोरपि. तुल्यो दोषः । " मैवम् भवतो ऽप्यसत्ख्यातिवादिनः किं सर्वत्रैव तदर्थासत्त्वं सम्मतमुत तद्देश एव, तत्रासन्निधानमात्रेण तावत्क इव तव स्वार्थः, सर्वत्रासतस्त्ववभासे कुतस्त्य एष नियमो यदसत्त्वाविशेषे ऽपि रजतादि संप्रति न खरविपाणादीति , अयं च द्वयोरसत्त्वयाविशेषः देशान्तरादिपु सतो ऽर्थस्य स्मरणाद्युपारोहेण प्र. तिभासमानता दृश्यते न त्वेकान्तासत इति, एवं देशकालयोरपि सदसद्विकल्प. चायं परिहर्तव्यम् , अतश्च किं चिदपि नात्यन्तासदर्थवाहि ज्ञानमस्तीति किं दृष्टान्तबलेन सर्वत्रार्थशून्यता कल्प्येत तस्मानासख्यातिः ।
आत्मख्यातिनिरासः । मात्मख्यातेस्तु निराकरणाय सेो ऽयमियान्कलिवर्तते, तत्र च बहुशः कथिवं प्राहकाद्विच्छिन्नमेव प्राह्यमवभासते नीलमिदमिति न तु तदभेदेन नील. ________________

न्यायमअर्याम्
.
महमिति, भ्रान्तिज्ञानेषु तदर्थसन्निधानाद् भ्रान्तत्वमस्तु नात्मतत्वग्रहणमिति यच्चायते, तदन्तःयरूपं हि बहिर्वदवभासते इति सेयं विपरीतख्यातिरेषाङ्गी. कृता स्यात् , तद्वरमेव तपस्विनी साधीयसी॥
अथ कथ्यते प्राहकात्सत्यं विच्छिन्नं ग्राह्य तत्त्वज्ञानरूपमेवेति, तत्र विच्छि• अमिति प्रियमावेदितं ज्ञानत्वे तु तस्य का युक्तिः , न च ज्ञानयोर्युगपदुत्पन्नयोी क्रमभाविनार्वा ग्राह्यप्राहकभाव उपपद्यते योगपद्ये सव्येतरगोविषाणवद् प्रा. पप्राहकनियमाभावात् , क्रमपक्षे ऽपि पूर्वमुत्तरस्य ग्राहकात्तदुत्पत्तिस्तद्ग्रहणका. लप्रतीक्षणात् क्षणिकतां जह्यात् , उत्तरमपि यदि पूर्वस्य ग्राहक तथा ऽपि सैव वार्ता , तावत्कालस्थितिमन्तरेण तद्ग्राह्यताऽनुपपत्तेः, न च ज्ञानत्वं नाम सामान्य ग्राह्यग्राहकयोरनुगतंगोत्वमिव शाबलेयादो भाति, अतो विच्छिन्नश्चे. दुप्राहकांग्राह्यः सोऽन्य एव भवेदिति न ज्ञानस्यायमाकारः , यत्तु संसर्गधर्म आकारो न भवति इति भाषितं, तद्युक्तमेव,
न कुण्डदधिवत्कश्चित्संसों ऽस्त्यर्थबोधयोः ।
तत्कृताकारवत्ता वा प्रागनाकारयोस्तयोः ॥ तदेवं शाक्योक्तयुक्तिकौशलदौर्बल्यात्सर्वत्र विच्छेदप्रतिमासात्स्वच्छात्मनः श्व ज्ञानस्य स्वतो विचित्रत्वानुपपत्तेः अर्थस्यैवायमाकार इति सिद्धम् । __ यत्त्वाकारपक्षे चोदितमेकत्रार्थे नक्षत्रं तारका तिष्य इति परस्परविरुद्धाका. रसमावेशो न युक्त इति, तत्रोच्यते-अनुपपन्नमिति नः क संप्रत्ययो यन्त्र प्रमाणेनावगतं विरुद्धमपि तद् बुद्धयामहे यदेकत्र निविशमानं न पश्यामः, तदिह यद्यबाधितेन ज्ञानेन विस्पष्टमाकारत्रयमेकत्र गृह्यते तत्कथमनुपपन्नं स्याविरुद्धमिति ।
अथैकं सम्यक्प्रमाणपरिनिश्चितरूपमितरत्काल्पनिकमिति प्रतीयतेत देव. मस्तु को दोषः, दृष्टश्च चित्रादावनेकबलसमावेशः, न चैकत्र विरोधमविरोध वा दृष्ट्वा सर्वत्र तत्कल्पनमुचितमबाधितावगतिनिबन्धना हि वस्तुस्थितयो भवन्ति न कल्पनानिर्मिताः ॥
अपि वा वस्तुताद्रप्यसदसत्तानपेक्षया ।
शब्दप्रयोगसाधुत्वमन्वाख्यायेत केवलम् ॥ दारा इति नैकस्याः स्त्रीव्यक्तेः पुंस्त्वं बहुत्वं वा विद्यते शब्दस्त्वेष तत्र प्रयुज्यमानः साधुर्भवति ।
नार्थासंस्पर्शिता चास्य तावतां व्यवतिष्ठते । असो तदात्मकं वस्तु तथा शक्नोति भाषितम् ॥ परिबाटप्रभृतीनां च कुणपादिप्रतीतयः । अर्थस्यानेकशक्तित्वान्नावहून्त्यर्थशून्यताम् ॥ ________________

अपवर्गनिरूपणम्। किन भक्षयितुं शक्या नारी कौलेयकेन(१) मा। कि वा न शमयत्येषा कामिनो मदनज्वरम् ॥ शवादा केन रूपेण सा विशिष्येत योगिनः ।
धीत्रयं तु न सर्वेषामभावात्सहकारिणः ॥ प्रतिप्राणिनियतानेकविधवासनासहकारिसापेतो हि तस्य ज्ञामस्यात्मलाभ इति न सर्वेषां सर्वसारूप्येण ज्ञानम् ॥ ___ यद्येवं वासनाभेद एव विविधप्रतिभोद्भवहेतुर्भवति किमर्थकल्पनया, अयि साधो किमद्यापि न परिहरसि सुचिरं गुणितां कल्पनावाचायुकिं न ह्यर्थः कल्प्यतेऽपि तु प्रतिभासते एव, बहुरूपस्य तु तम्यैकतमरूपपरिच्छेदनियमे किमपि वासनादि कारणं क्वचित्कल्प्यते कस्तावताऽर्थनिह्नवस्यावकाशः ।
यन्चेत्थं-वासनाभेद एव ज्ञानवैचित्र्यकारणमितरेतर कार्यकारणभावप्रब. न्धश्व बीजाङ्करवदनादिनिवासनयोः-इति, तदप्यघटमानम , केयं वासना नाम? ज्ञानादव्यतिरिक्ता चेत्सा ऽपि स्वच्छम्पत्वान्न ज्ञानकालुष्यकारणं भवेत् , ज्ञान. व्यतिरिक्ता चेद्वासना तद्वैचित्र्यहेतुश्च सोऽर्थ एव पर्यायान्तरेणोक्त स्यात् ॥ ___ अपि च वासना विषयानुभवसमाहितः संस्कार इति लोके प्रसिद्भिः, सं. स्कारश्च यदनुभवघटितः तत्रैव क्वचिदवसरे स्मरणमनुभवति न पुनरसदेव वैचित्र्यमिदमीदशमावहति ।
किश्च भिक्षुपक्षे क्षणिकत्वेन ज्ञानानां प्राह्यप्राहकभाव इव वास्यवासकभावेऽपि निराकर्त्तव्यः , स्थायिनो हि भावास्तिलादयः स्थायिभिरेव चम्पका. दिभिर्वास्यन्ते न तूत्पर सपद्येव नश्यद्भिः ज्ञानस्तादंश्येव ज्ञानानीति ।
निरन्वयविनाशाच्च न तदंशो ऽनुवर्तते ।
यतः कथंचिद्वास्येत पूर्वण ज्ञानमुत्तरम् ॥ अपि चैकत्र देवदत्तसन्ताने वासना यतः सहस्राणि ज्ञानवैचित्र्यकारीणि भवेयुः, न हि गोवासनातो हस्तिज्ञानमुदेति ।
अनन्तत्वे ऽपि खल्वासामारम्भे नियमः कुतः । असम जसकारित्वे व्यवहारस्य विप्लवः ॥ धूमज्ञानसमुत्पादे धूमवासनया कृते ।
कं तदा न जलज्ञानं जनयेज्जलवासना ॥ वासनाश्च स्वसहशवासनासन्तानारम्भहेतव एव भवेयुः न पुनरनुभवज्ञा. नमाधातुमुद्यच्छेयुः , सदृशात्सहशोत्पत्तिरिति हि भवतां दर्शतम् ॥
अपि च न निराधारा वासना भासते न च भवत्पक्षे तदाधारः कश्चन स. म्भवति भकुरत्वेन ज्ञानस्य तदाश्रयत्वानुपपत्तेः , एकज्ञानाश्रितत्वे सर्वासां
(१) कोयकेन-शुना।

  • ________________

म्यायमअर्याम् वासनानां तद्विनाशे नाशः स्यात् , प्रतिवासनमाश्रयभेदे तदानन्स्यमनियमश्च शतशाखः , न चालयविज्ञानं नाम किंचिदस्ति, सत्यपि तस्मिन्नशेषवासनास. हस्रसमाश्रये तत्क्षणिकवात्सकदेव तथाविधवासनाकुमूलज्ञानविनाशः स्यात् , पुनरुत्पादे तथाविधमेव तज्ज्ञानमुत्पद्यते न तु गवाश्वादिक्रमनियमो भवेदिति सर्वथा सङ्कटोऽयं पन्थाः , तस्मान्मृगतृष्णैषा तपस्विनां वासनात एव लो. कयात्रासिद्धेः किं बाह्येनार्थेनेति ।
कृतमतिवाचालतयां घिरमपि निपुणैनिरूप्यमाणो ऽतः । अर्थस्यैव न बुद्धः सिध्यति नीलादिराकारः ॥ एकश्च बोधः प्रमितिप्रमाणप्रमेयरूपाणि कथं बिभर्ति । भिन्नप्रमाणात्फलमभ्यधायि प्रत्यक्षचिन्तावसरे पुरस्तात् ॥
बाह्यार्थशून्यत्वनिरासः । ये तु अवते-तिष्ठतु तावत्प्रमाणमात्रं प्रमेयमेव विकल्पयन्तो न बाधमर्थ के चन निरपवादं प्रतिपद्यामहे , तथा हि-न तावदयमवयवी घटादिरवकल्पते अवयवव्यतिरेकेणावयविनो ऽनुपलम्भात् , यो हि यस्माद्यतिरिक्तः स तद. धिष्ठितदेशव्यतिरिक्तदेशाधिष्ठान उपलभ्यते घटादिव पटो, न चैवमवयवेभ्यः पृथग्देशो दृश्यते , न चावयवानुपलब्धाववयवीति कथमेतेभ्यो भिद्यते, अषयवग्रहणानुपपत्तेश्च,-न हि सर्वे तदवयवाः शक्यन्ते ग्रहीतुमर्वाग्भागवर्तिन एव गृोरन्न मध्यपरभागगता इति, ( यदा?) बुद्ध्या विविनक्ति एष तन्तुरेष तन्तुरिति तदा प्राच्यादञ्चलात्प्रभृति प्रतीचीनमञ्चलं यावद्विविश्चन्नसौ तन्तुसन्ततिमेव केवलामुपलभते न ततोऽतिरिक्तपटावयविनम् , वृत्त्यनुपपत्तश्च,-नैकत्रा. वयवे कात्स्न्येनावयवी वर्तते , तेष्वपि कथं वर्तते अन्यैरेकदेशैस्तेष्वपि अन्यरिति नास्त्यन्यः , असम्बद्धस्त्वेकदेशैरवयवेवस्तीति कथं तद्द्वा. रकैरपि सम्बध्येत , तस्मादुभय्यपि नास्य वृत्तिरवयवेष्वस्तीति , धारणाकर्ष. णादि त्वनारब्धकार्ये काष्ठमूलककार्पासादावपि दृश्यते इत्यनेकान्तिकम् , एका. कारा तु प्रतीतिर्विकल्पमात्रम् एकदेशावस्थानादिनिमित्तमाश्रित्य करितुरगप. दातिष्विव सेनेति धवखदिरपलाशादिष्विव वनमिति सञ्चितेष्ववयवेष्वेव घट इत्यादिप्रतीतिर्भविष्यतीत्येवमवयव्यवयवावयवापर्यालोचनयाऽणुसञ्चयमात्रमेवावशिष्यते नान्यत् , सञ्चयोऽपि च व्यतिरिक्ताव्यतिरिक्ततया चि. न्त्यमानो नास्त्येवेत्यणव एवावशिष्यन्ते , परमाणवोऽपि ‘षट्केन युगपद्यो. गात्परमाणोषडंशते’त्येवं विकल्प्यमाना विप्लवन्त एव, न च रविसूमैरेष व्यवहारोऽभिनियंत इति, तस्माद् बाह्यस्य प्रमेयस्यैव निरूप्यमाणस्यानुपपतेर्विज्ञानमात्रमेवेदमित्यभ्युपगमनीयम्-(इति ? )।
P ________________

अपवर्गनिरूपणम् । तेप्येवं वदन्तः प्राक्तनेभ्योऽपि भिक्षभ्यः कृपणतरा इव लक्ष्यन्ते, अपूर्व एष तर्कमार्गो यत्र प्रतीतिमुत्सृज्य तर्जनीविस्फोटनेन वस्तुव्यवस्थाः क्रियन्ते ।
दृढेन चेत्प्रमाणेन बाधादिरहितात्मना । गृहीत एवावयवी किमेभिर्वालवलगितः ॥ अथ नास्ति प्रमाणेन केनचित्तदुपग्रहः ।
एतदेवोच्यतां वृत्तिविकल्पैः किं प्रयोजनम् ॥ न च शक्नुमः पदे पदे वयमेभिरभिनवमल्पमपि किंचिदपश्यद्भिस्तदेव पुनः पुनः प्रकुर्वद्भिः शाक्यनर्तकैः सह कलहमतिमात्रं कर्तुम् , अविकल्पं प्रत्यक्षं प्रमाणमिति साधितम्, निर्विकल्पकेनापि शब्दोल्लेखमात्ररहितमवि. कल्पकप्रायमेव वस्तु गृह्यते इति दर्शितम्, एकाकारविषयव्यतिरेकेण च तद्बु. धेरेककार्यस्वैकदेशव्यवस्थानाधन्यथासिद्धिनिबन्धनमपि न किंचिद्वक्तुं श. क्यते इत्युपवर्णितम् , कचिद्वा पृतनादौ बाधकोपनिपातादेवावगतिमिथ्यात्वान्न सर्वत्र मिथ्यात्वकल्पना युक्तत्यप्युक्तम् , किं वा तदस्ति यत्समान्यसमर्थनावसरे न कथितम् , तस्मात्तयैव नीत्याऽवयव्यपि सिद्ध एव तग्राहिणः प्रत्यक्षस्य निरपवादत्वात् ।
यत्तु देशभेदेनाग्रहणात्तद्ग्रहे तबुद्ध्यभावादिति, तत्रावयवाश्रितत्वमेव निमित्तं नासत्वम् ।
देशभेदेन हि ज्ञान तत्त्वे तस्य कथं भवेत् । न हि कश्चित्स्वतन्त्रोऽसावपि त्ववयवाश्रितः ॥ यावतां ग्रहणे चास्मिन बुद्धिर्भवति तावताम् । अपेक्षतेऽसौ ग्रहणं न सर्वेषामिति स्थितिः ॥ विविच्यमानेष्वंशेषु युक्तस्तदनुपप्रहः ।
तदावयविनाशो हि बुद्धौ विपरिवर्तते ॥ अवयवविभागो ह्यवयविनो विभागहेतुस्तस्मिन बुद्धया समुल्लिख्यमानेऽवयवविनाशोऽपि नानुल्लिखितो भवेदिति कथमवयवी तदानी गम्यते ।
वृत्तिश्चावयवेष्वस्य व्यासज्यैवेति गम्यते । न प्रत्यवयवं तस्य समाप्तिर्व्यक्तिजातिवत् ॥ व्यासज्य वर्तमानोऽपि न खल्वग्यवान्तरैः।
वर्तते तदसंवित्तः किन्तु वर्वत एव सः ॥ तथा चाहुः-‘वर्मत एव ब्रमः अनाभितस्यानुपलम्भात ।
वृत्तिरेवम्विधाऽन्यत्र के दृष्टेति यदुच्यते । प्रत्यक्षदृष्ट एवार्थे दृष्टान्तान्वेषणेन किम् ॥ ________________

মায়াজা
बाघार्थसाधनम् । तस्मात्प्रत्यक्षत एवावयववृत्तेरवयविन उपलब्धेर्न तवृत्तौ विकल्पाना. मवसरः , स्रक्सूत्रादिवृत्तिरपि तथा दर्शनादभ्युपगता, तदियमवयविवृत्तिरपी. हशी दृश्यमाना किमिति निन्हूयते, न चावयविग्राहिणः प्रत्यक्षस्य कश्चिदप. बादः समस्ति ।
अदुष्टकरणोद्भूतमनाविभूतबाधकम् ।
असन्दिग्धं च विज्ञानं कथं मिथ्येति कथ्यते ॥ न च सेनावनवदवयविप्रहणमभिधातुमुचितम् अबाधितत्वात्सेनादौ च बाधकसम्भवात् , अपि च गजवाजिपदातिपीलुपलाशशिशुपादिदर्शनस्य तत्र घटमानत्वात्तत्समवाये सेनावनादिप्रतीतिरुत्पद्यतापि इह तु किं समुदा. यविषयः पटप्रत्यय इति चिन्त्यम , तन्तुसमुदायालम्बन इति चेत् , तन्तुप्रत्यय इदानी किमालम्बनः , सो ऽपि स्वावयवालम्बन इत्येवमवयवावयवनिरूपणे परमाणवः पत्त्यश्वशमीशिशपादिस्थानीया वक्तव्यास्तेषां च तद्वद्महणमनु. पपन्नमतीन्द्रियत्वादिति न तदालम्बनोऽवयविप्रत्ययः , तस्मादवयवी प्रत्यक्षग्राह्योऽस्तीति सिद्धम् । परमाणवो ऽपि कार्यानुमानपरिनिश्चितनित्यनिरवयवस्वरूपाः सन्तीति पूर्वमेव समर्थितम् , अतो न षट्कयोगादिना सा. वयवत्वमेषामुपपादयितुं पार्यते , मूर्तत्वमप्यनित्यतायामप्रयोजकमिति दर्श. यिष्यतेऽतः प्रमेयपर्यालोचनवर्त्मनाऽपि शून्यवादसमर्थनं न सुशकम् , प्रमेय. विचारोऽपि निष्प्रमाणवृत्तमेव निरूप्यते, ततश्च प्रमाणचर्चातो बिभ्यद्भिः पलाय्य या प्रमेयकथावीथी तथागतैरवलम्बिता तस्यामपि सैव भीषणमुखी प्रमाणचचवोपनता ।
सर्वतो विपदा मार्गमादेशयितुमुद्यते । विधौ विधुरता यात प्रपलाग्य क गम्यते ॥ तस्मात्प्रमाणतोऽशक्ये शक्ये वा वस्तुनिणये । एवम्प्रायमयुक्तं यत्कुशकाशावलम्बनम् ॥ तेन निष्फलमुत्सृज्य शून्यवादबकवतम् ।
वाटेनवार्थजातेन व्यवहारो विधीयताम् ॥ अथास्थाशैथिल्यजननाय सबै शून्यं क्षणिक सर्वे निरात्मकमित्युपदिश्यते, तहि किमनेन मृषोद्यन, सत्यप्यात्मनि सत्स्वपि स्थिरेषु पदार्थेषु विषयदोष. दर्शनद्वारेण भवत्येव विवेकवतां वैराग्यमिति तदुपजननाय शून्यवादादिवर्णन वक्रः पन्थाः, प्रत्युत प्राज्ञो मुमुक्षः क्षणिकनैराम्यशून्यवादिवचनं युक्तिवा. धितमवबुध्यमानो वञ्चनाममिव तदुपदेशमाशते । ________________

अपवर्गनिरूपणम् । स एष बुद्धिशून्यानां शून्यवादपरिप्रहः । प्रतारणपराणां वा न तु तत्त्वार्थदर्शिनाम् ॥ तस्मात्परीक्ष्यमाणोऽयं शब्दायद्वेतपक्षवत् । विज्ञानाद्वैतपक्षोऽपि गन्धर्वनगरायते ॥
अपवर्गनिरूपणेोपसंहारः । तदेवमद्वैतदृशा न दृश्यते जनस्य नि.श्रेयससम्पदागमः । अतो यथोक्तात्मसतत्त्वचिन्तया कृतो व्यवस्येदपवर्गसिद्धये ॥ सांख्यर्यस्त्वपवर्गसाधनविधायुक्तः प्रकृत्यात्मनोरन्यत्वाधिगमोऽभ्युपाय इति स प्रागेव निर्वासितः । अज्ञा शक्तिमती विकारबहुला बन्नात्यकिचित्करं भूयो न प्रकृतिः पुमांसमिति वा कस्तां नियन्तुं क्षमः ॥ पुंसा न किचिदपि बन्धनिदानभूत. मत्यल्पमात्रमपि कर्म कृतं कदाचित् । मध्नाति तं प्रकृतिरेव निरङ्कशषा मत्ता करेणुरिव पद्मवनानि भूयः ॥ कचनिलुश्चनदिक्पटधारणक्षितिपराक्रमणक्रमपूर्वकम् । क्षपणकास्त्वपवर्गमुशन्त्यमी अतितरां परमार्थ वदस्तु ते ॥ लोम्नां नित्यमसम्भवात् खलतया मोक्षं क्षणात्प्राप्नुयुस्संसारोपरमो दिगम्बरतया सद्यस्तिरश्चां भवेत् । मुक्ताः स्युगिरिशृङ्गयायिन इमे शश्वत्तदारोहणा. जन्तुनामपवर्गवम निकटं केनेदृशं दर्शितम् ॥ तस्मादात्मज्ञानं सन्तो मोक्षप्राप्ती हेतुं प्राहुः । तीर्थे तीर्थ तचाचार्यस्तैस्तरुक्तं संज्ञाभद. ॥ यदपीह केचिदविकल्पमीश्वरप्रणिधानमाहुरपवांसाधनम । इदमात्मदर्शनमवादि तैरपि प्रथिता हि पुरुषविशेष ईश्वरः ॥ दृष्टा बाद्यान्तराणां गतिरियमियती नापवर्गस्य मार्ग स्प्रष्टुं द्रष्टुं समर्थास्त इति चिरमिह श्वध्र एव भ्रमन्ति । नेदीयानेष तस्माद्भवमरुपतितरक्षपादापदियः पन्थाः क्षमाय मोक्षाधिगमसमुचितः क्षिप्रमालम्बनीयः ॥
इति प्रमेयप्रकरणम् । इति भाजयन्तकृतो न्यायमञ्जर्या नवममादिकम् । ________________

মাজ
संशयलक्षणम् संशयादेः पदार्थगणस्य प्रमाणप्रमेयपदसंगृहीतस्यापि न्यायप्रवृत्तिप्रयोजनतया पृथग्व्युत्पादनीयत्वस्य प्रागेव समर्थितत्वात्प्रथमसूत्रे च प्रमेयानन्तरं संशयोदेशादुदेशानुक्रमेण तस्य लक्षणं प्रतिपादयितुमाह
समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः ॥ (गौ० अ० १ आ १ सू० २३) ___ ननु संशयस्य समानधर्मोपपत्त्यादिकारणभेदेन पश्वविधत्वात्सामान्यलक्षणं विभागो विशेषलक्षणानि च वक्तव्यानि, तत्र सामान्यलक्षणे विभागे च सूत्र. द्वयं विशेषलक्षणार्थं च पञ्चानां तत्प्रभेदानां सूत्रपञ्चकमित्येवं सप्त सूत्राणि प्रणेतुं युक्तानि एक चेदं सूत्रं श्रूयते तत्कथमेतद्भविष्यति ? ____ उच्यते, सत्यमाह भवान किन्त्वेकमेवेदं सुत्रमावृत्तिन्यायमाश्रित्य सप्तधा कल्पयिष्यते।
____ आचार्यव्याख्यानम् । तत्राचार्यास्तावदेवमाचक्षते । समानधोपपत्तेरुपलब्ध्यनुपलब्धिव्यवस्थातो विशेषापेक्षो विमर्शः संशयः इतीयत्सूत्रं सामान्यलक्षणप्रतिपादकम् , समानाने. कधर्मोपपत्तेविप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातो विशेषापेक्षो विमर्शः संशय इयदस्य विशेषलक्षणप्रतिपादकमिति, __ नन्वेतदेव सूत्र सामान्यलसणार्थमियदेव चेदमन्यूनानतिरिक्त विशेषलक्षणार्थमिति कथमेतत् ? उच्यते,विशेषस्मरणकारणभूतसाधारणधर्मग्रहणाद्विशेषाय. हणाद्विशेषस्मृतेश्च संशयो भवतीति प्रत्यात्मवेदनीयं साषदेतत् , तत्र विशेषापेक्ष इत्यनेन पदेन विशेषस्मरणमुपदिष्टमुपलब्ध्यनुपलब्ध्यव्यवस्थापदेन च विशेषाग्रहणमितीयता च द्वयोरपि समानविशेषसामान्यलक्षणयोः (संग्रहः ?) समानशब्दस्त्वाक्षिप्तसामान्यवचनः सत्सामान्यवचनमाह अनुगतसामान्यव. चनस्तु विशेषलक्षणमिति,
कथं पुनरयमेवाक्षिप्तसामान्यवचनः कथं वाऽनुगतसामान्यवचन इति ? उच्यते, संशयोत्पत्यैव सोमानधर्ममात्रमाक्षिप्यते यद्गृह्यमाणं विशेषस्मरणबीजसंस्कारोदोधनिमित्तवां प्रतिपद्यते तद्वयतिरेकेण संशयानुत्पादात् । तथा हि-विरुद्धविशेषावमर्शखभावस्तावत्संशयः, न च विरुद्धविशेषाणां पुरो. ऽवस्थिते धर्मिणि सन्निहितानामवमर्शनं विरुद्धतयैवैकत्र समिधा. मामावादतः स्मृत्युपारूढानामघमर्शनं स्मृतिश्च नाकस्मादुद्भवतीति यत्सहचरितानां तेषां विशेषाणां पूर्व पर्यायेण ग्रहणं वृत्तं तदर्शनसंस्कारप्रबो धद्वारेण स्मरणकारणमवश्यमेवाश्रयणीयम् , तथानुगतं वा भवतु व्यावृत्तं वि. ________________

संशयप्रकरणम् ।
११४ प्रतिपश्यात्मकं वा प्रान्तरमुपलब्भ्यनुपलब्ज्यव्यवस्थारूपं वेत्येवमाक्षिप्तसामा. न्यवाचिनि समानशब्दे पञ्चसाधारणरूपावगमात्सामान्यलक्षणार्थता, यदा त्व. नुगतमेव धर्ममारोहपरिणाहादिस्वभावमाचष्वे समानशब्दस्तदा विशेषल. क्षणार्थ इति ।
तत्र चेत्थं सूत्रयोजना-समानो धर्मः परिणाहादिः तस्य गुणत्वेन प्रति. द्रव्यमन्यत्वे ऽपि तुल्यरूपावगतिविषयीकृतत्वात्समानत्वमुच्यते, तस्योपलब्धि. रुपपत्तिः, अथापि सत्तोपपत्तिशब्देनोच्यते साऽप्युपलब्ध्यधीनस्थितिरेव भव. तीति सर्वथा समानधोपलब्धेः संशय इत्युक्तं भवति ।
ननु समानधर्मोऽर्थान्तरं धर्मिणो न चाऽर्थान्तरे दृष्टेऽन्यत्र संशयो भवितुमहति, नार्थान्तरविशेषत्वात् , अर्थान्तरविशेषस्तु धम्यवोच्यते ऽर्थान्तरेण परिणाहादिना विशेष्यत इति तस्मिन्नेव साधारणधर्माध्यासितवपुषिधर्मिणि नयनपथवर्तिनि तद्गतविशेषावमर्शात्मा तत्रैव संशयो जायते योऽयमूर्ध्वत्वविशिष्टधर्मा दृश्यते स स्थाणुर्वा स्यात्पुरुषो वेति नार्थान्तरत्वदूषणम् , तथाऽपि वक्रको. टरकरचरणादिविशेषदर्शिनो न दृष्टः संशय इति कारणान्तरमुच्यते,-उपलब्ध्यनुपलब्ध्यव्यवस्थात इति, अनेन (कथं?) विशेषाग्रहणमुच्यते, इत्थमुच्यते-इद. न्तयाःऽनिदन्तया वा तत्रोपलब्धिर्न व्यवतिष्ठते अनुपब्धिति, विशेषग्रहणे सति तद्वयवस्थानं सम्भवति, स्थाणुरयं न पुरुष इति वक्रकोटरादिविशेषग्रहणे, शिरःपाण्यादिपरिच्छेदे तु पुरुषोऽयं न स्थाणुरिति, एवमनेन पदेन विशेषग्रह. णमुक्तम्, तथाऽपि प्रेडारूढस्य साधारणधर्मदर्शिनो विशेषाननुपलभमानस्यापि न दृष्टः संशय इति कारणान्तरमुच्यते-विशेषापेक्ष इति, विशेषस्मृत्यपेक्ष इत्यर्थः।
ननु विशेषापेक्ष इति श्रूयते न विशेषस्मृत्यपेक्ष इति, सत्यमश्रयमाणमपि तत्स्मरणं संशयप्रस्तावादवगम्यते, स्मर्यमाणत्वेन हि विशेषाणां संशयोत्पत्तावरक्षा नानुभूयमानतया ऽनुभूयमानेषु हि तेषु संशयच्छेदो भवति न संशयः, अपेक्षाशब्दार्थनिरूपणादेव वा स्मृतिलभ्यते , विशेषाणामपेक्षा आकाङ्क्षा ते चानुपलभ्यमानाः पूर्वानुभूताश्चाकाझ्यन्ते इतीयं सा तेषां स्मृतिः, संप्रत्युपल. भ्यमानेष्वेकान्ताननुभूतेषु.वा तेष्वाकाङ्क्षानुपपत्तेः ।
ननु समानधर्मोपपत्तेविशेषस्मृतेश्चेति कारणद्वयमेवास्तु किं विशेषाग्रहणेन, अपि च
विशेषस्मरणादेव नन्वाक्षिप्तस्तदग्रहः ।
ग्रहणं स्मरणं चैव भवेतां युगपत्कथम् ॥ किन्तु नातिदूरगवायां निजप्रमदायामनुरागवतः कामिनः समानधर्मदर्शने तगतविशेषादर्शने तदनुस्मरणे च सत्यपि न भवत्येव संशयोऽतः संशयोत्पः स्थव्यभिचारे देशकालव्यवहितविशेषाग्रहणसिद्धये पदान्तरमपादीयते देशा ________________

१२०
न्यायमअर्याम् न्तरे कालान्तरे वा चिरदृष्टानां विशेषाणामिदानीमग्रहणं संशयकारणं न वि. शेषाग्रहणमात्रम् , एवममुना पदत्रयेण सशयलक्षणमिदमुक्तम् ॥
ननु च ‘संभूय कारकैः कार्यमारभ्यते’ इति न्यायात्समानधर्मोपलब्धिवि. शेषानुपलब्धितत्स्मृतिलक्षणकारणत्रय जन्ये संशये ज्ञानयोगपद्यमापद्यते, क्रममा वित्वे हि बुदीनां नैककार्योत्पत्तौ युगपद्वयापारः समस्ति, विशेषाश्च बहवोऽपि सम्भवन्तीति तस्मरणान्यपि युगपद्धयांसि भवेयुः॥ __ नैतदेवम , समानधर्मग्रहणानन्तरं पूर्वापजातविविधविशेषानुभवपरम्परोप. चितपीवरसंस्कारजमेव तद्विषयं स्मरणं भविष्यति यथा वर्णानामर्थप्रतीतो व. र्णितम, उपलब्ध्यनुपलब्ध्यव्यवस्थापदसचिता च विशेषानुपलब्धिरेव न सा ज्ञानात्मिका किन्तु ज्ञानाऽनुत्पाद इति तत्तृतीयं कारणमपि भवन्न ज्ञानात्मकम् , ज्ञानान्मके कारणे समानधर्मग्रहणं विशेपस्मरणं च, तयोः प्रथमं समानधर्मग्र. हणं विनश्यदवम्थं द्वितीयमविनश्यदवस्थं संशयमपजनयतः, ईदृशोश्च ज्ञानयो. यैाँगपद्यमविरुद्धमिति शास्त्रे स्थितम् , एवं समानधर्मग्रहणाद्विशेषाग्रहणाद्विशेष. स्मृतश्च संशय इति पदत्रयेण संशयलक्षणमनवद्यमुच्यते इति ।
सूत्रस्य व्याख्यान्तरम् । तदेतदाचार्यव्याख्यानमरोच्यन्तः परेऽपरथा व्याचक्षते-समान्यलक्षणं तावद्विमर्शपदेनैव प्रतिपाद्यते, न हिपर्या योश्चारणमात्रमिदं विमर्शः संशय इति किन्तु संशय इति लक्ष्यपदं विमर्श इति लक्षणप्रवणपदम , प्रमाणपदवञ्च निर्व. चनसव्यपेक्षमेतत्पदं लक्षणप्रतिपादनक्षम भवति, विरुद्धार्थावमर्शी विमर्शः स्थाणुर्वा पुरुषो वेति, इयता च सजातीयसंशयपञ्चकानुगतं विजातीयेभ्यः प्रमा. णादिभ्यो व्यवच्छिन्नं सामान्यलक्षणमुक्तं भवति, संशयोत्पादककारणपरिगणनं पुनरिन्द्रियार्थसन्निकर्षोत्पन्नग्रहणवदिहापि नोपयुज्यते कारणान्तराणाम. प्यात्ममनःसन्निकर्षादीनामपरिहार्यत्वात्-(इति?)। अत्राप्यसाधारणकारणनिर्देश श्चिकीर्षितस्तेनापि कोऽर्थः? सामान्यलक्षणस्य प्रतिपिपादयिषितत्वात्तस्य च वि. मर्षपदादेव सिद्धत्वात् , उपलब्ध्यनुपलब्ध्यव्यवस्थापदप्रतिपाद्यमानविशेषाग्रहण वर्णनं चातीव क्लिमिति पुनश्च विशेषलक्षणप्रसङ्गे यथाश्रुतमेव तद् व्याख्ये यमित्यतिभारः, एवं विमर्शपदेन विजातीयव्यवच्छेदकारिणि सामान्यलक्षणे वर्णिते समानधर्मोपपत्तरित्येकमेव पदं सजातीयसंशयान्तरव्यवच्छेदकारि विशेषलक्षणक्षम भवतीति तत्रापि पदत्रययोजनं नोपयुज्यते इति , अत्र व्या. ख्यानद्वयंऽपि कतरत्साध्विति तद्विदः प्रमाणम् ।
अनेकधमोपपपत्तेरित्यत्रापि त्रिपदपरिग्रहेणेनैव लक्षणमाचार्या वर्णयन्ति अनेकधर्मोपपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातो विशेषापेक्ष इत्यसाधारणधर्म प्राणाद्विशेषाग्रहणाद्विशेषस्मृतेश्च संशय इत्यर्थः , एकैकपदोपादानफलं च ________________

संशयप्रकरणम् ।
पूर्ववदत्रापि दर्शयितव्यम् , न चेन्द्रियमनःसंयोगादिकारणान्तरपरिगणन. चोदनं युक्तम् , तेषां सर्वबुद्धिजन्मसु तुल्यस्वादिहासाधारणसंशयज्ञानकारणो. पदेशप्रस्तावादिति ।
अन्ये तु सामान्यलक्षणसमुत्पादित विजातीयव्यवच्छेदे केवलसजातीयव्यवः च्छिन्नलक्षणप्रतिपादननिपुणमनेकधर्मोपपत्तिरूपमेव पूर्ववद्वर्णयाचक्रुः ।
“नन्वनेकधर्मशब्देन कथमसाधारणोधर्म उच्यते” समानजातीयमसमान. जातीयमनेकं तस्मात्परावृत्तीधर्मोऽनेकधर्म इति, यद्वा किमनया क्लिष्टकल्पनया, अस्त्ययमेकशब्दः समानपर्यायस्वत्र स्पष्ट एव नसमासेनासमानधर्मोऽनेकधर्मः साधारणधर्म उच्यते एवेति। ___ “भवत्वेवमसाधारणधर्मस्य तु कथं संशयकारणत्वमिति चिन्त्यम, विरुद्धविशेषानुस्मरणकारणकं हि संशयमाहुः, विशेषाणां च स्मरणहेतोः संस्का. रस्य तद्बोधकं भवति येन सहैते पूर्वपर्यायेणोपलब्धाः, असाधारणध. मस्य त्वसाधारणधर्मत्वादेव न केनचित्सह पूर्व दर्शनमभवद्भावे त्वसाधारणधर्मतैव हीयेतेत्यतः कथमसौ तस्मतिहेतुः, व्यावृत्ततयैव तु स्मतिहेतुत्वेऽस्य त्रैलोक्यस्मरणनिमित्तता प्रसज्येत ततोऽपि व्यावृत्तत्वादि"ति ।
नैष दोषः, प्रकारान्तरेणास्य स्मृतिहेतुत्वात् , इह हि केपुचित्केषुचिदसा. धारणधर्मा धर्मान्तरसहचरिता भवन्ति, तद्यथा पृथ्वीवगन्धवत्त्वादयो धर्मा. पृथिव्यामसाधारणास्सन्तः स्नेहवत्त्वादिधमाश्च तथैवाप्सु द्रव्यत्वसहचारिणो दृष्टाः, रूपादिषु रूपत्वादिधमो गुणत्वसहचारिणः, उत्क्षेपणादिषु उत्क्षेपणत्वा. दिधर्माः कर्मस्वसहचारिणः , एवं प्रकृतेऽपि धर्मिणि कम्मिंश्चित्कश्चिदसाधारणो धर्म उपलभ्यमानः केनापि साधारणधर्मान्तरेण सहचरितो भवेदिति विशेषा. नुस्मृतिद्वारेण संशयसाधनम् ।
“नन्वेवं तर्हि व्यावृत्तत्त्वादेव समानधर्मादेष संशयो नानेकधर्मादि"ति, मै. वम् , अनेकधर्म एवासौ तेन वर्त्मना विशेषान्स्मारयन्संशयजन्मने कल्पते , सति हि तस्मिन्किमालम्बनं व्यावृत्तत्वं स्यादित्यलमतिसूक्ष्मेक्षिकया। ___ तस्योदाहरणं भाष्यकारेण दर्शितं शब्दे विभागजत्वम् , यथा हि पृथिव्यादौ पृथिवीत्वादिः व्यावृत्तो धर्मो द्रव्यत्वाद्यनुगतधर्मसहचारी दृष्ट एवं शब्दे विभा. गजत्वं धर्मः केन द्रव्यत्वादीनामन्यतनेन धर्मेण सहचरितः स्यादिति संशयः ।
“ननु विभागजत्वमसाधारणं न भवत्येव शब्दधर्मों विभागेऽपि भावात, वथा च प्रयोगः–गुणः शब्दो विभागजत्वाद्विभागजविभागवद्” इति । ____तत्र केचिदाहुः, सत्यमस्ति विमागेऽपि विभागजत्वं, शब्दे तु विशेषो वि. वक्षितः, द्विविधो हि विभागजो विभागः-कारणविभागपूर्वकः कारणाकारण. विभागपूर्वकश्व, कारणं समवायिकारणमत्राभिप्रेतम , कारणविभागपूर्वकस्तान ________________

न्यायमअाम्
वचन्तुविभागात्तन्त्वाकाशविभागः, कारणाकारणविभागपूर्वकस्त्वगुल्याकाशविभागाद्धस्ताकाशविभागो हस्ताकाशविभागादपि शरीराकाशविभाग इति, शब्दस्तु नियमेनैव कारणविभागपूर्वकविभागप्रभवः वंशदलविभागाहलाकाश. विभागो दलाकाशविभागाश्च समवायिकारणाच्छब्दो निष्पद्यते इत्यनेन विशेषे. णास्येदृशविभागजत्वस्यासाधारणत्वं शब्दधर्मस्योच्यते इति ।
प्रासङ्गिक विभागजविभागखण्डनम् । अन्ये तु विभागजं विभागममृष्यमाणा यथाश्रतस्यैव शब्दे विभागजत्वस्यासाधारणधर्मतामाचक्षते ।
“ननु किमिति विभागजं ते विभागं न मृष्यन्ति ? अस्ति ह्ययं तसिद्धौ न्यायः-यदा ह्यषय कोत्पन्नमवयवान्तराद्विभागं करोति न तदाकाशादिदेशाघदा त्वाकाशादिदेशान्न तदाऽवयवान्तरादिति स्थितिः, किंकृता पुनरियं स्थितिरिति चेत् , उच्यते-या ह्यवयवक्रिया नभोविभागकारिणी नासौ द्रव्या. रम्भकसंयोगप्रतिपक्षभूतं विभागमारभमाणा दृश्यते दिनकरकिरणपरामशोपजनितकमलदलविकासकारिक्रियावत् , तदेव कथमिति चेत्, कमलस्य मुकुलविकासदशयोः प्रत्यभिज्ञायमानत्वेनाविनाशनिश्चयात् , इयन्तु पाट्यमान. वंशदलक्रिया द्रव्यारम्भकसंयोगप्रतिद्वन्द्विभूतविभागारम्भिकोपलभ्यते इति नासौ नमसो विभागमारभेतेत्यत एषा स्थितिरस्तीति विभागजविभागकल्पना क्रियते, संयोगान्तं कर्मति(च?) तावस्थितम्, अन्यथा हि तस्य कालान्तरस्थायित्वं नित्यद्रव्यसमवेतस्य च नित्यत्वं स्यात् , तस्मात्कर्मणोऽचिरजीवित्वात्तद्विनाशकेन संयोगेन भवितव्यम् , उत्तरश्च संयोगः पूर्वसंयोगोपरमे सति जायते नान्यथा, न च विभागव्यतिरिक्तः कश्चन संयोगस्य हन्ता समस्ति,
कर्म तूत्तरसंयोगजन्मनिर्जातकौशलम् ।
न हि प्राक्तनसंयोगविनाशाय प्रकल्पते ॥ तस्माद्विभागेनैव संयोगनाशकारिणा भाव्यम्, स च यदधिकरणो विभागस्त. दधिकरणमेव संयोगमुपशमयति न त्वङ्गुलिविभागः कुण्डबदरसंयोगोपमर्दाय प्रभवतीत्यतो न वंशदलवृत्तिविभागो दलाकाशसंयोगमपहन्तुमलमिति नूनं द. लाकाशसंयोगेन भवितव्यम् , तदिदानीं तस्योत्पत्तिकारणचिन्तायां क्रियाया वं. शदलविभागमात्रोपजनने चरितार्थत्वात्तं निर्माय विभागान्तरनिर्माणे विरम्य व्यापारासंवेदनादवश्यं वंशदलविभाग एव प्रत्यासन्नतया दलाकाशविभागार म्भकोऽभ्युपगमनीयः, एवमनभ्युगमे कर्मनित्यत्वप्रसङ्गादि"ति।
अत्र वदन्ति-न कर्मनित्यत्वमनभ्युपगम्यमानेऽपि विमागजे विभागे भ. विष्यत्युत्तरसंयोगस्य कर्मविनाशहेतोरस्तित्वात् । “पूर्वसंयोगानुपरमे कयं तदु. त्पाद” इति चेद्, बाढमुपरत एव पूर्वसंयोगः, “कस्तस्योपरमहेतुरिति चेत् , ________________

संशयप्रकरणम् ।
कर्म घुत्तरसंयोगनिमित्तं यदुपेयते । तदेव पूर्वसंयोगभ्वंसकारि भविष्यति ॥ न च यज्जनने शक्तमशक्तं तद्विनाशने।
हेतुर्दहनसंयोगः पाकजोत्पादनाशयोः ॥ यथा च विभागेऽधिकरणनियमो यदाधारो विभागस्तदाधारमेव संयोगं निरुणद्धि तथा कर्मण्यपि नियमः कर्मापि स्वाश्रयस्य यदन्यदिक्सम्बन्धनिबन्धनं तत्तद्विरुद्धदिग्वृत्तेः संयोगस्योपमर्दकमिति नातिप्रसङ्गः, एवं कर्माविष्टस्योत्तरसंयोगदर्शनमदूषणं दिगन्तसंयोगस्य तेनोपमर्दनात् , अपि च यदेव कर्म वंश. दलविभागकारि कथ्यते तदेव दलाकाशविभागकारि भविष्यति को दोषः ।
“ननु व्योमविभागकारिकम न द्रव्यारम्भकसंयोगप्रत्यनीकभूतविभागारम्भकमम्भोरुहपल्लवकर्मवदि"त्युक्तम् , सत्युमुक्तम् , अयुक्तं तु शतपत्रपत्रकर्मणो ऽपि द्रव्यारम्भकसंयोगप्रतिकूलविभागारम्भकत्वात्तच कुडमलकमलाद्विकचक कलस्यान्यत्वनिश्चयानिश्चितम् ।
“ननु तदेवेदमरविन्दमिति सन्देहविपर्ययरहिततामरसप्रत्यभिज्ञादर्शनात्कथं सङ्कोचविकासदशामात्रभेदात्तदन्यत्वमि"ति, कृतमनया दुराशया शरीरेऽपि सुस्पष्टोपलभ्यमानशैशवयौवनवार्धकादिदशाभेदभिन्नस्वरूपे प्रत्यभिज्ञानदर्शनात् , न च शरीरकुशेशयोविशेषलेशमपि पश्याम इति कुतस्तदेकत्वम् , भवतु वा पुण्डरीकस्याविनाशो निदर्शनमात्रमिदं तु वणितं न तु प्रतिबन्धः (द्धः ? ) कश्चन हेतुरभ्यधायि, येन वंशदलकर्मणः कोकनदपल्लवकर्मसाम्यं कल्प्येत, क्रियात्वं स्वप्रयोजकमेव कर्मणां विचित्रकार्यहेतुत्वात् , यदि वा नान्यो वंशद लविभागो नान्यश्च तत्कार्यों दलाकाशविभागः, किन्तु
एक एव विभागोऽयं भेदोऽस्याश्रयभेदतः । एकत्र देशेऽवस्थानायोम्नो वंशदलस्य च ॥ समानदेशे वृत्तित्वं मूर्तानां हि विरुद्भ्यते । व्योम्नः सर्वगतत्वात्तु विद्यते तत्र सनिधिः ॥ एकदेशाश्रयत्वे तु यदेकस्माद्विभागकृत् । तदेवान्यत इत्यस्ति न विभागो विभागजः ॥
प्रासङ्गिको विभागगुणान्तरत्वनिरासः । अपरे पुनर्विभागजविभागपराकरणोपासढरमसाः सनिरन्ते-तिष्ठतु तावद् दूरत एव विभागजो विभागः, कर्मजोऽपि न विभागो नाम कश्चिदस्ति, संयोग विरोधिनि तस्मिन्मभ्युपगम्यमाने मुद्गरादिवत्पूर्वसिद्धताऽवश्यंभाविनी ततश्च पूर्वसिद्धो विभागः संयोगमुन्मूलयतीति घटमुद्गरयोरिव संयोगविभा.
॥ ________________

মগঞ্জ गयोरेकत्र युगदुपलब्धिर्भवेन चैवमस्ति, तस्मात्संयोगाभावविषय एव विभ. क्तप्रत्यय इति न विभागालम्बनतां प्रतिपद्यते, सत्यपि विभागे तस्मिन्क्षणे संयोगस्य विनाशान भवति विभक्तप्रतिभासः , क्षणान्तरे च संयोगविनाशे सति भवतीत्यन्वयव्यतिरेकाभ्यां संयोगामावविषय एवावसीयते न प्रत्यक्षगम्यता विभागस्य , संयोगभङ्गलिङ्गन च तत्परिकल्पनक्रियैव तं हिनस्तीति पुरस्तात्प्रतिपादितम्। ___ “कथं तर्हि विभागजत्वं शब्दस्य भाष्यकार उदाहृतवान् ?” उच्यते त्रिविधं . कारणं कार्योत्पत्ति विधत्ते-समवायिकारणम् असमवायिकारणं निमित्तकारणं चेति, तत्र समवायिकारणं तदुच्यते यत्राश्रितं कार्यमुपलभ्यते यथा पटस्य तन्त. वः,असमवायिकारणन्तु द्विविध कार्यकार्थसमवायलक्षणप्रत्त्यासत्या प्रत्यासन्नं कारणैकार्थसमवायलक्षणया वा, तत्र कार्यकार्थसमवायेन प्रत्यासन्नं यथा पटस्य तन्तुसंयोगः, कारणैकार्थसमवायेन तु प्रत्यासन्नं यथा पटरूपस्य तन्तुरूपमि. ति, अवधृतसामर्थ्य च तदसमवायिकारणमाश्रयणीयमतो बुद्धिजन्मनि सत्य. प्येकार्थसमवाये नान्येषामात्मगुणानामिच्छादीनामसमवायिकारणत्वमपि त्व. वधूतसामथ्र्यस्यात्ममनःसंयोगस्यैवेति, समवाय्यसमवायिव्यतिरिक्तं तु कार्योत्पत्तौ नितिसामर्थ्य यत्कारणं तन्निमित्तकारणमुच्यते,-इत्येवं स्थिते शब्दस्य नित्यत्वे निरस्ते कार्यत्वे च साधिते तदुत्पत्तौ आकाशं समवायिकारणं निमि. त्तकारणानि तु भूयांसि सन्त्येवासमवायिकारणं तु चिन्त्यम्, तच्चाकाशाश्रितमवश्यमन्यथा प्रत्यासत्त्यभावात् तद्गुणान्तराणां च विभुत्वादीनामनवधृतश. क्तित्वादशलपाटनसमनन्तरं च शब्दोत्पाददशेनादेवं मन्यामहे–
क्रिया यदैव संयोगं हन्ति वंशदलाश्रितम् । तदैव गगने कञ्चित्करोत्यतिशयं ध्रुवम् ॥ आकाशातिशयो यश्व क्रियाजः शब्दकारणम् ।
असौ विभागनामेति शब्दे तजन्यतोच्यते ॥ सदेवमेतद्यथागममाचार्यमतमभिहितमस्माभिः । एतब मतिमद्भिर्विचारणी. यम-किमाकाशातिशयमात्रमसमवायिकारणमुत यथाभेरोदण्डसंयोगकार्ये शब्दे
तसंयोगस्यासमवायिकारणत्वमेवं वंशदलविभागकाय तस्मिन्दलगगन विभागस्येति, दलाकाशविभागोऽपि किं दलविभागज उत कर्मण एवेति, सर्वथा कश्चिदसाधारणो धमः संशयहेतुरुदाहर्तव्य इतीयता नः प्रयोजनम् ।
विरुद्धा प्रतिपत्तिविप्रतिपत्तिः, अस्त्यात्मेत्येके नास्त्यात्मेत्यपरे, सेयं विप्र. तिपत्तिरुपलभ्यमाना विशेषस्मरणद्वारेण संशयमावहति, न चेह कश्चिदनुगतो व्यावृत्तो वा धर्मः संशयकारणमपि तु विप्रतिपत्तिरेवेति, अत्रापि त्रिरूपपरिप्रहेण लक्षणवर्णनमेकेनैव वा पदेनेति पूर्ववदाचार्यद्वयमतमनुसरणीयम् । ________________

संशवप्रकरणम् । उपलब्ध्यव्यवस्थातः खल्वयं भवति संशयः, सच्चोदकमुपलभ्यते यथा हृदादिषु कचिदसच भास्करकरनिकरप्रतिफलतरलितासु मरुस्थलीषु, तदेवमुपलब्धेर. व्यवस्थितत्वात् कचिदुपलभ्यमाने भवति संशयः-‘किमिदं सदुपलभ्यते किमसदिति, अनुपलब्ध्यव्यवस्थातश्च भवति संशयः-‘किचिदसदेव नोपलभ्यते नभःकुसुमादि किंचित्सदपि नोपलभ्यते मृदन्तरितशमूलकादितदन्यः त्रानुपलभ्यमाने संशते पुमान्किमिदमसदेव नोपलभ्येते उत सदिति’ अव्यवस्थाशब्देनात्र पूर्व पर्यायेण वृत्तसदसदाश्रितविशेषादर्शनं सूचितम्, इदानीं पु. नरर्थक्रियासमर्थतादिविशेषदर्शनशून्यचेतसामुपलब्ध्यनुपलब्ध्यदर्शनमात्रोपपत्ते. संशयो वय॑ते, न चैवं सति सर्वत्रानाश्वास इति शङ्कनीयम् , यथानुभवं संश. याभ्युपगमात् , सर्वत्र च तदुत्पादकविशेषाग्रहणतत्स्मरणादिकारणसान्निध्या. संभवादिति, अत्रापि पदत्रयेणैकेन वा पदेन लक्षणोपपादनं पूर्ववद् द्रष्टव्यम्। “ननु चोपलब्ध्यनुपलब्धी सदसतोः समान एव धर्म इति पूर्वेण गतार्थत्वम्” नेतन् पूर्वनिर्दिष्टस्योर्ध्वत्वादेधर्मस्य ज्ञेयस्थत्वादुपलब्ध्यनुपलब्ध्योश्च ज्ञातृस्थ. त्वात, अत एव च मानसमिमं संशयमाचक्षते न बाह्यर्मिसंबद्धसाधारणोर्ध्वतादिधर्माधिगमाधीनसंशयवद्बाह्येन्द्रियजम् । “ननु चोपलब्धित्वमनुपलब्धित्वं चाऽत्र संशयकारणं तद्धि न ज्ञातरि वर्तते किन्तु बुद्धाविति कथमयं विशेषः ?” सत्यमेवं किन्तु समानधर्मोप्युपलब्धितादिको यदाश्रितो तद्धि बोद्धरि वर्तते अतो विशेषात्पृथगेव कथ्यते यथा ह्यसाधारणतासमाश्रयः, एवंप्रकारमेव च विशेषमाश्रित्य किञ्चित्पश्चविधत्वं विपञ्चयते, परमार्थतस्तु सर्वत्रानुगतसंबन्धो दुष्परिहरः विशेषस्मरणजन्यत्वात्संशयस्य विशेषाणां च येन सह पूर्व दर्शनमभूत्तस्मिन्ननुपलभ्यमाने स्मस्णासंभवात् , अतस्तस्यानेकविशेषानुगामित्वात्स. मानत्वात्समानत्वमपरिहार्यम् , अत एवाक्षिप्तसामान्यवाचिसमानशब्दं सामान्यलक्षणे व्याचल्युराचार्या इत्यलमतिविस्तरेण ।
इति पञ्चविधः प्रपञ्चतो मुनिना दर्शित एप संशयः । फलवद्यवहारहेतुतामनुमानाङ्गतया बिति यः ॥ अनुमानिरपेक्ष एव वा किल दृष्टेविषयेऽर्थसंशयः । वहति व्यवहारवत्तिनीमिति पूर्व च विचारितं बुधैः ॥
इति(३) संशयपदार्थः। यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम् ॥
(गौ० अ० १ आ० १ ० २४) ‘यमि’त्यत्र देशकालपुरुषदशाभेदभिन्न प्रयोजनविशेषव्याप्तये वीप्सा द्रष्टा ________________

মায
व्या । अर्थोऽयमान उच्यते न वस्तुरूप एव अभावस्यापि प्रयोजनत्वसम्भवात, अधिकारोऽर्थस्य व्यवसायः, यं यमर्थमाप्तव्यं हातब्यं वाधिकृस्य व्यवसाय प्रवर्तते तत्प्राप्तये परिहाराय वा चेष्टते पुरुषस्तत्प्रयोजनमिति, तच्च गौणमु. ख्यभेदेन द्विविधम् –मुख्यं सुखप्राप्तिर्दुःखपरिहारश्च, तत्साधनं गौणम् , सुखसाधनमपि चन्दनघनसारमहिलादि प्राप्तव्यत्वान्मुख्यत्वेन यदा विवक्षितं भवति तदा तदवाप्त्युपाये गौणता द्रष्टव्या। __ तच्च प्रयोजनं देशकालपुरुषदशाभेदाव्यवस्थितम्, तद्यथा प्रीष्मे मरुस्थले निशातमलातनिकरमिव किरति किरणमिषेण पूषणि तृषातुरस्य तुषारकणोत्क. रदन्तुरमम्बु परमं सुखसाधनं तदेव शिशिरे सकलजगत्कम्पकारिणि दारुणसमीरणशिथिलीकृतनीरेषु कश्मीरेषु श्लेष्मोपचयजनितजठरशिखिनः खेदाय जायते, तम्मादनियत एवायं सुखदुःखसाधनभावो भावानाम्, यद्यपि च यदे. कदा सुखसाधनमिति विदितमुपयुक्तमतिकान्तं वस्तु तथापि तज्जातीयत्वलिङ्गा. वधृतसुखसाधनभावे भावान्तरेऽपि प्रवर्तन्त एव तदर्थिनः।
“ननु प्रयोजनस्य प्रवर्तकत्वमयुक्तं सदसद्विकल्पानुपपत्तेः-सत्वे कर्णनासा. दिवन्न तदर्थी प्रवृत्तिरसत्त्वे तु खपुष्पादिवनतराम्”। नैष दोषः, ईप्साजिहासाविषयीकृतस्य प्रवर्तकत्वात्, न हि तत्खपुष्पादिवदसाध्यं नापि शिरःपाण्यादिवसिद्धमेव अपि तु साध्यत्वेन बुद्ध्युपारूढं तत्प्रवर्तकमिति युक्तम् , तदेव च वाक्यार्थ इति पूर्वमुक्तम् ।
इत्थं प्रवर्तकत्वे प्रयोजनस्योपपादिते मुनिना। भग्ना भवन्ति सर्वे प्रेरकपक्षाः पराभिहिताः। प्रयोजनमतोऽखिलैर्विधिवचाभिरादिश्यते प्रयोजननिबन्धनास्तनुभृतामशेषाः क्रियाः । क्रिमेरपि यथा तथा किमपि जीवितं बिभ्रतः प्रयोजनबहिष्कृतं न खलु चेष्टितं दृश्यते ॥ वैतण्डिकः प्रयतते निजपक्षसिद्धये तां चैष वेद परपक्षनिषेधलभ्याम् । तस्मादियं स्वमतसाधनवर्जिताऽपि युक्ता प्रयोजनवती भवितुं वितण्डा ॥
इति(४) प्रयोजनपदार्थः॥ लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः ॥
गौतमसूत्रम् अ० १ ० १ सू० २५ । लौकिकपरीक्षको वादिप्रतिवादिनी दृष्टान्तप्रस्तावलक्षणाद्वेदितव्यो न ________________

सिदान्तप्रकरणम् ।
१२७ तु मूर्खपण्डितो प्रकृतासङ्गतेस्तयोश्च सङ्गत्यभावात् , तयोर्यस्मिन्नर्थे भावस्व भावेऽभावात्मके वा बुद्धिसाम्यं-प्रयोज्यप्रयोजकभावव्यवस्थितसाध्यसाधन. धर्माधिकरणत्वे साध्यव्यावृत्तिपूर्वकसाधनधर्मव्यावृत्ततायां वा तुल्यरूपा बुद्धिः स दृष्टान्तः, तस्य तथाविधधर्माधारत्वं तद्रहितस्वं वा लक्ष्यमाणान्मन्तव्यं, यथा चानुमानलक्षणे ‘तत्पूर्वकमिति प्रतिबन्धग्रहणोपायमानं प्रतिपादितं तत्स्व. रूपं त्ववयवलक्षणे निर्णीत मुदाहरणसाधासाध्यसाधनं हेतुस्तथा वैधादिति, एवमिह वादिप्रतिवाविप्रसिद्धिमात्रं दृष्टान्तस्य दर्शितं, रूपं तु तस्य द्विविधमपि तत्रैव वक्ष्यते-‘साध्यसाधात्तद्धर्मभावी दृष्टान्त उदाहरणम् , तद्विपर्यया. द्वा विपरीतमिति’ अनित्यः शब्दः कृतकत्वाद् यत्कृतकं तदनित्यं दृष्टं यथा घट इति साधर्म्यदृष्टान्तः, यत्पुनरनित्यं न भवति तत्कृतकमपि न भवत्येव यथा ऽऽकाश इति वैधर्म्यदृष्टान्तः, यथोक्तलक्षणवैकल्यात्तु दृष्टान्ताभासता इति ।
आभासभेदविभवात्कथयिष्यते तु तेषामुदाहरणलक्षणवाक्प्रसङ्गे । आभासता वचनदोषकृताऽपि काचिदम्तीति साऽवयवलक्षणएव वाद्या ॥ द्विवियोऽपि च दृष्टान्तः सुदृष्टिभिर्यत्नतोऽधिगन्तव्यः । स हि निश्चलः फलनिधेरनुमानमहातरोः स्कन्धः ॥
इति (५)दृष्टान्तपदार्थः ॥ तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः ॥
(गौ० अ० १ आ० १ ० २६) तन्व्यतेऽनेन पदार्थस्थितिरिति तन्त्रं प्रमाणमुच्यते, अधिकरणमाश्रयः, तन्त्रमधिकरणं यस्य स तन्त्राधिकरणः प्रमाणमूल इत्यर्थः, अभ्युप. गमः स्वीकारः तस्य संस्थितिरित्यम्भावब्यवस्था धर्मनियमः, इदमिति सामान्यनिर्देश इत्वमिति विशेषः, एवं च तन्त्राधिकरणाभ्युपगमसंस्थितिः प्रमाणमूलाभ्युपगमव्यवस्था सिद्धान्त इत्युक्ते प्रमाणमूलाभ्युपगमविषयीकृतः सामान्यविशेषवानर्थः सिद्धान्त इति सामान्यलक्षणमुक्तं भवति । अन्ये तु व्याचक्षते-त-त्रमितरेतरसंबद्धस्यार्थसमूहस्योपदेशः शास्त्रम , अधिक्रियते इत्यधिकरणं पक्ष उच्यते, अभ्युपगमो यथोक्त एव, संस्थितिशब्दः प्रत्येकम. मिसंबध्यते, तन्त्रसंस्थितिरधिकरणसंस्थितिरभ्युपगमसंस्थितिरित्यनेन तन्त्रनिर्देशसाम्यात्सर्वतन्त्रसिद्धान्तयोः सूचनमितराभ्यां पदाभ्यामुत्तरयोरधिकर. णाभ्युपगमसिद्धान्तयोः-इति, एतत्त्वपव्याख्यानम्, न ह्येवं सिद्धान्तचतुष्टया. नुगतं किंचित्सामान्यलक्षणमुक्तं भवति-न चेदं विभागाथै विशेलक्षणार्थ वा सूत्रम्, तत्प्रतिपादनम्योत्तरसूत्रैः करिष्यमाणत्वादुक्तस्य च पुनर्वचने प्रयोज ________________

যায়াম नामावादतः पूर्वक्रमेणैव सिद्धान्तस्य सामान्यलक्षणवर्णनं श्रेयः । तस्य स्वकण्ठेन विभागमाहस चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यः
न्तरभावात् ॥ (गौतममूत्रम् अ. १ आ० १ सू० २७)
चतुष्प्रकारो हि सिद्धान्तः सर्वतन्त्रसिद्धान्तः प्रतितन्त्रसिद्धान्तोऽधिकरण सिद्धान्तः अभ्युपगमसिद्धान्तः । तत्रसर्वतन्त्राविरुद्धः स्वतन्त्रेऽधिकृतोऽर्थः ( सर्वतन्त्रसिद्धान्तः१)॥
(गौतमसूत्रम् अ० १ आ० १ ० २८) अत्र तन्त्रशब्देन शास्त्रमुच्यते, स्वशास्त्रे य उपदिष्टोऽर्थः सर्वशास्त्राविरुद्धश्च स सर्वतन्त्रसिद्धान्तः, यथा चाक्षुषं प्रमाणमिति, “नन्वत्रापि विवदन्ते ब्रह्मवादिनां हि सवै वेयमविद्या अविद्या च कथं प्रमाणमिति”, न, व्यवहारावस्थायां तैरपि तत्प्रामाण्याभ्युपगमात् , संख्यालक्षणविषयविप्रतिपत्तिस्तु प्र. तिशास्त्रं भवतु, चाक्षुषं प्रमाणमितीयति सर्ववादिनामविवादः । समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः ॥
(गौतमसूत्रम् अ० १ प्रा० मू० २६ ) तन्त्रेऽधिकृतोऽर्थ इति वर्तते, यथाऽस्माकमीश्वरेच्छाप्रेरितपरमाणुनिमिता. नि पृथिव्यादीनि समानतन्त्रे कणव्रतमते तथैव सिद्धानि परतन्त्रे च सांख्यादि. शाखे तथा नाभ्युपगम्यन्त इति , यथा वा गुणत्रयात्मिकायाः प्रकृतेमहदहकारादिक्रमेण भूतसर्ग इति सांख्यानां स्वतन्त्रसिद्धोऽर्थः समानतन्त्रेऽपि पातखले योगशास्त्र सिद्ध एव परतन्त्रे तु वैशेषिकादिमते न सिद्ध इति । “नन्वस्य कथं प्रमाणमूलता?” स्थाने प्रश्नः सत्यमेतत् प्रास्माकीने हि प्रतितन्त्रसिद्धान्ते प्रमाणमूलत्वं यथार्थमेव सांख्यसिद्धान्तस्तु प्रमाणमूलत्वाभावेऽपि परतन्त्रत्वख्या. पनायोदाहृतः तदभिप्रायेण मूलता वक्तव्येति । यत्सिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः॥
(गौतमसूत्रम् अ० १.आ० १ सू० ३०) प्रक्रियते इति प्रकरणं पक्ष उच्यते, यस्यार्थस्य सिद्धौ सत्यां प्रकरणान्तर. सिद्धिर्भवति सोऽधिकरणसिद्धान्तस्तदधिकरणानामर्थान्तराणां सिद्धेः ।
“कः पुनर्यसिद्धाविति सर्वनाम्ना प्रत्यवमृश्यते पक्षो हेतुर्वा ? किं चातः, पक्षः कथं पक्षान्तरसिद्धये कल्पते, हेतुना हि पक्षसिद्धिः क्रियते पक्षण, ________________

सिद्धान्तप्रकरणम् ।
१२९
।.
.
हेतोस्त्वधिकरणसिद्धान्तवे कथं सिद्वान्ताश्रया न्यायप्रवृत्तिरिति तदुद्देशप्रयोजनं वर्णितम् , न्यायो हि हेतुरेव स एव चाधिकरणसिद्धान्तो न च हेतुहेत्वाश्रय” इति ।
उच्यते-उभयथा ऽप्यदोषः हेतुरपि कचित्पक्षीभवति, पक्षो हि हेतुर्भव. त्येव तत्र तावदाजम्येन हेत्वधीना पक्षसिद्धिरिति हेतुरेव सर्वनाम्नाऽवमृष्यते तसिद्धावन्यप्रकरणसिद्धेः स एवाधिकरणसिद्धान्तः ॥
“कथं तर्हि तदाश्रया न्यायप्रवृत्तिः ?” उच्यते-हेतुरपि तदन्यतराभिन्न इव साध्यमानत्वात्पक्षीभवन्न्यायान्तराश्रयतां प्रतिपत्स्यतेऽपि वा पक्ष एव सर्वनाम्ना. ऽवमृष्यमाणे भवत्वधिकरणसिद्धान्तः, स च स्पष्ट एव न्यायस्याश्रयः, स च सिद्धय पक्षान्तराण्याक्षिपन्नेव सिद्धयतीत्यधिकरणसिद्धान्ततां भजतं, तस्यो. दाहरणम्-‘इन्द्रियव्यतिरिक्तो ज्ञाता दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिति, अत्रे. न्द्रियव्यतिरिक्ते ज्ञातरि सिद्वयति तदनुषङ्गोण्यथान्तराण्यपि सिध्यन्ति नानेन्द्रियाणि नियतविषयाणि गुणव्यतिरिक्तं द्रव्यमित्येवमादीनि ॥ अपरीक्षिताभ्युपगमात्तविशेषपरोक्षणमभ्युपगमसिद्धान्तः॥ (१।१।३१)
अत्रापरीक्षिताभ्युपगमादिति यथाश्रुतपञ्चमीनिर्दशमनुरुध्यमानाः प्रमा. णमूलाभ्युपगमविषयीकृतोऽर्थः सिद्धान्त इति च सामान्यलक्षणमनुसरन्तः के. चिदेवं व्याचक्षते-धर्मिणः शब्दादेनित्यत्वविचारचर्चायामपरीक्षितस्यैवा. काशविशेषगुणत्वादिधर्मपरीक्षारहितस्यैवाभ्युपगमात् कि सिध्यति ? उच्य. ते-तद्विशेषपरीक्षणं तद्गतनित्यानित्यत्वपरीक्षणं हि सामान्येन धर्मिण्युपादी. यमाने व्योमविशेषगुणत्वादिधर्मपरीक्षारहिते सत्युपपद्यते, यदि पुनराकाशविशेषगुणत्वविशिष्टः शब्दो धर्मित्वेनोपादीयते परं प्रत्यसिद्धविशेषणः पक्षो भवे. दिति, एवमपि कृते यदि पुरो धर्मिणं विकल्पयेत्कीदृशस्य सतः शब्दस्य भ. वता नित्यत्वं साध्यते द्रव्यस्य गुणस्य वेति, स एवं विकल्पयन्नर्थान्तरगमनात्तावत्पराजित एव भवति, जितमप्येनं पुनजेतुं स्वबुद्धयतिशयचिख्यापविषया परबुद्धयवज्ञया च वादी ब्रवीति-‘अस्तु द्रव्यं शब्द’-इति ।
एतत्त व्याख्यानं न बुद्धयामहे, एवं व्याचक्षाणानामेपामभ्युपगमसिद्धान्त इति को नु व्यवस्थित इति ? यदि तावदनित्यः शब्द इति, द्रव्यत्वगुणत्वादिवि. शेषरहितशब्दाख्यधामनिर्देशो यः प्रथममुपात्तः स एवाभ्युपगमसिद्धान्तस्तत्राभ्युपगमार्थः कीदृशः कश्च प्रतितन्त्रसिद्धान्तादस्य विशेषः ? अथास्तु द्रव्यं शब्दार्थ इति स्वबुद्धयतिशयाभिमानेन पश्चादभ्युपगम्यमानद्रव्यत्वविशिष्टशब्दनिर्देशोऽभ्युपगमसिद्धान्तस्तहि तत्र सूत्रमपरीक्षिताभ्युपगमादिति न यो. जितमन्यत्रैव तैः सूत्रार्थो नीत इति । ________________

१३०
न्यायमर्जयाम् तस्मादेवं व्याख्यायते-अपरीक्षिताभ्युपगम एव स्वमतिकौशलेन क्रियमाणेऽभ्युपगमसिद्धान्तः अस्तु द्रव्यं शब्द इति, प्रमाणमूलाभ्युपगमविषयीकरणं तु सामान्यलक्षणे प्रोढवाभिप्रायेण योज्यम् , द्रव्यत्वमपि प्रमाणमूलं शब्दस्य भवतु तथाऽपि तस्यानित्यत्वमिति किल निरवयवं द्रव्यमनित्यं नास्त्येव शब्दस्य तु ताहशस्याप्यनित्यत्वमहं साधयामीति, कथं तर्हि पञ्चमी? किं पञ्चम्या वस्तु तावदीदृशं यथा व्याख्यातमस्माभिः, पञ्चम्यपि चेत्थं योज्यते-किमर्थ पुनरयमपरीक्षित एव शब्दद्रव्यत्वाभ्युपगमः क्रियत इति पृच्छत उतरं पञ्चाया. भिधीयते यस्मादपरीक्षिताभ्युपगमात्तद्विशेषानित्यत्वपरीक्षणमवकल्पते तस्मा. दपरीक्षिताभ्युपगमोऽभ्युपगमसिद्धान्त इति, न तु तद्विशेषपरीक्षणमेव सामाना. धिकरण्यनिर्देशादभ्युपगमसिद्धान्त इति मन्तव्यं परीक्षणस्य सिद्धान्ताश्रि. तत्वात् , तस्माद्विशेषपरीक्षणार्थोऽपरीक्षिताभ्युपगमः प्रौढवादिना क्रियमाणो ऽभ्युपगमसिद्धान्त इति सूत्रार्थः, इत्थमेव च तत्र तत्र प्रावादुकानां व्यवहारः ।
इमाश्च सिद्धान्तभिदाश्चतस्रो न्यायप्रवृत्तेः प्रथमं निमित्तम् । प्रवर्तते नैव परीक्षकाणामनाश्रया न्यायकथा कदाचित् ॥
इति (५) सिद्धान्तपदार्थः । इह हि स्वयमवगतमर्थमनुमानेन परस्मै प्रतिपादयता साधनीयस्यार्थस्य यावति शब्दसमूहे सिद्धिः परिसमाप्यते तावान्प्रयोक्तव्यः, तमेव च परार्थमनु. मानमाचक्षते नीतिविदः ।
“ननु नैव परार्थमनुमानं नाम किंचिदस्ति वक्त्रपेक्षया श्रोत्रपेक्षया वा तदनुपपत्तः,
वक्त्रान्वमायि स ह्यर्थो नेदानीमनुमीयते । श्रोतुः स्वार्थानुमानं तद्वाक्यावगतिहेतुकम् ॥ यथा प्रत्यक्षतो धूमं दृष्ट्वाऽग्निमधिगच्छति । तथा तदीयाद्वचनादिति कस्य परार्थता ॥ श्रागमस्त्वेष भिद्यत कश्चिदर्थोपदेशकः ।
कश्चिश्चत्तत्प्रत्ययोपायन्यायमार्गोपदेशकः ॥” इति । सत्यम् ,न परमार्थतः परार्थमनुमानमुपपद्यते,किन्तु द्विविधः प्रतिपत्ता स्व. यमवगतयथाप्रकृतलिङ्गव्याप्तिकस्तद्विपरीतश्च, तत्र स्वयमवधतप्रतिबन्धं प्रति नोपदिश्यते एवमनुमानं स्वत एव तस्य प्रतीत्युत्पत्तः, अनवधारितव्याप्तिकस्य तु व्याप्तिरेव व्युत्पाद्यत इति तं प्रति परार्थमनुमानं तदुपदेशकं वाक्यमेवा. ख्यायते, तथा हि
वक्त्रा स्वप्रत्ययेनेदं न हि वाक्यं प्रयुज्यते । परो मद्वचनादेव तमथ बुद्धयतामिति ॥ ________________

अवयवमकरणम् ।

किन्त्वेनमनुमानेन बोधयामीति मन्यते। सोऽपि तद्वचनान्नैव तमर्थमवबुध्यते ॥ किन्तु व्याप्तिमतो लिङ्गात्स्वयं तत्तु न पश्यति ।
तत्प्रतीत्यभ्युपायत्वात्परार्थमिदमुच्यते ॥ अतश्च श्रोतुः स्वार्थानुमानमेवेदं वक्ता तु तथा परं प्रतिपादयन्परार्थमनुमानं प्रयुत इत्युच्यते।
न चानुवादमात्रं तद्वक्तु रित्युपपद्यते ।
यतो व्याप्रियते सम्यक्परस्य प्रतिपत्तये ॥ तेनानधिगतार्थापदेशकत्वान्नानुवादमात्रं स्वागमापेक्षया त्वनुवादवे नेदानी. माप्तवचनमनुवादरूपं किंचिद्भवेत्सर्वस्य स्वापलब्धिपूर्वकत्वादिति, तस्मात्पराथानुमानवाक्योपपत्तेस्तदेकदेशा अवयवा युक्ता इति लक्ष्यन्तेप्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः ॥ (अ० १ प्रा० १ सू०३२) ___ एतच सूत्रमेकमेव सामान्यलक्षणमवयवानामभिधत्ते, विभागं च प्रमा. रणानामिव प्रत्यक्षानुमानोपमानशब्दास्साधनीयार्थप्रतिपत्तिपयन्तवचनकलापैक. देशत्वमवयवानां सामान्यलक्षणमाचष्टे । यद्यपि चैकवक्तवचननिर्गतानां निसगंभङगुराणामदीर्घायुषामपरिहार्यक्रमजन्मनां दुमाणामिव पारमार्थिकस्समूहो न समस्त्येव, तथाऽपि सिषाधयिषितार्थप्रतिपादनरूपैककार्योपयोगमूलीकृतात्मनां तेषां काल्पनिकः कलापः पूर्वमेव वाक्यकल्पनावसरे समर्थित इति तदागाअपि संभवन्त्येव । न च पदानामेवानुमानवाक्यावयवत्वम् , अपि तु खण्डवाक्यानामेकेन पदेन प्रतिज्ञोदाहरणादीनामभिधातुमशक्यत्वात , हेतुवचनं वेकमपि पदं कचिद्भवति कृतकत्वादिति, तदपि वा सविशेषणं प्रयुज्यमानं पदसमुदायेनैव प्रतिपाद्यते वस्तुत्वे सति कृतकत्वादिति, उदाहरणवचनमपि पटवदित्येवमालस्यादेव प्रयुज्यते तद्धि व्याप्तिदर्शनायैव वक्तव्यं यत्कृतकं त. दनित्यं दृष्टं यथा घट इति, तस्मादवयवानामवयवत्वमेव लक्षणं न पदत्वम् , विभागोऽपि प्रतिज्ञादिपदसन्निधाववयवश्रुतेरेवावगम्यते प्रतिज्ञादयः पञ्चावयवा न न्यूनातिरिक्ता इति । “नन्वत्र विवदन्ते केचिन्यूनतामवयवानामाचक्षते व्यवयवं द्यवयवं वा साधनवाक्यं वदन्तः, अन्ये तु जिज्ञासा संशयः प्रयोजनं संशयव्युदास इति पञ्चभिस्सह प्रतिशादीन दशावयवानाहुः” । उच्यते-न्यूनता यथाऽवसरं प्रतिसमाधास्यते, आधिक्यमप्ययुक्तं जिज्ञासादीनामशब्दस्वभावत्वे. न वाक्यावयवत्वायोगात् , तथा ह्यप्रतीयमानेऽथं प्रतीतिप्रयोजनस्य प्रवर्तिका जिज्ञासा सा चेच्छाखमावत्वादान्तरः प्रमातृधर्मो न वाक्यावयवः, अथक्रिया. साधनेऽर्थे विमर्शः संशयः किमेवमयमथवैवमिति ज्ञानात्मकत्वान्न वाक्यावयवः, ________________

१३२
न्यायमभयाम् प्रमातुः प्रमाणानि प्रवर्तमानानि प्रमेयमर्पयितुं पारयन्तीति सम्भावना शक्य. प्राप्तिः साऽपि तथैव न वाक्यावयवं स्पृशेत् , (तत्त्वावधारणफलात्मकं प्रयोज. नमपि न वाक्यैकदेशः ?) संशयव्युदासस्तु प्रतिपक्षोपालम्भः, स च वचनस्व भावत्वेऽपि न साधनवाक्यावयवः किन्तु,वाक्यान्तरमेवेति न साधनवाक्यस्या वययवत्वं प्रतिपद्यते, तदिमे संशयादयः प्रवृत्तिहेतवो भव न्ति न वाक्याव. यवा इति सूक्तं प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवा इति । तेषाम
साध्यनिर्देशः प्रतिज्ञः ॥ (१।१।३३) प्रतिज्ञेति लक्ष्यनिर्देशः, साध्यनिर्देश इति लक्षणम् , शुद्धस्य धर्मिणो धर्म स्य वा द्वयोर्वा स्वतन्त्रयोर्धर्मिविशिष्टस्य वाधर्मस्य साध्यत्वानुपपत्तेः धर्मविशिट्रां धर्मी साध्य इत्युमानलक्षणे निर्णीतमेतत् , तस्य निर्देशः परिग्रहवचनं प्रति. झेति । “ननु सावधारणत्वाद्वाक्यानां कि साध्यनिर्देश एव प्रतिज्ञत्यवधारणमुत प्रतिज्ञैव साध्यनिर्देश इति, यदि साध्यनिर्देश एव प्रतिज्ञत्यवधार्यते तदा. यत एवकारकरणं ततोऽन्यत्रावधारणमिति प्रतिज्ञा नियम्यते साध्यनिर्देश मा त्यातीदिति, साध्यनिर्देशस्त्वनियमित इति प्रतिज्ञामपहायापि भवेदित्यति. व्यापकं लक्षणम् , अथ प्रतिज्ञेव साध्यनिर्देश इत्यवधार्यते ततः साध्यनिर्देशो नियम्यते प्रतिज्ञा मा त्याक्षीदिति प्रतिज्ञा त्वनियमितेति साध्यनिर्देशमपहायापि भवेदिति साध्यनिदेशेन प्रतिज्ञाया अव्याप्तत्वादव्यापकं लक्षणमि"ति । तदेतदयुक्तम्-न हि सर्वे वाक्यं सावधारणं भवति यथैप पन्थाः नुघ्नं गच्छ. तीति न हि तत्रैष एवेति नुघ्नमेवेति वा गच्छत्येवेति वा नियन्तुं शक्यते इति । अथाप्यवधारणमवश्याश्रयणीयं तद्भवतु साध्यनिदेश एव प्रतिज्ञति, न चातिव्याप्तिः प्रतिज्ञापहायान्यत्र साध्यनिर्देशस्यादर्शनात् , अनियमितोऽय. सावन्यत्र न दृश्यत एवैति तस्मात्साध्यनिर्देश एव प्रतिज्ञति स्थितम् , तद्यथा अनित्यः शब्द इति । “नन्वत्रापि किमनित्य एवेत्यवधारणमुत शब्द एवानित्य इति, तानित्य एव शब्द इस्युक्ते तद्गतधमोन्तरतिरस्कारास्कृतकत्वमपि त. त्र न भवेदित्यसिद्धो हेतुः, शब्द एवानित्य इति ववधार्यमाणे घटादावनित्यत्वप्रतिषेधादन्वयशून्यता हताः स्यादिति” । नेष दोषः , निरवधारणस्यापि व. चनप्रयोगस्य दर्शितत्वात् , अनित्य एव शब्द इत्यवधारणे वा नानित्यत्वव्य. तिरिक्ततदविरुद्धकृतकत्वाद्यशेषधर्मान्तरनिषेधस्तत्र विधीयते किन्तु तद्विरुद्धनित्यत्वमात्रनिषेध एवानित्य एव शब्दो न नित्य इत्यर्थः. तदुक्तम्–
नियमस्तद्विरुद्धाश्च कल्प्यते नाविरोधिनः । इति ॥
तस्मान हेतोरसिद्धत्वम् । “ननु साधनवाक्ये प्रतिज्ञावचनमसमन्जसम. साधनाङ्गवचनत्वात् , हेतुशन्तवचनाक्यां हि साध्यसिद्धस्ते एव वक्तव्यो ________________

अवयवयप्रकरणम् । न च स्वप्रतिपत्तावुपलब्धं सर्वमेव परस्मै आख्येयम् , आख्याने वा धर्मिमात्रमाख्यायताम् , स्वप्रतिपत्तौ हि पूर्व पर्वतादेः शुद्धस्य धर्मिणो ग्रहणं न तु सिषाधयिषितहुतवहादिधर्मविशेषरूषितवपुषः, एवमभ्युपगमेऽनुमानवैफल्य. प्रसङ्गादतः कथं प्रथममेव साध्यधर्माध्यासितस्वरूपमिनिदेशकरणम् , अपि च विवादादेव प्रतिज्ञार्थों लभ्यते इति किं स्वकण्ठोक्तेन तेन प्र. योजनम् ।” उच्यते-स्वप्रसिपतिमनुसरता परस्य प्रतिपत्तिरुत्पादनीयेति स्व. प्रतिपशौ प्रथममुपलब्धो धर्मी तावदाख्येय एवानुद्देश्यमाने हि धर्मिणि निरधिकरणो हेतुः क साध्यं साधयेत् , धर्म्यनवच्छिन्ने च धर्ममात्रेऽनुमानमनर्थकमविवादसिद्धत्वात् , अस्ति हि यत्र कचिदनित्यत्वमित्याश्रयासिद्धश्च धर्मिनिर्देशाद्विना हेतुर्भवेदित्यवश्यनिर्देश्यो धर्मः , यद्यपि च धमिमात्रदर्शनमे. व प्रथममभूत्तथाऽपि किं साधयितुं हेतुः प्रयुक्तो भवेदित्युपप्लवशमनाय साध्य. धर्मनिर्देशोऽपि कर्तव्यः, शब्दः कृतकत्वादिति हि प्रयुज्यमानं तदिदमन्धप. दमिव साधनं भवेत् । “अथ ब्याप्तिप्रदर्शननिपुणेन यत्कृतकं तदनित्यं दृष्टमिति दृष्टान्तवचसा, तस्मादनित्य इति निगमनवचनेन वा विरंभ्यति स उपप्लव इति” तत्रापि श्रोतबभत्सोपरमपरिश्रमफले साधनवाक्ये साधनाधिगमकाक्षासमुत्पा. दनाय साध्यं निर्देष्ट्रव्यं, न हि शब्द इत्येतावत्युक्ते तत्र साधनमाकाक्षतिकश्चिदिति साधनवचनावसरतत्प्रयोगसाफल्योत्पादनायैव नूनमनित्यः शब्द इति प्रतिज्ञावचनं प्रयोक्तव्यम् , यच्च विवादादेव प्रतिज्ञाथस्य लब्धत्वमभिधीयते, तदभ्युपगमनमेव शब्दान्तरेण प्रतिज्ञायाः, यतो विरुद्धो वादो विवाद एक प्राह नित्यः शब्द इतरस्त्वनित्य इत्याह सोऽयं पक्षप्रतिपक्षपरिग्रहो विवादः प्रति. ज्ञव, स तु पक्षप्रतिपक्षपरिग्रहस्तदहरेव भवतु दिनान्तर वेति किमनेन विशेषेण, तस्मादपरिहार्य प्रतिज्ञावचनमिति सिद्धम् , प्रतिज्ञव च पक्ष इत्युच्यते । तदेवं. विधे पक्षलक्षणे प्रदशित बलात्पत्ताभासाः प्रतिक्षिप्ता भवन्ति, तद्यथाऽनुष्णो. ऽग्निरिति प्रत्यक्षविरुद्धः पक्षः, न रूपग्राहि चरित्यनुमानविरुद्धः, शब्दविरु. द्धस्तु बहुशाखः-ब्रह्मणेन सुरा पेयेत्यागमविरुद्धः, जनित्री में वन्ध्या, पिता में ब्रह्मचारीति धर्मधर्मिपदयोरेव विप्रतिषेधात्ववचनविरुद्धः, न चन्द्रः शशीति लोकप्रसिद्धिविरुद्धः, उपमानविरुद्धस्तु न गवयशब्दवाच्योऽयं गोसदृश इति, अ. प्रसिद्धविशेषणो नभःकुसुमकृतावतंसश्चैत्र इति, अप्रसिद्धविशष्यः सुगन्धि गग. नकमलमिति, अप्रसिद्धोमयः खपुष्पकृतशेखरोवन्ध्यासुत इति, यत्रापि विशेषणविशेष्ययोः प्रमाणान्तरतः स्वरूपं निश्चितमेव वनिर्देशोऽपि पनाभास एवं शीतं तुहिनमुष्णोऽग्निरिति साम्यत्वाभावेनानुमानप्रयोगावसरविरहादितीयमेव च सा सिद्धसाध्यवोच्यते इति, ये चैते प्रत्यक्षविरुद्धतादयः पक्षदोपाः, ये च वक्ष्यः माणाः साधनविकलत्वादयो दृष्टान्तदोषास्ते वस्तुस्थित्या सर्वे हेतुदोषा एव प्र.
4 ________________

न्यायमअर्याम् पश्चमानं तु पक्षदृष्टान्तदोषवर्णनम् , दृष्टान्तदुष्टतया च हेतोरेव लक्षणमन्वयव्यतिरेकयोरन्यतरद्धीयते इति सर्वे च ते हेतु दोषा एव ।
अत एव च शास्त्रे ऽस्मिन्मुनिना तत्त्वदर्शिना । पक्षाभासादयो नोक्ता हेत्वाभासास्तु दर्शिताः ॥ कश्विद्धत्वनपेक्षोऽपि पक्षमात्रप्रतिष्ठितः ।
बाधोऽनुमानरूपस्य स्खवाक्यादिकृतो यथा॥ एवंलक्षणको हेतुरिति तत्स्वरूपावधारणे सति तदभिधायकं वचनं सुखमेव लक्ष्यते इस्यर्थात्मकहेतुलक्षणं तावदुच्यते
उदाहरणसाधयात्साध्यसाधनं हेतुरिति ॥ ( १॥१॥३४)
“नन्वर्थात्मको हेतुरनुमानं तच लक्षितमेव पूर्व तत्पूर्वकं त्रिविधमनुमान. मिति” । सत्यं तस्य तत्पूर्वकमिति सर्वनामपरामृष्टप्रत्यक्षमूलतोपवर्णनेन प्रतिबन्धपरिच्छेदोपायमात्रनिरूपणं कृतमिह तु प्रतिबन्धस्वरूपमपि प्रतिपाद्यते , त. त्रार्थात्मके हेतो लक्ष्ये पञ्चपीमपास्योदाहरणसाधर्म्य साध्यसाधनं हेतुरिति सूत्रं पठन्ति , व्याचक्षते च-साधम्य हेतुरित्युच्यमाने गन्धवत्त्वादेरसाधारणहेतोः साध्यमिव्यक्तिभेदवृत्तित्वेन साधर्म्यरूपसंभवाविरुद्धस्य पक्षविपक्षकृतस्तत्सा. धन्यस्वभावत्वाद्धेतुत्वं प्रसज्यत इति तन्निवृत्त्यर्थमुदाहरणग्रहणम् , उदाहियते. ऽस्मिन्साध्यसाधनयोः प्रयोज्यप्रयोजकभाव इत्युदाहरणं दृष्टान्तः तेन साध. म्य, कस्येति ? प्रकृतत्वात्प्रत्यासत्तश्व साध्यस्य धर्मिण इत्यवगम्यते, उदाहरण. साधम्य साध्यदृष्टान्तर्मिसाधारणो धमों हेतुरिति नासाधारणादौ तथात्वप्रस. क्तिरिति , एवमपि प्रमेयत्वादेरनैकान्तिकहेतोस्तथा भागासिद्धस्यानित्यत्वसिद्धये चतुर्विधपरमाणुपक्षीकरणे गन्धवत्त्वादेः प्रकरणसमकालात्ययापदिष्टयोश्चोदाहरणसाधर्म्यसम्भवाद्धेतुत्वं भवेदिति तद्वयवच्छेदाय साध्यसाधनग्रहण. म् , साध्यदृष्टान्तधमिणोश्च समानो धर्मः साध्योऽप्यनित्यत्वादिः भवत्येवेति तस्यापि हेतुता मा प्रसाक्षीदिति साध्यसाधनग्रहणम् , लिङ्गसामान्यलाभार्थ साध्यसाधनं यदुदाहरणसाधर्म्य स हेतुरिति , साध्यसाधनपदेन च प्रतिबन्धो लक्ष्यते स च सव्यभिचारादिषु नास्तोति न ते हेतवः , प्रतिबन्धश्च पञ्चलक्षणक इत्येकैकलक्षणाभावकृतहेत्वाभासपञ्चकनिर्देशादेव सूचितवानाचार्यः । “नन्वेवं तहि साध्यसाधनप्रहणमेव हेतुलक्षणमस्तु तद्धि सकलहेत्वाभासन्युदा. ससमर्थमिति किमुदाहरणसाधर्म्यग्रहणेन ?” समानजातीयव्यवच्छेदार्थत्वात् , महतवो हि विजातीयास्तद्वयवच्छेद. साध्यसाधनग्रहणात्समानजातीयस्य के. वलव्यतिरेकिणो व्यवच्छेदायोदाहरणसाधर्म्यग्रहणमिति । “तकि केवलान्वयी हेतुरिति लक्ष्यत्वे न विवक्षितः ?” न तथाविधस्य हेतोरभावात् भन्वयव्यतिरे ________________

अवयवप्रकरणम् ।
१३५ कलक्ष्यमत्रोदाहरणसाधर्म्य वैधय॑सम्भवे तु सति साधर्म्यमप्यस्त्येवेति, न साव. धारणं वा विशेषविधिरूपेणैवेदमुदाहरणसाधर्म्यग्रहणं केवलान्वयिलक्षणं वर्णनीयमिति । “ननु यदि द्विविधो हेतुरिष्यते तर्हि सामान्यलक्षणमादौ वक्तव्यं ततो विशेषलक्षणमिति”। उच्यते-साध्यसाधनग्रहणमेव प्रतिबन्धसूचकं सामा. न्यलक्षणं भविष्यति, उदाहरणसाधर्म्यग्रहणं त्वन्वयव्यतिरेकिणो लक्षणमुत्तरसूत्रं च केवलव्यतिरेकिणः, केवलान्वयी हेतुर्नास्त्येवेत्येवं पञ्चमीमुपेक्ष्यार्थात्मकहतु. लक्षणमाचख्युः । अपि वा भातु तत्रापि संशयव्यवच्छेदफलः पञ्चमीपाठः,क. श्चिदेवमभिधीत-साध्यसाधनमिति पर्यायपठनमात्रमेतन्न हेतुलक्षणम् , अपि च यत्रैव दृष्टान्तर्मिणि हेतुधर्मग्रयुक्ततया साध्यधर्मोऽवधारितस्तत्रैव पुनरसावुपलभ्यमानस्तमुपस्थापयतु धर्म्यन्तरे तु तदुपलम्भाद्भवतु संशयः-‘किं तत्साध्याविनाभूतमिह हेतोस्सत्त्वमुतान्यथेति, अस्येदमुत्तरमुच्यते उदाहरणसाधादिति । अयमर्थः-देशकालव्यक्तिविशेषाणां व्यभिचारान्न तेषु प्रति. बन्धावधारणमपितु सामान्यधर्मयोरेव,
व्यक्तिभेदाश्रयत्वे हि नैव व्याप्तिग्रहो भवेत् ।
दृष्टान्तेऽप्यभ्यनुज्ञैवं भवता दीयते कथम् ॥ तदभ्यनुज्ञानात्तु सामान्येन व्याप्तिग्रहणमङ्गीकृतमेव भवति। तस्मिंश्च सत्युदाहरणसाधासाध्यसाधनमेव भवति न संशयः संशयस्य विशेषप्र. हणकारणकत्वादिह चोदाहरणसाधर्म्यपदोपात्तं लिङ्गसामान्यमेव विशेषो गृह्यते इति कुतः संशयः, साध्यसाधनपदमपि न पर्यायमात्रमपि तु पञ्चलक्ष. णकप्रतिबन्धसूचनेन हेतोः हेतुत्वसमर्थनार्थमेतत् , कस्माद्धेतुह तुर्भवति साध्य. साधनत्वाद्गमकत्वादित्यर्थः, साध्यसाधनता चास्य पञ्चलक्षणकात्प्रतिबन्धाद्विनान निवहतीत्यसौ साध्यसाधनपदेन लक्ष्यते, सोऽपि च प्रयोज्यप्रयोजकमा. वगर्भस्साधनताङ्गतामेतीति तथाविध एव सूच्यते, अत एव चाप्रयोजक एवं. कः परमार्थतो हेत्वाभास इति वक्ष्यते, तदिदमीदृशं साध्यसाधनत्वं हेतोः कुतो भवतीत्युदाहरणसाधम्योदिति संशयं व्यवच्छिन्दन्त्या पञ्चम्या कथ्यते, अतश्च यदुच्यते परैः ‘साधर्म्य यदि हेतुः स्यान्न वाक्यांशो न पञ्चमी’ति तदिदमनु. पपन्नम् , पञ्चम्या, अर्थात्मकल्वे हेतावनुपयोगात्तत्रापि वा तस्याः समर्थित. त्वात् , वाक्यांशे लक्षणान्तरकरणात् तदमिदानीमुच्यते उदाहरणसाधा. त्साध्यसाधनं हेतुः, यद्यपि च ज्ञानस्याप्युदाहरणसाधात्कर्मभूतात्करणात्मक त्वाद्वाद्भवत्यभिनिवृत्तिस्तथापि वाक्यावयवप्रकरणसामाद् वचनमवसीयते। “यदि वाक्यावयवप्रकरणमिदं किमर्थ तीर्थव्युत्पादनम्” उक्तमत्र तदोपयिक. त्वाद् इति, “साध्यसाधनग्रहणं वचनलक्षणे किमर्थम् ? हेत्वाभासवचननिरसन. मर्थात्मकहेतुलक्षणादेव हि सिद्धम्” न हेत्वाभासवचनव्यवच्छेदकं पक्षधर्मव. ________________

१३६ (013
न्यायमअर्याम् चनंकृतकवादित्येवमादि प्रयोक्तव्यमपि तु हेतु विभक्त्यन्तं कृतकवादित्येवमा दि प्रयोक्तव्यमिति कलकत्वेनेति कृतकोऽयमस्मादिति वाऽभिधातव्यमेवं हि तत्साध्यसाधनं भवतीति ॥
तथा वैधात् ॥ (१।११३५) उदाहरणग्रहणमनुवर्तते साध्यसाधनमिति च , एतच तथाशब्दोपादानसा. मागम्यते उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः, अत्राप्यर्थात्मकहेतुपूर्वक. त्वाद्वचनस्यार्थात्मक एव हेतुः प्रथमं लक्ष्यते इति तल्लक्षणाय पूर्ववत्पञ्चमीपाठशून्यमेव सूत्रं वर्णयन्ति , वैधयं हेतुरित्युच्यमाने पतवैधय॑स्यापि विपक्षवृत्तेरशेषाश्वव्यक्तिपक्षीकरणे तुरगा इमे विषाणादित्येवमादेहेतुत्वं स्यादित्यु. दाहरणग्रहणम , तथाऽप्यसाधारणादेख्दाहरणवैधय॑स्य हेतुता प्रसज्यते इति पूर्ववत्साध्यसाधनग्रहणं प्रतिबन्धसूचके सकलहत्वाभासव्यवच्छेदके योजनीय. म , तस्मादेव सकलहेत्वाभासव्यवच्छेदसिद्धरुदाहरणवैधर्म्यग्रहणं समानजातीयान्वयव्यतिरेकिहतुव्यवच्छेदसिद्धये व्याख्येयम् ॥
“ननु च वैध→शब्दः केवलान्वयिनमेव हेतुमव्यतिरेकं व्यवच्छेत्तमलं, तस्य वैधर्म्यशून्यत्वादन्वयव्यतिरेकिणोस्तु हेत्वोरुदाहरणसाधर्म्यस्यापि भावास्कथमनेन व्यावर्तनम् ?” उच्यते
वैधHशब्दोपादानात्केवलान्वयिनो यथा। निवृत्तिर्गम्यते तद्वदन्वयव्यतिरेकिणः ॥ साध्यसाधनशब्दो हि प्रतिबन्धोपलक्षणः । व्याख्यातः प्रतिबन्धश्च ध्यतिरेकान्वयात्मकः ॥ वैधय॑साधनेऽप्यस्मिन् स एव यदि वर्ण्यते । पूर्वत्र कथनाद्वयर्थ वैधर्म्यग्रहणं भवेत् ॥ केवलव्यतिरेकाख्यप्रतिबन्धाभिधित्सया : वैधय॑वचनं तस्मात्सफलं व्यवतिष्ठते । अध्याहृतैवकारं वा तद्वयुदासाय पठ्यताम् । विशेषविधिरूपेण व्याख्यानं वा विधीयतम् ॥ केवलान्वयिहेतुश्च न कश्चिदुपलभ्यते।
तेन पूर्वोक्त एवास्य व्यवच्छेद्यो भविष्यति ॥ ““नन्वेवं तर्झनेनैव न्यायेन पूर्वसूत्रं केवलान्वयिलक्षणार्थ स्यात् , यथेह वैधर्म्यग्रहणं साधर्म्यव्यवच्छेदकमेव तत्र साधर्म्यग्रहणं वैधर्म्यव्यवच्छेदाय स्यादिति” । उक्तमत्र न केवलान्वयी नाम हेतुः संभवतीत्यलक्षणीय एवासौ , तदे. धमन्वयव्यतिरेकवतो हेतोर्लक्षणाय पूर्वसूत्रमिदं तु केवलव्यतिरेकिलक्षणाये. ________________

अवयवप्रकरणम् ।
१३७ ति स्थितम् , अर्थात्मकहेतुलक्षणपक्षेऽपि पञ्चमीपाठः पूर्ववत्संशयपराकरणफलस्वेन वर्णनीयः, वचनात्मकहतलक्षणे ऽपि तथैव सूत्रं योज्यम् , यथोक्तवैः धात्प्रवृत्तं वचनं साध्यसाधनं हेतविभक्त्यन्तं प्रयोक्तव्यमित्यर्थः ।
केवलव्यतिरेक्याक्षेपः । तदेतदाक्षिपन्ति “लक्ष्ये सति लक्षणं वक्तव्यं भवति केवलव्यतिरेकी तु नाम न समस्त्येव हेतुरिति कस्येद लक्षणमुच्यते ? प्रतिबन्धेन हि हेतोर्गमक त्वमुक्त प्रतिबन्धश्च पञ्चलक्षणको व्याख्यातः, एकैकलक्षणविरहनिबन्धनाश्च पञ्च हेत्वाभासा भविष्यन्ति,तत्पक्षधर्मत्वविरहिण इवासिद्धस्य हेतोरन्वयशून्य. स्याऽपि (न हेतुता युक्ता केवलव्यतिरेकमात्रशरणेन हेतुना साध्यसिद्धौ तथाविधहेतुसुभिक्षसंभवाद्यद्यस्मै रोचते स तत्सर्व साधयेत् , असाधारणस्य वा किमि. ति (न?) हेतुत्वं, व्यतिरेकवतोऽपि संशयः-‘साध्याभावकृता तस्माद्यावृत्तिरुत वाऽन्यथा’, अन्वये हि कचिद्गृहीतेऽन्यत्र हेतुव्यावृत्तिरवगम्यमाना साध्यव्यावृत्तिकृतैवेत्यवधार्यते नेतरथा, इत्यमेव संदिग्धव्यतिरेकता व्यावतते नान्यथेति,
संदिग्धव्यतिरेके च साध्यसाधनता कथम । 1 /
लक्ष्याभावादतश्चेदं कथ्यते तस्य लक्षणम् ॥ 0442 तस्मान्न साधनग्रहणेन हेतुद्वयसामान्यलक्षणमभिधायोदाहरणसाधर्म्यग्रह. णेनान्वयव्यतिरेकिणो लक्षणमुदाहरणवैधर्म्यग्रहणेन च केवलव्यतिरेकिणो वर्णनीयमपि तु सूत्रद्वयनैतस्यैवाऽन्वयव्यतिरेकवतो हेतोर्लक्षणं व्याख्येयम् । अन्वयव्यतिरेकयोर्गमकाङ्गत्वादेकेनान्वयनिरूपणमपरेण च सूत्रेणाव्यतिरेकव्युत्पादनम , अत एव च भाज्यकारः ‘किमेतावद्धेतुलक्षणं नेत्युच्यते तथा वैध. या’दित्येकवाक्यतयैव व्याख्यातवान् , उदाहरणमपि च सूत्रद्वये तुल्यमेवान्वय. व्यतिरेकिहेतोरक्तवा’नुत्पत्तिधर्मकत्वादिति ।
केवलव्यतिरेकिस्थापनम् । अत्र वदन्ति-यदि वयं यं कंचन शुष्कमेव केवलव्यतिरेकिणं हेतुमुपगच्छेम तत एवमनुयुज्येमहि किन्त्वन्वयव्यतिरेकवानेव हेतुः कचित्साध्यवि. शेषे विशेषणविशेषवशात्केवलव्यतिरेकितामवलम्बत इति ब्रमः, तयथेच्छा. दिगतं कार्यत्वमात्मसिद्धौ, तत्र हि कार्यत्वमाश्रितत्वमात्रेण व्याप्तमुपलब्धमन्व. यव्यतिरेकयुक्तमेव घटादेः कार्यस्याश्रितस्य दृष्टत्वात् , यत्र ह्याश्रियत्वं नास्ति तत्र कार्यत्वमपि नास्त्येव व्योमादी, सोऽयमन्वव्यतिरेकवानेव हेतुर्यदा परिहा श्यमानशरीराद्याश्रयव्यतिरिक्ताश्रयाश्रितत्वे साध्ये देहादिषु बाधकोपपत्तो सत्यां (विलक्षण? )कार्यत्वादिति सविशेषणः प्रयुज्यते तदा केवलव्यतिरेकी सम्पद्यते, देहादिव्यतिरिक्तस्याश्रयस्यात्मनो नित्यपरोक्षत्वेनान्वयानुपलम्मा. ________________

१३८
न्यायमअर्याम् दिति, ईदृशस्य चान्वयमूलस्य तस्यां दशायां केवलव्यतिरेकितामुपगत. स्य हेतुत्वानुपगमान पूर्वोक्तदोषावसरः, न हीदशा हेतुना सर्वः सर्व साध. यितुमुत्सहते, न चासाधारणस्य हेतुत्वमित्यस्थिते प्रसज्यते, पञ्चलक्षणस्वमपि पूर्वाश्रयापेक्षमस्य भविष्यति, यच संदिग्धव्यतिरेकित्वमाशङ्कितं तप्य. न्वयव्यतिरेकाले केवलव्यतिरेकिणि निरवकाशं कार्यस्याश्रितस्योपलम्भादाश्रितत्वव्यावृत्या व्योमादौ च कार्यत्वव्यावृत्तिदर्शनादिदानी घटादौ शरीरे वा सविशेषणकार्यत्वव्यावृत्तिईश्यमाना विशिष्टाश्रयव्यावृत्तिगतैवावगम्यते इति न संदिग्धो व्यतिरेकः, एतात्मसिद्धिप्रसङ्गे निर्णीतमिति निरपवादः केवल व्यतिरेकी हेतुरस्त्येव लक्ष्यते इति तल्लक्षणार्थमुत्तरसूत्रमन्वयव्यतिरेकिहेतुल. क्षणार्थ च सूत्रं, केवलान्वयी हेतुर्नास्त्येव, सामान्यलक्षणं त्वनुमानलक्षणात्सा. ध्यसाधनपदाद्वाऽवगन्तव्यम्, भाष्याक्षराणि तु कथमप्युपेक्षिष्यामहे । अथवा यथाकथंचिद्वा व्याख्यास्यामः, केवलव्यतिरेकिणं त्वीडशमात्मादिप्रसाधने परममत्रमुपेक्षितुं न शक्नुम इत्ययथाभाष्यमपि व्याख्यानं श्रेयः ॥ साध्यसाधयत्तिद्धर्मभावी दृष्टान्त उदाहरणम् (१।१।३६)
यथा ‘तत्पूर्वकमनुमानमि’त्यत्र प्रतिबन्धप्रहणोपायमात्रं प्रतिपादितमिह तु प्रतिबन्धस्वरूपमुदाहरणसाधर्म्यवैधय॑युक्तमेवं लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः इत्यत्र वादिप्रतिवादिप्रतिपन्नत्वं द्विविधस्यापि दृष्टान्तस्य सामान्यलक्षणमुक्तमिह तु प्रयोज्यप्रयोजकभावव्यवस्थितसाध्यसाधनधमोधिक रणत्वमेकस्य द्वितीयस्य च तद्रहितत्वं लक्षणमुपपाद्यते । तत्र ‘साध्यसाधर्म्यात्त. धर्मभावी’ति साधर्म्यदृष्टान्तस्य लक्षणम् , वचनाधिकरणेऽप्यर्थात्मकदृष्टान्तचि न्तनं तदोपायिकत्वाद्धेतुवत्कर्त्तव्यम् , साध्गं धर्मविशिष्टो धर्मी तेन साधर्म्य साधनधो लिङ्गसामान्यं यत्तदुदाहरणसाधयें पूर्वमुक्तं तदेव द्विष्ठत्वादुभाभ्यां व्यपदिश्यते इतीह साध्यसाधर्म्यशब्देनोक्तम् , तस्मात्साध्यसाधयोधस्तद्धर्मः भावी तस्य साध्यस्य धर्मों नित्यत्वादियस्मिन्भवति स तद्धर्मभावी, पञ्चम्या प्रयोजकत्वमुच्यते, हेतुधर्मप्रयुक्तः साध्यधर्मों यत्रास्ति स साध्यधर्मदृष्टान्त इत्यर्थः, स एव च वचसा कर्मतां प्रतिपद्यमान उदाहरणं भवतीत्यर्थवचनवाचिनोईष्टा न्तोदाहरणशब्दयोः सामानाधिकरण्यमविरुद्धम् , दृष्टान्त एकान्वयध्यापकेन वचनेनोधमान उदाहरणमित्युक्ते तदभिधायकं वचनमुदाहरणमुक्तं भवत्येव. ‘यद्यत्कृतकं तत्चदनित्यं दृष्टं यथा घट’ इति॥
“नन्वेवं यत्र हेतुकृता साध्यधर्मसत्ता यथा जलधरोन्नमनवृष्ट्यादौ तादृश एव दृष्टान्त उपदिष्टो भवेन्न यत्र साध्यधर्मकृता हेतुसत्ता यथा धूमानुमान इति”।
प्रदर्शनको देवानांप्रियः, नात्रोत्पत्त्यपेक्षया प्रयोज्यप्रयोजकमावो विवक्षितः किन्तु ज्ञप्त्यभिप्रायेण, ज्ञप्तौ च धूमः एवाग्नेः प्रयोजकता प्रतिपद्यते, न हि ________________

अवयवप्रकरणम् ।
१३९ घूमाग्न्योः कार्यकारणभावेन गम्यगमकभावः किन्तु नित्यसाहचर्येणैव नियमनाम्ना सम्बन्धेनेत्यसकृदुक्तम् ।
धूमः स्वरूपतो नाम जायतां जातवेदसः। नानिस्तमाक्षिपत्येनं स एष ह्यग्निमाक्षिपेत् ॥ प्रयोजकत्वमग्नेश्व पञ्चम्या यदि कथ्यते । यत्र तत्रामिरित्येवं तनिर्देशः प्रसज्यते ॥ यस्य प्रयोजकत्वं हि चिख्यापयिषितं भवेत् । यच्छब्देन च पूर्वत्र स हि निर्देशमर्हति ॥ भवेदेवं च हेतुत्वं धूम प्रति विभावसोः । न च तधुज्यते वक्तुमनैकान्तिकदोषतः ॥
प्रयोजकत्वमिच्छन्ति तस्मानोत्पत्त्यपेक्षया । अपि तु ज्ञप्त्यभिप्रायं हेतोरेवोचितं तत् , तस्माद्धेतुधर्मप्रयुक्तः साध्यधर्मो य उत्थाप्यते स साध्यधर्मदृष्टान्तस्तद्वचनमुदाहरणमिति सिद्धम् ॥
तद्विपर्ययाद्वा विपरीतम् ॥ ( १॥ ३७ ) दृष्टान्त उदाहरणमिति वर्तते, तदिति साध्यधर्मपरामर्शः, तच यद्यपि पूर्वसूत्र लिङ्गसामान्यं तथाप्यत्र साध्यसाधर्म्य द्रष्टव्यम्,तद्विपर्ययात्साध्याभावाद्विपरीतः अतद्धर्ममावी साधनरहितो यो दृष्टान्तः स वैधर्म्यदृष्टान्तः पूर्ववद्वचसः कर्मतामापद्य मानो वैधयोदाहरणं भवति, विपरीतमित्युदाहरणापेक्षया नपुंसकलिङ्गनिर्देशः।
“किमर्थ पुनः साध्याभावात्साधनाभावो वैधय॑दृष्टान्तः स वर्ण्यते न पुनः साधर्म्यदृष्टान्तस्थित्या साधनाभावादेव साभ्याभाव इति” । उक्तमत्र
व्याप्यव्यापकमावो यः साध्यसाधनधर्मयोः ।
स एव वैपरीत्येन मन्तव्यस्तदभावयोः॥ इति । किं कारणम् ? साधनधर्मे हि धूमे साध्यधर्मेणामिना व्याप्तेनाग्निः तत्र निवेशमलभमानोऽनन्यत्रावकाशत्वाद् धूम एव निवेशितः, एवं साध्यधर्माभावेऽननौ साधनधर्माभावेनाधूमेन व्याप्ते सति धूमस्तत्र लब्धावकाशोऽनन्यगतित्वादमावेव निविशत इति, यदि तु साधर्म्यदृष्टान्तवत्तथैव व्याप्यव्यापकभावः ख्याप्यते साधनाभावे साध्यं नास्तीति तदा धूमाभावेनानमिना व्याप्तेनानिस्तत्रा. लब्धनिवेशो धूममवलम्बेतेति स्यात् , न चैतन्निवहत्यधूमेऽपि वह्निदर्शनादित्येवं सपक्षकदेशवृत्त हेतुत्वमपि प्रसिद्धं हीयते व्याप्तिवैधुयोदिति, अपि च धूमामावेनाग्न्यमावे व्याप्ते कध्यमाने सत्यधुमो नियमिवो भवत्यननिं माहासीदित्यग्निास्वनिगमितः स्वातन्त्र्यापधुममपि स्पृशेदिति व्यभिचारात्प्रतिबन्धो विप्लवे. ________________

.१४०
न्यायमञ्जयाम् त, तदुक्तं-‘यदा तु साध्याभावेन हेत्वभावो विरुध्यते साधनं ख्यापितं भवेत् , साध्यं पुनः स्वतन्त्रत्वाद्धेतुभावेऽपि सम्भवेत्’ इति(?)। तस्माद्यत्रापि समव्याप्तिको साध्यसाधनधमोविति सपक्षकदेशवृत्तित्वेनाहेतुत्वमाशङ्कयते तत्रापि सा. धनधर्मस्य विपक्षाद्यावृत्तिमभिधित्सता साध्याभावे साधनाभावो दर्शयितव्यः , यत्रानित्यत्वं नास्ति तत्राकृतकत्वमपि नास्ति यथाऽऽकाश इति, यो ह्यविद्यमा. नविपक्षो हेतुः सोऽपि सुतरां ततो व्यावृत्तो भवति तदभावात्तत्रावृत्तरिति , अतश्च सर्वपदाथोनित्यत्वं नास्ति, तत्र कार्यत्ववाद्येवमपि वैधय॑दृष्टान्तमप्रदर्श. यन्न वार्यते-यत्र नित्यत्वं नास्ति तत्र कार्यत्वमपि नास्ति यथा शशविषाणादा. विति, ते एते साधम्र्यवैधयाँदाहरणे अन्वयव्यतिरेकवति हेतावुभे अपि सम्भ वन्ती विकल्पेन प्रयोक्तव्ये, एकेनैव व्याप्तेः प्रदर्शनाकिमन्येन कृत्यम् । केचित्तु व्याप्तिसौष्ठवप्रदर्शनाय द्वयोरपि प्रयोगमिच्छन्ति, भवतु मा वा भून्नेदं महद्विमर्दस्थानम् । “ननु हेतूदाहरणाधिकमिति निग्रहस्थानमिदमादिष्टम्” समा. नजातीयाभिप्रायं तद्भविष्यति, साधर्म्यदृष्टान्तानेकवे वा तन्निग्रहस्थानमि त्यास्तामेतत्, इत्थं साधर्म्यवैधHदृष्टान्तरूपे व्युत्पादिते बलातल्लक्षणरहिता दृष्टान्ताभासा भवन्ति, तत्र साध्यविकलः साधनविकल उभयविकल इति वस्तु. दोषकृतास्त्रयः साधम्यदृष्टान्ताभासाः, अनन्वयो विपरीतान्वय इति द्वौ वचनदोषकृतो, यथा नित्यः शब्द अमूतत्वादित्यत्र बुद्धिवदिति साध्यविकलो दृष्टा. तः, परमाणुवदिति साधनांवकलः, घटवदित्युभयविकलः, व्याम्नि नित्यत्वा. न्मर्तत्वं विद्यते इत्यनन्वयः, यदमूर्त तन्नित्यमिति वक्तव्ये यन्नित्यं तदमर्तमिति विपरीतान्वय इति। वैधयदृष्टान्ताभासा अपि पञ्चैव-साध्याव्याकृतः साधनाव्याकृतः उभयाव्यावृत्त इति वस्तुदोषास्त्रयः, अन्यतिरेको विपरीतव्यतिरेक इति वचनदोषौ द्वो, यथा तत्रव हेतो यत्र नित्यत्वं नास्ति तत्र मूतत्वमपि नास्ति यथा परमाणुष्विति साध्याब्यावृत्तः, बुद्धाविति साधनाब्यावृतः, यथाऽऽकाश इत्युभयाव्यावृत्तः, नित्यत्वामूर्तत्वे घटे न विद्यते इत्यव्यतिरकः, यत्र नि. त्यत्वमपि नास्ति तत्रामृतत्वमपि नास्ति इति वक्तव्ये यत्रामूर्तत्वं नास्ति तत्र नित्यत्वमपि नास्तीति विपरीतव्यतिरेक इति । एते च वस्तुवृत्तंन हेतुदोषा एव तवनुविधायित्वादत एव हेत्वाभासवत्सूत्रकृता नापदिष्टाः अस्माभिस्तु शिष्य. हिताय प्रदर्शिता एव ॥
उदाहरणापेक्षस्तयेत्युपसंहारो न तथेति वा सा.
ध्यस्योपनयः ( १।११३९ ) बाहरणमात्मलाभेऽपेक्षत इत्युदाहरणापेशः पक्षाधर्मोपसंहार उपनयः, द्विविधिश्वासौ तथेति न तथेति वा उदाहरणद्वैविध्यात् , तत्र साधम्योंदाहरणापे. ________________

अवयवपकरणम् ।
१४१
वास्तथेत्युपनयो यत्कृतकं तदनित्यं दृष्टं यथाऽऽकाशः, न च न तथा कृतकः शब्द इति, अत्रापि निषेधद्वययोगाद्विधिरेव गम्यते । ___ “ननु साध्यस्येत्यवाचकः सूत्रावयवः पक्षधोपसंहारो छुपनयो न साध्यो. पसंहारः, साध्यो हि धर्मो धर्मी वा स्यान्न तयोरन्यतरस्याप्ययमुपसंहार इति” । ___ उच्यते-साध्यो धयेव न धर्म इह विवक्षितः, तत्रायं हंतोरुपसंहा. रस्तथा च कृतकः शब्द इति, सेयं साध्यस्येति सप्तम्यर्थे षष्ठी मन्तव्या साध्ये धर्मिणि हेतोरुपसंहार उपनय इति ।
“नन्वाधारविवक्षायामिह प्राप्नोति सप्तमी । सम्बन्धमात्रे वाच्ये वा कथमाधारतोच्यते ॥” नतत्सम्बन्धसामान्येऽप्युक्ते भवति धर्मिणा। योगो विशेषचि तायां तस्य त्वाधारता भवेत् ॥ विशेषेऽन्तर्निगढे च प्रायः षष्ठी नियुज्यते ॥ शेषो नामाविवौव कारकाणामिति स्थितिः॥ तथा च राज्ञः पुरुषो ब्राह्मणस्य कमण्डलुः ।
तरोः शाखेति सर्वत्र विशेषोऽन्तर्व्यवस्थितः ॥ अतश्च धर्माय जिज्ञाया धर्मजिज्ञासा सा हि तस्य ज्ञातुमिच्छेतिवत्सम्ब. न्धमात्रसमर्पिकाऽपि सेयं पष्ठी विशेषपर्यवसाना भविष्यतीति सूक्तं-‘साध्य. स्योपसंहार” इति,
उपनयागीकारे आक्षेपः। “ननूपनयवचनमनर्थकं पचाहतुदृष्टान्तवचनैः कि न पर्याप्तं यदर्थ मुपन. यवचनमुच्चार्यते ? यदि धर्मिणि हेतोः सत्त्वसिद्धये तदभिधानं तदप वृथैव श्रमः पक्षाधर्मवचनेनैव कृतकत्वादित्येवमादिना सिद्धत्वात् , अथ साध्य. दृष्टान्तधर्मिणोः साध्यापादनाय तदुचारणं तदपि न चतुरस्रमुदाहरणसाध.
ादित्यनेनैव गतार्थत्वात् , उदाहरणसाधर्म्यवचनं हि हेतुवचनमव भवेत , अथ स्वप्रतिपत्तौ तदर्थदर्शनात्परं प्रति तद्वचनं तत्रापि परामर्शज्ञाने विवदन्ते, अपि च स्वयं दधिभक्षणसमनन्तरं यदि कदाचिदनुमेयमितिइपजायते तरिक परस्मै तदुपदिश्यताम् , योऽप्ययं प्रतिज्ञाहेतूदाहरणोपनयनिगमनप्रयोगक्रम आश्रीयते सोऽपि स्वप्रक्रियानुरागनिर्मित एव न वस्तुबलप्रवृत्तः, तथा हि यद्य. स्कृतकं तत्तदनित्यं दृष्टं कृतकश्व शब्द इतीयतो वचनात्को नाम शब्दानित्यतां नावगच्छेत् , वामे चात्र सत्यव्रतधनः प्रमाणं डिण्डिकरागं परित्यज्याचिणी निमील्य चिन्तय तावत्किमियवाऽय बुद्धघसे न वा, तस्मात्स्वप्रक्रियापचापातमपास्य पञ्चावयवमेवं क्रमकं वाक्यं प्रयुच्चेति” । ________________

१४२

न्ययमचर्याम्
उपनयाक्षेप माधिः । अत्रोच्यते-इदं तावद्भवान्पृष्टो व्याचष्टां किं स्वप्रतिपत्तिमनुसरन्तः परप्रतिपादनाय वाक्यवचनां कुर्मः उत परहृदयानुवर्तनेनेति ? तत्र परा. भिप्रायस्य वैचिच्यात्परोक्षात्वाच्च दुरवगमत्वेन न विद्गः किं विदध्महे किं भुवमुत्तिापामः किमरनिना परं पीडयामः उत हस्तसंज्ञया व्यवहरामः आहो हेतुमात्रमेव केवलं प्रयुज्महे किं वा व्यवयवं वाक्यमभिदध्मः उत पञ्चावयवादपि वाक्यादधिकमाख्यानकमस्मै वर्णयाम इत्ये. वमनवस्थितत्वात्पराभिप्रायस्य खप्रतिपत्तिमेवानुसरता परः प्रत्याय्यः, तत्र स्वप्रतिपत्तो पर्वतादिधर्मी प्रथम दृष्ट इति स प्रतिज्ञया कथ्यते, ततो धूमादि. लिङ्गमुपलब्धमिति हेतुवचनेन तदावेद्यते, ततो यत्र धूमस्तत्राग्निर्यथा महानस इति व्याप्तिस्मरणमभवदिति दृष्टान्तवचसा तदभिधीयते, ततस्तथा चायं धूम इति परामर्शज्ञानमुदपादीति तदुपनयवचनेन प्रतिपाद्यते, ततस्तस्मादत्राग्निरित्यनुमेयज्ञानमुपजायते इति निगमनेन तदुच्यते, ततः परं प्रति पर्यवसानाकिमन्यदुपदिश्यतामिति, न च दधिभचाणसदृशमतोऽन्यतममपि भवितु. महत्यनुमेयप्रतिपत्तावुपादेयत्वात, येषामपि मते परामर्शज्ञानं नास्ति तैरप्युपनयवचनमवश्यमेवापरिहार्यमनुमेयप्रतिपत्तये, दृष्टान्ते दर्शितशक्तिरेव हेतः प्रभवति नान्यथेस्यतो यद्यपि पक्षधर्मवचनेन हेतुसंबन्धमात्रमुपपादितं तथाप्यत्र नाहधान्तदर्शितशक्तिधर्मः स तस्मिन्धर्मिणि तथाविधो हेतुः स्यान्न वेत्यसिद्धाशङ्काशमनमुपनयवचनमन्तरेण न भवत्येवेत्यवश्यं प्रयोक्तव्यं तदिति । स्वप्र. तीत्यनुसरणेन च वाक्यरचनायाः स्थितत्वात्क्रमोऽपि यथोक्त उपयुज्यते, अत एव च यत्कृतकं तदनित्यं दृष्टमित्यभिधानमनुपपन्नमनवगते धर्मिणि तद्वतिनि च हेतौ प्रथममेव व्याप्तिस्मरणासंभवेन तद्वचनायोगात्, तदिदमवयवविपर्या. सवचनमप्राप्तकालनिग्रहस्थानमुपदेच्यामः, अपि च ‘यत्कृतकं तदनित्यं दृष्टं कृतकश्व शब्द इत्येतावदेव प्रयोक्तव्यमिति वदता भवता कृतकश्च शब्द इत्ये. सावदेव प्रयोक्तव्यमिति इतीदमुपनयवचनमनुज्ञातं कृतकत्वादिति पक्षधर्मवच. नं तु निहनुतम् , “कृतकश्च शब्द इत्येतदेव हेतुवचनमिति चेत्"न प्रयोजकस्य पञ्चम्यादिनिर्देशाईत्वादिति यत्किंचिदेतत् , यदप्युच्यते “विदुषां वाच्यो हेतुरेव केवल” इति, तदप्यचारू, विद्वद्भिविद्वत्त्वादेव हेतोरपि प्रज्ञानात, अपूर्वा इमे विद्वांसो ये प्रतिज्ञावयवचतुष्टयस्याथै जानन्ति हेतुवचनस्य न विदन्तीति, तस्मात्पराशयस्य सर्वथा दुर्बोधत्वात्पूर्वाक्तेनैव क्रमेण स्वानुभवसाक्षिकेण वा. क्यरचनां कृत्वा परः प्रत्याय्य इति ॥
हेत्वपदेशात्प्रतिक्षायाः पुनर्वचनं निगमनम् ॥ ( १॥१॥३९) हेतुर्मिणि नितिशक्तिः साध्ये धर्मिण्यपदिश्यतेऽनेनेति हेत्वपदेश उप.

  • ________________

अवयवप्रकरणम् ।
१४३ नयः, तस्माद्धेस्वपदेशात्प्रवृत्तं प्रतिज्ञायाः पुनर्वचनं निगमनं, निगम्यन्तेऽनेन पूर्वो. क्ता अवयवा एकत्र साध्येऽर्थे समर्थ्यन्ते नियोज्यन्ते इति निगमनम् -तस्मा. स्कृतकत्वादनित्यः शब्द इति, तदिदं निगमनं साधर्म्यवैधय॑भेदेन हेतोदृष्टान्त. स्य च तदपेक्षिणश्च तथा न तथेत्युपनयस्य द्वैविध्येऽपि प्रतिज्ञावचनवत्तुल्यमेव भवति ।
प्रतिज्ञावयवाक्षेपः । “ननु प्रतिज्ञावचनमेव तावदसाधनाङ्गवचनत्वादपार्थकम् , तस्या एक तु पुनर्वचनं नियमनमसाधनाङ्गवचनवादपार्थकम् , तस्या एव तु पुनर्वचनं निगमनमधुना सफलं भविष्यतीति केयं कथा, प्रतिज्ञायाः पुनर्वचनमिति च न वाचको प्रन्थः साध्यनिर्देशो हि प्रतिज्ञा सिद्धनिर्देशस्तु निगमनमिति, वाचके वा प्रन्थे पोनरुक्त्यादेव निगमनाय नष्फल्यम् , स्वप्रतिपत्तौ च परा. मर्शज्ञानानन्तरं साध्यावगतिरेव भवन्ती दृश्यन्ते सा परस्याप्युपनयवचनश्रव. रणसमनन्तरमुपजायत एवेति किं तदुक्त्या प्रयोजनम्”।
उक्ताक्षेपसमाधिः। उच्यते-प्रतिज्ञायास्तावत्साफल्यं समर्थितमेव तस्याश्चेदं पुनर्वचनं सिद्ध. साध्यभेदे सत्यपि धर्मिधर्मनिर्देशमात्रमास्यादुच्यते, सिद्धसाध्यभेदादेव च न पौनरुक्त्यकृतमसाफल्यं स्वप्रतिपत्तिसमये च परामर्शज्ञानानन्तरं साध्यबुद्धि. रुत्पन्ना सा परस्मै कथ्यमाना न निष्प्रयोजना भवति,
तस्माद्धेतोरिदं साध्यमहमज्ञासिषं यथा ।
तथा त्वमपि जानीहि मा स्म विघ्नोऽत्र ते भवेत् ॥ एवमुक्त संशयानस्य संशयः शाम्यति विपर्यस्तमतेश्च विपर्ययस्तदर्थश्च परार्थानुमानोपन्यासश्रमस्तदिदं विपरीतप्रसङ्गनिषेधार्थ निगमनमाहुः ।
ये तुयथाश्रुवसाध्यनिर्देशात्मकप्रतिज्ञापुनर्वचनसमर्थनलामादपि प्रतिज्ञायाः सिखिमयुषमाना असाधारणशकाव्यवच्छेदाय निगमनवचनमिच्छन्ति, ते न सम्यगभ्ययुः, असाधारणाशङ्कायाः दृष्टान्तवचनेनैव निरस्तत्वात् , विशेषस्य हि हेतुत्वशङ्कायामसाधारणशङ्कास्यायत्कृतकं तदनित्यमिति दृष्टान्तवचसा सामा. न्यस्य हेतुत्वे कथिते कथमसाधारणत्वमाशङ्क्येत, यदि पुनरुपनयवचनेन साध्ये धर्मिणि हेतोउपसंहारादसाधारणत्वमाशङ्कत तत्पुनदृष्टान्तमिवृत्ति त्वमस्य दर्शयितव्यम, तस्मिन्दर्शिते पुनस्तवृत्तित्वाद्धर्मिण्यसिद्धत्वमाशङ्कनीयं पुनस्तद्यावृत्तये धर्मिणि हे तोरुपसंहारो विधेय इत्येवमसाधारणाशकाव्युदासाय प्रयोगः किन्तु पूर्वरीत्यवेति, तस्माद्विवत्तितेऽर्थे यथोदित क्रमनिवेशिनोऽवय. वान् एकत्र संघदयितुं निगमनवचनं प्रयोक्तव्यम् । ________________

१४४
न्यायपअर्याम्
अवयवेषु प्रमाणभिसंप्लवः । त इमे प्रतिज्ञादयो निगमनपर्यन्ताः पञ्चावयवा यथासम्भवमागमादिप्रमाणानुगृहीताः परस्पारनुषक्ताश्च स्वार्थ साधयन्ति, तत्र मुख्यया वृत्त्या प्रतिपाद्य. नानुमानेनैव सर्वेऽवयवा अनुगृह्यन्ते प्रपञ्चाय तु प्रमाणान्तरानुग्रह एषामुच्यते, प्रतिज्ञायास्तावदागमोऽनुग्राहक उपेयते उपदेशस्वभावत्वात् , अनित्यः शब्द इत्युक्त्वा त्वेवंविधे विषये ऋषिवदस्वतन्त्रत्वादनुमानमुपदिशन्ति, प्रतिज्ञावचनं तु तच्छायानुपातित्वाच्छब्दप्रामाण्यसिद्धयर्थे वा शास्त्र तत्प्रतिज्ञायाः शब्दवि. षयत्वादागमानुगृहीतमुच्यते, हेतुवचनमनुमानेनानुगृह्यते, उदाहणं तु प्रत्यक्षण तन्मूलत्वाद्वयाप्तिपरिच्छेदस्य यथागोस्तथागवय इति च यथा घटस्तथा शब्द इत्य. नया च्छाययोपमानकरणभूतवनेचरादिवचनसदृशत्वादुपमानमुपनयस्यानुग्राहः कमभिधीयते, निगमनम्य तु सर्वावयवानामेकत्र नियोजनार्थत्वात्सर्वप्रमाणानु प्राधतेवेतरेतरापुषक्तत्वात् , प्रतिज्ञां विना निराश्रयो हेतुर्भवेदिति सा पूर्व प्रयोक्तव्या अनित्या शब्द इति, ततो हेतुं परो जिज्ञासत इति हेतुवचनमुञ्चायते कृतकत्वादिति, हेतौ श्रुते कास्य व्याप्तिरवधृतेति दर्शयितुमुदाहरणमुच्यते यत् कृतकं तदनित्यं दृष्टं यथा घट इति, एवमुक्त किमीहशो निोतशक्तिरेष हेतुः साध्यमिणि भवेन वेत्यसिद्धताशङ्कामपाकर्तुमुपनयः प्रसज्यते, ततोऽमुना क्र. मेण तथापि साध्यप्रतीतिर्भवत्विति सर्वावयवानेकत्र साध्येऽर्थे समर्थयितुं निगमनमभिधीयते, अन्यतममवयवमन्तरेण सकलमिदमनुषक्तार्थवाक्यं स्या दिति पञ्चावयवमेव यथोपदृष्टक्रमकं वाक्यं प्रयोक्तव्यम् । ।
इत्यारब्धोपकारास्तदनुगुणफलैरागमादिप्रमाणेरन्योन्यापेक्षिणोऽमी नियतमवयवाः साधयन्त्यर्थजातम् । यश्चैतेषां प्रमेये वचसि च चतुरस्तस्य जातिप्रयोग. प्रायः शक्यो न पक्षः क्षापयितुमिति हि व्याहरवृत्तिकारः ॥
इति भट्टजयन्तस्य छत न्यायमचर्या व माहिक अविज्ञाततत्वेऽर्थे कारणोपपत्तितस्तत्वज्ञानार्थमूहस्तर्कः ॥ (११०४०)
अविज्ञाततत्त्वेऽर्थे इति सामानाधिकरण्यनिर्देशादर्थ एवान्यपदार्थों न पुरुषः, पुरुषो हि षष्ठ्या निरदेक्ष्यत अविज्ञातं तत्त्वमस्येति, तत्त्वपदोपादानेन धर्मिणः सामान्यधर्ममात्रविशिष्टस्य विज्ञातत्वं सूचयति, कारणोपपत्तित इति संशयज्ञानोल्लिख्यमानपक्षद्वयान्यतरपक्षोत्थापनानुकूलकारणावलोकनं त. स्वस्योत्थापकमाह, अत एवाविज्ञाततत्त्वेऽथे भवन्तावपि बुभुत्साविमौं न तर्कतां प्राप्नुतः, तत्वज्ञानार्थमिति साक्षात्प्रमाणतामस्य निरस्यति, प्रमाणा. नुग्रहं तु विशेषपरिशोधनद्वारेण विधत्तत्त्वज्ञानाय कल्पते, तर्क ऊह इति
.
M
…..
.

  • ________________

१४५
तर्कप्रकरणम् । पर्यायोपादानस्य प्रयोजनं वक्ष्यामः, तेनायं सूत्रार्थः-अविज्ञाततत्त्वे सामान्यतो ज्ञाते धर्मिण्येकपक्षानुकूलकारणदर्शनात्तस्मिन् सम्भावनाप्रत्ययो भवितव्य तावभासस्तदितरपक्षशैथिल्यापादने तग्राहकप्रमाणमनुगृह्य तान्सुखं प्रवर्त्तयस्तत्त्वज्ञानार्थमूहस्तर्क इति, यथा बाह्यकेलिप्रदेशादावूलत्वविशिष्टधर्मिदर्शना. त्पुरुषेणानेन भवितव्यमिति प्रत्ययः ॥
“ननु तत्त्वज्ञानार्थमित्युक्ते सति सामर्थ्यादविज्ञाततत्वता लभ्यते एवेति किमर्थ स्वकण्ठेन पुनरनूद्यते ?” । ___ बाढं किंतु कचिद्विषये ज्ञाततत्त्वेऽपि पूर्वतणावमृष्टे सत्युत्तरकालं तर्कि तो मयाऽयमर्थ इति स्मर्यमाणतर्कविशेषणतया गृह्यमाणो विशेषणीभूतस्तर्कस्त. वज्ञानार्थो भवतीति तयदासाय पुनरविज्ञाततत्त्वग्रहणम , मार्गशोधनद्वारेण तर्कस्य तत्त्वज्ञानार्थत्वमिह विवक्षितं तच्चाविज्ञाततत्त्वेऽर्थे सम्भवतीति । __ “ननु नैव संशयनिर्णयान्तरालवर्ती तर्कप्रत्ययः कश्चिदस्ति, तथा हि यदि तावदनवगतविशेषस्य भवत्यसौ प्रत्ययस्तहि संशय एव भवेदवगतविशेषस्य भवन्निर्णयतामेव स्पृशेत् , पुरुष एवेत्येवकारार्थाद्यन्मेषरहितोऽपि प्रत्ययो निर्णयो न न भवितुमर्हति, तुरगपरिसरणसमुचितदेशदर्शनमपि यदि स्थाणुपक्षे स्थगयितुमलमिति मन्यसे तत्करचरणादिनरविशेषदर्शनवत्तन्निर्णयकार. . णमेव स्यात् , अथ तस्यामपि तरगविहरणभुवि निखनति कश्चन स्थाणुमिति शङ्कसे, यद्येवं स्थाणुपक्षानपायात्पुनः संशय एव स्यादिति न तृतीयः पक्षः समस्तीति लक्षणभावात्कस्येदं लक्षणमिति ?” ___ उच्यते-न खलु स्वमतिपरिकल्पितविकल्पवितानेन प्रत्यात्मवदनायाः प्रतीतयो वरीतुं शक्याः , तथा हि.-स्थाणवा पुरुषो वेति प्रतीतिरेका पुरुष एवायमित्यन्या पुरुषेणानेन भवितव्यमिति मध्यवर्तिनी तृतीया संभावना. प्रतीतिः स्वहृदयसाक्षिकैव,
साम्येन हि समुल्लेखः संशये पत्तयोयोः । निर्णये वितरः पतः स्पृश्यते न मनागपि ॥
तर्कस्त्वेकतरं पदं विभात्युत्थापयनिव। ननु सम्भावनाबीजवाजिवाहनदर्शनाद्वाहकेलिप्रदेशविशेषदर्शनं हि पुंसि सम्भावनामात्रमुपजनयितुमलं न तु शिरःपाण्यादिविशेषदर्शनवत्सर्वात्मना स्थाणुः पश्चापसरणेन पुरुषनिर्णयाय प्रभवत्यतोऽयमगृहीतविशेषस्यैव भवति प्रत्ययो न तु संशयः एकतरपक्षानुकूलकारणोपपत्त्या जायमानत्वात् , कथं पुनः पाणिपा. दादिपुरुषविशेषवश्ववाहनदेशविशेषो विशेषकार्य न कुर्यात् करेगेवास्थाणुप. ’ क्षोत्सारणानिर्णय एवायमिति कस्यैष पर्यनुयोगः, यथा हि शिरःपाण्यादिदशने सति पुरुषनिर्णयो भवति न तथा तुरगवहनदर्शने सति, अननुयोज्याश्च
१० ________________

१४३
न्यायमअर्याम् पदार्था एवं भवतैवं मा भूतेति, यथा च देशान्तरे स्पर्धमान एव स्थाणुपत आस्ते न तथा वाहकेलिभूमावपि तु शिथिलीभवति संभवत्प्रमादत्वाञ्च न स. र्धात्मना निवर्तते।
“ननु यदि न निवर्तते तहि स्पर्धतां मा वा स्पर्धिष्ट स्थितस्तावस्थाणुपक्ष इति संशय एवायमिति”
मैवम् स्थाणुपक्षः सर्वात्मना (न) निवर्तते नाप्यास्ते एवमेवायं त्रिशङ्करिवालम्बमानः प्रत्ययान्तरनिवृत्तये प्रभवतीति तथा प्रत्ययानुभवादेव परिकल्प्यते, वाहकेलिप्रदेशदर्शने हि यथा पुरुषविशेषाः स्मरणपथमवतरन्ति न तथा स्थाणुविशेषाः उभयविशेषम्मरणजन्मा च संशय इति सोऽयं वाहकेलिप्रदेशविशेषःशिथिलयति स्थाणुपतं न सर्वात्मनोच्छिनत्तीति तदर्शनात्कृतकतत्कारणप्रत्यय इति न तद्धदयंगमं तेन क्रमेण निर्णय एवासौ तत्कारणतथात्वं न तक इति । अथ वा कार्योदाहरणत्वादस्य तत्रापि संशयनिर्णयान्तरालवर्ती तर्कप्रत्ययो द्रष्ट. व्यः स उदाहरणं भविष्यति । ___“उह इति पर्यायाभिधाने किं प्रयोजनं” लक्षणप्रतिपादनमेव, तदेव हि तर्कस्य लक्षणं यदूहरूपत्वं इतरस्तु सूत्रे कारणविशेषाय फलनिर्देशः, कार• णोपपत्तित इति कारणनिर्देशः, अविज्ञाततत्त्वेऽर्थे इति विषयनिर्देशः, तत्त्वज्ञानार्थ इति फलनिर्देशः। अपि च तर्कशब्दं के चिदनुमाने प्रयुजते, यथा स्मृतिकाराः पठन्ति
आषं धर्मोपदेशं च वेदशास्त्राविरोधिना। ____यस्तणानुसंधत्ते स धर्म वेद नेतरः ॥ इति ।
तदिहापि तर्कोऽनुमानं मा विज्ञायीत्यूहग्रहणम् , उहोऽत्र तर्क उच्यते नानु. मानं तत्त्वज्ञानार्थताऽप्यस्य प्रमाणानुप्राहकत्वेन न साक्षात् , तथैव चाथै साध. यितुमेष वादे प्रयुज्यते हृदयशुद्धिप्रकाशनार्थम् । ___ कापिलास्तु बुद्धिधर्ममूहमाहुः, स तसिद्धान्तप्रसिद्धसत्त्वरजस्तमोरूपप्रकृतिप्रभवभुवनसर्गादिव्यवहारनिराकरणवर्मना पूर्वमेव निरस्तः । __ जैमिनीयास्तु ब्रुवते-युक्तया प्रयोगनिरूपणमूह इति, इह हि किंचिदुपदिष्टदृष्टादृष्टस्वभावसकलेतिकर्तव्यताकलापं कर्म भवति यथाऽऽग्नेयोऽष्टाकपाल इति दर्शपूर्णमासकाण्डे पठितम् , क चित्पुनः प्रधानकर्ममात्रमुप. दिश्यते इतिकर्तव्यता तु काचन नाम्नायते, यथा-‘सौर्य चलं निर्वः पेद् ब्रह्मवर्चसकाम’ इति, तत्र विचार्यते-किमितिकर्तव्यताविरहितयथाश्रुतप्र. धानमात्रसंपादनेन तत्र शास्त्रार्थप्रयोगः परिसमाप्यते उत तदपि सेतिकर्तव्यताकं प्रधानमनुष्ठेयमिति, तत्रापूर्वप्रयुक्तत्वेन धर्माणां प्रतिकरणं भेदे स्थिते निरङ्गस्य प्रधानत्याननुष्ठेयत्वाद्विध्यन्ताधिकरणसिद्धान्तन्यायेन प्राकृतवद्वकृतं कर्म कर्तव्य. ________________

तर्कप्रकरणम् । मिति सेतिकर्तव्यताकं तदनुष्ठोयते, एवं सामान्यातिदेशे स्थिते सति कस्य वैकतस्य कर्मणः कुतः प्रकृतेधर्मा अधिगन्तव्या इति चिन्तायां द्रव्यदेवतादिचोदनासारूप्यपर्यालोचनोपनतहृदयसन्निधानप्राकृतकर्मविशेषसम्बन्धिन एव तत्र धर्मा भवितुमर्हन्तीति स्थापिते युगपदुपनिपतदनर्गलचोदकव्यापारोपनीतनिखि. लाखण्डमण्डलविध्यन्तकाण्डाधिगम्यधर्मसंबन्धप्राप्तौ सत्यां ते धर्माः कथं प्रयोक्तव्या इति युक्तया प्रयोगनिरूपणमूह उच्यते, येनेत्थं प्रयोक्तव्या इति धमा व्यवस्थाप्यन्ते, स च त्रिविधो मन्त्रसामसंस्कारविषयः, मन्त्रविषयस्तावद्यथाऽत्रैव सौर्ये चरो प्रकृतिवद्भावेनाग्नेयादग्नये त्वा जुष्ट निर्वपामीति निर्वापमन्त्रः प्राप्तः कथं प्रयोक्तव्य इति विचारणायामुच्चारणमात्रेण मन्त्राणामनुपयोगात्प्र. योगसमवेतद्रव्यदेवतादिप्रकाशनद्वारेण तदुपयोगस्य व्यवस्थितत्वादिहाविकृत एवायममये जुष्टमिति प्रयुज्यमानो मन्त्रः प्रयोगसमवायिनोऽथम्याप्रकाशनादस गतो भवेत् सर्वात्मना चोत्सृज्यमानो मन्त्री मन्त्रप्रकाशितकर्माननुष्ठानान्न प्रकृ. तिवत्कृतं भवेदित्यग्निपदोद्धारेण सूर्यपदप्रक्षेपेण मन्त्र ऊहेनेत्थं प्रयोक्तव्य इति गम्यते सूर्याय त्वा जुष्टं निर्वपामीति । ___ “ननुहप्रवरनामधेयानाममन्त्रत्वादित्थमपि न मन्त्रेण स्मृतं कर्मकृतं स्यात्” नैतत्-एकदेशविकृतमनन्यवद्भवतीति न्यायात् । सामविषयस्तु गीतयः सामानीति स्थिते क चित्कर्मणि ‘रथन्तरमुत्तरयोर्गायति, बृहदुत्तरयोगायतीति श्रुतेः सा बृहद्रथन्तरगीतिर्यस्यामृचि योनिभूतायामुत्थिता ततोऽन्यस्यामपि प्रयुज्यते, तागक्षरापायेऽपि च सामगीतिऋगन्तराक्षरेष्वपि प्रत्यभिज्ञाय. ते रथन्तरमनेन श्लोकमिति व्यवहारदर्शनात् । संस्कारविषयः खल्वपि प्रकृतौ प्रोक्षिताभ्यामुलूखलमुसलाभ्यामवहन्तीति संस्कारश्वोदितः कचिच्च. विकृतौ श्रूयते-‘नखनिर्भिन्नश्चरुर्भवतीति, तत्रोलखलमुसलयोः प्रकृतौ पुरोडा. शापेक्षिततुषकणविप्रमोकपूर्वकतण्डुलीभावसम्पादनद्वारेणोपयोगाद्विकृतावपिःत. कार्यापन्नानां नखानां प्रोक्षणाख्यः संस्कारः क्रियते इति, सोऽयं त्रिविध ऊहः । ___केचित्तु पञ्चविधमूहमाचक्षते ‘धर्मस्यार्थकृतत्वाद् द्रव्यगुणसंस्कारव्यतिक्रमप्रतिषेधे चोदनानुबन्धः समवायादिति(९।२।४ज्जै०) सूत्रमनुसरन्ता, एतत्त प्रतत्यमानमतिप्रसङ्गमावहति त्रिविधमेव चोहं याज्ञिका अनुमन्यन्ते इति । ___ अत्र वदन्ति-सोऽयमूहशब्दः श्रोत्रियैरनुमाने प्रयुक्तो यथा स्मृतिकारैः स्तत्र तर्कशब्दो यस्तकेंणानुसन्धत्त इति, तथा हि वैकृतं कर्म धर्मि तत्सम वेतार्थप्रकाशकमन्त्रप्रयोगनिवर्त्यमिति साध्यो धर्मः कर्मत्वात्प्राकृतकर्मवत् , मन्त्रो वा तत्समवेतप्रकाशकः प्रयोज्यो मन्त्रत्वात्प्राकृतमन्त्रवदिति । प्राकृ. तेषु च कर्मसु तथा तथा व्याप्तिग्रहणात्सर्वोऽयमनुमानमार्ग एव, नखाः प्रोक्षणीयाः प्रयोगोपयोगितण्डुलनिर्वतकत्वादुलूखलमुसलवदिति, सामसु तु स्पष्ट ________________

१४८
न्यायमञ्जर्याम् मेव वचनमस्ति रथन्तरमुत्तरयोर्गायतीति तदभावेऽपि मन्त्रसंस्कारसमानयो. गौमत्वमेव ।
अपि च शब्दपृष्ठस्थितन्याये सहस्रव्युत्पादनात्मके मीमांसाशास्त्रे तन्न्याय लभ्योऽर्थश्चोदनार्थ एवेति स्थापितम् , अतश्च यथोक्तोहलभ्यस्यार्थस्य चोदनार्थता मा निर्वतिष्टेति सोऽयमूहः शब्द एवान्तर्भावणीयः प्रमाणान्तरगोचरो वा धर्मः स्यात् , न्यायविशेषात्मकस्तूहो नानुमोनादर्थान्तरं स्यात्, अमय इत्यस्य स्थाने सूर्यायेतिपदस्य प्रयोग ऊहस्य फलं नाहः, इह तु पूर्वोक्तया नीत्या प्रमाएव्यतिरिक्त उह उपपादितः, श्रोत्रियास्तु तदनभिज्ञतया न्याये न्यायफले वो. हशब्दमुपचरितवन्त इत्यलं शास्त्रान्तरोद्गारगहनाभिः कथाभिः ।
तदेष मीमांसककल्प्यमानो नोहः प्रमाणव्यतिरेकमेति । प्रमाणसन्देहदशान्तरालवर्ती तु तर्कः कथितोऽत्र शास्त्रे ॥
इति (८)तर्कपदार्थः। तर्कानन्तरं निर्णयो भवति पठितश्चेति स लक्ष्यतेविमृश्य पक्षप्रतिपक्षाभ्यामविधारणं निर्णयः ॥ अ०१ आ०१ सू०५१ ___ अवधारणमपि तथा स्यादित्यर्थग्रहणम् , इन्द्रियादिजनितमपि तदवधारणमस्त्येव न्यायोपरमहेतोस्तु निर्णयस्योद्देशात्स एवानुमानजन्यो लक्षणीय इहेति पक्षप्रतिपक्षाभ्यामित्युक्तम ,
एकाधिकरणौ धौ तुल्यकालो विरोधिनी ।
पृथक्परिग्रहो पक्षप्रतिपक्षावुदाहृतौ ॥ “न हिताभ्यां निर्णयः तयोरन्यतरविषयो हि भवति न तत्करणक एवेति” सत्यम् , इह तु पक्षप्रतिपक्षशब्दाभ्यां तद्विषयो साधनतदुपालम्भौ लक्ष्येते, तौ च तस्मिन्करणमेव । “किमर्थं पुनर्लक्षणा ऽऽश्रीयते साधनोपलम्भाभ्यामेवेति कथं न सूत्रितम” एवमभिधीयमाने पुनस्तयाविषयो मृग्यः लक्षणाप्रयोगे तु सोऽप्य. वगतो भवेत, मुख्यमभिधाय तदितरो लक्ष्यते । “भवत्वेवं द्वाभ्यां कथं तु नि. र्णयः एकमेव हि साधनं निर्णयाय कल्पते” एवमेतत् , न द्वितीयमपि साधनं निर्णयनिमित्तमाचक्ष्महे किन्तु तदुपालम्भं साधनं चः साधनोपालम्भश्च साध. नोपालम्भो ताभ्यां निर्णयः। ____एतदुक्तं भवति-स्वपक्षं प्रमाता निर्णयतीति न खल्वेवं न जाने च दूष. णमुत्प्रेक्षमाणः स्वपक्षे साधनमधिगच्छन्परपक्षसाधने च दूषणमुत्प्रेक्षमाणः प्रमाता निर्णयतीति किं तूपालम्भस्य क इव निर्णयजन्मनि व्यापारः स हि परपक्षसाधनमवच्छिन्यादिति, अस्त्वेतत् तदुच्छेदद्वारेण अपि तु खपक्षसाधनमहिमानमाविष्कुर्वन्कल्पत एव निर्णयायेति युक्तो द्वयोरपि करणभावः ।
“नन्विदानीमर्थग्रहणमनर्थकमेबंविधसाधनाधीनजन्मा हिन निर्णयामासः ________________

निर्णयमकरणम् । १४९ सम्भवति, साधनोपालम्भलक्षणार्थावपि च पक्षप्रतिपक्षशब्दो विषयमभिवदितुं ननु शक्नुत इस्युक्तमेवेति कोऽर्थोऽर्थग्रहणेन ?”; ___ उच्यते-पक्षप्रतिपक्षयोस्तु द्वयोरन्यतरत्रार्थेऽवधारणं भवति नोभयत्र, स एव च परमार्थतोऽर्थ इतरस्तु भ्रान्तिकल्पित इति प्रदर्शनायार्थपदोपादान. म्। लक्ष्यमाणसाधनोपालम्भनिष्ठत्वात्तु पक्षप्रतिपक्षशब्दयाविषयनिर्देशार्थमर्थपदमित्येके । “विमृश्येति किमर्थ” वस्तुस्वरूपकथनार्थमेव, अनुमानकरणको हि निर्णय इह लक्ष्यते इत्युक्तम् , अनुमानं च संशयविषये प्रवर्तते इति तर्कान. न्तरमप्यनेनैवाशयेनास्योपादानम् , संशयादनन्तरं तर्कस्तांदूर्ध्व च निर्णयो दृष्टः प्रवर्तमानोऽतस्स तत्पूर्वक उच्यते ।
निर्णये तु समुत्पन्ने बुभुत्सा विनिवर्तते ।
अत एव हि मन्यन्ते तदन्तं न्यायचिन्तनम् ॥ “भवत्वेवमिदं तु चिन्त्यतां-क नियमः किं विमर्श किं पक्षप्रतिपक्षयोः किं निर्णय इति, त्रये ऽपि च नोपपद्यते इति, न विमृष्यैव निर्णयः अविमृष्यापि भावात् , न पक्षप्रतिपक्षाभ्यामवेन्द्रियादेरपि तदुत्पादात , न निर्णय एव तर्कस्यापि कचिदनिवृत्तेः” उक्तमत्रोद्देशसूत्रे तत्वज्ञानपदोपादानात्प्रमाणपदेन घ तत्फलाक्षेपान्न निर्णयमात्रोद्दिष्टेन किमपि प्रयोजनं विशिष्टस्तु निर्णयो ल. क्षणत्वेन विवचितः।
परीक्षाविषयो यो हि निर्णयो न्यायनिर्मितः ।
नियमत्रयमप्येतत्तस्मिन्न हि न युज्यते ॥ न हि (न) विमृष्यैव भवन्ति विमर्शपूर्वकत्वात्परीक्षायाः, अनुमानं च सन्दिग्धे विषये प्रवर्तते इति प्रायेण तद्व्यवहारः । __ यद्यपि कचिदसन्दिग्धेऽपि विषये दृष्टं प्रवर्तमानमनुमानमनलानार्थता. यामतर्कितोपनतपर्वतनितम्बनिर्गतधूमदर्शनेन कृशानुकल्पनमिव, तथापि वस्तुयोग्यतावशेन सन्दिग्धविषयमेवानुमानमिच्छन्ति न्यायविदः, प्रकृतश्व निर्णयः पक्षप्रतिपक्षाभ्यामेव निर्णय एवेति न शक्यते नियन्तुमन्यथा न्यायानुपरमादिति, शास्त्र तु विनापि संशयादस्ति निर्णयः ॥
यद्यपि च तत्रापि सूत्रकृता सर्वपरीक्षाणां संशयपूर्वकत्वमुपदेशातिदेशा. भ्यामभ्यधायि, तथापि नासौ शास्त्रीयो निर्णयः परीक्षाकार्यत्वात् , यस्तु शा. स्त्रत एव कचिद्विषयनिर्णयः स विमर्शवर्जमुत्पद्यते, वादे ऽपि विमर्शरहिते भवति निर्णयः, उभौ निश्चितो वादं कुरुतः सन्दिग्धस्य तत्रानधिकारात् , “कथं तष प्रवादः संशयच्छेदो वादस्य फलमिति? " प्रथममुभयोरपि निश्चितयोर्वादप्रवृत्तावन्तराले बलादापतति युक्तिद्वयोपनिपातवतः संशय इति वस्तुनिर्णयावसानत्वाद्वादस्य संशयच्छेदफलत्वमाचक्षते । ________________

१५०
न्यायमचर्याम्
यद्यप्यनिश्चिवमतिः कुरुते न वादं श्रुत्वा तथापि परकीयनयप्रवेशम् । अन्तर्मतद्वयबलाबलचिन्तनेन संशय्य निर्णयति नूनमसौ स्वपक्षम् ॥
इति (९)निर्णयपदार्थः । न्यायपरीद्वा क्षारकवस्तुविचारयोग्यास्तिस्रः कथा वादिनो भवन्ति-‘वादो जल्पो वितण्डे ति, तत्र वादस्तावदुच्यतेप्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः प.
क्षप्रतिपक्षपरिग्रहो वादः ॥ अ. १ आ. २ सू. १ । पक्षप्रतिपक्षी व्याख्यातो तयोः परिग्रहो ऽभ्युपगमो नियमः , एको वक्ति नित्यः शब्दः अपरस्त्वनित्यः शब्दः इत्याह-सोऽयं पक्षप्रतिपक्षपरिग्रहो :वादः, एतच्च रूपं कथात्रये ऽपि साधारणमिति विशेषमाह-प्रमाणतर्कसाधनोपालम्भ इति, प्रमाणैस्तर्केण च साधनं साधनोपालम्भश्वास्मिन्क्रियते इति प्रमाणतक. साधनोपालम्भः, न त्वीदृशी वितण्डा तस्याः प्रतिपक्षसाधनोपन्यासशून्यस्व. भावत्वात् ।
“ननु प्रत्यक्षादेः प्रमाणस्य परप्रतीत्यनुपायत्वान्न तेन वादे साधनोपालम्भो शक्यक्रियौ, तकस्य तु प्रतीतिसाधनत्वमपि तावन्न सम्भवति सम्भावनाप्रत्ययस्वभावत्वात्किमुत परप्रत्यायनाङ्गतेति नतरां तस्य साधनोपालम्भहेतुत्वम्” सत्यमेवमिह तु न प्रमाणशब्देन प्रत्यक्षादेरनुमानमपि तुःप्रमाणमूला अवयवा उच्यन्ते तैश्च सिद्ध्युपालब्धी क्रियेते , एवं तर्कस्य तु स्वतः साधनो. पालम्भकरणकौशलशून्यात्मनो ऽपि प्रमाणानुप्राहकत्वात्पारम्पयेण तधेतो. राशयशुद्धिप्रदर्शनार्थमुपादानम् ,
“यद्येवं प्रमाणपदेनैव तन्मूलावयवप्रतिपादनात्पञ्चावयवोपपन्नग्रहणमतिरिच्यते”
तत्र केचिदाचक्षते-प्रमाणतर्कसाधनोपालम्भ इति वादलक्षणे छलजा. तिनिग्रहस्थानसाधनोपालम्म इति च जल्पलक्षणे श्रवणाद्वादे सर्वात्मना छला. दिनिषेधप्रसक्तौ कतिपयनिग्रहस्थानोद्भावनाभ्युज्ञानार्थ पञ्चावयवोपपन्नग्रहणम् , अनेन च ‘हीनमन्यतमेनाप्यवयवेन न्यूनम् । हेतूदाहरणाधिकमधिकमि’ति न्यूनाधिकयोरुद्भावनमनुचायते, सिद्धान्ताविरुद्धग्रहणेनापि ‘सिद्धान्तमभ्युपेत्य त. द्विरोधी विरुद्ध’ इति विरुद्धाख्यहेत्वाभासोद्भावनमनुज्ञातमित्येवं वादे त्रीणि निप्रहस्थानान्युद्भावनीयानि ।
अन्ये वदन्ति-“विरुद्ध एव हेत्वाभासो वादे चोद्यते नानकान्तिकादि. रि"ति, कथमेतद् युज्यते ‘निग्रहस्थानेभ्यः पृथगुपदिष्टा हेत्वाभासा वादे चोद. नीया भविष्यन्तीति भाष्यकारवचनात्प्रमाणपदेन च तन्मूलावयवाक्षेपात्प्रमाणा ________________

१५१
वादप्रकरणम् । भासमूलनिरासे सति सकलहेत्वाभासोद्भावनमपि तत्र सिद्धमिति । “सि. द्धान्ताविरुद्धग्रहणेन सिद्धान्तमभ्युपेत्यानियमात्कथाप्रसङ्गो ऽपसिद्धान्त इत्यप. सिद्धान्ताख्यनिग्रहस्थानानि वादे उद्भाव्यन्त इति” तदनुपपन्नं न हि त्रीणि वा अष्टौ वा वादे निग्रहस्थानानि चोदनीयानीति चोदना वैदिकी राजशासनं वा वस्तुपरिशुद्धिसाधनं सर्वमेव तत्र प्रयोगाईम् , अयं तु विशेषः जल्पे कस्यांचिवस्थायां बुद्धिपूर्वकमपि छलादिप्रयोगः क्रियते वादे तु वृथा तेषां प्रयोगः, भ्रान्त्या तु कथंचित्प्रयुक्तानामवश्यमुद्भावनमनुद्भावने वस्तुपरिशुद्धर. भावात् ।
“कथं तीदं पदद्वयं सिद्धान्ताविरुद्धः पञ्चावयवोपपन्न इति” अपसिद्धा. न्तादिसम्यग्दूषणदिक्प्रदर्शनेनैवम्प्रकारवस्तुशुद्धयनुगुणनिग्रहस्थानजाताद्यनुज्ञा. नार्थमेवेत्यभियुक्ताः, अप्रतिभाविक्षेपादयो हि न वादे पराजयहेतवः क्षणा. न्तरेणाप्यागत्यानुस्मृत्य च साधनमुपालम्भं वा तत्र वदन्न पराजीयते, प्रतिज्ञा. हान्यादि तु सम्यक्पराजयकारणमखिलमाभ्यां पदाभ्यामभ्यनुज्ञातमत्रेति । __ “नन्विदानी प्रमाणतर्कग्रहणमपार्थकं पञ्चावयवोपपन्नपदेनैव प्रमाणमूलावयवोपदेशाद्वस्तुपरिशुद्धयनुगुणनिग्रहस्थानाभ्यनुज्ञानाच्च किमिव नो. क्तम्” न अभिप्राये नैर्मल्यनिवेदनद्वारकवादजल्पविवेकप्रतिपादनार्थत्वात् , स्वप्रतिपत्तिसाधनमपि प्रत्यक्षादि वादे प्रयोक्तुमुचितमाशयशुद्धिमुपद
शयितुमत्र वस्तुनि मम प्रथमं तर्क इत्थं प्रवृत्त आसीत्ततः प्रमाणमिदं प्रवृत्तमित्येवमपि तत्र वक्तव्यमत एव चान्यतरपक्षनिर्णयावसान एव भवति वादः, न जल्पवदलीकदूषणाडम्बरविरचितपरपरिभवपर्यवसानोऽपीति तथा बुद्धिपूर्वमाभासानामप्रयोग इति निर्मत्सरकथात्वमस्योक्तमित्यकलुषाकूतकथनाय प्रमाणतकपदम् ।
अपि च साधनोपालम्भव्यतिषङ्गप्रतिपादनमपि तस्य फलमुभावपि परस्परमनुबन्धेन वादिभ्यां परीक्ष्यमाणौ पक्षप्रतिपक्षी वादतां प्रयोज. यतो न तु स्वगृहे शास्त्रे वा विविच्यमानौ, प्रमाणैरेव जल्पे व्यवहार इति निय. मशङ्कानिरसनमपि तत्पदोपादानप्रयोजनमुक्तमन्यैरिपि कृतमतिविस्तरेण सर्वथा वादलक्षणं सवै सुस्थम् ।
वादं च निर्णयफलार्थिभिरेव शिष्यसब्रह्मचारिगुरुभिः सह वीतरागैः । न ख्यातिलाभरभसप्रतिवर्धमानस्पर्धानुबन्धविधुरात्मभिरारभेत ॥
इति (१०)वादपदार्थः ॥ यथोक्तोपपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः ॥
गौतमसू. अ. १ आ. २ सू. २ ॥ ________________

१५२
न्यायमचर्याम् यथोक्तोपपन्नग्रहणेन सर्वातिदेशे वादजल्पयोरविशेष इति शङ्कमानाः के चन पक्षप्रतिपक्षपरिग्रहमात्रातिदेशमेव व्याचक्षते, इयतस्तु पूर्वसूत्रानुवृत्या. ऽपि सिद्धर्मन्दफलमेव यथोक्तोपपन्नवचनं भवेदिति समस्तातिदेश एव वरम् , ___ न च तत्रापि वाद जल्पयोः साम्यं गम्यमानार्थम् , अतिदेशाच्छौत एवार्थों ऽतिदिश्यते न गम्यमानः तत्कृत एव च तयोर्भेदः, तथा च प्रमाणतर्क साधनोपा. लम्भ इत्यत्र गम्यमानोऽर्थोऽभिप्रायनियमः स नातिदिश्यते, सिद्धान्ताविरुद्धः पञ्चावयवोपपन्न इत्यत्रापि बुद्धिपूर्वजात्यादिप्रयोगप्रतिषेधतदुद्भावननियमरूपी गम्यमानोऽर्थः सोऽपि नातिदिश्यत इति कुतस्तयोरविवेकः, अत एव च बुद्धि. पूर्वकप्रयोगानुज्ञानाय छलजातिनिग्रहस्थानसाधनोपालम्भ इत्युक्तम् । “भवत्वेवं छलादीनां त्वसदुत्तरत्वात्कथमिव साधनोपालम्भहेतुत्वम् , परपक्षप्रतिक्षेपद्वार कमिति चेन्नासदुत्तरत्वेन पतिपक्षेऽपि तेषामसामर्थ्यादेवमपि च साधनग्रहणम. नर्थकमेवेति” सत्यमेवं किन्तु कस्यांचिदवस्थायां स्वप्रतिपत्तिसाधनोपहिततत्त्व. ज्ञानरक्षायै तान्यपि व्याप्रियन्ते, यदा जाननपि परपक्षकशिमानं स्वपक्षे द्रढिमानं च कचिदवसरे परप्रयुक्त साधने दूषणं सपदि न पश्यति स्वपक्षसाधनं च झगिति न स्मरति तदा छलादिमिरप्युपक्रम्य परमभिभवत्यात्मानं च रक्षतीति ।
“ननु यदि परश्छलादीनि जानीयात्तेषु चानुरूपमुत्तरमभिदधीत कथं जीयेत प्रत्युत जयत्येव” सत्यं तथाप्येकान्तपराजयाद्वरं सन्देह इति युक्तमेव तत्प्रयोगेण स्फुटाटोपकरणम् ।
“नन्वीशि प्रयोजनानि जिगीषतो जनस्य जनपदसदसि भवन्ति तस्यापि न निपुणमतिसदसि मुमुक्षोस्तु दुरापेतैव कथेयमिति कथमिह मोक्षशास्त्र जल्पाद्युपदेशः”
नैतदेवम् , मुमुक्षोरपि कचित्प्रसङ्ग तदुपयोगात् , यथोक्तं तत्त्वाध्य. वसायसंरक्षणासीनमनेकशिष्यगणोपास्यमानं रहस्यतत्त्वमुपदिशन्तं शान्त. मानसमाचार्यमनार्यः कश्चिद्विपश्चिदाभासः कुतश्चिदागत्य दुरधिगतकतिप. याक्षरपरिचयजनितगुरुतरगर्वगद्गदया गिरा भोम्तपस्विन्किमाख्यायते हू. द्वारमान्वीक्षिकी सरलमतिप्रियेयं विद्या क्व वेदाः क्व वेदप्रामाण्यं का. स्मज्ञानं कापवर्ग इत्यादि मन्द विहस्य सहस्यसहसाहटमेघ इव प्रकटितकाण्ड. दण्डकाशनितम्बवित्रासिताश्रममृगवर्गमुग्राहयन्नाकुलयति, तदा जगज्जालमि. न्द्रजालपण्डितविलसितमिति जाननप्याशाभ्यो यदि तदुपेक्षते न तिरस्करोति सद्यः सम्यक साधनाप्रतिभासेऽपि यदि छलादिमिरेनं न शमयति तदा तस्मिन् गते तत उत्थाय शिष्यगणा युः कष्टमस्थाने क्लिष्टाः स्मः,
यो ऽसावस्माकमाचार्यः प्रख्यातो न्यायवित्तमः । अद्य स्वागत्य सो ऽन्येन पण्डितेन पराजितः ॥ ________________

वितण्डाप्रकरणम् ।
१५३
तच्छत्वा जन इतरोऽपि सत्पथस्याशैथिल्यात्सपदि तमेव माऽनुयासीत् । तन्नूनं परिभवभूमिकामसह्यां नेतव्यः सदसि स वावदूकपाशः ।
तद्विघातघटने निरर्गलं जल्पमन्त्रमुपदिष्टवान्मुनिः ॥ आनुषङ्गिकमपि प्रयोजनं तस्य रागिजनतासु वर्णितम् ॥
. इति (११)जल्पपदार्थः । स प्रतिपक्षस्थापनाहीनो वितण्डा ॥ अ. १ आ. सू. ३ । स एव यथोक्तलक्षणको जल्पो वितण्डाभवति,“को विशेष इति चेद्” आह. प्रतिपक्षस्थापनाहोन इति , उत्तरपतवादी वैतण्डिकः प्रथमवाद्यपसाध्यमानप. क्षापेक्षया हस्तिपतिहस्तिन्यायेन प्रतिपक्ष इत्युच्यते तमसावभ्युपगच्छत्येव न तत्र साधनमुपदिशति परपक्षमवाक्षिपन्नास्ते, “तहि साधनाद्विपक्षो ऽपि सेोऽस्य नास्त्येवेति प्रतिपक्षहोना वितण्डेत्युच्यतां किं स्थापनांग्रहणेन” नाभ्युपगममात्रेण तद्भावात्तमनभ्युपगम्य प्रलपतः कम्तस्य शृणुयात् , औपचारिको वा पर• मतपराकरणरूप एवास्य पक्षस्तस्मिन्हि सति स्वपो हि तस्य सिध्येदिति, परमताक्षेपपवणप्रवृत्तश्च बलाद् द्वितीयपक्षवाद्येव वैतण्डिक इति , तदेवं पक्षो ऽस्यास्तीति साधनं तु नास्तीति सम्यक् सूत्रितं सातिपक्षस्थापनाहीनो वितण्डेति।
इत्युदाहृतमिदं कथात्रयं यत्परस्परविविक्तलक्षणम् । स्थूलमप्यनवलेोक्य कथ्यते वाद एक इति शाक्यशिष्यकैः ॥
इति (१२)वितण्डापदार्थः । पक्षधर्मत्वादीनि पञ्च लक्षाणानि हेतोरुक्तानि तेषामेकैकापायात्पञ्च हेत्व. भासा भवन्तीति तान दर्शयितुमाहसव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतकाला हेत्वाभासाः ॥
गौतमसूत्रम् अ. १ आ. २ मू. ४ । अत्र हेत्वाभासश्रुतिरेव निर्वचनसहिता सामान्यलक्षणं बोधयत्यहेतवो हेतुवदाभासन्त इति हेत्वाभासाः, लक्षणैकदेशयोगाश्च हेतुवदाभासनमहेतोर. प्युपपद्यते। सकललक्षणाऽपायेपि पञ्चमीनिर्देशादिर्धमहेतुरित्येके, सव्यभिचारा. दिपदपर्यन्तवर्तिनी तु सैव श्रुतिविभागमवगमयति प्रमाणश्रुतिवदित्युक्तम् , पक्ष. धर्मादिलक्षणानां च क्रमनियमाभावात्साध्यसमविरुद्धसव्यभिचाराततीकाल. प्रकरणसमा हेत्वाभासा इति पाठो नाश्रितः ॥
“ननु त्रय एव हेत्वाभासा इति शाक्याः” न प्रत्यक्षागमबाधितस्य सप्र. विपक्षस्य च हेतोः पूर्वप्रदर्शितत्वात् । ________________

१५४
न्यायमअर्याम् “नन्वेकस्यैव रूपद्वयवैकल्यात्कथं न षष्ठादयस्तत्प्रभेदाः स्युः, यथा नित्यः श. ब्दश्चाक्षुषत्वादिति, एष हि पक्षे वृत्त्यभावादसिद्ध उच्यतामुत सामान्यादिविप. क्षादप्रच्युतेः सव्यभिचार उत जात्यन्तरमेव ताभ्यामिति”
नैतदेवम्-एकैकरूपापायनिमित्तभेदपश्चकप्रतिपादने कृते द्वित्रिरूपापायान्न रूपान्तरमवतरति किन्तु तेषामेव समावेशः स्यात् , अपि च प्रथमगृहीतान्यत. मरूपवैकल्यलब्धके हेत्वाभासरूपेऽस्मिन्किं रूपान्तरनिरूपणेनेत्यास्तामेतत् । __ “नन्वप्रयोजको नाम षष्ठो हेत्वाभासः समस्तीति न पुनरपि पञ्चत्वम्’ न तस्यान्यथासिद्ध एवान्तर्भावं वक्ष्यामः, अवान्तरभेदविवक्षायां तु हेत्वाभासाना. मियत्तानिश्चयो न शक्यक्रियो न च सप्रयोजन इति पञ्चैव हेत्वाभासा इति सिद्धम् ।
सव्यभिचारलक्षणम् । तेषां सव्यभिचारस्तावदुच्यते।
अनैकान्तिकः सव्यभिचारः ॥
गौ० अ० १ आ २ सू० ५। व्यभिचार एकत्र व्यवस्थाऽनियमः तेन सह वर्तते इति सव्यभिचारो वि. पक्षादप्रच्युत इत्यर्थः, एकस्मिन्नन्ते भवनकान्तिकः तद्विपर्ययादनकान्तिक इति स एवार्थः, एघमिह लक्ष्यलक्षणपदयोर्यथाकाममभ्युपगमो न प्रत्यक्षादिवद्यवस्थ. या, सव्यभिचारपदे लक्ष्याभिधायिनि लक्षणवचनमनै कान्तिकपदमनै कान्तिक पदे तु लक्ष्यवाचिनि सव्यभिचारिपदं लक्षणप्रतिपादकं प्रसिद्धाप्रसिद्धविभागा. पेक्षया पिककोकिलवद् द्रष्टव्यम्, पिकः कोकिल इत्युक्ते यस्य पिकशब्दार्थः प्र. सिद्धः स ततः कोकिलशब्दार्थमवभोत्स्यते प्रसिद्धकोकिलशब्दार्थश्च पिकश. ब्दार्थमिति ।
“प्राह भवत्वेवमिदं तु चिन्त्यताम् अनैकान्तिक इति किमयं पर्युदासः प्रसज्यप्रतिषेधो वा? किं चातः, पर्युदासपक्षे स्वपक्षनियतादेकान्तिकादन्यः स एवा. नैकान्तिक इति स एवैको हेत्वाभासः स्यादतश्च पञ्चसंख्या विप्रलुप्येतेति, प्र. सज्यप्रतिषेधे त्वैकान्तिकाभावस्य निवृत्तिरूपस्य हेत्वाभासता भवेन्न लक्ष्य. तेनाभिमतस्य विपक्षवृत्तेहेत्वन्तरस्य प्रमेयत्वादेरिति” ___ उच्यते-प्रश्न एवायमनुपपन्नः संशयानो हि परं पृच्छति संशयश्चोभयथा दर्शनाद्भवति न च नामपदसंबद्धस्य नयो द्वयी वृत्तिदृष्टा, अश्राद्धभोजोत्यादौ हि भुजिना नव्संबध्यते श्राद्धं न भुत इति न तु नाना श्राद्धेनेति, पाख्यातेना पि प्रयोज्यमानः क चित्प्रकरणसामानुरोधात्प्रत्ययार्थसंबन्धमवधूय धात्वर्थ मेव केवलमालिङ्गपर्युदासवृत्तिर्भवति यथा नेते तोयन्तमादित्यमिति, न तु ना. ________________

हेत्वाभासप्रकरणम् ।
१५५
ना संबध्यमानः क्वचिदपि पर्युदासवृत्तिमुल्लङध्य प्रसज्यप्रतिषेधमात्रतामवल. म्बमानो दृश्यते अब्राह्मणादौ सर्वत्र तदन्यावगतिदर्शनादिति कुतस्त्यः संशयः । अथ वा किमनयाऽवान्तरचिन्तया यथापृष्टं प्रकृत एवोत्तरमुच्यते एकस्मिन्ननित्यपक्षो वा नियत ऐकान्तिक एकपक्षवृत्तिरुच्यते ततोऽन्यः पक्षद्वयवृत्तिरनका. न्तिको भवत्येवं न सर्वे हेत्वाभासाः पक्षाद्रयवृत्तय इति न संख्याहानिरतः पर्यु. दासपक्षे तावन्न दोष’, प्रसज्यप्रतिषेधे ऽप्यैकान्तिको न भवति स एवाहेतुरिति न निवृत्तिमात्रपरत्वम् , अश्राद्धभोजीति कृता पुरुष उच्यते न श्राद्धभोजनामा. वमात्रमेवमिहापि तद्धितेनैकान्तनियतताप्रतिषेधविशिष्टो हेतुरेवोच्यते नाभावमा. त्रमित्येवमुभयथापि न दोषः, तस्योदाहरणम्-अनित्यः शब्दः प्रमेयत्वादिति, एष हि नित्यानित्यपक्षयोरन्यतरस्मिन्नपि न नियत इति विपक्षवृत्तित्वादनैः कान्तिकस्तदेवं व्यतिरेकाख्यहेतुलक्षणशून्यो ऽनेकान्तिक उक्तो भवति । ___ “ननु षट्प्रकाराः परैरनैकान्तिका इष्यन्ते सपक्षकदेशवृत्तिविपक्षाव्यापी विपक्षौकदेशवृत्तिः सपशव्यापी उभयपक्षकदेशवृत्तिरुभयपपक्षाव्यापी, साधारणश्चतुष्प्रकारः असाधारण विरुद्धव्यभिचारी चेति स कथमिह न निर्दिश्यते”।
उच्यते-सपक्षाव्याप्त्यादिभेददर्शनं तावदप्रयोजनकमशक्यं च हेत्वाभासा. नामवान्तरभेदेनानन्त्यात, विपक्षाद्यावृत्तिर्यस्य नास्ति स सव्यभिचार इत्यन्यत. महेतुरूपरहितत्वमनैकान्तिकलक्षणमिह विवक्षितम् , तोक्तमेव किमवान्तर• भेदपरिगणनेन, असाधारणविरुद्धाव्यभिचारिणौ तु न संभवत एव हेत्वाभा. साविति न व्याख्यायेते। ___ “ननु साधारणदसाधारणस्यापि गन्धवत्त्वादेः संशयहेतुत्वदर्शनात्कथमसंभवः अनेकधर्मोपपत्तेश्च संशयो भवद्भिरपि व्याख्यायत एव”
नैतदेवम् , उभयविशेषसहचरितधर्मदर्शन हि तदनुस्मरणप्रायं संशयमुपज. नयति असाधारणस्तु असाधारणत्वादेव न तत्सहचरः कदाचिदुपलब्ध इति कथं संशयहेतुः । “कथं तर्षनेकधर्मोपपत्तेरिति वर्णयिष्यते” वर्णितमेतद् वस्तुनो हि विशेषधर्मः कश्चिदसाधारणः केनापि धर्मान्तरेण सहचरितो दृष्टः सो. ऽयं शब्दे विभागजत्वाख्यो धर्मः केन (चित् ?) धर्मान्तरेण द्रव्यत्वेन गुणत्वेन वा सहचरितो भवेदितीत्थमनेकधर्मोपपत्तेः संशयोवर्णितः, तदिहापि गन्धवत्त्व मसाधारणमित्थमेघ यदि संशयहेतुतया वर्ण्यते तहि साधारणाद्वस्तुधर्मत्वादेव संशयो भवेन्नासाधारणाद्गन्धवत्वात् , न हि तन्नित्यानित्ययोरन्यतरेणापि सह. चरितमुपलब्धम् , वस्तुधर्मस्तु धर्मान्तरानुयायी दृश्यत इति वस्तुधर्मत्वमेव तत्कारणमतो नित्या भूर्गन्धववादित्यसाधारणानकान्तिको न वक्तव्यः, विरुद्धाव्यभिचार्यपि न वाच्य एव एकत्र धर्मिणि परस्परविरुद्धद्वयप्रयोजकहतुद्वयो।’ पनिपातस्यानुपपत्तः। ________________

নামাজ ___ “ननु प्रत्यक्षो वायुः स्पर्शवत्त्वाद् घटवद् , अप्रत्यक्षो वायुररूपत्वादाकाश. वदित्यस्ति हेतुद्वयसन्निपातः, स एव च विरुद्धाव्यभिचार्युच्यत इति” अत्र ताव. देतदेव वक्तव्यम-को ऽयमपूर्वः प्रामाणिकव्यवहार ईदृशो यदनुमानेन प्रत्य. क्षत्वमप्रत्यत्तत्वं वा साध्यत इति इन्द्रियजप्रमितिविषयो हि प्रत्यक्षोऽर्था भव. ति स एष वायुर्यदीन्द्रियजे प्रत्यये प्रतिभात्येव किमनुमानेनेति, किं चानयो रन्यतरो हेतुरवश्यमप्रयोजको वस्तुनो द्वैरूप्यानुपपत्तेः, हेतौ च प्रयुक्त सद्गु. रणदोषपरीक्षणमेव प्रतिवादी विधत्तां कोऽवसरः प्रतिहेतूपन्यासस्य ।
“विडम्बनार्थस्तदुपन्यास इति चेन्न” । विडम्बनोपन्यासस्य जात्युत्तरप्रकारत्वात् , इह च हेत्वाभासा वास्तवा एवानुमानदोषाः प्रतिपाद्यन्ते, न च विरुद्धाव्यभिचारी नाम वास्तवो हेतुदोषः, एकत्र प्रयोजकविरुद्धहेतुद्वयसमावेशासंभवस्योक्तत्वात्॥
“कथं तर्हि प्रकरणसम इति चेत्” तत्रैव विशेषं वक्ष्यामः ।
“अथ हेतुप्रयोगरहितोभयवादिपरिगृहीतपक्षप्रतिपक्षोपन्यासमात्र विरुद्धा. व्यभिचारिणो रूपमुच्यते” सोऽयं विप्रतिपत्तेः संशयी भवति न हेत्वाभासा. दस्मादिति । __ “अपि च संशयजननमनैकान्तिकलक्षणमुच्यते चेत्” काममसाधारणस्य विरुद्धाव्यभिचारिणोवा यथा तथा संशयहेतुतामधिरोप्य कथ्यतामनकान्तिकता न तु संशयजनकत्वं तल्लक्षणमिन्द्रियादेरपि वजनकत्वेन तथाभावप्रसक्तरपि तु पत्तद्वयवृत्तित्वमनैकान्तिकलतणम् , स तु पक्षद्वयवृत्तित्वात्संशयमपि जनयतीतिवस्तुस्वभावोऽयमतोऽसाधारणविरुद्धाव्यभिचारिणोः कथंचित्संशयहेतुत्वे. ऽपि पक्षद्वयवृत्त्यभावान्नानकान्तिकवर्गेऽन्तर्भावः । “क तर्हि तावन्तर्भविष्यतः” जात्युत्तराणामानन्त्यात्तत्रेति वक्ष्यामः ।
तस्मादसाधारणसंज्ञकस्य हेतोविरुद्धाव्यभिचारिणो वा। विपक्षवृत्तित्वमतर्कयन्तो वदन्त्यनैकान्तिकतां नयज्ञाः ॥
विरुद्धलक्षणम् । सिद्धान्तमम्युपेत्य तद्विरुद्धो विरुद्धः॥
गौ० अ० १ आ० २ मू० ६ । सपक्षविपक्षयोवृत्त्यवृत्ती हेतो लक्षणमुक्तम् , ते यस्य विपर्यस्ते दृश्येते यः सपक्षे न वर्तते विपक्षे च वर्तते स साभ्यविपर्ययसाधनाविरुद्धो भवति सो. ऽयमुच्यते सिद्धान्तमभ्युपेत्येति । सिद्धान्तशब्दो यद्यपि धर्मविशिष्टे धमिणि व्याख्यातः अयमित्थमित्यभ्युपगमविषयीकृतोऽर्थः सिद्धान्त इति, तथापीह ________________

हेत्वाभासप्रकरणम् । १५७ तदेकदेशसाध्यधर्मविषयो लक्ष्यते, तं सिद्धान्तसाध्यधर्ममभ्युपगम्य यो विरुपद्धि व्याहन्ति तद्विपर्ययं साधयति स विरुद्ध इत्यर्थः ॥ _ “ननु समानकर्तृकयोः क्त्वाप्रत्ययः स्मर्यते इह च हेतोरचेतनस्याभ्युपगमे कर्तृत्वासम्भवात्पुरुषस्तत्कर्ता भवेत् सिद्धान्तं च विरुणद्धि हेतुरिति भिन्नकर्तृ कत्वमुच्यते” समानकर्तृकत्वसिद्धये हेतोरेवाभ्युपगमे कर्तृत्वमुप चाराद्वर्णयिष्यते हेतुबलात्पुरुषेणाभ्युपगमः क्रियमाणो हेतुनैव कृतो भवति, एवं च स एवाभ्यु. पगन्ता स एव विरुणद्धीति न भिन्नकर्तृकत्वम् ।
“ननूपचारपरिप्रहश्वेदभिमतस्तत्र त्रितयं वक्तव्यम्- साध्येऽर्थे प्रमाणबाधो निमित्तं प्रयोजनं चेति” साध्येऽर्थे प्रमाणबाध उक्त एव हेतोरचेतनत्वम्, निमित्तमप्यस्ति हेतुसाधनको ह्यपगम इति, प्रयोजनं तु विशेषविरुद्धानां हेत्वाभासत्वनिवारणम्। सिद्धान्तशब्दस्य समुदायवाचिनो यदेकदेशेऽवस्थापनं तस्यापि विशेषविरुद्धव्यवच्छेद एव फलम् , विशेषविरुद्धानां हि हेत्वा. भासत्वाभ्युपगमे सर्वानुमानोच्छेदप्रसङ्गः, न हि तथाविधो हेतुरिह जगति कश्चिदवाप्यते यः साध्यसिद्धयेऽमिधीयमानो धर्मस्य वा धर्मिणो वा विशेष न कंचन बाधते, तथा हि अनित्यः शब्दः कृतकत्वादिति सकलतार्किकगृहप्रसिद्ध एव हेतुरनित्यतां साधयन्नपि यद्यत्कृतकं तत्तदश्रावणं दृष्टं यो यः कृतकः स स व्योमविशेषगुणो न भवतीति धर्मिणो विशेष बाधते एवेत्यहेतुः स्यात्, न चैवं युक्तमिति न विशेषविरुद्धो नाम हेत्वाभासोऽभ्युपगन्तव्यः किन्तु साध्यस्वरूपविपर्ययसाधन एवेति, अत एव यथा तीर्थान्तरे वण्यते विरुद्धश्चतुष्प्रकारो धर्मस्वरूपविपरीतसाधनो धर्मिस्वरूपविपरीतसाधनो धर्मविशेषविपरीतसाधनो धर्मिविशेषविपरीतसाधन इति तथेह नेष्यतेऽतिप्रस. जस्य दर्शितत्वादिति, अस्योदाहरणं नित्यः शब्दः कृतकत्वादिति । __ “नन्वेकैकलक्षणापायात्पश्च हेत्वाभासा इत्युक्तम् अस्य च हेतोरभे लक्षणे न स्तः, यथा ह्यस्य सपक्षे वृत्तिनास्ति तथा विपक्षादपि व्यावृत्तिः, यदि हि सपक्षादिव विपक्षादपि व्यावृत्त एव भवेद् गन्धवत्त्ववदसाधारण एव स्यादि. ति” सत्यमेवं किन्तु विपक्षादव्यावृत्तिय॑भिचारं प्रति प्रयोजकतां प्रतिपद्यते प्रतिपक्षागामी हि व्यभिचरित इत्युच्यते, सपक्षे वृत्तिविच्छेदस्तु विपर्यः यसिद्धौ प्रयोजक इति सत्यामपि विपक्षावृत्तौ सपनवृत्तिविच्छेदनिबन्धनमेपास्य विरुद्धत्वमुच्यते विपक्षादप्रच्युतः स्वसाध्यमेव न साधयेत्सपक्षे त्वव. तमानोऽसौ विपरीतमपि साधयतीति तलवाणापायकृतमेवास्य विरुद्धत्वमाच. पाते इस्यलं सूक्ष्मक्षिकया, तदित्थमुक्त सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्ध इति।
मन्ये त्वन्यथा व्याचक्षते-किल साध्यधर्मविपर्ययसाधकवदपसिद्धान्तप्रति.
14 ________________

१५८
न्यायमअर्याम
.
ज्ञाविरोधादयोऽपि सिद्धान्तविरोधिनः संग्रहीतुं युक्ता एव, ते चैवं व्याख्या. यमाने न संगृहीताः स्युः, क्त्वाप्रत्ययसिद्धान्तशब्दौ च न समन्वितौ स्याताम् , तस्मादभ्यपगतसिद्धान्तविरोधी विरुद्ध इति सूत्रार्थे वर्णिते अभ्युपगतं सिद्धान्तं यो विरुणद्धि स विरुद्धः, तत्कालोपात्तप्रतिज्ञाविषयीकृतं वाऽवसरान्तरव्यवस्थापितं वेत्येतत्संग्रहश्व कृतो भविष्यति, सिद्धान्तशब्दश्व न सङ्कोचितो भविध्यति, क्त्वाप्रत्ययस्त्वसङ्गतत्वादुपेक्ष्यते एव मिन्नकर्तृकत्वादानन्तर्यस्य गम्यमा. नस्य चानुपयक्तत्वादिति, तथा च भाष्यकारेण पूर्वाभ्युपगतसिद्धान्तानुगुण. मेवोदाहरणमुक्तं-सोऽयं विकारो व्यक्तरपैति नित्यत्वप्रतिषेधादपेतोऽप्यस्ति विनाशप्रतिषेधादिति, अत्र हि प्रतिषिद्धनित्यधर्मवादित्ययं हेतुर्व्यक्तेरपेतोऽपि विकारोऽस्तीत्यमुं सिद्धान्तं विरुणद्धयनेन वा विरुध्यते-इति ।
एतत्त्वहृदयङ्गममिव व्याख्यानम्, अपसिद्धान्तप्रतिज्ञाविरोधादेनिग्रहस्थानसूत्रे हेत्वाभासेभ्यः पृथगुपदेशात्किमिह तत्संग्रहण, प्रत्युत संग्रह एव दोषः, यो हि मीमांसकोऽहमित्यभ्युपगम्यानित्यः शब्दः कृतकत्वाद् घटवदिति बयान तस्यायं हेतुविरुद्धो भवेदपि स्वपसिद्धान्तानिगृह्येत, तस्मात्सा. ध्यविपर्ययसाधन एव विरुद्ध उच्यते न तु पूर्वाभ्युपगतस्वसिद्धान्तविरुद्धः, न च निरभिप्राय एव सूत्रकृता क्त्वानिर्देशः कृतः किन्तु ततः प्रतीयमानमान त. यमप्यपेक्षमाणेन यो हि सिद्धान्तमभ्यपेत्य प्रतिज्ञाय तत्सिद्धयर्थतयोपादीयमा. नस्तमेव विरुणद्धि स विरुद्धो हेत्वाभास इति प्राक्तनमेव व्याख्यानमनवद्यम् ।
अतः प्रतिज्ञाविपरीतसाधनाद्विरुद्धतामेति न हेतुरन्यथा । विशेषबाधादिनिबन्धनं पुनर्बहुप्रकारत्वममुष्य नेष्यते ॥
सत्प्रतिपक्षलक्षणम् । यस्मात्प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः ॥
. गौतमसूत्रम् अ० १ आ० २ ० ७ । एकैकलक्षणापायनिमित्तहेत्वाभासपञ्चकप्रतिज्ञानादसत्प्रतिपक्षत्वलक्षणवैकल्यात्किल प्रकरणसमो नाम हेत्वाभासा वक्तव्यः, स च न सम्भवति सप्रति. पक्षस्य हेतोरभावादद्वयात्मकत्वाद्धि वस्तूनामेकत्र परस्परविरोधिधर्मद्वयप्रयो. जकहेतुसमावेशो नास्तीत्यसकृदुक्तम, अत एव विरुद्धाव्यभिचारी निरस्तः, अनुमानविरुद्धमनुमानं च नेष्यत एव, तत्कुतः सत्प्रतिपक्षा हेत्वाभासो ऽतश्च लक्ष्याभावात्कस्येदं लक्षणमिस्याशङ्कयाह-यस्मादित्यादि, विचार्यमाणो प्रागु. कलक्षणको पक्षप्रतिपक्षी प्रकरणम, तस्य चिन्ता संशयात्प्रभृत्या निर्णयाचय. पि भवति तथापीह विमर्शात्मिकैव गृह्यते, सा यस्माद्भवति, कस्माष सा भवति ? विशेषानुपलम्भात् , स एव विशेषानुपलम्भो यदि निर्णयार्थमुपदिश्यते तत्प्रकर

  • ________________

हेत्वाभासप्रकरणम् ।
णमनतिवर्तमानत्वात्प्रकरणसमो भवति-नित्यः शब्दः अनित्यधर्मानुपलब्धेरा. .काशवत्, अनित्यः शब्दो नित्यधर्मानुपलब्धेर्घटवदिति, सोऽयं सप्रतिपक्षो हेतुरिह लक्ष्यो विद्यते, न च व्यात्मकानि वस्तुनि, प्रमातारस्तु रूपमेषां निय. तमवधारयितुमशक्नुवन्त एव भ्राम्यन्तीति, तथा ह्येको विशेषानुपलब्धः पश्न. धर्मान्वयव्यतिरेकावपश्यंस्ततस्तथेति साध्यं बुध्येत तथैव च परं प्रत्यायये. दिति, इतरोऽपि द्वितीयविशेषानुपलब्धेः साधनतां बुद्ध्वा प्रत्यवस्थानं च करो. तीति सप्रतिपक्षक एवष प्रकरणसमो हेत्वाभासः, तथा च न तावदयं सम्यग् हेतुः प्रतिपक्षोपहतत्वेन स्वसाध्योपस्थानसामर्थ्य शुन्यत्वात् , हेत्वाभासो ऽपि च भवन तावदसिद्धः साध्ये धर्मिणि शब्देऽनुपलभ्यमाननित्यधर्मत्वस्य हेतोः स. द्भावात् , नापि विरुद्वः साध्यविपर्यय साधननिमित्तभता सरनवृत्तिवियोगानुप. पत्तेः, नाप्यनै कान्तिकः पक्ष यसाधारणवानवधारणात् , संशयजनकत्वं तु न तस्य लक्षणमित्युक्तमेव ।
“नन्वेकस्मिन्पने नियत ऐकान्ति कस्तद्विपर्ययादनकान्तिकः स चायं नि. त्यानित्यपनयोरन्यतरत्रापि न नियत इत्यनै कान्तिक एष स्यात् , अपि चा हु’-अप्रामाण्यं त्रिधा मिन्नं मिथ्यात्वाज्ञानसंशयैरिति, (श्लो० वा० २ सू ५५ श्लो०)तत्र यथेन्द्रियादेरबोधकत्वाद्वा संशयविपर्ययस्वभावावभाससमुत्पादनादौ. रात्म्याद्वा भवत्यप्रामाण्यव्यवहार एवमनुमानमपि तथैव वमना प्रमाणाभास. तामवलम्बते, तत्रासिद्धस्तावदलभमानो धर्मिणि वृत्तिं तत्र साध्यधर्मधियमाधा. तुमनधिकृत इत्यज्ञानफलत्वादप्रामाण्यमनुभवति, विरुद्धस्तु विपर्ययसाधन इति भवन्त एव प्रतिपन्ना,: संशयजनकम्त्वनैकान्तिको भवितुमर्हति न तु पारिभाषिकविपक्षवृत्तित्वमेव तस्य लक्षणमुचितमयमपि चान्यतरपक्षनियमविरहिततनुरिति किमिति न भवति विमर्शमुपदधदनैकान्तिक इति त्रय एव हेत्वाभासाः”
उच्यते-न फलनियमेन लक्षणनियमः कर्तुं शक्यते, यद्यपि द्विविधं त्रिविधं वा भवत्यप्रमाणफलं तथापि न विलक्षणके लिङ्गोऽविनामावः परिसमाप्यते. ऽपि तु पञ्चलक्षणक इति प्रसाधितोऽयमर्थः, तद्वैकल्याच हेत्वाभासानामपि पञ्चत्वमेव, फलं तु द्विविधमस्तु त्रिविधं वा न घप्रतिपत्तिजनक किंचिल्लिङ्गमुपलभामह, न चाप्रतिपत्तिः प्रयत्नजन्या प्रागभावस्य निसर्गसिद्धत्वादित्यलम. वान्तरचिन्तनेन, न फलापेक्षा लिङ्गलक्षणनियमः तत्र यथा पक्षधर्मरहितत्वम सिद्धलक्षगमेष च हेतुः पक्षधर्मान्वयव्यतिरेकाणामन्यतमेनापि रूपेण न विकल इति कथमनै कान्तिकता प्रतिपत्स्यते, व्यस्ततायां हि सर्वाण्येतानि सन्ति लक्ष. णानि समस्तं वस्तु नोपन्यस्तमेव हेतुत्वेन नित्यानित्यधर्मानुपलब्धेरिति ।
“ननु यद्यस्य पक्षधर्मान्वयव्यतिरेका निरपवादाः सन्ति कथं तर्हि न हेतु ________________

१६०
म्यायमभम् रेवायम् , इतरस्यापि पक्षधर्मान्वयव्यतिरेकाणां निरपवादानां सम्भवगत्सोऽपि न कथं हेतुरस्स्विति चेद्” न वस्तुनो रूप्यानुपपत्तेः, एवमिमौ हेतू पक्षद्वयेऽपि बुद्धिं जनयन्तौ संशयमावहतो नानकान्तिकवद्विपक्षावृत्तित्वेनेति हेत्वाभा. सान्तरत्वम् , एवंविधस्य चास्य प्रकरणसमस्य विरुद्धाव्यभिचारीति नाम यदि क्रियते तदपि भवतु न पुनरनैकान्तिकप्रभेदतामवलम्बते तल्लक्षणासंस्पर्शादुम. यप्रतीतिजनको होमो हेतू भवतो नोभयपचावृत्तीति, नाप्ययं कालात्ययापदिष्टः प्रत्यक्षागमयोरन्यतरस्यापि बाधकस्यानुपलम्भात् , अनुमानं तु नानुमानस्य बाधकं भवितुं क्षममित्युक्तम् , न चेतरेतरवायपेक्षयाऽनयोरसिद्धत्वमभिधेयम् , संशयजनकत्वेऽनुभवसिद्धे सति विशेषानुपलब्धेरप्रत्याख्येयत्वात् ।
“ननु निश्चितस्य साधनप्रयोगाधिकारात्कथं चिन्तावान्साधनं प्रयुजीत, नि. श्चितत्वं च तद्धर्मानुपलब्ध्योः परस्परमसिद्धत्वं स्थितमेव” नैतदेवम् , अन्यतरधर्मानुपलब्धेरेव पक्षधर्मान्वयव्यतिरेकान्पश्यन्नसौ निश्चिततां प्राप्तो न द्वि. तीयधर्मानुपलब्धेरसिद्धतां बुध्यमानः, अत एवायं भ्रान्तिमूलहेत्वाभासः द्विती. यधर्मानुपलब्धिसिद्धत्वनिश्चये तु सम्यग हेतुरेव स्यात् , तदसिद्धत्वानवधारणेऽप्यसौ स्वस्य हेतोखैरूप्यदर्शनानिश्चितमतिर्भूत्वा साधनं प्रयुजान इतरेण तथैव निश्चितमतिना प्रतिप्रयोगे कृते तस्यापि त्रैरूप्यमुपलभमानः संशयमधिगच्छतीत्यलं प्रसङ्गेन, तदेवमसिद्धादिलक्षणवैपरीत्यात्प्रतीत्यनुगुणः प्रकरणसमो नामाऽसिद्धो हेत्वाभासः ।
अपरे पुनरुदाहरणान्तरमस्य व्याहरन्ति-नित्यः शब्दः पक्षसपक्षयोरन्य. तरत्वाद् आकाशवत्, अनित्यः शब्दः पक्षसपक्षयोरन्यतरत्वात् घटवदिति । __“ननु पक्षसपक्षयोरन्यतरः पक्षो वा स्यात्सपक्षो वा स्यान्न तृतीयो न हि मित्रावरुणयोरन्यतरः सोमो भवितुमर्हति तत्र पक्षेऽन्यतरशब्दवाच्येऽनन्वयो न हि शब्दाख्यः पशोधर्मी धर्म्यन्तरे वर्तते, सपक्षे त्वन्यतराभिधेये पक्षधर्मता नास्ति न ह्याकाशादिः सपक्षः शब्दाख्ये धर्मिणि वर्तते” ___ उच्यते-न पक्षत्वादिति हेतुः प्रयुक्तः सपक्षत्वादिति वा येनैवं स्यात् किं तु पक्षसपक्षयोरन्यतरत्वादिति, ततश्च द्वयोरपि किमपि साधारणरूपं न हि वरुणो यष्टव्य इति यादृशी बुद्धिस्तादृश्येव मित्रावरुणयोरन्यतरो यष्टव्य इति, विशेषनिष्ठतायां तु बलादापाथमानायां सकलानुमानोच्छेदः, न चान्यतरत्वं शब्दमात्रारोपितरूपमवास्तवमिति वदितु मुचितमीसंस्पर्शितायाः प्रतिक्षिप्त___ “अन्यतरत्वावित्यसिद्धो हेतुरिति चेत्किल पक्ष एवायं न पक्षसपक्षयोरन्य. तर” इति ।
वदयुलम्, यत एवायं पक्षस्तत एव पक्षसपक्षयोरन्यतरोन पक्षः पक्षस
.
त्वात्। ________________

वितण्डाप्रकरणम् ।
पक्षयोरन्यतरः स्यान्न यवरुणो मित्रावरुणयोरन्यतर इत्युक्तमेव, पक्षो ऽपि च भवनेष न पक्षत्वादित्यनेन रूपेण हेतक्रियते किन्त्वन्यतरत्वादि. तीत्थं च हेतूकरणे नैष दोष इति ।
__सत्प्रतिपक्षस्योदाहरणान्तरम् । अपरमुदाहरणं- सन्सर्वज्ञ इतरतद्विपरीतविनिर्मुक्तत्वाद् घटवद् असन्स. र्वज्ञ इतरतद्विपरीतविनिर्मुक्तत्वात्खरविषाणवदित्यत्राप्याक्षेपप्रतिसमाधानप्रकारः पूर्ववदनुसरणीयो धयंसिद्धता च यत्नतः परिचिन्तनीया।
सत्प्रतिपक्षोदाहरणान्तरदूषणम् । एवं जातीयकं सूदाहरणं नानुमोदन्ते मतिमन्तः यंत्र हि हेतुना स्वयः मथै सम्यगसम्यग्वा ऽनुमाय प्रमाता परप्रत्यायनाय तं हेतुं प्रयुजीत स प्रयुज्यमानो वस्तुबलप्रवृत्ततया हेतभवति हेत्वाभासीभवति वा तथा घा. रोहपरिणाहवति पुरो ऽवस्थिते धर्मिणि स्थाणुगतविशेषानुपलम्भादेकस्य पुरुष इति भवति प्रतीतिरितरस्य तु पुरुषगतविशेषानुपलब्धः स्थाणुरिति भ. वति मतिः , एवं यदा ऽसावेकः पुरुषत्वसिद्धये परं प्रति स्थाणुधर्माप्रहणं है. तुत्वेन अयादितरोऽपि पुरुषधर्माग्रहणेन स्थाणुतां प्रतिष्ठापयन्प्रत्यवतिष्ठते तदा स्वप्रतीत्यनुसरणपुरःसरसाधनाभिधानाद् भ्रान्तिसंभवाच युक्तं तथाविधोदाहर. णकीर्तनम् , एवं नित्यःशब्दोऽनित्यधर्मानुपलब्धेराकाशवत् अनित्यः शब्दोनित्यधर्मानुपलब्धेर्घटवदित्यपि द्रष्टव्यम् , यस्तु न वस्तुमूलः केवलोत्प्रेक्षामात्रावल. म्बनः स्वप्रतीतिषु न दृष्टपूर्वः किं तदुपन्यासेन, एतेन सद्वितीयप्रयोगा अपि प्रत्यक्ताः , यथा क चित्साधनप्रयोगे कृते सति तत्रैवं परः पत्यवतिष्ठते यथा पस्ततसाध्यधर्माधिकरणवशन्यधर्मिघटान्यतरसद्वितीयो घटः अनुत्पन्न. त्वाकुड्यवदिति , यथा प्रस्तुतेन सिषाधयिषितेन धर्मेण शन्यो यः प्रकृती धर्मो घटश्च तयोरन्यतरेण न सद्वितीयो ऽयं घटरूपो धर्मी तत्र हेतुरनुत्पन्न त्वं तस्य कुड्यादौ व्याप्तिरिति , सत्यं वदत यद्यस्ति लोके कचिदीडशः प्रती तिक्रमः घटश्च धर्मों धर्मिघटयोरन्यतरेण सद्वितीय इत्यत्रान्यतरशब्दः सा. मान्यवचनो ऽपि धर्मिणि व्याख्येयो न हि घट एव घटेन सद्वितीयो भवितुमहतीत्यलमलीककल्पनाकौशलप्रख्यापनेन ।
सम्यग्वा यदि वा ऽन्यथा विदधते ये हेतवः संविदं दृष्टाः स्वात्मनि ते प्रयोक्तुमुचिताः कामं परज्ञप्तये । ये तु स्वप्रतिपत्तिमेव न वथा कर्तु क्षमाः कल्पना.
सामोत्थितवस्तुशून्यघटनाः किं तत्प्रयोगे फलम् ॥ ये तु सूक्ष्मोत्प्रेक्षणक्षमप्रज्ञातिशयाभिधानदुर्विदग्धास्तथाविधानपि प्रयुज ________________

१६२
न्यायमअर्याम् कृतकवचनाचातुर्य तैः प्रदर्शितमात्मनो भवति न पुनः शुद्धिः का चित्प्रमेयदिशः कृता । क चिदवसरे त्वेवंप्रायाः परभ्रमकारिणः किल सफलतां दध्युर्जल्पे यथा कथितं पुरा ॥ तत्र स्वेतान्कथयति परः प्राज्ञमानी यदा वा तस्याख्येयो निपुणमतिना पूर्वनीत्या समाधिः । द्राधीयस्या तदलमनया तार्किकंमन्यगोष्ठया हेत्वाभासः प्रकरणसमस्त्वेष निर्णीत एव ॥
असिद्धलक्षणम् । साध्याविशिष्टः साध्यत्वात्साध्यसमः ॥
गौ. सु. अ. १ आ. १ ८ । अन्यतरवादिप्रसिद्धमन्यतरं प्रति यत्साधयितुमुपादीयते तत्साध्यम् तद. विशिष्टो हेतुः साध्यसमः, कथं साध्येन तुल्यता हेतोरिति चेदाह साध्यत्वादिति, यथा साध्यमसिद्धत्वात्साध्यं तथा तस्सिद्धयर्थमुपात्तो हेतुरपि यो ऽसि. द्धत्वात्साभ्यः स साध्याविशिष्टत्वात्साध्यसम इत्युच्यते,
एतधान्यतरासिद्धस्यैव लक्षणम् यथा मीमांसकं प्रत्यनित्यः शब्दः कृतकत्वाद् घटवदिति, न चाक्षुषत्वादेरुभयासिद्धस्य, न हि तस्य साध्यत्वं सम्भवतीत्यर्थः,
सकलासिद्धभेदसंग्रहाय साध्यत्वादित्येतत्पदरहितं साध्याविशिष्ट इत्येवासि. द्धलक्षणमुपवर्णनीयम् , साध्यस्य च रूपद्वयस्यासिद्धत्वं साध्यत्वं च तत्रासिद्ध. त्वमेव, तदविशिष्टत्वकारणमिहाश्रीयते सर्वासिद्धभेदसाधारणं न तु साध्यत्वमन्यतरासिद्धकलग्नमिति, एवं चासिद्धत्वमेवासिद्धस्य लक्षणमुक्तं भव. ति, पक्षधर्मत्वं यस्य नास्ति साध्ये धर्मिणि यो न वर्वते हेतुः सोऽसिद्ध इति,
तस्य तु भूयांसो भेदा भवन्ति –हेतुस्वरूपे तावदन्यतरस्य वादिनों द्वयोर्वा प्रज्ञानं संदेहो विपर्यय इति, तथा तदाश्रये अपि धर्मिण्येकस्य वा द्व. यो तथैवाज्ञानसंदेहविपर्यया इति, भूयसि च पक्षीकृते ऽर्थे तदेकदेशे क चि.
वृत्तिः तदितरत्रावृत्तिरिति, एकदेशवृत्तावपि द्वयोरेकस्य वा तथैवाज्ञानसंशय विपर्यया इति, एवंप्रकारभेदोदाहरणवर्णनमल्पप्रयोजनमिति न प्रस्तूयते, ___ “अन्यतरासिद्धर्न विवदन्ते प्रमाणस्यापक्षपातित्वाद्यदि तावत्कृतकत्वं शब्दे प्रमाणतो निर्णीतं तहि मीमांसकस्यापि तार्किकस्येव तसिद्धमेव, अथ तत्र कृतकत्वनिश्चयनिपुणं नास्त्येव प्रमाणं तदा तार्किकोऽपि तूष्णी. मास्तां तयोरप्यसौ चाक्षुषत्वादिवन्न सिद्धयेद् हेतुः , वाङ्मात्रेण त्वसिद्धिक
AHU

  • ________________

हेत्वाभासंप्रकरणम् ।
थनमसांप्रतमतिप्रसङ्गादेव”
सत्यमेवं न सर्वदाऽन्यतरासिद्धस्य हेत्वाभासत्वमभिदध्महे किं तु कं चि. कालमिति यदैकेन वादिना हेतौ प्रयुक्ते द्वितीयो वदति सम्प्रति न सिद्ध एष इति तदा हेतोः प्रयोगाद्वादिना तत्साधनमभिधेयमनभिधानात्स पराजीयते साधने तु तेनोक्ते तदसिद्धतोद्भावनवादी पराजीयते इति यावत्तसिद्धौ नोपन्यस्तं साध. नं तावदेवासावन्यतरसिद्धयनन्तरं तु सम्यग हेतुरुभयासिद्धो वा भविष्यतीति,
व्यधिकरणासिद्धस्तु यथोक्तभेदान्तर्गत एव, यथा नित्यः शब्दः काकस्य कायोदिति,
क चित्पुनश्च व्यधिकरणासिद्धोऽपि भवति गमक इत्येके, तद्यथा बह. लबहलः प्रचलजलधरश्यामलवपुरम्बरतलमाक्रामन्धूमप्रबन्धः क्षोणीध्रक. न्दरादिविशेषधर्मत्वानवधारणेऽपि तत्र गमयितुमलमनलमिति, यथा वाऽ. निमानेष देशो धूमोपलब्धेरिति प्रयुज्यते तदोपलब्धेरात्मधर्मतया वैयधिकर. ण्येऽपि गमकताऽस्तीति ।
अन्यथासिद्धनिरूपणम् । अन्ये त्वन्यथासिद्धत्वं नाम तद्भेदमुदाहरन्ति यस्य हेतोमिणि वृत्तिर्भव. न्त्यपि साध्यधर्मप्रयुक्ता भवति न सोऽन्यथासिद्धो यथा नित्या मनःपरमाणवो मूर्तत्वाद् घटवदिति” “ननु कथमयमन्यथासिद्ध उच्यते किमिति सम्या हेतुरेव न भवति किं परमाणुषु मूर्तत्वं न वर्तते किं घटादावनित्यतया व्याप्तं न दृश्यते किमाकाशादेः खपुष्पादेर्वा विपक्षान्न प्रच्यवते किं प्रत्यक्षेणागमेन वा बाध्यते किं प्रतिपक्षण प्रतिबाध्यते येनाभासतां प्रतिभजत” न प्रतिबन्धाभावात् ।
ननु पञ्चानां प्रतिबन्धलक्षणानां कतमदस्य श्लथीभूतम्” नान्यतमस्यापि शैथिल्यं ब्रमः, “तत्किं पञ्चस्वपि लक्षणेषु प्रतिबन्धः समाप्यते तानि चासां सन्त्येव न चैष प्रतिबन्ध इति कैतवम्”
उच्यते प्रयोज्यप्रयोजकभावेन साध्यसाधनधर्मयाधू मामिवत्प्रतिबन्धोऽवधार्यते स चात्र प्रयोज्यप्रयोजकभावो नास्तीत्यत एवायमन्यथासिद्धोऽप्रयोजक इति कथ्यते, ___ “कथं पुनरस्याप्रयोजकत्वमवगतम्” उच्यते मूर्तत्वं हि सर्वगतेतरद्रव्यपरिमाणविशेषादिधर्मो वस्तुस्वभावमात्रनिबन्धनो न कृतकत्वादिवइनिस्यता प्र. योक्तमुत्सहते, तथा हि परमाणुपु सिद्धेषु सत्सु तत्र वर्तमानं मूर्तत्व. भनित्यतां साधयेदन्यथा त्वाश्रयासिद्धतामुपेयात् , सिध्यन्त एव सावयवका. योनुमानमार्गेण लोविभागावमासमानभागपरम्परापरिकल्पनक्रमेण वा. पर. ________________

নাৰঞ্জ माणवो निरवयवाः सिध्यन्ति, सावयवत्वे तदवयवाः परमाणवो भवेयुन ते, तेषामन्यवयवान्तरपरिकल्पनायामप्यवयवानन्त्याविशेषात्सर्षपस्य मेरोश्च सा. म्यमापद्यते, न च तदस्ति, तदेवं निरवयवेषु परमाणुषु निसर्गसिद्धमनाश्रितत्वमतश्चाश्रयविनाशावयवविभागादिविनाशकारणाभावात्स्वाभाविकविनाशवा. दनिराकरणाच कथं परमाणूनां नित्यतां स्पृशेत् , मूर्तत्वं तु वस्तुधर्मत्वाद्भवदपि प्रमेयत्वादिवन प्रयोजकम्,
इयांस्तु विशेषः-प्रमेयत्वमुभयपक्षस्पर्शादनकान्तिकं भवदप्रयोजकम् इदै तु मूर्तत्वमनित्यव्यतिरिक्तवस्त्वन्तरपरिचयविरहितमपि न प्रयोजकमिति ।
नन्विदमपि प्रमेयत्ववद्विपक्षवृत्त्येव मूर्तत्वम् , क विपक्षे वर्तते ? परमाणुज्वेष, ननु तेषां पक्षीकृतत्वात्कथं विपक्षता ? न पुरुषेच्छानुरोधेन वस्तु विपरिवर्तते विपक्षोहि नाम स उच्यते यः सिषाधयिषितधर्माध्यासिततया दृढप्रमाण. सिद्धः परमाणवश्चैतेऽनन्तरनिर्दिष्टनीतिक्रमेणानिर्णीतनित्यत्वाः परमार्थतो विपक्षा एवानित्यत्ववादिनः, स तु रागद्वेषकलुषितहृदयतया यदि तान्पक्षतया ब्रवीति प्रवीतु नाम न तु सुस्पष्टासिद्धनित्यतानां परमाणूनां विपक्षमावो निवर्तते इति”
सविदमनुपपन्नम अनेन क्रमेण धूमानुमानस्याप्यनैकान्तिकत्वप्रसङ्गात् , धूमो हि महीभृति हुतवहविरहितवपुषि विपक्षे वर्तत एव, “न तत्र चित्रभानोरभावो निश्चित इति चेत्” किन्नु खलु सद्भावोऽस्य तत्र गृहीतः , तथा सति वा कृतमनुमानेन, ___ “अथ सत्त्वमसत्त्वं वा नावधारितमेव धराधरे धूमकेतोः” तर्हि संदिग्धा तत्र विपक्षता, निश्चितविपक्षवृत्तिवत् संशयितविपक्षवृत्तिरपि नानकान्तिकताम. तिवर्वत इति सर्वानुमानानामेव निवापाजलिर्दत्तः स्यात् , न च वाविहृदय परिकल्पनोपाहढस्थितेरपि पक्षो नाम नास्ति तदभावे किमपेक्षः सपक्षविपक्षव्यवहारः, बुद्ध्यारूढत्वपक्षेऽपि न सपक्षविपक्षयोः पक्षत्वं न च वस्तूनामुभया. त्मकता भवेत् , किंतु कं चित्कालमन्यतरासिद्धवद्विमतिपथापतितस्य वस्तुनः पक्षत्वमुपेयते, निर्णयजन्मना तु विमतिविरतो नूनमन्यतरवर्गपतितो ऽसो भविष्यतीति सर्वथा न तस्यां दशायां तेनानैकान्तिकत्वोद्भावनं युक्तम् ,
“नन्धनेन पथा पृथककृते सपक्षविपक्षाभ्यां पक्षे न तत्रान्वयव्यतिरेकयोरन्यत. रस्यापि प्रहणं भवेत् , सपने बन्धयो गृह्यते विपक्षे च व्यतिरेकः, एष तुताभ्याम. न्तिरमिति तत्रागृहीतान्वयव्यतिरेकात्मकनियमो हेतुः पण्ड इव न पुत्रजन्मनि समर्थ एव साभ्यसाधने भवेत्” अलमनया डिम्भविभीषिकया न हि सकलस. पक्षविपक्षसाक्षात्करणकेकोल्लासपुरःसरं व्याप्तिग्रहणमिति पूर्वमेव निर्णीतोऽयमर्थः, न च तद्वर्जमिति व्याप्तिग्रहणं भवति येन षण्ढसुतसाम्यचोदनाऽवकाशः स्यात् , सामान्येन हि व्याप्तिप्यमाणा वत्रापि गृहीता भवत्येव, तेनापि च
. ________________

हेत्वाभासप्रकरणम् ।
१६५ कालान्तरे सपक्षविपक्षान्यतरवर्गानुप्रवेशिना भवितव्यमेव, विमत्यवस्था या तु पृथगेव ताभ्यामसाविति न तत्र वर्तमानो हेतुरनैकान्तिकीभवति, एतेनेश्वरा. धनुमानानामप्यनैकान्तिकत्वमपाकृतं वेदितव्यम् , तस्मानानकान्तिकत्वेनागमकं मूत्वमपि त्वन्यथासिद्धत्वेनैवेति । ___ “नन्वेवमपि परमाणुप्रसाधनानुमानमहिमहतशक्तितया मृर्तत्वमनित्यत्व. सिद्धावतमं जातमिति ततश्च कालात्ययापदिष्टत्वान्नान्यथासिद्धतामधिगच्छेत्”
नैतदेवम् कालात्ययापदिष्टो हि प्रत्यक्षागमापहृतविषय उच्यते अनुष्णः कृष्णवा मदिरा द्विजैः पातव्येत्यादौ दर्शितो यत्पुनरनुमानं प्रत्यक्षागमविरुद्धं न्यायामासः स इति, न च परमाणुषु परमाणुतयैव सततपरोक्षेषु प्रत्यक्षमनित्यताविपर्ययप्राहि प्रवर्तितुं शक्तमागमस्तु नास्त्येवेति कुतः कालात्ययापदिष्टता। ___ “ननु किमिदमवनिपतिवचनमुत वैदिकी चोदना यत्प्रत्यक्षागमयोरेव बा. धकत्वमनुमान प्रति नानुमानान्तरस्येति, परमाणुप्रसाधनानुमानं हि दृढमहढस्य तदनित्यतानुमानस्य मूर्तत्वादेर्यदि बाधकं स्यात्को दोषः स्यादिति___ अथ मनुषे-नियम एवैष प्रत्यक्षानुमानयोविरोधे प्रत्यक्षमेव बलीय इति तदेवानुमानस्य बाधकमुचितं नानुमानान्तरमिति
तदसत् अलातचक्रादो प्रत्यक्षमप्यनुमानेनानन्यथासिद्धेन बाध्यत एव ।
ननु भ्रमणविरतो परिमितपरिमाणोल्मुकग्राहि प्रत्यक्षमेव तत्र प्रत्यक्षस्य बाधकं नानुमानमिति,
मैवम् अनवरतपरिभ्रमणसमुद्भूतचक्रावभाससमय एवानुमानेन तद्भान्ततानिश्चयात् ,
पूर्वप्रवृत्तमचक्राकारतदलातपरिच्छेदि प्रत्यक्षं बाधकमिति चेन्न,
पूर्वप्रवृत्तत्वेनैवातिक्रान्तत्वात , तस्मादनुमानमेव चक्रज्ञानबाधकम् एवं चा. नन्यथासिद्धमनुमानमपि प्रत्यक्षस्य बाधकं भवति, यथानन्यथासिद्धतया मूल. स्तम्भभूतमखिलानुमानप्रतिष्ठायतनं प्रत्यक्षमपि बाधते तदनुमानस्य तपस्विनः कथं न बाधकम् , अतश्च प्रत्यक्षागमग्रहणस्योपलक्षणार्थत्वादनुमानं बाधितमपि कालात्ययापदिष्टमेवेति”
तदेतदसमीचीनम् अनुमानादेर्वाभ्यवाधकभावानुपपत्तेः, सर्वत्र खलु प्रमाणाभासरूपं बाध्यते न तु प्रमाणं नाम शक्यते बाधितुमलातचक्रा. दावपि प्रत्यक्षाभासस्य बाधकमनुमानं न प्रत्यक्षस्य एवमत्राप्यनुमानामासस्य बाध्यता नानुमानस्य , तदिदानीमनुमानाभासत्वमस्य किंकृतमिति चिन्स्य. साम , “स्खलक्षणवैधुर्यादिति चेत्” किमनुमानान्तरेण बाधकेन, तद्बाध्यतया तु तदाभासत्वकथनमितरस्यापि तादृशमेव, “परमाणुषु प्रसाधनानुमानमनन्य. ________________

न्यायमअर्याम् थासिद्धमिदं तु मूर्तत्वमन्यथासिद्धमिति चेत्” आगतोऽसि मदीयं पन्थानमन्यथासिद्धत्वादेव च तदप्रामाण्ये सिद्धे किं तद्बाधया, “अन्यथासिद्धत्वमेव क. थमिति चेत्” न घटादौ मूर्तत्वप्रयुक्तमनित्यत्वमपि तु कार्यत्वप्रयुक्त कार्यस्य कारणविभागाद्वा तद्विनाशाद्वा विनाशोपलब्धेः कार्यत्वमेवानित्यत्वप्रयोजकमुक्तं न मूर्तत्वम् , मूर्तत्वे तु नित्यताक्षेपिणि परमाणुतैव हीयेतेत्युक्तम्, तस्मान मूर्तत्वमनिस्यतायाः कारकं ज्ञापकं वेति भवत्यन्यथासिद्धम् ,
“भवत्वेवम् असिद्धवर्गे तु कथमेष हेतुर्गण्यते” साध्यधर्मप्रयुक्ता मिरिण वृत्तिरस्य नास्तीति चेद्, यद्येवं पञ्चानामपि तत्प्रयुक्तवृत्तिरहितत्वादसिद्ध एवैको हेत्वामासः स्यात् ।
अथ सत्यपि प्रयोजकत्वे विपक्षवृत्त्याद्यवान्तररूपभेदनिबन्धनानकान्तिकस्वादिव्यपदेशपञ्चकभाज इमे हेत्वाभासा इष्यन्ते, हन्त तर्हि प्रकृतो ऽयं हेतुर्मूतत्वादिति किमनैकान्तिक उच्यतामथ कालात्ययापदिष्ट आहो स्विद्विरुद्ध उत प्रकरणसम इति, नैषामन्यतमो ऽपि वक्तुं शक्यते एतल्लक्षणानुपपत्तरिति चेत्, काममसिद्धो ऽपि मा वादि पक्ष वर्तमानत्वेन तल्लक्षणस्यानुपपत्तरिति, आस्तां सहि षष्ठ एवायं हेत्वाभासः सम्यग् हेतुतां तावद्यथोक्तनयेन नाश्नुत एव न च तेष्वन्तर्भवतीति बलात् षष्ठ एवावतिष्ठते ।
कथं विभागसूत्रमिति चेद् , अतिक्रमिष्याम इदं सूत्रम् , अनतिकामन्तः सुस्पष्टदृष्टमपीममप्रयोजक हेत्वाभासमपन्हुवीमहि न चैवं युक्तमतो वरं सूत्रातिक्रमो न वस्त्वतिक्रम इति, __ अथ वा न सूत्रकारनियमोल्लङ्घनं श्रेयः प्रमाधन्खलु परिमितदर्शी माहशो ऽन्यथा ब्रयान्न न्यायमहोदधेः पारदृश्वा भगवाक्षपादः, तदेनं हेत्वाभासमसिद्धवर्ग एव निक्षिपामः । __ “ननु पक्षे वर्तमानः कथं तत्र निक्षेपतुं शक्यते” यथा साध्यधर्मप्रयोजकसयापऽपि वर्तितुं युक्तम् तथा न वर्तत एवायं तत्रेत्यदूरविप्रकर्षेण भवत्येवा. यमसिद्धः, अत एवायमन्यथासिद्ध इत्युच्यते, यथा सिद्धः सिद्धो भवति तथा न सिद्धः अन्यथा तु सिद्ध इत्यनया नीत्योत्तानवृत्तिमात्रलम्भेऽप्ययमसिद्ध एव, अन्येषु तु हेत्वाभासेषु भङ्गया ऽपि नान्तर्भवतीत्युक्तमेतत्, अथ वा सर्वहेत्वा. मासानुवृत्तमिदमन्यथासिद्धत्वं नाम रूपमिति न षष्ठो ऽयं हेत्वाभासः, तत्त क चित्केवलमेष दृश्यते कचिद्यभिचारादिरूपान्तरसहचरितमतश्च व्यभिचारादिरूपापेक्षमेव पश्चत्वमुपदिष्टवान्मुनिरिति न विभागसूत्रविरोध इत्यनमतिविस्तरेण ।
युक्तस्तस्मादन्यथासिद्धनामा हेत्वाभासः सोऽयमेकप्रकारः। यस्योत्ताना विद्यमाना ऽपि पक्षे वृत्तिर्न स्यात्साध्यधर्मप्रयुक्ता ॥

  • ________________

हेत्वाभासप्रकरणम् ।
१६७ हेत्वाभासकुटुम्बकस्य तदिदं सर्वस्य साधारणं रूपं यद्यपि लक्षणान्तरकृतो भेदस्तथा नान्यतः । सामान्यं तु विशेषरूपरहितं नास्ति प्रमाणं यथा मा भूदत्र तथेति नास्य विषयश्चोधस्य वस्तुस्थितिः॥
अथ बाधितलक्षणम् । कालात्ययापदिष्टः कालातीतः ॥ गौ, सू, अ. १ आ. २ सू. ९ ।
यथाप्राप्तं हेतुप्रयोगकालमतीत्य यो हेतुरपदिश्यते स कालात्ययापदिषुः कालातीत इत्युच्यते।
तत्र के चिदाचक्षते-“प्रतिज्ञानन्तरं हि हेतुः प्रयोक्तुंयुक्तः तत्र यः प्रति. ज्ञायाः पूर्वमेव दृष्टान्तवचनादेरप्यूर्व वा प्रयुज्यते स कालात्ययापदिष्ट” इति । तदनुपपन्नम्
अक्षतप्रतिबन्धस्य साध्यावगतिकारिणः ।
क्रमातिक्रममात्रेण न हेत्वाभासता भवेत् ॥ कियांश्चैष दोषः पदान्तरव्यवहितोचारणं नाम, व्यवहितमपि येन सह समुचितसमयमन्तुमधिकृतमितरदतिनिकटपठितमपि पराणुध दवीयसा ऽपि तेनैव संबन्धमनुभवति यथा
अयसा पथि गच्छन्तीमौषधीं दीर्घलोचनाम् ।
दृष्टवानसि केदारं यो लुनासि मम प्रियाम् ॥ इति । अप्राप्तकालमेव तत्कथितं पृथगेव निग्रहस्थानम् , तच्च पुनरुच्यमान न कञ्चन स्वार्थमावहति तस्मादपव्याख्यानमेतत् ।
अपर आह-“सविशेषणग्य हेतोः प्रयुज्यमानस्य यस्य विशेषणं कार्यकाल मत्येति न तत्पर्यन्तमवतिष्ठते स कालात्ययापदिष्ट इति, यथा कालान्तरस्थायी शब्दः संयोगव्यङ्गयत्वादूपवदिति, अत्र न व्यङ्गयत्वमानं हेतुत्वेन विवक्षित. मपि तु सविशेषणं संयोगव्यङ्गत्वं स चायं संयोगो व्याखके दृष्टान्तामणि रू.पे तदवगतिपर्यन्तस्थितिरुपलभ्यते दीपादिसंयोगः, साध्यधर्मिणि तु शब्दे न तद. वस्थानमिति दुरतो हि दारुपरशुयोगविच्छिन्ने छेत्रा पुनरुद्यम्यमाने परश्वधे श्रूयते शब्द इति तदुपलब्धिकाले तदत्ययात्कालात्ययापदिष्टोऽयं हेतुरिति” एतदपि न संगतमसिद्धत्वेनास्य हेत्वाभासान्तरत्वानुपपत्तेः ।
वस्मादयमर्थः हेतोः प्रयोगकालः प्रत्यक्षागमानुपहतपक्षपरिग्रहसमय एव तमतीत्य प्रयुज्यमानः प्रत्यक्षागमबाधिते विषये वर्तमानः कालात्ययापदिश्रो भवति तस्योदाहरणं पूर्वमेव प्रदर्शितम् ।
उष्णो न तेजोऽवयवी कृतकत्वाद् घटादिवत् । ब्राह्मणेन सुरा पेया द्रवत्वात्तीरनीरवत् ॥ ________________

१६८
न्यायमनाम् यच्च किं चिदभिधेयमत्र तत्सर्वमुक्तमनुमानलक्षणे । अप्रयोजकनिरूपणे पुनः किंचनोदितमतो विरम्यते ॥ हेत्वाभासास्त एते ऽवगतिनियमितानन्यसङ्कीर्णरूपा निर्णीताः पञ्च ये ऽर्थे विदधति महतीं शुद्धिमभ्यस्यमानाः । पक्षादौ वृत्तिभेदाकलनगुरुतरक्लेशनिष्पद्यमाना नेयत्ता त्वेतदीया क चन फलवती नाहता तेन तज्ज्ञाः॥
इति (१३) हेत्वाभासपदार्थः समाप्तः ।
अथ छलनिरूपणम् । तत्वाध्यवसायसंरक्षणं जल्पवितण्डयोः प्रयोजनमुक्तम् , तदङ्गभूतानि छलजातिनिग्रहस्थानानि, यद्यपि च वादे केषां चिदभ्यनुज्ञानमस्ति तथापि जल्पवितण्डे एव तेषां प्राचुर्येण क्षेत्रमिति तदोपयिकतया तत्स्वरूपनिरूपणं युक्तमित्युदेशक्रमेण च्छलस्य तावल्लक्षणमाह
वचनविघातो ऽर्थविकल्पोपपत्या च्छ लम् ॥
__गौ. सू. अ. ! आ. २ सू १० । छलस्य भेदवत्त्वात्सामान्यलक्षणानि च वक्तव्यानि तानीह सर्वाणि स्व. कण्ठेन किल तत्पूर्वकमनुमानमित्यत्र त्रिचतुराक्षरसमपितापरिमितविषयवि. तण्डानुमानलक्षणलब्धनिरतिशयसूत्रकरणकौशलस्य मे किमधुना शिष्यजन. मनःक्लेशकारिणा संक्षिप्ताभिधानदोहदेनेति मन्यमानः सूत्रकृदुक्तवान् तत्र वचनविघात इति सूत्रं सामान्यलक्षणप्रतिपादकम् , परस्य वदतो वचनविघातो मिधाननिरोधः छलम , किमास्यपिधानादिना नेत्याह, अर्थविकल्पोपपत्त्येति, वक्तुरनभिप्रेतमर्थात्तदुक्ते वचसि समारोप्य तनिषेधं छलवादी करोति, कथ. मर्थान्तरारोपणमिति चेद् , अर्थविकल्पोपपत्त्या विकल्पमानार्थघटनयेत्यर्थः,
किमुदाहरणं विशेषलक्षणेषु वक्ष्यामः, इहैव कस्मानोच्यते असंभवादिति ब्रमः, न हि निर्विशेष सामान्यमुपपद्यत इति तदुदाहियमाणं बलाद्विशेषनिष्ठमे. वावतिष्ठते, मन्येष्वपि गौन पदा स्प्रष्टव्येति सामान्योपदेशेषु नामूायामाका. शनिर्विशेषयपुषि जावो स्पर्शप्रसक्तिस्तनिषेधो ऽवकल्पते किंतु व्यक्तिवेवेति विशेषविषय एष सर्वत्र क्रियायोग इति तत्रैवोदाहरणवर्णनं युक्तम् ,
“कथं तर्हि सकलहेत्वाभाससार्थसामान्यलक्षणमप्रयोजकमनपेक्षितसव्य. भिचारविरुद्धादिविशेषमप्युदाहरणद्वारेण दर्शितमनित्याः परमाणको मूर्तत्वाद् घटवदिति” ________________

छकप्रकरणम् ।
उच्यते प्रमाणे तहि प्रत्यक्षादिविशेषनिरपेक्षं कथं प्रमाणसामान्यं नोदाह. तम्, न च तत्सामान्यादन्यत्रापि तथाऽस्त्विति वक्तव्यम् , न हि चाक्षुषेण प. ञ्चाशद्भवितुमर्हति(?) तस्मान्नैवं वक्तुं शक्यम् , यथा विरुद्धादिविशेषरूपरहितमप्रयोजकत्वं हेत्वाभासे सामान्यरूपं दृश्यते तथा प्रमाणेष्वपि प्रत्यक्षादिविशे. षरूपरहितं तदृश्यतां यथा वा प्रमाणेषु तन्न दृश्यते तथा हेत्वाभासेष्वपि मा दर्शीति वस्तुस्वभावानामनुयोगक्षेत्रताऽनुपपत्तः,
अपि चाप्रयोजकत्वं सामान्य विरुद्धादिविशेषेष्विव तद्रपरहितेषु स्वविशेषे. ध्वपि संभवद् दृश्यते, अत एव तदपि स्वविशेषनिष्ठमेवोदाहृतम् अनित्याः प. रमाणवी मूर्तत्वादिति न त्वाकाशवदनवलम्बनमेव किंचिदप्रयोजकत्वसा. मान्यमिति, तस्मात्सुष्ठक्तं न सामान्यलक्षणे शक्य मुदाहर्तुमिति । एवं सामान्यलक्षणमभिधाय च्छलस्य विभागमाहतत्त्रिविधं वाक्छलं सामान्यच्छलमुपचारच्छलं च ॥
गौ. सु. अ. १ आ. २ मू. ११ । निगदव्याख्यातं सूत्रम् , विभागसामान्यलक्षणयोश्चोपदेशपौर्वापर्यनियमो नास्तीति पूर्वमेवोक्तम्।
वाक्छ ललक्षणम् । अथ विभागक्रमेण विशेषलक्षणान्याहतत्राविशेषाभिहिते ऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम् ॥
गौ सू. अ. १ आ. २ सू. १२ । सम्भवद्विशेष्यविशेषणसाधारणार्थसमर्पणकौशलशालिनि श्लेषालंकारता. वति शब्दे प्रयुक्ते सति वक्तुरभिप्रेतमर्थमपट् नुत्य ततोऽर्थान्तरं परिकल्प्य तनिषेधवचनं वाचि निमित्तभूतायां छलं वाक्छलम् ,
नवकम्बलो ऽयं माणवक इति नवः कम्बलो ऽस्य नव कम्बला अस्येति च विग्रहदशा दृश्यमानविशेषमपि समासपदमिदमर्थद्वये ऽप्यविशिष्टम् , तत्राभिः नवकम्बलयोगं वक्तुरभिप्रेतं प्रमाणोपपन्नं च निहनुत्य नवसंख्यासम्बन्धमध्या. रोप्य तत्प्रतिषेधेन परः प्रत्यवतिष्ठते कुतोऽस्य नव कम्बला इति, तदेतत्साधारणशब्दे वाचि छलं वाक्छलमिति, यथा च कस्यांचिदवस्थायां जल्पादो छलादिप्रयोगो युक्त इति तद्व्युत्पादनमेवं परप्रयुक्तस्यापि सतश्छलादेः प्रति. समाधानमभिधेयमिति तदपि व्युत्पाद्यते, .
नव कम्बला अस्येति मम विवक्षितमिति कुतः प्रतिपन्नमायुष्मता, किमयममिनवकम्बलयोगप्रतिपादको न भवत्येव बहुव्रीहिः पक्षद्वये ऽपि च सम्भ.
२० ________________

१७. (CTS न्यायमझयाम्
MADRAS-Aa THE KUPPUSWAMY SASTR.
RESEARCH INSTITUTE, DYLAPORE,
वति, यदि तावदर्थप्रकरणादिसामर्थ्यपर्यालोचनया ऽवसितनियताभिधेय. वृत्तिशन्दव्यवहाराभिज्ञोऽसि तदर्थसिद्धमर्थमभिनवकम्बलसंबन्धमेव बुद्ध्वा तूष्णीमारस्व।
अथ शुष्कतार्किककुटुम्बकगर्भदास इव शब्दवृत्तानभिज्ञ एव त्वं तहि पक्षद्वयसंभवे संशयानो मामेव पृच्छ किं ते विवक्षितमिति निषेधकः सन्वक्तुमुपकमसे।
“ननु त्वमध्यक्षमाप्त्यादिफलपर्यन्तशब्दप्रयोगप्रवृत्तः किमिति साधारणमिइमन्धपदप्रायं पचः प्रयुक्षे” * अयि बालिश तवैतदन्धपदम्
अर्थप्रकरणाधीननियतस्वार्थवृत्तिताम् । यो न जानाति शब्दानां स एवमपभाषते ॥ इदमर्थद्वये तावत्साधारणपदं भवेत् । जातिशब्दाः पुनर्व्यक्तिसहस्राक्षेपकारिणः ॥ स्पृशन्ति नियतं वाच्यं ते ऽपि प्रकरणादिना । ब्राह्मणान्मोजयेत्यादो तद्वालेन न शिक्षितम ॥ तस्माच्छब्दार्थसंदेहे प्रयोक्ता वत्स पृच्छयते । न त्वर्थान्तरमारोप्य तनिषेधो विधीयते ॥
सामान्यच्छललक्षणम् । संभवतोऽर्थस्यातिसामान्ययोगादसद्भूतार्थकल्पना सामान्यच्छछम्॥
गौ. सू. अ. १ आ. २ सू.१३ । अतिव्यापकं सामान्यमतिसामान्यं तद्योगात्तत्सम्भवात्कचिद् व्यक्तार्थस्य कस्य चित्संभवतः .संभाव्यमाननिष्पत्तेर्वक्त्राऽभिहितस्य सतो या ऽसद्भुता. र्थकल्पना वक्तरनभिप्रेतातिसामान्यहेतुत्वकल्पना तया च प्रत्यवस्थानं तत्सा. मान्यनिमित्तं छलं सामान्यच्छलम् । __ यथा क चिदुचितोपचारवचनाराध्यमानगुणवब्राह्मणकुले तत्कथाबहुले राजकुले कश्चित्सुजन्मो .कंचिदप्रजन्मानं स्तौति अहो नु खल्वसौ ब्राह्मणो विद्याचरणसम्पन्न इति, तस्मिन्प्रसङ्ग तथाविध एवापरस्तमुत्साहयन्कथयति स. म्भवति ब्राह्मणे विद्याचरणसम्पदिति, तत्र पिशुनश्छलवायाह यदिब्राह्मणे विद्या. चरणसम्पत्सम्भवति तर्हि व्रात्ये ऽपि ब्राह्मणत्वजात्यनपनयनात्संभवेदिति तत्रेद. मतिव्यापकं ब्राह्मणत्वसामान्यं यतो विद्याचरणसम्पदमत्येति च स्पृशति वयो. गाद ब्राह्मणव्यक्ती सम्भवतो विद्याचरणसम्पद्र्पस्यार्थस्य वक्त्रा मिहितस्य सतस्तत्र वात्रभिमतामेवातिसामान्यहेतुतामारीप्य च्छलवादी प्रत्यवतिष्ठत इति,

  • ________________

छलपकरणम् ।
अत्रोत्तरम् केन ब्राह्मणत्वस्य हेतुत्वमभिहितं यदनै कान्तिकीकुर्वन्प्रत्य. वस्थितोऽसि, संभावनावचनमिदं स्तुत्यर्थमुपन्यस्तम्, विद्याचरणसंपदः पात्रं हि ब्राह्मणाः सति ब्राह्मणत्वे पूर्वजन्मोपचितसुकृतपरिणामाद्भवति विद्याचर
सम्पत्, न तु तदेव तस्या हेतुरिति, यथा सम्भवन्त्यस्मिन्क्षेत्रे शालय इति क्षेत्रप्रशंसापरे वाक्ये प्रयुक्त नैवं वक्तुमापद्यते यदि क्षेत्रमेव शालिसम्भवहे. तुस्तत्र विनापि हलबलीवादिसामग्रयां महत्यवग्रहे ऽपि शालयो ऽस्मिन्सम्भवेयुरिति, तदिदमर्थवादादिगत्यनभिज्ञस्य भवतो भाषितमित्यास्तामेतत् ,
इदं तु भवन्तं पृच्छामि भो महात्मन्स्वभावशुद्धा परिनिश्चितार्थसंस्पर्शिनी पुण्यसहस्रलभ्या। केनेडशी सर्वजनानुकूला कल्याणिनी ते निरमायि वाणी ॥
उपचारच्छल लक्षणम् । धर्मविकल्पनिर्देशे ऽर्थसदभावप्रतिषेध उपचारच्छलम् ॥
गौ. सू. अ. १ आ. २ सू. १४ । अभिधानस्य धर्मो ऽनेकप्रकारो मुख्यया वृत्त्या गोण्या वा लाक्षणिक्या वा यदर्थे प्रत्यायनं तदनेन विकल्पमानेन धर्मेण गौरणेन लाक्षणिकेन वा निदेशे प्रयोगे कृते यो ऽर्थसद्भावप्रतिषेधो मुख्यार्थनिषेधः स उपचारनिमित्त छलमुपचारच्छलम्।
यथा मञ्चाः क्रोशन्तीत्युक्ते च्छलवाद्याह कथमचेतनाः काष्ठरचनात्मानो मश्चाः क्रोशन्ति मञ्चस्थाः पुरुषा एते क्रोशन्ति न मचा इति ।
अत्र समाधिः-वृद्धव्यवहाराच्छब्दार्थव्युत्पत्तिः तत्र न केवलयैव मुख्यया वृत्या शब्दाः प्रवर्तमाना दृश्यन्ते वृत्त्यन्तरव्यवहारस्यापि सुप्रवर्तितत्वात् , न च निनिमित्तमेव परशब्दं परत्र प्रयुक्तवन्तो वयं सहचरणादिसूत्रनिवेदितनिमित्तनिकुरुम्बान्यतमनिमित्तपूर्वकत्वादस्य प्रयोगस्य स्थानादयं तद्वदुपचारः, __ “सत्यं गौणलाक्षणिकादिशब्दप्रयोगावगतिबाह्य एव य एवं प्रत्यवतिष्ठते, गौणलाक्षणिकयोः कथं विशेष इति एतत् कथ्यताम्” सत्यं गोशब्दः स्वार्थमभिधाय सास्नादिमन्तं तदीयान् गुणानेव जाड्यमान्यादीन न मुत्रादीलक्ष. यति न तावत्येव विरमति स तु सामानाधिकरण्येन वाहीकेऽपि प्रवर्तते, गौर्वाहीक इत्येवं प्रयुज्यमानः स गौणो भवति, यस्तु स्वार्थाभिधानानन्तरं त. दिवरमर्थ गुणमगुणं वा लक्षयत्येव न सामानाधिकरण्येन परत्र प्रयुज्यते श. म्दः स लाक्षणिको भवति गङ्गायां घोषः प्रतिवसतीति, तथा चोकं। गौणे ऽपि प्रयोगे न लक्षणेत्य(यमित्य)लं शास्त्रान्तरोगारगहनाभिः कथाभिः ________________

१०१
न्यायमचर्याम् मुख्यमर्थमथ लाक्षणिकं वा गौणमप्यवगमय्य च शब्दः । लोकवेदविहितं व्यवहारं सन्तनोति तदभिज्ञमतीनाम् ॥ कुर्यादाक्षेपं यश्च भाक्त प्रयोगे वाच्यं मत्वा ऽर्थ तत्र वक्तर्न दोषः । तेन त्वात्मीयं शब्दवृत्तानभिज्ञं रूपं व्यक्तं स्यादन वृद्धाः प्रमाणम् ॥
अथ छलपरीक्षा। एवं छलस्य विशेषलक्षणान्यभिधाय तत्परीक्षायामाक्षेपं करोति
वाक्छलमेवोपचारच्छदं तदविशेषात् ॥
गौ. सू. अ. १ आ. २ सू. १५ । न खलु वागुपचारच्छलयोः कश्चिद्विशेषः अनेकधा शब्दाथै सम्भवति व. क्तभिमतादर्थादन्यस्य कल्पनं तत्प्रतिषेधनं चोभयत्रापि समानमवान्तरवि. शेषकृतनानास्वाभ्युपगमे वा तदानन्स्यप्रसङ्गः। अत्र समाधिमाहन तदर्थान्तरभावात् ॥ गौ. सू. अ. १ आ. २ मू. १७ ।
नैतदेवं वाक्छलमेवोपचारच्छलमिति ततोऽर्थान्तरत्वात् , वाक्छले हि नवकम्बल इति नवसु कम्बलेषु नवे च कम्बले मुख्यार्थ एव शब्दः स राम इ. त्यादिवत् , ततस्त्वेकतरं वक्तनभिप्रेतं छलवादिना ऽऽरोप्य निषिध्यते, उपचार. च्छले तु काष्ठसन्निवेशे मुख्याथै मञ्चशब्दः पुरुषे भक्त्या प्रवृत्तः मुख्यमभिधाय च गौणः प्रत्याय्यो भवति न त्वेष क्रमः साधारणशब्देष्विति महाम्भेदः, पाक्छले चार्थसत्तैव निषिध्यते कुतो ऽस्य नव कम्बला इतीह तु सतो मञ्चम्य क्रोशनशक्तिनिषिभ्यते।
समाधिरपि साधारणशब्दानभिज्ञतां परस्य प्रदर्शयता वाक्छले वाच्यः उपचारच्छले तु गौणादिशब्दवृत्त्यनभिज्ञतामिति महान्विशेषः ।
अविशेषे वा किञ्चित्साधयोदेकच्छलप्रसङ्गः ।
गौ. सू. अ. १ आ. २ मू. १६ । छलस्य द्वित्वमभ्यनुज्ञाय त्रित्वं भवता प्रतिषिध्यते यतः समान्यच्छल पा. धे कृत्वा वागुपचारच्छलयोरभेदमुपहितवानसि यथा चायं तदविशेषादिति त्रित्वप्रतिषेधस्तथा द्वित्वस्यापि किंचित्साधय॑स्य सामान्यच्छले ऽपि भावात , तथा हि यदि तावद्वाचि निमित्तभूतायामिदं प्रवृत्तं छलमिदं चेति तदभेदं म. न्यसे तर्हि सामान्यच्छलमपि मा वोचः तदपि हि न शरीरे मनसि बुद्धो वा निमित्त अपि तु वाच्येवेति वाक्छलमेवैकं स्यात् , अथैवं सत्यपि तद्विशेषो दृश्यमानो न पराणुधते सामान्यच्छले ऽपि न शब्दार्थों ऽन्यथा कृतः किंतु ________________

जातिमकरणम् ।
१७३

सामान्यस्य हेतुत्वमनुक्तमारोपितमिति पृथगिष्यते तर्हि वागुपचारच्छले अपि भिद्यते एवेति दर्शितमतो युक्तं भवत्विदम , न चानन्यामयत्तानियमकारिणो निमित्तत्रयस्य दर्शितत्वात-अवान्तरभेदकृतं तु तदानन्त्यमिष्यते एव जाति. वदित्यलं प्रसङ्गेन ।
तस्मात्परस्परविविक्तनिजस्वरूपमीहक् छलत्रितयमेतदिहोपदिष्टम् । तस्य क चित्स्वयमपि क्रियते प्रयोगोवाच्यः परैरभिहितस्य तथा समाधिः ॥
इति (१४) छलपदार्थः । इति श्रीमद्भट्टजयन्तकृतौ न्यायमञ्जर्यामेकादशमादिकम् ॥ ११ ॥
-o r— ..
अथजातिप्रकरणम् । छलानन्तरं जातेरुद्देशात्तस्याः सामान्यलक्षणं तावदाहसाधयेवैधयाभ्यां प्रत्यवस्थानं जातिः ॥
गौ. अ. १ आ. २ सू. १८ । अत्र त्रैकाल्यसमादिसकलविशेषसंग्रहाय साधर्म्यवैधादिनिरपेक्षमेव प्रत्यवस्थानपदं जातिसामान्यलक्षणप्रतिपादकमाहुः, प्रतीपमवस्थानं प्रत्यवस्थान तावन्मात्रमेव च यत्किं चिदुत्तरं परप्रयुक्त हेतो जायमानत्वाज्जातिरित्यमिधीयते,
तदनुपपन्नम्-प्रत्यवस्थानमात्रस्य साधादिनिरपेक्षस्य जातित्वे हेत्वा. भासोदावनमपि जातितामश्नुवीत ।
अथ तस्य सम्यगुत्तरत्वादिह च निर्विशेषणप्रत्यवस्थानमात्रोपपादनात्फल्गुप्रायमसदुत्तरं जातित्वेन विवक्षितमित्युच्यते, तथापि छलस्य जातित्वप्रसतिरपरिहायव, तद्व्यदासाय तु तदन्यत्वे सतीत्यादिकं यदि किं चिदध्या. ह्रियते तदमुष्य श्रूयमाणस्य साधयेण वैधम्र्येण वा प्रत्यवस्थानमस्तीति नैष दोषः साधर्म्यवैधाभ्यामित्यसमासकरणेन दिकप्रदर्शनस्य सुचनात् । मा. धम्येण वैधम्र्येण वा कथमेष हेतुहेतूभवतीति वा किमनेन क्रियते इति वा यदेवं. प्रकारप्रत्यवस्थानं हेतुप्रतिबिम्बवर्त्मना क्रियते सा भविष्यति जातिरित्युच्यमा. ने सकलविशेषसंग्रहः त्रैकाल्यसमादिष्वपि यादृशम्य तादृशस्य साधर्म्यवैधर्म्यप्र. कारस्य योजयितुं शक्यत्वात् , न ह्युदाहरणसाधम्यं साध्यसाधनमिह विवक्षि. तं तद्वैधयं वा साधादिमात्रं तु तत्रापि नात्यन्ताय दूरगमिति यथाश्रुतं साधर्म्यवैधाभ्यां प्रत्यवस्थानं जातिरिति सामान्यलक्षणं युक्तम् ।
अथ भेदवत्वाजातेश्चतुर्विशविषा विभागमाहसाधर्मवैधयोत्कर्षापकर्षवर्ध्यावय॑विकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गम ________________

१७४
न्यायमञ्जर्याम्
विदृष्टान्तानुत्पत्तिसंशयप्रकरणहेत्वर्थापत्यविशेषोपपत्युपलन्ध्य.
नुपलब्धिनित्यानित्यकार्यसमाः ॥
गौ. अ. ५ आ. २ सू. २। अत्र समा इति स्त्रियां पुंसि च तुल्यत्वानिर्देशस्य जात्यपेक्षया स्त्रीनिर्देशो वा प्रतिषेधापेक्षया वा निर्देशो वर्णनीयः, विशेषलक्षणसूत्रेषु पुनः प्रायेण पुं. लिङ्गनिर्देशो दृश्यते स तु प्रतिषेधापेक्षया तेषु व्याख्येय इति तद्याख्यानावसर. एव वश्यामः ।
जातिव्युत्पादनपरीक्षा"नन्वास्तां तावद्विशेषलक्षणवर्णनम् इदमेव त्वादी चिन्त्यताम्–किमर्थमेवंविधमसदुत्तरजातं शाख्ने व्युत्पाद्यते,
एवंप्रकाराणां च धूलिप्रक्षेपसदृशानां सारेतरपरीक्षणक्षमविचक्षणोक्षणी. यानामसदुत्तराणामानन्त्याचतुर्विशतिसंख्याऽपि कथमिति मनसि महान्वि. स्मयो ऽस्माकम् ,
यदपि च तत्वाध्यवसायसंरक्षणं तत्प्रयोजनमभिधीयते तदपि न हृदयंगमम् , असदुत्तरोपन्यासेन तत्वाध्यवसायस्य संरक्षितुमशक्यत्वात् ,
अथ विकटाटोपप्रकटनपाटवोपहितापरसंमोहनद्वारेण तद्रक्षणमास्थीयते तहि ष्ठीवितहसितांसमर्दनकौपीनावरणविदारणचरणावस्फोटनाद्यपि व्युत्पाद्यतामिह मोक्षाविद्यायाम ,
तथा ऽपि चेदं विचार्यताम् क जातिप्रयोगैः प्रत्यवस्थेयम् , सम्यक्साधने परेण प्रयुक्ते तदामासे वा, न तावत्साधनाभासे तस्य हि येन निमित्तेनासिद्धत्वादिना साधनाभासत्वमुपनतं तदेव तत्र प्रयोक्तुमुचितं न जावयः, तेनैव च परः पराजीयते, नापि सम्यक्साधने तत्र प्रयुक्तानामपि तासामकिंचित्कार्यकरत्वात् , न हि जातिप्रयोगकलुषितमपि सम्यक्साधनमसाधनीभवितुमर्हति ।
अथकान्तपराजयाद्वरं संदेह इति ताभिरुपक्रमते तत्रापि स तथोपक्रममाणः कमिव प्रत्याययेत्, नीतिविदस्तावज्जानन्त्येव सोऽयं यथोचितमभिवदितुमपार. यन्किमप्यालजालमालपितुं प्रवृत्त इति, शाकटिकादिप्रत्यायनार्थ तु प्रत्यन्तगहरजनपदेषु प्राम्यसदसि लाभादिकामस्य कस्य चित्प्रयोजनवद्भवेदपि कदा चिन्न तु मोक्षशाने तथाविधोपदेशः पेशल इति”।
अत्राभिधीयते–समाहितमेतद्भगवता सूत्रकारेणैव तत्त्वाथ्यवसायसंरक्ष. रणार्थ कण्टकशाखापरिवरणवदिति वदता, जल्पवितण्डागभूतानि च छला. योनि, तदुक्तं-‘छलजातिनिग्रहस्थानसाधनोपालम्भो जल्प’ इति, भाष्यकृदप्याह
HTTA ________________

जातिप्रकरणम् ।
१७५
‘छलजातिनिग्रहस्थानानां पृथगुपदेश उपलक्षणार्थः उपलक्षितानां स्ववाक्ये परिवर्जन परवाक्ये च पर्यनुयोगः जातेस्तु परेण प्रयुज्यमानायाः सुवचः समाधिः स्वयं च सुकरः प्रयोग’ इति, यदा हि मुमुक्षोरागमाद्वा युक्तितो वा तत्त्वज्ञानमु. त्पन्नं न चाद्यापि भावनाभ्यासप्रसादसमासादितद्रढिमातिशयं वर्तते तस्यामव. स्थायां यदि केन चित्किमप्यनुमानप्रायमभिधाय तदा व्याकुलीक्रियते तदासी विदितयुक्तयागमगौरवो ऽपि सपदि तदुत्पादिते तत्वज्ञाने मनागसंभावनालेशमिवाधिगच्छेत् , तस्मिन्वा दृढप्रत्यये ऽपि तत्पार्श्ववर्तिनः शिथिलास्था भवेयुः, अतो झगिति स दूषणमपश्यन्प्रतिपक्ष जातिप्रयोगैरप्यसौ शमयेदेव नोदासीते. त्युक्तं जल्पलक्षणे, परोदिता था आतीः प्रत्यभिज्ञाय तत्क्षणमेव परिहरेविति सफलं जातिव्युत्पादनम् , यथा क घिदचिरव्युप्तसस्ये संप्रत्युद्धिमानकोमलाः रनिकरदन्तुरितसीमनि केदारे तदुपद्रवो द्रुततरगामिनो यतः कुतश्चन चतुष्प. वाद् द्विपदावा ऽभिशङ्कयते इति तत्परिहाराय समन्ततो निरन्तरकण्टकशाखा. संततिपरिचरणमाधीयत एवमिहापि जात्यादिप्रयोगः, तद्वारकं तत्वाभ्यवसा. यसंरक्षणं कर्तव्यम् ।
यत्त विकल्पितं क जातेः प्रयोगः सम्यक्साधने तदाभासे वेति, तदुच्यतेसम्यग दूषणमपश्यता किल जात्यादि प्रयोक्तव्यं तच्च सम्यक्साधने तदभावादेव भवतु साधनाभासे वा प्रमादादिना वेति को ऽत्र विशेषः, मुमुक्षोस्तु ज्ञात. तत्त्वस्य तत्प्रतिकूलवादिना केन चिदाक्षिप्तस्य तत्प्रयुक्त तत्वप्रतिक्षेपबलासा. धनामास एव सम्यग दूषणमपश्यतो जातिप्रयोगावसरः, ज्ञात्वापि साधनाभासतां यथा तथा सत्वरमेव निभयंतामयं दुराचार इति पावस्थितसुकुमारमा तिशिष्यजनोत्साहजननाय जात्याद्याडम्बरविरचनमुचितमेव मुमुक्षोः, मुमुक्षु प्रति च शास्त्रारम्भादाक्रम्येन तदपेक्षया साधनाभासविषय एव जातिप्रयोगः, अत एव च भाष्यकृता प्रथमं साधनाभास एव जात्युदाहरणं दर्शितम् , लाभा. दिकामानां तु सम्यक्साधने ऽपि प्रयुक्ते युक्त एव जात्याधुपक्रमः, इतरथा हि निःसंशय एव पराजयः स्यादित्येतच्चानुषङ्गिक प्रयोजनमित्युक्तम्। ___ यत्पुनरभिहितमसदुत्तरकथने कथं न चपेटादिकं प्रयुज्यते इति, तदप्यसत्त. स्यात्यन्तमलाकिकत्वात् , लोको हि तदेवं मन्यते–
नूनमैष न जानाति वक्तुं सदृशमुत्तरम । अन्यथा वाचमुत्सृज्य पाणिना प्रहरेत्कथम् ॥ खेदयेद्वादिनं यस्तु हस्तपादादिचापलैः । स संसधुच्यते सद्भिभण्ड एव न पण्डितः ॥ जात्योपक्रममाणस्तु न तथैव विहस्यते । न हि संदूषणच्छाया तत्रात्यन्तमसंगता ॥ ________________

-
१७६
न्यायमअर्याम् वन कौपीनवसनापासनादिसाम्यं जात्युतराणामिति, यत्तु कस्तैः प्रत्याय्य. व इति, न सर्वः सर्वशकल्पो भवति न च शाकटिकतुल्यः ,सन्ति हि मध्यमद. शावतिनो जनास्त आराधयिष्यन्त इत्यलं प्रसङ्गेन । ___यत्पुनरसदुत्तराणामानन्त्यात्कथं चतुर्विशतिसंख्येति, तत्राप्युच्यते-सत्य. प्यानन्स्ये जातीनामसंकीर्णोदाहरणविवक्षया चतुर्विंशतिप्रकारत्वमुपवर्णितं न तु वत्संख्यानियमः कृत इति ।
तत्र साधम्र्येण प्रत्यवस्थानमविशिष्यमाणं स्थापनाहेतोः तत्साधर्म्यस. मा जातिः, सा च साधम्यहेतौ वैधर्म्यहवौ च प्रयुज्यते, वैधम्र्येण प्रत्यवस्थान वैधय॑समा जातिः, उत्कर्षापकर्षाभ्यां प्रत्यवस्थानमुत्कर्षापकर्षसमे जाती इत्येवं सर्वत्र योज्यम , स्थापनहेतुतश्चाविशेष्यमाणत्वं जातिवादभिप्रायेण तासां द्रष्टः ध्यम् , जातिवादी होवं वदति यथा भवत्प्रयुक्तं साधनं तथेदमपि किमिति न भवतीति , अत एव हेतुप्रतिबिम्बनद्वारक एव जात्युपन्यास इत्युक्तम् ।
साधर्म्यवैधय॑समयोलक्षणे । अथ विशेषज्ञक्षणान्याह, तत्रसापयंवैधाभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधम्यवैधर्म्यसमः॥
गौ. अ. ५ आ. ९ सू. २ । प्रतिषेधापेक्षया पुंलिङ्गनिर्देश इति तत्र तत्र द्रष्टव्यम् , साधयेण वैधयेण वा साधनमभिधाय सिषाधयिषितपक्षोपसंहारे साधनवादिना कृते साध्यधर्मवि. पर्ययोपपादनाय साधम्येण प्रत्यवस्थानमविशिष्यमाणं स्थापनाहेतुतः साधर्म्यसमः प्रतिषेधः , तत्रैव साधम्र्येण वैधम्र्येण वोपसंहारे तथैव वैधम्येण प्रत्यव. स्थानं वैधर्म्यसमः प्रतिषेधः । ___उदाहरणं तु अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् यत्प्रयत्नानन्तरीयकं त. दनित्यं दृष्टं यथा घट इति साधम्र्येण हेतौ प्रयुक्ते जातिवादी साधम्येणैव प्रत्य. वतिष्ठते-नित्यः शब्दो निरषयवत्वाद् निरवयवं द्रव्यमाकादिशादि नित्यं ह. ष्टमिति, न चात्र विशेषहेतुरस्ति घटसाधम्योत्प्रयत्नानन्तरीयकत्वादनित्यः शब्दो न पुनराकाशसाधान्निरवयवत्वान्निस्य इति, वैधर्म्यहेतावपि साधनादिना प्रयु. क्ते अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् यदनित्यं न भवति तत्प्रयत्नानन्तरीयकमपि न भवत्याकाशादिवदित्यत्रैतदेव पूर्वोक्तं साधर्म्यवैधर्म्यप्रत्यवस्थानद. यमुदाहर्तव्यमिति ।
यथा च कचिदवसरे स्वयं प्रयोगो जातीनामुपयुज्यत इति तत्स्वरूपव्युत्पा. बनमुपक्रान्तमेवं परप्रयुक्तानां तासामुत्तरमपि वक्तव्यमतस्तद्व्युत्पादनार्थमाह
गोवादोसिद्धिवचारसादिः ॥ गौ. भ. ५ आ. १. ३ । ________________

१७७
.
जातिप्रकरणम् । साधर्म्यवैधय॑योरिदमुत्तरम् , यदि साधर्म्यमात्रं वैधर्म्यमानं वा साभ्यसा. धनं प्रतिज्ञायेत स्यादियमव्यवस्था भवेश्च भवत्प्रयुक्तानामीदृशामपि स्थापनहेतो. रविशेषः, विशिष्टं तु साधर्म्य वैधयं वा प्रयोजकमुच्यमानं नैवंविधैः प्रत्यवस्थानैरुपहन्यते, यथा सत्यपि सत्तादिसामान्यसंबन्धे सत्यपि शुक्लादिगुणसंबन्धे स. त्यपि चलनादिकर्मयोगे न गौस्तथा तत्साधासिध्यति अश्वादिवैधाद्वा किं त्वव्यभिचारिणो गोस्वादिसंबन्धादेव तथेहाप्यस्खलितनियमं साधर्म्य वैधर्म्य वा साध्यसिद्धिनिबन्धनं न माधयादिमात्रमिति ।
उत्कर्षभमादीनां पण्णां लक्षणानिसाध्यदृष्टान्तयोधर्मविकल्याभयसाध्यत्वाचोत्कर्षापकर्षव.
यावर्ण्य विकल्पमाध्यसमाः ॥ गौ. अ. ५ आ.१ मू. ४। दृष्टान्तधर्म साध्ये धर्मिणि योजयनसन्तमध्यारोपयन्नुत्कर्षेण प्रत्यवस्थान यत्करोति स उत्कर्षसमः प्रतिषेधः, यथा अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवद् अनित्यः शब्दो घटवदेव मूततॊ ऽपि भवति न चेन्मूतों घटवदनित्यो. ऽपि तद्धर्मो मा भूदिति मृतस्य धर्मान्तरस्य प्रसजनमुत्कर्षः ।
दृष्टान्तधर्मविकल्पेनैव साध्यधर्मिणि सिद्धस्यापि धर्मस्यापकर्षण प्रत्यव. स्थानमपकर्षसमः, पूर्वस्मिन्नेव प्रयोगे घटः खलु प्रयत्नानन्तरीयकत्वादश्रावोऽस्तु न चेदश्रावणो घटवदनित्योऽपि मा भूदिति सतः श्रावणत्वस्याप. सरणमपकर्षः । ___ ख्यापनीयो वर्ण्यः प्रतिपिपादयिषितः साध्यधर्मः तद्विपर्ययादवर्ण्यः सिद्धो दृष्टान्तधर्मः तावेतौ वावर्यसमो प्रतिषेधौ भवतः, यदि शब्दो नित्यत्वेन वय॑ते साध्यते घटेो ऽपि वर्ण्यतामिति वर्ण्यसमः, घटश्चेन वय॑ते शब्दो ऽपि मा वर्णीत्यवर्ण्यसमः ।
धर्मान्तरविकल्पेन प्रत्यवस्थान विकल्पसमा प्रतिषेधः, तत्रैव प्रयोगे प्रयत्ना. नन्तरीयकं किं चिन्मृदु दृष्टं दुकूलरावशय्यादि कि चित्कठिनं कपरपरश्वधादि एवं प्रयत्नानन्तरीयकं किं चिदनित्यं भविष्यति घटादि किं चिन्नित्यं शब्दादीति।
उभयोरपि साध्यदृष्टान्तयोः साध्यत्वापादनेन प्रत्यवस्थानं साध्यसमः प्रतिषेधः, यदि यथा घटस्तथा शब्दः प्राप्तं तहि यथा शब्दस्तथा घट इति शब्दश्वानित्यतया साध्य इति घटोऽपि साध्य एव स्यादन्यथा हि न तेन तुल्यो भवेदिति । अत्र पञ्चानामुत्तरम्किीवत्साधादुपसंहारसिद्धवैधादप्रतिषेधः ॥
गौ. अ. ५. आ. १. मू. ५।
२२ ________________

१७८
न्यायमअयोम् किंचित्साधादुपसंहारः सिध्यति यथा गौरवमयं गवय इति न तु स. वथा रूपभेदस्तयोः कत्तुं शक्यः, प्रमाणावगतस्वभावभेदानां भावानामितरे. तररूपसंकरस्य कर्तुमशक्यत्वात्, एवं स्वप्रतिबिम्बसामर्थ्यसुस्थिते स्वसाध्य. मुस्थापयति स्थापनादेतो साध्यदृष्टान्तयोधर्मविकल्पमापादयता वैधम्ये च किं चिदभिधता प्रतिषेधः कर्तुं लभ्यत इति ।
अथ षष्ठस्योत्तरमसाध्यातिदेशाच दृष्टान्तोपपत्तेः ॥ गौ, अ. ५ आ. १ सू. ६ ।
यदुच्यते घटो ऽपि शब्दवत्साध्यो भवत्विति तन्नैवम, लौकिकपरीक्षा काणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः तेनाविपरीततया शब्दोऽतिदिश्यते यथा घटः प्रयत्नानन्सरीयकः समनित्यः एवं शब्दो ऽपीति, एवं साध्याति. देशाद् दृष्टान्त उपपद्यमाने न तस्य साभ्यस्वाभिधानमुपपद्यते ।
प्राप्त्यप्राप्तिममयोर्लक्षणेप्राप्य साध्यममाप्य वा हेतोः प्राप्त्याविशिष्टत्वादपायासाधक
वाच प्राप्त्यप्राप्तिममौ ॥ गौ. अ. ५ मा. १ सू ७ । प्राप्त्यप्राप्तिविकल्पनपूर्वकमुभयत्रापि दोषापादनं प्राप्त्यप्राप्तिसमौ प्रतिषेधौ भवतः, हेतौ साधनवादिना प्रयुक्ते पर आह-सो ऽयं हेतुः प्राप्य वा साध्य साध्ययेदप्राप्य वा? प्राप्य चेद् द्वयोर्लब्धस्वरूपयोरप्राप्तिर्भवतीति किं कस्य साध्यं साधनं वेत्यविशेषः, अप्राप्य तु साधकत्वमनुपपन्नमतिप्रसङ्गात् , न छप्राप्य प्रदीपः प्रकाश्यं प्रकाशयतीति । अनयोरुत्तरम्घटादिनिष्पत्तेः पीडने चाभिचारादप्रतिषेधः ॥
गौ. अ५ आ. १ सू.८ ।, नायं प्रतिषेध उपपद्यते उभयथाऽपि कारणस्य भावदर्शनात् दण्डचक्रसू. त्रादिकारकाणि प्राप्य मृदं घटादिकार्य निष्पादयन्ति दृश्यन्ते अभिचारकर्मणा च श्येनादिना दूरस्थस्यापि शत्रोः पीडनं सम्पाद्यत इति ।
प्रसङ्गमतिदृष्टान्तसमयोर्लक्षणेदृष्टान्तस्य कारणानपदेशात्प्रत्यवस्थानाच्च प्रतिदृष्टान्ते प्रसा
प्रतिदृष्टान्तसमौ ॥ गौ. अ. ५ आ. १सू. ९। अत्र प्रसङ्गापादनेन प्रत्यवस्थानं प्रसङ्गसमः प्रतिषेधः, पूर्वोदाहत एव हेतो यथनित्यत्वे प्रयत्नानन्तरीयकत्वं साधनं प्रयत्नानन्तरीयकत्व इदानीं किं साधन तत्साधने किमिति दृष्टान्तस्य पटादेरनिस्यतायां कारणं किं चिदपदिश्यते वेन ________________

जातिप्रकरणम् ।
१७२ तत्कारणान्वेषणातिप्रसङ्गात्प्रसङ्गसमो ऽयं प्रतिषेधः, प्रतिदृष्टान्तेन प्रत्यवस्थान प्रतिष्टान्तसमः । ___ यथा घटः प्रयत्नानन्तरीयकः सन्ननित्यो दृष्ट एवमाकाशं प्रयत्नानन्तरीयक नित्यं दृश्यते तद्वच्छब्दो ऽपि नित्यः स्यादिति, कः पुनराकाशस्य प्रयत्नानन्तरी. यकत्वं वदेत् कूपखननादिना ऽऽकाशकरणं मन्वान एवं बयादपि कश्चित् ।
“नन्वेवमपि व्यभिचारोद्भावनमेतत्सम्यगुत्तरं नासदुत्तरप्रकारो जातिप्रयोगः” नैतदेवम, न हि हेतोरनेकान्तिकत्वमुद्भावयन्नसौ साधुरिव जातिवादी प्रत्यव. तिष्ठते ऽपि तु दृष्टान्तबलेन नित्यत्वमेव साधयन्नुत्थित इति जातिप्रयोग एवा. यम् , हेत्वाभासा अपि स्वरूपनिग्रहपुरःसरमपरहेतुप्रतिबिम्बवर्मना प्रदर्यमाना जातितां प्रतिपद्यन्त एव ।
पत्र प्रसङ्गसमस्य तावदुत्तरमाहप्रदीपोपादानप्रसाविनिवृत्तिवत्तद्विानवृत्तिः॥ गौ.मू .५आ.१मू .१०।
असिद्धं हि नाम साध्यते न सिद्धं प्रयत्नवैफल्यात् , सान्धकार सग्रनि. पिठरादिपदार्थदर्शनाय प्रदीपमुपाददते लौकिका न दीपदर्शनार्थ दोपान्तरपर. म्परामाहरन्तीति, अन्तरेणापि हि दीपान्तराणि दृश्यत एव प्रदीपः, एवं लोकिकपरीक्षकाणां घटादौ प्रयत्नानन्तरीयकत्वस्य सिद्धत्वात्तत्र कारणापदेशो निष्प्रयोजन इति तस्मानायमतिप्रसङ्गापादनस्य विषयः । अथ प्रतिदृष्टान्तसमम्योत्तरम्
प्रतिदृष्टान्तहेतुत्वे च नाहेतुदृष्टान्तः ॥
गौ. अ. ५ आ. ? सू. १९ । प्रतिदृष्टान्त एव साधकबुद्धया यदि त्वयोपन्यस्तस्तहि विशेषहेतुर्वक्तव्यो ऽनेन हेतुना प्रतिदृष्टान्त एव साधको न दृष्टान्त इति न चासो विशेषे हेतुरुच्यते तस्मान प्रतिदृष्टान्तः सिद्धिहेतुरिति हान्त एव साधको भवति, प्रतिदृष्टान्त. हेतुत्वेऽपि स्थिते सत्यहेतुदृष्टान्तान हि साधकः स्यात् , न च तदस्तीत्युक्तमतो न हेतुदृष्टान्तः, .
अथ यथा प्रतिदृष्टान्तो न साधक एवं दृशान्तोऽपि मा भूदित्यनया नीत्या प्रत्यवतिष्ठसे हन्त वहि प्रविष्टान्तस्य तावदहेतुस्वं स्वकण्ठेन कथित. मिति तस्मिन्नसाधके दृष्टान्त एव साधक इति ।
___अनुत्पचिममस्य लक्षणम्प्रागुत्पत्तेः कारणामावादनुत्पत्तिममः ॥
गौ. अ. ५ आ. १ स.१२। अनुपल्या प्रत्यवस्थानमनुत्पत्तिसमः प्रतिषेधः, प्राकन एष प्रयोगे जाति. ________________

१८०
न्यायमञ्जाम्
वाचाह अनित्य इत्युत्पत्तिधर्मक उच्यते यश्चोत्पत्तिधर्मकः तस्योत्पत्तेः पूर्वमनु. त्पत्या भवितव्यमनुत्पन्ने च शब्दाख्ये धर्मिणि प्रयत्नानन्तरीयकत्वं धर्मः क वर्ततामलब्धपक्षवृत्तश्च कथमनित्यत्वं साधयत्वसिद्ध चानित्यत्वे शब्दस्य बला. नित्यत्वमेव भवति कारणाभावादित्यनित्यत्वसिद्धिकारणस्य प्रयत्नानन्तरीयकस्वस्याभावादित्यर्थः, तथा च शब्दोत्पादककारणाभावादनुत्पन्ने शब्दे निराश्रयो हेतुरिति।
अस्योत्तरम् - तथाभावादुत्पत्रस्य कारणोपपत्तेने कारणप्रतिषेधः ॥
गौ. अ. ५ आ. १ सू. १३ ॥ शब्दाख्यधर्मिणः सिद्धस्य सतो नित्यत्वमनित्यत्वं वा विचार्यते तदसिद्धी हि नित्यत्वमपि कस्य भवानभिदधीत, उत्पन्नस्य चास्य तथाभावो भवति नानु. त्पन्नस्य, उत्पन्नः खल्वयं शब्द इति भवति नानुत्पन्नः, प्रागुत्पत्तेरलब्धात्मनः किमुच्यते, लब्धस्वरूपस्य पुनरनित्यत्वकारणप्रयत्नानन्तरीयकत्वसद्भावादयुक्त एवायं प्रतिषेधः ।
संशयसमस्य लक्षणम्नित्यानित्यत्वसाधयोत्संशयसमः ॥ गौ. अ. ५ आ. १.१४ ।
नित्यानित्यसाधोपन्यासेन संशयापादनप्रवणं प्रत्यवस्थानं संशयसमः प्रतिषेधः, अनित्यः शब्दः प्रयत्नानन्तरीयकत्वादित्यस्मिन्नेव हेतौ अस्ति श. ब्दस्यानित्यत्वसाधम्य प्रयत्नानन्तरीयकत्वमस्ति च नित्येन सामान्येन साधHमेन्द्रियकत्वमतः किमनित्यसाधात्प्रयत्नानन्तरीयकत्वादनित्यः शब्द उत नित्यसाधादैन्द्रियकत्वानित्य इति संशय एवं परः प्रत्यवतिष्ठते, न च साधयंसमप्रयोग एवायमाशङ्कनीयः संशयापादनप्रवणत्वादस्येति ।
अस्योत्तरम्साधासंशये न संशयो वैधादुभयथा वा संशये ऽत्यन्त. संशयो नित्यत्वानभ्युपगमाच सामान्यस्याप्रतिषेधः ॥
गौ. अ. ५ आ. १ सू. १५ । स्थाणा पुरुषो वेति स्थाणुपुरुषयोश्च साधावत्वादेः संशयो भवति मतु शिरःपाण्यादिवैधात्प्रत्युत ततो ऽसौ निवत्तते यदि पुनरुभयथापि सा. धादिव वैधादपि संशयः स्यात्तथा सत्यनन्तसंशयः प्राप्नोति, इह च विशेषदर्शनस्थानीयमनित्यतासाधनं शब्दे प्रयत्नानन्तरीयकत्वमस्तीति निस्यत्वं सामान्यगत संशयकारणत्वमिति नाभ्युपगम्यते तस्मादप्रतिषेधो ऽयं नित्यसामान्यसाधयनिबन्धनसंशयापादनरूपः । ________________

जातिप्रकरणम् ।
प्रकरणसमस्य लक्षणम् - उभयसाधयात्प्रक्रियासिद्धेः प्रकरणसमः ॥
गौ. अ. ५ आ. १ भू. १५ । पक्षप्रतिपक्षौ निर्णयलक्षणे व्याख्यातौ तावत्र प्रकरणं प्रकरणमनतिवर्त. मानः प्रकरणसमः प्रतिषेधो भवति, पूर्वस्मिन्नेव प्रयोगे नित्यः शब्दो निरवयव. स्वादाकाशवदित्येवजायतीयकं प्रतिप्रयोगमुपन्यस्यन्स्वपक्षमुत्थापयति जाति. वादी, साधम्यग्रहणं चोपलक्षणं वैधयेणापि प्रतिप्रयोगोपन्यासे प्रकरणसम एव प्रतिषेधो भवत्युभयवैधात्प्रक्रियासिद्धेः प्रकरणसम इति, मूलहेतावपि साध. येण वैधर्येण वा प्रयुक्त प्रयोगद्वयमेतद्वेदितव्यम् ,
“ननु ते एवते साधर्म्यवैधर्म्यसमे जाती साधर्म्यहतो वैधयहेतो वा प्रयुज्य. मानत्वाच तवोत्यिते इति ताभ्यामव गतत्वान्नाभिनवा ऽयं जातिप्रयोगः चतम्न. श्वेता जातय इत्येकत्वमपि न सङ्गतम”
उच्यते-तत्र परपक्षप्रवणप्रतिषेधतयैव प्रत्यवस्थानमुदाहृतमिहेव साधनच्छाययेति, अत एव प्रकरणसमो ऽयं जातिरनित्यपक्षवन्नित्यपक्षो ऽपि प्रति. क्रियते ऽस्यामिति, उद्भावनभङ्गिभेदाच जातिनानात्वमसङ्कीर्णोदाहरणविवक्षया चतुर्विशतिभेदत्वं वस्तुतस्तु तासामानन्त्यमित्युक्तम् ।
अत्रोत्तरमप्रतिपक्षात्प्रकरणसिद्धः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तः ॥
___अ. ५ आ. ? मू. १७ । निर्णयोत्पत्त्या प्रकरणं पर्यवसितं भवति प्रागुक्तनिर्णयात्तदवस्थानमेव तदिह प्रकरणमुत्थापयता भवतोभयसाधम्यं तदुत्थापनकारणमभिहितमुभय. साधर्म्यात्प्रक्रियासिद्धेरिति ब्रुवता उभयसाधम्य च मदुक्तमपि साधर्म्यमस्त्येव अन्यथोभयशब्दार्थः कः, एवं च तदभ्यनुज्ञातं भवतीति तत्प्रतिषेधो नोपपद्यते प्रतिषेधोपपत्तौ वा नोभयसाधर्म्य प्रकरणकारणं सिध्यतीति निर्णयात्पत्तिनि. मित्तं च प्रकरणोपरमाय न कि चिदुक्तमुभयसाधाभिधानादिति ।
___अतुममस्य लक्षणम् –. त्रैकाल्यानुपपत्तोरहेतुममः ॥ गौ. अ. ५ आ. १. १८ ।
कालत्रयानुपपत्त्या हेतुमाक्षिप्य क्रियमाणः प्रतिषेधो इंतुसमो भवति, हेतः साधनं साधनं च माध्यात्पूर्व साधनं तदसति साध्य कस्य साधनम अथ पश्चाद् असति साधने कस्येदं साध्यम् अथ युगपत्साध्यसाधने भवतः न तर्हि तयोः सव्येतरगोविषाणयारिख साभ्यसाधनभावो भवेदित्ययं तुरहतान विशिष्यते । ________________

१८२
न्यायमचर्याम् अस्योत्तरम्
न हेतुतः साध्यसिद्धकाल्यासिद्धिः ॥
गौ. भ. ५ था. १ सू. १९ । न त्रैकाल्यासिद्धिः, कस्माद् ? हेतुतः साध्यसिद्धेः उत्पत्तौ तावदयमपर्यनु. योगः पूर्वसिद्धन हेतुना तन्त्वादिना पश्चाद्भाविनो ऽसत एव कार्यस्य पटादेः सिद्धिरित्युक्तत्वात् , ‘बुद्धिसिद्धं तु तदसदिति ज्ञप्तावपि परिहत एष दोषः उप. लब्धिहेतोरुपलब्धिविषयस्य पूर्वापरसहमावानियमाद्यथादर्शनं व्यवस्थेति प्रमाणपरीक्षायामभिधानात् दृश्यते च निर्वतनहेतुना निर्वर्तनीयस्य निवृत्तिरुपलब्धि. हेतुना चोपलभ्यस्योपलम्म इति प्रमाणसिद्धे वस्तुनि को ऽयमाक्षेप. । प्रतिषेधे च तुल्यो ऽयमनुयोग इत्याहप्रतिषेधानुपपत्तेश्च प्रतिपदव्याप्रतिषेधः ॥
आ. गौ. ५ आ. १. सू. २० । प्रतिषेधो ऽपि प्रतिषेध्यात्पूर्व पश्चात्सह वा भवेदिति विकल्प्यमाने न प्र. तिषेभ्यं प्रतिषेधुमुत्सहत इति ।
अर्थापत्तिसमस्य लक्षणम् - अर्थापत्तितः प्रतिपक्षसिद्धरापत्तिसमः ॥ अ. ५ प्रा. १ मु. २१
अर्थादापयते प्रतिपक्षसिद्धिरित्येवं क्रियमाणः प्रतिषेधो ऽर्थापत्तिसमो भ. वति, पूर्वस्मिन्नेव प्रयोगे यदि घटसाधात्प्रयत्नानन्तरीयकत्वादनित्यः शब्दः मर्यादापद्यते आकाशसाधयानित्य इति, अस्ति चास्य नित्येन साधर्म्यमाकाशादिना द्रव्येण निरवयवस्वमिति, उद्भावनप्रकारभेदाच जातिभेद इत्युक्तम् ।
भस्योत्तरम्अनुक्तस्यार्थादापत्तेः पक्षहानेरुपपत्तिः ॥ अ.५ आ. १ म. २२ ।
अनुपपादितसाधनमनुक्तमादापद्यत इति वदतः पतहानिरप्युपपद्यते मा. मकानित्यपासिद्धौ हि सत्यामर्यादापद्यते तावकस्य नित्यपक्षस्य हानिरिति । दोषान्तरमाह
अनेकान्तिकत्वाचाषांपत्तेः ॥ अ. ५ आ. १ स. २३ । उभयपक्षसमर्थेयमापत्तिः विपर्ययेणापि प्रयोक्तुं शक्यत्वात् , नित्यः श. ब्दो निरषयवस्वादिस्येवमप्युक्ते शक्यं वक्तुं यदि नित्याकाशसाधानिरवयव. स्वामित्यः शब्दः अर्थादापद्यते यदनित्यघटादिसाधान्प्रयत्नानन्तरीयकत्वार. नित्य इति-न धपि काचिदर्थसिद्धिः न खलु वै धनस्य प्रावणः पतनसि. स्युक्ते ऽर्यादापयते द्रवस्य वारिणः पतनाभाव इति । ________________

जातिप्रकरणम् ।
अविशेषसमस्य लक्षणम्एकधर्पोपपतेरविशेषे सर्वाविशेषपसगात्सद्भावोपपत्तेर.
विशेषसमः ॥ अ. ५ आ. १ मू. २४ । भविशेषोपपादनेन प्रत्यवस्थानमविशेषसमः प्रतिषेधः, यदि शब्दघटयोरे. कधर्मः प्रयत्नानन्तरीयकत्वमस्तीति तयोरनित्यत्वाविशेष उच्यते तहि सर्वभाः वानामविशेषप्रसङ्गः, कथं सद्भावोपपत्ते. सत्तासंबन्धादित्यर्थः, सो ऽयमविशेष. समा प्रतिषेधः। एतस्योत्तरम्कचित्तदमापपत्तेः कचिदनुपपत्तेः प्रतिषेधाभावः ॥
गौ. भ. ५ आ. १सू. २५ ॥ कचिदविशेषापादनहेतुरुपपद्यते धर्मः क चित्तु नोपपगत इत्येवमयमप्रति. षेधः, शब्दघटयोरेको धर्मः प्रयत्नानन्तरीयकत्वमस्ति येन तयोधर्मान्तरमविशे. परूपमुपपद्यते न तु सर्वभावानामीहशमविशेषकारणं धर्मजातमस्ति , यत्तु स. दावोपपत्तेरिति तेन किं धर्मान्तरमविशेषरूपं साध्येत अनित्यत्वमेवं चेत्तर्षयं प्रतिज्ञार्थों व्यवतिष्ठेतानित्याः सर्वे भावाः सत्वादिति, न चायमनुपपत्तेः दृष्टा. न्तानुपपत्ते, सर्वभावानां पक्षीकृतत्वाद् दृष्टान्तो न कश्चिदवशिष्यते, न च प्र. तिज्ञातैकदेश एव दृष्टान्तीकर्तुं शक्यते सिद्धमाध्यभेदात्साध्यः प्रतिज्ञातो ऽयों भवति सिद्धश्च दृष्टान्तः, न च दृष्टान्तरहितो हेतुः स्वसाध्योपस्थापनसामर्थ्यमश्नुते, न च सौगतोक्तनीत्या नित्येभ्यो व्यापकानुपलब्ध्या सत्वं व्यावर्तित मनित्येष्वेव प्रतिष्ठां लभते यैव विपक्षाद्यावृत्तिः स एव साध्येनानुगम इति व. क्तव्यम्, तत्रीतेः प्रागेव प्रतिक्षेपात् , प्रत्युक्तं हि विस्तरतः क्षणभङ्गसाधनमिति, किंचिद्धि सत्त्वयोगि भावरूपमनित्यं भवति किं चिन्नित्यमिति नायमेकान्तः सत्त्वादनिस्याः सर्वभावा इति, अपि च सर्वभावानामनित्यत्वे साध्यमाने तद. न्तर्गतत्वाच्छब्दस्याप्यनित्यत्वमभ्युपगतं भवेदित्येवमप्ययमप्रतिषेधः ।
उपपत्तिसमस्य लक्षणम्उमयकारणोपपत्तेरुपपत्तिसमः । अ. . आ. १ मू. २६
उभयकारणोपपत्त्या पक्षद्वयोपपत्तिवर्णनमुपपत्तिसमः प्रतिषेधः, यनित्यत्वकारणं प्रयत्नानन्तरीयकत्वमुपपद्यते शब्दस्येत्यनित्यः शब्दो नित्यत्वकार• णमपि निरवयवत्वमस्योपपद्यते इति नित्यः स्याद् उभयत्रापि कारणोपपत्तेः, __ “ननु सैवेयं साधादिसमा प्रकरणसमा वा जातिन भेदान्तरम्” मैवम् उद्भावनप्रकारेण भेदात्परपक्षोपमर्दबुद्धया साधादिसमा जातिः प्रयुज्यते पक्षा. स्तरोत्यापनास्थया प्रकरणसमा अप्रविपत्चिपर्यवसायित्वाशयेनेयमुपपत्तिसमेति ।
+
H ________________

१८४
न्यायमचर्याम्
अत्रोत्तरम्उपपत्तिकारणानुसानादप्रतिषेधः । अ. ५. आ. १ सू. १७
उभयकारणोपपत्त्या प्रतिषेधमभिदधता पक्षद्वयकारणोपपत्तिरनुज्ञाता भवति सा चेदनुज्ञाता कथमेकतरपक्षप्रतिषेधः, एकतरपक्षप्रतिषेधश्चेत्कथमुभयकार• णोपपत्तिः उभयपक्षकारणोपपत्तिरेकतरपक्षप्रतिषेधश्चेति विप्रतिषिद्धम् , व्याघातादेव तत्प्रतिषेधो विकल्पयिष्यत इति चेत्समानो व्याघातस्तेन हि परपक्षवत्स्व. पक्षोऽपि प्रतिहन्यत एव न हि व्याघात एकं पक्षं साधयत्येकं बाधत इति ।
उपलब्धिसमस्य लक्षणम् - निर्दिष्ट कारणाभावेऽप्युपलम्भादपलब्धिममः प्रतिषेधः ॥
गौ. सू. अ. ५ आ. १ मू२८ । यदेतदनित्यतायां शब्दस्य प्रयत्नानन्तरीयकत्वं कारणमपदिष्टं तस्याभावे. ऽपि प्रबलप्रमजनजवभज्यमानजरत्पादपपातप्रभवे शब्दे दृश्यत एवानित्यत्वम. न्यत्रापि विधुदादौ विनाऽपि प्रयत्नानन्तरीयकत्वमुपलभ्यत एवानित्यतेति । अत्रोत्तरम
कारणान्तरादपि तदोपपत्तेरप्रतिषेधः ॥
गौ. मू. अ. ५ आ १ मू २९ । अत्रैतावदेव तावद्वक्तव्यं सपक्षकदेशवृत्तित्वमिदमस्य हेतोरुनावितं न च सपकदेशवृत्तिरगमकः, प्रयत्नानन्तरीयकत्वमनित्यत्वप्रतिबद्धं न पुनरनित्यत्वं प्रयत्नानन्तरीयकत्वेन यत्प्रयत्नानन्तरीयकं तदनित्यमिति हि व्याप्तिर्न तु यदनित्यं तत्प्रयत्नानन्तरीयकमिति, यथा यत्रानिस्तत्र धूमो न यत्र धूमस्तत्रा. मिरिति, एवं प्रयत्नानन्तरीयकत्वमन्तरेण समीरणपात्यमानवनस्पत्यादिशब्दे विद्यदादो वा येयमनित्यतोपलब्धिन सा तस्य हेतुतामपहन्तीति, अपि च प्रयत्नानन्तरीयकत्वादिति कारणाद् उत्पत्तिरियमभिधीयते न तु कारणं निय. म्यते प्रयत्न एवेति तत्र पवननोदनजनिततरुशब्दवत्सत्यपि प्रयत्ने कारणान्तरं तदुत्पादकम्भविष्यति कारणान्तरजन्येऽप्यनित्यत्वं शब्दे विद्य दादौ वा न वि. रुद्धमिति, कथं पुनरिदमेव गम्यते प्रयत्नादिभिरसन्नुत्पाद्यते शब्दो न पुनः सन्नभिव्यज्यत इति, सतोऽनुपलब्धौ निमित्ताभावात् , अावरणं निमित्तमिति चेन्न, मूलोदकादिषु मृद इव शब्दे कस्यचिदावरणस्याग्रहणात् , तस्मान मू. लोदकादिना तुल्यः शब्द इत्यसन्नेव प्रयत्नादिना क्रियते इति ।
___ अनुपलब्धिसमस्य लक्षणम् - तदनुपलब्धेरनुपलम्भादभावमिद्धौ तद्विपरीतोपपसेरनुपलब्धिसमः
प्रतिषेधः ॥ गौ. मू. अ. ५ आ. १८३० । ________________

जातिप्रकरणम्।
१८५
यदुक्तमावरणानुपलम्भादसत्याश्चानुपलम्भादसत्यावरणे प्रागुवारणासन्ने. व शब्दः प्रयत्नेनामिनियंत इति तदयुक्तमावरणानुपलब्धेरप्यनुलम्भात्तस्या. श्वानुपलम्भादभावः अनुपलब्धेरभावादुपलब्धिर्भवति प्रतिषेधद्वयेन विधेरेव प्रतीतेः, आवरणोपलब्धेश्चावरणसत्ता सिभ्यतीति प्रकृतमेव शब्दस्याग्रहणं नासत्त्वकृतमित्यभिव्य अकत्वकृतमेवास्य प्रयत्नादि कारणमिति ।
अस्योत्तरम् — अनुपलम्भात्म(क)त्वादनुपलब्धेरहेतुः॥ गौ. सू. अ. ५ आ. १.१
आवरणानुपलब्धि स्त्यनुपलब्धेरिति योऽयं हेतुरुक्त स न हेतुः अनुप लम्भस्वभावत्वादनुपलब्धेल्पलम्भप्रतिषेधार्थकत्वादित्यर्थः, अस्त्वित्वनास्तित्वे हि भावानामुपलम्भानुपलम्माभ्यामवस्थाप्यते यदुपलभ्यते तदस्ति शशवद् यन्नोपलभ्यते तन्नास्ति तद्विषाणवत् , नोपलभ्यते च शब्दस्यावरणं मूलोदका. देरिव मृत्तिकेत्यनुपलम्भानास्तीति गम्यते, अनुपलम्भो ह्ययमावरणविषयो नानुपलब्धिविषयः स ावरणस्यैव भावं गमयति नानुपलब्धेरिस्यनुपलब्धेमो. वादावरणमेव नास्तीति । शानविकल्पानां च भावाभावसंवेदनादध्यात्मम् ॥
गौ. मू. अ. ५ आ. १. ३० । ज्ञानविकल्पाः प्रतीतिप्रकारास्तेषां भावाभावौ प्राणिसंवेद्यो भवतः, अस्ति मे ज्ञानं नास्ति मे ज्ञानमित्येवं सर्वः प्रत्यक्षानुमानागमज्ञानानि प्रमाणफलानि स्मरणसंशयादिज्ञानानि च प्रमाणफलान्यनुभवतीति, सा चेयमावरणानुपल. ब्धिरुपलब्धिवदध्यात्म संवेद्यते नोपलभे शब्दस्यावरणं मृदमिव मूलोदकादे. रिति, तदेवं बाद्यपदार्थभावाभाववदान्तरज्ञानभावाभावयोरपि प्रत्यक्षत्वादपर्य. नुयोगोऽयमनुपलब्धेरनुपलम्भादापरणमस्ति शब्दस्येति तस्मात्प्रागुवारणादस. व शब्द इति सिद्धम् ।
अनित्यसमस्य लक्षणम् – साधात्तुल्यधर्मोपपर्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः ॥
गौ. मू. अ. ५ आ. १ मृ३३ । सर्वभावानित्यत्वप्रसङ्गन प्रत्यवस्थानमनित्यसमः प्रतिषेधः, अनित्येन घटे. न साधर्म्यमस्ति शब्दस्येति तस्यानित्यत्वमुच्यते तर्हि सर्वभावानामपि घटेन किमपि साधर्म्यमस्तीति सर्व एवानित्याः स्युः, अविशेषसमैवेयं जातिरिति चेत, वत्र हि सत्तायोगात्सर्वभावानामविशेष आपादितः इह तु घटसाधादेवानि. त्यत्वमापादितम् इति उद्भावनभङ्गिभेदाच जातिनानात्वमित्यसकदुक्तम ।
२४ ________________

.
१८६
न्यायमअर्याम् अत्रोत्तरम– साधम्यादप्रीसेः प्रतिषेधामिद्धिः प्रतिषेध्यसाधात् ॥
गौ.मू. अ. ५ आ. १.३४ अतिप्रसङ्गमापादयतो ह्येतद्विवक्षितं घटसाधादसिद्धिरनित्यत्वस्येति, यदि ध घटसाधादनित्यत्वस्यासिद्धिस्तहि तावकस्यास्य प्रतिषेधवाक्यस्या. प्यसिद्धिः प्रतिषेध्यवाक्यसाधात् , अस्ति हि प्रतिषेधवाक्यस्य प्रतिषेध्येन साधर्म्य प्रतिज्ञावयवयोगिस्वमिति, किं चरष्टान्ते साध्यमाधनभावन प्रतिज्ञातस्य धर्मस्य हेतुत्वात्तस्य चोभयथा भावानाविशेषः ॥ गौ. मू. अ. ५ आ. १. १५
न हि साधर्म्यमानं साधनं भवति अपि तु दृष्टान्तर्मिण्यवधृतसामध्ये साधर्म्य वैधयं पा तथाविधं चेत्सर्वभावानामस्ति भवतु तेषामनित्यत्वं को दोषः नास्ति चेस्को ऽयमतिप्रसङ्गः, न हि दृष्टान्तर्मिणि प्रज्ञातसामर्थ्य साधर्म्यमुभयथा भवति पक्षान्तरं स्पृशति तेन साधर्म्यविशेषस्य हेतुत्वात्तस्य च सर्वत्रासंभवान्न सर्वानित्यत्वम् , अविशेषसमायां जातो यत्साधनमुक्तं तदि. हाहि वक्तव्यमिति ।
नित्यसमस्य लक्षणम्नित्यमनित्यभावादनित्ये नित्य(त्वो)पपत्तेनित्यसमः ॥
गो. सू. अ. ५ आ. १ सू. ३६ अनित्यत्वसाध्यधर्मस्वरूपविकल्पनेन शब्दनित्यत्वापादानं नित्यसमः प्रति. षेधः, अनित्यः शब्द इति प्रतिज्ञाते सति जातिवादी विकल्पयति किमिद. मनित्यत्वं शब्दस्य नित्यमथानित्यमिति, यदि तावदनित्यं तत्कदा चित्प्रच्य. वते तत्प्रच्युतेनित्यः शब्दः, अथ नित्यमनित्यत्वं तर्हि धर्मस्य नित्यत्वात्तस्य च निराधारस्यानुपपत्तेस्तदाश्रयस्य शब्दस्यापि नित्यत्वमनित्यत्वे हि शब्दे विनष्टे न तदाधारो धर्मो वर्ततेति ।
अस्योत्तरम– प्रतिषेधे नित्यमनित्यभावादनित्यत्वोपपत्तेः प्रतिषेधाभावः ॥
गो. स. अ. ५ आ. १ मू. ३७ प्रतिषेध्ये नित्यमनित्वस्य भावश्चेदुच्यते तदनित्य एवासावुक्तो भववि अनित्योपपत्तश्च तत्प्रतिषेधो नोपपद्यते नित्यमनित्यत्वं शब्दस्येति च ब्रवीषि निस्यतां च तद्योगादस्योपपादयसीति महानयमायुष्मतो भ्रमः, अथ निरषि. करणो धर्मः कथं स्यादिति तदुच्यते अनित्यत्वं हि नाम निरोषः प्रध्वंसामाव
. ________________

जातिप्रकरणम् ।
१८७ इत्यनान्तरम् , अनित्यत्वादभाव इति तु व्यवहारमात्रम् , सा चेयमनित्यता शब्दावच्छिन्ना न शब्दाधिकरणा न खलु घटाभावो घटाश्रितो भवितुमर्हति भावस्वभावा हि धर्मा धाश्रिता भवन्ति नाभावः अभावस्त्वाश्रितो ऽपि न प्रतियोग्याश्रितो भवति कि त्वर्थान्तरवृत्ति प्रदेश इव घटाभाव इति नित्यानित्यत्वविरोधाच, नित्यत्वमनित्यत्वं चैकत्र धर्मिणि विरुष्यते तत्कथमभिधीयते नित्यमनित्यत्वस्य भावान्नित्यः शब्द इति ।
कार्यसमस्य लक्षणम्प्रयत्रकार्यानेकत्वात्कार्यसमः ॥ गौ. सू. अ. ५ आ. १ मू.८
प्रयत्नकार्यनानात्वोपन्यासेन प्रत्यवस्थानं कार्यसमः प्रतिषेधः, अनित्यः श. ब्दः प्रयत्नानन्तरीयकत्वादित्युक्ते पर अाह प्रयत्नस्य हि कार्यद्वविध्यमुपलब्ध किं चिदसदेव प्रयत्नेन निवर्तते यथा घटादि किं चित्सदेवावरणव्यपनयनादिना प्रयत्नेनाभिव्यज्यते यथा मृदन्तरितमुदकादि, एवं प्रयत्ननानात्वादिह प्रयत्नेना. विद्यमानः शब्दो निर्वत्येत घटवदुत विद्यमान एवाभिव्यज्येत मृदन्तरितसलिलादिवदिति संशयः, न चेयं संशयसमा जातिहेत्वर्थविकल्पनेनेह प्रयवस्थानात , तथा हि निरवयवत्वाद्याकाशसाधोपन्यासेन संशय अपादित इह तु साधनवायुक्तप्रयत्नानन्तरीयकत्वहेत्वर्थनिरूपणेनेति, उद्भावनप्रकारभेदश्च जा. तीनां वैचित्र्यकारणमित्युक्तमेव ।
अत्रोदाहरणमकार्यान्यत्वे प्रयबाहेतुत्वमनुपलब्धिकारणानुपपत्तेः ॥
गौ. सू. अ. ५ आ. १ मू. ३९ यद्यपि प्रयत्नकार्यान्यत्वमुपलभ्यते तथा ऽपि प्रकृते शब्दे प्रयत्नस्याभि. व्यक्तावहेतुत्वं न प्रयत्नतः शब्दमभिव्यनक्ति किं त्वभूतप्रादुर्भावमेव विध कस्माद् अनुपलब्धिकारणानुपलब्धेः यत्र हि सतः पदार्थस्य प्रयत्नोऽभिव्य. तिहेतुस्तत्र तस्य सतः सलिलादेरनुपलब्धिकारणमस्ति मृदादिव्यवधानं तदपोहमाचरता प्रयत्नेन तदभिव्यक्तिः सम्पद्यते शब्दस्य तु न किं चिदनुपलब्धि. निबन्धनं व्यवधानादि संभवतीति वर्णितमतस्तस्यासत एवात्मलामनिमित्तमु. वारणादिप्रयत्नो न सता व्यक्तिनिमितं तस्मादनित्यः शम इति स्थितम् ,
तदेवमनेन चतुर्विशतिजात्युदाहरणप्रतिसमाधानोपदेशवम॑ना शब्दानित्य. स्वसाधने परकीयमुपालम्भजातमेवंप्रायमखिलमपाकृतमाम्रसेकपितृतर्पणन्यायेन भवति भगवता सूत्रकारेण, इदमपरमिदानीमुपदिश्यते चतुर्विशतावपि जातिषु जातिवादिना प्रयुक्तासु मूलसाधनोवादी विस्पष्टानुमानोदन्तपरीक्षणपुरःसरं सत्वमेवोत्तरं ययोपदिष्टममिदपीत न तु जातिप्रयोगानुकारिदुरुत्तरालापचा. ________________

Rela
२८८
न्यायमभयम् पलेन षटपक्षी प्रवर्तयेत तस्यां हि पस्तुतायामुभयोरपि वादिप्रतिवादिनोरसिद्धिरसदादित्वात् ,
कथं पुनः षट्पक्षी पवर्तत इति तत्पथं दर्शयितुमाहप्रतिषेधेऽपि समानो दोषः ॥ गौ. सू. अ. ५ आ. १ मू. ४०
स्थापनाहेतुवादिना प्रथमपक्षस्थेन स्थापनाहेतुः प्रयुक्तः अनित्यः शब्दः प्र. यत्नानन्तरीयकत्वादिति, ततोजातिवादी द्वितीयपक्षस्थः प्रयत्नकार्यानेकत्वादिति प्रयत्नानन्तरीकत्वमभिव्यङ्गये ऽपि शब्दे भवतीति हेतोरनैकान्तिकत्वमित्याह, सदधुना तृतीयपक्षस्थः स्थापनाहेतुवादी यदि यथोपदिष्टमावरणानुपलब्धिक. ममनुस्मृत्य विशेषमुपदर्शयननैकान्तिकतामुद्धरति ततस्तावत्येव पर्यवस्यति क. थेति चतुर्थादिपक्षावसरविरहानावतरत्येव षट्पती, यदि तु तं क्रममपहायैव तृतीयपक्षस्थो ऽसौ वदति हेतोश्चेदनकान्तिकत्वमुद्भावयसि अनैकान्तिकत्वाद साधकः स्यादिति नन्वयं तावकः प्रतिषेधो ऽप्यनैकान्तिकः किं चित्प्रतिषेथति किं चिन्नति हेतोः साधकत्वं प्रतिषेधति न स्वरूपमिति अत एवेत्थं प्रतिषेधस्यानकान्तिकता सो ऽपि हि नाभिव्यक्तिपक्षमेव साधयेत्प्रतिपक्षे ऽपि प्रय. नसाफल्योपपत्तेरुभयत्रापि च विशेषतोरनपदेशात् , एवमनैकान्तिकत्वमभिः हितवति साधनवादिनि प्रतिषेधवादिना ऽपि वचनावसर इत्यवतरति षट्पक्षी। स हि चतुर्थपक्षस्थ एवं वदति
प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवदोषः ॥
गौ. स. अ. ५ आ. १ स. ४१ विविधः प्रतिषेधो विप्रतिषेध इहोच्यते न व्याघातः प्रकृतसङ्गतेरभावात् , यो ऽयं प्रतिषेधे ऽपि समानानकान्तिकदोष उच्यते स प्रतिषेधप्रतिषेधे ऽपि भवत्प्रयुके समानः सो ऽपि पूर्ववदनकान्तिक एवेति, ततः पश्चमं पक्षमवल. म्ज्य मूलसाधनवादी मतानुशामुद्भावयति सा चप्रतिषेध सदोषमभ्युपेत्य प्रतिषेधषिप्रतिषेधे समानदोषप्रसङ्गो म.
__ तानुमा । गौ सू. अ. ५ आ. १ मू. ४२ प्रतिषेधे ऽपि समानदोष इति समुद्भावितं दोषमनुव्रत्य तं प्रतिषेधं सदो. षमभ्युपेत्य मदुक्के प्रतिषेधे विप्रतिषेधे समानदोषप्रसङ्गमापादयतस्ते मतानुज्ञा निग्रहस्थानं भवति, चोरो भवानित्यभियुक्तन चोयमात्मनो निराकरणीयं न त भवानपि चोर इति परः प्रतिपत्तव्य इति, एवं पचमपक्षस्थे मूलसाधनवादिनि कथितवति परः षष्ठं पक्षमास्थाय पुनरभिधरो यदि स्वपक्षदोषानुद्धरणपुरस्सर परपक्षदोषोपावानोपनतमतानुज्ञानिमहन्थानपात्रमहमादिश्ये हन्त वहि तवापि तदेव निप्रस्थानमबतरसि त्वमप्येषमकास्तिवा हि द्वितीयपकायेन मया ________________

जातिप्रकरणम् ।
१८९ प्रयत्लकार्यानेकत्वादिति यदनकान्तिकत्वमुद्भावितं तदनुद्धत्यैव प्रतिषेधे ऽपि समानो दोष इति मय्येव प्रतीपमापीपदस्तदेवं त्वत्त एवं शिक्षित्वा ऽहमपि चतुर्थपक्षस्थस्तथैव त्वयि दोषमर्पितवानिति मम चेन्मतानुज्ञा प्रथमतरं तवासी भवेदिति तदेतदाहस्वपक्षतल्लक्षणापेक्षोपपत्युपसंहार हेतुनिर्देशे परपक्षदोषाभ्युपगमा
समानो दोषः ॥ गौ. मू. अ. ५ आ. १ मू. ४४ स्वपक्षो मूलसाधनवाद्युक्तः प्रयत्नानन्तरीयकत्वादनित्यः शब्द इति, त. लक्षणस्तत्समुत्थानस्तद्विषयः प्रयत्नकार्यानेकत्वादिति प्रतिषेधः, तमपेक्षमाणस्तमनुद्धृत्यानुज्ञाय प्रवृत्तः प्रतिषेधेऽपि समानो दोष इत्युपपद्यमानः परपक्षे अनेकान्तिकत्वदोषोपसंहारस्तस्य च हेतुनिर्देश इत्ययमनकान्तिकः प्रतिषेध इति, तस्मिन्सति पक्षकथितानकान्तिकत्वदोषाभ्युपगमात्तदनुद्धरणेन तस्यैव प्रतीपदोषोद्भावनात्समानो मतानुज्ञादोष इति षष्ठः पक्षः, सेयं षट्पक्षी वस्यां प्रथमतृतीयपञ्चमाः स्थापनाहतुवादिनः पक्षाः, द्वितीयचतुर्थषष्ठाः प्रतिषेधवादिनः, एते च साध्यसाधकतया परीक्ष्यमाणाः पौनरुक्तयमतानुशादिदोषापहतत्वादन्यतरस्यापि नादिनः साध्यसिद्धये न प्रकल्पन्ते, तथा हि चतुर्थषष्ठयोः पक्षयोराविशेषात्पुनरुक्तदोषप्रसङ्गः, चतुर्थे पक्षे परस्य समाम. दोपत्वमुच्यते षष्ठे ऽपि तथैव समानः, तृतीयपञ्चमयोस्तृतीये पक्ष परोक्तं स. मानदोषत्वमभ्युपगम्यते पञ्चमे ऽपि मतानुज्ञामुद्भावयता तदङ्गीकृतमेव भवति तृतीयचतुर्थयोश्च परोक्तदोषानुद्धरणान्मवानुज्ञेत्येवं षटपत्यामुभयोरसिद्धिः । तस्मात्सदुत्तरदोषचिकित्सा साधीयसी नासदुत्तरैः षट्पक्षीप्रसङ्गादिति,
नन्वसदुत्तरकथने ऽपि कथं षट्पक्ष्यामेव विश्रामः शतपक्षी सहस्रपक्षी वा कथं न प्रवर्तते को ऽत्र नियम इति चेदुन्यते-श्यत्येव निवत्यते वचनावकाश इति नानन्तपक्षता संभवति, तथा हि-पूर्वोत्तरपक्षवादिनौ भवत एव कोऽत्र विचारः, तत्र स्थापनाहेतुवादिना तावत्प्रथमं स्वपक्षसाधने ऽभिहित दूषणवादिना तत्र दूषणे वणिते तृतीये वचसि वर्तमानः साधनवादी सम्यक्नीत्योपक्र. ममाणस्तद् दूषणमुद्धतुं शक्नुयान वेति तस्यामेव दशायां प्रादिवाकायते(१) निर्णयः, असदुत्तरोपन्यासे तु तृतीयवचसा तेन कृते दूपणवायपि लब्धावकाश.
(१) प्राइविवाकायते इति । अधिप्रत्यार्थिनौ पृच्छतीतिप्राट् तयो विमा वि सम्येल्सहविविकिविवेचयतिवेतिविधाका प्राट्चासौ विवाका प्राविधाक इति तदुक्तं विवादानुगत पृष्ट्वा ससभ्यस्तत्प्रपस्मतः । विचारयति येनासो प्राइदि. बाकस्सलत इति मिताक्षरा । ________________

न्यायमर्याम्
THE KUPPUSWAMY SASTRI
RESEARCH INSTITUTE. BOYLAPORE. MADRAS
स्तत एवं शिक्षित्वा चतुर्थे वचसि वर्तमानस्तत्प्रतीपं योजयति ततः स्थापनाहे. तवादी प्रतीपयोजनायामफलायां दुरन्तायां समव्ययफलायामशक्यक्रियायां च निरुद्योगः किं चिदभिनवं दूषणमुत्प्रेक्ष्य पञ्चमे वचसि स्थितो मतानुक्षामाह, ततस्तामपि परपक्षमनतिवर्वमानां पश्यन् प्रतिषेधवादी षष्ठे वचसि स्थित्वा तां तपक्षे योजयतीत्येवं वृत्ते दूषणान्तरासंभवात्प्रतीपयोजने च भमरसत्वातूष्णीमेवासितुमुचितमिति तावत्येव भवति वचनविरतिर्न शतसहस्रादिपक्षप्रसङ्गः प्रवर्वत इत्यतः षटपक्षीमेव प्रदर्शितवानाचार्यः, स चान्तेवासिनं बोधयितुमेवमुपादिक्षदेनेन पथा प्रवर्तेत भवानन्येन मा प्रवतिष्टेति ।
वाच्यमुत्तरमतो निरवधं जातिवादिनमपि प्रति तज्ज्ञः। कश्मलोत्तरगिरा न तु कार्या पक्षषट कपरिकल्पनगोष्ठी ॥ याहग्यक्षो बलिरपि तथेत्येवमाधाय बुद्धो यस्तु ब्रयाकलुषमफलस्तस्य शुद्धो ऽपि हेतुः । षट्पक्षादिप्रसरणपरिम्लानकान्तिन बुद्धि शक्तः स्वार्थे जनयितुमसावप्रतः प्राश्निकानाम् ॥ इतीदं व्याख्यातं निजसरणिसांकर्यरहितं स्वरूपं जातीनां स्फुटमिह चतुर्विशतिविधम् । अमूषां तत्वज्ञः परविरचितानां परिहतो स्वयं चोपन्यासे न हि सदसि संमुह्यति नरः ॥
इति १५ जातिपदार्थः।
निग्रहस्थान प्रकरणम्जात्यनन्तरं निग्रहस्थानोद्देशात्तल्लक्षणपतिपादनार्थमाह । विप्रतिपत्तिरपतिपतिय निग्रहस्थानम् ॥ गौ.मू.अ. ५ आ. १.६०
निग्रहः पराजयस्तस्य स्थानमाश्रयः कारणमित्यर्थः, किं च पराजयनिमित विपतिपतिरपतिपतिश्च विपरीता कुत्सिता विगर्हणीया प्रतिपत्तिविपति. पत्तिः, साधनामासे साधनबुद्धिः, दूषणाभासे दूषणबुद्धिः अपतिपत्तिस्त्वार• म्मविषये ऽनारम्भः, भारम्भस्य विषयः साधने दूषणं दूषणे चोद्धारः वयोरकरणमप्रतिपत्तिः, विधा हि वादी पराजीयते यथा कर्तव्यतामनारममाणे विपरीत वा प्रतिपाद्यमानः, अत एव न कर्मकरणयोनिग्रहमादिशन्ति न हि ताभ्यां किं चिदपराद्धं स्वविषये पयुज्यमानयोः सामर्थ्यानपायात , कर्ता तु प्रमाधनपूयोज्यं पयुब्जानः प्रयोज्यमपयुजानो वा निग्रहमईति, पायेण चातत्ववादिनो निगृह्या भवन्ति, वत्तवायपि कदा पन जस्पे वितण्डायां वा सम्यक्साधनमप्यपदिश्य प्रतिवादिप्रतिपादितदूषणाभासनिराकरणसरणिमनुगुणामपन्यभिगृह्यत एवं

  • ________________

निग्रहस्थानप्रकरणम् ।
१९.
अत एव भाष्यकृतोक्तं तस्ववादिनमतत्त्ववादिनं चाभिप्लवन्ते निग्रहस्थानानीति, असमासकरणमनेकनिग्रहस्थानभेदावरोधार्थम् ॥
अत एवानन्तरमाहतद्विकल्पाज्जातिनिग्रहस्थानबहुत्वम् ॥ गौ.मू.अ. ५ आ.२ सू.६१ । __तदिति साधर्म्यवैधाभ्यां पत्यवस्थानस्य विपतिपरयपतिपरयोश्च परा. मर्शः, नानाकल्पो विकल्पः पकारभेद इत्यर्थः, साधर्म्यवैधाभ्यां प्रत्यवस्थानपकारस्य बहुत्वाऽजातिबहुत्वम् । __ तद् द्वाविंशतिधा विभज्य दर्शयतिप्रतिज्ञाहानिः प्रतिज्ञान्तरं पानेशाविरोधः प्रतिज्ञासंन्यासो हत्यन्त रमर्थान्तरं निरर्थकमविज्ञानार्थमपार्यक्रमप्राप्तकालं न्यूनपाधक पुनरुक्तमननुभाषणमज्ञानमप्रतिभा विक्षपी मतानुज्ञा पर्यनुः योज्यांपेक्षणं निरनुयोज्यानुयोगो ऽपसिद्धान्तो हवामा
साश्च निग्रहस्थानानि गौ. मू, अ. ५ आ. २ सु, १ । अत्राननुभाषणमज्ञानमप्रतिभा वितेपः पर्यनुयाज्योपेक्षणमित्यप्रतिपत्त्या संगृहीतानि.शेषाणि विप्रतिपत्त्या, पुनरुक्तमधिकमित्यसमासकरणेन विप्रतिप. स्यैव वा ऽभिमतमसमासक्लिएकल्पनया सापि हि कुत्सितैव प्रतिपत्तिर्यस्पुनरुक्त. मधिकं वा प्रयुज्यत इति, असङ्कोणोदाहरणविवक्षया च द्वाविंशतिमेदसवीर्व. नमवान्तरभेदैस्तु जातिवदानन्त्यमेव तेषामिति,
अत्र कोतिराह द्वाविशतिधा निग्रहस्थानानि विभग्यन्ते तेषां च प्रतिपदा मिदानी विशेषलक्षणानि वर्ण्यन्त इति न मृण्यामहे कुतः__ असाधनाङ्गवचनमदोषोद्भावनं द्वयोः।
निग्रहस्थानमन्यत्त न युक्तमिति नेष्यते ॥ वादिना सिपाधयिषितपक्षसिद्धये साधनमभिधेयं स चेदसाधना प्रया. भिगृह्यते, प्रतिवादिना ऽपि वायु के साधने दूषणमुद्भावनीयं स चेदोषमेव दोषत्वेनोद्भावयेनिगृह्यते, ते एव द्वयोर्वादिप्रतिवादिनोनिग्रहस्थाने अतो ऽन्यथा निग्रहकरणमन्याय्यमेव, प्रतिज्ञाहान्यादिषु तत्प्रभेदेषु च प्रतिपदमयुक्तता दर्श यिष्यति, कति चिचात्र शिशुप्रलापप्राया निग्रहस्थानानि निर्दिष्टानि, वाशि शाने लक्ष्यन्त इति परममप्रतिष्ठानम , ___ अत्रोच्यते संक्षेपविवक्षया द्वे एव निग्रहस्थाने इति षयमपि किं नोजवन्तो विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानमिति, एतब सामान्यनक्षणमखिलमेवसं. प्रहक्षम भवति न भवदुक्तम् , तथा हि उत्तराप्रतिमानेन वादिप्रतिवापिनोरन्य.

  • ________________

१९२
भ्यायपमर्याम् तरः पराजीयते न वा, न पराजीयते इति इति कथमुच्यते किं मूक इव जित्वा गच्छतु निगृह्यते चेकिमनेनापराद्धं न साधनाङ्गमुक्तं न दोष उद्भावितः, ___ अथ प्रसज्यप्रतिषेधेनोद्भावनमादौ व्याख्याय पुनरदोषोद्भावनमावस्या पर्युदासेन वय॑ते तहि ते एवैते विप्रतिपरयप्रतिपत्ती उक्त स्याताम् , दोषानु. बावनमप्रतिपत्तिः, एवमसाधनाङ्गवचनमपि विकल्पनीयम् , प्रसज्यप्रतिषेधवृत्त्या साधनाबस्यावचनमिति चेत्सेयमप्रतिपत्तिः, अतः शब्दान्तरेणाक्षपादपादेभ्य एव शिक्षित्वा तदेव निग्रहस्थानद्वयमनेन श्लोकेन निबद्धं न पुनरमिनवमल्पमपि किं चिदुस्प्रेक्षितमिति, न च यथासंख्यनियमेन द्वयोढ़े निग्रहस्थाने कल्पनीये अपि तु यथासम्भवमुभयोरपि यथावसरं तत्तन्निग्रहस्थानमादेष्टव्यम् , द्वाविंशतिभेदत्वं च निग्रहस्थानानामसङ्कीर्णोदाहरणविविवेवक्षया कथ्यते न नियमाये. त्युक्तमेव, परस्परविसदृशं च लक्षणमेषामिदानीमुपदिश्यत एव तत्रैव चायु. तत्वमेषां बालिशप्रलापकरूपत्वं वा पराक्रियते एवेत्यलमतिप्रसङ्गेन।
प्रतिज्ञाहानेलक्षणमएवं सामान्यलक्षणं विभागं चाभिधाय विशेषलक्षणान्याह
प्रतिष्टान्तधर्मानुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः ।
__गौ. म. अ. ५ आ. २ सू. २॥ प्रतिज्ञासिद्धये वादिना साधने ऽभिहिते तत्र प्रतिवादिना च दूषणे उद्भाविते तृतीये वचसि तु वर्तमानो वादी यदि प्रतिदृष्टान्तधर्म स्वदृष्टान्ते ऽनुजानाति तदस्य पतिज्ञा हीयत इति पतिज्ञाहा निर्निग्रहस्थानं भवतिः, तद्यथा अ. नित्यः शब्दः ऐन्द्रियकत्वाद् घटवदित्युक्ते पर आह सामान्यमैन्द्रियकमपि नित्यं दृष्टमित्यनैकान्तिको हेतुरिति, तत्र साधनवाद्याह सामान्यमैन्द्रियकं नित्यं तर्हि तथैव घटो ऽपि नित्यो ऽस्त्विति, अयमस्यैवं वदतो भ्रमः किल नित्या. निस्यपत्रवृत्तिरनैकान्तिकतामेष विजयादिति, तदेवमस्य अवतः प्रतिज्ञाहानिर्भ वति घटस्य हि नित्यत्वे तष्टान्तबलादेव शब्दो ऽपि नित्यः स्यादिति,
तत्रकीतिराह प्रतिज्ञेव तावदसाधनाङ्गवचनमिति तदभिधानं निग्रहस्थान भवितुमर्हति न तद्धानिः, न च हानिरप्यस्ति यदि नाम घटस्य दृष्टान्तीकृतस्य प्रतिदृष्टान्तधर्म नित्यत्वमयमभ्युपैति किमियता शब्दानित्यत्वप्रतिज्ञामवजहा. ति, अपि च हेत्वाभासामपि निग्रहस्थानवगें गणिता एव स चायमनैकान्तिकहे. स्वाभासप्रयोगादेव पराजीयते न प्रतिज्ञाहान्येति तस्या विषयान्तरं वक्तव्यम् ,
भत्रोच्यते प्रतिज्ञायास्तावदसाधनाङ्गवचनता नास्तीत्यवयवलक्षणे निर्णी तमेतत् , प्रतिझासिद्धर्य एव सर्ववादिनां प्रयासः अनिर्दिष्टा च साधयितुम. शक्यैवेति न वचनमसाधनाङ्गवचनम् , लौकिकेष्वपि वर्णादानादिविवादपदेषु प्रविबाहानिमेव मुख्यं पराजयकारणमाहुः, ________________

निग्रहस्थानप्रकरणम् ।
वदाह नारदः
सारस्तु व्यवहाराणां प्रतिज्ञा समुदाहता। __ तद्धानी हीयते वादी तरस्तामुत्तरो भवेदिति ॥ प्रतिदृष्टान्तधर्म च स्वदृष्टान्ते ऽभ्युपगच्छन्नुत्सृजत्येव प्रतिज्ञाम् , नित्यत्वं हि सामान्यवद् घटस्यापि सहते तदृष्टान्त बलेन च तद्धर्म शब्दे सिषाधयिषतीति नूनमिवानी नित्यत्वमेव घटधर्मः शन्दे सिद्धयेदिति कथं तदनित्यत्वप्रतिज्ञा ऽस्य न हीयते, यत्तूक्तं हेत्वभासप्रयोग एव निग्रहनिमित्तं न प्रतिज्ञाहानिरिति स्यादेतदेवं यदि द्वितीये वचसि व्यवस्थितेन प्रतिवादिना व्यभिषा. रोद्रावनया प्रत्यवस्थितो वादी तावत्येव विरमेत् , स तु तृतीये वचसि वर्तमा. नस्सदुद्धरणबुद्धचा तथाविधमभिधत्ते येन प्रतिज्ञा जहाति, अतश्च व्यभिचारप. रिहरणलोभाभिहितपतिदृष्टान्तधर्माभ्यनुज्ञावचनोपनसतदर्थप्रतिज्ञाहानिनिबन्धन एवास्य निग्रहो युक्तो न हेत्वाभासप्रयोगकृत इति अयमेव मुख्यः पतिज्ञाहानेविषयः।
प्रतिज्ञान्तरस्य लक्षणम् - प्रतिज्ञातार्थप्रतिषेधे धर्मे विकल्पातदर्थनिर्देशः प्रतिज्ञा
न्तरम् ॥ गौ. सू. अ. ५आ. २ सू. ३। प्रतिज्ञातार्थप्रतिषेधे परेण कृते तत्रैव धर्मिणि धर्मान्सरं साधनीयमभिदधतो वादिनः पतिज्ञान्तरं नाम निग्रहस्थानं भवति, अनित्यः शब्द ऐन्द्रियकत्वादि. त्युक्ते पूर्ववत्सामान्येन व्यभिचारोद्भावनया प्रत्यवस्थित आह, सामान्यमै. न्द्रियकं यन्नित्यं तथक्कं तद्धि सर्वगतम् असर्वगतस्तु शब्द इति प्रतिज्ञां कुर्वन प्रतिज्ञान्तरेण निगृहीतो भवति, __“अत्राह नेदमपस्तुतपतिज्ञान्तरकरणम् अपितु परोदावितव्यभिचारनिवारण विशेषणोपादानमेतत, एतदुक्तं भवति असर्वगतत्वे सत्यन्द्रियकस्वादनित्यः शब्द इति तदिदमसर्वगतत्वं पतिज्ञासिद्धयर्थमुपात्तं कथं निग्रहस्थानम् , यो हि मीमांसकं पत्यनित्यः शब्दः कृतकवादित्युक्तवांस्तेन कृतकत्वं सिद्धमित्युपलब्धे कृतकत्वे स प्रविज्ञान्तरं कुर्वाणो निगृह्यत, यस्तु पूर्वपतिज्ञामवधीर्य वदनोपयिकमकस्मादेव पतिनान्तरमाग्भेत तदा उन्मत्त एव भवेत् , न चोन्मत्तपनापानां शाने लक्षणकरणं युक्तम् , स्पष्टे निप्रहहेवी हेत्वाभासामिषाने सम्भवति किमिति पवित्रान्तरं निहस्थानमुच्यत इति” __अत्रोच्यते पतिज्ञासिद्धये हेतुदृष्टान्तौ प्रयोजव्यो न पुनः पूविज्ञान्तरं कर. णीयमिति स्थितिः, इह च यो हेतुरनेनोपात्तस्तस्मिन्परेणानकान्तिकीकते सति न. तत्परिहारपकारमनुगुणमयमास्थितवान् अपि त्वसर्वगतस्वपतिक्षामन्या.
मधिरूढः । _. “ननु विशेषणमेतदनैकान्तिकत्वपरिहारार्थ न पतिक्षान्तरमित्युक्तप” ना. ________________

१९४
न्यायममर्याम् सिद्धत्वात् सिद्धं हि विशेषणं भवति, नित्यत्ववादिनं च पूति शब्दस्यासर्वगतत्ववादिनं च प्रतिशब्दस्यासर्वगतत्वमसिद्धम् , साध्यते चेत्तहि प्रतिज्ञान्तरमे वेदं हेत्वाद्यवयवलक्षण्यात् प्रतिज्ञालक्षणस्य च साध्यनिर्देशस्योपपः, अनै. कान्तिकत्वपरिहतये हि हेतुविशेषणं सिद्धं च वाच्यं न तु धर्मिविशेषणं सा. ध्यं चेति, अन्यतरासिद्धे तु हेत्वाभासे तत्समर्थनं पक्रमानुरूपमवेति न पतिशान्तरं निग्रहस्थानं भवति, इह तु अनेकान्तिकत्वपरिहाराय यतमानो मार्गमनुगुणमपश्यन् स्खलित इव निगृह्यते, न च हेतूदाहरणादिपयोगनिपुणमते. रपि प्रमादेवम्विधमभिधानं न सम्भवति, न च पतिज्ञामात्रेण सिद्धिमिच्छन्नेवं ब्रवीति अपितु व्यभिचारं परिजिहीर्षन्निति, न चायमुन्मत्रापलाप एव पस्तुता. नुगुण्यबुद्धा प्रयोगात् , अपि चानित्यः शब्दश्चाक्षुषत्वादित्युभयासिद्धो नाम हेत्वाभासो भवद्विापि शास्त्रे लक्षित एव, स उन्मरापलापो न भवति,यथो. वाहतं प्रतिक्षान्सरमुन्मत्तपलाप इत्यपूर्व एष भिक्षोः स्वदर्शनरागः परदर्शन. द्वेषो वा, को हि नाम शिशुरपि शब्दे चाक्षुषतां ब्रयात् , इदं सम्भवत्येवामि. धानं केवलं हेतुविशेषणे सिद्धे च वक्तव्ये भ्रमाद्धर्मिविशेषणं साध्यं वा ऽयमु. कवानिति, निमित्तान्तरमिदमान्य निग्रह निरूपितं द्वितीय एव तु वचसि कथा. विरतो हेत्वाभासप्रयोगादेव निग्रहमाप्नुयादिति प्रतिज्ञाहानिप्रस्ताव एवोक्तम् ।
प्रतिज्ञावराधस्य लक्षणम्प्रतिज्ञाहेत्वाविरोधः प्रतिज्ञाविरोधः ॥ गौ.मू.अ.आ.२.४ ।
यत्र प्रतिज्ञा हेतुना विरुध्यते हेतुर्वा प्रतिज्ञया स प्रतिज्ञाविरोधो नाम निप्रहस्थानं भवति, गुणव्यतिरिक्तं द्रव्यमिति प्रतिज्ञा रूपादिभ्यो ऽर्थान्तर. स्यानुपलब्धेरिति हेतुः, सोऽयं प्रतिज्ञाहेत्वोविरोधो यदि गुणव्यतिरिक्तं द्रव्यं न तहि रूपादिभ्यो ऽर्थान्तरस्यानुपलब्धिरथ रूपादिभ्यो ऽर्थान्तरस्यानुपलब्धिन तर्हि गुणव्यतिरिक्तं द्रव्यं रूपादिभिश्चार्थान्तरस्यानुपलब्धिरिति व्याहतम् ॥ ____ “अत्राह नेदं प्रतिज्ञाहेत्वोविरोधोदाहरणं भवितुमर्हति हेतोरसम्भवात् , सम्भवे हि हेतुः प्रतिज्ञां विरुणद्धि तया वा विरुष्यते, इह तूपलब्धिलक्षणप्राप्त स्यानुपलब्धिर्न समस्त्येव रूपादिभ्योऽर्थान्तरस्य पृथक्त्वेनोपलब्धियोग्यत्वा. नुपपरोः, सम्भवन्नपि चैवम्विधे विषये प्रतिज्ञाविरोधे हेतुर्न द्वयीं दोषजातिम. तिवर्तते विरुद्धत्वमसिद्धत्वं वा, गुणव्यतिरिक्तद्रव्यवादिनो हि भेदेनाप्रहणग. तार्थत्वान पृथग्वक्तव्यमिदं निप्रहस्थानम् , यदन्यदन्यैरुदाहरणममाणि नित्यः शब्दः सर्वस्यानिस्यत्वादिति तदप्यसाधु, वैधर्म्यदृष्टान्तस्यानेन प्रकारेण कुशिसिरभिधानात् , तथा हि सर्वशब्दोऽत्र सावयववचन इति निरवयवत्वं हेतुर्विषषितो नित्यः शब्दो निरवयवत्वात्सावयवस्यानित्यत्वादिति सो ऽयमपिशिक्षितवैधर्म्यदृष्टान्तप्रदर्शनताप्रक्रमैविपर्ययेण वैधय॑दृष्टान्त एवं कथितः स. स्यानित्यात्वादिति, तदुक्तं स हि दृष्टान्त एवोक्तो वैधम्र्येण सुशिक्षितरिति,
1

  • ________________

निग्रहस्थानप्रकरणम् । १९५ तस्मान्नेदमपि प्रतिज्ञाहेतुविरोधोदाहरणमिति”
अत्रोच्यते यदुक्तं हेतोरसंभवान्नेदं निग्रहस्थानं तदचारु-पञ्चम्यन्तनिर्दिष्टस्य हेतोः प्रदर्शितत्वात् , निरवद्यहत्वभावात्त यदि तदसंभव उच्यते तर्हि हे. त्वाभासव्याकरणमप्यकरणीयं भवेत् , पुरुषबुद्धिप्रमादनिबन्धनहेत्वाभासप्रयो. गवत्तु तथाविधमप्यभिधानं संभवत्येव ॥ ___ यत्पुनरभ्यधायि “संभवन्नपि हेतुरयमसिद्धविरुद्धयोरन्यतरोभवेन्न दृषणान्तर. मिति। तत्र ब्रूमः सत्यमेतकितु हेतुस्वरूपनिरूपणावसरे सपदि तद्तदोषादोष. दर्शनाद्विरुद्धता तस्याभिधीयते, यथा भवद्भिनित्यः शब्दः कृतकत्वादिति विरुद्ध. हेतोवण्य॑ते कचित्सिद्धसाध्यत्वदृष्टान्तहीनतादिदोषान्तरसंभवेऽपि तदवधीरगया विरुद्धत्वमेव दर्शितम् , यथा वा हेत्वाभासलक्षणे कथितमस्माभिः अनित्यः शब्दश्चाक्षुषत्वादित्यस्यानकान्तिकत्वदोषे सत्यपि प्रथमतरमसिद्धतेव हृदय. पथमवतरति तेनासिद्धोऽयमुच्यते न सव्यभिचार इति, एवमिहापि हेतुगुणदो. पविचारे क्रियमाणे विरुद्धादिहेत्वाभासतव नास्य कथ्यते, यदा तु परार्थानुमान वाक्यस्य पश्चावयवस्य परमतेन वा व्यवयवस्य परस्परान्वितपदार्थसमुदायात्मा वाक्यार्थश्चिन्त्यते तत्रेतरेतरव्याहतार्थवादिनोः प्रतिज्ञाहेतुपदयोरसंसात्तद्विरोध. एव झटिति मनसि विपरिवर्तते इति स एव निग्रहनिमितं मवितुमर्हति, यत इ. तरेतरविरोधिनमनन्वितमर्थमभिवदति वाक्येऽप्रतिपत्तिविप्रतिपत्तिर्वा भवेदित्यः द एव निग्रहस्थानम् , अपि च साध्यविषययसाधक एव विरुद्धहंतुरुच्यते यः प्रतिज्ञामेव बाधते इह तु प्रतिज्ञया हेतुर्याध्यते प्रतिज्ञा वा हेतुनेति विकल्प्यमा. नत्वान्निग्रहस्थानान्तरमवेदम् , इत्थमस्येवादाहरणस्योपपत्तेरुदाहणान्तरनिरूपणं वृथाटाट्येव, भाट्टस्तुभवदीयं निरालम्बनसाधनं प्रतिज्ञाविराधादाहरणं वणितम् , निरालम्बनाः सर्वे प्रत्ययाः प्रत्ययत्वादिति यतः प्रत्ययत्वहतुप्राहकज्ञानस्य सा. लम्बनत्वे तेनैव प्रतिज्ञा विरुध्यते वनिरालन्बनत्वे तु हेत्वभाव एव स्यादिति, बदुकम्
विस्पष्टश्चाक्षपादोक्ता विरोधो हंतुसाध्ययोः ।
यमरणा परैरुक्तमदूपणमिदं किल ॥ इति । तत्सर्वथासुलमोदाहरणमिदं प्रतिज्ञाहेतुविरोधाख्यं निग्रहस्थानमिदं स्थितम्।
प्रतिज्ञासंन्यासस्य लक्षणम्पक्षप्रतिमेचे प्रतिज्ञार्यापनयनं प्रतिज्ञासन्यासः ॥
गौ. अ. ५ आ. २ मू. २५ । पक्षसाधने परेण दूषिते तदुद्धरणाशस्याप्रतिज्ञामव निन्हुवानस्य प्रतिज्ञा. सन्न्यासो नाम निग्रहस्थानं भवति, अनित्यः शब्द पन्द्रियकवादियुक्त वत्रैव सामान्येनानकान्तिकतायामुकितायां प्रतियोति क एवमाह नित्यः शब्द इति, ________________

-

न्यायमचर्याम् सो ऽयमेवं अवन् प्रतिज्ञासन्यासात्पराजीयते । ___ “अत्राह अतिस्थूलः खल्वयं प्रमादः को हि नाम प्रतिवादिप्राश्निकसन्निधाने प्रतिज्ञां कृत्वा तदैव तेषामेवाभ्रष्टसंस्काराणां पुरतोऽपस्मारकाद्यनुपप्लुतमविस्तामेव निन्हुवीत, अपि च घृतपराजितपणरहित एव कितववदासीनः प्रति. सामजहदपि हेतावनैकान्तिके किमसी न निगृह्यते, न हि प्रतिज्ञायास्त्यागात्यागौ तदीयो निप्रहानिग्रहयोः प्रयोजकावपि तु हेतुगुणदोषावेव, स चायं साध. नव्यभिचारादेवासिद्धपक्षः पराजीयत इत्यलं सन्न्यासेनेति” __अत्रोच्यते परोदावितहत्वनैकान्तिकत्वदूषणोद्धरणरणरणकतरलितमतेर्भवेदप्ययं प्रमावः, एवं ह्यसौ वदति न मयोक्तं संयोगवियोगव्यङ्गयः शब्दो न भ. वतिन त्वनित्य इति, अयमाशयोऽस्यैवं वदतः किल संयोगविभागानभिव्यङ्गच. खे मया पक्षीकृते सामान्येन व्यभिचारो न भविष्यतीति तदपि हि तादृशमेव स्वाश्रयव्यङ्गचत्वादिति मुहलतो नातिस्थूलममुमीदृशं प्रमादं प्रतिपन्नस्य भवत्येव निग्रहः, अप्रमादिनोस्तु निग्रहो नाम नास्त्येव कश्चिदिह लोके परलोके वा, यत्त सदीययोः प्रतिज्ञात्यागात्यागयोरप्रयोजकत्वादनकान्तिकत्वेनेवासौ निगृह्यते स्या. विति, तदेवं यदि व्यभिचारोद्भावनया समनन्तरमसौ तूष्णीमेवासीत तथाविधं तु माणस्तस्यैव पराजयहेतोः सनिकृष्टत्वात्तैरेव निगृहीतो भवति नानकान्तिक. प्रयोगेणेति।
हेत्वन्तरस्य लक्षणम्अविशेषोके हेतौ प्रतिषिदं विशेषामिच्छतो हेत्वन्तरम् ॥
अ. ५ आ. २ सू. ६ । भविशेषाभिहिते हेसो प्रतिषिद्ध तद्विशेषणमभिधतो हेत्वन्तरं नाम निप्रहस्थानं भवति, यथा सांस्यस्येत्थं वदतः एकप्रकृतीदं व्यक्त परिमाणाद् घटादिवविविध परिमाणं विकारेषु दृष्टमियत्तालक्षणमडरादेः फलान्तरस्य चतुर. मिताब पटादेः मत्पूर्वकस्य, तदेतत्परिमितं निराकारजातमेकप्रकृतिकं दृष्टमि. स्यवः सर्वमिएमेकप्रकृति भवितुमईति, या च सैका प्रकृतिस्तत्प्रधानमिति, अ. स्य हेतोयभिचारो नानाप्रकृतीनामपि परिमाणदर्शनादिति, तत्परिजिहीर्षया विशेषणमाह समन्वयादिति, सुखदुःखमोहसमन्वितं हि सर्व व्यक्तं परमितं दृश्यत इति, तस्य प्रकृत्यन्सररूपसमन्वयाभावादेकप्रकृतित्वमिति, तदिदं हेत्व. न्सरं निग्रहस्थान प्रागुक्तस्य विशेषस्य हेतोः स्वयमेवाहेतुत्वमर्षणादिति ॥
“मत्राह किमयं दग्धो ब्रह्मते मृतो वा मार्यते अनेकान्तिकहेतूपन्यासेनैव खवयं तपस्वी निगृहीतो ऽसाधनावचनादिवि किं हेत्वन्तराज्यनिहस्थानास्तरोदोरणेनेति”
मत्रोच्यते युक्तमेव तद् द्वितीये वचसि कथासमाप्तौ यथा तु भवानाह,
.-
1 ________________

निग्रहस्थानप्रकरणम् । १९७ यदा तु व्यभिचारनिराकरणाय विशेषणमपरमधिकमधुना ऽभिधातुं प्रवृत्तस्तदा तदुपादानादेव निगृह्यत इति पिष्टपेषणं संप्रत्येवायमिष्यते, पुरुषशक्तिपरीक्षा. स्मके च जल्पे निग्रहस्थानमिदं वादे तु विशुद्धाशयतया वस्तुनि परीक्ष्यमाणे विशेषणान्तरोपादाने ऽपि तद्विचारः प्रस्तोतव्यो न निग्रहः कार्य इत्यभियुक्ताः ।
अर्थान्तरस्य लक्षणम् - प्रकृतादर्थादमतिसंबद्धमर्यान्तरम् ॥ अ. ५ आ. २ सू. ७ ।
प्रकृत्तादर्थादर्थान्तरं तदनोपयिकमभिदधतोऽर्थान्तरं नाम विग्रहस्थानं भवति, यथा कश्चिद्वैयाकरणविटः स्फोटात्मानं शब्दं चेतसि निधाय तनित्यत्वसिद्धये नित्यः शब्दो निरवयवत्वादित्यभिधित्सुरेव दुरितकर्मादिभिरनैकान्तितामाशङ्कमानो ऽर्थान्तरं नाम निप्रहस्थानं जिगमिषुस्तत्रैव वाक्यशेषच्छाययोत्तिष्ठति नित्यः शन्दो निरवयवत्वादिति वयं पाणिनीयाः प्रपन्ना इति ये भगवतः पाणिनेः छात्राः, कः पुनर्भगवान्पाणिनिरिति ?
येनाक्षरसमानायमधिगम्य महेश्वरात् ।
कृत्स्नं व्याकरणं प्रोक्तमाचार्यों नः स पाणिनिः ॥ कः पुनमहेश्वरो यतोऽक्षरसमानायमधिजगाम पाणिनिरिति ?
अस्त्युद्भटजटाजूटकोटिप्रथितचन्द्रमाः ।
विश्वस्थितिलयोत्पादहेतुरेको महेश्वरः ॥ अपि चअचिन्स्यवेशाभरणस्य तत्त्वतो यदृच्छया यस्य निशासु ताण्डवम । स भस्मभक्तीनि बिमति मोलिना कृतान्जलिः पादरजांसि वासवः ॥
कीदृशं पुनस्ताण्डवं तनोति खण्डपरशुरिति ? इत्थंचारी क्रमो यस्मिन्नित्थं च करवर्तनाः ।
इत्थं यत्र घटोच्छेदा दात्रपादास्तथेदृशाः॥ इत्येकैकमुपदेशयनुत्थाय नृत्यति, तदेवदर्थान्तरं निग्रहस्थानमसाधनाङ्गव. घनमिति, कीर्तिनाऽप्यनुमोदितम , द्वयोरपि च वाविप्रतिवादिनोः प्रकृताननु. गुणमभिदधतोर्भवत्यदो निग्रहस्थानम , यथाक्रममेकस्य साधनमनवद्यमपश्यता द्वितीयस्य दूषणमिति ।
निरयकस्य लक्षणम्वर्णक्रमनिर्देशवाभिरर्थकम् ॥ अ.५ आ. २ म. ८ ।
अभिधेयरहितवर्णानुपूर्वीप्रयोगमा निरर्थकं नाम निग्रहस्थानं भवति, अ. नित्यः शब्दः कचटपानां गजडदवत्वाद् घझढधमवदित्येवंप्रकारम् , इदमपि वादिप्रविवादिनोः प्रकृवाननुगुणममिदधताभवत्यदो निप्रहस्थानम् , यथाक्रम साधनं दूषणं च यथोचितमभिधातुमजानतोः पूर्ववदुमयोरपि निग्रहस्थानम् ।
“प्रवाह सोऽयमुन्मत्तालाप एव शास्त्रे लक्षयितुमुपक्रान्तो न ह्यनुन्मत्ता. ________________

.
.
न्यायमचर्याम् नामीहंश्यक्षराणि मुखानिर्गच्छन्त ईदृशां च निदेशे कपोलवादित्रकक्ष्यामिवाडनादीन्यपि कामं शास्त्रे निर्दिश्यन्ताम् , अपि च वर्णक्रमनिर्देशवदिति मतु. पा निर्देश एष सूत्र वदिति वतिप्रयोगो वा, मतुप्पक्षे सर्व वर्णक्रमनिर्देशयुक्तं निग्रहस्थानं भवेदिति हस्तसंज्ञादिभिरिदानीमुदाहणिकाः प्रस्तूयेरन् , अथानर्यकक्रमनिर्देशयुक्तमिति व्याख्यायते तथाऽपि नियमानुपपत्तिः, न ह्यर्थरहितव. गोधारणमेव प्रकृतानुपयोगानिरर्थकमेव वर्णक्रमनिर्देशस्यापि च क चित्प्रकरणे सार्थकता दृश्यत एव प्रत्याहारवत् , वतिपक्षे तु भवति दिक्प्रदर्शनमेतत्किं स्वर्थान्तरेणैव गतार्थत्वात्पृथङ न वक्तव्यम्”
अत्रोच्यते मतुपा वतिना वाभिधेयशून्यत्वमात्रमत्र विवक्षितम् अभिधेय. शून्यं वचो निरर्थकमित्युक्तमिति भवति , एष एव चार्थान्तरादस्य विशेषः त. त्राभिधेयस्य भावे ऽपि प्रकृतानुपयोग इह त्वभिधेयमेव नास्तीति यत्र क चित्प्र. करणवशेन वर्णक्रमनिर्देशस्यापि सार्थकता तदिहोदाहरणम् , उदाहरणं यदि स्फुटं पृच्छसि न कुप्यसि चेत्तद्भवदीयं सर्वमेव वचनमिहोदाहरणं सौगतदर्शने शब्दानामोसंस्पर्शित्वात् , स्वलक्षणे वेषामप्रवृत्तेः अपोहस्य चातितुच्छत्वात् सर्व तदभिधानं निरर्थकम् , अत एव चोन्मत्तप्रलापतः शाक्यमिक्षवो ऽपि परि. शुद्धबोधिनः परलोकयाथार्थ्यदर्शिनः शौचाचारव्यवहारेष्वबाधा महान्तो वि. द्वांसः काममर्थशून्यमपि कथयन्ता नोन्मत्ता भवितुमर्हन्ति, एवमन्यस्यापि प्र. झाप्रमादात्कचटतपादि व्याहरतो नोन्मत्तता भविष्यति, यच्चोतमीहशां गणने का परिनिष्ठेति तत्परिहतमसकृदसङ्कीर्णोदाहरणविवक्षया द्वाविंशतिभेदत्वमाश्रितमिति, कपोलवदनादीनि पुनरकथास्वभावत्वादचिन्त्यान्येव, यस्य चास्मि. कथाप्रसङ्गे गएडवादित्रादि चेतसि परिस्फुरति तस्यान्यदविजघन्यमपि हृदय. मवतरेदित्यलमसंबद्धगोष्ठचेति ॥
अविज्ञातार्थस्य लक्षणम्पर्षस्पतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमाविशातार्थम् ॥
अ. ५ आ. २ सू, ९। मस्साधनवाक्यं दूषणवाक्यं वा विरभिहितं पर्षदा प्रतिवादिना च न विज्ञायते शिशब्दप्रयोगमिति तीव्रमुचारितमित्येवंप्रकारमविज्ञातार्थ नाम निप्रहस्थानं भवति असामर्थ्यसंवरणाय च धूसरिदमाश्रीयते । ___“मनाह अर्थासंप्रत्ययस्य समानत्वात्को ऽस्य निरर्थकाद्वेदः, अथ प्रकृतोप. योगयोग्यमर्थमसो वदति तदा पर्षत्प्रतिवादिनोरमेधाविता कामं भवेन तु वि. दुषो वक्तुं विवदतः पराजयो भवितुमर्हति, किकृतश्चैष विरुषारणनियमः किं राजावया उत वाक्येनेति न विद्मः”
भत्रोच्यते निरर्थक सर्वेण सर्वमर्थशून्यता इह तु भवन्नयों नावगम्यते दु. वोधारणादिव्यतिकरवशादिति कथमविशेषः, तत्र च करप्यते नूनमसामर्थ्य
+
.
. ________________

निग्रहस्थानप्रकरणम् । मात्मीय संवरीतुमना एवमभिधत्तं न हि समर्थो विद्वान्विस्पष्टं न वक्तीति, त्रि. त्वनियमो ऽपि न वेदवचननरपतिशासननिबन्धनः किं तु वस्तुस्थिस्युपनत एव, यतः सकृद् द्विरष्यभिहितमप्यनवधानादिना न गृहीतमिति संभाव्यते विस्तु यदुक्तं न ज्ञायते तत्र वक्तुरेव जाड्यम् अनेकप्राश्निकादिसमाजे कथितमवश्यं केनाप्यवगम्यते सर्वैरनवगमात्तु वक्तैव निगृह्यते, चतुर्धा पञ्चकृत्वो वा ऽभिधा. ने त्विष्यमाणे निरवधिताऽभिधानस्य प्रसज्यत इति युक्तस्त्रिर्वचननियम इति ।
अपार्थकस्य लक्षणम् — पौर्वापर्यादियोगादप्रतिसंबद्धार्थमपार्थकम् ॥ अ. ५ आ २ सू. १०
पूर्वापरासंगतपदकदम्बकोचारणादप्रतिष्ठितवाक्यार्थमपार्थकं नाम निग्रह स्थानं भवति, तद्यथा दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललखण्डः श्रोहकमेतत्कुमार्याः स्फैय्यकृतस्य पिता प्रतिशीन इति । __ “अत्राह असंबद्धवाक्यमसंबद्धं प्रकरणं च निग्रहस्थानान्तरं कस्मात्रोक्तम् , एतेनैव गतार्थत्वादिति चेद्, यद्येवमनर्थ केनैव गतार्थत्वादपार्थकमपि पृथान वक्तव्यम्” ___ “अत्रोच्यते निरर्थकेन पदार्थेन वाक्यार्थः केवलं वर्णा एव शुष्का सचार्यन्ते अर्थान्तरे ऽपि समन्वितपदार्थ व्यवस्थापितवाक्यार्थमप्रकृतं तून्यते, इह तु पदार्थसंप्रत्यये ऽपि तदन्वयासंभवेन वाक्यार्थानवसाय इति स्पष्टो भेदः, प्रकृ. तविवादास्पदीभूते वस्तुनि को वा विशेष इति चेत् , उक्तमत्र संक्षेपविवक्षायांद्वे एव निपहस्थाने असंकीर्णोदाहरणविवक्षया तु द्वाविंशतिभेदत्वं प्रकृतवस्तुसि. द्विस्तु द्वाविंशतावपि तुल्यैव । __यत्तु असंबद्धं वाक्यमसंबद्धं प्रकरणं च पृथगुपसंख्येयमिति तत्र, असंबद्ध. पदार्थ व तत्संग्रहात , यदि त्वसंबद्धवाक्यमसंबद्धप्रकरणं चावश्यं वक्तव्यं तदुक्तमेव भवदीयं शास्त्रम् , तथा हि वैभाषिकाणामस्ति बावार्थः स च प्रत्यक्षः, सौत्रान्तिकानां च सन्नप्यनुमेयः, योगाचाराणां साकारं ज्ञानमेव न बायार्थः स च प्रत्यक्षः, माध्यमिकानामाकारशून्यं स्वच्छं ज्ञानम्, एवमितरे. तरानन्वितवाक्यप्रकरणमिदमशेषमेव शाक्यशास्त्रम् आह च, दशदाडिमवाक्य. स्य बौद्धशास्त्रस्य चाप्यबद्धस्य प्रतिष्ठा केन लभ्यते ।
अमाप्तकालस्य लक्षणम– अवयवविपयांसवचनमप्राप्तकालम् ॥ अ. ५ आ. २ सू. ११ ।
प्रतिज्ञाहेतूदाहरणोपनयनिगमनवचनं क्रममुलझ्यावयवविपर्यासेन प्रयुज्यमानमप्राप्तकालं नाम निग्रहस्थान भवति । ___ “प्रवाह न हि पदार्थानां वाक्येषु नियतः क्रमः कश्चिदस्ति, नियतकमका हि वर्णाः पदतामापद्यन्त इति युक्तं तदन्तरेण तदर्थोनवगमात , न हि टघ इत्यु.

________________

२००
न्यायमनाम् क्ते घटार्थावगतिर्भवति वाक्येषु तु देवदत्त गामभ्याज दण्डेन दण्डेन शुक्ला गामभ्याज देवदत्तेति क्रमान्तरेणापि तथैवार्थप्रतिपत्तेः किं क्रमेण, अनुमानवाक्ये तु पचावयवा इत्येतदेव लावप्रथममसांप्रतं प्रतिझाद्यवयवानामसाधना. ङ्गवचनत्वात् , तत्र तेषां पञ्चावयवानामपि प्रयोगः प्रयोगे ऽपि च क्रमो विव. क्षितःतदुल्लङ्घनं निग्रहस्थानमिति महती मूर्खप्रक्रियेति”
पत्रोच्यते वाक्यान्तरेषु क्रमापेक्षा भवतु मा वा भूद्नानेन नः प्रयोजन. म् , अनुमानवाक्ये त्वार्थः क्रमो बलादापतति स्वप्रतिपत्त्यनुसारेण परप्रतिपतेनत्पादनात स्वप्रतिपत्तौ च धर्मिदर्शनतद्गतहेतुधर्मावधारणप्रतिबन्धस्मरणपरा. मर्शज्ञानसाध्यनिश्चयानां क्रमेण दर्शनात्परं प्रमाणतयैव तदभिधानं कर्तव्य. मिति सविस्तरमवयवलक्षणे निर्णीतमेतत् , असाधनाङ्गवचनस्वमपि प्रतिज्ञा. पवयवानां तत्रैव निरस्तम् , अतः क्रमस्येह युक्तियुक्तत्वात्तदतिक्रमो भवत्येव निप्रहस्थानम् ।
न्यूनस्य लक्षणम्होनमन्यतमेनाप्यवयवेन न्यूनम् ॥ अ. ५ आ. २ मू. १२ ।
पश्चावयवे वाक्ये प्रयोक्तव्ये स्थिते तदन्यतमेनाप्यवयवेन हीनं प्रयुब्जान. स्य न्यून नाम निग्रहस्थानं भवति । ___ “अत्राह प्रतिज्ञाद्यवयवजातमसाधनाङ्गवचनमिस्यतस्तदनभिदधतो न निप्र. हः प्रत्युत तद्वतो निग्रहो युक्त इति”
अत्रोच्यते अनन्तरमेवैतत्परिहतं विस्तरतश्चावयवलक्षणे, तथा हि श्रो. तुराकाक्षानिवृत्तये ऽनुमानवाक्यं प्रयुज्यते, प्रथमं तदाकाक्षाविषयः साध्यधर्मविशिष्टोधर्मी प्रदर्श्यते, ततः कारणाकाङ्क्षया हेतुवचनमभिधीयते, कास्य प्रति. बन्धो दृष्ट इति बुमुत्सायामुदाहरणमुपपाद्यते, इत्यमेष सिद्धप्रतिबन्धो हेतु.
मणि भवेनवेति शङ्कायामुपनयवचनमुशर्यते, तदनन्तरं सर्वावयवानामेक. त्रोपसंहाराय निगमनं प्रयुज्यत इत्यन्यतमस्याप्रयोगामिमहार्हता भवत्येवेत्यल मत्रव वस्तुनि पदे पदे कलहप्रस्तावेनेति ।
अधिकस्य लक्षणम्हेतूदाहरणाधिकमधिकम् ॥ अ. ५ आ. २ स. १३ । एकेनैव हेतुना दृष्टान्तेन वा प्रतिपादिते ऽथे हेत्वन्तरं दृष्टान्तान्तरं वा प्र. युखानस्याधिकं नाम निग्रहस्थानं भवति, एतच वादे तावद्वीतरागकथात्मके व. स्तुनि निर्णयफले नेष्यत एव, जल्पे ऽपि नियमायुपगमनेन वदता वादिन इदं निग्रहस्थानम् , यो हिन मया साधनमधिकाभिधेयमुदाहरणं वेति नियमस्यो मायति स एव तथा निगृह्यते नान्य इति, एतब कीर्तिना ऽप्येवं कथितं प्रप. भकयायांतुन दोष इति ।
“अपर आह नियमाभ्युपगमे नायं दोषः प्रतिपत्तिद्रढिम्ने तदभिधानादिति” ________________

२०.
निग्रहस्थानप्रकरणम् । तदयुक्तमभ्युपगतनियमत्यागादसौ निग्रहाहों भवेत् , कश्चार्य प्रतिपत्तिद्रढिमा ? प्रथमप्रयुक्तस्य हि हेतोरदृढप्रतिपत्तिकारिणो हेतुत्वमेव न स्यादुत्पन्नस्य प्रत्यय. स्य पुनरुत्पादनं युक्तम् , तन पूर्वहेतुरढिम्ने नाप्युत्तरो द्रढिम्ने तस्मानियमाभ्युपगमे ऽधिकाभिधानं दोष एव, अपरं मतमकृतनियमस्यापि दोष एव प्रपञ्चकथायामप्येकेन हेतुना दृष्टान्तेन वा कृते निर्णये द्वितीयस्य वैयर्थ्यम् , निर्णीतस्य निर्णयानुपपत्तेरनिर्णयकारिणश्च प्रथमस्य हेतोः प्रयोगानह. स्वादिति ।
पुनर्वचनस्य लक्षणम्शम्दार्थयोः पुनर्वचनं पुनर्वचनमन्यत्रानुवादात् ॥
म. ५ आ. २ मू. १४ अर्थादापन्नस्य स्वशब्देन पुनर्वचनं शब्दार्थस्य वाऽभिहितस्य पुनरमिधा. नं पुनरुक्तं नाम निग्रहस्थानं भवति, अनुवाद वर्जयित्वा शब्दपुनरुक्तं तान पत्र पूर्वोचारित एव शब्दः पुनरुवार्यते यथा नियः शब्दो नित्यः शब्द इति, अर्थपुनरुक्तं तु यत्र सो ऽर्थः पूर्वमन्येन शब्देनोक्तः पर्यायान्तरेण पुनरुच्यते य. था नित्यः शब्दो निरोधधर्मको ध्वान इति, यद्यपि च शब्द पुनरुक्ते ऽप्यर्थपौन. तक्त्यमस्त्येव, तथा ऽपि शब्दपूर्वकत्वादर्थप्रत्यभिज्ञायाः प्रथमतरं शब्दप्रत्यभिः शानात्तत्पोनरुक्त्यमेव तदुच्यते, जात्यपेक्षश्च शब्दपौनरुक्त्यव्यवहारो न व्य. त्यपेक्षः क्षणभङ्गित्वाद्वर्णानां पुनः प्रयोगासंभवात . अनुवादे तु पौनरुक्त्यमा दोषो यथा हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनमिति, अर्थादापत्रस्यापि स्व. शब्देन पुनर्वचनं भवत्येव पुनरुक्तं यथा असत्सु मेघेषु वृष्टिर्न भवतीत्युक्ते भोंदापद्यते सत्सु भवतीति किमर्थ स्वकण्ठेन पुनरुच्यते, अर्थप्रतीस्यों हि शब्दप्रयोगः प्रतीते ऽर्थे किं तेनेति, एतब नियमाभ्युपगमे निग्रहस्थानं वेदित. व्यमकृतनियमस्य तु नातोव महानयमपराधः ॥ _ “अत्राह नार्थपुनरुक्तादन्यच्छन्दपौनरुक्तमुपपद्यते शब्दसाम्येऽप्यर्थभेदद र्शनात् , स्मरत गिरिशं गिरिशो गोरो यस्यासमस्मरद्वेषस्य इव यदीयस्य मुदा न गरीयस्या समस्मरद्वेषस्येति तस्मादर्थत एव पौनरुत्थं न शम्दतः, अपि च विस्तरकथासु कदा चनाश्रवणशङ्कया पुनरभिधानं नाम कियान्प्रमावः, भ.
दापन्नस्य च स्वशब्देन पुनर्वचनं यदि निग्रहस्थानमुच्यते तहि प्रतिज्ञावचनमेव प्रथमं निग्रहस्थानम, अधिकपुनरुक्तयोर्वा विशेष इति वक्तव्यम् , यादर्श तादृशं च विशेषलेशमाश्रित्य पृथगमिधाने निप्रहस्थानभेदपरिगणनमशक्य. क्रियं स्यात् , अनुवादश्च य उच्यते हेत्वपदेशात्प्रतिक्षायाः पुनर्वचनं निगमनमिति तत्तु प्रतिव तावदसाध्वी तस्याः पुनर्वचनं साधु भविष्यतीति केयं कथा” ___ अत्रोच्यते यदुक्तमर्थपुनरुक्तादन्यन्न शब्दपुनरुक्तमिति तदेवमेव, पृथतिदेशम्त्वनया विवक्षया-यो हि शत्यतिशयचिख्यापयिषया सकृत्प्रयोक्तव्यमिति ________________

२०२
न्यायमअर्याम् प्रतिज्ञाय जल्पं प्रवर्तयति स शब्दपुनरुक्तेनापि निगृह्यत इति, नियम्यवादिनश्च निग्रहात्ततो ऽन्यस्य सम्यगश्रवणशङ्कया पुनर्वदतो ऽपि न दोषः, अर्थाक्षिप्तकथनमपि कृतनियमस्यैव दोषो नान्यस्येत्यत एव न वादे निग्रहस्थानमिदम अपि तु जल्पवितण्डयोरेव विजिगीपुकथयोस्तयोश्च सप्रयोजनत्वं कथान्तरत्वं च पुरा समर्थितमेव।
यत्तु प्रतिज्ञोचारणमाक्षिप्तत्वात्तदनुवादश्च निगमनवचनमफलतरमिति,त. दवयवलक्षणे विस्तरेण समाहितम, अधिकपुनरुक्तयोस्त्वयं विस्पष्ट एव वि. शेषः अन्यं हेतुमन्यं वा दृष्टान्तं तत्रैव साध्ये ऽभिदधदधिकवादी भवति त. मेव हेतुं हयान्तं वा पुनर्वदन पुनरुतवादीति, यत्त्वेवंविधविशेषाश्रयणे परि. गणनमघटमानमिति तदवान्तरविशेषविवक्षयैव असङ्कीर्णोदाहरणदर्शनाय द्वा. विंशतिनिर्देश इत्युक्तम् ।
__ अननुभाषणस्य लक्षणम्विज्ञातस्य पर्षदा त्रिभिहितस्याप्रत्युच्चारणमननुभाषणम् ॥
अ. ५ आ. २ मू. १७ पर्षदा विदितस्य वादिना त्रिरुचारितस्यापि यदप्रत्युभारणं तदननुभाषणं नाम निग्रहस्थानं भवति, अप्रत्युचारयन्किमाश्रयं दूषणमभिधीयते ।
ननु यद्यननुभाष्यापि तत्रोत्तरं यात्किमिति निगृह्यते न च यो ऽनुभाषितुमसमर्थः स उत्तरमपि दातुमक्षमो भवति विचित्रत्वात्पुरुषशक्तीनाम्” नैतदेवम् अननुभाषणे तदुत्तरविषयापरिज्ञानात्कोत्तरं प्रयुज्येत प्रयुक्तं वा कथ. मवधार्यते, न चैवं ब्रमा यावत्किं चिद्वादिना सविकारमभिधीयते तदखिल. मखिन्नानतिरिक्तमनुज्झितक्रमकमेकं प्रति वाग्रमी तथैवानुभाषेतेति यस्तु सम. स्तानुभाषणं तथा कुर्यादपि नाम तेन स्वकोशलमेव केवलमुपदर्शितं भवति मेधावित्वं न त्वेवमकुर्वन्नसौ प्रत्यवेयादिति, स्तोकस्तोकमनुभाषमाणः तथैव च क्रमेण दूषयन्न निग्रहमाप्नुयादिति ॥
“अत्राह यदि वादी स्वपक्षसाधनविवरणवर्मना बहुतरमपरमप्रकृतमर्थमु. पक्षिपेत्तत्किं प्रतिवादिना सर्वमनुभाषणीयम् , हेतुमात्रं त्वनूय दूषणमुद्भावयतो नास्य निग्रहो युक्तः, दूपणविषयं तु हेतुमात्रमपि यो ऽनुभाषितुमकौशलः स उत्तरविषयापरिज्ञानादुत्तममपि प्रतिपत्तमसमर्थ एवेत्यप्रतिभया निगृह्यतां किमननुभाषणेन, अपि च त्रिरभिहितस्येति केयं परिभाषा ? यथा च वादिना प. रावबोधार्थ वाक्यं प्रयुक्तं परोपद्रवार्थ वा तत्र परावबाधार्थे वाक्ये पराव. बोष एवाभिधानावधिः न द्विस्त्रिा नियमः यावत्कृत्वः प्रयुक्ते वाक्ये प. रस्थावबोधो जायते तावत्कृत्वः प्रयोक्तव्यम् , परोपद्रवाथै तु वाक्योचारणमा चत एव धर्मः प्राश्निकान्यथा तथा सतेनापि बोधयित्वा दुःश्लिकष्ट शब्दप्र.
________________

२०३
.
निग्रहस्थानप्रकरणम् । योगाद्याडम्बरविरचनया ऽप्यान्थ्यमुत्पादा परानुपरुध्येतेति महत्कश्मलमेतत्, न चेदृशं शास्त्रे व्युत्पादनाहम , तस्माद्वृत्वा ऽप्यभिधाय प्रतिवादी बोधयि. तव्यो न तु द्विरुचारितमप्रत्युचरन्निग्रहीतव्य इति”
अत्रोच्यते न खलु सकृदेव सकनमारविरचितवचनसन्दर्भानुभाषाम. विचलितक्रमकमस्माभिरपि कर्तव्यतधापदिष्टमपि तु यथाचितदूषणविषयानुः भाषणमात्रमेव । __ यस्तु स्तोकमप्यनुभापितुमप्रगल्भस्तस्यात्तरप्रतिभानमपि नास्तीति यदुच्यते, तदसम्यक, अन्यदननुभाषणमन्यदुत्तराप्रतिभानम , कस्य चिदशेषमनुभा. पितवतो न मुच्यते ऽनेनोत्तराप्रतिभानम , उनराप्रतिभानमनन्तरं वक्ष्यते॥
यत्तु विरुधारणपरिभाषा कुतस्त्येति विकल्पितं तदविज्ञातार्थनानि निप्रहस्थाने प्रतिविहितम , वीतरागकथात्मके वादे शिष्टादिभिः सह क्रियमाणे काममस्तु परावबोधावधि वाक्योच्चारणम , जल्पे तु विजिगीपुकथायां पुरुषशक्ति परीक्षणादवश्यमुञ्चारणनियम आश्रयणीयः, तत्र सकृद्धा द्विर्वा ऽभिहितस्याग्रहणमनवधानादिनापि संभवन निग्रहाय कल्पते, बिरभिहितस्य तु सरप्र. हणे वक्तुरेवापराधः, अन्यगृहीतस्य प्रतिवादिना ऽहणे तस्य निग्रहः, वारत्रयादप्यूर्ध्वमभिधाने त्वाश्रीयमाणे जल्पादौ कथासमाप्तिरेव न स्यात् , छात्रशाला ह्यसो भवेन्नोग्राहणिकं तदिति ।
अनानस्य लक्षणम्अविज्ञानं चाऽज्ञानम् ॥ अ. ५ आ. २ मू. १८ परिषदा विज्ञातस्यापि वादिवाक्यस्य प्रतिवादिना यदविज्ञानं तदज्ञान नाम निग्रहस्थानं भवति, अविदितात्तरविपया हि कोत्तरं यादिति ।
अत्राह “अज्ञानमप्रतिभेति नानयोविंशयं पश्यामः”
अत्रोच्यते भिन्नविषयत्वाददोषः उनरविषयाप्रतिपत्तिरज्ञानम उत्तराप्रति. पत्तिस्त्वप्रतिभेति । ___ननत्तरविषयं यो न जानाति स उतरमपि न जानास्येव” मैवम् उत्तर. विषयं जाननपि कश्चिदुत्तरं न जानानीति लेोकाष्टमेतत, एवं तर्हि अन. नुभाषणेन गतार्थमज्ञानमझाते हि परकीय वाक्यार्थे तदनुभाषणे सामर्थ्या. भावदर्शनात् , सन्ति हि के चिये ऽनुभाषितुमशक्नुवन्तः पत्रिकादिलिखित तदावेदयन्तीति, एवं त्रयाणामपि च न पानाम्यम् , उत्तरविषयाप्रविपत्तिरज्ञानम् , प्रतिपत्तावति तदप्रत्युञ्चारणमननुभावणम , अनुभाषिते ऽप्युत्तराप्र. तिपत्तिरप्रतिभेति,
“ननु यद्यज्ञानसाम्यं ऽपि विषय भेदमाश्रित्य निग्रहस्थाननानात्वमिस्थम. मिधीयते तीज्ञानप्रकारवैचित्र्यानेदान्तराग्यपि वक्तव्यानीति” उक्तमत्र सा.
.
.
.
1 " ________________

L
Hin”
२०४
न्यायमभाम् रसंग्रहविवक्षया द्वे एव निग्रहस्थाने विप्रतिपत्तिरप्रतिपत्तिश्चेति, इतरेतर. विसहशोदाहरणदिक्प्रदर्शनाय द्वाविंशतिभेदत्वमुच्यते, अवान्तरविशेषैस्तु त. दानन्त्यमभ्युपगम्यते एव, तथा च द्वाविंशतिवगें हेत्वाभासाश्चेति पठितम् , तेच स्वरूपेणैव तावत्पञ्च सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतकाला हेत्वाभासा इति, अवान्तरभेदाश्च तेषामतिबहवः सन्त्येव, इह त्वेकमेव तन्निप्रहस्थानमादिष्टं हेत्वाभासाश्च यथोक्ता इति, तस्मादित्थं समासव्यासवर्णनाद. लं पदे पदे पर्यनुयोगेनेति ।
अप्रतिमाया लक्षणम्उत्तरस्याप्रतिपचिरप्रतिभा ॥ अ. ५ आ. सू. २९ । परपक्षे गृहीते ऽपि तस्मिन्नुत्तराप्रतिभानमप्रतिभा नाम प्रतिवादिनो निप्र. हस्थानं भवति, अक्षानादिभ्यो भिन्नता ऽस्य वणितव, कीर्तिरिपि चैतदनुमन्य. त एव निप्रहस्थानन , “ननूत्तरमप्रतिपद्यमानः सदसि प्रतिवादी कथमासीत" यत्किंचिद्विकस्थमानः, तद्यथा
इत्पुण्डरीकविकसत्सकलानवद्यविद्यावदातवदनः क जनो ऽस्मदादिः । कायं बटुः कतिपयाक्षरलेशलिप्तजिह्वान्वितः कथमनेन सहामिदध्मः ॥ दानागन्धगजकुम्भकपाटभेदिभीमस्फुरनखशिखाशिखरः क सिंहः । कामी समीरणविधूसपुराणपर्णपातोद्भवद्भयविलोलदृशः कुरङ्गाः ॥ इत्यादि यद्वा तद्वा प्रलपन्नास्ते ।
विक्षेपस्य लक्षणम्कार्यव्यासलात्कथाविच्छेदो विक्षेपः ॥ अ. ५ आ. २९.२०
उदाहणिकामुपक्रम्य वा तग्राहयितव्यं मयेति प्रतिश्रुत्य वाभिमुखं प्रतिवादिनि समिहिनेषु प्राश्निकेषु कार्यव्यासङ्गं व्यपदिशतीदं मे करणीयमप. हीयते गच्छामीत्यमिधाय कथां विच्छिनत्ति यः स विक्षेपेण पराजीयते, अन्यतरनिग्रहान्ता हि कथा भवति स चेस्थं कथां कुर्वन्नात्मनवात्मानं निगृहाति, प्रतिश्यायेन मे कण्ठोपरोष उदपादि पदमपि वक्तं न युज्यते जननी मे जीवितं जहाति स्म तां श्मशानभुवं प्रापय्य वह्निसात्करोमीति ।
“पत्राह यदि तावत्परमार्थत एव मातृमरणादि कार्यमस्योपस्थितं तत्किमिति तपस्वी पराजीयते, उदाहणिकाजितो मा भूदिति किमसौ मृतां मातर मपि मा पासीदिति महत्सुभाषितमिति, पीनसापरुद्धस्थानकरणो वा कथं वा. पमुदीरयतु, प्रवासामर्थ्यस्थगनाय वितथमपि कथयति तथाविधमसो कार्यः व्यास सहि सत्यं निगृपते न तु विक्षेपेण किंतु अन्येनैव, वादी तावत्कर्सव्यव्याजव्यपदेशादर्यान्सरगमनादिना निगृह्यते प्रतिवादी स्वप्रतिमयैवेति, भ. तिप्रसाश्र्वप्रकाराणां निदेशे भवेदिति”
. ________________

निग्रहस्थानप्रकरणम् । २०६ अत्रोच्यते कथामुपक्रम्य प्रतिज्ञा वा हेतुमभिधाय वद्विवरणसरणिमिषमव. लम्ब्य किं चिदथान्तरमुपन्यस्यति यत्तदयोन्तरमुदाहृतमादावेव इह तु कथापू. बरने कथायां वा किमपि करणीयनिभमभिधाय सभयमपसरति सदस इति कथमिव तत्तल्यता भवति, अप्रतिभया ऽपि श्रुतपूर्वपक्षः पराजीयते, इह तु पूर्वरक्षमेव न शृणोति वा न करोति वा प्रथममेव पलायत इति महान्विशेषः, अतिप्रसस्त्वसकृत्पराकृतः, यत्तु हेत्वाभासेम्वन्तर्भावमस्य कोतिरकीर्तयत्तदती. व सुभाषितम् , क हेवाभासः क कार्यव्यासङ्गः संप्रधारणेव रमणीयेयम् , अ. हेसोहेंतुवदामासनं कीर्तिना दृष्टमिति परमं नः कुतूहलम् ।
मतानुसाया लक्षणम्स्वपक्षे दोषाभ्युपगमात्परपक्षे दोषपसनो मतानुज्ञा ॥
__गो. स. अ. ५ आ. २ सू. २१ स्वपले परापादितदोषमनुद्धृत्याभ्युपगम्य परपक्षे तमेवापादयतः परमता. नुशा नाम निग्रहस्थानं भवति, यथा चोरो भवान्पुरुषस्वात्प्रसिद्धचौरवदिस्युके सत्याह भवानपि चोरः पुरुषत्वादिति, सोऽयमेवं वदनात्मनः परापादितं दोष. मभ्युपगतवानिति मतानुज्ञया निगृह्यते । __ “अत्राह अनेकान्तिके हे तो परेणोक्ते तदुद्भावनमनेन प्रकारेण प्रतिवादी करोतीति किमिति निगृह्यते वाद्येव हेस्वाभासप्रयोगानिप्राह्य इति” ___अत्रोच्यते उक्तमादावेव स्वपक्षे दोषमनुढत्येति, एवं हि तेन वक्तव्यमनै. कान्तिकोऽयं हेतुरचौरे ऽपि पुरुषत्वदर्शनादिति एवं हि स दोष उद्धृतो भवति एवं त्वनभिधाय भवानपि चौरः पुरुषत्वादिति वदन्ननुजानात्येव परमतमतो उनैकान्तिकवे वक्तव्ये तदुद्भावनानुक्रममवधीर्य प्रसङ्गमापादयन्निग्रहाहों भव. त्येवेति, वादिनश्वानकान्तिकहेतुप्रयोगे ऽपि तदनुद्भावनान्न पराजयः प्रतिवादिन एव हीदं सनिकृष्टं निग्रहस्थानमिति ।
पर्यनुयोज्योपेक्षणस्य लक्षणम् — निग्रहप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणम् ॥
गौ. अ. ५. आ. २ मू. २२ पर्यनुयोज्यो नाम निमहोपपत्या चोदनीयः इदं ते निग्रहस्थानमुपनतमतो निगृ. होतोऽसीत्येवं वचनीयः तं य उपेक्षते नानुयुक्ते स पर्यनुयुज्योपेक्षणानिगृहाते। __ “प्रवाह कः कस्येदं निग्रहस्थानमापादयति किं पर्यनुयोज्य उत तदुपेक्षकः, उपेक्षकस्तावदस्य पर्यनुयोज्यतां न जानाति जानन्वा कथमेनमुपेक्षेत उपेक्ष्य वा किमात्मन एव निप्रहस्थानमुद्भावयवमाचष्टामेष पर्यनुयोज्यो ऽपि मयो. पेक्षित इति निगृहीतो ऽस्मि, पर्यनुयोज्यो ऽपि कथमात्मीयमवयं प्रकाशयेदि. ई में दूषणं तब भवता नोझावितमवो भवान् जित इति, स खल्वेवममिवध. दमेन्यं पाणो निधाय परं कलङ्कयितुकामः परं कलङ्कयन्नेवात्मकलङ्कमनुभवत्येवे. ________________

२०६
न्यायमर्याम् ति, अपि च नेदं निग्रहस्थानान्तरमपदिश्यते किं त्वप्रतिभैवेति, तथा हि यदि वावदुत्तरपाक्षिकः पूर्वपाक्षिक साधनाभासमप्याचक्षाणमुपेक्षेत तत्र दूषणं नाद्भाषयेत् तदुत्तराप्रतिपक्ष्या स निगृह्यते न पर्यनुयोज्योपेक्षणेन, वस्तुतस्तु द्वयोरपि वत्र जयपराजयनिर्धारणमनुपपन्नर्मकस्य साधनाभासवादित्वादितरस्य च तदु. तराप्रतिमानात् , अथ पूर्वपाक्षिकं दूषणाभासवादिनं दोषप्राप्तमुत्तरपातिको न निगहाति तथा दूषणामासवादित्वादितरस्य च तदनुद्भावनादिति”
अत्रोच्यते नाप्रतिभायाः सम्यक्साधनविषयत्वात् , सम्यक्साधने च प्रयुक्ते तदुत्तरस्याप्रतिपत्तिरप्रतिभा भवति साधनामासे तु प्रयुक्त तदाभासतानुद्भावनात्पर्यनुयोज्योपेक्षणं भवति, अत्र हि साधनाभासवादी पर्यनुयोज्य एवेति विशेषः, यत्तुवस्तु वृत्तेन न कस्य चिज जयः पराजयो वेति तदेवमेव, किं तु जल्पे पुरुषः शक्तिपरीक्षायामिदं निग्रहस्थानमुच्यते, तदुद्भावयिता तु यद्विकल्पितस्तत्राप्यु. क्यते पूर्वपाक्षिकेण साधनाभासे प्रयुक्त उत्तरपाक्षिकेण तस्मिंस्तथास्वेनानुद्भा. वित प्राश्निकानामपृष्टानां वक्तुमवसराभावात्स एव साधनाभासवादी कदा चिद्वयात्यादेवं ब्रूयान्मया ऽस्य शक्ति जिज्ञासमानेन साधनाभासप्रयोगः कृत एष तु मूर्खस्तं न जानातीति तदा कथं न निगृह्यते, एतेन दूषणामासवाद्यपि व्याख्यातः, अथ वोमयाभ्यथिताः सभापतिनियुक्ता वा पाश्निकास्तथा कियन्तो निगान्त्येव पर्यनुयोज्योपेक्षिणम , साधनाभासवादिना हि धूर्ततया तदभिधानं सम्यक्साधनमसाधनादर्थसंशयाद्वा संभवति उत्तरपाक्षिकस्य उत्तरानुदावनं मोहादेवेति स एव पराजीयते ॥
निरनुयोज्यानुयोगस्य लक्षणम्– अनिग्रहस्थाने निग्रहस्थानाभियोगो निरनुयोज्यानुयोगः ॥
अ. ५ आ. २सू. २३ । अनुग्झितयथोचितक्रममुपपनवादिनमप्रमादिनमनिग्रहाई मपि निगृहीतो ऽसीति यो यात्स एवाभूतदोषोद्भावनानिगृह्यते।
“प्रवाह यदि तावदुत्तरपाक्षिकः पूर्वपाक्षिकमदुष्टसाधनमभूतैरेव दोषरमि. युङ्क्ते तथा सति भूतदोषोद्भावनस्योत्तरस्याप्रतिपत्तेरप्रतिभयैव सनिगृह्यतां किं निरनुयोज्यानुयोगाख्यन्यूनतानिप्रहस्थानकथनेन, भूतदोषाभियोगपक्षे तु पू.
पाक्षिक एव साधनाभास(प्र)योगात्पराजीयते, अनुयोज्यः खल्वसौ न निर. नुयोज्यानुयोगस्य विषयो भवितुमर्हति”
अत्रोच्यते अहो नु खल्वयं तपस्वी पर्युदासस्य प्रसज्यप्रतिषेधस्य च विशे. षमपश्यन्नतिमानं मुह्यति भूतदोषाप्रतिभानमन्यदन्यन्यबाभूतदोषप्रतिभानम् , एकत्राप्रतिपसिरितरत्र विपरीतप्रतिपत्तिः, तत्र भूतदोषाप्रविपत्तिरप्रतिभा, अभूतदोषप्रतिपत्तिरननुयोज्यानुयोगः, अपि च असाधनाङ्गवचनमदोषो. ________________

निग्रहस्थानप्रकरणम् ।
२०७

मावनं च यद्भवता निग्रहस्थानमाख्यातं तत्र प्रसज्यप्रतिषेध एव केवल प्रा. गीयमाणे हेत्वाभासा अपि च निग्रहस्थाने भवेयुः, साधनाङ्गस्यानभिधानं मौ. यमेव केवलं निग्रहस्थानं भवेत् , साधनाङ्गवचनमदोषोद्भावनमपि पर्युदास. याख्यानाहै भवत्येव ततश्च भूतदोषानुद्भावनमप्रतिमा अभूतदोषोद्भावनं च रयोज्यानुयोगः ।
अथाभूतदोषोद्भावने ऽपि भूतदोषाप्रतिभानमस्त्येवेति तदेवास्तु निग्रह. थानमित्युच्यते तहि मूकत्वमेवैकं निग्रहस्थानं स्यादसाधनाङ्गवचने ऽप्येवं क्तुं शक्यत्वादित्युक्तमेव ।
__ अपमिद्धान्तस्य लक्षणसिद्धान्तमभ्युपेत्यानियमास्कथाप्रमको उपसिद्धान्तः ।
अ. ५ श्रा. २ मु. २५। यं के वन प्रथमं सिद्धान्तमभ्युपगम्य कथामुपक्रमते कथाप्रसङ्गाप सिषाध. येषितार्थसमर्थने रभसेन दूषणोद्धरणाश्रद्धया वा सिद्धान्तविरुदमभिधत्तं सो. पसिद्धान्तेन पराजीयते, यद्यथा सांख्यः प्रतिवादिनि सन्निधाने नासतो विद्य। भावो नाभावो विद्यते सत’ इति स्वसिद्धान्तं प्रथमं प्रतिज्ञाय प्रधानसिद्धये
धनप्रयोगं करोति-व्यक्तं विकारजातमेकप्रकृति समन्वयदर्शनात , मृदन्धि. । हिमृद्रिकाराः कुण्डपिठरशरावप्रभृतय एकप्रकृतिका दृष्टा एवमस्यापि गवा. वादिविकारजातस्य सुखदुःखमोहान्वयदर्शनात् तदात्मकैकप्रकृतिप्रभवस्वेन भ. वेतव्यम्-एवमुक्तवानसौ नैयायिकेनानुयुज्यते-अथ का प्रकृतिर्नाम का च विकृ. तेरिति, अविदितप्रकृतिविकृतिस्वरूपो हि कथं विकृतीनामेकप्रकृतित्वमेकत्वं नानीयादिति, एवमनुयुक्तः कापिल आह-यस्यावस्थितस्य धर्मान्तरनिवृत्ती मोन्तरं प्रवर्तते सा प्रकृतिः यत्तद्धर्मान्तरं प्रवर्तते सा विकृतिरिति, सेो ऽयमेवं इन्प्रागभ्युपगतसदसनिरोधप्रभवाभावसिद्धान्तविरुद्धाभिधानादपसिद्धान्तेन नि. ‘यते, यदि पूर्वधर्मनिरोधे धर्मान्तरप्रादुर्भावस्तदा नासतो विद्यते मागे ‘भावो विद्यते सत इति स्वसिद्धान्तो होयते, अथ सिद्धान्तो न त्यज्यते तर्हि कृतिविकारानिश्चयाद्धत्वसिद्धौ साध्याभावः प्रसज्यत इति ।
“अत्राह हेतुप्रयोगं कृतवति कापिले नैयायिकस्तदसिद्धतोदावनया प्रत्यव. ष्ठतां प्रकृतिविकृतिस्वरूपप्रश्नस्य को ऽवसरः ? तदिदमर्थान्तरगमनमाय भ. वं पृच्छतः अर्थान्तरगमनं स्वप्रन्थे निग्रहस्थानं लिख्यते, अथ चाऽधुना व व्यवहियत इति को ऽयं नयः, यदि तु सांख्यमतं निराचिकीषितं तद. द्धतैव हेतोमद्भाव्यतां प्रकृत्यन्वयस्य विकारेषु संभवादिति, विकारा हि प्र. ननिवृत्तिधर्मकाः न चैवंप्रकारमव्यक्तधर्ममव्यक्तान्वये हि विकाराणां प्रवृ. निवृत्त्यात्मकत्वं होयेतेत्येवमसिद्धत्वाद्धताहेत्वाभासप्रयोगादेव सांख्यो निगः ’ इति न निगहस्थानान्तरमपसिद्धान्त इति”

  • ________________

१०८
न्यायमणम् अत्रोच्यते सत्यमसिद्धो भवत्वयं कापिलकल्पितो हेतुः प्रकृतितविकृति प्रश्नप्रक्रमणेनापि तदसिद्धमवधारयितुं शक्यत एव, किन्तु हेतुस्वरूपेऽवधारि वदूषणमभिधानीयमनवधारितस्य दूषयितुमशक्यत्वादिति तत्प्रश्नो नार्थान रगमनम् , प्रश्नोत्तरमेव भाषणः परामर्श निकटतरपरिस्फुरदपसिद्धान्ताभिध ननिबन्धननिग्रहान्तरविषयतां प्रतिपन्न इति हेत्वाभासवमनिन दूरं गम्यते ।
कचिदपि परनिग्रहस्य हेतो हृदयपथं प्रथमं किलावतोणें। अपरमपि न कारणं विचिन्त्यं किमिव फलं खलु पिष्टपेषणस्य ॥ रेखामासाश्च यथोक्ताः ॥ अ, ५ मा. २ सू. २५
हेत्वाभासास्तु पूर्वोक्तलक्षणेरेव लक्षिताः निग्रहाथानतां यान्ति,यथोक्ता इत्यतो ऽब्रवीत् ॥ प्रमाणस्य प्रमेयत्वं प्रमेयस्य प्रमाणता। यथा लक्षणभेदेन न तथैतेषु दृश्यते ॥ भेदेनोक्ताः किमर्थं त इति निगदिता पूर्वमेवात्र युक्ति. वादे होते प्रयोज्याः प्रगुणनयविदा तस्वशुद्धिं विधातुम् । एतेषां धर्मकीर्तेरपि च न विमतिनिग्रहस्थानतायामित्थं द्वाविंशतिनों गुरुभिरभिहिता निग्रहस्थानभेदाः ॥
इति (१६ ) निग्रहस्थानपदार्थः इत्येवं सुत्रकारोगममनुसरता ऽनुज्झता भाष्यभूमि स्थाने स्थाने परेषां मतमतुलगति क्षिरवता तार्किकाणाम् । कां चिद्वाक्यार्थचर्चामपि विरचयता ऽनुक्रमेणापतीणों निर्णीताः स्वे निबन्धे निपुणमिह मया षोडशैते पदार्थाः ॥ न्यायोद्गारगभीरनिर्मलगिरा गौरीपतिस्तोषितो वादे येन किरीटिनेव समरे देवः किराताकृतिः । प्राप्तोदारवरस्ततः स जयति ज्ञानामृतप्रार्थना. नाम्ना अनेकमहर्षिमस्तकवलत्पादो ऽक्षपादो मुनिः ॥ वादेष्वाप्तजयो जयन्त इति यः ख्यातः सतामप्रणी. रन्वर्थो नववृत्तिकार इति यं शंसन्ति नाना बुधाः । सूनुर्व्याप्तदिगन्तरस्य यशसा चन्द्रस्य चन्द्रविषा चक्रे चन्द्रकलावचूलचरणभ्यायी सधन्यां कृतिम् ॥
नमः शशिकलाकोटिकल्प्यमानारश्रिये ।
प्रपन्नजनसंकल्पकल्पवृक्षाय शंभवे ॥ इति श्रीजयन्तभट्टकृतायां न्यायममयों द्वादशमाहिकम् ॥ १२ ॥
समाप्ता चेयं न्यायमञ्जरी ॥