## Intro
Gautama: Nyayasutra, with tika
Gautama: Nyayasutra
with Vacaspatimisra’s Nyayavarttikatatparyatika
Input by members of the SANSKNET-project
(www.sansknet.org)
This GRETIL version has been converted from a custom Devanagari encoding.
Consequently, many word boundaries are not marked by spaces.
These and other irregularities cannot be standardized at present.
In spite of hundreds of corrections, the text is in need of proof-reading!
To give the text some structure, sutras were added,
and verse numbering was adapted, where necessary.
For these and other purposes, the text was checked
against the ed. by Anantalal Thakur (New Delhi 1996).
THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser’s VIEW configuration
set to UTF-8.)
description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r ṛ
vocalic R Ṛ
long vocalic r ṝ
vocalic l ḷ
vocalic L Ḷ
long vocalic l ḹ
velar n ṅ
velar N Ṅ
palatal n ñ
palatal N Ñ
retroflex t ṭ
retroflex T Ṭ
retroflex d ḍ
retroflex D Ḍ
retroflex n ṇ
retroflex N Ṇ
palatal s ś
palatal S Ś
retroflex s ṣ
retroflex S Ṣ
anusvara ṃ
visarga ḥ
long e ē
long o ō
l underbar ḻ
r underbar ṟ
n underbar ṉ
k underbar ḵ
t underbar ṯ
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.
For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf
For further information see:
## पाठः
वाचस्पतिमिश्रविरचितायां न्यायवार्त्तिकतात्पर्यटीकायां
प्रथमाध्यायस्य प्रथमाह्निकम्
न्यायवार्त्तिकतात्पर्यटीका
विश्वव्यापी विश्वशक्तिः पिनाकी विश्वेशानो विश्वकृद् विश्वमूर्त्तिः ।
विश्वज्ञाता विश्वसंहारकारी विश्वाराध्यो राधयत्वीहितं नः ॥
नामामि धर्मविज्ञानवैराग्यैश्वर्यशालिने ।
निधये वाग्विशुद्धीनामक्षपादाय तायिने ॥
ग्रन्थव्याख्याच्छलेनैव निरस्ताखिलदूषणा ।
न्यायवार्त्तिकतात्पर्यटीकास्माभिर्विधास्यते ॥
इच्छामि किमपि पुण्यं दुस्तरकुनिबन्धपङ्कमग्नानाम् ।
उद्द्योतकरगवीनामतिजरतीनां समुद्धरणात् ॥
न्य्स्_१,१।१: प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छुलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः॥
अथ भगवताक्षपादेन निःश्रेयसहेतौ शास्त्रे प्रणीते, व्युत्पादिते च भगवता पक्षिलस्वामिना, किमपरमवशिष्यते यदर्थं वार्त्तिकारम्भ इति शङ्कां निराचिकीर्षुः सूत्राकारोक्ताशास्त्रप्रयोजनानुवादपूर्वकं वार्त्तिकारम्भप्रयोजनं दर्शयति-यदक्षपाद इति ॥
यद्यपि भाष्यकृता कृतव्युत्पादनमेतत्, तथापि दिग्नागप्रभृतिभिरर्वाचीनैः कृहेतुसन्तमससमुत्थापनेनाच्छदितं शास्त्रं न तत्त्वनिर्णयाय पर्याप्तमिति उद्द्योतकरेण स्वनिबन्धोद्द्योतेन तदपनीयत इति प्रयोजनवानारम्भ इति ।
सूत्रोक्तप्रयोजनानुवादश्च प्रयोजनवच्छास्त्रव्युत्पादनेन स्वनिबन्धस्य प्रयोजनवत्तां प्रेक्षावत्प्रवृत्त्यङ्गं दर्शयितुम्, व्युत्पादनमात्रस्य च काकदन्तपरीक्षाग्रन्थसाधारण्येन प्रेक्षावत्प्रवृत्त्यनङ्गत्वात् ।
अत्र चैकविशतिप्रभेदभिन्नस्य दुःखस्यात्यन्तिकी निवृत्तिः शमः, तस्मै ।
कस्य? जगतः ।
परमकारूणिको हि भगवान् मुनिः जगदेव दुःखपङ्कमग्नामुद्दिधीर्षुः शास्त्रं प्रणीतवान् ।
तत्र यदि कश्चिन्न प्रवर्तेत, किमायातं शास्त्रस्य? न चानधिकृतपुरुषव्युत्पादनेनास्य तपोनिधेः कश्चिदस्ति दोषः ।
तथा च विश्वामित्रास्त्रिशङ्कुं याजयामास, विशष्ठश्चधमयोनिजामक्षमालामुपयेमे ।
तपःप्रभाव एव हि ताद्दशस्तेषां यत एवंविधाः पाप्मानो विलीयन्त इति ।
न चास्मदादीनां मन्दतपसामयं प्रसङ्गः ।
न हि गजानामुदर्यं तेजो वटकाष्ठमशितं पचतीत्यस्मदादीनामप्युदर्येण तेजसा तथा भवितव्यम् ।
कुतार्किकैर्दिग्नागप्रभुतिभिराहितमज्ञानं कुतार्किकाज्ञानमिति ॥
अविगीतशिष्टाचारपरम्परप्राप्तः परमशिष्टेन वार्त्तिककारेण कृतो ऽपीष्टदेवतानमस्कारो न शास्त्रे निवेशितः ।
न खल्वन्यदपि मङ्गल्यं शास्त्रे निवेशितम्, प्रसिद्धतरतया तु मङ्गल्यान्तरवच्छिष्या अवगभिष्यन्तीति सर्वमवदातम् ॥
तत्र सङ्क्षेपतः प्रथमसूत्रमनूद्य तस्य तात्पर्यमाह–प्रमाणादिपदार्थतत्त्वज्ञानान्निः- श्रेयसाधिगम इत्येतच्छास्त्रस्यादिसूत्रम् ।
तस्य शास्त्रस्य अभिसम्बन्धवाक्यम् ।
आदिग्रहणेन क्रमप्राप्तस्यैव प्रथमं व्याख्यानं युक्तम् न द्वितीयादेरिति दर्शितम् ।
अभिमतः सम्बन्धो ऽभिसम्बन्धः, शास्त्रनिःश्रेयसयोर्हेतुहेतुमद्भावः ।
तस्य इदं सूत्रावाक्यमाभिसम्बन्धवाक्यम् ।
प्रमाणादिपदार्थतत्वज्ञानादित्यत्र हि ज्ञायते ऽनेनेति ज्ञानमिति व्युत्पत्या तत्वज्ञानं शास्त्रमुच्यते ।
पञ्चम्या च तस्य हेतुत्वम् ।
न हि विषघ्नमन्त्रवत् स्वरूपमात्रेण तदविवक्षितार्थं निःश्रेयसहेतुरिति पदार्थतत्वावगमकरणतया शास्त्रमपदिशति, न तु स्वरूपेण ।
तेन शास्त्रस्य निःश्रेयसे कर्तव्ये प्रमाणादितत्वावगमो ऽवान्तरव्यापार इतयुक्तं भवति ।
तथा च प्रमाणादिपदार्थतत्वं प्रतिपद्यम्, प्रतिपादकं च शास्त्रमिति शास्त्रप्रमाणादिपदार्थतत्वयोर्ज्ञाप्यज्ञापकभावश्च प्रमाणादिपदार्थतत्वज्ञाननिःश्रेयसयोः कार्यकारणभावलक्षणश्च सम्बन्धः सूचितो भवति ।
तदिदमभिघेयसम्बन्धप्रयोजनप्रतिपादनार्थत्वं प्रथमसूत्रस्य ।
पत्पदार्थतत्त्वज्ञानस्य च यथा निःश्रेयसाधिगमं प्रत्युपयोगः तथाग्रे निवेदयिष्यते ।
विनिश्चिताप्तभावश्च मुनेराप्तत्वेन तद्वाक्यात् प्रयोजनादि विनिश्चित्यप्रवर्त्स्यन्ति ।
आप्तत्वाविनिश्चये त्वर्थसंशयात् ।
न खलु कृष्यादावपि विरिश्चितसस्याद्यधिगमानां प्रवृत्तिः, अन्तरावग्रहादिप्रतिबन्धेन फलानुत्पादस्यापि न्यायप्राप्तत्वेन तदभिधानमनर्थकमिति साम्प्रतम्, विशेषस्मृत्यनपेक्षस्य संशयस्यानुत्पादात् ।
वाक्यात् तु विशेषस्मृतिरिति नानर्थक्यम् ॥
तदेवं प्रथमसूत्रतात्पर्यमुक्त्वा भाष्यस्यादिवाक्यतात्पर्यमाह-प्रमाणतो ऽर्थप्रतिपत्तावित्येवमादि तस्यानुसन्धानवाक्यम् ।
तस्य शास्त्रस्य निःश्रेयसाधिगमेन सह सूत्रेण घटितस्य ।
कुतश्चिन्निमित्ताद् विघटनशङ्कायाम् अनु सूत्रघटनायाः पश्चात् सन्धसनं घटनम् अनुसन्धानम्, तस्य वाक्यमनुसन्धानवाक्यमिति ॥
एवं किलात्र शङ्क्यते – यदशक्यानुष्ठानोपायोपदेशकं तदनर्थकम्, यथा ज्वहरतक्षकचूडारन्तालङ्कारोपदेशकं वचनम् ।
तादृशं चेद शास्त्रमिति ।
तथा हि प्रमेयादीनां तावत्पदार्थानां तत्त्वज्ञानं प्रमाणतत्त्वज्ञानाधीनम् ।
न हि प्रमाणं तत्त्वेनानवधारितं बोधकत्वमात्रण स्वगोचरावधारणायालं तावन्मात्रस्य तदाभाससाधारण्यात्, अपि तु बोध कत्वैकार्थ समवेतेनाव्यभिचारित्वेन ।
तदेव हि प्रमाण्यम् ।
तच्चाशक्यावधारणम् ।
तदनवधारणाच्च प्रमेयादयो दुरवधारणाः ।
तथा हि विज्ञानस्च तावत्प्रामाण्यं स्वतो वा निश्चीयते, परतो वा? न तावत् पूर्वः कल्पः ।
न खलु विज्ञानमानात्मसंवेदनमात्मानमपि गृह्णीयात्, प्रागव तत्प्रामाणण्यम् ।
नापि विज्ञानान्तरम्, तद्विज्ञानमित्यव गृह्णीयात्, न पुनरस्याव्यभिचारित्वेम् ।
ज्ञानत्वमात्रं च तदाभाससाधारणमिति न स्वतः प्रामाण्यावधारणम् ।
एतेन स्वसंवेदननये ऽपि अव्यभिचारग्रहणं प्रत्युक्तम् ।
नापि परतः ।
परं हि तद्गोचरं वा ज्ञानमभ्युपेयेत, अर्थक्रियानिर्भासं वा ज्ञानम्, तद्गोचरनान्तरीयकार्थान्तरदर्शनं वा ।
तच्च सर्वं स्वतो ऽनवधारितप्रामाण्यमाकुलं सत् कथं पूर्वं प्रवर्तकं ज्ञानमनाकुलयेत्? स्वतो वास्य प्रामाण्ये किमपराद्धं प्रवताकज्ञानेन येन तस्मिन्नपि तन्न स्यात् ।
न च प्रामाण्यं ज्ञायते स्वतः इत्यावेदितम् ।
यदा च संवेदनप्रामाण्यमक्तेन क्रमेण दुरधिगमं तदा कैव कथेन्द्रियादीनामव्यभिचारिसंवेदनकार्यव्यङ्ग्यप्रमाणभावानाम्?
तदेव दृष्टार्थाः प्रमाणभृतां व्यवहारा भवन्तु सन्देहादपि यथातथा, अदृष्टार्थास्तु बहुवित्तव्यायायाससाध्या वैदिका व्यवहारा दत्तजला।जलयः प्रसक्ताः ।
तस्मात् प्रमाणादिपदार्थतत्त्वज्ञापनद्वारेण न शास्त्रं निःश्रेयसेन सम्बध्यत इति ।
सेयमाशङ्का प्रामाण्यज्ञानोपायकथनेनादिवाक्येन भाष्यकृता निराकृता ।
तथा हि प्रमाणमर्थवदिति नित्ययोगे मतुप् ।
नित्यता चाव्यभिचारिता ।
तेनार्थाव्यभिचारीत्यर्थः ।
इयमेव चार्थाव्यभिचारिता प्रमाणस्य यद्देशकालनरावस्थान्तराविसंवादो ऽर्थस्वरूपप्रकारयोस्तदुपदर्शितयोः ।
अत्र हेतुः प्रवृत्तिसामर्थ्यात् समर्थप्रवृत्तिजनकत्वात् ।
यदि पुनरेतदर्थवन्नाभविष्यत्, न समर्थप्रवृत्तिमकरिश्यत्, यथा प्रमाणाभास इति व्यतिरेकी हेतुः ।
अन्वयव्यतिरेकी वा ।
अनुमानस्य स्वतः प्रमाणतया अन्वयस्यापि सम्भवात् ।
प्रवृत्तिजनकत्वं तु प्रमाणस्य न साक्षात्, किं त्वर्थप्रतिपत्तिजननद्वारेणेत्याह– प्रमाणतो ऽर्थग्रतिपत्ताविति ।
सर्वस्य चास्योपपत्तिं वार्त्तिकव्याख्यानावसरे निवेदयिष्यामः ॥
स्यादेतत् ।
भवन्तु प्रमाणादयः पदार्थाः शक्यज्ञानाः, शास्त्रेण तु ते नाभिधीयन्त इति न निःश्रेयसेन सङ्गतिः शास्त्रस्येत्वत आह–शास्त्रस्य पुरुषश्रेयो ऽभिधायकत्वात् ।
यद्यपि श्रेयो दुःखनिवृत्तिमात्यन्तिकीं वक्ष्यति, तथापि सोपायैव सा अत्र श्रेयःशब्देन विवक्षिता, तन्मात्रस्य शास्त्राविषयत्वात् ।
तदयमर्थः ।
शास्त्रं तावदेतत् पुरुषश्रेयः सहोपायेनाभिधत्त इत्यनुभवसिद्ध सदशक्यानुष्ठानतयापवदितव्यम् ।
सा चेदशक्यानुष्ठानतापनीता प्रमाणत इत्यादिना संहितं निःश्रेयसेन सह शास्त्रमिति ।
शास्त्रस्येत्यादि ग्रहणकवाक्यं विवृणोति–शास्त्रं पुनरित्यादिना उपभोगात् प्रक्षयेणेत्यन्तेन ।
प्रमाणादिवाचकपदग्रहणेन तल्लक्षणानि च तत्परीक्षाश्वोपलक्षयति ।
तथा च पञ्चाध्यायी शास्त्रमित्यङ्क्तमित्यविरोधः ।
पञ्चाध्याचीत्यनेन व्यूहः समूहिनामुचितानुपूर्वी ।
उपलक्षकपदस्वरूपमाह– पदं पुनरित ।
एमस्मृतिसमारूढा वर्णा एकार्थप्रतिपादनावच्छिन्नाः समूहः ।
एवं स्वार्थस्मृत्यवान्तरव्यापाराणां सूत्रपदानां नानापदार्थविशिष्टैकपदार्थरूपवाक्यार्थप्रत्यायनकार्यावच्छिन्नानां समूहो वेदितव्यः ।
एवं च क्वचित् केनचिदर्थेनैकेन सूत्रवाक्यानामेकवाक्यत्वं समूहः प्रकरणम् ।
प्रकरणानामपि कयाचित् स्वार्थसङ्गत्या समूह आह्निकम् ।
एवं तत्र तत्र वेदितव्यम् ।
एताश्च प्रकरणाह्निकाध्यायार्थसङ्गतीस्तत्र तत्र लेशतो दर्शयिष्यामः ॥
तदेवं शास्त्रस्वरूपं दर्ंशयित्वा नान्तरेण तदर्थकथनं पुरुषश्रेयो ऽभिधायकत्वमस्रू सिध्यितीति तदर्थं कथयति– तत्पदार्था इति ।
ननु प्रमाणादीनां प्रतिनरमानन्त्येन दुर्ज्ञानत्वमिति तदवस्थमेवानर्थक्यं शास्त्रस्य प्रसक्तमित्यत आह – षोडशात्मानः ।
आत्मा स्वभावः प्रमाणादीनां प्रमाणत्वादिसामान्यविशेष इति यावत् ।
एतदुक्तं भवति ।
आन्तर्गणिकभेदादानन्त्ये ऽपि स्वसामान्यविशेषैः सङ्गृहीता न दुर्ज्ञाना इति यतो ऽस्य पदार्थाः प्रमाणादयः, तत् तस्मात् शास्त्रं पुरुषश्रेयो ऽभिधत्ते ॥
स्यादेतत् ।
प्रमाणादयः पदार्थाः प्रामाणिका अप्रामाणिका वा? अप्रामाणिकत्वे कल्पनामात्रनिर्मिताः कथं निःश्रेयसाय कल्पन्ते? न य षोडशात्मानः कल्पनाः कोशस्यानन्तप्रसरत्वात् ।
प्रामाणिकत्वे वा प्रमाणादेव तत्सिद्धेः शास्त्रस्य वैयर्थ्यमित्यत आह–प्रत्यक्षेति ।
प्रत्यक्षानुमानाधिगतग्रहणेनाप्रामाणिकत्वं निषिद्धम् ।
अत एव वस्तुतत्त्वमिति ।
प्रमाणादयः पदार्था नोपमानविषया इति नोपमानमुपन्यस्तम् ।
यद्यपि प्रमेयमात्माद्यपवर्गान्तलक्षणमागमिकं तथाप्यागमस्याप्तप्रणेतृकतया तत्रापि मूलभूतमनुमानं प्रत्यक्षं वास्तीति प्रत्यक्षानुमाने एव दर्शिते ।
ननूक्तं प्रामाणिकत्वे शास्त्रवैयर्थ्यमित्यत आह– तस्य विषय इति ।
व्यवहरमाणा अपि प्रमाणैर्लौकिका वैनयिकबुद्धिविरहिणो नैतान् पदार्थान् विविञ्चते ।
अविविक्ताश्चेते न निःश्रेयसाय कल्पन्त इति अनधिगतेत्यङ्क्तम् ।
आध्यात्मिकी शक्तिः शुश्रूषादिः ।
पुरुषत्युक्तम् ।
तत्र विवक्षितं पुरुषविशेषं ग्रहीतुं सम्भविनः पुरुषप्रकारान् दर्शयति–पुरुषः पुनरिति ।
हेयं दर्शयति–तत्रेति ।
उपादेयानाह– इतर इति ।
अपेक्षा जिज्ञासा ।
सा सन्दिग्धस्य तावदस्ति विषयस्य ।
विप्रतिपन्नस्य तु साक्षिणां पुरतो जल्पवितण्डाभ्यां विष्यमाणस्य विगलिते ऽहङ्कारे सन्दिग्धस्य स।जातजिज्ञासस्य सापेक्षस्य सतः ।
अप्रतिपन्नस्यापि केनचित् प्रकारेण सन्देहमापाद्य सापेक्षीकृतस्य प्रतिपाद्यता ।
तदिदमुक्तक्–इतरे सापेक्षाः सन्तः प्रतिपाद्या इति ।
असन्दिग्धो ऽपि तत्त्वप्रतिपादनाय कारूणिकेन सन्दिगधः कृत्वा प्रतिपाद्यत इति ।
तत् किं सापेक्षमाधिकृत्य शास्त्रं प्रवृत्तम्? तथा च प्रमातणां न प्रमाणान्तरे प्रवृत्तिः स्यादित्यत आह– ते यदेति ।
कञ्चिद् विषयं जिज्ञासवो येदन्द्रियाद्यपेक्षन्ते, तदा प्रत्यक्षेण प्रतिपाद्याः ।
एवमुत्तरमपि योज्यम् ।
अयमभिसन्धिः, न दृष्टप्रयोजनोपयोगिवस्तुविज्ञासा इहापेक्षाभिमता, किं तु निःश्रेयसोपयोगिपदार्थजिज्ञासा ।
सा चास्मिन्नेव शास्त्रे प्रवृत्तिहेतुः नान्यत्र ।
तदिदमुक्तम्– यदा पुनरिति ।
परमपुरुषार्थयसधनं तु जिज्ञासव इति शेषः ।
इहाभिमतं श्रेयो निर्धारयितुं श्रेयोमात्रप्रमारान् आह–श्रेयः पुनः सुखमहितनिवृत्तिश्च ।
तत्राप्यवान्तरप्रकारानाह–तच्छ्रेयः सुखन्दुःखनिवृत्तिश्च भिद्यमानं द्विधा व्यवतिष्ठते ।
तदाह– दृष्टादृष्टभेदेन ।
न व्यासज्य किं तु प्रत्येकमित्याह– दृष्टं सुख स्त्रक्चन्दनवनितादिभोगजन्म ।
अदृष्टं सुखं स्वर्गादि ।
एवं च दुःखनिवृत्तिरपि श्रेयो दृष्टामदृष्टं चेति योजनीयं चकारलोपात् ।
अहितनिवृत्तेः श्रेयस आत्यन्तिकानात्यन्तिकत्वेन दृष्टादृष्टस्य भेदमाह–अहितनिवृत्तिरपीति ।
अभिमतं श्रेयो निर्धारयति–आत्यन्तिकीति ।
पुनरिति निर्धारणमवद्योतयति ।
आत्यन्तिकत्वं निर्वृत्तेर्निवृत्तस्य पुनरनुत्पादः ।
स च कार्यकारणतदनुषङ्गिनिवृत्त्या लक्ष्यते ।
न ह्यकारणं कार्यं जायते ।
तदिदमुक्तम्– एकविंशतिप्रभदभिन्दुःखहान्येति ।
गौणमुख्यभेदेन चैकविंशतेः शरीरदीनां दुःखत्वप्रकारानाह–एवविंशतीति ।
षष्ठमिन्द्रियं मनः ।
तस्य विषय इच्छाद्वेषप्रयत्नाः ।
यद्यपि विषयः शरीरमपि तथाप्यन्यथास्य दुःखहेतुभाव इत्याह शरीरमिति शरीरावच्छिन्न आत्मप्रदेशो दुःखायतनमिति शरीरं दुःखायतनमुक्तम् ।
इन्द्रियविषयबुद्धदीनां दुःखत्वोपचारे कारणमाह–इन्द्रियाणीति ।
तत्रेन्द्रियाणि तावद् गन्धादिविषयबोधनात्, विषया बोध्यत्वात् ।
बुद्धयस्तु साक्षाद् दुःखसाधनानीति दुःखत्वेनोपचर्यन्ते ।
सङ्खस्य दुःखत्वोपचारबीजमाह–सुखमिति ।
साधनपारतन्त्यं क्षयित्वं काम इति दुःखहेतवः सकलसुखानसङ्गिनः, तस्मात् सुखमपि दुःखानुषङ्गि ।
उक्तप्रकारदुःखहानसाधनमाह–तस्य हानिरिति ।
संशयादितत्त्वज्ञानपरिशोधितपरमन्यायमार्गः खलु हेयोपादेयभूतद्वादशविधप्रमेयतत्त्वपरिभावनभवा प्रसङ्ख्यानेन निर्मृष्टनिखिलप्रवृत्तिहेतुदोषानुषङ्गो ऽप्रवर्तमानो न शरीरेन्द्रियादिहेतुमपूर्वधर्माधर्मप्रचयमातनोति ।
अनादि भवपरम्परोपत्तं च धर्माधर्मप्रचयमनन्तमप्यनियतविपाकसमयमपि प्रसङ्ख्यानपरिपाकप्रभावात् परितस्तत्तदुपभोगभागिनः कायान् निर्माय तत्त्त्फलोपभागात् प्रक्षिणोति ।
अचिन्त्यसामर्थ्यातिशयो हि समाधिः ।
यथाहुरत्रभवन्तः,
को हि योगप्रभावादृते अगस्त्य इच समुद्रं पिबति, स इव च दण्डकारण्यं सृजति?
# योगभाष्ये # ८।१०
इति ।
सेयमात्यन्तिकी दुःखनिवृत्तिः श्रेयः ।
तदिदमुक्तम्–शास्त्रस्य पुरुषश्रेयो ऽभिधायकत्वादिति ॥
स्यादेतत् ।
केवलस्य दुःखस्यात्यन्तिकी निवृत्तिः श्रेयः पुयषप्रवृत्त्यङ्गम् ।
इयं तु दुःखवत् सुखस्याप्यात्यन्तिकी निवृत्तिरिति कथं श्रेयः, कथं च प्रेक्षावत्प्रवृत्त्यङ्गमित्यत आह–पुरुषा रागादिमन्त इति ।
यद्यपि रागादिमता पुथग्जनानामेतन्न प्रवृत्त्यङ्गम्, ते हि मधुविषसम्पृक्तमप्यन्नं मधुरतया आपातरमणीयं विषविङ्गत्तु मारयतु मा व मीमरदुपयु।ज्महे तावदापातसुखम्, को हि हस्तगतं पादगतं करोतीति विचिन्त्योपभु।जते ।
विवेकिनस्तु आयतिमालोचयन्तः स्वर्गमपि कुपितफणिफणामण्डलच्छायप्रतिम इत्यपजहति ।
तेन मा भूदेतद् रागादिमतां प्रवृत्त्यङ्गम्, विवेकिनां तु भविष्यति ।
अविवेकिनामपि चाप्रतिपन्नविप्रतिपन्नानां विवेकाधानोपयः पूर्वमावेदितः ।
शास्त्रप्रवृत्त्यङ्गमात्रमेव चेह विवेको वैराग्यमभिमतमिति ।
प्रवृत्तेर्द्वैविध्यम् ऐकरूप्यं द्वैरूप्यं च ।
पुरुषभेदो रागवैराग्याभ्याम्, प्राप्तव्यस्य सर्वस्य सुखस्य दुःखसम्भेदेनानिष्टपक्षनिक्षेपादनिष्टप्रतिषेधार्थैव प्रवृत्तिर्विवेकिनामेकरूपैव ।
अविवेकिनां तु प्रवृत्तिर्द्विरूपेत्युक्तम् ॥
तदनेन प्रपञ्चेन प्रमाणतो ऽर्थप्रतिपत्तवित्यादिवाक्यस्य तात्पर्यमभिधाय तदवयवं प्रवृत्तिसामर्थ्यादिति विवरीतुं भूमिमारचयति–प्रवृत्तेरपीति ।
दृष्टं प्रवृत्तिसामर्थ्यं हेतुरिति रागादिमत्प्रवृत्तिसामर्थ्यमुपन्यस्तम्, न तु वीतरागानाम्।न हि तत्प्रवृत्तेर्निः- श्रेयसाध्गिमलक्षणफलसम्बन्धो दृष्टो निःश्रेयसस्यालौकिकत्वात् ।
प्रमाणस्यार्थवदनर्थकत्वाद् इत्ययुक्तम्, प्रमाणमनर्थकमिति हि विप्रतिषिद्धमित्यत आह– प्रमाणं तावदिति ।
न ह्यप्रमाणमप्रमाणमिति गृहीतं प्रवृत्त्यै कल्पते ।
किं तर्हि? प्रमाणमिति ।
न चाप्रमाणे प्रमाणाभिमानो विना प्रमाणादिसाधर्म्यादिति तत्साधर्म्यं पृच्छति–किं पुनरिति ।
उत्तरम्–सामान्यपरिच्छेदकत्वम् ।
तद्विवृणेति–प्रमाणेनापीति ।
रजतविज्ञानमपि पुरोवर्ति शुक्लभास्वरं सद्द्रव्यं परिच्छिनत्ति, शुक्तिकाज्ञानमपि ।
केवलमेकस्मिन्नव विषये रजतसमारोपापवादाभ्यां बुद्धचोर्वाधकभाव इति भावः ।
तदेवमुभयतः प्रवृत्तिः समर्थात् प्रमाणादेव, नाप्रमाणादर्थव्यभिचारिण इत्याह–सो ऽयं प्रमातेति ।
ततश्च सिद्धः समर्थायाः प्रवृत्तेरनर्थवद्वचतिरेक इत्यभिसन्धिः ।
तथा च समर्था प्रवृत्तिरनर्थवद्वचतिरेकसम्पन्नप्रमाणस्यार्थवत्त्वे हेतुरित्याह–तस्याः समर्थायाः प्रवृत्तेर्हेतोः पुनः प्रमाणस्यार्थवत्त्वमर्थाव्यभिचारित्वम् ।
असमर्था त्वनन्तरापि न सम्बध्यते योगयताविरहात् ॥
सम्प्रत्यादिवाक्यमाक्षेप्तुमनुवदति– प्रमाणत इति ।
आक्षिपति–परस्परेति ।
समाधत्ते–नेति ।
आक्षेपवाक्यं विभजते–यदि प्रमाणत इति ।
न तावदर्थप्रतिपत्तिः प्रवृत्तिहेतुरपि तु तद्विनिश्चयः ।
न च तन्मात्रम्, अपि तु तदर्थजातीयस्य श्रेयोहेतुतामसकृदुपलभ्य सम्प्रत्युपलभ्यमानस्यार्थस्य तज्जातीयतया श्रेयोहेतुभावानुमानसहितो विनिश्चयः प्रवृत्तिहेतुः ।
सेयं श्रेयःसाधनतानुमानसहिता प्रमाणतो ऽर्थप्रतिपत्तिर्विनिश्चतिः समर्थप्रवृत्तिनिमित्तमुक्ता ।
न चार्थविनश्चयः प्रामाण्यावधारणमन्तरेण, प्रामाण्यावधारणं च श्रेयोहेतुतानुमाननिमित्तव्याप्तिग्रहणं च न समर्थां प्रवृत्तिं विना, न च समर्था प्रवृत्तिस्ताभ्यां विवनेति परस्पराश्रयता ।
तदिदमुक्तम्, चदि पूर्वं प्रमाणतो ऽर्थप्रतिपत्तिः र्विनिश्चितिरपेक्षितोपयतानुमानसहिता प्रवृत्तिसमार्थ्यमन्तरेण किमिति प्रतिपद्यते निश्चिनोति अपेक्षितोपाय एवेति च तोयमेवेति चेति? समाधानं विभजते–तच्च नैवमिति ।
यत् तावदुक्तम्, प्रमाणस्य दुरवधारणत्वादर्थविनिश्चयाभावान्न प्रवृत्तिसामर्थ्यमिति, तत्र ब्रूमः–सत्यम्, न स्वतः प्रामाण्यं शक्यावधारणम् ।
परतस्तु दृष्टार्थेष्वनभ्यासदशापन्नेषु प्रवृत्तिसामथ्यदिव तद् गम्यते ।
अर्थप्रतीत्यधीना तु प्रवृत्तिर्नार्थावधारणाधीना, अर्थसन्देहादपि प्रेक्षावतां प्रवृत्तेः ।
नो खलूपायताविनश्चयेनापि प्रवर्तमाना न अनागतफले सन्दिहते ।
तदमी सन्दिहाना अपि प्रवर्तमानाः प्रवृत्तिसमार्थ्यात् प्रमाणस्य तत्त्वं विनिश्चत्य तज्जातीयस्यान्यस्याभ्यासदशपन्नस्य प्रवृत्तिसमार्थ्यात् प्रागेव तज्जातीयत्वेन लिङ्गेन प्रामाझयावधारणात् अर्थविनिश्चयेन प्रवर्तन्ते ।
एवं च दृष्टार्थमन्त्रायुर्वेदप्रामाण्यं प्रवृत्तिसामर्थ्येनावधार्य तज्जातीयस्याप्तोक्तस्यादृष्टार्थस्य वेदस्य विनापि प्रवृत्तिसामर्थ्यं प्रामाण्यावधारणमाप्तोक्तत्वेन निवेदयिष्यते ।
न च फलज्ञानं परीक्ष्यते प्रेक्षावद्धिः, तस्य यादृशतादृशस्यापीष्टत्वादिष्टलक्षणत्वाच्च फलस्य तत्साधनत्वं ते परीक्षन्ते ।
तथा हि तोयज्ञानम्, पिपासोस्तत्र प्रवृत्तिः, प्रवृत्तस्य तदाप्तिः, आप्तस्य पानम्, पानेन चोदन्योपशान्तिरित्येतावतैव प्रमाता कृती भवति, न पुनरुदन्योपशममपि परीक्षते, तस्य यादृशतादृशस्यापीष्टत्वादिति केचित् ।
वयं तु ब्रूमः, फलज्ञानमप्यभ्यासदशापन्नतया तज्जातीयत्वेन लिङ्गेनावधृताव्यभिचारमेव ।
एवं तत्पूर्वं तत्पूर्वतरं तत्पूर्वतममिति ।
न च सम्प्रतितनस्य फलज्ञानस्य प्रामाण्यावधारणायेदानीमेव पूर्वस्य फलज्ञानस्य तज्जातीयत्वेन प्रमाण्यावधारणे सत्यनवस्थेति ।
वाच्यम् ।
पूर्वतरसाधर्म्येण पूर्वमेव पूर्वस्यावधृतप्रामाण्यत्वात् ।
एवं पूर्वतमसाधर्म्येण पूर्वतरस्य ।
एवं तत्पूर्वसाधर्म्येण पूर्वतमस्येत्यनादितयैवात्र परिहारः ।
एतेषु च मध्ये यत्फलज्ञानं स्वप्नाद्युपभोगतुल्यतया शङ्कितव्यभिचारं तदनभ्यासदशापन्नम् ।
अतः प्रवृत्तिसामर्थ्यं तत्र प्रामाण्यावधारणाय विनिवशनीयमित्यर्थप्रतिपत्तिप्रवृत्तिसामर्थ्ययोरनादित्वमुक्तम् ।
अनुमानस्य तु प्रवृत्तिसामर्थ्यलिङ्गजन्मनो ऽन्यस्य वा निरस्तसमस्तव्यभिचारशङ्कस्य स्वत एव प्रामाण्यमनुमेयाव्यभिचारिलिङ्गसमुत्थत्वात् ।
न हि लिङ्गाकार ज्ञानं लिङ्गं विना, न च लिङ्गं लिङ्गिनं विनेति स्वत एव गृहीताव्यभिचालिङ्गसमुत्थं निष्कम्पमुपपद्यते ज्ञानम् ।
प्रत्यक्षज्ञानं त्वर्थादुत्पद्यमानमपि न गृहीताव्यभिचारात्, अपि तु सत्तामात्रेणावस्थितात् ।
न च कारणान्तराण्यपीन्द्रियादीनि अस्यार्थेन गृहीताव्यभिचाराणि न चार्थेनाव्यभिचाराणि ।
शाब्दं तु ज्ञानु नार्थादुत्पद्यते,
तदभावे ऽपि सति शब्दे भावात् ।
नापि लिङ्गस्येव शब्दस्यार्थाव्यभिचारः, किं तु सङ्केतग्रहणमात्रात् पदार्थप्रत्यायनेन वाक्यार्थमधिगमयति शब्दः ।
तस्मात् प्रत्यक्षशाब्दविज्ञानयोर्न स्वतो ऽव्यभिचारग्रह इति ।
प्रवृत्तिसामर्थ्यं तज्जातीयत्वं वा लिङ्गमर्थाव्यभिचारायानुसरणीयम्, ज्ञानगततज्जातीयत्वलिङ्गग्राहिणश्च ज्ञानस्य मानसप्रत्यक्षस्य तादृशस्यादृष्टव्यभिचारतया परितो निरस्तसमस्तविभ्रमाशङ्कस्य स्वतः प्रामाण्यमिति नानवस्था ।
ऐतेनोपमानं व्याख्यातम् ।
संवेदनस्य चार्थावरुभिचारिताकथनेन तत्कारणानामिन्द्रियादीनामपि प्रमाणत्वमक्तं वेदितव्यम् ।
न ह्यव्यभिचारिविज्ञानजनकत्वादन्यदेषां प्रामाण्यम् ।
न चार्थव्यभिचारिणामिन्द्रियादीनां कथमर्थाव्यभिचारिविज्ञानजनकत्वमिति साम्प्रतम्, कारणस्वभानियोगपर्यनुयोगयोरशक्यत्वात् ।
तस्मादर्थसन्देहादनभ्यासदशापन्नात् प्रमाणता ऽर्थप्रतिपत्तौ प्रवृत्तिसमार्थ्यसम्भवात् प्रवृत्तिसमार्थ्यज्ञानस्य चाभ्यासदशापन्नस्य तज्जातीयत्वेन प्रामाण्यानुमानादनभ्यासदशापन्नस्य तु प्रवृत्तिसामर्थ्यान्तरज्ञानेन प्रामाण्यानुमानादनादित्वान्नार्थप्रतिप्रवृत्तिसामर्थ्ययोः परस्पराश्रयत्वमस्तीति ।
अर्थस्यापेक्षितोपायतानुमानप्रवृत्तिसामर्थ्ययोः परस्परापेक्षत्वमवशिष्यते ।
तत्राप्यनादितापरिहारः ।
उत्पन्नमात्रकस्य हि बालकस्य स्तनं दृष्ट्वा प्राग्भवीयस्तज्जातीयापेक्षितानुभवजनितः संस्कार आविरस्ति ।
ततश्च स्मरणम् ।
ततो ऽपेक्षितोपायतानुमानम् ।
ततः प्रवृत्तिः ।
ततस्तस्याः सामर्थ्यम् ।
एवं पूर्वस्मिन् पूर्वस्मिन् जन्मनीत्यनादितया न बीजाङ्कुरवत् परस्परापेक्षितेति ।
अर्थप्रतिपत्तिरिति ।
अर्थप्रतिपत्तिश्वार्थस्यापेक्षितोपायताप्रतिपत्तिश्चेत्यर्थः ।
तस्मात् सर्वमवदातम् ॥
तदनेनोक्तेन क्रमेण प्रमाणतो ऽर्थप्रतिपतावित्यस्य शास्त्रानुसन्धानवाक्यत्व तात्पर्यं च समाहितम् ।
इदानीमस्यैव तात्पर्यान्तरमाह–प्रमाणप्रवृत्योर्वेति ।
तत्रेदममाशाङ्क्यते मुनिर्हि प्रत्यक्षसंशयादिव्युत्पादनद्वारेण साक्षाच्चानेन शास्त्रेणान्वीक्षिक्पा हेयोपादेयभावावस्थितद्वादशविधप्रमेयव्युत्पादकं न्यायमनुमानपरनामानं निःश्रेयससिद्धये व्युत्पादयाम्बभूव ।
न च न्यायतः प्रमाणात् प्रमेयतत्त्वनिश्चयमात्रान्निःश्रेयसाधिगमः ।
अपि त्वाद्यन्तवर्ज्जं दशानां प्रमेयाणां दुःखसञ्ज्ञाभावनम्, आत्मनश्च याथात्म्यभावनमित्यादिभ्यः प्रवृत्तिभ्य आत्मतत्त्वसाक्षात्कारवैराग्यपरिपाकक्रमेणापूर्वयोर्धर्माधर्मयोरनुत्पादेनोत्पन्नयोश्वोपभोगात् ।
प्रक्षयेणेति ।
तथा च निःश्रेयसं प्रत्यन्तरङ्गत्वात् प्रमाणान्न्यायात् प्रवृत्तिरेव बलीयसी, न न्यायः ।
तस्मात् प्रवृत्तिरेव व्युत्पादनीया न प्रमाणं निःश्रेयसहेतुरपि प्रवृत्तेरन्तरङ्गत्वात् ।
तत्रेदभुपतिष्ठते प्रमाणतो ऽर्थप्रतिपत्तौ सत्या प्रवृत्तेः समार्थ्यं फलेनाभिसम्बन्धो, न तु प्रमाणतो ऽसत्यार्थप्रतिपत्तौ ।
तस्मादर्थवत् प्रयोजनवत् प्रमाणमपि प्रवृत्तिवदेव ।
एतदुक्तं भवति, यथान्तरङ्गतया प्रवृत्तिर्बलीयसी एवं मूलकारणतया प्रमाणमपि ।
न ह्यप्रमाणात् प्रवृत्तिः फलेनाभिसम्बध्यते ।
तस्मात् तुल्यमुभयमपि ।
तथापि प्रमाणव्युत्पादनेन प्रवृत्तिरपि व्युत्पादिता भवतीति प्रमाणस्य व्युत्पादनमकारि शास्त्रेण, न तु प्रवृत्तेः ।
सामान्याभिधानं च परमन्यायपरम्, तस्यैव प्रकृतत्वादिति ।
प्रामाण्यज्ञानोपायप्रतिपादनपरतयानुसन्धानवक्यत्वमस्य पूर्वमुक्तम् ।
सम्प्रति परपर्यनुयोगमुखेनास्यानुसन्धानवाक्यत्वु प्रतिपादयति– लोकवृत्तेति ।
यथा हि प्रमाणप्रतिपत्त्युपायं प्रत्याचक्षाणक एवं प्रष्टाव्यो जायते, किं भवान् प्रमाणेन प्रमाणज्ञानोपायं प्रत्याचष्टे, अप्रमाणेन वेति? यदि ब्रूयात् प्रमाणेनेति, स प्रतिवक्तव्यः, प्रमाणज्ञानोपायमविद्वान् कथं भवानेवमाहेति? अप्रमाणेनेति चेदनुज्ञया वर्तितव्यम् ।
अथ प्रमाणेनागृहीतप्रामाण्येनेति, वा।मनसयोर्विसंवादः ।
तस्मादनिच्छतापि त्वया लोकवृत्तमनुसरणीयम् ।
अन्यथा नासि लौकिको न परीक्षक इत्युन्मत्तवदुपेक्षणीयः स्या इति ।
तदिदं लोकवृत्तमाक्षेप्तारं बोधयितुमनेन भाष्येणानूद्यते प्रमाणतो ऽर्थप्रतिपतौ प्रवृत्तिसामर्थ्यावत् प्रमाण यतो ऽतः सर्वः प्रमाता प्रमाणेनावगतार्थवत्त्वेनार्थमवधार्य प्रवर्तमानः फलमुपलभत इति लोकवृत्तम् ।
तत् प्रमाणत इत्यादिना वाक्येन कारणप्रदर्शनद्वारेणानूद्यते ॥
अस्यैव भाष्यस्य तात्पर्यान्तरं वक्तु भूमिमारचयति–हेयहानेति ।
अर्थो ऽर्थशब्दः प्रमाणतो ऽर्थप्रतिपत्तावित्यत्र स्थितः पदं वायकं येषां तानि तथा ।
एतद्वात्तिकग्रन्थस्यैतादृशंव्याख्यानम्, भाष्यगतस्य त्वन्यथा भविष्यति ।
उपायः शास्त्रमिति ।
शास्त्रशब्दस्तदर्थपरः, अर्थस्यापि शब्दवच्छास्त्रशरीरत्वात् ।
अत्र च हेयहानाधिगन्तव्यपदैः प्रमाणप्रमेययोरूपादानाद् गोबलीवर्दन्यायेन संशयादिषु निग्रहस्थानान्तेषु शास्त्रपदं प्रवर्तते ।
तेनोपायपदेन संशयादयो निग्रहस्थानान्तो एवोक्ता इति ।
ग्रहणकवाक्यं विवृणेति–हेयमिति ।
तात्पर्यमाह–एतस्मिंश्चेति ।
चेन प्रमाणप्रमाप्रमातृप्रमेयरूपं चतुर्वर्गान्तरमपि सूचयति ।
तत्र हेयादिचतुर्वर्गे चार्यमाणतयार्थपदसूचिते प्रमाणादिचतुर्वर्गे च प्रमाणस्य प्राधान्यप्रदर्शनार्थमिदं भाष्यम् ।
यद्यपि चतुर्वर्गद्वयतत्त्वावगमो निःश्रेयसाधिगमहेतुः, तथापि प्रमाणमेव प्रधानम्, तन्मूलत्वादितरसिद्धेः ।
तदिदमुक्तम्, अर्थवदिति ।
अतिशायने मतुप् ।
प्रमात्राद्यपेक्षया हेयाद्येपक्षया चातिशयेन प्रयोजनवत् प्रमाणम् ।
कस्मात्? प्रमाणतो ऽर्थप्रतिपत्तौ सत्यां प्रवृत्तस्य प्रमातुस्तदितरप्रतिलम्भात् ।
प्रमायाश्च तत्कार्यत्वात् ।
तदिदमुक्तम्–प्रवृत्तिसामर्थ्यादिति ।
तदेतस्मात् प्राधान्याद् विवक्षाभेदेन त्रिवर्गद्वयात् प्रागुद्देशः प्रमाणस्येति ।
एतेन यदाहुरेके यदि प्राधान्यात् प्राथम्यं तत् प्रमेयस्यैव, अथोषायत्वात् तत् संशयादीनाम्,
तेषां प्रमाणोपायत्वात्, कस्माच्च प्रमात्रादिभ्यः प्राथम्यं प्रमाणस्येति? तन्निरस्तं भवति, प्रमाणोपायानामपि संशयादीनां प्रमाणाधीनत्वादिति ।
नन्ववगतम्, अर्थपदतया हेयादिचतुर्वर्गो दर्शित इतिः, प्रमाणादिचतुर्वर्गस्तु कथं प्रदर्शित इति पृच्छति–कथं पुनरिति ।
उत्तरं प्रमाणग्रमेयाधिगतय इति ॥
तदेवं तात्पर्यं व्याख्यायावयवार्थं व्याख्यातुमुपक्रमते–तदिदं वाक्यामवयवश उपन्यस्य वर्ण्यते व्याख्यायते ऽवयवश इति ।
तत्रास्यावयवेषु व्याख्यातव्येषु प्राथम्यात् प्रमाणत इति विवृणोति–तत्रेति ।
विभजते-प्रमाणत इतीयं निमित्तपञ्चमी ।
निमित्तपञ्चमी चेत् कस्मात् प्रमाणादिति नाभिहितमित्यत आह– अस्येति ।
प्रमाणत इत्येवंरूपस्याभिधानं वचनव्याप्त्यर्थं विभक्तिव्याप्त्यर्थं चेति ।
वचनव्याप्त्यर्थमिति मृश्यामहे, न तु विभक्तिव्याप्त्यर्थमिति, पञ्चमीव्यतिरेकेण तसेरभावादित्याह—-कथं पुनरिति? परिहरति–लभ्यत इति ।
व्याप्तेः प्रयोजनं पृच्छति-किं सिद्धं भवतीति ।
उत्तरं-वचनव्याप्त्या सम्प्लवो व्यवस्था च ।
तदुभयं विभजते–प्रमाणेनेति ।
यत्र द्वयोर्बहूनां वा सम्पल्वः प्रमाणानां तत्रैकैकस्याप्यस्ति प्रतिपत्तिसाधनत्वं प्रमाणस्येति कथयितुं सम्प्लवावसरे ऽपि प्रमाणेनेत्यङ्क्तम् ।
अत एव व्यवस्थायामेवकारः प्रमाणेनैवेति ।
विभक्तिव्याप्तेः प्रयोजनमाहविभक्तिवयाप्त्या हेततुकरणभावः ।
गम्यते इत्यनुषज्यते ।
तद्विभजते-प्रमाणादर्थाधिगतिर्भवतीति हेतुत्वं गम्यते ।
प्रमाणेनार्थाधिगतिर्भवतीति करणरूपो ऽर्थो गम्यत इति सम्बन्धः ।
कस्मात् पुनः करणार्थो गम्यत इत्यत आह–प्रमाणेनेति ।
अर्थमर्थाधिगति साधयतीति साधकतमत्वात् ।
अत्र च करणभावनान्तरीयकस्य हेतुभावस्य पञ्चम्य अभिधानं प्रमाणफलयोस्तादात्म्यप्रतिषेधार्थम्, भेदाधिष्ठानत्वाद्धेतुफलभावस्य, न खलु परशुरेव च्छिदेति ।
प्रमाणप्रातिपदिकलब्धकरणत्वानुवादश्च प्रमाकारकान्तरेभ्यो ऽभ्यर्हितत्वेनास्य व्युत्पाद्यत्वं च प्राथम्यं च युक्तमिति दर्शयितुं सम्प्लवमाक्षिपति–सम्प्लवेति ।
समाधत्ते–नेति ।
आक्षेपु विभजते–स्यान्मतिरिति ।
विशिष्टो भिन्नो विषयो येषां तानि तथा ।
बहुवचनमान्तर्गणिकभेदाभिप्रायम् ।
अर्थसामर्थ्यसमुत्थं हि प्रत्यक्षमर्थगोचरम् ।
स एवार्थः प्रत्यक्षगोचरो यो ज्ञानप्रतिभासमात्मनो ऽन्वयव्यतिरेकावनुकारयति ।
न च सामान्यं निरस्तसमस्तार्थक्रियासामर्थ्यमेवं भवितुमर्हति ।
स्वलक्षणं तु स्यात ।
तदेव हि परमार्थसत्, अर्थक्रियासामर्थ्यलक्षणत्वाद् वस्तुनः ।
एतदेवास्य स्वमसाधारणं लक्षणं यद्देशतो ऽननुगमेनादेशात्मकस्य परमाणुत्वम्, कालतो ऽननुगमेन च क्षणिकत्वम् ।
तस्मात् स्वलक्षणविषयं प्रत्यक्षम् ।
न च स्वलक्षणमनुमानस्यापि गोचरः ।
तद्धि गृहीतप्रतिबन्धलिङ्गहेतुकम् ।
प्रतिबन्णश्च तादात्म्यतदुत्पत्तिलक्षणः स्वलक्षणविषयो ऽशक्यग्रह इति सामान्यधर्मावाश्रयते ।
न च सामान्यमेकमनेकदेशकालावस्थासंसर्गि भवितुमर्हति ।
तदिदमनादिवासनोद्भूतविकल्पधिष्ठानं विकल्पाकारस्य वा अलीकस्य वा बाह्यत्वमनुमानगाचरो ऽभ्युपेयम् ।
तच्च भावाभावसाधारण्याच्च बाह्यसादृश्यच्च नियतप्रतिभासत्वाच्चान्यव्यावृत्तिनिष्ठम् ।
यत् खलु भावाभावसाधारणम्, तदन्यव्यावृत्तिनिष्ठमेव यथा अमूर्तत्वम् ।
तद् विज्ञानादौ भावे शशविषाणादौ चाभावे साधारणम् ।
भावाभावसाधारणश्च विकल्पगोचरो ऽस्ति घटो नास्ति घट इति ।
यदि पुनरसाधारणो भावो भवेद् अस्तिशब्दो न प्रयुज्येत, पुनरुक्तत्वात् ।
नास्तीयपि न वक्तव्यं विरोधात्, एवमभावासाधारण्ये ऽपि वाच्यम् ।
न चालीकस्य सर्वसामर्थ्यविरहिणः परमार्थसत्ता स्वलक्षणेन सादृश्यं मन्यते ऽन्यव्यावृतेः ।
न च गौरिति नियतौ बुद्धिव्यपदेशौ विनाश्चादिव्यावृत्तिम् ।
तस्मात् सामान्यमन्यव्यावृत्तिरूपमबाह्यं बाह्यभेदाग्रहाद् बाह्यत्वेनावगाह्यमानमनुमानं बाह्यो प्रवर्तयति ।
पारम्पर्येण च बाह्यप्रतिबन्धाद् बाह्यं प्रापयत् संवादकं सद् भ्रान्तमपि प्रमात्राशयवशात् प्रमाणम् ।
तदस्य न स्वलक्षणं गोचरः ।
प्रत्यक्षमपित न सामान्यगोचरमित्यावेदितम् ।
न चाभ्यामन्यत् प्रमाणमस्ति, प्रमाणस्य सतो ऽत्रैवान्तर्भावात्, अनन्तर्भावे वा प्रमाणत्वानुपपत्तः ।
न च सामान्यविशेषाभ्यामन्यदस्ति प्रमेयान्तरं यत्रैते तत् सम्प्लोष्येते इत्यर्थः ॥
समाधानवाक्यं विवृणोति–एतच्च नेति ।
यथा चैतत् तथा तत्र तत्र निवेदयिष्यते ।
विशेषो व्यवच्छेदकः ।
स च वक्रकोटरादिरन्त्यश्च ।
व्यवस्थासङ्करोदाहरणान्याह–इन्द्रियवदिति ।
सम्प्लवममृष्यमाण आह–अधिगतत्वादिति ।
समाधत्तेनान्यथेति ।
आक्षेपं विवृणोति–यदीति ॥
स्यादेतत् ।
नास्ति वैयर्थ्यमधिगतीनामाशुतरविनाशितया तद्गोचराधिगत्यन्तरोत्पादं प्रति प्रमाणान्तरस्यार्थवत्त्वादित्यत आह–अधिगतं चार्थमधिगमयता प्रमाणेनेति ।
यद्यप्यधिगतय आशुतरविनाशिन्यः,
तथाप्येकतरप्रमाणजनितार्थाधिगलिब्धजन्मनः संस्कारादेव स्थायिनस्तदर्थस्मृतिसन्ततिसम्भावाद् अधिगमर्थमधिगमयता प्रमाणेन पिष्टं पिष्टं स्यादिति ।
समाधिवाक्यं विवरीतुमनुवदति–नान्यथेति ।
विवृणोति–न ब्रूम इति ।
अयमभिसन्धि, न हि प्रमाणकारणानि प्रेक्षावन्तिः, येनैवमालोचयेयुः–जनितमेव प्रमाणमन्यमेनास्मासु, वयमिहोदास्मह इति ।
नापि स्वकारणबललब्धजन्मानि प्रमाणानि दिर्शितो ऽयमर्थो ऽन्यतमेन चास्मासु प्रमाणेन, कृतमस्माभिरिति विरन्तुमर्हन्ति ।
प्रमातुश्चेतनत्वादयमनयोग इति चेत्–न, प्रियतमस्य वस्तुनो ऽनेन भूयो भूयः प्रमित्सितत्वात् ।
अप्रमित्सितस्यापि च दुर्जनवचनादेः प्रमेयस्यानेन प्रमीयमाणत्वात् ।
तस्मान्न प्रमात्रभिसन्धानात् प्रमाणस्य प्रवृत्तिरप्रवृत्तिर्वार्थे, किं तु समार्थ्योत् ।
अन्यथाग्निदाहादिदुःखस्याप्रत्यक्षत्वप्रसङ्गः ॥
चत्तु प्रमाणं प्रमित्साधीनप्रवृत्ति तद्यदि प्रमाता न व्यापारयेत् किमायातं प्रमाणस्य? न हि तोयमपि पिपासुना न पीयत इति तस्य पिपासोपशमनशक्तिरपीति ।
तस्मात् प्रत्युत्पन्नकारणसामग्रीजनिता बुद्धिः प्रमा ।
तज्जनकानि च प्रमाणानि समानविषयाण्यपि ।
स एव चानेन सामग्रीभेदः प्रदर्शितः अन्यथा प्रत्यक्षेणेत्यादिना ।
यद्यपि साक्षात्कारासाक्षात्कारादिरपि प्रकारभेदो ऽस्ति, तथाप्यसौ प्रकृतानुपयोगान्नोक्तः ।
यदि च द्रव्यं त्वचा गृहीतमिति कृतं चक्षुषा, चक्षुषा वा गृहीतमिति कृतं त्वचेत्युच्येत, न रूपविज्ञानं वा स्पर्शविज्ञानं वोपजायेत ।
तदर्थं चक्षुर्वा त्वग्वाम्युपेतव्यम् ।
तथा च सम्प्लववैयर्थ्ये ऽपि व्यवस्थायां न वैयर्थ्यमित्याह–विषयान्तर इति ।
प्रकृतमुपसंहरतितस्मादिति ॥
विभक्त्यर्थं निरूप्य प्रातिपदिकार्थनिरूपणमवतारयति–प्रमाणेति ।
अत्र चावधार्यते ऽनेनेत्यवधारणं विचार इति ।
विचारणाय भावभवितारौ पृच्छति– किं पुनरिति ।
केचिदाहुः, अनधिगतार्थगन्तृ प्रमाणमिति ।
विषयसारूप्यं साकारस्य विज्ञानस्येत्यन्ते ।
विज्ञानस्यैवानाकारस्यात्मानामप्रकाशनसामर्थ्यमित्यपरे ।
उपलब्धिसाधनमिति वृद्धाः ।
तस्माद् विप्रपित्तेः संशयात् प्रश्र्नः ।
भावप्रश्र्नव्याख्यानेन भवितृश्नो वयाख्यातः ।
उत्तरम्–उपलब्धिहेतुः प्रमाणम् ।
न च संशयविपर्यासरूपोपलब्धिकारणयोः प्रसग्डः, अर्थवदित्यधिकारत्, तयोश्वेपदर्शितार्थव्यभिचारेणानर्थवत्त्वात् ।
नो खलु विकल्पयमानं वस्त्वस्ति, अर्थक्रियासु वोपयुज्यते ॥
स्यादेतत् ।
स्मृतिहेतोरपि प्रामाण्यप्रसङ्गः ।
न ह्यसौ नोपलब्धिहेतुः ।
न चार्थसहकारि प्रमाणमिति संस्कारस्यार्थसहकारिताविरहादप्रामाण्यमिति साम्प्रतम्, नदीपूरस्य पिपीलिकाण्डसञ्चरणस्य चातीतानागतवर्षलिङ्गस्य, शब्दस्यातीतानागतगोचरस्यार्थसहकारिताविरहिणश्चप्रमाणत्वप्रसङ्गात् ।
ज्ञापकत्वेन कार्यत्वेन वा कथञ्चिदर्थसम्बन्धे संस्कारस्यापि तत् समानमिति तस्यापि स्मृतिरूपोपलब्धिहेतोः प्रामाण्यं प्रसक्तम् ।
मैवम्, प्रमाणशब्देन तस्यापास्तत्वात् ।
प्रमासाधनं हि प्रमाणम् न च स्मृतिः प्रमा ।
लोकाधीनावधारणो हि शब्दार्थसबन्धः ।
लोकश्च संस्कारमात्रजन्मनः स्मृतेरन्यामुपलब्धिम् अर्थाव्यभिचारिणीं प्रमामाचष्टे ।
तस्मात् तद्धेतुः प्रमाणमिति न स्मृतिहेतौ प्रसङ्गः ।
अनधिगतार्थगन्तृत्वं च धारावाहिकविज्ञानानामधिगतार्थगोचराणां लोकप्रसिद्धप्रमाणभावानां प्रमाण्यं विहन्तीति नाद्रियमहे ।
न च कालभेदेनानधिगगोचरत्वं धारावाहिकानामिति युक्तम्, परमसूक्ष्माणां कालकलाभेदानां पिशितलोचनैरस्मादृशैरनाकलनात् ।
न चाद्येनैव विज्ञानेनोपदर्शितत्वादर्थस्य प्रवर्तितत्वात् पुरुषस्य प्राप्तित्वाच्चोत्ततेषाम्, अप्रामाण्यममेव विज्ञानानामिति वाचयम् ।
न हि विज्ञानस्यार्थप्रापणं प्रवर्तनादन्यत्, न च प्रवर्तनमप्यर्थप्रदर्शनादन्यत् ।
तस्मादर्थप्रदर्शनमात्रव्यापारमेव ज्ञानं प्रवर्तकं प्रापकं च ।
प्रदर्शन च पूर्ववदुत्तरेषां विज्ञानामभिन्नमिति कथं पूर्वमेव विज्ञानं प्रमाण नोत्तराण्यपि? पुरुषापेक्षया तु प्रामाण्ये चन्द्रतारकादिविज्ञानस्य पुरुषानपेक्षितस्याप्रामाण्यप्रसङ्गः ।
न चातिदवीस्तया तदर्थस्य हेयतया तदपि पुरुषस्यापेक्षितम्, तस्योपेक्षणीयार्थविषयत्वात् ।
न चोपेक्षणीयम् अप्यनुपादेयत्वाद्धेयमिति निवेदयिष्यते ।
उपलब्धिहेतुं च प्रमाणं वदता अनधिगतार्थगन्तृत्वं चार्थसारूप्यं चात्मानात्मप्रकाशनशक्तिश्च प्रमाणमिति निरस्तानि भवन्ति ।
उपलब्धिमात्रस्यत्वाद्धेयमिति निवेदयिष्यते ।
उपलब्धिहेतुं च प्रमाणं वदता अनधिगतार्थगन्तृत्वं चार्थसारूप्यं चात्मानात्मप्रकाशनशक्तिश्च प्रमाणमिति निरस्तानि भवन्ति ।
उपलब्धिमात्रस्यार्थाव्यभिचारिण स्मृतेरन्यस्य प्रमाशब्देनाभिधानात् ।
हेतुग्रहणेन सारूप्यशक्त्योः फलादभिन्नयोरपाकरणात् हेतुहेतुमद्भावस्य तादात्मये ऽनुपपत्तेरिति ।
उपलब्धिहेतुत्वे च प्रमाणत्वम् ।
भवितृव्याख्यानेन भावो व्याख्यातः ।
तदेवं ज्ञानमज्ञानं वा उपलब्धिहेतुः प्रमाणम् ।
तस्य भावस्तत्त्वमिति स्थितम् ॥
तदेतदतिव्यापकत्वेनाक्षिपति–समानत्वादिति ।
समाधत्ते अयं विशेष इति ।
अयमर्थः, सर्वः कर्त्ता करणगोचरव्यापारो न तु साक्षात् फले व्याप्रियते ।
करणं च द्विधा सिद्धमासिद्धं च ।
तत्र सिद्धं परश्वादि दारूद्वैधीभावायोद्यम्योद्यम्य दारूणि निपातयन् दारू च्छिनत्तीत्युच्यते ।
न तु साक्षात् कर्तृव्यापारगोचरो दारूद्वैधीभावः, किं तु स्पर्शवद्वेगवतः करणीभूतस्य परशोः संयोगस्योद्यमननिपातनलक्षणस्तु कर्तृव्यापारः परशुगोचर एव ।
एवं स्वर्गकामो ऽपि कर्ता न साक्षात् स्वर्गे व्याप्रियते, किं तु तत्करणं यागमसिद्धं साधयति ।
स्वर्गस्तु यागव्यापारादेवापूर्वाभिधानात् चेतनाश्रयाद् देशकालावस्थाभेदासादितपरिणतिविशेषात् साक्षादुत्पद्यते ।
तद्वदिहापि प्रमाता सिद्धमिन्द्रियादि, असिद्धं च तत्सन्निकर्षादि व्यापारयन्नुत्पादयन् वा करण एव चरितार्थः ।
करणं त्विन्द्रियादि तत्सन्निकर्षादि वा नान्यत्र चारितार्थमिति साक्षादुपलब्धावेव फले व्याप्रियते ।
प्रमेयस्य तु प्रत्यक्षादन्यत्रोपलब्धिहेतुभाव एव तावन्नास्ति, तत्रापीन्द्रियसम्बन्धमात्रे उपयुज्यते प्रमेयम् ।
इन्द्रियमेव तु तत्तत्सन्निकर्षादि वा साक्षात् प्रमाहेतुः ।
ततः सिद्धमेतत् न प्रमाता साक्षात् प्रमाहेतुः कर्तृत्वात् ।
यो यः कर्ता स सर्वो न साक्षात् फलहेतुः, यथा व्रश्चनयजमानादिः ।
तथा चायम् ।
तस्मात् तथा ।
तथा प्रत्यक्षं प्रमेयं न साक्षात् प्रमाहेतुः, प्रमेयत्वात् ।
यद् यत् प्रमेयं वत्तत् सर्वं न प्रमाहेतुरनुमेयादिवत् ।
तथा चैतत् ।
तस्मात् तथेति ।
तदिदं प्रमातृप्रमेययोः प्रमाणे चरितार्थत्वमचरितार्थत्वं च प्रमाणस्य, तस्मात् तदेव फलहेतुः ।
प्रमातृप्रमेये तु फलोद्देशेन प्रवृत्ते इति तद्धेतू कथञ्चिदिति ।
चोदयति अकरणेति ।
नाकरणः कर्ता प्रमाणमपि व्याप्तुमर्हतीत्यर्थः ।
परिहरति–न, इन्द्रियार्थेति ।
यदा ज्ञानं प्रमाण तदा ज्ञानस्य प्रमाणस्योत्वत्तावित्यर्थः ।
पुनश्चोदयति–यदि तर्हाति ।
परिहरति–तस्मिन्नपीति ।
चोदयति–यदि प्रमातृप्रमेयाभ्यां सद्भ्यां प्रमाणमिति ।
प्रमाणमन्तरेण प्रमाया अभावात् प्रमातृप्रमेययोः असिद्धिरित्यर्थः ।
पृच्छति–कथमिति ।
उत्तरम्–प्रमाणमितीति ।
अर्थ स्वरूपमात्रमेव कारकं कस्मान्न भवति, तच्च क्रियासम्बद्धस्य पुरस्तादप्यस्तीत्यत
आह-न च द्रव्यमात्रमिति ।
अस्तु तर्हि तदीयो ऽवान्तरव्यापारः प्रधानक्रियायां साध्यायां कारकम्, तस्यापि प्रधानक्रियायां निमित्तत्वादित्यत आह–न च क्रियामात्रमिति ।
न हि स्वरूपेण देवदत्तो व्रश्चनः, नापि तदीयो व्यापार उद्यमननिपातनादिर्लोष्ठाद्याश्ररूः ।
क्व तर्हि कारकशब्दः प्रवर्तत इत्यत आह–कारकशब्दो हीति ।
प्रधानक्रियासाधने हेतौ अवान्तरक्रियाविशेषयुक्ते कारकशब्दः प्रवर्तते ।
द्वैधीभावे हि फले प्रधानव्यापारे कर्तुः करणगोचर उद्यमननिपातनादिः अवान्तरव्यापारः ।
कर्मणश्च दारूणः स्पर्शवद्वेगवत्तीक्ष्णतरकुठारसयोग एवावान्तरव्यापातः ।
तेन हि दारू स्वावयवपरिस्पन्दलब्धजन्मनो ऽवयवविभागाद् द्वैधीभावमनुभवति ।
तस्मादवान्तरप्रधानव्यापारसम्पन्नं कारकमिति सामान्यतः प्रसाध्य प्रकृते योजयति–प्रमातृप्रमेयशब्दौ चेति ।
तावन्रेण क्रियां प्रधानक्रियामित्यर्थः ।
परिहरति–न, पाचकादिशब्दवदिति ।
लोकाधीनावधारणः खल्वयं शब्दार्थसम्बन्धः ।
लोकश्चातीतानागतवर्तमानक्रियासम्बन्धमात्रविवक्षया कारकशब्दान् प्रयुङ्क्ते, पाचकमानय पक्ष्यतीति च, पाचको ऽयमपाक्षीदिति च, पाचको ऽयं पचतीति च तुल्यवत् त्रैकाल्यविषयप्रयोगदर्शनम् ।
तत् कस्य हेतोरपचत्यपि पाकसम्बन्धं प्रत्यस्ति स्वरूप्शक्तिर्देवदत्तादाविति? द्वयी हि शक्तिः कारकाणां कार्योपजननं प्रति स्वरूपं च सहकारिग्रामसमवधानं च ।
तत्रासत्यपि सहकारिग्रामसमवधाने कारकशब्दानां प्रवृत्तेः, सत्यपि च स्वरूपे त्रेकाल्यव्यापिनि त्रेकाल्ययोगिकार्यासम्भवे ऽप्रवृत्तेः त्रैकाल्ययोगिकार्योपहितमर्यादमेव स्वरूपं कारकशब्दानां प्रवृतौ निमित्तमिति ।
असत्यपि प्रत्युत्पन्नप्रमाहेतुप्रमाणसम्बन्धे प्रमातृप्रमेयशब्दयोः प्रवृत्तिरिति उपपन्नं प्रमातृप्रमेयाभ्यां प्रमाण जन्यत इति ।
तत् प्रमाणमुपलब्धिसाधनं साक्षात्, न प्रमातृप्रमेये इति सिद्धम् ॥
सत्यपि चोपलब्धिसाधनत्वे प्रमातृप्रमेययोरूपब्धिहेतुरित्यत्राप्रसङ्ग, साधाकतमासाधकतमयोः साधकतमे कार्यसम्प्रत्ययात् सातिशयत्वेनोद्भूतत्त्वात् तस्येत्याह–साधकतमत्वाद् वेति ।
साधकतमार्थं पृच्छति–कः पुनरिति ।
उत्तरम्–प्रमाणस्य भावाभावयोः प्रमायाः कार्यस्य तद्वत्ता भावाभाववत्ता साधकतमार्थः ।
लक्ष्यलक्षणयोरभेदविवक्षया सामानधिकरण्यम्, न तु प्रमातृप्रमेयान्वयव्यतिरेकानुविधानमप्यस्ति प्रमाया अन्वयव्यतिरेकयोरित्यत आह–न प्रमातरीति ।
प्रमातृप्रमेयाभ्यां सह प्रमोत्पादस्यान्ययोगव्यवच्छेदेन सम्बन्धः ।
प्रमाणेन तु सम्बन्धः प्रमोत्पादस्यायोगान्ययोगव्यवच्छेदाभ्यामित्यतिशयः प्रमाणस्य ।
प्रमातृप्रमेये हि प्रमाणोपक्षीणवृत्तिनी न प्रमायां व्याप्रियेते ।
तेनान्तरायसम्भवन्नावश्यं प्रमातृप्रमेयव्यापारे सति प्रमा भवति ।
प्रमाणस्य व्यापारे तु प्रमा भवत्येवेति कल्पान्तरमाह- यद्वान् वा प्रमिमीते सो ऽतिशयः ।
प्रमिमीत इति स्वतन्त्रं कर्तारं दशयति प्रतिपाद्यात् करणाद् व्यवच्छेत्तुम् ।
यद्वानेवेति च सावधारणाम् ।
तत्र यद्वानिति कर्त्रन्तरं व्यवच्छिनत्ति ।
न हि कर्ता कर्तृमान्, किं तु प्रमाणवान् ।
स्वतन्त्रो ह्याश्रयः परतन्त्रेणाश्रीयते ।
कर्त्रधीनं हि करणमित्यावेदितम् ।
प्रमाता प्रमेयवानपि क्वचिद् भवेत् तत्तन्त्रत्वात् प्रमेयस्य ।
न तु प्रमेयवानेव, अनुमानादिषु प्रमेयस्यातीतत्वादिना तद्वत्ताविहात् ।
न तु लिङ्गदिज्ञानवान् न कदाचिदित्यवधारणफलम् ।
सो ऽयं विशेषः प्रमातृप्रमेयाभ्यां प्रमाणस्य ।
अस्यैव च विशेषस्यातिशयत्वमन्वयव्यतिरेकाभ्यामादर्शयति– प्रमाणे सतीति ।
कल्पान्तरकाह– सतार्वेति ।
पूर्वेण भावप्रधानो ऽतिशयो यादृशस्य दर्शितः, तादृशस्यैवेह व्यतिरेकप्रधानो ऽतिशय इति विशेषः ।
अकर्तृत्वमहेतुत्वमित्यर्थः ।
कल्पान्तरमाह–संयोगवच्चरमभाविता वा ।
सेतिकर्तव्यताकं हि व्याप्रियमाणं करणम्, न तु चक्षुरादिस्वरूपम् ।
करणादिशब्दप्रवृत्तिनिमित्तमात्रं तु स्वरूपं स्यादिति पूर्वमावेदितम् ।
तच्च सिद्धमसिद्ध वा प्रमातृप्रमेयव्यापारस्य पश्चादेव तथात्वेन सम्पद्यत इति चरमभावीत्युच्यते ।
सो ऽयमस्य चरमभावितातिशयः, तथा तन्तूनां पटे जनयितव्ये ऽन्त्याः संयोगभेदा यदनन्तरं पट उत्पद्यत एवेति ।
कल्पान्तरमाह– प्रपिपत्तेरानन्तर्य वा ।
यत एव प्रमाणं चरमभावि, अत एव तदनन्तरं प्रतिपत्तेः प्रमाया भावात् ।
प्रतिपत्तेरानर्न्यमेव प्रमाणस्यातिशयः ।
स चेति ।
चो ऽवधारणे ।
इदमपि लक्ष्यलक्षणयोरभेदविवक्षयोक्तम् ।
कल्पान्तरमाह–असाधारणकारणता वा ।
चतस्त्रः खल्विमाः प्रत्यक्षादिप्रमियो भिन्नबुद्धिव्यपदेशभाजो ऽनुभूयन्ते ।
न च प्रमाता तद्भेदहेतुः, स्य साधारण्यात् ।
न च प्रमेयमेकस्यापि प्रमेयस्य सम्प्लवे सर्वप्रतिपत्तिसाधारण्यात् ।
प्रमाणानि तु यथायथं चतसृष्वपि प्रमितिष्वसाधारणानीति भिन्नबुद्धिव्यपदेशनिबन्धनानि ।
तदिदमसाधारण्यमतिशयः ।
अशेषः पुरुषः प्रमातात्र विवक्षितः ।
कल्पान्तरमाह– प्रमाकारणेति ।
प्रमाया असमवायिकारण खल्वात्ममनःसंयोगः ।
स च सर्वप्रमासोधारणः ।
नासौ प्रमात्रा प्रमेयेण वा शक्यो विशेष्टुम्, तयोरपि तद्वदेव साधारण्यात् ।
असाधारणं तु प्रमाणं यथायथमात्ममनःसंयोगमवच्छिनत्ति ।
एवे सुखादिप्रमेयाणामपि मन एवासाधारणं व्यवच्छेदङ्क द्रष्टव्यम् ।
सो ऽयमस्यातिशयः ।
अतिशयातिशयिनोरभेदविवक्षया अतिशयशब्दवाच्यम् इत्युक्तम् ॥
क्रमप्राप्तमर्थग्रहणं तात्पर्यतो व्याचष्टे– अर्थग्रहणमिति ।
कस्मात् पुनर्निषिध्यते प्रमाणविषया प्रतिपत्तिरित्यत आह–यतो न प्रमाणविषयेति ।
इतिकर्तव्यता अनुष्ठानम्, तस्मिन् ।
अर्थ्यत इत्यर्थः, तोयकण्टकादिः ।
तस्य तथामावो ऽर्थनीयत्वम् ।
तच्च सुखदुःखसाधनत्वम् ।
सुखसाधनं खलूपादेयत्वेन दुःखसाधनं च हेयत्वेनार्थ्ये ।
तात्पर्यान्तरमाह–उपेक्षणीयेति ।
उपेक्षणीयविषये प्रमाणे प्रवृत्तिसामर्थ्यं नास्तीति तत्प्रतिषध्यते ।
न च तदप्रमाणमिति ।
तस्यापि दृष्टप्रमाणसाधर्म्येण लिङ्गेन प्रामाण्यानुमानादिति ।
चोदयति–प्रमाणागहणमिति ।
समर्थप्रवृत्तिजनिका हि प्रतिपत्तिर्नाप्रमाणाद्भावतीत्यर्थादेव प्रमाणादिति गम्यत इत्यर्थः ।
परिहरति–न प्रमाणविशेषज्ञापनार्थत्वात् ।
अयमभिसन्धिः, प्रवृत्तिसामर्थ्येन हि कार्येण प्रमाणस्यार्थवत्त्वमनुमातव्यम् ।
न चैतत् साक्षात् प्रमाणस्य कार्यम्, किं त्वर्थप्रतिपत्तेः ।
तदनन्तरं हि समर्था प्रतिपत्तिरूपजायते ।
अर्थप्रतिपत्तिस्तु प्रमाणकार्येति समर्था प्रवृत्तिः प्रमाणकार्या सती प्रमाणस्यार्थवत्त्वमनुमापयति ।
तस्मादर्थगम्यमपि प्रमाणमर्थप्रतिपत्तिकरणत्वेन द्योतनीयम् ।
अन्यथा प्रमाणमर्थवदर्थप्रतिपत्तेः मसर्थप्रवृत्तिजनकत्वादिति किं केन सङ्गतम्? प्रमाणस्य विशेषः प्रमाणभासाद् व्यावृत्तिः, तस्य ज्ञापनम् ।
स एवार्थो यस्य प्रमाणग्रहणस्य तत् तथोक्तम् ।
तस्य भावस्तत्त्वम् ।
तस्मादेतदुक्तं भवति–प्रमाणकार्याया अर्थप्रपित्तेः प्रवृत्तिसामर्थ्यं न तदाभासकार्यायाः ।
तस्मात् प्रमाणस्यार्थवत्त्वं गम्यत इति ।
तदिदमुक्तम्–तद् येह प्रमाणेन प्रतिपत्तिः सा प्रवृत्तिसामर्थ्यं प्रतिपादयति प्रमाणम् ।
अयमर्थः ।
प्रमाण कर्तृ, प्रवृत्तिसमार्थ्यं प्रतिपद्यमानं प्राप्नुवत्तत् प्रतिपादयति प्रापयति प्रमाणकार्यार्थप्रतिपत्तिरिति ।
इदमपि प्रमाणग्रहणस्य प्रयोजनमित्याह– न च प्रमाणग्रहणमिति ।
एकदेशिव्याख्यानमुपन्यस्यति–सुखेति ।
न केवलं सुखदुःखहेतुत्वादर्थ्यमानत्वात् ज्ञायमानत्वाच्च ।
दूषयति–नेति ।
सर्वस्य सुखदुःखतद्धेतुत्वेन हेयपक्षनिक्षेपात् उपादेयानां प्रमाणशास्त्रापवर्गाणानामभावप्रसङ्गाद् व्याघातः ।
अविवक्षितत्वाच्चेति ।
चशब्दसमुच्चितमशक्यहानत्वं हेत्वन्तरमादर्शयति– न च प्रमाणादिहानमिति ।
सुखदःखतद्धेतवो हि हेयाः सने हानोपायमपेक्षन्ते ।
न च प्रमाणादेरन्यः तदुपायः सम्भवति ।
न च प्रमाणादिः स्वोच्छेदाय पर्याप्तः ।
न चास्मादपवर्गो नाधिगम्यते ।
तस्मान्न शक्यं प्रमाणादिना प्रमाणदिहानमिति ।
न चैतन्निःश्रेयसहेतुं शास्त्रं प्रणयतः सूत्रकारस्य तदनुवर्तिनो वा भाष्यकारस्य विविक्षितमित्याह–न च प्रमाणादिहानं विवक्षितम् ।
तस्मादस्मद्वचाख्यानमेव शोभनमित्याह–किं त्विति ।
प्रवृत्तिसामर्थ्याधानयोग्यवममधिकारः ।
तस्मात् सुखदुःखतद्धेतुरूपार्थप्रतिपत्तिरेव हि समर्थां प्रवृत्तिमाधत्ते, न त्वर्थमात्राप्रतिपत्तिरित्यर्थः ।
न केवलं व्याघाताशक्यहानाविवक्षितत्वैरर्थपदेन न सर्वसङ्ग्रहो ऽशक्यत्वादपि न सर्वसङ्ग्रह इत्याह–न संविद इति ।
सुखदुःखतद्धेतुतया न संविदो ग्रहणं सङ्ग्रहः सर्वमध्यपतिताया अपि ।
कुतः? अनधिकारात्, सुखदुःखतद्धेतुयोग्यताविरहात् ।
नाप्यर्थ्यमानत्वेन सङ्ग्रह इत्याह–अकर्मत्वाच्च ।
न तावत् सर्वा एव संविदः संविद्गोचरा मनोयोनयः, संवेद्या भवितुमर्हन्ति ।
एकनीलविषयसंवित्परम्परामात्र एव पुरुषायुषसहस्रपर्यवसानात्, विषयान्तरसञ्चाराभावप्रसङ्गाच्च ।
तस्मादनवस्थाभयादन्ते कस्याश्चित् संविदो ऽसंवेद्यतया फलमात्रत्वमभ्युपेयम् ।
तथा च सा नार्थ्यते ।
न च सुखदुःखे तत्रेतुरिति न सर्वसङ्ग्रहः संविदो ऽसङ्ग्रहादित्यर्थः ।
तदेवमादिवाक्य व्याख्याय भाष्यवाक्यान्तरमवतार्य तत्रैकदेर्शिव्याख्यानं दूषयितुमुपन्यस्यति–सो ऽयं प्रमाणार्थ इति ।
दूषयति–नोभयस्यापि परिसङ्ख्यातत्वात्, अर्थस्तु सुखमित्यादिना भाष्यग्रन्थेन ।
कार्यकारणाभ्यामुभयत्वम् ।
प्राणभृद्भेदस्यापरिसङ्ख्येयत्वादिति च हेतुः श्वेतः प्रासादः काकस्य कार्ष्ण्यादितिवन्न प्रतिज्ञार्थेन सङ्गच्छते इत्याह–प्राणभृद्भेदस्य चेति ।
तदेतदेकदेशिमतदूषणमस्मिन् व्याख्याने नास्तीत्याह–नार्थशब्दस्येति ।
चन्द्रनादिविषयं प्रमाणं सुखप्रयोजनमेव, कण्टकादिविषयं च प्रमाणं दुःखोत्पादप्रयोजनमेवेत्येतदुभयं परिसङ्ख्यातुं नियन्तुमशक्यमित्यर्थः ॥
एवं किलात्र शङ्क्यते, सुखदुःखहेतुभावो वस्तूनां स्वाभाविको भवेन्न वा? स्वाभाविकत्वे नील इव सर्वान् प्रत्यर्थः सुख इति करभवन्मनुष्याणामपि कण्टकः सुखः स्यात् ।
एवं निदाधे ऽपि कुङ्कुमं सुखं स्यात् ।
चन्दनं च हेमन्तते ऽपि सुखं भवेत् ।
एवं तृष्णज इवापां सुहितस्यापः सुखाः प्रसज्येरन् ।
अस्वाभाविकत्वे त्वनादिवासनावैचित्र्यलब्धजन्मपुरुषधर्मकल्पनानुपातिनः सुखदुःखादयो न प्रमाणप्रयोजनं भवितुमर्हन्तीति ।
तत्रेदमुपतिष्ठते–सो ऽयम्प्रमाणार्थ इति ।
निवेदयिष्ये हि क्षणभङ्गाधिकारे तथा स्थेमभाजामपि वस्तुनामक्रमाणामपि क्रमवत्सहकारिकारणसमवधानवशादुपजनापायधर्माणः क्रमवन्तो धर्मा भवन्तीति, तदिहापि ।
यद्यपि न जात्या सुखदुःखहेतुभावो भावनां भवति, तथापि जातिदेशकालावस्थापुरुषभेदसहकारिसमवधानादुपपत्स्यतेसुखदुःखहेतुभावो ऽव्यवस्थयेति भावः ॥
तत् सिद्धमेतत्, प्रमाणार्थो ऽनियतः, अनियतप्राणभृद्भेदहेतुकत्वात् ।
यद्यदनियतकारणकं कार्यं तत्वसर्वमनियतमेव, यथा अनियतकालमेघोदयनिबन्धनं वर्षम् ।
तथा चायम् ।
तस्मादनियत इति ।
कस्मात् पुनः प्रमात्रादिचतुर्वर्गे प्रमाणस्यैवार्थवत्त्वमुच्चेत न प्रमात्रादीनामपीत्याशङ्कानिराकरणार्थं भाष्यमनुवदन्नेव व्याचष्टे– अर्थवति च समर्थे सम्यगर्थे ऽर्थाव्यभिचारिणीति यावत् ।
प्रमाणे ऽर्थवन्ति भवन् सिमर्थानि सम्यगर्थानि प्रमात्रादीनि ।
अर्थस्य तु सम्यक्त्वमिदमेव यद् यादृशः प्रमाणेनोपदर्शिस्तस्य तथात्वं न पुनरन्यथाभाव इति ।
यदा त्वादिभाष्यवाक्ये ऽर्थशब्दः प्रयोजनवचनः, तदैवं व्याख्यानम्– अर्थवति च प्रयोजनवति च यतः समर्थं शक्तं प्रमाण प्रतिपत्त्यादिक्रमेण पूर्वोक्तेन प्रयोजनं प्रति, अतः समर्थे प्रमाणे प्रमात्रादीन्यर्थवन्ति प्रयोजनवन्ति भवन्ति, यतस्तान्यपि प्रमाणवदेव समर्थानि शक्तानि प्रयोजनं प्रतीति, अत्र हेतः अन्यतमापाय इति ।
तस्यार्थं व्याचष्टे–अन्यतमत्वार्थ इति ।
नन्वन्यतमशब्दो बहुष्वनिर्धानितविशेषमेकमाह, न तु साधकतममित्यत आह–प्रमारणादिति ।
साधारणशब्दो हि प्रमरणाद् विशेषे वर्तते ।
तद् यथा शिविकावहनपक्रमे पुरुषमानयेति पुरुषशब्दो विष्टौ ।
तद्वदिहापि प्रमात्रादिपरिहाण्या प्रमाणस्यार्थवत्त्वाभिधाननियमप्रक्रम इति प्रमात्रादिभ्यः प्रमाणस्य विशेषो वाच्य इति तत्रैवान्यतमशब्दो वर्तते ।
यद्यप्यर्थप्रतिपत्त्यर्थाव्यभिचारद्वारेण प्रमाणस्याव्यभिचारो गम्यते दृष्टे विषये, तथाप्यदृष्टे विषये न तज्जनितप्रपित्तयव्यभिचारेणाव्यभिचारः शब्दस्य प्रमाणस्य शक्यो विज्ञातुम्, प्रतीयव्यभिचारस्य प्रमाणाव्यभिचारग्रहणमन्रेणाशक्यज्ञानवत् ।
तस्माद् दृष्टार्थस्य मन्त्रायुर्वेदस्य प्रवृत्तिसामर्थ्यावधृतार्थाव्यभिचारस्य साधर्म्यादाप्तप्रणीत्वादग्निहोत्रादिवाक्यानां प्रमाणानामव्यभिचारग्रहणपुरःसरमेव त्रिवर्गस्याव्यभिचारग्रहणम् ।
न पुनरत्र त्रिवर्गस्याव्यभिचारः शक्यो ऽन्यतः परिच्छेत्तुम् ।
अदृष्टार्थविषयस्य च चतुर्वर्गस्येहार्थवत्त्वेन प्रयोजनं दृष्टार्थे सन्देहादपि व्यवहार सिद्धेः ।
तदिदं चतुर्वर्गे प्रमाणस्य प्राधान्यमिति ॥
चतुर्वर्गविभागपरे भाष्ये प्रमाता प्रथमं दर्शितः ।
ततस्तस्य लक्षणमाह–प्रमाता स्वतन्त्र इति ।
स्वातन्त्र्यं पृच्छति–किं पुनः स्वातन्त्र्यम्, यस्याभिसम्बन्धात् स्वन्त्र इति? भाष्यकृता प्रमातोपलक्षितो न लक्षितः ।
न खल्वीप्साजिहासयोर्वा प्रवृत्तौ वा स्वान्त्र्यं प्रमातृत्वम्, अपि तु प्रमायार्म् ।
इप्सादिस्वातन्त्र्येण तु तदुत्तरकालभाविना प्रमायां स्वातन्त्र्यं पर्वकालाभाव्युपलक्षिम् ।
तेन तच्चरिमनुवर्तमानो वार्तिककृत् उपलक्षणान्तरं कर्तृत्वोत्तरकालभाव्याह–कारकफलोपभोक्तृत्वम् ।
न हि सर्वः कर्ता समस्तकारकजन्यं स्वर्गादि वौदनादि वा भुङ्क्ते ऋत्विक्पाचकादिषु च व्यभिचारदर्शनात् ।
कारकस्य तु सतः कर्तृत्वोत्तरकालभाविनी फलोपभोक्तृता कर्तृवनान्तरीयकतया दुपलक्षयति, यजमानस्य राज्ञश्च प्रैषादिना तत्तद्वयापारे कर्तृत्वात् ।
यथाहुरत्रभवन्तः,
तदभिसन्धिपूर्वकं प्रेषणमध्येषणं व युक्तं तसर्वं पच्यर्थः ।
इति ।
स्वातन्त्र्यलक्षणमाह–तत्समवायो वा ।
कारकाभिधानेन सन्निधापितां क्रियं तदिति सर्वानाम्ना परामृशति ।
यस्य हि व्यापारं प्राधान्येन धातुराख्यातप्रत्ययो वाभिधत्ते स स्वतन्त्रः कर्ता ।
तथा हि विक्लिद्यन्तीयत्र तण्डुलादयः कर्तारः, पचन्तीत्यत्र देवदत्तादयः ।
तत् कस्य हेतोः? एकत्र तण्डुलादेर्व्यापार उपात्तो ऽपरत्र देवदत्तादेरिति ।
प्राधान्येन चाशेषकारकनिवर्त्त्यत्वं प्रधानक्रियायाः, अवान्तरव्यापारभेदे ऽपि प्रधानक्रियोद्देशेन समस्तकारकप्रवृत्तेरिति ।
पुरुष इति प्रकृतक्रियापेक्षम्, प्रमायाः पुरुषाश्रयत्वादिति ।
लक्षणान्तरमाह–तत्प्रयोक्तृत्वमितराप्रयोज्यता वा ।
तस्य चेतनस्य सर्वकारकाणि प्रति प्रयोक्तृत्वम्, तैश्च कारकैरप्रयोज्यता वा ।
अचेतनस्य तु भाक्तव कर्तृत्वं न स्वाभाविकमिति भावः परिसमाप्तिपदार्थं व्याचष्टे–तत्त्वपरिसमाप्तिरिति ।
तत्त्वं हि प्रमाणव्याप्यत्वं प्रमाणव्यापारविषयत्वम् ।
तच्च हानोपादानोपेक्षाभिः पर्यवस्यति ।
पर्यवसानं परिसमाप्तिः विनियोज्येति वक्तव्ये योग्यताग्रहणमीप्सिते ऽपि दृष्टे वस्तुनि कुतश्चित् प्रतिबन्धात् पुरुषेणानुपात्ते मा भूत् तत्त्वापरिसमाप्तिरिति ।
यद्यपि हि तत् पुरुषेणानुपात्तं तथाप्युपादानयोग्यताप्रदर्शनादस्ति तत्त्वपरिसमाप्तिरिति ।
तत्प्रतिषेधश्च इत्यत्र तच्छब्देन हानोपादानलक्षणं विनियोगं परामृशति ॥
किं पुनस्तत्त्वमित्यादि भाष्यं व्याचिख्यासुस्तत्त्व्प्रत्ययप्रकृतेस्तदो ऽर्थं पृच्छति–किम्पुनरिति ।
उत्तरम्–सदसती तत् ।
प्रश्नं विभजते–तस्य भावस्तत्त्वमित्यत्रेति ।
उत्तरं विभजते–सदसतीतत् ।
अथ कस्मात् प्रकृतिपुरुषौ वा, पञ्चस्कन्धा वा, परं ब्रह्माद्वैतं वा, जीवजीवस्त्रवादयो वा सप्त, पृथिव्यापस्तेजोवयुरिति वा चत्वारि भूतानीत्यादीति न तदो वाच्यानि भवन्तीत्यत आह– प्रमाणविषयत्वेनाधिकारात् ।
सूत्रभाष्यवाक्यतद्विवरणेषु प्रमाण प्रमाणविषयश्चाधिकृतः न च सङ्ख्यादिसिद्धान्तभेदानुपातिनो ऽर्थाः प्रमाणविषयाः ।
यथा चैतत् तथात्रेव निवेदयिष्यते ।
उपसंहरति–तस्मादिति ॥
प्रकृत्यर्थं व्याख्याय प्रत्यार्थं व्याचष्टे-तद्भाव इति, सदसतोर्यथासङ्ख्यं विधायकप्रकाणविषयता सतो भावः, तत्प्रतिषेधश्चासतो भावः ।
तदिति विधायकप्रमाणविषयतां परामृशति ।
तत्प्रतिषधेन च प्रतिषधकं प्रमाणमुपस्थापितम् ।
तेन प्रतिषेधकप्रमाणविषयत्वमेव तत्प्रतिषेध इत्यनेनोक्तं भवति ।
एतद् विभजते-तयोः खल्विति ।
शङ्कते-प्रमाणविषयत्वादिति ।
सर्वसामर्थ्यविरहेण त्वसत् सतो व्यावर्तते ।
यदि चासदपि प्रमाणविषयः, तर्हि नासमर्थम् ।
तथा च सदसतोरभेद इत्यर्थः ।
निराकरोतिन, अनैकान्तात् ।
न वयमसामर्थ्येनासतो भेदमाचक्ष्महे येनैवमुपालभ्येमहीति भावः ।
शङ्का विभजते–तत्र भवेदिति ।
निराकरणं विभजते–तच्च नेति ।
गवादि चेतनम्, अचेतनं घटादीति ।
यदि सदसती समर्थे कुतस्तर्हि तयोर्मेद इत्यत आह–स्वतन्त्रेति ।
असदुपलब्धिरेव सदुपलब्धेरन्यानुपलब्धिः ।
ननु संयोगविभागादिषु सत्स्वपि तरतन्त्रोपलब्धिकरणत्वमतिस्त, तेषां संयुज्यमानविभज्यमानाद्यधीननिरूपणत्वादित्य आह–प्रतिषेधमुखेन प्रतिपद्यते प्रतीयते ।
सतां केषाञ्चित् पारतन्त्र्ये ऽपि न निषेध्यनिषेधाधिकारणपारतन्त्र्यमित्यर्थः ।
सम्प्रति सदुपलम्भकस्य प्रमाणस्यासदूपलम्भकत्वं प्रतिपिपादयिषता भाष्यकारेण प्रदीपो दृष्टान्त उपन्यस्तः ।
सतु साध्यसमः, तस्यापि प्रमाणसामग्रीनिवेशदिति शङ्क्यमानो ऽत्यन्तलोकप्रसिद्धतयास्य दृष्टान्तत्वं समर्थयते–प्रदीपवदिति ।
गोपालाङ्गना अपि हि किमत्रास्ति स्तेनो ऽस्मद्धनं वा अपवरके न वेति सन्दिहाना प्रदीपमुपादाय समन्तादवलोक्यापवरकमस्तीहास्मद्धनं नास्ति स्तेन इति सममेव निश्चिन्वन्ति, न तु स्तेनाभावनिश्चयायोपायन्तरमुपाददते ।
तेनागापालाड्नमा च पण्डितरूपेभ्यः सिद्धः प्रदीपो दृष्टान्तः ।
तदिदमुक्तम्-न ह्यसत्प्रतिपत्तावुपायान्तरमास्थीयते लोकेन ।
अनाश्रयणे हेतुमाह प्रदीपेन दृश्यमाने हि घटादिके ऽर्थे स्वतन्त्रे नानेन समानजातीयं तुल्योपलम्भयोग्यतं दृश्यान्तरमस्ति ।
नीलपीतौ हि परस्पराभाववन्तौ, तेन नलीनिषेधे नावश्यं पीतविधिः ।
भावाभावौ तु परस्पराभावात्मानौ, नो खल्वभावाभावो नाम कश्चिदन्यो भावरूपात् ।
नापि भावाभावो ऽन्यो ऽभावात् ।
तदेवं प्रदीपोपायस्य प्रतिपत्तुः प्रतीतिक्रममुक्त्वा परीक्षकाणामुपपत्तिक्रममाह–यद्यभविष्यदिति ।
यदि कश्चिदाशङ्केत दृश्यतामभावः ।
प्रदीपेन भावो ऽपि भविष्यतीति, तत्रैष परीक्षकाणां तर्क उपतिष्ठते–यद्यभविषयदिति ।
तदेवं लौकिकपरीक्षकसम्मतं दृष्टान्तमुपपाद्य दार्ष्टान्तिके योजयति–एवे प्रमाणेनापि इन्द्रियादिना सति प्रमीयमाणे इति ।
पूर्ववद् व्याख्येयम् ।
उपसंहरति–तदेवमिति ।
सर्वं चैतदुपरिष्टादुपपादयिष्यते ।
ननु यदि सदसती प्रमाणविषयौ, कस्मात् सद्भेदा इवासद्भेदा अपि सूत्रकृता नोच्यन्त इत्यत आह–तत्र तेषु सदसद्भेदेषु मध्ये स्वातन्त्र्येणासद्भेदा न प्रकाशन्त इति नोच्यन्ते ।
निषेध्यनिषेधाधिकारणाधीननिरूपणत्वादसद्भेदानां भावभेदतन्त्रं प्रमाशनमिति भावभेदकथनेनैवाभावभेदा अपि गम्यन्त इति नोक्ता इत्यर्थः ।
अथ वा कथिता एव येषां तत्त्वज्ञानं निःश्रेयसोपयोगि, यं तु न तथा न तेषां प्रपञ्चः अनुपयुक्तभावप्रपञ्च इव वक्तव्य इत्याह–चतुर्वर्गानन्तर्भावाद् वा भावप्रपञ्चवद् अभावप्रपञ्च इति ।
निःश्रेयसानुपयोगिनि भावप्रपञ्चे यथा चतुर्वर्गानन्तर्भावः, एवमभावप्रपञ्चे ऽपीति ।
अथ निःश्रेयसोपयोगाभावः कुतो ऽवगन्तव्य इत्यत आह–भावोपदेशादेवाभाव उपदिष्टो भवतीति ।
द्विविधं प्रमाणं भावो ऽभावश्च, यथा कारणाभावेन कार्याभावज्ञानं यतो द्वितीयसूत्रसमुत्यानम् ।
प्रमेयेषु चापवर्ग एव मूर्धाभिषिक्तः ।
एवे प्रयोजनादिष्वपीति तत्र तत्रोहनीयमिति ।
उपसंहरति–अतश्चेति ॥
तदेवं तात्पर्यं व्याख्याय अवयवार्थं व्याख्यातुं भाष्यं पठति–सच्च खलु षोडशधाव्यूढमुपदेक्ष्यत इति ।
अत्र प्रथमे कल्पे चशब्दो ऽवधारणे, खलु शब्दः स्पष्टार्थे ।
तदेव षोडशधा व्यूढमुपदेख्यते नासत्, तस्य सदधीनप्रकाशत्वादिति ।
द्वितीये तु कल्पे पारमार्थिके चः समुच्चे, खलुः अवधारणे, सति षोडशाधैवोपदेक्ष्यमाणे ऽसदप्युपदेक्ष्यत इत्यर्थः ।
प्रकृत्यर्थं व्याचष्टे–व्यूह इति ।
सूत्रस्य सप्रपञ्च तात्पर्यं व्याख्याय अवयवार्थं व्याचिख्यासुना भाष्यकारेण तासां खल्वासां सद्विधानामिति भाष्येण सूत्रमवतार्य पठितं तदस्य वार्तिककृत् तात्पर्यमाह–त एते सद्भेदा इति सूत्रम् ।
त एते प्रमाणादयः सद्भेदा निःश्रेयसोपयोगिनो न गङ्गावालुकादयः ।
तस्मात् सत्सुप्रमाणादयः षोडशैवोदियेष्टा लक्षिताः परीक्षिताश्च ।
न गङ्गावालुकादयः सन्तो ऽपि निःश्रेयसानुपयोगादिति भावः ॥
द्वन्द्वस्वरूपमाह–सर्वपदेति ।
द्वन्द्वपरिग्रहे तात्पर्यमन्वयव्यतिरेकाभ्यामादर्शयति–सर्व एव इति ।
बहुव्रीहिकर्मधारययोरसम्भावात् षष्ठीसमासपरिग्रहे निग्रहस्थानस्यान्त्यपदार्थस्य प्राधान्ये विवक्षितार्थहानप्रसङ्ग इत्यर्थः ।
निर्देशे ययावचनं विग्रहैत्यस्त भाष्यस्य तात्पर्यमाह–यथावचनमिति ।
अन्योन्यनिरपेक्षाणां प्रत्येकं प्रमाहेतुभावः प्रमाणानामिति हि बहुवचनप्रयोजनम् ।
प्रमेयेषु तु यद्यपि प्रमेयता वास्तवी प्रत्येकमस्ति तथाप्यपवर्गहेतुभावेन प्रमेयता समुदाये समाप्यते, न तु प्रत्येकम् ।
आत्मादीनामन्यमतस्याप्यतत्त्वज्ञाने संसाराननिवृत्तेरिति यदेव हि निर्देश वचनभेदस्य प्रयोजनम्, तदेव चोद्देशे ऽपि, तयोरेकवाक्यत्वादिति भावः ।
प्रमाणादीनामिति विभक्त्यर्थव्याख्यानपरं भाष्यं पठित्वा पृच्छति–कः पुनरिति ।
उत्तरम्–कारकाणामिति ।
तद्विभजते–यत्रेति ।
कारकार्थः प्रधानक्रिया, यदुद्देशेन सर्वकारकप्रवृत्तिः ।
कारकग्रहणेन च तन्नान्तरीयकतया प्रधानक्रियाप्यानीतेति विवरणे सापि दर्शिता ।
यद्यपि स्वस्वामिभावादावपि सम्बन्धे ऽन्तर्गतः क्रियाकारकसम्बन्धो ऽस्ति सम्बन्धमात्रस्य क्रियागर्भत्वात् तन्नान्तरीयकत्वाच्च कारकस्य, तथाप्यसौ न विवक्ष्यते ।
सम्बन्धमात्रमेव तु विवक्ष्यत इत्यर्थः ।
तत्र चोदयति–तत्त्वस्येति ।
षष्ठी चानर्थिका अव्यतिरेके तदनुपपत्तेरित्यपि द्रष्टव्यम्, तत्रानियमवाद्येकदेशी परिहरति–न, उभयथापीति ।
भावस्य भवित्रधीननिरूपणत्वाद्, भावनिरूपणमेव भवितृनिरूपणमाक्षिपति ।
अभेदे ऽपीति ।
इषुस्थित्या यथा तद्भावप्रतिषेध इषोभावो धर्मो गतिः, तस्य प्रतिषधः स्थितिः, तिष्ठतेग्रतिनिवृत्त्यर्थत्वात् ।
एवमत्रापि न प्रमाणप्रमेयादिमात्रमच्यते तत्त्वग्रहणेनापि त्वर्थान्तरं तेष्वेव यत् यत् समारोपितं रूपमन्यथात्वमिति यावत् तत् प्रतिषिध्यते ।
गतिमदिति भावप्रधानो निर्देशः ।
यथा द्वेकयोर्द्विवचनैकवचने ।
इति द्वित्वैकत्वयोरिति ।
सङ्ख्येवविक्षायां तु द्व्येकेष्विति स्यात् ।
तेन गति मत्त्वमर्थान्तरमिषोर्नभवतीत्यस्मिन्नर्थे इषोः स्थितिरिति प्रयुज्यत इत्यर्थः ।
तदेतद् एकदेशिमतमर्थान्तरत्वनियमवादी दूषयति–तन्नेति ।
प्रमाणदिभ्यो ऽनर्थान्तरस्य तत्त्वस्य च इषोरनर्थान्तरस्य गत्यभावस्य चासिद्धेः । यथा च भावातिरिक्तो ऽभावस्तथा क्षणभङ्गाधिकारे निवेदयिष्यते ।
प्रमाणाद्यतिरिक्तं च तत्त्वमनन्तरमेव दर्शयिष्यतीति ।
तत्त्वस्यज्ञानमित्यादि भाष्यं व्यापष्टे–तत्त्वं ज्ञायमानमिति ।
उभयं पृच्छति-किं पुनरिति ।
तत्त्वप्रश्नस्योत्त्रम्–तत्त्वमिति ।
निमित्तत्वं शक्तिः प्रमाणादीनाम् ।
सा च द्वयी स्व्रूपलक्षणा सहकारिसाकल्यलक्षणा च, अतीन्द्रियस्य सामर्थ्यस्य नैयानिकैरनभ्युपेतत्वात् ।
शक्तेश्च भावत्वेन भवितृनिरूपणाधीननिरूपणत्वाद् भवितुरपि निरूपणं भवतीत्युक्तम् ॥
अभिमतं निःश्रेयसं ग्रहीतुं निःश्रेयसद्वैविध्यमाह–निःश्रेयसं पुररिति ।
तक्रिज्ञदृष्टं निःश्रेयसं ग्रहीतुं दृष्टमतिप्रसङ्गापादनेन दूषयति–एवे च कृत्वेति ।
सूत्रकाराभिमतं निःश्रेयसमाह–परं त्विति ।
एतदुक्तं भवति, यद्यपि निःश्रेयसपदमभिमतमात्रवाचि प्रमाणादितत्त्वज्ञानस्य च दृष्टमपि निःश्रेयसं सम्भवति, तस्यैव ततः साक्षादुत्पत्तेः ।
तथाप्यात्मादिवाचकप्रमेयपदसमभिव्याहाराददृष्टमेव निःश्रेयसमभिप्रेत सूत्रकारस्य ।
तत्र च प्रमाणमादितत्त्वज्ञानस्यापि पारर्म्येण हेतुभावो ऽस्त्येवेति ।
चोदयति–दृष्टमिति ।
दृष्टे दर्शनमेव प्रमाणम् ।
अदृष्टं तु निःश्रेयसमप्रामाणिकं दर्शनाभावादित्यर्थः ।
परिहरति–न, नास्ति अर्थस्य तथाभावात् ।
अर्थ आत्मादिः ।
तस्य आगमानुमानसहकारिणा कारणाभावेन कार्याभावानुमानमेवात्रार्थे प्रमाणमिति भावः ।
ये तु वैयात्यात् मन्येरन् पदार्थतत्त्वज्ञानमात्रमेव परनिःश्रेयसहेतुरिति, यथाहुः—
एको भावस्तत्त्वतो येन दृष्टाः, सर्वे भावास्तत्त्वतस्तेन दृष्टाः ।
इति, तान् प्रत्याह– यदि पुनरिति ।
न हि भावानां तत्त्वमन्यदतः प्रत्यक्षविषयीकृताद् रूपादिति भावः ।
मोक्षमाणा इति, सनि मुचो ऽकर्मकस्य गुणो वा इति गुणाभ्यासलोपौ ।
न केवलं वस्तुवृत्तिः, सूत्रकारस्यापि सम्मतमेदित्यत आह–पृथगुपदेशाच्च प्रमेयस्य प्रमाणादिभ्यः ।
यदि च यत्किञ्चित्प्रमेयतत्त्वज्ञानान्निःश्रेयसस्य परस्य प्राप्तिः, किमर्थमात्मादसूत्रेण द्वादशैव प्रमेयाणि नाधिकानि न न्यूनानि चेत्यवधार्यते सूत्रकारेर्ण? तस्मात् तदेव साक्षादुपयोति निःश्रेयसे न पदार्थमात्रमित्याह–प्रमेयावधारणार्थायां चोत्ररसूत्रप्रिक्रियायामकुशलः सूत्रकारः स्यात् ।
कुतः? प्रमेयस्य विहतत्वादाद्येन सूत्रेणेति ।
तस्माद् यद्युपपत्तिः यदि च सूत्रकारभिमतसुभयथापि प्रमेयतत्त्वपरिज्ञानं परस्य निःश्रेयसस्य हेतुः ।
तदनेन आत्मादेरिति भाष्यं व्याख्यातम् ॥
अथ किं तत्त्वज्ञानस्यात्मादिविषयस्यादृष्ट एव को ऽपि सामर्थ्यातिशयो यतः परनिःश्रेयसोत्पादः, मैवम् ।
किं तर्हि? दृष्टयैव द्वारेत्याह भाष्यकारः– तच्चैतदिति निःश्रेयसहेतुभावाभिधानस्य अनु पश्चात् उद्यते अनूद्यते ।
तत्त्वज्ञानोत्पादे हि साक्षात् तद्विषयमिथ्याज्ञानादिनिवृत्तिक्रमेणापवर्गोत्पाद इति द्वितीयसूत्रेणानद्यते ।
तदेतद् भाष्यं तच्चैतदित्याद्यधिगच्छतीत्यन्तमनूद्य व्याचष्टे-हेयमिति ।
मिथ्याज्ञानमात्मादिषु प्रमेयेषु अविद्या तन्मूलं तृष्णा ।
उपलक्षणं चैतत्, द्वेषो ऽपि द्रष्टव्यः ।
तन्मूलौ च धर्माधर्मौ, तदेतद्धेयम् ।
हानं तत्त्वज्ञानं हीयते ह्यनेनैतत् सर्वम् ।
तस्य प्रमाणस्य ।
उपायः शास्त्रम् ।
अधिगन्तव्यो मोक्षः ।
एवम्मवयवान् विभज्य तात्पर्यमाह–एतानीति ।
एतानि चत्वार्यर्थपदानि पुरुषार्थस्थानानि, न केवलं हेयाधिगन्तव्यभेदेन द्वादशविद्र प्रमेयं दर्शयतः तद्विषयतत्त्वज्ञानाय च सोपकरणन्यायाभिधानप्रमाणव्युत्पादकं शास्त्रं प्रणयतः सूत्रकारस्य सम्मतम्, अपि तु सर्वेषामेवाध्यात्मविदामाचार्याणामिति भाष्यतात्पर्यमित्यर्थः ।
तत्र संशयादीनां पृथग्वचनमनर्थकम् इत्यादि चोद्यभाष्यं व्याचष्टेसंशयाद्यग्रहणमिति ।
सत्यमिति परिहारभाष्यं व्याचष्टै–न विद्येति ।
चोद्यं विवृणोति–संशयादय इति ।
परिहारं विवृणोति–न विद्येति ।
प्रस्थानं व्यापारः ।
तेषां पृथग्वचनमित्यादि भाष्यं व्याचष्ट–तस्याः संशयादीति ।
न च वाचयमस्तु विद्यात्रयमेव, कृतमान्वीक्षिक्या विद्ययेति, तस्या एव समस्तविद्यावदातीकरणहेतुत्वात् ।
यथा वक्ष्यति–प्रदीपः सर्वविद्यानामिति ।
स चायं किंस्विदिति वस्तुविमर्शमात्रमनवधारणज्ञानं संशय इति भाष्यम् ।
तद् व्याचष्टे-तत्र संशयादिषु,
संशयस्तावदिति ज्ञानमवधारणं प्रत्यय इति पर्याया इति मन्वानश्चादयति–अनवधारणात्मक इति ।
न ज्ञानमात्रपर्यायो ऽवधारणशब्दः ।
अपि तु तिद्वशेषविश्चयवचनः किंस्विदिति दोलायमानस्योभयकोटिस्पृशः प्रत्ययस्यार्थे ऽनवधारणात्मकस्यापि प्रत्यात्मं मानसेन प्रत्यक्षेणावधार्यमाणत्वादिति ।
परिहरति–न व्याघात इति ।
तत् तस्मात् अभयमिति ।
तत्र नानपलब्धे इत्यादि भाष्यमवतारयितुं पृच्छति– स कथं न्यायस्येति ।
यदि न्यायस्याङ्ग संशयो भवेत्, सो ऽपि व्युत्पाद्येतेति भावः ।
उत्तरम्–यस्मादिति ।
एतदाक्षिपति–उपलब्ध इति ।
पञ्चरूपश्चतूरूपो वा हेतुर्न्यायः ।
प्रतिज्ञाद्यवयवसमूहो वा न्यायः ।
नीयते प्राप्यते विवक्षितार्थसिद्धिरनेनेति ।
तस्याश्रयो विषय उपलब्ध उच्यमानो निर्णोत एव वक्तव्यः ।
सन्दिग्धे हि तस्मिन् हेतुः सन्दिग्धाश्रयतया असिद्धः स्यात् ।
यथेह नगनिकु।जे मयूरः केकायितापातादिति ।
तदापातसन्देहे अतो न निर्णीतश्चेन्नोपलब्धः ।
ततश्चोपलब्धश्चानिर्णोतश्चेति व्याहतमित्यर्थः ।
परिहरति–नास्ति व्याघात इति ।
समामन्यतः पर्वतमात्रमुपलब्धं निर्णोतम्, तद्विशेषस्तु वह्निमत्त्वादिरनिर्णीत इति ।
पुनश्चोदयति–एवमपीति ।
उपलब्धो निर्णोत इति हि सामानाधिकरण्यात् समानविषयत्वं दर्शयति ।
तथा च व्याघातः ।
सामान्यविशेषभेदेन तु व्याघातं परिहरन् सामानाधिकरण्यं न समर्थयस इति भावः ।
परिहरति-न, यथा तथेति व्यापदेशादिति ।
सामान्यविशेषयोः सामानाधिकारण्यात् ।
य एव सामान्यो निर्णोतः, स एव विशेषतो ऽनिर्णोतो ऽपि सम्भवतीति न व्याघात इत्यर्थः ।
एवमर्थ न्यायप्रवृत्त्यर्थम्, असन्दिग्धे न्यायप्रवृत्तेरनुपपत्तेः ।
न हि करिणि दृष्टे चीत्कारेण तमनुमीमे पेक्षावन्त इति ॥
प्रयोजनस्वरूपप्रतिपादनपूर्वकं प्रयोजनपदप्रयोजनप्रदशनार्थं भाष्यमनुभाषे–अथ प्रयोजनम् ।
व्याख्यातुं पृच्छति–किं पुनरिति ।
उत्तंरं– येनेति ।
स्फुटतरमवैतत् इत्यर्थः ।
पुनः पृच्छति–केनेति ।
एकदेशिमतेनोत्तरमाह–धर्मेति ।
तत्र काम इतीच्छामात्रं वोच्यते, कामिनीविषयो वा रागः? पूर्वस्मिन कल्पे काम इत्येवास्तु कृतं धर्मादिभः, सर्वेषामेव काम्यमानत्वात् ।
उत्तरस्मिन्नव्याप्तिः, सरकमृगयादीनां काम्यानामसङ्ग्रहात् ।
धर्ममोक्षयोरपि नास्तिकान् प्रत्यप्रवर्तकत्वम् ।
तस्मादयुक्तमेदिति मन्वान आह– वयं तु पश्याम इति ।
सुखस्याप्त्या दुःखस्य हान्या विषयेण विषयिणं प्रत्ययमुपलक्षमति ।
असत्योरकारणवात्, सत्योर्वा अनर्थकत्पवात् प्रवृत्तेरिति ।
तथापि सुखदुःखाप्तितहान्योरेव कर्तुः प्रवृत्तिप्रसङ्गो न तत्साधने, न ह्यन्यद्विजानाति इच्छति च करोति चान्यदिति घटते, अतिप्रसङ्गात् ।
न च फलं पुरुषप्रवृत्तिगोचरः, तत्साधनं तु तद्गोचरः ।
तत्साधनत्वविज्ञानात् तत्साधन एव प्रवर्तते ।
तन्नातिपसङ्ग इति चेत्? हन्त तर्हि तत्साधनत्वज्ञानमेव प्रवर्तयति, न फलज्ञानम्, ज्ञानेच्छाप्रवृत्तीनां कार्यकारणभूतानां सामानाधिकारण्येन सम्प्रतिपत्तंरित्यभिप्रायेणाह–सुखदुःखसाधनभावत् सर्वे ऽर्थाश्चेतनं प्रयोजयन्तीति ।
तुशब्दः फलाद् व्यवच्छिनत्ति ।
अत्रापि विषयेण विषयिणं प्रत्ययमुपलक्षयति ।
एतदुक्तु भवति, तोयमुपलभ्य तज्जातीयस्यापेक्षिसाधनां दृष्टचरीमनुस्मरति ।
अथ तज्जातीयता लिङ्गेन दृश्यमानस्यापेक्षिसाणनभावमनुमिमीते ।
अनुमाय च पिपासुः प्रवर्तते ।
तेनोपायज्ञानस्य साक्षात् पुरुषप्रवृत्तिहेतुवम्, फलस्य त्वीप्सितमस्योद्येशतयेति सर्वं सुन्दरम् ।
तदाश्रयश्च न्यायः प्रवर्तते इति भाष्यं व्याचष्टे–तदिदं प्रयोजनं न्यायस्येति ।
आक्षिपति–क इति ।
समाधत्ते–उपकारकत्वमिति ।
यथा राजाश्रितः पण्डित इति ।
उपकारकत्वमेव दर्शयतितन्मूलत्वादिति ।
विधिः प्रवृत्तिः ।
न जातु निष्प्रयोजना काकदन्तादौ परीक्षामारभन्ते प्रेक्षावन्त इत्यर्थः ।
आक्षिपति–का पुनरियमिति ।
न्यायाश्रयत्वं प्रयोजनस्य प्रतिज्ञाय परीक्षाश्रयत्वसमर्थनमसङ्गतमिति भावः ।
उत्तरम्–न्यायः ।
तस्मान्नासङ्गतमित्यर्थः ।
नन्वेवमपि नीयते प्राप्यते विवक्षितार्थसिद्धिरनेनेति व्युपत्त्या प्रत्यक्षादि प्रत्येकं न्यायः ।
न चैतत् प्रत्येकं प्रयोजनमाश्रयते ।
अजिहासितानुपादित्सितानामप्यविज्ञासितानामर्थानां प्रत्यक्षादिगोचरत्वदर्शनादित्त्याक्षिपति–कः पुनरयं न्यायः? समाधत्ते–प्रमाणैरिति ।
प्रत्यक्षादिप्रमाणमूलाः प्रतिज्ञादयः पञ्चावयवाः प्रमाणानि ।
तैरर्थस्य लिङ्गस्य परीक्षण परीक्षा ।
परीक्षितु तु लिङ्ग पन्चावयवोपपन्नमनुमेयप्रत्ययफलं भावयत्येव, न त्वतुमेयार्थपरीक्षा ।
तस्य सन्दिग्धत्वे ऽपि स्वरूपेण परीक्षानास्पदत्वादिति ।
नन्ववयवैश्चेदर्थपरीक्षण न तर्हि प्रमाणैः, कार्यकारणयोरभेदाभावादित्यत आह–किमुक्तं भवतीति ।
न साक्षत् प्रतिज्ञादयो ऽवयवा अर्थपरीक्षायामुपयुज्यन्ते ।
अपि तु स्वकारणतत्प्रमाणसूचनेन ।
तस्मात् प्रमाणानामवान्तरव्यापारः प्रतिज्ञादय इत्युपपन्नं प्रमाणैरर्थपरीक्षणम् ।
तदिदमुक्तम्–प्रमाणव्यापारादितीति ।
तस्मात् नैकैकं प्रमाणमिति ।
समस्तप्रमाणोपकरणत्वादेव चास्य परमत्वमित्याह–सो ऽयमिति ।
पञ्चावयवोपपन्नतया च प्रत्यक्षागामाश्रितत्वम्, न तद्विरोध इति प्रदर्शनार्थं भाष्यमनुभाष्य तात्पर्यां व्याचष्टे–प्रयक्षागमेति ।
कथं पुनरनेन भाष्येण तदुच्यत इत्यत आह–यदिहानुमानेनेति ।
यत् पुनरनुमानमित्यादि भाष्यं व्याचष्ट–चत्र पुनरिति ।
यत्र हि विरोधस्तत्र प्रमाणमूलानामवयवानां प्रतिज्ञादीनामितरेतरप्रतिसन्धानमेकवाक्यता नास्ति ।
प्रमाणविरोधेन चोग्यताविरहिणां तत्पदार्थानां पारमार्थिकान्वयाभावादिति ।
तीर्थं दर्शनं तस्य प्रतिरूपकः ।
अदर्शनमिव दर्शयतीति यावत् ।
स खलु तादृशः पञ्चावयवप्रयोगो लाभपूजाख्यातिकामैः पण्डितव्य।जनैरूपवर्ण्यमानः प्रत्यवायाय, प्रागव त्वपवर्गायेत्यर्थः ।
तदेवं समुदायतो भष्यं व्याख्यायवयवविभागाय पठति-यत् पुनरनुमानमिति ।
प्रत्यक्षविरुद्धोदाहरणमाह–अनुष्णो ऽगिरवयवी कृतकत्वाद् घटवदिति ।
अत्र चोदयति–कः पुनरिति ।
इदमात्राकूतम्–रूपत्रयसम्पन्नमेतत् कृतकत्वं न वा? न चेत्, तत एवे तर्हि तदनुमानाभासमिति कृतं प्रत्यक्षविरोधेन ।
अथान्वयव्यतिरेकपक्षधर्मततासम्पन्नमपि बाधितविषयतयैततदप्रमाणम्? तदयुक्तम्,
रूपत्रयसम्पत्त्यां खल्वेतत् स्वासाध्येनाविनाभूतं भवति ।
न च बाधाविनाभावयोः सह सम्भवः ।
बाधायामपक्षधर्मो भवेत्, अनैकान्तिकश्च हेतः ।
विज्ञासितधर्मणो धर्मिणः पच्यमानत्वेन पक्षत्वम्, न पुनः प्रत्यक्षावधृतसाध्यविरुद्धधर्मस्य ।
तस्याजिज्ञासितत्वेनापक्षतया तद्धर्मस्यापक्षधर्मत्वान्न चैकान्तिकः ।
साध्यधर्मिण्येव प्रत्यक्षोपस्थापितसाध्यधर्मवति दर्शनेन व्यभिचारात् ।
न च सपक्षासपक्षावेवान्वयव्यतिरेकागम्याविनाभावदर्शनविषयौ न पक्ष इति साम्प्रतम् ।
यदि हि पक्षं विहाय बहिरेव सपक्षासपक्षयोरविनाभावो गम्येत, तदा बहिर्व्याप्तिमात्रबलेन पक्षधर्मो ऽपि हेतुर्न पक्षे साध्यं साधयेत् ।
असिद्धा हि तत्रास्य स्वसाध्येन व्याप्तिः ।
तदेतत् पण्डकमुद्वाह्य मुग्धायाः पुत्रप्रार्थनमिव ।
तस्मादन्तर्बहिर्वा सर्वोपसंहारेणाविनाभावो ऽवगन्तव्यः ।
एवं च सिद्धः पक्षे ऽपि व्यभिचारः साधनधर्मस्येत्यनैकान्तिकत्वम् ।
तथा च रूपत्रयसम्पन्नो हेतुर्बाधितविषयश्चेत्यसम्भवः ।
तस्मात् सुष्ठूक्म्–कः पुनरस्यानुमानस्य रूपत्रयसम्न्नस्य विरोधः? न ह्यस्ति सम्भवो रूपत्रयसम्पन्नं विरुद्धं चेत्यर्थः ।
अत्र समाधिमाह–अनुमानाविषये प्रयोगः ।
वक्ष्यति ह्यनुमानाधिकारे यथानौपधिकः सम्बन्धो हेतुसाध्ययोरनुमानाङ्गम्, न तु कार्यकारणभावादिरव्यापकत्वादतिप्रसङ्गच्चेति ।
स चैवं प्रवर्तते–यो यः कृतकः स सर्वो ऽनुष्णो यथा घटदिरिति ।
न च वह्नेरिव धूमसम्बन्धे आर्द्रेन्धनसंयोगो गुर्वन्तवासिनोः साहचर्ये इव स्वाध्यायाध्ययनमुपाधिः कृतकत्वानुष्णत्वयोः सम्बन्धे उपलभ्यते ।
सो ऽयं शङ्कितः समारोपितो वा प्रयत्नेन पुनःपुनरन्विष्यमाणो ऽनुपलभ्यमानस्तत्र तत्र घटादावुपाधिर्नास्तीति प्रत्यक्षेण, यद्यभविष्यद् घटादिवदेव व्यज्ञास्यत्र, विज्ञानाभावान्नास्त्येवेति तर्कसहायेन निश्वीयते ।
सो ऽयं रूपेणेव रसस्य, श्वस्तनेनेव सवितुरूदयेनाद्यनस्य तदुदयस्य, समुद्रवृद्धचेव चन्द्रोदयस्य समानकालस्य, कृतकत्वस्यानुष्णत्वेन स्वाभाविक औत्सार्गिकः सम्बन्धः सामान्येन यो यः कृकः स सर्वो ऽनुष्ण इत्यवधारितः, न तु निर्विभज्य तेजो ऽवयविनि ।
न हि सर्वोपसंहारवती व्याप्तिरेकदेशविषया भवितुमर्हति ।
एकदेशविषयत्वे यत्रैव न दर्शिता तेनैवानैकान्तिकत्वमाशङ्क्येत ।
तथा च तत्र तत्रैकदेशे प्रत्येकं व्याप्तिप्रदर्शनमशक्यम्, आनन्यात् ।
तस्मात् सर्वोपसंहारेणैव तदुपदर्शनम्, तदिह कृतकत्वमौत्सर्गिकसामान्यविषयव्याप्तिस्मरणसध्रीचीनं पक्षधर्मतावशात् विशेषे तेजोवयविनि साधयितुमनुष्णतोन्मुखं यन्न साधयेत् तत् किं प्रत्यक्षेणापहृतविषयत्वात्, आहोस्विदनैकान्तिकत्वात्? न तावदनैकान्कित्वम्, प्रागेवसामान्यतो ऽनौपाधिकसम्बन्धस्यावधारणात् ।
उष्णे तेजोवयविनि कृतकत्वस्य दर्शनाद् अनैकान्तिकमपक्षधर्मो वा कृतकत्वमिति चेत्-न, अनुमानेन सामान्यतो ऽवधृतव्याप्तिना तस्यानौष्ण्यासाधनात् ।
प्रत्यक्षेण तेजो ऽवयविन औष्ण्यग्रहेण तत्र कृतकत्वस्य हेतोर्वृत्तावुत्पन्नमपि व्याप्तिविज्ञानं बाध्यते ।
ततश्चानैकान्कित्वादप्रवृत्तिरनुमानस्येति चेत्-न, अनुमानप्रवृत्तिविषये साध्यधर्मिणि हेतोर्व्यभिचारानुद्भावनात् ।
अन्यथा तद्गतसाध्यधर्मसन्देहे तत्रोपलभ्यमानः साधनधर्मः सन्दिग्धब्यतिरेकिवादनैकान्तिकः स्यात् ।
सन्दिग्धसाध्यधर्मे दृष्टान्त इव साधनधर्मः ।
तथा चानुमानमात्रमुच्छिद्येत, प्रत्यक्षेण साध्यधर्मविपर्यदर्शनात् ।
तेजोवयविनो ऽनुष्णत्वेनासाधयत्वम्, तथा चानैकान्तिकत्वम् ।
तदिदमुक्तम्–यस्मिन विषये तेजसो ऽनुष्णत्वे एतत् प्रयुक्तम्, स प्रत्यक्षेणापहृत इति ।
एवं चानुमाने दूषिते कृतमपक्षधर्मत्वव्यभिचाराभ्यां तदुपजीविभ्यामिति भावः ॥
यत् पुनः दिग्नागेन प्रत्यक्षविरुद्धमनुमानमुदाहृतं तदुपन्यस्यति- अपरे पुनरिति ।
अश्रावणः शब्दः कृतकत्वाद् घटादिवदिति ब्रुवाणः शब्दस्वरूपमेवापलपति ।
न हि श्रवणेन्द्रियादन्यदस्ति शब्दग्रहणकारणम् ।
न हि श्रवणेन्द्रियादन्यदस्तित शब्दग्रहणकारणम् ।
न चागृह्यमाणः शब्दः सद्व्यवहारगोचरः ।
तस्मादेवंवादिनो ऽभिप्रायव्याप्तमसत्त्वं शब्दस्य ।
तथा च प्रत्यक्षविरोध इति भावः ।
दूषयि–तैस्त्विति ।
सविशेषणे हि विधिनिषेधौ विशेषणमुपसङ्क्रामत इत्युत्सर्गः ।
क्वचित् पुनर्विशिष्ट विधानमपि भवत्यनन्यगतित्वात् ।
तद्यथा-
लोहितोष्णीषा ऋत्विजः प्रचरन्ति ।
सति विभवे न जीर्णमलवद्वासाः स्तातकः स्यात् ।
इति ।
तद्वदिहापि अश्रावणः शब्द इति श्रुतिवाक्ययोः सामर्थ्यात् श्रावणत्वविशेषणोपसङ्कान्तो निषेधो न विशेष्येण शब्देन सह सम्बध्यते ।
नापि श्रावणत्वनिषधादार्थः शब्दनिषेधो वाद्यभिप्रायव्याप्तः ।
वचनार्थाविरोधिनो ऽर्थस्यार्थगम्यत्वान्न तद्विरोधिनः श्रावणत्वनिषेधस्य चाधिकारण शब्द इति न शब्दाभावे तन्निषेधो ऽवकल्पते ।
न चाभावस्तुच्छ इति तृतीय उपपादयिष्यते ।
न च श्रावणत्वं प्रत्यक्षगोचरः ।
तद्धि शब्दश्रोत्रयोः सम्बन्ध,
कृत्तद्धितसमासेषु सम्बन्धाभिधानं त्वतल्भ्याम् ।
इति कात्यायनीयवचनात् ।
न च प्रत्यक्षाप्रत्यक्षवृत्ति ।
सम्बन्धः प्रत्यक्षः ।
तस्मात् श्रावणत्वमप्रत्यक्षमिति नात्र प्रत्यक्षविरोधः ।
तदिदमुक्तम्–इन्द्रियवृत्तीनामनीन्द्रियत्वादिति ।
वृत्तिः स्वार्थे सम्बन्ध इत्यर्थः ॥
आगमविरुद्धमुदाहरति-शुचीति ।
मन्वादिभिर्नरास्थिस्पर्शप्रतिषेधात्, स्पर्शे च प्रायश्वित्तोपदेशादशुचित्वं नरशिरःकपालादीनामिति ।
कापालिक आक्षिपति–कथमिति ।
नास्माकं वेदस्तन्मूला वा स्मृतयः प्रमाणमित्यभिप्रायः ।
उत्तरम्- शुचि नरशिरः- कपालमिति ब्रुवता श्रुतिस्मृतीतिहासपुराणानपेक्षेणानुमानमात्रसहायेनात्र वस्तुनि वया शुचिरूपो ऽर्थो वक्तव्यः ।
किमुक्तं भवति शुचीति? यदि उच्येत स्प्रष्टुः प्रत्यवायाभावः? सिद्धान्ती पृच्छति–स कस्येति वाच्यम् ।
यद्यात्मन इति ब्रूयात् कापालिकः, अविगीता हि व्यवहारपरम्परास्माकं कापालिकानां नरशिरःकपालकस्पर्शतदवस्थितान्नपानोपयोगलक्षणा, दाक्षिणात्यानामिवाह्नेनैवुकादिलक्षणा क्रिया श्रेयस्करी ।
तस्मादस्माकमप्रत्यवायकरया शुचि नरशिरःकपालमित्यर्थः ।
तत्र सोपहासम् उत्तरमाह-तदागमानुष्ठानतात्पर्यावस्थानात् कापालिकस्यैवमेतत् ।
श्रुतिस्मृतीतिहासपुराणलक्षणागमविहितमर्थमाचरतां तन्निसिद्धं च परिहरतां दाक्षिणात्यानामाह्नेनैवुकाद्यनुष्ठानमनादि अद्य यावदनुवर्तमानमविगीतमाम्नायमूलतामनुमापयति आत्मानः श्रेयोहेतुभावेन, न खल्वागमानपेक्षः सहस्रेणाप्यनुमानैरिममर्थमवगन्तुमर्हति ।
कापलिकानां त्वागमविहितमकुर्वतां कुर्वतां च तन्निषिद्धमर्थं प्रयत्नेनानादिरपि व्यवहारः शाक्यमल्लकादीनामिव न वेदानुमानमूलमिति भावः ।
अथ त्रयीविदां नरशिरःकपालमप्रत्यवायहेतुरिति ब्रूयात्, तदा त्रय्या वक्ष्यमाणेन न्यायेन प्रामाण्योपगमादागमविरोधः, तदीयस्पर्शस्य त्रय्यां निषेधेन प्रत्यवायहेतुवनिश्चयात् ।
अपि चागमानपेक्षो ऽनुमानेन शौचं नरशिरःकपालंव्यवस्थापयन् प्रष्टव्यो जायते– शुचि नरशिरःकपालमिति को ऽर्थः? ननु च एव वाक्यात् प्रतीयते स एवार्थः, तत् किं पृच्छचत इत्यत आह–विशेषविधानं च शेषप्रतिषेधपरं लोके दृष्टम्, यथा दक्षिणेन चक्षुषा पश्यतीति उक्ते न वामेनेति गम्यते ।
तदिह यदि शुचि नरशिरःकपालम्, किमन्यदशुचीति वक्तव्यम् ।
न हि नरोच्चारादीनामशुचित्वे प्रमाणमन्यदस्त्यागमात् ।
आगमप्रमाण्यं च न मन्यस इति भावः ।
अथ त्रयीविद्वेषाद् अनुमानपक्षापातिना त्वया सर्वमेव नरविट्कपालादि शौचपक्षे निक्षिप्यत इत्याह–अथ सर्वमेव शुचि ।
परिहरति–दृष्टान्तो नास्ति ।
कृतः? सर्वस्य पक्षीकृतत्वात् ।
चोदयति–अथानुमानविरुद्ध्र कस्मादनुमानं न भवतीति ।
न खलु प्रमाणत्वेन प्रत्यक्षागमाभ्यामनुमानस्य कश्चिद् विशेषो येन तौ बाधकावनुमानस्य नानुमानमिति भावः ।
परिहरति–एकस्मिन्ननुमानद्वयसमावेशाभावात् ।
अयमभिसन्धिः—यत् तावदनुमानं पूर्वप्रवृत्तं तेन बाधितविषयं तब्दलभावि पश्चत्तनमनुमान न स्वकार्याय पर्याप्तम्, यथोक्तमश्रावणः शब्दः कृतकत्वाद् घटादिवदियस्यानुमानस्यानुमानविरोध इति ।
लब्धस्वरूपं हि वस्तु क्वचित् किश्चिन्निषिध्ये, न तु ज्ञानाकारालीके बहिरिति तृतीये निव्रदयिष्यते ।
तदिह श्रावणत्वं शब्दस्य निषेधतापूर्वं श्रवणमिन्द्रियमतीन्द्रिय तद्ग्राह्रात्वं च वस्तुनी अनुमातव्ये शब्दोपलम्भलक्षणेन कार्येण ।
तथा चैतेनैवानुमानेनापहृतविषयमश्रावणत्वानुमानं चरममन्वयव्यतिरेकसम्पन्नमपि न स्वोचितं कार्या जनयति ।
एवे तनुभुवनादीनां न कर्तेश्वरो ऽशरीरित्वान्मुक्तसत्मवत् प्रयोजनाभावादित्याद्यापीश्वरधर्मिग्राहिमूलानमानेनापहृतविषयतया न्यायाभासं वेदितव्यम् ।
तस्मात् परस्परानपेक्षसमानकालप्रवृत्तिसमर्थानुमानद्वयसमावेशाभावाभिप्रायमेतदुक्तम् ।
न ह्यनयोरन्यतरद् बाध्यं बाधक वा सम्भवति, किं तु मिथः सत्प्रतिपक्षतया न प्रमां कुरुतः ।
कस्मात् पुनर्न समावेशो ऽनुमानयोः? असमावेशे वा कुतः सत्प्रतिपक्षतेत्यत आह–न ह्यन्वयव्यतिरेकसम्पन्ने इति ।
इहान्वयव्यतिरेकग्रहणेन समानबलयोरन्वयव्यतिरेकपक्षधर्मत्वासत्प्रतिपक्षत्वान्युपलक्षितानि ।
एतैः सम्पन्नयोर्यदि समावेश एकस्मिन् विषये भवेत्, तत एकतरस्य बाध्यत्वं बाधकत्वं वा गम्येतापि ।
न त्वेतदस्ति, असप्रपिपक्षतासम्पत्तेरभावादिति ।
उपसंहरति- -तस्मान्नानुमानविरुद्वम् अनुमानं तुल्यबलम्, अपि तु सत्प्रतिपक्षमित्यर्थः ।
प्रत्यक्षमप्यनुमेयविरुद्धसाधनादनुमानस्य प्रतिपक्ष इति सत्प्रतिपक्षतयान्वयव्यतिरेकादिसम्पन्नस्यानुमानस्य न प्रत्यक्षेण तद्विरुद्धार्थोपसंहारिणा समावेश इति न बाध्यबाधकभाव इयभिप्रायेण चोदयति–प्रत्यक्षविरोध्यपीति ।
परिहरति न नेति ।
तुल्यबलौ हि मिथः प्रतिपक्षौ भवतः न तु दुर्बलोत्तमबलौ ।
न हि भवति तरक्षुः प्रपिक्षो हरिणशावकस्य, किं तु समरकण्डूनिघ्नविषाणकोटिसमुल्लिखितगण्डशैलस्य विपिनमाहिषस्य ।
तस्मात् ।
पूर्वभावि प्रत्यक्षमनन्यथासिद्धं सदसत्प्रतिपक्षमनुमानं समानविषयसमावेशाद् बाधत इति युक्तमित्यर्थः ॥
चोदयति–अथोपमानविरुद्धमनुमानं कस्मान्न भवति? गोसदृशो गवय इत्यारण्यकस्य वाक्यं श्रुत्वा यदा नागरको वनं गतो गोसदृशं पिण्डमुपलभे, तदास्य वाक्यार्थानुभवाहितसंस्कारप्रबोधजनितस्मृत्यपेक्ष गोसादृश्यज्ञानमुपमानं पुरो ऽवस्थितस्य पिण्डस्य गवयशब्दवाच्यत्वज्ञाने प्रमाणम् ।
तत्र यदि कश्चित् ।
प्रमाणयेत् नैष पिण्डो गवयशब्दवाच्यो गोपिण्डसादृश्याद् गोपिण्डान्तरवदिति, तदिदमनमानमुपमानेन बाधितविषयमस्त्वित्यर्थः ।
सम्प्रतिपत्तिरुत्तरम्–नोपमानविरुद्धं न भवतीति अनुषज्यते ।
अस्ति चेत् कस्मान्नोक्तमित्यत
आह–पूर्वप्रमाणविरोधानुविधानान्नोक्तमिति शेषः ।
तद् दर्शयति–उपमानविरोध इति ।
स्वफलद्वारा शब्दं प्रमाणं दर्शयति–उपमानविरोध इति ।
स्वफलद्वारा शाब्दं प्रमाणं दर्शयति–आगमेति ।
स्वफलद्वारैव प्रत्यक्षं प्रमाण दर्शयति–सारूप्यज्ञानमिति ।
उपसंहरति–प्रत्यक्षागमयोर्विरोधात् विरोधाभिधानाद् उक्तं तद् उपमानविरुद्धमनुमानमिति ॥
भाष्यमनुभाष्याक्षिपति–तत्र वादजल्पाविति ।
प्रयोजनस्वरूपोपयोगाभिधानानन्तरं दृष्टान्तपदे व्याख्यातव्ये तदुल्लङ्घनेन वादजल्पयोः को ऽवसर इत्यर्थः ।
अवसरमाह–तेनानेनेति ।
प्रयोजनव्याख्यानाङ्गमेवेदं न वादजल्पव्याख्याङ्गमित्यस्त्यवसर इति भावः ।
तत्रशब्दार्थं व्याचष्टे–तस्मिन्न्यायाभासे इति ।
वादजल्पकथयोर्हि न द्वयोर्वादिप्रतिवादिनोः साधने समीचीने सम्भवतः, वस्तुनि विरुद्धधर्मद्वयसमावेशामावात् ।
तस्माद् द्वयोरेकस्य न्यायः, एकस्य तु न्यायाभास इति वादजल्पाभ्यां विविच्यते ।
न्यायाभास इति तु सन्निधानादुक्तम्, सन्निहितार्थत्वात् सर्वनाम्न इति ।
वितण्डा तु परीक्ष्यतम्, सप्रयोजना निष्प्रयोजना वेति ।
तुशब्दः प्रसिद्धप्रयोजनाभ्यां वादजल्पाभ्यां व्यवच्छिनत्ति ।
प्रतिपक्षस्थापनाहीना हि वितण्डोच्यते ।
तत्र स्थापनाहीनत्वात् प्रतिपक्षहीनेति प्रतीयते ।
न खलु स्थापनाभावे स्थाप्यसम्भवः ।
तथा वितण्डचते व्याहन्यते ऽनया प्रतिपक्षसाधनमिति व्युत्पत्त्या परपक्षोपघातेन पारिशेष्यात् स्वपक्षसिद्धिरस्याः प्रयोजनं प्रतीयते ।
तदेवं सन्दिग्धप्रयोजना सती वितण्डा परीक्ष्यते, प्रयोजनवती न वेति ।
तत्र यदि निष्प्रयोजना ततो न सर्वा विद्याः, सर्वाणि कर्माणि, तन्मुखेन च सर्वे प्राणिनः प्रयोजनेन व्याप्ताः, वितण्डाया एव कर्मरूपाया विद्यारूपाया वा निष्प्रयोजनात्वात् ।
अथ प्रयोजनवती, तत उपपन्ना प्रयोजनव्याप्तिः ।
किं तावत् प्राप्तम्? तत्र केचिद् ब्रुवते निष्प्रयोजना वितण्डेति ।
स्थापनाहीनतया तावत् स्थापयः पक्षो नास्ति ।
अवयवव्युत्पत्त्यापि परसाधनाविधातः प्रतीयते ।
न च तावन्मात्रेण स्वपक्षसिद्धिरस्ति ।
न हि पर्वतनितम्बवर्तिति धूमे असिद्धत्वादिना दूषिते वह्नेस्तत्राभावो निश्चीयते ।
तदिदमुक्तम्–दूषणमात्रत्वादिति ।
तमिमं निष्प्रयोजनवितण्डावादिनं प्रत्याहतच्च नैवमिति ।
परसाधनदूषणेनास्य पारिशेष्यात् स्वपक्षः सिध्यतु, मा वा सैत्सीत्, स तु स्वपक्षसेद्धचैव प्रयोजनेन प्रतिपक्षसाधनमाहन्तीति भावः ।
तदनेव (स) यदि प्रयोजनमनुयुक्त इत्यादि भाष्यं व्याख्यातम् ।
अथ न प्रतिपद्यत इत्यादि भाष्यं व्याचष्ट–अथ पक्षमपीति ।
अथापीत्यादि भाष्यं व्याचष्टे–अथ परपक्षेति ।
नास्तिको हि सदसदुभयानुभयरूपतया न विचारं सहन्त इति प्रमेयाणि सर्वथा दूषयति ।
तदयं परपक्षप्रतिषेधमात्रप्रयुक्तः प्रवर्तते ।
न त्वस्यास्ति पक्षो न च स्थापना ।
तयोरपि प्रमेयपक्षपातितया दूष्यत्वादित्यर्थः ।
एतदपीत्यादि भाष्यं व्याचष्ट– तादृगेवैतत् ।
एदद्विभजते–एतस्मिन्नपि पक्षे चतुर्वर्ग चेत् प्रतीपद्यते सो ऽस्य पक्षः ।
प्रतिपत्तिरभ्युपगमः ।
यद्यपि स्थाप्य एव पक्षः, तथापि तन्नान्तरीयकतया अभ्युपगममात्रेण चतुर्वर्गो ऽपि पक्ष उक्तः ।
कश्चतुर्वर्ग इत्यत आह–चतुर्वर्ग इति ।
एष साधनवादी ज्ञापयति–अहं वैतण्डिको जाने अनेन पञ्चावयवेन साधानावाक्येनेदं साध्यं ज्ञाप्यत इति चतुर्वर्गः ।
तत्प्रतीत्या खल्वस्य वैतण्डिकस्य परपक्षनिषेधः प्रयोजनं सिध्यति ।
तथा च न विष्प्रयोजनो ऽयं वैतण्डिक इत्यर्थः ।
द्वितीयं कल्पं दूषयति–अथ न प्रतिपद्यत इति ।
चतुर्वर्गनान्तरीयकत्वात् दूषणमपि न प्रतिपद्यते इत्युन्मत्तवदुपक्षणीय इत्यर्थः ।
अपरमपि नास्तिकवैतण्डिकं प्रति दोषमाह–प्रतिपक्षेति ।
असिद्धविरुद्धादिदोषो वाक्यस्य वैतण्डिकप्रयुक्तस्यार्थः ।
तं यदि प्रतिपद्यते सो ऽस्य पक्षः ।
अथासिद्धविरुद्धादीनां सद्भावाभ्युपगमे प्रमेयमध्यपातिनां प्रमेयमात्रविचारासहत्वाभ्युपगमो विघटत इति स्ववाक्याभिहितमेवाद्धिविरुद्धादि न प्रतिपद्यते, पूर्ववद्दोषः ।
नायं लौकिको न परीक्षक इति ।
तस्माद् वितण्डापि प्रयोजनवतीति नाव्यापकं प्रयोजनमिति सिद्धम् ।
सो ऽयं प्रसक्तानुप्रसक्तिवादः प्रयोजनव्याख्यानाङ्गमित्याह–उक्तं प्रयोजनमिति ॥
दृष्टान्तपदव्याख्यानपरं भाष्यमनुभाषते–प्रत्यक्षविषय इति ।
आक्षिपति–किमुक्तं भवतीति ।
न तावद् यो यः प्रत्यक्षविषयः, स सर्वो दृष्टान्तः, अदृष्टान्तस्यापि प्रत्यक्षविषयत्वात् ।
नापि यो दृष्टान्तः स सर्वः प्रत्यक्ष विषयः, आगमादिविषयस्यापि दृष्टान्तत्वात् ।
तस्मादयुक्तमेतदित्याक्षेप इति ।
तत्समाधानभाष्यम्–यत्रेति ।
तद्वचाचष्टे–लौकिकपरीक्षकाणां दर्शनविघातहेतुरिति ।
एतच्च क्वचिल्लौकिकपरीक्षकाणाम्, क्वचित् परीक्षकाणामिति मन्तव्यम् ।
अन्यथा यदप्रसिद्धं लौकिकानां केवलं पण्डितरूपवेदनीयं परमाण्वादि तस्यादृष्टान्तता स्यात् ।
अत्र च यो दृष्टान्तः स एवम्, त तु य एवे स दृष्टान्त इति द्रष्टव्यम् ।
एवम्भूतव्याख्यानस्य प्रयोजनं दर्शयति–एवं चेति ।
तद् विभजते–दर्शनाविधातेति ।
न केवलं प्रमेयविरोधः सूत्रविरोधश्चेत्यत आह–ततश्चोदाहरणसूत्रं व्याहन्यते ।
यत् तेषु तेषु शास्त्रप्रदेशेष्वतीन्द्रियोदाहरणसूत्रं सिद्धान्ते पूर्वपक्षे वा यथा,
मन्त्रायुर्वेदप्रामाण्यवत् (२।१।६८),
अणुश्यामतानित्यत्ववत् (५।१।६७)
इत्येवमादि, तद् व्याहन्यते ।
न तूदाहरणलक्षणसूत्रम् ।
तद्धि प्रत्यक्षविषयदृष्टान्तत्वे ऽप्युपपद्यत एव ।
तस्माद् भाष्ये प्रत्यक्षवचनं दृष्टान्तविषयप्रमाणदाढ्रयं लक्षयति ।
प्रत्यक्षमूलत्वाद् वा प्रत्यक्षो दृष्टान्तः, अन्यथानवस्थाप्रसङ्गादिति ।
सो ऽयं दृष्टान्तः प्रमेये ऽन्तर्भवन्नेवमर्थं पृथगुक्त इत्याह–सो ऽयमिति ।
न्यायस्य पञ्चावयवात्मकस्य वचनसमूहस्य दृष्टान्तो मूलम्, अतस्तस्य पृथगुपदेशः ।
अतश्चास्य पृथगुपदेशो यत्–सति तस्मिन्निति ।
अनुमाननिमित्तत्वमाह– पूर्व प्रत्यक्षेति ।
दृष्टान्तधर्मिणि दृढतरप्रमाणावधारितमित्यर्थः ।
शाब्दमूलतां द्रृष्टान्तस्य दर्शयति–पूर्व ज्ञातं चार्थमिति ।
सम्बन्धग्रहणविषयो ऽर्थो दृष्टान्तः, सम्बन्धग्रहणं च शाब्दस्यापि ज्ञानस्य निमित्तं प्रथमश्राविणः शब्दादर्थज्ञानाभावात् ।
तस्मादस्ति शाब्दे ऽपि दृष्टान्तस्योपयोग इति ।
अपरमपि पृथगुपादानप्रयोजनमाह–नास्तिकस्येति ।
अप्रपञ्चने हेतुमाह–तदुक्तं भाष्य इति ॥
सिद्धान्पदविवरणभष्यं व्याचष्टे–अभ्युपगमेति ।
तद्विभजते- -अभ्युपगम इदिमित्थम्भूतं चेति ।
तद्विभजते–इदमितीति ।
इदमिति हि धर्मिविषयं सिद्धान्तं दर्शयति, धर्मो सर्वतन्त्रसिद्धान्तविषयः ।
इत्थमिति प्रतितन्त्राधिकारणाभ्युपगमसिद्धान्तविषयं दर्शयति ।
व्यवस्थायामुपलक्षणतया प्रतितन्त्रसिद्धान्तमात्रमुदाहरति–इदं साङ्ख्येष्वेवेति ।
उपलक्षणतामुदाहरणस्याजानानश्चोदयति–सर्वतन्त्रेति ।
परिहरति–यो ऽयमिति ।
अभ्युपगमव्यवस्थितिरनभ्युपगमाद् व्यवच्छिनत्ति ।
न तु पुरुषविशेषे व्यवस्थापयतीति भावः ।
अस्यापि प्रमेयान्तर्ग्रतस्यापि सतः पृथगुपादानप्रयोजनमाह–तस्य प्रमेय इति ।
तत्र सर्वतन्त्रसिद्धान्तसिद्धस्तावद् विप्रतिपन्नानामपि वादिनां धर्मो, तस्य सर्वतन्त्रसिद्धान्तसिद्धस्य विशेषेषु प्रतितन्त्रसिद्धान्ताः प्रवर्तन्त ।
तथा हि यदि घटो नाम न सर्वतन्त्रसिद्धान्तसिद्धः किमाश्रया अवयवी वा परमाणुसमूहो वा ज्ञानाकारो वा प्रधानपरिणामो वा ब्रह्मपरिणामो वा तद्विवर्तो वेति प्रतितन्त्रसिद्धान्ताः प्रवर्तन्ते? कथं च प्रतितन्त्रसिद्धान्ताश्रयो वादजल्पवितण्डाः प्रवर्तन्ते? किमाश्रयश्च न्यायः स्यात्? तथा यद्यधिकारणसिद्धान्तो न भवेत्, कथं साध्यसामान्यव्याप्तं साधनसामान्यमिति साणनविशेषत् साध्यविशेषो गम्येत? तस्मादस्ति प्रमेयस्यापि सिद्धान्तस्य पृथगुपादनप्रयोजनम् ।
अभ्युपगमसिद्धान्तं चोपरिष्टाद् विचारयिष्यति वात्तिककृत् इति तत्प्रयोजनमिहास्माभिनोग्क्तमिति ॥
क्रमप्राप्तानवयवानाह–अथावयवाः ।
ननु यथा तन्तवः पटस्य समवाचिकारणं किं तथैवैते प्रतिज्ञादयो वाक्यस्य? नो खलु रागनगुणा वर्णाः समवायिकारणतां प्रतिपद्यन्त इत्याह– वाक्यैकदेशा इति ।
अवयवा इवावयवाः, न पुनः समवायिकारणम्, यथा ह्यवयवाः समुदायिन एकस्मिन्नवयविनि कार्ये धारयितव्ये च, एवमेकस्मिन् विवक्षितार्थप्रतिपादने प्रतिज्ञादयो ऽवयवा वाक्यस्य समुदायस्य समुदायिन इति ।
ननु वर्णानामाशुतरविनाशिनां क्रमवतामेककालत्वाभावे समुदायाभावात् कुतस्तत्समुदायो वाक्यम्, कुतश्चैकदेशतेत्याशयवानाक्षिपति–किं पुनर्वाक्यम्? उत्तरम्–पूर्वपदस्मृत्यपेक्षो ऽन्त्यपदप्रत्ययः स्मृत्यनुग्रहेण प्रतिसन्धीयमानो विशेषप्रतिपत्तिहेतुर्वाक्यम् ।
विशिष्यत इति विशेषः पदार्थ एकः, क्रिया वा कारकं वा प्रातिपदिकार्थो वा पदार्थान्तरविशिष्टो वाक्यार्थः ।
यथा सोमेन यजेत गोदोहनेन पशुकामस्य यस्य पिता पितामहो वा सोमं न पिबेत् स व्रात्य इति ।
तस्य विशेषस्यैकस्य प्रतिपत्तिहेतुः ।
तदेवं समूहनिबन्धनं पदानामेककार्यत्वं सूचयति ।
को विशेषप्रतिपत्तिहेतुरित्यत उक्तम्–अन्त्यपदप्रत्ययः ।
अन्त्यं विशेष्यं विरोषणपूर्वकत्वात् ।
तस्य पदम् ।
न च तदविदितं सत्तामात्रेण चक्षुरादिवद् विशेष्यं प्रतिपादयतीत्यत उक्तम्–प्रत्यय इति ।
प्रतीयमानं विशेष्यवाचि पदं विशेष्यं बोधयति ।
प्रतीतिश्च नानुभवः, अपि तु स्मृति ।
न हि क्रमवद्वर्णसमुदायः पदं श्रवणेन्द्रियानुभवगोचरः सम्भवति, सम्भवन्ति तु प्रत्येकं वर्णाः ।
न चैते प्रत्येकं पदम् ।
न च पूर्ववर्णस्मृतिनिचयसाहितो ऽन्त्यवर्णानुभवः श्रोत्रज
इति युक्तम्, स्मृतीनां स्वकार्यसंस्कारविरोधिनीनामसहभावात् ।
विनश्यदविनश्यदवस्थयोस्तूपान्त्यान्त्यवर्णस्मृत्यनुभवयोः स्यात् ।
न चैतावतार्थप्रत्ययः पूर्ववर्णस्मृतीनां निरोभावात् ।
न च पूर्ववर्णानुभवनितसंस्कारसहकारिणः श्रवणादेव लब्धजन्मनः प्रत्ययस्यैकस्याध्यस्ततत्स्मृत्यनुभवरूपवैचित्र्यस्य सदसद्वर्णावगाहिनो विषयभावमापन्ना वर्णा अर्थधियमादधतीति साम्प्रतम्, सम्बन्धसंवेदनाहितसंस्कारोब्दोधसमयजन्मना स्वजनितेन संस्कारेण सम्बन्धस्मृत्युत्पत्तिसमये विनाशात् पदार्थावबोधकत्वानुपपत्तेः ।
तस्मात् स्मृतिरेव प्रत्ययः ।
अत एवाध्ययनसमये गुरुमुखाद् गृहीतो वेदराशिर्वेदाङ्गोपाङ्गज्ञानसंस्कृतेन स्मर्यमाण एव तस्यार्थं बोधयति ।
एवं च यदा पदार्थप्रत्यायन एव पदानुभवो न कारणम्, तदा वाक्यार्थज्ञाने नानापदार्थस्मरणाकाङ्क्षायोग्यतासन्निधानावधारणादिव्यवहिते कैव कथेति ।
यदि तर्हि विशेष्यपदमेव स्मर्यमाणं विशिष्टमर्थमवगमयति कृतं पदान्तरैः, तत एव वाक्यार्थप्रतिपत्तेरित्यत उक्तम्–पूर्वपदस्मृत्यपेक्षः ।
पूर्वं विशेषणम्, तत्पूर्वकत्वाद् विशेष्यप्रतीतेः ।
तस्य पदव स्मर्यमाणपूर्वपदापेक्षः ।
यद्यपि स्मरणानि न सह सम्भवन्ति तथाप्येकस्मृतिसमारूढानि वा पदानि निरन्तरस्मृतिसन्तानसमारूसनि वा परस्परापेक्षाणि ।
तथा च स्मर्यमाणं विशेष्यपदं विशेषणपदापेक्षं विशिष्टमर्थमवगमयतीति ॥
स्यादेतत् ।
पदमाला चेत् स्मर्यमाणा वाक्यार्थवोधनी, कृतं तर्हि पदार्थवोधनेन, कृतं च पदतदर्थसम्बन्धबोधनेनेत्यत उक्तम्–स्मृत्यनुग्रहेणेति ।
प्रत्येकं पदेभ्यो याः पदार्थस्मृतयस्तदनुग्रहेण ।
एतदुक्तं भवति, यद्यपि वाक्यार्थवोधनाय पदमाला प्रवृत्ता, तथापि पदार्थस्मृतिरवान्तरव्यापारभूता अपेक्षते काष्ठानीव पाकप्रवृत्तानि ज्वलनमवान्तरव्यापारम् ।
न च पदान्यगृहीतसङ्केताति पदार्थान् स्मारयन्तीति उपपन्ना पदार्थस्मृतिसम्बन्धसंवेदनयोरपेक्षेति ।
यदि हि पदार्थस्मृत्यपेक्षा पदमाला वाक्यार्थवोधनरी, हन्त दशदाडिमानि षडपूपा भवन्तीत्येवमादीनामपि वाक्यार्थबोधकत्वं स्यादित्यत आह–प्रतिसन्धीयमानः ।
प्रतिपदं सन्धानं घटनं प्रतिसन्धानम् ।
तच्च स्वार्थद्वारेणाकाङ्क्षायोग्यतासत्त्यधीनम् ।
न च दशदाडिमादिवाक्यादिषु तदस्तीति न ततो वाक्यार्थावबोध इत्यर्थः ।
तदेवमेकस्मृतिसमारोहेण एमार्थावच्छेदेन च पदानां समूहो वाक्यम् ।
तस्य भागा एकदेशा इति ।
यावतीत्यादि भाष्यमवतारयति–ते कियन्तः? भाष्यव्याख्यानेनोत्तरम्–यावभ्दिरिति ।
पृच्छति–केति ।
न हि समाप्तेर्निष्पत्तेरन्या सिद्धिरस्तीत्यभिप्रायः ।
उत्तरम्–पदार्थस्येति ।
धर्मिणः सिषाधायिषितधर्मविशिष्टत्वं वास्तवमित्यर्थः ।
समाप्ति पृच्छति–केति ।
उत्तरम्–विशेषेति ।
वास्तवो धर्मः सिद्धिः, तद्गोचरस्तु विनिश्चयः पुरुषधर्मो निष्पत्तिरिति विशेष इत्यर्थः ।
कियद्भिः किमभिधानैश्च विभागैः सिद्धिः परिसमाप्यत इत्याशङ्क्य भाष्यकृतोक्तम्–तस्य पञ्चेति ।
तद् व्याचष्टे–समाख्येति ।
भाष्यम् अनुभाष्याक्षिपति–तत्रागम इति ।
न ह्यगमवत् प्रतिज्ञावचनं निश्चायकम्, हेतुवचनादिवैयर्थ्यात् ।
निष्पादितक्रिये कर्मणि साधनस्य साधनन्यायातिपातादिति ।
समाधत्ते–आगमाधिगतस्येति ।
आत्मादिप्रमेयप्रतिपादनोद्देशेन हि शास्त्रमेतत् प्रवृत्तम् ।
तन्नान्तरीयकतया न्यायं व्युत्पादयत् तमेव व्युत्पादयेत्, य आत्मादेः प्रमेयस्य साक्षात् निश्चायकः, तत्प्रतिपादकागमप्रमाण्यनिश्चायको वा ।
तस्य च न्यायविशेषस्याद्यो ऽवयवः प्रतिज्ञा, आगमार्थविषया साक्षात्, तद्विषयागमप्रमाण्यप्रतिपादकस्य च परम्परया ।
तस्मात् आगमः प्रतिज्ञा ।
आगमोपचारस्य च प्रयोजनमिदं यदर्थसंवादेनागमेनानुगृह्यते न्यायः सप्रयोजनश्च भवति, आगमार्थज्ञानस्य निःश्रेयसहेतुभावेन निरूढत्वात् ।
तस्माद् यद्यपि न न्यायमात्रवर्तिनी प्रतिज्ञा आगमः, तथापि प्रकृतन्यायाभिप्रायेणैतद् द्रष्टव्यम् ।
तथा चागमार्थसम्बन्धेन प्रतिज्ञायाः कल्पितविषयत्वमपि पराकृतं वेदितव्यम् ।
यदाहुः एके–सर्वो ऽयमनुमानानुमेयव्यवहारो बुद्ध्यारूढेनैव धर्मधर्मिभावेन, न बहिःसदसत्त्वमपेक्षते इति ॥
तथानुमानस्य न्यायानुग्रहाकत्वं हेतुवचनस्यानुमानत्वोपचारेण भाष्यकारेणोक्तम्–हेतुरनुमानमिति ।
तत् खल्वनुमानप्रतिपादकं वचनं विषयतयानुमानेनानुग्रहीतव्यम् ।
न च लिङ्गदर्शनमात्रमनुमेयप्रतिपत्तिहेतुः, अपि तु सम्बन्धस्मृतिसहकारि ।
न च हेतुवचनमात्रात् सहकारितावगम्यते ।
तस्मान्न लिङ्गवचनमनुमानप्रतिपादकमिति कथमनुमानत्वोपचार इत्यत आह–एवं लिङ्गदर्शनमात्रे दृश्यमाने लिङ्गरूपे सम्बन्धस्मरणरहिते हेतूपचारात् अनुमानत्वोपचारत् हेतुरनुमानमित्युक्तं भवष्यकृता ।
तदेव विभजतेयत्तु द्वितीयं लिङ्गदशनम् ।
सम्बन्धग्रहणसमये लिङ्गदर्शनं प्रथमम्, तदपेक्षया साध्यधर्मिणि लिङ्गदर्शनं द्वितीयम्, तत्सम्बन्धस्मृतिव्यक्तिहेतुभावात् स्मर्यते ऽनयेति स्मृतिः संस्कारः ।
तस्य व्यक्तिः कार्याभिमुखीकरणम्, तत्र हेतुभावात् ।
क्वचित् पाठः— सम्बन्धस्मृतिहेतुव्यक्तिहेतुभावादिति ।
स तु सुगम एव ।
अतो हेतुरित्युच्यते ।
एतदुक्तं भवति, यत् तद् द्वितीयं लिङ्गदर्शनं शुद्धमप्यापाततः सम्बन्धस्मृतिहेतुभावात् सम्बन्धस्मृति सहकार्येव ।
तथा चानुमानम् ।
एवं च तत्प्रतिपादकस्य वचस उपपन्नो ऽनुमानत्वोपचार इति सिद्धम् ।
एवं च वास्तवेन लिङ्गेन सम्बन्धात् तद्वचनस्य बुद्धिविकाल्पितलिङ्गविषयत्वं परास्तं वेदितव्यम् ।
एवमन्येष्वप्यवयवेषु वक्ष्यमाणेष्वेतदेव प्रयोजनं योजनीयमिति ।
उदाहरणं प्रत्यक्षमिति भाष्यम् ।
तद्व्याचष्ट–स्मृतिविषयस्येति ।
यत्र प्रत्यक्षविषये पूर्वं व्याप्तिर्गृहीता तस्य स्मृतिरिति स्मृतिविषयस्य प्रत्यक्षतः पुनरूपदर्शनात् अविप्रतिपत्त्या पुनः स्मरणात् तत्स्मारकं वचनमुदाहरणं प्रत्यक्षम्, मूलभूतप्रत्यक्षप्रमाणसमुत्थत्वादित ॥
कः पुनरूपमानार्थ इति ।
प्रत्यक्षमिव प्रत्यक्षमित्यत्रेवकारे तत्रोपमार्थः क इत्यर्थः ।
एतदेव विभजते–यस्मादिति ।
उपमानमुपनय इति भाष्यम् ।
तद्व्याचष्टे–यथा तथेत्युपमानैकदेश इति ।
उपनयो हि तथा चैतदिति प्रवर्तमान उदाहरणस्थं यथाशब्दार्थमपेक्षत इति यथा तथेति प्रवर्तत इति ।
किं पुनरूपमानं यस्यायमेकदेश इत्यत आह–उपमानं खलु तथा गौस्तथा गवय इत्युपदेशोपयोगे ।
उपयोगस्तदर्थविषयो ऽनुभवः ।
तस्मिन् सति पश्वाद् वनं गतो नागरकः प्रत्येक्षेणादृष्टपूर्वं पिण्डं पश्यति ।
स्मरति चोपदेशार्थम् ।
पिण्डस्य च पुरोवर्तिनः स्मर्यमाणेन गवा सादृश्यं प्रत्यक्षेणैव पश्यति ।
तदेवम्भूतं सारूप्यज्ञानं गवयशब्दवाच्यो ऽयं पिण्ड इति प्रतीतिहेतुरूपमानम् ।
तदेतस्योपमानस्योपदेशार्थस्मरणगवयपिण्डगोसारूप्याप्रत्यक्षरूपस्यैकदेशे सरूप्ये यो यथातथाभावः स उपनये ऽप्यस्तीत्येतावतोपमानत्वोपचार उपनय इत्यर्थः ।
सो ऽयं सर्वप्रमाणविनिवेशेन परमो न्यायः स्तूयते ।
निगमनव्याख्यानभाष्यमनुभाष्याक्षिपति–कः पुनरिति ।
न खल्ववयवानां प्रमाणानां वा वाक्ये समवायः सम्बन्धः सम्भवतीति भावः ।
उत्तरम्–एकवाक्येति ।
अध्यारोपो बुद्धचा प्रतिसन्धानम् ।
सामर्थ्यं पृच्छति–किं पुनतिति ।
उत्तरम्–इतरेतरेति ।
सामर्थ्यं हि पदानां धर्मः ।
इह तु विभज्यमानानामवयवानां नन्मूलानां च प्रमाणानां साकाङ्क्षत्वमेव धर्मः समार्थ्यम् ।
तदत्र समस्तरूपसम्पन्नलिङ्गप्रतिपादनमेकं प्रयोजनं विभज्यमानसाकाङ्क्षत्वं चास्तीति सिद्धमेकवाक्यत्वमवयवानामिति ।
निगमनपदं व्युत्पादयति–निगम्यन्त इति ।
सो ऽयमिति भाष्यमनुभाष्य पृच्छति–कः पुनः परमशब्दस्यार्थ इति ।
उत्तरम्–विप्रतिपपन्नपुरुषप्रतिपादकत्वं पश्चावयववाक्यस्य परमत्वमिति ।
एतदेव व्यतिरेकमुखेन प्रतिपादयति–एकैकश इति ।
यद्यपि लोके प्रत्यक्षादीनामेकैकशो ऽपि विप्रतिपन्नपुरुषप्रतिपादकत्वं तत्र तत्रोपलभ्यते, तथापि यदेतद् वेदप्रामाण्यमात्मादिप्रतिपादनं च निःश्रेयसोपयोति, न तत् पञ्चावयवाक्योदतच्छास्त्रोपदिष्टोपकरणाद् विना सिध्यतीत्यनेनाभिप्रायेण द्रष्टव्यम् ।
अवयवानां पृथगभिधानमाक्षेप्तुं विकल्पयति–किं पुनरवयवा इति ।
विकल्पप्रयोजनं पृच्छति–किं चातः? उत्तरम्–यदि प्रमाणान्तरमिति ।
समाधत्ते–नप्रमाणान्तरमिति ।
प्रयोजनान्तरमाह–त एत इति ।
यत एव वादादिप्रवृत्तिहेतवो ऽत एव तत्त्वव्यवस्थायाश्चाश्रया भवन्तीति ।
पृच्छति–क इति ।
न हि कुण्डमिव वदराणि तत्त्वव्यवस्थावयवानाश्रयतीत्यर्थः ।
उत्तरम्–विशेषप्रतिपादकत्वम् ।
धमविशिष्टोधर्मो विशेषः ।
विशिष्यत इति व्युत्पत्त्या, तत्प्रतिपादकत्वमवयवानां तत्त्वव्यवस्थाश्रयत्वमित्यर्थः ॥
क्रमप्राप्ततर्कपदव्याख्यानार्थं भाष्यमनुभाषते–तर्को न प्रमाणसङ्गृहीतः ।
प्रमाणपदेन हि चत्वारि प्रमाणानि सङ्गृहीतातिन ।
न चैतेष्वन्यतमस्तर्क इत्यर्थः ।
अस्तु तर्हि प्रमाणपदसङ्गृहीतेभ्यः प्रमाणेभ्यः प्रमाणान्तरमसङ्गृहीतं प्रमाणपदेन प्रमेयपदेनेवासङ्गृहीताः संशयादयः प्रमेया इत्यत आह–न प्रमाणान्तरम् ।
भाष्यमनुभाष्य हेतुमाह–अपरिच्छेदकत्वात् अनिश्चायकत्वात् ।
तदेव व्यतिरेकमुखेन दर्शयति–प्रमाणमिति ।
स्यादेतत् ।
अपरिच्छेदकत्वमसिद्धं तर्कज्ञानस्य संशयादिवद् गुणत्वेनात्मलिङ्गत्वात् ।
अन्यथा त्वकिञ्चित्करवादुपादानवैयर्थ्यमित्यत आह–प्रमाणविषयविभागात् त्विति ।
न हि वयं गुणत्वेनोत्पत्तिमत्त्वेन वा रूपेणानिश्चायकत्वं तर्कस्याचक्ष्महे, किं तु प्रमाणविषयविभागहेतुतया ।
न चैवमस्याकिञ्चित्करत्वमित्यर्थः ।
पृच्छति–कः पुनरिति ।
उत्तरम्–युक्तायुक्तेति ।
इदं युक्तमिदमयुक्तमिति ।
इतिकारेण युक्तायुक्तविषयं तर्कज्ञानं परामृशति ।
तदनेन तर्कस्य स्वरूपं दर्शितम् ।
तस्य व्यापारमाह–यत् तत्र युक्तं भवति, सम्भवति तदनुजानाति न त्ववधारयति तर्कः ।
एतदुक्तं भवति प्रमाणं तत्त्वावधारणाय प्रवृत्तं करणतया इतिकर्तव्यतामपेक्षते ।
तर्कश्च प्रमाणविषययुक्तायुक्तविचारात्मा प्रमाणं युक्ते तत्त्वे प्रवर्तमानमनुजानन् प्रमाणमनुगृह्णरति ।
तदनुगृहीतं प्रमाणं तत्त्वनिर्णयाय पर्याप्तम् ।
न च प्रमाणविषये चेत् तर्कः प्रवर्तते कृतमस्य प्रमाणानुज्ञया, नन्वयमेव निश्चायकः कस्मान्न भवतीति साम्प्रतम्, तस्य प्रसङ्गतया पारतन्त्र्येण स्वयमसाधनत्वात् ।
अस्ति हि प्रसङ्गो न प्रसङ्गो हेतुः ।
तथा हि प्रत्यक्षमेव तावद् भूतले प्रवर्तमानं तद्विशेषणतया घटाभावे ऽपि प्रवर्तमानं यद्यत्राभविष्यद् घटो भूतलमिवाद्रक्ष्यत, तेन सह तुल्यदर्शनयोग्यत्वात् ।
न च दृश्यते ।
तस्मान्नास्तीति तर्केणानुज्ञायमानं घटाभाविशिष्टे भूतले प्रवर्तते केवलमेवेदं भूतलं नेह घट इति ।
एवं स्वर्गकामो यजेत इति शब्दो ऽपि प्रवर्तमानः परमाप्तस्य भगवतर् इश्वरस्य नियोगो नास्वर्गफलायां यागभावनायामवकल्पत इति समानपदेनोपत्तो ऽपि दुःखतया धात्वर्थः साध्य इति न युक्तम् ।
भिन्नपदोपत्तो ऽपि पुरुषविशेषणमपि स्वर्ग एव भावनाफलं युक्त इति तर्केणानुज्ञायमानः प्रवर्तते ।
न च यद्यभविष्यद् घट इति वा यद्यभविष्यद् धात्वर्थः साघ्य इति वा क्रियातिपत्तिरस्ति, यदाश्रयानिष्टप्रसङ्गेनायुक्तत्वमितरथा तु युक्तत्वम्, तत् तर्केण निश्वीयते ।
तस्मान्न प्रमाणम् ।
निश्वयाय तु प्रवृत्तं प्रमाणं तद्विषयविवेचनेनानुगृह्णन् इतिकर्तव्यात्वेनोपयुज्यते ।
यर्थोक्तम्–
मीमांसासञ्ज्ञकस्तर्कः सर्ववेदसमुद्भावः ।
सो ऽतो वेदो रूमाप्राप्तकाष्ठादिलवणात्मवत् ॥
पूजितविचारवचनो हि मीमांसाशब्दः ।
अयुक्तप्रतिषेधेन युक्ताभ्यनुज्ञानं तर्कः ।
प्रमाणेतिकर्तव्यतात्वेन च प्रमाणाद् वेदाद्भेद उक्तः ।
सो ऽतो वेद इति अङ्गाडिगनोः अभेदविवक्षया ।
इतिकर्तव्यतात्वं चास्य साक्षद् दर्शितम् ।
धर्मे प्रमीयमाणे हि वेदेन करणात्मना ।
इतिकर्तव्यताभागं मीमांसा पूरयिष्यति ॥
इति सर्वमवदातम् ।
तस्योदाहरणं भाष्ये कर्मेति ।
कर्मकारणकमपूर्वं धर्माधर्माविति यावत्, कार्ये कारणत्वोपचारात् ।
एतदुपपादनाय पृच्छति–कथं पुनतिति ।
निकायविशिष्टाभिरपूर्वाभिः शरीरेन्द्रियबुद्धिवेदनाभिरभिसम्बन्धो जन्म, तस्य कथं कर्मनिमित्ततेत्यर्थः ।
अत्र प्रमाणमनुमानमाह–भदवत्त्वात्, विचित्रत्वादित्यर्थः ।
पृच्छति–कः पुनरिति ।
भेदमाह–सुगतिरिति ।
प्रमाणमुक्त्वा तस्येतिकर्तव्यताभूतं तर्कमवतारयति–सो ऽयं भेद इति ।
यद्येकं निमित्तं स्याद् वैचित्र्यं न भवेत् ।
न ह्यभिन्नात् कार्यवैचित्र्यमुपपद्यते, तस्याकस्मिकत्वप्रसङ्गात् ।
अत उक्तम्–अनेकमिति ।
नन्वनेकं यागादिब्रह्महत्यादिक्रियारूपं कारणमस्तं कृतमपूर्वैरित्यत उक्तम्–अवस्थितम् ।
यागादिका तु क्रिया आशुतरविनाशिनी न चिरभाविने स्वर्गाय कल्पत इत्यर्थः ।
अवस्थितं चेद् यागाद्याहितमपूर्वं धर्मो ऽस्तीति सदैव सुखिना भवितव्यम् ।
एवमधर्मो ऽस्तीति सदैव दुःखी स्यादिति सुखदुःखयोः कादाचित्कत्वं व्याहन्येत ।
न ह्यवस्थितात् कारणादनवस्थितं कार्यमित्यत उक्तम्–अनित्यम् ।
न ह्यवस्थानं नित्यतां ब्रूमः, किं तु तावदनेन स्थातव्यं न यावदन्त्यसुखदुःखसंविज्ञानं जनयति,
अथ नश्यतीति ।
ननु भिन्नानि सन्त्वपूर्वाणि, तथापि सर्वाणि सर्वात्मसमवेताति, यथावयवी स्वावयवेषु ।
तथा च सर्वसाधारण्यान्नोक्तवैचित्र्योत्पाद इत्यत उक्तम्–एकद्रव्यम् ।
एकद्रव्यं चेदस्तु तर्हि सर्वसाधारणे पृथिव्यादौ यत्र क्वचित् ।
तथापि वैवित्र्यानुपपत्तिरित्यत उक्तम्–प्रत्यात्मनियतम् ।
अथ पृथिव्याद्येव कारण जन्मवैचित्र्ये कस्मान्न भवतीत्याशयवान् पृच्छति–किं कारणमिति कस्मात् कारणादित्यर्थः ।
उत्तरम्–पृथिव्यापदीनामिति ।
मा भूत् पृथिव्यादि, पृथिव्यादिगतं किञ्चिद् भविष्यतीत्यत आह– पृथिव्यादिगतस्येति ।
भाष्योक्तप्रमेयत्वे तर्कस्य हेतुमाह–उपलब्धिविषयत्वादिति ॥
तर्कानन्तरं निर्णय उद्दिष्टस्तर्कहेतुकत्वात् ।
तस्य स्वरूपमाह–निर्णयस्तत्त्वज्ञानमिति ।
यद्येवमिन्द्रियापातजन्मप्रत्यक्षज्ञानमपि तत्त्वज्ञानमिति निर्णयः स्यादित्यत आह–प्रमाणनामिति ।
अनेन पञ्चावयववाक्यमुपलक्षयति ।
तत्र सतर्काणां प्रमाणानां समावायात् ।
परमार्थतस्तु तर्कपूर्वकस्तत्त्वविनिश्चयो निर्णय इति प्रत्यक्षादीनामपि तर्कसहायानां निर्णयफलत्वमिति ।
स्यादेतत् ।
धूमादिगोचरेण निर्णयेन वह्न्यादावनुमीयमाने प्रमाणभेव निर्णयो न फलमित्याशयवान् पृच्छति–कदा पुनतिति ।
विदिताभिप्रायस्योत्तरम्–यदेति ।
सङ्कलय्य तर्कनिर्णयव्युत्पादनस्य प्रयोजनमाह–तावेताविति ।
परीक्षको ऽत्र लोको लोकशब्देनोच्यते, तदितरस्य तर्कासम्भवात् ।
बुद्ध्वेति परीक्ष्य निर्णयं कृत्वेत्यर्थः ।
शेषं निगदव्याख्यातम् ॥
निर्णयानन्तरं वादव्याख्यानार्थं भाष्यम्–वादः खल्विति ।
तदनुभाष्योपपत्तिमाहवाद इति ।
नाना प्रवक्तारो यस्मिन् स तथा ।
एकस्यापि शास्त्रकर्तुः पूर्वपक्षोत्तरपक्षसाधनदूषणप्रतिपादको वचनसमूहो वादः स्यादिति नानाप्रवक्तृक इत्युक्तम् ।
सिद्धान्तभेदानविधानेन हि द्वावपि स्वसिद्धान्तानुरूपं साधनं दूषणं चाहतुरित्यर्थः ।
प्रत्यधिकरणेत्यादि भाष्यमनुभाष्याचष्टे–प्रत्यधिकरणमस्य साधनम् ।
अधिक्रियत इत्यधिकरणं साध्यम्, तदधिकृत्य साधनप्रवृत्तेः ।
प्रत्यधिकारण साधनं यस्मिन् वादे स तथोक्तः ।
अस्यैवार्थं निष्कर्ष्टुं पृच्छति–किमुक्तं भवति? निष्कर्षति–उभाभ्यां वादिप्रतिवादिभ्यां स्वस्वसाध्ये साधनं वक्तव्यम् ।
तथा च नानाप्रवक्तृकत्वेन तुल्यत्वे ऽपि वादस्य वितण्डायाः प्रत्यधिकरणसाधनत्वेन भदेः सिद्धो भवति ।
वितण्डायाः प्रतिपक्षस्थापनाहीनतया प्रत्यधिकारणसाधनत्वाभावात् ।
तथापि जल्पादभेदो वादस्य, अस्ति हि जल्पस्य प्रत्यधिकरणसाधनवत्वं च नानाप्रवक्तृकत्वं चेति ।
अत आह–अन्यतरस्मिन्नधिकरणे निर्णय इति ।
वादे हि तावद् ब्रूते, न यावदन्यतरस्मिन् पक्षे निर्णयो जातः, तत्त्वबुभुत्सोर्वादिनोर्वादे ऽधिकारात् ।
जल्पे तु पुरुषशक्तिपरीक्षालक्षणे ऽप्रतिभादिनापि पराज्योपपत्तेर्नावश्यं तत्त्वनिर्णयः ।
तस्मादन्यतरनिर्णयावसानत्वेन जल्पाद् भेदो वादस्येति सिद्धम् ।
यथा चैतत्, तथोपरिष्टाद् उपपादयिष्यते इत्याह–तच्चेति ।
तस्य स्वरूपं पृच्छति।–सो ऽयमिति ।
उत्तरम्–वाक्येति ।
चोदयति–ननु चेति ।
वाक्यसमूहश्च ज्ञानं चेति विप्रतिषिद्धमेतदित्यर्थः ।
परिहरति–नेति ।
साधनोपालम्भग्रहणस्य शब्दविषयत्वादविदोध इत्यर्थः ॥
युगपदेव जल्पवितण्डे व्याचष्टे–तद्विशेषाविति ।
विशिष्येते भिद्यते इति विशेषौ ।
तस्माद् वादाद् विशेषौ भिन्नौ ।
भाष्यमनुभाष्य पृच्छति–कः पुनर्विशेषः? यद्योगाद् विशिष्टे वादात् जल्पवितण्डे इत्यर्थः ।
उत्तरम्–अङ्गाधिक्यमङ्गहानिश्च यथासङ्ख्यम् ।
तदेव दर्शयति–छलेति ।
तत् किमिदानी संशयादिभिरिवात्यन्तवैरूप्यं वादेन जल्पवितण्डयोः? नेत्याह–एतावता विशेषेण कथामार्गभेद इति एतावानेव विशेषो न सर्वथा, कथात्वेन संशयादिव्यावृत्तेनसामान्यविशेषेण त्रयाणामप्यभेदादित्यर्थः ।
अपरमपि भेदहेतुमाह–विषयभेदाच्चेति ।
तद् विभजते–शिष्यादीति ।
शिष्यमाणो ऽत्यन्तविपर्यस्तः दुर्ज्ञानावलेपदुर्विदग्ध इति यावत् ।
न त्वेवम्भूतः शिष्यादिर्विपर्यस्तो ऽप्यनवलिप्तत्वादिति भावः ॥
क्रमप्राप्तानां हेत्वाभासानां स्वरूपमाह–अन्यतमेति ।
पञ्चसु चतुर्षु वा लिङ्गरूपेष्वन्यतमं लिङ्गं धर्ममेकं द्वयं त्रयं वानुविदधाना अहेतवो हेतुवदाभासान्त इति हेत्वाभासा उक्ताः ।
निग्रहस्थानेभ्य इति भाष्यमवतारयितुमाह–ते च निग्रहस्थानमिति ।
अवतारयति–निग्रहस्थानेति ।
अवतार्य दूषयितुमेकदेशिमतेन व्याचष्टे–यस्मात् किलैत इति ।
किलशब्दो ऽयमरुचौ ।
तदेतदेकदेशिव्याख्यानं दूषयति–न, उभयथाप्यसम्बन्धात् ।
किं ये ये निग्रहस्थानेभ्यः पृथगुपदिश्यन्ते, ते सर्वे वादे चोद्यन्ते? अथ ये ये वादे चोद्यन्ते ते सर्वे पृथुगुपदिश्यन्ते इति? उभयथाप्यनैकान्तिकत्वात् नाविनाभावलक्षणः सम्बन्ध इत्यर्थः ।
तदेतद् विभजते–न वादे चोदनीयत्वमिति ।
कस्माद् उभयथाप्यविनाभावाभाव इत्यत आह–यदि तावदिति ।
तस्मात् नायमविनाभूतो हेतुर्वादे चोदनीयत्वं वा पृथगुपदेशो वा भाष्यकारेणोक्त इत्युपसंहरति–तस्मादिति ।
वादे चोदनीयत्वादित्युपलक्षणम्, पृथगुपदेशादिति च द्रष्टव्यम् ।
तदेवमेकदेशिमतं दूषयित्वा स्वमतेन भाष्यं व्याचष्टे–एतदेव तु न्याय्यामिति ।
निग्रहस्थानेभ्यो हेत्वाभासानां पृथगुपदेशे प्रयोजनं यद् भाष्याक्षरेभ्यः साक्षात् प्रतीयते ।
सामान्योपदेशेन विशेष उपदिष्टे विशेषोपदेशः प्रयोजनाधिक्यं सूचयति ।
यथा ब्राह्मणान् भोजय कठ चेति कठभोजने विशेषो गम्यते, तद्वदिहापि निग्रहस्थानोपदेशेनैव हेत्वाभासेषु लब्धेषु तेषां विशेषेणाभिधानं प्रयोजनाधिक्यं सूचयति ।
एतावानेव सूत्रकृतो व्यापारो यत् सूत्रणं नाम ।
तत्र निग्रहस्थानविशेषाणां हेत्वाभासानां स्वरूपं वादस्य च तत्त्वनिर्णयावसानत्वमालोच्य वादे चोदनीया भविष्यन्ति निग्रहस्थानत्वेन हेत्वाभासा नाप्रतिभादय इति प्रयोजनं वर्णयाञ्चकार भाष्यकारः ।
स्यादेतत् ।
भवन्तु वादे चोदनीया हेत्वाभासाः, मा च भुवन्नप्रतिभादयः ।
किमेवमपीत्याह–विद्याप्रस्थानप्रमेदज्ञापनार्थत्वात् ।
वादजल्पवितण्डा विद्याः परम्परया निःश्रेयसोपयोगात् ।
तासां प्रस्थानं व्यापारः, तस्य भेदः, तज्ज्ञापनार्थत्वात् ।
अत एव जल्पवितण्डयोस्तु इत्याह ।
चोदयति–अथ कस्मादिति ।
यदि वादे हेत्वाभासाः प्रयुज्येरन् ततो निग्रहस्थानत्वेन चोद्येरन्, न तु तेषामस्ति प्रयोगो ऽप्रमाणत्वात् प्रमाणतर्कसाधनोपालम्भत्वाच्च वादस्य ।
तस्मात् निग्रहस्थानमात्रत्वं हेत्वाभासानाम् ।
तथा च न पृथगुपदेशः, निग्रहस्थानोपदेशेनैव लब्धत्वादित्यर्थः ।
परिहरति–प्रमाणसामान्यादिति ।
न खलुहेत्वाभासन् तब्दुद्ध्या प्रयु।जाते वादिप्रतिवादिनौ, अपि तु हेतुबुद्ध्या ।
तथा चास्ति तेषां वादे प्रयोग इति वादे निग्रहस्थानत्वेन हेवाभासाश्चाद्यन्ताम्,
नाप्रतिभादीनीत्यर्थवान् पृथगुपदेशः ।
तदेतद् विकल्प्याक्षिपति–वादे कानिचिदिति ।
समाधत्ते–न, लक्षणपरतन्त्रत्वादर्थतथाभावस्येति ब्रूमः ।
लक्ष्यत इति लक्षणम्, समानासमानजातीयव्यावृत्तं रूपं वादस्य च निग्रहस्थानानां च ।
तदधीनो हि तेषां तथाभावो व्यवस्था ।
कानिचिदेव निग्रहस्थानानि वादे न तु सर्वाणीति सामान्यतो ऽभिधाय तदेव लक्षणपरतन्त्रत्वमभिमते विशेषे योजयति–वादस्येति ।
उक्तमाक्षिपति–प्रमाणप्रतिरूपकत्वादिति ।
निश्चितौ हि वादं कुरूतः ।
निश्चयश्च प्रमाणफलमिति कुतो ऽप्रमाणस्यावकाश इत्यर्थः ।
उत्तरम्–भ्रान्तेरिति ।
न निश्चयः सर्वः प्रमाणमूलो ऽप्रमाणमूलस्यापि तस्य दर्शनात्, अन्यथा विपर्यासादप्रवृत्तिप्रसङ्गात् ।
वादिनोश्चाभ्रान्तत्वे वस्तुनो विरुद्धधर्मद्वयसमालिङ्गितत्वमेकदा स्यादिति भावः ।
पृच्छति–कः पुनः शिष्येति ।
उपास्योपासकयोः परस्परं न ध्वंसनं सम्भवतीति भावः ।
उत्तरम्–विवक्षितार्थाप्रतिपादकत्वम् एव न खलीकार इति ।
हेत्वाभासानां च पृथक्करणं न वादे तन्मात्रावधारणार्थम्, अपि तु यस्मिन्ननुद्धाविते ऽपि निग्रहस्थाने तत्त्वप्रतिपत्तिव्याघातो भवति, तस्य सर्वस्य सङ्ग्रहार्थम् ।
एवं च न्यूनाधिकापसिद्धान्ता अपि सङ्गृजीता भवन्ति ।
तत्र पृच्छति–न्यूनाधिकेति ।
उत्तरम्–प्रमाणेति ।
जल्पवितण्डयोस्त्विति भाष्यमनुभाष्योपपादयति–जल्पवितण्डयोस्त्विति ।
साहङ्कारो विजिगीषुरप्रतिभादिभिरपि निग्रहस्थानैस्तिरस्कृतो गलिताहङ्कारस्तत्त्वबुभुत्सुतां नीतः पश्चाद् वादेन व्युत्पाद्यत इत्यर्थः ॥
छलजातिनिग्रहस्थानानां पृथगुपदेशप्रयोजनपरं भाष्यमनुभाषते–छलेति ।
उपलक्षणार्थमिति भाष्यावयवं व्याचष्टे ।
परिज्ञानार्थमेव केवलम्, पिरज्ञानस्य फलमुक्तम्–स्ववाक्ये परिवर्जनम् अप्रयोगः, परवाक्ये चोद्भावनमिति ।
चोदयति–छलजातिनिग्रहस्थानानीति ।
अत्र हि जातेः स्ववाक्ये परिवर्जनमुक्त्वा पुनः स्वयं प्रयोगो न युक्तः ।
कस्मात्? व्याघातात् ।
एतद् विभजते–स्वाक्य इति ।
परिहरति–न व्याघातः ।
कुतः? प्रश्नापाकरणार्थत्वात् ।
तद् विभजते–स्वयं च सुकरः प्रयोग इति अनेन भाष्येण किमुक्तं भवति? परेण प्रतिवादिना जातौ प्रयुक्तायां वादी प्राश्निकान् सभ्यान् ब्रवीति जातिरनेन प्रतिवादिना प्रयुक्तेति ।
ते प्राश्निका एनं पर्यनुयु।जीरन् हे वादिन् कथं केन प्रकारेण जातिः चतुविंशत्यां जातिषु कतमा जातिरिति? सो ऽयं प्राश्निकानां प्रश्नः ।
तदपाकरणार्थं स्वयं सुकरः प्रयोग इत्यर्थः ।
प्रकृतमुपसंहरति–तस्मादेत इति ॥
सूत्रकारेण शास्त्रस्यात्यन्तिकदुःखोपरमरूपनिःश्रेयसाधिगमः प्रयोजनमुक्तम् ।
भाष्यकारस्तु नास्त्येव तत् प्रेक्षावतां प्रयोजनम्, चत्रान्वीक्षिकी न निमित्तं भवतीत्याह–सेयमान्वीक्षिकीति ।
तदेतद् भाष्यं व्याचष्टे–सेयमान्वीक्षिकी न्यायविद्यति ।
यद्यपीतरा विद्याः प्रमाणिकमेवार्थमभिनिविशन्ते तथाप्येतद्विद्याप्रतिपाद्यमेव प्रमाणाद्युपजीव्य स्वे स्वे व्युत्पाद्ये तत्त्वे प्रवर्तन्त्र, न तु प्रमाणाद्यपि व्युत्पादयन्ति ।
यथा प्रत्यक्षाद्युपजीव्य प्रवर्तमानमनुमानं न प्रत्यक्षादिविषयमपि तदानीमेव गोचरयति ।
तदनेन विद्योपकरणग्रहणेन व्यापार आन्वीक्षिक्या दर्शितः ।
सम्प्रति विद्यानां यानि कर्माणि प्रतिपाद्यानि सामाग्रिहोत्रकृष्यादीनि तत्राप्यान्वीक्षिक्युपाय इत्याह–उपायः सर्वकर्मणां विद्याव्युत्पाद्यानाम्, न तु हालिकमृगय्वादिकर्मणामपि ।
न हि विद्यापदेभ्यो यावन्मात्रागतिः, तावन्मात्रेण प्रेक्षवतां परितोषः ।
मा भूत्
आदित्यो वै यूपः
इत्यादिभ्य आदित्यादीना यूपादिता ।
तस्मात् संशयपरीक्षाप्रमाणविनिवेश द्वारेण तदर्थतत्त्वमवधार्या तत्र त्रयी विनिवेशनीया ।
एवं दण्डनीतिवार्तयोरनुगन्तव्यम् ।
तस्मादान्वीक्षिकीपरिशोधितप्रमाणप्रमाशितं सामादि इतरा विद्याः कुर्वन्ति विषयमिति शेषः ।
अपि च द्रव्यगुणकर्मणामभिमतानभिमतोपायताप्रज्ञापनेन यथायथ सर्वा विद्याः प्रेक्षावतः प्रवर्तयन्ति निर्वयन्ति वा ।
तत्र किमविशेषेण साध्यसाधनेतिकर्तव्यतासु प्रवर्तयन्तु, आहोस्वित् साधनेतिकर्तव्यतामात्रे? तत्र यदि साध्यांशो ऽपि प्रवर्तनागोचरः, तदा श्येनादिसाध्याया हिंसाया विहितत्वेन नानर्थवत्वम् ।
अथ साध्यांशं रागतः प्राप्तमनूद्य साधनेतिकर्तव्यते एव विधरयेते, ततः श्येनादिसाध्याया हिंसाया अविहितत्वेन न हिंस्यात् सर्वा भूतानि इति प्रतिषधादनर्थत्वम् ।
तदिह साध्यांशे ऽप्रवर्तनमान्वीक्षिकीगम्यम् ।
एवमनुष्ठानगताः प्रयोजकत्वाप्रयोजकत्वादय आन्वीक्षिकीगम्याः ।
एवं वार्तादिष्वपीति ।
तदेवमान्वीक्षिकीमाश्रयन्ते सर्वविद्या इत्याह–आश्रयः सर्वधर्माणाम् सर्वासां विद्यानां पुरुषप्रवर्तना धर्माः, तेषामाश्रयः ।
वार्तिककारस्तु धर्मद्वारेण विद्यानामेवश्रय इति व्याचष्टे–सर्वविद्योपकारकत्वादाश्रयः, सर्वासां विद्यानामियमुपकरोति ।
विद्यया प्रवर्तनायां कर्तव्यायामियं सहकारितयोपकरोतीत्यर्थः ॥
स्यादेतत् ।
व्युत्पाद्याश्चेत् प्रमाणादयः सर्वविद्योपयोगिनः, तर्ह्रात्यन्तिकी दुखः- निवृत्तिरान्वीक्षिक्याः फलं निःश्रेयसपदादवगम्यते ।
व्युत्पाद्यस्वभावालोचनया हि तद् गम्यते, स च विद्यान्तरसाधारण इति विद्यान्तराधिगम्येन निःश्रेयसेन सङ्करप्रसङ्ग इत्यत आह–तदिदं तत्त्वज्ञानं निःश्रेयसाधिगमश्च यथाविद्यं वेदितव्यम् ।
विद्यान्तराणि तावद् यत् तत्त्वज्ञानं कुर्वन्ति तत्स्वभावालोचनया हि तद्विद्यासाध्ये एव निःश्रेयसभदे उपयुज्यन्ते नान्यत्र ।
इह तु प्रमाणादि यद्यपि साधारणम्, तथाप्यसाधारणात्मादिरूपप्रमयसमभिव्याहृतं सदभिमत एव निःश्रेयसेःवतिष्ठत इति ।
विशुद्धेनार्जनेन होमसाधनस्य द्रव्यस्य प्राप्तिः स्वागतम् ।
आदिग्रहणेन क्रमपर्यन्ताङ्गग्रामसाकल्यं गृह्यते ।
श्वमार्जारादिभिरनुपघातः अनुपहतत्वम् ।
आदिग्रहणाद् विशुद्धाभिसन्धिरिति ।
शेषमतिरोहितम् ।
वादादीनां निग्रहस्थानान्तानामुपदेशः पराभिभवोपायतया मदमानादिहेतुत्वेन निःश्रेयसपरिपन्थीति मन्वानश्चोदयति–मदमानादीति ।
परिहरति–न, सूत्रार्थापरिज्ञानात् ।
नायं सूत्रार्थः, सर्वेषां तत्त्वज्ञानं साक्षान्निःश्रेयसोपयोगीति, किं त्वात्मादितत्त्वज्ञानम् ।
तदितरत् तु पारम्पर्येण ।
तत्र जल्पादीना पराहङ्कारप्रशमनमवान्तरव्यापार इति न निःश्रेयसपरिपन्थिता, किं त्वानुकूल्यमित्यर्थः ।
मदमानादिनिमित्तत्वं च हेतुरसिद्ध इत्याह–यच्चेदमिति ।
उपसंहारति– तस्मान्न निमित्तं वादादिपरिज्ञानं रागादीनामिति ।
इति ।
सूत्रसमाप्तौ ॥ १ ॥
न्य्स्_१,१।२: दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावादपवर्गः ॥
तदेवं प्रथमसूत्रेण शास्त्रस्याभिधेयप्रयोजनसम्बन्धान् दर्शयता पदार्थाः प्रमाणादय उद्धिष्टाः ।
तेषां च लक्षणमुक्त्वा तत्परीक्षा वर्तयिष्यते, अपरीक्ष्य तत्त्वज्ञाननिर्णयायोगात् ।
न चानिर्णोतप्रयोजनसम्बन्धानां प्रमाणादीनां लक्षणपरीक्षयोरवसरः ।
न च प्रयोजनसम्बन्धनिर्णयः परीक्षां विनेति तत्परीक्षार्थं द्वितीयं सूत्रम् ।
तत्र प्रयोजनाभिधानस्य द्वैविध्यात् संशयः ।
द्विविधं हि प्रयोजनाभिधानं ग्रन्थकृतां दृष्टं समीचीनमसमीचीनं च, यथा वातिकादिप्रयोजनाभिधानम् आयुर्वेदादिप्रयोजनाभिधानं च ।
तस्मादभिधानसामान्याद् उभयथादर्शनाच्च संशयः ।
तत्रोत्सूत्रेण प्रयोजनाभिसम्बन्धप्रतिपादनपरं पूर्वपक्षभाष्यम्–तत् खलु वै निःश्रेयसमित्यादि ।
तद् विभजते–न तत्त्वपरिज्ञानादपवर्गः ।
कुतः? उभयथादोषात् ।
तदत्यन्तविमोक्षलक्षणो ऽपवर्गो निःश्रेयसम् ।
तच्चेत् तत्त्वज्ञानानन्तरम्, सम्प्रदायोच्छेदो वातपुत्रीयता च शास्त्रस्य स्याताम् ।
तस्मान्न तत्त्वज्ञानानन्तरं निःश्रेयसम् ।
तथा सति प्रमाणादितत्त्वज्ञानान्निःश्रेयसमिति ।
मिथ्या ।
न चान्यन्निःश्रेयसम् इत्यभिमानः पूर्वपक्षवादिन इति ॥
अत्रेदं सिद्धान्तसूत्रमुपतिष्ठते–दुःखजन्मेति ।
तस्य तात्पर्यमभिधायावतारयति–न प्रयोजनानभिसम्बन्धः ।
कुतः? निःश्रेयसस्य परापरभेदात् ।
चतस्त्रो हि प्रतिपत्तयः प्रमेये आत्मादौ ।
प्रथमा तावदागमात् यामाचक्षते श्रवणमिति ।
द्वितीया तु श्रुतस्य परीक्ष्य न्यायन व्यवस्थापनम्, यामाहुर्मननमिति ।
सा चान्वीक्षिक्यामायतते ।
आन्वीक्षिकी च संशयादितत्त्वज्ञापनं प्रमाणतत्त्वज्ञापनायोपादत्ते ।
प्रमाणतत्त्वज्ञापनं च हेयोपादेयभेदव्यवस्थितप्रमेयतत्त्वपरिज्ञापनाय ।
तत्राप्याद्यन्तवर्जितदशवर्गज्ञापनमाद्यन्तयोः एवात्मापवर्गयोरूपादेययोस्तत्त्वज्ञानस्योपकरोति ।
न चायमान्वीक्षिकीविद्यावघृतप्रमेयतत्त्वो ऽपि परितुष्यति, पूर्ववदेवात्मादिगतविपर्ययवासनानुवृत्तेः ।
नो खलु दिङ्मूढः सहस्रेणाप्यनुमाणैर्विपर्ययसंस्कारमपनयति ।
तत्त्वासाक्षात्कारस्तु विपर्ययसंस्कारा निवर्तयति ।
तज्जनिता च वासना विपर्ययवासनामिति लोकसिद्धम् ।
तस्मादात्मादिसाक्षात्कारवतीं चतुर्थौ प्रतीतिमशेषतद्गोचरवासनाविपर्यासशमनीमर्थयमानेनादरनैरन्तरर्याभ्यां ध्यानचिन्तादिशब्दवाच्या तृतीया प्रतीतिः साक्षात्कारफला दीर्घकालमुपासनीया ।
अथ परिनिष्पन्नध्यानोपायः साक्षात्कारवतीं प्रतिपद्य चतुर्थौ प्रतीतिं निर्मुक्तसकलक्लेशजालः अप्रवर्तमानो धर्माधर्मसाधनेषु निरूद्धानागतधर्माधर्मप्रबन्धोत्पादो भूतेन्द्रियविजयी प्रज्ञाज्योतिर्जोवन्नेव मुक्त इत्युच्यते ।
न चैवमवस्थो वीतरागो ऽपि सहसैव देहादिभिः वियुज्यते, प्रागुपात्तस्य धर्माधमप्रचयस्याभुक्तस्य भुज्यमानस्य चाप्रक्षीणत्वात् ।
न च प्रायश्वित्तेनेवात्मज्ञानेनादत्तफलान्येव कर्माणि क्षीयन्त इति युक्तम्,
नाभुक्तं क्षीयते कर्म ।
# # इति स्मृतेः ।
अत्यन्तसुखदुःखसंविज्ञानविरोधस्य कर्मणामवधारणात् ।
औत्सर्गिकस्य क्वचित् प्रयश्वित्तादौ विशेषवचनेनापवादात् ।
क्षीयन्ते चास्य कर्माणि ।
# मुण्डक २।२।८ # इति श्रुतेः ।
योगर्द्धिवशाद् युगपदुत्पादितानेकविधदेहोपभोगेनाप्युपपत्तेः ॥
तावदेवास्य चिरं यावन्न विमाक्ष्ये ऽथ सुपत्स्ये ।
# छान्दोग्य ३।१४।२ # इति चाभुक्तोपभज्यमानफलकर्मप्रक्षयावघित्वदर्शनम् ।
योगार्द्धिवशाच्चानियतविपाककालान्यपि दीर्घकालफलान्यपि कर्माणि पिण्डीकृत्य भूतेन्द्रियदविजयितया युगपदेव भुङ्क्ते ।
अचिन्त्यो हि समाधिप्रभाव इत्युक्तम् ।
न चाचिन्त्यत्वाद् विनैवोपभोगेन कर्माशयान् प्रक्षयिष्यतीति युक्तम्, दृष्टानुसारेण कथञ्चिदुपपत्तौ अत्यन्तादृष्टकल्पनाया अयोगात् ।
तस्मादुत्पन्नतत्त्वसाक्षात्कारस्य दोषाभावात् प्रवृत्त्युपरमे यो ऽनागतापूर्वानुत्पादस्तदपरं निःश्रेयसम् ।
तच्च तत्त्वसाक्षात्कारानन्तरं भवति ।
तादृशश्च मुनिस्तत्त्वज्ञानवान् शास्त्रस्य प्रणेतेति न वातपुत्रीयं शास्त्रमिति ।
परं तु रिःश्रेयसं योगर्द्धिप्रभवसम्पदा युगपदुपभोगेनोपात्तकर्माशयस्य क्षयात् सर्वदुःखोपरम इत्युपपन्नं निःश्रेयसद्वैविध्यमिति भावः ॥
तदेतद् दर्शयति–यत्तावदिति ।
तत्त्वसाक्षात्कारः तत्त्वज्ञानम् ।
संहर्षः सुखम् ।
आयासो दुःखम् ।
तत्रानागताभ्यां तावत् प्रवृत्त्यभावादनुत्पादादेवमुच्यते ।
विद्यमानकारणे अपि सुखदुःखे ऽशक्तो ऽद्विषश्च भु।जनो न सुखदुःखतया मनुते ।
न ह्यस्ति सम्भवो न तत्र तृप्यति तच्च तस्य सुखम्, न च तद् द्वेष्टि तच्च तस्य दुःखमिति ।
स्यादेतत् भवत्वेतदपरं निःश्रेयसम् ।
प्रकृते तु किमायातमित्यत आह–अयं शास्त्रार्थः ।
अर्थशब्दो निमित्ते ।
अपरं निःश्रेयसं शास्त्रस्य निमित्तम् ।
अथ अपरनिःश्रेयसोत्पादसमय एव परनिःश्रेयसोत्पादो ऽपि कस्मान्न भवतीत्याह–परं तु निःश्रेयसं तत्त्वज्ञानात् क्रमेण भवति ।
नो खलूत्पन्नतत्त्वसाक्षात्कारः समुच्छिन्नवासनाविपर्यासज्ञानस्तत्कार्यदोषतत्कार्यप्रवृत्तीनं निवृत्त्यै प्रयतते, कारणनिवृत्त्यैवायत्नलभ्यत्वात् कार्यनिवृत्तेः ।
न हि कफोद्भावज्वरप्रशमनाय कफनिवृत्तौ सत्यां यत्नान्तरमातिष्ठते, तत एव तत्सिद्धेः ।
परं तु निःश्रेयसं न तावद् भवति, यावदुपभोगादुपात्तकर्माशयप्रचयो न क्षीयते ।
तस्मात् तत्त्वसाक्षात्काराधानप्रयत्नात्परस्तदुपभोगप्रयत्न आस्थेयः ।
तथा च न तुल्यकाल उत्पादः परापरयोर्निःश्रेयसयोः ।
तदिदमुक्तम्–क्रमेणेति ॥
तदेवमर्थगति परिशोध्य सूत्रमवतारयति–क्रिमेति ।
यद्यप्यपरस्मिन्नपि निःश्रेयसे मिथ्याज्ञानदोषप्रवृत्तीनामपि समुच्छेदक्रमो ऽस्ति, तथापि जन्मदुःखोच्छेदक्रमो नास्ति, पूर्वोपात्तस्य कर्माशयप्रचयस्य तादवस्थ्यात् ।
तस्मात् जन्मदुःखोच्छेदक्रमसमभिव्याहृतो मिथ्याज्ञानाद्युच्छेदक्रमः परस्यैव निःश्रेयसस्य शास्त्रप्रयोजनस्य ।
तत्प्रतिपादनमर्थः प्रयोजनं यस्य तत् तथोक्तम् ।
इदं चावान्तरप्रयोजनम् ।
प्रधानप्रयोजनमग्रे वक्ष्यति ॥
अत्र केचित् योगविभागमिच्छन्ति ।
कारणोच्छेदात् कार्योच्छेदो ऽभिमतः ।
न चासौ दुःखादीनां मिथ्याज्ञानान्तानामप्रदर्शिते कार्यकारणभावे सिध्यति ।
तस्माद् दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामित्यको योगः ।
अत्र किल समासादेतेषामितरेतरयोगः अवगम्यते ।
स च योग्यतया कार्यकारणभावः ।
कार्येण कारणं युक्तम्, कारणेन च कार्यमिति ।
अतः सिद्धे कार्यकारणभावे उत्तरोत्तरापाये तदनन्तराभावादपवर्ग इत्यनेन योगेन कारणोच्छेदक्रमेण कार्योच्छेदक्रमप्रतिपादनेनापवर्गः प्रतिपाद्यते ।
अत्र चोत्तरत्वं पाठापेक्षया कारणस्य ।
तदनन्तरत्वं च कार्यस्याव्यवहितादिपाठापेक्षया ।
मिथ्याज्ञाने कारणे तत्कार्याः दोषाः ।
एवे शेषेष्वपि योज्यम् ।
तमिमं सूत्रविभागममृष्यमाणो वार्त्तिककृद् आह–इदं सूत्रम् ।
एकवचनेन भेदं व्यावर्तयति ।
न हि समुच्छेदक्रमप्रतिपादनेनापवर्गपरतयैकवाक्यत्वे सम्भवति वाक्यभेदो न्याय्यः ।
एवनिवृत्त्या अन्यनिवृत्त्यैव कार्यकारणभाव आक्षिप्त इति नासौ सूत्रे दर्शनीयः ।
न ह्यर्थाक्षिप्तं सूत्रकारा दर्शयन्ति ।
तदिदं सूत्रग्रहणप्रयोजनम् ।
तथा हि—
स्वल्पाक्षरमसन्दिग्धं सारवद् विश्वतोमुखम् ।
अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥
# विष्णुधर्मोत्तरे ३।५।१ # इति ।
अस्तोभमनधिकम्, अर्थलभ्यप्रदर्शने त्वधिकं भवेदिति ।
तत् सूचनात् सूत्रं स्यात् ।
तथा ह्यहुः,
लघूनि सूचितार्थानि स्वल्पाक्षरपदानि च ।
सर्वतः सारभूतानि सूत्राण्याहुर्मनीषिणः ॥
# # इति ।
इतरेतरयोगेनापि कार्यकारणभावः सूचनीय एव ।
स वरमेकनिवृत्त्यान्यनिवृत्त्यैव सूच्यतामेकवाक्यतानुरोधायेति ।
परमतात्पर्यमस्याह–एतत्सम्बन्धेनैव ।
शास्त्रस्य निःश्रेयसाधिगमलक्षणेन प्रयोजनेन यः सम्बन्धः पूर्वमाक्षिप्तः, तत्समाधानेनार्थेन अर्थवदेतत् सूत्रम् ।
सम्बन्धपदेन विषयवाचिना विषचिसमाधानं लक्षयति ।
तदेवं सूत्रतात्पर्यं व्याख्यायावयवव्याख्यानमवतारयति–पदार्थस्विति ।
यद्यपि सामभेदादौ हलशकटदौ च मिथ्याज्ञानमनेकप्रकारं सम्भवति, तथापि न तत् संसारहेतुरपि त्वात्मादिद्वादशविधप्रमेयविशेषविषयमिति सूत्रस्थं मिथ्याज्ञानं विशेष्टुमाह–तत्रेति ।
तदेतेन आत्माद्यपवर्गपर्यन्त इत्यादि भाष्यमवतारितम् ।
तदेतदाक्षिपति–को वृत्त्यर्थ
इति ।
न खलु यथा कुण्डे वदरं पटे वा शौक्ल्यम्, एवं प्रमेये मिथ्याज्ञानं प्रवर्तते, तस्य ज्ञातृसमवेतत्वादित्यर्थः ।
उत्तरम्–विषयार्थः ।
यावदुक्तं भवति प्रमयविषयं मिथ्याज्ञानमिति, तावदुक्तं भवति प्रमेये वर्तत इति ।
विषयत्वं चाग्रे निवेदयिष्यते ।
अनेकप्रकारम् इत्युक्तम् ।
तदाह–तत्रायं भेदः तत्रात्मनि तावत् प्रधाने प्रमेये नास्तीति ।
कथं पुनरेतन्मिथ्याज्ञानमित्यत आह–आत्मा तावदिति ।
अत्र शङ्गते–तस्यानुपपत्तिः ।
कुतः? सदसतोः सारूप्याभावादिति चेत्? सर्वत्र हि रजतोदकादिविभ्रमेषु शुक्तिरजतयोर्वा मरूमरीचिसलिलयोर्वा सारूप्यमेव निमित्तं प्रतीमः न हि जातु रूपं रसादिषु हस्तिनं वा मशकादिषु आरोपयन्ति ।
असदृशे ऽपि श्वेते पीतभ्रमः, मधुरे च तिक्तभ्रमः, पीतः शङ्खस्तिक्तो गुड इति च दृश्यत इति चेत्–न, तत्रापि सारूप्यसम्भवात् ।
तथा हि बहिनिर्गच्छदत्यच्छनयनरश्मिसम्पृक्तपित्तगतं पीतिमानमाश्रयरहितम्, शङ्खं च दोषाच्छादितसितिमानमनुभवन् पीतगणस्य च तदसम्बन्धमननुभवंस्तदसम्बन्धाग्रहेण पीतचीरविल्वादिसामानाधिकरण्येन सारूप्यात् शङ्ख पीत इति विपर्यस्यति ।
एवं त्वगिन्द्रियोपनीतं गुडद्रव्यमननुभूयमानमाधुर्यमनुभवन् रसनाग्रवर्तिनश्च पित्तस्यास्वभावजाततिक्तस्य तिक्तत्वमनुभवन् तदाश्रयं च पित्तमननुभवन्नसम्बन्धाग्रहसारूप्यात् तिक्तनिम्बसामानाधिकरण्येन तिक्तो गुड इति वपिर्यस्यति ।
अतिशीघ्रतया चैष क्रमो न लक्ष्यते ।
न च ब्रूमो यत्र सारूप्यं तत्र भ्रम इति, येनातिप्रसक्तिश्चोद्येत, अपि तु यत्र भ्रमस्तत्रावश्यं कथञ्चित् सारूप्यमिति ।
एवं द्विचन्द्रदिङ्मोहालातचक्रादिष्वपि किञ्चित् कथञ्चित् सारूप्यमूहनीयम् ।
न च स दसतोरत्यन्तविलक्षणयोः सारूप्यमस्ति ।
तत् कथमात्मनि नास्तितारोप इत्याक्षेपः ॥
समाधत्ते–न, प्रमाणगम्यतोपपत्ते ।
आक्षेपं विभजते–न हि सदसती इति ।
समाधानं विभजत–तच्च नैवमिति ।
यदि सदसतोः समानत्वं नास्ति, तर्हि भेदः ।
तथा च कस्य कुत्रारोप इत्यत आह–क्रियागुणेति ।
सो ऽयमसद्धर्मान् क्रियागुणरहितत्वादीन् सत्यात्मनि समारोप्य असत्तया विपर्यस्यति–नास्त्यात्मेति, नत्वात्मानं सर्वतो ऽभ्यर्हिततमं पश्यन् तत्रासौ स्निह्यति, स्नेहाच्च तदुपकाराय घटते ।
एवं तत्परिपन्थिनं द्वेष्टि ।
द्वेषाच्च तदपकाराय द्यटते ।
ततश्च कर्माशयम् आचिनोति ।
ततो जन्म ।
ततश्च दुःखमिति ।
एवमात्मनस्तादृशस्य मा भूत् तत्त्वाज्ञानम् ।
अस्तु नास्तितासमारोप एव तावद् यतो न प्रवर्तते ।
यथाहुः,
सुखी भवेयं दुःखी वा मा भूवमिति तृष्यतः ।
यैवाहमितिधीः सैव सहजं सत्त्वदर्शनम् ॥
# प्र।वा। १।२०२।३ # अत्रोच्यते ।
यद्यपि रागादिनिवृत्तिहेतुर्नैरात्म्यदर्शनम्, तथापि नास्ति कर्म, नास्ति कर्मफलमिति दृष्टेः परमं निदानम् ।
एवं प्रेत्यभावाभावज्ञानस्य च ।
तथा च दुःखहेतोर्हेयवर्गस्याभावान्न तद्धानायानेन घटितव्यम् ।
न चावङ्घटमानो हेयं हातुमर्हति ।
सो ऽयं वृश्चिकभिया पलायमानः आशीविषमुखेनिपतितः ।
सेचमास्तिकत्वायात्मास्तितोपासनीया ।
अभ्यर्हितता चात्मनो ऽत्यन्तदुःखनिवृत्तावुपपद्यते ।
अयमेव चास्योपकारो यदात्यन्तिकदुःखशमनम्, सूखाधाने त्वस्य तदनुषङ्गिदुःखाधानादपकारप्रसङ्गात् ।
न हि जातु कश्चिच्चेतनः सुखमाप्स्यामीति मधुविषसम्पृक्तमन्नमुपभुङ्क्ते ।
तस्मान्नैरात्म्यदृष्टिः प्रयत्नेनोच्छेत्तव्या प्रेक्षावतेति सिद्धम् ॥
अपरमपि संसारहेतु मिथ्यादर्शनमाह–एवमनात्मनीति ।
पृच्छति–कि पुनरिति ।
उत्तरम्–अहङ्कारेति ।
विशेषमाह–इच्छादीति ।
पुनः पृच्छति–कथं पुनरिति ।
उत्तरम्–शरीरेति ।
उपसंहरति–एवमिति ।
सामान्यधर्मो ऽहङ्कारास्पदत्वम् ।
विशेषधर्म इच्छाद्याधारता ।
तां खल्वयं शरीरादिष्वारोप्य एत एवाहमिति शरीरादिष्वात्मभावमारोपयति ॥
एवं सिद्धं कृत्वा विपर्ययं सर्वमुक्तम् ।
सम्प्रति सन्दिहानो विपर्ययस्वरूपं पृच्छति–कः पुनरयं विपर्ययः? परीक्षकाणां विप्रतिपत्तेः संशयः ।
केचित् स्वाकारबाह्यत्वविषयं ज्ञानं विपर्यय इत्याचक्षते ।
अन्ये ऽसाद्विषयं ज्ञानम् ।
अन्ये त्वनिर्वचनीयमेव ज्ञानम् ।
अपरे त्वग्रहणमेवव ।
अन्यथाख्याति तु वृद्धाः ।
उत्तरम्–अतस्मिस्तदिति प्रत्ययः ॥
इदमत्राकूतम्–न तावत् स्वाकारं रजतादि बाह्यतया आलम्बन्ते विभ्रमाः ।
तथा हि ज्ञानाकारत्वं रजतादेरनुभवाद् व्यवस्थाप्येत्, अनुमानाद् वा? अनुभवो ऽपि रजतप्रत्ययो वा स्वाद्, बाधकपत्ययो वा? न तावद् रजतप्रत्ययः ।
स हीदमनहङ्काराकारास्पदं रजतमादर्शयति, न चान्तरम् ।
अहमिति हि तदा स्यात्, प्रतिपत्तुः प्रत्ययादव्यतिरेकात् ।
भ्रान्तं हि ज्ञानं स्वाकारमेव बाह्यता आलम्बते ।
तथा चानहङ्कारास्पदमस्य विषयो ज्ञानाकारो ऽपि, ज्ञानाकारता पुनरस्य बाधकज्ञानप्रवेदनीयेति चेत्? हन्त चक्षुषी निमील्य वैतालिकपक्षपातं परित्यज्यालोचयत्वायुष्मान् कि पुरोवर्तिद्रव्याकारतामात्रं प्रतिषेधति रजतस्य, आहोस्वित् ज्ञानाकारतामप्यस्यादर्शयति बाधकप्रत्ययः? तत्र ज्ञानाकारतोपदर्शनव्यापारं बाधकप्रत्ययस्य ब्रूवाणः श्लाघनीयप्रज्ञो देवानाम्प्रियः ।
पुरोवर्तित्वनिषेधादर्थात् ज्ञानाकारतासिद्धिरिति चेत्? तन्निषेधो वणिग्वीथ्यादावुपलब्धस्य रजतस्य व्यावस्थापने हेतुः ।
आन्तरत्वं त्वस्यानुपलब्धचरं कुतस्त्यम्? न चानुमानमत्र प्रभवतीति चतुर्थेनिवेदयिष्यते ॥
सन्तु तर्हि बाधकप्रत्ययानुरोधाद् असत्प्रकाशनशीला एव मिथ्याप्रत्ययाः ।
तथा हि बाधकं विज्ञानं नेदं रजतमिति रजतज्ञानगोचरस्यासत्त्वं गृह्णाति ।
न चासतो विषयभावो नोपपद्यते ।
न हि विषयत्वं नाम कारणत्वं येनासति न स्यात्, किं तु स्वकारणधीनः सामर्थ्यातिशयः ।
स तादृशो ज्ञानस्य, येन सन्तमिवासन्तमपि गोचरयति।न च विषयसामर्थ्यमत्रोपयुज्यते, ज्ञानस्य सामर्थ्यादेव तद्भावसिद्धेः ।
अत एवासत्प्रकाशनसामर्थ्यमेव मिथ्याज्ञानानामविद्यात्वमनिर्वचनीयं केचिदास्थिषत ।
अत्रेदमालोचनीयम्–किमेतत् मिथ्याज्ञानमसत् सदात्मना गृह्णातीत्यसद्विषयमुपेयते? आहोस्वित् सदेव सदन्तरात्मना गह्णाति सतश्च सदन्तरात्मत्वेन असत्त्वादसद्विषयमुच्यते? न तावत् पूर्वः कल्पः, रजतात्मना चेत् असदालम्बेत न सती शुक्तिकाम्, कथं पुनरसौ रजातर्थो शुक्तौ प्रवर्तते न पुना रजताभावे ।
कस्काच्चेदमिति पुरोवर्ति द्रव्यमङ्गुल्या निर्दिश्य तस्य रजतत्वं निषेधति नेदं रजतमिति, यदि तत्र न प्रसञ्जितं रजतत्वं पूर्वविज्ञानेन? अथ शुक्तिरेव रजतात्मना असतीति तदाकारतया तामालम्बमानं मिथ्याज्ञानमसदालम्बनमुच्यते? तत्रानुज्ञया वर्तामहे ।
न खल्वन्यथाख्यातिवादिनो ऽपि सदन्तरं सदन्तरात्मना सदभ्युपगच्छन्ति ।
तथा सत्यन्यथेत्येव न स्यात् ।
यथाहुरन्यथाख्यातिवादिनः,
तस्माद् यदन्यथा सन्तमन्यथा प्रतिपद्यते ।
तन्निरालम्बनं ज्ञानमभावालम्बन च तत् ॥
# श्लो। वा। निरालम्बनवादे ११७-८ # इति ।
न च रजतात्मना पुरोवर्तिनो द्रव्यस्यानिर्वचनीयता, मिथ्याज्ञानसमये सत्त्वेन बाधकसमये चासत्त्वेन निर्वचनीयत्वात् ।
न चैवम्भूतस्यासतः प्रथा नोपपद्यते, तस्य सदसद्भ्यामुपाख्येयत्वात् ।
यःपुनः अद्वैतवादिना प्रपज्चो वैनाशिकानां वा सामान्यादिर्नो बहिः कि त्वलीकम् ।
तद्विषयं च ज्ञानं मिथ्याज्ञानमित्यपि न सम्भवति, तस्य सर्वोपाख्यारहितस्य केनचित् सारूप्याभावात्, तत्कारणकत्वाच्च भ्रान्तेः, कारणाभावे कार्याभावस्य सुलभत्वात् ।
तस्मात् प्रपञ्चश्च सामान्यादि च वस्तुसती नाममीचीनविज्ञानगोचरौ ।
तब्दाधकं चोपरिष्टादपाकरिष्यते ।
तस्मान्नानिवचनीयख्यातिरपि ॥
स्यादेतत ।
अन्यदन्यथा प्रकाशत इति संविद्विरुद्धम्।न तावत् सद्भावमात्रेणालम्बनत्वम् ।
तन्मात्रस्य सर्वप्रत्ययसाधारण्येन सर्वे ऽर्थाः सवर्प्रत्ययविषया इति सवर्सर्वज्ञतापत्तिः ।
न च कारणत्वेनालम्बनत्वम्, रूपादिविज्ञानानां रूपादिवच्चक्षुराद्यपि कारणमिति चक्षुराद्यालम्बनत्वप्रसङ्गात् ।
अतीतानागतविषयत्वं च विज्ञानस्य न स्यात्, अतीतानागतयोरसत्त्वेनाकारणत्वात् ।
तस्मात् प्रतिभासमानमालम्बनम् ।
तथा च रजतप्रतिभासः शुक्तिकालम्बनमिति दुर्घटम् ।
अपि च चक्षुरादीनां समीचीनज्ञानोपजननसामर्थ्यमिति कथमेभ्यो मिथ्याज्ञानं भवितुमर्हति? न हि श्यामाकबीजं परिकर्मसहस्रेणापि कलमाङ्कुराय कल्पते ।
दोषसहाया लोचनादयो मिथ्याप्रत्ययमादधत इति चेत्–न दोषा हि कारणानां सामर्थ्य निघ्नन्ति, न पुनः कार्यान्तरोपजननसामर्थ्यमादधति, न खलु भृष्टं कुटजबीजं न्यग्रोधधानायै कल्पते, किं तु न करोति कुटजधानाम् ।
अपि च स्वगोचरे व्यभिचारे विज्ञानानां सर्वत्रानाश्वासप्रसङ्गः ।
तस्मात् सर्वमेव विज्ञानं समीचीनमास्थेयम् ।
तथा हि रजतमिदमिति द्वे ज्ञाने स्मृत्यनुभवरूपे ।
तत्रेदमिति पुरोवर्तिद्रव्यमात्रग्रहणम्, दोषवशात् तद्गतस्य शुक्तिकात्वसामान्यविशेषस्याग्रहणात् ।
तावन्मात्रं च गृहीतं सदृशतया संस्कारोद्बोधक्रमेण रजते स्मृति जनयति ।
सा च गृहीतग्रहणस्वभावापि दोषवशात् गृहीततांशप्रमोषेण ग्रहणमात्रमवतिष्ठते ।
तथा च रजतस्मृतेः पुरोवर्तिमात्रग्रहणस्य व मिथः स्वरूपतश्च विषयतश्च भेदाग्रहणात् सन्निहितरजतविषयविज्ञानसारूप्येणेदं रजतमिति भिन्ने अपि ग्रहणस्मरणे अभेदव्यवहारं सामानाधिकरण्यव्यपदेशं च प्रवर्तयतः ।
क्वचित् पुनर्ग्रहणे एव मिथो ऽगृहीतप्रभेदे, यथा पीतः शङ्ख इति ।
अत्र हि विनिर्यन्नयनरश्मिवर्तिनः पित्तद्रव्यस्य कायस्येवातिस्वच्छस्य पीतत्त्वं च गृह्यते ।
पित्तं तु गृह्यते ।
शङ्खो ऽपि दोषवशात् गुणरहितः स्वरूपमात्रेण गृह्यते ।
तदनयोर्गुणगुणिनोरसंसर्गाग्रहात् सारूप्यात् पीतचिरबिल्वफलप्रत्ययाविशेषेणाभेदव्यवहारः सामानाधिकरण्यव्यपदेशश्च, भेदाग्रहप्रसञ्जिताभेदव्यवहारबाधानाच्च नेदं रजतमिति विवेकप्रत्ययस्य बाधकत्त्वमप्युपपद्यते ।
तदुपपत्तौ च भ्रान्तत्वमपि लोकप्रसिद्धं सिद्ध्र भवति ।
तस्माद् यथार्थाः सर्वे ऽपि भ्रमाः प्रत्ययत्वात् पटप्रत्ययत्वयवदिति प्राप्तम् ॥
एवं प्राप्ते ऽभिधीयते–अस्ति तावद् रजतार्थिनो रजतमिति ज्ञाने सति पुरोवर्तिद्रव्यप्रवृत्तिः सामानाधिकरण्यव्यपदेशश्चेति सर्वजनीनम् ।
तत् किं ग्रहणस्मरणयोस्तद्गोचरयोश्च भेदाग्रहाद् भवतु, आहोस्विदभेदग्रहात्? न तावच्चेतनो ऽज्ञानात् प्रवर्तते, अपि तु ज्ञानात् ।
पुरोवर्तिवस्तुग्रहणरजतज्ञानादगृहीतभेदं स्वरूपतो विषयतो वा रजतार्थिनं पुरोवर्तिद्रव्ये प्रवर्तयतीति चेत्? हन्त भोः किमेतावता पुरोवर्तिवस्तुगोचरं ज्ञानं रजतगोचरं भवति, आहोस्वित् तन्मात्रगोचरमेव? यदि रजतगोचरं पुरोवर्तिरजततयागृह्णात्, कथं नान्यथाख्यातिः? अथ तन्मात्रगोचरम्, को भेदाग्रहस्योपयोगः? न हि वृक्षमात्रदर्शनं निश्चयेन शिंशपार्थिनं प्रवर्तयति, न हि तत्र शिंशपाज्ञानमस्ति ।
अस्ति त्विह रजतविज्ञानम्, अगृहीतभेदमिदमिति ज्ञानेनेति चेत्? ननु रजतविज्ञानं पुरोवर्तिनि द्रव्ये न वर्तते, पुरोवर्तिज्ञानं च न रजत इति तत्र पुरोवर्तिद्रव्यमात्रार्थो पुरोवर्तिनि प्रवर्तेत न रजतार्थो ।
एवं रजतार्थो यत्र क्वचन प्रवर्तेत न नियमेन पुरोवर्तिन द्रव्ये ।
न हि तत्र तेन रजतत्वमवगतमीति ।
अथेदं रजतमिति द्वे ज्ञाने, भेदाग्रहादिदं रजतमित्येकज्ञानसदृशे, तेन तदुचितं व्यवहारं प्रवर्तयतः? यद्येवं तद्रजतम्, इयं शुक्तिरिति भेदावभासिविज्ञानव्यवहारमपि कस्मान्न प्रवर्तयतः? यथैव हि भेदाग्रहादभिन्नविज्ञानसादृश्यम्, एवमभेदाग्रहाद् भिन्नविज्ञानसादृश्यमपि ।
सो ऽयमुभयतो भेदाभेदग्रहसारूप्यात् प्रवृत्तिनिवृत्तिभ्यां युगपदाकृष्यमाणः प्रतिपत्ता कष्टां दशामावेशितः प्रज्ञाशालिभिरतिव्याख्यया ॥
स्यादेतत् ।
विपर्ययज्ञानोत्पादे ऽपि शुक्तिरजतयोर्भेदाग्रहे ऽस्य व्यापार आस्थेयः, अन्यथा गृहीतभेदानामपि विपर्ययोत्पादप्रसङ्गात् ।
तथा च शक्यं तत्रापि वक्तुम्–यथा भेदग्रहाद् विपर्ययज्ञानोत्पाद एवमभेदाग्रहात् कस्मान्न समीचीनज्ञानोत्पाद इति ।
तत्र यस्तव परिहारः सो ऽस्माकं व्यवहारव्यपदेशयोर्भविष्यतीति ।
यथाहुरख्यातिवादिनः—
येषामपि विपरीतख्यातिस्तेषामप्यज्ञानवासननिबन्धनो भ्रम इति ।
मैवम्, ज्ञानहेतूनाम् अज्ञातरूपकार्यसम्बन्धाना चुक्षुरादीनां दर्शनात्, चेतनव्यवहाराणां त्वबुद्धिपूर्वकाणामप्रतीतेः बुद्धिपूर्वकत्वे तु विवेकाग्रह उपयुज्यते, न व्यवहारव्यपदेशयोरिति युक्तमुत्पश्यामः ।
यद्यविवेकग्रहो ऽपि तत्परिपन्थी विद्यत इति कुतो ऽन्यतरनिबन्धनो व्यवहारः? तस्मात् समारोप एव भेदाग्रह इति ।
तत् सिद्धम् एतद्विवादाध्यासितं रजतादिवज्ञानं पुरोवर्तिवस्तुविषयम्, रजतार्थिनस्तत्र नियमेन प्रवर्तकत्वात् ।
यद् यदर्थिन नियमेन यत्र प्रवर्पयति तद्विज्ञानं तद्विषयम्, यथोभयसिद्धं समीचीनरजतविज्ञानम् ।
तथा चैतत्, तस्मात् यथा, यच्चोक्तम्–अनवभासमामा शुक्तिरनालम्बनमिति, तत्र किं शुक्तिकात्वस्य रजतमिति ज्ञानं प्रत्यनालम्बनत्वं साध्यते, आहोस्विद् द्रव्यमात्रस्य सितभास्वरस्य पुरोवर्तिनः? तत्र पूर्वस्मिन् कल्पे सिद्धसाधनम् ।
उत्तरस्मिन्ननवभासनमसिद्धम्, इदमिति पुरोवर्तिनो द्रव्यस्याङ्गुल्या निर्देशात् ।
दृष्टं च दुष्टानामपि कारणानामौत्सर्गिककार्यप्रतिबन्धेन कार्यान्तरोत्पादकत्वम् ।
तद् यथा, वेत्रबीजानां दावाग्निदग्धानां कदलीप्रकाण्डजनकत्वम्, भस्मकदुष्टस्य चौदर्यस्य तेजसो बहुतरान्नपानपाचकत्वम् ।
नेदं रजतमिति च प्रत्यक्षबाधकप्रत्ययादपहृतविषयम्, प्रत्ययत्वेन विभ्रमाणां यथार्थत्वानुमानं नोदेतुमर्हति ।
यथा च प्रमाणाभासव्यभिचारे ऽपि प्रमाणे आश्वासः, तथा प्रमाणतो ऽर्थप्रतिपत्तौ इत्यत्रोपपादितम् ।
दिङ्मात्रमत्र दर्शितम् ।
प्रपञ्चस्तु तत्त्वसमीक्षायाम् अस्माभिः कृत इत्युपरम्यते ॥
तदेवमात्मनि मिथ्याज्ञानं व्याख्याय शरीरादिष्वेकादशसु मिथ्याज्ञानं भाष्य एव दर्शितम् ।
तत्तु स्पष्टत्वात् अस्माभिर्न व्युत्पादितमित्याशयवानाह–शेषमिति ।
तत्र शरीरादिषु मनःपर्यन्तेषु यथायोगं मिथ्याज्ञानं दुःखे सुखम् इत्यादिना अप्रतिहातव्यम् इत्यन्तेन भाष्येणोक्तम् ।
प्रवृत्त्यादिषु शृङ्गग्राहिकयोक्तं प्रवृत्तौ इत्यादिना रोचयेत् इत्यन्तेन भाष्येण ।
एवं मिथ्याज्ञानस्य स्वरूपं दर्शयित्वा मिथ्याज्ञानदोषप्रवृत्तितजन्मदुःखानां कार्यकारणभावो दोषादीनां स्वरूपं चोक्तम् एतस्मात् इत्यादिना ताप इत्यन्तेन भाष्येण ।
सम्प्रति मिथ्याज्ञानाद्युच्छेदादपवर्ग इति वक्ष्यति ।
तच्चायुक्तम्, सत्यपि तदुच्छेदे संसारतादवस्थ्यात् ।
न ह्यान्योच्छेदे ऽन्यस्योच्छेदः ।
तथा च नापवर्ग इति वक्ष्यमाणमर्थमुपपादयितुमक्तं भाष्यकृता, त हमे मिथ्याज्ञानादय इत्यादि ।
तद् वार्त्तिककारो व्याचष्ट–त हमे दुःखादय इति भाष्यकारोक्तक्रमाद् विपरीतक्रमाभिधानं वार्त्तिककृतः एवं सूत्रकारोक्तक्रमाद् विपरीतक्रमाभिधानं भाष्यकृतः ।
तद् दुःखादीनां मिथ्याज्ञानपूर्वकत्वेन मिथ्याज्ञानस्य दुःखादिपूर्वकत्वेनानादित्वं दर्शयितुम् ।
पृच्छति–कः पुनरिति ।
यद्येत एव संसारस्तर्हि सूत्रकारः प्रमेयसूत्रे कस्माद् दुःखादिभ्यः पृथक् प्रेत्यभावं संसारापरनामानमुपादत्ते? तस्मादेभ्यो ऽन्य एव संसार इति भावः ।
उत्तरम्–दुःखादीनामिति ।
नैषां स्वरूपमपि तु कार्यकारणभाव इत्यर्थः ।
क्रमव्यतिक्रमतात्पर्यमाह–स चानादिरिति ।
अत्र हेतुमाह–पूर्वापरेति ।
दुःखजन्मप्रवृत्तिदोषाः विषयत्वेन तावन्मिथ्याज्ञानस्य कारणम् ।
एवमसति जन्मनि मिथ्याज्ञानस्यानुत्पत्तरविषयो ऽपि जन्म मिथ्याज्ञानस्य कारणम् ।
एवं विना प्रवृत्तिं जन्माभावात् जन्मद्वादेण प्रवृत्तेरपि मिथ्याज्ञानकारणत्वम् ।
प्रवृत्तिद्वारेण च दोषाणाम्, तथा मिथ्याज्ञानाद् देषाः, दोषेभ्यः प्रवृत्तिः, प्रवृत्तेर्जन्म, जन्मनो दुःखम् ।
यद्यपि प्रवृत्तिरेव साक्षादुःखहेतुः, तथाप्यनायतनस्य तस्यानुत्पत्तेरन्तरा जन्म करोति ।
अथ सैव दुःखमिति? अनादित्वाच्च नान्योन्याश्रयं चक्रकं वा बीजाङ्कुरसन्तानयोरिवेति ।
सम्प्रतिबीजापाय इव तज्जान्याङ्कुरप्रवाहनिवृत्तिः मिथ्याज्ञानापाये तज्जन्यदोषप्रवृत्तिजन्मदुःखमिथ्याज्ञानादिप्रवाहनिवृत्तिः, कारणनिवृत्तौ कार्यनिवृत्तेरिति कथनपरं भाष्यम् अनुभाष्याक्षिपति–यदा तु तत्त्वज्ञानादिति ।
अपायो ऽपि तत्त्वज्ञानान्मिथ्याज्ञानस्य स्वरूपतो वा, विषयतो, वा फलतो वा स्यात्, न तावत् स्वरूपतः, तस्याशुतरविनाशिनः संस्काराद् वा ज्ञानान्तराद् वा अपायस्य तत्त्वज्ञानसाधारण्येन तस्यापि बाध्यत्वप्रसङ्गात् ।
नापि विषयतः, न हि शुक्तिकाज्ञानं रजतज्ञानस्य रजतविषयतामपहर्तुमुत्सहते जातं हि तद् रजतं विषयीकृत्य ।
यथाहुः
गृहीत्वार्थं गताश्चौराः कस्तानाच्छेत्तुमर्हति ।
इति ।
नापि फलमपहरति, उपदर्शितो हि तेनार्थः, प्रवर्तितश्च तत्र पुयषः ।
तदिदमुक्तम्–कथमपाय इति ।
उत्तरम्–समानविषय इति ।
यस्मिन्नेव हि पुरोवर्तिनि द्रव्ये पूर्वेण रजतत्वमासञ्जितं तत्रैवोत्तरं तद्विरुद्धं शुक्तिकात्वं धर्ममुपनयति ।
तथा च पूर्वस्य विज्ञानस्य मिथ्यात्वमादर्शयत्तज्जनितां प्रवृत्तिं विघटयत् फलमस्यापहरतीति भावः ।
न तु समानविषयतामात्रेण विरोधः, मा भूदेकस्मिन्नात्मनि नित्यत्वविभुत्वज्ञानयोर्विरोध इत्यत आह–यस्मादिति ।
तत्वमिथ्यात्वकथनेन मिथो विरुद्धधर्मप्रस।जनं सूचयति ।
नित्यत्वविभुत्वज्ञानयोस्तु समानविषययोरप्यविरुद्धधर्मोपस्थापकतया तत्त्वज्ञानत्वादित्यर्थः ।
कस्माद् विरोध इत्यत आह–वस्तुन इति ।
परस्पराभावधर्मिणोरेकत्र समवाये नेदं स्वाभाविकं नानात्वं क्वचिदपीत्यद्वैतप्रसङ्ग इति भावः ।
उपसंहरति–तस्मादिति ॥
अत्र देशयति–कथं पुनरिति ।
प्रथममुत्पन्नं मिथ्याज्ञानमनुपजातविरोधि, तेनापहृतविषयं पश्र्वात्तनं तत्त्वज्ञानमुदेतुमेव नोत्सहते, प्रागेव तु मिथ्याज्ञानं बाधितुमिति भावः ।
उत्तरम्–मिथ्याज्ञानस्येति ।
तत्र हि प्रथममुपजातेनानुपजातविरोधिना ज्ञानेनोत्तरं बाध्यते, यत्र पूर्वापेक्षमुत्तरमुपजायते ।
तत् खलु पूर्वविरोधे न जायेत ।
अजातं सत् कथं पूर्वं बाधेत, यथा प्रत्यक्षादिविरुद्धमनुमानम्? इह तु द्वे अपि ज्ञानेदोषोपहतानुपहतेन्द्रियार्थसन्निकर्षजन्मनी परस्परानपेक्षे ।
तत्र पूर्वमनुपजातविरोधित्वात् कि बाधताम्, अनागतस्याप्राप्तत्वेन बाधितुमशक्यत्वात्, स्वकारणबलादासाद्यमानजन्मनश्चोत्पत्तिविरोधस्य चाशक्यात्वात्? तदेवमुत्पन्नमुत्तरमुपजातविरोधितया पूर्वबाधात्मकं सन्नानुपकृद्य पूर्वमुत्पत्तुमर्हतीति बाधते ।
तत्तु न पूर्वेण नाप्यन्येन केनचिदिति भावत्यर्थसहायम् ।
अर्थासहायं च मिथ्याज्ञानम् ।
तदनेन बाध्यत्वाबाध्यत्वे मिथ्याज्ञानतत्त्वज्ञानयोरूपलक्ष्येते ।
तदिदमन्यैरप्युक्तम्—
पूर्वात् परबलीयस्त्वं तत्र नाम प्रतीयताम् ।
अन्योन्यनिरपेक्षाणां यत्र जन्म धियां भवेत् ॥
इति ।
तथा चानुपजातविरोधित्वमत्र बाध्यत्वे हेतुः, उपजातविरोधित्वं च बाधकत्व इति ।
यदुपलक्षणार्थं ससहायत्वाभिधानं तज्जिज्ञासुः पृच्छति–कस्मात्? उत्तरम्–तयात्वेनेति ।
अनेनाबाध्यत्वं तत्त्वज्ञानस्योक्तमिति ।
न केवलमबाध्यत्वम्, दृढमूलत्वमपि तत्त्वज्ञानस्येत्याह–प्रमाणान्तरानुग्रहाच्च ।
अन्तरशब्दो विशेषवचनः ।
आत्मादितत्त्वज्ञानं हि फलं प्रमाणविशेषैरागमानुमानप्रत्यक्षैरनुगृह्यते ।
तस्माद् दृढमूलत्वात् तदपि तत्त्वज्ञानं मिथ्याज्ञानं निवर्तयतीत्यर्थः ।
एतदेव विभजते–आगमेति ।
एतदेव स्फोरयति–यदा हीति ।
आगममयेन हि ज्ञानेन प्रमेयं गृहीत्वा शास्त्रीयेण च न्यायविज्ञानेनानुमानापरनाम्ना व्यवस्थाप्य भावयतो यदात्ममनःसन्निकर्षाद् योगजधर्मसहायादुत्पद्यते तत्त्वविषयः साक्षात्कारः प्रत्यक्षफलम्, तत्र त्रयाणामपि प्रमाणानां प्रतिसन्धानम् अस्तीति दृढमूलत्वात् तेन मिथ्याज्ञानं बाध्यते ॥
विषयं भावयतीति व्याचष्ट–समाहित इति ।
समाहितत्वेन चेतसो धारणां दर्शयति–अनन्यमना इति प्रत्याहारम्, चेतसः तत्त्वविषयबुद्धिधाराविपच्यमानत्वं ध्यानस्य, तत्त्वज्ञानस्य स्फुटाभत्वारम्भावस्था ।
ध्यानजनितभावना संस्कारो ध्यानभावना, तस्या विवेको मिथ्यज्ञानवासनायाः ।
पूर्वं हि मिथ्याज्ञानवासना तत्त्वज्ञानवासनाया बलवत्यासीत्, अथाभ्यासवशात् तुल्यबलाभवत्, अथेयमेव बलीयसी तत्त्वज्ञानवासनासम्भिन्ना मिथ्याज्ञानवासनया सहानुवर्तते ।
सम्प्रति तु तत्त्वज्ञानवासनया अत्यन्तबलीयस्य समूलकाषं कषितत्वात् मिथ्याज्ञानवासनाया भवति विविक्ता तत्त्वज्ञानवासना तस्यामित्यर्थः ॥
नन्वनेन क्रमेण निवर्ततां मिथ्याज्ञानम्, निवृत्तं तं तत्त्वसाक्षात्कारसमये ऽपि कस्मात् पुनः स्ववासनावशान्न जायते? न खलु मिथ्याज्ञानवासना अनादिकालप्रवृत्ता आदिमता तत्त्वज्ञानेन तत्संस्कारेण वा शक्या निवर्तयितुमित्यत आह–निवृत्ते चेति ।
तावदेव पुंसां बुद्धयो ऽस्थिरा भ्राम्यन्ति स्वोचितं च संस्कारजातमातन्वते, न यावद् भूतमर्थं साक्षात्कुर्वन्ति ।
अथ साक्षात्कृत्य तत्र स्थिरपदा भवन्ति, क्षिण्वन्ति च सवासनान् मिथ्याप्रत्ययान् ।
भूतार्थम्पक्षपातो हि बुद्धेः स्वभावः ।
यदाहुर्बाह्या अपि—-
निरूपप्लवभूतार्थस्वभावस्य विपर्ययैः ।
न बाधो यत्नवत्त्वे ऽपि बुद्धेस्तत्पक्षपाततः ॥
# प्र। वा। २१२।३ # इति ।
तस्मात् मिथ्याज्ञानस्य न पुनरूत्पाद इति ॥
उक्तमेवार्थं स्मृतिदाढ्रयाय पृच्छति–कः पुनरिति ।
उक्तं स्मारयितुमुत्तरम्–सहेति ।
भवतु मिथ्याज्ञानस्य निवृत्तिः सवासनस्य, ततो ऽपि किमित्यत आह–मिथ्याज्ञानेति ।
अत्र पृच्छति–ये तावदिति ।
उत्तरम्–तेषामपीति ।
वैराग्यस्वरूपं पृच्छति–कि पुनरिति ।
रागाभावो हि वैराग्यम् ।
न च तस्मादेव रागादीनामभाव इति भावः ।
उत्तरम्–भोगानभिष्वङ्गलक्षणमित्युक्तम् ।
विषयदोषपरिभावनापरिपाकात् खलु विषयपरित्यागेच्छा भवति ।
तया विरोधिगुणेन विषयतृष्णा च तत्परिपन्थिनि विद्वेषश्च तदधिकरणाश्र्वेर्ष्यादयो निवर्तन्ते ।
असक्तिर्विषयपरित्यागेच्छा, वशितया च स्वयमुपनतेषु विषयेषु माध्यस्थ्यदर्शनम् ।
दोषाभावे किं भवतीत्यत आह–दोषाभाव इति ।
पृच्छति–का पुनरियमिति ।
यदि हि जन्मनः प्रवृत्तिः कारणं स्यात्, ततो जन्मनिवृत्त्यै तन्निवृत्तिरर्थ्येत ।
न पुनरसौ क्षणिका सतो आमुष्मिकाय जन्मने कल्पते ।
अतः किमर्थं निवर्त्यत इति भावः ।
विदिताभिप्राय उत्तरमाह–धर्माधर्मो ।
कस्मात् पुनरूपचार इत्यत आह–जन्मसाधनत्वात् ।
एतद्विभजते–नास्मिन्निति ।
उपचारे प्रयोजनं दर्शयित्वा निमित्तमाह–धर्माधर्मयोस्त्विति ।
वर्तमानानागतयोरविशेषेण दोषापायात् निवृत्तिरूक्तेति भ्रान्त्या देशयति–यौ तावदनागताविति ।
परिहरति–न, अनागतयोरिति ।
अनागताभिप्रायमेतदित्यर्थः ।
यद्येवम्, वर्तमानयोः कुतः प्रक्षय
इत्यत आह–वर्तमानयोरिति ।
अस्तु प्रवृत्तेरभावः,ततः किमित्यत आह–प्रवृत्त्यभाव इति ।
उक्तं विवेकमिहापि योजयति–अत्रापीति ।
वर्तमाननिवृत्तिहेतु पृच्छति–अथेति ।
उत्तरम्–संस्कारेति ।
श्रुतिः,
तावदेवास्य चिरं यावन्न विमोक्ष्ये ऽथ सम्पत्स्ये ।
# छान्दोग्य ६।१४।२ # इति ।
किं जन्माभावे सिध्यतीत्यत आह–जन्माभाव इति ।
अत्रैव वृद्धसम्मतिमाह–एतच्च तदाहुरिति ।
तदेतच्चेति योजना ।
प्राणनस्य कालभेदावच्छेद आयुः ॥
स्यादेतत्, महाप्रलये ऽपि मिथ्याज्ञानादिना दुःखान्तेनास्ति वियोग इति अत्रापि मुक्तिप्रसङ्ग इत्यत आह–सो ऽयं मिथ्याज्ञानादिनेति ।
सर्वत इति तृतीयार्थे तसिः सर्वेणेति ।
न च प्रलयावस्थायां सर्वेण वियोगः, कर्माविद्यावासनयोरनविनाशात् ।
मुक्तौ तु तयोरपि विनाशः ।
कर्मवासना च सर्वकार्याणामुत्पादिका अवस्थापिका च ।
तन्निवृत्तौ शरीरादिवत् तत्त्वज्ञानसंस्कारस्यापि प्रलय इत्यशेषविशेषगुणविमुक्तो मुक्त इत्युच्यत इति सद्धिम् ॥
स्तादेतत् ।
तत्त्वज्ञानात् मिथ्याज्ञानापाय इत्युक्तम् ।
किं पुनस्तत्त्वज्ञानमित्यत उक्तं भाष्यकृता–तत्त्वज्ञानु त्विति ।
तदनुभाष्य सर्वेषां ज्ञानानां भाष्योक्तानामनुगतमेकं स्वरूपतस्त्विति ।
चोदयति–कस्मादिति ।
नो ख्ल्वयं प्रेक्षावतां समाचारो यद् दुःखभिया सुखपरित्याग इति, अपि तु सुखं दुःखाद् विविच्य उपाददते दुःखं च वर्जयन्ति ।
न हि मृगाः सन्तीति शालयो नोप्यन्ते, भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्त इति ।
उत्तरम्–विवेकहानस्येति ।
यद्यपि सुखदुःखे भिन्ने, तथाप्यनित्यत्वकृतकत्ववत् परस्परानुषक्ते इति न खलु सुखस्य केवलस्योपादानं दुःखस्य वा केवलस्य परिवर्जनं शक्यमित्यर्थः ।
कः पुनरयमनुषङ्गो यतो विवेकहानमशक्यमित्यत आह–अनुषङ्गो ऽधिनाभावः ।
तत्स्वरूपमाह–यत्रैकं सुखं वा दुःखं वा, तत्रेतरत् दुःखं वा सुखं वा ।
तदनेनानित्यत्वकृतकत्वयोरिव सुखदुःखयोरविनाभावो दर्शितः ।
न चाविनाभावो विना सम्बन्धादिति तत्सिद्धये सम्बन्धविकल्पानाह–समाननिमित्तता वा अनुषङ्गो ऽविनाभावः, वाशब्दश्च वक्ष्यमाणसम्बन्धान्तरापेक्षया, न तु पूर्वापेक्षया ।
अत्र च शरीराद्यपेक्षया समाननिमित्तता, न तु धर्माधर्मापेक्षया, न तु पूर्वापेक्षया ।
अत्र च शरीराद्यपेक्षया समाननिमित्तता, न तु धर्माधर्मापेक्षया तयोरसाधारण्यादिति ।
मन्तव्यम् ।
तयोरविनाभावसिद्ध्यर्थं सम्बन्धान्तरम् आह–समानाधारता वा ।
अपरं सम्बन्धान्तरमाह–समानाधारता वा ।
अपरं सम्बन्धान्तरमाह–समानोपलभ्यता वा ।
मनोगोचरत्वमुभयोः ।
ततश्च सिद्धो ऽनविनाभावापरनामा अनुषङ्ग इति ।
यत्रैकं तत्रेतरदिति वा यत्र यस्मिन्निमित्ते सतीति वा यत्राधार इति वा यत्रोपलब्धिसाधने सतीति व्याख्येयम् ।
इतिः सूत्रसमाप्तिं सूचयति॥२ ॥
न्य्स्_१,१।३: प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि ॥
तदेवं प्रमाणादिपदार्थतत्त्वज्ञानस्य निःश्रेयससम्बन्ध उक्तः परीक्षितश्च ।
तत्रैतत् स्यात् ।
स्वपदेभ्यः प्रमाणादयः पदार्थास्तत्त्वतो ज्ञाता यथायथं मिथ्याज्ञानादिनिवृत्तिक्रमेण अपवर्गे उपयोक्ष्यन्ते, कृतमुपरितनेन प्रबन्धेन इति ।
अत उक्तं भाष्यकृता–त्रिवधा चास्येति ।
न नामधेयमात्रात् प्रमाणादीनां तत्त्वज्ञानं भवति, अपि तु लक्षणपरीक्षणाभ्याम् इत्यस्ति प्रबन्धस्योत्तरस्योपयोग इति भाष्यार्थः ।
तदेतद्भाष्यमनुभाष्य पृच्छति—प्रवृत्तेरिति ।
यदि पुरुषकल्पना मात्रात् त्रैविध्यम्, अथानन्त्यमेव कस्मान्न भवति? सर्वत्र तस्य सुलभत्वादिति भावः ।
उत्तरम्—अर्थस्य तथाभावात् ।
अर्थस्य प्रयोजनस्य साक्षात्, शास्त्रकार्यस्य तत्त्वज्ञानलक्षणस्य तथैव त्रिविधयैव शास्त्रप्रवृत्त्या भावात् ।
तथा हि, लक्षणं नाम व्यतिरेकिहेतुवचनम् ।
तद्धि समानासमानजातीयेभ्यो व्यवच्छिद्य लक्ष्यं व्यवस्थापयति ।
न चास्य धर्मिदर्शनमन्तरेण पक्षधर्मता सिध्यतीति तदुपदर्शनाय नामधेयमात्रेण धर्मिणामुद्देशः ।
यद्यपि च प्रतिलक्षणमुद्दिष्टा एव धर्मिणः, तथापि शास्त्राभिसम्बन्धपरादपि वाक्यात् समधिगम्यन्त इत्युद्देशो ऽप्युक्तः ।
न चापरीक्षितो हेतुर्व्यतिरेकी चतूरूपो भवतीति परीक्षाप्यवश्यं कर्तव्या ।
तस्मात् तत्त्वज्ञानस्यार्थस्य तथाभावात् त्रैविध्यमिति ।
तदेतद् विभजते–नामी पदार्था इति ।
किं त्विति ।
अर्थः तत्त्वज्ञानं तथाभूतम्, येनार्थेन हेतुना शास्त्रस्य प्रवृत्तिस्त्रेधा भवति ॥
उद्देशस्वरूपप्रतिपादनपरं भाष्यमनुभाष्याक्षिपति–नामधेयेनेति ।
परिहरति–मात्रग्रहणसामर्थ्यादिति ।
यद्यपि प्रमाणणादिशब्दा अपि कारकशब्दा एव, तथाप्युद्देशसमये तदर्थानां सदपि कारकत्वमविवक्षितम्, अपि तु प्रातिपदिकार्थमात्रम् ।
घ्राणादिसूत्रे # १।१।१२ # तु लक्षणपरे कारकत्वं विवक्षितम् अन्यथा लक्षणत्वायोगादिति अदोषः ।
अत्र च यद्यपि सूत्रकारेण संशयप्रमाणप्रमेयेषु परीक्षा साक्षात् कृता न प्रयोजनादिषु, तथापि तत्करणादेव प्रयोजनादिपरीक्षापि सूचिता सूत्रकारेण इति त्रिविधेत्युक्तम् ।
अत एव भाष्यकारः सर्वत्र परीक्षामन्ववर्तयदिति ॥
स्यादेतत् ।
विभागपरमेतत् सूत्रमिति वक्ष्यति ।
न च विभागो न्यूनाधिकसङ्ख्याव्यवच्छेदार्थमेकं किञ्चिदुपसङ्ग्राहकमन्तरेण ।
न च प्रमाणत्वादन्यदत्रोपसङ्ग्राहकम् ।
न चेदमलक्षितमुपसङ्गृह्णाति ।
न चैतत् सूत्रमस्य लक्षणम्, विभागपरत्वादिति शङ्कानिराकरणपरं भाष्यम्–तत्रोद्दिष्टस्येति ।
तस्यार्थः–यद्यपि विभागपरमेतत् सूत्रम्, तथापि प्रमाणपदसमभिव्याहृतं सत् सामर्थ्यात् प्रमाणत्वमपि लक्षयतीति ।
तथा हि, प्रमीयते ऽनेनेत्यस्य वाक्यस्यार्थे प्रमाणपदप्रयोगः ।
प्रमा च स्मृतेरन्यः अर्थाव्यभिचारी स्वतन्त्रः परिच्छेदः तस्माद् विभागपरादपि सूत्रात् प्रतीयमानं प्रमाणसामान्यलक्षणमपेक्षितं सङ्गृहीतमिति प्रमाणत्वोपगृहीतानां प्रत्यक्षादीनां प्रमाणानां युक्तो विभागः ।
तथा च विभागपरत्वेन साक्षात् सामान्यलक्षणानभिधानाद् विभक्तस्य लक्षणमुच्यत इत्युक्तम् तच्चेह ।
विशेषलक्षणम् इन्द्रियार्थसन्निकर्षेत्यादि # १।१।४ # ।
तदेतद् भाष्यं व्याचष्टे–उद्दिष्टस्येति ।
लक्षणालक्षणमात्रविवक्षया लक्षितस्यालक्षितस्य इत्युक्तम् ।
तच्च छले सामान्यतः, प्रमाणेषु प्रमेयेषु च विशेषत इति गमयितव्यम् ॥
अत्र भाष्यम्–अथोद्दिष्टस्य विभागवचनमिति ।
तस्यार्थ उच्यते ऽनेनेति वचनं सूत्रं विभागस्य ।
अथेति त्रिविधप्रवृत्तिव्युत्पादनानन्तरं विविक्तानां प्रतिपादनं विभागवचनम् ।
न च विवेकः स्वरूप उपयुज्यत इत्यत आह–अथोद्दिष्टविभागद्वारेणेति ।
नात्र विभागमात्रं विवक्षितम्, अपि तु तद्द्वारेण न्युनाधिकसङ्ख्याव्यवच्छेदस्तत्त्वज्ञानाङ्गमित्यर्थः ॥
अव्याख्याने हेतुमाह–सूत्रेति ।
चोदयति–उद्दिष्टस्य विभागानर्थक्यम् व्याघातात् ।
त्रिविधा चास्य शास्त्रस्य प्रवृत्तिरित्यस्यानर्थक्यम् ।
अनर्थमर्थविपर्ययं कायति कीर्तयतीत्यनर्थकः ।
तस्य भावस्तत्त्वम् ।
कस्मात्? व्याघातात् ।
व्याघातम् एव स्फोरयति–त्रिविधा चास्य शास्त्र्यस्येति ।
परिहरति–नोद्दिष्टेति ।
परस्परं विभक्ता नामधेयमात्रेणोद्दिश्यन्त इत्युद्देशेन्तर्भावः ।
तेनायमर्थो भवति, सामान्येनोद्दिष्टस्य विभागवचनं विशेषेणोद्देश इति ।
विभागप्रयोजनं पृच्छति–किं पुनरिति ।
उत्तरम्–नियमः ।
तद्विभजते–यदीति ।
पुनश्चोदयति–लक्षणत इति ।
प्रमाणलक्षणकरणप्रवृत्तो यत् चत्वार्येव लक्षयति तदवगम्यते न न्यूनान्यधिकानि वा प्रमाणनीत्यर्थः ।
परिहरति–लक्षणस्येति ।
आक्षेपं विभज्ते–स्यादेषेति ।
परिहारं विभजते–न, लक्षणस्येति ।
अन्यपरमपि वाक्यं तदेवार्थलभ्यं स्वीकरोति ।
न च प्रत्यक्षादीनां समानासमानजातीयस्य व्यवच्छेदे पञ्चम्याद्यभाव उपयुज्यते ।
लक्षणकरणप्रवृत्तस्य क्वचिदकरणं न तदभावे प्रमाणम्, सतो ऽप्यनुपयोगेनाकरणापत्तेः ।
तदेतदाह–अन्यासम्भवस्येति ।
विभागोद्देशस्य पुनरनन्यपरत्वादन्याभाविनिश्चयो भवतीति ।
उपसंहरति–तस्मादिति ॥
अक्षस्याक्षस्येति भाष्यमनुभाष्य तात्पर्यमाह–अयं च सूत्रविवक्षायामिति ।
अक्षमक्षं प्रति वर्तत इति विगृह्याव्ययीभावे कृते सर्वेन्द्रियावरोधो भवति ।
ननु यदिर् इदृशो विग्रहः, कस्मात् पुनर्भाष्यकारेण अक्षस्याक्षस्येति विगृह्यत इत्यत आह–अन्यथा तु वस्तुनिर्देश इति ।
अर्थमात्रमनेन प्रतिपाद्यते, न पुनः समास इत्यर्थः ।
अथ कस्मात् समास एव तेन विग्रहेण न प्रतिपाद्यत इत्यत आह–समासे हि अक्षस्येति षष्ठी न श्रूयेतेति ।
यदि सूत्रगतस्य प्रत्यक्षपदस्याव्ययीभावः समासः, अन्यत्र पुनरस्य कः समास इति पृच्छति–कः पुनरिति ।
उत्तरम्–प्रादिसमास इति ।
तथा हि, प्राप्तापन्नालम्पूर्वगतिसमासेषु परवल्लिङ्गताप्रतिषेधादभिधयलिङ्गोपादानात् प्रत्यक्षो ऽर्थः प्रत्यक्षाबुद्धिः प्रत्यक्षं ज्ञानमित्यभिधेयलिङ्गता सिद्धा भवति ।
क्वचित् पाठः समासे हि प्रत्यक्षस्येति षष्ठी न श्रूयेतेति ।
सूत्रविवक्षयाव्ययीभाव इत्युक्तम् ।
तत्र शङ्कते, कस्मात् पुनः सूत्रविवक्षयेत्युच्यते, यावता सर्वत्रैव कस्मादव्ययीभावो न भवतीति? तत्रेदमुपतिष्ठते–समासे हि अव्ययीभावसमासे हि, सर्वत्र प्रत्यक्षस्येति षष्ठी न श्रूयेतेति ।
व्युत्पत्तिनिमित्तमात्रं चेदं प्रत्यक्षशब्दस्य, न तु प्रवृत्तिनिमित्तम् ।
तस्मात् नेन्द्रियगतैर्गुणसामान्यादिभिर्व्यभिचारः,
प्रवृत्तिहेतुस्त्वर्थसाक्षात्कारिज्ञानजनकत्वम् ।
तन्निमित्तः खल्वयं प्रत्यक्षशब्दस्तत्र तत्र लौकिकपरीक्षकैः प्रयुज्यते ।
यथा मयूरशब्दो मयूरत्वसामान्यनिबन्धनः कासुचिदेव पतत्रिव्यक्तिषु वर्तमानः, मह्यां रौतीत्यन्वाख्यायते ।
तदिदं प्रत्यक्षमुद्धिष्टमपि सत् प्रमाणतदाभाससङ्कीर्णमिति तद्विवेकाय लक्षणमुपयुज्यते ।
यदि तूद्देशपदं तद्विवेचयेत्, कृतं तर्हि लक्षणप्रणयनेन ॥
विग्रहवाक्यगता च वृत्तिर्भाष्यकृता व्याख्याता ।
वृत्तिस्तु सन्निकर्षो ज्ञानं वा ।
वृत्तिरिति हि व्यापारः ।
स तु व्यापार उच्यते, यः कारकैः फले जनयितव्ये चारमभावी धर्मभेदः फलोत्पादानुकूलो ऽपेक्ष्यते ।
यथा पटे जनयितव्ये तन्तुभिश्चरमभाविनः संयोगभेदाः, स्वर्गे वा जनयितव्ये यागेनापूर्वमात्मधर्मः, तथेहापि इन्द्रियादिना प्रमाणेन प्रमायां फले प्रवृत्तेन तदुत्पादनानुकूलः सन्निकर्षो ज्ञानं वा चरमभावी धर्मभेदो ऽपेक्ष्यत इति भवति व्यापारः ।
स एव वृत्तिरित्याख्यायते ।
व्यवस्थां दर्शयति–यदा सन्निकर्षो व्यापार इन्द्रियादेः प्रमाणस्य तदा ज्ञानम् आलोचनं वा सविकल्पकं वा साक्षात्कारवद्विज्ञानं प्रमितिः फलम्, उभयस्यापीन्द्रियव्यापारात् सन्निकर्षापरभिधानानुत्पत्तेः ।
न चान्तरालिकेन निर्विकल्पकेनेन्द्रियव्यापारविच्छेद इति प्रत्यक्षव्याख्यानावसरे निवेदयिष्यते ।
यदा ज्ञानम् आलोचनं वा विकल्पो वा व्यापार इन्द्रियादीनां तदा हानोपादानोपेक्षाबुद्धयः फलम् ।
तत्रोपादेयमिदं सलिलमिति बुद्धिरनागतोपादानविशिष्टं सलिलमालम्बमाना न साक्षात्कारवती, सलिलमात्रसाक्षात्कारस्तु स्यात् ।
न च तन्मात्रमस्य फलम्, अपि तूपादेयता ।
सा च परोक्षा, अनागतत्वात् ।
तस्मादुपादीयते अनेनेत्युपादानम् उपादानं चासौ बुद्धिश्चेत्युपादानबुद्धिः ।
तत्र तोयालोचनमथ तोयविकल्तः, अथ तज्जातीयस्य दृष्टचरपिपासोपशमनहेतुभावस्य स्मृतिबीजसंस्कारोद्बोधः, अथ तस्य स्मरणम्, अथ लिङ्गपरामर्शः तज्जातीयं चेदमिति ।
तदिदं लिङ्गपरामर्शविज्ञानं साक्षात्कारवत् ।
लिङ्गे विनश्यदवस्थव्याप्तिस्मरणसहकारिदृश्यमानस्य सलिलस्य पिपासोपशमनहेतुतया अनुमानमुखेनोपादानबुद्धिरूच्यते ।
अनुमाय खल्वयं तथाभावं तदुपादित्सर्न् इहमानस्तदुपादत्ते ।
न च व्याप्तिस्मृतिविच्छिन्नमालोचनं वा विकल्पो वा न लिङ्गपरामर्शज्ञानहेतुरिति वाच्यम्, तदुद्बोधितसंस्कारद्वारेण व्याप्स्मिरणे च परामर्शे च तस्य तदानीमसतो ऽपि कारणत्वात् ।
न खलु कृषिकर्म शस्याधिगतिसमये समस्ति, न च यागादिकं स्वर्गाद्युत्पादसमये, न च त्रिवृत्कषायपानं विरेकसमये ।
आन्तरालिककार्यपरम्परया तु तत्साधानत्वं सर्वत्र समानम् ॥
स्यादेतत् ।
का पुनरियं पिपासोपशमनशक्तिस्तोयस्य, या अनुमानगोचरः? न तावत् मीमांसकवदतीन्द्रिया शक्तिर्युस्माभिरभ्युपेयते, किं तु कारणानां स्वरूपं वा सहकारिसाकल्यं वा ।
तत्र स्वरूपं हेतूनां प्रत्यक्षमेव ।
सहकारिणा प्रत्यक्षाप्रत्यक्षाणां साकल्यं कार्यसमुत्पादैकव्य।जनीयम्, न तु तत् तोयरूपदर्शनमात्रात् शक्यानुमानम् ।
तत् किमपरमवशिष्यते यदनुमानस्य गोचर इति? अत्रोच्यते ।
न वयमतीन्द्रियं सामर्थ्यम् आतिष्ठामहे, नापि सहकारिसाकल्यानुमानमाचक्ष्महे, किं तु स्वरूपस्य कार्यसम्बधिताम् ।
न चेयं स्वरूपमेव, इहस्थस्येव नारिकेलद्वीपादागतस्यापि वह्निदर्शनमात्राद् ग्राहकत्वावगमप्रसङ्गात् ।
तस्मात् कार्योपहितं स्वरूपमनुमेयम् ।
इदमेव चास्य कार्योपधानं यत् कार्योत्पादात् पूर्वमवश्यम्भाव आनन्तर्यनियमः ।
न च तज्जातीयस्य दृष्टचरस्य तथाभावदर्शने ऽपि दृश्यमानस्य तोयस्य तद् दृष्टं भवति येन तत्र स्मर्येत ।
न खलूज्जयिन्यामुपलब्धस्य सौधस्य पाटलिपुत्रे स्मरन्त्यभ्रान्ताः ।
उपादानेन हानं व्याख्यातम् ।
न चोपेक्षानुपादानतया हानपक्षे निक्षिप्ता, अहानतयोपादानपक्षनिःश्रेपप्रसङ्गात् ।
उपादानप्रयत्नाप्रसवहेतुतया नोपादानमिति चेत्? किमियं हानप्रयत्नमपि प्रसूते यतो हानं स्यात्? तस्माद् या नोभयप्रयत्नप्रसवहेतुः सोपेक्षाबुद्धिस्तृतीया लोकप्रसिद्धेति सिद्धम् ॥
प्रत्यक्षपदव्युत्पत्तिं दर्शयित्वा अनुमानादिपदेष्ववि व्युत्पत्तिगति दिशति–एवमनुमानादिष्वपीति ।
तत्रेदमनुमानदव्युत्पत्तिभाष्यम् ।
मितेन लिङ्गेन लिङ्गिनो ऽर्थस्य पश्चान्मानमनुमानमिति ।
मितिर्मानम् ।
तथा च लिङ्गदर्शनोद्बोधितसंस्कारजा स्मृतिर्व्यवच्छिन्ना, तस्या मितेरन्यत्वेन लोकसिद्धत्वात् ।
मितेनेत्यज्ञानसन्देहविपर्यासा लिङ्गविषया व्युदस्ता भवन्ति ।
तथापि मितेनार्थस्य ज्ञानं शाब्दे ऽप्यस्तीत्यत उक्तम्–लिङ्गेनेति ।
अपक्षधर्मतो निवर्तयति–लिङ्गिन इति ।
तथापि धर्मिणः प्रत्यक्षगोचरत्वात् कृतमनुमानेनेत्यत उक्तम्–अर्थस्येति ।
अर्थ्यते साध्यत इत्यर्थः ।
न च धर्मो स्वरूपेणार्थ्यते, किं तु जिज्ञासितधर्मविशिष्ट इत्यर्थः ।
पश्चादिति अनुशब्दस्य व्याख्या ।
तदेतद्भाष्यमनुभाष्याक्षिपति–मितेनेति ।
कस्मादयुक्तमित्यत आह–फलाभावादिति ।
एतद् विभजते–एतस्मिन्निति ।
अनुमानज्ञानस्य फलावस्थायामेवार्थो मित इति मेयं नावशिष्यते, यत्रैतत् सिद्धं सत् प्रमाणं भवेदित्यर्थः ।
तत्र फलविशेषणपक्षमास्थाय यत इत्यध्याहृत्य सामधत्ते—नैष दोष इति ।
अनध्याहारेणाप्यदोष इति समाधानान्तरमाह—भवतु वेति ।
पूर्वोक्तं दोषं स्मारयत्ति—ननु चेति ।
परिहरति–न दोष इति ।
अथ कस्मात् हानादिविषयं प्रमाणमुच्यते, न स्वगोचरं प्रतीत्यत आह–सर्व च प्रमाणमिति ।
यद्यपि वह्निज्ञानस्यानुमानस्य सतो हेयत्वादिकं विषयः, तत्रैव व्यापारात् ।
अन्यथा प्रमाणफलयोर्विभिन्नविषयत्वेन विप्रतिपत्त्या प्रमाणफलभावायोगात् ।
न हि पनसविषयेण परशुना खदिरे द्वैधीभावो भवति ।
तथापि फलान्तरानपेक्षमुत्पत्तावेव विज्ञाने यत् प्रकाशते स तस्य विषयः ।
तत्र तु न तत् प्रमाणम्, फलान्तराजनकत्वादपि तु फलमेवेत्यर्थः ।
विषयान्तरं प्रति तु प्रमाणमित्याह–विषयान्तरमिति ।
चोदयति–यदीति ।
भावसाधनश्चेत् प्रमाणशब्दः फलमस्यार्थो न तु फलं स्वविषये करणम्, तद्व्यापारस्य तज्जनकेनैव कृतत्वात् ।
न च स्वविषयादन्यद् विषयान्तरमस्य सम्भवति, अतिप्रसङ्गादिति भावः ।
परिहरति–उक्तं फलमिति ।
यद्यपि यत्र फलं सो ऽस्यौत्पत्तिको विषयः, तथापि यत्रानेन प्रमाणेन सता हानादिबुद्धयो जनयितव्याः, सो ऽपि व्यापारेण विषय इति भावः ।
फलत्व एव हेतुमाह—ज्ञात इति ।
परोक्षार्थावगाहितया हेयादिबुद्धयः प्रत्यक्षफलं न भवन्ति, भवन्ति त्वनुमानस्येति ।
नियमवादिनां मतमपन्यस्य दूषयति—केचित् त्विति ।
अनियमं रोच्यमान आह–उभयं त्विति ॥
अनुमानशब्दवत् फलेन निर्वचनीयत्वमुपमानशब्दस्येति मन्वान आक्षिपति–सामीप्येति ।
समाधत्ते–नास्ति व्याघात इति ।
नेयमुपमानशब्दस्य फलेन निरूक्तिः, अपि तु प्रमाणेन निरूक्तिरिति न वयाघात इत्यर्थः ॥
शब्दविषया प्रतिपत्तिः शाब्दं प्रमाणम् ।
यत् खलु चैत्र, गां बधानेति वाक्यमिदमित्यनुसन्धानात्मकं स्मार्तं विज्ञानमुपजायते, तत् पदार्थस्मरणसहकारि विशिष्टार्थविषयं विज्ञानं प्रसूते, तच्छाब्द्र प्रमाणम् ।
प्रमाणमुक्त्वा फलमस्याह—फलं तदेव ।
यदा ह्येतत् प्रमाणं तदा वाक्यार्थविज्ञानं फलम् ।
यदानुमानवद् वाक्यार्थविज्ञानं प्रमाणं तदा हानोपादानादिबुद्धयः फलमित्यर्थः ॥
अत्र प्रत्यक्षादीनां क्रमोद्देशप्रयोजनं प्रति एकदेशिमतमुपन्यस्यति—केचित् त्विति ।
प्रत्यक्षपरा हि प्रमाणान्तरजन्याः प्रमितय इति प्रत्यक्षस्य प्राधान्यम् ।
यद्यपि किञ्चिदनुमानमनुमानादिपूर्वकमपि, तथापि प्रायेण प्रत्यक्षपूर्वकम्, उपमानं तु प्रत्यक्षपूर्वकमपि शब्दपूर्वकमेवेत्यस्यानुमानादपकर्षः ।
स्मरणसहकारिता चानुमानसादृश्यमुपमानस्यास्तीत्यनुमानानन्तरमुद्देशः ।
अल्पज्ञानाधीनं च बहुज्ञानमित्यल्पविषयप्रत्यक्षाद्युद्देशेभ्यः परो बहुविषयशब्दोद्देश इति ।
तदेतत् एकदेशिमतम् एकदेश्यन्तरमतेन दूषयति–तच्चायुक्तमित्यपर इति ।
आक्लिष्टो हि प्रथमं महाविषयमेव दुरवधारणत्वान्निरूपयति, अल्पविषयं तु क्लिष्टो ऽपि शक्नोति निरूपयितुम् ।
अतो महाविषयत्वं प्राथम्य एव हेतुर्न चरमत्व इत्यर्थः ।
अनन्तरमतं दूषयति–एतच्चेति ।
एतावता क्रममात्रं भवेत्, न तु तद्विशेषनियम इत्यर्थः ।
॥
सम्प्रति विमर्शपूर्वकं स्वाभिभतक्रमनियमहेतुमवधारयन्नेव पूर्वैकदेशिमतमपाकरोति–तस्मादन्य इति ।
विमर्शनिमित्तं विप्रतिपत्तिमाह–प्रत्यक्षं पूर्वं प्राधान्यात् इत्येकः ।
महाविषयत्वाच्चादौ शब्दोपदेश इत्यपरः ।
तत्र महाविषयत्वमनैकान्तिकं सन्नागमस्यैव पूर्वोपदेशं गमयतीत्याह–उभयमिति ।
पृच्छति–कथमिति ।
उत्तरम्–प्रत्यक्षैणापीति ।
महाविषयत्वलक्षणसाधारणधर्मदर्शननिमित्तं सन्देहमाह—तत्रेति ।
स्वाभिमतेन हेतुनां क्रमविशेषनियममवधारयति–प्रत्यक्षस्येतीति ।
यद्यपि प्रमितेः प्रत्यक्षपरत्वेन प्रत्यक्षस्य प्राधान्यम्, तथापि शास्त्रे व्युत्पाद्यत्वेनानुमानस्यापि तदस्तीति साधारणतया न हेतुरिति भावः ॥
स्यादेतत् ।
व्यवस्थितविषयं प्रत्यक्षं नानुमानविषये प्रवर्तते ।
न चानुमानम् अगृहीतसम्बन्धमुदेति ।
न च सम्बन्धग्रहः सम्बन्धिग्रहमन्तरेण ।
न चानुमानविषये सामान्यरूपे सम्बन्धिनि प्रत्यर्क्ष प्रवर्तते ।
अनुमानान्तरेण तु ग्रहणे ऽनवस्था ।
तस्मात् कारणभावान्नानुमानमस्ति ।
एतेन शब्दोपमाने अपि परास्ते, तयोरपि सम्बन्धसंवेदनाधीनजन्मत्वात् ।
तस्मात् नाप्रत्यक्षं प्रमाणमिति विभागवचनमनुपपन्नमिति शङ्कामपनेतुं विमर्शपूर्वकं विचारयति स्म भारूयकारः—किं पुनः प्रमाणानीति ।
तदेतद्भाष्यम् अनुभाष्याव्याख्याने कारणमाह–किं पुनरेतानीति ॥
सा चेयं प्रमितिः प्रत्यक्षपरेति भाष्यम् ।
तदनुभाष्य हेतुमाह–सेयमिति ।
आकाङ्क्षाभावप्रतिपादनाय प्रतीतिस्वरूपं क्रमं चाह–यथायमिति ।
आहित उत्पादितः प्रत्ययो निश्चयो यस्य, संसर्गोपधानं वर्हि प्रति स तथा ।
सन्दिग्धेन हि निश्चयाय प्रवर्तितव्यमेव ।
निश्चितस्तु विनिश्चयाय प्रमाणान्तरे प्रवर्तमानस्तदभ्यर्हिततरं मन्यते ।
धूमाङ्गत्वेनेति ।
अङ्गत्वं व्यापकत्वम् ।
व्याप्यं पुनर्व्याप्तिक्रियायां कर्मत्वेन प्रधानम् ।
तदनेन धूमव्यापकत्वोपधानेन धूमाद् गम्यमानो बह्निः परोक्ष इति दर्शितम् ।
अनुपहितप्रकाशसतु प्रत्यक्षेणाव्यवहितवह्निस्वरूपप्रकाशः ।
स हि साक्षात्कार इति ।
तावदयं प्रमाता साकाङ्क्षो यावदुपधानव्यवहितं स्वरूपमुपलभते ।
उपधानानपेक्षस्तु प्रत्यक्षेणाव्यवहितं साक्षाद् वर्हिन विषयीकृत्य निराकाङ्क्षो भवति ।
धूमाङ्गत्वेन धूमविशेषणत्वेनेति केचित् ।
तत्तु प्रकृतानुपयोगितया अयुक्तमिति ।
उपसंहरति–अतः प्रधानमिति ।
सो ऽयं गुणप्रधानभावो भेदाश्रयो व्यवस्थायां नास्ति, व्यवस्थितानां प्रत्येकमेकत्वात् ।
तस्माद् व्यवस्थायां गुणप्रधानभावो न चिन्त्य इति ।
इतिः सूत्रसमाप्तौ॥३ ॥
॥ इति न्यायत्रिसूत्रीतात्पर्यटीका ॥
न्य्स्_१,१।४: इन्द्रियार्यसन्निकर्षोत्पन्नु ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् ॥
प्रत्यक्षादिप्रमाणविशेषलक्षणानाम् अर्थाक्षिप्तसामान्यलक्षणविभागोद्देशहेतुत्वेन तदनन्तराभिधानमित्याह–अथ विभक्तानामिति ।
तत्र तेषु मध्ये प्राथम्यात् प्रत्यक्षलक्षणम् इन्द्रियार्थसन्निकर्षोत्पन्नम् इत्यादि सूत्रम् ।
अस्य तात्पर्यमाह–सूत्रार्थः सूत्रप्रयोजनम् ।
समानासमानजातीयविशेषकत्वम् ।
समानजातीयमनुमानादि, असमानजातीयं प्रत्यक्षाभासप्रमेयादि ।
तेभ्यो विशेषकत्वं विशेषः ।
तदस्य सूत्रस्य प्रयोजनम् ।
यः खलु कुतश्चिद् व्यामोहात् समानासमानजातीयव्यावृत्तं तद्रूपं न शक्रोति ग्रहीतुम्, सो ऽनेन लक्षणेन बोध्यते ।
एवंलक्षणकं प्रत्यक्षमिति ।
तस्मात् सामान्नयतः सिद्धविविक्तप्रत्यक्षमात्रानुवादेन लक्षणविधानपरमिदं सूत्रम् ।
इतस्त्ववगतलक्षणः तेनैव विविच्य प्रत्यक्षतत्त्वं गृह्णातीति समानासमानजातीयव्यवच्छेदः सूत्रार्थ उक्त इति ।
अत्र च यह इत्यध्याहृत्य यत्तदोनित्याभिसम्बन्धात् तत् प्रत्यक्षमिति प्रमाणवाचि प्रत्यक्षपद्र योजनीयम् ।
एवं च ज्ञानप्रमाण्यपक्षे ऽपि यत् तद्विशेष्यज्ञानं प्रत्यक्षफलं लिङ्गपरामर्शो वा तदपीन्द्रियार्थसन्निकर्षोत्वन्नत्वाद्युपेतत्वेन भवति प्रमाणविशेषणमिति नाव्यापकत्वं लक्षणस्येति ॥
सूत्रपदार्थं पृच्छति—अथेति ।
उत्तरम्–इन्द्रियेति ।
सन्निकर्षग्रहणलभ्यं प्रकारभेदं परिसञ्चष्टे–सन्निकर्षः पुनरिति ।
पुनःशब्देन संयोगसमवायपदोपादानात् व्यवच्छिनत्ति ।
संयोगपदोपादाने हि न समवायो लभ्यते, समवायपदोपादाने वा न संयोगः ।
सन्निकर्षपदोपादाने त्वभिमतलाभः ।
अर्थग्रहणेनार्थ्यमाणतया ज्ञेयस्वरूप्योग्यता दर्शिता ।
न चासावण्वाकाशादीनामस्तीति सत्यपि संयोगादौ नासावर्थसन्निकर्ष इति तद्व्युदासः ।
उत्पन्नग्रहणेन च सन्निकर्षस्योत्पादकत्वं सूचितम् ।
ततः सत्यप्यर्थस्वरूपयोग्यत्वे संयुक्तसंयोगादेरनुत्पादकस्य सन्निकर्षस्य व्युदासः ।
अन्यथा कुड्यादिसंयुक्तेनेन्द्रियेण कुड्यादिव्यवहितस्य तत्संयुक्तस्य घटादेः तत्समवेतस्य च रूपादेरपि ग्रहणप्रसङ्गः ।
न चैतावता त्रिविध एव सन्निकर्षः संयोगः संयुक्तसमवायः समवायश्चेति साम्प्रतम् ।
स्वतन्त्रव्याघातादनुभवव्याघाताच्च ।
ये हि द्रव्यगुणकर्माश्रयं सामान्यातिरिक्तं सादृश्सयमर्थानतरं रोचयन्ते, तेषां कथं रूपादिभेदानामन्योन्यस्य सादृश्यं प्रत्यक्षं भवेत् ? न हि तदिन्द्रियेण संयुक्तम् ।
नापीन्द्रियसंयुक्तसमवेतम् ।
तस्मात् चतुर्थःसंयुक्तसमवेतसमवायो ऽभ्युपगन्तव्यः ।
इतरथा स्वतन्त्रव्याघातः, अनुभवव्याघातश्च ।
अनुभूयन्ते हि रूपगन्धत्वादयः सामान्यविशेषा अनुगताः, तासु तासु व्यक्तिषु परस्परव्यावृत्तिमतीषु एते नानुभूयेरन् असति सन्निकर्षान्तरे ।
यदि तु वैयात्यादाहुः नानुभूयन्त एवेति, तदा प्रतिवक्तव्यं कुतस्त्यो ऽयमनन्तासु रूपगन्धादिव्यक्तिषु रूपमिति वा गन्ध इति वा व्यपदेशभेदः? चाक्षुषत्वाद्युपाधिनिबन्धन इति चेत्–न, अननुसंहितोपाधेरूपहितप्रत्ययायोगात् ।
न खल्वननुसंहितदण्डश्र्चैत्रं दण्डीति व्यपदिशति ।
न चेन्द्रियाण्यतीन्द्रियाणीन्द्रियदर्शनविषयभावमनुभवन्ति ।
तस्मादस्तीन्द्रियेण रूपत्वादिसामान्यानुभवो यन्निबन्धनाः कासुचिदेव केचिदेव व्यक्तिषु व्यपदेशेभेदा इति सिद्धं सन्निकर्षान्तरम् ।
विशेषणभावेन च संयुक्तविशेषणं समवेतविशेषण च सङ्गृहीतम् ॥
यस्येन्द्रियेण यादृशः सन्निकर्षः तादृशं तत्र दर्शयति–तत्र चक्षुरिति ।
शब्दस्स्य आकाशगुणत्वम् ।
कर्णशष्कुल्यवच्छिन्नस्य नभोभागस्य श्रोत्रत्वम् ।
आद्यस्यैव शब्दस्य संयोगविभागयोनिजत्वम् ।
सन्तानेन श्रोत्रे समुत्पादः समवाय इत्यादि द्वितीये निपुणतरमुपपादयिष्यते ।
अवयवावयविनौ गुणगुणिनौ क्रियाक्रियावन्तौ जातिजातिमन्तौ च मिथः सम्बद्धावनुभूतेते ।
नान्यथा तन्तुषु पट इति च, शुक्लः पट इति च, पटः स्पन्दते इति च, पटो द्रव्यमिति च बुद्धिव्यपदेशौ स्याताम् ।
शुक्लः पट इत्यादि सामानाधिकरण्यज्ञानं न तु सम्बन्धिज्ञानमिति चेत्? किं पुनरिदं सामानाधिकरण्यम्? तादात्म्यमिति चेत्–न, द्वितीयबुद्धिव्यपदेशयोः पौनरुक्त्यात् ।
अपौनरूक्त्यं चाभिमन्यन्ते प्रतिपत्तारः, यदन्यतरदुपलभ्यान्यद् बुभुत्सन्ते ।
न चैकं वस्तु द्व्यात्मकमिति युक्तम् ।
भेदाधिष्ठानस्य तन्नान्तरीयकस्य द्वित्वस्यैकात्मनि विरोधेनासम्भवात् ।
तस्माद् भिन्ने एव वस्तुनी सम्बद्धे सामानाधिकरण्येन भासेते, असम्बन्धे गौरश्व इतिवत् तदनुपपत्तेः ।
सम्बन्धे ऽपि कुण्डे दधीतिवद्वैयधिकरण्यप्रसङ्ग इति चेत्–न, शब्दवृत्तिभेदेन सम्बन्धाभेदे ऽपि सामानाधिकरण्यवैयधिकरण्यव्यवस्थापनात् ।
न हि जातु दधिशब्दः कुण्डे वर्तते कुण्डशब्दो वा दध्नि ।
वर्तन्ते तु सुरभिमधरशुक्लादिशब्दाः स्वाभिधेयं निमित्तीकृत्य पटादिषु, एवं पटादिशब्दा अपि जात्यादि निमित्तीकृत्य द्रव्ये प्रवर्तन्ते इति सामानाधिकरण्यम् ।
तेन सामानाधिकरण्ये ऽपि प्रवृत्तिनिमित्तानां नैकात्म्यं परस्परम् ।
नापि द्रव्येण, किं तु तैस्तैन्वितमेकं द्रव्यं प्रतीयते ।
शब्दानां तु तत्रैकस्मिन् द्रव्ये प्रवृत्तेः तद्वाच्यानामैकात्म्यभ्रमः ।
अयुतसिद्ध्या तु कुण्डे दधीतिवत् न स्फुटतरो विवेकप्रकाशः ।
तदेवमस्ति सम्बद्धानुभवः, न चासौ सम्बद्धानुभवं विनेति सम्बन्धो ऽनुभूयते, स चायुतसिद्ध्यादिसम्पत्त्या समवायः, न चास्यान्यः समवायः, अवस्थानात् ।
न चेन्द्रियेणास्य संयोगः अद्रव्यत्वात् ।
न चासम्बद्धस्य ग्रहणम्, इन्द्रियाणां प्राप्यकारित्वसमर्थनात् ।
तस्मात् विशेषणविशेष्यभावः परिशिष्यते ।
नन्वयं विशेषणविशेष्यभावो ऽन्यत्र सम्बन्धान्तरपूव्रको दृष्टः ।
तत् किमत्र सम्बन्धान्तरं कल्प्यताम्? तथा चानवस्था इत्युक्तम् ।
न चेन्द्रियासंवबद्धस्य ग्रहणम् ।
तस्माद् विना सम्बन्धान्तरं विशेषणविशेष्यभाव एषितव्य इति सिद्धम् ॥
एवमभावे ऽपि यदिन्द्रियसंयुक्तं वा यद्वेन्द्रियसमवेतु यथा भूतले घटो नास्तीति वा नास्त्यकारे ऽनुदात्तस्वर इति वा तस्य संयुक्तस्य वा विशेषणभावेन, समवेतस्य विशेषणभावेन चेन्द्रियप्रत्यासत्त्या ग्रहणम् ।
न च भूतलादिरूपमेव घटाभावो नार्थान्तरमिति साम्प्रतम्, सत्यपि घटादौ भूतलस्य भावात् ।
न च कैवल्यं तस्य धर्मो घटभावविरोधी घटाभावादन्यः ।
न च दृश्ये घटादौ भूतलोपलम्भः कैवल्यमभावव्यवहारहेतुरिति युक्तम् ।
एवं हि घटसंसृष्टभूतलग्रहो ऽपि कैवल्यमिति घटाभावव्यवहारं प्रवर्तयेत् ।
न ह्यदृश्यो घटस्तदानीं दृश्यमानः ।
दृश्ये ऽनुपलभ्यमान इति तु विशेषणे किमपराद्धमुपलभ्याभावेन येन तदपाकरणायोपलम्भाभावो ऽभ्युपेयते? तस्मात् सदिवासदपि तत्त्वमभ्युपेयम् ।
तच्च प्रत्यक्षमक्षव्यापारे सति तत्प्रत्ययात् ।
न च प्रतियोगिस्मरणव्यवहित इन्द्रियार्थसन्निकर्षो नालमभावधियमुपजनयितुमिति साम्प्रतमित्यग्र दर्शयिष्यामः ।
सविकल्पकस्स प्रत्यक्षत्वसिद्धौ यथा शब्दस्मरणपूर्वगृहीतपिण्डानुसन्धानादयो नेन्द्रियव्यापारं व्यवदधतीति, न च शब्दस्मरणादीनामनुयोगिता, भूतलविकल्पं प्रत्यङ्गत्वात्, स्वाङ्गमव्यवधायकमिति न्यायात्, घटस्य तु प्रतियोगितेति साम्प्रतम् ।
कस्य पुनः प्रतियोगी घटः? तदभावस्येति चेद् भवतु ।
घटाभावानुभवस्य तु घटस्मरणं हेतुरिति न प्रतियोगि, किं त्वनुयोग्येव ।
ननु स्वरूपमात्रं दृष्टं वेश्माद्यर्थं स्मरन्नेव बहिर्नितश्र्चैत्रो यदा पृच्छ्यते केनचित्–वयस्य, तव गृहे तदा किमासीत् मैत्र इति ? स चैत्रः प्रतियोगिस्मरणविरहात् पूर्वमप्रतिपन्नमैत्राभावो ऽपि तत्प्रश्नजनितमैत्रस्मृतिः क्षणं ध्यात्व तदभावमवगम्याह, मित्र, तत्र नासीत् मैत्र इति ।
तदीयमसतीन्द्रियार्थसन्निकर्षे ऽभावबुद्धिर्भवन्ती प्रत्यक्षाद्यतिरिक्तमभावाख्यं प्रमाण व्यवस्थापयतीति ।
नैतत्, संयुक्तविशेषणलक्षणेन मनःसन्निकर्षेण स्मर्तव्यस्य स्मरणाभावं मैत्रस्य गृहीत्वा तेन लिङ्गेन तदभावस्य तदानीमनुमानात् ।
तथा हि तद्गेहं तदा मैत्राभाववत्
ज्ञानार्हस्य मैत्रस्याज्ञाने गेहस्य ज्ञायमानत्वात् ।
यद् यस्य ज्ञानार्हस्याज्ञाने ज्ञायते तत् तदभा ववत् ।
यथा घटभाववद् भूतलम् ।
तथा च गेहम् ।
तस्मात् तथा ।
न च यत् कदाचिदानुमानिकं तेनेनिद्रयगम्येन न भवितव्यम्, प्रमाणसम्प्लवव्यवस्थापनात् ।
तत् सद्धिं विशेषणभावादभावस्येन्द्रियप्रमेयतेति ।
संयोगसमवायपदपरिहारेण सन्निकर्षपदोपादानस्य प्रयोजनमाह—सो ऽयं सन्निकर्षशब्द इति ॥
तदनेन प्रबन्धेन इन्द्रियस्यार्थेन सन्निकर्षाद् यदुत्पद्यते ज्ञानं तत् प्रत्यक्षमिति भाष्यं व्याख्यातम् ।
सम्प्रति न तर्हीति चोद्यभाष्यं व्याचष्टे—यदीन्द्रियार्थेति ।
प्रत्यक्षज्ञानकारणाभिधानप्रवृत्तेस्तदेकदेशं वदन्नकुशलः सूत्रकारः स्यादित्यर्थः ।
कारणान्तराणि दर्शयति–तद्यथेति ।
विषयसंयोति चक्षुरालोकश्च ।
तत्स्थं रूपम् ।
आत्मीयेन हि रूपेणालोकचक्षुषी द्रव्यं दर्शयत इति स्थितिः ।
महत्त्वं वा अनेकद्रव्यवत्त्वं वा, अनेकद्रव्या अवयवाः, तद्वत्त्वमवयविनो महत एव न द्व्यणुकस्य, तस्मादन्योन्यनिरपेक्षत्वं महत्त्वानेकद्रव्यवत्त्वयोरिति विकल्प एव न्याय्य इति ।
सत्यप्येवंलक्षणकत्वे चुक्षुरवयविनस्तैजसस्य न चाक्षुषत्वमित्यत उक्तम्–उपलब्धिकलः संस्कार इति ।
धर्माधर्मनिमित्त उभ्दवसमाख्यातः संस्कारः उपलब्धिफलः ।
न चासौ चक्षुषि, तस्यादृष्टवशेनानुद्भूतरूपस्पर्शत्वादित्यर्थः ।
परिहरति–न वक्तव्यानि इति ।
प्रत्यक्षलक्षणकरणप्रवृत्तो हि सूत्रकारः तदेव ब्रूयात् यदस्यासाधारणं कारणम् ।
न तु सदपि साधारणमस्य कारणम् ।
न हि तत् तस्य लक्षणमतिव्याप्तेरित्यर्थः ।
तदनेन नेदम् इत्यादि भाष्यं व्याख्यातम् ।
असाधारणं कारणं चेत् प्रत्यक्षलक्षणायोपादेयं हन्त, अन्यदप्यस्यासाधारणमस्ति कारणमिति तदप्युपादेयमिति चोदयति–इन्द्रियमनः- संयोगस्तर्हीति ।
तदनेन मनसस्तर्हीत्यस्य भाष्यस्यार्थ उक्तो वेदितव्यः ।
परिहरति-न, अनेनैव इन्द्रियार्थसन्निकर्षेणैव ।
तस्य—इन्द्रियमनःसन्निकर्षस्य उक्तत्वात् ।
तदुक्तिसाध्यं यत् तत् तेनैव कृतम् ।
तत्साध्यं त्विन्द्रियमनःसन्निकर्षो न शक्नोति साधयितुम् ।
न च सुखादिज्ञाने मानसे अस्तीन्द्रियमनःसन्निकर्षः ।
इन्द्रियार्थसन्निकर्षस्तु सर्वव्यापकः ।
वक्ष्यति हि मनस इन्द्रियत्वम् ।
सुखादेश्चार्थत्वं सिद्धमेवेति ।
सम्प्रति व्यापकत्वमभ्युपेत्य परीहारान्तरमाह—इन्द्रियार्थेति ।
यद्यपीन्द्रियमनःसन्निकर्षे ऽपीन्द्रियम् अस्ति प्रत्यक्षज्ञानस्य विशेषकम् इन्द्रियेण व्यपदेशादिन्द्रियज्ञानमिति, तथापि मनसा व्यपदेशामावात् मनसस्तत्राविशेषकत्वम् इन्द्रियार्थसन्निकर्षे तूभयमपि विशेषकम्, उभाभ्यां प्रत्यक्षज्ञानस्य व्यपदेशादित्ययमस्येन्द्रियमनःसन्निकर्षाद्विशेष इति ॥
चोदयति–यदा त्विति ।
तुशब्दः पूर्वपक्षं व्यावर्तयति ।
यु।जानस्य हि योगिनो यदात्ममनःसयोगादात्मनि बुद्धयो भवन्ति ताः खल्वात्मना व्यपदिश्यन्ते आत्मबुद्धय इति ।
मनसा च व्यपदिश्यन्ते मनोबुद्धय इति ।
तस्मादुभाभ्यां व्यपदेशाद् उभयोर्विशेषकत्वमितीन्द्रियार्थसन्निकर्षवदात्ममनःसन्निकर्षो वक्तव्य इत्यर्थः ।
परिहरति–यच्चेति ।
चो ऽवधारणे ।
यदेवासाधारणं तद् व्यपदेशभाग्भवति, कारणत्वेन ज्ञानं व्यपदिश्यते इत्यर्थः ।
एतदुक्तं भवति—यथा चुक्षुषा इन्द्रियत्वेन ज्ञानं व्यपदिश्यते चाक्षुषमिति, तथा मनसापीन्द्रियत्वेन व्यपदिश्यते ज्ञानं मानसमिति ।
एवं यथा रूपेणार्थेन व्यपदिश्यते ज्ञानं रूपज्ञानमिति, तथा आत्मनाप्यर्थेन व्यपदिश्यते आत्मज्ञानमिति, तत्र चासाधारणत्वमेव तयोः ।
यत्र त्विन्द्रियान्तरमेवासाधारणम्, लिङ्गादि वा तत्र चात्मा नार्थो ऽपि तु प्रमातैव ।
यथा रूपादिज्ञाने ऽनुमानादिज्ञाने वा न तत्र ज्ञानं मानसमिति वा आत्मज्ञानमिति वा व्यपदेशः स कस्य हेताः, तयोः साधारण्यात्? आत्ममनःसन्निकर्षस्त्विन्द्रियार्थसन्निकर्षेण सङ्गृहीतो न त्विन्द्रियार्थसन्निकर्षस्यैष सङ्ग्राहको ऽव्यापकत्वादिति ॥
एकदेशिनः परीहारमुपन्यस्यति–इन्द्रियमनःसंयोगस्य वा अग्रहणं भेदे ऽभेदात् ।
यदा हि नागरयोषितः कुतूहलात् प्रणिहितमनसो विकसितनिःस्पन्दनयनोत्पलाः सौधमालागवाक्षकैरवनिपतिं सबलवाहनमतिचिरपरावृत्तं गोपुरेण निविशमानमालोकयन्ति, तदा ख्ल्वासामेकेनैवेन्द्रियमनःसंयोगेन क्रमवदनेकेन्द्रियार्थसन्निकर्षसहकारिणा भिन्नानि क्रमवन्ति हास्तिकाश्वीयादिप्रत्यक्षज्ञानानि जायन्ते ।
तदिदमाह–यस्माद् इति ।
चोदयति–यदीति ।
यदा हि मन्दं गच्छति गवि दूरतः संयुक्तसमवायेनेन्द्रियार्थसन्निकर्षेण शुक्लो गौरित्यज्ञासीत्, अथ प्रत्यासीदन् गच्छतीत्यपि विजानाति तेनैव संयुक्तसमवायेन सन्निकर्षेण, तेन प्रत्यक्षज्ञानस्य शुक्ल इति च गच्छतीति च भेदे ऽपि इन्द्रियार्थसन्निकर्षो न भिद्यते ।
तस्मादिन्द्रियार्थसन्निकर्षे तुल्यत्वादिन्द्रियमनःसंयोगो ऽपि तत्र वक्तव्य इत्यर्थः ।
परिहरति–न वक्तव्यः ।
कुतः–उक्तोत्तरत्वादिति ।
तद्विभजते–उक्तेति ।
ननु भवतूक्तमुत्तरं भेदे ऽभेदादित्यस्याक्षेपः समाधातव्यः इत्यत आह–अनभ्युपगमाच्च ।
एकदेशिमतमेतदस्माभिर्नाभ्युपेयते ।
तस्मान्न समाधेयम् इत्यर्थः ।
तत् किमिदानीं भिद्यमानस्य प्रत्यक्षज्ञानस्य नायं भिद्यत इति समानत्वान्नोक्त इति भाष्यम् अनुपपन्नमेव? नेत्याह–इन्द्रियमनःसंयोगस्य चाग्रहणं समानत्वात् ।
पृच्छति–केनेति ।
उत्तरम्"–आत्ममन इति ।
पुनः पृच्छति–किं पुनः समानत्वम्, उत्तरम्–व्यपदेशाभाव इत्युक्तम् ।
तेन भाष्यस्यायमर्थः ।
प्रत्यक्षज्ञानस्य रूपज्ञानस्य रूपज्ञानमिति वा चक्षुर्विज्ञानमिति वा व्यपदेशेन भिद्यमानस्य आत्ममनःसंयोग इव अयम् इन्द्रियमनःसंयोगो न भिद्यते ।
एवं हि स भिद्यते, यदि स्वसम्बन्धिवाचकेन व्यपदेशेन स्वमन्यतो व्यावर्त्यते, न विशेषणेन विशिष्टं ज्ञानमप्यन्यतो व्यावर्तयेत् ।
न त्वस्ति इन्द्रियमनःसन्निकर्षाधाराभ्यामिन्द्रियमनोभ्यां प्रत्येकमस्य व्यपदेशो यथेन्द्रियार्थसन्निकर्षाधाराभ्यां इन्द्रियार्थाभ्यां व्यपदेशो रूपज्ञानमिति चक्षुर्ज्ञानमिति वा ।
तस्माद् व्यपदेशाभाव आत्ममनःसन्निकर्षेण साम्यम् इन्द्रियमनःसन्निकर्षस्य ।
तस्मात् समानत्वात् नोक्त इति ॥
प्राकरान्तरं समानत्वे दर्शयति–अतीन्द्रियाधारता वेति ।
लक्षणं हि प्रसिद्धं भवति यथा धूमो वह्नेः न चातीन्द्रियद्वयाधारसन्निकर्षस्तथा प्रसिद्धो यथेन्द्रियार्थसन्निकर्षो ऽर्थस्य सम्बन्धिन एकस्नय प्रसिद्धत्वात्, इन्द्रियमनसोस्तु द्वयोरतीन्द्रियत्वात् ।
आत्मा तु यद्यपि यु।जानस्य शरीराद्यतिरिक्तः प्रत्यक्षः, तथाप्यस्मदादीनां न तथेत्यतीन्द्रिय उक्तः ।
तदनेनातीन्द्रियाधारत्वं स्वरूपेणोक्त्वा तदेवं विषयावृत्तित्वमनोवृत्तित्वाभ्याम् अतीन्द्रियाधारत्वं सामान्यमाह–विषयावृत्तित्वं वेति ।
उपसंहरति–तस्मादिति समानत्वादिति भाष्योक्तो हेतुः, चरितार्थत्वादिति स्वोक्तः ॥
आक्षिपति–इन्द्रियार्थसन्निकर्षोत्पन्नमित्ययुक्तमिति ।
सान्तरग्रहणादिति हेतुं विभजते–विप्रकृष्टेति ।
ननु नार्थो विप्रकृष्टः, चक्षुषस्तत्र प्राप्तेरित्यत आह–न तु चक्षुष इति ।
कस्मादित्यत आह–भूतविशेषस्येति ।
बाह्यो भूतविशेष आलोकः ।
तस्य प्रसाद इन्द्रियाव्यवधायकत्वम् कुड्यादिभ्यो विशेषः यः खलु काचाभ्रपटलादिषु स्वच्छेषु समस्ति ।
स्यादेतत् ।
अस्ति कृष्णसारलक्षणो भूविशेषः प्रसन्नान्धस्यापि, अतस्तस्यापि रूपोपलब्धिः स्यादित्पत आह–तत्तृष्णापूर्वकेति ।
रूपोपभोगतृष्णा हि तत्साधनं कृष्णसारमपि विषयीकरोति ।
एतदुक्तं भवति–भूतविशेषः कर्मापेक्षो रूपं चष्ट इति चक्षुरित्युच्यते ।
कर्मक्षायात् तु प्रसन्नान्धस्य न रूपं चष्ट इति न चक्षुः ।
अस्तु गोलकमेव चक्षुः किमेतावतापीत्याह–न चेति ।
विच्छिन्नं हि गोलकमर्थादनुभूयत इत्यर्थः ।
तदेवं वस्तुनः सान्तरस्य ग्रहणमप्राप्यकारित्वे हेतुरुक्तम् ॥
केचित् तु सान्तरमिति ग्रहणविशेषणं हेन्तु ब्रुवते, तन्मतमुपन्यस्यति—अपरे त्विति ।
साध्यविपर्ययादस्य व्यतिरेकं दर्शयति–न हि प्राप्यकारिष्विति पक्षधर्मतामाह–दृष्टं त्विति ।
यच्चोक्तमप्राप्यकारित्वे साधनं पृथुतरग्रहणादिति, तद्विभजते–पृथुतरेति ।
द्व्याश्रयो हि संयोगो ऽल्पमेव संयोगिनमनुरुध्यते, न महान्तम् ।
न जातु रथादिसंयोगा नभो व्यश्नुवते, मा भूत् सर्वत्र रथादीनां तत्संयोगादीनां चोपलब्धिः ।
तेन यावन्मात्र राष्ट्रवनादेर्गोलकेन व्याप्तं तावन्मात्रस्य ग्रहणप्रसङ्गः ।
हेत्वन्तरमाह–दिगिति ।
अस्यापि व्यतिरेकमुखेन गमकत्वं दर्शयति—यदि प्राप्यकारीति ।
अपरमपि हेतुमाह—सन्निकृष्टेति ।
यद्यपि गतिक्षणानां प्रत्येकं स्पाश्रयस्य देशान्तरविभागसंयोगोपजननं प्रति क्षिप्रतया न विशेषः ।
स्वाश्रयप्रत्यासत्तौ चाविशेषः तथाप्या चापादानविभागात् आ च प्रापनीयदेशप्राप्तेरन्तरालवर्ती यावान् गतिक्षणप्रचयः पूर्वापरीभूतो गतिरिह विवक्षितः ।
तस्य सान्तरत्वं मन्दत्वं विलम्बः नैरन्तर्यं तु पाटवं क्षिप्रता ।
तामिमां गतिमभिन्दद् नैरन्तर्येण कुर्वदपि सन्निकृष्टमाशु प्राप्नोति ।
न विप्रकृष्टेन तुल्यकालम्, किं तु विप्रकृष्टं चिरेणेति ।
यथोक्तं दिग्रागेन–
सान्तरग्रहणं न स्यात् प्राप्तौ ज्ञाने ऽधिकस्य च ।
बहिर्वर्तित्वादिन्द्रियस्योपपन्नं सान्तरग्रहणमिति चेत्?
अत उक्तम्—
अधिष्ठानाद् बहिर्नाक्षं किं त्वधिष्ठानदेश एवेन्द्रियम् ।
कुतः?
तच्चिकित्सादियोगतः ॥
सत्यपि च बहिर्भावे न शक्तिर्विषयेक्षणे ।
यदि च स्यात् तदा पश्येदप्युन्मील्य निमीलनात् ॥
यदि च स्यात् उन्मील्य निमीलितनयनो ऽपि रूपं पश्येत्, उन्मीलनादस्ति बहिरिन्द्रियमिति ॥
तत्र वार्त्तिककारः सान्तरग्रहणादिति हेतुं विकल्प्य दूषयति–यत् तावदिति ।
सान्तरता खल्वप्राप्तिसाहचर्यात् ।
अप्राप्तिं लक्षयति—हेत्वर्थस्य प्रतिज्ञार्थेनाक्षिप्रत्वात् अमेदेन ।
तदुक्तम्–न प्रतिज्ञार्थाद् भिद्यत इति ।
हेतुप्रतिज्ञापदवाच्यत्वेन भेदमुपचर्याक्षेप्याक्षेपकभावो द्रष्टव्यः ।
तस्य व्यवधायकत्वादिति रूपवतो ऽप्रसादस्वभावस्य कुड्यादेरित्यर्थः ।
यत् तु प्रसादस्वभावं तेजः तन्न गृह्यते, किं तु तस्य रूपमात्रं विस्फारिताक्षण दृश्यते ।
तदाश्रयं च द्रव्यं साधयिष्यते ।
न च गुणो द्रव्यस्यान्तरम् ।
मा भूद् गन्धादिभिरन्तरं द्रव्यस्य, मा न भूतां च निरन्तरे द्रव्ये, स्वगुणाभ्यामन्तरितत्वात् ।
न चापातजन्मालोचनं वा विकल्पो वा द्रव्यानुमानं प्रतीक्षते येन रूपज्ञानानुमितं द्रव्यम् इन्द्रियर्थयोर्द्रव्ययोरन्तरं स्यात् ।
अपि च रूपमात्रमगृह्यमाणे द्रव्ये स्वतन्त्रं गन्धादिवद् गृह्यमाणं कथमन्तरा स्वाश्रयमनुमापयेत्, आकाशादीनामाश्रयाणमग्रहणात्? तस्माद् विषक्तावयवतेजोद्रव्याप्रत्यक्षत्वसमारोपमात्रेण दूषणं वक्ष्यमाणं त्वन्यथासिद्धत्वदूषणं पारमार्थिकं द्रष्टव्यम् ।
अथाभावो ऽन्तरशब्दवाच्य इति, नास्माकं मूर्तद्रव्याभावादन्यत् आकाशमस्तीति भावः ।
दूषयति–स स्वतन्त्रश्र्चक्षुर्विषयो न भवति इन्द्रियं चार्थं चान्तरा अभावो ग्राह्यः, तेन सहार्थस्य ग्रहणं सान्तरग्रहणम् ।
न चेन्द्रियार्थयोर्मध्यते कस्यचित् संयुक्तस्य वा समवेतस्य वा ग्रहणमस्ति, यत्तन्त्रो ऽयमभावो गृह्येत इति भावः ॥
स्यादेतत् ।
मा भूदान्तरालिकं संयुक्तं वा समवेतं वा विशेष्यं गृह्यमाणमेव तु रूपादिविशेष्यमिति ।
तत्तन्त्रो ऽयमभावः तद्विशेषणत्वेन रिरूपयिष्यते ।
ततश्र्च सान्तरग्रहणमुपपत्स्यत इत्यत आह–तेन सहोपलब्धाविति ।
प्रतीयते हि त्वगादिभिः अपीन्द्रियैः प्राप्यकारिभिरौष्ण्याभवविशेषण शिषिरतरं पाथः ।
न चेन्द्रियाणामत्राप्राप्यकारिता,
तस्मादनैकान्तिकम् ।
अन्वयाभ्युपगमेनैतदुक्तम् ।
अन्वयाभावे तु विरुद्धमिति भावः ।
न च तैजसं रूपमन्तरम्, येन सान्तरग्रहणं स्यादित्याह–न चान्या गतिरति ।
यथा चैतत् तथोपपादितमधस्तात् ।
ये तु सान्तर इति ग्रहणमिति हेतुमाहुः, तान् प्रति दूषणमाह—यैरपीति ।
अन्यथासिद्धत्वे हेतुमाह–शरीरेति ।
शरीरावच्छिन्नाः खल्वात्मानः शरीरायतनाः शरीरमेवात्मानमभिमन्याना अर्थाननुभवन्ति ।
तत्र य एव शरीरासम्बद्ध इत्यनुभूयते तमेव सान्तर इति मन्यते ।
इन्द्रियसम्बन्धो भवतु, मा वा भूत्, शरीरसम्बन्धेन तस्य स्पर्शादौ न सान्तरत्वाभिमान इत्यर्थः ।
हेत्वन्तरं दूषयति–यदपीति ।
सम्बन्धमात्रेणेति ।
मात्रग्रहणं सम्बन्धचतुष्टयव्याप्त्यर्थम् ।
तद् यथा इन्द्रियेणार्थस्य सम्बन्धः, इन्द्रियावयवैरर्थस्य, अर्थावयवैरिन्द्रयस्य, इन्द्रियावयवैरर्थावयवानाम् ।
न चैतत् निर्यता विना पृथ्वग्रतां भवतीति पृथ्वग्रता सूचिता ।
यथा वर्तिदेशे पिण्डितमपि तेजः प्रसर्पत् प्रासादोदरं व्याप्नोति ।
तत् कस्य हेतोः? पृथ्वग्रत्वादिति ।
स्वभावतः प्रसरदपि न स्वपरिमाणानुविधायिनं प्रत्ययमाधत्ते, किं तु विषयभेदानुविधायिनम् ।
विषयनिरूपणाधीननिरूपणा हि प्रत्यया नेन्द्रियनिरूपणाधीननिरूपणाः ।
तदिदमुक्तम्—विषयभेदानुविधायी प्रत्यय इति ॥
अपरमपि हेतुं दूषयति–यत् पुनरिति ।
देहमर्थं चान्तरावस्थितस्य पृथिव्यादेः संयुक्तसंयोगाल्पीयस्त्वं भूयस्त्वं चापेक्षमाणस्येति ।
खगानां चोपर्युपरि सञ्चरतां दूरान्तिकभावो बहुलतमालोकावयवभागानां संयुक्तसंयोगाल्पत्वभूयस्त्वाभ्यामवगन्तव्यः ।
स च तादृगालोकावयवी प्रत्यक्षो ऽन्यथा न रूपमात्रेण तदनुमानं शक्यमित्युक्तम् ।
न च खगानामुपर्युपरि सञ्चरतां दूरन्तिकप्रत्ययः स्यात् ।
न च पतति पतत्रिणीह प्राप्तो नेहेति भवेत् ।
तस्मादन्यथासिद्धिरेव सहान्तरेण ग्रहणादितिवदत्रापि दूषणमिति द्रष्टव्यम् ॥
अपरमपि हेतुं दूषयति–यत् पुनरिति ।
युगपद्ग्रहणमसिद्धम्, तदभिमानस्तु अन्यथासिद्धः ।
अचिन्त्यो हि तेजसो लाधवातिशयेन वेगातिशयो यदुदयगिरिशिखरम् आरोहत्येव मार्तण्डमण्डले भवनोदरेष्वालोक इत्यभिमानो लौकिकानाम् ।
तादृशं चाक्षुषमपि तेज इति क्रमेणापि गच्छद् युगपत्तत्र तत्र लक्ष्यते ।
न चैकस्मादेव कर्मणो युगपद् दुरान्तिकसंयोगा भवन्तीति युक्तम् ।
तद्धि स्वकार्ये जनयितव्ये स्वाश्रयप्रत्यासत्तिम् अपेक्षते ।
अन्यथा मधुरास्थस्य देवदत्तस्य कर्म पाटलिपुत्रेण देवदत्तं योजयेत् ।
वेगाख्यसंस्कारजमपि कर्मन सहसा शरमन्तरालदेशेन च लक्ष्येण च योजयति ।
तस्मात् मिथ्यैव यौगपद्याभिमान इति ।
चोदयति–कथं पुनरिति ।
अस्ति हि शाखाचन्द्रमसोः ग्रहणे यौगपद्याभिमानः ।
न चायमसति बाधके मिथ्येति वक्तुं शक्यः ।
सो ऽयमबाधितो बोधो ऽवबोधयत्यप्राप्यकारितां चक्षुष इत्यर्थः ।
परिहरति–इदमिति ।
इन्द्रियं यद्यगत्वानागतमर्थं गृह्णीयात्, किमस्य कुड्यकटाद्यावरणमपकुर्यात् येन तदावृतं न गृह्णीयात् ।
गतौ तु स्पर्शवता प्रसादरहितेन सैवास्य प्रतिबद्धेति न प्राप्नोति विषयम्, अप्राप्तं च न गृह्णाति ।
प्रायोगस्तु, चक्षुःश्रोत्रे प्राप्य स्वविषये कार्यं कुरुतः, जनकत्वे सति तदप्राप्तावजनकत्वात् ।
यज्जनकं सद् यदप्राप्तौ यन्न जनयति तत् तत्प्राप्तावेव तज्जनयति, यथा कुम्भजनकः कुम्भकारो मृदो ऽप्राप्तावकुर्वन् कुम्भं तत्प्राप्तावेव करोति ।
तथा चैतत् ।
तस्मात् तथेति ॥
युक्त्यन्तरमाह–दूरान्तिकानुविधानमिति ।
दूरे नोपलभ्यते, अन्तिके च उपलभ्यते ।
अप्राप्तेरविशेषेण दूरे ऽप्युपलम्भः स्यात् ।
अनुपलम्भे वा अन्तिके ऽपि न स्यात् ।
प्राप्तौ तु दूरं गच्छत् प्रक्षीणं सत् प्राप्तमर्थं न गृह्णाति अतैजसम्, तैजसम् अप्यभिभूतं न गृह्णाति, यथोल्काप्रकाशं मध्यन्दिने ।
अनभिभूतं तु मार्तण्डमण्डलं गृह्णात्येवेति ।
चोदयति–विषयीभावादिति ।
योग्यो हि तादृश इन्द्रियक्षणः स्वकारणादुपजातः परिणतो वार्थक्षणश्र्च, ययोरप्राप्तयोरेव ग्रहणग्राह्यभावः ।
व्यवहितविप्रकृष्टौ च न तौ तादृशौ ।
तत् किमप्रतीयमानप्राप्तिकल्पनयेत्यर्थः ।
परिहरति—तच्च नैवमिति ।
निषत्स्येते हि क्षणभङ्गपरिणामौ भावानाम् ।
तेन स्थेमभाजां भावानां स्वरूपयोग्यता वा महत्त्वादिर्विषयीभावः सहकारिसाकल्यं वा ज्ञानोपजननं प्रति परिशिष्यते ।
तत्र स्वरूपयोग्यतामात्रं चेदास्थीयेत, तदा यदेवाव्यवहितं सन्निहितं सद् अजनयद् विज्ञानं विप्रकृष्टमपि व्यवहितमपि तदेवेति तथैव तेन ज्ञानं जनयितव्यम् ।
अस्ति हि तस्य तदापि स्वरूपयोग्यतेति, सहकारिसाकल्यं तु प्राप्तिरेव ।
तस्मात् न सम्बन्धमन्तरेण विषयीभाव इति सूक्तम् ।
सन्दिग्धः पृच्छति–अथ प्राप्यकारित्व इति ।
अयमभिसन्धिः ।
कुलालादौ प्राप्यकारिणि दृष्टं यथा विप्रकृष्टो व्यवहितश्र्च न करोतीति, तस्मात् अप्राप्यकारिणि चाचस्कान्तादौ दृष्टं यथा विप्रकृष्टो व्यवहितश्र्च लौहं मणिराकर्षति, तस्मात् तत्र प्रमाणं वक्तव्यमिति उत्तरम्–इन्द्रियत्वमेव प्रमाणम् ।
तदेव पञ्चावयवोपपन्नमाह–प्राप्यकारीति ।
यदि तु कश्र्चित् दृष्टान्तस्य साध्यविकलत्वम् उभ्दावयेत् त्वगादीनामप्राप्यकारित्वादिति, तु प्रत्याह–अथ पुनर्न किञ्चिदिति ।
पृच्छति–अथेति ।
योग्यतयैव हि कारणानि स्वकार्यं कुर्वन्ति, प्राप्तिस्तु स्वरूप्योग्यताप्रयुक्तां व्याप्तिमुपजीवति, न त्वस्याः स्वाभाविकं व्यापकत्वमिति भावः ।
उत्तरम्–सो ऽपीति ।
सहकारिसाकल्यं तावत् न प्राप्तेरतिरिच्यत इत्युक्तम् ।
केवलं स्वरूपयोग्यता वक्तव्या ।
स च व्यस्तानामप्यस्तीति यत्र तत्र व्यवस्थितेभ्यो ऽपि कार्योत्पादप्रसङ्कः ।
अयस्कान्तमणेरपि चक्षुष इव वृत्तिभेद एषितव्यः,
अन्यथा व्यवधानविप्रकर्षयोरपि लौहाकर्षणप्रसङ्गात् ।
न च व्यवधानविप्रकर्षाभावसहितो लौहमाकर्षति, व्यवधानविप्रकर्षयोस्तु तदभावाभावो नाकर्षति सम्प्रतम् ।
प्राप्तेरेव तत्र तत्र कार्योत्पादं प्रति उपयोगस्य विदितस्वात् ।
योग्यतामात्रस्य चोपाधेरपाकृतत्वात् ।
यथा च द्रव्यातिरिक्तस्तद्धर्मः प्राप्तिस्तथाग्रेनिवेदयिष्यते ।
तस्मात् सर्वमवदातम् ।
उपसंहरति–तस्मादिति ।
यदपि कृष्णसारानुग्रहोपघाताभ्यां दर्शनादर्शनादिति तत्रोच्यते, तदधिष्ठानमिन्द्रियमित्यधिष्ठानानुग्रहोपघाताभ्यां तस्यानुग्रहोपधातौ, यथा कूष्माण्डलतासेचनच्छेदनाभ्यां तत्फलस्य अनुग्रहोपघातौ ।
अत एव बहिर्निसृताप्यच्छिन्नमूला दृष्टिः कार्याय समर्था न छिन्नमूलेति सिद्धम् ॥
पृच्छति–अथ ज्ञानेति, प्रत्यक्षसमाख्यातलक्षणानुवादेन लक्षणे विधीयमाने ज्ञायत एवैतज्ज्ञानमेवेति लोके साक्षात्कारिज्ञानहेतोः प्रत्यक्षत्वादिति भावः ।
उत्तरम्—सुखादिव्युदासार्थम् ।
तदेव हि लक्षणवायमुच्यते, यस्य लक्ष्यानपेक्षो ऽतिव्याप्त्यव्याप्तिव्युदासो लक्षणपदेभ्य एव प्रतीयते ।
लक्ष्यानुरोधेन तु लक्षणव्यवस्थापने अन्योन्याश्रयत्वमगतिर्वेति भावः ।
सुखादीनां विज्ञानाभिन्नहेतुजत्वेन विज्ञानत्वादशक्यं व्यावर्तनमिति चेत्–न, अभिन्नहेतुजत्वासिद्धः ।
न खलु यैव चन्दनस्पर्शज्ञानस्योत्पत्तौ सामग्री सैव सुखस्यापीति ।
अस्ति हि शीतार्तस्यापि चन्दनेन्द्रियसंयोगात् शीतस्पर्शज्ञानम् इति तद्वदेवास्य सुखमपि भवेत् ।
अवान्तरसामग्रीभेदे ऽपीन्द्रियार्थमनस्कारजत्वात् ज्ञानजातीयत्वमिति चेत्—न, किञ्चित्कारणाभेदे ऽपि कार्यभेदस्यानाकस्मिकत्वोपपत्तेः ।
तदर्थत्वाच्च कारणभेदानुसरणप्रयासस्य ।
न चोपादानाभेदादभेद इति युक्तम् ।
भिन्नानामपि ज्ञानानामेकसमनन्तरप्रत्ययोपादानत्वस्य भवभ्दिरभ्युपगतत्वात् ।
अपि चोपादानाभेदश्र्च कुतश्र्चित् कारणभेदात् कार्यभेदश्चेति को विरोधः? अत एवास्माकमभेदे अप्युपादानस्य पिठरस्यौष्ण्यापराख्यस्य च वहिनसंयोगस्य पूर्वरूपादिप्रध्वंसानां कारणानां भेदाद् भिन्नजातीया जायन्ते गन्धरूपरसस्पर्शा इति सिद्धान्तः ।
तस्मादर्थप्रवणेभ्यो ज्ञानेभ्यस्तदप्रवणतया भिन्नजातीयाः सुखादयो यथास्वमुनकूलवेदनीयत्वादिभिर्लक्षणैरन्योन्यमपि भेदवन्तस्तीव्रसंवेगतया प्रमित्सानपेक्षमानसप्रत्यक्षप्रवेदनीया इति रमणीयम् ॥
स्यादेतत् ।
असत्यपीन्द्रियार्थसन्निकर्षे ज्ञानमात्रादेव सुखदुःखयोः स्वप्नान्तिके दर्शनात्
यत्रापीन्द्रियार्थसन्निकर्षस्तत्रापि ज्ञानमस्तीति तदेव सुखदुःखयोः कारणं क्लुप्तसामर्थ्यात् ।
इन्द्रियार्थसन्निकर्षस्य तु ज्ञानमात्रोपयोगादन्यथासिद्धौ भावाभावाविति ।
तदयुक्तम्, स्वप्नान्तिके सुखदुःखोत्पादस्यासिद्धेस्तज्ज्ञानस्यार्थज्ञानस्येव मिथ्यात्वात् ।
यथा हि तत्र कामिनीस्मृतिविषर्यास एव मुपलब्धचरतज्जन्मसुखस्मरणविपर्यासः ।
सुखदुःखबुद्ध्युत्पाद एव चात्र धर्माधर्मोपयोगो न तु सुसदुःखोत्पादे ।
न चासतीन्द्रियार्थसन्निकर्षे ज्ञानमन्यन्मनोरथादि वा तादृशं सुखभेदं विधत्ते यादृशो विषयोपभोगजन्मा ।
सतीन्द्रियार्थसन्निकर्षे ज्ञानमात्रमेव तस्य हेतुः ।
ज्ञानहेतुस्तु सुखभेदस्यानुत्पादादित्यप्युक्तमेव ।
विषयसाक्षात्कारस्तदुत्पादहेतुर्न विषयज्ञानमात्रमिति चेत्? हन्तर्, इश्वरस्याप्यस्ति तत्रभवतो योगर्द्धिसम्पन्नानां च महाधियां समस्तवस्तुसाक्षात्मार इति तेषामपि सुखदुःखोत्पादप्रचयः प्रसज्येत्, असत्यां प्रतिपक्षधारणायाम् ।
तस्मादिन्द्रियार्थसन्निकर्षो ऽपि सुखदुःखोत्पादहेतुरेषितव्यः ।
स च सत्यप्यर्थसाक्षात्कारे नास्ति सिद्धानामिति न तेषां सुखदुःखोत्पादः ।
अपि च चरमभावि कारणं गृहीत्वा पूर्वभाविनामकरणत्वापादने तन्त्वादीनामपि पटादीन् प्रत्यकारणत्वप्रसङ्गः ।
संयोगभेदादेव तादृशपटात्पत्तेः तन्त्वादीनां च संयोगभेद एवोपयोगात् ।
तत्सहितस्य तु तत्कारणत्वं सन्निकर्षस्याप्यालोचनसहितस्येति समानम् ।
यथाहुः पदार्थविदः स्त्रगाद्यभिप्रतविषयसान्निध्ये सतीष्टोपलब्धीन्द्रियार्थसन्निकर्षधर्माद्यपेक्षादात्ममनसोः संयोगात् यदनुग्रहाभिष्वङ्गनयनादिप्रसादजनकमत्पद्यते तत्सुखम् इति ।
तस्मात् सुष्ठूक्तं सुखादिनिवृत्त्यर्थं ज्ञानग्रहणमिति ॥
इह द्वयी प्रत्यक्षजातिरविकल्पिका सविकल्पिका चेति ।
तत्रोभय्यपि इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यभिचारीति लक्षणेन सङ्गृहीतापि स्वशब्देनोपात्ता, तत्र विप्रतिपत्तेः ।
तत्राविकल्पिकायाः पदम् अव्यपदेश्यमिति, सविकल्पिकायाश्र्च व्यवसायात्मकमिति ।
तत्र व्यपदेशो विशेषणमुपलक्षणं वा नामजात्यादि, तत् कर्म व्यपदेश्यं विशेष्यमिति यावत् ।
तद्यथा डित्थो ऽयं गौरयं शुक्लो ऽयं कमण्डलुमानयं गच्छत्ययमिति सर्वं हि सविकल्पकं विशेषणविशेष्यभावेन वस्तुषु प्रवर्तते ।
अविद्यमानं व्यपदेश्यं यस्मिस्तदव्यपदेश्यं जात्यादिस्वरूपावगाहि, न तु जात्यादीनां मिथो विशेषणविशेष्यभावावगाहीति यावत् ॥
तत्र नामरहितमविकल्पकं नास्तीति ये विप्रतिपद्यन्ते तन्मतमपचिकीर्षुरूपन्यस्यति भाष्यकारः यावदर्थं वै नामधेयशब्दाः ।
सर्वे ऽर्थाः सर्वथा सर्वदा सर्वत्र नामधयान्विताः ।
नास्ति सो ऽर्थो यः कदाचित् क्वचित् कथञ्चित् नामधेयेन वियुज्यते ।
तदनेन नामधेयतादात्म्यमर्थानां प्रतिजानीते ।
अत्र हेतुमाह–तैरर्थसम्प्रत्यय इति ।
अर्था हि प्रतीयमानां नामधेयैरूपेतास्तत्सामानाधिकरण्येनावगम्यन्ते गौरित्यर्थो ऽश्व इत्यर्थ इति ।
न चोपायतया सामानाधिकरण्यं घटते ।
न हि चक्षुरादिसामानाधिकरण्यं रूपाद्यनुभवति ।
नापि ज्ञायमान उपाय उपेयसामानाधिकरण्मनुभवति ।
न हि भवति धूमो ऽयं वहिनरिति किं तु धूमो ऽयं धूमत्वात् वहिनमानिति ।
अपि चाशब्दोपाये ऽनुमेयादौ न शब्दसम्भेदेनाधिगमो भवेत्, अस्ति तु ।
तस्मात् तैर्नामधेयैः सह समानाधिकरणस्यार्थस्य प्रत्ययो यत इति ।
तस्मात् नामधेयात्मानः अर्थाः ।
किं च गवादिषु षड्जादिषु च शब्दापकर्षे ऽर्थप्रत्ययापकर्षात् तदुत्कर्षे त्वर्थप्रत्ययोत्कर्षात् प्रत्ययस्य च प्रत्येतव्योत्कर्षाधीनोत्कर्षत्वात् नामधेयोत्कर्षेणार्थस्योत्कर्षः अर्थस्य तादत्म्यं गमयति ।
तदिदं समः प्रयोजनं सम्प्रत्यय इति समधिकः प्रत्यय इत्यर्थः ।
अस्त्यर्थसम्प्रत्ययो नामधेयसामानाधिकरण्येन, न त्वेतावता नामधेयात्मता सिध्यति ।
अस्ति हि पुरोवर्तिद्रव्यसामानाधिकरण्येन रजतप्रत्ययो न चैतावता शुक्ती रजतात्मिका भवतीत्यत आह—अर्थसम्प्रत्ययाच्च व्यवहारः ।
ततश्र्चविसंवादात् प्रमाणं सन्नामधेय तादत्म्यं साधयत्यर्थानामित्यर्थः ॥
तदेवं सामान्यतो ऽर्थानां नामधेयतादात्म्यं व्युत्पाद्य प्रकृते योजनयति—तत्रेदमिन्द्रियार्थसन्निकर्षादुत्पन्नं विषयज्ञानं रूपमिति वा रस इति वा एवं रूपाद्यर्थसामानाधिकरण्येन भवति ।
भवतु, किमेतावतापीत्यत आह—रूपरसशब्दाश्र्च विषयनामधेयम् ।
किमेतावतापीत्यत आह–तेन व्यपदिश्यते ज्ञानम् ।
उक्तमपि व्यपदेशं सव्याख्यानमाह–रूपमिति जानीते रस इति जानीते इति ।
तथा चार्थानां नामधेयात्मकत्वात् तद्गोचरमालोचनमपि नामधेयगोचरमित्यर्थवत् नामधेयेन व्यपदिश्यमानं शाब्दं प्रसज्यत इति ।
न शब्दप्रमाणकतया शाब्दम्, अपि तु शब्दे जातं शाब्दम् ।
शब्दश्र्चात्र विषयत्वेन जनको ऽर्थतादात्म्यात् ।
तथा च नाविकल्पकं शब्दरहितमस्तीति तात्पर्यार्थः ।
तथा चाहुः,
न सो ऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।
अनुविद्धमिव ज्ञानं सर्वं शब्देन गम्यते ॥
बालकमूकादीनामपि ज्ञानं शब्दानुव्याधवदेवानादिशब्दभावनावशात् ।
यदवोचत्,
आद्यः करणविन्यासः प्राणस्योर्ध्वं समीरणम् ।
स्थानानामभिघातश्र्च न विना शब्दभावनाम् ॥
इति ।
तदस्य निराकरणं लक्षणगतेनालोचनज्ञानावरोधार्थेनाव्यपदेश्यपदेन सूचितम् इति परीक्षापर्वणि वचनार्हमपि सुभाषितरुचितया तद्विलम्बमसहमानो भाष्यकारो लक्षणावसर एवाह ।
अत एवाह—अव्यपदेश्यमितीति ।
तेन सूचिते ऽप्यर्थे अव्यपदेश्यपदं चोजयति—यदिदमनुमयुक्ते शब्दार्थसम्बन्धे ऽर्थज्ञानम्, न तत् नामधेयशब्देन व्यपदिश्यते ॥
अयमभिसन्धिः ।
सामानाधिकरण्येन शब्दात्मकत्वं रूपादीनामभिधीयानं शब्दब्रह्मात्मकत्वं वोच्येत श्रेयमाणगौरित्यादिपदभेदात्मकत्वं वा? न तावदाद्य ।
कल्पः ।
न सल्वस्मदादिसमस्तदर्शनपथातिवृत्तेन शब्दब्रह्मणा रूपादीनामस्ति सामानाधिकरण्यप्रतीतिः लौकिकानाम् ।
श्रूयमाणशब्दसामानाधिकरण्येन तु तादात्म्यप्रसाधने अनुपयुक्तशब्दसम्बन्धस्य बालमूकादेः रूपादिज्ञानेषु नास्ति श्रूयमाणशब्दगन्धो ऽपि, प्रागेव तु तत्सामानाधिकरण्यम् ।
न च तेषामपि प्राग्भवीयशब्दभावनानुगमेन तत्सामानाधिकरण्यमिति साम्प्रतम् ।
न खलु रूपाद्यात्मनः शब्दस्य रूपादिवैशद्यैनावैशद्यं सम्भवति ।
युगपद् वैशद्यावैशद्यरूपविरुद्धधर्मयोगेन भेदप्रसङ्गात् ।
वेशद्ये तु व्युत्पन्नवदव्युत्पन्नो ऽपि शब्दैः व्यवहरेत्, न तु सम्बन्धग्रहणपेक्षेत ।
न च तादात्म्यादन्यद् वाचकत्वं शब्दानां यत्र सम्बन्धग्रहापेक्षा भवेत् ।
न च तादात्म्ये ऽपि कल्पितभेदानां वाच्यवाचकभावः ।
तथा सति न सामानाधिकरण्यं स्यात् ।
न ह्यस्ति सम्भवो भेदकल्पना च सामानाधिकरण्यप्रथा चेति ।
तस्मादव्युत्पन्नानामस्ति शब्दरहितं रूपादिषु निर्विकल्पकं प्रत्यक्षमिति ।
न केवलमब्युत्पन्नानाम्, व्युत्पन्नानामप्यस्तीत्याह–गृहीते ऽपि च शब्दार्थसम्बन्धे इति ।
आर्द्धेक्त एव सामानाधिकरण्यनिरासाय सम्बन्धग्रहणस्वरूपमाह–अस्थार्थस्य सास्नादिमद्रूपस्य अयं गकराद्योकारो नामधेयमिति ।
इतिकरणो ज्ञानपरामर्शप्रधानः ।
तथा च यो डित्थो नानादेशकालावस्थासंसृष्टः पिण्डभेदः सो ऽयमिति सन्निहितदेशकाल इत्यर्थः ।
न त्वयं पिण्डो डित्थशब्द इति प्रत्ययः ।
औत्सर्गिकं हि शब्दानामर्थपरत्वं क्वचित् पुनरित्यादिभिः शब्दैस्तदपोद्यते ।
यत्रापि सम्बन्धप्रतिपादनमभेदेन अयं डित्थ इति, तत्रापि शब्दो वाच्यत्वपरो न स्वरूपपरः यथा गौर्वाहीक इति लक्ष्यमाणगुणयोगपरः ।
न च तन्मात्रेण वाहीकस्य गोत्वं भवति ।
तस्माद् भिन्नयोरेव शब्दार्थयोः सम्बन्धग्रहात् तन्मूलत्वाच्च शब्दव्यवहारस्य न शब्दपुरःसरमपि ज्ञानं शब्दसामानाधिकरण्यमात्मनो ऽर्थस्यावगमयति ।
यत्तु शब्दानुपाये ऽपि ज्ञाने शब्दः पूर्वं भवति तद्गृहीतसङ्केतस्य प्रथममिन्द्रियार्थसन्निकर्षादालोचनेन शब्दसंसर्गरहितेनालोचिते ऽर्थमात्रेतस्यार्थभेदस्य शब्दभेदेन सम्बन्धात् शब्दविषयः संस्कारः प्रबोध्यते ।
प्रबुद्धः शब्दस्मृतिं जनयति ।
तेन व्युत्पन्नस्य निर्विकल्पकात् पराञ्चः प्रत्ययाः शब्दानुपाया अपि शब्दपुरःसरा जायन्ते ।
यथाहुः,
यत् सञ्ज्ञास्मरणं तत्र न तदप्यन्यहेतुकम् ।
पिण्ड एव हि दृष्टः सन् सञ्ज्ञां स्मारयितुं क्षमः ॥
तस्माद् व्युत्पन्नस्यापि नामधेयस्मरणाय पूर्वमेषितव्यो विनैव नामधेयमर्थप्रत्ययः ।
तदिदम् उक्तम्–गृहीते ऽपि शब्दार्थसम्बन्धे अस्यार्थस्यायं शब्दो नामधेयमिति ।
यदा तु सो ऽर्थो गृह्यते नामधेयरहितो नामधेयस्मरणात् पूर्वमविकल्पेन तदा पूर्वस्माद् अव्युत्पन्नावस्थायाम् अर्थज्ञानात् न विशिष्यते इति ।
यतो न विशिष्यते तस्मात् तदर्थज्ञानं तादृगेव भवति ।
ननु परप्रतिपादनादिलक्षणव्यवहाराय स्वरूपेण ज्ञाने व्यपदेष्टव्ये यदर्थव्यपदेशेन व्यपदिश्यते तदवगच्छामो ऽर्थव्यपदेशाकारमिति ।
कथं चार्थाकारं भवति? यद्यर्थव्यपदेशयोर्नाभेदः, तस्मात् पुनरपि तादात्म्यं प्रसक्तमित्यत आह–तस्य त्विति ।
अर्थाकारमेव तु ज्ञानमर्थव्यपदेशेन व्यपदिश्यते अन्यथा अशक्यत्वादित्यर्थः ।
प्रतीयमानं परेण ।
उपसंहरति–तस्मादिति ॥
तदेवमर्थज्ञानकाले # स # न समाख्याशब्दो व्याप्रियते प्रतीयमानतया, व्यवहारकाले तु परप्रत्यायनकाले तु व्याप्रियते कारणतया ।
तदनेन गोपालाविपालादीनां सञ्ज्ञानिवेशनं तासु तासु व्यक्तिषु व्यवहारोत्कर्षहेतुः
नार्थोत्कर्षहेतुरित्यपि सूचितं भवति ।
तस्माद् अविकल्पकप्रत्यक्षावरोधार्थेनाव्यपदेश्यपदेनास्यैवाविकल्पकस्य शब्दानुव्याधरहितता सूचिता इत्याशयवान् उपसंहरति—तत्मादिति ॥
तदेतद् भाष्यं वार्त्तिककारः तात्पर्यतो व्याचष्टे—तच्चेन्द्रियार्थेति ।
विषयभेदानुविधायि ज्ञानमिति शब्दात्मतामपारोति ।
चाक्षुषं हि रूपज्ञानं रूप एव नियतं न शब्दे प्रवर्तते ।
एवं श्रौत्रमपि शब्द एव नियतं न रूपादौ प्रवर्तते ।
यदि पुनरिदं शब्दात्मकं रूपादि भवेत्, श्रोत्रजं ज्ञानं शब्दग्राहीति रूपादावपि प्रवर्तेत ।
अप्रवर्तमानं वा विधुरयति रूपादीनां शब्दात्मताम् ।
अपि च श्रूयमाणशब्दात्मत्वे रूपादीनाम्, तेषामपि श्रवणग्राह्यत्वमित्यन्धो ऽपि रूपु गृह्णीयात् ।
अस्ति हि तस्य श्रोत्रं च शब्दज्ञानं च ।
एवं बधिरो ऽपि शब्दं गृह्णीयात् ।
अस्ति हि तस्य लोचनं च रूपज्ञानं च ।
अशब्दो ऽभाव इति च विवक्षितविपरीतापत्तिः शब्दाभावस्यार्थस्य शब्दत्वात्, अशब्दत्वे वा स एवास्यार्थः शब्दाद् भिन्नः प्रसज्यते ।
एवमभावो ऽप्यर्थ इति शब्दः स्यात् ।
तथा च नाभावः, शब्दस्य सत्त्वात् ।
तथा चार्थानुविधायि विज्ञानं न भवेत् ।
अस्ति च ।
तस्मात् न शब्दात्मानो ऽर्था इति ।
तदुत्पत्तिकाल इति प्राथम्येन शब्दानुव्याधं व्यावर्तयति ॥
एकदेशिव्याख्यानमाह—अपरे त्विति ।
इन्द्रियार्थसन्निकर्षेण हि लिङ्गेन यदिन्द्रियगातिज्ञानं तदपि प्रत्यक्षलक्षणोपेतमिति प्रत्यक्षं प्रसज्यत इति तन्निवारणाय अव्यपदेश्यपदम् ।
अपदेशो हेतुवचनम् ।
तदेव तदाभासेभ्यो विशिष्टं व्यपदेशः ।
तस्य कार्यं हेतुप्रत्यायनद्वारा अनुमेयज्ञानं व्यपदेश्यम् ।
न व्यपदेश्यमव्यपदेश्यमलिङ्गोभ्दवम् इत्यनुमानं व्यावर्तितमित्यर्थः ।
तदेकदेशिमतं दूषयति—तच्च नैवमिति ।
नन्विन्द्रियगतिज्ञानमपि इन्द्रियार्थसन्निकर्षाल्लिङ्गादुत्पन्नमित्यत आह—न ह्यनुमेयस्येति नैतदिन्द्रयार्थसन्निकार्षादुपजायते, किं तु तज्ज्ञानात् ।
अत एवातीते ऽपि धूमादौ लिङ्गे तत्स्मरणमात्रादेवानुमेयज्ञान भवति ।
न च सन्निकर्षपदस्य मुख्यत्वे सम्भवति ज्ञानलक्षणा युक्तेत्ति भावः ।
उपसंहरति–अत इति ।
इमं च वार्त्तिकग्रन्थमबुध्यमाना इन्द्रियगतिज्ञाननिवृत्त्यर्थमिन्द्रियविषयेष्विति पदं सूत्रे ऽध्याहरन्तीति ॥
क्रमप्राप्तस्याव्यभिचारिपदस्य तात्पर्यं ब्रूवाणो भाष्यस्यापि तात्पर्यमाह–ग्रीष्मे मरीचय इतीति ।
यद्यपि सामान्यलक्षणेनैव व्यभिचारिणो निरस्ताः प्रत्ययाः तदपेक्षं च विशेषलक्षणम्, अन्यथा अनुमानादिपदेष्वप्यभिचादिपदमुपादेयं स्यात्, तथापि सिद्धे सत्यारम्भो नियमार्थः ।
द्वयी हि प्रमाणानां गतिः ।
किञ्चित् सत्तामात्रेणप्रमासाधनं यथा प्रत्यक्षम् ।
न हि चक्षुरादीनां ग्रहणमुपयुज्यते, अपि तु सत्तैव ।
अनुमानादीन तु स्वज्ञानेन प्रमासाधनानि ।
न खल्वगृहीतं लिङ्गं वा शब्दो वा आगमसहितं सादृश्यं वा यथाविषयम् आदधाति प्रमाम् ।
तत्रानुमानस्य प्रमोपजननात् प्रागेव अर्थाव्यभिचारग्रहणमपेक्षते नान्यथा ।
ततः प्रमा सिध्यतीति ।
शब्दादौ तु यद्यपि प्रमोपजननं प्रति नार्थाव्यभिचारग्रहापेक्षा, तथापि शक्यमतिरोहितार्थमन्त्रमध्यपतितस्य द्रागित्येव प्रतीयमानार्थस्यापि,
सृण्येव जर्भरी तुर्फरीतू ॥
इत्येवमादेर्मन्त्रस्याप्तप्रणेतृकतया सामान्यतो ऽर्थाव्यभिचारित्वं ग्रहीतुम् ।
औत्सर्गिकं हि शब्दानामर्थपरत्वम् ।
अत एव निगमनिरुक्तव्याकरणसहायास्ततो ऽर्थमवधारयन्ति ।
एवं यथा मुद्गस्तम्बस्तथा मुद्गपर्णीति आप्तवाक्यश्रवणादेव मुद्गस्तम्बसादृश्यज्ञानस्यानुपजनितफलस्यापि शक्यं तदर्थाव्यभिचारित्वं निश्र्चेतुम् ।
प्रत्यक्षस्य तु प्रमाणस्यात्यन्तपरोक्षस्वरूपोलम्भ एव तावत् प्रमोपजननात् प्राग् दुर्लभः, प्रागेत तु तस्यार्थाव्यभिचारित्वम् ।
यद्यपि च संवेदनप्रामाण्यपक्षे ऽपि तत्संवेदनं मनसा सुलभम्, तथापि न तन्मात्रं प्रमाणम् ।
अपि तु असाधारणेन्द्रियार्थसन्निकर्षसहायमिति तत्सहायस्य तस्य परोक्षत्वमेव ।
तेन प्रत्यक्षस्य प्रमाणस्य फलाव्यभिचारेणैवाव्यभिचारज्ञानम्, न स्वरूपतः इत्येतत् प्रमाणान्तरेभ्यो व्यावृत्तमसाधारणं प्रत्यक्षस्य रूपमादर्शयितुमव्यभिचारिपदोपादानम् ।
अथ वा प्रत्यक्षाव्यभिचार एवानुमानाद्यव्यभिचारे कारणम् ।
न ह्यस्ति सम्भवो ऽव्यभिचरितप्रत्यक्षगृहीतपक्षधर्मताकं तर्कसहायप्रत्यक्षगृहीताविनाभावं चानुमानं व्यभिचारतीति ।
यत्तु बाधितविषयं सत्प्रतिपक्षितं चानुमानम्, तदपि यद्यपि प्रथमं व्याप्तिग्रहणदोषेण न खण्डितम्, तथापि खण्डनोत्तरकालं सो ऽपि प्रतीयते ।
तथा च व्याप्तिग्राहि प्रत्यक्षं तत्रापि व्यभिचारीति ।
एवमागमो ऽपि साक्षात् क्वचित् पारम्पर्येण प्रत्यक्षपूर्वकस्तद्व्यभिचारेणैव व्यभिचरति ।
आगमव्यभिचारेणैवोपमानव्यभिचारो व्याख्यातः ।
तदेवं प्रत्यक्षाव्यभिचारे प्रमाणानामव्यभिचारो ऽस्तीति प्रत्यक्षस्यैव विशेषणमव्यभिचारिपदं चकार, नेतरेषां प्रमाणानाम् ।
न ह्यस्ति सम्भवस्तन्मूलं प्रत्यक्षम् अव्यभिचारि, तानि च व्यभिचारीणीति ।
सो ऽयं विशेषः प्रमाणान्तरेभ्यः प्रत्यक्षस्य ।
यथाह मीमांसावार्त्तिककारः,
प्रत्यक्षाव्यभिचारेण स्वलक्षणबलेन च ।
प्रसिद्धाव्यभिचारित्वान्नानुमानं परीक्ष्यते ॥
इति ।
तस्मात् सुष्ठूकं ग्रीष्मे मरीचय इति भाष्यम्, तत्प्रतिषेधार्थमिदमुच्यते—अव्यभिचारीति ॥
पृच्छति–किमिदमिति ।
उत्तरम्–यदतस्मिन्निति ।
एतच्चोपपादितं द्वितीयसूत्रे ।
पुनः दूषयति–तच्च नैवमिति ।
पृच्छति–कस्मात्? उत्तरम्–अर्थस्येति ।
तदेव स्फोरयति–यत्तदिति ।
अत्र च न निर्विकल्मकं भ्रान्तम्, किं तु सविकल्पकमित्याह–तांस्तु मरीचीनिति ।
इन्द्रियेणालोच्य मरीचीन् उच्चावचमुच्चलतो निर्विकल्पकेन गृहीत्वा पश्र्चात् तत्रोपघातदोषाद् विपर्येति, सविकल्पको ऽस्य प्रत्ययो भ्रान्तो जायते इति ।
तस्माद् विज्ञानस्य व्यभिचारो नार्थस्येति ।
यथाहुः निरुक्तकाराः, नैष स्थाणोरपराधो यदेनमन्धे न पश्यति ।
पुरुषापराधः स भवतीति ॥
अव्यभिचारिपदेनैव संशयज्ञानमपि व्युदस्तम् ।
नो खलु संशयज्ञानं विकल्प्यमानवस्तुगोचरं तद्रूपं वस्तु प्रापयति ।
अप्रापयच्चोपदर्शितं कथं संवादम्, असंवादकं च कथमव्यभिचारि? तस्मादव्यभिचारिपदेनैव संशयज्ञाने निरस्ते सविकल्पकप्रत्यक्षावदोधार्थमुपादीयमानं व्यवसायात्मकपदं संशयज्ञानप्रत्यक्षतापाकरणमन्वाचिनोति ।
तद्यथा एधानाहर्तुमरण्यं गच्छ, शाकमप्यानेष्यसीति शाकानयनमन्वाचीयते ।
न च तदेवास्य प्रेषितुर्वि धित्सितम्, तथेहापि ।
व्यवसायात्मकपदं साक्षात्सविकल्पकस्य वाचकम् ।
तथा हि व्यवसायो विनिश्र्चयो विकल्प इत्यनर्थान्तरम् ।
स एवात्मा रूपं यस्य तत् सविकल्पकं प्रत्यक्षम् ।
तदेतदतिस्फटत्वात् शिष्यैर्गम्यत एवेति भाष्यवार्त्तिककाराभ्याम् अव्याख्यातमपि अस्माभिः,
त्रिलोचनगुरुन्नीतमार्गानुगमनोन्मुखैः ।
यथान्यायं यथावस्तु व्याख्यातमिदमीदृशम् ॥
स्यादेतत् ।
न व्यवसायात्मकं प्रतयक्षं भवितुमर्हति ।
अभिलापसंसर्गयोग्यप्रतिभासं हि तत् ।
न चेन्द्रियार्थाभ्यां लब्धजन्म विज्ञानमर्थावभासं शक्यमभिलापेन योजनयितुम् ।
न ह्यर्थे शब्दाः सन्ति, अर्थात्मनो वा, तथा सत्यव्युत्पन्नस्यापि व्युत्पन्नवद् व्यवहारः स्यादित्युक्तम् ।
न चाभिलापो ऽर्थासंस्पर्शो संवेदनधर्मः, अर्थेषु तन्नियोजनात् ।
तस्मादर्थादुपजायमानं ज्ञानमर्थमेवादर्शयेत् नाभिलापम् ।
न हि रूपात् जायमानं प्रत्यक्षं रससहितमेतदादर्शयति ।
तस्मादभिलापसंसर्गानपेक्षमभिलापसंसर्गिणमादर्शयद् विकल्पविज्ञानं विकल्पवासनोत्थापितमनियतार्थग्राहि मानसमात्मीयमुत्प्रेक्षालक्षणं व्यापारं तिरस्कृत्यानुभवप्रभवतया अनुभवव्यापारं दर्शनु पुरस्कृत्य प्रवर्तमानमनुभवतया अभिमन्यन्ते प्रतिपत्तारः ।
तत् सिद्धमेतत्, यदर्थसामर्थ्यलब्धजन्म, न तत् शब्दकल्पनानुगतम्, यथा निर्विकल्पकम् ।
अर्थसामर्थ्यलब्धजन्मारश्र्च विवादाध्यासिता विकल्पा इति प्रसङ्गसाधनविरुद्धव्याप्तोपलब्धिः ।
शब्दकल्पनानुगतत्वस्य हि प्रतिषेध्यस्य विरुद्धं तदननुगतत्वम्, तेनार्थसामर्थ्यजत्वं व्याप्तम् ।
तस्योपलब्धिस्तदननुगतत्वमुत्थापयन्ती तदनुगतत्वं विरूणद्धीति ।
अथैषां प्रत्ययानां प्रत्यक्षमभि लापानुगतत्वमशक्यापह्नवम्, हन्त भोः, नार्थसामर्थ्यजत्वमिति प्रसङ्गविपर्ययः ।
तथा हि यदभिलापकल्पनानुगतं न तदर्थसामर्थ्यजं यथेश्वरप्रधानादिविकल्पविज्ञानम् ।
तथा चैते विवादाध्यासिता विकल्पा इति व्यापकविरुद्धोपलब्धिः ।
निषेध्यमर्थसामर्थ्यजत्वं तदभिलापकल्पनाननुगतत्वेन व्याप्तं तद्विरुद्धं च सदनुगतत्वमिति ।
न च सन्दिग्धव्यतिरेकिता, अर्थसामर्थ्येन हि तदुत्पद्यमानमर्थरूपम् अनुकुर्याद् न शब्दरूपम् ।
न ह्यर्थे शब्दाः सन्ति तदात्मानो वेत्युक्तम् ।
असम्बद्धरूपानुकारे तु विज्ञानस्य सर्वरूपानुकारेण सर्वसर्वज्ञातापत्तिरति ।
सङ्केतवशात् शब्दानामर्थसम्बन्धेनार्थोपलब्धौ तत्स्मरणात् तत्संसृष्टवेदनमिति चेत्? यत्र तर्हि ते कृतसङ्केताः तदेव स्मारयेदेतान् ।
तत्रैव च ते कृतसङ्केता यदनुगतं सामान्यम् ।
न च तद्दृष्टम्, किं तु स्वलक्षणं दर्शनगोचरः ।
तदेव हि परमार्थसद्विज्ञानस्य कारणम्, न तु सामान्यम् ।
सर्वसामार्थ्ययहितं हि तत् अलीकत्वात् ।
तस्माद् यद् द्ष्टं न तेन शब्दानां सम्बन्धः, येन च सम्बन्धो न तद्दृष्टम् ।
अपि च दृष्टस्य शब्दवाच्यत्वे दर्शनादिव वहिनरुष्ण इति वाक्यादपि प्रतीयेत ।
तथा च शब्दादपि तस्मिन् प्रतीते शीतापनोपनप्रसङ्गः ।
सामान्यविषयौलिङ्गशब्दौ वस्तुभूतसामान्यवच्च स्वलक्षणम् ।
तादृशं च तद्दर्शनस्य कारणमिति निर्विकल्पकेन प्रथमाक्षतन्निपातजन्मना जातिमद्वस्तुवेदनात् तत्रोपलब्धचरसम्बन्धस्य शब्दस्य स्मरणम् ।
तथा च तच्छब्दाभिधेयजातिविशिष्टद्रव्यावगाहीन्द्रियार्थसन्निकर्षजन्मा विकल्पप्रत्ययो गौरयमित्येवमाकारो जायत इति चेत्? यथाहुः,
निर्विकल्पकबोधेन द्व्यात्मकस्यापि वस्तुनः ।
ग्रहणम् # श्लो। वा। प्रत्यक्ष। ११८ #
तथा ततः परं पुनर्वस्तु धर्मैर्जात्यादिभिर्यया ।
बुद्ध्यावसीयते सापि प्रत्यक्षत्वेन सम्मता ॥
# श्लो। वा। प्रत्यक्ष। १२० # इति ।
तन्न, पिण्डविवेकेन जात्यादेरविकल्पकेनाग्रहणात् ।
न हि जातिजातिभन्तौ वा क्रियाक्रियावन्तौ व गुणगुणिनौ वा तत्समवायो वा विवेकेन चकासति ।
न च विवेकेनाप्रतिभासमानः शक्या मिथो योजयितुं क्षीरोदकवदतद्वेदिना ।
तस्मादेकमविभागं स्वलक्षणमनादिविकल्पवासनासमारोपितजात्यादिभेदं तथा विकल्प्यत इति युक्तमुत्पश्यामः ।
अपि च परमार्थसद्वस्तुद्वयवेदने ऽपि कुतो विशेषणविशेष्यभावः? न ह्यङ्गुल्यावेकविज्ञानविषयौ मिथो विशेषणविशेष्यभावमापद्येते ॥
विशेषण खलूपकारकम्, उपकार्यं च विशेष्यम् ।
नान्यथा तयोस्तभ्दावः ।
न चैकविज्ञानसमारूढयोर्ज्ञाप्यज्ञापकभावो वा कार्यकारणभावो वा सम्भवी, समानकालयोः तयोरूभयोरपि पौर्वापर्यनियमात् ।
अपि च वस्तुनिवेशे जात्यादीनामुपाधीनामेकस्य वस्तुनः सत्त्वं च द्रव्यत्वं च पार्थिवत्वं च वृक्षत्वं च शिंशपात्वं चोपाधय इति दूरादेकोपाधिविशिष्टस्य ग्रहे सर्वोपाधिविशिष्टग्रहप्रसङ्गः ।
तथा ह्याधाराधेयभाव उपकारगर्भो भवति ।
पतनधर्मणो हि बदरस्योत्तरस्य कुण्डमधरं प्रतयासन्नमपतनधर्मकं बदरं विदधदाधारः ।
तद्वदिहापि द्रव्येण जात्यादीनामुपाधीनामुपकर्तव्यम् ।
न च शक्त्यन्तरैरूपकरोति ।
शक्त्यन्तरपकारे ऽपि शक्त्यन्तरौकल्पनायाम् अनवस्थापातात् ।
तस्मात् स्वभाव एव स्वकारणाधीनजन्मा द्रव्यस्य स तादृशो येन बहूनामुपाधीनामुपकरोतीति वाच्यम् ।
तथा च सत्त्वोपकारसमर्थें तस्मिन् द्रव्ये गृह्यमाणे द्रव्यत्वाद्युपकारसमर्थो ऽपि स एवास्य स्वभाव इति तत्स्वभावावच्छिन्नाः सत्त्वविकल्पकेन परमार्थसद्द्रव्यावगाहिना सर्व एव द्रव्यत्वपार्थिवत्ववृक्षत्वशिशपात्वादयो विषयीकृता इति विकल्पान्तराणामानर्थक्यम् ।
यदाह,
यस्यापि नानोपाधेर्धीग्राहिकार्थस्य भेदिनः ।
नानोपाध्युपकाराङ्गशक्यभिन्नात्मनो ग्रहे ।
सर्वात्मनोपकार्यस्य को भेदः स्यादनिश्र्चितः ॥
एकोपकारके ग्राह्ये नोपकारास्ततो ऽपरे ।
दृष्टे तस्मन्नदृष्टा ये तद्ग्रहे सकलग्रहः ॥
इति ।
अस्माकं तु अनादिविकल्पवासनोपादाना विकल्पा यच्च गृह्णन्ति, यच्च अध्यवस्यनित तयोरूभयोरप्यन्यनिवृत्तिरूपतया अवस्तुत्वात् मतागपि न परमार्थसद् वस्तु गाहन्ते, पारम्पर्येण तु वस्तुप्रतिबन्धात् तत्र प्रवर्तयन्तः प्रापयन्तश्च न विसंवादयन्ति लोकम् ।
अतो वस्तुसभ्दावाविनिवेशाद् विकल्पानां न पौनरूक्त्यमस्ति ।
अपि चालोचिते वस्तुनीन्द्रियेण तदनन्तरोत्पन्नं शब्दस्मरणव्यवहितव्यापारमिन्द्रियमर्थश्र्च न सविकल्पिकामपि धियमुपजनयितुमर्हतः ।
यथाह,
अर्थोपयोगे ऽपि पुनः स्मार्तं शब्दानुयोजनम् ।
अक्षधीर्यद्यपेक्षेत सो ऽर्थो व्यवहितो भवेत् ॥
न च यदेवालोचनमजीजनदिन्द्रियं तदेव स्मरणसहकारि विकल्पप्रत्ययमाधत्ते ।
न च स्मृतिर्व्यवधायिका, स्वाङ्गमव्यवधायकमिति न्यायात् ।
यतो यः प्रागजनको बुद्धेरूपयोगाविशेषतः ।
स पश्र्चादपि ।
इति नो खल्वतीतं भवति गोचरो ऽक्षस्य ।
न चागोचरे सहस्रेणाप्युपायैरेतत् प्रवर्तितुमर्हति ।
न च स्मृतिरतीतविषयाननुभूतपूर्वं वर्तमानं गोचरयितुमर्हति ।
तद्गोचरत्वे चान्धानामपि रूपसाक्षात्कारप्रसङ्गः यथाह,
तेन स्यादक्षापाये ऽपि नेत्रधीः ॥
इति ।
तदेवं नामजातिगुणकर्मकल्पनाः प्रत्यक्षत्वेन परास्ताः ।
द्रव्यकल्पनापि दण्डीति,
विशेषणं विशेष्यं च सम्बन्धं लौकिकीं स्थितिम् ।
गृहीत्वा सङ्कलय्यैतत् तथा प्रत्येति नान्यथा ॥
न चैतावन्तं व्यापारकलापं विचारकनिवर्तनीयमिन्द्रियज्ञानं सहते, तस्य सन्निहितविषयबलेनोत्पत्तेरविचारकत्वात् ।
जातिगुणक्रियावतां चैतन्न सम्भवत्येव रूपविवेकसम्बन्धयोरप्रतिभासनेन घटनायोगात् क्षीरोदकवदतद्वेदिनेत्युक्तम् ।
तस्मात् न तद्विकल्पं प्रत्यक्षमिति ॥
अत्रोच्यते ।
यत् तावदुक्तम्—अर्थसामर्थ्यजत्वाभिलापसंसर्गयोग्यप्रतिभासत्त्वयोः विरोध इति, तत्र ब्रूमः ।
स्याद् विरोधो यदि स्वलक्षणमेवार्थः, न त्वेतदस्ति ।
उपपादयिष्यति हि परमार्थसन्तं जात्यादिमन्तमर्थं स्थेमभाजमभिलापसंसर्गयोग्यम् ।
तेन तज्जनितं ज्ञानमर्थसामर्थ्यजं चाभिलापसंसर्गयोग्यप्रतिभासं चेति न विरोधः ।
तथा च प्रसङ्गसाधनस्य सन्दिग्धव्यतिरेकिता ।
न च द्रव्याद्यभिन्नं जात्यादि भिन्नं कल्पयन्तो विकल्पा नार्थसामर्थ्यजन्मान इति साम्प्रतत् ।
द्रव्यादपि हि भेदः साधयिष्यते तेषाम् ।
यथा च भेदे ऽपि तेषां तद्वाचकानां सामानाधिकरण्यं तथोपपादितमधस्तात् ।
न च भिन्नेन शब्देन डित्थो ऽयमित्यभेदकल्पनादर्थस्य विकल्पानामनर्थजत्वमिति युक्तम् ।
उक्तमेतद् अव्यपदेश्यपदव्याख्यानावसरे यथा न शब्दाभेदेनार्थयोरेकेन्द्रियज्ञानसंसर्गिता किं तु प्रथममालोचितो ऽर्थः सामान्यविशेषवान् सङ्केतग्रहण्समयवर्तिनीमात्मनो ऽवस्थां स्मारयन् तत्कालभाविनं शब्दमपि स्मारयत्यवर्जनीयतया ।
न त्विन्द्रियजविकल्पोत्पादं प्रत्यस्त्युपयोगः कश्चित् शब्दस्मरणस्य ।
अन्यथा बालमूकादीनां नेन्द्रियजः स्याद्विकल्पः शब्दस्मरणाभावात् ।
सङ्केतसमयवर्त्यवस्थास्मरणं तूपयुज्यते, वस्तुनस्तदानीन्तनेदानीन्तनावस्थाभेदवत एकस्येन्द्रियजेन विकल्पेनाकलनात् ।
शब्दस्तु सम्पातायातो न निवेशयत्यात्मानम् इन्द्रियजे विकल्पे ।
यथाह,
देवदत्तादिशब्दन हृदयस्थेन यः स्मृतः ।
चक्षुषापि स एवायं पिण्डः सम्प्रति दृश्यते ॥
अनेन हि पिण्डस्य पूर्वापरावस्थावर्तिनीमेकतामिन्दियजविकल्पगोचरत्वेन दर्शयति, न तु शब्दनिवेशनमपि ।
तथा,
सञ्ज्ञा हि स्मर्यमाणापि प्रत्यक्षत्वं न बाधते ।
सञ्ज्ञिनः ।
कुतः?
सा तटावस्था न रूपाच्छादनक्षमा ॥
नार्थेन्द्रियव्यापारं व्यवधत्ते इत्यर्थः ।
न च प्रागवस्थास्मरणसापेक्षतया नेन्द्रियार्थसन्निकर्षः कारणं विकल्पस्येति साम्प्रतम् ।
यतो,
न किञ्चिदेकमेकस्मात् सामग्र्याः सर्वंसम्भवः ।
# प्र। वा। ३।५३ # इति भवन्तो ऽप्याहुः ।
अन्यथालोकमनस्कारसापेक्षमर्थेन्द्रियं निर्विकल्पकमपि न जनयेत् ।
यत्तु प्रथमं नाजीजनत् तत् स्मरणसहकारिविरहात् ।
न हि नाजीजनत् कुशूलस्थं बीजमङ्कुरमिति न समवहितक्षित्यादिसहकारिग्राममप्यस्याजनकं भवति ।
न च जनकत्वाजनकत्वलक्षणो विरुद्धधर्मसंसर्गो भेदहेतुरित्युपपादयिष्यते क्षणभङ्गभङ्गे ॥
स्यादेतत् ।
अतीतावस्था नेन्द्रियगोचरस्तस्य वर्तमानार्थे नियमात् ।
न च वर्तमानो ऽर्थः स्मरणगोचरः स्मरणस्यानुभवजनितसंस्कारोद्बोधजन्मनः पूर्वानुभवगोचरं प्रति नियमात् ।
तस्मात् भिन्नविषयतया नेन्द्रियसहकारिता स्मरणस्य ।
न हि रूपविषयाः सहस्रमपि नयनप्रदीपादयः शब्दविषयस्य श्रवसः सहकारितामापद्यन्त इति ।
तत् किं भवतां यत्र गन्धज्ञानानन्तरं चाक्षुषं रूपज्ञानं जायते तत्र गन्धज्ञानम् न समनन्तरप्रत्ययः? तत्रापि हि चक्षूरूपविषयं न गन्धविषयस्य ज्ञानस्य सहकारि भवितुमर्हति, भिन्नविषयत्वादेव ।
अथान्वयव्यतिरेकनिबन्धनः कार्यकारणभावो न समानविषयत्वमनुविधीयते इत्युच्येत्र, तदस्माकमपि समानम् ।
नन्वतीतावस्थाविशिष्टत्वम् अस्य नेन्द्रियसन्निकृष्टमिति कथं प्रत्यक्षम्? तत् किं यदिन्द्रियसम्बद्धं तत् प्रत्यक्षम्? तथा सत्याकाशपरमाण्वादयो ऽपि तत्संयुक्ता इति ते ऽपि प्रत्यक्षाः प्रसज्येरन् ।
तस्माद् यदेवेन्द्रियजस्य ज्ञानस्य गोचरस्तत् प्रत्यक्षम् ।
न त्विन्द्रियसम्बद्धम् ।
नन्वसम्बद्धमिन्द्रियं कथं तत्र ज्ञानं जनयति? तच्च ज्ञानं कथं प्रत्यक्षम्?
प्रत्यक्षं चेत्, कथमिन्द्रियार्थसन्निकर्षोत्पन्नमिति लक्षणं प्रत्यक्षं व्याप्नोति, अस्यैव प्रत्यक्षस्य लक्षणेनाव्यानात्? मा भूदर्थस्य पूर्वकालवर्तिता इन्द्रियगोचरः, तथापि स्मरणसहकारिणा संस्कारसहकारिणेन्द्रियार्थसन्निकर्षेणोपजनितं तदिन्द्रियार्थसन्निकर्षोत्पन्नं न भवति ।
तथा च नाव्यापकमस्य लक्षणम् ॥
ननु पूर्वापरावस्थापरामर्शिज्ञानं कथमेकम्, विषयभेदात् पारोक्ष्यापारोक्ष्यलक्षणविरुद्धधर्मसंसर्गाच्च? तथा हि तदिति पारोक्ष्यम्, इदमिति च साक्षात्कारः ।
न च विरुद्धधर्मसंसर्गे ऽप्येकत्वम्, त्रैलाक्यस्यैकत्वप्रसङ्गात् ।
विषयभेदश्र्च पूर्वदेशकालापरदेशकालसम्बन्धयोरेकस्य विरोधात् ।
यथा ह्येकस्मिन् पद्मरागमणौ गृह्यमाणे तदभावो व्यवच्छिद्यते, यदि पुनर्नं व्यवच्छिद्येत तदा भावो न परिच्छिद्येत, तस्य स्वाभावव्यवच्छेदरूपत्वात् ।
तदभावाविनाभाविनश्र्च पुष्परागादय इति ते ऽपि सर्वे वयवच्छिन्न भवन्ति ।
यदि पुनर्न व्यवच्छिद्यरन्, स एव पुष्परागाद्यत्मेति तदविनाभावी पद्मरागाभावः पद्मरागश्र्च स्यादिति दुर्घटमापद्येत ।
एवं तस्यैव पूर्वदेशकालसम्बन्धे गृह्यमाणे तदभावव्यवच्छेदक्रमेणापरदेशकालसम्बन्धो व्यवच्छिन्नः ।
पूर्वदेशकालसम्बन्धाभावाव्यभिचारी ।
तथा च न पददेशकालसम्बन्धस्वभावः ।
तथापि यद्यसौ तद्देशकालसम्बन्धादन्यस्वभावो भवेत्, तथा सति स एव भवेत्, न भवेच्चेति दुर्घटमापद्येत ।
तस्मात् पूर्वदेशकालसम्बन्धादन्यो ऽपरदेशकालसम्बन्ध इति सिद्धो विषयभेद इति ॥
अत्रोच्यते ।
यदि परोक्ष्यापारोक्ष्यधर्मभेदात् पूर्वापरावस्थापरामर्शिज्ञानं भिद्येत, हन्त भोः, तदित्यपि विकल्पो भिद्येत ।
सो ऽपि हि परोक्षश्चापरोक्षश्र्च विकल्पश्चाविकल्पश्र्च ।
अर्थे परोक्षो विकल्पश्र्च स्वात्मनि त्वविकल्पो ऽपरोक्षश्र्च ।
तस्माद् विषयभोदात् विरोध इति चेत्—न त्विहापि तदेकं ज्ञानं तस्यैवैकस्य वस्तुनः पूर्वदेशकालसम्बन्धे परोक्षमपरोक्षं वा परदेशकालसम्बन्ध इति को विरोधः? यो ऽपि कालदेशसम्बन्धभेदेन विषयभेद उक्तः, सो ऽपि अयुक्तः ।
यतो युक्तं यत् पद्मरागस्वरूपग्रहे तदभावो व्यवच्छिद्यत इति, स्वाभावव्यवच्छेदात्मकत्वेन भावानां तदव्यवच्छेदे स्वरूपाग्रहणप्रसङ्गात् ।
कस्मात् पुनः पुष्परागादयो व्यवच्छिद्यन्ते, पद्मरागाभावाविनाभावादिति चेत्? अथैतदभावाविनाभावज्ञानं कुतस्त्यम्? तयोः कदाचिदपि तादा त्म्येनानुपलम्भादिति चेत्—यत्र तर्हि तादात्म्यमुपलभ्यते न तत्र तदभावाविनाभावः, तथा च पूर्वापरदेशकालसम्बद्धस्तादात्म्येनानुभूयमान इन्द्रियजेन विकल्पेन पद्मरागो न भिन्नो भवितुमर्हति ।
तस्मात् पर्वापरदेशकालौ तत्सन्न्धौ वा कामं भिद्येयातां परस्पराभावाविनाभावात्, तयोरेकदापि तादात्म्येनाप्रतिभासनात् ।
न तु तदालिड्रिगतस्वभावः पद्मरागमणि।, तस्य ताभ्यामन्यत्वात् ।
न चान्यस्य भेदो ऽन्यस्य भेदमापादयति, अतिप्रसङ्गात् ।
न चेन्द्रियार्थसन्निकर्षाभावे ऽपि पूर्वापरावस्थापरामर्शात्मनो विकल्पस्य भावादनिन्द्रियजयत्वमिति साम्प्रतम्, तथा सत्यविकल्पकमपि कामातुरस्य कामिनीं भावयतः तद्विषयमिन्द्रियार्थसन्निकर्षं विनापि दृष्टमिति नीलाद्यनुभावात्मानो ऽपि अविकल्पका अनिन्द्रियजाः प्रसज्येरन् ।
यदि तु नीलाद्यनुभवानां कामिन्यनुभवात् कथञ्चिद् विशेषं ब्रूयात, तदा अस्माकमपि अनिन्द्रियजेभ्यो विकल्पेभ्य उत्प्रेक्षाव्यापारेभ्यो ऽस्तीन्द्रियजानां दर्शनव्यापाराणां भेदः ।
न च विकल्पगतो दर्शनव्यापारो ऽनुभूयमानः सति सम्भवे निर्विकल्पकोपाधिरिति युक्तम् ।
सर्वा एव हीन्द्रियजा बुद्धयो विकल्पिका अविकल्पिका वा धारावाहिन्यो ऽमहमिकया परस्परानपेक्षा एकमर्थमवगाहमाना उदयन्ते व्ययन्ते च ।
न त्वमूषामन्योन्यमनुगम्यानुगन्तृतामीक्षामहे ।
तस्मात् इन्द्रियार्थसन्निकर्षलब्धजन्मानो विकल्पा दर्शनव्यापारा नान्य इति युक्तमुत्पश्यमः ।
न च शब्दप्रत्यक्षयोर्वस्तुगोचरत्वे सत्यपि प्रत्ययाभेदः कारणभेदेन पारोक्ष्यापारोक्ष्यभेदोपपत्तेः ।
न च वहिनसंयोगजन्मा शीतापनोदो वहिनज्ञानाद्
भवितुमर्हति ।
न चैकोपाधिना सत्त्वेन विशिष्टे तस्मिन् गृहीते उपाध्यन्तरविशिष्टतद्ग्रहप्रसङ्गः ।
स्वभावो हि द्रव्यस्योपाधिभिर्विशिष्यते, न तूपाधयो व तैर्विशिष्टत्वं वा तस्य स्वभावः ।
न च यत् स्वभावसम्बन्धि स स्वभावः ।
तथा सत्यसम्बन्धित्वमेव ।
न हि तदेव तेन सम्बध्यते ।
अपि च रूपज्ञानं विषयग्रहणधर्म नानापरमाणुविषयं न परमाणुस्वभावः ।
तत्स्वभावत्वे वा तेषां सर्वान् प्रत्यविशेषात् सर्वैरेव ते परमाणवो विदिताः स्युः ।
न चासम्बद्धा एव स्वज्ञानेन रूपपरमाणवो विषयास्तस्येति वाच्यम्, असम्बद्धस्य विषयत्वे ऽतिप्रसङ्गात् ।
स्वभाव एवार्थज्ञानभेदयोः सम्बन्धो यदर्थो विषयो ज्ञानं च विषयीति चेत्? हन्तोपाध्युपाधिमतोरपि स्वभाव एव सम्बन्धो ऽस्तु तथापि विज्ञानार्थवन्न स्वरूपाभेदः ।
क्षणभङ्गपरिणामनिराकरणे तु स्वभावातिरिक्तं सम्बन्धमुपपादयिष्यामः ।
तस्मात् नैकोपाध्यन्वितग्रहणे सकलोपाध्यन्वितप्रत्ययप्रसङ्गः ॥
यच्चैकविज्ञानगोचरयोर्न विशेष्यविशेषणभाव इति, तत्र ब्रूमः ।
भिन्नज्ञानगोचरत्वे ऽपि नासौ सम्भीति ।
न हि विशेषणज्ञानं विशेष्याविषयं विशेष्यमवच्छेत्तुमर्हति ।
एवं विशेष्यज्ञानमपि विशेषणाविषयं केन स्वविषयमवच्छिन्द्यात्, तयोः परस्परवार्तानभिज्ञत्वात्? ताभ्यां वासना, ततो मानसप्रत्ययो विशेषणविशेष्यभावाकर उत्पद्यते ।
न त्वस्ति विशेषणविशेष्यभावो वास्तव इति चेत्? अस्तु तावद् वास्तवावास्तवचिन्ता ।
करिष्यते हीयमुपरिष्टात् ।
यस्तु भवतामस्य मानसत्वे प्रयासः, स वरमिन्द्रियजत्व एव भवतु, तथा सति दर्शनव्यापारत्वमस्य साक्षात् समर्थितं भवति ।
इतरथा हि निर्विकल्पकोपधानं कल्प्येत ॥
नन्वविचारकमिन्द्रियज्ञानं कथं विशेषणविशेष्यादि सकलं सङ्कलयेत्? हन्त भोः किं मानसमपि ज्ञानं सङ्कलयितुमर्हति? सङ्कलयति मनसस्तत्कारणस्य सर्वविषयत्वात् इति चेत्? यदि पूर्वकं विज्ञानं मनः, कथं तस्य सर्वविषयता? अस्माकं तु मनः सर्वविषयमपि अचेतनतया न विचारकम् ।
तस्मादात्मैव सकलज्ञानतज्जनितवासनाधारः स्मर्ता च प्रतिसन्धाता च ।
यथाह,
आत्मन्येव स्थितं ज्ञानं स हि बोद्धात्र गम्यते ।
स्मरणे चास्य सामर्थ्यं सन्धानादौ च विद्यते ॥
# श्लो। वा। प्रत्यक्ष। १२२ # स सल्विन्द्रियार्थसन्निकर्षादालोच्य जातिमन्तं सम्मुग्धमर्थम् उद्बुद्धसंस्कारसमुपजातपूर्वपिण्डानुस्मृतिसहायः प्रागेव चक्षुषा विकल्पयति, गौरयमिति ।
यथाह,
करणं चेन्द्रियं बुद्धेः कर्ता चात्म सचेतनः ।
स च स्मृतिसमर्थत्वात् सर्वार्थान् कल्पयिष्यति ॥
तेनैकविज्ञानवेद्यत्वे यद्यपि ज्ञाप्यज्ञापकभावरूप उपकार्योपकारकभावो नास्ति, तथापि, तदर्थालोचनानुगतस्मरणयोर्विशेषणविशेष्यभावावगाहि विज्ञानं प्रत्युत्पादकत्वमेवोपकारकत्वमस्ति ।
अर्थौ हि रूपरूपिभावेन स्थितावपि नापातजन्मना ज्ञानेन तथा गृहीतौ, अपि तु स्वरूपमात्रेण ।
न हि यावदस्ति तावद् ग्रहीतव्यम्, तेन तदेकदेशग्रहे ऽपि नाप्रमाणता ।
सविकल्पकं तूक्तसामग्रीजन्म जात्यादिरूपतया द्रव्यं च रूपितया कल्पयत् पश्चाज्जायमानमपीन्द्रियार्थसन्निकर्षप्रभवतया प्रत्यक्षं भवत्येव ।
अक्रमस्यापि च क्रमवत्सहकारिभेदसमवधानवशात् क्रमेण कार्यकरणमुपपादयिष्यते ।
तत् सिद्धमेतद् विवादाध्यासिता विकल्पाः स्वगोचरे प्रत्यक्षा अव्यभिचारित्वे सति इन्द्रियार्थसन्निकर्षजत्वात् ।
यो य एवम्भूतः स सर्पः प्रत्यक्षो यथालोचनम्, तथा चैतत् ।
तस्मात् तथेति ॥
तस्मात् सविकल्पकप्रत्यक्षावरोधार्थं व्यवसायात्मकपदमिति सिद्धम् ।
तदस्य सविकल्पकप्रत्यक्षावरोधार्थस्यान्वाचीयमानो व्यवच्छेदः ।
तद्व्यवच्छेद्यप्रतिपादनार्थं भाष्यमनुभाष्यान्वाचीयमानमेव व्यवसायात्मकपदस्यार्थमाह–दूराच्चक्षुषेति ।
न चैतन्मन्तव्यमिति भाष्यं व्याचिख्यासुश्र्चोदयति–न संशयस्येति ।
ननु सतीन्द्रियार्थसन्निकर्षे पुरोवर्तिनि द्रव्ये धूम इति वा रेणुरिति वा ज्ञानमुत्पद्यमानं कथमनिन्द्रियजमित्यत आह–न हीति ।
कस्मान्मानस इत्यत आह–संशीतिरिति ।
सम्पूर्वो हि शीड् भावप्रत्ययान्तो विशेषापेक्षे विमर्शे वर्तते स चैकाधिकरणौ स्मर्यमाणौ मिथो विरुद्धौ धर्मावारोपयन् अन्यतरन्नावधारयति ।
तथा चाधिकरणमात्रसमर्पणमिन्द्रियजव्यापारः ।
मनसा तु स्मरणसहकारिणैव पुरुषः संशेते ।
अत एव विस्फारिताक्षाः सौदामिनीसम्पातात् सकृदालोच्य कञ्चित् समानधर्मवन्तं धर्मिणं समन्धकारे सन्दिग्धे, तस्मान्मानस एवैष संशयो न त्विन्द्रियज इत्यर्थः ।
तदेतत् परिहरन् न चैतदित्यादि भाष्यं व्चाचष्टे—तच्च नैवम् ।
कस्मात् संशयस्येति–उभयं त्विति ।
तु शब्दो मनोमात्रनिमित्तत्वं व्यवच्छिनत्ति ।
तदनेन चक्षुषा हीत्यादि भाष्यं व्याख्यातम् ।
पश्यन् समानधर्माणं धर्मिणं नावधारयति ।
विशेषतः सन्दिग्धे तस्मिन्नित्यर्थः ।
इन्द्रियेणोपलब्धं सन्निकृष्टं सन्निकर्षपूर्वकत्वादुपर्लधेः मनसोपलभते जानीते चक्षुःसहायेनेत्यर्थः ।
अत्र भाष्यं यच्च तदिन्द्रयानवधारणपूर्वकं मनसानवधारणं तद्विशेषपेक्षं विमर्शमात्रं संशयः, न पर्वमिति ।
अनवधारणशब्दो ऽयं संशयज्ञानवाचकः स्वकारणेन्द्रियार्थसन्निकर्षे प्रयुक्त उपचारेण ।
उपरतेन्द्रियव्यापारस्य हि संशयज्ञानदर्शनात् ।
सत्यपीन्द्रियव्यापारे संशयो नेन्द्रियज इति चोदको ऽभिमन्यते ।
तदनयोः संशयज्ञानयोर्मध्ये यत् तदिन्द्रियावधारणपूर्वकमिन्द्रियार्थसन्निकर्षपूर्वकं मनसानवधरणं संशयज्ञानमित्यर्थः ।
न पूर्वम् ।
यदुपरतेन्द्रियव्यापारस्य संशयज्ञानं दृष्टान्ततया हृदि स्थितं शङ्कितुरित्यर्थः ।
तदेतद् भाष्यं व्याचष्टे–तत्र यदिन्द्रियार्थेति ।
इन्द्रियार्थसन्निकर्षश्चासावनवधारणं चेति कर्मधारयः ।
तत्पूर्वकं मनसानवधारणं संशयज्ञानमित्यर्थः ॥
ननु स्मरणव्यवहितव्यापारमस्य कारणं नेन्द्रियमित्यत आह–तस्य हीति ।
उपपादितमेतदधस्तात् यथा स्मरणं नेन्द्रियव्यापारं व्यवधत्त इति ।
पूर्वं त्विति ।
दृष्टन्ततया पूर्वत्वम् ।
स्यादेतत्, मन एवेन्द्रियानपेक्षं बाह्ये प्रवर्तते इत्यभ्युपेयम्, अन्यथा घटमहं जानामीति ज्ञानं निर्निमित्तं स्यात् ।
न तावदिन्द्रियजम्, आन्तरे ज्ञाने चक्षुरादीनामप्रवृत्तेः ।
नाप्यनुमानादिष्वन्तर्भवति, लिङ्गाद्यभावात् ।
तस्मान्मानसभेवेदम् ।
यदि च घटादौ बाह्ये न मनः प्रवर्तेन, कथं घटमिति भवेत्? जानामीत्येव स्यात् ।
न चार्थनिरुपणमन्तरेण ज्ञानरूपनिरूपणम्, तस्माद् बाह्याभ्यन्तरविषयं मनः, तथा च सर्व एव संशयो मानस इत्याशङ्क्याह भाष्यकारः, सर्वत्र च प्रत्यक्षविषये इति ।
यद्यप्ययमीदृशो ऽनुव्यवसायो मानसस्तथाप्यन्धबधिरादीनामभावात् तत्पूर्वं व्यवसायोत्पत्तौ चक्षुराद्यपेक्षणीयम्, अन्यथा अन्धबधिराद्यभावप्रसङ्गः ।
तथा च संशयज्ञानोत्पादे अपीन्द्रियार्थसन्निकर्षो ऽपेक्षणीय इति भावः ।
तदिदं तस्य हीत्यादिना वार्त्तिकेन व्याख्यातम् ॥
अव्यापकत्वेन लक्षणाक्षेपपरं भाष्यम् आत्मादिषु इत्याति ।
तद् व्याचष्टे–इन्द्रियार्थेति ।
चोदयति–कथं पुनरिति ।
परिहरति–इन्द्रियेति ।
मा भूदिन्द्रियसूत्रे पाठः ।
तद्धि बाह्येन्द्रियलक्षणम्, आन्तरं च मन इत्यत आह–पृथक् चेति ।
न च सुखादौ प्रमाणान्तरमस्ति ।
तस्मात् पारिशेष्यात् सद्धिं प्रत्यक्षत्वमित्याह—प्रत्यक्षाश्र्चेति ।
ननु नैते प्रमेयाः स्वसंवेदनसिद्धत्वात्, तत् किमत्र प्रमेयार्थेन प्रमाणेन इत्यत आह—न च तेषामिति ननूक्तं स्वसंवेदनतया न प्रमाकर्मभाव एषामित्यत आह–न चान्या गतिरिति ।
संवेदनत्वेन हि तेषां स्वसंवेदनता, न चैते संवेदनमिति उक्तमधस्तादिति भावः ।
आक्षेपनुपसंहरति–तस्मादिति ।
भाष्ये चात्मादिषु सुखादिष्विति नित्यानित्याभिप्रायं वर्गद्वयम् ।
आत्मसुखदुःखत्वादयो नित्याः अनित्याश्च सुखदुःखादय इति ।
तदिदमुक्तं दिग्नागेन,
न सुखादि प्रमेयं वा मनो वास्त्विन्द्रियान्तरम् ।
न च तत् सम्भवति, घ्राणादिसूत्रेण विभागपरेण निषेधादिति भावः ।
समाधिभाष्यम् इन्द्रियस्य वै सतः इति ।
तद्व्याचिख्यासुर्गूढाभिप्रायः पृच्छति–कश्चैवम् इति ।
आक्षेप्तुरुत्तरम्–इन्द्रियार्थेति ।
समाधाता आह–नैष दोष इति ।
आक्षेप्तुः अनुशयबीजमुद्घाट्य दूषयति–यत्तु सूत्रे इति ।
नेदं विभागपरं घ्राणादिसूत्रम्, अपि तु लक्षणपरम् ।
तत्र चेन्द्रियमपि मनो न लक्षितम्, वैधर्म्यादित्यर्थः ।
वैधर्म्यमाह–वैधर्म्यमिति ।
तत्र प्रमाणयति–सर्वविषयं त्विति ।
वैधर्म्यान्तरं दूषयति—भौतिकेति ।
कार्यस्य हि विशेषौ भौतिकत्वाभौतिकत्वे, भूतकार्यं भौतिकम् ।
यद् भूतकार्यं न भवति तदभौतिकम् ।
भूतकार्यत्वप्रतिषेधश्र्च तदन्यकार्यत्वं गमयति, विशेषनिषेधस्य विशेषान्तराभ्यनुज्ञानहेतुत्वात् ।
इतरथा तु अकार्यमेवोच्येत, न त्वभौतिकमिति ।
तस्मादकार्यस्य मनसो ऽभौतिकत्वं कार्यधर्मो विरुद्धमित्यर्थः ।
अपि च वैधर्म्यात् मनोवत् श्रोत्रमपि न वक्तव्यमित्याह–श्रोत्रे चेति ।
शङ्कते–स्वार्थ इति ।
भूतानि हि घ्राणादीनि श्रोत्रान्तानि, मनस्तु न भूतमिति वैधर्म्यमित्यर्थः ।
निराकरोति–तच्च नेति ।
दर्शयिष्यति हि वार्त्तिककारो यथा स्वार्थिको न कश्र्चिदपि प्रत्यय इत्यर्थः ।
आक्षेपहेतुमनुभाषते–यत् पुररिति ।
दूषयति–न नास्तीति ।
तददेन सति चेन्द्रियार्थसन्निकर्षे इत्यादि भाष्यं व्याख्यातम् ।
यच्चापरं वैधर्म्यं घ्राणादिभ्यो मनस उक्तं भाष्यकारेण तदपि सिंहावलोकनेन दूषयति—सगुणानामिति ।
घ्राणादीनि यथा स्वस्वगुणेन गन्धादिना बाह्यं गन्धादि बोधयन्ति , नैवं स्वगुणेन शब्देन श्रोत्रं बाह्यं शब्दं बोधयति, तन्मनोवत् श्रोत्रमपि घ्राणादिसूत्रे न पठितव्यमित्यर्थः ।
भाष्योक्तेषु मध्य अभिमतं वैधम्यमुपसंहरति–तस्मादिति ।
भूतत्वाभूतत्वलक्षणं वैधर्म्यं न भौतिकत्वाभौतिकत्वग्रहणेन शक्यं वक्तुमित्यवधारणाभिप्रायः ।
ननु युगपज्ज्ञानानुत्पत्तेर्ज्ञानकारणं मनोः अस्तीत्यवगम्यते, न पुनरस्येन्द्रियत्वमपि, तभ्दावानवगमे च नेन्द्रियार्थसन्निकर्षजं सुखादिज्ञानं शक्यं वक्तुमित्यत आह–तन्त्रान्तरेति ।
तन्त्र्यते व्युत्पाद्यते अनेन तत्त्वमिति तन्त्रं शास्त्रम् ।
तदनेन मनसश्र्चेत्यादि भाष्यं व्याख्यातम् ।
एतद् दूषितं दिग्नागेन
अनिषेधादुपात्तं चेदन्येन्द्रियरुतं वृथा ।
इति ।
तद्दूषयितुमुपन्यस्यति—-न शेषेति ।
तद्दूषयति–न तन्त्रयुक्तीति ।
सर्वस्य तन्त्रान्तरे लोके च सिद्धत्वादवक्तव्यतायां स्वमतमिति नास्ति ।
वचनलिङ्गं हि मताज्ञानं न चाननुमते निषेधमात्रं शक्यं वक्तुम्, अभावस्य भावनिरूपणाधीननिरूपणत्वादिति भावः ।
सिद्धमर्थमुपसंहरति–तस्मादिति ।
प्रकृतमुसंहरति–तदिति ॥
तदेवं लक्षणपदानि व्याख्याय विमृशति–समस्तमिति ।
अभिमतमाह–समस्तमित्याह भाष्यकारः ।
हेतुमाह–यस्मादिति ।
इन्द्रियार्थसन्निकर्षोत्वन्नं ज्ञानमव्यभिचारीति हि प्रतयक्षलक्षणमनवयवेन समानासमानजातीयेभ्यो व्यावृत्तं शक्यमेव लक्षयितुम् ।
न खल्वयमसावश्व इति ज्ञानमिन्द्रियजं शब्दजं सम्भवति ।
तद्धि द्रव्यगोचरं वा उच्येत, वाच्यत्वगोचरं वा, वाच्यत्वविशिष्टद्रव्यगोचरं वा ।
तत्र द्रव्यमैन्द्रियकमेव न शाब्दमित्यशक्यं हि ज्ञानं व्यवच्छेत्तुम्, अनभिमतं च ।
वाच्यत्वगोचरं तु ज्ञानं शाब्दम् एव, अन्यथा ह्यश्रुतशब्दो ऽप्यारण्यको ऽश्वमेवेन्द्रियसन्निकर्षादश्वशब्दवाच्य इति गृह्णीयात् ।
वाच्यत्वविशिष्टद्रव्यज्ञानमपि शाब्दमेव, वह्निविशिष्टधूमज्ञानमिवानुमानिकम्, अन्यथा तदप्यैन्द्रियकमिति न तन्निराकरणाय यत्नान्तरमास्थेयम् ।
अथ न वाच्यत्वं नाम मीमांसकानामिव किञ्चिदतीन्द्रियम्, अपि तु सङ्केतमात्रमेतदस्मादिदं प्रत्येतव्यमिति ।
तथापि शब्द एव ।
अथायमप्यैन्द्रियक एव, तत्र गुरुपदिष्टा गाथा पठितव्या,
शब्दजत्वेन शाब्दं चेत् प्रत्यक्षं चाक्षजन्मतः ।
स्पष्टग्रहणरूपत्वाद् युक्तमैन्द्रियकं हि तत ॥
इति ।
तस्मात् नोभयजज्ञाननिवारणायाव्यपदेश्यपदम् ।
व्यवसायात्मकपदेन तु सविकल्पके ज्ञाने ऽवरुद्धे निर्विकल्पकस्याप्रत्यक्षता मा प्रसाङ्क्षीदिति तदवरोधार्थेनाव्यपदेश्यपदेन निर्विकल्पके ऽपि शब्दसम्भेदनिराकरणमन्वाचितमिति शाब्देत्युक्तम् ।
एवम् अव्यपदेश्यपदेन निर्विकल्पके ऽवरुद्धे सविकल्पकस्येन्द्रियजस्याप्रत्यक्षत्वं मा प्रसाङ्क्षीदिति तदवरोधार्थेन व्यवसायात्मकपदेन संशयज्ञानप्रत्यक्षत्वनिराकरणमन्वाचितमिति संशयेत्युक्तम् ॥
अन्वयं दर्शयित्वा व्यतिरेकमाह–यदीति ।
उपसंहरति–तस्मादिति ।
हेयास्त्रिशत्कोटीर्गणयति–तत्रेति ।
द्विपदपरिग्रहेण दश–इन्द्रियार्थसन्निकर्षोत्पन्नपदं ध्रवं कृत्वा ज्ञानाद्येकैकपदसम्बन्धेन चरस्त्रः कोटयः, ज्ञानं च घवं कृत्वा अव्यपदेश्यादि एकैकपदसम्बन्धेन तिस्त्रः, एवमव्यपदेश्यपदं ध्रुवं कृत्वा अव्यभिचार्याद्येकैकपदसम्बन्धेन द्वे कोटी, अव्यभिचारिव्यवसायत्मकसम्बन्धे दशमीति ।
त्रिपदपरिग्रहेणापि दशैव ।
इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमिति ध्रुवं कृत्वा अव्यपदेश्याद्येकैकपदसम्बन्धे तिस्त्रः कोटयः, ज्ञानमव्यपदेश्यमिति ध्रुवं कृत्वा अव्यभिचार्यादिपदसम्बन्धेन द्वे कोटी, अव्यभिचार्यव्यपदेश्यपदयोस्तु व्यवसायात्मकपदसम्बन्धे कोटिरेका इन्द्रियार्थसन्निकर्षाव्यपदेश्यपदध्रौव्ये अव्यभिचार्याद्येकैकपदसम्बन्धे कोटिद्वयम्, अव्यभिचारिव्यवसायात्मकपदयोस्तु ध्रुवयोरिन्द्रियार्थसन्निकर्षोत्पन्न पदेन ज्ञानपदेन च प्रत्येकं सम्बन्धे कोटिद्वयम्, इति त्रिपदपरिग्रहेण दश कोटयः ।
चतुष्पदपरिग्रहेण पञ्च ।
इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमिति ध्रुवं कृत्वा अव्यभिचार्याद्येकैकसम्बन्धे द्वे कोटी, अव्यपदेश्यपदं त्यकत्वा परकोटिः, ज्ञानपदं त्यक्त्वा चापरा, इन्द्रियार्थसन्निकर्षोत्पन्नपदं त्यक्त्वा तु पञ्चमी ।
पृच्छति–कस्मात् पञ्चपदपरिग्रहेणैकत्रिशत्तमकोटिपरिग्रहेणेतराः कोटयो व्यवच्छिद्यन्ते? न ह्यत्र तद्व्यवच्छेदवाचकः कश्र्चिदस्ति शब्द इत्यर्थः ।
उत्तरम्–विशेषेति ।
विशेषप्रतिविधानप्रस्तावे शेषनिषेधोपन्यासो दृष्टान्तलाभाय ।
एकदेशाभ्युपगम एकत्रिशत्कोटिषु एकत्रिंशत्तमी कोटिरेकदेश इत्यर्थः ।
शेषविधानं वेति ।
वाशब्द इवार्थः ॥
तदेवं प्रत्यक्षलक्षणं समर्थ्य वासुबन्धवं तावत् प्रत्यक्षलक्षणं दूषयितुम् उपन्यस्यति–अपरे पुनरिति ।
लक्षणं व्याचष्टे ततो ऽर्थादिति ।
यत्तदोर्नित्यसम्बन्धाद् यस्यार्थस्य यद्विज्ञानं व्यपदिश्यते, यदि तत एव तभ्दवति नार्थान्तराद् व्यपदेशासम्बन्धिनः तत् प्रत्यक्षम् ।
अत एव व्यपदेशासम्बन्धिनो ऽर्थान्तरात् शुक्तिरूपात् रजतेन व्यपदिश्यामानं शुक्तिज्ञानं न प्रत्यक्षम्, व्यपदेशकानुत्पत्तेः, व्यपदेशकस्य रजतस्य तत्रासम्भवात् ।
एतस्य प्रत्यक्षाभासस्य व्यावृत्तिः सुप्रसिद्धेति तामुपेक्ष्यानुमानव्यावृत्तिम् आह–एतेनेति ।
कुतः? न हि तत एव व्यपदेशकादेव वह्नेः तद् विज्ञानमनुमानं भवति, किं तु यत्र वह्निरस्ति तत्र ।
ततश्च यत्र तु दृष्टमात्र एव वह्नेरूपरमादुपरतो धूमः तत्रान्यतश्र्च तभ्दवति स्मर्यमाणाद् धूमादसति व्यपदेशके वह्नौ ।
ततो ऽर्थात् इत्यत्र हि अर्थविशेषणं तत इति ।
तत्सङ्गतश्र्च एवकारो ऽयोगव्यवच्छेदे वर्तते, यथा चैत्र धनर्धर एवेति ।
तेन यत्रैव तदयोगः तदप्रत्यक्षमित्यर्थः ।
तदेतल्लक्षणं दूषयति—अत्रार्थग्रहणमनर्थकम् ।
न हि ज्ञानव्यपदेश आत्मना वा इन्द्रियेण वा सम्भवति ।
शङ्कते—अवधारणार्थ इति ।
अयोगव्यवच्छेदेनैतदवधारणम्, विशेषण च तत इति ।
विशेषणसङ्गतश्चेवकारो ऽयोगं व्यवच्छिनत्ति ।
असति चार्थपदे कस्येदं विशेषणम् इति विशेषणसङ्गतो नैवकारो ऽयोगं व्यवच्छिन्दादिति भावः ।
निराकरोति–तन्नेति ।
तत इति सर्वनाम्नः सन्निहीतविशेष्यापेक्षत्वात् ।
अन्यथा अभिधानापर्यवसानाद् यस्य तद् व्यपदिष्यत इति व्यपदेशसम्बन्धी विशेष्यः प्राप्यत एवेति सिध्यत्येव विशेषणत्वम् ।
अभ्युपेत्य त्वदवधारणमात्रे ऽप्यदोष इति मन्यमानेनाब्भक्ष इन्युदाहृतम् ।
अन्यव्यवच्छेदे अपिहि तदेवान्यद्व्यवच्छिद्येत यद्विरोधि, न पुनरन्यमात्रम् ।
यथाहुः,
नियमस्तद्विरोधाच्च कल्पते नाविरोधिनः ।
इति ॥
स्यदेतत् ।
तत इत्युच्यमाने यतस्ततः स्यात्, तथा चानुमानाद्यपि लिङ्गज्ञानादेस्तत उपजायते इति प्रत्यक्षं प्रसज्येतेति तन्निवृत्त्यर्थमर्थादिति वक्तव्यम् ।
न हि तद् अर्थात् जायते ।
अपि तु प्रत्यक्षमेव, इत्यत आह—एतनेनि ।
यस्य तद् व्यपदिश्यते इत्यपेक्ष्य ततःशब्दसामर्थ्येनानुमानादिव्युदासो ऽपि प्रत्युक्तः ।
यच्च ततःशब्दस्य व्यावर्त्यान्तरमुक्तम्, तदपि दूषयति–यत्पुनरेतदिति ।
यदि यस्य व्यापदिश्यते ज्ञानम्, तत् प्रत्यक्षं ततो घट इत्यपि ज्ञानं प्रत्यक्षं प्रसज्येत, तदपि हि घटस्य व्यपदिश्यते, न तु ततो घटाद् भवति ।
तस्य विचारासहतया परमार्थसत्त्वाभावेन संवृतिसतो विज्ञानं प्रति कारणभावाभावात् ।
तेन तन्निराकरणाय तत इत्युक्तम् ।
तदेतत् न बुध्यामहे कथमपक्षिप्तमिति ।
शङ्कते—यदीति ।
रूपादिपरमाणव एव निरन्तरोत्पादाः परमार्थसन्तो भिन्नाः स्वविज्ञानस्याविकल्पकस्य जनकाः ।
तेषां तु नानात्वं स्वेन रूपेण संवृण्वती निर्विकल्पकपृष्ठभाविनी घट इति विकल्पिका बुद्धिः तानेव रूपादीन् एकोदकाहरणादिक्रियाकारिणो भेदिन इव दर्शयन्ती संवृतिरित्युच्यते ।
निराकरोति–न हि रूपादिभ्य इति ।
अनुशयबीजमुद्घाटयति–अथापीति ।
निराकरोति–मनोमोदकेति भवन्तु व्यतिरिक्ताः किमेतावतापीत्यत आह–सर्वं चेति ।
यत्संवृतित्वेन भवतामभिमतं यच्चाविकल्पकं तत्सर्वं स्वविषयाद् भवति ।
तस्मात् ततोग्रहणम् संवृतिनिवृत्त्यर्थम् अनर्थकम् ।
मा भूत् संवृतिनिवृत्त्यर्थम्, मिथ्याज्ञाननिवृत्त्यर्थं भविष्यतीति चोदयति—ननु च मिथ्याज्ञानमतस्मादपि भवति ।
यथा पुरोवर्ति द्रव्यमिदमिति व्यपदिश्यते रजतमिति न, न तु शुक्तिरिति, तेन यद्यपि सामान्यरूपेण तस्य व्यपदिश्यते ज्ञानम्, ततश्र्च तभ्दवति, तथापि येन विशेषणरूपेण तस्य वयपदिश्यते न ततस्तभ्दवति इति अतस्मादपीत्युक्तम् ।
तस्मात् तत एव यभ्दवति तत् प्रत्यक्षम्, न चैवं मिथ्याज्ञानम् ।
तद्धि ततश्र्चततश्र्च भवतीत्यर्थः ।
परिहरति–न ह्यतस्मात् आरोपिताद्रूपात् तत्रासतः तत् मिथ्यज्ञानं भवति, किं तु ततो भवति ।
यस्य सामान्यरूपस्य व्यपदिश्यत इदमिति तत एव ।
समारोपितं तु तजतमस्य विषयो दृश्यमानाकारतया ।
तदिदम् उक्तम्–अतस्मिस्तद् भवतीति ।
एवं च लक्ष्यपदमात्रावशेषात् लक्षणाभाव इत्याह–ततोग्रहणमिति ।
तथा चातिव्याप्तिरित्याह–तथा चेति ।
अभ्युपेत्यत दूषणान्तरमाह–यद्यप्येतदिति ।
यतो भवति ज्ञानं स ग्राह्यो ऽर्थः कारणम्, ग्राहकं च विज्ञानं कार्यम् ।
तयोरयुगपभ्दावात् वर्तमानाभं ज्ञानमतीते मिथ्येति न प्रत्यक्षं स्यात् ।
तत्समानकालयोस्तु कार्यकारणभावाभावात् ।
ततो ऽर्थादिति नास्तीति भावः ।
शङ्कते–नाशोत्पादाविति ।
क्षणिकत्वाद् भावानां कारणसय नाशः कार्यस्योत्पाद इत्येकः कालः, तथापि कारणस्य ग्राह्यता भिन्नकालस्यापि, स्वसदृशज्ञानजनकमेव तस्य तजानं ग्राह्यत्वम्,
नान्यत्, यथाह,
भिन्नकालं कथं ग्राह्यमिति चेद् ग्राह्यतां विदुः ।
हेतुत्वमेव युक्तिज्ञाः ज्ञानाकारार्पणक्षमम् ॥
# प्र। वा। २।२।४७ # इति ।
न चैतावता मिथ्यात्वम्, अर्थाहितस्य नीलाकारस्य वर्तमानत्वादिति भावः ।
निराकरोति–तच्च नेति ।
पूर्वापरकालकलाविकललक्षणा क्षणिकता न क्वचिदपि ।
विद्युज्जालादेरप्याशुविनाशिनो द्वित्रादिक्षणावस्थानादित्यर्थः ।
पूर्वोक्तश्चानुयोगस्तदवस्थ एवेत्याह–विनष्टश्र्चेति ।
अनहङ्कारास्पदमसातादिरूपं विज्ञानाद् भिन्नं नीलाद्यनुभूयते, न तु विज्ञानात्मकम् ।
तथा च यदि विच्छेदग्रहो मिथ्या, तथा सति ज्ञानमेतस्मिन् मिथ्येति कथं प्रत्यक्षम्, सम्यग्ज्ञानभेदस्य तथाभावात्? न चार्था हिताकारवेदनमर्थवेदनम्, भाक्तत्वप्रसङ्गात् ।
न च गौणमुख्यलक्षणा गिरां गतयो ज्ञानेषुशक्या नियोजयितुम् भिन्नप्रस्थानत्वात् ।
तस्मात् निराकारं ज्ञानमात्मनो भिन्नं गोचरयतीति वाच्यम् ।
स चेत् कारणं विनष्टस्य प्रत्यक्षतेति तथा च वर्तमानाभमवर्तमानं गोचरयति मिथ्यात्वमप्रत्यक्षत्वं च स्यादिति भावः ।
यौगपद्ये ऽपि नास्त्युदाहरणम्, सर्वस्य क्षणिकत्वपक्षनिक्षेपादिति चोदयति–तुल्यमिति चेत् ।
निराकरोति–तच्चेति ॥
सम्प्रति दिग्नागस्य लक्षणमुपन्यस्यति–अपर इति ।
दूषयितुं कल्पनास्वरूपं पृच्छति–अथ केयमिति ।
लक्षणवादिन उत्तरम्–नामेति ।
यदृच्छाशब्देषु हि नाम्ना विशिष्टो ऽर्थ उच्यते डित्थ इति ।
जातिशब्देषु जात्या गौरयमिति ।
गुणशब्देषु गुणेन शुक्ल इति ।
क्रियाशब्देषु क्रियया पाचक इति ।
द्रव्यशब्देषु द्रव्येण दण्डी विषाणीति ।
सेयं कल्पना यत्र ज्ञाने नास्त्यर्थतः स्वरूपतो वा तत्कल्पनया अपोढं प्रत्यक्षम् ।
तदिदमाह–यत् किल न नाम्ना अभिधीयते अर्थतः स्वरूपतश्र्च न जात्यादिभिर्व्यपदिश्यते ।
अव्यभिचाराय विषयकारणत्वमाह–विषयस्वरूपानुविधायीति ।
प्रमाणत्वमाह–परिच्छेदकं व्यवस्थापकम् ।
ज्ञानतामस्य दर्शयति–आत्मसंवेद्य स्वसंवेदनादेव तस्य कल्पनारहितत्वमपि ।
यथाह,
प्रत्यक्षं कल्पनापोढं प्रत्यक्षेनैव सिध्यति ।
इति ।
तत् प्रत्यक्षमिति ।
तदेल्लक्ष्यलक्षणपदतत्समुदायव्यापारनिरूपणेन दूषयति–त इदमिति ।
अथ नेति ।
विकल्पयोनयो हि शब्दास्तद्गोचरमभिनिविशनते ।
यद् विकल्पा गृह्णान्ति, यच्चाध्यवस्यति तदुभयमप्यन्यव्यावृत्तिरूपमवस्तु, तस्मान्न अविकल्पकं ज्ञानं तद्गोचरं वा परमार्थसद् गोचरयन्ति विकल्पाः शब्दाश्चेत्ययमभिसन्धिः ।
अपि चास्यावाच्यत्वे भवदभ्युपगतप्रामाण्यागमविरोध इत्याह– अनित्यादीति ।
शङ्कते– अथेति ।
स्वमसाधरणं रूपं व्यावृत्तमिति यावत् ।
ततो निराकरोति–सर्वे ऽर्था इति ।
न हि यथा सम्यग्ज्ञानम् अधिकृत्य प्रत्यक्षादिलक्षणं कृतं कीर्तिना तथा दिग्नागेन येनाधिकारात् ज्ञाने व्यवतिष्ठेत कल्पनापोढमिति भावः ।
ननु यदि स्वरूपतो नाभिधीयेतानभिधेयं तर्हि वस्तु प्रसज्येत ।
तथा चावास्तवः स्यात् शाब्दो व्यवहार इत्यत आह–सर्वस्य चेति ।
सामान्यविशेषतद्वभ्देदाद् वस्तुत्रयम् ।
तत्र तद्वद्वस्त्वधिकृत्योक्तम्–द्वावाकाराविति ।
सामान्येनैवाकारेणाभिधीयते सामान्यान्वितमित्यर्थः ।
ब्राह्मण इति ।
मनुष्यत्वजातिमानित्यर्थः ।
विशेषमाकारमभिप्रेत्य स्वरूपतो न व्यपदेश्यमित्युक्तम्, न तु सर्वथेति भावः ।
प्रकृते योजयति–एवमिति ।
आशङ्क्य पूर्वोक्तमतिप्रसङ्गं समारयति–यदि चेति ।
अथाश्चकर्णादिवदव्युत्पन्नः कल्पनापोढशब्दः प्रत्यक्षस्वरूपस्य वाचक इति शङ्कते–अथेति ।
निराकरोति–एवमपीति ।
भवतु कल्पनापोढशब्दः अव्युत्पन्नो मा वा भूत्, अवाच्यं तु प्रत्यक्षमेषितव्यम्, अन्यथा विकल्पस्य प्रत्यक्षत्वप्रसङ्गात् ।
तथा च व्याघात इत्यर्थः ॥
जैमिनिप्रत्यक्षलक्षणं दूषयति–सत्सम्प्रयोग इति ।
यथाश्रुतस्यातिव्याप्तिः संशब्देनापि प्रयोगस्य समीचीनता प्रतिपाद्यते ।
सा च मिथ्याप्रत्यये ऽपि तुल्या, व्यत्यये ऽपि बुद्ध्या बोद्धस्योपस्थापनात् ।
तद् इति बोध्यं परामृशति ।
अस्ति च मिथ्याज्ञाने ऽपि बोध्येन सम्बन्ध इन्द्रियाणाम्, बोध्यं हि पुरोवर्ति द्रव्यम् ।
अथ यथा बोध्यं तादृशो नास्ति सम्बन्ध इन्द्रियाणाम्, रजतत्वस्य प्रकारस्यासन्निधानात् ।
हन्ताव्यापकत्वं लक्षणदोषः ।
प्रत्यभिज्ञायां तत्ताप्रकारस्य
इन्द्रियेणासम्बन्धात् ।
अपि च प्राभाकरे दर्शने अनुमानादिज्ञानमात्मनि प्रत्यक्षं न भवेत्, न हि तत् सत्सम्प्रयोगजम् ।
तस्मादेतदपि परिभावनीयं सूरिभिरिति ॥
वार्षगण्यस्यापि लक्षणमयुक्तमित्याह–श्रोत्रादिवृत्तिरिति ।
पञ्चानां खल्विन्द्रियाणामर्थाकारेण परिणतानामालोचनमात्रं वृत्तिरिष्यते, सा च संशयादिव्यापकत्वादलक्षणमिति ।
तत् सिद्धमिन्द्रियार्थसन्निकर्षोत्पन्नमित्येतदेव लक्षणमिति प्रत्यक्षलक्षणं समाप्तम्॥४ ॥
न्य्स्_१,१।५: अथ तत्पूर्वकं त्रिविधम् अनुमानं पूर्ववच्छेषवत्सामान्यतो दृष्टं च ॥
प्रत्यक्षलक्षणानन्तरमनुमानलक्षणपरं सूत्रं पठति—अथ तत्पूर्वकं त्रिविधमनुमानमिति ।
अत्रानुमानमिति सिद्ववत् प्रमाणाविशेषरूपलक्ष्यानुवाद एव नाप्रत्यक्षं प्रमाणमित्यप्रामाण्यमनुमानस्य सुदूदं प्रतिक्षिपति ।
दृष्टप्रामाण्याप्रामाण्यविज्ञानव्यक्तिसाधर्म्येण हि कासाञ्चिद् व्यक्तीनां प्रामाण्यमप्रामाण्यं वा विदधीत ।
दृष्टसाधर्म्यं चानुमानम् एवेति कथं तेनैव तस्याप्रामाण्यम्? अपि चानुमानमप्रमाणमिति वाक्यप्रयोगो ऽज्ञं विप्रतिपन्नं सन्दिग्धं वा पुरुषं प्रत्यर्थंवान् ।
न च परपुरुषवर्तिनो देहधर्मा अपि सन्देहाज्ञानविपर्यासा गौरत्वादिवत् प्रत्यक्षमीक्षन्ते ।
न च तद्ववचनात् प्रत्तीयन्ते, वचनस्यापि प्रत्यक्षादन्यस्याप्रामाण्योपगमात् ।
पुरुषविशेषमनधिकृत्य तु वचनमनर्थङ्कं प्रयु।जानो नायं लौकिको न परीक्षक इत्युन्मत्तवदनवधेयवचनः स्यात् ।
परिशिष्टं तु परीक्षापर्वणि निवेदयिष्यते ।
तस्मादकामेनापि प्रमाणमनुमानमुपेतव्यमिति ।
लक्ष्यं प्रमाणभेदमनुमानमनूद्य तत्पूर्वकमिति लक्षणं विधत्ते ।
अथेत्यानन्तर्ये उक्तं प्रत्यक्षम् अनुमानस्य हेतुः ।
अथेदानीमनुमानं हेतुमद्व्युत्पाद्यते इत्यर्थः ।
लक्षणसूत्रतात्पर्यमाह—अनुमानेति ।
तदेव स्फुटयति—अनेनेति ।
समानजातीयानि प्रमाणतया प्रत्यक्षादीनि, असमानजातीयानि चानुमानाभासादीनि, यथा क्षणिकत्वादिषु साध्येषु सत्त्वादीनि ।
स्यादेतदतिव्यापकमेतत् तत्पूर्वकत्वम् ।
तदिति हि प्रत्यक्षं परामृशत्यानन्तर्यात् ।
तथा च प्रत्यक्षपूर्वकत्वमनुमानस्येवागमस्मृतिसंशयविपर्यासानामप्यस्तीति तान्यप्यनुमानं प्रसज्येरन् ।
अनुमानादिपूर्वकं चानुमानं न प्रत्यक्षपूर्वकमिति नानुमानं स्यात्, अनुमानलक्षणेनाव्यातत्वात् ।
तस्मादव्याप्त्यतिव्याप्तिभ्यामलक्षणमेतदित्यत आह—तत्पूर्वकमिति ।
तत्पूर्वकमित्यावृत्या विग्रहत्रयप्रदर्शनम् ।
तत्र प्रथमे विग्रहे तानीत्यनन्तरं सूत्रम् उवल्लङ्घ्य विभागसूत्रगताः प्रत्यक्षादयः सम्बन्धनीयाः योग्यत्वात् ।
यथाहुः,
यस्य येनार्थसम्बन्धो दूरस्थस्यापि तस्य सः ।
इति तदनेन लक्षणस्याव्याप्तिः परिहृता ।
तदिदमाह—यदा तानीति ।
नन्वेदं प्रत्यक्षपूर्वकमिति भाष्यविरोध इत्यत आह—पारम्पर्येणेति ।
पारम्पर्येण हि प्रत्यक्षपूर्वकत्वमुक्तं भाष्यकृता, तस्मान्न विरोध इति ।
अतिव्याप्तिनिरासाय द्वितीयं विग्रहं विवृणोति—यदापीति ।
ते इति विग्रहे अनन्तरसूत्रगतमेव प्रत्यक्षपदं सम्बध्यते ।
यथा च द्वे प्रत्यक्षे पूर्वे यस्य प्रत्यक्षस्य लिङ्गपरामर्शज्ञानस्य प्रत्यक्षफलस्य ।
तदिदं तत्पूर्वकं प्रत्यक्षम्, तद्धि स्वविषये प्रत्यक्षमप्यनुमेयार्थप्रत्ययं कुर्वदनुमानम् ।
तदिदं तदित्युच्यते ।
प्रत्यक्षग्रहणमुपलक्षणार्थम्, अनुमाने इत्याद्यपि द्रष्टव्यम् ।
स्यादेतत् ।
सम्बन्धग्रहणसमये पदतदर्थगोचरं प्रत्यक्षं प्रथमम् ।
अथ तदर्थविषये द्वितीये प्रत्यक्षे सति या तत्पदविषया स्मृतिरुत्पद्यते सापि प्रत्यक्षद्वयपूर्वा ।
एवं लिङ्गल्लिङ्ग्सिम्बन्धस्मृतिरपि प्रत्यक्षद्वयपूर्वेति तदवस्थैवातिव्याप्तिरित्याशयवान् पृच्छति— कतरे द्वे इति ।
उत्तरम्—लिङ्गेति ।
सर्वसन्देहेष्विदमुपतिष्ठते ।
व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्न्देहादलक्षणमिति भावः ।
न च द्वितीयलिङ्गदर्शनं व्यप्तिस्मरणसमये विनश्यदवस्थमप्यस्ति, व्याप्तिसंस्कारोब्दोध समयजन्मना स्वजनितेन संस्कारेणास्य व्याप्तिस्मरणसमये विनाशात् ।
विनश्यदवस्थस्य द्वितीयलिङ्गदर्शनस्य व्याप्तिस्मरणेन सह यौगपद्ये ऽपि तयोः परस्परवार्तानभिज्ञतया मिथो घटनायोगः ।
न चात्मा ते घटयतीति युक्तम् ।
वृत्त्या खल्वयं घटयेत्, न स्वरूपतः । तस्माद् उभाभ्यामुत्पन्नं परामर्शज्ञानमिन्द्रियार्थसन्निकर्षजं तृतीयं प्रत्यक्षम् एषितव्यम् ।
बुभुत्सावतो द्वितीयादिति ।
बुभुत्साप्यनुमानज्ञानोत्पत्तौ कारणमिति दर्शयितुं बुभुत्सावत इत्युक्तम् ।
लिङ्गलिङ्गिसम्बन्धदर्शनमाद्यं प्रत्यक्षम् इत्यत्र सम्बन्धपदेनानुमानाङ्ग सम्बन्धं विवक्षन् परोक्तान् सम्बन्धविकल्पान् अनुमानानङ्गभूतान् प्रतिक्षिपति—प्रत्यक्षमिति च तस्य प्रमाणमाह ।
तथा हि केचिदविनाभावं तादात्म्यतदुत्पत्तिनिबन्धनमनुमानाङ्गमाहुः ।
द्विविधो ह्यर्थः, प्रत्यक्षश्च परोक्षश्च ।
तत्र यो बुद्धौ साक्षादात्मीयं रूपं निवेशयति स प्रत्यक्षः ।
स हि स्वविषयाया बुद्धेः जनक इति तमन्तरेण बुद्धिरात्मानमनासादयन्ती तस्य सत्ता निश्चाययतीति युक्तम् ।
परोक्षस्तु बुद्धौ साक्षात् स्वरूपोपधानसामर्थ्यरहितो ऽयुक्तप्रतिपत्तिरेव ।
न चान्यदर्शने अन्यकल्पना युक्ता, अतिप्रसङ्गात् ।
नान्तरीयकतया त्वन्यो ऽप्यन्यं गमयेत् ।
स हि प्रतिबद्धस्वभावो यथाविधः सिद्धः तथाविधसन्निधानं सूचयति ।
स च प्रतिबन्धो न दर्शनादर्शनमात्रादवसेयः, तथा सति स श्यामो मैतनयत्वात् परिदृश्यमानमैत्रतनयस्तोमवदित्यप्यनुमानं स्यात् ।
इहापि हि स्तो दर्शनादर्शने ।
तस्मात् तादात्म्यतदुत्पत्तिनिबन्धन एव प्रतिबन्धः ।
यथाह कार्यकारणभावाद् वा स्वभावाद् वा नियामकात् ।
अविनाभावनियमो दर्शनान्न न दर्शनात् ॥
तथा च लिङ्गविकल्पं विना न लिङ्गिविकल्पः ।
न लिङ्गविकल्पो लिङ्गानुभवं विना ।
न लिङ्गानुभवो लिङ्गं विना ।
न चाविनाभूतं लिङ्गं विना लिङ्गिनमिति लिङ्गिस्वलक्षणाप्रतिभास्यपि पारम्पर्येण तत्प्रतिबन्धात् तत्राविसंवादको ऽनुमानविकल्प इति ।
कार्यकारणभावश्चेदम् ।
अस्मिन् सति भवति सत्स्वपि तदन्येष्वस्मिन्नसति न भवति एवमाकारो नान्वयव्यतिरेकाभ्यामतिरिच्यते ।
तौ च प्रत्यक्षपृष्ठभाविना विकल्पेनावसीयेते ।
तथा हि सत्यग्नौ धूम इति प्रत्यक्षमेव विकल्पानुगतव्यापारमध्यवस्यति ।
असति चाग्नौ न धूम इत्यपि प्रत्यक्षमेव, न ह्यग्निधूमानुपलम्भावान्यौ ।
अतस्तद्विविक्तवस्तूपलभ्भात् नाप्यनयोर्व्यतिरेको ऽन्यस्तद्विविक्ताद् वस्तुनः ।
एवं तादात्म्यमपि विपर्यये बाधकप्रमाणोपपत्त्या निश्चेतव्यम्, यथा सत्त्वस्य क्षणिकतया सह तादात्म्यं विपक्षैऽक्षणिके क्रमाक्रमयोर्व्यापकयोरनुपलम्भन्निश्चीयते ।
तस्मात् तादात्म्यतदुत्पत्तिभ्यामेव प्रतिबन्धो नान्यत इति ॥
अत्रोच्यते ।
सत्यं यत् किञ्चित् क्वचिद् दृष्टम्, तस्य यत्र प्रतिबन्धः तद्विदस्तस्य तद्गमकं तत्रेत्यनुजानीमः ।
स एव तु प्रतिबन्धो न तावत् तदुत्पत्त्या सम्भवति ।
का पुनरियं तदुत्पत्तिर्धूमस्य? किं वह्न्यनन्तरं भावः? स तादृशो ऽस्ति रासभस्यापीति तत्प्रतिबद्धो ऽपि धूमः स्यात् ।
अथ तदनन्तरमेव भावः, न च रासभानन्तरं भवन्नपि तदनन्तरमेव भवति, तस्मिन् सत्यप्यसत्यग्नौ तदभावात् ।
असत्यपि तस्मिन् सति आद्रेन्धनवति वह्नौ तद्भावात् ।
अथ यद्यपि धूमस्य वह्निभावाभावानुविधानं तत्रोपलब्धं तथापि देशान्तरादिषु तद्भावो ऽस्य कुतस्त्यः? तथा हि भूयो भूयो रासभे दृष्टे धूमो दृष्टः, तदभावे चादृष्टः ।
न च स तत्कार्यः ।
तज्जातीयस्यैव धूमस्य रासभं विना सति वह्नौ भावात् ।
एवं सत्यप्यग्नौ पिशाचेन जनितो धूमः क्वचित् देशादौ तज्जातीय एव रासभवद् वह्न्यभावे ऽपि पिशाचादेव भविष्यतीति,
अवश्यं शङ्कया भाव्यं नियामकमपश्यताम् ।
न च सति भावमात्रं नियामकम्, तस्य रासभादिष्वष्यविशेषात् ।
तदनन्तरमेवेति चावधारणस्य शङ्कापनयनमन्तरेणासम्भवात् ।
अवधारणेन तु शङ्कापनये परस्पराश्रयप्रसङ्गः ॥
स्यादेतत् ।
यो यो धूमो दृष्टः स सर्वस्तावदार्द्रेन्धनसहितवह्न्यनन्तरमेव न पिशाचानन्तरम् ।
स च कादाचित्कतया निमित्तमपेक्षमाणो यदनन्तरमेव गम्यते तदेवाप्रतीतव्यभिचारं निमित्तीकरोति, न तु प्रतीव्यभिचारं रासभादि ।
नापि सर्वथा अनुपलब्धपूर्वपिशाचादि ।
यदि न तन्निमित्तं कस्मात् विनापि वह्नि क्वचिद् धूमो नोपलभ्यते? अथासौ सर्वथा वह्निसहितः, तथा सत्याद्रेन्धनवत् कथं वह्निरपि न कारणम्? कारणं चेत् कथं तदन्तरेण धूमभावशङ्का? अकारणस्य हि कार्यस्य नित्यं सत्त्वमसत्त्वं वा स्यात्, अनपेक्षत्वात्, न कादाचित्कत्वम् ।
नाप्यनेककारणकम्, अकारणकत्वप्रसङ्गादेव ।
वह्न्यनन्तरमेव भाव इति हि धूमस्य वह्निकार्यत्वम् ।
स चेत् अवह्नेरप्यनन्तरं नैवकारार्थः स्यादिति न वह्नेः कार्यम् ।
एवमन्यस्यापि न कार्यम् ।
न हि अन्यानन्तरमेव भवति, वह्नेरप्यनन्तरं भावात् ।
ततश्चाहेतुको धूमः स्यात् ।
तथा च कादाचित्कत्वव्याहतिः ॥
सत्यम्, तत्कार्यत्वसिद्धौ स्यादेवम् ।
तदेव तु तदनन्तरमेव भाव इत्येवंरूपं नास्ति ।
यद्यपि च विना वह्नि नोपलब्धो धूमो यद्यपि च पिशाचानन्तरं नोपलभ्यते तेषामनुपलब्धेः, तथापि पिशाचकार्य एव धूमस्यत्र तत्र वह्निः कुतश्चित् स्वहेतोरूपनिपतितो रासभ इव न तु धूमस्य जनमः ।
तेन तदभावे ऽपि तज्जातीय एव कारणभेदजन्मा कदाचित् कादाचित्को धूमः स्यादिति अनिवृत्तिरेव शङ्कायाः ।
न दृष्टसम्भवे नादृष्टं कल्पयितुं युक्तमिति शक्यं भवद्भिर्वक्तुम्, अनुपलब्धिलक्षणप्राप्तस्य अशक्यनिराकरणत्वात् ।
न चानुपलब्धन्तराण्यपि तन्निषेधे प्रभवन्ति ।
तस्मात् अनन्तरमेवेत्यवधारणाभावात् नैवंरूपं कार्यकारणभावावधारणं युक्तम् ।
न च यद् यदन्यसहितानन्तरम् मुपलब्धं तत् तदन्यरहितात् तस्माद् भवद् भिन्नजातीयं भवति ।
उक्तं हि रासभसहिताद् वह्नेर्यादृशो धूमः तादृश एव तद्विरहिताद् वह्नेरिति ।
तस्मादेवंविधा शङ्कापिशाची स्वनिवारकं तदुत्पत्तिनिश्चयमास्कन्दन्ती न शक्या निवारयितुम् ।
अपि चास्तु तदुत्पत्तिनिश्चयः, तथापि कस्मात् कारणमन्तरेण न कार्यं भवति? तथा च सत्यनपेक्षतया कादाचित्कत्वविहतिरिति चेत्—यथाह,
नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात् ।
अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः ॥
इति ।
अस्तु तर्हि सम्बन्धः स्वाभाविकतया अन्यानपेक्षो ऽव्यभिचारी गमकाङ्गम् ।
स च यो वा स वा भवतु, कृतं कार्यकारणभावावधारणायासेन ।
यथा चैतत् तथात्रैव प्रदर्शयिष्यामः ॥
अपि च कार्यात् कारणमनुमीयमानं ततः पूर्वमेवानुमीयेत, न तु वर्तमानकालम् ।
न हि हेतुसत्ता कार्यकाला कार्योत्पादाङ्गम्, अपि तु तत्पूर्वकाला ।
न हि नदीपूरभेदः स्वसत्तासमयवर्ति वर्षं गमयत्यपि तु तत्पूर्वकालम् ।
तत्कालं तु न तस्य कारणम् ।
अत एव साधकबाधकप्रमाणाभावेन तत्कालवर्तिन वर्षे सन्दिहाना न तदर्थिनः प्रवर्तन्ते ।
एवं धूमादप्यग्निः तत्पूर्वकाल एवानुमीयेत, न तु वर्तमानकालः ।
तथा च सति न तदर्थिनः तत्र निःशङ्कं प्रवर्तेरन् ।
अपि च रसादन्यद्रूपं रससमानकालमनुमिमते ऽनुमातारः ।
न चानयोरस्ति का कारणभावः तादात्म्यं वा ।
यद्युच्येत तत्पूर्वेभ्यो रूपरसगन्धस्पर्शक्षणेभ्यो रसक्षणो जायते, स स्वकारणं पूर्वरूपक्षणमनुमापयन् यादृशा तेन जनितः, तादृशमेवानुमापयति ।
स चानुमापकरसक्षणसमानकालरूपक्षणान्तरजनक एव स्वकारणम् इति तादृशमेव गमयति ।
तथा च कार्यसमानकालरूपानुमानसिद्धिः ।
एतेन धूमानुमानं व्याख्यातम् ।
यथाह,
एकसामग्र्यधीनस्य रूपादेरसतो गतिः ।
हेतुधर्मानुमानेन धूमेन्धनविकारवत् ॥
इति ॥
अत्रोच्यते ।
यो ऽयु गमकरससमानकालो रूपक्षणः, स किं तज्जनकस्य रूपक्षणस्य स्वभाव अत तत्स्वभावावच्छेदको ऽस्वभावभूतः? न तावत् स्वभावः, एकस्मिन्नभिन्ने जन्यजनकभावानुपपत्तेः, तस्य भेदाश्रयात् ।
तदस्वभावभूतः कथं तदनुमाननिवेशी? तदवच्छेदकत्वादित चेत्? ननु नैतावताप्यस्य तुल्यकालस्य रूपस्य कारणभाव इति कथं कार्यं हेतोर्गम्येत? विशिष्टेन कारणस्वभावेनास्वभावो ऽपि असावाक्षिप्यते विशेषणतयेति चेत्? नन्वाक्षिप्यते ज्ञाप्यत इत्यनर्थान्तरम् ।
स किं कारणानुमितेः प्रागथानुमितिसमये पश्चाद् वा? न तावत् प्राक् न हि सत्तामात्रेण कारणं तद् गमयत्यतिप्रसङ्गात्, किं तु स्वज्ञानेन ।
न च कार्यमस्य गमकम्, अकारणत्वादित्युक्तम् ।
अत एवानुमितिसमये ऽप्यगमकम्, स्वज्ञानेन गमकत्वात् ।
उभयोश्च ज्ञानयोः सहभवतोः सव्येतरविषाणवत् कार्यकारणभावाभावात् ।
तथा च रसात् कार्यात् तत्कारणं रूपमनुमातव्यम् ।
तथा च कारणात् कार्यानुमानं तादात्म्यतदुत्पत्तिभ्यामन्यत इति नाभ्यामेव प्रतिबन्धसिद्धिः ।
लौकिकानां चेदं रसाद् रूपानुमानम्, न चैते पिशितचक्षुषः क्षणानामन्योन्यभेदमध्यवस्यन्ति ।
न चानध्यवस्यन्तः प्रवृत्तरूपोत्पादनसामर्थ्यं रसहेतुं रूपमनुमातुमुत्सहन्ते ।
न च लक्षणानुरोधेन लक्ष्यस्यान्यथाकरणं युक्तं परीक्षकारणम् ।
अतिपतितलोकमर्यादानां तेषां तत्त्वानुपपत्तेः ।
यथाहुः,
सिद्धानुगममात्रं च कर्तुं युक्तं परीक्षकैः ।
न सर्वलोकसिद्धस्य लक्षणेन निवर्तनम् ॥
इति ।
अपि चाद्यतनस्य सवितुरूदयस्य ह्यस्तनेन सवितुरूदयेन, चन्द्रोदयस्य च समानकालस्य समुद्रवृद्ध्या, मध्यनक्षत्रदृष्ट्या चाष्टमास्तमयोदयस्य, न कार्यकारणभावः तादात्म्यं वा, अथ च दृष्टो गम्यगमकभावः ।
अपि च तादात्म्ये ऽपि कथं गम्यगमकभावः? न हि तदेव कर्म च कर्तृ चेति युक्तम् ।
तस्य भेदाश्रयत्वात् ।
यद्यपि च वृक्षत्वशिंशपात्वे परमार्थतो न भिन्ने तथापि भेदान्तरप्रतिक्षेपाप्रतिक्षेपाभ्यां कल्पितभेदयोर्गम्यगमकभाव इति चेत्—न, वास्तवमेव वृक्षत्वशिंशपात्वयोर्भेदमुपपादयिष्यामः ।
अपि च काल्पनिकमपि रूपं विचार्यमाणं न यथा भिन्नमेवमभिन्नमपि न भवति, वस्तुनो ऽपि तुच्छत्वप्रसङ्गात् ।
काल्पनिकस्यावास्तवत्वेन तत्त्वानुपपत्तेः ।
तस्मात् कल्पनारूढयोर्नवस्तुतादात्म्यम्, नापि परस्परम् ।
तथा सति सद्द्रव्यपार्थिववृक्षशिशपादिविकल्पानां च पर्यायत्वप्रसङ्गात् ॥
स्यादेतत् ।
कल्पनाभेदविरहिणां भेदमुल्लिखन्त्यपि परस्परमेषामभेदमप्यवगाहते सामानाधिकरण्याकारत्वात्, अभेदानुल्लेखे तदनुपपत्तेः ।
तथा च तादात्म्यं सिद्धमिति ।
तदयुक्तम् ।
उक्तं हि यथा सामानाधिकरण्यं न भावानामभेदसाधकम् ।
जात्यादिशब्दा हि जात्यादीन् निमित्तीकृत्य द्रव्ये वर्तन्ते ।
तच्चाधिकरणमेकमिति सामानाधिकरण्यम् अश्नुवते, न पुनर्जात्यादीनपि मिथो मिश्रयन्ति ।
शब्दसमानविषयाणां विकल्पानाम् अपीयमेव गति ।
तस्माद् यत्र गम्यगमकभावो न तत्र तादात्म्यम्, यत्र तादात्म्यं न तत्र गम्यगमकभाव इति सद्धिम् ।
यत्तु विदितशिंशपाव्यवहारमविदितवृक्षव्यवहारमुच्चायां हि शिंशपायां वृक्षशब्दः प्रयुक्तः, तस्मादुच्चत्वमेव वृक्षशब्दप्रवृत्तिनिमित्तमिति मन्यमानं मूढं प्रति शिंशपात्वेन वृक्षव्यवहारमात्रं साध्यते ।
वामनायामपि शिशपायां वृक्ष इति व्यवहर्तव्यम्, शिंशपामात्रानुबन्धित्वाद् वृक्षत्वस्येति ।
तत्रापि चेद् व्यवहारः साध्यः स शिंशपाया भिन्न इति, न तादात्म्यम् ।
व्यवहारयोग्यता चेत्? सा शिंशपाया अभिन्नेति न गम्यगमकभावः ।
व्यावृत्तिभेदे चोक्तम् ।
तस्मात् तादात्म्यतदुत्पत्तिभ्यां प्रतिबन्ध इति मनोरथमात्रम् ॥
यश्च वैषेशिकैः चतुष्प्रकारः सम्बन्ध उच्यते, अस्येदं कार्यं कारणं सम्बन्ध्येकार्यसमवायि विरोधि चेति लैङ्गिकम् # वै। सू। ९।२।१ # ॥
इति, अत्रापि सम्बन्धिपदेनैव सर्वापसङ्ग्रहात् शेषाभिघानं व्यर्थम् ।
न च सम्बन्धिपदोपात्तस्यातिप्रसक्तिः शेषपदैर्निवार्यते ।
तथा सति शेषपदान्येव सन्तु कृतं सम्बन्धिपदेन, तेभ्य एव सम्बन्धिभेदानामधिगतेः ।
न चैवं चातुर्विध्यं सम्बन्धस्यानुमानङ्गस्य ।
तच्चेष्यते ।
तथा च सम्बन्धिपदस्य सम्बन्धिमात्रावरोधे ऽतिव्याप्तिः ।
अपि च भूतं वर्षम् अभूतस्य वाय्वभ्रसंयोगस्य कथं विरोधि? तद्धि तदनुकूलमेव एवम् अभूतम् वर्षं भूतस्य वाय्यभ्रसंयोगस्याप्रतिकूलम् ।
एवं भूतो नकुलजयो न भूतस्य सर्पपराजयस्य विरोधी ।
नापि अभूतो ऽसौ अभूतस्य विरोधी ।
येषां पुनर्विरोधः, तेषामन्यतमदन्यतमस्य न लिङ्गमपि तु प्रतिक्षेपकमेव ॥
एतेनैव,
मात्रानिमित्तसंयोगिविरोधिसहचारिभिः ।
स्वस्वामिवध्यघाताद्यैः साङ्ख्यानां सप्तधानुमा ॥
इत्यपि पराकृतं वेदितव्यम् ॥
तस्माद् यो वा स वास्तु सम्बन्धः केवलं यस्यासौ स्वाभाविको नियतः, स एव गमको गम्यश्चेतरः सम्बन्धीति युज्यते ।
तथा हि धूमादीनां वह्न्यादिसम्बन्धः स्वाभाविकः, न तु वह्न्यदीनां धूमादिभिः ।
ते हि विनापि धमादिभिरूपलभ्यन्ते ।
यदा त्वाद्रेन्धनादिसम्बन्धमनुभवन्ति, तदा धूमादिभिः सह सम्बध्यन्ते ।
तस्माद्वह्न्यादीनामाद्रेन्धानाद्युपाधिकृतः सम्बन्धो न स्वाभाविकः, ततो न नियतः स्वाभाविकस्तु धूमादीना वह्न्यादिसम्बन्धः, तदुपाधेरनुपलभ्यमानत्वात् ।
क्वचिद् व्यभिचारस्यादर्शनात् मानो ऽपि दर्शनानर्हतया साधकबाधकप्रमाणाभोवन सन्दिह्यमान उपाधिः सम्बन्धस्य स्वाभाविकत्व प्रतिबध्नातीति साम्प्रतम् ॥
अवश्यं शङ्कया भाव्यं नियामकमपश्यताम् ।
इति दत्तावकाशा खल्वियं लौकिकप्रमाणामर्यादातिक्रमेण शङ्काशिची लब्ध्रपसरा न क्वचित् नास्तीति नायं क्वचित् प्रवर्तेत ।
सर्वत्रैव कस्यचित् कथञ्चिदनर्थस्य शङ्कास्पदत्वात् ।
अनर्थशङ्कायाश्च प्रेक्षावतां निवृत्त्यङ्गत्वात् ।
अन्ततः स्निग्धान्नपानोपयोगे ऽपि मरणादिदर्शनात् ।
तस्मात् प्रामाणिकलोकयात्रामनुपालयता यथादर्शनं शङ्कनीयम् ।
न त्बदृष्टपूर्वमपि ।
न त्वदृष्टपूर्वमपि ।
विशेषस्मृत्यपेक्षो हि संशयो नास्मृतेर्भवति ।
न च स्मृतिरननुभूतचरे भवितुमर्हति ।
तस्मादुपाधि प्रयत्नेनान्विष्यन्तो ऽनुपलभ्यमाना नास्तीत्यवगम्य स्वाभाविकत्वं सम्बन्धस्य निश्चिनुमः ॥
स्यादेतत् ।
अन्येनान्यस्य सहकारेण चेत् स्वाभाविकः सम्बन्धो भवेत्, सर्वं सर्वेण स्वभावतः सम्बध्येत ।
तथा च सर्वं सर्वस्माद् गम्येत ।
अथान्यस्य चेदन्यत् कार्यम्, कस्मात् सर्वं सर्वस्य न भवति, अन्यत्वाविशिषात् ।
ततश्च स एवातिप्रसङ्गः ।
यद्युच्येत, न भावस्वभावाः पर्यनुयोज्याः, तस्मादन्यत्वाविशेषे ऽपि किञ्चिदेव कारणं कार्यञ्च किञ्चिदिति ।
नन्वेष स्वभावानामनुयोगो भिन्नानामकार्यकारणभूतानामपि स्वभावप्रतिबन्धे तुल्य एव ।
तस्माद् यत्किञ्चिदेतत् ।
कः पुनः प्रमाणेन स्वाभाविकः सम्बन्धो गृह्यते? प्रत्यक्षसम्बन्धिषु प्रत्यक्षेण, यथाह—लिङ्गलिङ्गिसम्बन्धदर्शनमाद्यमिति ।
यदा तावत् प्रथमं वह्निधूमयोः सहाद्रेन्धनयोः सम्बन्धं पश्यति तदा द्वयोरपि किं स्वाभाविकः सम्बन्ध औपाधिको वा? अथ धूमस्यौपाधिको वह्नेः स्वाभाविकः, वह्नेर्वौपाधिको धूमस्य तु स्वाभाविक इति न शक्यं निर्धारयितुम् ।
तत्र वह्नेरनार्द्रेन्धनस्य विनाधूममयोगोलकादौ दर्शनाद् आद्रेन्धनोपाधिरस्य धूमेन सम्बन्धो, न तु स्वभाविक इति निश्चीयते ।
धूमविशेषस्य तु विना वह्निमनुपलभ्भाद् उपाधिभेदस्य चादृश्यमानस्य कल्पनायां प्रमाणाभावाद् विशेषस्मृत्यपेक्षस्य च संशयस्यानुपलब्धपूर्वे अनुत्पादात्, उत्पादे वा अतिप्रसङ्गात् प्रेक्षावतां प्रवृत्त्युच्छेदात् स्वाभाविकः सम्बन्धः अवधार्यते ।
तदिदमवधारणं न मानसम्, अनपेक्षस्य मनसो बाह्ये प्रवृत्तावन्धबधिराद्यभावप्रसङ्गात् ।
भूयोदर्शनसापेक्षस्य च प्रवृत्तौ प्रमाणान्तरापातात्, न हि मनो निमित्तम् इत्येव मानसं प्रत्यक्षं भवति ।
तथा सति न किञ्चिन्मानसम्, प्रत्ययमात्रस्य मनोनिमित्तत्वात् ।
तत्तदसाधारणकारणापेक्षयो तु तत्प्रमाणव्यपदेशे अत्रापि भूयोदर्शनम् असाधारणमिति प्रमाणान्तरं जातम् ।
तस्मादभिजातमणिभेदतत्त्ववद्भूयोदर्शनजनितसंस्कारसहायमिन्द्रियमेव धूमादीनां वह्न्यादिभिः स्वाभाविकसम्बन्धग्राहीति युक्तमुत्पश्यामः ॥
एवं मानान्तरविदितसम्बन्धिषु मानान्तराण्येव यथास्वं भूयोदर्शनसहायानि स्वाभाविकसम्बन्धग्रहणे प्रमाणमुन्नेतव्यानि ।
स्वभावतश्च प्रतिबद्धा हेतवः स्वसाध्येन यदि साध्यमन्तरेण भवेयुः, स्वभावादेव प्रच्यवेरन्निति तर्कसहाया निरस्तसाध्यव्यतिरेकवृत्तिसन्देहा यत्र दृष्टाः तत्र स्वसाध्यमुपस्थापयन्त्येव ।
न च श्यामादिषु मैत्रतनयादीनां स्वाभाविकप्रतिबन्धसम्भवः, अन्नपानपरिणतिभेदस्योपाधेः श्यामताया मैत्रतनयसम्बन्धं प्रति विद्यमानत्वेन मैत्रतनयत्वस्यागमकत्वात् ।
एतेन पक्वान्यस्य वृक्षस्याग्रवर्तीनि फलानि एतद्वृक्षप्रभवत्वात् पतितफलवदित्यादयो ऽप्यौपाधिकसम्बन्धा व्याख्याताः ।
तस्मात् सर्वमवदातम् ॥
नन्वन्तिमप्रत्यक्षमतीताभ्यां प्रत्यक्षाभ्यां कथमनुगृह्यते इत्यत आह—स्मृत्या चेति ।
चो हेत्वर्थे ।
यद्यपि स्वरूपतो लिङ्गदर्शने अतीते, तथापि तज्जनिता स्मृतिः अनुगृह्णाति यस्मादतस्ताभ्यामनुगृह्यते ।
अनुग्रहश्च करणमेव ।
सम्बन्धसमृतिसहकारिणा इन्द्रियेण स्वसाध्याविनाभूतलिङ्गविज्ञानं यदुपजन्यते तत् परामर्श
इत्याख्यायते ।
तथाभूतलिङ्गगोचर एव चतुर्थो वाक्यावयव उपनय इत्याख्यायते ।
अत्र पृच्छति—कः पुनरिति ।
अनुमानशब्दस्यार्थो न तावदनुमितिः ।
न खलु लिङ्गपरामर्शो ऽनुमितिः, प्रत्यक्षफलत्वात् ।
तस्मादनुमीयते अनेनेति करणार्थो वक्तव्यः ।
स च लिङ्गविषयः क्रिया च लिङ्गिविषयेति विषयवैषम्यात् न क्रियाकरणभाव इति भावः ।
उत्तरम्—अनुमीयत इति ।
तेनैवाभिप्रायेण पृच्छति—किं पुनरिति ।
उत्तरम्—अग्नीति ।
प्रष्टा स्वाभिप्रायमुद्घाटयति—कथं पुनरन्यविषयमिति ।
एकदेशिन उत्तरम्—नानियमादिति ।
वृक्षोद्देशेन प्रवर्तितः परशुः कर्त्रा न तदवयवोद्देशेन, तस्माद् वृक्षविषयः परशुर्न तदवयवविषयः ।
द्वैधीभावश्चावयवेषु न वृक्षे, तस्य ततो विनाशात् इति भावः ।
क्वचित् पुनर्यद्विषयमिति ।
औष्ण्यापेक्षो वह्निसंयोगः करणं तण्डुलेषु ।
रूपादिपरावृत्तिरूपः पाकः तेप्पेव ।
तण्डुलेन पिठरं लक्षयति ।
न केवलं समानविषयत्वानियमः कर्तुः करणं भिन्नमित्यपि नियमो नास्तीत्यनियमाभिधानप्रसङ्गेनाह-क्वचित् पुनरिति ।
स्थितिः सावयवेषु समवायो वा प्रदेशविशेषे संयोगो वा ।
एवमनियमं दृष्टान्त उक्त्वा दार्ष्टान्तिके योजयति—एवमन्यविषयस्येति धूमविषयस्य प्रमाणस्याग्निविषया क्रिया प्रमितिः ।
यदा अग्निविषयमेव ज्ञानं प्रमाणं तत्राह—क्वचित् पुनरिति ।
आक्षिपति—किं पुनरिति ।
अत्र हेतुमाह—प्रमितत्वात् ।
उत्तरम्—प्रमीयते ।
तद्विभजते—हेयत्वेनेति ।
अनियमवादिन एकदेशिनो मतं नियमवादी दूषयति—तन्नेति ।
हेतुमाह—प्रमाणफलयोरिति ।
यदि अन्यविषयं करणमन्यविषया क्रिया भवेत् ततश्छेदने खदिरं प्राप्ते पनसादावपि च्छिदा स्यादित्यतिप्रसङ्गः स्यात् ।
यद्यपि वृक्षोद्देशेन कर्त्रा परशुः प्रयुक्तस्तथाप्ययं वृक्षमिव तदवयवानपि प्राप्त इति तद्विषयो भवति ।
तेन तदवयवद्वैधीभावमुखेन वृक्षविषयामपि द्वैधीभावक्रियां जनयतीति न वैयधिकरण्यं करणफलयोः ।
एवं यद्यपि लिङ्गविषयं प्रत्यक्षफलतया लिङ्गज्ञानम्, तदनुबद्धस्य तस्य मानसप्रत्यक्षगोचरत्वात्, लिङ्गनिरूपणमन्तरेण तदनिरूपणात् ।
न तु लिङ्गज्ञानं लिङ्गिनं विना न निरूप्यते ।
तस्मात् प्रतिपत्तयनुबन्धितया विषयो न लिङ्गज्ञानस्य लिङ्गी, किं तु लिङ्गमेव ।
तथपि लिङ्गिविषयप्रतिपत्तिजनकत्वात् लिङ्गज्ञानं भवति लिङ्गिविषयम् ।
न चातिप्रसङ्गः, स्वाभाविकसम्बन्धशालित्वात् लिड्स्य लिङ्गिनि ।
तस्माद् द्विविधो विषयभावः प्रतिपत्त्यनुबन्धितया, प्रतिपाद्यतया च ।
तत्र पूर्वः फलस्य, उत्तरस्तु प्रामाण्यस्येति विवेकः ।
तस्मात् सुष्ठुक्तम्—प्रमाणफलयोर्विषयभदानभ्युपगमादिति ।
स्थितौ तु भेदो दर्शयिष्यते कर्तुः करणस्य चेति ।
तदेवं तानि ते इति विग्रहद्वयं परस्परापेक्षमुपपाद्य तानि तदिति विग्रहद्वयं परस्परापेक्षमुपपादयति—यदा पुनरिति ।
लिङ्गलिङ्गिसम्बन्धदर्शनं च अनन्तरलिङ्गदर्शनं च तत्स्मृतिश्चेति विग्रहः ।
अत्रापि सर्वसन्देहेष्विदमुपतिष्ठते, व्याख्यानतो विशैषप्रतिपत्तिर्न हि सन्देहादलक्षणमिति भावः ॥
ननु यदि प्रमाणफलयोरेकविषयत्वं तर्हि परामर्शज्ञानविषयीकृत एवार्थो विषयीकर्तव्यो नान्यः ।
स च प्रत्यक्षप्रमाणविषय एवेति कृतमनुमानेनेत्याशयवान् पृच्छति—किं पुनरिति ।
तैर्विशिष्टेन लिङ्गपरामर्शेनेत्यर्थः ।
उत्तरम्—शेषो ऽर्थः ।
प्रत्यक्षप्रमितात् लिङ्गादन्यो लिङ्गी तद्विषयत्वं च लिङ्गपरामर्शस्योक्तमिति ।
पृच्छति—अनुमानमित्यत्र किं कारकम्? अनुमीयते ऽनेनेति करणकारकमेव युक्तम्, तस्यैव लिङ्गदर्शनद्वयस्मृतिपूर्वकत्वात्, न त्वनुमितिरनुमानं प्रमाणव्यापारत्वेनातन्निमित्तत्वात् करणकारकादन्यत्वाद् अतत्पूर्वकत्वाच्चेति भावः ।
उत्तरम्—भावः करणं वा ।
ननूक्तं न भावः कारकमित्यत आह—यदेति ।
न द्रव्यादीनामेव कारकत्वम्, अपि तु व्यापारस्यापि ।
अन्यथा कर्मनामधेयेषूद्भिदादिशब्देषु न कारणविभक्तिः श्रूयेत, उद्भिदा यजेत दर्शमौर्णमासाभ्यां यजेतेत्यादि ।
सम्भवति हि तस्यापि सिद्धस्य फलभावनायां निमित्तत्वम् ।
एवं वह्निप्रमायाः सिद्धायाः सम्भवति हानादिबुद्धिनिमित्तभावः ।
एतस्मिश्च कल्पे तत्पूर्वकमित्यत्र तदा हानादिसम्बन्धावधारणसमये प्रथमं वह्नित्वस्य लिङ्गस्य दर्शनम्, अथानुमानिकं द्वितीयम्, अथ सम्बन्धस्य स्मृतिरिति त्रयमेकीकृत्य परामर्ष्टव्यम् ।
तत्पूर्वको हि तथा चायमनुमीयमानो वह्निरिति लिङ्गपरामर्शः ।
तस्माद् दाहपाकादिकारित्वादुपादेयो वह्निरिति ज्ञानमनुमानस्य फलम् ।
ततश्च तत्पूर्वकत्वमपि सिद्धं भवतीति भावः ।
करणकारकपक्षे फलमाह—यदा करणमिति ।
अत्र विमृशति-लिङ्गेति ।
तत्पूर्वकत्वानुमितिनिमित्तत्वसमानधर्मदर्शनात् संशयः ।
अत्र आचार्यदेशीयमतमाह—एके तावदिति ।
सत्स्वपीतरेषु स्मृतेरभावादनुमितेरनुत्पादनेन स्मृतिरेव अनुमानम्, इतरे तु तदनुग्राहका इत्यर्थः ।
मतान्तरमाह—अपर इति ।
सत्स्वपीतरेषु लिङ्गपरामर्शं विना अनुमित्यनुत्पादात्, लिङ्गपरामर्श एवानुमानमितरैरनुगृहीत इत्यर्थः ।
स्वमतमाह—वयं त्विति ।
अन्वयव्यतिरेकाभ्यामशक्यो गुणप्रधानभावो विवेक्तुम्, तयोः सर्वत्र तुल्यत्वादिति भावः ।
तत् किमिदानीं नास्त्येव गुणप्रधानभाव इत्यत आह—प्रधानेति ।
नान्वयव्यतिरेकावत्र प्रभवतो न तु न्यायान्तरमिति भावः ।
पृच्छति—कः पुनरत्रेति ।
उत्तरमाह—आनन्तर्येति ।
नेहास्ति तिरोहितं किञ्चित् ॥
अतिव्याप्ति चोदयति—यदीति ।
ननु भवतु प्रत्यक्षद्वयपूर्वकः संस्कारो ऽनुमानम्, तेनापि शेषो ऽर्थो ऽनुमास्यत इत्यत आह—स्मृतिहेतुः नानुमितिहेतुरित्यर्थः ।
परिहरति—नैष दोष इति ।
विशिष्टज्ञानं विज्ञानम् विशषश्च स्मृतेरन्यत्वम्, न हीन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानं स्मृतिः ।
तस्याः संस्कारमात्रप्रभवतया अन्यस्मादनुत्पत्तेः ।
तेन च ज्ञानेन स्वकारणं विशेषितम्, प्रत्यक्षसूत्रे यत इत्यध्याहारात् ।
तस्मादिहापि स्वकारणविशेषकं स्मृतेरन्यद् विज्ञानमधिकृतम् ।
न च संस्कारः प्रत्यक्षपूर्वो ऽपि तादृशज्ञानकारणमिति न तस्य प्रसङ्ग इत्यर्थः ।
निर्णये ऽनुपजनितफले प्रसङ्ग निवारयति-निर्णय इति ।
विभागसूत्राक्षिप्तप्रमाणसामान्यलक्षणपूर्वकं विशेषप्रमाणलक्षणं तदपेक्षं प्रवर्तमानं नानुपजनितफले ऽप्रमाणे निर्णयमात्रे प्रवर्तितुमर्हति, जनितफलस्तु निर्णयः प्रमाणमेवेति भावः ।
स्वविषयपरिच्छेदकत्वात् फलं परिच्छेद एव परिच्छेदकः ।
स्वार्थिकः प्रत्ययः ॥
त्रिविधमिति सूत्रावयवमर्थगौरवादराद् वार्त्तिककार उद्भाष्यं व्याचष्टे—त्रिविधमितीति ।
अन्वयव्यतिरेकिणं लक्षयति—तत्रेति ।
विवक्षितोपपत्तिः पक्षधर्मता ।
तज्जातीयोपपत्तिः अन्वयः ।
विपक्षावृत्तिः व्यतिरेकः ।
अन्वयिमात्रात् व्यतिरेकिमात्राच्च व्यावृत्तो ऽन्वयव्यतिरेकी दर्शनीय इति हेतुत्रयसाधारणे अबाधितविषयत्वात्सत्प्रतिपक्षत्वे सती अपि हेतुरूपे न दर्शिते ।
विवक्षितप्रत्ययमन्तरेण चान्वयव्यतिरकयोः तज्जातीयातज्जातीयवृत्तिव्यावृत्त्योरशक्यप्रतीतित्वाद् विवक्षितोपादानम् ।
तत्प्रसङ्गेन च तद्धर्मता हेतुत्रयसमानपि दर्शिता ।
तस्योदाहरणमाह—यथेति ।
प्रत्यक्षत्वादिति हेतुरात्मनि नित्ये ऽस्तीत्यत उक्तम्—बाह्यकरणेति ।
तथापि सामान्यविशेषैर्घटत्वादिभिर्व्यभिचार इत्यत उक्तम्–सामान्यविशेषवत्त्व इति ।
तथापि परमाणुभिर्बाह्यकरणप्रत्यक्षैर्योगिनां व्यभिचार इत्यत उक्तम्–अस्मदादीति ।
तथा चायं नित्येभ्य आकाशादिभ्यो घटादिषु चानित्येष्वन्वित इति भवत्यन्वयव्यतिरेकी ।
अन्वयिनं लक्षयति–अन्वयीति, विपक्षहीन इति ।
विपक्षाभावेन ततो व्यतिरेकाभावं दर्शयति ।
सद्भ्यामभावो निरूप्यते नैकेन सतेत्युक्तम् ।
तेन हेतोर्यतो विपक्षान्निवृत्तिः स एव नास्तीति कुतो निवर्तताम्, पक्षादन्यस्य सर्वस्यैव सपक्षत्वात्? न निवर्तत इति चेत्? अस्तु तर्हि हेतोस्तत्र वृत्तिः, निवृत्तिनिषेधरूपत्वाद् वृत्तेरिति चेत्? यस्याभावाधिकरणत्वमपि न सम्भवति निरूपाख्यस्य तस्य भावाधिकरणत्वशङ्केति सुभाषितम् ।
न खलु मुमुर्षोसतोयाभ्यवहारे ऽप्यसमर्थस्य शष्कुलीभक्षणं शङ्कते चेतनः ।
तत् किमिदानीं भावाभावौ न परस्पराभावात्मानौ यदेकनिषेधेनान्यविधिः स्यात्? सत्यम्, यत्रैकतर एतयोर्निषिध्यते विधीयते वा तत्र तदितरविधर्निषेधो वावश्यं भवेत् ।
न त्विह परमार्थतः कस्यचित् निषेधः ।
न चात्र निरूपाख्यो हेतोर्व्यतिरेको निषिध्यते ।
ननु निरूपाख्यो निषेधाधिकरणमिति च वचः स्वचरितविरुद्धम् ।
न चैतत् तत्त्वतो निरूपाख्ये हेतोर्व्यतिरेकं वा हेतुं वा व्यासेधामो नाप्यन्वयं विदध्मः ।
नो खल्वयं सकलप्रतिपत्त्यभाजनं क्वचिदप्युपयुज्यते ।
उपयोगे वा निरूपाख्यो न भवेत् ।
कस्तर्हि न निरूपाख्ये हेतोर्व्यतिरेक इत्यस्यवचनस्यार्थः? अथ निरूपाख्ये हेतोर्व्यतिरेक इत्यस्य भवद्भाषितस्य को ऽर्थः? अहृदयवाचां खलयहृदया एव प्रतिवाचो भवन्ति भवन्ति ।
यक्षानुरूपो बलिरिति हि लौकिकानाम् आभाणकः ।
न चात्यन्तादृष्टपूर्वाणां कल्पनाजालगोचरत्वमिति चोपपादितमन्यथाख्याति ।
निरूपणवासरे ।
कल्पितगोचरश्च व्यतिरेको ऽपि काल्पनिक इति नानुमानाङ्गम् ।
स्वाभाविकरूपसम्पन्नं हि प्रमाणं तत्त्वज्ञानरूफलाय कल्पते न कल्पितरूपसम्पदा, तस्याः सर्वत्र सुलभत्वादिति ।
तत्त्वविषयत्वं चानुमानस्योपपादयिष्यते ।
तस्मादनुपाख्ये विपक्षे हेतोर्व्यतिरेकनिवृत्तौ वा व्यतिरेके वा हेतुप्रवृत्तौ वा सहृदयानां मूकतैवोचिता ।
न चैतावता हेतोरगमकत्वम् ।
न हि व्यतिरेको ऽस्तीत्येव गमको भवति ।
मा भूदसाधारणस्यापि गमकत्वम्, किं तु स्वसाध्येन सह स्वाभाविकसम्बन्धशालितया ।
सा चान्वयव्यतिरेकाभ्यामिवान्वयमात्रेणप्युपाधिरहितेन शक्या ज्ञातुमिति कृतमत्र व्यतिरेकेण ।
विपक्षसम्भवे तु तत्रापि हेतुवृत्तिशङ्कानिराकरणाय व्यतिरेकग्रहणम् उपासनीयमिति सर्वमवदातम् ॥
उदाहरणमाह—यथेति ।
स्वमते त्वभिधेयो विशेषः प्रमेयत्वात् सामान्यवत् ।
परमाण्वाकाशादयः कस्यचित् प्रत्यक्षाः प्रमेयत्वात् घटवदित्यादयो द्रष्टव्याः, विश्वस्यैव सदसत्प्रभेदभिन्नस्य यथास्वं पक्षसपक्षयोरन्तर्भावेन विपक्षाभावादिति ।
व्यतिरेकिणं लक्षयति—व्यतिरेकीति ।
तमिमं व्यतिरेकिणं हेत्ववयवलक्षणव्याख्यानावसरे वार्त्तिककृद् उपपादयिष्यतीति नेहोपपादितः ।
तदेवं त्रिविधमित्यवच्छिद्य व्युत्पाद्य सम्प्रति पूर्ववदित्यादिना एकवाक्यतया व्याचष्ट—अथ वा त्रिविधमिति ।
तिसृष्वपि विधासु साध्यवचनस्य पूर्वमपपादनात् पूर्वं साध्यं तद् यस्यास्त्यधिकरणतया तत्पूर्ववत् ।
तथाप्यनित्याः परमाणवो गन्धवत्त्वाद् घटवदित्यपि हेतुः स्यात् ।
अस्ति हि साध्यं तस्यापि, पार्थिवानामप्यणूनामनित्यत्वेन सिषाधयिषितत्वादित्यत आह—व्याप्त्येति ।
अस्ति गन्धवत्त्वस्य साध्यं न तु व्याप्त्या, पृथिवीमात्रवृत्तिततया चतुर्षु परमाणुषु तदभावात् ।
साध्यस्योपयुक्तत्वात् ततो ऽन्यस्तज्जातीयः शेषः, साध्यसामान्येन समान इति यावत् ।
तदिदमाह—साध्यतज्जातीय इति ॥
पदानि विभज्यार्थमाह—पूर्ववन्नामेति ।
सामान्यतो ऽदृष्टमिति न।मन्तर्भाव्य व्याचष्ट—सामान्यतश्चेति ।
तथा च बाधितविषयं प्रकरणसमं चानुमानं स्यादित्यत आह—चशब्दादिति ।
वार्त्तिके चशब्देनासत्प्रतिपक्षत्वमति सूचितम् ।
तेन सूत्रस्थेन चशब्देनाबाधितविषयत्वमसत्प्रतिपक्षत्वमपि रूपद्वयं समुच्चितमित्युक्तं भवति ।
नन्वेवं त्रिविधो ऽपि हेतुः पञ्चलक्षणः स्यादित्यत आह—एवमिति ।
एतदुक्तं भवति अबाधितविषयमसत्प्रतिपक्षं पूर्ववदिति च ध्रुवं कृत्वा शेषवदित्येका विधा, सामान्यतोदृष्टमिति द्वितीया, शेषवत्सामान्यतोदृष्टं चेति तृतीया ।
त्रिविधमनुमानम् ।
तत्र चतुर्लत्रण द्वयम् ।
एकं पञ्चलक्षणमिति ।
तदेवं स्वमतेन सूत्रं व्याख्याय भाष्यकृन्मतेन व्याचष्ट—अथ वेति ।
आक्षेप्तुं स्वरूपतो व्याचष्टे—तत्रेति ।
पूर्वं कारणं कार्यात् ।
तद् यस्यास्ति विषयतया परामर्शज्ञानस्यानुमानस्य तत् पूर्ववदित्यर्थः ।
विकल्प्या आक्षिपति—यदि तावदिति सर्वत्रानुमानप्रसङ्गादिति भावः ।
अतिप्रसड्भिया कल्पान्तरमातिष्ठते—अथ पुनरिति ।
दूषयति—एतदपीति ।
दूषणान्तरं समुच्चिनोति—कारणदर्शनाच्चेति ।
नासिद्धाश्रयो हेतुर्गमक इति भावः ।
परिहरति–नेति ।
द्वयमपि नाभ्युपेयत इत्यर्थः ।
किं तर्हि अभ्युपेयते इत्यत आह–कार्यं त्विति ।
एनं प्रकारमन्यत्राप्यतिदिशति–एवमिति ।
पृच्छति–कथमिति ।
उत्तरम्–द्वयोरिति ।
पूर्वशब्देन कारणभिघायिना प्रतिसम्बन्धितया कार्यमप्युपक्षिप्तम् ।
अतो द्वयोरप्युपक्षिप्तयोः कारणस्योपयोगादनुमानभावेनेति योचना ।
उदाहरणमाह–उदाहरणमिति ।
यद्यपि कारणमात्रं व्यभिचारति कार्योत्पादम्, तथापि यादृशं न व्यभिचरति तत्र निपुणेन प्रतिपत्रा भवितव्यम् ।
अन्यथा धूममात्रमपि वह्निसत्तां व्यभिचरतीति न धूमविशेषो गमको भवेत् ।
रसाद्रूपानुमाने तु वैनाशिकानामापादितं कारणात् कार्यानुमानमस्माभिः ।
अपि चान्त्यतन्तुसंयोगानन्तरं पटो जायते तत्रापि शक्यं कारणात् कार्यानुमानम् ।
यदा खल्वयमन्यत एवोद्बुद्धसंस्कारो व्याप्तिस्मृतिमान् अविरलेष्वितरेषु तन्तुषु अन्त्यतन्तावुत्पन्नायां क्रियायामिन्द्रियसन्निकर्षात् प्रथममेव परामृशति तथा चेयमिति, तदैव क्रियातो विभाग इत्येकः कालः ।
अथ यदा विभागात् पूर्वसंयोगविनाशः, तदा परामर्शात् तस्मादवश्यम्भाविपटविशिष्टेयं क्रियेत्यनुमानोत्पाद इत्येकः कालः ।
अथान्त्यस्य तन्तोस्तन्तुसंयोगः, अथ पटोत्पादः, तत्र रूपाद्युत्पादः, अथ प्रत्यक्षदर्शनम् इत्यनुमानोत्पादस्य परस्ताच्चतुर्थे क्षणे प्रत्यक्षम् ।
यदि तु क्रियोत्पादानन्तरमालोचनमिष्यते, तथापि तृतीये क्षणे प्रत्यक्षस्य उत्पाद इति नानवसरमनुमानम् ।
अपि च बधिरो मुरजमुखमभिहत्य स्वपाणिनाभिघातादेव शब्दकारणात् तत्कार्यं शब्दं निःशङ्कमनुमिमीते ।
एवमन्यान्यपि कारणात् कार्यानुमानानि ऊहनीयनीति ॥
शेषवदुदाहरणमाह–नद्या इति ।
चोदयति–कथं पुनरिति ।
परिहरति–नेति ।
अनुमीयते ऽनेनेति अनुमानं नदीपूरः ।
न तु वृष्टिरनुमीयमाना पूरविशेषात् नातीता शक्यानुमातुम्, अनुमानसमये तदत्ययस्याशक्यनिश्चयत्वात् ।
नापि वर्तमाना तदत्ययस्यापि तदानीं सम्भवात् ।
एवं भविष्यन्त्यपि साधकबाधकप्रमाणाभावेन सन्दिग्धैव ।
तस्मात् त्रेकाल्यस्याशक्यनिश्चयत्वात् अनुपपन्नमनुमानमित्यत आह–भविष्यतीति ।
कारणस्य हि कार्यात् पूर्वकालता शक्या निश्चेतुम् कार्येण लिङ्गेन ।
तेन अतीतादिसन्देहः क्षतिमावहति ।
यः कश्चिदिति योग्याभिप्रायम् ।
स च कार्यस्य पुरस्तात् ततो निश्चयव्याप्त इत्यर्थः ॥
सामान्यतोदृष्टोदाहरणं भाष्यकारीयं दुःखबोधम्, शेषवदुदाहरणान्तर्गतं च ।
अत्रापि कार्येण सवितुर्देशान्तरप्राप्त्या तत्कारणस्य व्रज्याया अनुमानात् ।
न चैतावता अनुमानस्य त्रैविध्यं भवति, उदाहरणमात्रस्यानन्त्येनानन्त्यप्रसङ्गात् ।
तस्माद् भाष्यकारव्याख्यानमरोचयमानो वार्त्तिककृत् अन्यथाव्याख्यायोदाहरणान्तरमाह–सामान्यतोदृष्टं नामेति ।
साध्यधर्माविनाभाविना विशेषणेन साधनधर्मेण विशिष्यमाणो धर्मो गम्यते गमकत्वेन ।
हेतुविशिष्टो हि धर्मो गमकः, जिज्ञासितधर्मविशिष्टश्च गम्यः ।
यथाहुः,
स एव चोभयात्माष गम्यो गमक इष्यते ।
असिद्धेनैकदेशेन गम्यः सिद्धेन बोधकः ॥
इति ।
अविनाभावित्वं स्वभावप्रतिबद्धत्वं सर्वेषामेव हेतूनां सामान्यम् ।
तत्र धर्मधर्मिणोरभेदविवक्षया हेतुरेव सामान्यमुक्तः ।
सामान्येनाविनाभाविना हेतुना अवच्छिन्नं दृष्टं धर्मिरूपमनुमानं सामान्यतो दृष्टमनुमानम् ।
तृतीयायास्तसिः ।
तदेतत् पूर्ववच्छेषवतोरपि प्रापकमपि तत्पदसन्निधानात् गोबलीवर्दन्यायेन ते परित्यज्यान्यत्र निविशते ।
तदिदमुक्तम्–अकार्यकारणभृतेनेति ।
उदाहरणमाह–यथा बलाकयेति ॥
भाष्यकारीयमुदाहरणमुपन्यस्याक्षिपति–अपरे पुनरिति ।
तदिति गतिमानिति ।
परामृशति–उपलब्धिलक्षणप्राप्तत्वादिति ।
कर्मणो हि महत्त्वरूपविशेषैकार्थसमवाय उपलब्धिलक्षणप्राप्तिः प्रत्यक्षोपलब्धियोग्यता ।
समाधत्ते–नैवेदमिति ।
देशान्तरप्राप्तिमानादित्यः द्रव्यत्वे सति क्षयवृद्धिप्रत्ययाविषयत्वे च प्राङ्मुखोपलभ्यत्वे च तदभिमुखदेशसम्बन्धाद् अनुत्पन्नपादविहारस्य परिवृत्य तत्प्रत्ययविषयत्वात् मण्यादिवत्, तत्प्रत्ययविषयत्वाद् इत्युच्यमाने पुरःस्थितेन स्थाणुना व्यभिचारः, सो ऽपि हि प्रत्यभिज्ञाविषयो भवति तत्रैव स्थितः ।
तन्निवृत्त्यर्थं परिवृत्येत्युक्तम् ।
तथापि गुणादिभिर्व्यभिचारः ।
तन्निवृत्त्यर्थं द्रव्यत्वे सतीति विशेषणम् ।
तथापि प्रदीपादिभिराशुतरविनाशिभिर्व्यभिचारः, तन्निवृत्त्यर्थं क्षयवृद्धिप्रत्ययाविषयत्वे सतीति विशेषणम् ।
तथापि पृष्ठतो ऽवस्थितया स्थूणया व्यभिचारः, तन्निवृत्त्यर्थं प्राङ्मुखोपलभ्यत्वे सतीति विशेषणम् ।
उपलभ्यता च उपलब्धिकर्मता ।
सा चेहातीता विवक्षिता, अन्यथा पूर्वापरजलधिवेलावगाहिना तुहिनशैलेन व्यभिचारः ।
यद्यप्ययमपि परिवृत्य तत्प्रत्ययवतो ऽतिपतितोपलम्भकर्मभावः, तथापि तदा नरान्तरस्योपलभ्यः ।
मार्तण्डमण्डलं त्वस्ताचलचूडावलम्बि न प्राच्यां कस्यचिदुपलम्भगोचर इति वैषम्यम्, तथापि यदि द्रष्टैव पुरो ऽवस्थितस्य पश्चिमाभिमुखसय प्रासादस्य स्वयुमुपनिपत्य पृष्टतो भवति, तदोक्तलक्षणस्य हेतोरस्ति व्यभिचारः ।
तन्निवृत्त्यर्थमनुत्पन्नपादविहारस्येति विशेषणम् ।
तदभिमुखदेशसम्बन्धादिति ल्यब्लोपे पञ्चमी ।
स्वाभिमुखदेशमुद्दिश्यानुत्पन्नः पादविहारो यस्य स तथोक्तः ।
तमुद्दिश्य खल्वयं पद्भ्यां सञ्चरमाणः प्रासादस्य पृष्टतो भवतीति भावः ।
देशान्तरप्राप्तौ साधनान्तरमाह—देशान्तरेति ।
सत्यविनाश इति च द्रष्टव्यम् ।
ये त्विमामनुमानपरम्पराम् अमृष्यमाणा दिशः प्रत्यक्षतामिच्छन्ति, विप्रतिपन्नं चानुमानेन बोधयन्ति, तन्मतमुपन्यस्यति—एके त्विति ।
दूषयति–तच्च नेति ।
अरूपमात्मसुखाद्यपि प्रत्यक्षमिति शङ्कमानेन बाह्यकरणेनेत्युक्तम् ।
पृच्छति–कथं तर्हीति ।
उत्तरम्–दिग्देशेति ।
अन्यथासिद्धतया अङ्गुल्या निर्देशस्य दिक्प्रत्यक्षत्वेन न स्वाभाविकः प्रतिबन्ध इत्यर्थः ॥
स्यादेतत् ।
अप्रत्यक्षायां दिशि दिग्देशसम्बन्धिष्वित्येतदेव कुत इत्यत आह—आदित्येनेति ।
तद्विभजने—प्राचीत्ययमिति ।
तत् पुनरिदं प्रत्यक्षम् आ चोदयात् आ चास्तमयाद् देशान्तरं सञ्चरणं मार्तण्डमण्डलस्य अनाकलितद्रव्यत्वे सतीत्यादिदण्डकानुमानानामिन्द्रियव्यापारान्तरमुपजायमानत्वात् ।
तत्र मा भूवन्नाकाशदिगादयः प्रत्यक्षाः, तथापि परितो विनिष्पतदतिविशदमयुखजालमध्यवर्तिनो हेलिमण्डलस्य त एव मयुखभागभेदाः प्रत्यक्षदेशा इति तेषां प्रत्यक्षाणां प्रत्यक्षेण सवितृमण्डलेन संयोगविभागाः प्रत्यक्षा भविष्यन्तीति युक्तम् ।
इदं त्वतिस्फुटतया नाभिधाय शिष्यव्युत्पादनायाक्षुण्णं मार्गान्तरं दर्शितमिति मन्तव्यम् ।
तदेवं रूपेण स्पर्शानुमानम्, शिंशपात्वेन श्रुतेन वृक्षत्वानु मानमित्यादि सामान्यतोदृष्टेन सङ्गृहीतं वेदितव्यम् ॥
स्वमतेन व्याख्यान्तरमाह–अथवा त्रिविधमिति ।
तद्धिभजते–प्रसिद्धमिति ।
पक्षैकदेशे सदपि सिद्धम्, पक्षव्यापकं तु प्रकर्षेण सिद्धमित्यर्थः ।
यद्यपि अविनाभावः पञ्चसु चतुर्षु वा रूपेषु लिङ्गस्य समाप्यते इत्यविनाभावेनैव सर्वाणिलिङ्गरूपाणि सङ्गृह्यन्ते, तथापीह प्रसिद्धसच्छब्दाभ्यां द्वयोः सङ्ग्रहे गोबलीवर्दन्यायेन तत् परित्यज्य विपक्षव्यतिरेकासत्प्रतिपक्षत्वाबाधितविषयत्वानि सङ्गृह्णाति ।
अत्रापि यथासम्भवं चतुर्णां पञ्चानां वा रूपाणां लिङ्गेषु सम्बन्धः ।
तदनेन प्रबन्धेनानुमानवादिनां स्वरूपसङ्ख्याफलविप्रतिपत्तयो निराकृताः ।
तत्र तत्पूर्वकमिति स्वरूपविप्रतिपत्तिः ।
अनुमानमिति समाख्यानिर्वचनसामर्थ्यात् फलविप्रतिपत्तिः ।
त्रिविधमिति न्यूनाधिकसङ्ख्याव्यवच्छेदेन सङ्ख्याविप्रतिपत्तिर्निराकृता ॥
सम्प्रत्यान्तर्गणिकभेदानन्त्येनानन्त्याद् अनुमानस्याशक्यलक्षणमिति यदि कश्चिदनुमन्येत, तन्निराकरणाय त्रैविध्यमनुमानस्य उच्यते इति त्रिविधपदस्यतात्पर्यान्तरमाह–अथ वेति ।
त्रिविधत्वेन यतो नियतमतः शक्यलक्षणमित्यर्थः ।
अनित्यः शब्दः कृतकत्वादिति सपक्षे सदेव ।
अनित्य शब्दो ऽस्मदादिप्रत्ननान्तरीयकत्वादिति सपक्षे सदसत् ।
तदेतदन्वयव्यतिरेकि द्विविधम् ।
एवमन्वय्यपि द्वेधा ।
तत्र सपक्षे सदेव, यथा परमाण्वादयः कस्यचित् प्रत्यक्षाः प्रमेयत्वाद् घटादिवदिति ।
तथा सपक्षे सदसद् यथा तत्रैव साध्ये सत्त्वाद् घटादिवदिति ।
कालभेदः त्रैकाल्यम् ।
प्रतिपन्नो ऽप्रतिपन्नः सन्दिग्धो विपर्यस्तश्चेति पुरुषभेदः ।
पूर्वं सिद्धवत् पूर्ववदित्यनूद्य तस्योदाहरणमुक्तम् ।
सम्प्रति प्रश्नपूर्वकं तदर्थाभासनिराकरणेन तात्त्विकमस्यार्थमाह—पूर्ववदित्युक्तमिति ।
भाष्यव्याघात इत्यर्थः ।
पूर्ववदित्यस्य व्याख्यानं शेषवदित्यत्रापि योजयति ।
सामान्यतोदृष्टं च ज्ञानमतिदिशति—एवं शेषवदादिष्विति ।
अथवा पूर्ववदिति भाष्यम् ।
तस्यार्थः, पूर्वेण तुल्यं वर्तते इति पूर्ववत् ।
क्रियातुल्यतायां च वतिरिति क्रियातुल्यता दर्शिता ।
यत्रेति ।
पूर्वमन्यतरदर्शनेन सहान्यतरदर्शनं दृष्टान्तधर्मिणि, यथापूर्वं प्रत्यक्षभूतयोरिति प्रमाणमात्रोपलक्षणम् ।
एवं साध्यधर्मिणि अन्यतरधर्मदर्शनेन साधनधर्मदर्शनेनान्यतरस्य साध्यधर्मस्यानुमानमनुमिति दर्शनमिति भवति क्रियातुल्यता ।
तदेतत् भाष्यमनुभाष्य व्याचष्टे—अथ वेति ॥
अत्र दिग्नागेन धूमादग्निरूपधर्मान्तरानुमानम् अग्निदेशयोः सम्बन्धानुमानं च दूषयित्वा अग्निविशिष्टदेशानुमानं समर्थितम् ।
तथा चाह—
केचिद् धर्मान्तरं मेयं लिङ्गस्याव्यभिचारतः ।
सम्बन्धं केचिदिच्छन्ति सिद्धत्वाद् धर्मधर्मिणोः ॥
लिङ्ग धर्मे प्रसिद्धं चेत् किमन्यत् तेन मीयते ।
अथ धर्मिणि तस्यैव किमर्थं नानुमेयता ॥
सम्बन्धे ऽपि द्वयं नास्ति षष्ठी श्रूयेत तद्वति ।
अवाच्यो ऽनुगृहीतत्वान्न चासौ लिङ्गसङ्गतः ॥
न हि सम्बन्धधर्मतया लिङ्गं प्रतीयते, अपि तु देशसङ्गतमित्यर्थः, इति ।
तत्र लिङ्गस्याव्यभिचारस्तु धर्मेणान्यत्र दृश्यते ।
तत्र प्रसिद्धं तद्युक्तं धर्मिणं गमयिष्यति ॥इति ।
तत्र दिग्नागदूषितान् कल्पान् अन्यांश्च विकल्पान् दिग्नागसमर्थितं च कल्पमुपन्यस्य दूषयति—अन्ये पुनरिति धर्मधर्मिभावानुपपत्तेरिति ।
धर्मेण हि धर्मिप्रतिपत्तव्यः, अन्यथा अतिप्रसक्तेरिति भावः ।
देशस्य च स्वरूपेणेत्यर्थः ।
शङ्कते—अथापीदमिति ।
निराकरोति—तच्च नैवमिति ।
यः कश्चिद् वा देशो ऽग्निमान् साध्यो, धूमवान् वा देशभेदः? तत्र पूर्वस्विन् कल्पे निराकरणमाह—अतद्धर्मादिति ।
यः कश्चिदग्निमत्तया देशः साध्यते न तस्यावश्यं धूमो धर्म इत्यर्थः ।
न चैतत् साध्यं सिद्धत्वादित्याह—न चाग्नेरिति ।
द्वितीयं कल्पमाशड्ते—अयमिति ।
निराकरोति—न, तस्येति, शङ्कां विभजते—देशेति ।
निराकरणं विभजते—न ह्ययमिति ।
न ह्ययमेवंवादी दिग्नागो धूमाधारं देशविशेषं पश्यति ।
न ह्यस्य मते पर्वतो नाम कश्चिदवयवी यदाधारो धूम उपलभ्येत, किं तु परमाणवः परमसूक्ष्मा अतीन्द्रियाः पर्वतः ।
एवं धूमो ऽपि तादृश एव ।
यथा वक्ष्यति—सर्वागहणम् मवयव्यसिद्धेः # २।१।३४ # इति ।
येषामपि देशभेदो ऽवयवी दर्शनार्हः, तेषामपि वियद्वर्तिनीं धूमलेखामभ्रंलिहामुपलभ्यानुपलब्धदेशानां नानुमानसम्भव इति भावः ।
शङ्कते—अविनाभावेनेति ।
तदेव विभजते—अथापीति ।
निराकरोति—तन्नेति ।
विकल्पयति—अग्निधूमयोरिति ।
कार्यकारणभावमालम्बते—अस्त्विति ।
दूषयति—तन्नेति ।
धूमेन हि वह्निरनुमीयते, न च कार्यसत्ता निमित्तकारणसत्ताया व्याप्ता ।
न हि यदा यत्र वा पटः, तदा तत्र वा कुविन्दः ।
नाप्यसमवायिकारणसत्तया, न हि यदा यदा संयोगस्तदा कर्म ।
तस्मात् समवायिकारणाविनाभावः कार्यस्य वक्तव्यः ।
तत्रेदं दूषणम्–अतद्वृत्तित्वादिति ।
एकार्थसमवायमविनाभावं दूषयति–नैकेति ।
एकार्थसमवाय इति हि द्वेधा, एकस्यार्थस्य समवायः, एकस्मिन् वार्थे समवाय इति ।
तत्र प्रथमं कल्पं दूषयति—ताभ्यामिति ।
यदि हि वह्निमाभ्यामेको ऽर्थः कश्चित् आरभ्येत ततो ऽसौ तयोः समवेयात्, न त्वेतदस्तीत्यर्थः ।
द्वितीयं कल्पं दूषयति—न च ताविति ।
तत् किमसम्बद्धावेव वह्निधूमौ, तथा च प्रतीतिविरोध
इत्यत आह—सम्बन्धमात्रमिति ।
संयोग इत्यर्थः ।
तदेव तह्र ॥
यवधार्यतामित्यत आह—तदपीति ।
पृच्छति–कथमिति ।
उत्तरम्–यदि तावदिति ।
कुरुते प्रयोगम् ।
अस्ति सम्बन्धो ऽग्निधूमयोर्धूमादिति ।
दूषयति–तन्नाप्रतीतत्वात् ।
तदनेनानैकान्तिकत्वं दर्शयति ।
सम्बन्धान्तरम् आशङ्कते–रूपस्पर्शवदिति ।
न हि बौद्धराद्धान्ते द्रव्यं नाम किञ्चिदस्ति यत्र रूपस्पर्शै समवेतौ, किं त्वेकसामग्र्यधीनतया नियतसाहचर्यौ, तथा वह्निधूमावपि इत्यर्थः ।
दूषयति–नोभयोरिति ।
उभयसहाचर्यनिराकरणेन यत्र धूमस्तत्राग्निरित्यपि पराकृतम्, तस्यापि साहचर्यविशेषत्वादित्याह–यत्र धूम इति ।
गत्यन्तराभावादुपसंहरति–न चेति ।
शङ्कते–लोक इति ।
निराकरोति– नास्तीति ।
यत्र तावत् पर्वतनितम्बवर्तिनी धूमलेखा सन्ततमुद्गच्छन्ती दृश्यते, तत्रासौ देश एव तद्विशिष्टो ऽनुमीयते इति लोकप्रसिद्धमेवेति किमत्र वक्तव्यम् ।
यत्र तु भूयिष्ठताया तस्य धूमस्य दूरत्वेन देशो न दृश्यते, धूम एव त्वम्रंलिहो लिम्पन्निव अभ्रमण्डलमवलोक्यते, तत्र देशानुमानप्रयासालसतया दृश्यमानो धूमविशेष एवाग्निमत्तया साध्यते धूमत्वैकार्थसमवायिभिः तद्गतैः सन्तत्येर्ध्वगमनादिभिरित्याह–धूमविशेषेण इति ।
विशिष्यते तेनेति विशेषः सन्तत्यूर्ध्वगमनादिः ।
तेन धूममात्राद् वह्निव्यभिचारिणो वह्न्यविनाभावी धूमो विशेष्यत इत्यर्थः ।
शेषमतिरोहितार्थम् ॥
शेषवन्नाम परिशेषः ।
द्रव्यत्वकर्मत्वयोः शब्दे निराकार्यत्वेन उपयुक्तत्वात् ताभ्यामन्यद् गुणत्वं शेषः ।
स यस्यास्त्यनुमानस्य प्रतिपाद्यतया, तच्छेषवत् ।
तत्र न द्रव्यं शब्दः एकद्रव्यत्वात् ।
द्विविधमेव हि द्रव्यम्, अद्रव्यमनेकद्रव्यं च ।
अद्रव्यं परमाण्वादि, अनेकद्रव्यं च घटादि ।
शब्दस्त्वेकद्रव्यः ।
तस्मात् न द्रव्यं रूपादिवत् ।
न कर्म, शब्दान्तरहेतुत्वादिति ।
तदेतद् भाष्यमाक्षिपति—कर्मेति ।
परिहरति—नेति ।
अन्यमस्यार्थं दर्शयति—समानजातीयारम्भकत्वादिति ।
यत् समानजातीयारम्भकं न तत् कर्म, यथा रूपादय इति ।
कार्यत्वात् तावत् शब्दः समवायिकारणवान् ।
तत्र च पृथिव्यादिनिषेधात् नभो ऽस्य समवायिकारणम् ।
न चैष नभोव्यापकः सर्वत्र उपलम्भप्रसङ्गात् ।
तस्मादव्यापकः ।
कर्णशष्कुल्युपसन्निहितं च नभः श्रोत्रम् ।
ताल्वादिसंयोगोपधानेन च नभःप्रदेशे शब्दः समवेतः ।
प्राप्यकारि च श्रोत्रम् ।
न च वक्तृवक्त्रावरुद्धं नभःप्रदेशं तत् प्राप्नोति ।
न चाद्रव्यं शब्दो गत्वा श्रोत्रेण सम्बध्यते ।
तस्माद् वीचीतरङ्गरीत्या स्वदेशानन्तरदेशे शब्दान्तरारम्भणपरम्परया श्रोत्रदेशोत्पन्नं शब्दं गृह्णातीति सिद्धं सजातीयारम्भकत्वादिति ।
इदं तु परिशेषस्य उदाहरणं नादरणीयम् ।
व्यतिरेकिणो हि नामान्तरमिदं परिशेष इति ।
एष पुनरन्वयव्यतिरेकी द्रव्यकर्मान्यत्वे सति सदाद्यभेदस्य सपक्षे रूपादौ सत्त्वाद्, विपक्षे सामान्यादावभावात् ।
तस्माद् आत्मतन्त्रतासाधनमिच्छादीनां परिशेषोदाहरणं द्रष्टवयम् ।
तच्चानन्तरमेव वक्ष्यतीति ॥
सामान्यतोदृष्टं नामेत्यादि भाष्यम् अनुभाष्याक्षिपति–सामान्यत इति ।
कथं तर्हि अनुमानमत्र प्रवर्तते इति ।
नित्यपरोक्षेण सह कस्यचित् लिङ्गसय सम्बन्धादर्शनादित्यर्थः ।
व्याहतं चेति ।
स खल्वत्यन्तापरिदृष्टः स्वरूपतो वा साध्येत, दृष्टधर्मिविशेषणतया वा? तत्र पूर्वस्मिन् कल्पे नानुपलब्ध इति व्याघातः ।
उत्तरस्मिन् सन्दिग्ध इति, विशेषस्मृत्यपेक्षो हि संशयो नात्यन्तानुपलब्धपूर्वधर्मवत्तया क्वचिद् भवितुम् अर्हति ।
न खलु सप्तमरसवत्तया केचिद् द्रव्ये संशेरत इति भावः ।
समाधत्ते–न विशेषणभूतस्येति ।
न तावत् स्वरूपेणानुमीयते येन नानुपलब्ध इति व्याहन्येत, किं तु दृष्टस्य धर्मिणो विशेषणतया ।
न चैवं सर्वानुमानाविशेषः ।
साध्यधर्मिण्यस्यास्मदादिभिः कदाचिदपि प्रत्यक्षेणानुपलम्भात् ।
तज्जातीयेन तु दृष्टान्तधर्मिणोर्दृष्टेन प्रत्यक्षतो वा मानान्तराद् वा साधनधर्मस्य स्वाभाविकप्रतिबन्धग्रहसम्भादित्यर्थः ।
उदाहरणमाह–यथेच्छादिभिरात्मा ।
तदेवं विभजते–इच्छादयः खलु धर्मिणो भवन्ति मानसप्रत्यक्षदृष्टाः, तेषाम् आत्मा विशेषणम् ।
कुतः? गुणभूतो ऽवच्छेदकतया यतः, तस्मादात्मविशिष्टा इच्छादयः साध्या इत्युक्तं भवति ।
साधनधर्मं तद्वर्तिनं दर्शयति–इच्छादीनां गुणत्वमिति ।
ननूक्तमनुपलब्धचरेण साध्यधर्मेण न सन्देहविषयत्वम्, अनुपलब्धचरश्चात्मेति कथं तद्विशिष्टा इच्छादयो न्यायविषया इति शङ्कामुरीकृत्यत प्रयोगं सूचयति–परतन्त्रा इति ।
मा तत्र सैत्सीदात्मपारतन्त्र्यम्, पारतन्त्र्यमात्रं तु सिद्धम् इत्यर्थः ।
तेन सामान्यतोदृष्टस्य पारतन्त्र्यमात्रविषयता, न पारतन्त्र्यमिच्छादीनाम् अनुमेयात्मवादीनां कदाचिदप्यस्मदादिप्रत्यक्षगोचरः ।
परस्य तदाश्रयस्य नित्यपरोक्षत्वादिति ॥
तदेवं सामान्यतोदृष्टमुदाहृत्य परिशेपोदाहरणं पारमार्थिकं प्रश्नपूर्वकमादर्शयति–पारतन्त्र्येति ।
इच्छादीनो हि बाधकैरपनीते द्रव्याष्टकगुणत्वे गुणत्वमेव व्यतिरेकी हेतुः आत्मपारतन्त्र्ये प्रमाणम् ।
यद्यपि चायं स्वरूपेणात्मा न प्रसिद्धः, तथापि द्रव्याष्टकव्यतिरेकादिशब्दैरदूरविप्रकर्षेण परामृष्टः शक्नोति विशेष्टुं धर्मिणि च न्यायप्रवृत्त्यङ्गः संशयम् आपादयितुमिति निरवद्यम् ॥
अत्र भाष्यं विभागवचनादेव त्रिविधमिति सद्धि इति, तस्यार्थः, त्रिविधम् इति विभागवचनादेव त्रिविधे पूर्ववदादौ सिद्धे किमर्थं पूर्ववदाद्युपादानं सूत्रेणेति ।
तत्र समाधानं त्रिविधवचनं त्रिविधस्य पूर्ववदादेर्वचनमुक्तिः ।
महतः त्रिविधस्य महाविषयस्य अतीतानागतवर्तमानविषयस्य लघीयसा सूत्रेण तत्पूर्वकमित्येतावतैवोपदेशे परं वाक्यलाघवं मन्यमानस्यान्यस्मिन् वाक्यलाघवे ऽनादरः सूत्रकारस्येति शिष्यान् व्युत्पिपादयिषोः अत्रैव निदर्शनम्–तथा चायम् ।
अस्य समाचारः—इत्थम्भूतेन वक्यविकल्पेन वैचित्र्येण प्रवृत्त इति योजना ॥
एवं तावत् लक्षणभेदानुमानं भिन्नं प्रत्यक्षाद् दर्शितम् ।
भाष्यकारस्तु विषयभेदादपि भेदमाह—सद्विषयं च प्रत्यक्षं सदसद्विषयं चानुमानम् ।
चो विषयभेदं समुच्चिनोति ।
सदिति वर्तमानम् ।
असदित्यतीतानागते ।
प्रत्यक्षं हि लौकिकं वर्तमानविषयमेव ।
अनुमानं तु त्रैकाल्यविषयम् ।
यद्यपि प्रत्यक्षमप्यतीतानागतयोः सम्प्रति निषेध्यनिषेधयोर्निषेधे प्रवर्तमानमसद्विषयं तथापि न प्रतिषेध्ययोः प्रवर्तते इत्येतावता सद्विषयमुक्तम् ।
अनुमानं तु तयोरपि प्रवर्तते इत्येतावता असद्विषयमुक्तम् ।
तदेतदाक्षिपति—सद्विषयं चेति ।
न ह्यनुपलब्धसामान्ये इति सामान्यत उपलब्धो विशेषतश्चानिर्णीतो धर्मो न्यायप्रवृत्तावधिक्रियते ।
न त्वनुपलब्धसामान्य इत्यर्थः ।
न चासतः स्वतन्त्रस्य सामान्येन दर्शनमस्तीति ।
द्वितीयं कल्पमाशङ्कते—अथेति ।
एतद्दूषयितुं धर्मत्रैविध्यमाह—धर्मा इति ।
तद्विभजते—तत्रेति ।
पृच्छति—कथं पुनरिति ।
यदि हि स्वतन्त्रः समवायः, न तर्हि कस्यचिद् विशेषणम्, तथा च न विशेषणतया गृह्येतेति भावः ।
उत्तरम्—समवायान्तराभावात् ।
न विशेषणत्वं स्वातन्त्र्येण निराकुर्मः, किं तु वृत्तिमस्येत्यर्थः ।
कस्मात् पुनरस्य न समवायान्तरमभ्युपेयत इत्यत आह—अथेति ।
पृच्छति–किमिदमिति ।
अनवस्थाप्रसङ्गो हि नाम तर्कः ।
नैष प्रमाणमन्तरेण निर्णयाय पर्याप्त इत्यर्थः ।
उत्तरम्–न सन्देहः, किं त्वस्त्येव न्यायः ।
तमाह–पञ्चेति ।
अयं पञ्चपदार्थवृत्तिशब्दो बहुव्रीहिणा परमाणौ वर्तते, षष्ठीसमासेन तु समवाये ।
न च कथञ्चित् शब्दाभेदमात्रमनुमानाङ्गम्, मा भूद् गोशब्दसाम्येन वागादीनाम् अपि विषाणित्वमित्यपरितोषात् न्यायान्तरमाह–अनाश्रितः समवाय इति ।
इह बुद्धिनिमित्तत्वं कारणत्वम् ।
संयोगेनानैकान्तो मा भूदित्यत उक्तम्—व्यापकत्वे सतीति ।
सत्युपलब्धिकारणान्तरसमवधाने सर्वत्रोपलभ्यता व्यापकत्वम् ।
तच्चेह प्रत्ययकारणे आत्मानि च समवाये चाविलक्षणमिति ।
न्यायेतिकर्तव्यताभूतं तर्कं पृच्छति—यदि पुनरिति उत्तरम्—कार्यमिति ।
उक्तमनवस्थाप्रसङ्गमवतारयितुमनाधारत्वप्रसङ्ग उक्तः ॥
स्यादेतत् ।
भवतु वृत्तेः प्रागनाश्रितं कार्यं पश्चात् समवैष्यति, तुरीसंयुक्तेभ्य इव तन्तुभ्य उत्पद्य पटः पश्चात् तुर्या इत्यत आह–समवायश्चेति ।
अनवस्थाप्रसङ्गः पूर्वोक्त इत्यर्थः ।
शङ्कते–प्राप्तित्वादिति ।
प्रमाणवत्त्वात् प्राप्ता समवायस्य वृत्तिर्न शक्या अनवस्थाभिया परित्यक्तुमित्यर्थः ।
विमर्शपूर्वकं शङ्कां निराकरोति–किमियमिति ।
संयोगे प्राप्तित्वस्य निवृत्त्या स्वाभाविकः सम्बन्धः कार्यत्वस्योपाधेः तत्प्रयोजकस्य विद्यमानत्वादित्यर्थः ।
अथ प्राप्तिधर्मो ऽपि कस्मात् न भवतीत्यत आह—यदि पुनरियमिति ।
नन्वियमनवस्था कस्माद् बीजाङ्गुरादिष्विवेहापि नाभ्युपेयते इत्यत आह—न चैनामनवस्थामिति ।
अनिदम्प्रथमेष्वनादित्वात् शक्या प्रतिपादयितुमनवस्था प्रमाणेन, न त्विदम्प्रथमेष्वादिमत्त्वेन तस्याशक्यनिश्चयत्वात् ।
तदिदम् उक्तम्—प्रमाणाभावादिति ।
शास्त्रविरोधश्च समवायान्तराभ्युपगम इत्याह—समवायश्चेति ।
तत्त्वमेकत्वं समवायस्य भावेन सत्त्वया व्याख्यातमिति शास्त्रमाह, तदनेकत्वमुपपादयता बाध्येतेत्यर्थः ।
चोदयति—सम्बन्धिनिवृत्ताविति ।
तथा च विनश्यति, विनष्टे च तस्मिन् यो दृश्यते स ततो ऽन्य उत्पन्न इति सिद्धं समवायस्य नानात्वमित्यर्थः ।
परिहरति—न नास्तीति ।
ख्यातिरूपलब्धिः ।
कस्मात्? अकृतकत्वात् ।
अकृतकत्वमेव कुत इत्यत आह—अकृतक इति ।
कार्य स्वापादानेन अकृतकसम्बन्धवद् आधारवत्त्वादिति व्यतिरेकी हेतुः ।
व्यतिरेकाव्यभिचारमाह—यद्ययमिति ।
उत्पद्यमानः खल्वयं समवायः सहकार्येण, न कार्यस्य ।
न हि सहोत्पन्नौ रूपस्पर्शौ मिथः सम्बध्येते ।
एकार्थसमवायस्तु तयोः ।
सो ऽपि समवाये नास्ति ।
सन्नप्यसौ न कार्यमाधारवत् करोति ।
तस्मात् सहोत्पादे कार्यमनाधारं स्यादिति ।
शङ्कते—अथेति ।
कार्यात् पूर्वमुत्पन्नः समवायः पश्चादुत्पद्यमानं कार्यमुपादानाधारकं करिष्यति कार्यहेतुबलादित्यर्थः ।
निराकरोति–तथापीति ।
त्रिभ्यो हि कारणेभ्यः कार्यं भावरूपं जायते ।
कार्यकारणसमवायस्य च कार्यकारणे समवायिकारणे वक्तव्ये, कार्यात् प्राग् जातस्य च समवायस्य न कार्यं कारणम् ।
न च निमित्तकारणमात्रादस्य जन्मेति साम्प्रतम्, भावोत्पादस्य सर्वत्र कारणत्रयपूर्वकत्वनियमात् ।
तस्मात् समवायस्य समवाय्यसमवायिकारणाभावत् न कार्यात् प्राग् उत्पाद इति सुष्ठूक्तम्–तथापि कस्येति वाच्यमिति ।
शङ्कते–अथेति ।
दूषयति–कार्येति ।
न च पटतुरीसंयोगवत् समवायस्य पश्चात् कार्यकारणसमवाय इति युक्तम् ।
संयोगजस्य संयोगस्य कारणत्रयसम्भवाद् अस्य तु समवायान्तरमन्तरेण कारणत्रयायोगात् ।
अन्यथानवस्थाप्रसङ्गादिति भावः ।
उपसंहरति–तस्मादिति ।
ततश्च न ज्ञायते किमभिप्रेत्यत असद्विषयमित्युक्तमित्याक्षेप इति ।
समाधत्ते–तत्र प्रतिषिध्यमानेति ।
अतीतानागते सम्प्रति प्रतिषिध्यमाने तद्विषयमनुमानम् असद्विषयमुक्तम् ।
तन्निषेधस्तु भवतु प्रत्यक्षगोचरः, तथापि सिद्धो विषयभेद इत्यर्थः ।
अत्र चैष धर्मत्रैविध्यक्रमो द्वेधा तावत्, विधीयमानः प्रतिषिश्यमानश्च ।
विधीयमानो ऽपि द्वेधा, परतन्त्रः स्वतन्त्रश्चेति ।
स्वतन्त्रस्य च धर्मत्वं विशेषणत्वमात्रविवक्षया द्रष्टव्यम् ।
ननु विधीयमानो ऽप्यसन् प्रत्यक्षश्च क्वचित् ।
यथा व्याप्रियमाणे कुलाले जायमानो घटः ।
विस्फारिताक्षो हि तदा घटो भवतीति प्रत्येति ।
न चासौ तदा सन्, सतो भवनं प्रत्यकर्तृकत्वात्, गमनवदिति शङ्कते—भवतीति ।
निराकरोति—न, जायमानेति ।
जायमानस्यार्थस्य विधिविषयस्य सत्तयासत्तया वानभ्युपगमात् ।
निषेधविषयतया तु तस्यासत्त्वमभ्युपेयत एवेति ।
कस्तर्हि भवतिशब्दस्यार्थ इत्यत आह—भवतीति ।
धटो जायत इति तु लौकिकः प्रयोगो घटशब्दं घटार्थेषु तदवयवेषूपचर्य तेषां च सिद्धतया कर्तृत्वादुपपादनीय इति ।
उपसंहरति—एवं तावदिति ॥
स्वलक्षणं समाधाय परेषामनुमानलक्षणं दूषयितुमुपन्यस्यति—अपरे त्विति ।
तस्यार्थमाह—अस्यार्थ इति ।
दूषयति—अत्रेति ।
यथासम्भवं समासं विकल्प्य दूष्यति–नान्तरीयकार्थ इति चेति ।
सत्त्वं विधिविषयज्ञानगम्यत्वम्, न तु सामान्यम् ।
सत्त्वादिभिरनित्यत्वानान्तरीयकैः तन्नान्तरीयककृतकत्वधर्मैरनित्यत्वानुमानं स्यात्, न च शक्यम्, तेषामाकाशादिषु नित्येषु व्यभिचारादित्यर्थः ।
तथाप्यसमर्थः समास इति ।
पूर्वमर्थातिरेकमात्रं दूषणमुक्तम् ।
सम्प्रति त्वर्थातिरेकेण हेतुना विशेषणसमासानुपपत्तिरित्यपौनरूक्त्यम् ।
विशेषणं विशेष्येण बहुलम् ॥
इत्यत्र विशेषणपदोपादादमात्रेण वा विशेष्यपदोपादानमात्रेण वा अन्यतरस्यार्थात् प्राप्तेरूभयपदोपादानस्यैतत् प्रयोजनम्—यत्रोभयोः प्रत्येकं व्यभिचारः समुदाये त्वव्यभिचारः, तत्र समासो यथा स्यादिति ।
स चात्र नास्तीति समासानुपपत्तिरित्यर्थः ।
सामर्थ्यं प्रयोजनाभिसम्बन्धः ।
चोदयति—एकपदेति ।
परिहरति—अत्रापीति ।
प्रधानं व्यक्तिर्विशेष्यत्वात् अङ्गं जातिर्विशेषणत्वात् ।
पृथिवीत्युक्ते भवति संशयः, किं पृथिवीत्वं सामान्यमस्य विवक्षितं यथा पशुना यजेत इति, किं वा तद्विशेष्यं द्रव्यम्, ग्रहं सम्मार्ष्टीति ।
अत्रेदमुपतिष्ठते–द्रव्यमिति ।
तद्धि पृथिवीत्वात् सामान्यविशेषात् पृथिवी व्यवच्छिनत्ति ।
एवं द्रव्यमित्यप्युक्ते द्रव्यत्वं वा सामान्यं व्यक्तिर्वेति विमर्शे पृथिवीत्येतदुपतिष्ठते ।
न द्रव्यत्वं सामान्यं किं तु पृथिवी ।
न च द्रव्यत्वपृथिवीत्वयोः सामानाधिकरण्यमस्ति ।
न हि भवति पृथिवीत्वं द्रव्यत्वमिति ।
तस्मात् सामानाधिकरण्यसम्भवात् प्रधानैकव्यक्तिलाभः ।
इह त्वर्थो नान्तरीयकत्वं व्यभिचरति ।
नान्तरीयकत्वं तु नार्थम् ।
न ह्यस्ति सम्भवो नान्तरीयकश्च स्यात् न चार्थ इति, नान्तरीयकशब्दवाच्यस्यानभिधेयत्वासम्भवात् ।
वस्तुवचनत्वे ऽप्यर्थशब्दस्य लक्ष्यासम्भवाद् अविषयं लक्षणम्, न हि दिग्नागस्य मते किञ्चिदस्ति वस्तु यन्नान्तरीयकं सद्धेतुर्भवति ।
यथाह—
सर्वो ऽयमनुमानानुमेयभावो बुद्ध्यारूढेन धर्मधर्मिभावेन न बहिः सदसत्त्वमपेक्षते इति ।
अव्यापकं च, न हि वस्त्वेव नान्तरीयकमसतो ऽपि नान्तरीयकत्वादिति भावः ॥
दूषणान्तरमाह—तद्विद इति चेति ।
नान्तरीयकदर्शनमित्युच्यमाने शब्दसामर्थ्यादेव लभ्यते नान्तरीयकत्वविशिष्टार्थदर्शनमिति, सति सम्भवे शब्दार्थपरित्यागाभावात् ।
अतस्त्रिरूपलिङ्गदर्शनस्य सिद्धेः किमपरमवशिष्यते यदवरोधाय तद्विद इत्युपादीयते इत्यर्थः ।
एतदेव व्यतिरेकमुखेन निरूपयति–न हीति ।
एतल्लक्षणदूषणं लक्षणान्तरे अप्यतिदिशति–एतेनेति ।
पृच्छति–क इति ।
न ह्यस्मिन् लक्षणे तद्विद इत्यस्ति, तेन तदतिरिच्यते इति भावः ।
उत्तरम्–यथेति ।
तेषामुदाहरणं दूषयति–उदाहरणमिति ।
तदनेन दिग्नागस्य लक्षणं दूषयित्वा अन्येषां लक्षणं दूषितम् ॥
सम्प्रति दिग्नागस्य स्वकीयलक्षणप्रपञ्चार्थं वाक्यम् अनुमेये ऽथ तत्तुल्य इत्याद्युपन्यस्य दूषयति–अपरे त्विति ।
अनन्तरलक्षणकारमपेक्ष्यापर इत्युक्तम् ।
चोदयति–अनुमेय इति ।
न हि यो ऽनुमेये संश्चासंश्च स शक्यः सन्निति वक्तुम्
इत्यर्थः ।
समाधत्ते–नाप्रसङ्ग इति ।
यद्येवं स्यातद् यो विपक्षे द्वेधा स विपक्षावृत्तिरिति हेतुरेव स्यात् न सव्यभिचार इत्यर्थः ।
पुनश्चोदयति–न कर्तव्य इति ।
कुतः? अवधारणात् निवृत्तेः ।
अनुमेये सद्भाव एवेत्यवधारणेनानुमेये सद्भावस्य नियतत्वात् कुतः पक्षैकदेशवृत्तेः प्रसङ्ग इति भावः ।
एवन्निराकर्तुं यथासम्भवं विकल्पयति—अनुमेये इति ।
तत्र पूर्वकल्पस्य तात्पर्यं विकल्पयति–किं पुनरनेनेति ।
असम्भवः अत्यन्तासम्भवो निराक्रियते, यथा नीलं सरोजं भवत्येव नात्यन्तं न भवतीति गम्यते, न तु नीलमेव सरोजं नानीलमिति, नापि सरोजमेव नीलं नान्यदिति ।
अथ सम्भव इति ।
अन्वयपरो न व्यतिरेकपर इत्यर्थः ।
एतद्विकल्पद्वयं दूषयति—उभयथा चेति ।
दूषणान्तरं चाह—न चैकदेशवृत्तिरिति ।
न ह्यत्यन्तायोगव्यवच्छेदेनायोगो व्यवच्छिन्नो भवति, नापि सम्भवमात्रविधानेनासम्भवो व्यवच्छिन्नो भवति ।
ततश्चयोगाव्यवच्छेदादेकदेशवृत्तिरनुमानाभासो न व्यवच्छिन्न इत्यर्थः ॥
स्यादेतत् ।
विशेष्यसङ्गतो ऽयमेवकारो ऽनुमेय एव सम्भवति ।
यथा पार्थ एव धनुर्धर इति ।
न चायमन्ययोगव्यवच्छेदो विनैवकारं लभ्यते ।
तस्मात् न व्यर्थमवधारणमित्यत आह—उत्तरपदबाधा च ।
न ह्यस्ति सम्भवो ऽनुमेय एवास्ति तत्तुल्ये चेति ।
तस्मात् तत्तुल्य इत्यस्य बाधा ।
चकारो नैकदेशवृत्तिर्निराकृत इति दूषणं समुच्चिनोति ॥
अनुमेय एव सद्भाव इति पक्षं यथासम्भवं दूषयित्वा अनुमेये सद्भाव एवेति द्वितीयं पक्षं दूषयितुमुपन्यस्यति—अथोत्तरमिति ।
तस्य प्रयोजनं दशयति—तस्य वयाप्तिरित्यर्थः ।
सद्भाव एवेति किल विशेषणसङ्गतमवधारणमयोगम् अव्याप्ति व्यवच्छिन्दत् व्याप्ति दर्शयति ।
तथा च व्याप्तिरस्यार्थ इत्यर्थः ।
दूषयति—तथाप्यनुमेयमवधारितं सम्भवस्य व्याप्त्या न धर्मः सद्भावः ।
हेतुमाह–यत एवकारकरणं ततो ऽन्यत्रावधारणमिति ।
मा वधारि सद्भावो ऽवधार्यतां चानुमेयम् ।
किमेतावतापीत्यत आह—सम्भवव्याप्त्या चेति ।
अनुमेयं खल्ववधारितं सद्धेतुसम्भवं परित्यज्य नान्यत्र वर्तते, ततश्चानुमेयं हेतुसम्भवव्याप्त्यावधारितं भवति ।
हेतुसम्भवस्त्वनवधारितः सर्वत्रैव तत्तुल्ये च विपक्षे च प्रसृतः ।
स च कश्चित् तत्तुल्यविपक्षौ व्याप्नोति, कश्चित् तदेकदेशवृत्तिः ।
तदस्य हेतुसम्भवस्य विपक्षे ऽपि प्रसक्तस्य प्रतिषेधाय युक्तमसति नास्तीति ।
तत्तुल्ये तु प्रसक्तमप्रतिषिद्धमनुमतमेवेति तत्तुल्ये सद्भाव इति व्यर्थमित्यर्थः ॥
स्यादेतत् ।
तुल्यहेतु सद्भावसिद्धावपि तत्तुल्ये व्याप्त्या होतोः सद्भावो भवत्वित्येतदर्थं तत्तुल्ये सद्भाव
इति वचनम् इत्यत आह–तत्तुल्ये चेति ।
यदि पुनर्व्याप्तिर्विवक्ष्येत कृतकत्वे साध्ये प्रयत्नानन्तरीयकत्वं न हेतुः स्यात् ।
न ह्ययं सपक्षव्यापक इति भावः ।
देशयति–अथ तत्तुल्ये इति ।
दूषयितुं विकल्पयति–किं पुनरत्रेति ।
पूर्वस्य विरोधाद् बाधनम्, उत्तरस्य पौनरूक्त्यादिति ।
पूर्वपदेन सह विरोधे निदर्शनमाह—न हि भवतीति ।
अनुमेये सद्भाव इत्यनेनानुमेये वृत्तौ हेतार्लब्धायां तत्तुल्य एव सद्भाव इति समुच्चीयमानावधारणं विपक्षमात्राद् वृत्ति व्यवच्छिनत्ति, न त्वनुमेयात्,
नरं च नारायणमेव चादौ स्वतः सुतौ द्वौ जनयां बभूव ।
इति यथेति चेद् अत आह—तथेहापीति ।
समुच्चीयमानावधारणे हि तत्तुल्येन यथान्ययोगव्यवच्छेदेनैवकारः सम्बध्यते तथानुमेयेनापि सम्बध्येत ।
तथा चानुमेयैकदेशवृत्तिरपि हेतुः स्यात् ।
न खलु नरं च नारायणमेवेति निपातो नारायणेन सहान्ययोगव्यवच्छेदेन सम्बध्यते, नरेण चायोगव्यवच्छेदेनेति भावः ।
अथावधारणस्यावैचित्र्येण सम्बन्धमिच्छता अनुमेये यथायोगव्यवच्छेदः, तथा तत्तुल्ये ऽयोगव्यवच्छेदेन सम्बन्ध उच्येतेति शङ्कते—अथ तत्तुल्य इति ।
निराकरोति—तत्तुल्य इति ।
तद् एव विस्तारयति—स इति ।
ते तव दर्शने इत्यर्थः ।
न च यस्यानुमेये सद्भाव एवेत्यनूद्य तत्तुल्य एव सत्त्वमिति विधातुं शक्यम् ।
न ह्यनुमानं शक्यं विशेष्टुम्, तथा सति तद्विशेषणाय प्रयत्नान्तरास्थाने सति वाक्यभेदप्रसङ्गात् ।
यथा,
यस्योभयं हविरार्त्तिमार्च्छेदैन्द्रं पञ्चशरावमोदनं निर्वपेत् ।
इत्यत्र हि यद्यपि स्वरूपेणार्तेरशक्यप्रतिपत्तित्वेन हविषा विशेषणं मृग्यते, तथापि न शक्यं हविरूभयत्वेन विशेष्टुं विना प्रयत्नान्तरादिति वाक्यभेदभिया प्रतीयमानमपि उभयत्वमविवक्षितम्, एवमात्राप्यनुमेय इत्यविवक्षितम् ।
अथ तद्विवक्षयैव वाक्यभेदमभ्युपेत्य पश्चाद् वाक्यैकवाक्यतया अभिमतार्थसिद्धिरास्थीयते ।
न च विरोधाद् वाक्ययोरेकवाक्यता विरहः ।
तत्तुल्य एवेत्यन्ययोगव्यवच्छेदस्य विपक्षमात्रविषयत्वेनाप्युपपत्तौ विरोधासिद्धेः ।
तस्मात् अन्यापोहार्थत्वात् पदानां विरोधो वक्तव्यः ।
तथा हि अनुमेये सद्भाव इत्यत्रानुमेय एव नाननुमेये, सद्भाव एव नासद्भाव इति पदार्थः ।
तथा च तत्तुल्यविपक्षयोर्हेत्वभावो दर्शितः ।
एवं तत्तुल्ये सद्भाव इत्यत्रापि तत्तुल्य एव नातत्तुल्ये, सद्भाव एव नासद्भाव इति पदार्थः ।
तथा चानुमेये ऽसद्भाव इत्युक्तं भवति ।
न चानुमेयतत्तुल्यपदार्थयोः परस्परपरिहारवतोः समुच्चयसम्भवः ।
द्वयोरपि विपक्षव्यावृत्तिमात्रपरत्वात् परस्परसमुच्चयसद्भाव इति चेत्—न, वृक्षो गौरित्यनयोरपि हस्त्यादिनिवृत्तिमात्रपरत्वेनाभिन्नार्थयोः सामानाधिकरण्यप्रसङ्गात्, तस्माद् विरोधात् समुच्चीयमानावधारणं न युक्तमिति ।
न च समुच्चीयमानावधारणं दिग्नागो मेने, यदेवमूचे वैशेषिकलक्षणदूषणावसरे—
यदि रूपमेव चाक्षुषं ततो न द्रव्यं चाक्षुषं स्यात् ।
तथा च महदनेक्रद्रव्यसमवायाद् रूपाच्चोपलब्धिः
# वै। सू। ८।१।६ # इति द्रव्यचाक्षुषत्वाभिधानं व्याहन्येतेति ॥
अत्र हि रूपवद्द्रव्यसहितं रूपमेव चाक्षुषं न गन्धरसादीति शक्यं समुच्चीयमानावधारणम् ।
तस्मात् समुच्चीयमानावधारणाभिधानं कीर्तेः स्वातन्त्र्येण ।
तच्चायुक्तमिति कृतं विस्तरेण ॥
असति नास्तितेति दूषयति—असतीति ।
कस्मात्? यदसत् तत्तुच्छं स्वयमेव नास्ति, तन्न सदिति शक्यं व्यवहर्तुम् असदिति वा ।
भवतु, तथापि कस्मात् तस्मान्न हेतोः व्यावृत्तिर्भवतीत्यत आह—न ह्यसदिति ।
यथा चैतत् तथा अन्वयिहेतूपपादनावसरे ऽस्माभिरूक्तम् ।
स्वरूपेण दूषयित्वा एतद्गतमवधारणं दूषयिष्यन्ननूद्य विकल्पयति–किमवधार्यत इति ।
प्रथमं कल्पं दूषयति–यदि तावदिति ।
तत्तुल्य एव सद्भाव इत्यनेन गम्यत इत्यर्थः ।
द्वितीयं कल्पं दूषयति–यदि तावदिति ।
तत्तुल्य एव सद्भाव इत्यनेन गम्यत इत्यर्थः ।
द्वितीयं कल्पं दूषयति—अथ पुनरिति ।
गौरयं विषाणीत्वादित्ययं हेतुर्विपक्ष एव नास्ति, पक्षसपक्षव्यापकत्वात् ।
न तु नास्त्येव, विपक्षैकदेशे महिषादौ वृत्तेः ।
अतो विपक्ष एव नास्ति इत्ययमपि हेतुः स्यादिति ।
तदेवमवयवार्थं दूषयित्वा समुदार्यार्थं दूषयितुमुपन्यस्यति–यदप्येकद्विपदपर्युदासेनेति ।
तत्रैकपदपर्युदासेन त्रयः पक्षाः, द्विपदपर्युदासेनापि त्रय इति पट्कम् ।
तत्पर्युदासेन सप्तिकापरिग्रहः ।
यथानुमेये सद्भाव इत्युच्यमाने यस्य तत्तुल्ये नास्तिता विपक्षे च वृत्तिः सो ऽपि हेतुः स्यात् यथा नित्यः शब्दः कृतकत्वादिति ।
तत्तुल्ये अस्तीत्युच्यमाने विपक्षवृत्तेरपक्षधर्मस्य च हेतुत्वं स्यात्, यथा नित्यः शब्दः चाक्षुषत्वात् सामान्यवदिति ।
नास्तितासतीत्युच्यमाने यो ऽपक्षधर्मस्तत्तुल्ये च नास्ति स हेतुः स्यात् यथा नित्यः शब्दो ऽसत्त्वात् ।
अनुमेये तत्तुल्ये चेत्युच्यमाने, अनित्यः शब्दः प्रमेयत्वादिति विपक्षवृत्तिर्हेतुः स्यात् ।
अनुमेये ऽस्त्यसति च नास्तीत्येतावत्युच्यमाने नित्यः शब्दो जातिमत्त्वे सति श्रावणत्वादित्ययं तत्तुल्यवृत्तिहीनो ऽपि हेतुः स्यात् ।
तत्तुल्ये ऽस्ति असति च नास्तीत्येतावत्युच्यमाने अनित्याः परमाणवः कृतकत्वादित्ययम् अपक्षधर्मो हेतुः स्यात् ।
तदेतत्सर्वं मा भूदिति समुदायोपादानप्रयोजनम् ।
तदेतद् दूषयति–एतदपीति ।
सपक्षव्याप्त्यव्याप्तिभ्यां द्विरूपयुक्तस्यान्वयिनो द्वित्वम् ॥
सम्प्रति साङ्ख्यीयमनुमानलाणं दूषयति–एतेनेति ।
सम्बन्धो ऽविनाभावः साधनस्य साध्येन ।
तस्मात् प्रत्यक्षाद् दृढतरप्रमाणावधारितात् ।
तथापि यत्राविनाभूते लिङ्गे भवत एकस्मिन् धर्मिणि विरूद्धाव्यभिचारिणी, तयोरपि हेतुत्वं प्रसज्येतेत्यत उक्तम्—एकस्मादिति ।
शेषस्य अनुमेयस्य सिद्धिः ।
अनुपपन्नत्वमात्रसाम्येनोक्तम् मेतेन न प्रयुक्तमिति ।
अनुपपत्ति पृच्छति—कथमिति ।
यथासम्भवमनुपपत्तिमाह—न हीति ।
यदि प्रत्यक्षशब्दो ज्ञानवचनः ज्ञानं चैकत्वेन विशिष्यते, तदैतद् दूषणम् ।
अथ सम्बन्धविशेषणमेकस्मादिति, प्रत्यक्षशब्दश्च ज्ञाये न तु ज्ञाने, तदेतदुपन्यस्य दूषयति–अथापि सम्बन्धादिति ।
शङ्कते–अथेति ।
सम्बन्धस्य प्रत्यक्षतोक्ता पूर्वम्, न त्वनुमानकाल इत्यर्थः ।
दूषयति–तथाप्युपलब्धसम्बन्धस्य पूर्वमनुमानकाले चानुपलब्धलिङ्गस्यानुमानं प्रसज्येतेति ।
स्यादेतत् ।
सम्बध्यते इति व्युत्पत्त्या सम्बन्धो लिङ्गम् ।
तेनाविनाभूताद्धेतोः प्रत्यक्षादेकस्माद् अनुमेयसिद्धिरिति ।
तथा च गृहीताविनाभावात् लिङ्गात् सम्प्रति प्रत्यक्षादित्युपपन्नमित्यत आह—न चान्या गतिरस्ति ।
अत्रापि व्याख्याने एकस्मादिति व्यर्थम् ।
तथा हि अन्वयव्यतिरेकमात्रसम्पत्तिरविनाभाव इत्युच्यते, सर्वरूपसम्पत्तिर्वा? तत्र प्रथमे कल्पे मा भूद् विरुद्धाव्यभिचारी, बाधितविषयस्तु हेतुः स्यात् ।
द्वितीये तु कल्पे न सर्वरूपसम्पन्नो हेतुर्विरुद्धाव्यभिचारी सम्भवतीत्येकस्मादिति अतिरिच्यते ।
तस्मात् सुष्ठूक्तम्–न चान्या गतिरस्तीति ।
अव्यापकत्वं लक्षणदोषम् आह–रूपेण चेति ।
न तावदनयोः तादात्म्यम्, भिन्नेन्द्रियग्राह्यत्वाद् मिन्नबुद्धिबोध्यत्वाच्च ।
न चातदात्मनोरनयोः सम्बन्धः कश्चिदुपलभ्यते ।
न च प्रतिक्षणपरिणामवादे कुण्डवदरादीनामपि कश्चिदस्ति सम्बन्ध इत्यपि द्रष्टव्यम् ।
शङ्कते—अथेति ।
निराकरोति–सो ऽपीति ।
न हि साङ्ख्यानां बौद्धानां वा राद्धान्ते ऽस्ति सम्बन्धः समवायो नाम् ।
नापि तदाश्रयो द्रव्यम् ।
नापि तदाश्रयो द्रव्यम् ।
अतः स्वदर्शनव्याघात इत्यर्थः ।
यद्युच्येत प्राधानिकत्वाद् रूपादीनां प्रधानमेकमाश्रयः, तथा च यत्र रूपं तत्र स्पर्श इत्यत आह–यत्र रूपमिति ।
कुतः? न क्वचिदति ।
न हि प्रधानमाधारः कार्याणाम्, अपि तु प्रधानात्मकत्वमेषामिष्यते, तथा च यत्र तत्रेत्यनुपपत्तिः ।
न च तादात्म्यमित्यप्युक्तम् ।
न च भेदाभेदावेकत्र सम्भवतो विरोधादिति भावः ।
शङ्कते–परस्परेति ।
यथा ह्यासन्दिकाङ्गानि भिन्नान्यनौत्तराधर्यव्यवस्थितान्यपि परस्पराश्रयतया न पतन्ति, एवं रूपस्पर्शावपि परस्पराश्रयावित्यर्थः ।
निराकरोति–परस्पराधारभावे ऽपि अन्यत्रासन्दिकाङ्गादौ, नासौ रूपस्पर्शयोः ।
कुतः? न रूपं स्पर्शो रूपे इति ।
परस्परसंयोगभेदप्रतिबद्धगुरुत्वानि आसन्दिकाङ्गानि अपतन्ति स्थितानि परस्पराधारत्वेनापदिश्यन्ते ।
रूपस्पर्शादीनां तु स्थितिर्न परस्परहेतुका, अपि तु भोगापवर्गलक्षणपुरुषार्थहेतुकेति भावः ।
एतेन साङ्खानां सप्तविधः सम्बन्धः प्रत्युक्तः ।
शेषं सुबोधम्॥५ ॥
न्य्स्_१,१।६: प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानम् ॥
विभागसूत्रे अनुमानानन्तरमुपमानस्योद्देशाद् यथोद्देशं च लक्षणादनुमानलक्षणानन्तरमुपमानलक्षणमाह—अथोपमानमिति भाष्यम् ।
सूत्रं पठति—प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम् ।
अत्रापि यत इत्यध्याहार्यम् ।
सिद्धिः साधनम् ।
तदेतद् भाष्यकारेण व्याख्यातम् ।
प्रज्ञातेन प्रसिद्धेन ।
गवा साधर्म्यात् सामान्याद् गवयस्य ।
साधर्म्यं च सामान्यमभिदधता न सामान्यातिरिक्तं सादृश्यं नाम पदार्थान्तरमस्तीत्युक्तं भवति ।
साधर्म्यं चाप्रसिद्धं न साध्यसाघनायालमिति साधर्म्यप्रसिद्धिरपि द्रष्टव्या ।
सा च यथा गौस्तथा गवय इत्याप्तवाक्यात् ।
तदिदमुक्तम्—यथा गौरिति ।
साध्यसाधनपदव्याख्यानम्—प्रज्ञापनीयस्य गवयशब्दवाच्यतया प्रत्यक्षदृश्यमानगोसादृश्यस्य गवयत्वसामान्यविशेषवतः पिण्डस्य प्रज्ञापनमुपमानम् ।
पिण्डस्य हि गवयशब्दवाच्यतां पुरुषो ऽतिदेशवाक्यस्मरणसहकारिणः प्रतयक्षाद् गवयगताद् गोसादृश्यात् प्रजानन् तेन प्रज्ञाप्यत इति प्रमाणस्य व्यापारः प्रज्ञापनमुक्तमिति ।
तत्र वार्त्तिककारः प्रथमं तावत् सूत्रतात्पर्यमाह—सूत्रार्थः पूर्ववत् ।
समानासमानजातीयव्यवच्छेद इत्यर्थः ।
साध्यसाधनमित्युच्यमाने प्रत्यक्षादिसाधनेषु सुखदुःखसाधनेषु प्रसङ्गः ।
अत उक्तं प्रसिद्धसाधर्म्यादिति ।
यद्यपि प्रसिद्धसार्म्यमुपमानमित्युच्यमाने प्रमाणविशेषाभिधाय्युपमानपदसामानाधिकरण्यात् करणत्वलाभः, तथापि तदाभासनिराकरणाय साध्यसाधनपदोपादानम् ।
तेनोपमानाभासमपाकृतं भवतीति ॥
अवयवार्थं विभजते—प्रसिद्धेति ।
वार्त्तिककारेण बहुव्रीहिद्वयसम्भवो दर्शितः, न तु तृतीयासमासो भाष्यकारीयो निरस्तः ।
भाष्यकारेण हि सञ्ज्ञितया गवयप्रतिपत्तिः फलं साध्यसाधनपदवाच्यमुक्ता, आक्षिप्तप्रयोज्यव्यापारत्वात् ।
प्रयोजकव्यापारस्य प्रज्ञापनस्य पश्चात् निष्कृष्याभिधानं कृतम्—समाख्यासम्बन्धप्रतिपत्तिपत्तिरूपमानार्थ इति ।
एतदेव साध्यसाधनपदार्थतया वार्त्तिककारो व्याचष्टे—समाख्यासम्बन्धप्रतिपत्तिरूपमानार्थः फलम् ।
साध्यशब्देन समाख्यासम्बन्ध उच्यते ।
तस्य साधनं सिद्धिः प्रतिपत्तिरिति ।
ननु प्रतिपद्यतामयं गोसादृश्ययुक्तं गवयम् ।
समाख्यासम्बन्धप्रतिपत्तिस्तु कुतस्त्या? न हि यो यत्सदृशं यं प्रतिपद्यते, स तस्य समाख्यामप्यवगच्छति इत्याशयवान् पृच्छति—किमुक्तं भवति ।
उत्तरम्—आगमेति ।
आगमानुभवाहितात् संस्कारात् स्मृतिः ।
एतदुक्तं भवति, न केवलं सारूप्यज्ञानं समाख्यासम्बन्धप्रतिपत्तिहेतुः, अपि त्वागमार्थस्मृत्यपेक्षमिति ।
नन्वसत्यागमानुभवे कुतः स्मृतिरित्यत आह—यदा ह्यनेनेति ।
प्रसिद्धसाधर्म्यादित्यत्र प्रसिद्धिरूभयी श्रुतमयी प्रत्यक्षमयी च ।
श्रुतमयी यथा गौरेवं गवय इति ।
प्रत्यक्षमयी च यथा गोसादृश्यविशिष्टो ऽयमीदृशः पिण्ड इति ।
तत्र प्रत्यक्षमयी प्रसिद्धिरागमाहितस्मृत्यपेक्षा समाख्यासम्बन्धप्रतिपत्तिहेतुः ।
यद्यपि यथा गौरेवं गवय इत्येतस्मादपि गोसदृशस्य गवयशब्दः समाख्येति शक्यमवगन्तुम्, न खलु प्रत्यक्ष एव सञ्ज्ञाकर्म, समानजातीयव्यवच्छिन्ने हि तद्भावति ।
तच्च यदि मानान्तरेणापि तथावगम्यते, कस्तत्र सञ्ज्ञाकर्म निवारयेत्? गोसादृश्येन चोपलक्षितः पिण्डो य इति सर्वनाम्ना परामृष्टः शक्यो घटादिभ्यो ऽसमानजातियेभ्यो महिषादिभ्यश्च समानजातीयेभ्यो व्यवच्छिन्नो ऽवगन्तुं गवयः, तथापि यावदयमसौ गवय इति साक्षात् प्रतीते सम्बन्धिनि सञ्ज्ञां न निवेशयति, तावदयं परिप्लुतमतिः प्रमाता कच्चित् खलु द्रक्ष्यामि तादृशं पिण्डं यत्र गवयसञ्ज्ञा प्रतिपत्स्य इति प्रमोत्सुक एवोदीक्षते ।
न चासौ वाक्यमात्रसहायो ऽप्रत्यक्षीकृतगोसदृशगवयत्वजातिमत्पिण्डो ऽसौ गवयाख्य इति प्रतिपत्तुमर्हति ।
न च वाक्यं विना प्रत्यक्षात्रात् ।
तस्मादागमप्रत्यक्षाभ्यामन्यदेवेदम् आगमस्मृतिसहितं सादृश्यज्ञानमुपमानाख्यं प्रमाणमास्थेयम् ॥
ननु यदोदीच्येन क्रमेलकं निन्द्रतोक्तम्, धिक् करभमतिदीर्घवक्रग्रीवं प्रलम्बोष्ठं कठोरतीक्ष्णकण्टकाशिनं कुत्सितावयवसन्निवेशमपसदं पशूनामिति, तदुपश्रुत्य दाक्षिणात्य उत्तरापथं गतस्तादृशं वस्तूपलभ्य नूनमसौ करभ इति प्रत्येति, तत् कतमदेतेषु प्रमाणम्? न तावदुपमानं साधर्म्याभावात् ।
नापि पञ्चमं प्रमाणमुपगम्यते ।
यद्युच्येत निन्दापरं वाक्यं करभस्य तादृशत्वे न प्रमाणम्, न ह्यन्यपरात् शब्दादन्यस्यावगम इति ।
यत्र तर्हि तादृक्त्वे पर्यवस्यति वाक्यं तत्र का गतिः? अथ तत्रापि तादृक् करभ आगमावगतः प्रत्यक्षेण प्रत्यभिज्ञायते, करभशब्दवाच्यता तु तस्य तत्पूर्वं तादृक्वरभपरत्वे अप्यागमस्य प्रयोगमात्रादवगता अनुमानात् ।
यो हि यत्र प्रयुज्यते शब्दो ऽसति वृत्त्यन्तरे स तस्य वाचकः, यथा गोशब्दो गोत्वे ।
प्रयुक्तश्चायं तादृशि ।
तस्मात् तस्य वाचक इति ।
तदिदं प्रागेव प्रयोगानुमितं वाचकत्वमस्य प्रत्यक्षसमये केवलं स्मर्यते इति ।
समानमेतत्
उपमानवाक्ये ऽपि तत्रापि वाक्यादवगतः साधर्म्यवान् पिण्डः प्रत्यक्षेण प्रत्यभिज्ञायते ।
प्रयोगानुमितं च गवयपदस्य वाचकत्वं स्मर्यते इति न फलान्तरमवशिष्यते यत्रोपमानं प्रमाणमिति ॥
अत्रोच्यते ।
न तावदाकाशादिशब्दवदेष गवयशब्दः साक्षात् पिण्डस्य वाचकः, किन्तु गवयत्वं निमित्तीकृत्य पिण्डे वर्तते इति परमार्थः ।
न च यथा गौरेवं गवय इति वाक्याद् गवयत्वमवगतम्, न ह्यनवगतसम्बधं गवयपदमेतदवबोधयति ।
ततस्तदवगमात् तु सम्बन्धवेदने परस्पराश्रयप्रसङ्गः ।
न च गोसादृश्येनोपलक्ष्यते गवयत्वम् ।
न खल्वनुपलब्धचरेण गवयत्वेन गोसादृश्यं सम्बद्धं दृष्टम् ।
न चादृष्टसम्बन्धम् उपलक्षकम् ।
न हि पुरुषेणादृष्टसम्बन्धो दण्डः पुरुषमुपलक्षयितुमर्हति ।
तस्मात् सम्बन्धिनो गवयत्वस्य सर्वथानुपलब्धेः कुतो वाक्याद् वा अनुमानाद् वा वाच्यवाचकसम्बन्धावसायः? कुतस्तरां च सम्बन्धस्मृति? गवयत्वसामान्यविशेषवति तु पिण्डे प्रत्यक्षे युक्तः सम्बन्धावगमः, सम्बन्धिनो गवयत्वस्य प्रत्यक्षत्वात् वाक्यार्थस्य च स्मर्याणत्वात् ।
तथापि किं गवयत्वजातिमान् पिण्डो वाच्यः, उत गोसादृश्यवानिति कुतो विनिगमनेति चेत्? वाक्यार्थस्मरणसहकारि गवयत्वजातिमतः पिण्डस्य गासादृश्यदर्शनमेव तर्कसहायं गवयत्वाभिधाने प्रमाणम् ।
तर्कश्च गोसादृश्यविशिष्टपिण्डाभिधाने कल्पनागौरवप्रसङ्गः तथा हि सादृश्यविशिष्ट पिण्डाभिधाने, नाप्रतीतं सादृश्यं पिण्डं विशिनष्टीति तत्प्रतिपत्तव्यम् ।
न च शब्दादन्यतस्तदवगम इति शब्दश्य तत्र वाचकत्वं कल्पनीयम् ।
न चाविशिष्टं सादृश्यमपि पिण्डविशेषे गवयपदम् अवस्थापयितुमर्हति, यस्य कस्यचिद् येन केनचित् सह सादृश्यादिति तदपि गवा विशेषणीयम् ।
न चान्यतो गोत्वस्यापि प्रतिपत्तिरिति तदपि गवयपदेनाभिधातव्यम् इति कल्पनागौरवम् ।
गवयत्वजातिमत्पिण्डाभिधाने तु लाघवमिति तदनुजानाति ।
साधर्म्यग्रहणं च धर्ममात्रोपलक्षणमिति करभसञ्ज्ञाप्रतीतिफलमप्युपमानमेवेति नाव्याप्तिः ।
नापि पञ्चमप्रमाणाभ्युपगमः ।
अत एव बहुन्युदाहणान्युक्त्वाप्याह स्म भगवान् भाष्यकारः, एवमन्यो ऽप्युपमानस्य लोके विषयो बुभुत्सितव्य इति ।
तस्मात् सर्वं चतुरस्रम् ॥
तदीदृशमुपमानफलमविद्वान् सादृश्यविशिष्टवस्तुज्ञानं चोपमानफलमिति भ्रान्तो भदन्तो दिग्नाग आक्षिपति—प्रत्यक्षेति ।
पृच्छति—कथमिति ।
उत्तरम्—यदा ताविति ।
उपलक्षणं चैतत्, उभौ प्रत्यक्षेण पश्यतीति ।
यदा तु गवयमेकं प्रत्यक्षेण पश्यति, स्मरति च गाम्, तदापि गोसादृश्यं गवयस्थं प्रत्यक्षमेव ।
गगोस्थमप्रत्यक्षम्, अप्रत्यक्षत्वाद् गोरिति चेत्? हन्त भोः किमभिमतं सादृश्यमायुष्मतो यदप्रत्यक्षायां गवि न प्रत्यक्षम्? सामान्यबाहुल्यं जात्यन्तरवर्ति जात्यन्तरस्य ।
यथाहुः,
सामान्यान्येव भूयांसि गुणावयवकर्मणाम् ।
भिन्नप्रधानसामान्यवृत्ति सादृश्यमुच्यते ॥
इति चेत्? तत् किमिदानीं कर्णत्वादिसामान्यं गोगवयगतकर्णादिभेदेन भिन्नमित्यपि वक्तुमध्यवसितो ऽसि? तस्माद्
यथा कालाक्ष्यां गवि गोत्वमीक्षितवतः स्वस्तिमत्यां प्रत्यभिज्ञायमानं तदेवेदमिति, एतदेव तदित्यवगतं भवति, तथेहापीति न फलातिरेकः ।
तस्मात् न सादृश्यप्रतीतिफलमुपमानं प्रत्यक्षाद् वाक्याद् वा व्यतिरिच्यते इति सूक्तम् ।
भदन्तभ्रान्तिमुद्घाटयति—गवेति ।
गवयसत्तां सादृश्यविशिष्टम् इत्यर्थः ।
अर्थतत्त्वमुक्तं स्मारयति—गवयेति ।
उपसंहरति—तस्मादिति ।
प्रयोगस्तु, प्रत्यक्षादिभ्यः प्रमाणान्तरमुपमानम्, तज्जन्यप्रमाविलक्षणप्रमाजनकत्वात् ।
यदि तु न तेभ्यो विलक्षणमभविष्यद् न तद्विलक्षणां प्रमामकरिष्यत्, तथा तान्येव ।
न चैतत् तथा ।
तस्मात् तथाति ॥६ ॥
न्य्स्_१,१।७: आप्तोपदेशः शब्दः ॥
अथ शब्द इति भाष्यम् ।
उपमानानन्तरं शब्दोद्देशात् उपमानलक्षणानन्तरं शब्दस्य लक्षणमित्यर्थः ।
लक्षणसूत्रं पठति—आप्तोपदेशः शब्दः ।
अत्र शब्द इति लक्ष्यपदम् ।
आप्तोपदेश इति लक्षणम् ।
उपदिश्यते ऽनेनेति उपदेशो वाक्यज्ञानं वा तदर्थज्ञानं वा अभिघीयते ।
तत्र वाक्यज्ञानप्रमाण्यपक्षे तदर्थज्ञानं फलम्, पदार्थस्मृत्यादयस्त्वान्तरालिका इतिकर्तव्यताः ।
तदर्थज्ञानप्रामाण्यपक्षे तु हानादिबुद्धिः फलम् ।
यद्यपि विधिरूपदेशः प्रवर्तनमित्यनर्थान्तरम्, यद्यपि चायं नियोज्यप्रयोजने प्रवृत्तिनिवृत्ती विदधदाज्ञाध्येषणाभ्यामतिरिच्यते, ते हि नियोक्तृप्रयोजने प्रवृत्तिनिवृत्ती विधत्तः, तथापि भूतार्थपरोपनिषदादिशब्दव्यापकत्वात् परप्रयोजनवद्वचनमात्रविवक्षयोपदेशपदं व्याख्येयम् ।
यद्यपि सदेव सोम्येदमग्र आसीद्
इत्यादि वचनं क्वचित् न प्रवर्तयति, कुतश्चिद् वा निवर्तयति पुरुषम्, तथापि पुरुषश्रेयो ऽभिधत्ते इत्युपदेश इत्युच्यते ।
तथाप्यतिव्याप्तिः, चैत्यवन्दनादिवाक्यानामप्येवं लक्षणत्वात् ।
अत उक्तम्—आप्तेति ।
आप्तानां ऋष्यार्यम्लेच्छानामुपदेशः शब्दो न त्वनाप्तानां मायामोहनिर्मितानां बुद्धर्षभादीनां प्रमाणविरुद्धक्षणिकसर्वधर्मनैरात्म्यवादिनामिति ।
तदेवाह—वार्त्तिककारः न शब्दमात्रमिति सूत्रार्थः ॥
सूत्रस्थाप्तलक्षणपरं भाष्यम्—आप्तः खलु साक्षात्कृतधर्मा ।
सुदृढेन प्रमाणेनावधारिताः साक्षात्कृता धर्माः पदार्था हिताहितप्राप्तिपरिहारप्रयोजना येन स तथोक्तः ।
तथापि तत्त्वं विद्वान् अकारूणिकतया वा अलसतया वा अनुपदिशन्, मत्सरितया वा विपरीतमुपदिशन् नाप्तः स्यादित्यत आह—यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्तः ।
यथादृष्टस्येति मत्सरितया विपरीतोपदेशो निवारितः ।
चिख्यापयिषयेति अकृपास्वार्थकामत्वे निराकृते ।
प्रयुक्तः उत्पादितप्रयत्नः इत्यलसत्वम् ।
तथापि स्थानकरणपाटवाभावेन वर्णनिष्पादनासामर्थ्येनाप्तः प्रसज्येत, इत्यत आह—उपदेष्टा ।
स्थानकरणपाटवानित्यर्थः ॥
आप्त इति प्रकृतिप्रत्ययसमुदायात् प्रकृति निष्कृष्य तदर्थमाह–साक्षात्करणमिति ।
अनेन यथोक्तरूपसम्पदुपलक्षिता ।
प्रत्ययार्थमाह–तयेति ।
आप्तलक्षणस्य वयापकत्वमाह–ऋषीति ।
दर्शनात् ऋषिः ।
करतलामलकफलवत् साक्षात्कृतत्रैकाल्यवर्त्तिप्रमेयमात्रः, आराद् यातः पातकेभ्य इत्यार्यो मध्यमो लोकः, म्लेच्छः प्रसिद्धः ।
म्लेच्छा अपि हि परिपथमवस्थिताः पान्थानामपहृतसर्वस्वानां मार्गाख्याने हेतुदर्शनशून्या अवन्त्याप्ता इति परेषामाप्तलक्षणमव्यापकमित्युक्तं भवति ॥
तदेतद् भाष्यम् आक्षेप्तुमनुभाषते—आप्तः खल्विति ।
आक्षिपति—स्वर्गेति ।
आक्षेप्ता भाष्यम् आक्षिप्य सूत्रं समाधत्ते तस्मादिति ।
आप्तः प्राप्तो युक्त इति यावत् ।
अपौरुषेयो वैदिक उपदेशः स्वर्गापूर्वदेवतादिविषयः स्वतःप्रामाण्ये सिद्धे निर्देषतया युक्त उपपन्नः ।
लौकिकश्चार्यम्लेच्छानां प्रमाणान्तरमूलो युक्तः ।
मानान्तराभावे त्वनाप्तो ऽयुक्तः ।
समाधत्ते—न ब्रूम इति ।
पौरुषेयत्वं वेदानां द्वितीयाध्याय उपपादयिष्यते ।
तस्मात् पुरुषस्यैवाप्तस्योपदेश आप्तोपदेश इति साधु व्याख्यानं भाष्यकारीयमिति भावः ॥
पृच्छति–कः पुनरिति ।
अस्ति हि स्वर्गादीनामप्रत्यक्षत्वे न्यायः, योगिप्रत्यक्षं न स्वर्गादिविषयः प्रत्यक्षत्वात् अस्मदादिप्रत्यक्षवदिति भावः ।
उत्तरम्–ब्रूमो न्यायम् ।
तमाह–समान्यविशेषवत्त्वात् कस्यचित् प्रत्यक्षा इति ।
अत्र यावति पक्षे यो हेतुः सिद्धः, तस्य तन्मात्रे पक्षीकार्यम् ।
योगजे च प्रत्यक्षे सिद्धे तत्साधकादेव प्रमाणात् तस्य स्वर्गादिविषयत्वमपि सिद्धमिति धर्मिग्राहकप्रमाणविरुद्धं मीमांसकानाम् अनुमानं नोदेतुमप्युत्सहते प्रागेव तद् बाधितुम् ।
असिद्धे तु योगजे प्रत्यक्ष आश्रयासिद्धो हेतुराभासः ।
अस्माकं तु सम्यञ्चो बहवश्च न्याया इति भावः ।
अनित्यत्वं हेतुमाक्षिपति–असिद्धमिति ।
परिहरति–नेति ।
नित्ये चापूर्व इति ।
अत्र त्रयः कल्पाः, किमेकमपूर्वं सर्वपुरुषसाधारणम्, आहो असाधारणम्? यदापि असाधारणं तदापि किं प्रतिपुरुषमेकैकमपूर्वम्, आहो प्रतिपुरुषमनेकमिति? तत्र प्रथमं कल्पं दूषयति–यदि साधारणतेति ।
न हि कदाचिदप्ययमपूर्वं पश्यति लौकिकः पुरुषः ।
योगिनस्त्वनभिव्यक्तमपि पश्यन्तीति भावः ।
द्वितीयं कल्पं दूषयति–एतेन प्रतिपुरुषमिति ।
उत्कर्ष आधिक्यमवयवोपचय इति यावत् ।
शङ्कते–व्य।जकेति ।
एकमपि व्य।जकभेदात् उत्कर्षनिकर्षवद् दृष्टम् ।
तद् यथा महति दर्पणतले महन्मुखम्, तदेव कनीनिकायाम् अण्विति भावः ।
वक्ष्यमाणेनाभिप्रायेण निराकरोति–न ह्येकमिति ।
शङ्किता स्वाभिप्रायमुद्धाटयति–ननु चेति ।
स्वाभिप्रायेण निराकरोति—न दृष्ट इति ब्रूम इति ।
शङ्किता पृच्छति–किं पुनस्तत् यदि न दृष्टम्? तत्र यदि भेदेन न दृष्टम्, दृष्टिर्नास्ति ।
किं पुनस्तत्, यद् भेदेन भेददर्शनमिति भासते? समाघाता स्वाभिप्रायमाह–मिथ्याप्रत्यय इति ।
न भेददर्शनमपजानीमहे, किं तु पारमार्थिकं भेदम् ।
न च कल्पितो ऽपूर्वभदः पारमार्थिकाय कार्यायालमिति भावः ।
उत्कर्षापकर्षकर्तृत्वं वेति कर्मण इति शेषः ।
तृतीयं कल्पमातिष्ठते—प्रतिपुरुषमनेक इति ।
दूषयति—अनिवृत्त इति ।
अथोत्तरकालमिति ।
अश्वमेधक्रियया तावत् तदपूर्वं स्वकाल एवाभिव्यक्तं फलदानाभिमुखीकृतम्, अभिव्य।जकसमानकालत्वादभिव्यक्तेः, प्रदीपादिषु दर्शनात् ।
तथापि फलं तावत् न दत्ते, यावत् क्रिया न निवर्तते ।
निवृत्तायां तु फलं दत्ते इत्यर्थः ।
दूषयति—असतीति ।
तत् खलु पूर्वं सदपि फलं नाकार्षीत् चरमभाविन्याः क्रियायाः तज्जन्याया आभिव्यक्तेरनुत्पादात् ।
उत्पन्नायां तु क्रियायामभिव्यक्तौ वा कस्मात् न करोति? न हि क्रियाया विनाशस्य कश्चिदुपयोगः ।
तस्मादकामेनापि त्वया असत्या एव क्रियाया व्य।जकत्वमनुग्राहकत्वं चाङ्गीकर्तव्यम् ।
तच्चैतदुभयमपि चित्रमित्यर्थः ।
अपि च सासती चेत् क्रियाभिव्यनक्ति, तथा सति असत्तायाः सर्वत्र सुलभत्वात् न किञ्चिदपूर्वं नाभिव्यक्तमिति ।
क्रियाविलोपः प्रयत्नविलोप इत्यर्थः ॥
अत्र शब्दं प्रमाणान्तरमसहमानो दिग्नागः तल्लक्षणं विकल्प्याक्षिपति—आप्तोपदेश इति ।
अन्यस्मादन्यस्य निश्चयो न तावदसम्बन्धादतिप्रसङ्गात् ।
न च शब्दः अर्थात्मा, नाप्यर्थकार्यः ।
विनाप्यर्थं पुरुषविवक्षामात्रादेव तदुत्पादात् ।
तस्मात् न साक्षात् शब्दादर्थनिश्चयः, विवक्षाकार्यन्तया तु विवक्षां गमयेत् ।
सा चार्थाभिप्रायपूर्वा ।
अभिप्रायश्च कश्चिन्मनोमात्रयोनिः, अपरस्तु प्रमाणमूलः ।
तत्र यः प्रमाणनिश्चितमर्थं विवक्षति, यथाविवक्षं चोच्चारयति स आप्तः ।
तस्य वचनात् कार्यात् कारणं विवक्षा अनुमीयते ।
तस्याश्च कारणमर्थज्ञानम् ।
ततश्चार्थज्ञानस्यार्थकार्यत्वादिति प्रमाणगतिः ।
तत्राप्तोपदेश इत्यत्रोपदेशक्रियया उपदेष्टार उपस्थापिताः ।
ते च प्रायेण विसंवादका दृष्टा इत्याप्तग्रहणेन तेषामविसंवादित्वम् ।
ततश्च उपदेशादर्थविनिश्चयो भवत्वित्येतदर्थं यद्युच्येत इत्याह—यद्याप्तानामिति ।
उपदेष्टणामित्यर्थः ।
इमं कल्पं दूषयति—तदनुमानात् ।
अविसंवादित्वमुपदेष्टुरानुमानिकम्, तादृशस्य वचनमर्थविनिश्चये अनुमानमेव ।
तथा हि यद् यन्निर्देषसत्त्वीयं वचनं तत्सर्वमर्थवत्, यथा बुद्धस्य क्षणिकनैरात्म्यादिविषय उपदेशः, तथा चायं विवादाध्यासित उपदेश इति ।
यथोक्तं भदन्तेन
आप्तवाक्याविसंवादसामान्यादनुमानता ॥
इति ।
द्वितीयं कल्पमातिष्ठते—अथार्थस्य तथाभावः ।
अत्र हि उपदिश्यत इत्युपदेश इति व्युत्पत्त्या अर्थ उच्यते ।
आप्तः प्राप्त उपदेशो यस्मात् स तथोक्तः ।
एतदुक्तं भवति यस्मात् शब्दादवगम्यार्थं प्रवर्तमानः प्राप्नोति तमेवार्थ स आप्तोपदेशः शब्दः प्रमाणम् ।
एवं च यथा शब्देन यो ऽर्थो दर्शितः, तस्याप्त्या तथाता दर्शिता भवति ।
तदिदमुक्तम्–अथार्थस्य तथाभाव इति ।
दूषयति–सो ऽपीति ।
तदेव स्फुटयति–यदा हीति ।
आप्त्या हि तथात्वं विनिश्चन्वन् अर्थस्य नाप्रतिपन्नतया निश्चेतुमर्हति ।
प्रतिपत्तिश्च प्रायेण प्रत्यक्षेणेति प्रत्यक्षत इत्युक्तम् ।
तमिममाक्षेमपाकरोति–तन्नेति ।
नाप्तत्वसहायः शब्दो ऽर्थं बोधयतीति सूत्रार्थः ।
नापि शब्दार्थप्राप्त्या शब्दार्थतथात्वमिति ।
कस्तर्हि इत्यत आह–अपि त्विति ।
इन्द्रियसम्बद्धासम्बद्धेष्विति दृरूटदृष्टेष्वित्यर्थः ।
यथोक्तं स द्विविधो दृष्टादृष्टभेदादिति ।
एतदुक्तं भवति, नाप्तत्वहेतुकमविसंवादित्वमनेन सूत्रेणागमार्थतया प्रतिपाद्यते ।
नाप्यर्थतथात्वम् आगमार्थतया प्रतिपाद्यते ।
नाप्यागमः प्रत्यक्षानुमानाभ्यां न भिद्यते, किं तु उपदेशः शब्द इत्युक्तम् ।
उपदेश इति च कारकपदम्, उपदिश्यते ज्ञाप्यते प्रयोजनवानर्थो ऽनेनेति ।
तथापि वातिकाद्युपदेशो ऽपि शब्दः स्यादित्यत उक्तम्—आप्तेति ।
तेनोपदेशपदादेवागमस्य वाक्यार्थप्रतिपत्तिः फलमुक्तम् ।
तदिदमुक्तम्—या शब्दोल्लेखेन पदार्थस्मरणावान्तरव्यापारात् शब्दादेवार्थं प्रत्येमीत्यनेनोल्लेखेन प्रतिपत्तिः सागमस्यार्थः फलमिति ।
आप्तत्वं च न वाक्यार्थं प्रत्याययति अपि त्वागमस्याव्यभिचारिताम् ।
न च यतः प्रामाण्यमवगम्यते ततः प्रमेयमपि ।
तथा च सति प्रामाण्यज्ञानहेतोरनुमानादेव प्रत्यक्षादिप्रमेयावगतिरिति प्रत्यक्षादीनामप्रमाण्यप्रसङ्गः ।
तथासति कस्यानुमानमपि प्रामाण्यमवधारयेत् ।
न चाप्तवाक्यं कार्यं सद् वक्तृज्ञानानुमानद्वारेणार्थे ऽप्यनुमानमेव, न त्वर्थस्य प्रत्यायकमिति साम्प्रतम् ।
यदि हि नार्थं प्रत्याययेत् ज्ञानमात्रमनुमापयेत्, तथा च नार्थविशेषसिद्धिः ।
न च ज्ञानस्यार्थादन्यो ऽस्ति कश्चिद् विशेषः ।
तस्मात् वक्तृज्ञानविशेषणाय पूर्वं शब्दादेव केवलाद् वाक्यार्थज्ञानम् एषितव्यम् ।
एवं च कृतं वक्तृज्ञानानुमानेनार्थप्रतिपत्त्यर्थेन केवलं प्रामाण्यज्ञानाय तदुपयोग इति ।
न चाविनाभाव एव सम्बन्धो येन शब्दार्थयोरसम्बन्धेन गम्यगमकत्वं न स्यात् ।
अस्ति हि साङ्केतिकः सम्बन्धो ऽनयोरिति वक्ष्यते ।
न चाविनाभावः एव प्रत्यायनाङ्गम्, चक्षुरादयो नीलादिभेदव्यभिचारिणो ऽपि दृष्टाः तत्प्रतिपादका इत्युक्तम् ।
तस्मात् पदानि कृतसङ्केतानि स्वार्थान् स्मारयन्ति, आकाङ्क्षायोग्यतासत्तिसध्रीचीनानि अदृष्टपूर्वं वाक्यार्थं बोधयन्ति, न सङ्गतिग्रहणमपि प्रतीक्षन्त इति दूरे ऽनुमानाद् भवन्ति ।
यथा चैतत्, तथोद्देशे लेशत उक्तम् ।
उपपादितं च तत्त्वबिन्दौ ।
तस्मात् सर्वमवदातम्॥७ ॥
न्य्स्_१,१।८: स द्विविधो दृष्टादृष्टार्थत्वात् ॥
स द्विविधो दृष्टादृष्टार्थत्वात् इति सूत्रस्य तात्पर्यमाह—नियमार्थम् ।
तद्विभजते—अनेकधेति ।
दृष्टादृष्टार्थत्वादिति भाष्यमतेन व्याचष्टे—प्रत्यक्षेति ।
आप्तप्रणीतत्वलिङ्गानुमितप्रामाण्यशब्दैकविषयस्वर्गयागादिसम्बन्धादीनामनुमानविषयता ।
यथाह भाष्यकारः, यस्यामुत्र प्रतीयते सो ऽदृष्टार्थ इति ।
अदृष्टार्थो ऽपि प्रमाणमर्थस्यानुमानादिति ।
तेन दृष्टो ऽर्थो यस्यागमस्य स तथा ।
एवमितरो ऽपीति ।
तदेवं भाष्यमतेन व्याख्याय स्वमतेन व्याचष्टे—वक्तृभेदेनति ।
दृष्टो ऽर्थो येन सं दृष्टार्थः प्रवक्ता, एवमदृष्टो ऽर्थोनुमितो येन स तथा ।
तत्र दृष्टार्था ऋषयो ऽस्मदादयश्च ।
अनुमितार्था अस्मदादय एवेति ।
एवमपि शब्दद्वैविध्यसाधने मा भूदपक्षधर्गतेति प्रवक्तृपदेन पूरयति—दृष्टादृष्टार्थप्रवक्तृकत्वादिति ।
अदृष्टार्थः प्रवक्ता यस्यागमस्य स तथोक्तः ।
अस्यार्थमाह न विग्रहं करोति प्रत्यक्षत इति ।
शेषं सुबोधम् ।
स न मन्येत दृष्टानां वाक्यानां प्रामाण्यम् ।
स इति ।
विप्रकृष्टो नास्तिकः परामृष्यत इति भाष्ययोजनिका ।
परिशिष्टं तु परीक्षापर्वणि निवेदयिष्यते ॥८ ॥
न्य्स्_१,१।९: आत्माशरीरेन्द्रियार्थबुद्धिमनःवृत्तिदोषप्रेत्यभावफलदुःखापवर्गासतु प्रमेयम् ॥
इह प्रमेयं हेयोपादेयभावेनावस्थितं मुमुक्षुणा प्रतिपित्सितम् ।
तच्च परीक्षितस्वप्रमाणविशेषाधीनप्रतिपत्ति ।
लक्षणं चास्य प्रमाणविशेषः ।
न चावान्तरप्रमाणसामान्यप्रत्यक्षादिलक्षणमन्तरेणात्मादिप्रमाणावतारः कर्तुं शक्यः, तस्य प्रत्यक्षादिसामान्यविशेषत्वात् ।
अतः प्रत्यक्षादिलक्षणानन्तरं तदवतारः ।
अपरीक्षितं च न तत्त्वनिर्णयाय पर्याप्तमिति परीक्षा विधायिष्यते ।
तत्परिकरश्च संशयादय इति युक्तं तेषां पश्चाल्लक्षणम् ।
तदिह प्रमेयलक्षणाय तद्विभागोद्देशसूत्रमवतारयितुं भाष्यकारः पृच्छति स्म—किं पुनरनेन प्रमाणेनेति ।
जात्यभिप्रायमेकवचनम्, प्रकृते प्रमेये यथायथं प्रमाणानामुपयोगात् ।
तदेतद् भाष्यम् अनूद्य वार्त्तिककार आक्षिपति—किं पुनरिति ।
प्रमेयनान्तरीयकत्वं प्रमाणानां सामर्थ्यम् ।
समाधत्ते–नेति ।
प्रत्यक्षादिलक्षणसामर्थ्यात् प्रमेयमात्रं सिद्वम्, सिशिष्टं तु प्रमेयमद्यापि न सिध्यतीति तदर्थं प्रश्नः ।
स च विशेषो यथावदिति न दर्शित इति ।
अयमेव च सूत्रार्थ इति ।
येषां तत्त्वातत्त्वज्ञानाभ्याम् अपवर्गसंसारौ भवतः, त एतावन्त एव ।
न न्यूना नाधिका इत्यर्थः ।
प्रथमसूत्रव्यवस्थाम् अतिदिशति—अत्रापीति ।
उक्तमर्थमनाकलयन्नाक्षिपति—उभयेति ।
दिगादीनामिति ।
द्रव्येषु दिक्कालपरमाणूनामनभिधानात् ।
वृक्षस्तिष्ठतीति ।
इतिशब्द आद्यर्थे तेन वृक्षं पश्यति, वृक्षेण चन्द्रमसं पश्यतीत्यादयो वेदितव्याः ।
समाधत्ते—न सूत्रार्थापरिज्ञानादिति, न प्रमेयपदं प्रमेयमात्रे प्रवर्तते, किं तु यत् तत्त्वतो ज्ञायमानमपवर्गसाधनं तस्मिन्, तच्चात्माद्येव नान्यदिति युक्तो ऽन्ययोगव्यवच्छेद इत्यर्थः ।
अयोगव्यवच्छेदे ऽपि न दोष इत्याह—प्रमेयमेवेति ।
नन्वस्मिन् पक्षे न कदाचिदपि प्रमाणता स्यादित्यस्ति दोष इत्यत आह—किमुक्तं भवतीति ।
नास्य पुरुषमात्रं प्रति प्रमेयत्वं विधीयते, अपि तु मोक्षमाणशिष्टं प्रति विधीयते ।
अनूद्यत इति प्रमाणान्तरमूलकत्वेन विधानस्य दार्ढ्यं दर्शयति ।
उपसंहरति—तस्मादिति ।
कौशलमात्रमात्मनः ख्यापयितुमभ्युपेत्य समाधानान्तरमाह–उपेत्येति ।
प्रवृत्तिसंस्कारकत्वमस्ति दिक्कालयोः,
प्राङ्मुखो ऽन्नानि भु।जीत ॥
प्राचीनप्रवणे वैश्वदेवेन यजेत ॥
पौर्णमास्यां पौर्णमास्या यजेत ॥
अमावास्यायाममावास्यया यजेत ॥
इत्येवमादि श्रवणात् ।
कौशलमात्रमिदं न तु समाधानमित्याह—न पुनरिदमिति ।
विहितविधानादिति ।
प्रमाणविधानसामर्थ्येन विहितमित्यर्थः ।
न केवलं प्रमाणविधानाक्षिप्तम्, अपि त्वाद्यसूत्रगमप्रमेयपदादपि लब्धमित्याह—आद्येन चेति ।
एतस्मिश्चार्थे सूत्रकारस्य अनुमतिमाह—एनं चार्थमिति ।
भाष्यम्—सर्वस्य सुखदुःखसाधनस्य, द्रष्टा सर्वस्य सुखदुःखस्य भोक्ता, यतः सुखदुःखसाधनं सर्वम्, सर्वं च सुखदुःखं जानाति, अतः सर्वज्ञः ।
न चाप्राप्तान्येतानि जानातीत्यत आह—सर्वानुभावी ।
अनुभवः प्राप्तिः ।
तदेतद् वैराग्योत्पादायोक्तम्, एवमुत्तरत्रापि बोद्धव्यम् ।
आत्मन्ययं विशेषो यदनेन रूपेण हेयः, कैवल्येन चोपादेयः ।
शरीरादीनि तु हेयान्येव ।
अपवर्गस्तूपादेय एवेति ।
अविद्यमानं पूर्वं शरीरं यस्य तदपूर्वं शरीरम् ।
तन्निषेधति—नास्येदमिति ।
प्रमेयतत्त्वमविदुष आत्मन अविद्यमानमुत्तरं शरीरं यस्य तद् अनुत्तरम् ।
तदपि निषिद्धं चेन, नेत्यनुकर्षणात् ।
ननु यथा पूर्वेषां शरीराणाम् अनादिता एवमुत्तरेषामप्यनन्तता, तथा च मोक्षमाणानां प्रवृत्तयश्च तदर्थानि शास्त्राणि चानर्थकानि प्रसज्येरन्नित्यत आह—उत्तरेषामिति ।
प्रमेयतत्त्वावगमादित्यर्थः ।
ननु सूखे ऽप्युद्देष्टव्ये दुःखमात्रोद्देशः किं सुखं प्रत्याचष्टे? तथा चानुभवविरोध इत्यत आह–नेदमिति ।
तदेतद् भाष्यं वार्त्तिककार आक्षेपसमाधानाभ्यां व्याचष्टे—सुखं पुनरिति न चान्यत आत्मादिपदात्, उपलब्धिः, अस्मादेव आत्मादिभ्यो भेदेन प्रत्यात्ममुपलभ्यमानत्वादेव, निर्विद्यते इत्यस्य व्याख्यानम्—तां चोपासीनस्य तयैव विरोधिगुणेन तृष्णा विच्छिद्यते, सुखानभिधानेन दुःखपक्षनिक्षेपं सूचयति ।
तथा च सुखे ऽस्य वैराग्यं भवतीति तात्पर्यार्थः ॥९ ॥
न्य्स्_१,१।१०: इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् ॥
अपवर्गस्याप्यात्मार्थत्वेन प्रमेयेष्वात्मनः प्राधान्यात् प्रथममात्मलक्षणसूत्रम् इच्छेत्यादि ।
तदवतारार्थं भाष्यम्—तत्रात्मेति ।
अहमिति ज्ञानं गौराद्याकारं शरीरावभासं न शक्यं घटादिज्ञानवद् द्रागात्मनि प्रमाणयितुमित्यभिप्रायः, परदेहवर्त्यात्माभिप्रायं वा ।
तदत्र वार्त्तिकारः सूत्रतात्पर्यमाह—समानेति ।
समानजातीयं शरीरादि, असमानजातीयं प्रमाणसंशयादि ।
सत्येवास्मिन् प्रयोजने प्रयोजनमन्वाचिनोति—आगमस्येति ।
ततश्चात्पोक्तत्वानुमानसिद्धमपि प्रामाण्यं शब्दस्य अनेन तदर्थसंवादकेनानुमानेन दृढतरं भवतीत्यर्थः ।
प्रयोजनान्तरं चान्वाचिनोति—प्रमाणसम्प्लवस्येति ।
द्वावपि वाशब्दौ चार्थे ऽन्वाचये द्रष्टव्यौ ।
तदनेन वार्त्तिकेन अनुमानाच्च प्रतिपत्तव्य इति भाष्यं व्याख्यातम् इच्छाया आत्मलिङ्गत्वकथनपरं भाष्यं यज्जातीयस्येति ।
यज्जातीयस्येति व्यप्तिस्मृतिकथनम् ।
तज्जातीयं पश्यन्निति पक्षधर्मोपनयः ।
तस्मादयं सुखहेतुरित्यनुमायादातुमिच्छति ।
सेयमिच्छेदृशी व्याप्तिग्रहणतत्स्मरणपक्षधर्मताग्रहणानुमानेच्छादीनामेककर्तृत्वं सूचयति, भेदे प्रतिसन्धानाभावेन तदनुपपत्तेः ।
तदिदमुक्तम्—एकस्येति ।
यश्चासावेको ऽनुभविता च स्मर्ता चानुमाता चैषिता च स आत्मा ।
न च शरीरमेव भवितुमर्हति, तस्यापि बाल्यकौमारयौवनवार्द्धकभेदेनान्यत्वात् ।
नेन्द्रियम्, इन्द्रियान्तरगृहीत इन्द्रियान्तरेणाप्रतिसन्धानप्रसङ्गात् यमहम् अस्प्राक्षं त पश्यामीति ।
नापि मनः, मनसः, करणत्वेनैवानुमानात् ।
वक्ष्यति ह्येतत् सर्वं ज्ञातुर्ज्ञानसाधनोपपत्तेः ॥
# ३।१।१७ # इत्यत्र सूत्रे ॥
स्यादेतत् ।
असत्यपि आत्मनि ज्ञातरि सत्यपि च बुद्ध्यादीनां भेदे, तत्सन्तानाभेदेन प्रतिसन्धानव्यवस्थोपपत्स्यत इत्यत आह—नियतविषये इति ।
नियतविषय इति बुद्धिभेदस्य प्रतिसन्धानमपाकरोति ।
मात्रग्रहणेन च सन्तानं सन्तानिव्यतिरिक्तमपाकरोति ।
तदभ्युपगमे वा स एवात्मेति सिद्धं नः समीहितम् ।
तदेतद् भाष्यम् अनुभाष्य वार्त्तिककारस्तात्पर्यमस्याह—यज्जातीयस्येति ।
तत्र विचारमारभते—तत्रेति ।
पूर्वपक्षमाह—कथमिच्छादीति ।
परिहरति—स्मृत्येति ।
नन्वेकविषयाणां स्मृत्यादीनां नानाकर्तृकत्वे को विरोध इत्यत आह—न हीति ।
नानाविषयत्व उदाहरणमाह—न हि भवति यद्रूपमिति ।
नानानिमित्तत्व उदाहरणमाह—नापि भवतीति, यद् यस्मात् निमित्तात् त्वगिन्द्रियात् स्पर्शमहमस्पर्क्षं तत् तस्मात् निमित्तात् चक्षुषो रूपं पश्यामीति ।
नानाकर्तृत्व उदाहरणमाह—न हि भवति देवदत्त इति ।
तदेतत् किल प्रतिसन्धानं कर्तृभेदाद् देवदत्तयज्ञदत्तादेर्व्यतिरेकबलेनैककर्तृकत्वं साधयतीत्युक्तम् ॥
तदेतदनुपपन्नम्, भिन्नकर्तृकत्वाद् व्यतिरेकस्योपाधिसम्भवेन स्वाभाविकप्रतिबन्धविज्ञानवैकल्यात्, अस्ति हि देवदत्तयज्ञदत्तविज्ञानानां भिन्नकर्तृकत्वमकार्यकारणभावश्च, तत्र किमकार्यकारणभावात् प्रतिसन्धानस्य व्यतिरेक उत भिन्नकर्तृकत्वादिति सन्दिग्धव्यतिरेकत्वादसाधनाङ्गं प्रतिसन्धानमित्याशयवांश्चोदयति—कार्यकारणभावादिति ।
तदिदमुक्तम्—तदिदं प्रतिसन्धानमन्यथा भवदिति ।
गूढाभिप्रायः परिहरति—न नानात्वस्येति ।
चोदक आह—अकार्येति ।
गूढाभिप्राय एव परिहारवाद्याह—तदयुक्तमिति, अनैकान्तिकत्वं सन्दिग्धव्यतिरेकिता ।
चोदक आह—तुल्यं भवतो ऽपीति ।
सिद्धान्ती गूढाभिप्राय एवाह–अभ्युपगमादिति ।
चोदक आह–नासाधनादिति ।
असिद्धार्थता अन्यथासिद्धार्थता ।
हेतोः हेतुवचनस्येत्यर्थः ।
सम्प्रति समाधाता स्वाभिप्रायमाविष्करोति–न, हेत्वर्थापरिज्ञानात् ।
तदेव विभजते—न भवतेति ।
कः पुनरसौ हेतुविशेष इत्यत आह—विशेषितं चैतत्प्रतिसन्धानम् ।
तत् कथयति— स्मृत्या सह पूर्वापरप्रत्यययोरेकविषयत्वेन प्रतिसन्न्धानम् यज्जातीयं चन्दनवनितादि सुखहेतुं प्रतीतं स्मरामि तज्जातीयमिमु प्रत्येमीति प्रतिसन्धानम् ।
तदनेन शालिबीजाङ्गुरस्य परम्परया शालिबीजान्तरजननलक्षणात् प्रतिसन्धानात् कार्यकारणभावनियमाद् व्यवच्छिनत्ति ॥
नन्वियं पूर्वापरप्रत्ययसंहिता स्मृतिरपि कार्यकारणभावादेवोपपत्स्यते, कृतमेकेन कर्त्रेत्यत आह—सा च स्मृतिर्भवत्पक्षे ऽनुपपन्ना ।
पृच्छति—कस्मात्? उत्तरम्—अन्येन निमित्तेन अनुभूतस्य अन्येन निमित्तेन अस्मरणात् ।
न हि भवति येनैव चक्षुषा घटमद्राक्षम्, तेनैव त्वगिन्द्रियेण तं स्पृशामीति ।
निमित्तभेदे प्रतिसन्धानाभावमुक्त्वा विषयभेदे ऽप्याह—न ह्यन्येन स्वभावेन घटत्वादिनानुभूतस्य अन्येन वृक्षत्वादिना स्मरणम् ।
न हि भवति यमहं घटमद्राक्षं सो ऽयं वृक्ष इति ।
कर्तृभेदे प्रतिसन्धानाभावमाह—न ह्यन्येन देवदत्तेन अनुभूतमन्यो यज्ञदत्तः स्मरति ।
न हि भवति यो ऽहं देवदत्तो ऽद्राक्षं सो ऽहं यज्ञदत्तः पश्यामीति ।
न चेदं सत्यपि भेदे कार्यकारणभावात् प्रतिसन्धानं भवितुमर्हति ।
न हि यत्र स्फुटतरः कार्यकारणभावः तन्तुपटयोर्घटकपालयोर्वा दृश्यते तत्र प्रतिसन्धानं भवति, ये तन्तवः स एव पट इति वा यो घटाक्षणः स एव कपालक्षण इति वा ।
वस्तुतः कार्यकारणभूतानामगृहीतभेदानां प्रतिसन्धानहेतुभावः सभागेषु क्षणेषु तथा दर्शनादिति चेत्? तन्न, आमलकफलस्यैकस्यापनयने तत्रैव स्थाने आमलकान्तरावस्थापने भवति प्रतिसन्धानम् ।
न च तयोरामलकयोरस्ति कार्यकारणभावः ।
पूर्वापरप्रत्यययोः स्मृत्या सहैकविषयत्वं कर्तरि कार्यकारणभावनिबन्धनं न कर्मणीति चेत्? हन्त, नैरात्म्यसाक्षात्कारसात्मीभावे ऽप्यस्ति विज्ञानानां कार्यकारणभाव इति तन्निबन्धनं प्रतिसन्धानं पूर्ववदेव प्रसज्येत ।
सैव चात्मदृष्टिर्देषाणां निदानं परमिति व्यर्थो नैरात्म्यसाक्षात्कारसात्मीभावप्रयासः ।
अथासदपि प्रतिसन्धानं कार्यवशादाहरति तथागतो नट इव रामत्वमात्मनः, यदि तत् कार्यकारणभावनिबन्धनम्, कथमसत्, कथमाहार्यम्? अथ कार्यकारणभावो ऽप्यवस्तुसन् कल्पनामात्रनिबन्धनः, स तर्हि तादृशः शालिबीजस्योत्पादं वास्तवं न नियन्तुमर्हति, न जातु कल्पितवह्निभावो माणवको दहनपाकयोरूपयुज्यते ।
न च प्रत्ययानां भेदाग्रहात् प्रतिसन्धानमिति साम्प्रतम्, प्रवृत्तिविज्ञानानां रूपादिविषयाणां भेदेन पृथग्जनैरपि प्रतियमानत्वात्, आलयविज्ञानस्य च प्रवृत्तिविज्ञानातिरिक्तस्यानुपलब्धेः ।
अहमिति च सत्त्वदृष्टेः क्षणिकत्वनिराकृतावसति बाधके स्थिरवस्तुविषयत्वात् ।
तस्मात् स्मृत्या सह पूर्वापरप्रत्यययोः एकविषयत्वलक्षणस्य प्रतिसन्धानस्यानेककर्तृकत्वाद् व्यतिरेको निरूपाधिरेककर्तृकत्वं साधयति ।
स चैकः कर्ता शरीरेन्द्रियबुद्धिभ्यो भिन्न आत्मेति सिद्धम् ॥
तदनेनाशयेनाक्तम्—अस्ति च स्मृतिः उक्तरूप ।
तस्माद् यस्मिन् पक्षे स्मृतिः सम्भवति तत्र प्रतिसन्धानं न्याय्यमिति ।
स च कर्त्रेकत्वपक्ष इति भावः ।
आशयमविद्वान् पुनः परः प्रत्यवतिष्ठते—भवानिति ।
पर एवैकग्रन्थेनाह—कथमिति ।
कथं न सम्भवतीत्यर्थः ।
स्यादेतत्, योगिचित्तमपि सर्वज्ञस्य चेतस आलम्बनप्रत्यय इति ।
तस्यापि योगिचित्तेन प्रतिसन्धानं स्यादित्यत आह—यत्कायेति ।
एतदुक्तं भवति, उपादानोपादेयभावेनावस्थितः चित्तप्रवाहः सन्तानः ।
न च योगिचित्तमुपादानं सर्वज्ञस्य चेतसः ।
आलम्बनप्रत्ययो हि तदिति ।
कायग्रहणं च एकसन्तानोपलक्षणपरम् ।
तेन जन्मान्तरे ऽपि स्मृतिरूपपन्नेति ।
तमिममस्मदभिप्रायानभिज्ञं परमन्यथापि बोधयितुं विभवाम इति सिद्धान्ती अन्यथा स्मृत्यनुपपत्तिमाह—न, अस्थिरत्वात् बुद्धीनाम् ।
न ह्यजातानन्वयध्यस्तयोरस्ति कश्चिद् विशेष इति पूर्वोत्पन्नो ऽनुभवः काञ्चन वासनामाधाय ध्वंसते, यया कालान्तरे स्मृतिराधीयते इत्यभ्युपगन्तव्यम् ।
न चास्थिरा बुद्धिः शक्या वासयितुमित्यात्मा स्थिरो ऽभ्युपेय इत्यर्थः ।
युक्त्यन्तरमाह—असम्बन्धाच्चेति ।
न च बुद्धीनामसमानकालानामस्ति सम्बन्ध इत्यर्थः ।
पुनः परः प्रत्यवतिष्ठते—शक्तीति ।
नास्माकं क्षणिकवस्तुवादिनामस्ति तज्जगति यदवस्थितं वासकेन वास्यमानं दृष्टमिति भावः ननु तथाप्यसमानकालयता सम्बन्धरहितमशक्यं वासयितुमिति ग्रहणकवाक्यविवरणव्याजेनापाकरोति—अथापीति ।
पूर्वचित्तं प्रवृत्तिविज्ञानं यत्तत् षड्विधम्, पञ्च रूपादिज्ञानान्यविकल्पकानि, षष्ठं च विकल्पविज्ञानम् ।
तेन सह जातः समानकालः चेनाविशेषः तदालयविज्ञानमित्युच्यते ।
अहङ्कारास्पदं स्मृतिशक्तिः ।
सा च न शक्तात् तज्ज्ञानादतिरिच्यते ।
तेन कथञ्चिद्
भेदविवक्षया शक्तिविशिष्टमित्युच्यते ।
सिद्धान्तवाद्याह—अत्रोक्तमिति ।
उपपादयिष्यते हि भावानां सर्वजनप्रतीतिसिद्धा स्थरता क्षणभङ्गनिराकरणेन ।
तथा च स्थिरस्य सम्बद्धस्य च वस्त्रादेः मृगमदादिना वास्यत्वं दृष्टमिति नास्थिरे ऽसम्बद्धे च भवितुमर्हतीत्यर्थः ॥
स्यादेतत् ।
अस्थिरयोरपि ज्ञानयोः समानकालतया अस्ति सम्बन्ध इति कस्मात् अन्यतरचित्तवासितमन्यतरच्चित्तं स्मृतिं नाधत्ते इत्यत आह—यश्चासाविति ।
वक्ष्यमाणापेक्षो ऽपिशब्दः ।
ननु वर्तमाने चेतसि मा कार्षोदुपकारम्, अनागते तु करिष्यति इत्यत आह—नापीति ।
पृच्छति—कथमिति ।
उत्तरम्—वर्तमानं तावदिति ।
प्रकृतमुपसंहरति—तस्मादिति ।
इतो ऽप्यसत्यात्मनि विज्ञानमात्रात् कार्यकारणभावेन स्मृतिर्नोत्पद्यते इत्याह—इतश्चेति ।
कस्मात्? भावस्य भवित्रपेक्षत्वात् ।
भाव उत्पत्तिमान् धर्मः ।
भविता धर्मो ।
पाको विक्लित्तिः संयोगभेदः ।
स च तण्डुलावयवसमवेतो ऽप्यवयवावयविनोरभेदोपचारात् तण्डुलानामित्युक्तम् ।
गतिः परिस्पन्दो देवदत्ते कर्तरीति ।
सिद्धान्ती क्षणिकवादिनमुत्थाप्याक्षणिकत्वाभ्रिपायेण दूषयति—अनाधारैवेति ।
पूर्वपक्षी क्षणिकत्वाभिप्रायेणाह—कार्येति ।
सिद्धान्तवाद्यक्षणिकत्वाभिप्रायेण परिहरति—तच्च नेति ।
समानकालयोराधाराधेयभावो दृष्टः, यथा कुण्डवदरयोः ।
स्थिरमेव हि कुण्डं स्थिरस्यैव वदरस्य गुरुत्वेन पततो गुरुत्वं प्रतिबध्नदधःपतनं निवारयदाधारो भवति ।
यद्युच्येत न स्मृतिर्भावः, किं तु भवित्री उत्पत्तिरस्या भावः ।
न तु भवितुर्भवित्रन्तरापेक्षा युक्ता अनवस्थापातादिति आशङ्कते—अथापीदमिति ।
निराकरोति—तच्च नेति ।
विरोधादिति विवृणोति—यदीति ।
कस्माद् व्याहतमित्यत आह—स्वरूपं चेति ।
चो हेत्वर्थ ।
स्वरूपमुत्पत्तेरूच्यमानं स्वतन्त्रं बाधते यतः, तस्माद् विरोध इत्यर्थः ।
अनभ्युपगमादिति विवृणोति-न हि भवन्त इति ।
विरोधादिति स्फोरयति—व्यतिरिक्तां चेति ।
तन्त्रं शास्त्रम् ।
शङ्कते—अथेति ।
तथा च न विरोधो नाप्यनभ्युपग इत्यर्थः ।
निराकरोति—किं क्वेति ।
अभिधानस्वरूपमाह-उत्पत्तितिरति ।
अपि चोत्पत्तेर्भावत्वे ऽपि न स्मृतिर्न भावः, भावत्वस्य कार्यमात्रानुबन्धित्वात् स्मृतेश्च कार्यत्वात् ।
न चानवस्था, नित्ये व्यवस्थानात् ।
तथा च स्मृतेः भावस्य भविता आत्मैक नित्यः परिशिष्यते इत्याशयवानाह—यदा चोत्पत्तिरिति ।
प्रकृतमुपसंहरति—तस्मादिति ।
तत् सिद्धमेतत्—स्मृतिः पूर्वापरप्रत्ययाभ्यामेककर्तृका, ताभ्यां सहैकविषयत्वेन प्रतिसन्धीयमानत्वात् ।
या पुनर्नाभ्यामेककर्तृका सा नाभ्यां तथा प्रतिसन्धीयते, यथा देवदत्तस्य स्मृतिर्न यज्ञदत्तप्रत्ययाभ्याम् ।
न चेयं तथा ।
तस्मात् तथेति ॥
तदेवं व्यतिरेकिसमर्थनं कृत्वा अन्वयव्यतिरेकिणमत्रार्थे प्रमाणयति—अथ वेति ।
अनेकग्रहणमनेकनिभित्तप्रतिषेधशङ्कानिवृत्त्यर्थं येन मया रूपादयो ऽनूभूताः तेनैव गन्ध उपलभ्यते इति खलु मयेति स्मृत्या सह प्रतिसन्धानं तस्माद् भरतमताभ्यासेनाभिनये ये कृतसङ्केताः, तेषाम् ।
यच्चोक्तं परैः,
नर्तकीभ्रूलताक्षेपो न ह्येकः परमार्थिकः ।
परमाणुसमूहत्वादेकत्वं तस्य कल्पितम् ॥
इति ।
तत्राह—भ्रूक्षेपस्यैकत्वात् ।
न भ्रूः परमाणुसमूहो ऽपि तु अवयविद्रव्यमेकम्, तद्गतं च रेचितकमपि क्रियैकैव ।
भवतु वा परमाणुसमूह एव भ्रूक्षेपः, तथापि समूहस्य समूहिभ्यो ऽनन्यत्वात् परमाणव एव, तेषां च प्रत्येकमेकता चानेकभरतमतनिपुणप्रतिपत्तृसाधारणता च ।
अस्ति च तेषामपि स्वगोचराविकल्पोत्पादनद्वारेण परम्परया मयेति प्रतिसन्धानहेतुभाव इति यत्किञ्चिदेतदेकत्वं तस्य कल्पितमिति ।
तदेवं प्रतिसन्धानद्वारेणेच्छादीनामात्मलिङ्गत्वमुक्त्वा सम्प्रति गुणतया लिङ्गता वार्त्तिककृद् आह—अथ वेति ।
गुणत्वेनेच्छादीनां पारतन्त्र्यं रूपादिवत् साधनीयम् ।
तच्चानित्यत्वेनैव सामान्यविशेषसमवायेभ्यो व्यावर्तकेन सिद्धम् ।
न ह्यनित्यो भावो द्रव्यात् स्वतन्त्रो भवति ।
तस्माद् गुणत्वप्रसाधकादेव हेतोः पारतन्त्र्यसिद्धेः कृतं गुणत्वेन पारतन्त्र्यसाधकेनेति हृदि निधाय वार्त्तिककारः तदपि पूर्वमुक्तमिति सिद्धेन पारतन्त्र्येण गुणत्वमपि साधयति ।
न चैतदनित्यस्य पारतन्त्र्यं द्रव्येण सिध्यति, द्रव्यवकर्मणोरप्यनित्ययोः पारतन्त्र्यात् ।
तस्मादनित्यत्वसिद्धेन द्रव्यपारतन्त्र्येण द्रव्यकर्मभ्यां व्यतिरेचयति—न द्रव्यं कर्म वा इच्छादयः,
व्यापकद्रव्यसमवायात् शब्दवद् इत्यादि ।
यद्यप्यनित्यत्वेन द्रव्यसमवायमात्रं सिध्यति, तथापि द्रव्यकल्पनमात्रेणैवोपपत्तौ तदवययवकल्पनायां प्रमाणाभावेन तद् द्रव्यमनवयवं तावत् सिद्धम् ।
अनवयवं च द्रव्यं द्वेधा, व्यापकम् अणु च ।
न तावदणु, तत्रेच्छादीनामुपलब्धेः ।
क्वचिदन्यतरकर्मणा क्वचित् स्वभावतः तत्संयोगोपपत्तौ तद्गतिकल्पनायां प्रमाणाभावात् सिद्धमस्य व्यापकत्वम् ।
तदेतदादिग्रहणव्याख्यानम् ।
तदनया वक्रोक्त्या नित्यत्वं परममहत्त्वं चात्मनो दर्शितं भवति ।
एतच्च सामान्यतोदृष्टमनुमानं सूत्रयता सर्वं दर्शितमित्याह—सामान्यत इति ।
यत् तत्पूर्वं हृदि स्थितमिच्छादीनां द्रव्यपारतन्त्र्ये साध्ये ऽनित्यत्वहेतुकानुमानम् तदुद्धाटयति, कार्यत्वमपि हेतुं समुच्चिनोति—एतेनेति ।
नन्वस्तु द्रव्यपारतन्त्र्यं तथापि शरीरपारतन्त्र्यमस्तु, कृतमनुपलब्धचरेणात्मना इत्यत आह—अयावदिति ।
सर्वपुरुषसाधारण्यप्रसङ्गाच्च न पृथिव्यादिगुणाः ।
तदुत्पत्तौ करणत्वेन कल्पनाच्च नाकर्तुर्मनसः ।
तस्माद् अष्टद्रव्यातिरिक्तं द्रव्यान्तरम्, तत्रेच्छादयः, स चात्मेति सिद्धमित्याह—तत्प्रतिषेधादिति ॥१० ॥
न्य्स्_१,१।११: चेष्टेन्द्रियार्थाश्रयः शरीरम् ॥
आत्मानं लक्षयित्वात्मनो दुःखनिदानानामिन्द्रियादीनां सर्वेषां साक्षात् पारम्पर्येण च शरीरमाश्रित्य तन्निदानत्वमिति तदेवास्य दुःखमूलकारणमित्यनन्तरं शरीरं लक्षयितुं सूत्रम्—चेष्टेत्यादि ।
तदवताराय भाष्यम्—तस्येति ।
तस्येत्यामानं परामृशति ।
भोगः सुखदुःखसंवित् ।
तदधिष्ठानं शरीरम् ।
तदनेन सर्वस्यानर्थसम्भारस्य परमनिदानं शरीरम् ।
अतस्तदेवेन्द्रियादिभ्यः पूर्वं लक्षणीयमित्युक्तम् ।
अत्र चेष्टाश्रयत्वेनेन्द्रियाश्रयत्वेनार्थाश्रयत्वेन च प्रत्येकं समानजातीयेभ्य आत्मेन्द्रियादिभ्यो ऽसमानजातीयेभ्यः प्रमाणसंशयादिभ्यः शरीरं व्यवच्छिद्यते ॥
कथं चेष्टाश्रयः इति भाष्यम् ।
तस्यार्थं व्याचष्टे—का पुनरिति ।
चेष्टा व्यापारः ।
स चातिव्यापकतया अव्यापकतया च न लक्षणम्, वृक्षादिषु भावात्, अभावाच्च पाषाणमध्यवर्तिमण्डूकादिशरीरे इति भावः ।
अत्रोत्तरभाष्यर्म्—इप्सितमित्यादित ।
तद् व्याचष्टे—हिताहितेति ।
प्रयुक्तस्य उत्पादितप्रयत्नस्य ।
न च व्यापारमात्रं चेष्टा अभिमता, अपि तु विशिष्टो व्यापारः ।
स च न वृक्षादिष्वस्तीति नातिव्यापकता ।
यद्यपि च दारूयन्त्रादिषुर् इदृशो व्यापारो ऽस्ति, तथापि मूर्तान्तराप्रयोगे सतीति विशेषणात् न व्यभिचारः, तेषां शरीरेण मूर्तेन प्रयोगात् ।
शरीरस्य तु मूर्तान्तराप्रयुक्तस्यर् इदृशव्यापाराश्रयत्वम्, पाषाणमध्यवर्तिनश्च मण्डूकदेहस्य तद्व्यापारायोगे ऽपि तद्याग्यत्वात्, पाटिते पाषाणे तादृशस्य तद्व्यापारस्य दर्शनादिति भावः ॥
कथमिन्द्रियाश्रय इति भाष्यं व्याचष्टे—कथमिति ।
संयोगितया त्विन्द्रियाश्रयत्वे घटादीनामपि शरीरत्वप्रसङ्गः, तेषामपीन्द्रियसंयोगित्वादिति भावः ।
यस्येत्यादि परिहारभाष्यं व्याचष्टे—शरीरेति ॥
एतेनेति ।
तद्वृत्तित्वेनानुपपत्त्या अर्थानामप्यान्यादृश आश्रयार्थो व्याख्येयः ।
यद्यपि गन्धादयो विषया न स्वरूपेण शरीरमाश्रयन्ते तथापि यदेषां सुखाद्युपलम्भहेतुत्वं कार्यं प्रयोजनं तदर्थमाश्रयन्ते इत्यर्थः ।
तदनेन यस्मिन्नित्यादि भाष्यं व्याख्यातम् ।
चोदयति—कथं पुनरिति ।
परिहरति—सामान्येति ।
विशेषेण बुभुक्षितत्वादिनाप्रकरणापन्नं नियन्त्रियं सामर्थ्यम् ।
प्रकरणादीत्यत्रादिपदसङ्गृहीतमपरमपि सामर्थ्यशब्दार्थमाह—सामर्थ्यं चेति ।
अपरमाप्याह—प्रमाणेति ।
अत्र प्रथमे पक्षे चेष्टाशब्दो व्यापारविशेषे स्पन्दादिवन्मुख्यार्थः ।
तदेतत्—लोकस्तावदित्यादिना तथा चायं चेष्टाशब्द इत्यन्तेन दर्शितम् ।
प्रमाणासम्भवो वेति द्वितीयं पक्षं विवृणोति—सामान्यवाच्यपीति ।
अपिरभ्युपगमे ।
प्रमाणासम्भवो।नुपपत्तिः ।
सा च न क्रियामात्र इत्यनेन दर्शिता ।
एवं चेष्टापदव्याख्याने न घटादिषु शरीरत्वप्रसङ्गः ॥
एवं भाष्यानुसारेण स्वमतेन च प्रत्येकं चेष्टाश्रयत्वादि शरीरस्य लक्षणमिति वर्णयित्वा समस्तमेवेदं शरीरलक्षणमिति ये वर्णयाम्बभूवुः, तन्मतं निराकरोति—यैरपीति ।
यद्याद्यं पदं लक्षणं चेष्टाश्रय इति, तदा घटेन व्यभिचारः ।
तदर्थं द्वितीयपदोपादानम् इन्द्रियाश्रय इति, इन्द्रियसंयोगीत्यर्थः ।
तथापि तेनैव घटादिना व्यभिचारः, प्राप्यकारित्वेनेन्द्रियाणां घटादीनामपि इन्द्रियसंयोगित्वात् ।
अत आह—अर्थाश्रय इति ।
एवमपि व्यभिचारस्तदवस्थ
एव, घटादीनामपि रूपाद्यर्थसमवायेनार्थाश्रयत्वात् ।
अथ समवायाभिप्रायेणाश्रयत्वम्, तथापि न समवाय इन्द्रियाणां शरीरे ।
घ्राणस्य पार्थिवत्वेन समवायो न विरुद्ध इति चेत्—न, तस्य शरीरावयवसमवायित्वेन शरीरासमवायात् ।
यदि नासिकाग्रमेव घ्राणम्, अथ तदाधारमतीन्द्रियम्, तथापि न तत्समवेतं शरीरम्, प्रत्यक्षाप्रत्यक्षवृत्तेर्वायुवनस्पतिसंयोगवदप्रत्यक्षत्वप्रसङ्गाद् देहस्य ।
अपि च यदा चेष्टेन्द्रियार्थस्य समवायेन शरीरत्वम्, हन्त भो इन्द्रियसमवायिकारणेषु परमाणुषु समस्तम् एतदस्तीति तेषामपि शरीरत्वप्रसङ्ग इत्याह—समस्तेति ।
स्यादेतत् ।
भवन्मते ऽपि चुक्षुरादिभिरिन्द्रियैर्व्यभिचारः, तेषामपि यथोक्तव्यापाराधारत्वादित्यत आह—यथा त्विति ।
मूर्तान्तराप्रयोगे सतीति विशेषितम् ।
चक्षुरादयस्तु उन्मीलनान्मूर्तेन शरीरेण प्रयुज्यन्ते इति न प्रसङ्गः ।
श्रोत्रं तु चेष्टाधार एव न भवति ।
तदेतदुपलक्षणं शरीरं भावयन्निर्विद्यते इति सिद्धम् ॥११ ॥
न्य्स्_१,१।१२: घ्राणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्यः ॥
इन्द्रियस्योपनायकत्वेनार्थादिभ्यो विशेषादिन्द्रियाणामर्थादिभ्यः पूर्वं लक्षणम् ।
न च विशेषलक्षणमकृते सामान्यलक्षणे शक्यमिति भाष्यकारः प्रथममिन्द्रियाणां सामान्यलक्षणं निर्वेदोपयुक्तमाह—भोगसाधनानीति ।
अनेन यच्छरीरसंयुक्तं सत्कारकदोषव्यतिरिक्तं साक्षात्प्रतीतिसाधनं तदिन्द्रियमिति सामान्यलक्षणं सूचितम् ।
साक्षात्प्रतीतिसाधनमिन्द्रियमिति वक्तव्ये भोगसाधनाभिधानं निर्वेदोपयोगीति ।
पारम्पर्येण च भोगसाधनत्वं घ्राणादीनाम् साक्षान्मनस एव तत्साधनत्वात्, सुखदुःखसाक्षात्कारस्य भोगत्वात् ॥
घ्राण—भ्यः ॥१२॥ अत्रेन्द्रियाणीति लक्ष्यनिर्देशः घ्राणादीनीत्यर्थः ।
तेषां पञ्चानां पञ्चैव लक्षणानीति कथयति—लक्षणसूत्राणीति ।
आपाततः सूत्रम्, विचार्यमाणानि तु सूत्राणीत्यर्थः ।
समानजातीयं घ्राणादे रसनादि प्रतिनियतविषयत्वात् ।
असमानजातीयं तु मन आदि सर्वविषयमिति ।
जिघ्रतीत्यादिभाष्यनिराकरणीयशङ्कामाह—उद्देशेति ।
प्रमाणाद्युद्देशेन सामान्यादित्यर्थः ।
लक्षणं हि विधेयम् ।
लक्ष्यं चोद्देश्यम् ।
ज्ञातं चोद्दिश्यते, अज्ञातं च विधीयते इति ।
न चैकस्य युगपज्ज्ञाताज्ञातत्वे सम्भवतः ।
नापि लक्ष्यलक्षणत्वे इति भावः ।
परिहरति—नेदं तथा यथोद्देश इत्यर्थः ।
कस्मात्? करणभावात् स्वविषयग्रहणलक्षणत्वं यतो घ्राणादीनाम् ।
एतदुक्तं भवति, इन्द्रियाणामतीन्द्रियत्वात् सर्वदा स्वस्वविषयोपलब्धिकरणत्वेनैवानुमातव्यानि ।
तस्मात् स्वस्वविषयोपलब्धिसाधनत्वमेव समानासमानजातीयव्यवच्छेदकतया लक्षणम् ।
तदेकार्थसमवायि तु घ्राणत्वादि लक्ष्यम् ।
अत्र च घ्राणादिशब्दाः पङ्कजादिपदवदवयवार्थं निमित्तीकृत्य क्वचित्, क्वचित् सामान्यविशेषे वर्तन्ते, अवयवार्थसम्बन्धस्य प्रतीयमानस्यासति बाधके परित्यागायोगात् ।
अश्वकर्णादौ वृक्षविशेषवाचके वाजिकर्णायोगेन बाधकेनावयवार्थपरित्यागात् ।
अवयवार्थगे ऽपि च गन्धाद्युपलब्धिसाधने सन्निकर्षादौ घ्राणादिशब्दाप्रयोगात् अवयवार्थान्वितं घ्राणत्वाद्येव घ्राणादिशब्दप्रवृत्तिनिमित्तम् ।
तथा च घ्राणादिपदमेव घ्राणत्वादिपरं लक्षयनिर्देशः ।
तच्च इन्द्रियाणि इत्यनेन सूचितम् ।
तदेव त्ववयवार्थपरं लक्षणनिर्देशो घ्राणेत्यादि ।
न च सन्निकर्षेण गन्धोपलब्धिसाधनेन च व्यभिचारः, इन्द्रियसामान्यलक्षणयुक्तस्य गन्धोपलब्धिसाधनत्वं न सन्निकर्षस्यास्ति ।
तदनेन जिघ्रतीत्यादि स्वविषयग्रहणलक्षणानि इत्यन्तं भाष्यं व्याख्यातम् ।
निर्वचनग्रहणेन पदप्रवृत्तिनिमित्तमात्रमुच्यते ।
तेन त्वक्पदमपि सङ्गृहीतं भवति ।
तस्यापि त्वक्स्थाने इन्द्रिये स्पर्शोपलब्धिसाधने एव उपचार इति ॥
भूतेभ्य इति सूत्रावयवतात्पर्यव्याख्यानपरं भाष्यं भूतेभ्य इतीति ।
नानाप्रकृतीनामित्यादि ।
तद् वार्त्तिककारो व्याचष्टे—भूतेभ्य इति ।
पृच्छति—कः पुनरिति ।
उत्तरम्—भूतगुणविशेषग्रहणसाधनत्वम् घ्राणेनैव हि पृथिव्या यो गुणविशेषो गन्धः स गृह्यते, न रसनादिना ।
एवं रसनेनैवापां यो माधुर्यं गुणविशेषः स गृह्यते, न घ्राणादिना ।
एवं चक्षुषैव शुक्लभास्वरं रूपं तेजसः ।
एवं त्वचैवानुष्णाशीतस्पर्शो ऽपाकजो वायोः ।
एवं श्रोत्रेणैव शब्दो नभस इति हि नियमः ॥
अत्र च प्रयोगः, गन्धोपलब्धिः करणसाध्या क्रियात्वात् छिदिक्रियावदिति ।
एवं सा तदन्यक्रियाकारणातिरिक्तकरणनिष्पाद्या, तदन्वयव्यतिरेकाननुविधाने सति कार्यत्वात् ।
या यत्क्रियाकरणान्वयतिरेकाननुविधाने सति कार्या, स सर्वा तक्रियाकरणातिरिक्तकरणनिष्पाद्या, यथा पटादिक्रिया घटदिक्रियाकरणचक्रदण्डाद्यतिरिक्तवेमादिकरणनिष्पाद्या ।
तथा चेयम् ।
तस्मात् तथेति ।
तच्च करणं चक्षुराद्यतिरिक्तं घ्राणम् ।
तद् द्रव्यम्, संयोगाधारत्वाद् घटदिवत् ।
तच्च पार्थिवम्, द्रव्यत्वे सति रूपादिषु मध्ये गन्धस्यैव व्य।जकत्वात्, पार्थिवान्तरवत् ।
एवं रसनादिष्वपि योज्यम् ।
तदिदमुक्तम्—यज्जातीयमिन्द्रियं पार्थिवं पार्थसीयं वा भवति, तस्य पृथिव्याः पाथसो वा यो गुणविशेषो गन्धो वा मधुर एव वा रसभेदः, तेन हि पृथिवी अबादिभ्यः, आपो वा पृथिव्यादिभ्यो व्यवच्छिद्यन्ते इति ।
इतरेतरभूतव्यवच्छेदहेतुः स तेनैवेन्द्रियेण गृह्यते नान्येनेति ।
न चैवे रसना अपामिव पृथिव्या अपि रसभेदं गृह्णातीति पार्थिवी भवति ।
तथात्वे तया गन्धो ऽप्युपलभ्येत ।
तेन तेनैवेन्द्रियेणेति नियमो गुणविशेषमवधारयति, न त्विन्द्रियमिमि ।
अत्र च कर्णशष्कुलीसंयोगोपाधिना श्रोत्रस्य नभसः कथञ्चिद् भेदं विवक्षित्वा भूतेभ्य इति प।यम्यर्थो व्याख्येयः ॥
अनेन खल्वाहङ्कारिकाणीन्द्रियाणि इति यदाहुः साङ्ख्याः, तत् निराकृतम् ।
निराकरणहेतुमाह—ऐकात्म्य इति श्लिष्टं पदम् ।
साङ्ख्यानां किल राद्धान्ते कारणात्मकं कार्यम् ।
तच्च कारणमिन्द्रियाणामहङ्कार एव इत्यैकात्म्यमेककारणकत्वम् ।
तथा चैकात्म्यमेकत्वं घ्राणादीनामित्यनियमः स्यादिति ।
तदेतद् विभजते—यदि पुनरिति ।
शङ्कते—एकेति ।
विभजते—अथेति ।
एकः पाक्य एको ऽग्निसंयोगः एकं चोष्ण्यमित्यर्थः ।
निराकरोति—न ब्रूम इति ।
यद्यप्यौष्ण्यं निमित्तं साधारणम्, तथापि गन्धाद्युत्पत्तौ पूर्वगन्धादिध्वंसानां निमित्तानां भेदादुत्पन्नं भेदादुत्पन्नं कार्यनानात्वमिति ।
तदिदमुक्तं ये पूर्वे रूपादयः तेषां स्वगतो विशेषः प्रध्वम्स इत्यर्थः ।
अथ रूपत्वादिसामान्यमेव कस्मात् स्वगतो विशेषो न भवतीत्यत आह—एवं च कृत्वेति ।
रूपत्वादिसामान्यानां तादवस्थ्ये न पक्वतरतमादिभेदः ।
प्रध्वंसानां तु स्तोकभूयस्त्वं निःशेषत्वे नोपद्यते इति भावः ।
पुनराशङ्कते—एकं कर्मेति ।
निराकरोति—नेति ।
समवायिकारणं स्वाश्रयप्रत्यासत्ति वापेक्षत इति भावः ।
शङ्कते—यदि तर्हीति ।
लक्षणहानिः तथा च लक्षणहानिरित्यर्थः ।
निराकरोति—नेति ।
चरमभाविनिमित्तान्तरं भावरूपमित्यर्थः ।
संयोगाभावं तूत्तरसंयोगजननायापेक्षत एव ।
उपसंहरति—तस्मादिति ॥१२ ॥
न्य्स्_१,१।१३: पृथिव्यापस्तेजो वायुराकाशमिति भूतानि ॥
इन्द्रियप्रकृतित्वं तु भूतलक्षणं वेदितव्यम् ॥१३ ॥
न्य्स्_१,१।१४: गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्थाः ॥
क्रमप्राप्तमर्थलक्षणमवतारयति भाष्यकारः—हमे त्विति ।
तुशब्देनार्थमात्राद् वयवच्छिनत्ति ।
येषामिन्द्रियविषयत्वेन भाव्यमानानां निःश्रेयससाधकत्वम्, मिथ्याज्ञानविषयीकृतानां तु संसारनिमित्तता, त इमे इत्यर्थः ॥
गन्धर्—थाः ॥१४॥ अत्र चोद्देशक्रमस्मारिता अर्था लक्ष्यतया प्रतिपत्तव्याः, तेषां लक्षणं तदर्था इति ।
तदित्यनन्तरलक्षितानीन्द्रियाणि परामृशति, तेषामिन्द्रियाणाम् अर्थाः ।
इन्द्रियैरर्यमाणत्वमर्थानां लक्षणम् ।
एतावतैव लक्षणे पर्यवसिते सुहृद्भावेन प्रविभागाभिधानं पृथिव्यादिगुणा इति ।
पृथिव्यप्तेजांसि च गुणाश्च धर्माः सङ्ख्याकर्मादयः ।
प्रविभागे ऽप्येतावतावगते गनधाद्यभिधानं सुहृद्भावेनेन्द्रियविषयनियमज्ञापनार्थम् ।
पृथिव्यादीनामिति भाष्यं न षष्ठीसमासज्ञापनार्थम्, अपि त्वर्थाभिधानमात्रम् ।
यथाविनियोगमिति ।
यथाक्रमं पृथिव्यादिष्वनिलान्तेषु गन्धादयः स्पर्शान्ताः चतुस्त्रिद्व्येकनियमेन विनियुक्ताः ।
शब्दश्चाकाश एवेत्यर्थः ।
तदर्था इति लक्षणपदं व्याचष्टे—इन्द्रियाणामिति ।
येन क्रमेण घ्राणादय इन्द्रियसूत्रे पठिताः येन चेह गन्धादय, तदनतिक्रमेणेत्यर्थः ।
अत्र वार्त्तिककारः पृथिव्यादिगुणा इत्यत्रानेकसमासप्रतिभासनात् संशयं कृत्वा द्वन्द्वसमासमवधारयति—पृथिव्यादिगुणा इति ।
षष्ठीसमासेनाभिन्नार्थत्वात् सप्तमीसमासस्येत्यसौ न दर्शितः ।
ननु कण्ठेकाल इतिवद् वैयधिकरण्येन बहुव्रीहिर्भविष्यति पृथिव्यादीनां गुणा येभ्यो गन्धादिभ्यः, ते तथा ।
तथा हि परमाणुगता गन्धादयो ऽवयविनि गन्धाद्यारभन्ते, नभोगतश्च शब्दो नभसि समानजातीयं शब्दमित्यत आह—न चान्यथेति ।
ज्ञापकवशात् क्वचिद् व्यधिकरणानां बहुव्रीहिः ।
ज्ञापककृतं च न सर्वत्र ।
न च गन्धादीनां पृथिव्यादिगुणहेतुत्वप्रतिपादनं क्वचित् निर्वेदादावुपयुज्यत इति भावः ।
अन्यसमासः कर्मधारयादिः ।
द्वन्द्वमवधारितमाक्षिपति—न द्वन्द्व इति ।
समाधत्ते—न, उभयस्यापीति ।
पृथिव्यादिग्रहणेनेति ।
यद्यादिशब्देन वाय्वादयो गृह्येरन्, तदर्था इति लक्षणमव्यापकं स्यात्, तेषां बाह्येन्द्रियार्थत्वाभावादित्यर्थः ।
गुणग्रहणेन सर्व इति आश्रितानाश्रितत्वाभिप्रायम्, गुणशब्दस्य धर्मवचनत्वात् ।
विशेषस्तु रेखोपरेखादिः न त्वन्त्यः, तस्यातीन्द्रियत्वात् ।
एतेषां च यथायोगं मिथ्याज्ञानसम्यग्ज्ञानविषयाणां रागवैराग्यहेतुत्वमूहनीयम् ।
चोदयति—गन्धेति ।
परिहरति—न कर्तव्यं लघुसूत्रम् ।
गन्धादीनां पृथगभिधानं कर्तव्यमित्यर्थः ।
नियममाह—इन्द्रियाणीति ।
तत्रेत्यनियतेषु मध्ये, पृथिव्यप्तेजांसि द्वीन्द्रियग्राह्याणि, शेषश्च गुणराशिः सङ्ख्यादिर्विशेषान्तो द्वीन्द्रियाग्राह्य इत्यर्थः ।
तथा सर्वेन्द्रियग्राह्यैत्यर्थः ॥
अत्र बौद्धमुत्थापयति—दर्शनस्पर्शनाभ्यामिति ।
तस्य पर्यनुयोगमाह—स इति ।
स्वसंवेदनेन वा मानसेन वा ज्ञानेन रूपाद्धालम्बनः, प्रत्ययो रूपादिविशिष्टो यथानुभूयते, एवं रूपाद्यतिरिक्तघटादिविशिष्टो ऽनुभूयत इत्यर्थः ।
अत्र पर आह—रूपादिभ्यस्तथा सन्निविष्टेभ्य इति ।
तथेत्याकारं निर्दिशति ।
सन्निवेशो व्यवस्थानम् ।
रूपादिपरमाणव एव तेन तेनाकारेण उत्पन्ना एकयोदकाहरणक्रियया व्यवच्छिन्ना घट इत्युच्यन्ते ।
अनुर।जनादिकया तु रूपादिव्यपदेशः ।
यथाह घट इत्यपि च रूपादय एवैकार्थक्रियाकारिणस्तथा व्यपदिश्यन्ते इति ।
निराकरोति—न, आकारार्थेति ।
तथार्थस्य यथापदार्थेन नित्याभिसम्बन्धात् यथा घटः, तथा सन्निविष्टा रूपादय इत्यर्थो गम्यते ।
तेन घटाकारेण घटसादृश्येनेत्ययमर्थः ।
तथा च दूषणमिति ।
दूषणान्तरमाह—रूपादिमात्रे चेति ।
न तावद् रूपादिक्षण एको घटः, क्षणान्तरे तत्प्रयोगाभावप्रसङ्गात् ।
तस्माद्
रूपादिमात्रमविवक्षितभेदम् तथा सत्येतद्दूषणमित्यर्थः ।
शङ्कते—संस्थानभेदादिति ।
यथासंस्थानां रूपादयो ऽर्था अनुभूयन्ते, तथा सन्निविष्टेभ्यो घटादिप्रत्यया इत्यर्थः ।
निराकरोति—नैतदिति ।
अन्यत्वे तदेवावयवीति सञ्ज्ञाभेदमात्रम् ।
अनन्यत्वे व्यर्थाभिधानम् ।
शङ्कते—घटादिप्रत्यया इति ।
एकानेकविचारासहत्वाद् असन्त एव घटादयो ऽनादिविकल्पवासनाजनितविकल्पप्रत्ययप्रतिभासिनः ।
शब्दशब्देन विकल्पमुपलक्षयति—शब्दवासनावशादिति ।
निराकरोति—तदयुक्तमिति ।
बीजं मिथ्याप्रत्ययस्य सम्यक्प्रत्ययविषयो ऽर्थः ।
तस्य क्वचिदभ्युपगमे ऽभिमतार्थहानमित्यर्थः ।
यस्तु भिन्नलोकमर्यादतया ब्रूते आदिमान् मिथ्याप्रत्ययः सम्यग्ज्ञानं निमित्तीकरोति, अयं पुनरनादि ।
पूर्वपूर्वमिथ्याप्रत्ययजन्मा मिथ्याप्रत्ययप्रवाहः, कृतमत्र सम्यग्ज्ञानेनेति, तं प्रत्याह—मित्याप्रत्ययाश्चैत इति ।
रूपाद्यव्यतिरेके अवयविन इत्यर्थः ।
परस्त्वव्यतिरेके प्रमाणमाह—न नास्तीति ।
न हि मांसतोयातिरिक्तः कंश्चिद्यूषो नाम ।
नापि तृणराजतरूयतिरिक्ता पङ्क्तिर्नाम ॥
दूषयति—नायं हेतुरिति ।
ये घटादिभावमापन्ना भवतां दर्शने इति ।
कामे ऽष्टद्रव्यको ऽणुरशब्दः रूपधातुररूपधातुः कामधातुरिति त्रैधातुकं जगत् ।
तत्र कामधातुस्वरूपमुक्तम् ।
कामे कामधातौ ।
अष्टद्रव्यको ऽणुः ।
रूपरसगन्धस्पर्शा इति चत्वारि द्रव्याणि, पृथिव्यप्तेजोवायव इति चत्वारि ।
द्रव्यशब्दो वस्तुवचनः ।
तेनाष्टद्रव्यको ऽणुरित्यागमः ।
सो ऽयं रूपाद्यतिरिक्तपृथिव्याद्यनभ्युपगमे बाध्येत ।
अथ वैयात्यादुच्यते—पृथिव्यादीनामिति ।
ततश्च सांवृतत्वेनाष्टसङ्ख्यासिद्धेर्नागमविरोध इति भावः ।
उत्तरम्—तथापीति ।
मा भूवन् वस्तुतः, उभये ऽपि सांवृता भविष्यन्तीत्यत आह—संहन्यमानस्येति ।
यो हि यत्तन्त्रः स तदभावमभ्युपगम्याशक्याभ्युपगमः, न खलु संयुज्यमानानामभावे संयोगः शक्याभ्युपगम इत्यर्थः ।
न च संवृतिः, सा हि पररूपं स्वरूपेण संवृणोति, संहन्यमानाभावे च न सङ्घातः, नापि संहन्यमाना इति किमनया स्वरूपेणाव्रियेतेति भावः ॥
तदेवं तदग्रहे तद्बुद्ध्यभावाद् इत्यस्य व्याघातदोषं दर्शयित्वा स्वसामर्थ्यालोचने न विवक्षितलिङ्गाभिधायिता, किं त्वसम्बद्धार्थता हेतुवचनस्येत्याह—तदग्रहे इति ।
एवं किलात्राभिमतम्, पृथिव्यादयो रूपादिभ्यो ऽभिन्ना, रूपाद्यग्रहे पृथिव्यादिबुद्ध्यभावादिति ।
तन्नृ तदेत्ततदग्रहे तद्बुद्ध्यभावादित्यनेन न शक्यं वक्तुम् ।
तदग्रह इत्यत्र तच्छब्दः प्रधानपरामर्शी , पृथिव्यादयश्च धर्मितया प्रधानमिति त एव परामर्ष्टव्याः ।
तथा च पृथिव्याद्यग्रहे पृथिव्यादिबुद्ध्यभावादिति स्यात् ।
तथा च प्रतिज्ञातस्तेषां रूपाद्यभेदो न सिध्येदित्यसम्बद्धम् ।
अथ रूपादयः पक्षीक्रियन्ते, तथापि रूपाद्यग्रहे रूपादिबुद्ध्ययभावादिति स्यात् ।
तथापि न प्रतिज्ञातार्थसिद्धिरित्यसम्बद्धार्थमित्यर्थः ।
एवं शब्दान्तरेणापि प्रतिज्ञाप्रयोगे तुल्यः प्रसङ्ग इत्याह—एवं रूपादिमात्रमिति ।
प्रतिज्ञादोषमाह—सर्वत्र चेति ।
नानात्वैकार्थसम्बन्धनियताया बहुत्वसङ्ख्याया अभेदैकार्थनियतैकत्वसङ्ख्यया सामानाधिकरण्यविरोध इत्यर्थः ।
तदेतदनैकान्तिकमिति चोदयति—नन्विति ।
निराकरोति—तन्न, अनभ्युपगमादिति ।
समानं धर्मसाधनम् ।
यमाः पञ्च ।
नियमाश्च पञ्च ।
ब्रह्मचारिगृहस्थवानप्रस्थयतीनामविशेषेणैव दश धर्मसाधनम् ।
तेषां धर्मसाधनत्वमेकं चातुराश्रम्यमिति प्रकृतिगता विभक्तिराह ।
आश्रमप्रकृतिगता तु विभक्तिः प्रकृत्यर्थसमवेतामेव बहुत्वसङ्ख्यामाह, समानार्थानामपि प्रकृतीनां रूपभेदेन तत्परस्य प्रत्ययस्य सामर्थ्यभेदात् ।
यथाप्तोयशब्दयोस्तुल्यार्थत्वे ऽपि तोयशब्दात् परा विभक्तिस्तोयानीति तोयसमवेतामेव बहुत्वसङ्ख्यामाह ।
आप इति न तोयगताम्, अपि तु तत्सम्बद्धगताम् ।
तत्सम्बद्धाश्च तदवयवाः,
तद्गतरूपादयो वा बहव इत्येकस्यामपि पाथःकणिकायां बहुवचनोपपत्तिराप इति ।
न च सोरस्ताडं क्रन्दतो ऽपि लोकस्याविनिवृत्तेर्नैवमिति साम्प्रतम् ।
लोको हि दृष्टव्यवहारमात्रप्रयोजनो न विवेचयति, परीक्षकास्तु तदनुसारिणो विवेचयन्त्येव ।
अन्यथा हि प्रत्यक्षादिलक्षणप्रणयनवैयर्थ्यप्रसङ्गः ।
एतेन दाराः षण्णगरीत्यादयो ऽपि व्याख्याताः ।
षाङ्गुण्यमिति षण्णां गुणानामेकं राजप्रययोजनसाधकत्वम् ।
वैशेषिकमित्यत्रापि विशेषाणां समानासमानजातीयव्यवच्छेदकत्वमेकमच्यते इति गमयितव्यम् ।
हेतुदेषमाह—असिद्धो ऽपीति ।
स्फटिकस्य धवलं रूपम् ।
तच्च नीलीद्रव्यानुषङ्गादभिभूतं न प्रतीयते ।
स्फटिकश्च प्रतीयते ।
न च नीलस्य स्फटिकलक्षणस्योत्पत्तिरिति तृतीये निवेदयिष्यते ।
तस्मादसिद्धो हेतुरित्यर्थः ॥
दृष्टान्तश्च साध्यविकल इत्याह—यो ऽप्ययमिति ।
उत्पन्नपाकजानां तैले सर्तिषि वा भृष्टमांसपिण्डावयवानाम्, द्रव्यान्तरेण तोयेन सम्पृक्तानां पाकजोत्पत्तौ सत्याम् ।
न चासौ सहसेति ।
अत उक्तम्—कालविशेषानुग्रहे सतीति ।
स च संयोगभेद एव तोयमांसयोः, न त्ववयवी विजातीययोरनाम्भकत्वात् ।
नापि यूषजातीयं तोयसंयोगि द्रव्यं क्षीरजातीयमिवेति युक्तम् ।
तोयविरहे काठिन्यपि क्षीरबुद्धिव्यपदेशयोस्तादवस्थ्यत् ।
इह तु काठिन्ये न यूषबुद्धिव्यपदेशाविति संयोगभेद एव तोयमांसयोर्यूष इति न्याय्यम् ।
स चानुभवसिद्धः संयोगिव्यतिरिक्तः ।
एवं बहुत्वसङ्ख्या सङ्ख्येयातिरिक्तानुभवसिद्धैवेति ।
एवं तत्र तत्र व्याख्येयम् ।
अनाद्यन्तेषु अनारव्धावयविष्विति द्रष्टव्यम् ।
न च परकीय साधनदोषोदभावनमात्रात् स्वपक्षसिद्धिरिति सिद्धान्तिनं साधनं पृच्छति—अथ रूपादिभ्यो ऽर्थान्तरे द्रव्ये किं प्रमाणमिति ।
यतो ऽयं परो रूपादिभ्यो ऽर्थान्तरं द्रव्यं प्रत्यक्षेण विद्वानपि स्वसिद्धान्ताभ्यासाहितव्यामोहापस्मारो न तथा व्यवहरति, अतो ऽनेनानुमानेन स व्यवहार्यते ।
अस्ति हि सर्वेषामेव लौकिकपरीक्षकाणां ब्राह्यणस्य कमण्डलुरितिवत् चन्दनस्य रूपादय इति व्यपदेशः ।
तत्र च परो रूपाद्युपलम्भमभ्युपगच्छति चन्दनोपलम्भमपि ।
अन्यथा तद्बुद्ध्यभावादित्येतावन्मात्रे वक्तव्ये कथमाह तदग्रह इति? तेनावगच्छामो रूपादिग्रहे ऽस्य चन्दनबुद्धिरभिमतेति ।
न चासौ मनोमात्रयोनिः स्मार्तीति न्याय्यम् ।
उपपादितमेतस्याः सविकल्पिकाया इन्द्रियजन्यत्वं व्यवसायात्मकपदव्याख्यानावसरे ।
द्रव्यबाधकप्रमाणानि च परीक्षापर्वणि निराकरिष्यन्ते ।
तस्मात् सिद्धमुपलभ्यत्वं चन्दनस्य ।
सो ऽयं चन्दनो विवादगोचरेभ्यो रूपादिभ्यो भिन्नः, स्वयमुपलभ्यस्य च समस्तैरूपलभ्यैर्व्यपदिश्यमानत्वात् ।
प्रधानमपि साङ्ख्यैर्व्यपदिश्यते, प्रधानस्य रूपादय इति ।
तन्निवृत्त्यर्थम् उपलभ्यस्येति ।
प्रधानं तु काल्पनिकं नोपलभ्यम्, तथापि रूपादीनां मूलकारणं प्रधानमित्यस्ति साङ्ख्यानां व्यपदेशः ।
अत उक्तम्—उपलभ्यैरिति ।
तथापि रूपादीनां परस्परभिन्नानामन्योन्यं व्यपदेश्यव्यपदेशकभाव उपपत्स्यत इत्युक्तम्—समस्तैरिति ।
अतः समस्तेभ्यो व्यपदेशकेभ्यश्चन्दनं भिन्नं भवति ।
उपलभ्यस्योपलभ्येनेति वक्तव्ये प्रत्यक्ष्स्य प्रत्यक्षेणेति वचनं रूपावगमसमये ऽनुमेयेभ्यो रसादिभ्य एकान्ततो व्यपदेशं व्यावर्तयितुम्, न त्वस्यानुमान उपयोग इति ।
अस्यानैकान्तिकत्वमुद्भाव्य निराकरोति—सेनावनादिभिरिति ।
सङ्ख्यायामसत्त्वमाशङ्क्य निराकरोति—तदसत्त्वमिति चेदिति ।
विधीयमानं प्रतिषिध्यमानमिति यथासङ्ख्यं निषेधस्य विध्यधीननिरूपणतया निषेध्यमेकत्वम् अङ्गीकार्यम्, तच्च सङ्ख्येत्यर्थः ।
ननु सन्त्वमी प्रत्ययाः, ते तु द्रव्यमात्रनिबन्धना भविष्यन्ति, कृतं सङ्ख्येत्यत आह—विशिष्टाश्चेति ।
न द्रव्यातिरिक्तनिमित्तप्रत्याख्यानेन इत्यर्थः ।
प्रयोगान्तरमाह—तत्प्रत्ययविषयनिमित्तप्रत्ययव्यतिरेकेणेति ।
घटप्रत्ययस्य विषयश्च, निमित्तं च, घटप्रत्ययश्च तद्व्यतिरेकेणेति, तद्विशिष्टसङ्ख्यादिप्रत्ययस्य निमित्तान्तराकाङ्क्षित्वात् ।
तत् किमर्थमत् उक्तम्—उत्पत्ताविति ।
चर्मणि द्वीपिनं हन्ति इतिवद् घटादिविषयनिमित्तव्यतिरेकभाज इत्यत्रापि प्रत्ययग्रहणं कर्तव्यम् ।
चोदयति—महत्पुष्पितेति ।
न सङ्ख्याया गुणस्य परिमाणपुष्पयोगसम्भव इत्यर्थः ।
परिहरति—नैष देष इति ।
स्थानशब्देन तिष्ठतीति व्युत्पत्त्या सङ्ख्योच्यते ।
सा येषामस्ति ते गजवाजिपदातिप्रभूतयः स्थानिनः प्रत्येकं महान्तः ।
तत्र ते क्वचिच्छतमेव, क्वचित् पुनः स्वजातीयस्थान्यङ्गान्तरसन्निधाने सत्युपचिताः सहस्रं भवन्ति ।
तेन बहुत्वसङ्ख्योपचयोपकरणा तदेकार्थसमवेतमहत्त्वोपचारात् महती सेनेत्युच्यते ।
न चैतावता यत्र शतं गजादयः यत्र च सहस्रं तयोः सेनयोर्महत्त्वाविशेषः, उपचयापचयोपकरणत्वेन विशेषितत्वात् ।
एवं पुष्पितवनादयो ऽपि द्रष्टव्याः ।
प्रत्ययभेदाद् द्रव्यादिभ्यः सङ्ख्याया भेदमुक्त्वा व्यपदेशादभेदादप्याह—अत एवेति ॥
स्थणुशब्देनापीति ।
मूर्तानां समानदेशत्वाभावात् न पर्वसु खदिरश्च स्थाणुश्च समवेतौ ।
न चावस्थितसंयोगेभ्यस्तरूविनाशापेक्षेभ्यः स्थाणोरूत्पत्तिरिति युक्तम् ।
यस्य द्रव्यस्य यावान् संयोगप्रचयो ऽसमवायिकारणं स तावानुत्पन्नमात्र एव तज्जनकः, तस्य क्षेपायोगात् ।
तस्मात् पर्वणां संस्थानविशेष एव स्थाणुरिति गमयितव्यम् ।
अथावस्थितसंयोगानां द्रव्यविनाशापेक्षाणां जनकत्वम्, ततः संयोगप्रचयपदेन स्थणुत्वसामान्यविशेषवद् द्रव्यमुपलक्षणीयम् ।
तच्च खादिरतरोर्भिन्नमिति ।
प्रतिमाया महारजतमय्या अवयविन्याः शरीरं संस्थानमेव, एवं शिलापुत्रकस्य अवयविनः संस्थानमेव शरीरम् ।
शङ्कते—गुणसमुदायेति ।
अतादात्म्येनाग्रहणं व्यतिरेकेणाग्रहणम् पृथक् शब्दो ऽप्यतादात्म्यमेव ब्रूते ।
दूषयति—अग्रहणस्येति ।
सतामपि वस्तूनामनुपलम्भो यथा मूलकीलोदकादीनां प्रमाणाभावेन, शशविषाणादीनां चानुपलम्भो ग्राह्याभावेन ।
तस्माद् व्यतिरेकाग्रहणमात्रं हेतुरनेकान्त इति ।
शङ्कते—ग्राह्याभावादिति चेत्? ग्राह्याभावे सत्यग्रहणादिति हेतुः, न त्वग्रहणमात्रमित्यर्थः ।
दूषयति—प्रतिज्ञार्थेनेति ।
प्रतिज्ञार्थस्यासत्त्वेन ।
तद्विशिष्टो हेतुरसिद्ध इत्यर्थः ।
शङ्कते—ग्रहणेति ।
ग्रहणं प्रमाणम् ।
निराकरोति—न प्रमाणाभावमात्राद् व्यतिरेकप्रतिषेधः, यस्तु योग्यप्रमाणाभावादिति विशेषयेत् तं प्रत्याह—यश्च तदग्रह इति ।
असिद्धता हेतोर्देषः ।
दर्शनस्पर्शनाभ्यामेकार्थप्रतिसन्धानमेव रूपादिव्यतिरिक्तद्रव्यग्रहणम् ।
अतो गुणसमुदायव्यतिरेकेणाग्रहणादित्यसिद्धो हेतुरिति ।
एकत्र अन्यत्वे ।
प्रमाणानामुपपत्तेः ।
एकत्र अनन्यत्वे चानुपपत्तेरिति ।
प्रकृतमुपसंहरति—तस्मादिति ॥१४ ॥
न्य्स्_१,१।१५: बुद्धिरूपलब्धिर्ज्ञानमित्यनर्थान्तरम् ॥
आत्मादीनां बुद्धिहेतूनां लक्षणस्यानन्तरं हेतुमती बुद्धिर्लक्षणीयेत्याह वार्त्तिककारः—अथ बुद्धेरवसरप्राप्ताया इति ।
लक्षणं तावत् प्रकृतत्वादपदेष्टव्यमेव, तदपदेशद्वारेणान्यदपि किञ्चित् सूचनीयम् ।
अत एवोक्तम्—सूत्रमिति ।
अन्यच्च साङ्ख्यमतनिराकरणम् ।
यथोक्तं भाष्यकारेण—अचेतनस्य करणस्य बुद्धेरिति ।
इवकारेण नेदं प्रत्याख्यानपरम्, अपि तु लक्षणपरादयमप्यर्थः प्रतीयमानो ऽपेक्षितश्च नोपेक्षणीय इत्युक्तं भवति ॥
बुद्धि—रम् ॥१५॥ सूत्रतात्पर्यमाह—एतैरिति ।
पृच्छति—कथमिति ।
समानासमानजातीयव्यवच्छेदकं हि लक्षणमव्यभिचारितया ।
पर्यायशब्दाश्च सङ्केतमात्राधीनप्रवृत्तयः क्व नाम न सम्भवन्ति? तस्मात् नैते लक्षणमिति भावः ।
उत्तरम्—व्यवच्छेदेति ।
ननु व्यभिचारसम्भवेन व्यवच्छेदकत्वमयुक्तमित्यत आह—एतैश्चेति ।
सङ्केतो हि द्वेधा, सर्वजनीनो यथा गौरिति गोजातीयस्य वायकः, प्रादेशिकश्च यथा चैत्र इति पुरुषभेदस्य ।
तत्र सर्वजनीनः शक्नोति व्यवच्छेदबुद्धि भावयितुम्, तद्विवक्षयैवोक्तम्—एतैश्चेति ।
उपपत्तिसामर्थ्यादिति भाष्यावयवं व्याचष्टे—पर्यायेति ।
अचेतनस्येत्यादि भाष्यम् ।
तद् व्याचष्टे—य आहुर्बुद्धेरिति ।
बुद्धिः किलत्रैगुण्यविकारः ।
त्रैगुण्यं चाचेनमित्यचेतना केवलमिन्द्रियप्रणालिकया अर्थाकारेण परिणमते ।
चितिशाक्तिश्चापरिणामिनी नित्यचैतन्यस्वभावा ।
तस्याः सन्निधानाद् अयस्कान्तमणिकल्पा बुद्धिस्तत्प्रतिबिम्बोद्ग्राहितया चैतन्यरूपतामापन्नेवार्थाकारपरिणतार्थं चेतयते ।
तेन यो ऽसौ नीलाकारः परिणामो बुद्धेः, स ज्ञानलक्षणा वृत्तिरित्युच्यते ।
आत्मप्रतिबिम्बस्य तु बुद्धिसङ्क्रान्तस्य यो बुद्ध्याकारनीलसम्बन्धः, स आत्मनो व्यापार इवार्थोपलब्धिरात्मनो वृत्तिरित्याख्यायते ।
तदिदं बुद्धितत्त्वं जडप्रकृतितया इन्दुमण्डलम् इव स्वयमप्रकाशं चैतन्यमार्तण्डमण्डलच्छायापत्त्या प्रकाशते, प्रकाशयति चार्थानिति ।
तन्निराकरणाय पर्यायोपन्यासः ।
नात्मवृत्तेरूपब्धेरन्यास्ति बुद्धिः ।
नापि बुद्धिवृत्तिर्ज्ञानम् अन्यदिति ।
अयमभिसन्धिः ।
न तावद् बुद्धेरात्माच्छायापत्तिरिन्दाविव मार्तण्डमण्डलतेजःसङ्क्रान्तिः पारमार्थिकी, चितेरपरिणामितया सङ्क्रमायोगात् ।
तस्माद् भ्रान्तिः ।
सा च न तावद् बुद्धेः, तस्या अचैतन्यात् ।
नाप्यात्मनः, तस्यावृत्तिकत्वात्, तथात्वे वा परिणामापत्तेः ।
तस्मात् कृपणधनमिवात्मचैतन्यं न स्वपरोपकारीति बुद्धेः स्वाभाविकं चैतन्यमास्थेयम् ।
तथा च उभयचैतन्ये दूषणमुक्तम् ।
प्रत्ययव्यवस्थया यदेककर्तृत्वानुमान तन्न स्यादित्यर्थः ।
अथ द्वयोश्चेतनयोरेका वृत्तिर्भेदाग्रहो वा, तेनैककर्तृकत्वाभिमान इत्यत आह—बुद्धिवृत्त्यविशिष्टायामिति ।
बुद्धिर्ज्ञानसाधनमिति ।
बुध्यते ऽनेनेति व्युत्पत्त्या मन उच्यते ।
गन्धादिविषयतया सुखदुःखविषयतया चेयं बुद्धिर्भाव्यमाना निर्वेदाय कल्पत इति ॥१५ ॥
न्य्स्_१,१।१६: युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ॥
भाष्यकारः क्रमप्राप्तं मनोलक्षणसूत्रमवतारयन् उत्सूत्रमन्यान्यपि लक्षणानि आह—स्मृतीत्यादि ।
सुखादिप्रत्यक्षमित्यादिशब्देन विषयतयेच्छादयः सङ्गृहीताः ।
इच्छादय इत्यत्रादिशब्देन कार्यतया सुखादयः सङ्गृहीताः ॥
युग—ङ्गम् ॥१६॥ अनिन्द्रियनिमित्ता अबाह्येन्द्रियनिमित्ता इत्यर्थः ।
स्मृतीत्यादिभाष्यस्य वार्त्तिककारः तात्पर्यमाह—स्मृतीति ।
अनिन्द्रियेत्यादिभाष्यं व्याचष्टे—यस्मादिति ।
इन्द्रियगतरूपादिनिवृत्त्यर्थयुक्तम् इन्द्रियसंयोगीति ।
तथापि आकाशादीनामपि मनस्त्वं मां भूदित्यत उक्तम्—सहकारीति ।
तथाप्यालोकस्य मा भूदित्यत उक्तम्—निमित्तान्तरमिति ।
तथाप्यात्मनो मा भूदित्यत उक्तम्—अव्यापीति ॥
आक्षिप्य भाष्यं समाधत्ते—कथं पुनरिति ।
चक्षुरादिभ्यो ऽनुत्पत्तौ सत्यां क्रियात्वात् ।
अत्र च य आत्मनो विशेषगुणास्ते सर्वे इन्द्रियजन्मानो यथा गन्धादिप्रत्ययाः, तथा च विवादाध्यासिताः स्मृत्यादयः ।
तस्मात् ते ऽपीन्द्रियजन्मानः ।
एवं च संस्कारादिषु न करणत्वप्रसङ्ग इति ।
सौत्रं हेतुमाक्षिप्य समाधत्ते—अथायुगपदिति ।
सम्बन्धिभेदादिति ।
यदा तस्यैव मनःसंयुक्तस्येन्द्रियस्य क्रमेण नीलादयो ऽर्थाः सम्बध्यन्ते तदा तत्क्रमात् क्रम
इत्यर्थः ।
बुभुत्साक्रमं गृहीत्वा सिद्धान्ते ऽपि मनःपरित्यागो मा भूदिति भिया उक्तम्—सत्यां बुभुत्सायामयुगपद्ग्रहण इति ।
न हि किञ्चित्करणं सम्बद्धमपि सदिति स्यात् ।
यद्येवं धारावाहिकज्ञानोत्वत्तिर्न स्यात्, द्वितीयादिज्ञानेष्वपि सैव सामग्रीति सकृदेव यावत् कर्तवयकरणात् समर्थस्य क्षेपायोगात् ।
क्षेपयोगे वा पश्चादपि न जनयेत्, अविशेषात् ।
न च कर्तुरप्ययं क्रमकारिताधर्मः स ह्यनेककरणाधिष्ठानेन युगपन्नानाकार्याणि करोति ।
यथा युगपन्माणवको गच्छति, पठति, पन्थानं वीक्षते, वहति चाचार्यस्य कमण्डलुमिति ।
तस्मात् सर्वमवदातम् ।
तदिदमपिमनः स्मृत्यादिसाधनतया भाव्यमानं निर्वेदाय कल्पत इति सद्धिम्॥२६ ॥
न्य्स्_१,१।१७: प्रवृत्तिर्वाग्बुद्धिशरीरारम्भः ॥
क्रमप्राप्ता त्विति भाष्यम् प्रवृत्तिलक्षणभवतारयितुम् ।
मनसो ऽपि प्रवृत्तिर्दर्शनीया ।
न चाप्रतिपादिते मनसि शक्या दर्शयितुमिति मनसो ऽनन्तरत्वं प्रवृत्तेरित्यर्थः ॥
प्रवृ—म्भः ॥१७॥ आरम्भ प्रवृत्तिः ।
सा च द्विविधा ज्ञानहेतुः क्रियाहेतुश्च ।
तत्र या ज्ञानोत्पादद्वारेण पुण्यपापहेतुः सा वाक्प्रवृत्तिः ।
वागिति च ज्ञापकहेतूपलक्षणम् ।
तेन मनसा इष्टदेवताद्यनुचिन्तनं चक्षुरादिभिश्च साध्वसाधुदर्शनादि सूचितं भवति ।
क्रियाहेतुर्द्वयी कायनिमित्ता मनोनिमित्ता चेति ।
तदेतद् वार्त्तिककारो विभजते—शरीरेणेति ।
ननु प्रवृत्तेर्जन्महेतुत्वमुक्तं द्वितीयसूत्रे ।
न चेयं क्षणिका सती आमुष्मिकं जन्म साधयितुमर्हति ।
तस्माद् द्वितीयसूत्रव्याघात इति चोदयति—क्षणिकत्वादिति ।
परिहरति—नेति ॥१७ ॥
न्य्स्_१,१।१८: प्रवर्तनालक्षणा दोषाः ॥
प्रयोज्यव्यापारपूर्वकत्वेन प्रयोजकव्यापारनिरूपणात् प्रवृत्त्यनन्तरं दोषलक्षणम् ॥
प्रव—षाः ॥१८॥ रागद्वेषौ मोहप्रभवौ पुरुषं प्रवर्तमानं प्रवर्तयतः ।
तयोर्धर्मः प्रवर्तना ।
सा च मोहैकार्थसमवायः ।
तावद्धि अयं रागादिवशः स्पन्दते, यावदस्य मोहो वर्तते इति ।
प्रत्यात्मवेदनीया इत्यादि चोद्यभाष्यम् ।
तस्यार्थः ।
लक्षणं खल्वनुमानम् ।
न प्रत्यात्मवेदनीयेषु समानासमानजातीयव्यावृत्तेषु स्फुटतरेषु तद् युक्तमिति भावः ।
परिहारभाष्यम्—कर्मलक्षणा इत्यादि ।
तस्यार्थः ।
स्वरूपतः स्फुटत्वे ऽपि न निर्वेदविषयतया स्फुटता ।
तथा चेह प्रयोजनम् ।
प्रवर्तनावत्त्वेन चैते निर्वेदविषयाः ।
सा च प्रवृत्त्या कार्येण लक्ष्यत इति कर्मलक्षणा इत्युक्तम् ।
यतः कर्मणा प्रवृत्त्या प्रवर्तकरागादियुक्ताः पुरुषा लक्ष्यन्ते, अतो रागादीनां प्रवर्तनावत्वत्त्मपि लक्षितं भवति ।
बहु नोक्तं भवतीति ।
स्वरूपमात्रं रागादीनामुक्तं भवति, न तु प्रवर्तनावत्वमपि तेषामित्यर्थः ।
तदेतत् सर्वं वार्त्तिककारः प्रश्नपूर्वकं व्याचष्टे—का पुनरिति ।
अवशो ऽस्वतन्त्रः ।
सा पुनरियं प्रवर्तना प्रवर्तकानां दोषाणां व्यापारः कथं गम्यते? दोषा हि गम्यन्ते, न तु तेषां प्रवृत्तिहेतुत्वमित्यर्थः ।
उत्तरम्—प्रत्यात्ममिति ।
स्वपरात्मनोर्यथासङ्ख्यं प्रत्यक्षानुमानाभ्यम् ।
मौहैकार्थसमवायो हि रागादीनां मानस प्रत्यक्षवेदनीय इत्यर्थः ॥१८ ॥
न्य्स्_१,१।१९: पुनर् उत्पत्तिः प्रेत्यभावः ॥
उद्देशक्रमप्राप्तं प्रेत्यभावं लक्षयनि—पुनः—वः॥१९ ॥
सत्वनिकायः प्राणिनिकायः ।
नन्वात्मनो नोत्पत्तिः सम्भवति नित्यत्वादित्यत आह भाष्यकारः—उत्पन्नस्य सम्बद्धस्येति ।
तदेतद् वार्त्तिककारो व्याचष्टे—पूर्वेति ।
पुनर्ग्रहणमिति ।
पुनरित्यभ्यासमाह, तथा चानादिता सूचिता भवति ।
तदेतद् वार्त्तिकजातं द्वितीयसूत्रे कृतव्याख्यानम् ।
पूर्वाभ्यस्तसूत्रे चायमर्थ उपपादयिष्यते ।
आजर।जरीभाव इत्यायमभाषया अस्यार्थस्यागमिकत्वं सूचयति ।
क्रियामिति उपसर्पणमपसर्पणं चेत्यर्थः॥१९ ॥
न्य्स्_१,१।२०: प्रवृत्तिदोषजनितो ऽर्थः फलम् ॥
यद्यपि शरीरेन्द्रियबुद्धिसुखदुःखोपभोगातिरिक्तं गौणमुख्यफलं भिन्नं नास्ति, ते च यथायोगं पूर्वं लक्षिताः, तेनापि च रूपेण ते निर्वेदोपयोगिनः, तथापि प्रवृत्तिदोषजनितत्वेनापि रूपेणामी निर्वेदोपयोगिन इति तेन रूपेण लक्ष्यन्ते ॥
प्रवृ—लम् ॥
अत्र च प्रवृत्तिजनित इति वक्तव्ये दोषग्रहणं न केवलं प्रवृत्ति प्रति दोषाणां हेतुभावः,
अपि तु प्रवृत्तिकार्ये सूखदुःखे अपि प्रति इति दर्शनार्थम् ।
दोषसलिलावसिक्तायां खल्वात्मभूमौ धर्माधर्मबीजे सुखदुःखे जनयतः, नान्यथा ।
न चास्ति सम्भवो न तत्र तृष्यति तच्च तस्य सुखम्, न च तद् द्वेष्टि तच्च तस्य दुःखमिति ।
सूत्रे अर्थग्रहणं गौणमुख्यफलावरोधार्थम् ।
भाष्ये च निष्ठा समाप्तिः ।
सा च महाप्रलये ऽष्यस्तीत्यत उक्तम्—पर्यवसानमिति ।
अवसानमात्रमस्ति, न तु परितः पुनरपि सर्गहानोपादानयोर्भावादित्यर्थः ।
सुबोधं वार्त्तिकम्॥२० ॥
न्य्स्_१,१।२१: बाधनालक्षणं दुःखम् ॥
नानुक्ते शरीरादौ तेषां दुःखत्वं शक्यं लक्षयितुमिति तल्लक्षणेभ्यः परमिदन्दुःखलक्षणम् —
बाध—खम् ॥२१॥ अत्र च बाधनेति बाधनाविषयां बुद्धिमुपलक्षयति ।
तेन बाधना च तदनुषङ्गिणश्च शरीरादयो गौणमुख्यभावेन लक्षिता भवन्ति ।
सैव हि बाधना बुद्धिर्दुःखे मुख्या, शरीरादौ गौणीति ।
अलमेभिरिति प्रत्ययो निर्वेदः, वशितया योगिनः स्वयमुपलभन्ते स्वयमुपनीतेष्वपि विषयेषु औदासीन्यमुपेक्षाबुद्धिर्वैराग्यम् ।
लक्षणशब्द इति वार्त्तिकम् ।
अनुषङ्गश्च सम्बन्धः ।
स च बाधनायां विषयविषयीभावः ।
शरीरादिषु उक्तः ।
केचिद्
विरक्तम्मान्या मान्यन्ते न सुखं नामास्ति स्वरूपत इति ।
तान्निराचिकीर्षुराह—स्वरूपतस्तु दुःखमिति ।
विकल्पो विशेषः ।
अभावफलत्वप्रसङ्गादिति ।
यद्यप्युपात्तदुरितक्षयहेतवो ऽपि धर्माः सन्ति, तथाप्यधिकाधिकोत्कर्षफलानां दर्शपौर्णमासादीनां सहस्रसंवत्सरपर्यन्तानां विधायकेभ्यो वचनेभ्यो भावफल एव धर्मो गम्यते भावस्यैबोत्कर्षशालित्वादिति ॥२१ ॥
न्य्स्_१,१।२२: तदत्यन्तविमोक्षो ऽपवर्गः ॥
क्रमप्राप्तमपवर्गलक्षणमवतारयति भाष्यकारः—यत्र त्विति ॥
तदर्—गः ॥२२॥ तदित्यनन्तरं गौणमुख्यभेदभिन्नं दुःखं परामृशतीत्याह भाष्यकारः—तेन दुःखेनेति ।
मुख्यमेव दुःखमिति भ्रमो मा भूदत आह—जन्मनेति ।
अनेन जायमाना दुःखशब्देन सर्वे शरीरादय उच्यनते इत्युक्तं भवति ।
अभयमिति पुनः संसारभयाभावमाह,
अभयं वै ब्रह्म
इत्यसकृदभयश्रुतेः ।
ये तु ब्रह्मैव नामरूपप्रपञ्चात्मना परिणमत इत्याहुः, तान् प्रत्याह—अजरमिति ।
सर्वात्मना वा परिणाम, एकदेशेन वा? पूर्वस्मिन् कल्पे सर्वात्मना ब्रह्मणो ऽन्यथात्वाद् विनाशप्रसङ्गः ।
एकदेशपरिणामे तु सावयवत्वात् घटदिवदनित्यत्वप्रसङ्गः इति सूक्तम्—अजरमिति ।
वैनाशिकाः प्राहुः
इति ।
तान् प्रत्याह—अमृत्यपदमिति ।
एतदुपपादयिष्यत्यग्रे वार्त्तिककारः ।
तदेतद् भाष्यं वार्त्तिककारो व्याचष्टे—तेनेति ।
आत्यन्तिकग्रहणं महाप्रलयावस्थानिवृत्त्यर्थम् ॥
अत्र भाष्यं नित्यं सुखमात्मन इत्यादि ।
अस्यार्थः—
विज्ञानमानन्दं ब्रह्म
इति सामानाधिकरण्यश्रुतेः ब्रह्मस्वभावं सुखम्, तया च ब्रह्मणो नित्यत्वात् तदपि नित्यमित्यर्थः ।
आत्मन इति च षष्ठी राहोः शिर इतिवत् मन्तव्या ।
तदेतद् भाष्यं व्याचष्टे—आत्यन्तिकीति ।
तेषामित्यादि भाष्यं व्याचष्टे—तन्नेति ।
अत्रानुमानमुपन्यस्यातिप्रसङ्गेन निराकरोति—न, नेति ।
अथात्मनि दुःखादिकं नित्यं नेच्छति, तत्राह—अनैकान्तिकता वा ।
नित्यस्याभिव्यक्तिरित्यादिभाष्यार्थमाह—नित्यमिति ।
अयमभिसन्धिः ।
सुखं तावदात्मनो गुणो नात्मा ।
उपपादितो हि गुणगुणिनोर्भेदः ।
एवं विज्ञानमप्यात्मगुणः,न ह्युदयव्ययवतीभ्यो विज्ञानव्यक्तिभ्यो ऽनुदयव्ययधर्मा भवितुमर्हत्यभिन्न आत्मा ।
न चात्मैव विज्ञानस्वभावः तत्तद्विषयोपधानेनोदयव्ययधर्मेव भवतीति साम्प्रतम् ।
घटमहं जानामीति मानस्यां बुद्धौ त्रयाणामपि ज्ञानज्ञेयज्ञातणां भेदेनानुव्यवसायात् ।
विषयतज्ज्ञानभेदे ऽपि च ज्ञातुरेकस्य प्रतिसन्धीयमानत्वात् ।
न चैतदसति बाधके भेदज्ञानं भ्रान्तमिति युक्तम् ।
न चागन्तुकज्ञानातिरिक्तं स्वाभाविकमात्मनि चैतन्यमनुभूयते ।
न चात्मैव तत्स्वभावः, सुषुप्तत्वानुपपत्तेः ।
अचेतयन्नेव हि सुषुपत इत्युच्यते ।
न च तदा विषयशून्यं स्वनिष्ठमात्मचैतन्यमिति युक्तम् ।
तदवस्थाभेदस्य सुषुप्तोत्थितेन स्वप्नान्तिकस्येव स्मरणप्रसङ्गात् ।
सुखं च न ज्ञानजातीयमित्युपपादितं प्रत्यक्षसूत्रे ।
न च किञ्चिदपि सव प्रकाशमस्तीति चतुर्थे विज्ञान वादं निराकुर्वन् वक्ष्यति ॥
तदेवं व्यवस्थिते दूषण भाष्यवार्त्तिकोक्तं द्रष्टव्यं यथायमात्ममनःसंयोग इति ।
संसारावस्थायां तावदयमात्ममनःसंयोगो धर्मं निमित्तमपेक्षमाणः सुखज्ञानम् आकार्षीत् ।
यदि तु मुक्त्यवस्थायां तदनपेक्ष एव सुखज्ञानं करोति, हन्त रूपादिज्ञानेषु इन्द्रियान्तराण्यपि नापेक्षेतेति भावः ।
शङ्कते—योगजेति ।
न वयं विषयमात्रापेक्षां ब्रूमो येन रूपादिष्वपि ज्ञानमुत्पादयेत्, अपि तु संसारावस्थायां यत् सुखज्ञानायानेनापेक्षितं तदपेक्षते ।
धर्मश्च तदा तेनापेक्षित इति मुक्त्यवस्थायामपि धर्ममेवापेक्षते ।
एतावान् विशेषो यदयं योगज इति ।
तथा च न रूपादिविज्ञान प्रसङ्ग इति ।
शङ्कते—नित्यो ऽसाविति ।
निराकरोति—योगेति ।
ननु त्वन्मते यथा सुखसंवेदनं जिहासितम्, एवमस्मन्मते ऽपि सुखसंवेदनहानाय घटिष्यत इत्यत आह—न चायं सुखमिति ।
अस्मन्मते हि दुःखहानायैव तदनुषक्तं सुखं जिहासितम् ।
नित्यं तु सुखं सर्वदुःखविनिर्मुक्तं सन्न दुःखहानाय जिहासितं सम्भवति इत्यर्थः ।
न केवलमानुकूल्यात् प्रतिबन्धकत्वं नास्ति शरीरादीनाम्, प्रत्युत मुक्त्यवस्थायामपि कल्पनीयता इत्याह—नित्यं शरीरादि इति ।
सिद्धान्तिनो वचनमनुभाष्य देशयेति—प्रमाणाभावादित्युक्तं तच्च नेति ।
शास्त्रेण हि मोक्षसाधने लोकः प्रवर्तनीयः ।
अप्रवर्तमानश्च प्रवर्तनीयः ।
इष्टार्थी च प्रवर्तते तत्साधने ।
सुखं चेष्टम् ।
सुखात्मको मोक्ष इत्यर्थः ।
सेयं लोकप्रवृत्तिरनैकान्तिकत्वेन संशयहेतुरिति परिहरति—न, प्रवृत्तीति ॥
स्यादेतत् ।
मुख्यासम्भवे गौणमरीयते ।
सुखशब्दश्च सुखे मुख्यः, भाक्तस्तु दुःखनिवृत्तौ ।
तस्मात् नित्यानन्द एव मोक्ष इत्यत आह—यदि पुनरिति ।
सञ्चक्षाणकः सङ्ख्यानप्रवृत्तो योगी ।
धर्माधर्मौ तावदात्मनि पारमार्थिकौ, न त्वविद्याकल्पितौ ।
तौ च वीतरागेणासक्तेन सता शक्यौ भोगेन क्षेतुम्, न तु शक्तने ।
स हि सक्तस्तेषु तेषु विषयेषु उपात्तमुपात्तं भु।जानः त्यक्तं त्यक्तं चोपाददानः संसारात् न मुच्येत ।
तस्मादयं रागो बन्धनमिति समाज्ञातः ।
तन्निबन्धना च प्रवृत्तिः परिहर्तव्या ।
अन्यथा तु नित्यसुखावधारणलालितेयं तृष्णापिशाची लब्धप्रसरा विषयसुखेष्वपि प्रत्यासन्नेषु पुरूषं प्रवर्तयन्ती मोक्षमस्य सूदूरं प्रतिक्षिपेदिति मनागपि प्रसरो ऽस्या न दातव्यः ।
तस्मात् नित्यानन्दप्रतिपादकश्रुतिरात्यन्तिके दुःखवियोगे भाक्तीति युक्तमिति भावः ।
चोदयति—यद्यपीति ।
रागवद् द्वेषस्यापि प्रसरो न दातव्यः ।
तस्य च त्वया प्रसरो दत्त इति तुलयो दोष इति ।
परिहरति—न, अप्रतिकूलत्वात् ।
यथा नित्यसुखोपादानं मोक्षम् अप्रतिकूलया सक्त्या सप्रतिकूलं नैवमात्यन्तिकदुःखहानं दुःखद्वेषानुषक्तम् ।
द्वेषः क्रोधो मन्युरित्यनर्थान्तरम् ।
ज्वलनात्मको हि स भवति ।
नैवं वैराग्यम् ।
अलं प्रत्ययो हि स इत्यप्रतिकूलं दुःखहानमित्यर्थः ।
तदनेन नित्यं सुखमात्मनो मोक्षे ऽभिव्यज्यते इत्यादि तस्मिन् प्रहीणे नास्य नित्यसुखरागः प्रतिकूलो भवतीत्येवमन्तं भाष्यजातं व्याख्यातं वेदितव्यम् ।
यद्येवमित्यादेर्भाष्यस्यायमर्थः ।
एवं वैराग्येण मोक्षमाणस्य प्रवृत्तो सत्याम्, मुक्तस्य यदि नित्यं सुखं भवति कामं भवतु मा वा भूत्, उभयोरपि पक्षयोः वीतरागस्य प्रवृत्तौ न मोक्षाधिगमो विकल्प्यते, न सन्दिग्धो भवतीत्यर्थः ॥
वैनाशिकानां मोक्षमुपन्यस्यति—चित्तं विमुच्यत इति ।
संसारी हि मुच्यते ।
रागादयस्तद्धेतवः ।
न चात्मनि नित्ये रागादयः संसारं कर्तुमुत्सहन्ते, नित्यस्याविकार्यत्वेन तादवस्थ्यादुपनेयापनेयाभावात् ।
यथाहुः,
वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् ।
चर्मोपमश्चेत् सो ऽनित्यः खतुल्यश्चेदसत्फलः ॥
इति ।
चित्तं तु कार्यं रागादिवशात् संसारी, तद्वियोगाच्च मुच्यते इति युक्तमित्यर्थः ।
देवमनुष्यादिजातिः गतिः तत्रोत्पत्तिः ।
तदेतद् दूषयति—न, अयत्नत इति ।
क्षणिकत्वात् चित्तस्य, जन्मविनाशप्रयोजनमेव ।
जन्मान्तरं हि विनाश इति क्षणस्याभेद्यत्वेनोपनेयापनेयाभावात् ।
स्वरसभङ्गित्वाच्च वैयर्थ्यमित्यर्थः ।
शङ्कते—सन्ततेरिति ।
अनादिः खलु कार्यकारणप्रवाहरूपा बुद्धीनां सन्ततिः ।
सा चात्मसाक्षात्कारोन्मूलितसवासनक्लेशजालस्य निवर्तते ।
निवृत्तिश्चेयमेव तस्या यत् तत्सन्तानवर्तिनश्चेतसो ऽनागतस्यानुत्पाद इति भावः ।
निराकरोति—न, तस्याशक्यत्वात् ।
उत्पन्नस्यानुत्पादो न शक्यः, नापि सन्ताननिवृत्तिः शक्या कर्तुम्, अन्त्यक्षणानुपपत्तेः ।
स हि अन्त्यः क्षणः किञ्चिदारभते न वा? आरम्भे नान्त्य इति न कार्यकारणप्रवाहनिवृत्तिः, प्रवाहश्च सन्तान इति न सन्ताननिवृत्तिः ।
अनारम्भे तस्यासामर्थ्येनासत्त्वम् ।
ततः पूर्वे सर्वे ऽपि क्षणा असन्तः स्युरिति कस्योच्छेद इति भावः ।
शङ्कते—अनागतानुत्पाद इति ।
तथा सत्यनागतानुत्पादलक्षणार्थक्रियाकारित्वादन्त्यक्षणोपपत्तिरिति भावः ।
निराकरोति—अनागतेति ।
प्रागभावस्यानादित्वादित्यर्थः ।
पृच्छति—तर्हि कस्येति ।
नित्यस्यानुपकार्यत्वादपनेयाभाव इति भावः ।
उत्तरम्—य इति ।
यथा चाक्षणिकस्योपकार्यत्वं तथा क्षणभङ्गभङ्गे उपपादयिष्यत इति सद्धिम् ॥२२ ॥
न्य्स्_१,१।२३: समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरूपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः ॥
संशयलक्षणावतारणपरं भाष्यं स्थानवत एतर्हि इति ।
तस्यार्थः ।
स्थानं क्रमः ।
तद्वतः ।
एतर्हि इदानीमिति ।
क्कचित् पाठः स्थानवत एव तर्हीति ।
तर्हि तदानीमुद्देशसमये, क्रमवतः संशयस्य प्रमेयानन्तरमुद्दिष्टस्य, प्रमेयलक्षणानन्तरं स्थानं क्रमो लक्षणस्येत्यर्थः ।
तदेतद् वार्त्तिककारो व्याचष्टे—प्रमेयेति ।
एतदेव स्फुटयनि—यति ।
स्थानं क्रमग्रहणेन व्याख्यातम्, मतुबर्थश्च प्राप्तिग्रहणेन ॥
समा—यः ॥
अत्र च विमर्शः संशय इति संशयसामान्यलक्षणम् ।
तत्र संशय इति लक्ष्यनिर्देशः, विमर्श इति लक्षणपदम् ।
एकस्मिन् धर्मिणि विरोधिनानार्थावमर्शो विमर्शः, किं स्विदिति ज्ञानम् ।
तदनेनासमानजातीयेभ्यः प्रमाणादिभ्यः समानजातीयेभ्यश्च विपर्ययादिभ्यः संशयो निवर्तितो भवति ।
समानेत्यादीनि तु त्रीणि विशेषलक्षणानि ।
तेषु च विमर्शः संशय इत्येतदनुवर्तनीयम् ।
अत्र विशिष्टो ऽवमर्शो विमर्शविशिष्टः संशय इति लक्ष्यपदम् ।
समानधर्मोपपत्तेरनेकधर्मोपपत्तेर्विप्रतिपत्तेरिति त्रीणि प्रत्येकं शेषैः पदैरूपेतानि लक्षणानीति ।
तदेतदाह वार्त्तिककारः—तत्र समानेति ।
त्रिविध एवेति ये पञ्चविधमाचक्षते ते निराकृताः ।
तदनवधारणज्ञानं स संशय इति संशयसामान्यलक्षणपरं भाष्यं व्याचष्टे—तत्र विषयस्वरूपेति ।
प्रत्ययो ऽनवधारणात्मकश्चेति ।
आक्षेपपरिहारौ प्रथमसूत्र एव व्याख्यातौ ।
प्रत्ययशब्दस्य निश्चयवचनत्वमभ्युपेत्य व्याख्यानं प्रतीयत इति ।
परमार्थतस्तु प्रत्ययशब्दो ज्ञानपर्यायः ।
ज्ञानत्वं च सामान्यं संशयादिष्वप्यस्तीति न विरोध इति ॥
समानधर्मोपपत्तेरिति व्याचष्टे—समानेति ।
विकल्प्याक्षिपति—किं पुनरिति ।
कस्मादिति ।
मा कार्षीद् द्रव्ये संशयम्, गुण एव कस्मात् न करोतीति प्रश्नार्थः ।
समाधत्ते—न, साधारणेति ।
यादृशं सङ्ख्याप्रचयपरिमाणभदयोनि परिमाणं स्थाणुपुरूषयोः, तादृशमास्यापि पुरोवर्तिनो द्रव्यस्य परिमाणम् ।
तस्मात् सदृशपरिमाणधर्मस्य धर्मिण उपपत्तेरित्यर्थः ।
महत्वदीर्घत्वसामान्यधर्मयोगस्तु सन्नपि न संशयकारणम्, असादृश्ये तद्योगे ऽपि संशयाभावादिति भावः ।
स्यादेतत् ।
उपपत्तिः सत्ता ।
न च सदृशो धर्मः सत्तामात्रेण संशये हेतुः, अपि तूपलब्धः ।
न चोपलब्धिवाचकमत्रास्ति पदमित्यत आह—तस्योपपत्तिरध्यवसाय इति ।
यद्यप्ययमुपपत्तिशब्दः सत्तावचनस्तत्परश्च, तथापि पदान्तरसमभिव्याहारादवगम्यते सत्तामात्राभिधाने ऽपि तदुपलब्धिर्विवक्षितेति ।
विषयविषयिणोरभेदविवक्षया सामानाधिकरण्यमुपपत्तिरूपलब्धिरिति ।
पृच्छति—कस्मादिति ।
अस्मदायत्ते हि शब्दप्रयोगे किमित्यवाचकं प्रयोक्ष्यामह इत्यर्थः ।
उत्तरम्—अनुक्तमपीति ।
विशेषापेक्षा इति वचनेन विशेषस्यापेक्षा उच्यते ।
अपेक्षाशब्दश्च यद्यपीच्छायां वर्तते, तथापीह जिघृक्षायां वाक्यसामर्थ्यात् ।
न च सा संशयस्य हेतुः, तस्याः संशये सति भावात् ।
तस्माद् विशेषापेक्षया विघृक्षालक्षणयेह विशेषयोः पुरोवर्तिवस्तुसादृश्यात् स्मरणे सत्यग्रहणं लक्षणीयम्, यथा गङ्गाशब्दस्तीरं सम्बद्धमेव लक्षयति, न तु तीरमात्रम् ।
अनेनैवाभिप्रायेण वक्ष्यति भाष्यकारः विशेषस्मृत्यपेक्ष इति ।
तस्माद् विशेषग्रहणप्रतिषेधात् सामान्य ग्रहणमभ्यनुज्ञातं भवतीत्यर्थः ।
परिहारान्तरमाह—अथ वेति ।
स्यादेतत्, उपपत्तिशब्दः सत्तावचनश्चोपलब्धिवचनश्च ।
तथा च विनिगमनायां को हेतुरित्यत आह—यः पुनरिति ।
नन्वभावः प्रमाणालम्बनमुक्तः, तत् कुतो न विरोध इत्यत उक्तम्—स्वतन्त्रमिति ।
अथ वा सत्तावाचको ऽप्ययमुपपत्तिशब्दः स्वाभिधेयविषयामुपलब्धि लक्षयतीत्याह—विषयशब्देनेति ।
न चेयम् अलौकिकी लक्षणेत्याह—लौकिकमिति ।
यथा च धूमो न सत्तामात्रेण हेतुस्तथोक्तं प्रागिति ॥
एकदेशिनामुपसङ्ख्यानमुपन्यस्यति—अव्यवच्छेदेति ।
ते किल मन्यन्ते व्यवच्छेदहेतुरपि धर्मः समानो भवति ।
यथा कृतकत्वं साध्यधर्मिणि शब्दे दृष्टान्त धर्मिणि च घटादौ समानम्, न चासौ नित्यानित्यत्वसंशयहेतुः, अपि त्वनित्यत्वस्यायोगं साध्यधर्मिणि व्यवच्छिनत्ति ।
अतो ऽव्यवच्छेदहेतोरिति वक्तव्यमित्यर्थः ।
तदेतद् वक्तव्यं दूषयति—न समानेति ।
समानो हि धर्मः प्रतिसम्बन्धिनमपेक्षते—केनेति ।
संशयपदेन च स्वविषयोपस्थापकेन परस्परविरोधिनौ तावुपस्थितौ ।
तेन ताभ्यां समान इति गम्यते ।
तेन विवक्षिततज्जातीयवृत्तित्वे सत्यन्यजातीयवृत्तिरेव गम्यते ।
न चैव कृतकत्वम् ।
तस्मात् न वक्तव्यमव्यवच्छेदहेतोरिति ।
समानशब्दार्थः सादृश्यं तत्र नास्तीत्यर्थः ।
अत्रैवोपलब्धीत्यादिपदद्वयं शङ्कापूर्वकं योजयति—सो ऽयं साधारण इति ।
उपलब्ध्यनुपलब्धी न व्यवतिष्ठेते इति ।
शिरःपाण्यादेरनुपलब्धिर्वक्रकोटरादेरूलब्धिः पुरूषस्य बाधकं प्रमाणम्, तद्धि पुरूष एवायं वा, इदन्तया व्यवतिष्ठते, इदन्तानिषेधेन वा ।
नायं पुरूष इत्यनिदन्तया व्यवतिष्ठते ।
तदभावो ऽव्यवस्था ।
तदनेन साधकबाधकप्रमाणाभावो दर्शितः ।
विशेषाकाङ्क्षायां चेति विशेषस्मृतिर्दर्शिता ॥
विमर्शपूर्वकं समस्तमित्यवधारयति—किमिदमिति ।
तत्रैकपदपरिग्रहे दोषमाह—यदि समानेति ।
विशेषः शिरःपाण्यादिः ।
विशिष्यते ह्यनेन पुरूषः स्थाणोरिति अनुपलब्धसामान्यस्यापि क्वचिदुपलब्ध्यनुपलब्ध्यव्यवस्थास्तीति ।
यथा सप्तमे रसे, दशमे वा द्रव्ये ।
न हि तत्र साधकं बाधकं वास्ति प्रमाणम् ।
न च संशयः ।
विशेषापेक्ष इत्येतावतीति ।
तद् यथा हस्तिनं दृष्ट्वा तत्सम्बन्धिनो स्थूणाहस्तिपकौ स्मरति न च तत्र सन्न्दिग्धे ॥
द्विपदपरिग्रहे दोषमाह—एवं समानेति ।
नौदोलारूढो हि गच्छन् विदूरे आरोहपरिणावद्वस्तुदर्शने ऽपि सत्यपि च साधकबाधकप्रमाणाभावे विशेषस्मृत्यमावात् नग इति वा नाग इति वा न सन्दिग्धे ।
एवमुपलब्ध्यनुपलब्ध्यव्यवस्थातो विशेषापेक्ष इति पदद्वये विधीयमानऽन्यतः स्मर्यमाणाद् विशेषात् सदृशधर्मवति धर्मिण्यनुपलभ्यमाने संशयः स्यात् ।
अस्ति हि तदा विशेषस्मृतिः साधकबाधकप्रमाणाभावश्च, नो खल्वनुपलभ्यमाने समानधर्मे धर्मिणि तद्गता वक्रकोटरादयो वा शिरः पाण्यादयो वा शक्यग्रहा इति ।
यदायं द्रष्टेति ।
यदा खल्वयं द्रष्टा प्रतिपरूरडकुरोद्भेदपुककिताभिर्मन्दमलयमारूतान्दोलनललितलास्यशालिनीभिः शाखाभिर्मधुमदमुदितमधुपमालाशिञ्जितवल्लकीवाद्यमनोहराभिर्मत्तपुंस्कोकिलकुलविपञ्च्यमानपञ्चमाभिरारब्ध-
सङ्ङ्गीतकं सहकारतरूमनुभूयाथ विदूरवर्ती कु।जरसदृशधर्मवन्तमनुभवति, तदास्यास्ति समानधर्मोलब्धिः ।
अस्ति च करितरुरूपविशेषस्मृतिः, न तु साधकबाधकप्रमाणाभाव इति न संशेते ।
कतिपयव्यक्त्याश्रयत्वं सहकारत्वादेर्विशेषस्याल्पविषयत्वम् ।
आरोहपरिणाहादेस्तु बहुव्यापित्वं महाविषयत्वम् ।
नानार्थावमर्शनं च विरूद्धार्थावमर्शनं द्रष्टव्यम् ।
तदनेन स्थाणुपुरूषयोरित्यादि भाष्यं व्याख्यातम् ।
पश्यन् इत्युपपत्तिविवरणम् ।
विशेषं बुभुत्समान इति विशेषापेक्ष इत्यस्य विवरणम् ।
किं स्विदिति विमर्शविवरणम् ।
स्यादेतत् ।
संशयोत्तरकाला बुभुत्सेति, कथं बुभुत्समानः संशेत इत्यत उक्तं भाष्यकृता, समानमनयोरिति ।
विशेषापेक्षाशब्देनेच्छावाचिना अगृह्यमाणविशेषस्मरणं लक्षितमिति भावः ।
सेयं साधकबाधकप्रमाणानुपपत्तौ सत्या समानधर्मोपलब्धिर्विनश्यदवस्था विशेषस्मृत्या सहाविनश्यदवस्था एकस्मिन् क्षणे सती संशयज्ञानस्य हेतुरिति सिद्धम् ।
त्रिपदपरिग्रहमनेकधर्मोपपत्तेर्विप्रतिपत्तेरित्यत्रापि योजयति—एतेनेति ।
द्वे द्वित्वेनैकीकृत्याद्यानन्तरयोरिति द्रष्टव्यम् ॥
अनेकधर्मोपपत्तेरित्यत्र भाष्यकृतो व्याख्यां ग्रहीतुम् एकदेशिव्याख्यानमुपन्यस्य दूषयति—अनेकेति ।
शब्दो हि संयोगजः ।
संयोगजत्वं हि कार्ये द्रव्ये गुणे च रूपादौ शरीरादिक्रियायां चास्तीति द्रव्यगुणकर्मणां समानम् ।
तस्मादनेकस्य धर्मः चरितार्थः ।
एवं शब्दगतो ऽनेको ऽपि धर्मः समानतयैव द्रव्यत्वादिसन्देहहेतुः त्रिषु, संयोगजत्वं साधारणं सत्त्वादिना निर्भक्स्य, निर्गुणत्वं गुणकर्मणाः ।
एवं क्षणिकत्वं द्रव्यगुणकर्मणामिति समानधर्मोपपत्त्या गतार्थम्मित्यर्थः ।
पृच्छति—अथेति ।
भाष्यकृद्व्याख्ययोत्तरम्—असाधारण इति ।
पुनः पृच्छति—कथमिति ।
समासपदशब्देन तदेकदेशो ऽनेकशब्दो लक्ष्यते समासगतेनानेकशब्देनेत्यर्थः ।
उत्तरम्—समानेति ॥
एतदुक्तं भवति ।
यतो ऽनेकस्मात् समानासमानजातीयादेष स्वाश्रयं व्यावर्तयति, अतो ऽनेकापादानकव्यावृत्तिहेतुकत्वात् लक्षणयानेन इत्युच्यते ।
तदनेन समानजातीयम् असमानजातीयं चानेकमिति भाष्यं तस्माद् विशेष इत्यध्याहृत्य व्याख्यातम् ।
अध्याहृतविशेषपदविवरणं विशेषको धर्म इति ।
सम्बन्धसामान्यविवक्षया तु षष्ठी तस्यानेकस्येति ।
लक्षणाबीजान्तरमाह—तस्य चानेकस्येति ।
निवर्त्यनिवर्तकसम्बन्धेनानेकशब्देन धर्मोः लक्ष्यत इत्यर्थः ।
तदनेन विनैवाध्याहारं समानजातीयमसमानजातीयं चानेकम् ।
तस्य धर्मे निवर्तकतयेति व्याख्यातम् ।
न त्वत्र समासभ्रान्तिः कर्तव्या ।
दर्शयिष्यति हि बहुव्रीहिमिहैव वार्त्तिककारः ।
तदेवं लक्षणाबीजद्वयोपन्यासेन असाधारणो धर्म इति ग्रहणकवाक्यं व्याख्यातम् ।
प्रकारान्तरेणानेकधर्मपदंव्याचष्टे—एकान्नेकेति ।
एकं चानेक च तदुभयमनेकं तस्यानेकस्य प्रत्ययहेतुर्धर्मो ऽनेकधर्मः भेदाभेदप्रत्ययहेतुरित्यर्थः ।
विभागजत्वं विभागजानां शब्दानामन्योन्यस्याभेदप्रत्ययहेतुः, तदितरेभ्यश्च भेदप्रत्ययहेतुः ।
तदिदमाह—यतो विभागजत्वात् एष प्रत्ययो भवतीदं विभागजं शब्दजातम् एकम् ।
इदं च ततो ऽन्यद् अनेकं भिन्नम् ।
तत्र य एव एकप्रत्ययहेतुः धर्मो ऽभेदः स एव अनेकप्रत्ययहेतुर्विशेषः ।
जात्यभिप्रायं चैकवचनम्, सदादिर्हि धर्मो दुव्यगुणकर्मणामभेदप्रत्ययहेतुः, सामान्यादिभ्यश्च शब्दं निर्भजति ।
तदिदमाह—यतः सदादेरेष प्रत्ययो भवतीदमेकं यतश्च विभागजत्वादेप प्रत्ययो भवतीदमनेकमिति, तस्मात् सिद्धमेकं चानेकं च ।
अनेकमिति तत्प्रत्ययहेतुरुपचारेणानेक इति ।
तद्दिमुद्भाष्यं व्याख्यानम् ।
अत्रोदाहरणमाह—यथेति ।
द्रव्यत्वादिकोटित्रयविषयसंशयप्रदर्शनार्थमुक्तं सामान्यविशेषसमवायेभ्य इति ॥
सदनित्यं द्रव्यवत्कार्यां कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेषः ॥
तेनानेन सदादिना निर्भक्तस्य पृथक्कृतस्येत्यर्थः ॥
स्यादेतत् ।
यद् येन सहचरितं दृष्टं तत् क्कचिद् दृश्यमानं तत् स्मारयत् तद्वियरुद्धेनापि च सम्बन्धाननिश्चाययत् संशयहेतुर्भवति, यथा समानो धर्मः ।
असाधारणस्तु धर्मो विभागजत्वं नर्ते शब्दात् क्कचित् पृथिव्यादौ वा उत्क्षेपणादौ वा गन्धादौ वा दृष्ट इति कथ्र स्मारयेत्, अस्मारयद् वा कथं तत्र संशयं जनयेत्? तस्मात् को ऽयं भवेदित्ययो धर्मादिति जिज्ञासामात्रमुत्पादयेत् न त्वयं वायं वेति संशयमित्यत आह—न हीति ।
कस्मात् न दृष्टमित्यत आह—सर्वत्रासम्भवात् ।
न हि द्रव्यादेर्विभागतो जन्म सम्भवति, तदन्वयव्यतिरेकाननुविधानादित्यर्थः ।
नन्वत एवोक्तं न संशयहेतुरित्यतः आह—विभागजत्वं संशर्ये करोति सर्वतो व्यावृत्तेरिति ।
अयमर्थः, यद्यपि विभागजत्वं न द्रव्यादौ क्वचिद् दृष्टम्, तथापि तद्व्यतिरेकः प्रत्येकं द्रव्यादौ दृष्ट इति विभागजत्वेन सदाद्यविशेषवान् शब्दो द्रव्यकर्मभ्या व्यावर्तमानः किं गुणः, गुणकर्मभ्यां व्यावर्तमानः किं द्रव्यम्, गुणद्रव्याभ्यां व्यावर्तमानः किं कर्मेति व्यतिरेकमुखेन तत्तत् स्मारयन् असाधारणो धर्मो भवति संशयकारणमिति ।
देशयति—ननु चेति ॥
अयमभिसन्धिः ।
वंशे पाट्यमाने वंशदलयोः क्रिया, ततस्तयोर्मिथो विभागः, ततो वंशदलावरुद्धनभोभागविभागः ।
सो ऽयं विभागजो विभागो न वंशदलकर्मजः ।
अवयवक्रिया हि तदवयवावरुद्धनभोभागविभागजनिका द्रव्यारम्भकसंयोगाप्रतिद्वन्द्विविभागजनकत्वेन व्याप्ता विकसत्कमलकुङ्मलदलेषु दृष्टा ।
न हि तत्र तत्र मुकुलिताद् विकासि कमलमन्यत्, आकुञ्चितप्रसारिताङ्गुलिकरतलवत् तत्त्वेन प्रत्यभिज्ञायमानत्वात् ।
वंशदलक्रियापि चेत् तादृशी, नूनमनयापि द्रव्यारम्भकसंयोगाप्रतिद्वन्द्विविभागजनिकया भवितव्यम् ।
तथा च द्रव्यं कार्यमपि न नश्येत् ।
तस्मात् नानया वंशदलाकाशविभागो जनयितव्यः ।
न चान्यदस्य कारणं सम्भवति ।
तस्माद् वंशदलक्रियाजनितो दलयोर्विभागः कार्यैकार्थसमवेतः तदवरुद्धाकाशप्रदेशविभागस्यासमवायिकारणमेषितव्यः ।
हेतुरिति सिद्धं भवतीति ।
परिहरति—अनभ्युपगतविभागजविभागस्यैतद् विभागजत्वम् एवं संशयकारणं भवति ।
अनभ्युपगमबीजं च कुतः पुनरेवदेवमवगतं पद्मपत्रावयवक्रिया विभागद्वयजनिकेति, विभागद्वयक्रमकल्पनायां प्रमाणाभावादिति चेत्? हन्त, वंशदलविभागयोरपि तुल्यम् ।
ननूक्तं द्रव्यारम्भकसंयोगाप्रतिद्वन्द्विविभागजनकं स्यात् कर्म, ततश्च द्रव्यनाशो न भवेदिति ।
अथं विपर्ययः कस्मात् न भवतीति वंशदलद्वयक्रियैव विभागद्वयजनिका, पद्मपत्रवयवक्रिया त्ववयवविभागजनिका, तदवयवाकाशविभागस्त्ववयवविभागजन्मा ।
यदि तु पद्मपत्रावयवक्रिया उभयजनिका भवेत्, वंशदलक्रियैव द्रव्यारम्भकसंयोगप्रतिद्वन्द्विनं विभागं जनयेदिति ।
न चान्यतरत्र विभागद्वययौगपद्यनिश्चयः क्रमप्रमाणाभावश्च तुल्यः ।
तस्मात् पद्मपत्रावयवक्रियाविभागजनकत्वसन्देहादशक्यविनिश्चयो व्याप्यव्यापकभावः ।
क्रियावैलक्षण्यात् तु स्वहेतुवैलक्षण्यजन्मनः कार्यस्य विभागस्य वैलक्षण्यं स्यात्, यदेको द्रव्यारम्भकसंयोगप्रतिद्वन्द्वी अप्रतिद्वन्द्वी चेतरः, तथापि चैतद्वैलक्षण्यं क्रियाया अभ्युपेतव्यम् यदेका विभागमेकं जनयति ।
अन्या तु विभागद्वयमिति ।
तस्मादेतदुदाहरणबलेन न विभागजविभागसिद्धिः ॥
यस्त्वङ्गुलिकर्मानन्तरमङ्गुलितरुविभागो हस्ततरुविभागः, शरीरतरुविभगाश्च दश्यते, तत्राङ्गुलितरुविभागमङ्गुल्याश्रया क्रिया करोतु, हस्ततरुविभागं तु न शक्ता जनयितुम्, तस्याः स्वाश्रयसमवायात्, स्वाश्रयसमवेतकार्यजनने च क्रियायाः सामर्थ्यावधारणात् ।
तस्मात् हस्तादितरुविभागः क्रियतो ऽसम्भवन्नङ्गुल्यादितरुविभागमेव कार्यैकार्थसमवायलक्षणया प्रत्यासत्त्या निमित्तीकरोतीति विभागजविभागसिद्धिं मन्यते, तं प्रत्याह—यः पुनरिति ।
अस्तु वा विभागजो विभागः, तथापि विभागजत्वमीदृशमसाधारणमेवेत्यत आह—अस्तु वा तस्य अभ्युपगतविभागस्य अपि विभागजत्वमसाधारणं विशिष्टम् ।
तदेव देशयति—विभागजेति ।
पाट्यमाने हि वंशे शब्दोत्पत्तौ वंशदलयोर्मिथो विभागो निमित्तकारणम् ।
वंशदलावरुद्धाकाशविभागस्त्वस्यासमवायिकारणम्, न तु भेर्याकाशसंयोगवत् वंशदलाकाशसंयोगो ऽसमवायिकारणं भवितुमर्हति ।
तथा हि प्रयोगः, यो ऽयं वंशदलविभागनिमित्तः शब्दः, स निमित्तसमानजातीयासमवायिकारणजन्यः, तदसाधारणनिमित्तजन्यशब्दत्वात् ।
यो यः शब्दो यदसाधारणनिमित्तजन्मा, स सर्वस्तज्जातीयासमवायिकारणजन्यः, यथा भेरीदण्डसंयोगनिमित्तः शब्दो भेर्याकाशसंयोगासमवायिकारणकः ।
तथा चायम् ।
तस्मात् तथेति ।
तदेवं वंशदलविभागलब्धजन्मना वंशदलाकाशविभागेनासमवायिकारणेन जनितः शब्दः ।
तदेवं विभागजविभागासमवायिकारणकत्वं शब्दस्य, तदपि यद्यप्यङ्गुल्याकाशविभागजहस्ताकाशविभागासमवायिकारणे कायाकाशविभागे ऽस्ति, तथापि कारणमात्रविभागजविभागासमवायिकारणकत्वादिति हेतुः भाष्यकारेण विभागजत्वात् इत्यनेन सूचितः ।
न चाङ्गुल्याकाशविभागपूर्वकः कायाकाशविभाग एवम् ।
स हि कारणाकारणविभागपूर्वको, न तु कारणमात्रविभागपूर्वकः ।
तदिदमुक्तम्—विभागजविभागासमवायिकारणकः शब्दो नान्यः पदार्थ इति ॥
ननु सहचरितो दृष्टः स्मारयन् विशेषसंशयहेतुर्भवति, न तु यो व्यावृत्तः तेन सहास्यासाहचर्यादिति शङकामपनेतुं भाष्यकारीयमुत्तरमाह—तुल्यजातीयेष्वितिं ।
यद्यपि व्यतिरेकमुखेनासाधारणः शक्तः स्मारयितुम्,
तथापि भाष्योक्तमप्युक्तम् ।
यत् खलु सदादिरूपसम्पन्नं विशेषवत् तत्समानजातीयेभ्यो ऽसमानजातीयभ्यश्च व्यावृत्तम्, यथा पृथिवीद्रव्यम् ।
अबादिभ्यश्च द्रव्यान्तरेभ्यां गुणकर्मभ्यश्च विजातीयेभ्यो गन्धवत्त्वेन व्यावृत्तं द्रव्यजातीयम् ।
एवं रूपत्वेन रूपं गुणः ।
उत्क्षेपणत्वेनोत्क्षेपणं कर्म ।
तथाविधः शब्दः सदादिरूपसम्पन्नो विभागजत्वेन समानासमानजातीयेभ्यो विशिष्यते ।
तस्माद् भवति द्रव्यं गुणः कर्म वेति संशय इति ।
पूर्वव्याख्यानतो ऽनेकशब्देनासाधारणधर्मो लक्ष्यत इत्युक्तम् ।
सम्प्रति समानशब्दपर्यालोचनयाप्यनेकपदमसाधारणे वर्तते लक्षणयैवेत्याह—समानधर्मस्य संशयकारणत्वेन उपयोगाद् वेति ।
समानं हि प्रतिगोगितया असमानं बुद्धौ सन्निधापयति ।
तत्र द्वयस्यापि समानशब्देन श्रुत्यर्थाभ्यामुपात्तस्य समानस्य धर्मस्यासमानस्य च, समानस्य संशयकारणत्वेनोपयोगादिति योजना ।
पृच्छति—कस्मादिति ।
अस्मदायत्ते शब्दप्रयोगे किमित्यवाचकं प्रयोक्ष्यामह इति भावः ।
उत्तरम्—नैवमिति ।
असाधारणो हि धर्मो व्यतिरेकमुखेन संशयहेतुः ।
स चानेकस्माद् व्यावृत्त्या सिध्यति ।
सा च लाक्षणिकानेकपदाधीना नासमानपदात् लभ्यत इति प्रयोजनवल्लाक्षणिकपदोपादानम् ।
लक्षणैव चेयम् अनेकस्माद्व्यावृत्तो धर्मो ऽनेकधर्म इति विग्रहेण निर्वर्ण्यते इति ।
अभ्युच्चयमात्रमाह—लाघवं वेति ।
असाधारणस्य संशयकारणत्वे व्यावृत्तिः प्रयोजिकेति मन्वानश्चोदयति—यद्यनेकेति ।
परिहरति—नैष दोष इति ।
व्यभिचाराव्यभिचारौ हि संशयनिर्णययोः प्रयोजकौ, नान्वयव्यतिरेकमात्रमित्यर्थः ।
चोदयति—यदि तर्हीति ।
सपक्षासपक्षसाधारण्यं हि हेतोर्व्यभिचारः ।
स चेत् संशयस्य कारणम्, हन्त, समानधर्मोपपत्तिरेव सर्वत्र संशयकारणमिति कृतम् अनेकग्रहणेनेत्यर्थः ।
परिहरति—सत्यमिति ।
सपक्षासपक्षसाधारण्यं हि हेतोर्व्यभिचारः ।
स च संशयस्य प्रयोजकः ।
तथाप्येकस्यान्वयः साधारणो ऽपरस्य व्यतिरेक इत्येतावतोभयोपादानमित्यर्थः ॥
एवमनेकधर्मोपपत्तेरिति स्वमते व्याख्याय परमतव्याख्यानं दूषयितुमुपन्यस्यति—न ।
इति ।
नित्यः शब्दः श्रावणत्वात् शब्दत्ववदित्येकः पञ्चरूपोपपन्नो ऽव्यभिचारी हेतुः१ अनित्यः शब्दः कृतकत्वाद् घटवदिति चायमपरः पञ्चरूपोपपन्नो ऽव्यभिचारी हेतुरिति ।
तदेतद् दूषयति—तदयुक्तमिति ।
न ह्यव्यभिचारिणौ पञ्चरूपोपपन्नावित्यर्थः ।
न चायं प्रतिवादिनः प्रयोगो ऽपि युक्तः इति ।
विरुद्धशब्दस्यार्थो विरुद्धार्थ इति, स्वरूपमनयोर्विरुद्धं परस्पराभाववदित्यर्थः ।
विशेषदर्शनादुपजात इति ।
संशयस्य हि विशेषादर्शनं जनकम्, विशेषदर्शनं च निवर्तकमिति ।
स चेत् त्वन्मते निवर्तकादुत्पद्यत, अव्यभिचारिहेतुजनिताद्विशेषदर्शनात् नास्य निवृत्तिः स्यादित्यर्थः ।
न च यदा निवर्तकत्वमस्यास्ति तदा जनकमपीत्याह—न हि विशेषदर्शने सतीति ॥
स्यादेतत् ।
प्रत्यक्षमेव स एवायं गकार इत्येवमाकारं प्रत्यभिज्ञासमाज्ञातं शब्दस्य स्थेमानमाकलयत्,
तावत्कालं स्थिरं चैनं कः पश्चान्नाशयिष्यति ॥
इति नित्यत्वं परिच्छेत्स्यतीत्यत आह—नायमर्थः प्रत्यक्षस्य विषयः ।
तदेव हि प्रत्यक्षं संशयस्य निवर्तकं यदनन्यथासिद्धम्, यथौष्ण्यग्राहि वह्नेः ।
इदं तु सादृश्येनापि सम्भवात् स्वयं सन्दिग्धं सन्न संशयोच्छेदायालमित्यर्थः ।
मा भूत् प्रत्यक्षस्य विषयः, भवति त्वागमस्य ।
नो खलु क्षणिकः शब्दो ऽर्थप्रत्यायने समर्थः, तस्यान्वयव्यतिरेककालानवस्थायिनो ऽशक्यसमयत्वेनार्थप्रतिपत्तेरनुपपत्तेः ।
तस्माद् यद्यपि साक्षान्नित्यो ऽहम् इत्यागमो नाभिधत्ते, तथापि विदितसङ्गतेरर्थप्रत्ययं कुर्वन्नात्मनो नित्यतामाक्षिपन्नित्यताविषयो भवति ।
यथाहुः
नित्यस्तु स्याद् दर्शनस्य परार्थत्वात् ॥
इत्यत आह—नागमविषयः ।
यद्यपि वर्णव्यक्तयः क्षणिकाः, तथापि स्वस्वसामान्यविशेषगत्वाद्युपहिता गवादिव्यक्तय इव गोत्वाद्युपधानाः शक्यसङ्केता इति न नित्यतामाक्षिपत्यागम इत्यर्थः ।
भवतु किं नो बाध्यत इति ।
न खलु चन्द्रमसः परभागे हरिणसदसद्भावसन्देहः शक्यः कदाचिदप्युच्छेत्तुमस्मदादीनामित्यर्थः ।
कथं न बाध्यत इति ।
सन्दिग्धनित्यानित्यभावे शब्दे कृतकत्वं दृष्टमिति नानित्यत्वेन स्वभावतः प्रतिबद्धम् ।
तथा च न बुद्ध्यादीनामनित्यत्वं साधयितुमर्हतीत्यर्थः ।
सर्वमिति ।
कृतकत्वप्रयत्ननान्तरीयकत्वप्रत्ययभेदभेदित्वादीत्यर्थः ।
सर्वं चानुमानमिति ।
यदि च पञ्चरूपो ऽपि हेतुः, संशयकारणं सर्वमेवानुमानमिति सर्वमप्रमाणं स्यादित्यर्थः ।
वैनाशिकाः प्राहुः नित्यासम्भवादिति ।
न, बाधापरिज्ञानादिति ।
बाधाविषयापरिज्ञानादित्यर्थः ।
स्वदेशे परोत्पत्तिप्रतिबन्धकत्वं सप्रतिधत्वम् ।
सौत्रान्तिकमते हि रूपं सप्रतिघमिष्यते मूर्तं च, नित्य एवेति वा अनित्य एवेति वा अभिलापो नोपपद्येत, स्थाणुरेवेति वा पुरुष एवेति वा अभिलापः ।
चोदयति—नैवं भविष्यतीति ।
मा भूदभिलाप इत्यर्थः ।
परिहरति—व्याहतमिति ।
स एवैकग्रन्थेनाह—ननु चेति ॥
तदेवं पञ्चरूपयोर्हेत्वोरेकत्र समवायाभावः उक्तः ।
यदि पुनरसत्प्रतिपक्षरूपरहितयोरेकत्र सम्भवो ऽङ्गीक्रियते, तथा च संशयहेतुत्वमित्यभिप्रायेण शङ्कते—अथ कृतकत्वेति, निराकरोति—तथापीति ।
प्रत्येकं सत्प्रतिपक्षत्वम्, मिलितयोस्त्वसाधारणत्वम्, तादृशः अन्यत्रादर्शनादित्यर्थः ।
तत् किमिदानीं सत्प्रतिपक्षतया कृतकत्वमसाधनमेव शब्दानित्यत्वे, तथा च बहु व्याहतं भवतीत्याशयवान् पृच्छति—यदा पुनरेवम्भूताविति ।
उत्तरम्—तदा तयोरिति ।
ननु कृतकत्वस्य साध्यत्वात् श्रावणत्वस्य च सिद्धत्वात् प्रथमभाविना नित्यत्वानुमानेन सिद्धाङ्गकेनापहृतविषयं चरमभाविसाध्यङ्गकमनित्यत्वानुमानमेव बाध्यताम् इत्यत आह—यत्नश्च क्रियमाण इति ।
सिद्धमपि श्रवणत्वमनुमानसिकताद्यनित्यधर्मसाधारणतया सव्यभिचारं सन्नित्यत्वस्य साधनं न भवितुमर्हतोति ।
कृतकत्वस्य तु पाञ्चरुप्यम् ।
नित्यत्वस्य च प्रमाणबाधनमुपपादयिष्यत इत्यर्थः ॥
विप्रतिपत्तेरित्यस्य व्याख्यानम्—विप्रतिपत्तेरिति ।
यद्यपि विरुद्धा प्रतिपत्तिर्ज्ञानं विप्रतिपत्तिः, तथापि तस्या वादिप्रतिवादिगताया अत्यन्तपरोक्षत्वात् संशयकारणत्वानुपपत्तेः स्वकार्यं प्रवादं लक्षयतीत्यर्थः ।
अत्र भाष्यकारः उपलब्ध्यव्यवस्थाया अनुपलब्धव्यवस्थायाश्च पृथक् संशयकारणत्वं मत्वा समानधर्मोपपत्तेरित्यनेन गतार्थतां परिहरन्नाह स्म—पुर्वः समानो ऽनेकश्चेत्यादि ।
तदुपन्यस्य वार्त्तिककारो दूषयति—तत्रेति ।
नो खलु समानानेकधर्मोपलब्धौ सत्याम्, सत्यां च विशेषस्मृतौ साधकबाधकप्रमाणासद्भावे संशयो भवतीत्युक्तम् ।
तस्मात् नोपलब्ध्यनुपलब्ध्यव्यवस्थे पृथक् संशयकारणे इति ।
विशेषमपि दूषयति—समान इति ।
ननु यदि नासित भेदः, तत् किमिदानी सर्वेषां ज्ञातृस्थत्वाविशेषण त्रयाणामपि संशयकारणानां समानानेकविप्रतिपत्तीनामभेदः, तथा च पृथगुपादानवैयर्थ्यमित्यत आह—समानानेकधर्मयोरिति ।
पुनश्चोदयति—समानधर्मः सर्व एवायमिति ।
अयमभिसन्धिः ।
असाधारणो ह्यदृष्टपूर्वः क्वचिदपि न संशयं कर्तुमुत्सहते, यत् पुनरसाधारणवत्त्वं संशयहेतुत्वेनोपवर्णितं भाष्यकृता तत् समानमेव, न त्वसाधारणम् ।
यथाहुः,
अन्यो ऽसाधारणो धर्मस्तद्वत्तान्या च दृश्यते ।
सर्वसाधारणी सा चेदिष्टा संशयकारणम् ।
ततः साधारणस्यैव सिद्धा संशयहेतुता ॥
यच्च वार्त्तिककारेण सर्वतो व्यावृत्त्या असाधारणस्य संशयकारणत्वमुक्तम्, तत्रापि तदभावस्य साधारणस्य संशयहेतुत्वे किमायातमसाधारणस्य? यथाहुः,
सर्वतो ऽस्य निवृत्तत्वादभावात् संशयो यदि ।
अनन्यवृत्तिरूपस्य ततो ऽसाधारणस्य किम् ॥
इति ॥
विप्रतिपत्तिरपि विरुद्धहेतुद्वयसमुत्था एकस्मिन् संशयकारणम्, विरुद्धहेतुसमवायश्चासाधारण एव ।
स च साधारणे निविशते इति सूक्तम् सर्व एवायं समानधर्म एवाभिधीयत इति ।
परिहरति—न, सूत्रार्थापरिज्ञानदिति ।
न वयं सर्वत्र साधारणमपजानीमहे अन्वयव्यतिरेकव्यभिचारवक्तृगतत्वभेदमात्रमाद्रियमाणाः कारणभेदेन त्रिविधं संशयमाचक्ष्महे इत्यर्थः ॥
वार्त्तिककारो भाष्यकारमतमुपन्यस्य दूषयति—अपरे पुनरिति ।
साधकबाधकप्रमाणाभावरहितं त्रयमपि न संशयकारणमित्युक्तमित्यर्थः ।
अपि चैतयोः पृथक् संशयकारणत्वे ऽतिप्रसङ्गात् निश्चयपूर्वं न प्रवर्तेत लोकः, तथा च लोकविरोध इति दर्शयति—उपलब्ध्यनुपलब्ध्योर्द्वैविध्याच्चेति ।
न चास्य क्वचिदाश्वासो निःशङ्कता,
न चानभ्यासदशान्ने उपलब्ध्यनुपलब्ध्यव्यवस्थयां संशय इति वाच्यम्, अनभ्यासदशापन्ने हि दूराद् वह्निज्ञाने उपलब्ध्यव्यवस्थाया अपि न नागो वा नगो वेति संशेरते, किं तु किंशुककुसुमनिचयो वा उषर्बुधो वेति, तत्र समानधर्मोपपत्तिरेव कारणमितरसहिता ।
एवमयोग्यानुपलब्धिमात्रादपि न संशयो विना समानधर्मादिदर्शनमित्युक्तम् ।
विकल्प्य दूषणान्तरमाह—येषां चेति ।
सामग्रीभेदेन भेदे त्रेविध्यं संशयस्य सामग्रीनिवेशिकारणभेदेन तु पञ्चविधः, अपि त्वनेकविध एत्यर्थः ॥
समानानेकधर्मोपपत्तेरित्यत्र षष्ठतत्पुरुषं मत्वा आक्षिपति—न समानधर्मग्रहणादिति ।
बहुव्रीहिं मत्त्वा समाधत्ते—अयं परिहार इति ।
अथेति ।
कश्चासौ विशेषश्चेति किंविशेषः अनुपलब्धपूर्वो विशेषो ऽस्येत्यर्थः ।
उपलब्धपूर्वायां व्यक्तौ संशये तद्गता विशेषाः सुस्मूर्षिताः तज्जातीयव्यक्त्यन्तरसंशये त्वन्यगतास्ते सामान्यद्वारेणोपलब्धा एवेति—सामान्यप्रत्यक्षादिति ।
समान्यवानेव सामान्यः ।
यथा सामान्यो ऽयं धर्मसेतुर्नृपाणाम्
इति सामान्यश्चासौ प्रत्यक्षश्चेति धर्मी तथोक्तः ।
अव्यवस्थितविशेषत्वं साधकबाधकप्रमाणाभाव इत्यर्थः ॥
बौद्धाभिमतं संशयलक्षणमुपन्यस्यति—अन्ये त्विति ।
निगूढाभिप्रायो दूषयति—तैरपीति ।
अविदिताभिप्रायः शङ्कते—धर्मी चेदिति ।
दूषणवादी स्वाभिप्रायमुद्धाटयति—यदि तावदिति ।
बौद्धानां हि राद्धान्ते न रूपादिधर्माश्रयः कश्चिदस्ति धर्मी ।
ततश्च सिद्धान्तव्याकोपः ।
यदि त्वाह भवतु राद्धान्तव्याकोपो न हि शास्त्राश्रयो वाद इति, तत्रापि दोषान्तरमाह—धर्मधर्मिणोश्चेति ।
अथाप्यस्मद्दिशेति ।
समानानेकधर्मपदवद् बहुव्रीहिरित्यर्थः ।
सामान्यशब्दस्तु भवितरि दृष्टो यथा,
सामान्यार्थसमुत्थाने विभागस्तु समः स्मृतः ।
इति भावः ।
व्यर्थं चाभिधानमिति ।
सामान्यविशेषतद्वदभ्युपगमे ऽपि तद्वतो ऽश्रवणात् साधर्म्यस्य सामान्यस्य विशेषा इति गम्येत, न च सामान्यस्य विशेषा इति विरुद्धार्थमभिधानं स्यादित्यर्थः ।
वैशेषिकलक्षणे हि विशेषाप्रत्यक्षादित्यनेन साधकबाधकप्रमाणाभावो दर्शितः ।
इह त्वसौ वक्तव्यः ।
तस्मात् न्यूनं बौद्धलक्षणमित्याह—उपलब्धीत्यादि ।
यदि च साधर्म्यदर्शनादित्यनेनान्वयमात्रव्यभिचारो ऽभिमतो बौद्धेन ततो ऽनेकधर्मदर्शनादिति वक्तव्यमिति ।
तदेवं सामान्यलक्षणमेकम्, त्रीणि च विशेषलक्षणानीति स्थितम् ॥
तदेतानि चत्वारि लक्षणानि पु।जीकृत्य विचारयति—समानेति ।
यदि तावत् संशयसामान्यलक्षणे स्थिते त्रीणि विशेषलक्षणानि ततः संशयत्वेनोपगृहीतानां त्रयाणां परस्परव्यवच्छेदकमात्रं लक्षणं वक्तव्यम् ।
ततः समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरित्येतावन्मात्रं वक्तव्यम् ।
कृतमत्र शेषेण, तन्मात्रादेव परस्परव्यवच्छेदसिद्धेः ।
तस्मात् परस्परव्यवच्छेदमनप्रेक्ष्य संशयकारणकथनपरमेतत् सूत्रम् ।
तथा चान्यान्यपि संशयकारणानि सन्तीति तान्यपि वक्तव्यानि ।
यदा खल्वयमात्मनः शमादौ संशेते, किमहं चन्दनवनितादिसन्निधाने रज्ये विरज्ये वेति, सो ऽयमस्यात्मनः सन्निकर्षजन्मा संशयः आन्तरस्य शमादेर्विषयस्येति समाधत्ते—अस्तु तावदिति ।
यद्यपि तावन्मात्रेण समानजातीयव्यवच्छेदसिद्धिः, तथापि विजातीयनिर्णयादिव्यवच्छेदाय सामान्यलक्षणमनुवर्तनीयम् ।
तथा च प्रतिपत्तिगौरवं स्यादिति तल्लाघवाय शेषापेक्षा युक्ता ।
आत्ममनः—सन्निकर्षादयस्त्वत्यन्तसाधारणा विजातीयव्यवच्छेदायापि नालमिति नोपत्ता इति भावः ।
एवं संशयकारणावधारणादर्थात् संशयभेदावधारणमित्युक्तम् ।
सम्प्रति कारणविशेषणत्वेन संशयस्वरूपमेवोच्यत इत्यह—स्वरूपनिर्देशो वेति ।
विप्रतिपन्नो ऽपि पुरुषः सन्दिग्धवत् प्रतिपाद्य एवति मन्वानश्चोदयति—संशयवदिति ।
विप्रतिपन्नो न शिष्यः, किं तु जल्पवितण्डाभ्यां शिष्यतो नीत्वा सन्दिग्ध एव प्रतिपाद्य इत्यभिप्रायेण परिहरति—सत्यमिति ॥२३ ॥
न्य्स्_१,१।२४: यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम् ॥
उद्देशक्रमप्राप्तस्य प्रयोजनस्य लक्षणम्—यम—नम्॥२॥ अत्रार्थशब्दो गौणमुख्यप्रयोजनावरोधार्थः ।
तत्र मुख्यं सुखदुःखापितपरिहारौ, गौणं तु तत्साधनम् ।
अत्र भाष्यं—यमर्थम् इत्यादि ।
अत्राधिकृत्येत्यस्य व्याख्यानम्—व्यवसाय निनिश्चित्येत्यर्थः ।
समाधनौ च सुखदुःखाप्तिपरिहारावर्थः ।
न च सुखदुःखप्राप्तिपरिहारौ स्वरूपेण प्रवृत्ति निवृत्तिगोचराविति तदुपायप्रवृत्त्यैव चेतनप्रवृत्तिगोचराविति दर्शयति—तदाप्तिहानोपायमनुतिष्ठतीति ।
प्रवृत्तिहेतुत्वादिति ।
यद्यपि सुखदुःखाप्तिहाने तदुपायाश्च सन्ति, तथापि सामान्येन ज्ञायमानानीच्छाद्युपहारमुखेन प्रवृत्तिहेतवः ।
ननु सूत्रे ऽधिकृत्येत्यस्ति, भाष्ये च व्यवसायेति, तत् कुतो न विरोध इत्यत आह—व्यवसायो ऽर्थस्याधिकार इत्यादि ।
तदेतद् वार्त्तिककारो व्याचष्टे—यमर्थमधिकृत्येति, व्यवसायेति ।
पृच्छति—कस्येति सुखदःखाप्तिपरिहारयोर्व्यवसायस्तत्रैव प्रवर्तयेत् ।
न चानयोः प्रवृत्तियोग्यता ।
न चान्यनिश्चयो ऽन्यत्र प्रवर्तयति, अतिप्रसङ्गादिति भावः ।
उत्तरम्—सुखदुःखसाधनानामिति ।
ततश्च प्रतीतिप्रवृत्त्योः सम्प्रतिपत्तिरित्यर्थः ।
सर्वव्यापितामस्य दर्शयति—अनेन प्रयोजनेनेति ।
वितण्डाया अपि प्रयोजनमुक्तं प्रथमसूत्रे ।
चोद्यमानस्य प्रवर्त्तमानस्येत्यर्थः ।
शङ्कते—यदीति ।
लोक्यते ऽनेनेति लोकः प्रमाणम् ।
तदन्वितः तदुत्पन्नः ।
न च प्रमाणमीदृशम्, अनवस्थाप्रसङ्गादिति भावः ।
निरारकरोति—अतिदोषो ऽयमिति ।
यथा च प्रमाणस्य प्रमाणोपपन्नता न चानवस्था, तथा द्वितीये निवेदयिष्यते ।
न च प्रसिद्धतरतया न प्रयोजनं लक्षणीयम् इति युक्तम्, कथमस्य प्रयुक्तौ साधनत्वम्, क्व च प्रयोजयति, कथं च व्यापकमिति सर्वस्य परीक्षकप्रवेदनीयत्वात् ।
अथान्य इति ।
अप्रामाणिको लौकिक इति ।
यथा वटे वटे वैश्रवणः
इति ।
निराकरोति—तन्न बुध्यामह इति ।
प्रयोजनस्य प्रामाणिकत्वादित्यर्थः ।
यदप्युक्तं न्यायस्याङ्गं प्रयोजनं न भवति, तस्मात् न वक्तव्यमिति, तन्न युक्तम् ।
या खलु निष्प्रयोजनेति न ब्रूमः प्रयोजनं न्यायस्याङ्गमित्यपि, मुख्यं प्रयोजनमेव हि तन्न स्याद् यदृते पुरुषादन्यार्थमिति ।
प्रयोजनवांस्तु न्यायो निष्प्रयोजनां तद्गतां चिन्तामङ्गी करोति, फलवत्सन्निधावफलं तदङ्गमिति न्यायात् ।
तस्मादनङ्गमपि प्रयोजनं परीक्षाया मूलं स्वर्ग इव सेतिकर्तव्यताकस्य यागाद्यनुष्ठानस्येति सिद्धम् ॥२४ ॥
न्य्स्_१,१।२५: लौकिकपरीक्षदाणां यस्मिन्न् अर्थे बुद्धिसाम्यं स दृष्टान्तः ॥
क्रमप्राप्तं दृष्टान्तं लक्षयति—लौकि—न्तः॥२५॥ दृष्टान्त इति लक्ष्यनिर्देशः, शेषं लक्षणम् ।
साध्यसाधर्म्यात् तद्धर्मभावित्वेनार्यते तथा साध्यवैधर्म्यादतद्धर्मभावित्वेनार्यते यः सो ऽर्थस्तस्मिन् ।
तथा च नातिव्याप्तिः ।
उदाहरणसूत्राच्चेदृशविशेषप्रतिलम्भः ।
लोकसामान्यम् किं तदित्यत आह—नैसर्गिकमिति ।
शास्त्रपरिशीलनलब्धजन्मा बुद्ध्यतिशयो वैनयिकः ।
तद्रहिता लौकिकाः प्रतिपाद्या इति तावत् ।
तद्विपरीताः तदुभयंसपन्नाश्च परीक्षकाः प्रतिपादका इति यावत् कथाबहुत्वाच्च बहुवयनम् ।
तदनेन वादिप्रतिवादिनौ दर्शितौ, तयोर्बुद्धिसाम्यं व्याचष्टे—यथा यमर्थमिति ।
लक्षणप्रयोजनमाह—दृष्टान्तविरोधेनेति ।
दृष्टान्तस्य विरोधो विरुद्धत्वं साध्यविकलत्वादि ।
प्रतिपक्षा इति प्रतिपक्षासाधनानि ।
समाधिः अभूतदोशारोपस्य प्रतिषेधः ।
लक्षितश्च दृष्टान्त उदाहरणलक्षणाय कल्पते घटते इति भाष्यम् ।
अत्र वार्त्तिककारो लौकिकपरीक्षकस्वरूपमविवक्षितमिति मन्वान आह—बुद्धिसाम्येति ।
अविवक्षायाः प्रयोजनमन्वयव्यतिरेकाभ्यामाह—एवं चेति ।
परेषा दृष्टान्तलक्षणक्षेपमुपन्यस्य दूषयति—सो ऽयं दृष्टान्त इति ।
दृष्टान्तस्य प्रयोजनमाह—दृष्टान्तः सारूप्यव्युत्पत्त्यर्थः ।
यथा आक्षेप्त्रोक्तं तत्तदक्षरमनूद्य दूषयति—असिद्धसाधनार्थो वेति ।
न खल्वसिद्धः साध्येन साधनस्याविनाभावो दृष्टान्तेन साध्यते इत्यर्थः॥२५ ॥
न्य्स्_१,१।२६: तन्त्राधिकरणाभ्युपगसंसस्थितिः सिद्धान्तः ॥
अत्र भाष्यकारः सिद्धान्तसामान्यलक्षणमपठित्वैव तात्पर्यं व्याचष्टे—अथ सिद्धान्तः इत्यादिना ।
तत्र इदमित्थम्भूतमिति वार्त्तिककारो व्याचष्टे—इदमिति सामान्यत इति ।
भाष्ये च संस्थितिरित्थम्भावव्यस्थेति सामान्योपक्रमस्य अभ्युपगमस्य प्रमाणतो विशेषपर्यन्ततापरिसमाप्तिः संस्थितिरित्यर्थः ।
अत्रैवार्थे सूत्रम् इत्याह वार्त्तिककारः—अस्यार्थस्येति ॥
तन्त्रा—न्तः॥२६॥ सूत्रार्थमाक्षिपति—किं पुनरिति ।
लक्षणार्थ चेति ।
सामान्यलक्षणार्थम्, न खलु सामान्यलक्षणमन्तरेण शक्यो विभाग इत्युक्तम्॥२६ ॥
न्य्स्_१,१।२७: सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् ॥
समाधत्ते—नानार्षमिति ।
लक्षणार्थत्वं सामान्यलक्षणार्थत्वम् ।
तन्त्र्यन्ते व्युत्पाद्यन्ते प्रमेयाण्यनेनेति तन्त्रं प्रमाणम् ।
तदेवाधिकरणम् आश्रयो ज्ञापकत्वेन येषामर्थानां ते तथोक्ताः ।
अशास्त्रितः अप्रमाणिक इत्यर्थः ।
आभिमानिकं च प्रामाणिकत्वम्, तेन सिद्धान्तभेदिनामर्थानां सर्वेषां न प्रामाणिकत्वप्रसङ्गः ।
तदेवं भाष्यकारेण व्याख्याय सामान्यलक्षणं पठितम् ।
एवं व्याख्यानपूर्वकमेव विभागसूत्रं पठति—तन्त्रार्थसंस्थितिरिति ।
तन्त्रग्रहनेन च सर्वतन्त्रप्रतितन्त्रयोरुपादानम् ।
उभयोरपि तन्त्रत्वात् ।
तदिदमुक्तम्—तन्त्रभेदात् त्विति ।
अनवधारितार्थपरिग्रह इति ।
साक्षाच्छास्त्रे नोपात्तो यथा मनस इन्द्रियभाव इति ॥२७ ॥
न्य्स्_१,१।२८: सर्वतन्त्राविरुद्धस्तन्त्रे ऽधिकृतो ऽर्थः सर्वतन्त्रसिद्धान्तः ॥
सर्व—न्तः ॥२७॥ यद्यपि घ्राणादिषु भौतिकत्वाभौतिकत्वादयो विप्रतिपत्तयः, तथापि इन्द्रियत्वे नास्ति विप्रतिपत्तिरिति ।
तदेतद् वार्त्तिककारो व्याचष्टे—सर्वेषामिति ।
अत्र चोदयति—न दृष्टान्तादिति ।
परिहरति—भिद्यत इति ।
न चैवं सर्वतन्त्रसिद्धान्तः, तस्य सर्वैरेव निश्चितत्वादिति, अनुमानागमयोरिति ।
सम्बन्धग्रहणाश्रयावनुमानागमौ, यत्र च सम्बन्धग्रहः स दृष्टान्त इत्यर्थः ॥२८ ॥
समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः॥२९ ॥
न्य्स्_१,१।२९: समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः ॥
समा—न्तः ॥२९॥ समानशब्द एकपर्यायः ।
नैयायिकानां हि समानं तन्त्रं न्यायशास्त्रम्, परतन्त्रं च साङ्ख्यादिशास्त्रम् ।
चेतना आत्मनः निरतिशया अपरिणामिनो न केनचिद् धर्मेणोपजनापायधर्मेण युज्यन्ते ।
प्राकृतेषु च देहादिषु तत्कारणेषु महदहङ्कारपञ्चतन्मात्रभूतसूक्ष्मेषु विशेषो ऽतिशय इत्यर्थः ।
तदेतत् सूत्रं वार्त्तिककृद् व्याचष्टे—सामान्येनेति ।
योगानाम् एव, साङ्ख्यानाम् एवेति नियमः ॥२९ ॥
न्य्स्_१,१।३०: यत्सिद्धाव् अन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः ॥
यत्—न्तः॥३०॥ यस्यार्थस्य साध्यस्य वा हेतोर्वा सिद्धौ इति विषयसप्तमी, न तु निमित्तसप्तमी, द्वयोर्ज्ञायमानयोर्निमित्तनैमित्तिकभावायोगात् ।
तेन यस्मिन्नर्थे ज्ञायमाने तदनुषङ्गिणो ऽर्थास्तदन्तर्भाविनो गम्यन्ते, सो ऽर्थः साक्षादधिक्रियमाणस्तदनुषङ्गिणां चाधारः तदाश्रयत्वात् तत्सिद्धेः, स पक्षो वा भवतु हेतुर्वा अनेन रूपेण अधिकरणसिद्धान्तः ।
पक्षस्तावद् यथा विवादाध्यासितमुपलब्धिमत्कारणमुत्पत्तिमत्त्वाद् तस्त्रादिवदिति ।
अत्र हि पृथिव्यादिगतेनोत्पत्तिमत्तेन उपलब्धिमत्पूर्वकत्वं तद्गतं साध्यमानं स्वसिद्ध्यन्तर्गतानुषङ्गिसर्वज्ञत्वाद्युपेतमेव सिध्यति, नान्यथेहोपलब्धिमत्पूर्वकत्वस्य सिद्धिरिति ।
भाष्ये हेतुप्रतिसन्धानं सिध्यत् अनुषङ्ग्यर्थान्तरान्वितं सिध्यतीत्पुदाह्लतम् ।
तदेतत्सर्वावरोधार्थं वार्त्तिककृद् आह—वाक्यार्थेति ।
हेतुरीदृशः पक्षश्च वाक्यार्थ इत्यर्थः ।
पूर्वो ऽर्थो यः साक्षाद्धिकृतः तस्य सिद्धावन्तर्गत इति भाष्यार्थः॥३० ॥
न्य्स्_१,१।३१: अपरीक्षिताभ्युपगमात् तद्विशेषपरीक्षणमभ्युपगसिद्धान्तः ॥
अथाभ्युपगमसिद्धान्तसूत्रम्—अप-न्तः॥३१॥ तद् वार्त्तिककारो व्याचष्टे—अपरीक्षितो ऽसूत्रित इति, सूत्रितस्य प्रायेण परीक्षासम्बन्धात्, मनसो हीन्द्रित्वेनासूत्रितस्यापि इन्द्रियत्वाभ्युपगमः प्रमाणाधिकरणो यतः, तस्मादयमभ्युपगमसिद्धान्तः ।
सूत्रं चैवं चोजनीयम्, असूत्रिताभ्युपगमात् हेतोर्यतस्तद्विशेषपरीक्षणं क्रियते, तस्माद् विशेषपरीक्षणात् ज्ञायते असूत्रितमप्यभ्युपगतं सूत्रकारेण ।
सो ऽयमस्याभ्युपगमो ऽभ्युपगमसिद्धान्त इति ॥
एवं स्वमतेन सूत्रं व्याख्याय भाष्यकारव्याख्यानं दूषयति—शास्त्रानभ्युपगत इति ।
प्रमाणीकृतेन शास्त्रेणाननुज्ञातः प्रमाणानधीन इत्यर्थः ।
प्रमाणतान्त्राभ्युपगमसंस्थितिरिति हि सिद्धान्तसामान्यलक्षणम्, न च प्रमाणानधीनाभ्युपगमस्तदन्वेतीति नायमीदृशो ऽभ्युपगमसिद्धान्तो भवितुमर्हतीति हृदि निधायायुक्तापि दर्शिता ।
अज्ञं प्रत्यसदाचारत्वात् प्रमाणिकं च पुरुषं प्रत्यशक्यत्वात् बुद्धिमतो ऽवज्ञानस्यायुक्तत्वात् अशक्यत्वादित्यर्थः ।
सर्व एवायं पक्ष इति ।
सर्वतन्त्रप्रतितन्त्रसिद्धान्तौ तावत् साक्षादभ्युपगम्यमानौ स्वमुखेनैव पक्षतयाभिधीयेते ।
अधिकरणाभ्युपगमौ च साक्षात् अनभ्युपगम्यमानावप्यर्थादभ्युपगन्तव्याविति अर्थापत्त्या पक्षावित्यर्थः ।
ननु यद्युपपन्नः प्रमाणतया अभ्युपगमः सिद्धान्तः, तर्हि सिद्धान्तभेदिनामर्थानां प्रामाणिकत्वेन विरुद्धधर्मसमालिङ्गिता भावाः प्रसज्येरन्नित्यत आह—तत्प्रत्ययात् ।
तस्य प्रमाणोपपन्नकर्मत्वस्य प्रत्ययादभिमानादित्यर्थः ।
पक्ष इति ।
पचि व्यक्तीकरणे इत्यस्माद् व्युत्पन्नम् ।
कर्मतया व्यज्यमानतया वा उपादानं स्वार्थस्य पक्ष इति पदम् ।
उपादीयते ऽनेनेति व्युत्पत्त्या ।
क्रियासाधन इति प्रधानक्रियासाधने ।
क्रियाविशेषयुक्त इति अवान्तरव्यापारयुक्ते तेन हि प्रधानक्रियायां कारकाणां वैचित्र्यं भवतीति ।
यश्चासौ न्यायस्याभ्युपगम इति ।
यावदभ्युपगतं न्याय्यस्य साधनं न्याय इति, तावभ्युपगतं भवति प्रमेयसाधनं प्रमाणमिति ।
न च धर्मिणि अनभ्युपगते तदाश्रयो ऽभ्युपगतो भवति ।
तस्मादुभयथापि सर्वतन्त्रसिद्धान्तानपह्नव इत्यर्थः ।
अथ सङ्ग्रहः पक्षशब्देनेति, यथा दण्डिशब्देन दण्डसम्बन्धोपहितसीमानः समानासमानजातीयाः सर्वे सङ्गृह्यन्ते, तथा पक्षशब्देनापीत्यर्थः अयं तु कल्पः सर्वतन्त्रसिद्धान्ताव्यापकत्वकथनेनैवार्थादपाकृत इति न पृथक् निराकृतः ।
पक्षशब्दो हि व्यज्यमानत्वोपाधिनिबन्धनप्रवृत्तिः, न च व्यज्यमानत्वमस्ति निसर्गव्यक्ते सर्वतन्त्रसिद्धान्त इति भाव ।
वाक्यार्थप्रतिपत्ताविति ।
पीनो देवदत्तो दिवा न भुङ्क्ते इति वाक्यस्य दिवाभोजननिषेधो ऽर्थः ।
तस्मात् तद्विपरीतरात्रिभोजनविधिरर्थापत्तिर्लोकसिद्धा ।
सा च न यथा प्रमाणान्तरुलं तथा द्वितीये निवेदयिष्यते ।
तदनेन प्रबन्धेन भदन्तदिग्नागोदितानि दूषणानि निराकृतानि॥३१ ॥
न्य्स्_१,१।३२: प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः ॥
प्रति—वाः ॥३२॥ वार्त्तिककारः सूत्रतात्पर्यमाह—अवयवानामिति ।
नन्ववयवसामान्यलक्षणम् अन्तरेणाशक्यो विभागोद्देशः, तद्विशेषलक्षणं च ।
न चेदं सामान्यलक्षणं विभागपरत्वादित्यत आह—सूत्रम्, विभागपरमप्येतदर्थादवयवसामान्य लक्षणं सूचयतीति सूत्रम् ।
अन्यपरादपि वाक्यात् प्रतीयमानो ऽर्थो ऽपेक्षित स्वीक्रियत एवेति शाब्दाः ।
तत्रावयवपदादेव सामान्यलक्षणमवगम्यते ।
अवयवत्वेनैकवाक्यता दर्शिता ।
सा च पदानां परस्परमसम्प्रत्यायितापेक्षितसम्बन्धयोग्यार्थप्रत्ययेन भवति ।
तस्मात् तथाविधार्थप्रत्यायनमेव प्रतिज्ञादीनामवयवसामान्यलक्षणं सिद्धमिति सूत्रमित्यनेन दर्शितं वार्त्तिककृता इति ।
विभागोद्देशतात्पर्यमाह—विभागेति ।
त्र्यवयवग्रहणम् उपलक्षणार्थम्, द्व्यवयवमित्यपि द्रष्टव्यम् ।
अत्र भाष्यं तत्राप्रतीयमान इति ।
सामान्येनावगतधर्मिणि विशेषणाग्निमत्त्वादिना सन्दिग्धे, अग्निमत्त्वादितत्त्वावधारणं प्रत्ययः ।
तस्यार्थः प्रयोजनं हानोपादानोपेक्षबुद्धयः ।
तस्य प्रवर्त्तिका उत्पादिका जिज्ञासा प्रत्ययसाधनानुसरणद्वारेण प्रत्यासत्तिः संशयतत्त्वज्ञानयोर्विशेषगता न तु स्वरूपगता, संशयानन्तरया जिज्ञासया संशयस्य व्यवधानात् ।
शक्यं प्रमेयम् ।
तस्मिन् प्राप्तिः शक्तता प्रमाणानां प्रमातुश्च ।
सा च स्वरूपसहकारिभ्यां द्वेधा ।
तामिमां भाष्यकारो ऽनया वचोभङ्ग्या दर्शयति—प्रकातः प्रमाणानीति ।
प्रतिज्ञादिवदिति ।
वैधर्म्यदृष्टान्ताः ।
प्रतिपक्षेपवर्णनमिति ।
यदि शब्दो नित्यः स्यात्, न स्यात् कृतक इति अनित्यत्वस्य नित्यत्वं प्रतिपक्षः ।
तस्मिन् हेत्वभावोपवर्णनं न चायमकृतक इति ।
तदुपवर्णनप्रतिषेधे सति तत्त्वज्ञानाभ्यनुज्ञानार्थम् ।
तत्त्वं ज्ञायते ऽनेनेति तत्त्वज्ञानं प्रमाणम् ।
तदभ्यनुज्ञानार्थं संशयव्युदासः तर्कापरनामा ।
व्युदस्यते हि तेन प्रमाणाभ्यनुज्ञानद्वारेण इतिकर्तव्यताभूतेन संशम्य इति ।
तदेतद् भाष्यजातं प्रश्नपूर्वकं वार्त्तिककृद् व्याचष्टे—कथं पुनरिति ।
न पुनर्जिज्ञासादयः परप्रतिपादकाः शब्दादवगताः सन्तः ।
अथ मा भूवन् परप्रतिपादकाः, स्वप्रतिपादका एव कस्मात् न भवन्तीत्यत आह—निश्चितत्वाच्चेति ।
साधनादेव गम्यते प्राप्यते, प्राप्तं च ज्ञायत इत्यर्थः ।
शक्यप्राप्तिश्च प्राथते ज्ञायत इत्यर्थः ।
तत् किं सर्वथैवानङ्गं जिज्ञासादय इत्यत उक्तं भाष्यकता, प्रकरणे तु जिज्ञासादयः समर्था इति ।
तदनुभाष्य व्याचष्टे—प्रकरणे त्विति ।
प्रकरणं कथाप्रवृत्तिः ।
तदुत्थापका जिज्ञासादयो ऽवयवा अङ्गन् इत्यर्थः ।
ते च जिज्ञासादय उत्पन्नाः प्रकरणस्योत्थापकाः स्वरूपेण, न पुनः स्वज्ञानेन येन शब्दप्रतिपाद्याः सन्तः प्रकरणे ऽप्यङ्गं भवेयुः, यथा प्रतिज्ञादयः स्वज्ञानेन स्वार्थान् प्रतिपादयन्तः ।
तस्मात् सर्वथैव विज्ञासादिवाचकपदप्रयोगो ऽनर्थक इति भावः ।
अत एव आह—परप्रतिपादकत्वादिति ।
तुशब्दो जिज्ञासादिभ्यो व्यवच्छिनत्ति ।
त्र्यवयमपि इत्यपिना द्व्यवयवनिषेधं समुच्चिनोति ।
उपनयनिगमनयोः इत्यत्र प्रतिज्ञाया अपीति द्रष्टव्यम्॥३२ ॥
न्य्स्_१,१।३३: साध्यनिर्देशः प्रतिज्ञा ॥
साध्य—ज्ञा ॥३३॥ परिगृह्यते ऽनेनेति परिग्रहः ।
स च वचनं चेति परिग्रहवचनम् ।
उदाहरणम् अनित्यः शब्दः इति ।
तदाक्षिप्य वार्त्तिककारः समाधत्ते—सिद्धत्वादिति ।
अग्निमानेव नातद्वान् नास्याग्निनेदानीमयोगः ।
स च पर्वते ऽग्निमति साध्यमाने विशेषणविशेष्ययोः परस्परसम्बन्धलक्षणो नियमो ऽर्थात् सिध्यति ।
न तु साक्षादयोगव्यवच्छेद एव साध्यः, लिङ्गस्यान्यापोहविषयत्वानभ्युपगमात् ।
तस्य निर्देश निर्दिश्यते ऽनेति प्रतिज्ञावाक्यमुच्यते ॥
अत्रान्ययोगव्यवच्छेदं वाक्यार्थं मन्वानो भदन्तः प्रतिज्ञालक्षणमतिव्याप्त्यव्याप्तिभ्याम् आक्षिपति—उभयेति ।
उभयोरवधारणयोः प्राप्तौ संशयेन किमिदमवधार्यते किं चेदमिति प्रसक्तावित्यर्थः ।
प्रतिज्ञावधृतेति ।
यत एवकरणं न ततो ऽन्यत्रावधारणम् इति हि शाब्दा इति भावः ।
व्यतिरेकित्वादिति व्यभिचारादित्यर्थः ।
समाधत्ते—सर्वस्मिन् वाक्ये इति ।
संसर्गो वाक्यार्थ इत्युत्सर्गः ।
क्वचित् पुनरन्ययोगव्यवच्छेदो ऽपीति ।
सामान्यश्रुतौ नियमः इति ।
यथेन्द्रियार्थसन्निकर्षोत्पन्नमित्युक्ते ज्ञानं सुखादि च सामन्येन प्राप्तम् ।
तत्र ज्ञानग्रहणं न विधायकम्, प्राप्तत्वात् ।
अतः सुखादिव्यवच्छेदफलं विज्ञायते ।
यदि त्वस्मद्दर्शनमतिक्रम्य सर्वत्रावधाणं करोति, ततो ऽस्य लोकविरोध इत्याह—सर्वत्र चेति ।
तत् क्रि लोके न क्पचिदवधारणम् इत्यत आह—यत्र चेति ।
चोदयति—ननु चेति ।
सिद्धप्रतिपक्षः साध्यशब्दस्यार्थ इत्यभिप्रायः ।
परिहरति—न सूत्रार्थेति ।
सर्वसन्देहेष्विदमुपतिष्ठते व्याख्यानतो ऽर्थप्रतिपत्तिरिति भावः ।
चोदकः स्वाभिप्रायमुद्घाटयति—अथ पुनरिति ।
असाध्यनिर्देशः सिद्धानिर्देशः ।
तस्य निवृत्तिः साध्यशब्दादवगम्यते, न तु प्रज्ञापनीयो ऽर्थ इत्यर्थः ।
परिहरति—असाध्यं चेति ।
भवेदेतद् यदि सिद्धमात्रमसाध्यं स्यात् ।
अपि त्वनुपपद्यमानं साधन सिद्धिर्यस्य तदप्यसाध्यम् ।
तथा चासिद्धस्य चाक्षुषत्वादेर्निवृत्तिरित्यर्थः ।
पुनश्चोदयति—अथ पुनरिति ।
न कृतकत्वादि सिद्धं नाप्यनुपपद्यमानसाधनम् ।
नापि कृतकत्वादि पराङ्गत्वेनोपात्तं येनाप्रज्ञापनीयं स्यादित्यर्थः ।
परिहरति—नैष दोष इति ।
प्रज्ञापनीयेन धर्मैण धर्मिणो विशिष्टस्य परिग्रहवचनम् इति सूत्रार्थः, न पुनर्धर्ममात्रपरिग्रहवचनमिति ।
अभ्युपगम्य व्यवच्छेदं शब्दार्थमेतदुक्तम्, परमार्थतस्त्वनियमः क्वचित् संसर्गः, क्वचिद् व्यवच्छेद इत्यत आह—यच्चेदमिति ।
इतो ऽपि नासिद्धयोर्हेतुदृष्टान्तयोः प्रसङ्ग इत्याह—साध्यनिर्देश इति च प्रतिज्ञायामिति ।
प्रमाणतन्त्र खल्वभ्युपगमः सिद्धान्तः ।
न च चाक्षुषत्वादिषु प्रमाणमूलता, तदभिमानो ऽपि बाधकादपाकृत इति ।
ननु यदि सर्वतन्त्रसिद्धान्तातिरिक्तानां सिद्धान्तान्तराणां साध्यत्वं तर्हि साध्येनैव चरितार्थत्वाद् अपार्थकं पृथगभिधानमेतेषामिति, अत उक्तम्—अवस्थायामिति ।
विमत्यवस्थायाम्, सर्वतन्त्रे तु विमतिरशक्येत्युक्तम् ।
परिहारान्तरमाह—जिज्ञासादीति ।
धिभागसूत्रेण प्रकरणोत्थानहेतवो वाक्यावयवतया निराकार्यत्वेन जिज्ञासादयो बुद्धिस्थीकृताः ।
तेन यत्र जिज्ञासादयः स साध्यः ।
न च चाक्षुषत्वादिषु प्रमाणबाधितेषु सन्ति त इत्यर्थः ।
परिहारान्तरमाह—अर्हत्यर्थ इति ॥
अपरमपि परिहारमाह—कर्मकरणयोर्वेति ।
एवं तावद् व्युत्पत्त्याद्यालोचनया साध्यशब्दस्य न हेतुदृष्टान्तयोः प्रसङ्गः इत्युक्तम् ।
सम्प्रति लोक एवातिस्फुटास्तिस्रोविधा अर्थानाम्, कृतमत्र सूक्ष्मानुसरणेनेत्याह—साध्यासिद्धसिद्धभेदादिति ।
अन्यतरासिद्धयोर्हेतुदृष्टान्तयोः प्रसङ्गो मा भूदिति कर्मतया ते उपादीयन्त इत्युक्तम् ।
उभयपक्षेति पक्षशब्दो वर्गवचनः ।
सम्प्रतिपन्नमुभयोर्वर्गयोरित्यर्थः ।
परिहारान्तरमाह अथ वेति ।
अवयवानामेतत् प्रकरणम् ।
तेषां च प्रधानैकार्थप्रत्यायनेनैकवाक्यताम् आपन्नानामवयवभावः ।
यत्प्रत्यायनोद्देशेन ते प्रवर्तन्ते तत्प्रधानम् ।
धर्मी च सिसाधयिषितधर्मविशिष्टः ।
तथा च न साक्षात् तत्प्रत्यायनाय ते विभवन्तीति तदर्थं साधने व्याप्रियन्ते ।
तेन सिषाधयिषितधर्मविशिष्टो धर्मी तेषां प्रधानं विषयश्च ।
प्रधानं च प्रथमं बुद्धौ विपरिवर्तते इति साध्यशब्देन स एवोच्यते, न तु हेतुदृष्टान्तावप्रधाने इत्यर्थः ॥
तदेवमदुष्टमस्मल्लक्षणमिति यदस्मल्लक्षणमनेन दोषेण भङ्क्त्वा भदन्तेन अन्यथा लक्षणं प्रणीतम्, तदेव दुष्टमित्याह—न चेदयमिति ।
ननु यत्र साध्यपदम् अस्ति भवतु तत्रेष्टग्रहणमनर्थकम्, न त्वस्मिस्तदस्तीति कथमिष्टग्रहणमनर्थकतमित्यत आह—कर्मग्रहणाच्चेति ।
मा भूत् साध्यपदम् ।
अस्ति तु पक्षपदम् ।
तदपि हि पच्यमानं व्यज्यमानं साध्यमेवाह—तच्च कर्म, कर्म चेप्सितमिति प्राप्तुमिष्टमित्यर्थः ।
चोदयति—अथाप्यनिष्टेति, नन्वनिष्टः पक्ष इति विप्रतिषिद्धमित्यत उक्तम्—अर्थतः किलेति ।
वस्तुव्यवस्थापनाय प्रवृत्तस्य तादृशं नेष्टमित्यर्थः ॥
बौद्धपक्षमुपन्यस्यन्नेव मध्ये तदभिमतं किञ्चिन्निराकरोति—अश्रावण इति ।
कृतव्याख्यानमेतत् प्रथमसूत्रे ।
अपि त्वनुमानः कारणतो विकारात् ॥
इत्येवमादेः ।
न हि व्यवङ्गयं व्य।जकं कारणमनुविधीयते ।
नो खलु महती प्रदीपे घटो महान् अल्पे वा अल्प इति ।
महति तु कारणे महान् शब्द इति ।
तस्मात् कारणतो विकारात् कार्यः शब्दः, यथा महद्भिः स्थूलपिण्डैरारब्धो ऽवयवी महानिति ।
तदनेन प्रत्ययभेदभेदित्वं हेतुरुपलक्षितो भवति, आदिशब्देन च सतः शब्दस्य
अभिव्यक्तौ दोषात् ॥
इत्येवमादयो ग्राह्याः ।
दोषश्च दर्भेध्यादिवदुपयुक्तानामृचां निरिष्टिकत्वेन पुनरनुपयोगः, कार्यत्वे पुनरन्यत्वेन न निरिष्टिकत्वामित्यर्थः ।
यद्यप्यागमो ऽपि शब्दानित्यत्वे ऽस्ति यथा सोमं राजानमसृजत ततस्त्रेयो वेदा असृज्यन्त ॥
इति ।
तथापि नासदासीन्नो सदासीदाम्नाय एव खल्वयमग्र आसीत् ॥
इति नित्यत्वे ऽप्यागमदर्शनात् अनिश्चयादनुमानस्यैवात्र प्रामाण्यम् ।
तथा चानुमानविरोध इति ।
प्रसिद्धिविरोधं तु न बुध्यमाहे प्रमाणविरोधाद् भेदेन ।
अबोधमाह—को ऽयं प्रसिद्धिविरोध इति ।
एकग्रन्थेनाह—प्रसिद्धिः प्रत्यक्षादीनामिति ।
अचन्द्रः शशीति ।
यदि चन्द्रे शशिशब्दवाच्यत्वं निषिध्यते, तदा लोकव्यवहारावगतान्वयव्यतिरेकप्रभवानुमानविरोधः ।
अथ विकल्पज्ञानगोचरत्वनिषेधः, ततो भवतां स्वसंवेदनप्रत्यक्षविरोधः ।
अस्माकं तु मानसप्रत्यक्षविरोध इति सर्वथा न प्रमाणादन्या प्रसिद्धिरिति ।
तदेवं बौद्धपक्षमुपन्यस्य तदुक्तान्युदाहरणानि दूषयित्वा बौद्धपक्षमुपसंहरति—एतदर्थेति ॥
तदेतद् दूषयति—एतच्चेति ।
वस्तु हि यादृशं स्वकारणादुत्पन्नं तादृशमेव तत् ।
न तस्यान्यथाभाव इति न तत्र दोषो निविशते ।
तद्विषयाणि पदान्यपि प्रत्येकम् अदुष्टान्येव ।
या पुनः षौरुषेयी दृष्टमन्यत्रार्थमन्यत्र समारोप्य भ्रान्त्या वा परविप्रलम्भाय वा प्रतिज्ञादिरूपेण वाक्यक्रिया, सा स्ववचनविरोधादिशालिनी दुष्टा ।
तद्द्वारेण पुरुषो निगृह्यते, नार्थो न पदानीति ।
स्वार्थापवादः स्ववचनविरोधः कर्तृदोषो भ्रमो वा विप्रलम्भो वा क्रियायामुपचर्यते ।
न च क्रियायां भ्रमो वा विप्रलम्भो वा, तयोरभिप्रायभेदतया पुरुषधर्मत्वात् क्रियाया वस्तुबाधनात् पुरुषाभिप्रायावगतिरिति क्रियाद्वारेणेत्युक्तम् ॥
चोदयति—अथ प्रतिज्ञाया इति ।
तदेतदतिप्रसङ्गेन दूषयति—नैतद् युक्तं हेत्वादीति ।
न पुनर्दूषणानि न्यूनतावयवात्तरदोषाक्षेपभावोद्भावनानीति ।
त्रैरूप्यसम्पन्नो हेतुः पूर्णः ।
स त्रिषु रूपेष्वन्यतमेन रूपेण रहितो न्यूनो ऽसिद्धो वा विरुद्धो वा अनैकान्तिको वा भवतीति सो ऽयं न्यूनतादोषो हेतोः ।
अवयवदोषश्च प्रतिज्ञादोषः स्ववचनविरोधादिः ।
हेतुदोषो ऽसिद्धात्वादिः एवमुदाहरणरणदोषः साध्यविकलत्वादिः ।
उत्तरदोषो जातिः प्राप्त्यप्राप्तिसमादिः ।
तस्याक्षेप उपादानं स्वीकार इति यावत् ।
भावो ऽप्रतिभादिः ।
स हि वादिनो वा प्रतिवादिनो वाभिप्रायः ।
तस्योद्भावनानि दूषणनीति ।
न हि सम्भवे सत्युपचार इति ।
प्रतिज्ञागता हि दोषा यदि तद्गतत्वेन उद्भाव्यमाना न वादिनो निग्रहमापादयेयुः, ततस्तत्र निष्प्रयोजनत्वेनासम्भवात् पक्ष एवोपचर्येरन्, पारयन्ति तु प्रतिज्ञागतानि दूषणानि निग्रहितुं वादिनमिति ।
सो ऽयं प्रतिज्ञादोषाणां प्रतिज्ञायां सम्भव इति ।
कस्मात् पुनर्मञ्चस्था इत्येवं न प्रयु।जते इत्यत उक्तम्—लौकिकप्रयुक्तवाक्यान्वाख्यानम् ।
न, अनादिर्लोकप्रयोगो नियोज्यः पर्यनुयोज्यो वेत्यर्थः ॥
स्यादेतत् ।
इष्टग्रहणमनक्षरारूढमप्यभिप्रायव्याप्तं साध्यं तथा स्यादित्येवमर्थं यथा परार्थाश्चक्षुरादय इति ।
अत्र हि पारार्थ्यमात्रमक्षरारूढम् ।
न च तन्मात्रमस्य साध्यम्, अपि त्वात्मपारार्थ्यम् ।
तच्च नोच्चारयति मा भूदनन्वयो हेतुः सङ्घातत्वादिति ।
तस्मात् तदवरोधायेष्टग्रहणमित्याह—अथेष्टग्रहणेनेति ।
परिहरति—अयमप्यर्थः साधनादेवगम्यते ।
प्रतिज्ञाप्रयोगादेव गम्यते ।
अयमभिसन्धिः ।
वचनलिङ्गाः हि वक्त्रभिप्राया भवन्ति ।
यत्परं च वचनं स वचनार्थः ।
तात्पर्यं चास्य क्वचिद् वाच्ये क्वचिल्लक्ष्य इति सर्व एवासौ वचनार्थः ।
यस्तु नैवंविधः कथमसौ वचनार्थः? कथमसौ वाद्यभिप्रायव्याप्त इत्यवगन्तव्यम्? न च क्वचिदपि पक्षः प्रतिज्ञापदवाच्यः, तस्य वाक्यार्थत्वेन लक्ष्यत्वाद् एवेति ।
अनिष्टनिवृत्तिरिष्टेति ।
तत्साधनमन्विष्यमाणमपि तदानीमिष्टमेव ।
तत्र प्रयत्नानुपपत्तेरिच्छापूर्वकत्वात् तस्येति ।
अथ संशयो विचारणेति ।
ततश्च संशयविषय इष्यमाणो जिज्ञास्यमानश्च साध्य एव भवति, न साधनादिरित्यर्थः ॥
स्थानान्तरीयं च भदन्तस्य लक्षणम्,
साध्यत्वेनेप्सितः पक्षो विरुद्धार्थानिराकृतः ॥
इति दूषयति—एवेनेति ।
अत्रापि हि साध्यपदादूर्ध्वं वृथाक्षरचतुष्टयमिति ।
तथा पक्षो यः साधयितुमिष्टः
इत्यत्रापि वसुबन्धुलक्षणे विरुद्धार्थानिराकृतग्रहणं न कर्तव्यम् ।
एतदुक्तं भवति—न केवलमस्माक्रमेतद् विरुद्धार्थानिराकृतपदमनर्थकं प्रतिभाति, समानतीर्थानामपि तथा विभाति, यतस्तैर्नोपात्तमिति ।
अत एवं वक्तव्यं पक्षो यः साधयितुमिष्ट इति ।
यद्यप्यत्रापि प्रयोज्यप्रयोजकव्यापारयोः साधयितुमिति समानम्, तथापि तुमुना य एव साधयिता वादी स एवैषितेत्युक्तं भवति ।
न पुनर्वादिनो नियोक्ता साधयिता वादी चैषितेति ।
एषितृत्वं च वादिनो ध्रुवं कृत्वैतदुच्यते, यदा पनुरेषितृत्वमपि प्रयोजके सञ्चार्यते, तदा स्वयङ्ग्रहणेनाप्यप्रतीकार इत्यभिप्रायः तत्त्वभाक्तयोश्चेति ।
सिद्धः साध्यस्य प्रयोजकः कर्ता ।
स हि सिध्यन्तं साध्यं वादी तस्मिन्नियं साधना समवेता ।
यस्तु तस्यापि प्रयोजकस्तृतीयस्थानपतितो न तस्मिन् साधना समवैतीति ।
यः कारयति स करोत्येवेति कथञ्चिदस्य भक्त्या कर्तृत्वम्, तच्चायुक्तं सति मुख्ये कर्तरीत्यभिप्रायः ।
आ।जसत्वं मुख्यत्वम् ।
पूवाभिप्रायस्थितमर्थमुद्घाटयति—तुमुनश्चेति ।
अत्रोक्तं भाष्यकारीयाभ्युपगमसिद्धान्तनिराकरणावसरे ऽप्रमाणकमर्थमिति ।
यस्तावत् शास्त्राविरुद्धो ऽर्थः प्रमाणसिद्धः स शास्त्रीय एव शास्त्राभ्युपेतप्रमाणसिद्धत्वात्, तं व्युत्पादयन् न शास्त्रं बाधते ।
यस्तु प्रमाणीकृतवैशषिकतन्त्रः शब्दनित्यत्वं साधयति सो ऽनवधेयवचनः न हेत्वभिधानं यावत् परिषत्प्रतिवादिभ्यां नीयते, अपि तु प्रतिज्ञोच्चारणानन्तरमेव निगृह्यते ।
यस्तु वैशेषिकतन्त्राध्ययनमात्राद् वैशेषिकत्वमात्मनो दर्शयित्वा शब्दनित्यतां प्रतिजानीते नासौ प्रमाणीकृतवैशेषिकतन्त्र इति न निगृह्यते इति ।
यश्चाप्रमाणको ऽभ्युपगम इति ।
अभ्युपगम्यत इत्यभ्युपगमः ।
तदभिधानं प्रतिज्ञेति वक्तव्यमिति ।
साध्यग्रहणात् तद्ग्रहणस्य लाघवादित्यर्थः ।
यस्तु तत्रभवता नैयायिकेन इति पुकृतमुपसंहरति—तस्मादपेतेति ॥३३ ॥
न्य्स्_१,१।३४: उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः ॥
अवान्तरसङ्गति प्रदर्शयन् प्रतिज्ञावचनस्य साधनाङ्गत्वमपि दर्शयति—हेतोरवसरप्राप्तस्येति ।
प्रतिज्ञानन्तरं हेतुवचनस्यावसरः ।
तथा हि परप्रत्यायनाय वचनम् उच्चारयन्ति प्रेक्षावन्तः ।
तदेव च परे बोधयितव्या यद् बुभुत्सन्ते ।
तथा सत्यनेनापेक्षिताभिधायिना परो बोधितो भवति ।
नो खल्वाम्रान् पृष्टः कोविदारानाचक्षाणः प्रष्टुरवधेयवचनो भवति ।
अनवधेयवचनश्च कथं प्रतिपादको नाम? यथा च माठर समिधमाहरेति गुरुणा प्रेषित एषोहमाहरामीत्यनुक्त्वा तदर्थं तदर्यं यदायं दात्राय गृहं प्रविशति, तदास्मै कुप्यति गुरः आः शिष्यापसद छान्दसवचर माठर मामवधीरयसीति ब्रुवाणः ।
एवमनित्यं शब्दं बुभुत्समानायानित्यः शब्द इत्यनुक्त्वा यदेव किश्चिदुच्यते कृतकत्वादिति वा, यत् कृतकं तदनित्यमिति वा, कृतकश्च शब्द इति वा तत् सर्वमस्यानपेक्षितम् आपाततो ऽसम्बद्धाभिधानबुद्ध्या, तथा चानवहितो न बोद्धुमर्हतीति ।
यत् कृतकं तत् सर्वमनित्यं यथा घटः, कृतकश्च शब्दः इति वचनमर्थसामर्थ्येनैवापेक्षितशब्दानित्यत्वनिश्चायकमित्यवधानमत्रेति चेत्—न, परस्पराश्रयत्वप्रसङ्गात् ।
अवधाने हि सति अतो ऽर्थे निश्चयः ।
तस्माच्चावधानमिति ।
न च परिषत्प्रतिवादिनौ प्रमाणीकृतवादिनौ यदेतद् वचनं सम्बन्धाय प्रतीक्षेते, तथा च सति न हेत्वाद्यप्यपेक्षेताम्, तद्वचनादेव तदर्थनिश्चयात् ।
अनित्यः शब्द इति त्वपेक्षित उक्ते कुत इत्यपेक्षायां कृतकत्वादिति हेतुरुप तिष्ठते ।
सो ऽयं पञ्चावयवप्रयोगे च तल्लक्षणे च प्रतिज्ञानन्तरकाल एवावसरो हेतोः ।
तदेवं हेतोरवसरप्राप्तस्य सामान्यलक्षणापदेशद्वारेण तद्विशेषलक्षणसूत्रम्—
उदा-तुः॥३४॥ श्रुत्यर्थाभ्यामुभयलक्षणसूचनात् सूत्रम ।
अत्र हेतुरिति लक्ष्यनिर्देशः ।
स च विभागोद्देशे वाक्यावयव इति वचनरूपः ।
तस्य सामान्यलक्षणं साध्यसाधनमिति साध्यते ऽनेनेति व्युत्पत्त्या यद्यपि पारार्थ्यापन्नं कृतकत्वादिकमर्थम् आह, तथापि तस्य वचनात्मकहेतुसामानधिकरण्यानुपपत्तेर्विषयि कृतकत्वादित्यादिकं वचनमुपलक्षयति ।
यदि च वचनं हेतुरित्युच्येत तत्साध्येन समभिव्याहृतं प्रतिज्ञा स्यात् ।
अथ वचनमित्येतावदुच्येत, तदातिव्याप्तिः स्यात् ।
उपचारे तु न क्वचित् प्रसङ्गः ।
उपनयादपि साधनं न पराङ्गतया गम्यते, किं तु प्रातिपदिकार्थप्रधानतया स्वनिष्ठमिति न तत्रापि प्रसङ्गः ।
हेत्वाभासाश्च न साधनमिति साधनपदेनैव निराकृताः ।
न्यायवाक्यावयवत्वादेव च न शब्दे प्रसङ्गः ।
तदेवं समानासमानजातीयव्यवच्छेदकत्वं सिद्धं सामान्यलक्षणस्य ।
इदं चार्थम् ।
श्रौतं तु विशेषलक्षणम् ।
हेतुरिति यद्यपि सामान्यपदम्, तथापि प्रकरणादन्वयव्यतिरेकिहेतुविशेषपरं द्रष्टव्यम् ।
तेन हेतुरिति लक्ष्यनिर्देशः ।
परिशिष्टं तु लक्षणम् ॥
तदेतद् भाष्यकृदृ व्याचष्टे—उदाहरणेनेति ।
साधर्म्यपदव्याख्यानं सामान्यादिति ।
साध्यसाधनपदव्याख्यानं साध्यस्य धर्मस्येति ।
साध्यस्येति धर्मिमात्रे बुद्धिर्मा भूदित्यत उक्तं धर्मस्येति ।
धर्मसहितस्य धर्मिण इत्यर्थः ।
एतदेव स्फुटयति—साध्ये प्रतिसन्धायेति ।
उदाहरणसाधर्म्यात् साध्यस्येत्यनेनान्वयपक्षधर्मत्वे अन्वयव्यतिरेकपक्षधर्मत्वानि च दर्शितानि ।
साध्यसाधनमित्यत्र च साध्यग्रहणेनाबाधितविषयत्वासत्प्रतिपक्षत्वे सूचिते, तद्विपरीतस्य साधनानर्हत्वादिति ॥
तदेतद् वार्त्तिककारो व्याचष्टे—उदाहरणेनेति ।
यो धर्मो धूमादि—साध्ये भवति स तथाभूत एवोदाहरणे ऽपीति ।
उदाह्नियत इत्युदाहरणं दृष्टान्तधर्मी तस्मिन् न पुनः स एव ।
कुतः? अन्यधर्मस्येति ।
यदि तर्हि नान्यस्य धर्मो ऽन्यत्र वर्तते, कथं तर्हि समानता? सा हि तत्त्वान्यत्वविरोधिनीत्यत आह—किं तु तत्तुल्यः स एवेत्युच्यते, यथा तानेव शलीन् उपयुङ्क्ते तानेव तित्तिरीनीति तदनेन सामान्याद् इति भाष्यं व्याख्यातम् ॥
उदाहरणग्रहणप्रयोजनमाह—यदि पुनरिति ।
साधर्म्यमात्रत्वं हि विरुद्धे चासाधारणे सव्यभिचारे चास्तीति तेषामपि वचनं हेतुः स्यात् ।
तेषामपि यथास्वं साधारणत्वादित्यनिष्टमित्यर्थः ।
ननु तथापि सव्यभिचारे ऽप्युदारणसाधर्म्यमिति कथं निवर्त्यते इत्यत आह—उदाहरणेति ।
विशिष्टविधानस्य शेषनिषेधो ऽर्थसिद्ध इत्यर्थः ।
पक्षान्तरमाह—अवधारणेन वेति ।
साधर्म्यादित्यतो विशेषेण सर्वसाधर्म्यप्राप्तौ उदाहरणसाधर्म्यमपि प्राप्तमेवेति विधानानर्थक्यं परिसङ्ख्यायकं सदवधारणार्थमेव भवति ।
तदवद्योतनाय च एवकारः साधर्म्यमेव इत्यत्र साध्यपदं योजनीयम् ।
तेन साध्यैकदेशासिद्धिमपाकरिष्यति ।
पृच्छति—कस्य पुनरिति ।
उत्तरम्—कस्यान्यस्येति ।
अत्रैव हेतुद्वययाह—प्रकृतत्वात् प्रत्यासत्तेश्च ।
साध्यं खल्वत्र प्रकृतं प्रधानम्, तदुद्देशेन अवयवानां प्रवृत्तेः ।
साध्यसाधनमिति च पदेन सन्निधापितमिति तदेव द्वितीयम् अवधारणं स्फुटीकरोति—अत्रापि चेति ।
साध्ये प्रतिसन्धाय इति भाष्यार्थमाह—साध्योदाहरणाभ्यामिति ।
द्वाविति ।
सपक्षव्यापकाव्यापकावित्यर्थः ।
अनैकान्तिकस्य चेति ।
साधारणस्य असाधारणस्य चेत्यर्थः ।
एवं भाव्यमानेनेति ।
परिभाव्यमानेन ।
नातिप्रसक्तस्येति, परिसख्यायकं हेत्वाभासलक्षणं न विधायकमित्यर्थः ॥
एतत् किल हेतुलक्षण भदन्तो दूषयाम्बभूव साधनं यदि सार्ध्म्यं न वाक्यांशः,
न ह्यर्थः पञ्चावयववाक्यस्यावयवः ।
यदि साधनसाधर्म्ययोरत्यन्ताभेदो यदि वा सामान्यविशेषभावेन कथञ्चिद् भेदः उभयथापि न पञ्चमी, साधनसामानाधिकरण्येन प्रथमाप्रसङ्गात् ।
अत्यन्ताभेदे चैकतरपदाप्रयोगात् ।
वाक्यं चेत् ततः पञ्चम्युपपद्यते ।
साधनं हि वाक्यरूपु साधर्म्यादर्थादुत्थितं यतः ।
तद्विशेष्यं स्यात्
न हि वाक्यमेवार्थादुत्थितम्, अपि तु विवक्षाद्यपीति ।
न विशेष्यम्, कुतः?
साधनत्वादसम्भवः ॥
अर्थसमुत्थानामपि ज्ञानविवक्षादीनामप्रसङ्गः, असाधनत्वादिति ।
न तत्रापि द्विधा दोषात् साक्षाद् वा साधनं पारम्पर्येण वा? यदि पारम्पर्येण, वक्तृज्ञानं तर्हि साक्षात् साधर्म्यसमुत्थं पारम्पर्येण च श्रोतुः साध्यविज्ञानसाधनं हेतुः स्यात् ।
अथ साक्षात् साधनम्, तर्हि श्रोतृज्ञानं पारम्पर्येण साधर्म्यसमुत्थं साक्षात् साधनं हेतुः स्यात् ।
प्रकृते त्वन्यसम्भवनः ।
यदि तु पञ्चावयववाक्यस्य प्रकृतत्वात् ज्ञानादिव्यवच्छेदः, तथाप्यन्यसम्भवः, उपनयस्यापि साधर्म्यसमुत्थात्वात् ।
स्वलक्षणेन बाधा चेन्न विकल्पादिसम्भवात् ॥
तस्मात् षष्ठ्यस्तु तत्रापि विशेषणमनर्थकम् ।
साधर्म्यस्य हेतुरित्येतावन्मात्रं वक्तव्यमिति ॥
तदेदत् दिग्नागदूषणमुपन्यस्यति—उदाहरणसाधर्म्याच्चेति ।
यद्यर्थात्मकं साधर्म्यमेव साधनमुच्यते तदैतद् दूषणमित्यर्थः ।
यदि पुनरर्थात्मकस्य साधर्म्यस्यार्थात्मकमेव साधनं सामान्यमुच्यते, तत्राह—अथ पुनरिति ।
तदिदमुक्तं भदन्तेन—न पञ्चमी ॥
अन्ये त्वेतदन्यथा व्याचक्षत इत्याह—अन्ये त्विति ।
विशेषातिरिक्तं न सामान्यं नाम किञ्चिदस्ति, तस्य कल्पनामात्रत्वाद् भेदस्य च वस्त्वधिष्ठानत्वादित्यभिप्रायः ।
दोषान्तरमाह—साध्यसाधनेति ।
यदा हि साध्यसाधनं नामोदाहरणसाधर्म्यादतिरिक्तं नास्ति किं तु शब्दमात्रमवशिष्यते, तदोदाहरणसाधर्म्यनेनाभिधेयत्वेन विशेषणीयम् ।
तथा च साध्यनिर्देशः प्रतिज्ञा इत्यनेन विरोधः ।
अनेन ह्यवयवः शब्दात्मकः प्रतिज्ञा लक्ष्यते ।
हेत्वादिसमुदायापेक्षया चावयवो भवति ।
न चाभिधानाभिधेयात्मकः समुदायो दृष्ट इति ।
तस्मात् समुदायाभावात्
नोभयेषामवयवत्वम् ।
तदिदमुक्तम्—न वाक्याम्श इति ।
तदेतल्लक्षणं व्याचक्षाणैरस्माभिः परिहृतमिति न परिहारान्तरं प्रयोजयतीत्याह—तत्र त्विति ।
उक्तं यथा हेतुपदसन्निधौ साधनपदं हेतुपदे प्रवर्तते, न चोपनयप्रसङ्गः, तस्य प्रातिपदिकार्थमात्रप्रधानत्वेन हेतुभावाप्रकाशकत्वादिति ॥
अत्र चोदयति—साधर्म्यस्येति ।
साधर्म्यस्य लिङ्स्य कृतकत्वादिहेतुपदवाच्यस्य व्यभिचारित्वादियोगादुदाहरणविशेषणयोगो न पुनः साध्यसाधनपदवाच्यस्य कृतकत्वादित्यादेर्हेतुवचनस्येत्यर्थः ।
तदुक्तं भदन्तेन—तत्रापि विशेषणमनर्थकं वचने अपीत्यर्थः ।
तदेतद् दूषयति—वचस इति ।
वचनमपि दर्शनभेदेन उभयथापि भवति, यथा मीमांसकानां नित्यं वचनम्, वैशैषिकाणामनित्यमिति ।
केषाञ्चिदमूर्तः शब्दः, केषाञ्चित् मूर्त इति ।
यथाहुः
वायुरापद्यते शब्दताम्
इति ।
तथा प्रातिस्विकमपि भेदं सर्वेषामेव शब्दानामितिकरणो दर्शयतीत्याह—दृष्टश्चेति ।
स्वचरितविरोधमाह—स्वयमिति ।
अनूभ्युपगतेति ।
अनभ्युपगतो ऽर्थान्तरं विपक्षो यस्य हेतोरनित्यत्वे साध्ये कृतकत्वादेः स तथोक्तः ।
यदभ्युपगतं भदन्तेन तस्मात् षष्ट्यस्त्विति तद् दूषयति—यदपीति ।
विवक्षातः कारकशब्दप्रयोगादिति ।
कारकत्वेन सम्बन्धित्वं लक्षणीयम्, क्रियाकारकभावगर्भत्वात् सम्बन्धित्वस्य ।
न तु षष्ठी वा हेतुपञ्चमी वा कारकविभक्तिरिति ।
अत्र भाष्यकारेण शुद्धं हेतुवचनमुदाहृतम्—उत्पत्तिधर्मकत्वादिति तस्य चोदाहरणसाधर्म्यसमुत्थत्वज्ञापनायोदाहरणमपि दर्शितम् उत्पत्तिधर्मकमनित्यं दृष्टमिति ॥
तत्र भाष्यकारेण शुद्धं हेतुवचनमुदाहृतम् ।
तत्प्रतिज्ञापदेन पूरयित्वा बार्त्तिककृद् आह—उदाहरणमिति ।
अत्र पृच्छति—किं पुनरिति ।
सतो विनाशो वा अनित्यत्वम्, तद्योगो वा? तच्चेभयमयुक्तम्, न हि सदसतोः कश्चिदस्ति सम्बन्धः, असमानकालत्वात् ।
ततश्चानित्यः शब्द इति समानाधिकरण्यं न स्यात् ।
अपि च शब्दस्य भूत्वा यदभवनम्, न तदेव पिठरस्य ।
न ह्यभवनत्वं नामास्ति सामान्यम्, येन दृष्टान्तो न साध्यविकलः स्यात् ।
न च सामान्यातिरिक्तं सादृश्यं वस्त्वन्तरं दृष्टमिष्टं वा ।
तस्मात् मृष्टाशेयमनित्यत्वं साध्यमिति भावः ।
गूढधिय उत्तरम्—यस्यानित्यत्वमस्ति तदनित्यम् ।
स्वाभिप्रायेण पृच्छति—अथेति ।
उत्तरवाद्यभिप्रायमुद्घाटयति—उभयान्तेति ।
अपरान्तेति वक्तव्ये उभयान्तग्रहणेन पूर्वान्तनिवेशनं हेतोरुत्पत्तिमत्त्वस्यात्यन्तिङ्कीं प्रत्यासत्तिमविनाभावोपयोगिनीं दर्शयितुमिति ।
अवच्छेदकत्वं चोपलक्षणत्वम्, न तु विशेषणत्वम् ।
तच्चापरान्तस्य भिन्नकालस्य सम्बद्धस्यापि विरोधितया बुद्धिस्थस्य सम्भवति ।
तथा च यैवापरान्तावच्छिन्नस्य सत्ता पिठरस्य सैवापरान्तावच्छिन्नस्य शब्दस्यापि ।
एवं सत्तासमवायो ऽपि तद्विधयोः पिठरशब्दयोः समानः ।
विरोघिभावः पश्चाद्भावश्चाभावमात्रात् प्रध्वंसस्य विशेषः ।
पृच्छति—अथोत्पत्तीति ।
न तावदुत्पन्नस्योत्पत्तिर्धमः, तदाप्युत्पद्यत इति प्रत्पयप्रसङ्गात् ।
नाप्यनुत्पन्नस्य असतो धर्मित्वायोगादिति भावः ।
गूढधिय उत्तरम—उत्पत्तिरिति ।
उक्ताभिप्रायवान् पुनः पृच्छति—का पुनरियमिति ।
उत्तरम्—असद्विशेषणस्य सतो ऽत्यन्तमभावभावप्रतिषेधः असदिति प्रागभावमाह, विशेषणत्वं च प्रागभावस्य उपलक्षणत्वम् ।
तच्च भिन्नकालस्यापि बुद्धिसथतामात्रेणोक्तम् ।
तेनासद्विशेषणस्य सत इत्येतावतैव पूर्वान्तपरिच्छिन्नस्य सत्तासम्बन्धः सत्ता वा तद्विशेषणोत्पत्तिर्दर्शिता ।
पश्चेदृशस्तस्य गगनवत् नात्यन्तं सम्भवः, नापि गगनकुसुमवदत्यन्ताभाव इति स्वरूपमुक्तमुत्पत्तिमुपर्लक्षयितुम् ।
उपलक्षणोपलक्ष्ययोश्चाभेदविवक्षया सामानाधिकरण्यम् ।
न चैवं लब्धोत्पत्तिनि वस्तुनि उत्पद्यत इति प्रत्ययप्रसङ्गः ।
लभ्यमानोत्पत्तिनि तदवयवेषु तदुत्पादनानुकूलव्यापारावेशलब्धपूर्वापरीभावेषु तत्प्रयोगसय लोके दर्शनात् ।
तस्मात् पूर्वान्तावच्छिन्नवस्तुसत्तया तत्सम्बन्धेन वा तस्यैव वस्तुनो ऽपरान्तावच्छिन्ना सत्ता वा तत्सम्बन्धो वा ज्ञाप्यते इति सर्वं रमणीयम् ॥
ननु भाष्यकृद् अभूत्वा भवतीत्यस्य वाक्यास्यार्थमुत्पत्तिं वक्ष्यति, त्वं पुनरसद्विशेषणस्य सतो ऽत्यन्तमभावभावप्रतिषेध इत्यस्य वाक्यस्यार्थमुत्पत्तिम् ।
अतः कुतो न विरोध इत्यत आह—वाक्यार्थेति ।
य
एवार्थो भाष्यकारेण उत्पत्तिशब्दार्थतयाभ्यनुज्ञातो ऽङ्गीकृतः, स एवास्माभिरपि ।
नात्यन्तमभावभावप्रतिषेध उत्पत्तिः, अपि स्वसद्विशेषणस्य सतः सत्ता वा तत्सम्बन्धो वेत्युक्तमित्यर्थः॥३४ ॥
न्य्स्_१,१।३५: तथा वैधर्म्यात् ॥
सूत्रान्तरमवतारयति—किमेतावदिति ।
तथा—त् ॥३५॥ अत्र यदि वेधर्म्यादित्युच्यते ततः सकलकेसरादिमत्पदार्थपक्षीकरणेनाश्वत्वं यदा विषाणित्वेन साध्यते तस्यास्ति पक्षवैधर्म्यमिति हेतुः स्यादित्यत आह—उदाहरणेन वैधर्म्यमिति ।
विपक्षेणेत्यर्थः ।
तथापि यदा शरीरमात्रं पक्षीकृत्य सात्मकत्वं साध्यते प्रामादिमत्त्वेन, तदास्ति तस्योदाहरणेन वैधर्म्यमिति सो ऽपि हेतुः स्यादित्यत आह—एवेति ।
न चैतावता सपक्षे सत्त्वप्रसङ्गः, सपक्षस्याभावात् ।
अवधारणस्य च व्याप्त्या पक्षसत्त्वेनोपपत्तेरिति ।
तथापि अन्वयव्यतिरेकिणो हेतारनैकान्तिकस्य विपेक्षैकदेशव्यापिनः सङ्ग्रहः स्यात् ।
यथा अनित्यः शब्दः, उत्पत्तिधर्मकत्वाद् अनित्यो मूर्तत्वादित्यत आह—वैधर्म्यमेव चोदाहरणेनेति विपक्षोदाहरणेनेत्यर्थः ।
भाष्यकारीयमुदाहरणं निगदेनोपन्यस्यति—अनित्यः शब्दः ।
इति ।
नित्यमनुत्पत्तिधर्मकं दृष्टमिति योजना ।
तदेतद् दूषयति—एतच्चेति ।
मा भूत् प्रयोगमात्रभेदाद् भेदः, उदाहरणभेदाद् भेदो भविष्यतीत्यत आह—उदाहरणमात्रभेदाच्चेति ॥
तदेतद् भाष्यकारीयमुदाहरणं दूषयित्वा स्वकीयमुदाहरणमाह—उदाहरणं त्विति ।
प्राणादिना च स्वकारणं प्रयत्नेच्छाद्युपलक्षयति—यदुभयपक्षसम्प्रतिपन्नं निरात्मकं घटादि तत्सर्वमप्राणादिमद् दृष्टम् इति व्यत्यासेन योजना ।
प्राणादिकारणेच्छादिकारणरहितं यदित्यर्थः ।
तत्मात् नेदमिति ।
नेच्छादिसमवायिकारणरहितम् ।
यश्चासौ इच्छादिसमवायिकारणं पृथिव्यादिविलक्षणो द्रव्याणां नवमः, स आत्मेत्युच्यते इत्यर्थः ।
अन्वयिव्यतिरेकिणस्तद्विवेकस्य च तन्त्रान्तरप्रसिद्धेन नाम्ना तन्त्रान्तरप्रसिद्धतां दर्शयति—सो ऽयमवीत इति ।
विविधेन प्रकारेण इतः प्राप्तो वीतः, पक्षव्यापकत्वे सति सपक्षव्याप्त्या अव्याप्त्या च, तस्मादन्यो ऽवीत इति ॥
गूढाभिसन्धिः पृच्छति—कथं पुनरिति ।
गूढाभिसन्धेरुत्तरम्—अथ यो ऽभ्यनुज्ञात इति ।
यथा वीतस्यार्थपरिच्छेदकत्वं तथैवावीतस्येत्यर्थः ।
प्रष्टा स्वाभिप्रायम् उद्घाटयति—अन्वयादिति ।
गृहीताविनाभावो हि हेतुः साध्येन तस्य परिच्छेदकः, स च दृष्टान्तधर्मिणि हेतुसाध्यधर्मयोर्दर्शने सत्यविनाभावो दृष्टो भवति ।
न च सात्मकत्वं क्वचिद् दृष्टम्, तत् कथं तेनाविनाभावदर्शनं प्राणादिमत्त्वस्य, दर्शने वा नावीतः किं तु वीत एवेत्यर्थः ।
उत्तरवादी प्रष्टारं पृच्छति—अथ प्रमेयत्वमिति ।
प्रष्टा आह—व्यभिचारादिति ।
उत्तरवाद्याह—न तर्ह्यन्वय इति ।
स एवैकग्रन्थेनाह—यदि चेति ।
तदेवमुत्तरवादिना स्वाभिप्राय उद्घाटितः ।
पृच्छति—कथम् ।
अव्यभिचारित्वं व्यतिरेकिण इति ।
अव्यभिचारमाह—यावदिति ।
अत्रापि यावन्निरात्मकं तत् सर्वम् अप्राणादिमद् दृष्टमिति व्यत्यासेन योजना, साध्यविपर्ययस्य व्याप्तत्वात् ।
व्यापकनिवृत्तौ च व्याप्यं निवर्तते, यथा वृक्षत्वनिवृत्तौ शिंशपात्वम् आरादुपलभ्यमानादेकशिलामयादचलप्रदेशादित्यर्थः ।
यदि पुनरेवमुच्यते निवर्ततामप्रामाणादिमत्त्वं जीवच्छरीरात् प्राणादिमत्त्वस्य प्रमाणत उपलब्धेर्मा निवर्तिष्ट नैरात्म्यम्, तस्माद्
व्यभिचारादहेतुरिति शङ्कते—अथ पुनरिति ।
निरारोति—न युक्तमेवमिति ।
किं जीवच्छरीरे साध्ये नैरात्म्यनिश्चयाद् व्यभिचार उत तत्सन्देहात्? यदि निश्चयात्, कृत व्यभिचारेण, बाधितविषयत्वेनैव हेतोरपाकरणात् ।
अथ सन्देहात्, तथा सत्यन्वयिनो ऽप्यहेतुत्वे सर्वानुमानोच्छेदप्रसङ्ग इत्यर्थः ॥
शङ्कते—सर्वात्मकत्वप्रसङ्ग इति चेत्? निराकरोति—न, विकल्पानुपपत्तेः ।
शङ्कावाक्यं विभजते—यदीति ।
न तावदयुमात्मा नाम प्रमाणेन क्वचिदुपलब्धः, यस्य प्रतिषेधो नैरात्म्यमवगम्येत, तदुपलम्भे वा कृतमनया कुसृष्ट्या ।
तस्मात् कल्पयित्वात्मानमप्रामाणिकं तत्प्रतिषेधस्य घटादावप्राणादिमत्त्वेन व्याप्तिं गृहीत्वा जीवच्छरीरे व्यापकस्याप्राणादिमत्त्वस्य निवृत्त्या नैरात्म्यस्य व्याप्यस्य निवृत्तेरात्मा अवगन्तव्यः ।
एवं च सति कल्पनाकोषस्यापरिमेयत्वात् यद् यदेव कल्प्यते तत्तदभावस्यधटादौ सुलभत्वाद् अप्राणादिमत्त्वेन व्याप्तेर्जीच्छरीरे ऽप्राणादिमुत्त्वस्य व्यापकस्य निवृत्तेरात्मसद्भाववत् सकलकाल्पनिकडित्थादिमत्त्वप्रसङ्ग इत्यर्थः ॥
निराकरणवाक्यं विभजते—तच्च नैवम् ।
कस्मातृ—विकल्पानुपपत्तेः ।
विकल्पयति—किमिति ।
अयमर्थः ।
प्राणादयो हिच्छाद्यन्वयव्यतिरेकानुविधायिभावाभावतया इच्छादिकार्याः, अक्षणिकत्वे च व्यवस्थिते कार्यं समवायिकारणापेक्षमितीच्छादीनां समवायिकारणेन भवितव्यम्, कार्यत्वाद् घटादिवत्, शरीरेन्द्रियादीनां च समवायिकारणत्वनिषेधे सति यद् इच्छादीनां समवायिकारणं परिशिष्यते, तद् द्रव्यमात्मेति च क्षेत्रज्ञ इति च जीव इति चाख्यायते ।
तदस्य विशेषतो ऽनवगतस्यापीच्छादिसमवायिकारणतया सामान्यरूपेणावधारितस्य शक्यः प्राणादिरहितेषु घटादिष्वभावः प्रतिपत्तुम् ।
निरात्मकशब्देनापि चायमेवार्थ उच्यते ।
अनेन प्राणादिलक्षणकार्याभावेन घटादौ नैरात्म्यलक्षणकारणाभावस्य व्याप्तिरवधारिता ।
सो ऽयं जीवच्छरीरे कार्यस्याभावो व्यापको निवर्तमानः स्वव्याप्यं तत्कारणाभावमादाय निवर्तते इति सिद्धं जीवच्छरीरे प्राणकारणम्, स चात्मेति ।
यदि च डित्थादयो ऽपि तादृशाः, तदा आत्मनो नामान्तराणि नार्थान्तराणि ।
नामानि च लोकतन्त्राणि, न त्विच्छातन्त्राणीति ।
अवधारितं कार्यं प्राणाद्युपलक्षितमिच्छादि यस्य सो ऽवधारितकार्यः, स एव स्वभावो यस्य स तथोक्तः ।
एतदुक्तं भवति ।
सामान्यतस्तावदिच्छादीना कार्यत्वेनान्वयव्यतिरेकिणा हेतुना समवायिकारणवत्त्वमुनमितम् ।
उभयसिद्धश्च घटादाविच्छादिकारणाभावः ।
ये ऽपि हि नैरात्म्यवादिनो बुद्धिं वा भूतपतिणामभेदं वा इच्छादिकारणमाचक्षते, ते ऽपि घटादौ न तदातिष्ठन्ते ।
तस्मादुभयसिद्धनैरात्म्या घटादयः ।
तेषु चेच्छादिकार्याभावेन नैरात्म्यं व्याप्तम् ।
सो ऽयं जीवच्छरीरे कार्याभावो व्यावर्तमानः कारणाभावं व्यावर्तयति ।
न च कार्येणैव कारणमनुमीयतां जीवच्छरीरे, किं व्यतिरेकिणा,
ऋजुमार्गेण सिध्यन्तं को नु वक्रेण साधयेत्
इति वाच्यम्, कारणमात्रस्य ततः सिद्धेरित्युक्तम् ।
परिशेषाद् विशेषसिद्धिरिति चेत्? स एव व्यतिरेकीत्युक्तम् ॥
यदि हि पृथिव्यादिसमवायिकारणा इच्छादयो भवेयुः, घटादिष्वपि प्रसज्येरन् ।
तस्माद् घटादिष्विच्छादिकार्यनिवृत्त्या द्रव्याष्टकातिरिक्तकारणनिवृत्तिर्व्याप्ता दृष्टेतीच्छादयः शरीरे दृश्यमाना व्यापिकां स्वनिवृत्तिं निवर्तयन्तो व्याप्यद्रव्याष्टकातिरिक्तकारणाभावनिवृत्तिमुखेन नवमं द्रव्यं साधयन्ति ।
न चैषां बुद्धिरेव समवायिकारणम्, द्रव्यस्यैव समवायिकारणत्वनियमाद् बुद्धेश्चाद्रव्यत्वात् ।
यथा च भूतानां परिणतिभेदो न कारणं तथा हि तृतीये उपपादयिष्यते ।
व्यतिरेकमुखेनापि प्रामादेः सात्मकत्वेनान्वयसिद्धौ न केवलव्यतिरेकीति चेत्? न स्वाभावविकं साध्येन प्रतिबन्धमन्वयव्यतिरेकिणि व्यासेधामः, किं तु सपक्षाभावेन विधिमुखेनास्य प्रतिबन्धं निराकुर्मः ।
एतावतैव चान्वयिनो भिद्यते ।
न च पक्ष एव सपक्षः, जिज्ञासितविशेषस्य ज्ञातविशेषादन्यत्वात् ।
शरीरादिषु च सत्सु नैरात्म्यनिषेध एवात्मसद्भावः, असन्निषेधस्य सद्भावलक्षणत्वात् ।
सपक्षाभावस्तु नैरात्म्येनाप्यव्यपदेश्य इति कथं नैरात्म्यनिषेधेन व्यपदिश्यताम्? असतो ऽधिकरणत्वायोगादित्युक्तम् ॥
एतेन परैः यदुक्तम्,
सपक्षाव्यतिरेकी चेद् भवेद्धेतुरतो ऽन्वयी ।
नान्वयव्यतिरेकी चेदनैरात्म्यं न सात्मकम् ॥
इति, तदनेन निराकृतम् ।
एतच्चास्माभिरन्वयिहेतुसमर्थनेन स्फुटीकृतम् ।
तस्मात् सर्वमवदातम् ॥
विपक्षव्यतिरेकमात्रेण व्यतिरेकिणो गमकत्वं मत्वा चोदयति—यदि तर्हीति ।
परिहरति—न, हेत्वर्थापरिज्ञानादिति ।
न वैधर्म्यमात्रेण गमकत्वम्, अपि त्वव्यभिचारिणा ।
स चात्राव्यभिचारो नास्तीत्यर्थः ।
ननु मा भूद् गन्धवत्त्वं हेतुर्व्यतिरेक व्यभिचाराद् अनित्यादिवन्नित्यादप्यस्य व्यतिरेकात्, तस्य तु पक्ष एव केवलं न तु सपक्षविपक्षौ, न तसय व्यतिरेकव्यभिचारो ऽस्तीति स कस्मात् न हेतुरिति चोदयति—यः पुनरिति ।
परिहरति—सत्यमिति।व्यतिरेकधर्मो ऽव्यभिचारो नासति व्यतिरेके सम्भवति, असतो ऽधिकरणत्वायोगादित्युक्तत्वादिति ।
प्रत्युदाहरणान्तरं दर्शयति—एतेनेति ।
एतेन विपक्षाभावात् ततो व्यावृत्त्यभावेनेत्यर्थः ।
चोदयति—यः पक्षैकदेश इति ।
यदि हि पक्षैकदेशवृत्तिरपि विपक्षाभावात् न व्यतिरेकी हेतुः, तर्हि तस्य पक्षैकदेशवृत्तेरपि सतो विपक्षनिवृत्तिरस्ति स हेतुः प्रसज्येत ।
अस्ति खल्वस्योदाहरणवैधर्म्यमेवेति व्यतिरेकिहेतुलक्षणमित्यभिप्रायः ।
परिहरति—अयमपि न हेतुः, कस्मात्? सूत्रार्थेनापोदितत्वात् ।
तं सूत्रपाठपूर्वकं दर्शयति—सूत्रार्थ इति ।
अत्र च येन पक्षैकदेशवृत्तेर्व्यतिरेक्याभासस्य निराकरणं तदवधारणं प्रथमं दर्शितम् ।
उदाहरणेनैव वैधर्म्यं नानुदाहरणेन पक्षेणापि ।
अस्य तु पक्षेणापीति व्यतिरेक्यपि न हेतुः, न पुनर्वैधर्म्यमेवेति सूत्रार्थः ।
तथा सति सव्यभिचारमात्रस्य निवृत्तिः स्यात्, न तु पक्षैकदेशवृत्तेरित्यर्थः ॥
सम्प्रति वासुबन्धवं हेतुलक्षणं दूषयितुमुपन्यस्यति—हेतुर्विपक्षाद्विशेष इत्यन्ये ।
एतद् व्याचष्टे—अन्ये त्विति ।
साधर्म्यमात्रनिराकरण इति ।
यस्य कस्यचित् साधर्म्यस्य निराकरणे ।
विपक्षसाधर्म्यनिराकरणे तावदिष्टस्य सङ्ग्रहः ।
यदा तु सपक्षादिसाधर्म्यनिराकरणम्, तदा अनिष्टस्य विरुद्धादेः सङ्ग्रहः ।
उपलक्षणं चैतत् ।
इष्टानिष्टसङ्ग्रह इति, इष्टपरित्याग इत्यपि द्रष्टव्यम् ।
स चानेकभेद इति ।
सपक्षादपि विशेषे सति विपक्षाद् विशेषः, पक्षादपि विशेषे सति विपक्षाद् विशेषः, विपक्षमात्राद् वा विशेषः इति प्रकाराः ।
तत्र पूर्वयोः प्रकारयोर्यथाक्रममसाधारणस्य चासिद्धस्य च हेतुत्वप्रसङ्ग इति ।
तन्निवृत्त्यर्थ विपक्षादेव इत्यवधार्यते ।
द्वितीयमवधारणमवतारयितुमाह—अवधारणे चेति ।
विपक्षादेवेत्यनेनावधारणेन विशेषो ऽवधारितः, न विपक्षः ।
स चायं विशेषे चाविशेषे च प्रसृत इति विपक्षेकदेशवृत्तेरपि पक्षसपक्षसाधारणस्य हेतुत्वप्रसङ्गः ।
तन्निवृत्त्यर्थं द्वितीयमवधारणं विशेष एवेति ।
उपसंहरति—तदेवमिति ॥
तदेवदव्यापकत्वेन दूषयति—सत्यमेक इति ।
अत्र चोदयति—विपक्षैकदेशवृत्तिप्रतिषेधादिति ।
विशेष एवेत्यवधारणेन विपक्षैकदेशवृत्तिः गौरयं विषाणित्वादिति हेतुत्वेन प्रतिषिद्धः ।
तस्मादेतस्मिन्नवधारणे सत्येव विपक्षादेवेत्यवधारणीयम् ।
तथा च विपक्षादेव यो विशेष एव स हेतुः ।
सपक्षात्तु यो विशेष एव स न हेतुरित्युक्तं भवति ।
यथा च अश्वो ऽयं विषाणित्वात् इति सपक्षाद् विशेष एवेति हेतुत्वेन प्रतिषिद्धो भवति ।
यस्तु सपक्षैकदेशवृत्तिः प्रयत्ननान्तरीयकत्वादिः स सपक्षाद् विशेष एव न भवति, अपि तु सामान्यमपीति ।
न तस्याहेतुत्वमवधारितमिति हेतुरेवासावित्यर्थः ।
परिहरति—यद्येवमिति ।
यदि सपक्षादपि यो विशेषः स सपक्षैकदेशवृत्तिः प्रयत्नानन्तरीयकत्वादिर्हेतुः, एवं सति विपक्षादेवेति अवधारणं बाधितं भवति ।
शङ्कते—अथेति ।
न विपक्षादेवेत्येतन्मात्रमवधार्यते येन सपक्षैकदेशवृत्तिः प्रयत्नान्तरीयकत्वादिनर्न हेतुः स्यात्, अपि तु यो विशेष एव स हेतुरिति प्राप्ते विपक्षादेवेति नियम्यते, तेन सावधारणस्य विशेषस्य विपक्षवृत्तेर्हेतुत्वं प्रतिषिद्धं भवति यथा अश्वो ऽयं विषाणीत्वादिति ।
यः पुनर्विशेषश्चाविशेषश्च सपक्षे हेतुः, तस्य हेतुत्वे ऽपि न विपक्षादेवेति बाधितं भवति ।
यद्यपि चैवं सत्यपि सपक्षैकदेशवृत्तेर्हेतुत्वं न श्रुतम्, तथापि विपक्षादेवेत्यनेनावधारणेनानिषिद्धमित्यनुमतमेव ।
तेन चाश्रुतेनार्थेनार्थवती अवधारणे इत्यर्थः ॥
निराकरोति—एवं चेति ।
यथा तत्तुल्यैकदेशवृत्तेरविहितमपि हेतुत्वमनिषेधानुमतम्, एवं पक्षैकदेशवृत्तेरपीति सो ऽपि हेतुः स्यादित्यर्थः ।
पुनः प्रत्यवतिष्ठते—नैष दोष इति ।
पक्षधर्मत्वे सति विशेष एव विपक्षादेवेति नियमे कुतः पक्षैकदेशवृत्तेः प्राप्तिः, अपक्षधर्मत्वात् तस्येत्यर्थः ।
परिहरति—यो धर्मः पक्षस्येत्यनेनेति ।
पर आह—न कर्तव्यत इति ।
दूषयितुमवधारणं विकल्पयति—किं पुनरिति ।
प्रथमं कल्पं गृह्णाति—अस्तु तावदिति ।
एतमपि दूषयितु विकल्पयति—किं पुनरस्येति ।
सामर्थ्य प्रयोजनाभिसम्बन्धः सम्भवज्ञापनपक्षे ऽज्ञापननिवृत्तिः प्रयोजनम्, असम्भवनिवृत्तिपक्षे तु अत्यन्तायोगव्यावृत्तिः फलम् ।
यथा नीलं सरोजं भवत्येवेति ।
विकल्प्य दूषयति—उभयथापीति ।
युक्त्यन्तरमाह—न चेति ।
अत्यन्तायोगो निषिद्धो भवति, न त्वयोग इत्यर्थः ।
शङ्कते—अथेति ।
विशेषणसङ्गतो ह्येवकारो ऽयोगं व्यवच्छिनत्ति ।
यथा चैत्रो धनुर्धर एवेति ।
हेतुर्विशेषणं चेत् अपक्षधर्म एवेति ।
तस्मात् सिद्धं पक्षैकदेशे वृत्तेर्निराकरणमित्यर्थः ।
निराकरोति—सत्यमिति ।
शेषमनुमानसूत्रे व्याख्यातप्रायमिति नेह व्याख्यातम् ॥
हेतुर्विपक्षाद् विशेष इति च यदा सौत्रान्तिकपक्षमिति ।
यदा त्वनित्यत्वहेतौ लक्ष्ये लक्षणं विचार्यते इति विपक्षशब्दार्थो वाच्यः ।
ननु च नित्यो विपक्ष इत्यत आह—न ह्यसतीति ।
न हि निरुपाख्यमाख्यायत इत्यर्थः ।
न चास्यापादानत्वं नाप्यधिकरणत्वं येन पञ्चमी वा सप्तमी वा प्रयुज्येतेति आह—न चासतीति ।
न चासतो विपक्षाद् व्यावृत्त्यभावेन विशेषो ऽपीत्याह—विपक्षासम्भवे चेति ।
पक्षस्यैवेति ।
अत्र चैवकारास्त्रय पदान्तरानपेक्षत्वं सूचयन्ति ।
पक्षस्यैव धर्म इति हेतुलक्षणे असाधारण एव हेतुः स्यात् ।
समान एव सिद्ध इति तु हेतुलक्षणे अश्वस्य विषाणित्वे साध्ये गोत्वादिर्हेतुः स्यात् ।
तस्मात् त्रयः पक्षाः हेयाः ।
तथा च पक्षस्य धर्मः समाने च सिद्धः इत्यत्र सव्यभिचारो हेतुः स्यात् ।
पक्षस्य धर्मो विपक्षे च नास्तीत्यत्रासाधारणो हेतुः स्यात् ।
समाने च सिद्धो विपक्षे च नास्तीत्यत्र अनित्यः परमाणुः कृतकत्वादिति हेतुः स्यादिति त्रयः ।
सप्तममभिमतं पक्षमाह—पक्षस्येति ।
शेषं सुबोधम् ॥
अत्र दिग्नागेन सपक्षे सन्नसन् द्वेधा पक्षधर्मः पुनस्त्रिधा ।
प्रत्येकमसपक्षे च सदसद्द्विविधत्वतः ॥
इति नव पक्षधर्मान् हेतुतदाभासान् दर्शयित्वा तत्र यः सन् सजातीये द्वेधा चासंस्तदत्यये ।
स हेतुर्विपरीतो ऽस्माद् विरुद्धो ऽन्यत्वनिश्चितः ॥
इत्यनेन हेतुतदाभासविवेको दर्शितः ।
तस्यार्थः ।
यः पक्षधर्मः स सपक्षे सन् असन् द्वेधा इति त्रिविधः, स पुनरसपक्षे सदसद्द्विविधत्वतः प्रत्येकं त्रिधा भवतीति ।
पक्षधर्मः सपक्षे सन् विपक्षे सदसद्द्विविधत्वतस्त्रिधा ।
पक्षधर्मः सपक्षे ऽसन् विपक्षे सदसद्द्विविधत्वतस्त्रिधा, पक्षधर्मः सपक्षे द्वेधा विपक्षे सदसद्द्विधत्वतस्त्रिधेति ।
अत्रोदाहरणम्,
प्रमेयकृतकानित्यकृतश्रावणयत्नजाः ।
अनित्ययत्नजास्पर्शा नित्यत्वादिषु ते नव ॥
नित्यत्वादिषु साध्येषु प्रमेयत्वादयो नव हेतुतदाभासाः ।
तेषां यथासङ्ख्यं नित्यत्वादीनि साध्यान्युदाहरन्ति,
नित्यानित्यप्रयत्नोत्थमध्यमत्रिकशाश्वताः ।
अयत्नानित्यनित्याश्च प्रमेयत्वादिसाधनाः ॥
तदेतेषु हेतुतदाभासेषु हेतुर्निर्धारितो येन तदुपन्यस्य वार्त्तिककारो व्याचष्टे—तत्र य इति ।
तदेतद्दूषयति—यथाश्रुतीति ।
तत्र यः सन् सजातीये द्वेधा चासंस्तदत्यये इत्येतावन्मात्रात् न लभ्यते इत्यर्थः ।
चोदयति—ननु चोक्तमिति उक्तं दिग्नागेन,
साध्यधर्मो यतो हेतुस्तदाभासाश्च भूयसा ।
इति ।
तदेतत् परिहरति—उक्तमेतदिति ।
न पुनः पक्षधर्म एवेत्यर्थः, अवधारणम् अबुद्ध्वा शङ्कते—अथापीति ।
अवधारणार्थालाभेनोत्तरमाह—सत्यमर्थादिति ।
ननु अपक्षधर्मत्वनिवृत्त्यैव पक्षव्यापकत्वं गम्यते, न ह्यव्यापको भवत्यपक्षधर्मत्वनिवृत्तिमानित्यत आह—अपक्षधर्मनिवृत्तिमात्रत्वेन चेति ।
अत्यन्तनिवृत्तिनिषेधेन वृत्तिमात्रं स्यात् नैकान्तिकी वृत्तिरित्यर्थः ।
चोदयति—न प्राप्त इति ।
परिहरति—नावधारणस्येति ।
हेतुहेत्वाभासावेव पक्षधर्मौ नान्य इति नियमज्ञापनार्थमवधारणमिष्टं भवद्भिरित्यर्थः ॥
शङ्कते—अथोभयेति ।
निराकरोति—तथापि सन् सजातीय इति ।
तदेतत् पूर्वमेव व्याख्यातप्रायम् ।
द्वेधा चेति सर्वथा न वक्तव्यमीति ।
सन् सजातीय इत्यस्योपादाने ऽनुपादाने चेत्यर्थः, ।
सन् सजातीय इति नोपादातव्यमिति यदुक्तम्, तत्र शङ्कते—अथ मन्येतेति ।
निराकरोति—अवधारणेति ।
यद्यवधारणं युज्येत अवधारणार्थो युक्त आरम्भः स्यात्, तदेव त्वयुक्तमित्यर्थः ।
आद्ये पद इति ।
पक्षस्य धर्म एव इत्येतस्मिन् पद इत्यर्थः ।
अन्यपदे इति ।
अन्ये पदे ययोः पक्षधर्मत्वविपक्षासत्त्वयोस्ते तथोक्ते ।
तत्र द्वेविध्यं निराक्रियत इति ।
सन् सजातीयेति सर्वथेति ।
सजातीये द्वेधा चेति पदोपादाने चानुपादाने चेत्यर्थः ।
सजातीय एव द्विधेत्यनेनैवेति हेतुतदाभासयोरौत्सर्गिके पक्षधर्मत्वे स्थित इत्यर्थः ।
शङ्कते—अथ मा भूदिति सजातीय एव द्विधेति नावधारणमित्यर्थः ।
निराकरोति—तथापीति ।
सन् सजातीये द्विधेति मध्यमपदे इत्यर्थः ।
तदेवं सजातीये एव द्विधेत्यवधारणं दूषितम् ।
सम्प्रति द्वितीयमवधारणं शङ्कते—अथ पुनरिति ।
निराकरोति—तथापीति ।
तथापि पक्षैकदेशवृत्तिरपि हेतुः प्रसक्तः ।
यदि च तदत्यय एवेति नावधार्येत ततो ऽनैकान्तिको ऽपि हेतुः स्यादिति दोषः ॥
दिग्नागस्यैव प्रदेशान्तरहेतुलक्षणम्—ग्राह्यधर्मः पक्षधर्मः ।
तदंशेन तस्यैव पक्षस्यांशेन साध्यधर्मसामान्येन, व्याप्तो हेतुरिति ।
तदेतद्धेतुलक्षणमुपन्यस्यास्मिन् पूर्वोक्तं दोषमतिदिशति—एतेनेति ।
अतिदेशमेव स्फुटयति—अव्यापकादिरिति ।
यथाश्रुतलक्षणे पक्षाव्यापकस्य हेतुत्वम्, तदंशेन व्याप्त इत्यस्य विवरणालोचनेन सपक्षे सत्त्वं विपक्षाच्च व्यावृत्तिरित्यर्थः ।
तथा च पूर्वोक्तदोषानुषाङ्ग इत्यर्थः ।
सिंहावलोकितन्यायेन दूषयति—असंस्तदत्यय इतीति ॥
अन्येषां हेतुलक्षणं दूषयितुमुपन्यस्यति-तादृगिति ।
तदेतद्व्याचष्टे-तादृशेति ।
किलकारो ऽरुचौ ।
पक्षधर्म इति च हेतोरभिधानम् ।
तेन त्रिलक्षणप्रविभावितात्मा हेतुरित्यर्थः ।
दूषयति—तत् तावदिति ।
श्रावणत्वाद्यपीति ।
तदुक्तो ऽसाधारण इत्यर्थः ।
यस्तु तादृशविनाभावीति विपक्षे सत्ताप्रतिषेधात् सपक्षे सत्त्वं गम्यते एव, विशेषनिषेधस्य शेषाभ्यनुज्ञाविषयत्वादिति मन्येत, तं प्रत्याह—भवतु तावदिति ।
एकदेशाभ्यनुज्ञाने ऽपि विशेषनिषेधस्योपपत्तेर्न समस्ताशेषाभ्यनुज्ञाने प्रमाणमस्तीत्यभिप्रायः ।
चोदयति—ननूपदर्शनग्रहणादिति ।
परिहरति—न तल्लभ्यत इति ।
न हि चाक्षुषत्वमिति ।
वौद्धानां रूपत्वादिजातेर्नित्याया अभावाद् न चाक्षुषत्वमनित्यत्वेन विना भवतीत्यर्थः ।
यस्तु मन्येत विशेषनिषधस्य शेषमात्रभ्यनुज्ञाहेतुत्वेनागृह्यमाणविशेषत्वात् पक्षसत्ताभ्यनुज्ञानम्, तथा चोपदर्शनपदेन पक्षे हेतोः सत्तोपदर्शनं भवतीति तं प्रत्युपेत्याह—उपेत्य वेति ।
सुबोधम् ॥
तदेवं लक्षणं दूषयित्वा तदुदाहरणं दूषयति—यत्त्विदमिति ।
एतस्मिन् हेतुलक्षणे इत्यर्थः ।
प्रयत्ननान्तरीयकत्वं प्रयत्नकारणकत्वं तत् साक्षात् पारम्पर्येण वा? तत्र प्रथमे कल्पे दूषणमाह—प्रयत्नानन्तरीयकत्वस्येति ।
द्वितीयकल्पमाशङ्क्य दूषयति—अथेति ।
प्रयत्नग्रहणमपार्थकमित्यर्थः ।
भावप्रत्ययवाच्यं विकल्प्य दूषयति—यच्चेदमिति ।
एवमप्युपलब्धेरेवेति ।
न हि बोद्धराद्धान्ते किश्चिदुपलभ्यमानं नित्यमस्ति, येनोपलब्धिर्विशेष्येत इत्यभिप्रायः ।
प्रयत्नानन्तरमन्यथा चेति ।
यत् तावदुपलब्धिकर्म तत्सर्वं प्रयत्नादेव पुरुषव्यापादादेवोपलभ्यते नान्यथेत्यर्थः ।
शङ्कते—अथेति ।
अस्माकं नैयायिकानामिति भावः ।
उत्तरम्—त्वयैवेति ।
अस्मद्दर्शनं चेदास्थाय त्वया बौद्धेनोच्यते, तत् प्रयत्नग्रहणेनाप्यनैकान्तिकत्वं तदवस्थमेवेत्यर्थः ।
अव्यापकं चेति ।
न हि दवदहनाभिघातप्रस्फुटद्वेणुदलविभागजन्मा ठात्कारो ऽस्मदादिप्रयत्नकार्य इत्यर्थः ।
शङ्कते—अथेति ।
वर्णात्मकमित्यर्थः निराकरोति—तत्रापीति ।
पारम्पर्येणापि प्रथम एव वर्णः प्रयत्नानन्तरीयकः, न द्वितीयादयः ।
अतिपारम्पर्याश्रयणे त्वतिप्रसङ्गः, प्रायेण तस्य तत्र तत्र सुलभत्वादिति भावः ।
शङ्कते—अथ य इति ।
विशेषः प्रयत्नानन्तरीयकत्वं धर्मिविशेषणम्, प्रयत्नानन्तरीयकत्वं सामान्यं च हेतुरित्यर्थः ।
निराकरोति—तथाप्यन्य इति ।
न हि भवतामस्माकमिव विशेषातिरिक्तमस्ति सामान्यं वस्तु सद् यो हेतुः स्यात् ।
न च कल्पनारोपितं हेतुः सम्यग्ज्ञानस्य भवितुमर्हति, न चात्यन्तासतः कल्पनापि सम्भवतीति भावः ॥
तदेवमुदाहरणं दूषयित्वा प्रसङ्गेन परेषामुदाहरणविचारं दूषयति—यदप्युक्तमिति ।
तत् खल्वसत् सर्वसामर्थ्यरहितं तदाश्रितानाश्रितभावाभावधर्मवन्न भवतीत्यर्थः ।
नित्यं तु किश्चिद् भवतीति ।
तस्य धर्मयोगः सम्भवत्येव, न त्वस्याप्यप्रयत्नानन्तरीयकत्वं त्वप्रत्ययाभिधेयं हि जन्म, तत् प्रयत्नेनद प्रयत्नादन्येन वा विशेषणीयम्, यस्य तु जन्मैव नास्ति तस्य तद्विशेषणं दूरोत्सारितमित्यर्थः ।
एतेनाभाव इति ।
नैयायिकाभिमतो ऽप्यभावो व्याख्यातः ।
तस्यापि हि प्रागसतः सवकारणेन समवाय इति जन्म नास्तीति न तद्विशेषणयोग इत्यर्थः ।
प्रकृतमुपसंहरति—तदेवमिति ॥३५ ॥
न्य्स्_१,१।३६: साध्यसाधर्म्यात् तद्धर्मभावी दृष्टान्तः उदाहरणम् ॥
हेतावुक्ते नाव्याप्तो ऽसौ साध्यधर्मेण हेतुभावे व्यवतिष्ठते, न च व्याप्तिप्रदर्शनमुदाहरणमन्तरेणेति हेतुलक्षणानन्तरं क्रमप्राप्तमुदाहरणलक्षणमाह—साध्य—रणम् ॥३६॥ सूत्रमित्युदाहरणसामान्यलक्षणमप्यनेन सूचितमिति दर्शितम् ।
अस्य तात्पर्यमाह—अस्येति, दृष्टान्तो ऽर्थरूपो नोदाहरणस्य वचनात्मकस्य स्वरूपतो लक्षणं सम्भवति ।
तस्मात् स्वाभिधायकवचनोपलक्षकत्वेन लक्षणत्वं सामानाधिकरण्यं च भजत इत्यभिसन्धिनोक्तम्—उदाहरणोपलक्षणमिति ।
अनेन च समानजातीयेभ्यः प्रतिज्ञादिभ्यः असमानजातीयेभ्यश्च प्रमाणादिभ्य उदाहरणं व्यवच्छिन्नं भवति ।
साध्येन साधर्म्यम् इत्यादि भाष्यम् ।
तस्यार्थः, साध्येन धर्मिणा शब्देन, साधर्म्यं दृष्टान्तस्य स्थाल्यादेः, कृतकत्वं हेतुः ।
कद्ध्यनित्यत्वेन साध्ये च शब्दे दृष्टान्ते च स्थाल्पादौ समानम् ।
तस्मात् कारणत् प्रयोजकात्, तद्धर्मभावी तस्यैव साध्यस्य शब्दस्य यो धर्मो धर्मान्तरम्, येन विशिष्टः शब्दः सिषाधयिषितो ऽनित्यत्वेन, तदनित्यत्वं तद्धर्मः ।
स एव भावस्तद्भावः ।
सो ऽस्यास्तीति तद्धर्मभावी, स्थाल्यादिरनित्यत्वधर्मवानिति यावत् ।
तेन तादृशा दृष्टान्तेनोपलक्षितं तद्विषयं वचनमुदाहरणमिति ॥
तत्र वार्त्तिककारः सूत्रपदं व्याचक्षाण एव फलतो भाष्यं व्याचष्टे—साध्येति ।
उदाहरणसाधर्म्यादित्यस्य व्याख्यानं साध्यसाधर्म्यादित्यत्रापि योजयति—अत्रापीति ।
साध्यशब्देनैव कृतकत्वं साधर्म्यं दृष्टान्तस्य, नासाध्येन विपक्षेणाकाशादिना नित्येन, ततो हि कृतकत्वं व्यावृत्तमिति ।
तथा च सव्यभिचारो व्यवच्छिन्नो भवति ।
साधर्म्यमेवेति भागासिद्धो व्यवच्छिन्नः ।
यस्मात् साध्यसाधर्म्यात् सद्धर्मभावी भवति, सो ऽयं दृष्टान्त उदाहरणमिति,
यावद् वाक्यं न समाप्यते, तावदर्धोक्त एव पृच्छति—किं कुतश्चिदिति ।
अवधारणद्वययोगिनः साध्यसाधर्म्याद् दृष्टान्तो ऽवश्यमेव तद्धर्मभावी भवतीति गतार्थं तद्धर्मभावीत्येतदिति भावः ।
उत्तरम्—न भवत्यपीति ।
यथा नित्ये शब्दे साध्ये अमूर्तत्वादेः साध्येन शब्देन कर्मणः साधर्म्यात् कर्म न तद्धर्मभावि भवति, नित्यं न भवतीत्यर्थः ।
साध्येनैवेत्यवधारणेनैव एतदुदाहरणं प्रत्युक्तमिति ।
शिष्योपाध्यायश्यश्यामत्वमैत्रतनयत्वादयो ऽत्रौपाधिकसम्बन्धा उदाहार्याः ।
हेतुलक्षणे तु सामान्यलक्षणापेक्षं विशेषलक्षणमिति नातिव्याप्तिः ।
अत्र च साध्यसाधर्म्यग्रहणेन साधनविकलमनुदाहरणं भवतीत्युक्तं भवति ।
यथा नित्यः शब्दः अमूर्तत्वात् परमाणुवदिति ।
तद्धर्मभावीत्यनेन च साध्यविकलं परास्तम् ।
यथा नित्यः शब्दो मूर्तत्वात् कर्मवदिति ।
एतेनोभयविकलमपि पराकृतम् ।
यथा नित्यः शब्दः अमूर्तत्वाद् घटवदिति ।
पञ्चम्युपादानेन च साध्यसाधर्म्यप्रयुक्तं तद्धर्मभावित्वं यत्र वचने प्रदर्श्यते तदेवोदाहरणं नान्यदिति दर्शितं भवति ।
प्रयोजकत्वं च साध्यसाधर्म्यस्य हेतोः स्वाभाविकः सम्बन्धो व्याप्यत्वमिति यावत् ।
प्रयोज्यत्वं च साध्यसाधर्म्यस्य व्यापकत्वमेव ।
तेनाप्रदर्शितान्वयविपरीतप्रदर्शितान्वययोरनुदाहरणत्वमुक्तं भवतीति ।
तद्यथा अनित्यः शब्दः उत्पत्तिमत्त्वात्, पटवदिति ।
यो यो ऽनित्यः स सर्व उत्पत्तिमान् यथा घट इति ।
समाख्यानिर्वचनसामर्थ्यात् सामान्यलक्षणमप्यनेन सूचितमित्याशयवता भाष्यकृता समाख्याया निरुक्तिः कृता ।
तां वार्त्तिककारो दर्शयति—उदाह्रियते ऽनेनेति ॥
चोदयति—ननु चेति ।
परिहरति—नैष दोष इति ।
वचनस्य विशेषणत्वेनोपलक्षणत्वेनेत्यर्थः ।
अभिधीयमान इति च अभिधानोपलक्षणपरम्, नाभिधेयपरम्, असामानाधिकरण्यदोषस्य तावदवस्थ्यात् ।
तद्धर्मभावीति सूत्रावयवव्याख्यानपरं भाष्यम्—तस्य धर्म इत्यादि ।
अत्र चोत्तरमिति गुढाभिप्रायम् ।
तदेतद् भाष्यम् अनुभाष्य व्याचष्टे—तस्य धर्म इति ।
तस्य धर्मस्तद्धर्म इति हि धर्मस्य सम्बन्धित्वेन पृथग्वचनम् ।
न च धर्म एव धर्मस्य, नापि धर्मान्तरं धर्मस्य, किं तु धर्मिण इत्यर्थः ।
अनेन भाष्यकारीयामनुपपत्तिमुक्त्वा वार्त्तिककारः स्वकीयामप्याह—धर्मे च साध्य इति ।
अनेन हेतूदाहरणोपनयलक्षणैर्व्याघात उक्तः ।
भाष्यम्—साध्यसाधर्म्यादुत्पत्तिधर्मकत्वादिति, तद् व्याचष्टे—तस्य धर्मिण इति ।
तद्धर्मभावी भवतीति, तदनुपपन्नम्, न हि कृतकत्वात् स्थाल्यादेरनित्यत्वं भवति, जायते बीजादिवाङ्कुर इत्यत उक्तम्—भवति विद्यते॥३६ ॥
न्य्स्_१,१।३७: तद्विपर्ययात् वा विपरीतम् ॥
वैधर्म्योदाहरणस्य लक्षणम्—तद्वि—तम् ॥३७॥ अनुवृत्तेन पूरयित्वा सव्याख्यानं सूत्रं पठति—साध्यवैधर्म्यादतद्धर्मभावी च दृष्टान्त उदाहरणमिति ।
सात्मकतया साध्येन जीवच्छरीरेण वैधम्याद् घटादेर्दृष्टान्तस्य सात्मकत्वसाधर्म्यविरहादिति यावत् ।
यस्य साध्यस्य जीवच्छरीरस्य धर्मः प्राणादिमत्त्वं तद्धर्मः ।
स एव भावस्तद्धर्मभावः ।
सो ऽस्यास्तीति तद्धर्मभावी ।
न तद्धर्मभावी अतद्धर्मभावी, प्राणादिरहितो घटादिरिति यावत् ।
एतदुक्तं भवति, यत्र घटादौ साध्यधर्माभावप्रयुक्तः साधनधर्माभावः, स घटादिर्वैधर्म्यदृष्टान्तः ।
तद्विषयः शब्द उदाहरणमिति ।
सूत्रस्थश्च वाशब्दः समुच्चेये वेदितव्यः, व्यतिरेकविषयत्वाद् वैधर्म्योदाहरणस्येति ।
अत्र भाष्यकारेण अन्वयव्यतिरेकी पूर्वसत्रोदाहृतो ऽत्राप्युदाहृतः ।
साधनधर्माभावप्रयुक्तत्वं च साध्यधर्माभावस्योक्तम्, तच्चायुक्तम् ।
अन्वयव्यतिरेकिणिहेतौ सत्यपि वैधर्म्ये साधर्म्योदाहरणमेवोचितम्, तत्र तत्पूर्वकत्वाद् वैधर्म्यप्रतीतेः ऋजुमार्गेण सिध्यतो ऽर्थस्य वक्रेण साधनायोगात् ।
व्याप्यव्यापकभावश्च यादृशो भावयोः, तदभावयोस्तद्विपरीतो बोध्यव्यः ।
अन्यथा सपक्षैकदेशवर्ती न हेतुः स्यादिति मन्यमानो वार्तिककार आह—उदाहरणमवीतहेताविति ।
तच्चास्माभिः सूत्रं योजयद्भिः उक्तमिति ॥
अत्र आचार्यदेशीयाणाम् अनार्षसूत्रपाठदूषणं नास्माकमार्षसूत्रपाठे ऽस्तिति प्रतिपिपादयिषुराचार्यदेशीयानां पाठमभिप्रायं चाह—अन्ये त्विति ।
आर्षे हि पाठे सामानाधिकरण्याद् दृष्टान्तस्यार्थरूपस्य, शब्दरूपेणोदाहरणेनैक्यं स्यात् ।
यदा तु दृष्टान्तस्योदाहरणमिति पाठः, तदा नायं दोषः ।
दूषणं चापरेषाम्, यथा न दृष्टान्तस्य उदाहरणेन सामानाधिकरण्यम्, एवं तद्धर्मभावित्वस्यार्थरूपस्य, स्वविषयवचनोपलक्षणत्वेन तु सामानाधिकरण्यं दृष्टान्ते ऽपि तुल्यम् ।
तस्मादार्षमेवास्त्विति ।
आर्षे ऽपि पाठे परोक्तं दूषणमुपन्यस्यति—एतस्मिन्नपीति ।
उपहासे किलकारः ।
ण्यन्ताद् भवतेस्ताच्छील्ये णिनिना भावीति व्युत्पन्नम् ।
तथा च तद्धर्मकारित्वमर्थः ।
न च ज्ञापनादन्या क्रिया सम्भवतीति गमकत्वम् ।
तच्च सर्वेषामवयवानामभिन्नमिति साधारणत्वात् न वक्तव्यमित्यर्थः ।
तदेतदभ्युपगमेनैव परिहरति—नायमिति ॥
अन्ये तु तद्धर्मभावीत्येतद् विकल्प्य दूषयन्तीत्याह—अन्ये त्विति ।
तत्र प्रथमकल्पे दूषणमाहुः—तद् यदीति ।
नायं सूत्रार्थः सर्वावयवसाधारण्यादिति ।
तस्मात् न किञ्चिदेतत् तद्धर्मं भावयितुं शीलमस्येति ।
द्वितीयकल्पे दूषणमाहुः—दण्डिन्यायस्तु इति ।
सम्भवे व्यभिचारे च स्याद् विशेषणमर्थवत्,
न सम्भवमात्रे इत्यर्थः ।
तदिदं परेषां दूषणं दण्डिन्यायमालम्ब्य परिहरति—न वक्तव्यमिति ।
सम्भवव्यभिचाराभ्यां समर्थं विशेषणमित्यर्थः ।
न बहुव्रीहाविति ।
अन्यपदार्थविवक्षयैवेनिराश्रीयते ।
सा च बहुव्रीहिणै लभ्यत इति कृतमत्रेनिनेत्यर्थः ।
सुहृद्भावेन चेद्, अत एवाह—अथावश्यमिति प्रयोजनान्तरं भावीग्रहणस्यान्वाचिनोति—सन्तीति ॥
अत्र च वसुबन्धुना प्रतिज्ञादयस्त्रयो ऽवयवा दुर्विहिता अक्षपादलक्षणेनेत्युक्तम्, तद् दूषयति—तदेतस्मिन्निति ॥
तदेवमुदाहरणलक्षणमुपपाद्य परेषां लक्षणं दूषयितुमुपन्यस्य व्याचष्टे—यथा सिद्ध इति ।
यथा च स एव साध्यो विशिष्टः प्रत्ययभेदभेदित्वेनेति, प्रत्ययः कारणम्, तदेतत् साध्यसाधनवत्त्वं दृष्टान्तस्य बौद्धराद्धान्ते ऽव्यापकम्, स्थाल्यादौ दृष्टान्ते कृतकत्वानित्यत्वरूपसाध्यसाधनवत्त्ववैकल्यात् ।
प्रागभावो हि स्थाल्याः कृतकत्वं प्रध्वंसाभावश्चानित्यता राद्धान्ते बौद्धानाम् ।
न चैवमुभयं स्थाल्यामस्ति, तस्याः स्वाभावविरोधित्वादिति दूषयति—अत्र विस्फूर्जतापीति ।
एतेनेति, अव्यापकत्वेन निदर्श्यते ऽस्मिन्ननेन वेति निदर्शनम् ॥
साध्येनानुगमो हेतोः साध्याभावे च नास्तिता ।
इति च प्रत्युक्तम् कृतकत्वानित्यत्वयोः स्थाल्यामसम्भवदर्शनादव्यापकत्वेन ।
अस्मद्राद्धान्ते तु यथा तयोः स्थाल्यादौ सम्भवः तथोक्तं हेतुलक्षणसूत्र इति ।
भाष्ये पण्डितरूपवेदनीयमिति प्रशस्तपण्डितवेदनीयमित्यर्थः ॥३७ ॥
न्य्स्_१,१।३८: उदाहरणापेक्षः तथा इति उपसंहारः न तथा इति वा साध्यस्य उपनयः ॥
स्वप्रतिपत्तौ व्याप्तिस्मरणानन्तरं तथा चायं न तथेति वा परामर्शज्ञानोत्पादादुदाहरणवचनस्य च व्याप्तिप्रतिपादकत्वात् परामर्शज्ञाने हेतोरुपनयस्योदाहरणपूर्वकत्वनियमात् ।
उदाहरणानन्तरमुपनयं लक्षयति—उदा—यः ॥३८॥ अपेक्षापदं भाष्यकृद् व्याचष्टे—उदाहरणतन्त्र इति ।
उदाहरणवशः ।
वश्यत इति वशः, वशिन उदाहरणस्य वश्य इत्यर्थः ।
एतदेव कर्मणो भावं निष्कृष्य विवृणोत्ति—वशः, सामर्थ्यम् ।
वश्येन उदाहरणस्य फलेन उपनयेनाभिसम्बन्ध इत्यर्थः ।
तथात्वातथात्वयोर्विषयं विभजते—साध्यसाधर्म्ययुक्त इति ।
ननु हेतोरुपसंहार अपनयो न साध्यस्य ।
तथा चानुपपन्नः साध्यस्योपसंहार इत्यत उक्तम्—साध्यस्य शब्दस्योत्पत्तिधर्मकत्वमिति ।
उदाहरणसिद्धव्याप्तिकहेतुमत्तया साध्यमुपसंह्रियते न स्वरूपेणेत्यर्थः ।
अत्राप्युदाहरणापेक्ष उपसंहार उपनय इति सामान्यलक्षणम् ।
तथा न तथेति सामान्यलक्षणापेक्षे विशेषलक्षणे इति बोध्यव्यम् ॥
अत्र केचित् आहुः हेतुवचनादेव सोदाहरणात् साध्यसिद्धेरसाधनाङ्गमुपनय इति ।
तन्निराकर्तुमाह वार्त्तिककारः—यथा तथेति प्रतिबिम्बनार्थम् ।
तदेतत् प्रश्नपूर्वकं विभजते—किं पुनरिति ।
तदनेन व्युत्पन्नाव्युत्पन्नतया परेषामनियतप्रतिपत्तिसाधनत्वात् स्वप्रतिपत्त्यनुसारेण परे बोधयितव्याः ।
व्याप्तिस्मरणानन्तरोत्पन्नलिङ्गपरामर्शपूर्वकश्च स्वयमनुमेयार्थप्रत्यय इति तथैव परे बोध्यन्ते ।
तथा च परामर्शज्ञानहेतोरुपनयस्य सिद्धमर्थवत्त्वम् ।
न च यथा लिङ्गपरामर्शज्ञानान्वयव्यतिरेकानुविधानम् अनुमेयज्ञानस्य, तथा दधिभक्षणाद्यनुविधानमपि, येनतिप्रसङ्गश्चोद्येतेति ।
प्रयोजनान्तरम् उपनयस्याह—साध्ये वा सम्भव इति ।
चोदयति—ननु चेति ।
यद्यपि साधनतया कृतकत्वमुक्तम्, प्रतिज्ञानन्तरं प्रतिपत्त्र साधनस्यैवापेक्षितत्वत्, तथापि तन्नासिद्धं तत्र साधनत्वेन व्यवतिष्ठत इति स्वसिद्धिमाक्षिपति सामर्थ्यादिति भाव ।
परिहरति—नोक्त इति ।
यत्परः शब्दः स शब्दार्थ इति शाब्दाः ।
साधनत्वपरश्च कृतकत्वादिति सामर्थ्यात् ।
आक्षेपे तूदाहरणमपि न प्रयोक्तव्यम् ।
अस्यापि साधनसामर्थ्यादाक्षेपात् अव्याप्तस्य साधनत्वायोगात् तद्विधस्यापि प्रमेयत्वादेः शब्दनित्यत्वादौ साधनत्वभ्रमेण प्रयोगो ऽसिद्धेपि तुल्य इति व्याप्तिप्रदर्शनार्थोदाहरणप्रयोगवद्धेतोः सिद्धत्वप्रतिपादनाय उपनयस्यपि प्रयोग इति रमणीयम् ॥३८ ॥
न्य्स्_१,१।३९: हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम् ॥
निगमनलक्षणावतारपरं भाष्यं द्विविधस्य पुनरिति ।
साधर्म्येण वैधर्म्येण द्विविधानामपि हेतूदाहरणोपनयानां समानं निगमनलक्षणमित्यर्थः ।
हेत्व—नम् ॥३९॥ तस्मादिति ।
हेत्वपदेशात् तद्धेतुकम् अनित्यः शब्द इति प्रतिज्ञाया पुनर्वचनम् ।
यद्यपि च सिद्धनिर्देशो निगमनम्, साध्यनिर्देशश्च प्रतिज्ञा, तथापि यस्यैव प्रतिज्ञायां साध्यत्वमासीत्, तस्यैव निगमने सिद्धत्वमित्यवस्थावन्तमेकमाश्रित्य समानविषयतया निगमनं प्रतिज्ञेत्युपचर्यते ।
तथा च पुनर्वचनमप्युपपन्नम् ।
तदेतद् भाष्यकारो व्याचष्टे—साधर्म्योक्त इति ।
व्युत्पादयति—निगम्यन्ते इति ।
साधर्म्यवैधर्म्ययोः प्रतिज्ञातः प्रभृति निगमनान्तं प्रयोगमाह—तत्रेति ।
अत्र प्रथमसूत्रवदेव यथास्वमवयवेषु प्रमाणानां परमन्यायं स्तोतुं सम्भवमाह—अवयवसमुदाये चेति ।
आप्तोपदेशस्येति ।
सेदव सोम्येदमग्र आसीत् ।
इत्यादेराप्तोपदेशस्य प्रत्यक्षानुमानाभ्यां प्रतिसन्धानात् ।
ननु कस्मात् प्रतिज्ञैवाप्तोपदेशो न भवति, कृतमस्या आगमान्तरविषयत्वेनेत्यत आह—अनृषेश्चेति ।
अनुमानं हेतुः ।
स्यादेतत् ।
द्वितीयं लिङ्गदर्शनं हेतुः ।
न च तदनुमानम् ।
तृतीयस्योपनयविषयस्य लिङ्गदर्शनस्य तथाभावादित्यत आह—उदाहरण इति ।
उदाहरणे दृष्टान्तधर्मिणि ।
साध्यसाधनयोः प्रतिबन्धं सन्दृश्य सम्यग् दृष्ट्वा लिङ्गस्य प्रतीतेः ॥
एतदुक्तं भवति—यद्यपि त्रयाणामपि लिङ्गदर्शनानां सस्मृतीनामनुमानत्वम्, तथापि तदेकदेशे मध्यमे ऽपि लिङ्गदर्शने समुदायोपचारादनुमानव्यपदेश इति ।
प्रत्यक्षविषयम् उदाहरणम् ।
कस्मात्? दृष्टेन उदाहरणे प्रतिबन्धेन अदृष्टस्य साध्यधर्मिण्यनुमेयस्य सिद्धेः ।
यदि पुनर्न मूलं प्रत्यक्षमास्थीयेत, अव्यवस्थया नादृष्टं सिध्येदिति भावः ।
निगमप्रयोजनं प्रतिपादयति—सर्वेषामिति ।
प्रतिज्ञादीनामुपनयान्तानामेको ऽर्थः स्वभावप्रतिबद्धं लिङ्गं वा अनुमेयं वा, तस्य प्रतिपत्तिः, तस्यां सामर्थ्यप्रदर्शनं निगमनमिति ।
तदनेनैकार्थत्वं दर्शितम् ।
द्विविधं च प्रयोजनम् ।
तत्रावान्तरं स्वभावप्रतिबद्धलिङ्प्रतीतिः ।
परमं च साध्यप्रतीतिरिति ॥
सम्प्रति विभागे साकाङ्क्षत्वं दर्शयति—इतरेतराभिसम्बन्ध इति ।
अभिसम्बन्धेन फलेनाकाङ्क्षामुपलक्षयति—असत्यामिति ।
प्रधानं हि प्रतिज्ञापदम् ।
तदुत्तरकालं हि साधनाकाङ्क्षायां प्रतिज्ञामाश्रित्य हेतुपदं प्रवर्तते ।
न पुनः प्रथममेव हेत्वेपेक्षेति हेतुलक्षणे ऽस्माभिरुपपादितमिति ।
हेतुपदविरहे आकाङ्क्षां दर्शयति—असति हेताविति ।
उदाहरणाभावे ऽपेक्षामाह—असत्युदाहरण इति ।
उपनयाभावे ऽप्यपेक्षामाह—उपनयं चान्तरेणेति ।
निगमनाभावे ऽप्यपेक्षामाह—निगमनाभावे चेति ।
अवयवानां प्रातिस्विकं प्रयोजनमुक्तमपि शिष्यहिततया भाष्यकारः प्रतिपादयति—अथेति ।
पञ्चावयवप्रतिपादनप्रयत्नस्य प्रयोजनं दर्शयति—न चैतस्यामिति ।
कथं पुनः प्रक्रमत इत्याह—अव्यवस्थाप्येति ।
व्यवस्थापिते तु न जातेरवसर इत्याह—व्यवस्थिते हीति ॥
अत्र केचित् आहुः निगमनमसाधनाङ्गम् ।
कथम्? प्रतिज्ञया गतार्थत्वादिति ।
तन्मतम् अपाकर्तुं वार्त्तिककारः सप्रयोजनं निगमनं दर्शयति—प्रतिज्ञाविषयस्यार्थस्येति ।
चतुर्भिः खल्ववयवैर्हेतोस्त्रीणि रूपाणि द्वे वा प्रतिपादिते, न त्वबाधितविषयत्वासत्प्रतिपक्षितत्वे ।
पञ्चसं वा चतुर्षु वा रूपेषु हेतोरविनाभावः परिसमाप्यते ।
तस्मादबाधितविषयत्वासत्प्रतिपक्षितत्वरूपद्वयसंसूचनाय निगमनम् ।
तदिदमुक्तम्—विपरीतप्रसङ्गप्रतिषेधार्थमिति ।
बाधने प्रतिपक्षे वा साध्यविपरीतप्रसङ्गः स्यादिति ।
सो ऽयं प्रतिज्ञाविषयार्थस्य अशेषप्रमाणमूलावयवोपपत्तौ सत्यां प्रतिज्ञेयस्यार्थस्य सिद्धतया पुनर्वचनेन निगमनेन प्रतिषिध्यते ।
न च प्रतिज्ञावचनादेव तत्सिद्धिः, तस्य साध्यपरत्वात् ।
न चान्यपरादप्याक्षेपात् सिद्धिः हेत्वादिपदाप्रयोगवैयर्थ्यप्रसङ्गात्, प्रतिज्ञात एव सर्वाक्षेपसम्भवात् ।
तस्माद् रूपद्वयप्रतिपादनार्थं निगमनम् ।
यथा च त्रैरूप्यातिरिक्तमेतद्रूपद्वयं तथोपपादितम् अस्माभिः प्रथमसूत्रे ।
हेत्वाभासेषु च शेषं दर्शयिष्यत इति ।
एतस्मिन् सूत्रार्थे परस्य प्रतिज्ञायां निगमनं गतार्थं मन्यमानस्य अवकाशो नास्तीति ॥
यस्तु मन्येत न हेतोरविनाभावसिद्धिमन्तरेण सिद्धनिर्देशो निगमनं भवति, न च पाञ्चरूप्यं विना अविनाभावसिद्धिः ।
निगमनात्तु तत्सिद्धौ न सिद्धनिर्देशो निगमनम्, अपि तु तदपि साध्यनिर्देश एवेति, तं प्रत्युपेत्य तद्दोषनिराचिकीर्षया परेषां वाक्यमुपक्षिप्यते ।
परेषां वाक्यं पठति—उपनयनिगमने त्विति ।
दूषयति—इदं तावदिति ।
यथाश्रुति हि निगमनोपनययोरभेदं साधयति, अर्थगतं चाविशेषं हेतुमाह—तच्चैतदालोकतमसोरैक्यं काकस्य कार्ष्यादिवदापतितम् ।
शङ्कते—अथ हेतूपनयाविति ।
उपलक्षण चैतत्, प्रतिज्ञानिगमने इत्यपि द्रष्टव्यम् ।
अर्थाविशेषादिति चाविशिष्टार्थत्वादित्युन्नेतव्यम् ।
तथा च सम्बन्ध इति शङ्कितुरभिप्रायः ।
अत्रापि दोषमाह—स विपक्षेति ।
पुनः शङ्कते—अथैकप्रयोजनत्वेनेति ।
निराकरोति—तथापीति ।
सिध्यत्येकप्रयोजनत्वे साध्ये हेतोरविरोधः, हेतुस्तु न प्रतिज्ञार्थादतितिच्यते इत्यर्थः ।
तद् वर्णितमिति ।
अन्यश्च हेत्वर्थो ऽन्यश्चोपनयार्थ इत्येतद् वर्णितमित्यर्थः ।
एतेनोपनयनिगमनप्रयोजनाभिधानेन ये त्र्यवयवं वाक्यमाहुः, तन्मतमपि परास्तमित्याह—पक्षधर्मत्वेति ॥
यच्च परैः उपनये दूषणं विकल्प्याभ्यधायि तत् तावदुपन्यस्यति—यदपि यथा तथेति ।
सर्वसामान्ययोगे हि तदेव स्यात्, न तु तथेति ।
अन्यथा शब्दस्य कृतकत्वादिति ।
न हि यथा घटः कृतकः, तथा शब्दो ऽपि कृतकः, घटशब्दयोरभेदप्रसङ्गादित्यर्थः ।
तस्मात् सामान्यप्रतिषेधे विशेषप्रतिषेधे च कृतकत्वं सामान्यं परिशिष्यते ।
तस्य च यथातथाभावयोरभावात् कृतकत्वादित्येव स्यात् ।
तथा च न हेतोर्व्यतिरेक उपनयः स्यादित्याह—परिशेषादिति ।
तदेतत् परेषां दूषणं निराकरोति—तदप्ययुक्तमिति ।
यथा तथेति वाक्यमुपमानैकदेशमुपमानमुपचारात् ।
उपमानमर्थो यस्य सो ऽयमुपमानार्थ उपनयः ।
तस्य भावस्तत्त्वं तस्मात् ।
तच्चोपमानं न सर्वथा साध्यसाधनभावमाश्रित्य प्रवर्तते ।
साध्ये शब्दे साधनस्य कृतकत्वस्य स्थालीगतस्य यः सर्वथाभावः स्थालीत्वाद्येकार्थसमवायः तमाश्रित्य न प्रवर्तते ।
तथा च शब्दस्थाल्योः अभेदप्रसङ्गाद् यथा तथेत्येव न स्यात् ।
तस्मात् स्थालीस्थप्रकारान्तरव्युदासेन कृतकत्वसामान्यमात्रसाधारण्येन यथा तथेत्युपमानोपपत्तिरित्यर्थः ।
नन्वेवमपि कृतकत्वसामान्यमात्रं शब्दे स्यात्, न तु यथा तथाभावः, तथा च न हेतोरतिरेक इत्युक्तमित्यत आह—कृतकत्वसामान्यं त्विति ।
न हि जातु शावलेयसन्निधौ गोत्वसामान्यमात्रं भवति, अपि तु विशेषसहितम् ।
तथा च यथातथाभाव उपपन्न इत्यर्थः ॥
एतेन यत् परैरुपनयस्य दृष्टान्तादभिन्नत्वं वर्णितम्, तदपि परास्तमित्याह—गतार्थत्वादिति ।
अनेनोपमानसमानत्ववर्णनेन ।
एतदेव विभजते—यदप्युक्तमिति ।
व्याप्तिप्रदर्शनविषयो दृष्टान्तः दृष्टाव्याप्तिकस्य हेतोः साध्यधर्मिण्युपसंहार उपनय इति महान् भेद इत्यर्थः ।
एतेन निगमनं प्रतिज्ञायाः समानाभिधेयत्वे ऽपि प्रतिज्ञार्थत्वेन प्रत्युक्तम्, प्रतिज्ञायाः साध्यपरत्वात् निगमनस्य च विपरीतशङ्कानिवृत्तिपरत्वादिति ।
प्रयोजनभेदसामान्यमात्रविवक्षया एतेनेत्युक्तम् ।
अत्र भाष्यकारेण एकस्मिन्नन्वयव्यतिरेकिण्येव वीतावीतवाक्ये पञ्चावयवे उदाहृते ।
तत्र कदाचिद् भ्रान्तिः स्यादेकोदाहरणतया द्वे अपि वाक्ये परस्परापेक्षे एवेति, तन्निराकरणायाह—ते एते इति ।
न पुनरन्वयि व्यतिरेकि चेत्येकं वाक्यमित्यर्थः॥३९ ॥
न्य्स्_१,१।४०: अविज्ञाततत्त्वे ऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः ॥
अत्र भाष्यं तर्कलक्षणावतारपरम्—अत ऊर्ध्वमिति ।
उद्देशक्रमानुसारेण ।
अवितर्कः ।
॥४०॥ तर्कप्रवृत्तिक्रममाह—अविज्ञायमानतत्त्वे ऽर्थे इति यद्यपि संशयस्य पश्चादेव जिज्ञासा भवति, तथापि जिज्ञासायाः परस्तादपि संशयो भवति ।
स चात्र विवक्षितः, तर्कप्रवृत्त्यङ्गत्वात् ।
तर्केण हि प्रसङ्गापरनाम्ना द्वयोः पक्षयोरेकतरनिषेधेनैकतरः प्रमाणविषयतया अभ्यनुज्ञातव्य इति विषयप्रत्यासत्त्या तर्कप्रवृत्तिं प्रत्यङ्गता संशयस्येति ।
कारणोपपत्त्येति व्याचष्टे—सम्भवत्यस्मिन् कारणं प्रमाणमिति ।
अत्र च कारणमित्यस्य व्याख्यानं प्रमाणमिति ।
उपपत्तिव्याख्यानं सम्भवतीति ।
अनुज्ञाव्याख्यानम् ।
—एववमेतत्, नेतरदिति ।
एतदुक्तं भवति, यस्मिन् विषये प्रमाणं प्रवर्तितुमुद्यतं तद्विपर्ययाशङ्कायां न तावत् प्रमाणं प्रवर्तते, न यावदनिष्ट्यापत्त्या विपर्ययाशङ्का अपनीयते ।
तदपनय एव च स्वविषये प्रमाणसम्भव इति चोपपत्तिरिति व्याख्यायते ।
तया प्रमाणस्योपपत्त्या इतिकर्तव्यतया प्रमाणविषयमभ्यनुजानत्या विशोधिते विषये प्रमाणामप्रत्यूहं प्रवर्तते ।
न चोपपत्तिरेवास्तु निश्चयहेतुः कृतं प्रमाणेनेति वक्तव्यम् ।
उपपत्तेः स्वतन्त्राया आश्रयासिद्धतया स्वतो निश्चयायोगात् ।
तदुपपादितं प्रथमसूत्रे इति ॥
उदाहरणमाह—निदर्शनमिति ।
स्वकृतस्य कर्मण इत्यादिना पूर्वस्य कारणमित्यन्तेन संसारो दर्शितः ।
उत्तरेत्यादिना उपवर्ग इत्यन्तेनापवर्गः ।
तेन संसारापवर्गाविच्छन्तौ वादिप्रतिवादिनौ प्रति आत्मनित्यत्वविषयं प्रमाणं प्रवर्तमानमनेन तर्केणानुगृह्यत इति प्रमाणविषयविपर्ययाननुज्ञैव च प्रमाणविषयाभ्यनुज्ञा, अनिष्टप्रसक्त्या विपर्ययस्यैव साक्षात् निवर्तनात् ।
अत एवान्ते भाष्यकार उपसञ्जहार—यत्र कारणम् अनुपपद्यमानं पश्यति, तत् नानुजानातीति ॥
ननु यदि तर्क एवमेतत्, नेतरदित्येवमाकारः, कथं पुनरयं तत्त्वज्ञानार्थो न तु तत्त्वज्ञानमेवेतेति देशयति—कथं पुनरिति ।
परिहरति—अनवधारणादिति ।
पर्यायैर्निश्चयादत्यन्तभेद उक्तः ।
भावितात् चिन्तितात्, अत एव प्रसन्नात् निर्मलान्दिति ।
प्रमाणसामर्थ्यादिति तर्कत्त्य स्वातन्त्र्यमपाकरोति ।
स्यादेतत्—यदि न तर्कस्तत्त्वनिश्चयसाधनमपि तु प्रमाणमेव, हन्त भोः किमर्थं तर्हि वादे प्रमाणतर्कसाधनेत्युक्तमित्यत आह—सो ऽयं तर्क इति ।
व्यक्त्यभिप्रायेण प्रमाणानीति ।
प्रमाणविषयविपर्यंयाशङ्काविघटितानि प्रमाणानि प्रतिसन्दधान इत्यर्थः ॥
वार्त्तिककारः ।
सूत्रतात्पर्यमाह—अस्येति ।
समानजातीयात् संशयादेरसमानजातीयात् चेच्छादेर्व्यवच्छिद्यते ।
यद्यपि संशयजिज्ञासे अप्यविज्ञाततत्त्वे ऽर्थे प्रवर्तेते, तथापि न कारणोपपत्तित इति तयोर्व्यवच्छेद इति ।
तत्त्वं व्याचष्टे—यथेति ।
समानासमानजातीयव्यवच्छिन्नमविपरीतं रूपं तत्त्वमित्यर्थः ।
चोदयति—कुतः पुनरिति ।
न हि सामान्यज्ञानविधायकं पदमत्रास्तीत्यर्थः ।
परिहरति—अविज्ञातेति ।
विशेषनिषेधः शेषाभ्यनुज्ञाहेतुरित्यर्थः ।
विमृशति—अविज्ञाततत्त्व इति समासो ऽयमिति ।
अवधारयति—षष्ठीविग्रहेणेति ।
युक्तम् उपपन्नम् ।
तृतीयाविग्रहेण त्वुनपपन्नमित्यर्थः ।
संशयवाद्याह—विशेषहेत्वभावादिति ।
युक्तमिति प्रतिज्ञामात्रेणोच्यते, न त्वत्र हेतुः अभिधीयत इति भावः ।
युक्तत्वे हेतुमाह—युक्तमर्थग्रहणसामर्थ्यादिति ।
अन्यश्चोदयति—अर्थग्रहणमन्तरेणापीति ।
ज्ञेयेन हि ज्ञानं निरूप्यते न ज्ञात्रा, तस्य साधारण्यादिति सामर्थ्यमित्यर्थः ।
निगूढाभिसन्धिः परिहरति—एवमपीति ।
तस्याभिसन्धिभेदमुररीकृत्य चोदयति—मा भूत् समास इति ।
उत्तरवाद्याह—भवत्येवमिति ।
नाद्यापि अनेन स्वाभिप्रायो दर्शित इति मत्त्वा पुनश्चोदयति—अनुक्ते ऽपीति ।
उक्तपरिहारपूर्वं स्वाभिप्रायमुद्घाटयति—अत्रोक्तमिति समस्तानभिधानप्रसङ्गाच्चेति स्वाभिप्रायोद्घाटनम् ।
एतदुक्तं भवति, सामर्थ्यप्राप्तस्यानभिधाने ऽतिप्रसङ्ग इति न सामर्थ्यमाश्रित्य लक्षणे संशयो निराकरणीय इति तन्निराकरणार्थमर्थग्रहणं कर्तव्यमिति ॥
अत्र चोदयति—अविज्ञाततत्व इति न वक्तव्यमिति ।
न हि तत्त्वे ज्ञाते तत्त्वज्ञानार्थिता भवति ।
तस्माद् गम्यते अविज्ञाततत्त्व इति भावः ।
गुढाभिसन्धिरुक्तं परिहारं स्मारयति—अत्र तावदुक्तमिति ।
अविदिताभिप्रायश्चोदक आह—मा भूदिति ।
अस्तूहस्तर्क इत्येतावदेवेत्यर्थः ।
उत्तरवादी स्वाभिप्रायमुद्घाटयति-न बुद्धिर्धेति ।
यद्यपि नास्माकं राद्धान्ते शुश्रूषादयो बुद्धिधर्मा बुद्धितत्त्वस्यैवाभावात्, तथाप्यात्मगुणा अपि साङ्ख्याभिप्रायेण बुद्धिगुणा उक्ताः ।
एतदुक्तं भवति, यद्यूहस्तर्क इत्येतावदुच्येत, यदि वा तत्त्वज्ञानार्थमूहस्तर्क इत्येतावन्मात्रम्, ततो विज्ञाते ऽपि तत्त्वे य ऊहः पूर्वानुभूतपरिच्छेदात्मा जायते पुनस्तत्त्वज्ञानार्थं सो ऽपि तर्कः स्यात् ।
तस्मात् अविज्ञाततत्त्व इति वक्तव्यमित्यर्थः ।
यद्यपि कारणोपपत्तित इत्येतस्मादयमर्थो ऽपि गम्यत एव, तथापि कारणोपपत्तेरेवैवंरूपत्वं नाविज्ञाततत्त्वग्रहणमन्तरेण भवति ।
तथा हि अधिगतपरिच्छेदात्माप्यूहः कारणस्योपपत्त्या सम्भवेन जायते, कारणसम्भवे कार्यस्य अभावात् ।
न त्वसावविज्ञाततत्त्व इति ततो व्यवच्छेदः ।
तथा च सति प्रमाणमपि तर्कः स्यात् ।
अत उक्तं कारणोपपत्तित इति ।
उक्ते सति प्रयोजनानुसरणम्, न त्विह लाघवादरः सूत्रकारस्येति मन्तव्यम् ॥
चोदयति—षष्ठ्यभिधानमिति ।
परिहरति—न विभक्तिव्यत्ययादिति ।
यथान्यत्र कणभुजः सूत्रे ।
विप्रतिपन्नः पृच्छति—कस्मात्? प्रष्टैवैकग्रन्थेनाह—यदि व्यत्ययेनेति ।
परिहरति—न न युक्त इति ।
सामान्येनाधिगतस्य विशेषेण ज्ञापनार्थम् ।
नित्यत्वादयो विशेषाः समवायिनो वह्न्यादयश्च धूमादिसंयोगिन इति ।
शेषं सुगमम् ॥
देशयति—ऊहः संशयनिर्णयाभ्यामिति ।
केचित् सिद्धान्तैकदेशिनः अनुमानं तर्क इत्याहुः ।
अन्ये त्वनुमानमेव युक्त्यपेक्षं विपर्यये ऽनिष्टप्रसङ्गापेक्षं तर्क इति वर्णयन्ति ।
तत्र प्रथमं चोदकं प्रत्याह—यत् तावदिति ।
आक्षिप्त आक्षिप्तहृदयः, न तु तर्कप्रत्ययस्वरूपं चेतयत इत्यर्थः ।
विशेषदर्शनादिति विशेषदर्शनात् निश्चयः प्रमाणेन भवति न तर्केण, तदनुज्ञानमात्रत्वात् तर्कस्येत्यर्थः ।
चोदकं निराकृत्य सिद्धान्तैकदेशिनं निराकरोति—एतेनेति ।
यदि संशयात् प्रच्युतो निर्णयं चाप्राप्तः, तर्हि तस्य स्वरूपं वक्तव्यमिति पृच्छति—किं पुनरिति ।
उत्तरम्—भवेदिति, प्रमाणविषयाभ्यनुज्ञेत्यर्थः ।
द्वितीयमेकदेशिनं निराकरोति—यैरपीति ।
युक्तिरिह प्रमाणोपपत्तिः ।
तज्जन्मा च प्रत्ययस्तर्क एव ।
स चानुमानमिति त्वयोच्यते ।
अस्माभिस्तु तर्क इति सञ्ज्ञाभेदमात्रमित्यर्थः ।
शङ्कते—अथेति ।
निराकरोति—अनुमानमिति ।
प्रसङ्गोपपत्त्यतिरिक्ताया युक्तेरनिरूपणाद् अपेक्षार्थो वक्तव्यः ।
न ह्यपेक्षणीयमन्तरेणापेक्षा शक्या निरूपयितुमिति भावः ।
ननु यदेव किश्चित् स्वविषयाधिगमे अनुमानमपेक्षते सैवापेक्षणीया युक्तिरनुमानस्य भविष्यतीत्यत आह—स्वविषयधिगमे चेति ॥
शङ्कते—अथेति ।
निराकरोति—एवमपीति ।
यद्युत्पत्तौ प्रत्यक्षागमापेक्षम् अनुमानम्, न वक्तव्यं युक्त्यपेक्षमिति, सर्वस्यानुमानस्य तथाभावेनाव्यभिचारेण विशेषणायोगादिति भावः ।
पुनः शङ्कते—अथानुमानस्येति ।
निराकरोति—तत्रापीति ।
एवमपि तर्को नार्थान्तरं स्थात् ।
अनुमानभेदस्य चेदृशस्य प्रमाण एवान्तर्भाव इति भावः ।
उक्तमर्थ प्रमाणयति—भवेदिति ।
भवेदितिप्रत्ययो ऽवधारणप्रत्ययश्चेत्यर्थः ।
चोदयति—अनुमानमिति ।
विपर्ययो ऽनिष्टप्रसङ्गो व्यतिरेकि लिङ्गम् ।
तच्चागृहीतसम्बन्धे लिङ्गिति न प्रवर्तत इति लिङ्गलिङ्गिसम्बन्धस्मृत्यपेक्षत्वादप्राणादिमत्त्वप्रसङ्गादितिवदनुमानमेवेत्यर्थः ।
परिहरति न तर्केति ।
युक्तं व्यतिरेकिणि जीवच्छरीरे धर्मिणि प्राणादिमत्त्वस्य साधनधर्मस्य दर्शनात्, न तु यद्युत्पत्तिमान् आत्मा अभविष्यत्, न संसारापवर्गावुपपत्स्येतामित्यत्रात्मनि धर्मिणि साधनधर्म उत्पत्तिरस्ति यद्दर्शनतः संस्कारोद्बोधे सति लिङ्गलिङ्गिसम्बन्धस्मृतिर्भवेदित्यर्थः ।
न केवलं प्रसङ्गसाधनं साध्यधर्मिण्यसिद्धम्, अपि त्वन्यगतमेव प्रसङ्गहेतुः ।
न त्वनुमानमन्यगताद् धर्मात् प्रवर्तते, तस्मादनुमानादस्य स्फुटो भेद इत्याह—अनुमानं चेति ।
भाष्यव्याख्यानं सो ऽयमिति ॥४० ॥
न्य्स्_१,१।४१: विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारण निर्णयः ॥
नैतन्निर्णयमात्रस्य लक्षणम्, अपि तु परीक्षाप्रयोजनस्य ।
स च निर्णयभेदो विमर्शानन्तरोत्पन्नतर्कसहायप्रमाणनिबन्धनस्तर्कविषय एवेति निर्णयभेदलक्षणमिति नाव्यापकं तत्र तल्लक्षणमिति दर्शयितुं भाष्यकारो निर्णयलक्षणमवतारयति—एतस्मिश्च तर्कविषये ॥
विमृ—यः ॥४२॥ अत्र पक्षप्रतिपक्षयोः कर्मतया न निर्णयसाधनत्वमित्यनुपपत्त्या साधनोपालम्भौ वादसूत्रगतौ लक्षणीयविति तावेव तावद् भाष्यकृद् विभजते—स्थापना साधनम्, प्रतिषेधः साधनस्य उपालम्भः ।
लक्षणानिबन्धनं सम्बन्धमाह—तौ साधनोपालम्भाविति ।
यद्यप्युपालम्भो न प्रतिपक्षाश्रितः, तथापि तदुद्देशेन प्रवृत्तस्तदाश्रित इत्युच्यते ।
मुख्यपदोपादानोल्लङ्घनेन लाक्षणिकपदोपादानलभ्यं प्रयोजनमाह—व्यतिषक्ताविति ।
अर्थग्रहणसामर्थ्यलभ्यमेकतरनिर्णयावसानत्वम् आह—अनुबन्धेन प्रवर्तमानाविति ।
एतच्च वार्त्तिके स्फुटीभविष्यति ।
तमेव साधनोपालम्भयोः परस्परानुबन्धं दर्शयति—तयोरन्यतरस्येति ।
यस्य साधनस्य वा उपालम्भस्य वावस्थानम्, तस्य साधनस्य वा उपालम्भस्य वा यो ऽर्थः पक्षः प्रतिपक्षो वा तस्यावधारणमित्यर्थः ॥
अत्र पक्षप्रतिपक्षप्रयोगाद् वादे संशयो ऽस्तीति वादभ्रान्त्या चोदयति—नेदमिति ।
एक इति वादी ।
प्रतिज्ञातमर्थं हेतुतः स्थापयति ।
द्वितीयस्य प्रतिवादिनः प्रतिषिद्धं प्रतिषेधं वाद्युक्तस्य हेतोर्दूषणमिति यावत् ।
उद्धरति दूषणाभासीकरोति ।
द्वितीयेन तु प्रतिवादिना वाद्युक्तस्य हेतोः स्थापनाहेतुत्वं प्रतिषिध्यते ।
तस्यैव वादिनः प्रतिवाद्युक्तदूषणप्रतिषेधहेतुश्च प्रतिवादिनैवोद्ध्रियते ।
स वादिनो वा प्रतिवादिनो वा हेतुर्वोपालम्भो वा निवर्तते ।
तस्मिन् निवृत्ते यो ऽवतिष्ठते एकः, तेनार्थनिर्णयः, न द्वाभ्याम् ।
तस्मादयुक्तं पक्षप्रतिपक्षाभ्यामिति ।
न तावत् संशयविषये निर्णये वादिप्रतिवादिनौ स्तः, तयोर्निश्चितयोरेव प्रवृत्तेः ॥
अभ्युपेत्य तु परिहरति—उभाभ्यामिति ।
वादिनः साधनस्य सम्भवः प्रतिवादिन उपालम्भस्य असम्भवः ।
एवं प्रतिवादिनः साधनस्य सम्भवो वादिन उपालम्भस्यासम्भव इति ।
विमृश्येति विमर्श कृत्वेति ।
अनुपादेयो ऽपि विमर्शः कार्यत्वात् कृतिव्याप्य उक्तः ।
विमृश्येतिपदोपादानस्य प्रयोजनमाह—सो ऽयमिति ।
अवद्योत्य नियमेन विषययीकृत्येत्यर्थः ।
एकधर्मिस्थयोरित्यस्य व्यतिरेकमाह—यथा क्रियावदिति ।
विरुद्धयोरित्यस्य कालभेदेन व्यतिरेकमाह—एकधर्मिस्थयोश्चेति ।
न निर्णयमात्रस्येदं लक्षणमपि तु परीक्षाविषयस्येत्याह—न चायं निर्णय इति ।
अर्थावधारणं निर्णय इत्येतावन्मात्रं लक्षणमिन्द्रियार्थसन्निकर्षोत्पन्नप्रत्यक्षे भवतीति योजना ।
हृदि व्यवस्थितमभ्युपगममुद्घाटयति—शास्त्रे वादे चेति ।
न हि ज्योतिष्टोमादीनां स्वर्गादिसम्बन्धनिर्णये आगमेन कर्तव्ये विमर्शो ऽस्ति, नापि वादजल्पवितण्डासु विमर्शः, निश्चितयोरेव वादिप्रतिवादिनोस्तत्र प्रवृत्तेरित्यर्थः ॥
वार्त्तिकम्—सम्बन्धो ऽर्थश्च पूर्ववत् ।
सम्बन्ध उद्देशक्रमेण तर्कानन्तर्यलक्षणः ।
अर्थश्च प्रयोजनम् ।
समानासमानजातीयव्यवृत्तिरित्यर्थः ।
शेषं भाष्यव्याख्यानेन गतम् ।
ननु भवतु पक्षशब्दलक्षितस्य साधनस्य निर्णयं प्रति करणत्वम्, प्रतिपक्षलक्षितस्य तु तद्दूषणस्य न साक्षात्साधकत्वमित्यत आह—प्रतिपक्षाच्चेति हेतुत्वं पारम्पर्येणेत्यर्थः ।
पक्षप्रतिपक्षाभ्यामिति ।
साधनदूषणाभ्यामित्यर्थः ॥
लक्षणमाचिक्षिप्सुर्विकल्पयति—क्व पुनरयमिति ।
अत्र पक्षप्रतिपक्षाभ्यामेवेति प्रथमः कल्पः, तदा हि यत एवकारः ततो ऽन्यत्रावधारणमिति निर्णये नियमो भवेत् ।
निर्णय एवेति द्वितीयः कल्पः, तदा हि पक्षप्रतिपक्षाभ्यामित्यत्र नियमः ।
विमृश्यैवेति च तृतीयः, तदापि निर्णये नियमः ।
तत्र प्रथमं कल्पमाक्षिपति—यदि विमृश्येति ।
तस्मिन् विकल्पे निर्णयः पक्षप्रतिपक्षविमर्शातिलङ्घनेनान्यत्र न प्रवर्तत इति प्रत्यक्षं प्रमाणं निर्णयफलं न स्यात् ।
न हि तत्र पक्षप्रतिपक्षौ, नापि विमर्श इति प्रत्यक्षलक्षणं बाध्यते इत्यर्थः ।
तृतीयकल्पमाक्षिपति—एतेनेति ।
व्याघातेनेत्यर्थः ।
द्वितीये कल्पे दूषणमाह—अथ पक्षेति ।
तदा निर्णयस्यानियमात् पक्षप्रतिपक्षौ च तदभावश्चेति तदुभयम्, तदाश्रयः निर्णयः प्राप्तोति ।
तथा चाव्यापकं लक्षणम् इत्यर्थः ।
प्रथमं कल्पमालम्ब्य समाधत्ते—तर्कविषय इति ।
न निर्णयमात्रस्येदं लक्षणम्, अपि तु निर्णयविशेषस्येत्यर्थः ।
न निर्णय इति न निर्णयमात्र इत्यर्थः ।
अथ निर्णयस्य किमिति निर्णयमात्रस्येत्यर्थः ।
एकशश्च प्रमाणैरिति प्रत्यक्षादिभिः ।
संहत्य च प्रमाणैरिति साधनदूषणसमाधानैरित्यर्थः ।
पक्षप्रतिपक्षाभ्यामेव वादे निर्णयो न तु विमर्शः ।
शास्त्रे तु निर्णय एव न तु तत्र शास्त्रातिरिक्तं साधनान्तरमाश्रीयत इत्यर्थः ॥
पक्षप्रतिपक्षाभ्यामिति ।
लक्षणायां हि येन यत् लक्ष्यते तदवच्छेदकतया तदपि बुद्धौ सन्निधीयते ।
ततश्च तेन नियमो भवति लक्ष्यमाणस्य, यथा गङ्गायां धोष इति ।
गङ्गासम्बन्ध्येव तीरं घोषेणान्वीयते, न त्वकूपारतीरमपीति ।
चोदयति—अर्थेति ।
परिहरति—न नेति ।
अर्थग्रहणे क्रियमाणे काल्पनिकत्वं प्रतिषिध्यते, न चाकल्पितं विरुद्धधर्मवदित्येकतरनिर्णयः ।
नेदं पक्षप्रतिपक्षाभ्यामित्यादि चोद्यभाष्यं व्याचष्टेपक्षप्रतिपक्षाभ्यामिति ।
उभाभ्यामित्यादि परिहारभाष्यं व्याचष्टे—उभाभ्यामेवेत्याहेति ।
पृच्छति–एतस्मिन्निति, प्रथमं साधनम्, द्वितीयं दूषणम्, तृतीयं समाधानम् ।
उत्तरम्—सर्वत्र ।
कदाचित् प्रथमे कदाचिद् द्वितीये कदाचित् तृतीये इत्यर्थः ।
अवश्यं तु तृतीय इत्याह—अथ वेति ।
उभयत्र कल्पे प्रश्नः—कथमिति ।
उत्तरम्—एकस्तावदिति ।
तं निवर्त्यं वादिनः साधनं दूषणेन निवर्त्य प्रतिवादी स्वपक्षे साधनं ब्रवीति ।
प्रथम इति वादी ॥
निर्णयो ऽनुमानमेवेति केचित् ।
तथा हि तृतीयलिङ्गदर्शनं प्रत्यक्षफलं निर्णयः ।
तदेव चानुमानमतो निर्णयो नानुमानादतिरिच्यते इत्यर्थः ।
परिहरति—न लिङ्गलिङ्गिति ।
यदि निर्णयमात्रमनुमानमुच्येत, तदा न तस्य सर्वस्य लिङ्गलिङ्गिसम्बन्धस्मृत्यपेक्षत्वमिति ।
यदि तु लिङ्गपरामर्शो निर्णयः, तस्य चास्ति लिङ्गलिङ्गिसम्बन्धापेक्षेति तत्राह–प्रमाणफलत्वात् ।
सामान्यव्याप्तो विशेषः सामान्यनिवृत्त्या निवर्तते, शिंशपात्वमिव वृक्षत्वनिवृत्त्या ।
न च फले प्रमितिरूपे निर्णये प्रमाकरणत्वं फलत्वे नास्तीति नानुमानत्वं तद्विशेष
इत्यर्थः ।
इतश्चानुमानात् निर्णयो भिद्यते इत्याह–निर्णयः स्वविषय एवेति न हि निर्णयो निर्णयत्वेन प्रतिपत्त्यनुबन्धिभूताद् विषयादन्यत्र, अनुमानं तु तत्र चान्यत्र च ।
यदानुमेयो ऽग्निरेव हेयत्वादिभिः परिच्छिद्यते ऽग्निज्ञानेनानुमानेन, यदा तु धूमज्ञानेनाग्निरनुमीयते तदान्यत्र चेति गमयितव्यम् ।
शेषमतिरोहितम्॥४१ ॥
॥ इति वाचस्पतिमिश्रविरचितायां न्यायवार्त्तिकतात्पर्यटीकायां प्रथमाध्यायस्य प्रथमाह्निकम् ॥
न्य्स्_१,२।१: प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः ॥
नितान्तदक्षिणश्लक्ष्णधियो गृह्णन्त्वमत्सराः ।
वाचस्पतिगिरामर्थतत्त्वानि विबुधा इव ॥
उद्देशक्रमप्राप्तं वादलक्षणपरं सूत्रम् अवतारयितुं भाष्यम्—तिस्रः कथा भवन्तीति ।
तदयुक्तम्, बृहत्कथादीनां तिसृषु कथासु अनन्तर्थावात् ।
न च सामान्यलक्षणाभिधानमन्तरेण विशेषलक्षणावसरो ऽस्ति, वादादयश्च कथाविशेषा इत्यत आह वार्त्तिककारः—तिस्रः कथा भवन्तीति ।
नायं कथामात्रनियमो येन बृहत्कथादीनाम्
अकथात्वं स्यात्, अपि तु यन्नानाप्रवक्तृके विचारे वसति तद् विचारवस्तु ।
विचारविषया वाक्यसन्दृब्धिः कथेति यावत् ।
तस्याः कथाया एष नियमः तिस्र एवेति ।
तथा च नानाप्रवक्तृकविचारविषया वाक्यसन्दृब्धिः कथेति सामान्यलक्षणं पक्षप्रतिपक्षपरिग्रह
इति सूत्रावयवेन सूचितमित्येतदप्यर्थादुक्तं भवतीति द्रष्टव्यम् ।
यद् वस्तु विचार्यते इत्यर्थाभिधानमात्रम्, न तु विचारवस्त्वित्यस्य विवरणम् ।
वादादिष्वधिकारिणः पुरुषानाह—तत्र गुर्वादिभिरिति ।
वादलक्षणस्यानन्तर्ये हेतुमाह—तत्र यथोद्देशमिति ॥
सूत्रमिति ।
सामान्यलक्षणमप्यनेन सूच्यत इत्युक्तं भवति ।
एकाधिकरणस्थसवित्यादि भाष्यं प्रश्नपूर्वकं व्याचष्टे—काविति ।
वस्तुधर्माविति विभजते—वस्तुधर्मावितीति ।
धर्मशब्दो विशेषे ।
तदनवसायाद् वस्तुनः सामान्यतो ऽवसाय उक्तो भवति ।
तदिदमाह—वस्तुनः सामान्येनेति ।
अविरुद्धावप्येवं न विचारं प्रयोजयत इत्यर्थः ।
प्रमाणतर्कसाधनोलम्भपदस्य तात्पर्यमाह—अस्येति ।
अनेन तस्य विशेषणम्
इत्यादि भाष्यं व्याख्यातम् ।
यद्यपि वितण्डायामपि पक्षप्रतिपक्षपरिग्रहो ऽस्ति, तथापि प्रतिपक्षसाधनं नास्ति तस्याः स्थापनाहीनत्वात् ।
यद्यपि च जल्पे ऽपि पक्षप्रतिपक्षसाधनमस्ति, तथापि न प्रमाणमूलैरवयवैस्तर्केण च साधनोपालम्भाविति जल्पवितण्डभ्यां प्रमाणतर्कसाधनोपालम्भग्रहणेन व्यवच्छेदः ।
यथा चैतत् तथोपरिष्टादुपपादयिष्यते ॥
आक्षिपति—कथं पुनस्तर्केणेति ।
समाधत्ते—न ब्रूम इति ।
तर्कस्येतिकर्त्तव्यतारूपस्य प्रमाणानुग्राहकतया प्रमाणमूला अवयवास्तर्कमूला अपि भवन्ति ।
तथा च तर्कस्यापि साधनोपालम्भहेतुभावः सिद्धो भवतीत्यर्थः ।
विकल्प्याक्षिपति—साधनम्
उपालम्भश्चास्मिन्निति ।
परं प्रति हि सिद्धयुपालब्धी विवक्षिते ।
न च ते प्रमाणतर्काभ्याम्, तयोः स्वप्रतिपत्तिहेतुत्वात् ।
अवयवार्थस्य अवयवशब्दार्थस्येत्यर्थः ।
उभयथाभिमतत्वे ऽपि
करणसाधनपक्षं कक्षीकृत्य तावत् समाधत्ते—न, अन्यार्थत्वादिति ।
अन्यप्रयोजनत्वादित्यर्थः ।
यदा तु भावसाधनौ तदा पृच्छति—अथैताविति ।
विप्रतिपन्नस्य प्रश्नः ।
न प्रतिपक्षविषय उपालम्भो नापि तत्साधनविषयः, तयोर्वस्तुनोः स्वकारणादुत्पन्नयोः सदा तद्रूपत्वेन पुरुषधर्मोपालम्भानास्पदत्वादित्याक्षेपार्थः ।
समाधत्ते—एवमेतदिति ।
धर्मी धर्मविशिष्टः पक्षः प्रतिपक्षो वा कर्म, तस्य विषयः ।
तस्य धर्मिणो वास्तवं तादृशत्वमतादृशत्वं वा करणस्य तु कर्मैव विषयः ।
तत्र च कर्मकरणे समर्थे एव, नासमर्थे ।
अन्यविषये तु पुरुषस्ते नियु।जानो ऽसमर्थीकरोतीति ।
सो ऽयं पुरुषस्यापराधो न कर्मकरणयोः ।
यथा आकाशे निशातमसिं व्यापारयतः पुरुषस्यापराधो नाकाशस्य शब्दे समर्थस्य, असेर्वा निशातस्य दारुणि समर्थस्य ।
तस्मादौपचारिकः साधनस्योपालम्भो न मुख्यः ।
मुख्यस्तु पुरुषस्यैव ।
वचनद्वारेण तूद्भाव्यते पुरुषस्येति ।
वचन उपचर्यते न तु पक्षे पक्षद्वारेणानुद्भावनादिति सिद्धम् ।
यथायमर्थः सूत्रपदेभ्यो लभ्यते तथा प्रश्नपूर्वकं दर्शयति—कथं पुनरिति ॥
यदुक्तं प्रमाणतर्कसाधनोपालम्भग्रहणं वादस्य जल्पवितण्डाभ्यां विशेषणार्थमिति,
तत्र प्रकारं पृच्छति—अथेति ।
प्रष्टैवाह–नन्विदमपीति ।
उत्तरम्—न समानमिति ।
नियममाह–प्रमाणतर्कसाधनोपालम्भ
एव वादः ।
एवकारेण
छलादिसाधनोपालम्भत्वं वादस्य व्यवच्छिद्यते, तथा च जल्पवितण्डाभ्यां व्यवच्छेदः ।
एतदुक्तं भवति, तर्कानुगृहीतप्रमाणमूला अवयवाः परमार्थतो भवन्तु मा भूवन्,
वादिप्रतिवादिनोस्त्वभिप्रायो भवतु प्रमाणमूला अवयवा इति ।
एतावतैव प्रमाणतर्कसाधनोपालम्भता वादस्य वीतरागकथात्वेन तत्त्वनिर्णयावसानत्वात् ।
जल्पवितण्डयोस्त्वप्रमाणमूलत्वं विदुषापि प्रतिवादिना छलादिभिः प्रत्यवस्थेयम्, एकान्तपराजयाद्
वरं संशयो ऽस्त्वितीच्छता विजिगीषुणा ।
यथा चास्य शास्त्रे व्युत्पादनं नासदृशं यथा चैष सतामाचारः, तथा जल्पलक्षणे वक्ष्यामः ॥
जल्पे निग्रहत्थानविनियोगाद्
इत्यादि भाष्यम् ।
तदनुपपन्नम् ।
उपालम्भग्रहणादेव वादे ऽपि निग्रहस्थानस्य लब्धत्वादित्यत आह वार्त्तिककारः—छलजातीति ।
असत्युपालम्भग्रहण
इत्यभिप्रायः ।
चोदयति—समस्तेति ।
यद्युपालम्भग्रहणस्य निग्रहस्थानविधानं प्रयोजनम्, हन्त भो न जल्पाद् वादस्य विशेषः, कृतं चोत्तराभ्यां पदाभ्यामित्यर्थः ।
परिहरति—नोत्तरयोरिति ।
नियमः परिसङ्ख्या ।
तदनेन कस्यचिदभ्यनुज्ञानार्थमिति भाष्यं
व्याख्यातम् ।
सिद्धान्ताविरुद्ध
इत्यत्र भाष्यव्याख्यानमुपन्यस्य दूषयति—सिद्धान्ताविरुद्ध
इत्यनेन किलेति ।
भाष्यमते दूषिते पृष्ट्वा स्वमतेन व्याचष्टे—अथ किमिदं पदमिति ।
पृच्छति—कस्मात् पुनरिति ।
उत्तरम्—गुर्वादिभिरिति ।
न खल्वप्रतिभाद्युद्भावना तत्वप्रतिपत्तावप—युज्यते,
अधिकं तु न यद्यपि तत्त्वप्रतिपत्तिं साक्षाद्
व्याहन्ति, तथापि तत्प्रयोजनानुसरणे परः प्रतिपत्ता समाकुलितबुद्धिर्न तत्त्वं प्रतिपत्तुमर्हतीत्यधिकस्यापि तत्त्वप्रतिपत्तिविधातहेतुत्वमिति ।
तत्त्वबुभुत्सुरिति जिगीषुतां निराकरोति, न हि गुर्वादिषु जिगीषासम्भवः, त्रिविधं फलमिति ।
अनधिगततत्त्वावबोधः संशयनिवृत्तिरध्यवसिताभ्यनुज्ञानमिति फलानि त्रीणि ।
प्रतिद्वन्द्विनि तु न वादः, अपि तु जल्पवितण्डे ।
चोदयति—प्रमाणतर्केति ।
पारमार्थिकात् तर्कसहितात् प्रमाणादेकस्मिन् विषये साधनोपालम्भयोः सम्भवे विरुद्धधर्मसमालिङ्गितमेकदा वस्तु प्रसज्यत
इत्यर्थः ।
परिहरति—नैष दोष इति ।
वादे ऽभिप्रायो नियम्यते वादिप्रतिवादिनोः प्रामाणिकधिया साधनोपालम्भौ ताभ्यां प्रयोक्तव्यौ, नाप्रामाणिकधिया जल्पवितण्डयोरिव ।
न पुनर्वस्तु नियम्यत
इति ।
तथा च वादे अबुद्धिपूर्वं छलादिप्रयोगे तदुद्भावनमपि सम्भवति, तावदेवचोद्भाव्यं यावत्यनुद्भाविते तत्त्वप्रतिपत्तिव्याघातः,
यस्मिस्त्वनुद्भाविते ऽपि न तत्त्वप्रतिपत्तेर्व्याघातः,
तत्प्रयुक्तमपि नोद्भावनीयम् ।
एतच्च पञ्चमे ऽध्याये निपुणतरमुपपादयिष्यते ॥
साधनोक्तं प्रकारं दूषणे ऽप्यतिदिशति—दूषणमप्येवम् ।
पूर्वस्मिन् प्रयोजने स्थिते भाष्यकारः प्रयोजनान्तरमन्वाचिनोति—अवयवेष्विति ।
न हि पञ्चावयवोपपन्नत्वं प्रमाणं च तदनुग्राहकं च तर्कमन्तरेण भवतीति पञ्चावयवोपपन्नत्वादेव प्रमाणतर्कप्रतिलम्भे साधनोपालम्भयोर्व्यतिषङ्गज्ञापनायावश्यं साधनोपालम्भग्रहणं तावत् कर्तव्यम्,
अन्यथैकः स्वस्थानस्थित एव शब्दस्यानित्यत्वं प्रति पञ्चावयवोपपन्नं वाक्यं प्रयुङ्क्ते,
अपरो ऽपि तादृशः शब्दनित्यता प्रति तादृशमेव वाक्यं प्रयुङ्क्ते इति सो ऽपि वादः प्रसज्येत ।
साधनोपालम्भविशेषणाय च प्रमाणतर्कग्रहणं कृतमिति भावः ।
प्रयोजनान्तरम्
अन्वाचिनोति—अन्तरेणापि चेति वादः पञ्चावयवोपपन्न
इत्येकः कल्पः ।
प्रमाणतर्कसाधनोपालम्भ
इति च द्वितीय इत्यर्थः ।
प्रयोजनान्तरमन्वाचिनोति—छलजातीति ।
विनिग्रहो जल्पो मा विज्ञायि ।
वादगतनिग्रहस्थानरहितो मा विज्ञायित्यर्थः ।
तद्विज्ञाने कीदृशो ऽर्थो भवतीत्यत आह—छलजातिनिगहस्थानेति ।
वादगतो निग्रहो न जल्पे, जल्पगतश्च निग्रहो न वाद इति स मा विज्ञायति ।
इष्यते हि वादगतो ऽपि निग्रहो जल्पे ।
सो ऽयमिष्टो ऽर्थो ग्रन्थाधिक्यात् प्रमाणतर्कग्रहणात् लभ्यत
इत्यर्थः ॥
तदेवं स्वाभिमतं वादलक्षणं व्याख्याय वासुबन्धवं लक्षण दूषयितुमुपन्यस्यति—अपरे त्विति स्वपक्षस्य सिद्धिः परपक्षस्य चासिद्धिः,
तदर्थं वचनं वाद इत्यर्थः ।
दूषयति—अत्र चेति ।
प्रथमं हेतुं विभजते—एताविति ।
पूर्वः पक्षो ऽयुक्तः, पक्ष उत्तरस्तु युक्त इत्यर्थः ।
एकस्य वा शब्दस्य धर्मिनो ऽनेकनित्यानित्यविशेषणाभिसम्बन्धिनः पुरुषाभिसन्धिभेदात् अनेकशब्दाभिधानम्,
स्वपरशब्दाभिधानमित्यर्थः ।
एतदेव चिन्त्यते किं तत्स्वीकरणमिति ।
न
तावद् भूमिधनादिष्विव स्वोचितासु अर्थक्रियासु यथेष्टविनियोगयोग्यत्वं स्वत्वमर्जनापादितमनित्यत्वादिना प्रतिज्ञाते शब्दादौ सम्भवतीत्यर्थः ।
चोदयति—ममेति प्रत्ययोत्पत्तिकारणत्त्वं स्वत्वम्, अकारणत्वम्
अस्वत्वमिति ।
दूषयति—निर्दिष्ट इति ।
यथेष्टविनियोगयोग्यत्वमेव ममेति प्रत्ययकारणत्वम्, नान्यत् ।
न चैतन्नित्यत्वादिना प्रतिज्ञाते शब्दे ऽस्ति शास्त्रकारस्येत्यर्थः ।
अपि चोपकारकत्वेन व्याप्तं सत्वं गोघटादिषु तथा दर्शनात्, पक्षात् निवर्तमानमुपकारकत्वं स्वत्वमपि स्वव्पाप्यं निवर्तयति वृक्षत्वमिव शिंशपात्वमित्याह—यच्च यस्येति ।
द्वितीयं कल्पम् आशङ्कते–साधनीयेति ।
निराकरोति—अहो शब्दार्थेति ।
विशेष्यपदात् अनतिरिक्तार्थं विशेषणपदमित्यर्थः ।
अपि चेदं विशेषणपदं विशेष्यं सामान्यतः प्रसृतं विशेषे ऽवस्थापयति न वा? अवस्थापयतीति चेत्? न साधनीयमात्रार्थता स्वपक्षशब्दस्य, न चेद् विशेषणं व्यर्थमित्याह—व्यवच्छेदार्थं चेदमिति ।
ननु च विशेष्यशब्दो विशेषणयोगात्
विशेषे वर्तमानो ऽपि सामान्यशब्द एव,
ततश्च शक्नोति समानमर्थं वक्तुमिति चोदयति—सामान्यशब्दा अपीति ।
परिहरति—न ते सामान्यशब्दा इति ।
अपि च साधनीयः पक्ष इति ।
वरुद्धोपदर्शनेन स्फुटा प्रतीतिर्भवतीति अयुक्तप्रतिपादनार्थं युक्तस्याप्युपन्यास इति ।
यदि न पक्षेण दूषणं सम्बध्यते कस्तर्हि तस्य विषय इति शङ्कते—अथ दूषणस्येति ।
उत्तरम्—कस्यचिदिति ।
उत्तरदोषः
जात्युद्भावनम् ।
आक्षिप्यन्त इत्याक्षेपाः ।
के ते भावाः? अप्रतिभाविक्षेपादयः ।
नैते स्वपरपक्षाभ्यां सम्बध्यन्ते नापि स्थापनयेति ।
चोदयति—सत्यमिति ।
परिहरति—उपयरितेति ।
नर्ते प्रयोजनादिष्टं मुख्यशब्दार्थलङ्घनम्
इति हि गाथा भवतामित्यर्थः ।
अपि चोपचारश्चेत् ।
लक्षणे ततो वरमेवं क्रियतां लक्षणं लाघवायेत्याह—यदि चेति ।
शङ्कते—अथेति ।
निराकरोति—स्वरूपत
इति ।
मुख्यत इत्यर्थः ।
चोदयति—स्थापनयापीति ।
परिहरति—न दोषेति ।
ननु न दूषणमात्रं सम्बध्यते, असिद्ध्यर्थमिति च दूषणमात्राभिधानम्,
तत् कुतो विशेषप्रतिलम्भ इत्यत आह—सामान्याभिधाने ऽपीति ।
तृतीयं कल्पं दूषयितुमुपन्यस्यति—स्वपरशब्दाविति ।
एतदपि ।
सूत्रान्तरविरोधेन दूषयति—न युक्त मेतदपीति ।
ते साधनदूषणैः स्वपरशब्दाः सम्बध्यन्ते
इति सूत्रे हि नियमेव स्वपक्षे साधनं परपक्षे दूषणमुक्तम्, तथा चोत्तरपक्षे दूषणीय
एवेति उत्तरपक्षवादिनापि दूषणीयः ।
एवं पूर्वपक्षो ऽति साधनीय एवेति, उत्तरपक्षवादिनो ऽपि साधनीयो न दूषणीयः स्यादित्यर्थः ।
अपि चायुक्तस्य पूर्वपक्षस्य साधणं युक्तस्य चोत्तरपक्षस्य दूषणमिति विपरीतप्रसङ्ग
इत्याह—स्वपक्षश्चोत्तरपक्षवादिनः पूर्वपक्षात्
अयुक्तपक्षात् अन्यः युक्त इत्यर्थः ।
न पदार्थः
नावयवार्थः ।
एतेन सूत्रान्तरनियमाभिधानव्याघातेनेत्यर्थः ।
व्याख्याता निराकार्यत्वेन ।
षष्ठं कल्पं दूषयितुमुपन्यस्यति—एक एवायमिति ।
दूषयति—युक्तमेतत् एकस्यानेकं विशेषणम् ॥
द्वितीयं हेतुमुपन्यस्तं व्याखातुं स्मारयति—समासेति ।
न केवलं विशेष्यात् पृथक् स्वार्थो विशेषणं नावधार्यते, अपि त्वन्यस्मादपि न भिद्यते इत्याशयवानाह—भेदाच्चेति ।
चोदयति—असत्यपि भेद इति ।
न केवलं पत्युर्विशेष्यात् सेना न भिद्यते ऽपि तु ततो ऽन्येभ्यो ऽपि हास्तिकाश्वीयरथपदातिभ्य इति ।
एवं पानकमपि
न केवलं तदङ्गेभ्यो जीरकादिभ्यः, अपि त्वन्येभ्यो ऽपि फलसलिलादिभ्य इति ।
परिहरति—तच्च नेति ।
उक्तं निस्मृत्य शङ्कती—अथ मन्यसे स्वार्थ इति ।
उक्तस्मारणेन निराकरोति—तन्नेति ।
एतेनैव च कर्मधारयबहुव्रीही
अपीत्याह—एतेनेति ।
अपि च स्वः पक्षो यस्य साधयितुः स तथोक्तः ।
तथा च साधयितृविषयं स्मादित्याह—साधयितृविषयं चेति ॥
ननु मा भूद्
यथेष्टविनियोगयोग्यार्थता स्वशब्दस्य,
साधनीयार्थता तु भविष्यति, यथा च समासोपपत्तिरिति चोदयति—ननु चेति ।
षष्ठीसमासपक्षोक्तं दोषं स्मारयति—न सम्भवतीति ।
अपि च पक्षात् स्वपक्षभेदे सूत्रान्तरव्याघातो ऽभेदे वा एतस्य व्याघात
इत्याह—विरोधाच्चेति ॥
अपि च वाक्यसमासयोः समासो ज्यायान् लाघवादित्याह—आस्तां तावदिति ।
न ह्यं समर्थः समास इति ।
सिद्ध्यसिद्ध्यर्थमित्ययं समासः स्वपरपक्षयोः प्रत्येकं न सम्बन्धार्थ इत्यर्थात् कस्यचित् सिद्धिः कस्यचिदसिद्धिरित्यर्थः ।
परिहरति—यद्यसामर्थ्यात् न समासः सिद्ध्यसिद्ध्यर्थमिति ।
समासे ऽपि तर्हिति ।
स्वपक्षपरपक्षसिद्ध्यसिद्ध्ययर्थमिति समासे ऽपीत्यर्थः ॥
एकवचनबहुवचनप्रसङ्गो ऽपि नास्त्यसामर्थ्यादिति चोद्यसमाधानाभ्यां दर्शयति— एकवचनेति ।
अनित्यत्वे ऽपि समासविधेः समास एव विग्रहात् ज्यायानिति चोद्यसमाधानाभ्यां दर्शयति—अनित्य इति ।
भवतु गोरवमेवमपि को दोष इत्यत
आह—अर्थङ्गत्यर्थं चेति ।
लघुनोपायेनाशुसिद्धौ गुर्वभिधानमनर्थकम् ।
यथाहुः,
अक्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् ।
इष्टस्यार्थस्य संसिद्धौ को विद्वान् यत्नमाचरेत् ॥
इति अतर्थकप्रयोगश्चानपेक्षितः शिष्यैरिति तेषामशासनात् न शास्त्रं स्यात्, तदिदम् उक्तम्—शास्त्रत्वेनेति ॥
सिद्ध्यसिद्ध्यर्थमित्येतदपि दूषयति–सिद्ध्यसिद्ध्यर्थमित्येतदपि न युक्तमिति ।
तन्न तावदिति—तदिति तयोर्मध्य इत्यर्थः ।
अधिकारणप्रत्यायनमिति प्राश्निकप्रत्यायनमित्यर्थः ।
कुतो व्याहतमित्यत आह—ये चैते इति ।
चो यस्मादर्थे,
अधिकरणे वर्तते पक्षस्येति व्याहतमित्यर्थः ।
चोदयति—नायमिति ।
सिद्धिर्ज्ञानं तस्य पक्षो विषयः, आश्रयास्तु प्राश्निका इत्यर्थः ।
विकल्प्य दूषयति—न युक्तमेतदिति ।
न तावत् ज्ञानं पक्षविषयं प्राश्निकाधिकरणं चेति बौद्धराद्धान्ते सम्भवति,
ज्ञानस्यानाधारत्वात्
विषयिविषयभावस्य चातात्त्विकत्वात् ।
तस्मादन्या सिद्धिः ।
तत्रेदमुपतिष्ठते—किं तर्हीति ।
सिद्धियोगात् सिद्धः पक्षो भवति ।
प्रमाणयोगस्य सिद्धिः ।
सैवार्थस्य तथाता ।
तस्यास्तु प्राश्निकानां प्रतीतिर्भवति ।
तस्मात् न प्राश्निकप्रतीतिः पक्षस्यासिद्धिरिति विरोधः ।
यस्मात् सो ऽर्थस्तथा भवति तस्मात् तथाभावादधिकरणप्रत्यायनं भवतीति द्वितीयं कल्पमाशङ्कते—अथासिद्ध इति ।
यावत् पक्षविषयं साधनं न प्रयुज्यते तावद्यद्यधिकरणप्रत्यायनं ततः साधनप्रयोगात् प्रागधिकरणप्रत्यायनमस्तीति वादवैयर्थं साधनदूषणप्रयोगो ऽनर्थकः ।
दूषणान्तरमाह—पक्षस्येति ।
न प्रयोजनमन्तरेणेदानीन्तनानामस्मदादीनां मुख्यार्थशब्दस्यातिक्रमो ऽवाचकपदप्रयोगेण लभ्यते इत्यर्थः ।
यथाहुः,
अस्मादायत्ते शब्दप्रयोग किमित्यवायकं प्रयोक्ष्यामहे इति ॥
स्यादेतत् ।
मञ्चस्थाः क्रोशन्तीति वक्तव्ये विनापि प्रयोजनं मञ्चाः क्रोशन्तीत्युपचारो दृष्ट इत्यत
आह—अपि तु प्रमाणासम्भवेनेति ।
प्रमाणासम्भवेनापि त्विति योजना ।
नन्विहापि विनापि प्रयोजनं प्रमाणासम्भवमात्रेणोपचारो मञ्चाः क्रोशन्तीतिवद्भविष्यतीत्यत आद—लोकप्रयुक्तेति लोकप्रयुक्तशब्दार्थवत् ।
उपचारो ऽपि लौकिको न प्रयोजनाभावेन शक्यो ऽपवदितुं न लोकः पर्यनुयोज्यो यतः ।
इदानीन्तनस्तु अस्मदादिप्रयोगः प्रयोजनाभावे न शक्यः पर्यनुयोक्तुमित्याशयेनाह—न चेदं लौकिकमिति ॥
अपरे त्विति ।
न दूषणविषयत्वमसिद्धिर्येन न पक्षेण सम्बध्येत,
अपि त्वज्ञानम् ।
तच्च पक्षविषयमेवेति न मुख्यार्थलङ्घनमित्यर्थः ।
अत्रापि पूर्वोक्तं प्रसङ्गमाह–तद् यदीति ।
तस्मात् पक्षस्येतीच्छता सिद्ध्यसिद्धिज्ञानाज्ञाने पक्षधर्मावेवाभ्युपगन्तव्ये ।
यतः तयोः पक्षधर्मत्वात् एतद्भवति सिद्धः पक्षो ऽसिद्धश्चेति ।
अस्तु तर्ह्येवमित्यत
आह—एवं सतीति ।
नैव द्रष्ट्राधारता ज्ञानस्य विषयता च बौद्धराद्धान्ते सम्भवतीति भावः ।
शङ्कते अथ मा भूदिति ।
अस्ति खल्वालयज्ञानं यदुपाश्रित्य षडपि प्रवृत्तिज्ञानानि जायन्ते ।
तस्मादालयप्रत्ययो द्रष्टा ।
तत्स्थे एव सिद्ध्यसिद्धी ।
न पक्षस्य तद्विषयत्वात् तस्यापीति चेत्, कः पुनरयं विषयभावः?
तत्कारणत्वमिति चेत्? चक्षुरादीनामपि ज्ञानकारणानां विषयत्वप्रसङ्गः ।
असतश्चाकारणस्य
अविषयत्वप्रसङ्गः ।
ज्ञानप्रकाश्यत्वं विषयत्वमिति चेत्—न, ज्ञानेनार्थे प्रकाशाजननात् तस्मात् ज्ञानस्य तदसमवायिनः
तदविषयस्य च द्रष्टृस्थतैवेति सिद्धम् ।
निराकरोति—तथापीति ।
पुनः शङ्कते—अथ तथातथाने इति प्रमाणयोग इत्यर्थः ।
निराकरोति—तथापीति ।
तत्त्वं जिज्ञासुः पृच्छति—के पुनरेते इति ।
सुहृद्भावेनोत्तरमाह—वस्तुधर्माविति ।
यद्यपि प्रमाणयोगायोगौ प्रमेयस्य च प्रमातुश्च,
साधनासम्बन्धे कर्तृत्वानुपपत्तेः, तथापि प्रमेयस्य प्राधान्यात् तत्रैवाभिधानप्रत्ययाविति प्रमेयधर्मावुच्येते व्यक्त्यव्यक्ती, न तु प्रमातृधर्माविति ।
सिद्ध्यसिद्ध्यर्थमिति अर्थशब्दानुपपत्तिः ।
कस्मात्? विकल्पानुपपत्तेः ।
विकल्पमाह—अर्थशब्दः खल्विति ।
इह सूत्रे धननिमित्तादिवचनतार्थशब्दस्य न सम्भवतीति त्रयमवशिष्यत इति त्रेधा प्रवर्तत इत्युक्तम् ।
साधनं साधनाभासो दूषणं दूषणाभास इति चतुर्विधं वाक्यम् ।
प्रथमकल्पमपाकरोति—तन्न तावदिति ।
तदिति तेषु मध्य इत्यर्थः ॥
ग्रन्थान्तरे युक्तायुक्तत्वेन विशेषणात् चतुर्विधवाक्यसङ्ग्रहार्थो ह्युद्देशे अर्थशब्दो व्याख्यातः ।
न च युक्तायुक्तत्वविशेषणे चतुर्विधवाक्यसङ्ग्रहो भवति साधनाभाससम्बन्धिनः पक्षस्य युक्तत्वाभावात् दूषणाभासम्बन्धिनश्च प्रतिपक्षस्यायुक्तत्वाभावादित्यर्थः ।
अथ न साधनादियोगो ऽपि तु साध्यधर्म एव साधनानपेक्षो युक्तायुक्तत्वमिति शङ्कते—अथ पुनरिति ।
निराकरोति—तथापीति ।
कुतो व्याघात
इत्यत आह—न हीति ।
यदि प्रत्यायनं सिद्धिः प्रतीतिः, तथापि सा प्रत्याय्या न सम्भवति ।
अथ करणम्? तथापि कर्म करणं न सम्भवतीति व्याघात इत्यर्थः ।
द्वितीयं कल्पमाशङ्क्य निराकरोति—अथ प्रयोजन इति ।
प्रयोजनं कार्यम् ।
तन्न कारणाभासाद्
भवितुमर्हति ।
न हि वह्निरिति गृहीतः खद्योतो दहति पचति वेत्यर्थः ।
तृतीयं कल्पमाशङ्क्य निराकरोति—अथाभिधेय
इति ।
ग्रन्थकारः सूत्रकारः ।
एवं त्विति ।
एवं सति सिद्धिशब्दो ऽसिद्धिशब्दश्च वादः स्यात् ।
ननु धननिमित्तादयः अप्यर्थशब्दवाच्याः सन्ति,
ते कस्मादिह न गृह्यन्ते इत्यत
आह—तत्र सूत्रे ।
न चान्यो ऽर्थशब्दस्य विषयः सम्भवति, न हि सिद्धिर्धनं वा स्वपरपक्षयोः साधनं वा निवृत्तिर्वा सम्भवतीत्यर्थः ।
अपि च वचनविशेषणपक्षे स्वशात्रव्याघात
इत्याह—सिद्ध्यसिद्ध्यर्थं वचनं वाद
इति ब्रुवाणेनेति ।
नैयायिकहेतुदूषणं पूर्वमिदं सूत्रम्
उत्तरम् ।
उपसंहरति—तदेवमिति ।
तन्त्रं शास्त्रम् ।
लोकं च बाधन्त इति ।
अवाचकपदप्रयोगात् साधनदूषणाभासवादिनश्च वादित्वेन लोकसिद्धस्यावादित्वापादनात् सिद्ध्यसिद्धिशब्दयोश्च वादत्वापादनार्थत्वादित्यर्थः ॥
सूत्रं दूषयित्वा वृत्तिं दूषयति—यथा चेति ।
स्वस्य पक्षस्येति ।
स्वस्यात्मीयस्य पक्षस्य ।
न हि
पक्षव्यतिरेकेणं पक्षाधारं साध्यं ज्ञानमन्यद् वा सिद्धिशब्दाभिधेयं सम्भवति, ज्ञानस्य पुरुषाधारतया अनाधारतया वा पक्षाधारत्वानुपपत्तेः, पक्षस्य तु भवेत् केनचित् सम्बन्धेन यादृशतादृशेनेत्यर्थः ।
ते साधनदूषणैः इत्यत्र पृथगुक्ते साधनदूषणे ।
युक्तायुक्तत्वाभ्यां ते युक्तायुक्तत्वे ।
साधनदूषणैरिति ।
न हि कर्म करणं भवतीत्यर्थः ।
अपि च युक्तायुक्तार्थाभ्यामभेदे साधनदूषणपदमनर्थकं ते इत्यनेनैव युक्तायुक्तत्वावमर्षिणा गतार्थत्वादित्याह—युक्तायुक्तत्वशब्दाभ्यां चेति ।
अथ न पर्यायता, अपि तु सामान्यविशेषभावः
युक्तायुक्तत्वे सामान्यम्, साधनदूषणे च विशेष इति शङ्कते—अथ मन्यसे इति ।
निराकरोति—न प्रथमेति ।
उभयव्यभिचारे विशेषणाविशेष्यभावे कामचारादुत्पलैरित्युक्तम् ।
द्वितीयं कल्पमाशङ्क्य दूषयति—योग इति चेदिति ।
न खलु योगो नाम बौद्धानां साध्यसाधनवृत्तिर्दूष्यदूषणवृत्तिर्वा कश्चिदस्तीत्यर्थः ।
अपि च सांवृतो ऽपि योगः साध्यसाधनज्ञानाधीननिरूपणतया नानिरूपिते साध्ये निरूपितो भवति, निरूपणं च निर्णय इति योगनिरूपणात् प्राक् साध्यनिर्णयात् कृतं योगनिरूपणेन साध्यनिर्णयार्थेनेति ।
युक्तायुक्तत्वेन करणेनाधिकरणप्रत्यायनमिति व्याघात
इत्याह—साधनेनेति ।
भवति ज्ञायते ।
तृतीयं कल्पमाशङ्क्य निराकरोति—अथ पदार्थस्येति ।
युक्तायुक्तत्वेनाधिकरणप्रत्यायनमिति युक्तायुक्तत्वयोः करणत्वं दर्शितम् तत् तथात्वातथात्वपक्षे न सम्भवति,
कर्मत्वात् ।
तदिदमुक्तम्—ते व्यवच्छेद्ये परिच्छेद्ये,
न तु व्यवच्छेदस्य परिच्छेदस्य साधने इति ॥
अधिकरणप्रत्यायनमिति दूषयति—अधिकरणेति ।
शास्त्रसम्बन्धः प्रयोजनेनेति ।
चोदयति—प्राश्निकप्रत्यायनादिति ।
कश्चित्
चोदकं पृच्छति—किं कारणम्?
तत्प्रत्यायनादिति ।
चोदकस्योत्तरम्—प्रतिवादि किलेति ।
सिद्धान्त्याह—सन्तमप्यर्थं न प्रतिपद्यत
इति ।
न खल्वाध्यात्मिकशक्तिसम्पन्नः समाहितः समग्रे साधनप्रयोगे सति सन्तमर्थं न प्रतिपद्यत इति सम्भवतीत्यर्थः ।
तथाविधेनापि चेत् प्रतिपत्त्रा सो ऽर्थो ऽन्यथा प्रतिपन्नः, कथमसौ तथा सिन्नत्यभिधीयते इत्याह—कथं चेति ।
शङ्कते—अथ जिगीषुतया प्रतिपद्यमानो ऽपीति ।
कामकारो ऽनुज्ञा ।
निराकरोति—तथापीति ।
न प्रतिपद्यते प्रतिपद्यमान
इति व्याहतम् ।
न चायमुनज्ञानिषेधो न प्रतिपद्यते इति वादे वीतरागकथात्वेन जिगीषाया अभावादिति भावः ।
यच्च प्राश्निकप्रत्यायनादिति ।
अन्यदीयेन करणेनान्यः प्रतिपद्यत इति सुभाषितम् ।
अन्यविषयस्येति अन्याश्रितस्येत्यर्थः ।
न चायं नियम इति ।
न वादे प्राश्निकानामुपादानम्,
दैवागतानां तु न वर्जनमित्यर्थः ।
वादस्य जल्पवितण्डाभ्यामभेदम् अभिप्रेत्य चोदयति—यदा तु नायमिति ।
आशयस्थितमर्थमनभ्युपगच्छन् परिहरति—सत्यमिति ।
स्वाभिप्रायं दर्शयति–न त्रैविध्येति ।
दूषयति–न भवद्भिरेव प्रतिषेधादिति ।
त्रैविध्यानभ्युपगमादिति दूषयति–यदपीति ॥
यच्चोक्तं वृत्तौ पक्षसिद्धिविषयम्, एतदपि दूषयितुमुपन्यस्यति–यच्चोक्तमिति ।
न कामतः विना प्रयोजनमिति ।
विनापि प्रयोजनं प्रमाणासम्भवेनापीति योजना ।
सूत्रोक्तं दूषणं वृत्तौ आह—तदर्थं वचनं सिद्ध्यसिद्ध्यर्थमित्यर्थः ।
अधिकरणं दूषयति—अधिकरणमिति ।
न हि वादे प्राश्निकाधारमिति ।
प्राश्निका एव तावद् वादे न सन्ति, अभ्युपेत्य
उक्तमिति ।
शङ्कते–प्रत्यायनाधारत्वादिति ।
सिद्धिः प्रत्यायनं तदाधाराः प्राश्निका इत्यर्थः ।
निराकरोति–नेति ।
शङ्कते–तस्मिन्निति ।
दैवमिलिते प्राश्निके सतीत्यर्थः ।
निराकरोति—नेति ।
न हि दैवमिलितं कारणम्, मा भूद् गर्दभो ऽपि धूमस्य कारणमिति भावः ।
चोदयति, यदि प्राश्निका न सन्ति तद्वाद इति ।
तयोर्वादिप्रतिवादिनोर्वादस्य परीक्षा का कस्य च तयोर्वादस्य क्व च, असौ परीक्षा प्राश्निकाभावे हि वादतत्परीक्षातदधिकरणानामज्ञानमित्यर्थः ।
परिहरति—साधनेति ।
वीतरागौ हि वादिप्रतिवादिनावेव वादस्वरूपज्ञानं च तत्परीक्षां च कर्तुं शक्नुतः,
तत् किमत्र प्राश्निकैः? साधनप्रयोगः पक्षविषयः, दूषणप्रयोगः स्थापनाविषयः इति वादस्वरूपम् ।
साधनदूषणतदाभासानां परितो ज्ञानं परीक्षा ।
तदर्थं परीक्षार्थं तस्मिन् वादे ऽधिकारो वीतरागयोरेव वादिप्रतिवादिनोः ।
तदिदं क्वेति विप्रश्नस्योत्तरम् ।
तस्मात् सप्तम्यर्थो ऽधिकरणार्थः पराभिमतः प्राश्निक इति यावत् ।
स नास्ति वादिप्रतिवादिनोरेव वीतरागयोः कथासमाप्तेरित्यर्थः ॥
यदपि वृत्तौ चोदितं यदि सिद्ध्यसिद्ध्यर्थं वचनं वादः, ततः प्राश्निकप्रतिवादिनोः प्रियाप्रियवचसि रथ्यावादे प्रसङ्ग इति तदप्यतिनिर्बीजमित्याह—यदपीति ।
न हि प्रियाप्रियवचसः साक्षात् पारम्पर्येण वा सिद्ध्यसिद्ध्यर्थता, नापि साधनदूषणयुक्तायुक्तत्वविशेषणसम्बन्धः
तस्मादेवंवादी नोत्तरार्हः ।
न ह्युन्मत्ताय
कश्चिदनुन्मत्त
उत्तरमाह, ब्रुवाणो वा सो ऽप्युन्मत्तः स्यात् ।
तदिदमुक्तम्—दत्तः स्वहस्त इति ।
पूर्वं सिद्ध्यसिद्ध्यर्थमिति, अपरं युक्तायुक्तत्वमिति,
उभयोरप्यनेन चोद्येनासम्बन्धात् ।
यदि त्ववश्यम् उत्तरं वाच्यम्, ततो वरमेवं वक्तव्यमित्याह—यदि त्विति ।
सेयं सूक्ष्मेक्षिका परैरिह कृतेति तदनुबन्धेन वार्त्तिककृतापि कृतेति॥१ ॥
न्य्स्_१,२।२: यथोक्तोपपन्नः छलजातिनिग्रहस्थानसाधनोपालम्भः जल्पः ॥
उद्देशक्रमानुरोधेन वादलक्षणानन्तरं जल्पं लक्षयति—यथो—ल्पः ॥ २ ॥
अत्रापि समानजातीयाभ्यां वादवितण्डाभ्यामसमानजातीयेभ्यः प्रमाणादिभ्यो व्यवच्छेदो जल्पस्य सूत्रार्थः ।
यथोक्तोपपन्नपदार्थं व्याचष्टे—समस्तमिति ।
चोदयति—यथोक्तोपपन्न इति न युक्तमिति ।
निग्रहस्थाननियमस्य प्रमाणतर्कसाधनोपालम्भाभिप्रायनियमस्य च जल्पे ऽभावात्, भावे वा वादजल्पयोरभेदप्रसङ्गात्,
वादलक्षणस्य च जल्पव्यापकत्वेन व्यभिचारप्रसङ्गाद्
यथोक्तोपपन्न इत्येतदनुपपन्नमित्यर्थः ।
परिहरति—नैष दोष इति ।
उक्तमात्रमिह सम्भवात् योग्यतासम्भवाद्
गृह्यते, न त्वनुक्तो ऽर्थलभ्यो नियमः ।
न ह्यसौ सूत्रपदश्रवणमात्रात् प्रतीयते, अपि तु तदर्थे प्रतीते तस्यान्यतः सिद्धौ सत्यां गम्यत इति प्रमाणतर्कसाधनोपालम्भ इत्येतदतिदिश्यत
इति उक्तमात्रोपलक्षणपरम् ।
तेन प्रमाणतर्कसाधनोपालम्भ पञ्चावयवोपपन्नः सिद्धान्ताविरुद्धः पक्षप्रतिपक्षपरिग्रह इत्येतस्य वादपदवर्जं समस्तस्य लक्षणस्यातिदेशः ।
नियमस्त्वार्थो न सम्बध्यत इति सिद्धम् ।
लक्षणमात्रस्येति उक्तमात्रस्य, नार्थस्य नापि लक्ष्यपदस्येत्यर्थः ।
अत्रैव दृष्टान्तमाह—यथान्यत्र वैशेशिकतन्त्रे ।
न नियमार्थे पदे इत्युपलक्षणम्, न प्रमाणतर्कसाधनोपालम्भपदलभ्यो ऽभिप्रायनियम
इत्यपि द्रष्टव्यम् ॥
पक्षान्तरमाह—अथ वेति ।
यथा गोभिर्युक्तो रथो गोरथ इति युक्तपदलोप
इति ।
न हि नियमार्थयोरिति एतदप्युपलक्षण पूर्ववदेव ।
इह वादलक्षणं पठता भाष्यकारेण नियमो ऽप्यतिदिष्ट इति मन्वानश्चोदयति—भाष्यम्
इदानीमिति ।
परिहरति—न सेत्रेति ।
जल्पलक्षणानुकूलो यः पाठक्रमः, ततो ऽर्थस्वरूपमात्रं प्रतीयते न त्वार्थो ऽर्थ इत्यर्थः ।
यदुपपन्नम् उक्तमात्रमित्यर्थः ।
अत्र भाष्यकारेण छलादीनां निषेधार्थतया साधनाङ्गभावमाक्षिप्य परपक्षविघातेन स्वपक्षरक्षणादङ्गभाव
इति दर्शितम् ।
तदेतद् वार्त्तिककार आक्षिपति—छलजातिनिग्रहस्थानैरिति ।
तत् किं निग्रहस्थानान्यप्ययुक्तानि, च चैतच्छक्यमित्यत आह—छलं तावदिति ।
छलजात्योराक्षेप्तव्ययोः सम्पातायातानि निग्रहस्थानानीत्यभिप्रायः ।
भाष्योक्तं समाधिमाशङ्कते—अङ्गभाव
इति चेत् इति ।
निराकरोति—एतदपीति ।
न हि सहस्रेणाप्यन्धैः पाटच्चरेभ्यो गृहं रक्ष्यत इत्यर्थः ॥
एवमाक्षिप्ते पार्श्वस्थः पृच्छति—किमर्थ तर्हीति ।
सिद्धान्तिन उत्तरं साधनेति ।
वादे तावद् यद्यपि न साधनविधातसमर्थानि,
तथापि तेषां तत्त्वम् अविद्वान् एभिरहं साधनं विहनिष्यामीत्यनया बुद्ध्या उपहृतः व्यामोहितः प्रवर्तते ।
तस्माद् वादे भ्रमेणोपादानमेतेषामित्यर्थः ।
यत्र त्वेषां तत्त्वं विद्वान् प्रवर्तते, न स वादः,
किं तु जल्पो
वितण्डा वेत्याह—यत्र चैतानीति ।
ननु जल्पवितण्डयोः प्रयोगात् साधनमङ्गं वा स्यादत
आह—न पुनरिति ।
ननु यदि न साधनमङ्गं वा, कस्मात् तर्हि जल्पवितण्डयोरेषां प्रयोग
इत्यत आह—साधुसाधनोपादाने चेति ।
साधुसाधनोपादाने च वादिना कृते परेण प्रतिवादिना जिगीषुणाकुलितबुद्धिर्द्राक् पारमार्थिकमुत्तरमप्रतिपद्यमानश्च्छलादीनि प्रयुङ्क्ते ।
किमर्थमित्यत
आह—कदाचिदिति ।
यथाकथञ्चित् प्रयोगेण ।
तदनेन प्रकारेण तत्त्वसंरक्षणार्थत्वात्
नासदाचारः ।
न च शास्त्रक्राराणां छलादिव्युत्पादनमसदृशम्,
न च खटचपेटाद्यभिधानप्रसङ्गः, वाग्युद्धे तेषामप्रसङ्गादिति ।
न बाधेति ।
नैकेनापरं तदैवापोद्यत इत्यर्थः ।
रोषं सुगमम् ॥२ ॥
न्य्स्_१,२।३: स प्रतिपक्षस्थापनाहीनः वितण्डा ॥
उद्देशक्रमानुरोधेन जल्पानन्तरं वितण्डालक्षणमाह—स—ण्डा ॥३ ॥
पूर्ववादिपक्षापेक्षया प्रतिवादिन आत्मीय एव पक्षः प्रतिपक्षः ।
तस्य स्थापना साधनम् ।
तया हीनः ।
तदनेन जल्पाद्
व्यवच्छिनत्ति ।
तदेतदाह भाष्यकारः—स जल्प
इति ।
तयोरेकतरं प्रतिवादी आत्मीयं पक्षं न स्थायपतीति ।
परपक्षप्रतिषेधेनेति ।
तत्स्थापनाप्रतिषेधेनेत्यर्थः ।
स्यादेतत् ।
यथा प्रतिवादिनः पक्षो वादिपक्षापेक्षया
प्रतिपक्षः, एवं वादिपक्षो ऽपि प्रतिवादिपक्षापेक्षया प्रतिपक्ष
इत्युभयपक्षस्थापनाहीना वितण्डेति स्यात्,
इत आह—वार्त्तिककारः—प्रतिपक्षस्थापनाहीन
इति, द्वितीयपक्षस्थापनाहीन इति ।
प्रथमपक्षवादिनो हि स्थापनाया अभावे किं वैतण्डिक
आहन्ति? न च पक्षः शक्य आहन्तुम् ।
तस्मात् प्रथमपक्षवादिनो ऽस्ति स्थापनेति द्वितीय एव पक्षः स्थापनाहीन इति समार्थ्याद् युक्तमिति ।
अत्र चोद्यभाष्यम्
अस्तु तर्हिति ।
स्थापनाया अभावे स्थाप्यः पक्षो ऽपि नास्ति ।
न ह्यन्यथा पक्षस्य पक्षत्वमिति भावः ।
परिहरति—यद् वै खलु तदिति ।
वैतण्डिको ऽपि हि वादी पारिशेष्यात् मत्पक्षः सेत्स्यतीति बुद्ध्या स्वपक्षमस्थापयन् परपक्षस्थापनामाहन्ति ।
तस्मात् परपक्षप्रतिषेधलक्षणं वाक्यम् अस्य पक्षः परपक्षनिषेधेन पारिशेष्यात् पक्षसिद्धिहेतुत्वादुपचारतः ।
तस्मादस्ति वैतण्डिकस्य पक्षः ।
न तु परपक्षप्रतिषेधादन्या स्थापना ।
तेनास्य पक्षो ऽस्ति,
नास्ति च पक्षस्थापना ।
तदिदमुक्तम्—न कञ्चिदर्यं प्रतिज्ञाय स्थापयतीति ।
पक्षत्वं तु योग्यतामात्रेण,
न तु स्थाप्यमानतयेति ॥
अस्तु तर्हिति भाष्यार्थमाह–वार्त्तिककारः अपरे त्विति ।
तस्मात् प्रतिपक्षहीनो वितण्डेति वक्तव्यमित्यर्थः ।
परिहरति—अयुक्तं चैतदिति ।
न तावदस्थाप्यमानस्यापि स्थापनार्हतालक्षणा पक्षता न युज्यते,
तस्मात् न वैतण्डिको दूषणादन्यत् किञ्चिदभ्युपगच्छतीति ।
अनभ्युपगमात् पक्षो ऽस्य नास्तीति वक्तव्यम् ।
तथा च चतुर्वर्गाभ्युपगमे विरोधो ऽनभ्युपगमे वा नायं लौकिको न परीक्षक इति प्रसङ्ग इति भावः ।
प्रतिपादयितुरयथार्थावबोधं प्रतिपत्तारं चात्मानमित्यर्थः ।
यस्तु मन्यते चतुर्वर्गाभ्युपगमे ऽपि दूषणमात्रं वितण्डेत्येव वक्तव्यं लाघवायेति,
तन्मतमुपन्यस्यातिप्रसङ्गापादनेन दूषयति—दूषणमात्रेति ।
समाख्यानिर्वचनसामर्थ्यादेव गम्यत इत्यर्थः ।
उपसंहरति—तस्मादिति ।
तदनेनार्थतो यद् वै खल्वित्यादि भाष्यं व्याख्यातम् ॥३ ॥
न्य्स्_१,२।४: सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीता हेत्वाभासाः ॥
उद्देशक्रमानुरोधेन वितण्डानन्तरं हेत्वाभासेसु लक्षयितव्येषु अर्थाक्षिप्तसामान्यलक्षणमेषां विभागोद्देशपरं सूत्रम्—सव्य–साः ॥ ४ ॥
तद्व्याख्यानपरं भाष्यं समाख्यानिरुक्तिवशेन सामान्यलक्षणं प्रतिपादयन् वार्त्तिकारः पठति—हेतुलक्षणाभावादिति ।
पृच्छति—किं पुनरिति ।
न ह्यन्यस्यान्यत्वमात्रेण सादृश्यम्, मा भूत् सर्वस्य सर्वेण सादृश्यमिति भावः ।
उत्तरम्—प्रतिज्ञेति ।
प्रयोगगतं सामान्यमुक्त्वा प्रयोज्यगतमाह—अन्यतमेति ।
अबाधितविषयतासत्प्रतिपक्षत्वे सती अप्यविवक्षित्वा त्रैलक्षण्यद्वैलक्षण्याभिधानं द्रष्टव्यम् ।
शेषमतिरोहितम् ॥
षट्सम्प्तं शतं गणयति—तत्र साध्यव्यापकेति ।
एतस्यां त्रिषोडश्यां साध्यव्यापकसाध्यैकदेशवृत्तिधर्मभेदात्
षोडशीद्वयं विशेषणविशेष्यासिद्धिभेदात्
चतुःषष्टिः ।
एवं समर्थासमर्थविशेषणविशेष्यभोदात्
चतुःषष्टि ।
तदेतत्
चतुःषष्टिद्वितयमष्टाविंशं शतं पूर्वया त्रिषोडश्या सह षट्सप्तं शतम् ।
साध्यव्यापकानां धर्मविशेषाणामुदाहरणान्याह—तत्रेति ।
विपक्षव्याप्त्यव्याप्तिभ्यां प्रथमद्वितीयौ साधारणौ, तृतीयो ऽन्वयव्यतिरेकी साध्यतज्जातीयव्यापको हेतुरेव ।
विपक्षव्याप्त्यव्याप्तिभ्यां चतुर्थपञ्चमौ विरुद्धौ हेत्वाभासौ ।
यत्र विपक्षे न वृत्तिस्तं दर्शयति—द्व्यणुकवदिति ।
षष्ठो ऽविद्यमानसपक्षविपक्षो ऽसाधारणः, अत
एवाह—घटादिवदिति ।
सप्तमाष्टमौ विपक्षव्याप्त्यव्याप्तिभ्यां साधारणौ ।
नवमस्तु सपक्षैकदेशवृत्तिरन्वयव्यतिरेकी हेतुरेव ।
दशमैकादशौ सपक्षव्याप्त्यव्याप्तिभ्यामन्वयिनौ हेतू ।
द्वादशस्तु अविद्यमानविपक्षः असाधारणः ।
त्रयोदशचतुर्दशौ त्वविद्यमानसपक्षो विपक्षव्याप्त्यव्याप्तिभ्यां विरुद्धौ ।
पञ्चदशो ऽपि व्यतिरेकी हेतुरेव ।
षोडशस्तु अविद्यमानसपक्षविपक्षो ऽसाधारणः ॥
यदि बाह्यकरणप्रत्यक्षे वाङ्मनसे इति साध्येत तदा नानित्यत्वं सपक्षव्यापकं स्यात्, सामान्ये
बाह्यकरणप्रत्यक्षे ऽभावात् ।
अतः साध्यधर्मं विशिनष्टि—सामान्यविशेषवदिति ।
अनित्ये रूपविज्ञाने अमूर्तत्वादिति ।
रूपविज्ञानस्कन्धातिरिक्तानां वेदनासञ्ज्ञासंस्कारस्कन्धानामनित्यतया सपक्षाणां व्यापकममूर्तत्वमिति ।
तज्जातीयैकदेशवृत्तित्वममूर्तत्वस्य दर्शयितुं यत्र न वर्तते तत्पुरःसरमुदाहरणं रूपादिवदिति ॥
अनित्यः शब्दो ऽश्रावणत्वात्
इति नित्ये शब्दत्वे न वर्तते ।
अर्थः शब्द
इति, शब्दो धर्मी ।
अर्थ इति साध्यो धर्मः,
द्रव्यगुणकर्मणामन्यतम इत्यर्थः ।
यद्यश्रोत्रग्राह्यत्वादित्युच्येत,
ततः सामान्यादिष्वनर्थेषु विपक्षेष्वपि वर्तेत ।
अत उक्तम्—अश्रोत्रग्राह्यसामान्यवत्त्वादिति ।
अश्रोत्रग्राह्यं च तत् सामान्यवच्चेति विग्रहः ।
ननु चाक्षुषत्वं विपक्षवृत्ति
समवायस्यानाश्रितस्य चाक्षुषत्वादित्यत उक्तम्—औलूक्यपक्षे इति ।
सिद्धान्तभेद इति, सोत्रान्तिकानाम् इत्यर्थः ।
असमर्थविशेष्यस्योदाहरणम्—कृतकत्वे सति प्रमेयत्वादिति ।
असमर्थविशेषणस्योदाहरणम्—प्रमेयत्वे सति कृतकत्वादिति ।
निरपेक्षं खलु कृतकत्वमनित्यत्वे साध्ये समर्थम्, प्रमेयत्वं त्वन्यापेक्षम् असमर्थमित्यर्थः ।
तदेवं त्रिषोडश्या प्रकृत्याष्टचत्वारिंशदृ भवन्ति हेतुहेत्वाभासाः ।
व्यापकाव्यापकभेदेन तु द्विषोडशी यदा विशेषणविशेष्यासिद्ध्या चोभयसम्प्रतिपन्नया असमर्थविशेषणविशेष्यतया सन्दिग्धविशेषणविशेष्यतया चोभयसम्प्रतिपन्नया विक्रियते तदा चतुःषष्ठित्रयेण द्वानवतं शतं भवति ।
वाद्यसिद्धप्रतिवाद्यसिद्धतया उभयान्यतरसन्दिग्धतया च चतुःषष्ठिद्वयेनाष्टाविशकं शतमपरम् ।
तदिदम् अन्यतरासिद्धा इत्यनेन वार्त्तिककृता सूचितम्, द्वाभ्यामूना त्रिंशद् द्वात्रिंशदिति कथञ्चिद् व्युत्पत्त्या ।
ते पुनर्व्यापकाव्यापका व्यधिकरणविशेषणविशेष्यव्यधिकरणसन्दिग्दधविशेषणविशेष्यव्यधिकरणासमर्थविशे षणविशेष्यभेदेन चतुःषष्टित्रयेण द्वानवतं शतमपरम् ॥
एवमप्रसिद्धाश्रयविशेषणविशेष्या उभयान्यतरपक्षाप्रसिद्ध्या अष्टाविंशकं शतम् ।
अत्रापि द्वात्रिंशकमिति पूर्ववद् व्याख्येयम् ।
अन्यतरमात्रमत्र विवक्षितं न तु वादिप्रतिवादिभेदः ।
ते पुनरप्रसिद्धाश्रयाः पूर्ववद्भेदेन व्यधिकरणविशेषणविशेष्यसन्दिग्धविशेषणविशेष्यसमर्थविशेषणविशेष्यभेदेन चतुःषष्टित्रये सति द्वानवतं शतम् ।
तदेवमनन्तराभ्यां द्वानवतशताभ्यां शतत्रयं चतुरशीतं यत् तदेवाष्टाविंशकशताभ्यां द्वानवतेन च शतेन सम्पिण्डितं द्वात्रिंशदुत्तराष्टशती विकारभूता भवति ।
अष्टाचत्वारिशत् प्रकृतयः पश्चात् निवेशनीया इति ।
उभयाप्रसिद्धाश्रयविशेष्यम्
उदाहरति—यथा अग्निमान् देशो धूमवत्त्वात् ।
उक्तं हि प्राग् यथा न देशो ऽग्निमत्तया साध्यो ऽपि तु धूमविशेष एवेति ।
अन्यतरासिद्धाश्रयोदाहरणमाह—अस्ति चात्मा इच्छादिगुणत्वादिति ।
आश्रयासिद्धविशेषणादयो ऽप्युहनीयाः ।
असमर्थाव्यापकासिद्धविशेषणानामुदाहरणम् ।
असमर्थाश्च ते ऽव्यापकाश्च, व्यधिकरणतया असिद्धाश्चेति विग्रदः ।
अनित्यः शब्दः प्रयत्नानन्तरीयकत्वे सति कृतकत्वादिति कृतकत्वस्यैव विशेष्यस्य सामर्थ्यादसमर्थमनित्यत्वे प्रयत्नानन्तरीयकत्वम्,
अव्यापकं च स्तनयित्नुशब्दानामव्यापकत्वात् ।
व्यधिकरणतया असिद्धं च कोष्ठवायुताल्वादिक्रियायां एव प्रयत्नानन्तरीयकत्वम्,
न त्वाद्यस्यापि शब्दस्य, प्रागेव तु श्रोत्रसमवायिन
इति ।
कृतकत्वे सति प्रयत्नानन्तरीयकत्वादिति चासमर्थाव्यापकासिद्धविशेष्याणामुदाहरणं द्रष्टव्नयम् ॥
वैभवेन त्वसिद्धतावर्जमुदाहरति—अव्यापकासमर्थविशेष्याणामुदाहरणम्—अनित्यः शब्दः प्रत्ययभेदभेदित्वेनोपलभ्यमानत्वात् ।
उपलभ्यमानत्वं हि नित्ये ऽप्यस्तीति व्यभिचारादसमर्थम् ।
कारणभेदभेदित्वमेव तु विशेषणं समर्थमव्यभिचारादिति ।
केवलव्यधिकरणविशेष्याणामुदाहरणम्
अस्ति प्रधानं भेदानां गोघटादीनां सुखदुःखमोहात्मकत्वेनान्वयदर्शनादिति ।
अन्वयदर्शनं हि भेदाधिकरणतया न प्रधानधिकरणमिति,
व्यधिकरणमिति व्यधिकरणं विशेष्यम् ।
केवलव्यधिकरणविशेषणानामुदाहरम्—रूपरसगन्धस्पर्शशब्दाः
चन्दनशब्दादत्यन्तं विभिन्नार्थाः समुदायसमुदाय्यसम्भवे सति रूपादीनामर्थानां रूपादिशब्दानां च तेन चन्दनशब्देन व्यपदिश्यमानत्वात् ।
चन्दनस्य रूपादय इति समुदायसमुदाय्यसम्भवो रूपादिषु व्यपदेशश्च रूपादिशब्देष्विति व्यधिकरणं विशेषणमित्यर्थः ।
तदनेन प्रपञ्चेन द्वात्रिंशदुत्तराष्टशती दर्शिता ॥
सम्प्रति द्वानवतशतयुग्मान्तरं दर्शयितुमुदाहरणमाह—अन्यथासिद्धोदाहरणं नित्यः शब्दो ऽभ्यासात् ।
सेयं क्रियाभ्यावृत्तिर्यथा शब्दानित्यत्वे ऽप्युपपद्यते तथा द्वितीये दर्शयिष्यते ।
सिंहावलोकितन्यायेन व्यधिकरणविशेष्यं सन्दिग्धविशेषणमुदाहरति—सन्दिग्धाप्रतिद्धेति ।
विशेषणशब्दः तन्त्रेण विशेषणे विशेष्ये च कर्मकरणसाधनतया प्रयुक्तो वर्तते ।
तेन सन्दिग्धं विशेषणम् अप्रसिद्धं व्यधिकरणतया विशेष्यं येषां तेषामुदाहरणमित्यर्थः ।
यथा सन्दिह्यमाने धूमादिभावे ऽग्निमान् देशो धूमवत्त्वे सति प्रकाशकत्वात्, धूमवत्त्वं विशेषणं सन्दिग्दधम् ।
प्रकाशकत्वं च विशेष्यं व्यधिकरणम् ।
तत् खलु वह्नेर्धर्मो न देशस्येति ।
अप्रसिद्धविशेषणसन्दिग्धविशेष्याणामुदाहरणं दर्शयति—विपर्ययेणेति ।
अप्रसिद्धेत्यपि द्रष्टव्यम् ।
अग्निमान् देशः प्रकाशकत्वे सति धूमवत्त्वादिति ॥
सम्प्रति द्वानवतशतयुग्मान्तरं दर्शयितुं भूमिरचनां करोति—एवमिति ।
ये ये सन्दिग्धासिद्धा व्यापकाव्यापकभेदेन द्वात्रिंशत् त
एवोभयान्यतरासिद्ध्या चतुःषष्टिर्भवन्ति ततः किमित्यत आह–ते चतुःषष्टितामापन्नाः पूर्ववद्भेदेन व्यधिकरणविशेषणविशेष्यसन्दिग्धविशेषणविशेष्यासमर्थविशेषणविशेष्यभेदेन तावच्चतुःषष्टित्रयमित्येकं द्वानवतं शतम् ।
अपरे चाश्रयासिद्धव्यधिकरणविशेषणविशेष्यसन्दिग्धविशेषणविशेष्यासमर्थविशेषणविशेष्यभेदेन द्वानवतं शतम् ।
तदिदं
चतुरशीतं शतत्रयं सन्दिग्धासिद्धमाश्रित्य ।
अपरमपि द्वानवतशतयुग्मान्तरमन्यथासिद्धमाश्रित्याह—एवमन्यथासिद्धभेदो द्रष्टव्यः ॥
अन्यथासिद्धभेदो ऽपि हि व्यधिकरणविशेषणविशेष्यसन्दिग्धासमर्थविशेषणविशेष्यभेदात्
चतुःषष्टित्रयमिति ।
पुनश्च स
एवान्यथासिद्ध
आश्रयासिद्धव्यधिकरणविशेषणविशेष्यसन्दिग्धासमर्थविशेषणविशेष्यभेदात्
चतुःषष्टित्रयमिति द्वानवतशतयुग्मेव शतत्रयं चतुरशीतम् ।
अपरमपि द्वानवतशतयुग्मकमाह–एवं विरुद्धविशेषणा विरुद्धविशेष्याश्चेति ।
विरुद्धविशेषणविशेष्या अपि हि व्यधिकरणविशेषणविशेष्यसन्दिग्धासमर्थविशेषणविशेष्यभेदाच्चाश्रयासिद्धव्यधि-
करणविशेषणविशेष्यसन्दिग्धासमर्थविशेषणविशेष्यभेदाच्च शतत्रयं चतुरशीतम् ।
तदेवमेभिस्त्रिभिश्चतुरशीतैः शतत्रयैर्द्विपञ्चाशच्छतोत्तरं सहस्रमेकम्, द्वात्रिंशदुत्तरया अष्टशत्या सहस्रमेकं चतुरशीतिसहिता च नवशती ।
तदेवं प्रकृतिभूताष्टा चत्वारिंशत्प्रक्षेपेण सम्पिण्डितं द्वात्रिंशे द्वे सहस्रे भवत इति ॥
तन्न असत्वादिति ।
पञ्चानां चतुर्णां वा रूपाणां सम्पत्तिरव्यभिचारः ।
स चैकस्मिन् विषये विरुद्धयोर्न सम्भवति,
अन्ततो ऽसत्प्रतिपक्षस्यैव रूपस्याभावादित्यर्थः ।
पञ्चानां हेतूनामिति ।
सपक्षव्याप्त्यव्याप्तिभ्यामन्वयी द्वेधा,
व्यतिरेक्येकः, अन्वयव्यतिरेक्यपि सपक्षव्याप्त्पव्याप्तिभ्यां द्वेधेति पञ्च हेतवः ।
पञ्चानां हेतूनां सरूपासरूपप्रतिबन्धात् पञ्च पञ्चका भवन्ति ।
सरूपः अन्वयिनो ऽन्वयी,
व्यतिरेकिणो व्यतिरेकी, अन्वयव्यतिरेकिणो ऽन्वयव्यतिरेकी ।
असरूपश्चान्वय्यादेर्व्यतिरेक्यादिः, तेन प्रतिबन्धः, एतदुक्तं भवति, अन्वय्यादावेकैकस्मिन् सरूपासरूपाः पञ्च हेतवः प्रतिबन्धका इति पञ्चभिः पञ्चकैः पञ्चविंशतिर्विरुद्धाव्यभिचारिण
इति ।
चोदयति—लक्षणत एवेति ।
परिहरति—नानर्थकमिति ।
यत्परो हि शब्दस्तत्रासौ प्रमाणम्, समानासमानजातीयव्यवच्छेदकं च लक्षणसूत्रमिति तत्रैव प्रमाणम् न त्वियत्तायामतत्परत्वात् ।
न चासावार्थी सतो ऽप्यनुपयोगादलक्ष्यमाणत्वोपपत्तेः प्रमेयान्तरवदिति ॥ ४ ॥
न्य्स्_१,२।५: अनैकान्तिकः सव्यभिचारः ॥
तदेवमर्थाक्षिप्तसामान्यलक्षणं विभागं दर्शयित्वा विशेषलक्षणमवतारयति भाष्यकारः, तेषां हेत्वाभासानां मध्ये अनै—रः ॥ ५ ॥
अत्र चानैकान्तिकसव्यभिचारशब्दौ पर्यायौ पुरुषभेदापेक्षया लक्ष्यलक्षणत्वेनावस्थितौ ।
यस्यानैकान्तिकपदार्थो ऽप्रसिद्धः प्रसिद्धश्च सव्यभिचारपदार्थः, तं प्रत्यनैकान्तिक इति लक्ष्यतिर्देशः, सव्यभिचार इति लक्षणम् ।
यस्य तु सव्यभिचारपदार्थो ऽप्रसिद्धः प्रसिद्धश्चानैकान्तिकपदार्थस्तं प्रति सव्यभिचार इति लक्ष्यनिर्देशः, अनैकान्तिक
इति लक्षणम् ।
तत्र सव्यभिचार इति लक्षणपदं कक्षीकृत्याह भाष्यकारः व्यभिचार
एकत्राव्यवस्थितिः ।
एतदुक्तं भवति ।
सव्यभिचारपदं निर्वचनसामर्थ्यात् लक्षणपदमिति ।
अनैकान्तिकपदलक्षणपक्षे भाष्यकारोक्तम् अनित्यत्वमप्येको ऽन्त इत्यादि ।
तद् वार्त्तिककारः पर्युदासाभिप्रायेण व्याचष्टे—एकस्मिन्नन्ते नियत ऐकान्तिक इति ।
न हेतुरैकान्तिको येन तदन्यत्वेन हेत्वाभासमात्रसङ्ग्रहादेकजातीयत्वेन हेत्वाभासानां विभागसूत्रविरोधः स्यात्,
किं त्वेकस्मिन्नन्ते यो नियतः स ऐकान्तिकः,
तद्विपर्ययादनैकान्तिको ऽनियतो ऽनित्यत्वे च नित्यत्वे चान्वयेन च व्यतिरेकेण चोभयपक्षगामीति यावत् ।
न चैवम्भूता विरुद्धादयो हेत्वाभासा इत्यभिप्रायः ।
तदेवम् अनैकान्तिकः सव्यभिचारः इति स्थिते पृच्छति—कः पुनरिति ।
उत्तरम्—साध्यतज्जातीयेति ।
अवगत एष व्यभिचार इति, अनैकान्तिकपदवाच्यतास्य कथमित्यत आह–अन्यत्र सर्वो ऽयमिति ।
प्रमेयपदार्थस्य तु सर्वव्यापिनो नान्तो व्यतिरेको ऽस्तीत्यत
उक्तम्–अन्यत्र प्रमेयादिति ॥
अत्र बौद्धैः यद् विकल्प्य दूषणमुक्तम्, तदुपन्यस्यति–अनैकान्तिक
इति ।
किं पुनरयमिति ।
ऐकान्तिको हेतुः ।
ततो ऽन्यः सर्व एव हेत्वाभास इत्यर्थः ।
द्वितीयं कल्पं दूषयति—अथ प्रसज्येति ।
तथापि हेतोरभावो ऽनैकान्तिकः ।
न चासौ सव्यभिचारः ।
भावधर्मौ हि व्यभिचाराव्यभिचारौ नाभावे सर्वोपाख्याविरहिणि युज्येते इत्यर्थः ।
तदेतत् शाक्यदूषणं निराकरोति—नायं पर्युदासपक्ष इति ।
पर्युदासपक्षस्तावदस्माकमभिमत उपपन्नतरश्च,
केवलमयं प्रसज्यप्रतिषेधवल्लभस्तमास्थाय सर्वं दूषयतीति तमेवाङ्गीकृत्य सर्वत्र ब्रूम
इत्याशयवतः समाधानम् ।
न पुनरब्राह्मणादावपि वार्तिककारस्य प्रसज्यप्रतिषेधो ऽभिमतः, किं तु पर्युदास
एवेति ।
अभ्युपेत्य तु तत्रापि प्रसज्यप्रतिषेधाभिधानम् ।
न हि प्रसज्यप्रतिषेधो ऽपि तुच्छः, अपि तु कस्यचिद् वस्तुनो ऽभावेन विशिष्टं किञ्चिदेव वस्त्वित्यर्थः ॥
अत्र भाष्यम्—निदर्शनं नित्यः शब्दो ऽस्पर्शत्वात् इति ।
वैधर्म्ये दृष्टान्तम् आह—स्पर्शवानिति ।
अनित्यः
कुम्भः स्पर्शवान् दृष्ट इति योजना ।
वैधर्म्ये व्याप्यव्यापकभावस्य वैपरीत्यादिति वैधर्म्यव्यभिचारमाह—दृष्टान्ते स्पर्शवत्त्वमनित्यत्वं च धर्मौ न साध्यसाधनभूतौ गृह्येते ।
न हि यदनित्यं तत् सर्वं स्पर्शवद् बुद्ध्यादिभिर्व्यभिचारात् ।
साधर्म्ये ऽपि चैभिरेव व्यभिचारो वक्ष्यत
इतीह नोक्तः ।
ननु मा भून्नित्यत्वं साध्यम्,
अस्पर्शत्वमेवास्तु नित्यत्वस्य साध्यमित्यत
आह—स्पर्शवांश्चाणुर्नित्यश्चेति ।
तथापि यदस्पर्शवन्न भवति तन्नित्यमपि न भवतीति वैधर्म्यं व्यभिचरति, स्पर्शवतो ऽप्यणोर्नित्यत्वादित्यर्थः ।
साधर्म्यव्यभिचारमाह—आत्मादौ चेति ॥
अत्र वार्त्तिककारो ऽस्पर्शवत्त्वस्य हेतोः प्रश्नपूर्वकं स्वरूपं निष्कर्षति—किं पुनस्तत् अस्पर्शत्वं शब्दाद्
भिन्नत्वमित्यर्थः ।
सत्ताविशेषणो वा समवायः,
समवायविशेषणा वा सत्ता, अन्वयव्यतिरेकाभ्यामित्यर्थः ।
वाक्यार्थे च पदप्रयोगो ऽस्पर्श इति श्रोत्रियपदवदित्याह—वाक्यार्थेति ।
अनैकान्तिक
इति लक्षणमिति पक्षे चोदयति—अतिदेशेति ।
यदि हि क्वचित् शास्त्रप्रदेशे अनैकान्तिकः कथितः, तद्देशातिलङ्घनेन अत्रातिदिश्यमानो विदितरूप इह सव्यभिचारं लक्षयेत्,
न त्वस्य शास्त्रप्रदेशे क्वचिदपि कीर्तनमस्तीत्यर्थः ।
परिहरति—नेदमिति ।
लोकप्रसिद्धत्वेनोक्तप्रायमित्यर्थः ।
अन्वयेनैवोभयान्तसन्नियतो ऽनैकान्तिक
इति मन्वानः शङ्ते—अव्यापकत्वादिति ।
परिहरति—नेति ।
व्यावृत्तीति ।
क्वचिदन्वयस्योभयान्तसन्नियतता,
क्वचिद् व्यतिरेकस्येत्यर्थः ।
एकेषां मतमुपन्यस्यति—अपरे त्विति ।
दूषयति—तैस्त्विति ।
नोदाहरणे व्यभिचाराल्लक्षणव्यभिचारो भवत्यन्यत्वात् ।
नो खलूदाहरणमाद्रियन्ते परीक्षकाः किं तु लक्षणमित्यर्थः॥ ५ ॥
न्य्स्_१,२।६: सिद्धान्तम् अभ्युपेत्य तद्विरोधी विरुद्धः ॥
सिद्धा—द्धः ॥ ६ ॥ पृच्छति—को ऽस्य सूत्रस्येति ।
न खलु हेतुरचेतनः सिद्धान्तमभ्युपगच्छति, यश्चाभ्युपगच्छति चेतनो नासावन्यतमेन हेतुलक्षणेन युज्यते इति न हेत्वाभासः ।
न च पक्षः सिद्धान्त इति तद्विरोधी न विरुद्धः स्यादिति भावः ।
उत्तरम्—अभ्युपगतार्थविरोधी विरुद्धः हेतुद्वारेण पुरुषस्याभ्युपगमो हेतावुपचरितः ।
अभ्युपगमविषयमात्रविवक्षया च सिद्धान्तशब्दः प्रयुक्तो न पुनः सिद्धान्त
एवेह विवक्षितः ।
तेन पेक्षो ऽभ्युपगमविषय इति तद्विरोधी हेत्वाभासः सङ्गृहीतो भवति विशेषविरुद्धस्य च न हेत्वाभासतेत्युक्तं भवति ।
न हि विशेषो ऽभ्युपगमस्य विषयः, न खल्वयं प्रतिज्ञापदगोचरः, किं तु प्रतिज्ञार्थस्य सिद्ध्यनुषङ्गीति नाभ्युपगमगोचर
इति भावः ।
ईदृशस्य सूत्रव्याख्यानस्य फलमाह—एवं चेति ।
ईदृशं व्याख्यानमन्तरेणानुक्तस्य विरुद्धस्येत्यर्थः ।
अभ्युपगतेन वा बाध्यत
इति, स्वरूपेण हेतुत्वेन वेत्यर्थः ।
तदनेन तं विरुणद्धीत्यादि भाष्यं व्याख्यातम् ।
चोदयति—नन्वेवमिति ।
यदि हेतुत्वबाधाद्
विरुद्ध इत्युक्तः, हन्त, सव्यभिचारादयो ऽपि विरुद्धाः ।
तेषामपि हि हेतुत्वं बाधितम् ।
अबाधे वा न हेत्वाभासा इति भावः ।
परिहरति—सत्यमेक एवेति ।
ईदृशाविरुद्धत्वेन तुल्यत्वे ऽप्यवान्तरभेदविवक्षया पञ्चत्वम् ।
यथा प्रमाणादीनां प्रमेयत्वेन तुल्यत्वे ऽपि प्रमाणप्रमेयादीनामवान्तरभेदविवक्षया षोडशत्वम्, यथा वा तृणविशेष
एवासाधारणतया तृणोलप इत्याख्यायते,
एवं विरुद्धविशेष
एवासावनैकान्तिकादिर्विरुद्धानैकान्तिकादिपदवाच्य
इत्यर्थः ॥
अत्रोदाहरणभाष्यम्—यथा सो ऽयं विकार इति ।
महदहङ्कारपञ्चतन्मात्रैकादेशेन्द्रियभूतसूक्ष्ममहाभूतानि विकारः ।
तस्य व्यक्तिः धर्मलक्षणावस्थापरिणामः,
तस्मादपाय इति ।
अत्र हेतुः
नित्यत्वप्रतिषेधादिति ।
तस्य व्याख्यानम्—न नित्यो विकार उपपद्यत इति ।
अपेतो ऽपि विकारो ऽस्ति विनाशप्रतिषेधात् ।
सो ऽयं नित्यत्वप्रतिषेधादिति हेतुर्व्यक्तेरपेतो ऽपि विकारो ऽस्तीत्यनेन स्वसिद्धान्तेन विरुध्यते ।
एतदेव प्रश्नपूर्वकं विभजते—कथमित्यादिना ।
विरोधस्य द्व्याश्रयत्वात् सिद्धान्तेन विरुध्यते इत्यभिसङ्घाय सिद्धान्तं व्याहन्तीत्युक्तमित्यर्थः ।
तदेतद् भाष्यं व्याचष्टे—उदाहरणमिति ।
ननु नित्यत्वप्रतिषेधादिति हेतुर्विनाशप्रतिषेधेन सिद्धान्तेन विरुद्ध इति ब्रुवाणः शास्त्रविरोधमापादयति ।
तथा च कालात्ययापदिष्टो हेत्वाभासो न विरुद्ध इत्यत आह—एते ते वाक्ये परस्परार्थबाधिते इति ।
दृढतरप्रमाणबाधितो हि हेतुः कालात्ययापदिष्टो भवति, यथा ब्राह्मणेन सुरा पेया द्रवद्रव्यत्वात् क्षीरवदित्ययं हेतुः
गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ।
यथैबैका तथा सर्वा न पेया ब्रह्मवादिभिः ॥
इत्यादिभिरागमैरतिदृढैर्बाधितः कालात्ययापदिष्टतया हेत्वाभासो भवति ।
प्रकृते तु वाक्ये परस्परविरुद्धार्थतया न प्रतिष्ठां लभेते, न पुनरन्यतरदन्यतरेण शक्यं बाधितुं द्वयोस्तुल्यबलत्वात् तस्मात् नायं कालात्ययापदिष्ट इत्यर्थः ॥
व्याख्यानान्तरमाह—प्रतिज्ञाहेत्वोर्वा विरोध इति ।
सो ऽयं विकारो व्यक्तेरपैतीति प्रतिज्ञा नित्यत्वप्रतिषेधादिति हेतुना विरुध्यते ।
व्यक्तिमात्रादपैति, न तु विनश्यतीति हि प्रतिज्ञार्थः अपेतो ऽप्यस्ति विनाशप्रतिषेधादित्यनेन व्याख्यातः ।
तथा च व्यक्तेरपैतीत्येनन विकारस्य नित्यत्वं प्रतिज्ञातं नित्यत्वप्रतिषेधादित्यनेन हेतुना विरुद्धं भवति ।
खसिद्धान्तेनेति स्वपक्षेणेत्यर्थः ।
अत्र चार्थे सुगमं भाष्यम् ।
अत्र वार्त्तिककार-
चोदयति—ननु प्रतिज्ञाविरोध इति ।
प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोध
इत्यर्थः ।
परिहरति—नैष दोष इति ।
प्रतिज्ञाश्रितत्वं विरोधस्य विवक्षित्वा निग्रहस्थानेषु प्रतिज्ञाविरोधस्योपादानम्,
हेत्वाश्रितत्वं तु तस्यैव विरोधस्य विवक्षित्वा हेत्वाभासे ऽन्तर्भाव इति ।
यदा
प्रतिज्ञया हेतुविरोध इति हेतोरप्यन्यतरासिद्धतया प्रतिज्ञाया तुल्यबलत्वाभिप्रायम् ।
यदा तु हेतुरुभयसिद्धो भवति, तदा हेतोर्वा प्रतिज्ञाविरोधकत्वमिति ।
उपसंहरति—अत इति ।
हेतोर्विरोधोदाहरणम् ।
विरोधकत्वं विरोधः ।
शब्दस्योत्पत्तिधर्मकत्वं प्रमाणविनिश्चितं नित्यत्वप्रतिज्ञां बाधत
इत्यर्थः ।
प्रसङ्गात्
हेत्वाभासातिरिक्तस्य प्रतिज्ञापदयोर्विरोधस्य निग्रहस्थानस्योदाहरणमाह—प्रतिज्ञाविरोधस्येति ।
तृतीये ऽध्याये चैष विरोध
उपपादयिष्यते ।
हेतोरन्यतरासिद्धतया समानबलयोः प्रतिज्ञाहेत्वोर्विरोधोदारणं गुणेति ।
हेतुविरोधोदाहरणं नास्त्येको भाव
इति ।
उत्पत्तिमत्त्वं ह्यन्यतरासिद्धमपि शक्यसाधनमिति प्रतिज्ञार्थं व्याहन्ति, समूहे भावशब्दप्रयोगादिति तु उभयसिद्धमेव प्रतिज्ञार्थं व्याहन्तीत्येतावता भेद इत्यर्थः॥ ६ ॥
न्य्स्_१,२।७: यस्मात् प्रकरणचिन्ता सः निर्णयार्थमपदिष्टः प्रकरणसमः ॥
यस्मा—मः ॥ ७॥ प्रकरणशब्दार्थमाह भाष्यकारः विमर्शाधिष्ठानाविति ।
विमर्शः संशयः ।
तस्य विषयौ ।
अनवसितौ अनिर्णीतौ, तादृशयोरेव पक्षप्रतिपक्षशब्दवाच्यत्वात्,
प्रक्रियते साध्यत्वेनाधिक्रियत इत्यनया व्युत्पत्या प्रकरणम् ।
चिन्तापरं व्याचष्टे—तस्य प्रकरणस्य चिन्ता विमर्शात् प्रभृति प्राग् निर्णयात् समीक्षणम् आलोचनं जिज्ञासा ।
सा खलु तत्त्वानुपलब्ध्या कृता ।
नो खल्वयं नित्यधर्मान् नित्यत्वाविनाभाविनो ऽनित्यधर्मान् वा अनित्यत्वाविनाभाविन उपलभमानस्तत्र सन्दिग्धे तद् वा जिज्ञासते ।
सैव नित्यधर्मानुपलब्धिरनित्यधर्मानुपलब्धिर्वा विचित्राभिसन्धितया वादिना निर्णयायापदिश्यमाना प्रकरणसमो हेत्वाभासः ।
कुतः? उभयपक्षसाभ्यात् यथा नित्यत्वपक्षे ऽनित्यधर्मानुपलब्धिरेवमनित्यत्वपक्षे ऽपि नित्यधर्मानुपलब्धिः ।
सेयं तत्त्वानुपलब्धिमात्रविवक्षयोभयपक्षसमा,
प्रकरणसमा तु यथाप्रकरणमनिश्चायकम्
एवमियमपीत्यर्थः ।
व्युत्पत्तिनिमित्तमात्रं चैतत् प्रकरणसमपदस्य, प्रवृत्तिनिमित्तं तु सत्प्रतिपक्षत्वम्, अन्यथानैकान्तिकस्यापि प्रकरणसमत्वप्रसङ्गादिति ।
प्रज्ञापनं प्रज्ञाप्यते अनेनेति व्युत्पत्त्या निदर्शनमुक्तम् ॥
अनैकान्तिकत्वशङ्का सत्प्रतिपक्षस्यास्य व्यवच्छिनत्ति—यत्र समान इति, संशयेन समः अनिश्चायकत्वादिति ।
एतदुक्तं भवति,
न हि नित्यधर्मानुपलब्धिरुभयसिद्धे नित्ये ऽस्ति येन सव्यभिचारो भवेत्,
नाप्यनित्यधर्मानुपलब्धिरुभयसम्मते ऽनित्ये ऽस्ति येन सव्यभिचारो भवेत् ।
अपि तु परस्परमनयोः सत्प्रतिपक्षतयैव
हेत्वाभासत्वमिति ।
यस्मात् प्रकरणचिन्तेत्युक्तं सूत्रकृता,
तत्र यस्मादर्थं प्रश्तपूर्वकं दर्शयति वार्त्तिककारः—कस्मादिति ।
कारणत्वं तत्त्वानुपलब्धेर्व्यतिरेकेण देशयति—यस्मादिति ।
अत एवेति तत्त्वानुपलब्धेरित्यर्थः ।
चोदयति—नन्वयमिति ।
पक्षप्रतिपक्षौ हि प्रकरणम् ।
तौ च साध्यौ ।
ताभ्यां च समः साध्यसमः ।
तथा च साध्यसमात् हेत्वाभासात् न पृथग्
निर्देश्यः प्रकरणसम इत्यर्थः ।
परिहरति—नाविशिष्ट इति ।
यद्यपि प्रकरणसमशब्दो व्युत्पत्त्या साध्याविशिष्टेन समानार्थः,
तथापि प्रवृत्तिनिमित्तमस्य सत्प्रतिपक्षत्वम् ।
न च तत्त्वानुपलब्धिः स्वयमसिद्धा, सा ह्युपलम्भनाभावेन सुलभेति भाव ॥
परमतमनुभाष्यातिप्रसङ्गापादनेन दूषयति—ये तु संशयहेतुत्वादिति ।
चोदयति—समूह इति ।
यस्मिन् सति भवत्येव तत् कारणम्, समूहे सति च भवत्येव नैकैकस्मिन्, तत्त्मात् नैकैकं कारणमिति भावः ।
परिहरति—समूहः कारणमितीति ।
न ह्यकारणानां समूहः कारणं भवितुमर्हति, अतिप्रसङ्गात् ।
न च समूहिवैलक्षण्यमन्तरेणाजानतः समूहस्य वैलक्षण्यम् ।
तस्मात् समूहिन एवान्योन्यसमवधानवन्तः कारणम् ।
तथा च प्रत्यक्षस्योपपन्नं संशयकारणत्वम् ।
न च यस्मिन् सति भवत्येव तत् कारणम्, अपि तु यस्मिन् सत्येव न त्वसतीति लक्षणभङ्गभङ्गे वक्ष्याम इति ॥
ननूभयधर्मानुपलब्धिरुभयपक्षसाधारणीति सव्यभिचार एवेत्यत आह—उभयधर्मानुपलब्धाविति ।
नोभयधर्मानुपलब्धिरत्र हेतुः, अपि तु एकधर्मानुपलब्धिः ।
न चासौ साधारणी,
किं तु तत्प्रतिपक्षेत्यर्थः ।
उभयविशेषानुपलब्धेः प्रकरणसमत्वेन अभिधानाशक्यत्वात् प्रकरणसमस्योदाहरणान्तरं दूषयति—शरीरादन्यत्वं त्विति ।
परेषां किलोदाहरणं नित्य
आत्मा शरीरादन्यत्वाद्
आकाशवदिति ।
तत्र शरीरादन्यत्वम् उपलभमानो यदा तत्त्वं नित्यत्वमात्मनः प्रत्येति, न हि तदा जिज्ञासितुं नित्यत्वं प्रवर्तते ।
यदा तु तत्त्वं नित्यत्त्वं नोपलभते शरीरादन्यत्वमुपलभमानो ऽपि तदा प्रवर्तते ।
तस्मादन्वयव्यतिरेकाभ्यां तत्त्वानुपलब्धिरेव प्रकरणचिन्ताप्रवर्तिका न शरीरादन्यत्वम् ।
तस्मात् नैतत् प्रकरणसमस्योदाहरणम् ।
अपि तु तत्त्वानुपलब्धिरेव ।
इतश्चैतन्न प्रकरणसमस्योदाहरणमित्याह—शरीरादन्यत्वं चानैकान्तिकम् ।
उपसंहरति—अतश्च न सूत्रार्थः
न सूत्रविषयः ।
एवमन्यान्यपि सत्प्रतिपक्षोदाहरणान्यूहनीयानि ॥ ७ ॥
न्य्स्_१,२।८: साध्याविशिष्टः साध्यत्वात् साध्यसमः ॥
साध्या—मः ॥ ७॥ अत्र साध्यसम
इति लक्ष्यनिर्देशः ।
साध्याविशिष्ट इति लक्षणम् ।
तदनेन स्वरूपासिद्धैकदेशासिद्धाश्रयासिद्धान्यथासिद्धानां सङ्ग्रहः, तेषामसिद्धत्वेन साध्याविशिष्टत्वात् ।
अत्र चासिद्धः साध्यसम इति वक्तव्ये साध्याविशिष्टग्रहणमन्यतरासिद्धस्यापि सिद्धेः प्रागहेतुत्वज्ञापनार्थम् ।
अन्यथात्यन्तासिद्ध
एव साध्यसमो नान्यतरासिद्धः तस्य कदाचित् सिद्धेरिति भ्रान्तिः स्यात् ।
साध्याविशिष्टेन तु सो ऽपि सङ्गृहीत इति ।
नन्वेवं साध्याविशिष्टत्वेनान्यतरासिद्ध
एव स्यात् नेतरे, नेषामसिद्धत्वेन साध्याविशेषाभावादित्यत
उक्तं सूत्रकृता साध्यत्वादिति ।
यदि हि साध्यं नासिद्धं भवेत् साध्यत्वादेव च्यवेत, न खलु सिद्धं साध्यते ।
तस्मात् साध्यत्वादसिद्धता ।
सा च कस्यचित् सर्वदा, कादाचित्की कश्चिदिति सर्वेषामविशिष्टत्वमिति नाव्याप्तिः ।
नापि साध्यत्वस्यातिप्रसक्त्यातिव्याप्तिः
हेत्वाभाससामान्यलक्षणापेक्षत्वात् तद्विशेषलक्षणस्येति सूत्रार्थः ।
साध्नीयत्वादिति भाष्यगतं न साध्यत्वादित्यस्य व्याख्यानम्,
अपि तु गतिमत्त्वस्यासिद्धत्वपरम् ॥
अत्र वार्त्तिककारः सूत्रार्थं व्याचष्टे—साध्येनाविशिष्टो य इति ।
साध्येन व्यभिचारो मा भूदित्यत
आह—साधनधर्म इति हेत्वाभाससामान्यलक्षणयोगे सति एतल्लक्षणमिति न व्यभिचार इति भावः ।
अत्र भाष्यकारेण स्वरूपासिद्धाश्रयासिद्धान्यथासिद्धानां साधारणमुदाहरणमुक्तम्—द्रव्यं छाया गतिमत्त्वादिति ।
तद्विभजते वार्त्तिककारः
द्रव्यं छायेति ।
अत्र स्वरूपासिद्धतां तावदाह—यथैवेति ।
आश्रयासिद्धतामवतारयितुं गतिमत्तं छायायाः पञ्चावयवेन वाक्येन साध्यति—गतिमत्त्वमिति ।
आश्रयासिद्धतामाह—नाश्रयासिद्धत्वादिति ।
सत्या एव छायाया देशान्तरे दर्शनाद् यो ऽस्या गतिमत्त्वमनुभिनोति तं प्रत्याश्रयासिद्धं देशान्तरे दर्शनम्,
तदाश्रयस्यासिद्धत्वात् ।
तदिदमुक्तम्—सति द्रव्याभाव इति, सति सत्त्व इत्यर्थः, न तावत् छाया सामान्यविशेषसमवायान्तर्भूता तस्या नित्यताभावात् ।
नापि कर्म, संयोगविभागासमवायिकारणत्वाभावात् ।
न गुणो द्रव्यासमवायात् ।
न मनोदिक्कालगुणः,
तद्गुणानामप्रत्यक्षत्वात् ।
नाप्यात्मगुणो बाह्येन्द्रियप्रत्यक्षत्वात् ।
नापि नभोनभस्वतोः,
तद्गुणानामचाक्षुषत्वात् ।
नापि तेजसः,
तद्विरोधित्वात् तत्सहचरितगुणान्तरानुपलब्धेश्च ।
अत एव न पृथिवीपाथसोरपि ।
अपि च तद्गुणश्चाक्षुषो नालोकमन्तरेण शक्यग्रहः ।
छाया तु तमन्तरेण गृह्यते,
तस्मिंस्तु सति न गृह्यते इति दुर्घटम् ।
नापि द्रव्यम्, तद्धि पृथिव्यादीनाममन्यतमद् भवेद् अन्यद्
वा दशमम् ।
न
तावदन्यतमम्,
तद्गुणानामनुपलब्दधेः, नाप्यन्यद् रूपवदिति युज्यते, तस्याद्रव्यस्य प्रत्यक्षत्वानुपपत्तेः,
अस्पर्शवत्वादनाम्भकत्वेनानेकद्रव्यत्वाभावात् ।
तस्माद् भाभाव एव छाया न तु सतीति सिद्धम् ॥
यस्तु मन्यते मा भूत्
छाया सती, भवतु भाभावः तथापि नाश्रयासिद्धता देशान्तरदर्शनस्य भाभावाश्रयत्वादेवेति तं प्रत्यभ्युपेत्यान्यथासिद्धतया साध्यसमत्वमापादयति—अभ्युपेत्येति ।
स्वाभाविको हि सम्बन्धो हेतोः साध्येन सहानुमानाङ्गं नौपाधिक इति विवेचितमनुमानलक्षणे ।
तदयमन्यथासिद्ध औपाधिकसम्बन्धो भवति हेत्वाभासः ।
सेयं हेतोरसिद्धिर्द्विधा स्वरूपतो हेतुत्वेन च ।
स्वरूपतो ऽपि द्वेधा, स्वत आश्रयासिद्ध्या च ।
न चैतावता सव्यभिचारादीनामपि हेतुत्वासिद्धेरसिद्ध एवान्तर्भावः सव्यभिचारत्वादिविशेषणेन तेषामतो भेदात् ।
अन्यथासिद्धस्य तु तद्विशेषणत्वायोगिनो हेतुत्वासिद्धिमात्रेण साध्यसमे ऽन्तर्भाव
इति सर्वमवदातम् ।
सङ्कलयति—सो ऽयमिति ।
त एते ऽसिद्धभेदा उदाहरणभेदेष्वपि द्रष्टव्याः, यथा नित्यः शब्दः
चाक्षुषत्वादिति स्वयमसिद्धः ।
तनुभुवनादीनां न कर्ता ईश्वरो ऽशरीरत्वादित्याश्रयासिद्धः ।
स श्यामो मैत्रतनयत्वात् परिदृश्यमानमैत्रतनयस्तोमवदित्यन्यथासिद्धः,
अन्नपानपरिणतिभेदनिबन्धनत्वात् रूपभेदस्यान्यथासिद्धत्वमिति ।
अयमप्यसिद्धत्वात् इति भाष्ये अपिशब्देन
आश्रयस्य छायाया अपि सत्त्वेनासिद्धिः सूचिता ॥
अत्र भदन्तेन इदं साध्यसमलक्षणमुदाहरणान्तरं कल्पयित्वा दूषितम् ।
इदं किलास्योदाहरणम्,
नित्यः
शब्दो ऽस्पर्शत्वाद् बुद्धिवदिति ।
तदेतत् त्रिधाप्यसिद्धं न भवतीति दूषयित्वा भदन्तेन शङ्कितम्, अथ साध्येनाविशिष्टो दृष्टान्तो यस्मिन् स साध्याविशिष्टो हेत्वाभास इति बुद्धेर्दृष्टान्तस्य नित्यत्वेनासिद्धत्वात्
इत्याशङ्क्य बहुव्रीह्यभावेन दूषितम् ।
तदेतत् सर्वमनभ्युपगमेन वार्त्तिककारो दूषयति—नित्यः शब्द इति ।
यद्येतत् नोदाहरणं किमुदाहरणं को वा सूत्रार्थ इत्यत आह—यथा त्वस्माभिरिति ।
अयं भदन्तोक्तो दोष इत्यर्थः ।
कस्मादित्यत आह—भदन्तेन सूत्रार्थो न विज्ञातः, न हि सव्यभिचारो ऽनेन लक्ष्यते येन सव्यभिचारमस्पर्शवत्त्वमस्योदाहरणं स्यात्, किं तु साध्यसमः ।
नापि व्यधिकरणबहुव्रीहिदूषणेनाक्षरार्थो ज्ञातः ।
नापि बुद्धिवदिति दृष्टान्ताभासमेव हेत्वाभासं कुर्वता हेत्वाभासदृष्टान्ताभासौ ज्ञातौ भदन्तेनेत्यर्थः
॥ ८ ॥
न्य्स्_१,२।९: कालात्ययापदिष्टः कालातीतः ॥
काला—तः ॥ ९ ॥ अत्र कालातीत इति लक्ष्यनिर्देशः,
कालात्ययापदिष्ट इति लक्षणम् ।
हेतोरपदेशस्य हि साध्यसन्देहविशिष्टः कालः ।
यथाहुः—
नानुपलब्धे न निर्णीते न्यायः प्रवर्तते,
अपि तु सन्दिग्धे इति ।
परे ऽप्याहुः
सन्दिग्धे हेतुवचनात्
इति ।
यत्र च प्रत्क्षानुमानागमविरोधः,
अनुष्णो ऽग्निर्द्रव्यत्वादिति च अश्रावणः शब्दो गुणत्वादिति च, शुचि नरशिरःकपालं प्राण्यङ्गत्वादिति च, स सर्वः प्रमाणतो विपरीतनिर्णयेन सन्देहविशिष्टं कालमतिपततीति सो ऽयं कालस्यात्ययेनापदिश्यमानः कालातीत
इति ।
तथा चोदाहृतं
यत्तु प्रत्यक्षागमविरुद्धं न्यायाभासः सः ।
इत्यत्र वार्त्तिककृता बाधाविनाभावयोः सहासम्भव इति चात्र बौद्धानामाक्षेपो ऽस्माभिः समाहितः ।
एवं व्यवस्थिते भाष्यकारः सूत्रं स्वपरमतश्लिष्टं व्याचष्टे—कालात्ययेन संशयकालात्ययेन युक्तो यस्य हेतोरपदिश्यमानस्याथैङ्कदेशः ।
धर्मविशिष्टो हि धर्मी हेतोरपदिश्यमानस्यार्थः ।
सर् ह्यति हेतुना, तस्यैकदेशः साध्यधर्मः ।
स हि धर्मिणि बलबला प्रमाणेन तद्विपरोतधर्मनिर्णयं कुर्वता संशयकालमतिपातितः ।
स तादृशो हेतुः कालात्ययापदिष्टः कालातीत
इति स्वमतेनास्यार्थः ।
अत्र च पूर्वमेवोदाहृतमिति पौनरुक्त्यात्
नोदाहृतम् ।
परमते च कालात्ययेन युक्तो यस्य हेतोरर्थरूप एकदेशो हेतुविशेषणमिति यावत्, स कालात्ययापदिष्ट
इति योजना ।
परमतेनैव निदर्शनमाह—निदर्शनमिति ।
नित्यत्वं चात्रावस्थानमात्रमभिमतमिति,
न
घटादिभिरालोकसंयोगव्यङ्ग्यैर्व्यभिचारः ।
तदेतत् पञ्चावयवं वाक्यमुपन्यस्य संयोगव्यङ्ग्यत्वस्य हेतोरेकदेशस्य विशेषणस्य संयोगस्य व्यक्तिकालात्ययेन हेत्वाभासतामाह—अयमहेतुरिति ।
स पुनरयमसिद्धविशेषणतया हेत्वाभासः साध्यसम एवेति न पृग्वाच्य
इति स्थूलतया एष दोषो भाष्यकारेण नोद्भावितः ॥
यत् पुनः भदन्तेन कालातीतसय व्याख्यानं कृतं प्रतिज्ञानन्तरं हि हेतोः कालः ।
तमतीत्य हेतुः पश्चादपदिश्यमानः कालातीतो भवति ।
तद् यथा, अनित्यः शब्दः
घटादिवदित्युक्ते कस्मादित्यनुयुक्तो हेतुं ब्रूते कृतकत्वादिति स कालातीत
इति ।
तच्चैवं तेन दूषितम्—किं निराकाङ्क्षे वादिनि एष प्रतिवादिनः प्रश्नः,
आहो साकाङ्क्षे? यदि निराकाङ्क्षे तदा न्यूनमेवास्य निग्रहस्थानम्, न हेत्वाभासस्तस्याप्रयोगात् ।
प्रयुक्तो हि हेतुस्तदाभासो वा स्यात्
नाप्रयुक्तः ।
अथ साकाङ्क्ष एव वादिनि प्रतिवादिनः प्रश्नः, तथापि पश्चादप्यसौ हेतुः प्रयुक्तो हेतुरेव, न ह्यसौ तदा न स्वसाध्याविनाभूतः,
अपक्षधर्मो वेति ।
तस्मात् न कालतीतो नामास्ति हेत्वाभास
इति ।
तदेतद् भदन्तदूषणम्
एतद्व्याख्यानानभ्युपगमेन परिहरति—अवयवविपर्यासवचनं त्विति ।
अनभ्युपगमहेतु पृच्छति—कस्मादिति ।
उत्तरम्—यस्येति ।
अर्थेन सामर्थ्येन सम्बन्धो ऽर्थसम्बन्धः ।
अपि च पौनरुक्त्यादपि नाभ्युपगम्यत
इत्याह—अवयवेति ॥
यस्यापदिश्यमानस्य इत्यादि पुनरुच्यत
इत्यन्तं वार्त्तिकं भाष्यव्याख्यानेनैव व्याख्यातम् ।
शङ्कते—समीकृते ऽभिधानादिति ।
अयमर्थः
नैतदप्राप्तकालेन निग्रहसथानेन पुनरुक्तम्,
अपि तु हेत्वाभास एव ।
स ह्यवयवविपर्यास उच्यते यत्रैकग्रन्थेनैव वादी प्रतिज्ञोदाहरणादि प्रयुज्य पश्चात्
हेतुं प्रयुङ्क्ते, एष तु प्रतिज्ञोदाहरणे प्रयुज्य विरतः प्रतिवादिनानुयुक्तः पश्चात्
हेतुं प्रयुङ्क्ते ।
तस्मात्
न्यूनतादूषणेन पक्षे समीकृते
पक्षमात्रतां नीते सिद्धावस्थातः प्रच्याविते पश्चादभिधानात् हेतारेष कालातीतो हेत्वाभासः, न पुनरप्राप्तकालम् ।
निग्रहस्थानमिति चेदिति ।
निराकरोति—केनेति ।
यदि हेत्वभिधानेन न्यूनतया समीकृतः पक्षः किमत्रहेतोरसामर्थ्यम्? न ह्यन्यदोषेणान्यो युज्यत इत्यर्थः ।
शङ्किता ब्रूते—एतदस्येति ।
निराकरोति—नैतदिति ।
न्यूनतया निगृहीतो यदि पश्चादभिधानेन निग्रहीतव्यः ततो वाद्येव निगृह्यतां न त्वयं पश्चादभिहित इति समर्थः शक्यो हेतुर्निग्रहीतुमिति नायं समीकृताभिहितत्वेनापि हेत्वाभास
इत्यर्थः ।
उभयनिराकरणमुपसंहरति—तस्मादिति ॥ ९ ॥
न्य्स्_१,२।१०: वचनविधातो ऽर्थविकल्पोपत्या छलम् ॥
उद्देशक्रमानुरोधेन लक्षणक्रमस्य हेत्वाभासानन्तरं छलस्योद्देशात् छललक्षणस्यापि हेत्वाभासलक्षणानन्तर्यमाह भाष्यकारः—अथ छलम् ॥
वच—लम् ॥ १० ॥ यथा वक्तुरभिमतो ऽर्थः
ततो विरुद्धः अर्थः तस्य कल्पः कल्पना, सैवोपपत्तिः
तया ।
अथ लक्षणान्तर इव छलस्य सामान्यलक्षणे कस्मादुदाहरणं न दीयत इत्यत आह—न सामान्यलक्षणे इति ।
सामान्यविशेषवत् सर्वमुदाहरणम्, निर्विशेषस्य सामान्यस्यासत्त्वेन केवलस्य सामान्यस्योदाहरणमशक्यमित्यर्थः ।
विभागे त्विति ।
विभज्यत इति विभागो विशेषलक्षणम्, तस्मिन् उदाहरणानि॥ १० ॥
न्य्स्_१,२।११: तत् त्रिविधं वाक्छलं सामान्यच्छलमुपचारच्छलं च ॥
छलसामान्यलक्षणमभिधाय तद्विशेषलक्षणान्यभिधातुं प्रथमं तावत्
न्यूनाधिकसङ्ख्याव्यवच्छेदार्थं विभाग लक्षणसूत्रमवत्तारयति—विभागश्चेति ।
विभज्यते ऽनेति विभागः सूत्रमुच्यते ।
तत् त्रि—च ॥ ११ ॥
न्य्स्_१,२।१२: अविशेषाभिहिते ऽर्थे वक्तुरभिप्रायादर्थानतरकल्पना वाक्छलम् ॥
तत्र च विशेषलक्षणमवतारयति ।
तेषां छलानां मध्ये वाक्छलं लक्ष्यते—अवि—लम्
॥ १२ ॥ नवः कम्बलो ऽस्येति एकत्र विग्रहः,
नव कम्बला अस्येति अपरत्र इति विग्रहे विशेषः ।
वाक्छलमिति शब्दार्थं व्युत्पादयति—वाचि निमित्ते छलं वाक्छलमिति ।
नवकम्बल इत्युभयत्रापि समानायां वाचि निमित्तभूतायामित्यर्थः ।
तदेतच्छलं पराजयावस्थायां जल्पे प्रयोक्तव्यमित्युक्तम् ।
परवाक्ये पर्यनुयोगो ऽस्येति चोक्तम् ।
तदत्र यथा पर्यनुयोगः, तथा दर्शयति शिष्यहिततया भाष्यकारः—अस्य प्रत्यवस्थानमिति ।
उभयार्थप्रतिभाने सम्भवत्पदार्थपरित्यागेनासम्भवत्पदार्थकल्पनम्
अयुक्तमित्यर्थः ॥
अथ प्रयोक्तापि कथं साधारणेन शब्देनार्थविशेषं बोधयति? अबोधयंश्च कथं प्रतिपादको नाम इत्यत आह—प्रसिद्धश्चेति ।
सम्बन्धस्वरूपमाह—अभिधानामिधेययोर्यो नियमः, अयमेव शब्दो ऽस्यैवार्थस्येति ।
तत्र यः पुरुषस्य नियोगः अस्मादयमेव बोद्धव्य
इत्येवमाकारः, किमतो यद्येवमित्यत
आह—प्रयुक्तपूर्वाश्चेति ।
तथापि किमित्यत आह—प्रयोगश्चेति ।
तामिमां भूमिरचनां प्रकृते योजयति—तत्रैवमर्थगत्यर्थ इति ।
एतदुक्तं भवति, न सङ्केतकरणावस्थायां वृद्धव्यवहारे वा कश्चित् शब्दः कञ्चिदर्थ शृङ्गग्राहिकया बोधयति, अपि तु
सामान्यद्वारेणार्थप्रकरणादिसहकारी विशेषे वर्तते ।
तस्मात् नैष प्रतिपादयितुरपराधो यदेष विशेषशब्दैर्विशेषं न प्रतिपादयति,
किं तु सङ्केतस्यापराधो यो विशेषमपहाय सामान्ये शब्दानां वर्तते ।
तस्माद् यथासङ्केतं बोधयन् नापराध्यः प्रयोक्तेति सिद्धम् ।
सामर्थ्यमेव दर्शयति—यत्रार्थे क्रिया चोदनेति ॥
स्यादेतत् ।
अविशेषाभिहिते ऽर्थे इति न युक्तम् न हि नवकम्बल इति पदं प्रकरणादिनिरपेक्षं कञ्चिदर्थमविशेषेणाभिधत्ते गवादिशब्दवत् ।
न हि सङ्ख्याविशेषे च नवीनत्वे चास्ति कश्चित् सामान्यविशेषो बाहुलेयादिष्विव गोत्वं यमभिदधीतेत्यत
आह वार्त्तिककारः—सामान्यश्रुतीति ।
अभिहितिः अभिहितम् ऊच्चारणमिति
यावत् ।
समानः शब्दो नार्थे सामान्यमित्यर्थः ।
अश्व इति नामपदमश्वत्वस्य वाचकम्, आख्यातपदं यदा कस्यचिदभिमुखं प्रयुज्यते अश्व इति,
तदा वृद्धिं गतो ऽसीति प्रतीयते ।
चोदयति—अविशेषेति ।
समानो हि शब्दो ऽभिधेये संशयमाधत्ते न त्वर्थमभिधत्त इत्यर्थः ।
परिहरति—न प्रकरणादीन् इति ।
श्वेतो धावतीति इतः सारमेयो द्रुततरं याति,
श्वित्री प्रक्षालयतीत्यर्थसन्देह इत्यर्थः ।
अर्थ
इत्यस्य प्रयोजनमाह—अर्थग्रहणमिति ।
अविशेषश्रुतौ शब्दे सति अर्थे अर्थान्तरकल्पना,
न शब्द इत्यर्थः ।
अस्य
प्रत्यवस्थानमित्यादि भाष्यं व्याचष्टे—तस्येति ।
सुगमम् ॥ १२ ॥
न्य्स्_१,२।१३: सम्भवतो ऽर्थस्यातिसामान्ययोगाद् असम्भूतार्थकल्पना सामान्यच्छलम् ॥
सम्भव—लम् ॥ १३ ॥ सम्भवतो ऽर्थस्य ब्राह्मणविशेषस्य विद्याचरणसम्पद्विषयत्वेन विद्याचरणसम्पदमत्येति यत् सामान्यं ब्राह्मणत्वं व्रात्ये ब्राह्मणे, तस्य ब्राह्मणत्वस्यातिसामान्यस्य योगादसम्भूतार्थकल्पनया यः प्रतिषेधः
तत् सामान्यच्छलम् ।
अहो न खल्वयं ब्राह्मणो विद्याचरणसम्पन्न इति हि स्तुत्यर्थं वाक्यमभ्यनुजानतोक्तं सम्भवति ब्राह्मणे विद्याचरणसम्पदिति तदेतदपि वाक्यं स्तुत्यर्थमेव, न त्वस्य ब्राह्मणत्वात् हेतोर्विद्याचरणसम्पद्
विवक्षितेति ।
तत्र परो हेत्वर्थमस्या विवक्षितमारोप्य वचनं विहन्तीति तदिदं सामान्यच्छलम् ।
विषयानुवाद
इति ।
सम्पद्विषयस्य ब्राह्मणत्वस्यानुवाद
इत्यर्थः ।
कस्य? अविवक्षितहेतुकस्य पुंसः ।
तदेतद् वार्त्तिककारो व्याचष्टे—सामान्यस्येति ।
विवक्षितार्थमधिगतं सामान्यमित्यर्थः ।
शेषं सुबोधम्॥१३ ॥
न्य्स्_१,२।१४: धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेधः उपचारच्छलम् ॥
धर्म—लम् ॥१४॥ शब्दस्य धर्मः प्रयोगः
तस्य विकल्पो द्वैविध्यम् ।
द्विविधः प्रयोगः,
प्रधानो भाक्तश्च ।
तत्रापि प्रधान औत्सर्गिकः, तस्य तु कुतश्चिदपवादाद्
भाक्तो भवति ।
तदेतदाह भाष्यकारः—अभिधानस्य शब्दस्य यथार्थं प्रयोगो धर्मः औत्सर्गिकः ।
तत् किमयमेव? नेत्याह—विकल्पो द्वेविध्यम् ।
को ऽसौ द्वितीय इत्यत आह—उत्सर्गस्य तु कुतश्चिदपवादाद् अन्यत्र दृष्टस्यान्यत्र प्रयोगः ।
तदेवं व्यवस्थितेन धर्मविकल्पेन निर्देशे वाक्ये, निर्दिश्यते ऽनेनेति व्युत्पत्त्या ।
तत्र भाक्तविवक्षायां मञ्चाः क्रोशन्तीति, अत्रार्थसद्भावेन प्रतिषेधः ।
तमेवार्थसद्भावमाह—मञ्चस्थाः पुरुषाः क्रोशन्ति, न तु मञ्चाः क्रोशन्तीति ।
वार्त्तिकमते त्वर्थसद्भावस्यैव प्रतिषेध इति व्याख्येयम् ।
ननु यद्यन्यत्र दृष्टस्यान्यत्र प्रयोगः, हन्त सर्वं सर्वत्र प्रयुज्येतेत्यत आह—उपचारो नीतार्थः प्रापितार्थः ।
सहचरणादिना निमित्तेनेति, अन्यत्र दृष्टस्याप्यन्यत्र प्रयोगः सम्बन्धादेव भवतीति ।
नातिप्रसङ्ग इत्यर्थः ।
न छन्दतः न छद्मनेत्यर्थः ।
ननु यदि भाक्ततयाप्युपपत्तिः,
न किञ्चित्
जल्पाकभाषितं दुष्टं स्यात् ।
सर्वस्यैव यथाकथञ्चिद्
भाक्तत्वेनोपपत्तेरित्यत आह—प्रधानभूतस्येति ।
भाक्तस्येत्येतावति वक्तव्ये प्रधानग्रहणं सिद्धतया दृष्टान्तलाभाय ।
लोकसिद्ध
एवोपचारः कर्तव्यो नापूर्वो विना प्रयोजनम्,
लोकसिद्धश्चायमुपचारो मञ्चाः क्रोशन्तीत्यर्थः ॥
सूत्रत्र्याख्यानपरं वार्त्तिकं धर्मविकल्पनिर्देशशब्देन सूत्रस्थेन ।
अभिधानं प्रयोगः शब्दस्य धर्मो भवन् द्विधाभिधीयते द्वैविध्यमाह—प्रधानमिति सो ऽयम्
अभिधानाभिधेयव्यवहार इति, अभिधानं शब्दः ।
अभिधेयो गम्यः ।
स च क्वचिद् वाच्यः,
क्वचिद् भाक्त इत्यर्थः ॥ १४ ॥
न्य्स्_१,२।१५: वाक्छलम् एवोपचारच्छलं तद् अविशेषात् ॥
परीक्षापर्वणः सन्निधानात् तदर्थं लक्षणपर्वण्यपि योग्यायै सूत्रकारः छन्नलक्षणं परीक्षते—वाक्छ–त्॥१५ ॥
स्थान्यर्थो गुणशब्दो यो वस्तुतः स एव प्रधानशब्दः स्थानार्थ इति कल्पयित्वेति योजना ।
यथा हि वाक्छवले नवीनार्थो नवशब्दः सङ्ख्या भेदे कल्पितः, तथेहापीति पूर्वः पक्षः ॥ १५ ॥
न्य्स्_१,२।१६: न तदर्थान्तरभावात् ॥
सिद्धान्तसूत्रम्—न त–त् ॥ १६ ॥ तस्य उपचारच्छले अर्थसद्भावप्रतिषेधस्य अर्थान्तरकल्पनातो वाक्छलादित्यर्थः ।
सूत्र तात्पर्यमाह—वार्त्तिककारः—अविशेषादित्यस्येति ।
विधेयं वस्तु, मञ्चाः क्रोशन्तीत्यत्र क्रोशनं विधीयते, मञ्चा इति त्वनूद्यते ।
अत एव
गुणे त्वन्यार्थकल्पना
इति मञ्चा इत्येतदप्रधानमनूद्यतया भाक्तम् ।
न तु क्रोशन्तीति
न विधौ परः शब्दार्थः
इति न्यायात् ।
तदिह विधीयमानं क्रोशनमेव वस्तु प्रतिषिध्यते, नैव मञ्चाः क्रोशन्तीति छलवाक्येन ।
नवकम्बलो देवदत्त इति वाक्ये तु देवदत्तमनूद्य नवत्वविशिष्टः कम्बलो विधीयते ।
तत्र न विधेयस्य वस्तुनः कम्बलस्य सद्भावः प्रतिषिध्यते, किं तु तदेकदेशस्यानेकताया इति महान् भेद इति सिद्धान्तः ॥ १६ ॥
न्य्स्_१,२।१७: अविशेषे वा किञ्चित्साधर्म्यात् एकच्छलप्रसङ्गः ॥
अवि—ङ्गः ॥ १७ ॥ किञ्चित्साधर्म्यात् त्रित्वाभावे द्वित्वस्याप्यभ्युपगतस्याभाव प्रसङ्गः ।
ओमिति ब्रूवतो वस्तुत्वेन समस्तभेदोच्छेदप्रसङ्गः ।
भाष्यवार्त्तिके अतिरोहितार्थे ॥ १७ ॥
न्य्स्_१,२।१८: साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः ॥
उद्देशक्रमानुरोधेन जातिलक्षणक्रममाह भाष्यकारः—अतः छललक्षणाद्–ऊर्ध्वम् ।
साध–तिः ॥ १८ ॥ प्रतीपमवस्थानं प्रत्यवस्थानम्, तथा सति छलस्य सम्यग्दूषणस्य च जातित्वप्रसङ्गः ।
अत उक्तम्—साधर्म्यवैधर्म्याभ्यामिति ।
न च च्छले साधर्म्यवैधर्म्ये स्तः ।
न च सम्यग्दूषणं साधर्म्यवैधर्म्यमात्रात्, अपि तु प्रयोगादिति ।
प्रयुक्ते हेतौ तदाभासे वा यः प्रसङ्गो जायते स जातिरिति ।
जल्पे हि वेदप्रामाण्यं विद्वांसं प्रति कुहेतुना यदा नास्तिकैरधिक्षिप्यते, सदुत्तरं चास्य यदा सहसा न प्रतिभाति तदेश्वराणां जनाधाराणां मा भूद् वेदाप्रामाण्यबुद्धिरिति जात्यापि प्रत्यवस्थेयम् ।
अन्यथेश्वरचरितानुवर्त्तिनीनां प्रजानां विप्लवो भवेदिति ।
क्वचित् पुनरबुद्धिपूर्वमेव हेतौ हेत्वाभासे वा जातिप्रयोगः सम्भवति ।
जायमानो ऽर्थः इति जातिपदव्युत्पत्तिनिमिततं दर्शितम् ।
तदेतद् वार्त्तिककारो व्याचष्टे—साधर्म्येणेति ।
यथा पक्षे सति प्रतिपक्षः,
एवं स्थापनायां सत्यां प्रत्यवस्थानमिति ।
सूत्रार्थस्तु यथाश्रुति, न पुनरुदाहरणसाधर्म्येण यथाभाष्यं बोध्यव्यः ।
यद्येवम्, भाष्यं तर्हि कथमित्यत
आह—उदाहरणार्थमिति ।
एवं वैधर्म्येण वेत्येतदपि ।
यथाश्रुति न पुनर्यथाभाष्यम्
उदाहरणार्थं तदित्यर्थः ।
अस्य व्याख्यानस्य गुणाभिधानेन प्रश्नपूर्वकं प्रपञ्चमाह—किमर्थमिदमिति ॥ १८ ॥
न्य्स्_१,२।१९: विप्रतिपत्तिः अप्रतिपत्तिः च निग्रहस्थानम् ॥
विप्र—नम् ॥ १९ ॥ सूक्ष्मविषया प्रतिपत्तिर्विपरीता ।
स्थूलविषया च कुत्सिता, कथमसौ निग्रहस्थानमित्यत आह—विप्रतिपद्यमान इति ।
अप्रतिपत्तिमाह—आरम्भविषय इति लाघवाय विप्रतिपत्त्यप्रतिपत्ती इति वक्तव्ये कस्मादसमासकरणमित्यत आह—असमासाच्चेति ।
विप्रतिपत्यप्रतिपत्तिभ्यामान्यदपि हेतूदाहरणाधिकं नाम जल्पे निग्रहस्थानमस्ति, तदपि ग्रन्थाधिक्येनावरुध्यत इत्यर्थः ।
आरम्भविषये ऽनारम्भ इत्यादि भाष्यम्, तद्
व्याचष्टे—स्वपरार्थोत्तरासंवित्तिरिति ।
द्वेधा खल्वारम्भविषये ऽनारम्भो भवति,
दूष्यं वा परोक्तं साधनं विप्रतिषेधहेतुं वा न प्रतिपद्यते ।
सेयं परार्थोत्तरासम्प्रतिपत्तिः उत्तरग्रहणं साधनमप्युपलक्षयति ।
स्वार्थोत्तराप्रतिपत्तिसतु साधनप्रतिषेधहेतू परकीयौ प्रतिपद्य तत् प्रतिषेद्धुं स्वकीयमुत्तरं न प्रतिपद्यत
इत्यर्थः ।
चोदयति—स्वयं प्रयुक्ते वस्तुतः समर्थे साधने कथम्
अप्रतिपत्तिर्विप्रतिपत्तिर्वेति द्रष्टव्यम् ।
परिहरति—तदापीति ।
समर्थसाधनज्ञानं साधनप्रतिपत्तिर्न साधनमात्रज्ञानमित्यर्थः
॥ १९ ॥
न्य्स्_१,२।२०: तद्विकल्पाञ्जातिनिग्रहस्थानबहुत्वम् ॥
सूत्रान्तरमवतारयितुं भाष्यकार
आह—किं पुनरिति ।
यद्यपि साधर्म्यवैधर्म्याभ्यां दृष्टान्तस्यापि भेदः, तथापि लक्षणाभेदाभिप्रायेणाभेद
उक्तः ।
तद्वि—त्वम् ॥ २०॥ नाना कल्प इति स्वरूपतः,
विविध इति प्रकारतः ।
यथालक्षणमिति यथास्वरूपमित्यर्थः ॥
अध्यायार्थं सङ्क्षिप्याह वार्त्तिककारः—तन्त्रप्रतिज्ञेति ।
तन्त्रस्य शास्त्रस्य प्रतिज्ञा प्रमाणादितत्त्वज्ञानान्निःश्रेयसाधिगम
इति सूत्रम् ।
शास्त्रेमेव हि तत्त्वज्ञानमिति ।
संसारः
दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानामिति ।
तन्निवृत्तिश्च संविदा उत्तरोत्तरापाये तदनन्तराभावाद् अपवर्ग इति ।
तस्मात्
यः प्रमाणादिसूत्रेणोद्देशः, तत्परिकरो द्वितीयं सूत्रम्, द्वाभ्यामुद्देशः ।
शेषं सुबोधमिति ॥ २० ॥
॥ इति वाचस्पतिमिश्रविरचितायां न्यायवार्त्तिकतात्पर्यटीकायां प्रथमाध्यायस्य द्वितीयाह्निकम् ॥
॥ समाप्तः प्रथमाध्यायः ॥
ॐ
न्यायवार्तिकतात्पर्य्यटीकायां
द्वितीयो ऽध्यायः ।
अत ऊर्ध्वं प्रमाणादिपरीक्षेत्यादिभाष्यनिराकरणीयामाशङ्कामाह वार्तिककारः त्रिविधा चास्येति ।
(१८१।४) स्थानवतां क्रमवतां परीक्षावचनमिति प्रमाणमेव परीक्ष्यत
इति युक्तमिति ।
किमत्रादौ प्रमाणं न परीक्षितम्,
किं तु संश्य एव परीक्ष्यत इत्याह ।
तानि विलङ्घ्येति ।
सो ऽयं क्रमभेदः कुत इति भाष्यार्थमाह ।
परीक्षाङ्गत्वादिति ।
उद्देशक्रमानुरोधेन हि प्रमाणं पूर्वं लक्षितम्, न तु लक्षणे संशयस्यास्ति कश्चिदुपयोगः ।
परीक्षा तु सर्वा विमर्षकरणिकेति परीक्षापर्वणि सर्वथा आर्थक्रमेण संशयस्य पूर्वभावः ।
यथाग्निहोत्रं जुहोति
यवागूं पचतीत्यत्राग्निहोत्रात्प्राग्भावो यवागूपाकस्य, तस्याग्निहोत्रसाधनत्वात् ।
संशयलक्षणं चात्र परीक्ष्यते न संशय इति नानबस्थापि ।
देशयति ।
ननु चोक्तमिति ।
शास्त्रगता त्वियं परीक्षा, सा च न विमर्शपूर्वेत्यार्थक्रमाभावान्नोद्देशक्रमो बाधनीय इत्यर्थः ।
परिहरति सत्यं न निर्णये नियम इति ।
न निर्णयः सर्वः संशयपूर्वम्,
विचारः सर्व एव संशयपूर्वः, शास्त्रवादयोश्चास्ति विचार इति तेनापि संशयपूर्वेण भवितव्यम् ।
शिष्टयोश्च वादिप्रतिवादिनोः शास्त्रे विमर्शाभावो न शिष्यमाणयोः, तस्मादस्ति शास्रे ऽपि विमर्शपूर्वो विचारैति सिद्धम् ।
संशीतिरिति संशयस्य निरुक्तम् ।
(१८२।२) नावधारयतीत्यर्थः ।
न्य्स्_२,१।१: समानानेकधर्माध्यवसायादन्यतरधर्माध्यवसायाद्वा न संशय ॥
ननु यथा लक्षणार्थः पूर्वनिरूपितस्तथा निर्बीजः पूर्वपक्ष इत्यत आह ।
तस्य यथाश्रुतीति ।
परीक्षासाध्यो ह्यर्थस्तत्र व्याख्यानेन लक्षणपदेभ्यः साक्षादेव गम्यत इत्यर्थः ।
समानमनयोरिति साक्षात्कारं दर्शयति ।
न हि साक्षात् स्थाणुपुरुषावुपलभमानः समानं चानयोर्धर्म कश्चित्सन्दिग्ध इत्यर्थः ।
व्यवच्छेदात्मकत्वादिति ।
न निश्चयो ऽनिश्चयस्य जनकः, कारणानुरूपत्वात्कार्यस्येर्थः ।
न समानधर्माध्यवसायादेवेति संशयलक्षणोक्तकारणमात्रोपलक्षणपरम् ।
एकवृत्तित्वाच्चेति ।
न हि यावेवारोहपरिणाहौ स्थाणोस्तावेव पुरुषस्येत्यर्थः ॥ १ ॥
न्य्स्_२,१।२: विप्रतिपत्त्यव्यवस्थाध्यवसायाच्च ॥
न्य्स्_२,१।३: विप्रतिपत्तौ च सम्प्रतिपत्तेः ॥
न्य्स्_२,१।४: अव्यवस्थात्मनि व्यवस्थितत्वाच्चाव्यवस्थायाः ॥
विप्रतिपत्तौ च सम्प्रतिपत्तेरिति न स्वरूपविरोधाद्विप्रतिपत्तिरस्तीत्यर्थः ॥ २-४ ॥
न्य्स्_२,१।५: तथात्यन्तसंशयस् तद्धर्मसातत्योपपत्तेः ॥
तथात्यन्तसंशय इति तत्पदान्तरेण समानधर्मोपपत्त्यादेर्विशेषणमपश्यतः पूर्वपक्षः ॥ ५ ॥
न्य्स्_२,१।६: यथोक्ताध्यवसायादेव तद्विशेषापेक्षात् संशये नासंशयो नात्यन्तसंशयो वा ॥
सिद्धान्तमाह अस्योत्तरमिति । ( १८३ । १३ ) यथो-वा (सू। ६) ॥
यदि निर्विशेषणं समानधर्मोपपत्त्यादि संशयकारणमुच्येत ततः पश्चादकरणात्पूर्वमपि न कुर्यादित्यसंशयः पूर्वं वा करणात्त्पश्चादपि कुर्यादित्यत्यन्तसंशयः, न त्वसौ निर्विशेषणः संशयकारणमिति नासंशयो नात्यन्तसंशय
इत्यर्थः ।
एतेनेति समानपदप्रयोगेण ।
सदृशार्थो हि समानशब्द इति पूर्वं व्याख्यातम् ।
यदप्येतत् सारूप्याभावाद (१८४।७)ध्यवसायसंशययोः कार्यकारणयोरिति ।
विशेषानवधारणमुभयोः समानमित्यर्थः ।
भाष्यकारेण तु यत्सारूप्यमुक्तं तत्तथा न बोद्धव्यम् ।
यदि हि कार्यकारणयोरुत्पत्तिः सारूप्यं तदतिव्यापकं चाव्यापकं च ।
नित्यानामपि कारणत्वात् ।
तस्मात्सारूप्यशब्दो न सारूप्यस्य निर्द्देशः ।
अपि तु कार्यकारणधर्मान्वयव्यतिरेकपर
इत्याह ।
कारणसद्भावादिति ।
अनवधारणेनैव तत्त्वानुपलब्धेरिति प्रत्युक्तम् ।
सत्प्रतिपक्षयोरपि मिलितयोरन्यत्रादर्शनेनासाधारण एवान्तर्भावात्,
एकैकविवक्षया तु हेत्वाभासान्तरत्वमिति भावः ।
न चाव्यवस्थातः संशय इति ।
(१८५।२) नासौ पृथक्कारणमपि तु समानधर्मोपपत्त्यादिपरिकरतयेत्यर्थः ।
यत्पुनरेतद्विप्रतिपत्ताविति ।
विषयापेक्षया विप्रतिपत्तिः स्वरूपापेक्षया सम्प्रतिपत्तिरिति ।
एवमव्यवस्थायामपि द्रष्टव्यम् ॥ ६ ॥
न्य्स्_२,१।७: यत्र संशयस्तत्रैवमुत्तरोत्तरप्रसङ्गः ॥
को ऽस्य सूत्रस्येति तात्पर्यप्रश्नः ।
उत्तरं स्वयमिति ।
संशयपूर्वकत्वात्सर्वपरीक्षाणां परिचिक्षिषमाणेन संशयाक्षेपहेतुभिर्न प्रतिषेद्धव्यो ऽपि तु परैरेवमाक्षिप्तः संशय
उक्तैः समाधानहतुभः समाधेयः ।
वथोहित्वेति भाष्ये यदप्युक्तमित्यथः ।
शास्त्रकथायां वादलक्षणायामित्यर्थः
॥ ७ ॥
न्य्स्_२,१।८: प्रत्यक्षादीनामप्रामाण्यम्-- त्रैकाल्यासिद्धेः ॥
न्य्स्_२,१।९: पूर्वं हि प्रमाणसिद्धौ नेन्द्रियार्थसन्निकर्षात् प्रत्यक्षोत्पत्तिः ॥
अथ प्रमाणपरीक्षेत्यादिभाष्यम् ।
आर्थेन हि क्रमेण संशयपरीक्षायामुक्तेनोद्देशक्रमो बाधितः, प्रमाणादिषु तु तद्बाधकारणाभावाद्
उद्देशक्रमानुरोधेन प्रमेयादिभ्यः प्राक्
प्रमाणान्येव परीक्षितानि, तत्रापि प्रथमं प्रमाणसामान्यलक्षणपरीक्षा,
तत्पूर्वकत्वाद्विशेषलक्षणानाम् ।
तत्र सामान्यलक्षणमुपलब्धिसाधनं प्रमाणमिति, तच्चोपलब्धिसाधनत्वं प्रत्यक्षादीनामेवेति प्रत्यक्षादीनामित्युक्तम् ।
तदेतदाह वार्तिककारः ।
अथेदानीमिति ।
(१८६ । १) परीक्षणीयं पृच्छति ।
किं पुनरेषामिति ।
सर्वैरेव वादिभिः स्वसिद्धान्तव्यवस्थापनाय प्रमाणान्यभ्युपगन्तव्यानि,
तदभावे तद्व्यवस्थानुपपत्तेः ।
यस्य तु स्वपक्ष
एव नास्ति, नासौ लौकिको न परीक्षक इत्युन्मत्तवदुपेक्षणीयः ।
तस्मात्सर्वप्राणभृत्सिद्धेर्न प्रमाणसामान्यं परीक्षणीयमिति भावः ।
उत्तरम्, आदौ तावत्सम्भव
इति ।
न परीक्षा संशयमन्तरेणेति संशयबीजमाह ।
सदसतोरिति ।
पूर्वपक्षमाह ।
व्युदस्यसंशयमिति ।
अयमत्र पूर्वपक्षिणो माध्यमिकस्याभिसन्धिः ।
यद्यपि मम विश्वविचारासहत्ववादिनःप्रमाणं नाम न किञ्चिदस्ति विचारसहम्, तथापि लोकसिद्धान्येव प्रमाणानि तैरेव प्रमाणैः पर्यालोच्यमानानि विचारं न सहन्ते, सो ऽयं प्रमाणानामपराधो यानि स्वविरोधेन विलीयन्ते न ममापराध
इति ।
ज्ञानं हि प्रमाणं तद्योगात्प्रमेयमिति चार्थ इति च भवति ।
तद्यदि प्रमाणं पूर्वं प्रमेयादर्थादुत्पद्यते ततः प्रमाणात्पूर्वं नासावर्थ इति इन्द्रियार्थेत्यादिसूत्रव्याधातः
॥ ८-९ ॥
न्य्स्_२,१।१०: पश्चात्सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः ॥ १० ॥
अथ पूर्व प्रमेयं पश्चात्प्रमाणं तत्राह ।
पश्चादिति ।
यद्यपि स्वरूपं न प्रमाणाधीनम्, तथापि तस्य प्रमेयत्वं तदधीनम्, तदपि चेत्प्रमाणात्पूर्वं न प्रमाणयोगनिबन्धनं स्यादित्यर्थः ।
तदिदसुक्तं प्रमेयसञ्ज्ञेति ॥ १० ॥
न्य्स्_२,१।११: युगपत्सिद्धौ प्रत्यर्थनियतत्वात् क्रमवृत्तित्वाभावो बुद्धीनाम् ॥
यौगपद्ये दृष्टव्याघातः,
सूत्रव्याघातश्च ।
प्रयोगस्तुप्रत्यक्षादयो न प्रमाणत्वेन व्यवहर्त्तव्याः कालत्रये ऽप्यर्थाप्रतिपादकत्वात् ।
यदेवं न तत्प्रमाणत्वेन व्यवह्रियते, यथा शशविषाणम्, तथा चैतत्तस्मात्तथेति ।
एवं पूर्वपक्षिते सिद्धान्तमाह ।
अत्र समाधिरिति ।
उपलब्धिहेतोरित्यादिभाष्यस्य कालत्रये ऽप्यर्थाप्रतिपादकत्वादिति हेतोरसिद्धतोद्भावनमर्थः ।
स्वयं वार्त्तिककारो ऽस्यानुमानस्य दूषणमाह ।
प्रत्यक्षादीनामप्रामाण्यमिति चेति ।
(१८७।२)
लब्धात्मकं खल्वनुमानं प्रत्यक्षादीनां प्रमाणानामप्रामाण्यमापादयेत्,
न त्वलब्धात्मकम्, तस्य तु प्रतिज्ञाविरोधेनात्मलाभ
एव नास्तीति कथं तेषामप्रामाण्यमापादयितुमर्हतीति भावः ।
यदि प्रमाणानि नार्थं साधयन्ति, प्रत्यक्षादीनीत्येव न स्यात् ।
न खलु तानि प्रमाणतो ऽसिद्धानि प्रत्यक्षादीनीत्येव भवन्तीत्यर्थः ।
न चैतेषामर्थसान्धनत्वं सामान्यविशेषाभिधायिप्रत्यक्षादिपदगोचरतापीत्याह ।
कथं चान्यथेति ।
अपि च प्रामाण्यनिषेधे न प्रमाणानां प्रत्यक्षादीनामसत्त्वम् ।
न ह्यकमण्डलुर्माणवक
इत्यनेन माणवकः प्रतिषिध्यते, किं तर्हि ?
तस्य कमण्डलुयोगो धर्मः, ततश्च प्रमाणानामसत्त्वं पूर्वपक्षिणो ऽभिमतं न स्यादित्याह ।
धर्मप्रतिषेधाच्चेति ।
शङ्कते ।
अथ भावस्यास्वतन्त्रत्वादिति ।
निराकरोति ।
एवमपीति ।
प्रतिषिध्यमान (१८८।३) इति मात्रे वक्तव्पये विधीयमान इति दृष्टान्तार्थम् ।
एतेन तद्धितार्थ इति ।
प्रामाण्यपदार्थ इत्यर्थः ।
यथाश्रुतश्च हेतुर्व्यधिकरण इत्याह ।
यश्चायं हेतुरिति ।
यत्पुनरित्यादि भाष्यं व्याचष्टे ।
यत्पुनरेतत्प्रमाणेनेति ।
सम्भवः प्रत्यक्षादीनां निवर्त्यत इति ।
प्रत्यक्षादीनामभावे कारकहेतुवचनमित्यर्थः ।
असम्भवं प्रत्यक्षादीनां सिद्धमेव ज्ञापयतीत्याह ।
अथासम्भवो ज्ञाप्यते ।
न ह्यसतो निवृत्तिरिति (१८९।३) नासनू घटो मुद्गरप्रहारेण निवर्त्त्यत इत्यर्थः ॥ ११ ॥
न्य्स्_२,१।१२: त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः ॥
देशयति ।
त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिरित्येवमभिधानेनेति ।
परिहरति ।
नैष दोष इति ।
त्वद्वचनं त्वदभ्युपगमविरुद्धमस्माकं तु नैतद्वचनं नाभ्युपगमविरुद्धमित्यर्थः ।
न च धर्मिणां प्रतिषेधे कश्चिन्न्याय इति ।
(१९०।१) नानुमानं धर्मिप्रतिषेधे प्रभवति, आश्रयासिद्धत्वाद्धेतोरित्यर्थः ।
अपि च प्रमाणमात्रमधिक्षिपतः प्रत्यक्षादीनामप्रामाण्यमिति प्रत्यक्षादीनां प्रामाण्यमिति च वाक्ययोरर्थभेदाभेदौ विचारं न सहेते इत्याह ।
प्रत्यक्षादीनामप्रामाण्यमिति ।
एवमेव वक्तव्यमिति ।
नञोरप्रयोगेण लाघवात् ।
सो ऽसाधर्म्ये वेतिति ।
यदा सत्येव घटे तस्यासामर्थ्यं विवक्षित्वोच्यते नास्ति घट
इति नोदकाहरणसमर्थ इति तदा गम्यते ।
तन्त्रान्तराभ्युपगतानां प्रतिषेध इति ।
तन्त्रान्तरे यादृशं प्रमाणमग्युपेयते तादृशस्याभ्युपगमो भवति ।
यथा प्रधानं नास्तीति जगत्कारणस्य सुखदुःखमोहात्मकत्वं प्रधानत्वं तत्प्रतिषिध्यते,
न युनर्जगत्कारणम्, तस्यान्यादृशस्याभ्युपगमादिति ।
कथमिति प्रमाणाक्षेपः ।
कस्येति प्रतिपाद्याक्षेपः ।
कश्चेति प्रतिपादकाक्षेपः ।
प्रतिपाद्याक्षेपं विभजते ।
अप्रतिपन्न इति ।
प्रतिपादकाक्षेपं विभजते ।
प्रतिपन्नश्चेति ।
क्व ( १९१ । १ ) प्रतिपाद्ये ।
किं प्रतिपाद्यत इति ॥ १२ ॥
न्य्स्_२,१।१३: सर्वप्रमाणप्रतिषेधाच्च प्रतिषेधानुपपत्तिः ॥
यद्युपादीयते उदाहरणं तत्प्रमाणेनानवधारितं न शक्यमुपादातुमिति भावः ।
न केवलमशक्यं व्यर्थं चेत्याह ।
प्रत्यक्षादीनां चेति ।
सर्वैः प्रमाणैरिति ।
उहाहरणादिविषयैः प्रमाणैर्विप्रतिषिद्धो विरुद्धो भवति, बाधितविषयतया प्रमाणाभासो भवतीत्यर्थः ।
विरुद्धं चेत्याह ।
सिद्धान्तमभ्युपेत्येति ।
प्रमाणानामित्यवयवाभिप्रायम् ।
अवर्जयन्निति वर्जनविरुद्धमुपादानमुच्यते, उपाददान
इत्यर्थः ॥ १३ ॥
न्य्स्_२,१।१४: तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः ॥
तत्प्रामाण्येवेति ।
अस्यार्थः ।
यदि माध्यमिको ब्रूयात् प्रत्यक्षादीनामप्रामाण्यं त्रैकाल्यासिद्धेरिति स्ववाक्यावयवाश्रितानि प्रमाणानि यथालोकप्रतीतिसिद्धानि, तैरविचारितसिद्धैरितरेषां प्रामाण्यं प्रतिषिध्यत इति ।
तत्रेदमुच्यते ।
तत्प्रमाण्ये वा अवयवाश्रितप्रतयक्षादिप्रामाण्ये न सर्वप्रमाणविप्रतिषेधो ऽवयवाश्रितानामेव प्रामाण्याभ्युपगमात् ।
किं पुनरिदमविचारितसिद्धत्वम्,
किं विचारासहत्वम्, आहो सर्वजनसिद्धतया सन्देहानास्पदत्वम् ।
तत्र पूर्वस्मिन्कल्पे विचारासहत्वेन स्वयं दुस्थितेनान्येषां प्रामाण्यं बाध्यत इति सुभाषितम् ।
तस्मादुत्तरः कल्पः, तथा च न सर्वप्रामाण्यं तस्यैव प्रामाण्यात् ।
अत्र भाष्यम्, वीत्ययमुपसर्गः सम्प्रतिपत्त्यर्थे प्रतिषेधशब्दार्थमनुजानाति विशेषमभिदधातु न तु तद्व्यतिरिक्तार्थो न व्याघातवचन इत्यर्थः ।
तदिदमुक्तं न व्याघाते ।
कस्मादर्थाभावात् ।
स्ववाक्यावयवाश्रितानां हि प्रमाणानां प्रामाण्ये सर्वप्रमाणप्रतिषेधव्याघातः पूर्वमुक्तस्तत्प्रतिषेधः पूर्वेणविरुध्यते ।
अशक्यश्चेति अर्थाभाव
इत्यर्थः ।
तदेतद्वार्त्तिककारो व्याचष्टे ।
वीत्ययमुपसर्गोविशेषप्रतिषेधे ।
( १९२ । १ ) यावदुक्तं भवति विशेषेण सर्वेषु प्रमाणेषु प्रतिषेध इति, तावदुक्तं भवति विप्रतिषेध इति, प्रतिषेधशब्दार्थाभ्यनुज्ञानत्वाद्विशब्दस्य ।
तेन न सर्वप्रमाणविप्रतिषेध इत्यनेन विपदसहितेन किमुक्तं भवति ।
इदमुक्तं भवति कानिचिदिति ।
अवयवाश्रितानि प्रमाणानि विचार्य समुदायं विचारयति ।
चच्चेति ॥ १४ ॥
न्य्स्_२,१।१५: त्रैकाल्याप्रतिषेधश्च-- शब्दादातोद्यसिद्धिवत्तत्सिद्धेः ॥
तदिदं सूत्रकारेण त्रैकाल्यासिद्धेरित्यनुयागस्यप्रतिषेधे ऽपि साम्यादप्रमाणविरोधश्चापादितः, सम्प्रत्यसिद्धतोद्भावनपरं सूत्रं पठति ।
त्रैका-द्धेः सू। १५ तत्पाठमाक्षिपति ।
किमर्थमिति ।
स्वातन्त्र्येण चेदस्य सूत्रस्यार्थः पूर्वमुक्तः, कृतं सूत्रपाठेनेत्यर्थः ।
परिहरति ।
पूर्वोक्तेति ।
न तदस्माभिरुत्सूत्रमुक्तमपि तु सूत्रार्थ एवेति ज्ञापनार्थं सूत्रपाठो ऽस्माकमित्यर्थः ।
नियमेन यः प्रतिषेधः पूर्वमेव वा पश्चादेव वा सहैव वेति तं प्रतिषेधति ।
अनियमेति ।
खलुशब्दो ऽयं यस्मादर्थे ।
यस्मादनियमदर्शोंऋषिः ।
वार्तिकं तदुत्थानज्ञापनार्थः सूत्रपाठ इति दर्शयति ।
पाठक्रममतिलङ्घ्य कस्मात्तत्रैवेदमिति ।
अत्रैव तद्भाष्यं कस्मान्नोक्तमिति च द्रष्टव्यम् ।
परिहरति ।
अविशेषादिति ।
अथ शब्दः श्रोत्रविवरे समवेतः कथमातोद्यमसम्बद्धं गमयतीत्यत
आह ।
यो ऽसौ वीणावेणुशब्दयोरिति ।
अयं शब्दो धर्मी वीणाङ्गुलिसंयोगजशब्दपूर्व
इति साध्यो धर्मः, तन्निमित्तासाधारणधर्मवत्त्वात्,
पूर्वोपलब्धवीणानिमित्तध्वनिवदिति ।
तदिदमुक्तं वीणानिमित्तकत्वमिति ।
धूमदर्शनादिति ।
संयोगिना हि वह्निना विशिष्टो धूमो ऽनुमीयते न कारणेन, अस्तीति वर्त्तमानावभासानुपपत्तेरिति ॥ १५ ॥
न्य्स्_२,१।१६: प्रमेयता च तुलाप्रामाण्यवत् ॥
यत्पुनराक्षिप्यते यदनियतं न तत्परमार्थसत्–यथा रज्ज्वामारोपितं सर्पत्वम्, तामेव हि रज्जुं तदैव कश्चित्सर्प
इति कल्पयति कश्चिद्धारेति ।
स एव कदाचित्सर्प
इति कल्पयित्वा पश्चाद्धारेति कल्पयति, तथा च प्रमाणप्रमेयभावस्तस्मान्न परमार्थसन्निति ।
अत्रेदमुत्तरसूत्रम् ।
प्रमेया च तुला प्रामाण्यवदिति (सू। १६) ।
तद्योजनिकां करोति ।
प्रमाणं प्रमेयमिति चेयमिति ।
अयमभिसन्धिः ।
क्षणभङ्गपरिणामनिरासे सति स्वकारणादुत्पन्नं स्थिरं वस्तु तत्तद्वस्त्वन्तरसन्निधानात्तत्तद्धर्मयोगे सति तत्तदबुद्धिव्यपदेशमनुभवति ।
समावेशं दर्शयितुम्पृच्छति ।
यदा पुनरिति ।
( १९३ । १ )
उत्तरम्, तदा निमित्तेति ।
अस्वय चार्थस्य ज्ञापनार्थं सूत्रं प्रमेया च तुलाप्रामाण्यवदिति ।
न केवलं प्रमाणं समाहारगुरुत्वे तुला, यदा पुनरस्यां सन्देर्हे भवति प्रामाण्यं प्रति तदा सिद्धप्रमाणभावेन तुलान्तरेण यत्परीक्षितं सुवर्णादि तेन प्रमेया च तुला, प्रामाण्यवत् ।
यथा प्रामाण्ये तुला प्रमेया च तथान्यदपि सर्वं प्रमाणं प्रामाण्ये प्रमेयमित्यर्थः ।
तदेतद्भाष्यकृदाह,
एवमनवयवेन कार्त्स्न्येन ।
तन्त्रार्थः ।
शास्त्रार्थ
इति ।
क्वचित्प्रमातृत्वप्रमेयत्वप्रमाणत्वादीनां समावेशो यथाऽत्मनि ।
स हि प्रमाता प्रमीयमाणश्च प्रमेयम्, तेन तु प्रमितेन तद्गतगुणानतरानुमाने प्रमाणम् ।
क्वचित्पुनः प्रमाणत्वप्रमेयत्वफलत्वानां समावेशो यथा बुद्धौ, क्वचित्पुनः प्रमाणत्वप्रमेयत्वयोः,–यथा संशथादौ ।
सेयं समावेशस्य तन्त्रार्थव्याप्तिरिति ।
तथा च कारकशब्दा इति ।
अत्र पूरयित्वा व्याचष्टे वार्तिककारः ।
यथा च प्रमाणेति ।
यावन्ति ।
यत्र निमित्तानि तावतां तत्र नैमित्तिकानां प्रवृत्तेरवश्यम्भावो नियमः ।
खस्थितौ वृक्षः स्वातन्त्र्यात्कर्तेति भाष्यम् ।
तत्र स्वातन्त्र्यं पृच्छति वार्त्तिककारः, किं पुनः स्वातन्त्र्यमिति ।
इतरकारकाप्रयोज्यत्वम्, (सः प्रयोजको ऽयं न कारकान्तराणाम्) प्रयोजकत्वं च कारकान्तराणां कर्तुः स्वातन्त्र्यमुक्तम ।
इह तु कारकान्तराणामभावात्तादृशं स्वातन्त्र्यं नास्तीति भावः ।
उत्तरं कारकान्तरानपेक्षत्वम्,
कारकान्तरापेक्षस्य हि प्रयोजकतया कथञ्चित्स्वातन्त्र्यं विवक्ष्यते तदनपेक्षस्य नितरां स्वातन्त्र्यमित्यर्थः ।
यदायं स्थितिशब्दो गतिप्रतिषेधवचन
इति ।
यावदुक्तं भवति न गच्छतीति, तावदुक्तं भवति तिष्ठतीति ।
अत्र च निषेधस्य निषेध्याधीननिरूपणतया तदुपाधिः पूर्वापरीभावो न तु स्वरूपेण निषेधस्य पूर्वापरीभावसम्भव इति ।
यदाप्यस्तेरभिधायक इति ।
सत्तासामान्याभिधायक
इत्यर्थः ।
अस्ति व्यनक्तीति ।
वृक्षस्य हि महत्त्वे सति रूपवत्त्वे सति सत्तासमवाय एव सत्ताव्यञ्जकत्वम्,
तत्र चानपेक्ष इत्यर्थः ।
गेहसम्बन्धानुभावो ( १९४ । २ ) गेहसम्बन्धप्राप्तिः समवायः ।
तद्विषया क्रिया गतिविधारकः प्रयत्नस्तेन हि स तिष्ठति ।
घटो गृहेस्तीति त्वौपचारिकः प्रयोगः ।
यदाप्ययमभग्नवचन इति ।
अत्रापि निषेध्यस्य पूर्वापरीभावोपाधिरेव निषेधस्य तथाभावः ।
अथ वा तिष्ठतीत्यत्रापि कया चिद्विवक्षया कारकान्तरापेक्षास्तु,
तथापि तत्प्रयोजकत्वेनैव स्वातन्त्र्यमित्याह ।
समुदायेति ।
अवयवानां समूहः समुदायस्तदेकदेशो ऽवयव
इति ।
ध्रियत इति कर्त्तरि लकारः ।
प्रत्यभिज्ञानविषयता वा स्थितिः ।
तस्यां सत्यामपि कारकान्तरापेक्षायां प्रयोजकतया स्वातन्त्र्यमित्याह ।
पूर्वापरेति ।
अनेके पर्यायवन्तः प्रत्ययाः प्रागनु तत्ताश्रयस्य धर्मिणः पुनरनुभवः ।
अथ स्मृतिरथ प्रतिसन्धानमिति ।
वैनाशिको देशयति ।
चक्रेति ।
यदेव दण्डसंयोगेन चक्रभ्रमणं तदेवेदमुपरते ऽपि दण्डसंयोगे इत्यर्थः ।
परिहरति न प्रमाणेति ।
नासति बलवति बाधके प्रमाणे प्रत्यभिज्ञानस्य शक्यं मिथ्यात्वम्, ज्वालादिषु तु तदस्तीत्यर्थः ।
न च समस्तप्रतिसन्धानप्रत्ययमिथ्यात्वे मिथ्याप्रतिसन्धानप्रत्ययो भवितुमर्हति बीजा (भावा) दित्याह ।
मिथ्याप्रत्ययाश्चेति ।
वैनाशिकः पृच्छति ।
अथ भवत इति ।
एवं ब्रुवाणः प्रत्यक्षमप्रमाणयन्न शक्यस्तेन बोधयितुमित्यनुमानं प्रमाणमाह ।
उक्तं प्रमाणमात्मलक्षणे ।
रूपेति ।
(१९५।४) अनुमानान्तरमाह ।
कारयिस्येति ।
कार्यकालानुभवनं कार्यकालप्राप्तिः ।
वैनाशिकः शङ्कते ।
अनाघारमिति ।
प्रतीत्य पूर्वभावं विकृत्येत्यर्थः ।
दूषयति ।
तन्नेति ।
ओधयस्याधारसमानकालत्वमनुभवसिद्धं तेनाधारेण कारणेनु कार्यकालं स्थातव्यम् ।
अनाधारत्वं तु कार्यस्य नानुभवगोचरः,
अपि तु युक्त्या साध्यम्, सा च दृष्टान्ताभावादनुपपन्ना ।
न च विप्रतिपत्तिमात्रादनुभवः शक्यो ऽपवदितुम्,
क्षणभङ्गसाधनानि च निराकरिष्यन्ते ।
यदि हि रूपादीनामाधारवत्त्वं निषिध्यते ततो ऽस्याभ्युपगमविरोधोभवति,
भूतानि पूथिव्यादीनि भौतिका रूपादय
इति ।
अभ्युगमान्तरविरोधमाह ।
यच्चेक्तं भवद्भिरिति ।
न केवलं रूपादीनामाश्रितत्वं भवद्भिरभ्युपगतमुपपन्नं चेत्याह ।
अनाश्रितत्वाच्चेति ।
पृच्छति ।
कर्मणि कः कारकार्थः ।
(१९६।३) कारकशब्दार्थः ।
क्रियानिमित्तं हि कारकं यत्पुनः क्रियाया एव व्याप्यं न तत्क्रियानिमित्तमिति न कारकम् ।
अकारकं च कथं कर्म ।
कारकाधिकारित्वात् कर्मसञ्ज्ञाया इति भावः ।
उत्तरं क्रियाविषयत्वमिति ।
अनात्मसमवेतक्रियाफलशालित्वं क्रियाविषयत्वं कर्मत्वम्, देवदत्तसमवेतया हि क्रियया दर्शनलक्षणया वृक्षविषयो ऽनुभवोजन्यते,
इदमेव चानुभवस्यार्थविषयत्वं यदर्थाधीननिरूपणत्वमित्युक्तं प्रमाणलक्षण इति ।
तेन क्रियांविषयस्य क्रियातः प्राग्भावाद्युक्तं कारकत्वम् ।
एवं च विकार्यप्राप्ययोरुपपन्नः कर्मभावः निर्वर्त्यस्य तु पदादेर्यद्यपि क्रियायाः प्राग्भावो नास्ति, तथापि तदवचवानां तन्तून प्राग्भावस्तेषां तादर्थ्येन पटत्वे उपचारात्पटं करोतीति युक्तः प्रयोगः ।
तथा हि सहचरणादिसूत्रे वक्ष्यति कटार्थेषु वीरणेष्विति ।
एतेन कर्मलक्षणेनार्हि लङ्घयति, ग्रामं गच्छन् वृक्षमूलान्युपसर्पतीत्यादयो ऽपि सङ्गृहीता वेदितव्याः ।
नगरं गच्छति चैत्र
इत्यत्र यथा प्राप्तिर्नगरसमवेता, एवं चैत्रसमवेतापीति चैत्रस्यापि क्रियाजनिकफलशालिनो मा भूत्कर्मत्वमित्यत उक्तमनात्ममवेतेति ।
आत्मविषये ऽपि च मानसप्रत्यक्षे यद्यप्यात्मनो न कर्मता, तथापि ज्ञानक्रिया सकर्मिकैवात्मधर्मस्यात्मव्यतिरिक्तस्य कस्यचित्कर्मणो ःवभासनादिति सर्वमवदातम् ।
वृक्षः सम्प्रदानं भवतीति ।
पाणिनीयलक्षणानुरोधेन लौकिकप्रयोगानुरोधाच्च सम्प्रदानमिति नेयमन्वर्थसञ्ज्ञेति भावः ।
गुरुत्वप्रतिबन्धे कारणमिति प्रकृतोदाहरणाभिप्रायम् ।
तथा च गुणादीनामप्योधेयत्वाधिगतेर्द्रव्यादिभिराधेयभावः सिद्धो भवति ।
तेन न द्रव्यस्वभावः कारकमिति यदुक्तं माध्यमिकेन तदस्माकमभिमतमेव,
काल्पनिकं तृ कारकं न मृष्यामह इत्यनेनाभिसन्धिना भाष्यकारेणोक्तम् ।
एवं च सतीति ।
न क्रियामात्रमिति(१) ।
नावान्तरक्रियामात्रम् ।
यत्प्रधानक्रियासाधनमवान्तरक्रियाविशेषयुक्तमिति ।
तदेतदनुभाष्य वार्तिककारो व्याचष्टे ।
एवं च सतीति ।
तदनेन कारकसामान्यमुक्तम् ।
विशेषलक्षणपरं भाष्यं यत् क्रियासाधनं स्वतन्त्रमिति, तद्व्याचष्टे यदा तु विशेष
इति ।
(३९७।२) स्यादेतत् ।
क्रियासाधनकित्येतावदेवास्तु,
क्रियाविशेषयुक्तमिति वा कृतभुभयोपादानेनेत्यत
आह ।
सर्वस्य च कारकस्येति ।
यद्यवान्तरक्रियामात्रमुच्यते ततस्तस्मिन् सर्वस्य कर्त्तृत्वात्कारकवैचित्र्यं न स्यात्, प्रधानक्रियामात्रोपादाने च तत्र सर्वेषामवान्तरव्यापारमन्तेरण वैचित्र्यायोगादत
उभयोपादानं प्रयोजनवदिति ।
एवं लक्षणत
इति भाष्यं व्याचष्टे ।
एवं च शास्त्रमिति ।
देशयति ।
यदीति ।
परिहरति ।
न शक्तेरिति ।
पुनर्देशयति ।
शक्तेरिति ।
परिहरति ।
नैष दोष इति ।
ननु बुध्द्यादयो ऽपि शक्तिव्यक्तिहेतवो न चैते क्रियारूपाः, किन्तु गुणरूपा इत्यत
उक्तं क्रियेत्यनेनेति ।
सामर्थ्यम्बलम् ।
दुर्बलो हि जानन्नप्युपायं न व्यापारयति, यथा पाणिना कुण्ठः कुठारम्, तेन शक्तिक्रियासम्बन्धयोः कारकशब्दो मुख्यः, शक्तिमात्रे तु गौण
इति ।
प्रकृते योजयति ।
कारकशब्दाश्चायमिति । (१९८।५)
न्य्स्_२,१।१७: प्रमाणतः सिद्धेः प्रमाणानां प्रमाणान्तरसिद्धिप्रसङ्गः ॥
सम्प्रति प्रकारान्तरेण प्रमाणान्याक्षिप्य समाधीयन्ते ।
अस्ति भोः कारकशब्दानामिति ।
(१९८।७) अत्रैते कल्पा उपप्लवन्ते ।
किं प्रत्यक्षादीनामुपलब्धिः समाधना निःसाधना वा ।
यदापि ससाधना तदापि किमेभिरेव प्रत्यक्षादिभिराहो प्रमाणान्तरेण ।
यदाप्येभिस्तदापि किं तयैव प्रत्यक्षव्यक्त्या ।
अथैका व्यक्तिर्व्यक्त्यन्तरेणेति ।
तत्र प्रमाणान्तराभ्युपगमे विभागसूत्रव्यावातः,
अनवस्थापातश्च ।
तत्र प्रत्यक्षादिभिः प्रत्यक्षाद्यन्तराणां ग्रहणे अनवस्थापातः ।
तयैव व्यक्त्या तु ग्रहणे आत्मनि वृत्तिविरोधः ।
न हि तयैवासिधारया सैवासिधारा छिद्यते ।
तस्मादसाधना प्रमाणोपलब्धिः,
एवं चेत् कृतं प्रमेयसाधनैः प्रमाणैः, प्रमाणवदसाधनैवास्तु प्रमेयोपलब्धिरिति पूर्वः पक्षः ।
नासाधना प्रमाणसिद्धिर्नापि प्रत्यक्षादिव्यतिरिक्तप्रमाणाभ्युपगमो येन विभागसूत्रव्याघातः स्यात् ।
नापि च तयैव व्यक्त्या तस्या एव ग्रहणमुपेयते,
येनात्मनि वृत्तिविरोधा भवेत् ।
अपि तु प्रत्यक्षादिजातीयेन प्रत्यक्षादिजातीयस्य ग्रहणमातिष्ठामहे ।
न चानवस्था अस्ति किं चित्प्रमाणं यस्त्वज्ञानेनान्यधीहेतुः,
यथा धूमादिः ।
किञ्ञ्चित्पुनरज्ञातमेव बुद्धिसाधनं यथा चक्षुरादि, तत्र पूर्वं स्वज्ञाने चक्षुराद्यपेक्षं चक्षुरादि तु ज्ञानानपेक्षमेव ज्ञानसाधनमितिक्वानवस्था,
बुभुत्सपा च तदपि शक्यज्ञानं साच कदाचिदेवक्वचिदिति तदर्थं प्रमाणान्तरपेक्षायामनवस्थेतिवाच्यम् ।
दृष्टार्थे संशयादपि प्रवृत्तौ सत्यां प्रवृत्तिसामर्थ्येन तस्य सुज्ञानत्वात्, अदृष्टार्थेषु प्रवृत्तिसामर्थ्यावघृतमामाण्यप्रमाणसाधर्म्येण तस्यशक्यज्ञानत्वादिति दर्शितं प्रथमे सूत्रे ।
तस्माप्रत्यक्षादिभिः प्रत्यक्षादीनामुपलब्धिर्नचानवस्थेति सिद्धान्तः ।
भाष्यं–भो इखामन्त्रणे ।
कुतः पुनरुपलब्धिहेतुत्वमत आह ।
संवेद्यानिचेति, चोहेतौ ।
उपलब्धिविषयत्वं कुत इत्यत आह ।
प्रत्यक्षं मे ज्ञानमिति ॥१७ ॥
न्य्स्_२,१।१८: तद्विनिवृत्तर्वा प्रमाणसिद्धिवत् प्रमेयसिद्धि ॥
न्य्स्_२,१।१९: न प्रदीपप्रकाशसिद्धिवत् तत्सिद्धेः ॥
प्रदीपभावाभावयोर्दर्शनस्य तथाभावात् ।
ज्ञातृमनसोश्च दर्शनादिति (१००।१) भाष्यम्, तद्व्याचष्टे वार्तिककारः ।
न चायमेकान्त
इति ।
ज्ञाता ज्ञेय इति सकर्माभिप्रायम्, न ह्यन्यस्पवय समवेता ज्ञानक्रिया येनात्मनः कर्मता स्यात् अपि तु ज्ञातृस्थैव, परसमवेतक्रियाफलशालि हि कर्मेत्युक्तम्, तस्मात्सुखादीनामात्मधर्माणामत्र कर्मता, आत्मनस्तु प्रकाशमानता, तत्र विवक्षया ज्ञेयत्वाभिधानम्, मनस्तु यद्यपि स्वज्ञानं प्रति करणं कर्म च, तथापि न स्वात्मान वृत्तिविरोधः ।
यदि हि ज्ञातं करणं भवेत्तदाऽत्माश्रयदोषप्रसङ्गः ।
स्वसत्तया च ज्ञानं प्रति करणम्, अन्यच्चास्य ज्ञानमन्या सत्ता, न च तत्समवेता ज्ञानक्रिया,
किं त्वात्मसमवेता, तस्माज् ज्ञेयत्वं ज्ञानसाधनत्वं च मनसो न दोषमर्हतीति ।
येतु प्रदीपप्रकाशो यथा न प्रकाशान्तरमपेक्षते, एवं प्रमाणान्तरमनपेक्षमाणान्यपि सन्ति भविष्यन्तीत्याचार्यदेशीया मन्यन्ते,
तान् प्रत्याह ।
न्य्स्_२,१।१९[अ]: क्वचिन् निवृत्तिदर्शनाद् अनिवृत्तिदर्शनाच् च क्वचिद् अनेकान्तः ॥
क्वचि-न्तः (सू। १९) ॥
यथायं प्रसङ्गः प्रमाणानामनपेक्षत्वप्रसङ्गः, प्रदीपे प्रदीपान्तरानपेक्षया प्रकाशकत्वदर्शनात्प्रमाणान्तरानपेक्षाण्येवालोकवत्प्रमाणानि सेत्स्यन्ति, एवमर्थमुपादीयते प्रसङ्ग, प्रमेयाण्यप्यनपेक्षाण्येव सेत्स्यन्तीत्येवमर्थमप्युपादेयः, तथा च प्रमाणभाव इत्यर्थः ।
तदेवं प्रदीपदृष्टान्ताश्रयणेन प्रमाणाभावप्रसङ्गमुक्त्वा स्थाल्यादिदृष्टान्तोपादाने तु प्रमाणस्यापि प्रमाणान्तरापेक्षेत्पयाह ।
यथा च स्थाल्यादिरूपग्रहण इति ।
तदेतद्भाष्यं व्याचष्टे वार्तिककारः, यथा प्रदीपप्रकाशः सजातीयानपेक्षस्तथा प्रमाणानि सजातीयानपेक्षाणि न पुनर्यथा स्थाल्यादिरूपं प्रमाणापेक्षं तथा प्रमाणान्यपि प्रमाणापेक्षाणीति ।
कस्मात्पुनः स्थाल्यादिरूपं प्रमाणापेक्षमित्यत आह ।
स्थाल्यादिरूपप्रकाशने चेति ।
२०० । १८ प्रदीपप्रकाशस्तत्र प्रमाणमिति लोकसिद्धमित्यर्थः ।
कस्मादेवं स्थालीरूपवन्न प्रमाणानि, तान्यपि प्रमाणान्तरेण प्रकाश्यन्तामित्यर्थः ।
तदनेन प्रदीपदृष्टान्तेन निरपेक्षत्वं न तु स्थाल्यादिदृष्टान्तेन सापेक्षत्वमित्यत्र नियमहेतुर्नास्तीत्युक्तम्,
नियमान्तरहेत्वभावमाह ।
अयं च प्रदीपप्रकाशदृष्टान्त
इति ।
यथा हि प्रमाणानि प्रदीपदृष्टान्तेन निरपेक्षाणि, एवं तेनैव दृष्टान्तेन कस्मान्नप प्रमेयाण्यपि, ततश्च प्रमाणाभावप्रसङ्गः ।
न हि प्रमाणानामेव प्रदीपो दृष्टान्तो न प्रमेयाणामिति नियमहेतुरस्ति ।
तदनेन यथा प्रसङ्ग इति भाष्यं व्याख्यातम् ।
प्रदीपप्रकाशो दृष्टान्तो भवत्वि त्यनेनायमेव दृष्टान्तो नायमिति नियमो निराकृतः, पूर्वेण तु प्रदीपदृष्टान्तेन निरपेक्षत्वमेव न तु स्थालीदृष्टान्तेन सापेक्षत्वमित्ययं नियमो निराकृत इति न पुनरुक्तम् ।
प्रकाशकत्वादिना तु हेतुना सङ्गृहीतः प्रदीपदृष्टान्तो भवतीति नियमः शक्यो वक्तुम् ।
केवलं प्रकाशकत्वं सजातीयान्तरानपेक्षत्वे साध्ये विकल्पनीयम्, किमत्यन्तसजातीयमाहो सजातीयमात्रम्, यद्यत्यन्तसजातीयं ततः सिद्धसाधनम्,
न हि चक्षुरादि प्रमाणं स्वग्रहणे चक्षुराद्यन्तरमपेक्षते,
अथ कथञ्चित्सजातीयम्, तदपेक्षत्वमालोकस्याप्यस्ति,
तस्यापि चक्षुराद्यपेक्षत्वात्ततश्च साध्यहीनो दृष्टान्तः, विरुद्धश्च हेतुर्विषयज्ञानमपि विषयज्ञानेन न गृह्यते किन्तु ज्ञानविषयेण ज्ञानेनेति नात्यन्तसजातीयमिति, तदनेनाभिप्रायेण वार्तिककृतोक्तमनेकान्त इत्ययं दोषो न भवति ।
(२०१।३) दोषान्तरं तु भवतीत्यर्थः ।
इतरग्रन्थस्तु सिद्धान्तं दर्शयद्भिरस्माभिरुपपादितार्थ
इति न व्याख्यातः ।
येनानवस्थामुपाददीतेति सोपहासम् ॥ १९ ॥
न्य्स्_२,१।२०: प्रत्यक्षलक्षणानुपपत्तिर् असमग्रवचनात् ॥
प्रत्य-त् (सू। २०) ॥
प्रत्यक्षलक्षणं चानेन सूत्रेणोच्यते प्रत्यक्षस्वरूपं वा, न तावत्प्रत्यक्षकारणमित्याह ।
यदिदं भवता प्रत्यक्षलक्षणमुच्यत इति ।
प्रत्यक्षकारणामित्यर्थः ।
कारणे सति कार्यं लक्ष्यते ज्ञानमिति ।
द्वितीयं कल्पं शङ्कते अथेति ।
(२०२।१)सिद्धान्तवाद्याह ।
नोभयथापीति ।
लक्षणपक्ष एव सिद्धान्तो ऽभिमतः, कारणपक्षाभ्युपगमः प्रौढिवादेन द्रष्टव्यः ।
सकलप्रत्यक्षव्यापकमसाधारणं कारणमवधार्यते ।
न हीदृशमन्यत्कारणमात्ममनः संयोगो वा इन्द्रियमनः- संयोगो वा प्रत्यक्षस्यास्ति, पूर्वस्य साधारणत्वाद् उत्तरस्य चाव्यापकत्वादिति ।
समाधानान्तरमाह, अर्थतो वेत्यादिना मनःसन्निकर्षो ऽपि कारणमित्यन्तेन
॥ २० ॥
न्य्स्_२,१।२१: नात्ममनसोः सन्निकर्षाभावे प्रत्यक्षोत्पत्तिः ॥
तदेवं सिद्धान्तसारमुक्तं नात्ममनसोरित्यादिसूत्रमपठित्वैव भाष्यकारो व्याचष्टे ।
न चासंयुक्ते द्रव्य
इति ।
सर्वं हि कारणजातं कार्योपजननाय परस्परसमवधानमपेक्षते, अन्यथाप यत्र तत्र स्थितेभ्यो ऽपि कारणेभ्यः कार्यमुपजायेत ।
तदात्मनापि मनः- सम्बद्धेन कार्यञ्जनयितव्यम्,
सम्बन्धश्चात्ममनसोः संयोग एव ।
भवतु वा संयोगजं ज्ञानम्, अर्थेन्द्रियात्मसंयोगजं कस्मान्न भवति, कृतं मनःसंयोगेनेत्यत
आह ।
मनःसन्निकर्षे इति ।
तस्मादात्ममनःसन्निकर्षो ऽपि वक्तव्य इति पूर्वपक्षः ।
तदिदं नात्ममनसोः सन्निकर्षेत्पादिसूत्रं पाठस्य पुरस्तात्कृतभाष्यम् ।
तदेतद्वार्तिककारो भाष्यमनुभाष्य पूर्वपक्षसूत्रं पठति ।
नात्म-त्तिः (सू। २१) ॥ सूत्रार्थमाह ।
आत्ममनसोरिति ।
पूर्वपक्षस्य क्षणमप्यवस्थानमसहमानो वार्तिककारः प्रतिषेधमस्योक्तं स्मारयति ।
नोक्तेति ।
(२०३।२) ॥ २१ ॥
न्य्स्_२,१।२२: दिग्देशकालाकाशेष्वप्येवं प्रसङ्गः ॥
तदेवं द्वाभ्यां सूत्राभ्यां पूर्वपक्षिते सति भावमात्रेण
इन्द्रियार्थसन्निकर्षादीनामनेन कारणत्वमुक्तमिति मन्यमानः पार्श्वस्थः प्रत्यवतिष्ठते ।
सति चेन्द्रियार्थेति (१) ।
न सति भावमात्रेण कारणत्वमाकाशादीनामपि कारणत्वमतङ्गात् ।
तादृशश्चात्ममनः- संयोग
इन्द्रियात्मसंयोगश्चेति न कारणं युक्तमित्यर्थः ।
दूषयति ।
अकारणभावे ऽपीति ।
नान्वयमात्रात्कारणत्वनिश्चयः,
अपित्वन्वयव्यतिरेकाभ्याम्, न च दिगादावस्ति व्यतिरेकः, नित्यत्वविभुत्वाभ्यामवर्जनीयः सन्निधिः, सेन्द्रियशरीरवर्त्यात्ममनः- संयोगस्त्वन्वयव्यतिरेकावधृतसामर्थ्यः,
सुप्तस्य ज्ञानानुत्पादात् ।
इन्द्रियार्थसन्निकर्षे त्वमति विप्रकृष्टे व्यवह्रिते च ज्ञानं न जायते,
इन्द्रियमनःसन्निकर्षाभावे तु नायुगपज्ज्ञानानि भवन्ति, तस्मान्नाकाशादीभिरतिप्रसङ्ग
इति ।
तदेतद्वार्तिककारो व्याचष्टे ।
येच सति भावात् कारणभावं वर्णयन्ति पूर्वपक्षिणश्च सिद्धान्तिनो वा असति न भवतीति दैवाद् आगतो व्यतिरेको ।
न तु प्रयोजकस्तान् प्रति पार्श्वस्थो ब्रूते ।
तेषां दिग्देशेति ।
यथा चान्द्रमसं रूपमिति ।
यद्यपि तत्रापि तेजस्यौष्ण्यमस्ति तथाप्यत्यन्ताभिभवेन स्वोचितार्थक्रियानुपयोगादसत्कल्पत्वमित्यर्थः
॥ २२ ॥
न्य्स्_२,१।२३: ज्ञानलिङ्गत्वादात्मनो नानवरोधः ॥
एवं पार्श्वस्थे निरस्ते पूर्वपक्षी ब्रूते ।
यद्येवमिति (२०४।२) सिद्धान्त्याह ।
नोपसङ्ख्येय इति ।
ज्ञान-धः (सू। २३) ॥ अत्र ज्ञानस्यात्मलिङ्गत्वमुच्यते,
ज्ञानं तावत्कार्यमनित्यत्वाद् घटवत् ।
(तच्च)
क्व चित् समेवतं कार्यत्वाद् घटवत् ।
न च तत्पृथिव्याद्याश्रितं मानसप्रत्यक्षत्वात् ।
यत्पुनः पृथिव्याद्याश्रितं तत् प्रत्यक्षान्तरवेद्यमप्रत्यक्षमेव वा ।
न च तथा ज्ञानं द्रव्याष्टकातिरिक्ताश्रितम् ।
तदाश्रयश्च द्रव्यजातीयः, समवायिकारणत्वादाकाशवत् ।
तस्य च विभुत्वमात्मलक्षणे ऽस्माभिरुक्तम् ।
अतो गुणजातीयं ज्ञानम्, कार्यत्वे मति विभुद्रव्यसमवायाच् शब्दवत् ।
एवं व्यवस्थिते प्रश्नोत्तरे वार्त्तिकगते व्याख्यातव्ये ।
आत्मसमवायादिति ।
कार्यत्वे सति विभुद्रव्यसमवायादित्यर्थः ।
विभुद्रव्यसमवाय एवासिद्ध इति वदतु आह ।
न पृथिव्यादिगुणः स्वसंवेद्यत्वात ।
मानसप्रत्यक्षवेद्यत्वादित्यर्थः ।
स्वपरसम्बद्धं प्रत्यक्षान्तरवेद्यं द्रष्टव्यम् ।
अन्यथा पृथिव्यादिगुणेन द्वित्वादिना व्यभिचारः स्यादिति ।
तस्माज् ज्ञानलिङ्ग आत्मा, न त्वसावसंयुक्तो ज्ञानं जनयति ।
तस्य सदातनत्वे सदा ज्ञानोत्पादप्रसङ्गात् ।
तस्मात्संयोगभेदं कादाचित्कमपेक्षत इत्यर्थात्सिद्ध
आत्ममनःसंयोग इति न सूत्रकृतोक्तः ।
प्रौढिवादितयैष समाधिरिति दर्शयितुमुक्तमेव परमसमाधिंस्मारयति ।
उक्तं चात्रेति ॥ २३ ॥
न्य्स्_२,१।२४: तदयौगपद्यलिङ्गत्वाच्च न मनसः ॥
अन्यार्थमिति ।
प्रमेयभूतमनःस्वरूपप्रतिपादनार्थम् ।
अन्यार्थस्यापिप तदर्थप्रकाशकत्वम् (१०५।२) उपपत्तिः ।
लिङ्गम् ।
ईदृशं हि तल्लिङ्गं यदन्यार्थमपि मनसो ज्ञानकारणत्वं प्रतिपादयतीति ।
न हि ज्ञानं स्वतन्त्रं येन स्वकारणं मनो नापेक्षेत, नापि चक्षुरादि स्वतन्त्रं ज्ञानजनने येन मनोज्ञानकरणं न स्यादित्याह ।
न चक्षुरादीति ।
तस्मादर्थप्राप्तत्वादात्मनःसंयोग
इन्द्रियमनःसंयोगश्च नोक्तौ सूत्रकारेण
॥ २४ ॥
न्य्स्_२,१।२५: प्रत्यक्षनिमित्तत्वाच्चेन्द्रियार्थयोः सन्निकर्षस्य स्वशब्देन वचनम् ॥
देशयति ।
अथ कस्मादिति ।
इन्द्रियार्थसन्निकर्षे ऽप्यर्थतः प्राप्तिरविशिष्टेति भावः ।
परिहरति ।
प्रत्यक्षेति सर्वानमिधाने हि प्रत्यक्षं न लक्षितं स्यादिति तल्लक्षणाय किञ्चिद्वक्तव्यम् ।
तत्रेन्द्रियार्थसन्निकर्ष एव वक्तव्यः, समस्तप्रत्यक्षव्यापकत्वात् नेतरावव्यापकत्वादतिव्यापकत्वाच्चेति परमः समाधिः ॥ २५ ॥
न्य्स्_२,१।२६: सुप्तव्यासक्तमनसां चेन्द्रियार्थयोः सन्निकर्षनिमित्तत्वात् ॥
सुप्त-त् (सू। २६) ॥ ज्ञानोत्पत्तेरिति सूत्रशेषः ।
प्रणिधाय सङ्कल्प्य ।
प्रदोषे सुप्तो ऽर्द्धरात्रे मयोत्थातव्यमिति,
सो ऽर्धरात्रे एवावबुध्यते ।
प्रबोधज्ञानमिति ।
प्रबोधे निद्राविच्छेदे सति द्रव्यस्पर्शस्य सञ्ज्ञानं प्रबोधज्ञानमित्यर्थः ।
सुप्तमनसामितिव्याचष्टे ।
एकदा खल्वयं विषयान्तरेति ॥ २६ ॥
न्य्स्_२,१।२७: तैश्चापदेशो ज्ञानविशेषाणाम् ॥
प्राधान्ये च हेत्वन्तरम् ।
तैश्चा-णाम् (सू। २७) ॥ इन्द्रियैर्व्यपदेशं विग्रहसमासाभ्यां ज्ञानस्य दर्शयति ।
घ्राणेति ।
इन्द्रियविषयसङ्ख्यानुरोधात्तज्ज्ञानस्य तद्व्यपदेश इत्याह ।
इन्द्रियेति ।
वार्त्तिकं-यच्चा-साधारणं तेनेति ।
दिगादिरप्युपाधिकल्पितेन प्राचीत्वादिना कार्यं विशेषयन्नसाधारणमेवेत्यभिप्रायः
॥ २७ ॥
न्य्स्_२,१।२८: व्याहतत्वादहेतुः ॥
अनेन प्रबन्धेनेन्द्रियार्थसन्निकर्ष
एव कारणं ज्ञानस्य, न त्वात्ममनःसन्निकर्ष
इन्द्रियमनःसनिकर्षो वा ज्ञानकारणमनेनोक्तमिति मन्वानो देशयति ॥
व्याह-तुः (सू। २८) ॥
न्य्स्_२,१।२९: नार्थविशेषप्राबल्यात् ॥
परिहारसूत्रम् ॥ नार्थ-त् (सू। २९) ॥ अनेनेन्द्रियार्थसन्निकर्षस्य प्राधान्यमात्रमुच्यते ।
न त्वात्ममनःसंयोगस्येन्द्रियमनःसंयोगस्य वा ऽकारणत्वमुच्यत इति न व्याघात इत्यर्थः ।
पृच्छति ।
असति सङ्कल्पे प्रणिधाने चेति ।
यत्नः प्रणिधानम् ।
सङ्कल्प इच्छा ।
उत्तरं ।
यथैवेति ।
नन्वस्य जात्यायुर्भोगनिमित्तत्वमवगतम्,
न तु मनःप्रेरकत्वमपीत्यत आह ।
तेन ह्यप्रेर्यमाणे मनसीति ।
भोगो ह्यदृष्टस्य प्रधानं प्रयोजनं तन्नान्तरीयकतया जन्मायुषी आक्षिपति ।
स्वसम्बन्धिसुखदुःखसाक्षात्कारश्च भोगः, तदायतनं च शरीरम् ।
अप्राप्तं च मनो न तत्र भोगं च भोगविषयौ सुखदुःखे च तयोः कारणं च ज्ञानं जनयितुमर्हति,
नूनं तत्प्राप्तिहेतोर्मनःकर्मणः कारणमदृष्टं वक्तव्यम् ।
अन्यथास्य सर्वद्रव्यगुणकर्मकारणता न स्यात् ।
मा मूत्सर्वार्थतेत्यत आह ।
एषितव्यं चास्येति ।
अणूनां विशेषणं भूतसूक्ष्माणामिति ।
व्याहतत्वादिति पूर्वपक्षासूत्रम् ।
अस्य तात्पर्यमाह वार्त्तिककारः ।
अनेनेति ।
(२०६।७) नन्वियं त्रिसूत्री इन्द्रिपयार्थसन्निकर्षस्य प्राधान्यमाह, न पुनः संयोगान्तरस्य कारणत्वं प्रत्याचष्ट
इत्यत आह ।
इयं किलेति ।
कारणत्वं प्रतिषिध्यत
इत्यभिमानः पूर्वपक्षिण इत्यर्थः ।
दृष्टव्याघात
इति ।
अयौगपद्यं दृष्टम्, तस्य व्याघात इत्यर्थः ।
शेषं तु भाष्यव्याख्यया व्याख्यातमिति ॥ २९ ॥
न्य्स्_२,१।३०: प्रत्यक्षमनुमानम् एकदेशग्रहणादुपलब्धेः ॥
अतः परमिदानीमिति ।
(२०७।१२) न ह्यवयवीनाम कश्चिदर्थान्तरभूतो ऽवयवेभ्यो ऽस्ति,
अपि त्ववयवा एव परमार्थसन्तः, तेषु च कतिपयानवयवान् गृहीत्वा तत्सहचरितानवयवाननुमाय प्रतिसन्धानजेयं वृक्षबुद्धिस्तानेवावयवानालम्बमानानुमानमिति प्रत्यक्षस्यानुमाने ऽन्तर्भावाद्विभागसूत्रेण न्यूनाधिकसङ्ख्याव्यवच्छेदो नोपपद्यत
इत्यर्थः ।
निराकरोति ।
न यथासम्भवं विकल्पानुपपत्तेः ।
एकदेशो ह्यवयविन आधार
इति ।
(२०८।१४) एकश्चासौ देशश्चेत्येकदेशः ।
देशश्चाधारो न चाधेयो ऽस्त्यवयवीति कथमाधार इत्यर्थः ।
आहो शब्दार्थकौशलमाह ।
शब्दे ऽर्थे वा कौशलमित्यर्थः ।
अर्थे तावदकौशलमाह ।
अकार्येति ।
कार्यस्यैकस्य कारणानां तदेकं कार्यं कर्तु परस्परप्रत्यासत्तिभर्वति ।
यथा मृद्दण्डचक्रसूत्राणां घटे जनयितव्ये प्रत्यासत्तिः ।
कार्याणां चैकसामग्रीजन्मनां परस्परप्रत्यामत्तिः,
यथा रूपरसगन्धस्पर्शानाम्, कार्यकारणयोर्वा,
यथा अग्निधूमयोः, येषां तु न कार्यकानपरणभावो नैककार्यत्वं वा नैककारणत्वं वा, तेषां कुतो नियमवती प्रत्यासत्तिरित्यर्थः ।
शब्दाकौशलमाह ।
न च परस्परेति ।
अवयविनं दधदवयवान्तरमवयवान्तरमपेक्षते ।
ततश्चावयवाः परस्परोपकारिणो भवन्ति ।
अवयव्यभावे तु न परस्परोपकारिणः कथमवयवा इत्यर्थः ।
न चावृक्षप्रतिसन्धानजेति ।
स्वस्तिमतीं हि गां गृहीत्वा कालाक्ष्यां गवि गौरिति प्रतिसन्धानं दृष्टम्, न त्वश्वं गृहीत्वाश्वान्तरे गौरिति प्रतिसन्धानं दृष्टम्, तत्कस्य हेतोः,
तयोरगोत्वात्, –एवमर्वाग्भागपरभागानामवृक्षत्वाद्वृक्ष
इति प्रतिसन्धानं न भवेदित्यर्थः ।
यद्युच्येत मा भूद्वृक्षरूपधर्मिग्रहः, पूर्वमर्वाग्भागं धर्मिणं वृक्षविशेषमनुमाय प्रतिसन्धास्यतीत्यत
आह ।
न चानुमानम् ।
( २०९ । ६ ) कस्मादित्यत आह ।
अनुमान इति ।
नायमनुमाता पूर्वमनुपलभ्याग्निमनुमानेन च धूमविशेषणमग्निं प्रतिपद्य प्रतिसन्धत्ते अयं धूमो ऽयं चाग्निरिति ।
अथ पूर्वं प्रतिसन्धानं पश्चादनुमानमित्यत आह ।
न च प्रतिसन्धायेति ।
प्रतिसन्धानसमय एवाग्नेरवगतत्वाद्भवितव्यमत्राग्निनेति व्यर्थमनुमानं स्यादित्यर्थः ।
अभ्युपेत्याह ।
प्रतिसन्धायापि चेति ।
किं चार्वाग्भागमयमिति ।
स भागवान् भागो न भवति किं तु भाग्येव ।
कस्मान्न पश्यतीत्यत आह ।
नार्वाग्भागपरभागौ संवद्धौ ।
( २१० । ४ ) एकावयविसमवायेन हि परस्परसम्बद्धौ स्याताम्, न चावयव्यस्ति,
न चापिव संयुक्तौ, संयोगस्यावयविनिरासमार्गेण निरस्तत्वादित्यर्थः ।
पृच्छति ।
कथं पुनरिति ।
उत्तरं नित्यमर्वाग्भागेनेति ।
सम्बन्धस्तावन्नास्तीत्युक्तमेव ।
तमभ्युपगय तूत्तरं– सत्यं सम्बद्धौ सत्यपि सम्बन्ध अशक्यग्रहो ऽसावित्यर्थः ।
सत्यं सम्बद्धावित्ययमभ्युपगमवाद एव ।
यच्चेदमुच्यते प्रतिसन्धानप्रत्ययजेति ।
पूर्वं सत्यपि वृक्ष
अवयवानामवृक्षत्वान्नावयवे प्रतिसन्धानजा वृक्षबुद्धिरित्युक्तम्, सम्प्रति तु वृक्षस्यासत्त्वेन नावयवे वृक्ष इति प्रतिसन्धानम्रित्यपौनरुक्त्यम् ।
रूपं च मयोपलब्धं रसश्चेति ।
य एवोपलब्धा रसप्रत्ययोपरञ्जितः स एव रूपप्रत्ययोपरञ्जित
इत्यर्थः ।
प्रमाणस्य यथाभूतार्थपरिच्छेदकत्वादिति ।
यथा भ्रान्तमप्यनुमानमर्थसम्बन्धेन प्रमाणमिति न भवति, तथा प्रथमे ऽध्याये दर्शितम् ।
प्रधानानुकारेण
(२११।१) भ्रान्तिरिति पिपरीतख्यातौ सत्याम्,
सा चोपपादिता प्रथमाध्याये ।
न तथा शब्दस्यार्थानभिधानादिति ।
कः पुनरयं तथाशब्दार्थः ।
परमाणूनां रूपं वा नैरन्तर्यं वा संयोगभेदो वा उत्पादभेदो वा ।
यदि रूपमात्रम्ए तद् घटादिष्वपीति वृक्षबुद्धिः स्यात् ।
अथ रूपभेदः, क्षणान्तरेणावृक्षः स्यात् ।
न हि तत्पूर्वं रूपम् ।
अथ नैरन्तर्ये तद् घटादिष्वप्यस्ति ।
न वा क्वचिदपि, गन्धरसरूपस्पर्शपरमाणुव्यवधानात् ।
न संयोवगो भवद्भिरास्थीयत इति कुतस्तद्भेदः ।
उत्पादभेदो ऽपि परमाणूनां रूपमेव ।
न हि परमाणुव्यतिरिक्तः कश्चिदस्ति तेषामुत्पादः ।
रूपं च पूर्वं विकल्पितम् ।
यदि हि क्वचिदवयवसन्निवेशो वास्तवः पूर्वापरभागादिशब्दप्रवृत्तिहेतुरुपलब्धः स्यात् ततस्तथाशब्दार्थः प्रतीयेत, न तु भवतां क्वचिदेष वास्तवः, वस्तुसतां परमाणूनामभागत्वादित्यर्थः ।
सामान्यतोदृष्टे धर्मिविषयकमपि प्रत्यक्षं नास्तीति भ्रानतः पृच्छति ।
सामान्यतोदृष्टस्येति ।
(२१२।६) उत्तरम् ।
अयं विशेष इति ।
द्विकस्य प्रत्यक्षेण प्रसिद्धौ सामान्यतोदृष्टं प्रवर्त्तते ।
त्रिकस्य तु प्रत्यक्षेण प्रसिद्धौ प्रत्यक्षतोदृष्टमिति विशेषः ।
सर्वस्याप्रत्यक्षत्वाद् वृक्षबुद्धिर्न प्रत्यक्षतोदृष्टादनुमानादपि सामान्यतोदृष्टादित्याह ।
भवत्पक्षे त्विति ॥ ३० ॥
न्य्स्_२,१।३१: न प्रत्यक्षेण यावत् तावदप्युपलम्भात् ॥
न प्र-त् (सू। ३१) ॥ न प्रत्यक्षस्यानुमानता ।
कुतः
यावदेकदेशभूतस्यार्थजातस्य ग्रहणमेकदेशग्रहणादुपलब्धेरित्यत्र हेताविष्यते तावदपि प्रत्यक्षेण ।
अन्यथैकदेशग्रहणाभावेनानुमानानुदयात् ।
अनुमानान्तरेण वा तद्ग्रहणे अनवस्थापातात् ।
अतस्तावतो ऽर्थजातस्य प्रत्यक्षेणोपलम्भात्तावत्प्रत्यक्षमनुमानमिति प्रतिज्ञा हेतुना एकदेशग्रहणानुपलब्धेरित्यनेन बाधिता, एकदेशग्रहणस्य प्रत्यक्षेणानभ्युपगमे वा प्रमाणान्तरस्य तत्रानुपपत्तेरसिद्धो हेतुःए सेयमुभयतस्पाशा रज्जुरित्यर्थः ।
अनुमानेनैकदेशग्रहणान्नासिद्धो हेतुरित्यत
आह भाष्यकारः न चैकदेशग्रहणमिति ।
अनुमितिरनुमानम् ।
भावयितुं कर्तुम् अनवस्थाप्रसङ्गेन हेत्वभावादिति ।
तदेतत्सूत्रं वार्त्तिककारो व्याचष्टे ।
विरुद्धश्चायमिति ।
नन्वेकदेशप्रत्यक्षत्वे ऽपि तन्मात्रं प्रत्यक्षम्, न तु सर्वं प्रत्यक्षं स्यादित्यत
आह ।
न चैवं प्रतिज्ञायते सर्वमिति ।
अप्रकारवदिति ।
अनुमानस्य हि त्रयः प्रकारा यादृशा न तादृशाः प्रत्यक्षस्येति ।
त्रिकालविषयत्वाच्चेति ।
अनेन परोक्षार्थत्वं सूचयत्यनुमानस्य, प्रत्यक्षं त्वपरोक्षार्थविषयम्, तस्मादपि भेद इत्यर्थः ।
लिङ्गपरामर्शज्ञानस्य प्रत्यक्षफलस्यापि प्रमाणस्य सतो लिङ्गलिङ्गिसम्बन्धस्मृत्यनुग्रहो ऽस्त्युत्पत्तौ,
न त्वेवं प्रत्यक्षस्य प्रमाणस्य, अत उत्पत्तौ वा कार्ये वा लिङ्गलिङ्गिसम्बन्धस्मृत्यपेक्षेत्यर्थः ।
अन्यथापि चेत्यादि भाष्यं व्याचष्टे इतश्चेति ।
(२१३ । ४) न त्वेतदनुमानमित्यादिभाष्यार्थमाह ।
इन्द्रियेति ।
इन्द्रियसम्बन्धाच्चार्थस्य प्रत्यक्षमुत्पद्यते,
न त्वनुमानमेवमित्यर्थः ॥ ३१ ॥
न्य्स्_२,१।३२: न चैकदेशोपलब्धिर् अवयविसद्भावात् ॥
अपि चावयविनो ऽसत्त्वं मन्यमानेन त्वयैकदेशमात्रोपलब्ध्या वृक्षबुद्धेरनुमानत्वमुक्तम्ए न त्वियमेकदेशमात्रोपलब्धिरपि तु तस्य तत्सहचरितस्य चावयविन उपलब्धिलक्षणप्राप्तस्य सिद्धेरित्याह ।
न चैकदेशोपलब्धिरिति ।
तदेतद्भाष्यमनुभाष्य वार्तिककारोव्याचष्टे ।
न चेति।अत्र देश्यभाष्यम् ।
अकृत्स्नग्रहणादिति चेत् ।
उत्तरभाष्यं न कारणत इति ।
देश्यविवरणम् ।
न चावयवा इति ।
एकदेशग्रहणनिवृत्यर्थं हि त्वयावयविग्रहणमास्थीयते, न चैतावता कृत्स्नग्रहणसम्भवो यत एकदेशग्रहणनिवृत्तिः स्यात् ।
न ह्यवयविग्रहणे कृत्स्ना अप्यवयवा गृहीता भवन्ति ।
नाप्यवयवी, तस्यार्वाग्भागस्य ग्रहणे ऽपि मध्यमपरभागस्थस्याग्रहणादिति देश्यभाष्यार्थः ।
तदेतद्भाष्यं वार्तिकाकारो व्याचष्टे ।
नावयविन उपलब्धिरिति ।
यत्खलु बहुषु वर्त्तते तत्प्रत्येकं समष्ट्या वा, यथा कलंविङ्ककण्ठगुणः ।
एकदेशेन वा यथा स्रक्सूत्रं कुसुमेषु ।
न च कृत्स्नैकदेशाभ्यां प्रकारान्तरमस्ति ।
अनयोरन्यतरनिषेधस्यान्यतरविधिनान्तरीयकत्वात्
नित्यत्वानित्यत्ववदिति ।
न चैकत्र कृत्स्नसमाप्तावन्यत्र तस्यैव सम्भव इति, तथा सति कृत्स्नसमाप्तेरभावात्,
तस्माद्यो ऽबयवान्तरे दृश्यते नासाववयवीम्,
तथा चावयवा एवेति प्राप्त मित्यपि द्रष्टव्यम् ।
न ह्यस्य कारणव्यतिरेकेणेति ।
( २१४ । ५ ) यदि ह्येकदेशान्तराण्यस्य स्युः, ततस्तेष्वपि वृत्तविकदेशान्तरकल्यनायामनवस्थाप्रसङ्ग
इत्यर्थः ।
पूर्वपक्षवाद्येव प्रश्नपूर्वकं क्रियातिपत्तिमाह ।
अथोपलभ्यमान इति ।
उत्तरभाष्यविवरणपरं भाष्यं कृत्स्नमिति वै खल्वित्यादि ।
तदेकग्रन्थतया अङ्ग तु भवानित्यादिसम्बोधनोपक्रमं भाष्यं व्यवस्थितम् ।
तदेतद्वार्तिककारो व्याचष्टे ।
एकस्मिन्निति ।
अयमभिसन्धिः यत्तावत्कुसुमेष्वेकन्दशेन वर्त्तमानं दृष्टमिति, तदनुपपन्नम्, यदि कुसुमेषु सूत्रावयवा वर्त्तन्ते किमायातमवयविनः सूत्रस्य ।
न ह्यन्यस्मिन्वर्त्तमाने अन्यद्वर्त्तत इत्युक्तम् ।
न चावयविनो ऽभावे भवेत्येतदपि सूत्रमवयव्यवयवैर्वर्त्तत
इति ।
अथ मा भूत्सूत्रं नामावयवि, एकदेशास्तु कुसुमे वर्त्तन्त इति ब्रूमः ।
तथा च सति नैकमनेकत्रैकदेशेन वर्त्तत्ते किं त्वनेकमनेकत्रेति ।
तथा च कुसुमपरमाणावेकस्मिन्सूत्रपरमाणुरेको वर्त्तत्त इत्युक्तं भवति, न च वृत्तिरपि परमाणुभ्यामतिरिच्यते यतो भवति वर्त्तते इति, तस्मान्निरन्तरोत्पाद
एव परमाण्वोर्वृन्त्तिरिति व्यवहर्त्तव्या,
न पुनः परमाणुस्वरूपातिरिक्ता काचिद्वृत्तिरस्ति वस्तुसती ।
एवेच कलविङ्ककण्ठगुणवत्प्रत्येकं कृत्स्नपरिसमाप्तिर्वृत्तिरित्यपि व्याख्यातम् ।
तथा च वृत्तेरभावादेकदेशेन वा कार्त्स्न्येन वा वर्त्तत इति रिक्त वचः ।
यथालोकप्रत्ययं तु वृत्तेरभ्युपगमे सूत्रं कुसुमेषु नैकदेशेन वर्त्तते, किं तु तदेकदेशाः सूत्रं च कुसुमेषु वर्त्तत इति लौकिको ऽनुभवः ।
तत्र सूत्रस्य वृत्तिः कुसुमेषु नैकदेशेन वा नापि कार्स्त्न्येन,
किं तु स्वरूपतः, एवमवयवेष्ववयविनः स्वरूपत एव ।
इयांस्तु विशेषो यत्सूत्रस्य कुसुमेषु वृत्तिं प्रति सन्ति भागा अपीति सूत्ररूपं च भागाश्च कुसुमेषु वर्त्तन्त
इति, अवयविनस्तु स्वावयवेषु वृत्तिं प्रति नावयवान्तराणि सन्तीति रूपमात्रेण तत्र वर्त्तते ऽवयवीति ।
तस्मान्न किञ्चित्क्वचित्कार्त्स्न्येनैकदेशेन वा वर्त्तमानं दृष्टमिति तयोर्वृत्तिं प्रति व्यापकत्वमसिद्धम् ।
रूपस्यैव व्यापकत्वमिति ।
तच्चावयविन्यप्यस्तीति व्यापकानुपलब्धेरसिद्धेर्नावयविनो ऽवयवेषु वृत्तिनिवृत्तिरिति सिद्धम् ।
यथा च कृत्स्नैकदेशशब्दौ नावयविरूपे वर्त्तेते तथोक्तं वार्त्तिककृतेति ।
नैकदेशेन वर्त्तते न च कार्त्स्न्येन वर्त्तते अथ च वर्त्तत इति एष वाचोयुक्तिः यद्यथाभूतं वस्तु तत्तथा निर्दिश्यत इहेति योजना ।
उभयेन व्याघातादिति ।
( २१५ । ४) एकस्यानेकवृत्तेः एकदेशेन कार्त्स्न्येन च व्याघातप इत्यर्थः ।
स एव हि धर्मो विकल्प्यते यो विकल्प्यमानो धर्मिणे न बाधते, यथा शब्दो नित्यो ऽनित्यो वेति, यो ह्यधिकरणं धर्मिणमेव बाधते नासौ धर्मविकल्पोन्याय्यः ।
आश्रयासिद्ध्या तस्यानुपपत्तेरिति ।
वस्तु वन्यते यत्सत्तत्सर्वमनवयवम्,
यथा विज्ञानम्, सच्चेर्द नीलाद्यनुनवावसितमिति स्वभावहेतुः, सत्तामात्रव्यापित्वादनवयविस्वस्य ।
तथा ह्येकस्य सत्त्वं विरुद्धधर्मासंसर्गेण व्याप्तम्, तद्विरुद्धश्च विरुद्धधर्मसंसर्गो नीलादीनां सावयवत्वे प्रसजन्स्वविरुद्धं विरुद्धर्मासंसर्गं निवर्त्तयंस्तद्व्याप्तं सत्त्वमपि निवर्तयति ।
तथाहि पाण्यदिकम्पे तत्स्थानो ऽवयव्यपि कम्पत इति तस्य जङ्घादिष्वप्यवयवेष्वविशेषावस्थानस्याप्यवयविनः कम्पत उपलभ्येत, न चोपलभ्यते, तस्मात्स
एव तदानीं कम्पते न कम्पत इति विरुद्धधर्मसंसर्गः ।
अथावयवेषु कम्पमानेष्वपि नावयवी तत्समवेतः कम्पते, ततश्चलाचलयोर्वस्त्रोदकवद्युतसिद्धिप्रसङ्गः ।
एकस्यावयवस्यावरणे तत्तदवयवस्थानो ऽवयव्यावृत
इति अवयवान्तरस्थानस्याप्यावरणप्रसङ्गः,
अभेदात् ।
न वास्य क्वचिदप्यावरणमित्यविकलो दृश्येत ।
अवयवस्यावरणं नावयविनस्तस्यान्यत्वात्,
न ह्यन्यस्यावरणे अन्यदावृतं भवत्यतिप्रसङ्गादिति चेन्न ।
अर्धावरणे ऽप्यनावृतत्वादवयविनः प्राग्वदविकलग्रहणप्रसङ्गः ।
अवयवदर्शनद्वारेणावयविदर्शनाददृष्टावयवस्यावयविनो ऽप्रतिपत्तिरिति चेन्न ।
विकल्पासहत्वात् ।
किं सर्वावयवदर्शनद्वारेणावयविनः प्रतिपत्तिरुत कतिपयावयवदर्शनद्वारेण ।
पूर्वस्मिन्कल्पे नावयवी कदाचिदपि दृश्येत ।
न ह्यसर्ववित्सर्वावयवोपलम्भक्षमः, अर्वाग्भागेन मध्यपरभागयोर्व्यवधानात् ।
कतिपयावयवदर्शने तु तदभिव्यक्तावल्पावयवदर्शने ऽपि वह्ववयवदर्शनवत्सूलोपलम्भप्रसङ्गः ।
रक्ते चैकस्मिन्नवयवे तत्स्थानो ऽवयव्यपि रक्त इति अवयवान्तरे ऽपि तस्याभेदाद्रागोपलम्भप्रसङ्गः ।
अवयवमात्ररागे वा तत्स्थानस्यावयविनो रूपमरक्तं दृश्यते, सो ऽयं विरुद्धधर्मसंसर्ग
इति ।
तदनेनाभिप्रायेण वार्तिककारो ग्रहणाग्रहणलक्षणेन विरुद्धधर्मसंसर्गेण सर्वानेव विरुद्धधर्मसंसर्गानुपलक्षयति ।
ग्रहणाग्रहणेति ।
निराकरोति ।
न भेद इति ।
इदं तावदत्र वक्तव्यम् ।
यद्यनुभूतावसितं नीलमनवयवत्वेन साध्यते, ततः सिद्धसाधनम्,
नो खलु रूपविशेषो नीलादिरस्माक्रमपि सावयवो गुणत्वात् ।
तदाश्रयो घट इति चेत् ।
ननु घट इत्यपि च रूपसगन्धस्पर्शा एवार्थक्रियाकारिणस्तथा व्यपद्दिश्यन्ते, ते च गुणत्वेन निरवयवा एव,न तु तदाश्रयो ऽस्ति इत्थं नाम ।
अथ परसिद्धं द्रव्यं रूपाद्याश्रयं पक्षीकृत परसिद्धेनैव तस्य सत्त्वेनानवयवत्वं साधयति, सो ऽयमसिद्धं सिद्धने साधयन् महानैयायिकत्वमात्मनो दर्शयति ।
न हि स्वयमप्रतीतौ साध्यधर्मिणौ परप्रत्यायनाय कल्पेते ।
यथाहुः ।
यो ऽपि तावत्परासिद्धः स्वयंसिद्धो ऽभिधीयते ।
भवेत्तत्र प्रतीकारः स्वतो ऽसिद्धे तु का क्रिया ॥।
इति ।
न च प्रसङ्गसाधने ऽप्येतद्भवितुमर्हति ।
न च सावयवत्वेन, विरोधाभावात् ।
न चैकस्य विरुद्धधर्मो बाधकं प्रमाणम् ।
न तावदेकस्यावयविनो ग्रहणाग्रहणे ।
अवयवावरणे ऽपि तस्य कतिपयावयवावस्थानस्य ग्रहणादेव ।
न च बह्ववयवस्थानस्य ग्रहणे इव कतिपयावयवस्थानस्य ग्रहणे तादृशस्थौल्यानवभासादनवभासो ऽवयविन
इति साम्प्रतम् ।
परिमाणभेदो हि स्थौल्यमवयविधर्मो न च तस्य तादृशस्यानवभासे ऽवयवी नावभासितो भवति, तस्य ततो ऽन्यत्वात् ।
तस्मादिन्द्रियसन्निकर्षमात्रादवयविनो ग्रहणम् ।
इन्द्रियेणार्थस्य इन्द्रियावयवैरर्थस्य
इन्द्रियेणार्थावयवानां इन्द्रियावयवैरर्थावयवानां सन्निकर्षात्परिमाणभेदग्रहणमिति सामग्रीभेदादवयवितत्परिमाणभेदयोर्ग्रहणाग्रहणे उपपद्येते ।
एतेनार्वाग्भागसहितस्य ग्रहणे ऽपि न मध्यभागसहितस्याग्रहणं कथञ्चिद्विरोधमावहतीत्युक्तं भवति ।
न वावयवकम्पे ऽप्यवयविनः कम्पो येनावयवान्तरे ःपि कम्पप्रसङ्गः, भिन्नत्वादवयवावयविनोः ।
तथा सति युतसिद्धिप्रसङ्ग इति चेत् ।
का पुनरियं युतसिद्धिः, किं भेदो ऽवयवावयविनोः,
आहो स्विदसम्बद्धस्य विद्यमानत्वम् ।
यदि भेदः, सो ऽस्माभिरिष्यत एव ।
अथासम्बद्धस्य विद्यमानत्वम्, तत्सत्यपि पृथग्गतिमत्वे नावयविनो ऽस्ति,
जातः सम्बद्धश्चेत्येकः कालः ।
तथाहि नावयव्यवयवासम्बद्धो ऽस्ति ।
नाहि जातिमान् जात्यसम्बद्धो ऽस्ति ।
न गुणकर्मणी द्रव्यासम्बद्धेस्तः ।
न च विशेषो द्रव्यासम्बद्ध
इति ।
ये त्वप्राप्तिसंयोगौ युतसिद्धिमाहुस्तैरवयवावयविनोरसंयोगे हेतुर्वक्तव्यः ।
अयुतसिद्धिरिति चेन्न ।
तस्या एवासंयोगेन बुभुत्सनादिति ।
रक्तारक्तत्वं च नावयविन एकस्य, तस्यारक्तत्वादेव ।
तत्संयोगिनस्तु महारजनस्य रक्तत्वात्, तस्य च पटादरक्तादन्यत्वात् ।
पटो रक्त इति तु भ्रमः, न त्वनेन विभ्रमेण सर्वत्र भवितव्यम्, तस्य महारजनसंयोगनिमित्तत्वात् तस्य च पटवृत्तित्वात् पटस्य च सर्वत्राविशेषात्,
पटस्य क्व चिदसंयोगे संयुक्तासंयुक्तभेदप्रसङ्गः ।
न हि स एव तदैव तत्रैव भवति ।
न भवति चेति युज्यते ।
तस्मात्संयुक्तात्पटादन्यो ऽसंयुक्तः पट इति प्राप्तम् ।
अत्रोच्यते ।
एषा तावत्प्रमेयगतिः ।
भावाभावौ परस्परविरहात्मानौ, भावनिवृत्तिरेवाभावः,
अभावनिवृत्तिरेव भावः ।
न त भावाभावाभ्यामन्या तयोर्निवृत्तिः ।
तेन नैतयोः कदाचिदपि परस्परात्मत्वं भवितुमर्हति, अदर्शनात् ।
एवमनयोराश्रयैकत्वनानात्वे अपि यथादर्शनं व्यवस्थापनीये, यथा तस्यैव श्वैवस्य यदा प्रासादे सद्भावस्तदैवाभावः काक इति ।
एवं च एवं कुम्भः श्यामः स एव पश्चादग्निसंयोगादश्यामः,
यः पुनरस्य परिमाणभेदो न सति कुम्भे विनश्यति, तत्र किङ्कच्वतां परिमाणावस्थापत्तावपि न नश्यतीति ।
एवं प्रमेयवैचित्र्ये दर्शनवैचित्र्यव्यवस्थापितं यथाभ्युपेयते तथा तस्यैव संयोगस्य तस्मिन्नेकदा भावाभावौ व्यवस्थापनीयौ,
तथैव दर्शनादिति ।
व हि दृश्यमानस्य दृश्यमानान्तरवैधर्म्येण रूपमुपलभ्यमानं शक्वमपाकर्तुम्, मा भूद् दृश्यमानवैधर्म्येण दृश्यमानरूपान्तरापाकरणमविषेषात् ।
तस्माद्दर्शनानुरोधात्प्रमेयवैचित्र्यसिद्धेरूपवन्नः संयोगशब्दबुद्ध्यादीनां तत्रैव तदानीमभावो भावश्चेति ।
अत्र एवैषामव्याप्यवृत्तित्वमास्थीयते ।
रूपादीनां तु न दृष्टस्तत्रैव तदानीमभावो भावश्चेति तेषां व्याप्यवृत्तीनां भावाभावौ युगपदेकत्र विरुद्धाविति सिद्धम्-रक्तारक्तयोरेकत्राविरोधः सहदर्शनादिति ।
यत्पुनर्यदनेकवृत्ति तन्नाना,
अनेकवृत्तिश्चावयव्यभ्युपगत इति प्रसङ्गसाधनं स्वभावहेतुः, नानात्वाभावादनेकवृत्तित्वाभाव
इति प्रसङ्गविपर्ययो व्यापकानुपलब्धिरिति ।
तत्र ब्रूमः ।
एकत्वानेकवृत्तित्वयोरविरोधेन नानात्वस्य व्यापकत्वसिद्धेर्न प्रसङ्गो नापि विपर्यय इति ।
यथैव नीले परिच्छिद्यमाने तदभावो व्यवच्छिद्यते, अन्यथा न नीलं परिच्छिन्नं स्यात्, एवं तदभावाविनाभावि पीतमपि नीलपरिच्छेदकं प्रत्यक्षं व्यवच्छिनत्ति, तथैकावयवसंसर्गे अवयविनः परिच्छिद्यमाने तदभावो व्यवच्छिद्यते,
तदभावाविनाभूताश्चावयवान्तरसंसर्गा इति तेपि व्यवच्छेत्तव्याः, तदव्यवच्छेदे तदभावो न व्यवच्छिद्येतेति स एव तदानीमेव तत्र भवेन्न भवेद्वेति दुर्घटमापद्येत, सो ऽयमेकत्वानेकवृत्तित्वयोर्विरोध
इति चेत् ।
हन्त भावपरिच्छेदे तदभावो व्यवच्छिद्यत् इति युक्तम् ।
भावपरिच्छेदलक्षणत्वात्तदभावव्यवच्छेदस्य ।
न हि भावादन्यस्तव भावाभावो नाम ।
भावान्तराणि तु कस्माद्व्यवच्छिद्यन्ते ।
तदभावाविनाभावादिति चेत् ।
कुतः पुनरयं भावान्तराणां भावाभावाविनाभावः ।
पीतादिभावतादात्म्येन कदाचिदपि नीलस्य भावस्यानुपलम्भादिति चेत् ।
यत्र तर्ह्येकावयववृत्तेरप्येकस्यावयवान्तरेषु वर्त्तमानस्य तादात्म्यं दृश्यते न तत्रैकावयवसंसृष्टाभावाविनाभावो ऽवयवान्तरसंसृष्टस्य,
तस्मान्नैकत्वनानावृत्तित्वयोर्विरोधः ।
अपि च एकं विज्ञानमनेकै रूपचक्षुरालोकमनस्कारैः कथं सम्बध्यते, सम्बध्यमानं वा, न वास्तवः कश्चित्कार्यकारणभावो नामास्ति सम्बन्धः ।
प्रतीत्य कथमेकम् ।
समुत्पादमात्रं तदिति चेत् ।
अथ कस्माद्रूपाद्येव प्रतीत्य रूपज्ञानं जायते न पुना रसाद्यपि ।
स्वभाव एव तादृशो यतस्तानेव प्रतीत्य जायते न पुना रासभादीनिति चेत् ।
हन्त भोः स्वभावान् भिन्नान् प्रतीत्य कथमेको भावो जायते ।
को विरोधो न हि कार्यकारणयोस्तादात्म्यं येन कारणस्वभावानुरोधःकार्यस्य भवेदिति चेत् ।
तत्किमवयवावयविनोरप्यभेदः समवायस्य वा ताभ्याम्, येनावयवभदेःऽवयविनो वा समवायस्वय वा भेदो भेवदिति समः समाधिः ।
तस्माद्यद्यदवयविनि प्रमाणं वक्ष्यामः
तत्तदसति बाधके ऽप्रत्यूहमवयविनमवस्थापयिष्यतीति सिद्धम् ।
यः पुनर्मन्यते अवयवसमुदाय
एवावयवीति तं प्रत्याह भाष्यकारः ।
समुदाय्यशेषतेत्यादि ।
सुगमम् ॥ ३२ ॥
न्य्स्_२,१।३३: साध्यत्वादवयविनि सन्देहः ॥
साध्य-हः (सू। ३३) ॥ परं प्रत्यसिद्धत्वमेवावयविनः साध्यत्वम् ।
स खल्वेवं मेने संविन्निष्ठा हि विषयव्यवस्थितिः ।
स एव संविदा व्यवस्थाप्यते यस्तस्या विषयः ।
स एव विषयो य आकारमस्यामर्पयति ।
न च निरन्तरोत्पन्नरूपादिपरमाण्वतिरिक्तमवयव्याकारं बिभ्रतीं संविदमीक्षामहे, किं तु निरन्तरोत्पन्नरूपादिपरमाण्वाकाराम् ।
स्थौल्यं च न यद्यपि परमाणूनां प्रत्येकमस्ति,
तथापि प्रतिभासधर्मो बहुत्वादिवन्न पुनरवयविनमेकमवस्थापयितुमर्हति ।
यदाहुः, सो ऽयममूल्यदानक्रयीस्वाकारं च ज्ञाने समर्पयति प्रत्यक्षतां च स्वीकर्तुमिच्छत्यवयवीति ।
तदेवं परं प्रत्यवयविनो ऽसिद्धेर्विप्रतिपत्तिः ।
ततः साधकबाधकप्रमाणाभावे सति संशय
इत्यर्थः ।
न साध्यत्वं स्वरूपेण संशयहेतुरिति मत्वा भाष्यकृदाह ।
एवं च सतीति ।
परासिद्धत्वे सतीत्यर्थः ।
साध्यत्वादिति यथाश्रुतं सूत्रं गृहीत्वा वार्त्तिककारो विकल्प्याक्षिपति ।
किं पुनरत्रेति ।
( २१७ । १ ) कुतश्चिद्धेतोस्तस्य धर्मिणो ऽभ्यनुज्ञानमङ्गीकारमर्हति, सर्वस्यैव हेतोराश्रयासिद्धेरिति भावः ।
अथाव्यतिरेक
इति ।
सत्येव धर्मिणि तस्यावयवेभ्यो ऽभेदो धर्मःप साध्य इत्यर्थः ।
अवयव्यपेक्षत्वादिति ।
पटमपेक्ष्य हि तन्तवो ऽवयवा भवन्ति, नो खलु रण्डाकरण्डावस्थितास्तन्तवो ऽवयवा उच्यन्त इति ।
न च षष्ठीति ।
( २१८ । १ ) पटस्यावयवास्तन्तव
इति न षष्ठी, तथा च पटस्येति विशेषणाभावे अवयत्वमात्रं हेतुः स्यात्, स च विरुद्ध
इत्यर्थः ।
अनर्थान्तरभवेनावयवत्वमित्यस्योदाहरणम् ।
न च तन्तुस्तन्तोरिति ।
षष्ट्यर्थाभावे तूत्तरमुदाहरणमिति ।
तन्तूनां तन्त्वक्वकत्वं ब्रवीतीति ।
तच्छब्दस्य प्रधानपरामर्शकत्वादित्यर्थः ।
अवयवशब्दस्य श्चेति ।
पूर्व कारणमविवक्षित्या अवयवशब्दस्य परापरशब्ददत्त्सम्बन्धिशब्दतामात्रं गृहीत्वोक्तम्,
सम्प्रति कारणत्वं विवक्षित्त्योच्यत इत्त्ययौनरक्त्यम् ।
देशयति ।
नैव हीति असत् क्रियमाणं निर्वर्त्यम्,
न चास्माकं सत्कार्यवादिनां तदस्तीत्यर्थः ।
दूषयति ।
एतच्चेति ।
न हि पटाकारप्रत्ययस्तन्तुमात्रालम्बनो रण्डाकरण्डावस्थितेष्वपि तन्तुषु प्रसङ्गात् ।
न च तन्तुपरिमाणभेदालम्बनः, तस्वय पूर्वमपि सत्त्वात् ।
असत्त्वे वा सत्कार्यवादव्याहतिप्रसङ्गात् ।
तस्यैवासत उत्पत्तेः ।
तस्मात्तन्तुष्वपरेषु पर इत्यकामेनापि मिथ्याप्रत्यय इति वक्तव्यम्,
तथा च दूषणमिति ।
प्रतिज्ञैकदेशश्चेति ।
संयोगमात्रपक्षीकरण इत्यर्थः ।
तान्येव तानीति ।
( २१९ । १३) तान्येव प्रत्यासन्नानि क्षणभङ्गपरिणामप्रतिक्षेषादित्यर्थः ।
यथा दण्डाद्यनेकं कारणमिति ।
दण्डवेमाद्यनेकं कारणं घटपटादीनां कार्याणाम् ।
संयोगादिनिमित्तान्तरापेक्षमिति ।
संयोग आदिर्येषां निमित्तान्तराणां कुम्भकारकुविन्दादीनां तानि निमित्तान्तराणि ।
अतद्गुणसंविज्ञानो बहुव्रीहिः, यथा चित्रागुरिति ।
तेन साध्यस्यैव दृष्टान्ततेति न दोषः ।
विमृश्यावधारयति ।
वयं तु ब्रूमो विभाग उत्पन्न इति ।
( २२१ । ८ )
संयोगो ऽनपक्षेकर्मकारणकः, कर्मकार्यत्वाद्विभागवदिति स्थिते प्रतिबन्धकापगमात्रं विभागेन क्रियत
इति सिध्यति ।
यथा वा संयोगः साधारणकार्यद्रव्येति ।
यदा हि पटः पाट्यते तदा येषामवयवानामवस्थितानां संयोगानां पटाख्यं साधारणं कार्यम्, तस्य साधारणस्य कार्यद्रव्यस्य पटस्य च तदसमवायिकारणानां च संयोगानां केषां चिद्विनाशोत्तरकालमर्द्धपटारम्भे तेषामनपेक्षाणां कारणत्वम्, विभागस्तु कर्मजन्यस्तत्र कतिपयसंयोगविनाशद्वारेण साधारणपटादिकार्यविनाशमात्रे व्याप्रियते न तु विभगापेक्षो ऽर्द्धपटे जनयितव्ये संयोगः कारणमित्यर्थः ।
न हि प्रमाणमन्तरेणेति ।
( २२२ । २ ) मिथ्याज्ञानमपि प्रमाणपूर्वकम्, सम्यग्ज्ञानपूर्वकत्वाद्विपरीतख्यातेरित्यर्थः ।
वृक्षस्थितिं भावयद्भिः ।
पूर्वापरप्रत्ययैकविषयस्य वृक्षस्य स्थितिं स्थिरतां भावयद्भिरित्यर्थः ।
भेदादर्शनमिति ( २२४ । ९ ) आकारिभेदादर्शनम् ।
यथा घटपटावाकारिणौ भेदेन दृश्येते नैवमवयवावयविनौ, नापि समवायसमवायिनावित्यर्थः ।
यस्मादयमुपनयो ( २२५ । ७ ) ऽवयवाश्च तन्तवो ऽवयवी च पट इति ।
पूर्वमवयवाश्चेत्येतावन्मात्रं हेतूकृतम्, सम्प्रति त्ववयवावयविनावित्यपौनरुक्त्यम् ।
अन्यो ऽवयवार्थ इति ।
अवयविनो ऽन्यो ऽवयवशब्दार्थ
इत्यर्थः ।
प्रदेशिनो ऽन्यः प्रदेशशब्दार्थ इत्यर्थः ।
तत्प्रदेशशब्दस्य व्यपदेशविषयत्वस्येति ।
( २२६ । ७ ) तन्तवो हि पक्षीकृताः प्रधानमिति तदिति सर्वनाम्ना हेतुगतेन पराम्रष्टव्याः ।
तथा च तन्तुप्रदेशस्य व्यपदेशविषयत्वं न तन्तूनामित्यसिद्धो हेतुरित्यर्थः ।
तेभ्यस्तूत्पत्तेरिति–कल्पितस्य हेतोर्विवरणं तन्तुभ्यस्तूत्पद्यते पट इति ।
उभयेन व्याघातादिति ।
( २२ । ९) अभ्युपगमे नानभ्युपगमेनेत्यर्थः ।
द्रव्यान्तरेति ।
द्रव्यान्तरोत्पत्तिदेशावच्छेदो व्यवच्छेदः ।
यथा पटोत्पत्तिदेशादन्यो घटोत्पत्तिदेश
इत्यर्थः व्यक्त्यादिधर्मभेदेनेति ।
आदिग्रहणेनाविर्भावसंस्थानादय
उच्यन्ते ते च कारणव्यापारात्पूर्वं नासन्निति जन्मापि तेषामपूर्वमित्यर्थः ।
यथा चक्रादिभ्यो ( २२८ । ४ ) रथावयवेभ्य इत्यर्थः ।
हिमवत्परमाणुकमिति ।
( २३० । १ ) परमाणुग्रहणं मूक्ष्मद्रव्योपलक्षणार्थम् ।
न पुनः परमाणोर्द्व्यणुकादन्यत्रारम्भसम्भवः ।
न च विवादाध्यासितः परमाणुर्न महद्द्रव्यमारभते परमाणुत्वाद् द्व्यणुकारम्भकपरमाणुवत् ।
अमहत्त्वाच्च न हिमवत्परमाणुकं प्रत्यक्षं स्यात् ।
तस्माद्धिमवद्धिमबिन्दुभ्यां संसर्गिभ्यां संयोगादवयविद्रव्यमारभ्यते महत्त्वं चास्यावयवमहत्त्वादुत्पद्यते ।
तथा च चाक्षुषत्वमस्य भवति ।
एवं तोयदविमुक्तोदबिन्द्दधिसंयोगात्
द्रव्यान्तरोत्पत्तिः प्रतिपत्तव्या ।
भावो ऽप्रत्यक्षः स्यादिति ।
भावः सत्ता ।
ननु यथा संयोगः संयोगिद्वयनिरूपणाधीननिरूपणः तयोरेकस्यैवाप्रत्यक्षत्वे न प्रत्यक्ष एवमवयवाप्रत्यक्षत्वे नावयवी प्रत्यक्षः स्यादित्यत आह ।
न चायं पक्ष इति ।
संसृज्यमाननिरूपणाधीननिरूपणो हि संसर्गो युक्तं यत्तदनिरूपणे न निरूप्यत इति ।
न त्ववयव्यवयवनिरूपणाधीनो यत्तेष्वनिरूपितेषु न निरूप्यत इति ।
त्र्यणुकस्यावयवाग्रहणे ऽपि ग्रहणात् ।
एवं विद्रवर्त्तिनो हस्तिवनस्पत्यापदेरवयवाग्रहणे ःपि ग्रहणादिति भावः ।
न च तत्कृतो ऽस्ति भेद
इति ।
न ग्रहणाग्रहणकृतो भेद इत्यर्थः ।
न हीन्द्रियमन्यस्य साङ्ख्यस्यान्यथा सूक्ष्मत्वेनार्थं प्रकाशयति ।
अन्यस्य नैयायिकस्यान्यथा स्थौल्येन
अविकल्पत्वादैकरूप्येणावस्थानादिति ।
प्रत्यक्षप्रमाणविरोधादिति ।
( २३२ । ५ ) महाभूतानां हि मूलकारणं परमाणवः परमसूक्ष्मास्तेषामप्रत्यक्षत्वे मानसानुव्यवसायगम्यं परमसूक्ष्मविषयं मे प्रत्यक्षमिति तदभावश्चात्मनि संयुक्तविशेषणेन मनःसन्निकर्षेण प्रत्यक्षविरोध
इत्यर्थः ।
एके त्विति ।
यमेव हि त्र्यणुकं दृश्यं भवन्तो दृश्यावयवमाचक्षते तमेव वयं परमाणुमाचक्ष्महे, न हि तदवयवकल्पनायामस्ति प्रमाणमिति भावः ।
कथवगन्तये भिद्यते त्रसरेणुरिति ।
अङ्गुल्यग्राम्यां मृद्यमानस्यास्यादर्शनं सूक्ष्मतया ऽप्युपपद्यते ।
जालसूर्यमरीचिस्थमेव तद्रजः कथं चिदुपलभ्यते नान्यथेति भावः ।
द्रव्यत्वे सतीति सामान्यसमवायौ निवर्तयति ।
बाह्येत्यात्मानं निबर्तयति ।
अनित्यत्वाच्चेति ।
अनन्तावयवत्वेन मेरुसर्षपयोरभिन्नपरिमाणत्त्वप्रसङ्गात्
महाभूतमूलकारणमनवयवं कल्पनीयं न च द्रव्यमनवयवं विनश्यति आकाशादिवदिति नित्याः परमाणवस्त्रसरेणवस्त्वनित्या इति न परमाणुः ।
अनित्यत्वमेव कुत इत्यत आह ।
सामान्यविशेषवत इति ।
संहतानामिति ।
रूपादीनां सङ्घातः परमाणुरिति ।
नचासंहतप्रतिषेध
इति ।
अप्रतिषेधे वात एवासंहताः परमाणव
इति भावः ।
संयुज्यते चायं विभज्यते चायमवयव्यन्तरेणेति न व्यतिरेक इति ।
यथा भिन्नात्संयोगाप्राप्त्यभावो व्यावृत्त एवमभिन्नादपि, न हि स एव तन्तुस्तेनैव तन्तुनाप्राप्यतैत्यर्थः ।
सत्त्वरजस्तमासां न संयोगः किं तु तेषां स्वाभाविकः स को ऽपि पंरिणतिभेदो यतः सम्भूयकारित्वमित्यर्थः ।
गुरुत्वान्तरकार्याग्रहणादिति ।
( २३३ । २१ ) अवयवगुरुत्वाद्
गुरुत्वान्तरमवयविनस्तस्य यत्कार्यमवनतिविशेषस्तस्याग्रहणादित्यर्थः ।
सत्यमुपपादितः पक्षधर्म इति ।
( २३४ । १० ) कार्याग्रहणेन कार्याभावस्ततः कारणस्य गुरुत्वस्याभाव
इत्यर्थः ।
प्रतिषेध्यं कार्यगतरूपादि तदभ्यनुज्ञातं भवतीति ।
तथा ऽपि कुतः प्रत्यक्षविरोध इत्यत
आह कारणरूपादय इति ।
चोहेतौ ।
एतेन कार्ये रूपादिप्रतिपत्तिः प्रत्युक्ता निषेध्यत्वेनेति ।
यदा हि कार्यमेव रूपादि नास्ति तदा कस्मात्तत्र रूपादिप्रतिपत्तिः प्रतिषिध्यते इत्यर्थः ।
यथा रूपाद्यन्तरकार्यमिति ।
अवयविगतानां रूपादीनां कार्यं रूपसंस्कारादवयविनश्चाक्षुषता एवं दृश्यतेति ।
उपन्यासः स्थापनम् ।
यद्यप्ययमवनमनविशेषाभावस्तुलाव्यधिकरणः
न, तथापि न शाब्दी तुलासम्बन्धितास्य प्रतीयते,
किं त्ववनमनविशेषसम्बन्धितेत्येतावतोक्तम् ।
सो ऽयमिति ।
( २३५ । २ ) असिद्धस्तावदित्यकदेशिनो दूषणम् ।
तदेतदेकदेशिदूषणं दूषयति ।
न तद्वत्तानुपलब्धेः ।
परमार्थदूषणमाह ।
अयमपीति ।
गुरुत्वमात्रोपहितानामणूनामवनमनविशेषं न करोति तुला ।
द्रव्यसमाहार इति ( २३६
। २ ) कार्यकारणद्रव्यसमाहारो मृत्कणमृच्चूर्णशर्कराकपालकुम्भसमाहार
इत्यर्थः ।
ननु समाहारः कुम्भस्य कारणं तच्च ज्ञातेयद्गुरुत्वमेवेत्यत आह ।
न चेति ( २३६ । ३ ) ये त्वाहुः सर्वो मृत्कृणादिः कुम्भपर्यवसानः कार्यसमूहः परमाणुष्वेव समवैति, ते हि मृत्कणादिकमारभ्य मृच्चूर्णान्यारयन्त
इति ।
प्रसङ्गात्तन्मतमपाकर्तुमुपन्यस्यति ।
के चित्त्विति ।
निराकरोति ।
तान्प्रतीदमिति ।
गुरुत्वमेनुपतदिति ।
( ३३७ । ७ ) न च यथा प्रदीपाधीनप्रकाशाघटादयो न तु प्रदीपः प्रदीपार्धानप्रकाशः तस्य स्वमहिमनिषिद्धतमोनुषङ्गत्वात् ।
एवं गुरुत्वाधीनपाता घटादयो, गुरुत्वं तु स्वस्य चान्येषां च गुरुत्वान्तरानपेक्षं पतनहेतुरिति वक्तव्यम् ।
न हि प्रदीपेन स्वात्मनि प्रकाशयितव्ये किं चिदन्यत् क्रियते, यादृशा घटादयः स्वप्रकाशोपादे तादृशः प्रदीपो ऽपि ।
चक्षुषः पुनरयं स्वभावभेदो येन घटादौ प्रकाशयितव्ये प्रदीपमपेक्षते न तु प्रदीपे प्रकाशयितव्ये प्रदीपान्तरमिति ।
तस्मान्न प्रदीपस्य स्वात्मनि कर्मकरणभावः ।
गुरुत्वं तु द्रव्यगतस्य पतनकर्मणः करणम्,
तेन हि द्रव्यं पात्यते ।
स्वगतस्य तु पतनकर्मणः करणत्वे तदेव कर्म करणं चेति स्वात्मनि वृत्तिविरोधः ।
आत्मनस्तु स्वात्मनि प्रकाशयितव्ये कर्तृत्वमेव न कर्मत्वमित्युपपादितामिति ।
तस्माद्गुणादयो विवादाधिकरणा न पतन्ति अद्रव्यजातीयत्वाद्गुरुत्ववदिति सिद्धम् ।
सिद्धान्त्याह ।
वेद पुनरितिप्तं कारणं प्रमाणम् ।
रूपादयो न संयोगरूपप्राप्तिमन्तः गुणत्वात् संयोगवदित्यप्राप्ते रूपादिषु निश्चयात्तददर्शननिमित्तो रूपादिषु प्राप्तिभ्रमो द्रव्येषु प्राप्तिप्रत्ययः परिमार्थिक
एवेति विनिश्चयः ।
तदनेनाभिप्रापयेणोपसंहरति ।
तस्माद्व्यवस्थितमिति ।
( २३८ । ८ ) शेषमतिरोहितार्थम्
॥ ३३ ॥
न्य्स्_२,१।३४: सर्वाग्रहणमवयव्यसिद्धेः ॥
सर्वा–द्धेः (सू। ३४)
॥ स्यादेतद् यथा ऽवयविनं नाभ्युपैति परः एवं गुणकर्माद्यपि ।
तत्कथमयं प्रसङ्गः परस्य सर्वाग्रहणमित्यत आह तदिदं सूत्रमिति ।
( २४० । ९ ) यो ऽपि हि तावद् गुणकर्मादि नेच्छति सो ऽपि न तत्प्रत्ययमपन्हुते अस्ति लौकिकपरीक्षकाणाभवयविद्रव्यगुणकर्मादिप्रत्ययः सो ऽयमशक्यापन्हवः तस्य च प्रत्यक्षत्वमुपपादितं प्रत्यक्षलक्षणे ।
अवयविद्रव्यबाधकानि च प्रमाणान्यधस्तान्निराकृतानि ।
सो ऽयमसति बाधके स्वयं च गुणादिभिश्च सहोपलभ्यमानो न शक्यो निराकर्त्तुमित्यधिकरणार्थः
॥ ३४ ॥
न्य्स्_२,१।३५: धारणाकर्षणोपपत्तेश्च ॥
धार–श्च (सू। ३५) ॥ ते एते धारणाकर्षणे गोघटादिकमुपलभ्यमानमवयविनं साधयतः, कुतो निरवयवे विज्ञानाकाशादौ,
अवयवे च परमाणौ चादर्शनात् ।
इदमेवं प्रयोगमारोहति ।
यो ऽयं दृश्यमानो गोघटादिरवयवी परमाणुसमूहभावेन विवादाध्यासितः
नासावनवयवी धारणाकर्षणानुपपत्तिप्रसङ्गात् ।
यो यो ऽनवयवी तत्र तत्र धारणाकर्षणेन भवतः यथा विज्ञानादौ, न चायं गोघटादिस्तथा तस्मान्नानवयवीति ।
न विरोध इति ।
( २४१ । ३ ) व्यभिचारलक्षणो दोषो विरोधः ।
अवयविन एव ते प्रत्येकमिति ।
परमाणुसमूहे तु प्रत्येकमपि न परमाणवो ऽवयविन इत्यर्थः ।
विशेषहेत्वभावादिति ।
एवं हि विशेषहेतुः स्याद् यद्यवयविनमन्तरेण क्व चिद्विज्ञानाकाशादौ सङ्ग्रहश्चोक्तलक्षणो धारणाकर्षणहेतुता वा ऽस्य दृष्टा स्यात् ।
न चासौ दृश्यते काष्ठतृणोपलादयः प्रत्येकमवयविन
एवेत्यर्थः ।
स्यादेतत् ।
अवयवित्येन तुल्यत्वे ऽपि कस्मादेकत्र धारणाकर्षणे नान्यत्रेत्यत आह ।
पांशुराशीति ।
समूहमात्रत्वेन तुल्यत्वे ऽपि यथा कश्चिद्विशेषे हेतुरेवमवयवित्वेन तुल्यत्वे ऽपीति समानमित्यर्थः ।
तत्सहचरितस्य सम्बन्धविशेषः स्नेहद्रवत्वकारित इति ।
तस्माद्भाष्यकारस्य सूत्रदूषणं परमतेन द्रष्टव्यम् ॥ ३५ ॥
न्य्स्_२,१।३६: सेनावनवद् ग्रहणमितिचेत् ? नातीन्द्रियत्वादणूनाम् ॥
अथेदानीमन्वयिपन इति ।
अन्वयव्यतिरेकिण
इति ।
पटो ऽयमित्येकविषया बुद्धिरेकबुद्धिः
तन्तव इति नानाविषया बुद्धिरनेकबुद्धिः ।
समुच्चितासमुच्चितविषयत्वादिति ।
असमुच्चितविषयत्वादेकबुद्धेः समुच्चितविषयत्वादनेकुबद्धेरिति ।
प्राशङ्कात
इतस्सूत्रम् ।
सेना–नाम् (सू। ३६) ॥ तथोक्तमिति ।
( २४३ । ९ ) बहुन्त्वसेङ्ख्यैव सेना वनं चेति ।
यस्तु मन्यते सेना वनमिति व्यपदेशाय तञ्ज्जर्निताय वा विज्ञानाय बहुत्वसङ्ख्यां कथं चित्कारणं सम्भवति यस्त्वयमैन्द्रियकः प्रत्ययः प्रत्येकमगृहीतैकत्वेषु वृक्षेषानुत्पन्नाषेक्षाबुद्धेर्द्रागित्येकघतवनावगाही जायते तत्र कारणाभावेन बहुत्वस्यानुत्पादान्न बहुत्वसङ्ख्यालम्बन इति न परितुष्यति तं प्रत्याह ।
अभेदप्रत्ययस्य चेति ।
उपलभ्यमानरूपेष्वेव कुतश्चिन्निमित्तादनुपलभ्यमानपृथ(त्क्वे)षु मिथ्याभेदबुद्धिर्भवति ।
न पुनः सर्वथानुपलभ्यमानेष्विति तात्पर्यार्थः ।
यस्तु नोभयपक्षसम्प्रतिपन्नमस्ति जगति किं चिदेकमिति मन्यते तं प्रत्याह
एकं नास्तीति ।
स्यादेतत् ।
दूरात्काष्ठलोष्ठतृणपाषाणादयः प्रत्येकं पृथक्कृता नोपलभ्यन्ते ।
समुदायस्तु तेषां दृश्यते ।
न च ते द्रव्यान्तरमारभन्ते विजातीयत्वात्तथामा भूवन् परमाणवः प्रत्येकं दृश्याः समूहस्तु तेषां दृश्यते विनैव कार्यान्तरारम्भमित्यत आह ।
गृह्यमाणाग्रहणस्य चेति ।
( २४३ । ३ ) तेषामेवागृह्यमाणानामपि मिलितानां दर्शनं येन रूपेण ग्रहणयोग्यता निमित्तान्तरात्तु न गृह्यन्ते, परमाणवस्तु परमसूक्ष्मतया नस्वरूपेण ग्रहणार्हा इति मिलिता अपि न ग्रहीतव्या एव, न जातु मिलिता अपि पवनसमूहा भवन्ति चाक्षुषाः ।
रूपवन्महत्त्वमपि भावानां स्वरूपयोग्यता ग्रहणं प्रतीति भावः ।
ततश्च त एवैन्द्रियका अनैन्द्रियकाश्चेति महान्विरोधः ।
अत्रान्तरे वार्त्तिककार आह स्म—को वा विरोधो बहवः सञ्जातातिशयाः पृथक्भवेयुः कारणं बुद्धेर्यदि नान्मेन्द्रियादिवदिति ।
एतदपि वार्त्तिककृतैवाथानुपजातविशेषा इति वदता परास्तम् ।
न खलु स्थैर्यसिद्धौ भावानामयवविद्रव्योत्पादमन्तरेणास्त्यन्यो ऽतिशयः परम्माणूनाम् ।
न च यमागन्तुकमासाद्य परमाणवो ऽवयविनं जनयन्ति तेनैव स्थूलबुद्धिम्,
कृतमवयविनेति साम्प्रतम् ।
यदाभासा हि बुद्धिस्तदस्या आलम्बनप्रत्ययः ।
न चेयं परस्परव्यावृत्तपरमसूक्ष्मपरमाण्वालम्बना तथा सति स्थूलभेदात्तदेकमिति च स्यात् ।
न चैष प्रत्ययो विकल्पः स्पष्टप्रतिभासत्वात् ।
न वाविकल्पोपाधिरस्य विशदता निर्विकल्पकेनापि तस्याग्रहणात् ।
न च प्रतिभासधर्मः स्थौन्यम् ।
नानादिग्देशस्थितस्य निरन्तरस्यैकेन विज्ञानेन ग्रहणं स्थौल्यम् ।
तत्खल्वीदृशत्वं परमाणूनां प्रतिभाससमयभावीति प्रतिभासधर्म
इत्युच्यते ।
तथा चैष समीचीन एवानुभवः
न हि ते न परमाणवो न च न निरन्तरोत्पन्ना न च न दिग्देशभिन्ना न वैकस्मिन्विज्ञाने न चकासति ।
तस्मात् कस्यात्रान्यथात्वम् ।
यथाह—
न च तद्दर्शनं भ्रान्तं नानावस्तुग्रहा(द्य)त्स्वतः ।
सांवृतग्रहणं नान्यन्न च वस्तुग्रहो भ्रम ।
इति ।
अत्र तावत्तिलतण्डुलवद्गन्धरूपरसस्पर्शपरमाणुभिरन्तरिततया नैरन्तर्यमेषां नास्ति ।
तस्मादन्तरालाग्रहणे दूरादेकघनवनप्रत्ययवदयं मिथ्याप्रत्ययो रूपादिपरमाणूनां सान्तरत्वादू अनेकत्वाच्च ।
न चासति बाधके मिथ्येति युक्तम् ।
उक्तश्च बाधकाभावः, स्थेमा च भावानामुपपादयिष्यते ।
तस्मादयुक्तमेतदपीति ।
इदमेव परीक्ष्यत
इति भाष्यम् ।
सर्वत्रावयविनमपन्हुवानस्य
अतीन्द्रियं वाणुसञ्चयमात्रमिच्छतः सेनावनाङ्गानामपि करिकुसुम्भादीनामतीन्द्रियाणुसञ्चयमात्रत्वाद्
दृष्टान्ताभाव इति तात्पर्यार्थः ।
शङ्कते दृष्टमिति चेत् ।
सेनावनाङ्गानि तावद्
दृष्टतया न शक्यान्यपह्नोतुमिति सिद्धं निदर्शनमित्यर्थः ।
निराकरोति ।
तच्च नैवमिति ।
यदि दृष्टमप्रत्याख्येयमवयव्यपि दृष्ट इति सो ऽपि न प्रत्याख्येयः ।
अथायं परीक्ष्य प्रत्याख्यायते सेनावनाङ्गान्यपि प्रत्याख्येयानीति दृष्टान्ताभावः साध्यसमत्वादिति भाष्यार्थः ।
वार्तिकं यश्चायमनेकस्मिन्निति ।
अविद्यमानो विशेषः शुक्तौ रजतत्वं तस्य दर्शनं वणिग्वीथ्यादौ तस्य द्वारं संस्कारः तेनान्ध्यारोपितः शुक्तिविपरीतथर्मो रजतत्वं येन सामान्यदशनेन तत्तथोक्तं तस्य भावः तत्ता सामान्यदर्शनस्येति ।
तिरोभूतभेदमुपमानमेव भाक्तं भेदोल्लेखेन ज्ञायमानमौपमिकमिति विवेकः (सञ्ज्ञाज्ञानमौपमिकीदाहरणम्) ।
यथा सिंहो माणवक इति ।
( २४४ । ५ ) नन्वेतदपि तिरोभूतभेदतया भाक्तमेवेत्य आह ।
सिम्ह इव सिंहः ।
अयमर्थः ।
सिंहशब्दादुपमानादाचारे सर्वप्रातिपदिकेभ्यः ।
क्विविति क्विबन्तात्कर्त्तरि अपि कृते सिंहशब्द उपमानार्थो भवति ।
नानाभावे चाणूनामित्यादिभाष्यं व्याचष्टे ।
मिथ्याप्रत्यया अपीति ।
तदभावे तु ।
प्रधानाभावे तु घटादौ मिथ्याप्रत्यया इति ।
परमाणुषु सञ्चितेष्विति ।
येषामपि घटो ऽवयवी तैरपि परमाणुसञ्चयो ऽभ्युपेयः येषामप्येवयवी नास्ति तैरपि परमाणुसञ्चय उपयः सो ःयमुभयसम्मतः सञ्चय इत्यर्थः ।
ते ऽपि सञ्चिता एवेति ।
वैभाविका खलु वात्सीपुत्रा भूतभौतिकसमूहात् पटादीनपि शब्दादीनिच्छन्ति अतस्तेषां मते शब्दादयो न मुख्यमेकत्वं सङ्ख्याया गुणस्य गुणेषु शब्दादिष्वयावात् ।
अपि तु भाक्तमेवेत्यत
आह ।
शब्दादिषुचैकप्रत्पयय इति ।
शङ्कते सर्वत्रेति ।
( २४५ । १ ) निराकरोति ।
न द्वे इत्यत्रेति ।
समुच्चयनिवृत्तिमात्रमेव चेदेकत्वं द्वित्वनिषेधेन समुच्चायो निवर्त्तत इति तन्निवृत्तिपात्रमेकत्वमेवेति एकमनेकं वेति संशयो न स्यात् ।
न च तत्रोत्तरमेकमेवेति वियमार्थं भवेदिति ।
गतौ ।
प्राप्तौ ।
शङ्कते सर्वत्रेति ।
निराकरोति ।
नैकमित्यत्रेति ।
अयमभिसन्धिः ।
द्वित्वादीनामभावे समुच्चयमात्रं स्यात् ।
न तु समुच्चयानामवान्तरभेदः तथा च नैकमित्यसमुच्चयसहितैकत्वसमुच्चयः प्राप्त एवेति न संशयः स्यात् ।
इदं त्विह वक्तव्यम् ।
शब्दादौ द्वित्वाद्यभावे कथं द्वित्वादिप्रयोगः ।
भाक्त इति चेत् ।
किं भक्तिनिमित्तं ।
समुच्चयमात्रं चेत् कुतो द्वाविति नियमः ।
समुच्चयविशेषादिति चेद् नन्वस्य नास्त्याजानतो भेद इत्युक्तम् ।
न चेह द्वित्वमस्ति यद्विशिंष्यात् तथा चाकामेनापि समुच्चयानामवान्तरभेदः स्वाभाविको वक्तव्यः ।
तथा च स एवास्तु संशयविषयः कृत्तं द्रव्ये द्वित्वादिनेति ।
तस्मात्संविदेव भगवती वस्तूपगमे नः शरणं समुच्चयादिविलक्षणं द्वित्वाद्यवगाहमाना व्यवस्थापिका द्वित्वादीनां तदनुसरणप्रकारश्च युक्तिबहुलतया वार्त्तिककृता कृत इति मन्तव्यम् ।
यः पुनरनुभूयमानमेकत्वं द्वित्वादींश्चानुभूयमानान्न प्रतिपद्यते तस्य खल्वनुभवमपन्हुवानस्य निर्मर्यादतयैकत्वाधारो ऽपि नास्तीति कस्य समुच्चयो द्वित्वादिः स्यात् ।
समुच्चयाभावे ऽपि कस्याभाव एकत्वं स्यादित्याह ।
यः पुनरिति ।
अपि च एकत्वादीन् मुख्याननभ्युपगच्छतो ऽयमपि भाक्तः प्रयोगो त स्यादित्याह ।
एकत्त्वद्वित्वादींश्चेति ।
भाष्यमनुभाष्यव्याचष्टे ।
तेषु चैवमिति ।
( २४६ । २ ) इयत्तानवधारणादिति ।
प्रत्यक्षपरिमाणविषयमियत्तावधारणं परममहतां त्वप्रत्यक्षपरिमाणानां सत्यपीयत्तानवधारणे नापरिमाणता द्रव्यत्वेनव्योमादीनां परिमाणानुमानादिति ।
यथा महत्परिमाण इति ।
कुवलपरिमाणादामलकपरिमाणं महदिति लौकिका व्यपदिशन्ति ।
यथा कुवलादामलकं महदिति ।
न च परिमाणस्य परिमाणयोगः
अनवस्थाप्रसङ्गादिति ।
तम्माद्भाक्तो ऽयं व्यपदेशोमहत्त्वे महदिति ।
तस्मिन् तच्शब्दो भाक्तमहच्छब्दवान् गुणत्वान्महत्त्ववत् गुणत्वं च शब्दस्यानुमानलक्षणे प्रसाधितम् ।
भाक्तं च मुख्यपूर्वकमिति क्व चिन्मुख्येन महत्वेन भवितव्यं तच्चासति बाधके द्रव्ये मुख्यमिति सिद्धम् ।
न महत्प्रत्ययविषयत्वादिति ।
( २४७ । १६ ) न तन्मात्राद् अपि त्वबाधितादनन्यथासिद्धादिति तदेवाह ।
अपि त्वित्यादि ।
अनेनानन्यथासिद्धिर्द्रव्ये महत्प्रत्ययस्य दर्शिता ।
तथैकादिमहत्प्रत्यया इति ।
( २४८ । १० ) समुदायमेकमाश्रित्येति शेषः ।
समुदायश्च समुदायान्तरप्राप्ताविति ।
यदा हि भिन्ना अपि समुदायिनः प्राप्त्या एकीकृता एकः समुदायः तदा समुदायान्तरमपि समुदायान्तरेण प्राप्तमेकः समुदायो न चैकस्यात्मना प्राप्तिरस्ति ।
न हि तदेवाङ्गुल्यग्रं तेनैवाङ्गुल्यग्रेण प्राप्यते ततश्च द्वयोः समुदायाप्राप्तिरित्ययुक्तमित्यर्थः ।
चोदयति ।
नैव जातिरस्तीति ।
अयमभिसन्धिः
न सामान्यं नाम वस्तुसद् यस्याश्रयो वस्तुभूतो ऽनुस्रियते ।
तथा हि तत्पिण्डे वा वर्त्तते सर्वत्र वा, यदि सर्वत्र सर्व एव गावः प्रसज्येरन् यथा हि शाबलेयादयो गोत्वाभिसम्बन्धाद् गाव एवं विश्वमेव तत्सम्बद्धमिति गौः प्रसज्येत ।
अथ केषु चिदेव पिण्डेषु वर्तते तदा वक्तव्यं ततो यदा क्व चिद्देशेपिण्डो जायते तदा वक्तव्यं कुतस्त्यं पुनरस्य गोत्वमिति ।
न तावत्तत्रापि पिण्डोत्पादात्पूर्वमासीन्नापि पिण्डपान्तरादगतं तस्य निष्क्रियत्वात्पिण्डान्तरत्यागप्रसङ्गाच्च ।
न च पिण्डे जायमाने जायते अनित्यत्वापत्तेः पिण्डान्तरस्य च गोत्वाज्जन्माजन्मस्वरूपविरूद्धधर्माध्यासेन भेदे सत्यसामान्यत्वप्रसङ्गः ।
तदितो महाव्यसनाद्विभ्यता सांवृतमेव सामान्पयमास्थेयं न पारमार्थिकतिति ।
परिहरति ।
जातिविशेषस्येति ।
( २४९ । २ ) प्रत्ययानुवृत्तिर्यद्यपि प्रत्यक्षा तथा ऽपि विप्रतिपन्नं प्रति सैव लिङ्गमुच्यते ।
त्यन्ति हि के चिद्भावा ये सहावस्थाने ऽपि परस्परमसम्बद्धा यथा समानकाला गन्धरसरूपस्पर्शा विज्ञानानि च बहूनि परेषां समानकालान्यप्यसंसर्गीणि ।
दिक्कालाकाशात्मानश्च सहाव, स्थाना अपि परस्परासंसर्गिणो वैशेषिकाणां तथा सामान्यमपि सर्वासम्बद्धमपि सर्वैः सहावतिष्ठते ।
यास्त्वस्य व्यक्तयस्ताभिः परं सम्बध्यन्ते ।
तथा च यत्र जायन्ते व्यक्तयस्तत्रासम्बद्धावपि स्तः सामान्यसमवायाविति ।
तासा जन्मैवव सामान्यसमवायावच्छेदः ।
स च स्वकारणादननुयोज्य
इति वस्तुगतिं प्रामाणिकीं विद्वासो नास्माद्दूषणाद्बिभ्यतीति ।
बाधकान्तराणि चास्यावयविव्याख्यानेन प्रत्याख्यातानि ।
तावदेव तर्ह्यधिकरणं जातेः प्राप्तमिति ।
ये ये दृक्षत्वादिजातिमनर्पक्षा व्यञ्जयन्ति ते ते परस्परं वृक्षादिव्यक्तितया भिद्यन्ते ।
यथा किंशुकाशोकचम्पकादयो भिन्नास्तरवस्तथार् ऽवाग्भागमध्यभागापरभागा अपि भिन्नस्तस्य स्युः ।
अवयविनि तु जायमाने नाय दोषः ।
तस्य सर्वावयवसाधारण्येन प्रत्यभिज्ञायमानत्वात् ।
न चैवमवयविनो ऽपि तावन्तः स्युरिति वाच्यम् ।
तस्यैकस्य सर्वावयवसाधारण्येन प्रत्यभिज्ञायमानत्वात् ।
अवयवान्तरस्य तु नावयवान्तरे प्रत्यभिज्ञायमानत्वात् ।
तेषां वृक्षव्यक्तिहेतुत्वे वृक्षानेकत्वप्रसङ्ग
इति ।
सर्वापकृष्टः सन्धातश्चेति व्याघातः ।
संहन्यमानापेक्षयानपकर्षादित्यर्थः ।
साख्यमवयवेभ्यो ऽनर्थान्तरमवयविनं मन्यमानं प्रति प्रयोगमाह ।
अर्थान्तरमिति ।
( २५० । १८ ) प्रावरणसामर्थ्यं पटस्य तन्तूनां तु पटोत्पादनसामर्थ्यम् ।
तन्तुपटरूपे इति ।
तन्तूनां नीलपीतलोहितादिरूपं पटस्य तु चित्रं तत्र नीलादीनां समवायिकारणं तन्तवः चित्रस्पवय तु पटः ।
एवं तन्तुपटयोः सावर्ण्ये ऽपि कश्चिद्विशेष उन्नेयः ।
विशेषवत्त्वं च वैयधिकरण्येन प्रतीयमायनत्वं तेन च भिन्नकारणत्वं तेन च भिन्नसमवायिकारणत्वं साध्यत इति न सिद्धसाधनं नाप्यनैकान्तिकत्वमिति ।
ये तु पक्षहेतू अन्यथाकारे गृहीत्वा द्षयाम्बभूवुः
तन्मतमुपन्यस्य दूषयति ।
एके त्विति ।
न्य्स्_२,१।३७: रोधोपघातसादृश्येभ्यो व्यभिचारादनुमानमप्रमाणम् ॥
अनुमानमिदानीमिति भाष्यम् ।
अत्रेदानीपदार्थमाह वार्तिककारः ।
अथेदानीमवसरप्राप्तमिति ।
( २५१ । ५ ) उद्देशक्रम
एव लक्षणपरीक्षयोः सम्बन्ध इत्यर्थः ।
रोधो–णम् (सू। ३७) ॥ अप्रमाणदस्य व्यारूयानभाष्यमेकदापीति ।
प्रतिपादकं निश्चायकम् ।
लक्ष्यपरत्वाल्लक्षणस्य लक्षणयुक्तस्य लक्ष्यस्य व्यभिचारादप्रमाणत्वेन लक्षणमेव दूषितं भवतीत्यर्थः ।
वातिकम् ।
पूर्ववदादेरुदाहरणानीति ।
अत्र च नदीपूरमयूरवाशिते शेषवत उदाहरणे पिपीलिकाण्डसञ्चरणं चाचिरमुत्पस्त्यमानस्य वर्षस्य न कार्यं न ह्यनागतं कारणं भवति पूर्वोत्पन्नस्य ।
न च नासावक्रत्वादयो ऽप्यनागतेन मरणेन क्रियन्ते तथा सति पुत्रो ऽपि पितुः कारणं स्यादिति सर्वमवदातम् ।
कार्यकारणभावव्यवस्थापनं लौकिकं भवेतु ।
नियमवान् खलु प्राग्भावः कारणत्वस्य व्यवस्थापको नियमवांश्च पश्चाद्भावः कार्यत्वस्य व्यवस्थापकः नासावक्रत्वादयो मरणस्य यत्कारणं तस्य पूर्वकार्याणीति प्रत्यासत्त्या ऽनया मरणमनुमापयन्ति ।
न च विपीलिकाण्डसञ्चरणं वर्षस्य कारणमनुपलब्धसामर्थ्यात् ।
असत्यपि तस्मिन्वर्षस्योत्पत्तेः ।
वर्षमूलकारणस्य तु महाभूतसङ्क्षोभस्य पिपीलिकाण्डसञ्चरणं पूर्वकार्यं क्वथ्यमानाः खलु पिपीलिका भौमेनोष्मणा स्वान्यण्डानि भूमिष्ठान्युपरिष्टान्नयन्ति ।
तस्मात्पिपीलिकाण्डसञ्चारेण वर्षकारणमनुमाय यदि वर्षकारणात्कार्यर्ं वषमनुमिमते अनुमातारः तदा पूर्ववदुदाहरणम् ।
अथ कार्यकारणभावमबुद्धैव तदा कार्यकारणभावाभावेन सामान्यतोदृष्टस्योदाहरणमिति मन्तव्यम् ।
उदाहरणव्यभिचारद्वारकमिति ।
लक्ष्यदूषणद्वारेण लक्षणस्य दूषणमित्यर्थः ।
न हि व्यभिचारलक्षणस्यानुमानाप्रामाण्यप्रतिपादकस्यानुमानस्य व्यभिचारे किं चित्प्रमाणमस्तीति ॥ ३७ ॥
न्य्स्_२,१।३८: नैकदेशत्राससादृश्येभ्यो ऽर्थान्तरभावात् ॥
भाष्ये पिपीलिकाप्रायस्येति ।
प्रायशब्दः प्रबन्धार्थः ॥ ३८ ॥
न्य्स्_२,१।३९: वर्तमानाभावः पततः पतितपतितव्यकालोपपत्तेः ॥
तदेवमनुमानलक्षणपरीक्षाद्वारेणानुमानलक्षणं परीक्ष्य सम्प्रत्यनुमानविषयपरीक्षया ऽनुमानपरीक्षामवतारयति भाष्यकारः ।
त्रिकालविषयमिति ।
तत्र वार्त्तिककारः सत्यां कालस्य सिद्धौ वर्त्तमानत्वं परीक्ष्यते स एवापरीक्षितो ऽद्यापि न सिध्यतीति कालस्वरूपं परीक्षते ।
तत्र तावदिति ।
( २५२ । २२ ) त्रिकारण्येमिति ।
( २६३ । ३ ) कारणान्तरवैकल्यं विषयस्यायोग्यत्वमभावो वा विषयस्येति त्रीण्यनुपलब्धिकारणानीति ।
अथ धर्मो ऽपि नास्तीति ।
भावरूपो हि हेतुरभावाधिकरणो न भवति अभावरूपस्य त्वभावाधिकरणत्वाविरोध
इत्यर्थः ।
परिहरति ।
साधनार्थो हीयते ।
न हि पराभिमतो ऽभावः सर्वसामर्थ्यरहितः साधनं कस्य चिद्भवति अस्मदभिमतस्त्वभावः परतन्त्रोभावाधिकरण एव नानधिकरणो नाप्यभावाधिकरण इत्यर्थः ।
एवं कालस्य बाधकप्रमाणाभावमुक्त्वा साधकं प्रमाणमाह ।
परापरादीति ।
स्वयं विद्यमानयोरनियतदिग्देशयोः समानदिक्कयोर्वा देशतस्सन्निकृष्टविप्रकृष्टयोर्वा विप्रकृष्टसन्निकृष्टयोर्वा युवस्थविरयोरेकस्मिन्
शरीरावस्थाभेदानुमितातीतसूर्योदयास्तमयरूपक्रियाप्रचयबहुत्वान्तरितजन्मनि स्थविरे युवानं शरीरावस्थाभेदानुमितातीतसूर्योदयास्तमयरूपक्रियाप्रचयाल्पत्वान्तरितजन्मानमवधिं कृत्वा विप्रकृष्टा बुद्धिरुत्पद्यते तामपेक्ष्य बहुतरसवित्रुदयास्तमयविशिष्टेन कालप्रदेशेन योगाद्वर्षीयसि परत्वस्योत्पतिः एवं वर्षीयांसमपधिं कृत्वा यवीयसि सन्निकृष्टा बुद्धिरुत्द्यते तामपेक्ष्याल्पतरदिनकरोदयास्तमयाल्पत्वान्तरितजन्मानमवधिं कृत्वा विप्रकृष्टपा बुद्धिरुत्पद्यते तामपेक्ष्य बहुतरसवित्रुदयास्तमयप्रचयविशिष्टेन कालप्रदेशेन गोगाद्यवीयस्यपरत्वस्योत्पत्तिः ।
तयोश्च कालपिण्डसंयोगयोः प्रत्यक्षत्व न लोकसिद्धम्, ते एते परत्वापत्वे कालपिण्डसंयोगादुत्पद्यमाने कालकारणविशिष्टमात्मानं कार्यतया गमयतः ।
सूर्योदयास्तमयक्रियाप्रचयाल्पत्त्वबहुत्वविशिष्टात्पिण्डादेव परत्वापरत्वे भविष्यतः कृतमत्र द्रव्यान्तरेण कालेनेति चेत् ।
न सवितृसमवेतायाः क्रियायाः पिण्डेनासम्बन्धात् ।
संयुक्तसमवायस्त्वस्याः सम्बन्धः कालेन सर्वगतेनास्यास्ति, न वाकाशं सर्वगतमपि परापरव्यतिकरं प्रत्यवकल्पते ।
अस्य स्वरूपेणाभेदात् ।
अपि चापकाशात्मानौ न परापरव्यतिकरकारणम् असाधारणगुणयोगित्वात् पृथिव्यादिवत् ।
तस्मात्परापरव्यतिकरकारणे कल्पनीये ।
ते च द्रव्यमपारतन्त्र्याद् आकाशवत्ते दिक्काला उच्येते एवं यौगपद्यापयौगपद्यचिराक्षिप्रप्रत्यया अपि काललिङ्गं न ह्येते क्रियायां तत्कारकेषु वा भवितुमर्हन्ति तेषु सत्स्वपि कादाचित्कत्वात् ।
नन्वयं कालो ऽपि नित्य इति तस्मिन् सत्यप्येते कादाचित्काः कथं कालाकारणम् ।
अपि ।
यद्युच्येत– एकसूर्यपरिस्पन्दावच्छिन्नकालसम्बन्धिन्यः क्रियाः युगपदनेकसूर्यपरिस्पन्दावच्छिन्नकालसम्बन्धिन्यः क्रियाः क्रमवत्यो यौगपप्रत्यगोचरः ।
एवं बहुतरानेकसूर्यपरिस्पन्दावच्छिन्नकालसम्बन्धिनी क्रिया चिरप्रत्ययगोचरः ।
अल्पतरानेकसूर्यपरिस्पन्दावच्छिन्नकालसम्बन्धिनी क्रिया क्षिप्रमत्ययगोचर इति ।
कृतं तर्हि सूर्यपरिस्पन्दस्य कालावच्छेदेन ।
नन्वयं साक्षादेव क्रियामवच्छेत्स्यतीति ।
तथा च युगपदादिप्रत्यया भविष्यन्तीति ।
तन्ना सूर्यपरिस्पन्दस्य क्रियाभिः सम्बन्धाभावेन तदवच्छेदकत्वानुपपत्तेः न वाकाशादिसम्बन्धद्वारमस्य तदवच्छेदकत्वम् ।
तथा हि नाकाशादयः क्रियायौगपद्यादिप्रत्ययनिमित्तीम्,
असाधारणगुणयोगित्वाद् घटवत् ।
एवं यौगपद्यादिप्रत्यया न दिक्कारणकाः दिग्देशनियमानपेक्षणात् ।
कालपिण्डसंयोगजपरत्वापरत्वचदिति ।
तस्मात्सूर्यपरिस्पन्दस्य देवदत्तादिपरिस्पन्दस्य चास्ति कालेन सर्वगतेन संयुक्तसमवायलक्षणः सम्बन्धः ।
एतया च द्वादा परिस्पन्दयोरप्यस्ति सम्बन्धप इति ।
कालसम्बन्धानपेक्षमेव च सूर्यपरिस्पन्दावच्छिन्नस्य देवदत्तादिपरिस्पन्दस्य ग्रहणमुपद्यते ।
यथा दण्डीति शब्दाद्दण्डावच्छिन्नं पुरुषं प्रतीत्य तदन्यथानुपपत्त्या पश्चाद्दण्डपुरुषयोः संयोगभेदो ऽवगम्यते न तु सम्बन्धज्ञानपुरःसरं दण्डिविज्ञानम् ।
एवं परत्वापरत्वे अपि कालपिण्डसंयोगनिबन्धने गृहीत्वा कालो ऽनुमीयते न तु कालज्ञानपुरःसरं तज्ज्ञानं तत्सिद्धमरूपतया कालो ऽप्रत्यक्षः परत्वापरत्वाद्यनुमेयश्चेति ।
तस्मात्सुष्टूक्तं परादिप्रत्ययानां चेति ।
कार्यकारणविशेषापेक्ष
इति ।
कार्यस्य परापरादेः प्रत्ययस्य च यः कारणविशेषोबहुतराल्पतरातीततपनपरिस्पन्दावच्छिन्नकालपिण्डसंयोगस्तदपेक्षः काल एको ऽपि परापरादिप्रत्ययहेतुः परापरत्वलक्षणगुणोत्पादनद्वारेणेति वर्त्तते कारणव्यङ्ग्यः कालः तस्य निष्पन्नतया व्यक्तिसाधनत्वोपपत्तेः ।
न तु क्रियाव्यङ्न्य तस्याः साध्यतया असिद्धत्वाद्व्यक्तिं प्रति हेतुभावाभावात् ।
तथा चातीतानागतमात्रदर्शनाद्वर्त्तमानाभावेन न त्रैकाल्यविषयमनुमानं तयोश्च पितापुत्रवत्परत्वापरत्ववदूध्रस्वदीर्घवच्च परस्परापेक्षासिद्धिरन्तरेणापि वर्त्तमानकालमिति पूर्वः पक्षः ॥ ३९ ॥
न्य्स्_२,१।४०: तयोरप्यभावो वर्तमानाभावे तदपेक्षत्वात् ॥
तयो–त्वात् (सू। ४०) ॥ नातीतादिरूपता कालस्य कारकव्यङ्न्या तयोस्तादवस्थ्यात् ।
अपि तु क्रियाव्यङ्ग्या तां खलूररीकृत्य प्रवर्तमानानयमतीतानागतवर्तमानान् प्रतिपद्यते नान्यथा ।
यदा खल्वयं पुरुषः फलं प्रवर्तमानपतनक्रियाविशिष्टं प्रतिपद्यते तदा व्यपदिशतिपतति फलमिति ।
तन्मूले चास्यातीतानागतत्वे अपतत् फलं पतिष्यतीति ।
न च वर्तमानपतनमसिद्धं येन न कालं व्यञ ज्यात् (तद्द्वयोस्तादवस्थ्यात् अपि तु क्रियाव्यङ्ग्यता) तदसत्त्वे कस्येदं कारणं गुरुत्वं कस्य च फलं कारकं कस्य च फलं भूमिसंयोगः कार्यः ।
न च परत्वापरत्वादीनामपि सिद्धिः परस्परापेक्षा ।
किं तर्हि ? सन्निकृष्टबुद्ध्यपेक्षमपरत्वं विप्रकृष्टबुद्ध्यपेक्षं परत्वं पूर्वसङ्ख्यावच्छिन्नता च संयुक्तसंयोगानां सन्निकर्षः ।
परसङ्ख्यावच्छिन्नता च विप्रकर्षः ।
एवं ह्रस्वत्वदीर्घत्वे अपि परिमाणभेदौ न परस्परापेक्षौ पितापुत्रौ च प्रमाणप्रमेयव्याख्यया व्याख्यातौ ।
तस्मादतीतानागतयोर्वर्तमानापेक्षत्वाद्वर्तमानस्य च तदनपेक्षत्वादस्ति त्रैकाल्यमिति सिद्धान्तः
॥ ४० ॥
न्य्स्_२,१।४१: नातीतानागतयोरितरेतरापेक्षा सिद्धिः ॥
भाष्यम् अथापीति ।
कस्मादतीतानागतावितरतरापेक्षौ न भवतः कृतं वर्तमानेनेति शङ्ङ्का सूचयति ।
तन्निराकरणानय सूत्रम्— नाती–द्धिः (सू। ४१) ॥ परस्परापेक्षसिद्धेर्हि वर्तमानाभावः सैव तु नास्तीति सूत्रार्थः ।
कया युक्त्येति प्रश्नः ।
उत्तरं केन कल्पेन प्रकारेणातीतः
तदनेन वर्तमानाभावे ऽतीतस्वरूपाक्षेपः कृतः ।
ह्रस्वदीर्घत्वादीनां परस्परापेक्षसिद्धित्वमङ्गीकृत्याह ।
तन्नोपपद्यते विशेषहेत्वभावादिति ।
परमार्थतस्तु न चेतरेतरतरापेक्षा ह्रस्वदीर्घत्वादीनामपि सिद्धिरिति ।
स्वकीयां युक्तिं वार्तिककार
आह ।
न च वर्तमानकालानभ्युपगमे पतत
इतीति ।
( २५५ । ६ ) ॥ ४१ ॥
न्य्स्_२,१।४२: वर्तमानाभावे सर्वाग्रहणं प्रत्यक्षानुपपत्तेः ॥
वक्ष्यमाणसूत्रावतारपरं भाष्यम् ।
अर्थसद्भावव्यङ्न्यश्चायिति ।
अस्यार्थः न केवलं पतनादिक्रियाव्यङ्न्यो वर्तमानः कालः अपि त्वर्थसद्भावो ऽर्थस्य सत्ता ऽस्तिक्रियेति यावत् ।
तया व्यङ्न्यः कालः ।
एतदुक्तं भवति पतनादयः क्रियाः
वर्तमानेष्वपयान्त्यपयान्तिच ।
अस्ति क्रियातु सर्ववर्तमानव्यापिनी ।
तदेवमस्तिक्रियाविशिष्टस्य वर्तमानस्याभावे सर्वाग्रहणं प्रत्यक्षानुपपत्तेः ।
न चाविद्यमानं तस्य विवरणमसदिति ।
न च वर्त्तमानाभाववादी विद्यमानं सत्किं चिदनुजानाति ।
अत्र वार्तिककारः पृच्छति ।
कथं पुनरिति ।
( २५५ । १७ ) न हि सर्वं प्रत्यक्षं वर्त्तमानविषयमतीतानागतयोरपि योगिप्रत्यक्षत्वादिति भावः ।
उतरं यस्मादिति ।
नातीतानागतविषयतया प्रत्यक्षानुपपत्तिं ब्रूमः अपि त्वतीतानागताधारतयेत्यर्थः ।
भाष्यमपि वर्त्तमानाभावे प्रत्यक्षनिमित्तं सन्निकर्षः अस्मादिप्रत्यक्षविषयो विद्यमानो घटादिः प्रत्यक्षं प्रमाणमनाधारं सत्सर्वं नोपपद्यत इति द्रष्टव्यम् ॥ ४२ ॥
न्य्स्_२,१।४३: कृतताकर्तव्यतोपपत्तेस्तूभयथा ग्रहणम् ॥
अत्र भाष्यमुभयथा वर्तमानो गृह्यत इति तदवतार्य व्याचष्टे वार्तिककारः ।
उपपन्नश्च सन् द्वेधा भिद्यते इति ।
क्व चित् क्रियामात्रव्यङ्ग्यः
यथा ऽस्तीति ।
क्व चित् क्रियासन्तानव्यङ्ग्यः ।
पततिच्छिनत्तीति ( २५६ । ३ ) अत्र हि पूर्वपरीभावः प्रतीयते ।
न च प्रतिक्षणमपवर्गवतः कर्मण
एकस्य पाकस्य वा च्छेदनस्य वा पूर्वोपरीभाव
इति ।
कर्मसन्तानस्त्वास्थेयः सो ऽपि चैकमुपसङ्ग्राहकमन्तरेण न भवत्यत उक्तं भाष्यकृता एकार्था क्रिया क्रियासन्तान
इति ।
एकप्रयोजनावच्छिन्नेत्यर्थः ।
अत्र चाधिश्रयणादयो भवन्तु पच्यर्थाः यथाह महाभाष्यकारः
तदभिसन्धिपूर्वकं प्रेषणमध्येषणं वा युक्तं तत्सर्वं पच्यर्थ इति ।
रूपादिपरावृत्तिमात्रार्थत्वं वास्य पचे, राख्यातार्थः ।
सर्वो ऽयमध्येषणादिर्भवतु भावनाभिधानः नोभयथापि का चिदस्ति दर्शनक्षतिः ।
अनागताद्व्यवच्छिनत्ति नानारम्भ
इति ।
अनारम्भो ऽननुष्ठानम्न विवक्षितं यथा पक्ष्यतीत्यत्रेत्यर्थः ।
अतीताद् व्यवच्छिनत्ति ।
नोपरमो विवक्षित इति यथापाक्षीदित्यत्रेत्यर्थः ।
सन्तानारम्भविवक्षायामिति ।
आरम्भो ऽत्र चिकीर्षाभिधीयत इति न विरोधः ।
तदेव वर्तमानं क्रियासद्भावमुक्त्वा तत्सम्बन्धव्यङ्ग्यां कारकस्य वर्तमानतामाह ।
यच्चेदं छिद्यमानमिति ।
(न) तत्क्रिक्रियमाणं ।
वर्तमानक्रियासम्बन्धेन वर्तमानं न तु स्वरूपत इत्यर्थः ।
तस्य च कारकस्य वर्तमानक्रियासम्बन्धमतीतानागतानपेक्षमपेक्ष्यातीतानागतत्वे ।
क्रियायाः कारकस्यापि व्यक्तिः तद्भावव्यक्तिः ।
तद्धेतुकं च द्वैविध्यमिति प्रतिपादनपरं सूत्रमववतारयति ।
तस्मिन् क्रियामाणे ।
कृत-णम् ( सू। ४३ ) ॥ भाष्यम् ।
आरब्धो ऽभीष्टफलोरीकरणेन क्रियासन्तानः पचतीति ।
वक्ष्यमाणासम्पृक्ततोपयोगितया क्रियासन्तानस्वरूपमाह ।
तत्रति ।
क्रियासन्ताने ।
(नो) न (तु) नु विद्यत इत्यत्रापि पूर्वपरीभावावगमादतीतानागताभ्यां सम्पृक्त एवेत्यत आह वार्तिककारः ।
अत्र हि केवल
इति ।
शब्दमाहात्म्यात्सम्पर्को न वास्तवो,
वास्तवं तु वर्तमानत्वमत एवाह ।
केवलः शुद्ध इति ।
शब्दमाहात्म्यात्सम्पर्को न वास्तवो,
वास्तवं तु वर्तमानत्वमत एवाह ।
केवलः शुद्ध इति ।
पर्यायाभिधानमात्यन्तिकं सम्पर्काभावं दर्शयति ।
यदि क्व चिन्मुख्यंवर्तमानत्वं नाभ्युपेयते ततस्तत्पूर्वको भाक्तो ऽपि वर्तमानप्रयोगो ऽपि न स्यादित्यत आह ।
अन्यश्च लोक इति ॥ ४३ ॥
न्य्स्_२,१।४४: अत्यन्तप्रायैकदेशसाधर्म्यादुपमानपासिद्धिः ॥
अत्य–द्धिः (सू। ४४) ॥ यथा गौरेवं गवय इत्यतिदेशवाक्यार्थस्मृतिसहकारि सारूप्यदर्शनं साध्यस्य गवयो ऽयमिति सञ्ज्ञासञ्ज्ञिसम्बन्धस्य साधनमुपमानं तच्चेदं नोपपद्यते विकल्पानुपपत्तेः ।
किं यथा गौरेवं
इति गवा ऽत्यन्तसाधर्म्यं विवक्षितं तथा सति गवान्तरमेवगवयः स्यात् ।
तदिदमाह भाष्यकारः न चैवं भवति यथा गौरेवं गौरिति ।
चो यस्मादर्थे ।
तस्माद्यथा गौरेवं गवय इति वाक्यस्यार्थो भवति यथा गौरेवं गौरिति ।
गवा प्रायसाधर्म्यादपि गवयोपमानं न सिध्यति ।
मह्विषस्यापि गवा प्रायसाधर्म्यस्य विद्यमानत्वेन तस्यापि गवयाभिधानप्रसङ्गात् ।
तदिदमाह ।
न हि भवति यथा ऽनड्वानेवं महिष इतीति ।
यथा ऽनड्वानेवं गवय
इत्यस्य वाक्यस्यार्थो यथानड्पवानेवं महिष इति यस्मान्न भवति ।
एकदेशसाधर्म्यादुपमानं न भवति ।
एकदेशोपमानस्यैवानुपपत्तेरतिप्रसङ्गात् ।
तदिदमाह न हि सर्वेण सर्वमुपमीयते तथा सति सुमेरोरपिसर्षपेणोपमानप्रसङ्गात्
॥ ४४ ॥
न्य्स्_२,१।४५: प्रसिद्धसाधर्म्यादुपमानसिद्धेर्यथोक्तदोषानुपपत्तिः ॥
प्रसि–त्तिः (सू। ४५) ॥ प्रकरणाद्यपेक्षं हि वाक्यं स्वार्थं प्रतिपादयति, न केवलम् ।
तद्वशाच्च क्व चिदत्यन्तसाधर्म्यं प्रतीयते क्व चिद्भूयःसाधर्म्यं क्व चिदेकदेशसाधर्म्यम्, तदिह प्रतीतमहिषादिकं पुरुषं प्रति यथा गौरेवं गवय इति वाक्यमुच्चार्यते तदा महिषादिपरिहराराय भूयः साधर्म्यं विवक्षितमित्यवगतं वाक्यार्थं स्मरन् महिषादिषु वने गोसाधर्म्यं पश्यन्नपि न गवयसञ्ज्ञां निवेशयति ।
अपि तु साधर्म्यवति गवय एव तां निवेशयति ।
यस्त्वप्रतीतमहिषादिस्तं प्रत्येतद्वाक्यमुपमानं न भवत्येवेति परमार्थः ।
यथा च प्रकरणादिवशादत्यन्तप्रायैकदेशसाधर्म्यमाश्रित्यातिदेशवाक्यानि प्रवर्त्तन्ते तथा चोक्तं वार्त्तिककृता ।
नसाधर्म्यस्यत्यादि भाष्यं नियमं निषेधति न साधर्म्यस्य कृत्स्नभावमेव वा ऽल्पभावमेव वा आश्रित्यातिदेशवाक्यं प्रवर्त्तते ।
किं तर्हि ? प्रसिद्धसाधर्म्याद्धेतोः साध्यसाधनभावमाश्रित्योद्दिश्येति ।
एतदुक्तं भवति ।
न नियमः, किं तु क्व चित्किं चित्साधर्म्यमाश्रित्यातिदेशवाक्यं प्रवर्त्तते तच्च प्रकरणाद्युन्नेयमिति ।
अनभ्युपगमादिति च वार्त्तिकं नियमाभिप्रायमेव ।
तत्क्रिययैव
( २५७ । २३ ) तत्क्रियान्तरमित्यर्थः ॥ ४५ ॥
न्य्स्_२,१।४६: प्रत्यक्षेणाप्रत्यक्षसिद्धेः ॥
प्रत्य–द्धेः (सू। ४६) ॥ यथा गौरवं गवय इति हि वाक्यं प्रत्यक्षेण गवा गवयप्रत्यक्षं प्रतिपादयति ।
न खलु श्रुतवाक्यो ऽपि यदा प्रत्यक्षेण गवयं पश्यति तदा वाक्यार्थाधिगमादधिकं किं चित्प्रतिपद्यते ।
सञ्ज्ञासञ्ज्ञिसम्बन्धो ऽप्यनेन वाच्यादेवावगतः ।
तस्मात्प्रत्यक्षेण गवा प्रत्यक्षस्य गवयस्य गवयसञ्ज्ञाविशिष्टस्य प्रतीतेरुपमानस्यानुमाननेति पूर्वः पक्षः ॥ ४६ ॥
न्य्स्_२,१।४७: नाप्रत्यक्षे गवये प्रमाणार्थमुपमानस्य पश्याम इति ॥
सिद्धान्तस्तु— (सू। ४७) ॥ गवयत्वं हि सञ्ज्ञि, न च तद्यथा गौरेवं गवय इति वाक्यात्प्रतीयते ।
अपि तु कस्य चिद्गता सादृश्यम्, न च वाक्यगतोपव गवयशब्दस्तस्य वाचकः ।
तथा तदानीमगृहीतसङ्गतित्वात् ।
न च सादृश्यं सञ्ज्ञि, तस्मात्प्रत्यक्ष एव गवयत्वस्य प्रत्यक्षत्वात्सञ्ज्ञासञ्ज्ञिसम्बन्धपरिच्छेदः प्रमाणार्थः ।
उपपादितं चैतदुपमानलक्षणे ।
तस्मात्प्रत्यक्षो गवयः अप्रत्यक्षेण गवा प्रतीययत इति ।
सिद्धमित्यर्थः ।
पूर्वपक्षवाङ्माह ।
परार्थमुपमानमिति चेन्मन्यसे सिद्धावादिन्, तन्नास्ति ।
कुतः ।
स्वयमप्यध्यवसायात् ।
एवं हि परार्थं स्याद्यथा गौरेवं गवय इति वाक्यं यदि परस्यैवाध्यवसायं जनयेत् यावतोच्चारयितुरण्घ्यवसायं जनयति तस्मात्स्वार्थमपीत्यर्थः ।
एतदेव दर्शयति भाष्यकारः भवति भोः स्वयमप्युच्चारयितुर्वाक्यादध्यवसाय
इति ।
सिद्धान्तवाद्याह ।
नाध्यवसावय उच्चारयितुः प्रतिषिध्यते उपमानम् उच्चारयितारं प्रति न भवति ।
कुत इत्यत आह प्रसिद्धसाधर्म्यादिति ॥ ४७ ॥
न्य्स्_२,१।४८: तथेत्युपसंहारादुपमानसिद्धेर्नाविशेषः ॥
वार्त्तिकं तु परार्थत्वेनानुमानादुपमानभेदमाह ।
परार्थत्वाच्चेति ।
( २५८ । १९ ) ननु प्रत्यक्षं सारूप्यज्ञानमुपमानं न चैतत्परार्थमित्यत आह ।
न हि यथागौरिति ।
अस्तु तर्हि वाक्यमेवेत्यत आह ।
न ह्यागमेति ।
भिन्नयोरप्यनुमानोपमानयोरेतावन्मात्रेण साध्यमित्युसंहारव्याजेनाह ।
तस्माद्यथेति ।
अतिरोहितमितरत् ॥ ४८ ॥
न्य्स्_२,१।४९: शब्दो ऽनुमानम्--अर्थस्यानुपलब्धेरनुमेयत्वात् ॥
अत्र हि सूत्रकारेण प्रथममनुमानान्तर्गतिः परीक्षिताः, न चापरीक्षितप्रमाणभावस्य सा युक्तेति वार्त्तिककारः प्रथममस्य प्रमाणभावमेव परीक्षते ।
तस्याक्षेपो न शब्दः प्रमाणमिति ( २५९ । ८ ) यस्मिन् सति प्रमा भवत्येव न न भवति तत् प्रमाणं साधकतमस्य करणत्वात् ।
सत्यपि तु शब्देव प्रमाव न भवतीति तस्य साधकत्वं विघटयति ।
विषयाभावच्चेति ।
प्रामाण्यं हि विषयवत्तया व्याप्तं सा शब्दान्निवर्त्तमाना प्रामाण्यमपि निवर्त्तयति वृक्षतेव निवर्त्तमाना स्वव्याप्तं शिंशपात्वम् ।
द्विविधश्च विषयः प्रत्यक्षः परोक्षश्च ।
तत्र पूर्वः प्रत्यक्षस्य प्रमाणस्य विषयः ।
अप्रत्यक्षश्चाविनाभूताल्लिङ्गादवगन्तव्यः ।
तदनपेक्षणे असम्बन्धाविशेषात्सर्वं सर्वस्माद्गम्येत ।
तथा च सर्वः परोक्षार्थप्रत्ययो ऽनुमानव्याप्तः ।
न च प्रत्यक्षपरोक्षाभ्यामन्यो राशिरस्ति ।
तस्माद्विषयाभावादपि न शब्दप्रामाण्यमिति।यत्तावत्सत्यप्रमितेरिति ।
तन्न ।
असिद्धत्वादिति ।
न शब्दमात्रं प्रमाणमपि तु गृहीतः स्मर्यमाणसम्बन्धश्च ।
न चेदृशे शब्दे सति प्रमा न भवति ।
यादृशे तु सति प्रमा न भवति नासौ प्रमाणमित्यर्थः ।
तन्महत्प्रत्ययकर्तृत्वादिति ।
( २६० । ३ ) मह्वत्त्वपरिमाणं हि महतो विशेषणं तन्न ज्ञातं विशेष्ये महति प्रमाणम् ।
तदेवं सिद्धप्रमाणभावस्य शब्दस्यानुमानाद्भेदं परीक्षमाणः पूर्वपक्षयति ।
अनुमानं शब्द
इति ।
शब्दो–त्वात् (सू। ४९) ॥
यज् ज्ञानं प्रत्यक्षेणानुपलभ्यमानार्थविषयं प्रत्यक्षस्य पश्चादुपजायते तदनुमानं यथा ऽग्निमद्धूमज्ञानं तथा च शब्दज्ञानं तस्मादनुमानमित्यर्थः
॥ ४९ ॥
न्य्स्_२,१।५०: उपलब्धेरद्विप्रवृत्तित्वात् ॥
न्य्स्_२,१।५१: सम्बन्धाच् च ॥
अद्विप्रवृत्तिकत्वं प्रकारभेदरहितत्वं प्रत्यक्षानुमाने तु परोक्षापरोक्षावगाहितया प्रकारभेदवती इत्यर्थः ॥ ५०-५१ ॥
न्य्स्_२,१।५२: आप्तोपदेशसामर्थ्यात् शब्दादर्थसम्प्रत्ययः ॥
सिद्धान्तस्वरूपमुपक्रमते ।
यत्तावदिति ।
एतेन–संशयादिषु व्यभिचारेण, ते ऽपि हि त्रिकालविषया इति ।
अन्वयव्यतिरेकोपपत्तिमात्रं प्रत्यक्षे ऽप्यस्ति ।
प्रत्यायनाङ्गान्वयव्यतिरकज्ञानं तु अन्यादृशं शब्दे अन्यादृशं त्वनुमाने, तद्धि पक्षधर्मतापेक्षमनुमाने, शब्दे तु तदनपेक्षमित्यत्र सूत्रं भवति ।
आप्तो यः (सू। ५२) ॥ यो ह्यत्यन्तादृष्टपूर्वः स्वर्गापूर्वदेवतादिः स वाक्यार्थरूपः तथा हि— ऽयन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् ।
अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदऽ
मिति ॥ स्वर्गो वाक्यार्थः ।
एवमपूर्वमपि,
तत्खलु स्वर्गनरकादिहेतुः कालान्तरस्थायी पुरुषविशेषगुणः स्वकार्यविरोधीति वाक्यार्थ, एवं देवता ऽपि ।
सा ऽपि हि सूक्तहविर्भागिनी सहस्राक्षाद्युपेतदेहादिमती वाक्यार्थ एव ।
नैवैष शब्दादृते अस्मदादिप्रत्यक्षादिगोचरः ।
न चागृहीतं लिङ्गमस्मिन्प्रवर्त्तितुमर्हति ।
न चागृहीते सम्बन्धिनि शक्यग्रहः सम्बन्धः ।
पदं तु यद्यपि पदार्थसङ्गतिसंवेदनमपेक्षते ।
यद्यपि पदार्थ एव पदार्थान्तरविशिष्टो वाक्यार्थः ।
ये ऽपि वाक्यार्थे सर्गादौ पदार्थस्मरणद्वारेण प्रवर्त्तमानं सङ्गतिग्रहानपेक्षमेव स्वर्गरूपवाक्यार्थं कुर्वन्ति स्वलोकसिद्धं सुखजातीयमुद्दिश्य लोके सिद्धैरेवे दुःखाद्यसम्भेदैर्विशिष्टं स्वर्गपदवाच्यं प्रतिपादयन्ति नापदार्थं वाक्यार्थं कुर्वन्ति वाक्यार्थे च पदवचनं स्वर्ग इति यथा श्रोत्रियंश्छन्दो ऽधीत इति ।
यथा चक्षुरादयो रूपादिष्वगृहीतसङ्गतयः प्रवर्त्तन्ते एवं पदार्थसङ्गतिग्रहापेक्षाण्यपि पदानि वाक्यार्थबोधने न सङ्गतिग्रहमपेक्षन्ते, कार्यव्यङ्न्यत्वात्प्रमाणभावस्य सङ्गतिग्रहानपेक्षेभ्यो ऽपि च पदभेदेभ्यो वाक्यार्थावबोधकार्यदर्शनात् ।
तस्मान्न पदं तदर्थो वा वाक्यार्थावबोधे लिङ्गं तत्र सम्बन्धग्रहानपेक्षत्वाद रूपादिबोधे चक्षुरादिवत् ।
स्यादेतत् ।
मा भूत्प्रत्यक्षतोदृष्टमनुमानं वाक्यार्थे सामान्यतोदृष्टं भविष्यति ।
यद्यपि च वाक्यार्थे साध्ये पदानामपक्षधर्मत्वं यद्यपि च पदस्मारिताः पदार्था व्यभिचारिणः तथा ऽप्याकाङ्क्षायोग्यतासत्तिविशेषणाः पदार्थाः संसर्गे लिङ्गं भविष्यन्ति ।
तथा हि यन्न दुःखेनेत्यादिभिः पदैः स्मारिताः पदार्थाः
गुणप्रधानभावेनावस्थिताः संसर्गवन्तः आकाङ्क्षायोग्यतासत्तिमत्त्वे सति पदैः स्मारितत्वाद् गामभ्याजेति पदस्मारितपदार्थवत् ।
संसर्गस्य च संसृज्यमाना एव विशेषो न पुनराजानतो ऽस्तिकश्चिद्विशेषः ।
संसृज्यमानाश्च पदैरेव स्मारिता इति संसर्गविशेषप्रतिलम्भः ।
स एव च वाक्यार्थ इति सिद्धमानुमानिको वाक्यार्थ इति ।
गामभ्याजेत्यत्र पदार्थानां संसर्गवत्त्वं च वाक्यश्रवणसमनन्तरप्रयोज्यवृद्धप्रवृत्त्यनुमितपदार्थसंसर्गप्रत्ययादवगतम् ।
तदेतदचतुरस्रम् ।
पदानामेव पदार्थस्मरणावान्तरव्यापाराणां वाक्यार्थप्रमां प्रति करणतया प्रमाणत्त्वात् ।
तेषां चापक्षधर्मतया लिङ्गत्त्वानुपपत्तेः ।
यदि तु पदानि पदार्थमात्रवपर्यवसितवृत्तीनि न वाक्यार्थप्रत्ययपराणि स्युः ततो न पदार्थानामाकाङ्क्षा ऽस्तीति वाक्यार्थप्रत्ययो न भवेत् ।
न खल्वाकाङ्क्षां विना सन्निधियोग्यताभ्यामेव पदार्थाः संसृज्यन्ते यथा ऽयमेति पुत्रो राज्ञः पुरुषो ऽपसार्यतामित्यत्र पुत्रसम्बन्धेन निराकाङ्क्षोपव राजा न पुरुषेण सम्बद्ध्यते ।
न च पदानां वाक्यार्थप्रत्त्ययपरत्वमन्तरेण तत्स्मारितानां पदार्थानामाकाङ्क्षास्ति ।
न हि यद्येन विना न भवति तत्तदाकाङ्क्षति येन कारकं क्रियामपेक्षेत द्रव्यं वा गुणं तथा सति पटो भवतीति वाक्यं न निराकाङ्क्षं स्यात् ।
पटस्य द्रव्यस्य गुणाकाङ्क्षित्वात ।
तस्माद्रक्तः पटो भवतीत्यस्यैकदेशः पटो भवतीति साकाङ्क्षत्वादप्रमाणमेवं पटो भवतीति हि वाक्यं यं कं चिद् गुणं गृहीत्वानाकाङ्क्षं प्रमाणमेव, यदा पुना रक्तः पटो भवतीत्यस्यैकदेशो यं कं चिद्
गुणमाक्षिप्य निराकाङ्क्षः एवं विभागे सति निराकाङ्क्षत्वेन वाक्यभेदः स्यात् ।
रक्त
इत्यपि च वाक्यं यं कं चिद गुणिनं क्रियां च कां चिदाक्षिप्य निर्वृणुयात् ।
न च विशेषदर्शने सति नाक्षेप इति युक्तम् ।
एकवाक्यतायां सत्त्यां विशेषदर्शने अनाक्षेपः ।
अनाक्षेपे च सत्येकवाक्यतेत्यन्योन्याश्रयापत्तेः ।
तस्माद्वाक्यार्थप्रतिपादनपरसमभिव्याहृतपदकदम्बस्मारितत्वेनापर्यवसानमेव पदार्थानामाकाङ्क्षेति युक्तमुत्पश्यामः ।
तथा च पटो भवतीत्येतावन्मात्रं निराकाङ्क्षं यं कं चिद् गुणमाक्षिप्य निर्वृणोति रक्तः पटो भवतीत्यत्र तु रक्तपदस्यापि समभिव्याहारात् पटादिसंसर्गपरत्वमिति पटादि संसर्गमन्तरेण रक्तत्त्वमपर्यवस्यत् पटादयश्च रक्तत्वसंसर्ग विन्त ऽपर्यवस्यन्तः परस्परसम्बन्धा भवन्तीति सिध्यत्येकवाक्यता ।
तस्मात्पदान्येव पदार्थस्मरणद्वारेण तत्संसर्गं लक्षयन्ति वाक्यार्थे प्रमाणं तेषां चापक्षधर्मतया न लिङ्गत्वम् ।
स्यादेतत् ।
अयं पदकदम्बकविशेषः स्मारितपदार्थसंसर्गवान् आकाङ्क्षादिमत्त्वे सति पदकदम्बत्वाद् गामभ्याजेतिपदावलीवादिति नापक्षधर्मता ।
मैवम् ।
अन्योन्याश्रयापत्तेः ।
कर्मकारकं हि पटादन्यद्वस्तुतः सिद्धं ज्ञानलक्षणाय फलाय कल्पते ।
यथा ऽग्निमत्ता धूमस्य पर्वतस्य वा ऽग्निसंयोगः न त्वग्निज्ञानजनकत्वं तद्वत्ता ।
फलव्यङ्न्यं हि तन्नानुपजाते फले कल्पते ।
तथा च फलोपजनने सत्यग्निमत्ता तद्वत्तायां तु कर्मणि फलोपजननमित्यन्योन्याश्रयापत्तिः ।
न हि फलकर्मणोरैक्यम् ।
न हि वृक्ष एव च्छिदा भवति ।
तदिह संसर्गवत्त्वं पदानां तज्ज्ञानजनकत्वं नानुमानसाध्यं भवितुमर्हति ।
न ह्यग्निज्ञानजनकत्वं धूमस्यानुमानसाध्यमित्युक्तम् ।
स्मृतिजनकत्वमप्येषां वाक्यार्थप्रत्यायनाय कल्पितं न सम्बन्धान्तरं व्यनक्तीति ।
तत्सिद्धमेतन्न पदानि वाक्यार्थबोधे लिङ्गमपक्षधर्मत्वान्मनोवदिति ।
अपि च लौकिक एवार्थः परीक्षकैरनुगम्यते न तु स्वकृतलक्षणानुरोधेनालौकिकमास्थीयते ।
न च क्लेशेन कया चित्प्रणाङ्या पक्षधर्मतां कल्पयित्वा लोकः पदेभ्यो वाक्यार्थमवगच्छति अपि तु स्वतन्त्रेभ्य एव तेभ्य इति सिद्धः शब्दस्य प्रमाणस्यानुमानाद्भेदः ।
आप्तोक्तत्वं तु स्वर्गादिप्रतिपादकस्पयागमस्य प्रामाण्ये लिङ्गमेव ।
न चैतावता तदर्थ आनुमानिको भवति ।
न हि प्रवृत्तिसामर्थ्यानुमितप्रामाण्यस्य प्रत्यक्षस्य विषयोप भवत्यानुमानिकः ।
अर्थविषयं हि प्रमाणं प्रामाण्यविषये च प्रवृत्तिसामर्थ्याप्तोक्तत्वे इति ।
एवं व्यवस्थिते अभ्युच्चयमात्रतया भाष्यवार्तिककाराभ्यामाप्तोक्तत्वाश्रयत्वानाश्रयत्वे शब्दानुमानभेदहेतुतयोपन्यस्ते इति मन्तव्यम् ।
एतेन प्रवृत्तिभेदकथनेनाद्विप्रवृतिकत्वं व्याख्यातम्–निराकार्यतया ।
सम्बधन्धात्प्रतिपत्तेरनुमानं शब्द इति यदुक्तं पूर्वपक्षिणा तदनुभाष्य दूषयति ।
यत्पुनरेतदिति ।
अस्येदमिति षष्ठीविशिष्टस्येति भाष्यं तस्य व्याख्यानं वाच्यवाचकभाव इति ।
स्वाभाविको हि शब्दार्थयोः सम्बन्धस्तथा स्यात् तादात्म्यलक्षणो वा प्रत्याय्यप्रत्यायकभावो वा प्राप्तिलक्षणो वा, तत्राव्यपदेश्यपदेन प्रत्यक्षलक्षणस्थेन तादात्म्यमपाकृतम् ।
शब्दार्थयोःप्राप्तिनिराकरणहेतुना चोपरिष्टादौत्पत्तिकः प्रत्याय्यप्रत्यायकभावो निराकरिष्यते ।
तेन प्राप्तिं निराकरोति भाष्यकारः प्राप्तिलक्षणस्त्विति ।
एकेन्द्रियग्राह्येभ्योहि प्राप्तिः प्रत्यक्षा यथा ऽङ्गुल्योः न तु शब्दार्थयोरेकेन्द्रियग्रपाह्यता तस्माशानयोः प्राप्तिः प्रत्यक्षगम्या वायुवनस्पत्योरिवेत्यर्थः ।
ननु शब्दस्यार्थः समानेन्द्रियग्राह्य एव तत्कथं नेन्द्रियेण गृह्यते शब्दस्तस्य विषयभावमतीतोर् ऽथ इत्यत आह ।
अस्ति चातीन्द्रियविषयमृतो ऽपीति ।
शब्दग्राहकेन्द्रियमतिपतित इन्द्रियमात्रमतिपतिश्चातीन्द्रियः स च विषयभूतश्चेति कर्मधारयः ।
तदेतद्यस्माच्छब्दस्येति वार्तिकेन व्याख्यातम् ।
न्य्स्_२,१।५३: पूरणप्रदाहपाटनानुपलब्धेश्च सम्बन्धाभावः ॥
प्राप्तिलक्षणे चेत्यादि भाष्यं व्याचष्टे ।
नानुमानेनापीति ।
उपसम्पद्यते ।
प्राप्नोति गच्छतीति यावत् ।
आगच्छन्नुपलभ्येत मोदकादिः न चोपलभ्यते तस्मान्नागच्छति शब्देशामर्थः ।
ततश्चास्मिन्पक्षे शब्देन लोकव्यवहार उच्छिद्येत ।
अथ शब्द इति ।
२६२ । ६
न तावद्प गुणस्य शब्दस्य गतिरुपपद्यते तस्मात्सन्तानवृत्त्या शब्दो ऽयं देशमागच्छतीति वाच्यं तथा च नित्यत्वव्याहतिरित्यर्थः ।
शङ्कते ।
अथ नागच्छतीति ।
भवति विद्यतैत्यर्थः ।
अभूत्वा भवनं भवत्यर्थ
इति मत्वा निकरोति ।
नित्यश्च भवति चेतीति ।
शङ्किता स्वाभिप्रायमाह ।
अथ नागच्छतीति ।
निराकरोति ।
न सर्वार्थेति ।
न हि समानदेशाः समानेन्द्रियग्राह्याः प्रतिनियतव्यञ्जकव्यङ्न्या दृष्टा इत्यभिप्रायः ।
सामान्यस्याश्रयोपलब्धिर्व्यक्तिहेतुः
न पुनः शब्दस्याश्रयोपलब्धिरस्ति यतः शब्दो व्यज्येत ।
प्रत्युत शब्देनैवाश्रयो व्यञ्जनीयः स्यात् ।
तथा चार्थाश्रितः शब्दस्ताल्वादिभिरप्राप्तैः सर्वान्र्पति व्यक्त इत्युक्तदोषापत्तिः ।
न च शब्दस्यार्थे वृत्तिरनुभवगोचर इत्याह ।
न च वाच्ये वृत्तिः ।
आगसात्प्रतिपत्स्यत इति ( २६३ । ७ ) निरुक्तादिरागमः ।
उत्तरं स एवायमिति ।
निरुक्तादीनामर्थसम्बन्धे प्रतिपादकत्वं भवेत् ।
स एव तु विचार्यत इत्यर्थः ॥ ५३ ॥
न्य्स्_२,१।५४: शब्दार्थव्यवस्थानादप्रतिषेधः ॥
पूर्वपक्षवाद्याह ।
शब्दार्थेति ॥ ५४ ॥
न्य्स्_२,१।५५: न सामयिकत्वाच्छब्दार्थसम्प्रत्ययस्य ॥
सिद्धान्तवाद्याह ।
न सामयिकत्वादिति ।
अभिधानाभिधेयनियमनियोग इति ।
अभिधानाभिधेययोर्नियमो गोशब्दस्य सास्नादिमानेवार्थ एवमश्वशब्दस्य केसरादिमानेवेति ।
तस्मिन्नियोगोबोद्धव्य
इति भगवतः परमेश्वरस्य सर्गादौ सो ऽयं समय इति अर्थः ।
तस्मिन्नुपयुक्ते ज्ञाते शब्दार्थव्यवस्था भवति ।
सम्बन्धवादिनो ऽऽपिचायमवर्जनीय
इति ।
ये ऽपि मीमांसका वैयाकरणौ वा स्वाभाविकं शब्दार्थयोः सम्बन्धमास्थिषत तेषामपि नैव सत्तामात्रेण गमको ऽपितु ज्ञातः सन्, विज्ञाने चायमस्य वाचक इति वा ऽस्मादयं बोद्धव्य इति वा सङ्केत एवोपायः ।
वृद्धव्यवहारो ऽपि गवादिशब्दानां देवदत्तादिशब्दवत्सङ्केतपूर्व
एव ।
तद्वरमस्तु सङ्केत एव, कृतमत्र स्वाभाविकेन सम्बन्धेन, तन्मात्रादेव प्रयोगप्रतिपत्तिव्यवहाराणामुपपत्तेरित्यर्थः ।
नन्वेयं समयः केषां चित् पदानामसति स्वाभाविकेर् ऽथैः सम्बन्धे न कर्तुं शक्यः निर्द्दिश्य ह्यर्थं ब्रूयादयमस्माद्बोद्धव्यं इति ।
न च निर्देशो ऽसति स्वाभाविके सम्बन्धे केषां चिच्छब्दानां सिध्यति ।
सङ्केताधीने तु वाचकत्वे सर्वेषामकृतसमयत्वात् किं केन निर्द्दिश्यते ।
तस्मात्सङ्केतकरणमेव स्वाभाविकसम्बन्धं प्रतिपादयति शब्दानामित्यत आह ।
प्रयुज्यमानग्रहणाच्चेति ।
परमेश्वरेण हि यः सृष्ट्यादौ गवादिशब्दानामर्थे सङ्केतः कृतः सो ऽधुना वृद्धव्यवहारे प्रयुज्यमानानां शब्दानामविदितसङ्गतिभिरपि बालैः-
शक्यो गृहीतुम् ।
तथा हि वृद्धवचनान्तरं तच्छ्राविणो वृद्धान्तरस्य प्रवृत्तिनिवृत्तिभयशोकहर्षादिप्रतिपत्तेस्तद्धेतुं प्रत्यययमनुमिमीते बालः ।
तस्य च सत्स्वप्यन्येष्वर्थेषु भूतस्य अभूतस्य वा श्रवणसमनन्तरं च भवतो वाक्यश्रवणहेतुतामवगच्छति तदवयवानां च पदानामावापोद्वापभेदेन तदर्थप्रत्ययोपजनापायदर्शनात्तेषु तेष्वर्थेषु तेषां तेषां पदानाम्प वाचकत्वं कल्पयति ।
एवं पदावयवेषु प्रकृत्यादिष्वपि द्रष्टव्यम् ।
सो ऽयं वृद्धव्यवहारः साम्प्रतिकानां सङ्केतग्रहोपायः सर्गादिभवां तु महर्षिदेवतादीनां परमेश्वरानुग्रहाद्धर्मज्ञानवैराग्यैश्वर्यातिशयसम्पन्नानां परमेश्वरेण सुकर एव सङ्केतः कर्तुम् ।
तद्व्यवहाराच्चास्मदादीनामपि सुग्रहः सङ्केतः
(तद्व्यवह्वारपरम्परागतश्चास्मदानीनामपि)
सङ्केतग्रहो न सम्बन्धस्मृतिमपेक्षते ।
आप्तपरम्परात एव ततो निः शङ्कव्यवहारोपपत्तेः ।
अत एवाह भाष्यकारः लौकिकानामिति ।
स्यादेतत् ।
यदि शब्दानां साङ्केतिकः सम्बन्धो न स्वाभाविकः कृतं तर्हि साध्वसाधुविभागपरेण व्याकरणेन, स्वाभाविकं हि यस्य वाचकत्वं स साधुरसाधुश्चेतरः, सामयिकत्वेन तु सर्व एव साधवो ऽसाधवो वेत्यत आह ।
समयपरिपालनार्थं चेदमिति ।
पारमेश्वरसमयपरिपालनार्थमित्यर्थः ।
तथा च येषां पदानां येनार्थेन परमेश्वरेण कृतः समयः तानि तत्र साधूनि असाधूनीतरत्रेति विभागाय व्याकरणमर्थवदिति सिद्धम् ।
अर्थरूपस्तुषोलेशो ऽर्थतुषः स नास्ति, केवलं परैः प्राप्तिलक्षणः सम्बन्धः कल्पित इत्यर्थः ।
तथा च स्वाभाविकसम्बन्धाभावादनुमानाभेदायाविनाभावासिद्ध्यर्थं स्वाभाविकसम्बन्धाभिधानमयुक्तमिति सिद्धम् ।
वार्तिके स पुनः समयः कुत इति ।
यदि न के चनापि शब्दा न प्रसिद्धसम्बन्धास्ततो ऽशक्यप्रतीतिः समय इति भावः ।
उत्तरं पदज्ञानात् ।
पदं ज्ञायते व्युत्पाद्यते अनेनेति व्युत्पत्त्या व्याकरणामेत्यर्थः ।
ननु सर्वेषां शब्दानामविदितसङ्गतिः कथं व्याकरणादपि शब्दमात्रात्समयं प्रतिपद्यते इत्यत आह ।
लोकतश्चेति ।
वृद्धव्यवहारावधृतसमयो व्याकरणात्साध्वसाधुविभागं च प्रतिपद्यं तैत्यर्थः ।
तदेतद्विभजते ।
तदिदं शास्त्रमिति ॥ ५५ ॥
न्य्स्_२,१।५६: जातिविशेषे चानियमात् ॥
एवं तावद्दृष्टेनैव समयेनोभयसिद्धेन शब्दार्थव्यवस्थापनस्योपपत्तेर्नात्यन्तापरिदृश्यमानस्वाभाविकसम्बन्धकल्पना युक्तेत्युक्तं सम्प्रत्यनुपपन्नो ऽप्ययं स्वाभाविकः सम्बध इत्याह ।
जाति–त् (सू। ५६) ॥ स्वाभाविको हि सम्बन्धः कस्य चिच्छब्दस्य केन चिदर्थेनास्ति न सर्वस्य सर्वेण ।
तथा सति शब्दार्थव्यवस्था न स्यात् ।
एवं च तर्हि न ऋष्यार्यम्लेच्छानां नियमः स्यात् ।
तथा हि यवशब्द आर्यैदीर्घशूके पदार्थे प्रयुज्यते, ते हि यवशब्दाद्दीर्घशूकं पदार्थं प्रतिपद्यन्ते म्लेच्छास्तु प्रियङ्गुं प्रतिपद्यन्ते ।
एवं त्रिवृत्शब्दमृषयः स्तोत्रीयानवके प्रयुञ्जते ।
आर्यास्तु लताविशेषे ।
सोयमनियमो न स्यात्स्वाभाविके सम्बन्धे, न हि स्वाभाविकसम्बद्ध
आलोको रूपेण सहस्रेणापि शिल्पिभीरसादिसम्बद्धः शक्यः कर्तुम् ।
यतस्ततो रसादयो गम्येरन् ।
नापि तत्र सङ्केतेन स्वाभाविकः सम्बन्धो व्यज्यते ।
सदेव हि व्यज्यते नासत् ।
नो खलु यत्र घटो नास्ति तत्र तं प्रदीपः शक्तो व्यङ्क्तुम् ।
सो ऽयमनियमः सामयकत्वे उपपद्यते पुरुषच्छाधीनत्वात् ।
तस्याश्चानियमात् ।
न तु स्वाभाविकेन इति ।
न च वाच्यं सर्व एव शब्दाः सर्वैरेवार्थैः स्वभावतः सम्बद्धाः सङ्केतेन तु नियम्यन्ते इति ।
प्रमाणाभावात् ।
जातिभेदेन चार्थभेदप्रत्ययस्य सङ्केतभेदादप्युपपतिरिति ।
नन्वार्यदेशवर्त्तिनां म्लेच्छानामार्यव्यवहारनिश्चितसङ्केतानां नानियम इत्यतं आह वार्त्तिककारः ( २६५ । २ ) जातिविशेषशब्देनेति ॥ ५६ ॥
न्य्स्_२,१।५७: तदप्रमाण्यम्-- अनृतव्याघातपुनरुक्तदोषेभ्यः ॥
तद–भ्यः ( सू। ५७ ) ॥ अनुमानान्तर्भावे कदाचिदर्थाविनाभावाद्भवेच्छब्दस्य प्रामाण्यं तद्बहिर्भावे तु सुलभमस्याप्रामाण्यमिति मत्वानुमानभेदाभिधानानन्तरमप्रामाण्यमाह पूर्वपक्षी ।
तस्येत्यादिभाष्यं तद्वार्त्तिककारो व्याचष्टे ।
तदित्यधिकृतशब्दाभिधानादितञ्
शास्त्रे ह्यिस्मिन्निःश्रेयसाधिगगमपरेव तन्नान्तरीयकतया वेदप्रामाण्यव्युत्पादनमधिकृतमित्यधिकृतः शब्दो वेद इत्यर्थः ।
स्यादेतत्–अनृतत्वमप्रामाण्यमिति पर्यायः तथा च प्रतिज्ञार्थ एव हेतुरित्यत
आह ।
अप्रामाण्यमर्थस्याप्रत्यायकत्वम् ।
अर्थस्येत्यविपरीतस्येत्यर्थः ।
पुत्रकामेष्टिकारीर्यादयो हि ऐहिकफला नामुष्मिकफलाः ऐहिकत्वेनैव तत्फलस्य चेतनेन काम्यमानत्वात् एतच्छरीरोपभोगयोग्यत्त्वाच्च ।
विरुद्धार्थोपस्थापकत्वेन सहासम्भवो वाक्ययोर्वा पदयोर्वेति ।
अत्र भाष्यकारेणोदितहोमादिविधिवाक्यानां निन्दाभिर्व्याघात इत्युक्तमधिकविवक्षया वार्तिककार आह ।
अग्निहोत्रमिति ।
होमकालानामुदितादीनां निन्दया प्रतिषेधात् ।
ननु मध्याह्नापराह्वसायाह्ना भविष्यन्ति होमस्य काला इत्यत आह ।
न चान्य इति ।
तेषामपि सर्वेषामुदितकालत्वादित्यर्थः ।
यस्तूदयानन्तर एव काल उदितकाल इत्पुच्यते तथा चान्यो ऽस्ति काल इत्युक्तं व्याघाते न तुष्यति तं प्रत्यन्यथा व्याघातमाह ।
उदितानुदितेति ।
अग्निहोत्रं जुहोतीत्युत्पत्तिवाक्येन विहिते अग्निहोत्रनामनि होमे तदनुवादेनैकं वाक्यमुदितं कालं विधत्ते, अन्यच्चा ऽनुदितकालमपरं च समयाध्युषितकालम्, न चैक एव होमस्तदा तदा शक्यः कर्तुम् ।
न च कालगुणानुरोधेन प्रधानस्य होमस्यावृत्तिरिति युक्तम् ।
न चोदितादिवाक्ये होमस्याभ्यासः श्रूयते ।
तस्मात्परस्परव्याघातादप्रामाण्यमेव साधीय
इति ।
नन्वेते ऽनृतत्वादयः सर्ववेदवाक्याव्यापिन
इति भागासिद्धतया हेत्वाभासता इत्यत
आह ।
दृष्टान्तत्वेनेति ।
अयमत्र प्रयोगः ।
पुत्रकामेष्टिहवनाभ्यासवाक्यानि अप्रमाणम् अनृतत्वादिभ्यः क्षणिकवाक्यवदिति ।
एवं शेषाणि वेदवाक्यानि अप्रमाणं वेदवाक्यत्वात् पुत्रकामेष्टिवाक्यवदिति ।
पर्युदासं साध्यमुक्त्वा तेनैव हेतुना प्रसज्यप्रतिषेधसाध्यमाह ।
अग्निहोत्रादिवाक्यानां वेति ।
तदन्यवाक्यं पुत्रकामेत्यादि ॥ ५७ ॥
न्य्स्_२,१।५८: न कर्मकर्तृसाधनवैगुण्यात् ॥
एवं पूर्वपक्षमुक्त्वा सिद्धान्तमुपक्रममाणः प्रथमं तावदनृतत्वं दूषयति— न क–त् ( सू। ५८ ) ॥
फलादर्शनमन्यथा ऽप्युपपद्यमानं नानृतत्वं साधयति ततश्चासिद्धमनृतत्वं हेतुरित्यर्थः ।
स्यादे तत्–इष्टेश्चोदितत्वादनपेक्षेयं ( साधयति ) पुत्रकारणमिति किमस्याः कर्मकर्तृवैगुण्यं करिष्यतीत्यत आह ।
इष्टेः करणसाधनत्वेनेति ।
( ३६६ । ५ ) दृष्टसहकार्यदृष्टं कारणं न केवलम्,
ततो दृष्टवैगुण्यादुपपन्नमभवनं फलस्येत्यर्थः ।
अपेक्षणीयं कर्तारमाह पितराविति ।
करणमाह ।
इष्ट्येति ।
क्रियामाह ।
संयुज्यमानाविति ।
इष्ट्यापश्रयन्तावदिति भाष्यम् ।
समीहा–तदङ्गसमिदादिकर्मानुष्ठानं तस्या–भ्रेषो भ्रंशो ऽननुष्ठानमिति यावत् ।
अविद्वान्प्रयोक्तेति ।
विदुषो ह्यधिकारः सामर्थ्यात् ।
अत एव स्त्रीशूद्रतिरश्चामसमर्थानामनधिकारः
विद्वानपि यदिद्विजातिकर्महानिहेतुं कर्म ब्रह्महत्यादि कृतवान् तत्कृतमपि कर्म फलापवय न कल्पते कर्तृत्वे वैगुण्यादिति दर्शयति ।
कपूयेति ।
कपूयं निन्दितं कर्म
आचरतीत्याचरणः पुरुषः ।
हविरसंस्कृतमपूतमप्रोक्षितं वा ।
उपहतं श्वमार्जारादिभिः ।
मन्त्रा न्यूनाः क्रमविशेषेण ।
दक्षिणा दुरागता दौत्यद्यूतोत्काचादेर्दुष्टादुपायादागतेत्यर्थः ।
अन्वाहार्यमिति दक्षिणा ।
सा ततो न्यूना वा दीयते यावत्या पुरुषो न तृप्यति१ स च पुरुषाहारो जरत्वरत्वेनापाक्यतया निन्दितः ।
मिथ्यासम्प्रयोगः पुरुषायितादिर्मातरि,
योनिव्यापदो नानाविधाः पुत्रजनप्रतिबन्धहेतवः, ।
लोहितरेतसो बीजस्यो पहतत्वं यतः पुत्रजन्म न भवति ।
मिथ्याभिमन्थनं यतो नाग्निर्जायते ।
कर्मवैगुण्यकर्तृवैगुण्ये आह वार्तिककारः ।
तथेष्टेः साधयितुरिति ।
मन्त्राणामसामर्थ्यादिति ।
मन्त्रादिसाधनानां पुत्रकामेष्ट्यादीनां कर्मणामित्यर्थः ।
ननु यदि निरपेक्षा नेष्टिः साधनं स्तांस्तर्ह्यनपेक्षमाणौ पितरावेव सम्यक् संयुज्यमानौ पुत्रस्य जनकौ, कृतमत्र पुत्रकामेष्ठ्या, अत एव म्लेच्छादीनामपि पुत्रजन्मोपपद्यत इत्यत आह ।
तत्सहकारित्वादिति ।
( २६७ । ६ ) नान्वयव्यतिरेकगम्यमिष्टेः सहकारित्वमपि त्वागमगम्यम्, म्लेच्छादीनां पुत्रजन्म जन्मान्तरीयादृष्वशादित्यागमप्रामाण्यादनुसरणीयम् ।
दृनश्यमानकर्मकर्तृवैगुण्ये च फलानुत्पादो ऽदृष्टमपेक्षणीयं सूचयति ।
तदनेन पुत्रकामेष्ट्यादीनामनियतफलत्वमपि सूचितं भवति ।
तथा कर्मान्तरप्रतिबन्धेन कर्मकर्तृसाधनावैगुण्ये ऽपि फलानुत्पपादः समर्थितो भवति ।
ऐहिकफलेषु तु कारीर्यादिषु साधनवैगुण्यं परिहारः ।
अनूतत्वादप्रमाणमिति चेदिति ।
धर्मिविशेषणत्वेनोपयुक्तानामपि पश्चान्निष्कृष्याभिधानं न दोषावहमिति भावः ।
उत्तरं किमिदमिति ।
नन्वर्थाप्रतिपादकत्वं प्रतिज्ञातमेतदेवानृतत्वं च हेतुरिति प्रतिज्ञाहेत्वोरर्थाभेद
इत्यत आह ।
अनृतत्वं चेति ॥ ५८ ॥
न्य्स्_२,१।५९: अभ्युपेत्य कालभेदे दोशवचनात् ॥
यत्पुनरुक्तमुदिते होतव्यमित्यादीनामेव परस्परव्याघात् इति तत्राह ।
उभयेति ।
( २६८ । १ ) विधिपरेषु वाक्येष्वेकैकेनैव वाक्येनोभयवाक्यार्थप्रतिषेधानभिधानान्नान्यथा नानाप्रामाण्यमित्यर्थः ।
यद्यपि चैको होमः समुच्चयेन तदा तदा न शक्यः कर्तुं तथा ऽपि विकल्पेन करिष्यते बहुलं हि विकल्पो लोके ऽप्युपलभ्यते ।
वस्तु हि व्यवस्थितं न विकल्प्यते अनुष्ठाने चानागतोत्पाद्ये विधिप्रतिषेधविकल्पानामविरोधः स्वरूपानिष्पत्तेरिति ।
वाक्यार्थो न कर्त्तव्य
इति ।
वाक्यं तन्न कर्त्तव्यमित्यस्यार्थः ।
कामतो वा प्रकल्प्येतेति ।
परस्परव्याहतार्थं प्रकल्प्येतेत्येर्थः ।
अभिहितंवेति ।
यदनेन वाक्येन स्वसामर्थ्येनाभिहितं तद्वा परीक्षकैरवधृयानूद्यते इदमनेन वाक्येनाभिहितमिति ।
निर्द्धारयति ।
अभिहितेति ।
विहितानुवादो वेति क्व चित्पाठः ।
विहितो होमस्तस्यानुवादः कालविशेषविधानायेति ।
विहितानुवाद एवन्याय्यः कालविशेषविधानाय न तु कालान्तरप्रतिषेधोर् ऽथः कल्प्यतैत्यर्थः
॥ ५९ ॥
न्य्स्_२,१।६०: अनुवादोपपत्तेश्च ॥
एकादर्श सामिधेन्य
उत्पत्तौ पठितास्तासां प्रथमोत्तमयोस्त्रिर्वचनं पञ्चदशारत्वं मन्त्रस्य प्रयोजनवतः साधयत्सप्रयोजनमिति ॥ ६० ॥
तदेवं वेदप्रापमाण्यहेतूनुद्धृत्य प्रामाण्यसम्भवहेतुः सूत्रकारेण वक्तव्य
इति पूर्वं वार्त्तिकारः स्वत एव तावत्प्रमामाण्यसम्भवे हेतूनाह ।
पूत्रकामेष्टीति ।
न्य्स्_२,१।६१: वाक्यविभागस्य चार्थग्रहणात् ॥
न्य्स्_२,१।६२: विध्यर्थवादानुवादवचनविनियोगात् ॥
सौत्रं हेतुमवतारयाति समस्तानीति ॥ ६१-६२ ॥
न्य्स्_२,१।६३: विधिर्विधायकः ॥
विधिर्विधायकः ( सू। ६३ ) ॥ तस्य व्याख्यानं यद्वाक्यमिति ।
चोदकं प्रवर्तकम् ।
अत्र चारोग्यकामः पथ्यमश्नीयादित्यादित्याद्युपदेशश्रवणसमनन्तरं पथ्याशने प्रवर्त्तमानमानं प्रयोज्यवृद्धमुपलभ्य बालस्तस्य प्रवृत्तिहेतुं प्रत्ययमनुमिमीते अस्य प्रवृत्तिः प्रवर्तकप्रत्ययपूर्विका स्वतन्त्रप्रवृत्तित्वान्मत्प्रवृत्तिवत्सचायमनुमाता व्युत्पित्सुः स्मात्मसिद्धमेव प्रवर्तकज्ञानमनुमिनोति,
नादृष्टपूर्वं,प न हि स्वात्मनि पूर्वसिद्धे प्रवृत्तिहेतौ दृष्टे सम्भवत्यदृष्टकल्पना न्याय्या ।
न चैष शब्दतद्व्यापारपुरुषाशयनिरुपाधिप्रवर्तकमात्रापूर्वप्रत्ययानात्मनि प्रवर्तकानवगतवान् येन तेषु प्रवर्तकत्वशङ्का ऽप्यवतरेत् ।
स्तन्यपानादिविषयककार्यप्रत्ययो ऽस्य प्रवर्तक इति चेत् ? किं पुनरेतत् कार्यमिति ।
पुरुषप्रयत्नः कृतिस्तद्व्याप्यत्त्वमिति चेत् ।
ननु कृतिरिति मानसी प्रवृत्तिः तदुपहितं कार्यं प्रवृत्तिविषयः प्रवृत्तिफलं वा फलोद्देशेन पुरुषप्रवृत्तेः, तदवगमः प्रवृत्तिहेतुः ।
प्रवृत्त्यवगतिस्तर्हि प्रवृत्तिहेतुरित्युक्तं भवति ।
( न चाननुविधेयो ऽश्रद्धेयः ) न वाननुविधेयनियोगेष्वस्माकं व्युत्पन्नानां नास्ति प्रवृत्त्यवगमः न चास्मात्प्रवर्त्तेमहि ।
अपि चेयं प्रवृत्तिः प्रयत्नापरनामा इच्छाद्वेषयोनिरसति कारणे न स्वज्ञानमात्रादुदेतुमर्हति ।
न चेच्छाद्वेषाव् एव प्रवृत्तिहेतू लिङ्दिगोचराविति साम्प्रतम् ।
तत्खलु लिङ्दिगोचरो ऽभ्युपेयः ।
यत्स्वज्ञानेन प्रवर्तयति ।
न तु स्वसत्तया शब्दस्पवय ज्ञापकत्वादनुत्पादकत्वाच्च ।
न चेच्छाद्वेषौ स्वज्ञानेन प्रवर्तयतो यतः प्रवृत्तिं प्रति ज्ञानाय शब्दमपेक्षेयाताम् ।
अपि तु सत्तया तस्मात्तदेव लिङ्गादेर्ज्ञाप्यम् ।
सत्यं ज्ञानमिच्छाद्वेषौ प्रसूते तत्र फलं निसर्गसुन्दरतया ज्ञातमात्मनीच्छां प्रसूते एवं तदुपायो ऽपि तत्तया ज्ञातः फलसम्बन्धादात्मनीच्छाम्, तस्माद् द्वयमवशिष्यते फलं तदुपायो वा, तत्र फलस्य यद्यपि स्वत
एवेच्छादिविषयत्वं तथा ऽपि तद्विषयेच्छा न तत्र प्रवर्तयितुमर्हति तस्यायोग्यत्वेन प्रवृत्तिविषयत्वानुपपत्तेः ।
न च फलागोचरेच्छा अन्यच्च तदुपाये स्वकार्यं प्रयत्नं जनयितुमर्हति इति प्रयत्नयोरेकविषयतया कार्यकारणयोः सम्प्रतिपत्तेः ।
न च तत्सम्बन्धात्तदुपायो नेष्यते येन फलेच्छाया एवोपायविषयप्रयत्नप्रसवहेतुत्वं कल्प्येत ।
यथाहुः ॥। अन्यदिच्छत्यन्यत्करोतीति विप्रतिषिद्ध ॥। मिति ।
तस्मादिष्यमाणमपि फलं प्रवृत्तिविषयत्वाभावान्नात्मनि स्वज्ञानेन प्रवर्तकम्, तदुपायस्तु प्रवृत्तिविषयत्वादिष्यमाणत्वाच्च स्वज्ञानेन प्रवर्तकं इति युक्तमत्पश्यामः ।
बालानां तु स्तन्यादावपेक्षितोपायताज्ञानं प्राग्भवीयव्याप्तिग्रहणजनितसंस्कारानुवृत्तिवशादुत्पन्नव्याप्तिस्मरणानां तज्जातीयत्वलिङ्गज्ञानजमनुमानमेव ।
एतच्च पूर्वाभ्यात्यस्तस्मृत्यनुसन्धानादित्यत्रोपपादयिष्यते ।
अत एव प्रयोजनलक्षणं व्याचक्षाणेनोक्तं वार्त्तिककृता ॥। इदं सुखसाधनमिति वुद्धा सुखावाप्तये यतते इदं दुःखसाधन मिति चावगम्य दुःखहानायेति ॥। ॥
तस्मादपेक्षितोपायता प्रवर्तना स्वात्मनि सिद्धा वृद्धस्यापि प्रवृत्तिहेतुरित्यवगच्छति व्युत्पिसुर्बालः ।
सा च लिङ्गादिश्रवणसमनन्तरमुपजायमाना लिङ्गाद्यर्थ इति निश्चिनोति ।
न चापेक्षितोपायतामात्रं प्रवृत्तिहेतुः भवति हि यजमाननिर्वर्तिता कारीरी कृषीवलानामपेक्षितोपायो न चैते ऽस्यां प्रवर्तन्ते तस्याः सिद्धत्वात् ।
तस्मात्कर्त्तुरपेक्षितोपायता प्रवृत्तिहेतुरित्यास्थेयम् ।
न च सिद्धे कर्तृता ऽस्ति ।
यथाह भगवान्
जैमिनिः ।
शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात्
इति ।
लोके च क्रियैवापेक्षितोपायः शब्दार्थ इति तदनुसारेणाग्निहोत्रं जुहुयात् स्वर्मकाम इत्यादयो ऽपि वैदिका उपदेशाः क्रियामेवापेक्षितोपायमभिदधति ।
सा चेयमाशतरविनाशिन्यप्यवानतरापूर्वव्यापापवरा सती चिरभाविने ऽपि फलाय कल्पते ।
कृषिरिव निदाघसमयजन्मा हेमन्तसमयभावने सिस्यायेति ।
नापूर्वस्यात्रापेक्षितोपायत्वं कल्पयितव्यम् ।
भवतु वा तदेवापेक्षितोपायप्रवृत्तिहेतुस्तथा ऽपि कर्त्तुरपेक्षितोपायतालक्षणसमानोपाधिर्विधिशब्दस्तदेकोपाधिसम्बन्धात्क्वचित्क्रियायां क्व चिदपूर्वे प्रवर्तत इति न का चिद्दर्शनक्षतिः ।
तदेवमुपदेशे नियोज्यप्रयोजनकर्मणि व्युत्पन्नस्तानेव शब्दान् नियोक्तुं प्रयोजनकर्मण्याज्ञादौ प्रयुज्यमानानुपलभ्याध्येषणानुज्ञावाचकतवमप्यवगच्छति ।
अग्निहोत्रादिवाक्यानां तु नियोज्यप्रयोजनकर्मवाचिनामुपदेशत्वमेव ।
तस्माद्यद्यप्याज्ञाध्येषणामन्त्रणोपदेशाः सर्वे विधयस्तथा ऽपीहोपदेशो विधिरभिमतः
तस्मात्सुष्ठूक्तं यद्वाक्यं विधायकमिति ।
कर्त्रपेक्षितोपायताज्ञापकमित्यर्थः ।
विधिस्तु नियोगो ऽनुज्ञा चेति भाष्यमनुभाष्य व्याचष्टे ।
विधिस्त्विति ।
( २६९ । ११ ) यदेतदग्निहोत्रं जुहुयात्स्वर्गकाम इति वाक्यमप्रवृत्तप्रवर्त्तकलक्षणम्
कर्त्रपेक्षितोपायतां ज्ञापयद्विधिः तदेव तत्साधनद्रव्याद्यवाप्तिप्रवृत्तिमनुजानाति ।
एतदुक्तं भवति – ये हि द्रव्यार्जननियमविधयो ब्राह्मणस्य प्रतिगहादिनेत्येवमादयः ते च रागतो धनार्जने प्रवृत्तानां ब्राह्मणानां लौकिकानेकोपायप्रयुक्तौ सत्यां नियमपराः पुरुषार्था न क्रत्वर्थाः क्रतुविधयस्तु धनसाधनास्ते ऽनूदिताः पर्यवस्यन्तोप ऽपि न धनार्ज्जन्नं तन्नियमं वा प्रयुज्जते पुरुषार्थत्वेनैव तस्य प्रयुक्तत्वात् केवलमनुजानन्ति, तस्मात्तदेवाग्निहोत्रादिवाक्यमप्राप्ते ऽग्निहोत्रादौ विधिरन्यतः प्राप्ते साध्धने ऽनुज्ञेति सिद्धम् ।
समुच्चये वाशब्दः ॥ ६३ ॥
न्य्स्_२,१।६४: स्तुतिर्निन्दा परकृतिः पुराकल्प इत्यर्थवाद ॥
स्तुतेरुपयोगद्वयं प्रवृत्त्या धर्मे कर्त्तव्ये विधिना प्रवृत्तौ कर्त्तव्यायां च सहकारिता, प्रशस्तमिति ज्ञात्वा प्रवर्तमानाः पुमांसः प्रवर्तन्तेतरां सा च प्रवृत्तिः श्राद्धस्य धर्मं प्रसूते नाश्राद्धस्य ।
तथा च श्रूयते— ॥। यदेव विद्यया करोति श्रद्धयोपनिषदा तदेवास्य वीर्यवत्तरं भवतीति ॥। ।
तत्र प्रवृत्तेः कार्ये सहकारितामाह ।
स्तूयमानमिति ।
विधेः कार्ये सहकारितामाह ।
प्रवर्तिका चेति ।
कथं परकृतिपुराकल्पावर्थवादाविति ।
चरकाध्वर्युपुरुषसम्बन्धश्रवणाद्वपाहोमपृषदाज्याभिधारणयोः क्रमभेदस्याप्राप्तस्य पुरुषविशेषधर्मतया विधायकं परकृतिवाक्यम्फ तथा बहिष्पवमानसोमस्तोममन्त्रसम्बन्धस्य पूर्वकालपुरुषसम्बन्धितया श्रवणादिदानीन्तनपुरुषधर्मतया विधायकं पुराकल्पवाक्यं कस्मान्न भवतीति भावः ।
उत्तरम् ।
स्तुतिनिन्दावाक्येन कस्य चिद्विधेः शेषभूतेन सम्बन्धादिति ।
न तावदेतेषु वाक्येषु सिद्धाभिधायिषु विधिश्रुतिरस्ति ।
तत्र किमश्रूयमाणो विधिः कल्प्यतामाहो प्रतीतेन विधिनैकवाक्यतेति ।
तत्र कल्पनालाघवात्प्रतीतेन विधिनैकवाक्यतैव ज्यायसी–पूर्वपक्षे विधिकल्पना तदेकवाक्यताकल्पनमिति द्वयं कल्पनीयम्, उत्तरस्मिंस्तु एकवाक्यतामात्रमिति भावः ।
स्फुटतरस्तुतिनिन्दाप्रतीत्यभावाच्च परकृतिपुराकल्पयोः स्तुतिनिन्दाभ्यां भेदेनोपन्यास इति ॥ ६४ ॥
न्य्स्_२,१।६५: विधिविहितस्यानुवचनमनुवादः ॥
विधि–वादः ( सू। ६५ ) ॥ विहितमधिकुत्य स्तुतिर्वोच्यते निन्दावेति ।
यथा ऽश्वमेधेन यजेतेति विधेरर्थवादो यो ऽश्वमेधेन यजेते इति ।
किमर्थ ? स्तोतुम्, तरति मृत्युं तरति पाप्मानमिति स्तुतिः उदिते होतव्यमित्यस्य विधेरर्थवादो यदुदिते जुहोतीति ।
किमर्थम्? निन्दितुम्, श्यावो वा अस्याहुतिमभ्यवहरतीति निन्दा ।
प्रयोजनान्तरमाह ।
विधिशेषो वा ऽभिधीयत इति ।
यथा ॥। यदाग्नेयो ऽष्टाकपालो भवती ॥। त्यादिभिरुत्पत्तिवाक्यैः षडाग्नेयादयो यागाः पौर्णमास्यमावास्याकालसम्बन्धा विहिस्तास्ते च विधय इष्टाभ्युपायतारूपाः स्ववाक्ये चेष्टमनासादयन्तः सापेक्षाः ।
एवमाघाराद्युत्पत्तिविधयो ऽपि कालविशेषासम्बन्धा इष्टापेक्षा एव, तत्र
ऽय एवं विद्वान्पौर्णमासीं यजते य एव विद्वानमावास्यां यजतऽइति कालविशेषसम्बन्धेनोत्पन्नानामाग्नेनयादीनामनुवादः ।
किमर्थं ? यदाग्नेयो ऽष्टाकपाल इत्याद्युत्पत्तिविध्यपेक्षितेष्टसम्बन्धनियमार्थम्,
दर्शपौर्णमासाभ्यां स्वर्गकामो यजेतेति षण्णामेवाग्नेयादीनां कालविशेषसम्बन्धोत्पन्नानूदितानां फलसम्बन्धो यथा स्याद् मा भूदाघारादीनां कालासम्बन्धेनोत्पन्नानामित्येवमर्थम् ।
अत आधारादयः ऽफलवत्सन्निधावफलं तदङ्गऽ
मिति दर्शपौर्णमासाङ्गतयावतिष्ठन्त इति सिद्धं भवति ।
सो ऽयं फलसम्बन्धनियमो विधिशेषः तदर्थमनुवाद इत्यर्थः ।
एवमग्निहोत्रं जुहोतीति विहितो होमो ऽनूद्यते ।
किमर्थं ? दध्यादिगुणविशेषविधानार्थम् ।
दध्ना जुहोति पयसा जुहोतीत्यादिषु ।
सो ऽयं गुणविधिविधिशेषः इति प्रयोजनान्तरमनुवादस्याह ।
विहितानन्तरार्थ इति ।
यथा सोमो विहितो ऽदर्शपौर्णमासाभ्यामिष्ट्वा सोमेन यजेतेतिऽ ।
एव ऽमध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयतीतिऽ ।
विभागेना ऽर्थग्रहणात्प्रामाण्यं भवितुमर्हतीति ।
प्रामाण्यं भवतीत्यर्थः ॥ ६५ ॥
न्य्स्_२,१।६६: नानुवादपुनरुक्तयोर्विशेषः शब्दाभ्यासेपपत्तेः ॥
नानु–त्तेः
( सू। ६६ ) ॥ भाष्योक्तमनुवादस्य प्रयोजनमविदुषः पूर्वः पक्षः ॥ ६६ ॥
न्य्स्_२,१।६७: शीघ्रतरगमनोपदेशवदभ्यासान्नाविशेषः ॥
शीघ्र–षः
( सू। ६७ ) वार्त्तिकं यथेति ।
( २७० । ५ ) यथा शीघ्रं गम्यतामित्युक्ते शीघ्रतरं गम्यतामिति न पुनरुक्तम् ।
तरपः क्रियातिशयप्रतीतेः एवं शीघ्रं शीघ्रं गम्यतामित्यभ्यासात्क्रियातिशयप्रतीतेः सकृदुच्चारिताच्चानवगतेः क्रियातिशयस्य प्रयोजनवानभ्यासः ।
क्रियाविशेषणातिशयो ऽपि क्रियातिशय एवेत्यर्थः ।
अवगतं तावच्छीघ्रं शीघ्रं गम्यतामित्य त्राभ्यासातिशयप्रतीतेरनुवादस्य विशेषः ।
पचति पचतीत्यादौ को विशेष
इत्याह ।
कः पुनरसौ विशेषो यः पचति पचतीत्यादौ भवतीति ।
न च वक्तुरन्यथा प्रत्ययःप श्रोतुश्चान्यथा येन विप्रतिपत्तेः श्रोतुः प्रत्ययो भ्रान्त इति कल्प्येतेत्याह ।
यथा च श्रोतुरिति ।
एवमन्योव ऽपीति ।
यथा ग्रामो ग्रामो रमणीय इत्यादिरिति ॥ ६७ ॥
न्य्स्_२,१।६८: मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यम् आप्तप्रामाण्यात् ॥
अनन्तरसूत्रावतारणपरं भाष्यं किं पुनः प्रतिषेधेति ।
तदनुभाष्य व्याचष्टे ।
किं पुनरिति ।
उत्तरं नेति ।
पृच्छति ।
कि कारणम् ।
उत्तरम्व न साधनमन्तरेणेति ।
पुनः पृच्छति, कुतः तर्हीति ।
( २७१ । १ ) उतरं प्रमाणतः ।
पृच्छति ।
तत्किं प्रमाणम् ।
तत्र तावदद्वेप्रामाण्यसम्भावनायाम्प प्रमाणमाह ।
अर्थविभागवत्त्वम् ।
न त्वेतद्वेदप्रामाण्ये प्रमाणं बुद्धाबुद्धापदिप्रणीतेनागमेनार्थविभागवात
अनैकान्तिकत्वात् ।
वेदप्रामाण्यप्रमाणं तु सूत्रोक्तम्— मन्त्रा–त् ( सू। ६८ ) ॥ चशब्दः पूर्वहेत्वनुकर्षणार्य
इति ।
पूर्वस्य प्रामापण्यसम्भावनाहेतोरर्थविभागवत्त्वस्यानुकर्षणार्थः ।
सम्भावितो हि पक्षो हेतुना साध्यते न त्वसम्भावितः ।
यथाहुः ॥। सम्भावितः प्रतिज्ञायां पक्षः साध्येत हेतुना ।
न तस्य हेतुभिस्त्राणमुत्पतन्नेव यो हत ॥।
इति ॥ सूत्रं व्याचष्टे यथा मन्त्रायुर्वेदवाक्यानीति ।
पुरुषस्य भगवतो वेदकारकस्य विशेषः प्रत्यक्षीकृतहेयोपादेयता तेद्धतुभूता भूतदया यथार्थचिख्यापयिषा च करणपाठवं चेति ।
विशिष्यते ह्यनेनैव पुरुषः पुरुषान्तरेभ्यो ऽनाप्तेभ्य इति ।
त्रिविधेन विशेषणेनेत्युपलक्षणं करणापाटवमपि द्रष्टव्यम् ।
एतदत्राकूतम् ।
अनन्तान्तर्गणिकसुखदुःखभेदवन्तः प्राणभृद्भेदा दृश्यन्ते ।
न चैषां वैचित्र्यं स्वाभाविकमिति तृतीये निवेदयिष्यते ।
न च दृष्टकारणमात्रनिबन्धनं तस्य दृष्टव्यभिचारत्वात् ।
तस्माद्दृष्टसहायमदृष्टमस्य वैचित्र्यस्य कारणं तच्चापूर्वमिति च धर्माधर्माविति चाख्यायते ।
तच्च कस्य चित्प्रत्यक्षं मन्वादेरित्युपपादितम् ।
तनुभुवनादिलक्षणस्य कार्यस्य कर्ता तन्निर्माणसमर्थः समस्तवस्तुतत्त्वज्ञः क्लेशकर्मविपाकाशयापरामृष्टः परमकारुणिकस्तनुभुवनादेरेव कार्यादनुमीयते इति चतुर्थ उपपादयिप्यते ।
सो ऽयमात्मीयहिताहितप्राप्तिपरिहारोपायानविदुषः प्राणिनः पश्यन् प्रत्युतानेकविधदुःखदहनदह्यमानानवलोकयन् कथं न तप्येत तप्यमानो वा हिताहितपरिहारोपायतत्त्वं विद्वान् कथं नोपदिशेत् अन्यथोपदिशेद्वा ।
तस्मादनेन परमकारुणिकेन पृथिव्यादि सृष्ट्वा प्रजापश्चतुर्विधास्ताभ्यो हिताहितप्राप्तिपरिहारोपाय
उपदेष्टव्यः ।
न ह्ययमनुपदिश्य स्थातुमर्हति ।
प्रजानां पितृकल्पस्य चास्योपदेशो देवर्षिमनुष्यगोचरश्चातुर्वर्ण्येन चातुराश्रम्येण चाऽदराद्ग्राह्यः ।
धार्यश्च हिताहितप्राप्तिपरिहारोपायानुष्ठानाय ।
तस्माद्यो वर्णाश्रमाचारव्यवस्थापक आगमो महाजनपरिगृहीतः स तत्प्रणीत आप्तोक्तत्वात्प्रमाणं मन्त्रायुर्वेदवाक्यवदिति सम्प्रसाध्यते ।
कतमो ऽसावागम आप्तोक्तः किं शाक्यभिक्षुकदिगम्बरसंसारमोचकादीनामागमाः किं वा वेदा इति ।
तत्र शाक्याद्यागमानां बुद्धर्षभादयः प्रणेतार इति स्फुटतरमस्ति स्मरणं न तूक्तलक्षण ईश्वरस्तेषां कर्त्तेति ।
न चैते शौद्धोदनिप्रभृतयः तनुभुवनादीनां कर्तारो येन सर्वज्ञा इति निश्चीयेरन्
तदुपायानुष्ठानेन तु सम्भाव्येतैषां सर्वज्ञता न च सम्भावनामात्रेण तत्प्रणीतेष्वागमेष्वाश्वासः प्रेक्षावतां भवितुमर्हति ।
न चैतेषामागमा वर्णाश्रमाचारव्यवस्थाहेतवः नो खलु निषेकाद्याः क्रियाः श्मशानान्ताः प्रजानामेते विदधति ।
न हि प्रमाणीकृतबौद्धाद्यागमा अपि लोकयात्रायां श्रुतिस्मृतीतिहासपुराणनिरपेक्षागममात्रेण प्रवर्त्तन्ते ।
अपि तु ते ऽपि सावृतमेतदिति ब्रुवाणा लोकयात्रायां श्रुत्यादीनेवानुसरन्ति ।
तस्माद्भवतु वेदेषु जगन्निर्मातृकर्तृकत्वस्मृतिः
मा वा भूद् एत एव त्वीश्वरप्रणीता इति पश्यामः ।
न ह्येते चैत्यवन्दनादिवाक्यवदन्यकर्तृकाः स्मर्यन्ते ।
न चान्य आगमो लोकयात्रामुद्वहन् महाजनपरिगृहीत ईश्वरप्रणीततया स्मर्यमाणो दृश्यते ।
न चेश्वरो ऽनुपदिशन्नवस्थातुमर्हतीत्युक्तम्,
तत् पापरिशेष्याद्वेदा एव सकललोकयात्रामुद्वहन्तो हिताहितप्राप्तिपरिहारोपायमुपदिशन्त
इश्वरप्रणीता इत्यवगच्छामः ।
तथा ह्यत एव त्रैवर्णिकैरद्ययावत्प्रयत्नेन गृह्यन्ते धार्यन्ते च ।
तदर्थपालनायां च महर्षिपरम्पराभिरङ्गोपाङ्गेतिहासपुराणधर्मशास्त्राणि प्रणीतानि ।
बुद्धादिवाक्यानि तु न लोकयात्रामुद्वहन्ति ।
न च तत्र लौकिकानामविगानम्, न च विगायतां सांवृत्तमित्युक्त्वा ऽपि तदर्थानुष्ठानम् ।
तस्माद्विगानात्कैश्चिदेव म्लेच्छादिभिर्मनुष्यापसदैः पशुप्रायैः परिग्रहान्नैतेषामाप्तोक्तत्वसम्भवः ।
न चैतेषां मन्वादिवाक्यवद्वेदमूलकतया प्रामाण्यमिति साम्प्रतम् ।
अध्येत्रध्यापयित्रनुष्ठानकर्तृसामान्यस्य वेदमूलकत्वानुमानलिङ्गस्य स्मृतिवेदयोरिव बुद्धादिवाक्येष्वभावात् ।
तत्सर्वज्ञत्वसन्देहेन चानुभवमूलकत्वानिश्चयात् ।
मन्त्रायुर्वेदेषु प्रवृत्तिसामर्थ्यानुमितप्रामाण्येषु वैदिकशान्तिकपौष्टिकादिकर्माभ्यनुज्ञानात् ।
रसायनादिक्रियारम्भे च वेदविहितचान्द्रायणादिप्रायश्चित्तोपदेशादायुर्वेदेनाप्याप्तप्रणीतेन वेदानां प्रामाण्यमप्रभ्युपेयते ।
तत्सिद्धमाप्तप्रणीता वेदाः प्रमाणमिति ।
अभ्युच्चयमात्रं तु कारीर्यादिषु संवाद इति ।
एतदेवाभिप्रेत्य वार्त्तिककार प्रयोगमाह ।
अस्य प्रयोगः प्रमाणं वेदवाक्यानीति ।
प्रयोगान्तरमाह ।
एककर्तृकत्वेनेति ।
मन्त्रायुर्वेदवाक्यानि सर्वज्ञकर्तृकाणि महाजनपरिग्रहे सति अलौकिकार्थप्रतिपादकत्वात् ।
यानि तु न सर्वज्ञपूर्वकाणि तानि नैवंरूपाणि यथा वातपुत्रीयवाक्यानीति व्यतिरेकी हेतुः ।
यथा च बुद्धादिवाक्यान्यलौकिकान्यपि न महाजनपरिगृहीतानि तथोक्तमनन्तरमेव ।
मन्त्रायुर्वेदवाक्यानां च सत्यपि प्रवृत्तिसामर्थ्ये तासां तासामौषधीनां तत्संयोगभेदानां च तत्तदक्षरावापोद्धारभेदवस्य च नासर्वज्ञः सहस्रेणापि पुरुषायुषैः शक्तः कर्त्तुं प्रथममन्वयव्यतिरेकौ ।
न चानिदम्प्रथमता तत्परिहारः सर्गादौ तदसम्भवात् ।
सृष्टिमहाप्रलयौ चानुमानागमाभ्यामुपपादयिष्येते इति सर्वं रमणीयम् ।
तदेवं सर्वज्ञपूर्वकत्वे सति सिद्धमाप्तोक्तत्वेन मन्त्रायुर्वेदप्रामाण्यमोदनार्थी पचेदिति लौकिकवाक्यवदिति ।
यदि न नित्यानि कथं प्रमाणम् ।
अनित्यत्वे हि पुरुषाणां विचित्राचिसन्धित्वेन भ्रमशङ्का न च शक्यापाकर्त्तुम्,
तस्मादपौरुषेयत्वमेव पुरुषाश्रयान्दोषानपाकुर्वद्वेदप्रामाण्यवस्थापकमिति भावः ।
उत्तरं प्रतिपादकत्वादिति ।
आप्तोक्तत्वेनानित्यस्यापि निश्चायकत्वादित्यर्थः ।
के चित्त्विति ।
( २७२ । ५ )
प्रमालक्षणामर्थक्रियां कुर्वत्प्रमाणम्, न च नित्यस्यार्थक्रियास्ति तस्मान्न प्रमाणमित्यर्थः ।
निराकरोति ।
तत्तु न सम्यगिति पश्याम
इति ।
यथा च नित्यस्याप्यर्थक्रियासम्भवस्तथा तृतीये वक्ष्याम इति भावः ।
आत्मा चेति प्रमाहेतुतामात्रविवक्षया न तु करणत्वाभिप्रायम् ।
प्रमाणशब्दस्येति ।
अत्रापि न करणत्वविवक्षया किं तु प्रमानहेतुमात्रविवक्षयेति द्रष्टव्यम् ।
इतरवस्तुसाधकत्वेनेति ।
इतरस्य परमाणुगतस्यैव मूर्त्तत्वादेः साधकत्वेनेत्यर्थः ।
तदेवमेकदेशिमतमपाकृत्य स्वमतमाह ।
तस्मादिति ।
स च संसारानादित्वादिति ।
( २७३ । १७ ) यद्यपि वर्णपदवाक्यानि प्रत्युच्चारणमन्यानि यथा ऽपि गत्वादिसामान्यावच्छिन्नानां गकारादीनां तत्समूहानां च वाक्यानां शक्यो गोत्वादिसामान्यावच्छिन्नाभिः शाबलेयादिव्यक्तिभिरेव सङ्केतो ग्रहीतुमिति भावः ।
मन्वन्तरेति ।
महाप्रलये त्वीश्वरेण वेदान् प्रणीय सृष्ट्यादौ सम्प्रदायः प्रवर्त्यत
एवेति भावः ।
शेषं भाष्यं वार्त्तिकं चातिरोहितार्थमिति ॥ ६८ ॥
इति मिश्रश्रीवाचस्पतिविरचितायां न्यायवार्तिकतात्पर्यटीकायां
द्वितीयाध्यायस्याद्यमाह्निकम् ।
चतुष्ट्वपरीक्षा ।
न्य्स्_२,२।१: न चतुष्ट्वम् ऐतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात् ॥
अयथार्थ इति भाष्यम् ।
प्रमाणानां निभागोद्देशो यः सो ऽयथार्थः ।
तदेतद्वार्त्तिककारो व्याचष्ठे प्रत्यक्षेति ।
( २७४ । ३ ) एवं विभ्रान्तस्याक्षेप इति भाष्यमतेन सूत्रं व्याख्याय प्रकारान्तरेणापि व्याचष्टे ।
संशयव्युदासार्थं वा प्रकरणम् ।
सूत्रं तु संशयार्थम् ।
न चतुष्ट्वं निश्चेतुं शक्यम्, कस्मात् ।
ऐतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात् ।
परैरभ्युपगतादस्माकं संशयादिति सूत्रार्थः ।
तात्पर्यान्तरमाह ।
विधीति ।
विभागोद्देशो ऽधिकनिषेधपर इति पूर्वपक्षे अयथार्थः प्रमाणोद्देश
इति पूर्वं व्याख्यातम्, सम्प्रति तु प्रत्यक्षादिविधिपरो ऽसावारम्भः प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानीति ।
अधिकनिषेथस्त्वर्थलभ्य इति पक्षमभिप्रेत्योक्तमित्यपौनरुक्त्यम् ।
तात्पर्यान्तरमाह दोषवतामिति ।
तात्पर्यान्तरमाह प्रत्यक्षादिष्विति ।
अन्तर्भावपरात्प्रकरणादर्थाद्विभागोद्देशस्य यथार्थता सिध्यतीत्यर्थः ।
देशयति ।
सिद्धत्वादिति ।
न हि यावत्सूच्यते सूत्रकारेण तावदवश्वमुपपादनीयं भाष्नयकारादिभिरपि तदुपपादनसिद्धेरिति भावः ।
परिहरति नावधारपणप्रयोजनस्य प्रमाणान्तरनिरासस्येति ।
यत्सूचनमात्रादनुक्तमपि लभ्यते तत्सूत्रकारेण नोच्यते यच्च सूचितमपि तिरोहितमिव तत्सूत्रकारेणोद्धाटनीयमेव,
न हि तत्रास्ति निश्चयो ऽस्मदभिमतमेव वदन्ति भाष्यकारादयो नान्यदिति भावः ।
किमत्रार्थादापद्यत इति प्रश्नः ।
उत्तरं सत्सु भवतीति ।
( २७५ । १ ) प्रत्यनीकस्य ग्रहणादिति ।
अपां पातप्रत्यनीकस्योपातस्य ग्रहणात्तद्विरोधिनः पातविरोधिनो वाय्वभ्रसंयोगस्य ग्रहणं तदिदं किलाभावाख्यं प्रमाणं प्रमीयते मेघोदये ऽपि यतोयपाताभावेन वाय्वभ्रसंयोग
इति ।
सिद्धान्तमाह तान्येतानीति ।
ननु भविष्यत्यसौ विषय उक्तलक्षणानामगोचरः प्रमाणानाम् प्रवर्त्स्यन्ति च तत्र इतिह्यादीनि प्रमाणान्तराणीत्यत आह ।
विषयाभावाच्चेति ।
चोदयति अथ प्रयोजन भेदादिति ।
तदेतदतिप्रसङ्गापादनेन दूषयति ।
एवं तर्ह्यष्टत्वमिति ।
न तावत्सन्ति तादृशः प्रयोजनसामान्यविशेषाः यैः प्रयोजनवन्ति प्रमाणानि परस्परतो व्यावर्त्तयेयुः अपि तु भेदमात्राद्व्यावर्त्तयन्तीति वक्तव्यम् ।
तथा चातिप्रसङ्गेनाष्टत्वसङ्ख्याव्यावृत्तिरित्यर्थः ।
अथन विषयसामान्येति ।
रूपत्वादिति विषयसामान्यं तस्य स्वस्वव्यक्तिष्वव्यतिरेक
एकत्वं तस्मादित्यर्थः ।
निराकरोतञ् नि युक्तस्तर्हीति ।
निरुपाधानस्वरूपमेकं व्यापकत्वान्वितत्वसञ्ज्ञित्वोपधानास्त्रय
इति चत्वारो विषयसामान्यविशेषा इति चतुष्ट्वप्रतिषेधो न युक्तमित्यर्थः ॥ १ ॥
न्य्स्_२,२।२: शब्द ऐतिह्यानर्थान्तरभावाद् अनुमाने ऽर्थापत्तिसम्भवाभावानर्थान्तरभावाच्चाप्रतिषेधः ॥
यद्येतानीति ।
यद्यैतिह्यादीनि प्रमाणानि क्व प्रत्यक्षादौ किमैतिह्याद्यन्तर्भवतीति वक्तव्यम् ।
अप्रमाणस्य ।
प्रमाणान्तर्भावो न भवतीति प्रमाणानीत्युक्तम् ।
यत्खल्वनिर्द्दिष्टप्रवक्तृकं प्रवादपारम्पर्यमैतिह्यं तस्य चेदाप्तः कर्त्ता नावधारितः ततस्तत्प्रमाणमेव न भवतीति यद्रीत्युक्तम् ।
अथाक्षरपरम्परेत्यवगतं तत्राप्तोपदेश
इति शब्दलक्षणान्नातिवर्त्तते तदिदमुक्तम् ।
समानलक्षणत्त्वादिति ।
पृच्छति कथमर्थापत्तिरिति ।
( २७६ । १ ) असत्सु मेघेषु वृष्टिर्न भवति सत्सुः
भवतीति सेयमर्थापत्तिः कथमनुमानेन सङ्गृह्यते ।
उत्तरन्द्वयोरिति ।
अत्रोदाहरणमाह ।
यत्र यत्रेति ।
उदाहरणस्य साध्यविकलत्वमुदाहरति ।
एकं त्विति ।
यदि दिवैव न भुङ्क्त इति कालविशेषप्रतिषेधो निश्चीयते ततो रात्रौ भुङ्क्त इति कालान्तरविधानं गम्यते न तु कालविशेषनिश्चयो ऽपि तु दिवा भुङ्क्त एव नेति ।
भोजनादिक्रियायाः
या ऽन्यासनादिक्रया तन्निषेधनिषेधेन रात्रिभोजनाक्षेपादिति ।
दिवैव न भुङ्क्तैत्यस्यैकस्य प्राप्तौ भवेद्रात्रौ भुङ्क्ते इति क्रियान्तरनिषेधाः
निषेधस्य च प्राप्तौ न वक्तव्यं रात्रौ भुङ्क्तैत्यर्थः ।
तदेतद्दूषयति ।
एतत्तु न सम्यगिति ।
प्राप्तिपूर्विका हि प्रतिषेधा भवन्ति ।
न चेह भुञ्जानस्याभुञ्जानस्य वा क्रियान्तराभावः प्रसक्तो येनासौ प्रतिषध्यते भुङ्क्त एव नेति ।
न हि कश्चिद्भुङ्क्त एव न भुञ्जानो न वीक्षते ।
अन्ततो ऽस्त्यादेरपि क्रियायाः
भावात् ।
व्यापृतः कदा चिन्न व्यापारान्तरं कुर्यादपि किं पुनरव्यापृतः स हि व्यापारान्तराण्यव्यासक्तः करोत्येवेत्यर्थः ।
उपसंहरति तस्मादिति ।
कालप्रतिषेधो दिवैव भुङ्क्त इत्यस्य प्रतिषेध
इत्यर्थः ।
क्रियान्तरप्रतिषेधनिवृत्तेरसम्भवेन निराकृतत्वादप्राप्तत्वान्न प्रतिषेध इति भावः ।
क्रियान्तरप्रतिषेध इति ।
अन्तरशब्दो विशेषवचनः
तेन भोजनक्रियाया यदन्तरं विशेषः क्रियान्तररहितत्वं भुङ्क्त एवं तस्य प्रतिषेध इत्यर्थः ।
सामान्यतोदृष्टमिति ।
यत्र न कार्यकारणयोर्गम्यगमकभावः तत्सामान्यतोदृष्टमिति ॥ २ ॥
न्य्स्_२,२।३: अर्थापत्तिरप्रमाणम् अनैकान्तिकत्वात् ॥
सत्यमेतानीति भाष्यम् ।
तस्यार्थः ।
सत्यमेतान्यैतिह्यादीनि प्रमाणानि न तु प्रमाणान्तरं नैव प्रमाणान्तरमनुमानादिभ्य
इत्युक्तम् ।
न तु प्रमाणत्वमेवामीषां न मृष्यामह इति भावः ।
वार्त्तिकम् अर्थापत्तिमात्रस्येति ।
( २७७ । २ ) दिव्या न भुङ्क्ते इत्यादेरर्थापत्तेरैकान्तिकत्वादिति ॥ ३ ॥
न्य्स्_२,२।४: अनर्थापत्तौ अर्थापत्त्यभिमानात् ॥
स्वमतेन दूषयित्वा सौत्रं दूषणमाह ।
यामपि भवानिति ।
न सत्सु मेघेषु वृष्टिर्भवत्येवेत्यर्थो येन व्यभिचारो देश्येतापि तु असत्सु न भवतीति ।
तथा च न व्यभिचार इत्यर्थः ॥ ४ ॥
न्य्स्_२,२।५: प्रतिषेधाप्रामाण्यं चानैकान्तिकत्वात् ॥
यदि तु यत्र विषयेर् ऽथापत्तिरैकान्तिकी ततो विषयान्तरं कल्पयित्वा ऽनैकान्तिकं देश्येत ततो यः प्रतिषेधविषयः प्रामाण्यमर्थापत्तेः
ततो विषयान्तरमर्थापत्तेः सत्त्वं प्रतिषेधविषयं कल्पयित्वा प्रतिषेधस्याप्रामाण्यं शक्नुमो वक्तुं तथा च प्रतिषेधाप्रामाण्यान्नार्थापत्तेरप्रामाण्यमित्याह ।
प्रति–त् ( सू। ५ ) ॥ एवं ह्येकान्तिकः प्रतिषेधः स्याद् यद्यर्थापत्तेः प्रामाण्यं सत्तां च प्रतिषेधति ।
न तु सत्त्वं प्रतिषेद्धुमर्हत्यनैकान्तिकत्वात् ।
न हि यदनैकान्तिकं तत् सर्वं नास्ति प्रमेयत्वादीनां नित्यत्वसाधने अनैकान्तिकानां सत्वात् ।
यस्मादर्थाषत्तेर्विशेष इति ।
( २७८ । १ ) अर्थाषत्तेर्विशेषः प्रामाण्यं न ह्यर्थापत्तिमात्रं सत्तेति ॥ ५ ॥
न्य्स्_२,२।६: तत्प्रामाण्ये वा नार्थापत्त्यप्रामाण्यम् ॥
न चानैकान्तिकत्वं प्रमाणत्वप्रतिषेधे ऽस्तीति यदि मन्यते पूर्वपक्षी, एवं तर्हि—
तत्प्रामा–ण्यम् ( सू। ६ ) ॥ विप्रतिपत्तिरप्रतिपत्तिर्वा निग्रहस्थानमिति वदत इत्यर्थः ।
या ऽपि मीमांसाभाष्यकृतार् ऽथापत्तिरुदाहृता जीवतश्चैत्रस्य गेहाभावदर्शनेन बहिर्भावस्यादृष्टस्य कल्पनेति ।
तदप्यनुमानमेव यदा खलु सन्नेकत्र नास्ति तदा ऽन्यत्रास्ति यदा वा ऽव्यापक एकत्रास्ति तदा ऽन्यत्र नास्ति सो ऽयं स्वशरीर एव व्याप्तिग्रहः सुकरः ।
तथा च सतो गेहाभावदर्शनेन लिङ्गेन बहिर्भावदर्शनमनुमानम् ।
न च तस्य सत्वेन गेहाभावः शक्यो ऽपह्नोतुं येनासिद्धो गेहाभावोन वा सत्त्वमपन्हूयेत येन सत्त्वमेवानपपद्यमानं न स्वात्मानं बहिरवस्थापयेत् ।
तथा हि सत्त्वमात्रं वा विरुध्यते चैत्रस्य गेहाभावेन मेहसत्त्वं वा चैत्रस्य ।
न तावद्यत्र क्व चन सत्त्वस्यास्ति विरोधो गेहे असत्तया समानविषयत्वाभावात् ।
देशसामान्येन गृहविशेषाक्षेपो ऽपि पाक्षिक
इति समानविषयतया विरोध इति चेत् ।
न प्रमाणविनिश्चितस्य सांशयिकेन प्रतिक्षेपायोगात् ।
नापि प्रमाणविनिश्चितो ऽभाव एव पाक्षिकं तस्य गृहसत्वं प्रतिक्षिपन्सत्वमपि प्रतिक्षेप्तुं सांशयिकत्वं वा ऽपनेतुमर्हतीति युक्तम् ।
गृहावच्छिन्नाभावेन गृहसत्त्वं विरुद्धत्वात्प्रतिषिध्यते न तु सत्त्वमात्रं तत्र तस्यौदासीन्यात् ।
तस्माद्गृहाभावेन सिद्धेन सतो बहिर्भावो ऽनुमीयत इति युक्तम् ।
एतेन विरुद्धयोः प्रमाणयोरविरोधापादनं विषयव्यवस्थया अर्थापत्तिविषयः परास्तः ।
अवच्छिन्नानवच्छिन्नयोरविरोधात् ।
तस्माद्
नानुमानात् प्रमाणात्प्रमाणान्तरमर्थापत्तिरिति स्थितम् ॥ ६ ॥
न्य्स्_२,२।७: नाभावप्रामाण्यम् प्रमेयासिद्धेः ॥
नाभा–द्धेः
( सू। ६ ) ॥ नाभावज्ञानं प्रमाणम्, कस्मात् प्रमेयस्याभावस्यासिद्धेः ।
नो खलु सर्वोपाख्यारहितं प्रमाणज्ञानविषयभावमनुभवति ।
केवलं काल्पनिको ऽयमभावव्यवहारो लौकिकानामिति पूर्वपक्षः ॥ ७ ॥
न्य्स्_२,२।८: लक्षितेष्वलक्षणलक्षितत्वादलक्षितानां तत्प्रमेयसिद्धिः ॥
सिद्धान्तमाह ।
अभावस्य भूयसीति ।
सर्वजनीनाभावप्रत्ययव्यवहारौ न काल्पनिकौ भवितुमर्हतः ।
न च कल्पना ऽपि सर्वोपाख्यारहितं गोचरयितुमर्हतीत्युक्तं विपरीतख्यातिसाधनावसरे ।
क्षणभङ्गभङ्गावसरे च तस्योपाख्येयत्वमुपपादविष्यते ।
तस्मादस्य प्रामाण्याद्युक्तः प्रामाणान्तर्भावः ।
तदेतत्सर्वं वार्तिककारो व्याचष्टे ।
नाभावः प्रमाणमिति ।
यथोक्तं दूषयति ।
कश्चैवमाहेति ।
अभावो हि प्रमेयमुच्यते न तत्स्वरूपेण प्रमाणमपि तु तद्विषया प्रतिपत्तिः ।
सा च प्रत्यक्षफलमुपादानानदिबुद्धौ प्रमाणं यथा ऽग्रे तथा वक्ष्यते ।
वर्षाभावप्रत्ययस्तु वाय्वभ्रसंयोगे ऽनुमानमुक्तम् ।
प्रतिपद्य चानयतीति ।
( २७९ । ४ ) लक्षणाभावेन विशेषणेनावच्छिन्नान्यानेतव्यत्वेन प्रतिपद्यानयति ।
एतदुक्तं भवति लक्षणाभावज्ञानं विशिष्टे वाससि प्रत्ययं जनयत्साधकतमत्वात्प्रमाणं भवति ॥ ८ ॥
न्य्स्_२,२।९: असत्यर्थे नाभाव इति चेन् नान्यलक्षणोपपत्तेः ॥
अस-त्तेः ( सू। ९ ) ॥
भावाधीननिरूपणत्वात्प्राप्तिपूर्वकत्वाच्च प्रध्वम्स एवाभावः ।
तस्य भावपूर्वकत्वात् ।
नान्यो ऽस्त्य भाव इति मन्वानस्य पूर्वपक्षः ।
नापरिज्ञानादिति ।
प्रत्यक्षं हि प्रमाणं प्रमेयाभावं व्यवस्थापयति ।
तच्च प्रध्वंसवत्प्रागभवे ऽपि तुल्यम् ।
प्रतियन्ति हि लौकिका दध्नि क्षीराभावमिव क्षीरे दध्यभावम् ।
ननु सूत्रमन्येषु वासस्सु लक्षणाभावरूपाणामुपपत्तिं सद्भावमाह ।
न त्वभावोपलब्धिं ब्रूषे तत्कुतो न विरोध इत्यत आह ।
अत उक्तार्थं सूत्रमिति ।
व्यतिरेकमुखेन सूत्रस्योक्तो ऽथः ।
अत एवाह भाष्यकारः ।
नैवमलक्षितेष्विति ।
लक्षणादर्शनेन हि लक्षणाभावदर्शनमुपलक्षितम् ॥ ९ ॥
न्य्स्_२,२।१०: तत्सिद्धेरलक्षितेष्वहेतुः ॥
यानि तानि लक्षितेष्विति ।
न कस्य चिल्लक्षितस्य न सन्ति यानि च सन्ति तेषामभावो व्याहतः ।
एतदुक्तं भवति यत्र लक्षणानि सन्ति तत्र तेषामभावो व्याहतः
यत्र च न सन्ति तत्राप्यभावो ऽनुपपन्नः ।
तस्य भावाधीननिरूपणस्य तदभावे ऽशक्यनिरूपणत्वादिति ।
परिहरति नापरिज्ञानादिति ।
भावज्ञानाधीननिरूपणो भवत्यभावो न तु भावाधीननिरूपणः प्रागभावो ऽपि च शक्यो भविष्यद्भावज्ञानेनान्यत्रावस्थितभावज्ञानेन वा निरूपयितुमिति न प्रागभावाभाव
इत्यर्थः ॥ १० ॥
न्य्स्_२,२।११: न लक्षणावस्थितापेक्षासिद्धेः ॥
न्य्स्_२,२।१२: प्रागुत्पत्तेरभावोपपत्तेश्च ॥
अभावद्वैतमिति ।
प्रकृतापेक्षं प्रकृतं प्रध्वंसमात्रवादिनं प्रति प्रागभावप्रतिपादनं परमार्थतस्तु प्रथममभावेद्वैतं तादात्म्याभावः संसर्गाभावश्चेति संसर्गाभावो ऽपि प्राक्प्रध्वंसात्यन्ताभावभेदेन त्रिविध
इति चतस्रो विधा अभावस्येति ।
असत्यर्थेनाभावः ।
तत्सिद्धेरलक्षितेष्वहेतुरिति चोभे अप्येते छलसूत्रे इति ।
( २८० । ३ ) यो यो ऽभावः स सर्वः सत्यर्थे भवति यथा प्रध्वंसः न च तथा लक्षणाभाव
इति सामान्यच्छलम् ॥ १० ॥ तत्सिद्धेरिति तु वाक्छलं यानि लक्षणानि भवन्ति कथं तान्येव न भवन्तीति हि तस्यार्थः ॥ ११-१२ ॥
न्य्स्_२,२।१३: आदिमत्त्वादैन्द्रियकत्वात् कृतकवदुपचाराच्च ॥
तदेवं शब्दपरीक्षां प्रस्तुत्य तस्य प्रामाण्यं परीक्ष्य विभागोद्देशः परीक्षितः सम्प्रति शब्दपरीक्षाशेषं वर्त्तयन्नाह ।
आप्तोपदेशः शब्द इति ।
संशयकारणं विप्रतिपत्तिं दर्शयन्
जरन्मीमाङ्कानां मतमाह ।
आकाशगुणः शब्द इति ।
अभिघातप्रेरितेन हि वायुना यावद्वेगमभिप्रतिष्ठमानेन कर्णशष्कुल्यवच्छिन्ननभोभागसमवेतः
नित्यः शब्दो व्यज्यत इति ।
तदेतद्वार्तिककारो व्याचष्टे ।
एके तावदिति ।
अविनश्यदाधारमपि संयोगाद्यनित्यमित्यत आह ।
एकद्रव्यमिति ।
तथा ऽपि पार्थिवाणुगतै रूपादिभिरनैकान्तिकमत
आह ।
आकाशगुणश्चेति ।
एकद्रव्यत्वे सत्याकाशगुणत्वादित्येतावताभिमतसिद्धेरविनश्यदाधारत्वं तत्प्रपञ्चार्थं वेदितव्यम् ।
संयोगविभागनादा इति ।
भेरीदण्डसंयोगप्रेरितो वायुः कर्णशष्कुलीमन्तमाकाशं प्राप्तः शब्दस्य व्यञ्जकः एवं वंशदलविभागप्रेरितो वायुः शब्दस्य व्यञ्जक इति द्रष्टव्यम् ।
संयोगविभागौ पारम्पर्येण, नादस्तु साक्षादिति ।
साङ्ख्यीयमतमाह ।
गन्धादिसहवृत्तिरिति ।
पञ्चतन्मात्रोत्पन्नभूतसूक्ष्मसमुदायारब्धपृथिव्यादिविकारो गोघटादिवृत्तिः शब्दो योग्यदेशस्य आहङ्कारिकतया व्यापकं विषयदेशस्य श्रोत्रेन्द्रियं विकुर्वन्नवस्थित
एव गृह्यते ।
तदेतदाह ।
अपरे पुनरिति ।
भूतविशेषाभिघाता इति ।
भेरीदण्डाभिघाता इत्यर्थः ।
वैशेषिकमतमाह ।
आकाशगुण इति ।
बौद्धराद्धान्तमाह ।
महाभूतसङ्क्षोभज इति ( २८१ । २ ) नासम्बन्धादिति ।
यदा भावो ऽस्ति तदा प्राक्प्रध्वंसाभावान्नानित्यत्वम् ।
अनुत्पन्नविनष्टयोश्च प्रसङ्गादिति ।
न तावत्प्रक्प्रध्वंसाभावयोः सहभावो ऽस्ति तस्मात्प्रत्येकमेव तावदनित्यत्वं तथा चानुत्पन्ने वस्तुनि नष्टे वा ऽनित्यत्वप्रसङ्गः ।
न चेदं दृष्टमिष्टं वा भावधर्मत्वेनानित्यत्वस्य प्रतीतेरनित्यो घट इति ।
न केवलमनित्यत्वस्य भाव इति परमस्मिन्पक्षे न युज्यते षष्ट्यर्थश्च नास्ति ।
कस्माद् भावस्याभावो धर्मो न भवतीत्यत आह ।
न च धर्मकाल इति ।
चो हेत्वर्थे ।
शङ्कते ।
अथेति ।
भवन्नेव हि यस्मात्प्राग्
न भवति पश्चाच्च तस्मात्तस्याभाव इति षष्ठयुपपत्तिरित्यर्थः ।
उत्तरम् एवमपीति ।
सत्यं भवन्नेव न भवतीति, न त्वेनावता ऽस्याभावसम्बन्धो भिन्नकालत्वात् ।
तस्मान्नास्मदुक्तं किं चित्प्रतिषिद्धमित्यर्थः ।
लोकविरोधमुद्भावयति घटस्य प्रागभाव इति ।
असम्बन्धे षष्ठीप्रयोगो ऽयं भाक्तः भावाधीननिरूपणत्वं च भक्तिरित्यर्थः ।
अपि च वर्तमानवस्तु नित्यमित्युच्यते तस्य भावो नित्यता ।
भवतु किमेतावता ऽपीत्यत आह ।
वर्त्तमाने चेति ।
( २८२ । १ ) विनाशो ऽस्यावश्यन्तया भविष्यतीति अवश्यम्भाविनो विनाशस्य सन्निधानेन सम्बन्धमुपचर्य मतुपः प्रयोग
इत्यर्थः ।
उपलब्धिलक्षणप्राप्तस्येति ।
( २८३ । ७ ) न हि सतो विनाशो ऽस्ति येनासम्बन्धो भावस्य देश्येत किं तु यथा सतव आविर्भावो जन्म
एवं सत एवात्यन्ततिरोभावो विनाश इति अनित्यतेति चाख्यायते तिरोभावस्य च सता सह समानकालतया सम्बन्ध उपपद्यत इति भावः ।
तिरोभावश्च घटादिना ऽपि सम्भवतीत्युपलब्धिलक्षणप्राप्तस्येत्युक्तम् ।
तदेतत्साङ्ख्यीयं मतं दूषयति ।
एतत्तुशून्यमभिधानमिति ।
प्रधानविकारत्वाद्विश्वस्य विकारस्य च प्रकृतेरनन्यत्वात्प्राधनिकस्य कस्य (?) चिदुपलम्भान्नास्त्येव तद्वस्तु यदत्यन्तं नोपलभ्यत इति साङ्ख्यसिद्धान्तस्तं बाधत
इत्यर्थः ।
अपि च यथा सतो न विनाशः एवमसतो ऽपि जन्म नास्ति तथा चानुपजातविशेषस्य वस्तुनस्तिरोभावो न युक्तः विशेषोपजनेन च कथं सत उत्पत्तिर्विशेषस्यैव प्रागसत्त्वात् सत्त्वे वा प्रागप्यनुपलब्धिप्रसङ्ग इति ।
ये पुनरिति ।
अनित्य एवानित्यता स्वार्थिकस्तल्प्रत्यय
इत्यर्थः ।
दूषयति ।
एतत्तु न युक्तम्१ पाणिनेरपि स्मृतिः प्रमाणाविरोधिनी तत्त्वव्यवस्थाहेतुर्न तद्विरोधिन्यपि, अस्ति च ठगादीनां स्वार्थिकत्वे प्रमाणविरोधः ।
तथा हि प्रकृतिप्रत्ययोः समभिव्याहारो न स्याद् न खल्वेकार्थयोः समभिव्याहारो दृष्टः न हि भरति वृक्षः शिंशपा इतिवद्वृक्षस्तरुरिति प्रयोगः ।
कथं तर्ह्येको द्वौ बहव इति चेत् ।
न ।
लिङ्गविशेषव्यक्त्यर्थत्वाद्विभक्तिप्रयोगस्य
एवं यावकादिष्वपि विरुद्धजात्यन्तरव्यवच्छेदः प्रत्ययार्थो वेदितव्यः ।
यथा च व्याचक्षते शब्दाः याव एव यावक इति ।
तदिदमुक्तम् ।
अनुपलभ्यमानभेदानामप्यनुमानतो भेद
इति ।
किमनुमानं ।
षष्ट्या भेदविषयत्वमिति त्वतलभिप्रापयं नित्यत्वानित्यत्वयोः प्रकृतत्वात् ।
तस्य भावस्त्वतलाविति त्वतलोः षष्टीसमर्थादुत्पत्तेः सर्वविषयं त्वनुमानमुक्तमिति ।
अवध्यपेक्षानपेक्षेति ।
( २८४ । ३ ) सत्तैवोभयान्तावध्यपेक्षा भवत्यनित्यता सैव च तदनपेक्षा नित्यता अवधिश्चोपलक्षणं न विशेषणम् तच्च भिन्नकालमपि भवत्येव यथा मृतायां मातरि देवदत्तायां देवदत्तापुत्रो यज्ञदत्त इति भूतपूर्वगत्वा देवदत्ता स्वपुत्रमुपलक्षयति यदा च कार्यत्वं समवायस्तदोभयान्तावच्छिन्ना सत्ता नित्यता ।
यदा तु पूर्वान्तावच्छिन्ना सत्तैवोत्पत्तिस्तदा ऽपरान्तावच्छिन्ना सत्ता अनित्यतेति न ह्वेतुलक्षणव्याख्यानावसरोक्तेन विरोध इति ।
कार्यात्मलाभहेतुः समवाय
इति ।
कार्यस्यात्मलाभः स्वकारणसम्बन्धित्वं तस्य हेतुः समवायः ।
समवायो हि समवेतत्वं भवति समवायः कारणविशिष्टकार्यत्वमिति ।
निमित्तकारणभेदानुविधानमुत्पत्तिधर्मकत्वं गम्यगमकयोरभेदविवक्षया ॥ १३ ॥
न्य्स्_२,२।१४: न घटाभावसामान्यनित्यत्वाद् नित्येष्वप्यनित्यवदुपचाराच्च ॥
न्य्स्_२,२।१५: तत्त्वभाक्तयोर्नानात्वविभागादव्यभिचारः ॥
निमित्तकारणानि भेरीदण्डसंयोगादयः ।
तद्भेदात्खलु शब्दो भिन्नो भवति ।
शङ्कते संयोगविभागेति ।
( २८५ । २ ) यथा हि कारणभेदेन भेदो दृश्यते एवं व्यञ्जकभेदेनापि मणिकृपाणदर्पणादिव्यज्यमानस्य मुखस्य भेदो दृष्टः तस्मात् संशय इति ।
श्रोत्रं तावन्न शब्ददेशं गच्छत्यमूर्त्तत्वादिति ।
कर्णशष्कुल्यवच्छिन्नं हि नभः श्रोत्रम्, न च कर्णशष्कुली मूर्त्ता ऽपि सती वक्तृवक्रमुपसर्पति प्रत्यक्षं हि कर्णशष्कुली श्रोत्रस्था गृह्यते तस्माद्गच्छदपि कर्णशष्कुल्यपधानविरहान्न नभोमात्रं श्रोत्रं तस्मान्मा कर्णशरूकुली यासीत् तदुपकृतं तु नभो गच्छतीति यो मन्यते तं प्रत्येतदुक्तमिति द्रष्टव्यम् ।
क्रियाकारणगुणसमवायादिति ।
नोदनाभिधातसमवायादित्यर्थः ।
नायं निरपेक्षार्थ इति।यद्यपिव समवायिकारणं पतने कत्त्रव्ये गुरुत्वमपेक्षते तथा ऽपि चरमभाविनिमित्तान्तरं नापेक्षत इति निरपेक्षशब्दास्यार्थः ।
यद्यपि प्रतिबन्धकापगमो भवति चरप्रभावी तथा ऽपि न निमित्तान्तरं प्रतिबन्धे हि सति गुरुत्वं न करोति कार्यमौत्सर्गिकं न पुनः प्रतिबन्धकापगमस्यापि तत्र निमित्तभावकल्पना युक्ता तदन्वयव्यतिरेकस्यान्यथासिद्धेरिति भावरूपं वा चरमभाविनिमित्तान्तरं नापेक्षत
इत्यनपेक्षार्थः ।
विषयाभावाच्चेति ।
( २८६ । ३ ) क्रियोत्पादं प्रति योग्यता क्रियाविषयस्तामाश्रित्य क्रिया भवति सा मूर्तिः न चासावसर्वगतद्रव्यपरिमाणलक्षणात्माकाशादौ सर्वगते समस्ति तस्मान्नैते क्रियावन्त
इत्यर्थः ।
ततो ऽन्त्यस्यातिमान्द्यादिति ।
नान्त्यः शब्दान्तरमारभते न केवलमसौ स्वकारणं शब्दं नाशयति, किन्तु सो ऽपि स्वकारणेन शब्देन नाश्यते तदिदमनयोः कार्यकारणविरोधित्वम् ।
आद्यस्तु कार्येणैव नाश्यते मध्यानां त्वनियम
इति ।
जरन्मीमांसकमतमुत्थापयति एव एवेति चेदिति ।
एक एव तेषां शब्दो नभोगुणो नभो वितत्यावस्थितः परिमाणवदित्यर्थः ।
शब्दसंस्कारपक्षं कक्षीकृत्य दूषणमाह ।
न सर्वैरुपलब्धिप्रसङ्गादिति ।
न किम इति ( २८७ । २ ) प्रश्नस्येत्यर्थः ।
शब्दस्याकाशवृत्तित्वादिति ।
आकाशस्य सर्वगतत्वेन तत्र व्यक्तः सर्वत्रैव व्यक्त इति सर्वत्रैवोपलम्भस्तदवस्थ एवेत्यर्थः ।
अभ्युपेत्यैकदेशमाह ।
एकदेशाभिव्यक्तौ चार्थप्रत्ययो न स्यात् ।
वर्णसाध्यस्य कार्यस्यैकदेशेनाकरणात् ।
यथा नानावर्णे पदे एकवर्णाभिव्यक्तौ नार्थप्रत्यय
इति ।
स्यादेतद् एकदेश एव वर्णः तथा च वर्णसाध्यं कार्यमेकदेशः शक्तः कर्तुमित्यत आह ।
सर्व एव व्यापकाप भवन्तीति ।
एतस्मिन्पेक्षे वर्णैकदेशव्यक्तिरभ्युपगम्यते तस्माद्व्यापकाद्वर्णादव्यापक एकदेशो ऽन्यैत्यर्थः ।
नन्वस्त्वेकदेशत एवार्थप्रत्यय इत्यत आह ।
एतस्मिन् पक्षे वर्णैकदेशव्यक्तिरभ्युपगम्यते न च वर्णैकदेशः शक्यो निरूपयितुम् ।
अल्पीयसा हि प्रयत्नेन वर्णमुच्चरितं मतिर्न गृह्णाति गृह्णती वा वर्णमेव गृह्णाति न तु तदेकदेशं कदा चिदपीत्यर्थः ।
निरूपणमभ्युपेत्याह ।
न च निरूपितादिति ।
बहवस्तहिं वर्णा व्यज्यन्तां तन्निरूपणाच्चार्थो गम्यत इत्यत आह ।
एतेनेति ।
यस्तु मन्यते न वस्तुतो ऽस्त्येकदेशः शब्दस्य किं तु संस्कारस्याव्याप्यवृत्तित्वमेवैकदेशः ।
भवतः पक्षे शब्दस्याव्याप्यवृत्तित्वमेव नभस
एकदेश इति तं प्रति दोषान्तरमाह कोलाहलश्च स्यादिति ।
यद्युच्यते कश्चिदेव ध्वनिः कं चिदेव शब्दं व्यनक्ति ततश्च न कोलाहल इति तत्राह ।
नियमश्च न स्यादिति ।
( २८८ । ५ ) समानदेशानामपि रूपरसादीनां व्यञ्जकनियम इत्यत उक्तं समानेन्द्रियग्राह्याणामिति ।
तथा पि भिन्नदेशानां समानेन्द्रियग्राह्याणामपि न सहसा सर्वेषां व्यक्तिरित्यत उक्तं समानदेशानामिति ।
शङ्कते यद्यस्य व्यञ्जकमिति ।
न हि व्यञ्जकानां व्यञ्जकत्वं व्यक्तेरन्यतः प्रतीयते सा च नियतेति व्यञ्जकानामपि नियमसिद्धिरित्यर्थः ।
परिहरति तन्नादृष्टत्वात् ।
अन्येषामेव भूतानां व्यञ्जकानां व्यङ्न्यानां चानियमोव दृष्ट इहापि नियमं विघटयति ।
कार्याणां तु समानदेशानामपि समानेन्द्रियग्राह्याणामपि रूपादीनां सङ्ख्यादीनां च दृष्टः कारणनियम इति शब्दानामपि नियतकारणतयोत्पत्तिनियम
उपपद्यत इति भावः ।
समस्तवस्त्वव्यवधानेन सामान्यानां सर्वसामान्यसङ्गतं समस्तं वस्त्विति मन्वानः शङ्कते ।
सामान्यवदिति ।
सर्वार्थाव्यवधाने ऽपि किं चिदेव वस्तु केन चिदेव सामान्येन सम्बद्धं न सर्वं सर्वेणेत्याशयवान्निराकरोति ।
नानभ्युपगमादिति ।
यद्यप्येकदेशस्थानां समानेन्द्रियग्राह्याणां सत्त्वनरत्वब्राह्मणत्वानां स्वरूपभेदसंस्थानयोनिव्यङ्न्यानां प्रतिनियतव्यञ्जकव्यङ्न्यत्वं तथा ऽपि समानदेशत्वाभावान्न व्यभिचारः ।
सत्त्वस्य पदार्थत्रयसमवायादधिकदेशतया नरत्वस्य ब्राह्मणवत् क्षत्रियादिषु सद्भावात्
ब्राह्मणत्वस्य क्षत्रियादिपरिहारात् कठ दिष्वेव भावाद् न्यूनाधिकदशतया न समानदेशत्वमिति ।
एतेन श्रोत्रसंस्कारे ऽप्यनिमो बोद्धव्यः
यथोन्मीलनसंस्कृतमिन्द्रियं समानदेशान्स्वग्राह्यान्सकृदेव दर्शयति न तु किं चिदेवेति सर्वमवदातम् ।
अपि च सर्वशब्दस्य ताल्वादिसंयोगव्यङ्न्यत्वे तदुपरमे विदूरे शब्देनोपलब्धव्यं न चोपलभ्यते ।
वायुसन्तानव्यङ्न्यत्वे तु प्रागुक्तनियमाभाव एव दोष इति शङ्कोत्तराभ्यां दर्शयति ।
यदिचेति ।
अपि चायं नित्यः शब्दः प्रादेशिको वा स्याद्व्यापको वा उभयथा ऽपि दोष इति शङ्कोत्तराभ्यां दर्शयति ।
निमित्तसन्निधाने चेति ।
( २८९ । १० ) स्यादेतत् ।
मा भूद्रायुसन्तानो व्यञ्जकः सन्ति खलु वायुगुणा नादास्ते ऽस्य शब्दस्य व्यङ्क्तापर इत्यत आह ।
नादोपलब्धौ चेति ।
न तावन्नादो नाम वायुगुणः कश्चिदुपलभ्यते,
अभ्युपेत्यापि ब्रूमः ।
नादोपलब्धावपि यत्र वायुस्तत्र तद्गुणो ऽङ्गीकर्तव्यः न च विप्रकृष्टेनपुरुषेण शब्देपलब्धौ तत्र वायुरस्ति तद्गुणो वा नादः वायुसन्तानगमनं चात्मिन् पक्षे नेष्यते यस्माद्विमकृष्टेन पुरुषेण शब्दोपलब्धेन व्यञ्जको नाद इति ।
स्यादेतत्
मा भूद्वायुसन्तानो मा च भूत्तद्गुणो नादः शब्दस्य व्यञ्जको वायवीयास्तु संयोगविभागा व्यञ्जका भवन्तीत्यत आह ।
एतेनेति ।
यस्तु मन्यते प्रत्यभिज्ञैव भगवती शब्दस्येमसाधिनी तदानुगुण्याय व्यापिनः शब्दस्य गुणस्य द्रव्यस्य वा प्रयत्नप्रेरिता वायवो यावद्वेगं प्रतिष्ठमानाः श्रोत्रं श्रोत्रावच्छिन्नशब्दविशेषं वा संस्कुर्वन्तो व्यञ्जका इति कल्प्यते ।
न च समानदेशानां समानेन्द्रियग्राह्याणां नियतव्यञ्जकव्यङ्न्यत्वं न दृष्टमितीमं प्रसङ्गं प्रत्यभिज्ञा मृषति सो ऽयमनया बाधितविषयो विलीयत
इति तं प्रत्याह ।
कृतकवदुपचारात् ।
( २९० । १ ) अत्र चोपचारेण प्रयोगेण तत्कारणं शब्दभेदप्रत्ययमुपलक्षयति ।
अस्ति हि शुकसारिकामनुष्यवक्रप्रभवेषु गकारादिषु स्फुटतरा रूपभेदप्रत्ययाः पुंसाम् ।
एवं स्त्रीपुंसप्रभवेषु स्त्रीपुंसभेदप्रभवेषु च ।
न चेयमौपाधिकी न तु स्वरूपत इति वाच्यम् ।
तथा ह्यौगाधिकत्वमानुभाविकं वास्याद् यथा कुङ्कुमारुणा तरुणीति ।
उपपत्तिगोचरो वा यथा कृपाणधारायां जले व प्रतिबिम्बहेतौ रोचिष्णुतायां दीर्घश्यामतायां मुखस्य न तावदानुभाविकम्,
विदितोपाधेः खलुः तद्भवति यथा विदितकुङ्कुमस्य कुङ्कुमारुणेति ।
शुकादिभेदमविदुषो ऽपि च काण्डपटाद्यावृते शुकादौ शब्दभेदप्रत्ययो भवति यत एतदुन्नयति शुकोदीरिता मञ्जुतमा गाथेति ।
नाप्यौपाधिकत्वमुपपत्तिगोचरः
न हि शब्दस्वरूपसमवायिनो भेदस्यौपाधिकत्वे किचिदस्ति प्रमाणं मुखस्येव मणिदर्पणकृपाणगतस्य ।
न खलु विरुद्धपरमाणेषु दर्पणादिषु विरुद्धपरिमाणानां प्रतिबिम्बानामुत्पादः सम्भवति ।
शब्दानां तु संयोगविभागयोनीनां युक्तस्तद्भेदेन रूपभेदः ।
स्यादेतत् ।
तीव्रमन्दत्वादयो धर्माः परं भिद्यन्ते न तु तदाश्रयः शब्दः न ह्यन्यस्य भेनेनान्यो भेत्तुमर्हति अतिप्रसङ्गात् ।
न हि रूपरसादीनां युगपद्भाविनां वा क्रमभाविनां वा संयोगादीनां भेदे द्रव्यं भिद्यते ।
कथमेकस्यैव शब्दस्यापर्यायेण तीव्रमन्दत्वादिविरुद्धधर्मसंसर्ग इति चेत् ।
अत एवौपाधिको ऽस्तु मुखस्येवाभेदिनो ऽपर्यायेण कृपाणादिषु दीर्घपरिमण्डलत्वादिः ।
अत्रोच्यते, न वयं धर्मभेदमात्रेण धर्मिणो भेदमाचक्ष्महे किं तु धर्मभेदमात्रप्रथा उत धर्मिभेदो ऽपि प्रथत इति निरूप्यताम्, अस्ति हि गौर्गौरिति प्रथानुगमे ऽपि शुङ्ककपिलकपोतिकासु गोषु धर्मिभेदावगाहिनी प्रथा ।
अस्ति च धर्ममात्रभेदावगाहिनी प्रथा धर्मिणमभिन्नमाकलयन्ती यथा शालप्रान्थुः
वृथुलविशालवक्षाः प्रलम्बभुजो नीलोत्पलदलश्यामः सिंहास्यो नवाम्भोदध्वनिर्गम्भीरमधुरघोषश्चकोरेक्षणः क्षत्रिययुवेति ।
सेयं शुकशारिकामनुष्येषु युगपद्गकारानुच्चारयत्सु तीव्रमन्द्रानुनासिकादिगकारावगाहिनी प्रथा किमेकमेव क्षत्रिययुवानमिव गकारमनेकधर्मवन्तमालम्बते एको गकारो नानाधर्मेति किं वा यथेयं शुक्ला गौरियं कपिला गौरिति तथा तीव्रो ऽयं गकारो मन्दो ऽयं गकारो ऽनुनासिको ऽयमिति भवन्त एव विदाम्पव कुर्वन्तु ।
सेयं गोत्त्वमिव कपिलादियु गोविशेषेषु गत्वं तीव्रमन्दादिशब्दभेदेष्वालम्बमाना प्रत्यभिज्ञा च भेदप्रथा चोपपत्स्यते ।
अपि च युगपत्तीव्रमन्दत्वादिलक्षणविरुद्धधर्मसंसर्गादपि गकाराणां परस्परतस्तपनखद्योतवद्भेदमनुमिमीमहे ।
न चायं विरुद्धधर्मसंसर्गो न गकारादिनिवेशी किं त्वापाधिकः उपाधयश्च भिद्यन्त एव न गकार
इति साम्प्रतम् ।
गकापरसमवायिनः प्रतीयमानस्यासति बाधके औपाधिकत्वकल्पनायोगात् ।
प्रत्यभिज्ञानस्य च गत्वसामान्यालम्बनत्वेनोपषत्तेः ।
अपि चौपाधिकत्वपक्षे ताल्वादिसंयोगधर्मो वा तदभिघातप्रेरितध्वनिधर्मो वा तीव्रानुनासिकत्वादिः शब्दे समारोष्यत इत्यास्थेयम् ।
न चारोष्यमजानतामारोपः सम्भवति ।
न च ध्वनीनां ताल्वादिसंयोगविभागानां वा धर्मः श्रोत्रेण शक्यो ग्रहीतुं तदन्यधर्मवत् ।
न चैते तदार्नी प्रमाणान्तरेणोपनीयन्ते स्मृता वा येनारोप्येरन् ।
न च ध्वनिभेदसंस्कारवशाच्छ्रोत्रस्यैतादृशः सामर्थ्यभेद आविर्भवति ।
येन आरोप्याग्रहे ऽपि भ्रमो भवति ।
न च मण्डूकवसाक्ताक्षाणामिवानवगतास्मृतोरमाणामपि प्रथमाक्षसन्निपाताद्वंशेषूरगारोप इति साम्प्रतम् ।
सर्वासामेव भ्रान्तीनां प्रमाणगृहीतारोप्यारोपविषयग्रहणपुरःसरत्वनियमात् ।
तदनुसारेण मण्डूकवसाक्ताक्षाणामपि वंशेषूरगभ्रमो व्याख्येयः ।
वंशानां तावदस्ति भूयः सारूप्यमुरगेण तेन चैते तन्मात्रेण रूपेण शक्नुवन्ति गृहीताः स्मारयितुमुरगम् ।
एवमपि यदन्येषाम्भ्रमो न भवति तत्र सर्पाकारव्यावृत्तवंशग्रहो हेतुः मण्डूकवसाञ्जनं च वंशाकारपिधानमात्रहेतुः ।
न च प्रयमाक्षसन्निपातादेव भ्रम इति प्रामाणिकं क्षणभेदस्य दुर्जानत्वात् ।
च चागृहीतसर्पस्य भवतीति युक्तं शक्यं वक्तुम् ।
तस्मिन् जन्मनि जन्मान्तरेव वा सर्पग्रहसम्भवात् ।
ध्वनिधर्मस्त्वनुनासिकत्वादिरस्मिन्नेव जन्मनिजन्मान्तरे ऽप्यशक्यग्रह एव ।
तस्माद्वर्णसमवेतो ऽनुनासिकत्वादिः प्रतीयमानां वर्णधर्म एव नौपाधिकः तथा च युगपद्विरुद्धधर्मयोगात्परस्परमन्यत्वं गकारादीनामिति युक्तम् ।
तदनेनाभिसन्धिनोक्तं कृतकवदुपचारादिति ।
तदेतद्वार्तिककारो व्याचष्टे ।
तीव्रं मन्दमिति कृतकमुपचर्यत
इति ।
शब्दविषयत्वेन विरुद्धधर्ममुपलक्षयति ।
अपरानपि शब्दानित्यत्वहेतूनाह ।
कृतकवदुपचारादित्यनेनेति ।
सामान्यवत इत्येतावतैव जातिनिराकरणे सिद्धे विशेषग्रहणं साधर्म्यं सामान्यमिति भ्रमनिराकरणार्थम् ।
तद्धि प्रमेयत्वसत्त्वादिकं गुण इव जात्यादावप्यस्तीति ।
विशेषपदेन तु जातिग्रहणान्निवर्त्तितं भवति ।
उपलभ्यस्येति तूपरिष्टात्स्फुटीभविष्यतीति ।
शङ्कते तीव्रशब्दस्येति ।
तीव्रत्वधर्मान्वयव्यतिरेकानुविधायिप्रवृत्तिस्तीव्रशबदो न शब्दं धर्मिणमभिधातुमर्हतीति यथोक्तमात्रस्याक्षेप
इत्यर्थः ।
निराकरोति ।
न शब्दशब्देन समानाधिकरणस्येति ।
एतच्च व्यक्त्याकृतिजातयः पदार्थ इत्यत्र प्रतिपादयिष्यते ।
शङ्कते व्यञ्जकस्येति ।
स्वकारणात्खलु व्यञ्जकाच्छब्दज्ञानमुत्पन्नं तीव्रं मन्दं चेति ।
तेन तीव्रज्ञानज्ञेयः शब्दो ऽपि तीव्र इव मन्दज्ञानज्ञेयः शब्दो मन्द इव भासते न त्वाजानतो ऽस्य तीव्रत्वं मन्दत्वं वा येन भिद्यत इत्यर्थः ।
निराकरोति नाभिश्रवेति ।
अन्यत्खल्वन्येन समानजातीयेनाभिभूयते न तु तदेव तेन, न हि मध्यन्द्रिनोल्काप्रकाशसम्बन्धी पटः पटुना सावित्रेण प्रकाशेन प्रकाशमानमात्मानमात्मना ऽभिभवति ।
एवं गकारो ऽपि तीव्रध्वनिप्रकाश्यं गकारमात्मानमभिभवेत् ।
यदि त्वयं मन्दध्वनिप्रकाश्यो गकारस्तीव्रध्वनिप्रकाश्याद्गकारादन्यो भवति ।
ततो मध्यदिनोल्काप्रकाशः सवितृप्रकाशेन चाल्पत्वादभिभूयते इति युज्यते तदिदं शेषं भाष्यौक्तमिति ।
सत्यमन्यदन्येनाभिभूयते तथा ऽपि न गकारस्य नानात्वमपि तु तद्ग्रहणानां तेषां चाभिभाव्याभिभावकभावो न गकारस्येत्यनेनाभिप्रायेण शङ्कते ।
ग्रहणमिति ।
निराकरोति ।
न ग्रहणभेस्येति ।
अर्थभेदाधीननिरूपणो ग्रहणभेदो नार्थभेदमन्तरेण शक्यो निरूपयितुम्, न च भेदेनानिरूपितःप शक्यो ऽभिभाव्याभिभावकभावेन प्रत्येतुमित्यर्थः ।
नित्यं ग्रहणभेदः स्यादिति ।
ग्रहणभेददर्शनाभ्युपगमे नियतमर्थभेदो ऽभ्युपगन्तव्यः ।
तथा च सर्वमेव भिद्यत इति नाभिन्नं किं चिद्भवेत् ।
भेदो ऽपि न स्यादभेदाश्रयत्वाद्भेदस्येत्यर्थः ।
अभिश्रवानुपपत्तिश्चेति ।
( २९१ । १ ) यस्मिन्नेव क्षणे पूर्वं ज्ञानमुत्तरेणोत्पद्याभिभवनीयं तदैव तेन विनाश्यते न चासतो ऽभिभव
इत्यर्थः ।
साङ्ख्यमते ऽपि नाभिभव इत्याह ।
अभिभवेति ।
पराजितं साङ्ख्यं दृष्ट्वा नास्माकमयमस्त्यनुयोग
इति मन्वानो मीमाङ्गकः पुनः शङ्कते ।
सर्वत्रेति ।
निराकरोति नेति ।
साङ्ख्यश्चोदयति ।
यदि सन्तानवृत्तिरिति ।
परिहरति ।
शब्दसन्तानस्य निमित्तभेदाभिमुख्येनादौ प्राप्तेरिति ।
( २९१ । ८ ) निमित्तभेदो भेरीशङ्खताल्वादिश्च तदाभिमुख्येन यः कर्णशष्कुल्यवरुद्धस्य नभसः श्रोत्रस्य भागः स्थितस्तस्मिन्नादौ च
उत्षन्नः शब्दस्तस्य प्राप्तेः पूर्वादिदिगवस्थितशङ्खादिजन्मा ऽयं शब्द इत्यनुमीयते ।
एतदुक्तं भवति विशिष्टदिग्देशावस्थितशङ्खादिप्रभवशब्दसन्तानजन्यस्य तस् शब्दस्य को ऽपि धर्मभेदः श्रोत्रगोचरो यस्मात्तस्य विशिष्टदिग्देशावस्थितशङ्खादिप्रभवत्वमनुमीयते न चासौ सामान्यविशेषो ऽव्यपदेश्यत्वान्नास्ति ।
न हीक्षुक्षीरगुडादीनां मधुरत्वावान्तरसामान्यभेदः प्रत्यक्षवेदनीयाः शक्या अव्यपदेश्यतपया प्रत्याख्यातुम् ।
अनुभवश्च समानः ।
तस्मादानुमानिकः शब्दे दिग्देशप्रत्यय इति ।
यः शब्दसन्तान इति ।
सन्तनोतीति सन्तानः आद्यः शब्दो यो जायते स सन्तानोतीति सम्बन्धः यस्मात्तनिमित्तादभिमुखे नेति योजना ।
आद्यशब्देति ।
तदभिमुखभागयुक्तः शब्द इति ।
तदेवं स्वमतमुत्क्वा परमतमाह ।
एके त्विति ।
परोक्षे वक्तरीति शेषः ।
यद्यपि जात्यन्धानामपि कथं चिदभिमुखपृष्ठपार्श्वतः शब्दविवेकः सम्भवति तथापि पूर्वापरदिग्विभागो नास्तीत्यत उक्तं जात्यन्धानामिति ॥ १३-१४ ॥
न्य्स्_२,२।१६: सन्तानानुमानविशेषणात् ॥
एतच्चाभावे नास्तीति ।
( २९३ । ३ ) न सत्तांसबन्धो नोभयान्तावच्छिन्नत्वमित्यर्थः ॥ १५-१६ ॥
न्य्स्_२,२।१७: कारणद्रव्यस्य प्रदेशशब्देनाभिधानाद् नित्येष्वप्यव्यभिचार इति ॥
ननु यद्यन्यद्व्यापकत्वं नास्ति कथं तर्हि भवद्बिःकंषां चिद्व्यापकत्वमव्यापकत्वं च केषां चिदिष्यतैत्यत आह ।
वयं तु व्याप्तिमङ्गुलिरूपस्येति ( २९६ । ६ ) ।
यत्र यत्राश्रयोपलब्धिस्तत्र तत्र यद्वस्तूपलब्धियोग्यं सदुपलभ्यते तद्व्यापकं तेन बलाकाव्यापकमपि शौक्ल्यं मन्दमन्दालोके बलाकायामुपलभ्यमानायामपि नोपलभ्यते योग्यताभावात् ।
ईदृशं संयोगादीनां व्यापकत्वमशक्यं गुणत्वेन साधयितुमनुपलब्धिविरोधादित्याह ।
न पुनः शब्दादय इति ।
उपलब्धियोग्या इति शेषः ।
सर्ववस्तुविषयं च स्वाभिमत्तं व्यापकत्वाव्यापकत्वं सङ्क्षिप्याह ।
समुदितस्थानानामिति ।
समुदितस्थाना हि सत्तादयो गोत्वादयश्च व्यापका एकसमुदाथ्युपलम्भे ऽप्युपलब्धेः संयोगादयस्तु समुदितस्थाना अव्यापकाः
न ह्येते समुदायिन्येकस्मिन्निरूप्यन्ते, अपि तु समुदितेष्वेव एकाश्रयाणां रूपादीनां व्यापकानामव्यापकानां च शब्दबुद्ध्यादीनामाश्रयोपलब्धातुपलब्ध्यनुपलब्धी व्याप्त्यव्याप्ती इति योजना ।
एकसमुदायीत्यत्रैकग्रहणमशेषसमुदायिनिवृत्त्यर्थम् ।
न त्वेको विवक्षितस्तद्ग्रहणं वा तेन कतिपयावयवोपलब्धौ तदनुपलब्धौ चोपलभ्यमानो ऽवयवी व्यापकत्वेनोक्तो भवति ।
मूर्तिमत्त्वादिभ्य इत्यादिग्रहणेन स्पर्शवत्त्वाव्यापित्वादीनि गृह्यन्ते ।
कार्याकाशसंयोगो विप्रतिपत्तिविषय
इति ।
यदि कार्याकाशसंयोगमात्रं पक्षीक्रियते ततो विनश्यदाथारद्रव्यवर्तिनः संयोगस्येत्यस्त्यत
एव यावद्द्रव्यभावित्यमित्यपसिद्धान्तः स्यादित्यत उक्तं विप्रतिपत्तिविषय इति ।
तेनैवानैकान्तिकं स्यादत उक्तमविनश्यदाधारत्व
इति ।
तथा ऽपि पटस्य नीलीद्रव्यसंयोगेन यावद्द्रव्यभाविना ऽनैकान्तिकं स्यादित्यत
उक्तं क्रियावद्द्रव्यवृत्तित्वे इति ।
विवक्षितपरस्परविभागहेतुक्रियावत्त्वमिह ग्राह्यम् ।
क्व चित्पट्यते विप्रतिपत्तिविषया विभागिन आकाशादयः क्रियावद्द्रव्यसंयोगित्वात्परमाणुवदिति,
अत्र यद्याकाशादयो विभागिन इति साध्येत तत आत्मादिभिरपि विभागिनः स्युरित्यपसिद्धान्तः स्यादत उक्तं विप्रतिप्रत्तिविषया इति ।
ततो मूर्त्तेन विभागो न इन्यभिमतं लभ्यते ।
संयोगस्यचाव्याप्यवृत्तित्वपिति ।
प्रदेशवतोः खल्वामलकयोः संयोगो व्याप्यवृत्तिता संयोगस्याकाशादावपि प्रदेशवद्द्रव्यसामान्यं तेनाकाशादौ प्रदेशापचार इत्युक्तम्, सम्प्रति सामान्यान्तरौपचारबीजमाह एकस्य चेति ।
( २९७ । ४ ) यथा घट एको ऽनेकमूर्त्तिमद्द्रव्यसंयोगी प्रदेशवानेवमाकाशमित्यर्थः ।
कतमस्मिन्नर्थ इति प्रश्नः ।
तस्यार्थः। ॥। तत्त्वभाक्तयोर्नानात्वस्य विभागादव्यभिचारः ॥।
॥। सन्तानानुमानविशेषणात् ॥।
॥। कारणद्रव्यस्य प्रदेशशब्देनाभिधाना ॥।
दिति सूत्रैरेवानैकान्तिकत्वपरिहारादस्मिन्नर्थे सूत्रं न श्रूयते इत्ययुक्तमिति ।
उत्तरं निष्प्रदेशमाकाशमिति ।
न हि कारणद्रव्यस्य प्रदेशशब्देनाभिधानादिति सूत्रमाकाशादीनां निष्प्रदेशत्वं साक्षाद्
ब्रूतैत्यर्थः ।
एवं स्थिते भाष्यकारीयप्रश्ने वार्तिककारः स्वमुत्तरमाह ।
अर्थतो ऽधिगतेरिति ।
विषयान्तरं प्रश्नोत्तरयोराह शब्दसन्तानेति ।
भाष्यकारीयमुत्तरमाह द्वौ पक्षौ न व्यवस्थापयतीति भाष्यस्यार्थः निष्प्रदेशत्वमात्मादीनां शब्दसन्तानं च साक्षादाचक्षाणः सूत्रकारः पक्षं व्यवस्थापयेन्न तु तेनेदमभिहितमिति अनुमानतरोश्च पञ्चानां रूपाणां चतर्णां वा सम्पदः शाखा बहव इत्यर्थः ॥ १७ ॥
न्य्स्_२,२।१८: प्रागुच्चारणादनुपलब्धेरावरणाद्यनुपलब्धेश्च ॥
सतो ऽनुपलब्धिकारणाभाव
इति ।
( २९८ । २ ) प्राक्प्रध्वंसाभाभ्यां व्यभिचारो या मूदिति सत इत्युक्तम् ॥ १८ ॥
न्य्स्_२,२।१९: तदनुपलब्धेरनुपलम्भादावरणोपपत्तिः ॥
अत्र जातिवादिनः सूत्रद्वयं ॥। तदनुपलब्धेरनुपलम्भादावरणोपपत्तिः ॥।
आवरणानुपलब्धेस्तावदुपलब्धिर्न सम्भवति ।
अनुपलब्धिस्वरूपविरोधात् ।
तस्मापदावरणानुपलब्धिर्वक्तव्या तथा चावरणानुपलब्धेरभावे सत्यावरणोपलब्धिस्तया त्वावरणसद्भावः ।
ज्ञानस्य निरालम्बनत्वायोगात् ।
न्य्स्_२,२।२०: अनुपलम्भादप्यनुपलब्धिसद्भाववद् नावरणानुपपत्तिरनुपलम्भात् ॥
यदि पूर्वोक्तदोषभयादनुपलभ्यमाना ऽप्यावरणानुपलब्धिरस्ति तथा सत्यनुपलब्धेरनैकान्तिकत्वान्नाबरणाभावो ऽनुपलम्भादिति ।
तदिह द्वाभ्यां सूत्राभ्यामनैकान्तिकत्वं देशितम् ।
अस्यावतारभाष्यम् एवं च सति तत्त्वमिति ।
तदेत द्वार्तिककारो व्याचष्टे एवं चेति ।
सूत्रयोस्तात्पर्यं प्रश्नपूर्वकमेकत्र दर्शयति को ऽस्य वाक्यस्येति ।
अत्र सिद्धान्ती किं मत्र ज्ञेयं प्रत्यात्मवेदनीयत्वादिति ।
सिद्धान्त्याह एवंसतीति ।
यद्यावरणानुपलब्धिपरुपलभ्यते मानसेन प्रत्यक्षेण तदा नानैकान्तिकत्वं न चावरणसद्भावः ।
उत्तरवाक्यमिति ।
जात्युत्तरवाक्यमित्यर्थः ।
नास्योत्थानमस्तीति ।
न सूत्रद्वयस्याप्युत्थानमस्तीत्यर्थः ।
ननु पूर्वेणैव सूत्रेणावरणोपपत्तौ दर्शितायां कृतमनुपलम्भादित्यनेन सूत्रेणेत्यत
अह ।
अभ्यनुज्ञावादेनेति ।
पूर्वसूत्रेणानुपलब्धेरनुपलम्भादभाव
उक्तः इह त्वनुपलम्भादपि यद्यनुपलब्धेर्नाभावादिति तदनेनाभ्यनुज्ञाया अनैकान्तिकत्वमुच्यत
इति नापार्थकमेतत्सूत्रमित्यर्थः ।
सूत्रगतो ऽपिरभ्युपगमांशमवद्योतयति ।
एतदेवाह भाष्यकारः ।
यद्यप्यनुजानाति भवानिति ।
तदनेन सूत्रद्वयेनानैकान्तिकत्वमुक्तमिति स्थितम् ॥ १९-२० ॥
न्य्स्_२,२।२१: अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः ॥
अस्योत्तरसूत्रम्—
अनु–तुः (सू। २१) ॥
जातिवाद्यनुपलब्धेरनुपलब्धिर्नास्ति विरोधादिति मन्यते तत्र विधिविषयप्रमाणगोचरता ऽनुपलब्धौ विरुध्येत ।
ननु निषेधगोचरप्रमाणविषयता ऽपि, ततश्चोपलब्धिं निषेधता प्रमाणेन मनसा ऽनुपलब्धिग्रहणं न विरोधमावहति तदयं सूत्रार्थः ।
अनुपलब्धेरावरणानुपलब्धेरनुपलम्भात्मकत्वादावरणोपलब्धिनिषेधात्मकत्वात् तदनुपलब्धेरनुपलम्भादित्ययमावरणोपपत्तौ न हेतुः ।
असिद्धत्वाद्
निषेधविषयेणानुपलब्धेरनुपलम्भादिति ।
तदेतद्भाष्यकारो व्याचष्टे ।
यदुपलभ्यत इति ।
यदुपलभ्यते विधिविषयेण प्रमाणेन तदस्ति यन्नोपलभ्यते यन्निषेधविषयेण प्रमाणेनोपलभ्यते तन्नास्तीति ।
तस्मादनुपलम्भात्मकं निषेधविषयप्रमाणागम्यमसदिति स्थितम् ।
उपलब्ध्यभावश्चानुपलब्धिः सेयमभावत्वान्नोपलभ्यते विधिविषयेण प्रमाणेन ।
शेषं सुगमम् ।
अस्य वार्तिककारः परमतात्पर्यमाह ।
अतथाजातीयेनेति ।
अनुत्तरं जात्युत्तरमित्यर्थः ।
यथाजातीयक
इति ।
उपलब्धस्य हि शब्दस्यासत्यनुपलब्धिकारणे प्रागूर्द्धं चोच्चारणादनुपलभ्यमानस्यानित्यस्य सधर्मा नान्य आत्मादिर्दृष्टो ऽनित्य इति ।
ननु प्रागूर्द्धं चोच्चारणान्मा भूच्छब्द इति एतावता ऽपि नित्यान्तरवैधर्म्येण कस्मान्न नित्यः शब्दः न ह्यात्माकाशादयो नित्याः सर्वथाप सर्वेषां सधर्माणः मा भूदेषामभेद
इत्यत आह ।
उक्तं चेति ।
अनित्यत्वसाधनमाह ।
अनित्य इति ।
प्रत्यक्षत्वादित्युच्यमाने गोत्वादिभिर्व्यभिचारः स्यादत उक्तं व्यापकद्रव्ये समवाये सतीति ।
तथा ऽप्यात्मसमवायिनैकत्वेन व्यभिचारः स्यादत उक्तम् ।
अव्यापकस्यासमवाये सतीति ।
तथा ऽप्या त्मसमवायित्वस्येति अमूर्त्तत्वादित्युच्यमाने घटादिभिः प्रदेशवद्भिः प्रथमे क्षणे व्यभिचारो ऽत उक्तं सर्वदेति ।
तथा ऽपि क्रियागुणादिभिर्व्यभिचारस्तेषामपि हि समवायिकारणं प्रदेश इत्यत उक्तम् ।
द्रव्यस्य सत इति ॥ २१ ॥
न्य्स्_२,२।२२: अस्पर्शत्वात् ॥
न्य्स्_२,२।२३: न कर्मानित्यत्वात् ॥
न्य्स्_२,२।२४: नाणुनित्यत्वात् ॥
२३ ॥ २४ ॥ तदेवं स्वपक्षसाधनमुत्क्वा विप्रतिपत्तिनिमित्तं परपक्षसाधनमुपन्यस्य निराकरोति ।
अथ शब्दस्येति ।
( २९९ । १९ ) अस्पर्शेन कर्मणैवोभयतो व्यभिचारे लब्धे नित्येनाणुना व्यभिचारोद्भावनं कृतकत्वानित्यत्ववत्समव्याप्तिकत्वनिराकरणार्थं द्रष्टव्यम् ॥ २२-२४ ॥
न्य्स्_२,२।२५: सम्प्रदानात् ॥
न्य्स्_२,२।२६: तदन्तरालानुपलब्धेरहेतुः ॥
न्य्स्_२,२।२७: अध्यापनादप्रतिषेधः ॥
न्य्स्_२,२।२८: उभयोः पक्षयोरन्यतरस्याध्यापनादप्रतिषेधः ॥
न्य्स्_२,२।२९: अभ्यासात् ॥
न्य्स्_२,२।३०: नान्यत्वेप्यभ्यासस्योपचारात् ॥
अयं तर्हि हेतुः सम्प्रदानादिति ।
सम्प्रदीयमानत्वादित्यर्थः ।
दातृप्रतिग्रहीत्रोरन्तराले शब्दो ऽस्ति अध्यापनाद गुरुणा शिष्यापय दीयमानत्वाद धनूर्वेदविदाचार्येण शिष्याय दीयमानेष्वादिवदिति ॥ २५-३० ॥
न्य्स्_२,२।३१: अन्यदन्यस्माद् अनन्यत्वादनन्यदित्यन्यताभावः ॥
यद्यन्यन्नाम जगति भवेत् ततो न्यत्वे ऽप्यभ्यासस्योप चारादित्यनेनानैकान्तिकतवमुद्भाव्येत तदेव नास्तीति वाच्छलेन प्रत्यवतिष्टते ।
अन्य–वः (सू। ३१) ॥
न्य्स्_२,२।३२: तदभावे नास्त्यनन्यता तयोरितरेतरापेक्षसिद्धेः ॥
तस्य परिहारसूत्रम् ।
तद–द्धेः (सू। ३२) ॥
तयोरन्यानन्ययोर्मध्ये ऽनन्यस्यान्यापेक्षसिद्धेरित्यर्थः ।
न चान्यस्वरूपात्तदनन्यदिति परस्मादप्यनन्यद्भवितुमर्हति ।
न हि नीलमात्मनो ऽनन्यदिति पीतादप्यनन्यदिति ।
अन्यदेव हि पीतान्नीलमिति परमार्थः ।
अयं तावत्प्रत्ययः पुरुषान्तरे निबर्त्तमानो दृष्ट इति ।
( ३०२ । ९ ) यदा खल्वेकस्य पुरुषस्य तत्प्रत्ययो भवति तदा ऽवश्यं न पुरुषान्तरस्य,
तस्मात्प्रत्ययाव्यावृत्तिरसिद्धैवेति ।
एवमेतदिति ।
सत्यं विशेषदर्शनं तत्प्रत्ययनिवृत्तिहेतुः तदभावे तु विशेषादर्शनस्य न शक्यं संशयहेतुत्वं निवारयितुमित्यर्थः ।
यत्पुनरेतद्गोशब्द
इति ।
गोशब्दो गोशब्द इत्येकाकारः प्रत्ययो नैकमन्तरेण भवितुमर्हति ।
अथ भ्रान्तः कस्मान्न भवतीत्यत आह ।
न च गोशब्दस्येति ।
भ्रान्तत्वे हि ततो गोशब्दादर्थप्रत्ययो भ्रान्तः यथा समारोपितधूमभावया मशकवर्त्या धूमध्वजानुमानम् ।
तस्मादभ्रान्तो गोशब्दैकत्वप्रत्ययः स्थायितामस्य सूचयतीत्यर्थः ।
दूषयति एतदपीति ।
युक्ता तु कारणसामान्यात्तत्प्रत्ययस्याव्यावृत्तिरिति गोशब्दबुद्धेः कारणमालम्बम्न गोशब्दस्तस्य सामान्यं गत्वमोत्वं गोशब्दत्वमिति यावत् ।
तस्मात्तत्प्रत्ययस्य व्यावृत्तिर्युक्ता गोशब्दो गोशब्द इत्येवंरूपा ।
कथमिति प्रश्नः
गोबुद्धौ गोबुद्धिप्रत्ययो न व्यावर्त्तते जात्यभिप्रायमेकवचनं गोबुद्धाविति ।
यथा हि गोबुद्धिषुभिन्नास्वपि परस्परं गोबुद्धिर्गोबुद्धिरित्यनुगतावभासिनी प्रथा गोबुद्धित्वसामान्योपधाना स्वकारणभूता गोबुद्धीरालम्बते एवं गोशब्दो गोशब्द
इति षुद्धिरपि गोशब्दत्वोपधाना गोशब्दव्यक्तीर्न पुनर्गोशब्दव्यक्तिमेकामनेकदेशकालव्यापिनीम् ।
न चास्या गोशब्दबुद्धेरित्यत्रापि जातावेकवचनम् ।
गोशब्दो गोशब्द इति बुद्ध्यनुगतिः–सामान्यनिबन्धना अनुगतित्वे सति गोशब्दबुद्धिसम्बन्धित्वात् ।
गोशब्दबुद्धिर्गोशब्दबुद्धिरित्यनुगतबुद्धिवदिति ।
भिन्नमभेदेन विद्वान् यश्चानुपलब्धविशेष
एव निवर्त्तते तं प्रति तस्य वस्तुनः किं विशेषो ऽस्ति नास्तीति भवन्त एव प्रष्टव्याः ।
उभयत्र दोषमाह यद्यस्तीति ।
द्व्यात्मकमिति ।
भिन्नमभिन्नमित्यर्थः ।
अशेषपुरुषविषयतयेति ।
आधारतयेत्यर्थः
॥ ३२ ॥
न्य्स्_२,२।३३: विनाशकारणानुपलब्धेः ॥
न्य्स्_२,२।३४: अश्रवणकारणानुपलब्धेः सततश्रवणप्रसङ्गः ॥
कारणद्रव्यविभाग ।
इति ।
( ३०३ । ५ )
विभागेनासमवायिकापरणसंयोगविनाशो लक्षितः तत्कार्यत्वात् ॥ ३३-३४ ॥
न्य्स्_२,२।३५: उपलभ्यमाने चानुपलब्धेरसत्त्वाद् अनपदेशः ॥
अनपदेशो ऽहेतुरित्यर्थः ।
उभयमितीति ।
यदा क्रमेलकंविषाणित्वादश्वत्वेन साधयति तदा ऽस्य न विषाणं नापि तत्सम्बन्धः
यथा विषाणित्वं क्रमेलके ऽसिद्धं तथा ऽनुमानेन विनाशकारणोपलब्धौ तदनुपलब्धिरसिद्धेति ।
अश्वविषाण सम्बन्धस्याभावादिति ।
अश्वत्वविषाणत्वयोर्यतः को ऽपि सम्बन्धो ऽश्वेषु सिद्धो नास्ति तस्माद्विरोधादनुमानमेतदशाभनमित्यर्थः ।
तस्माद्यथा विरुद्धाद्धेतोरनुमानमसदेवमसिद्धादपीत्यर्थः ।
शङ्कते कर्मत्ववदिति चेत् ।
निराकरोति ।
तच्च न आश्रयस्यानित्यत्वात् ।
कर्मत्वाश्रयः कर्म तस्यानित्यत्वादित्यर्थः ।
शब्दस्य नित्यस्याश्रवणमनुपपन्नम् अश्रवणकारणानुपपत्तेरिति ब्रूमः ।
तन्नाश्रयानित्यत्वादिति ग्रहणकवाक्यं विभजते ।
कर्मत्वस्य पुनरिति ।
प्रतिघातिद्रव्यसंयोगस्त्वन्त्यस्य शब्दस्य निरोधक इति भाष्यम् ।
तस्यार्थः ।
प्रतिघातिद्रव्यं कुड्यादि तत्संयोगो नभसः ।
एतदुक्तं भवति घनतरद्रव्यसंयुक्तं नभो न शब्दसमवायिकारणतां प्रतिपद्यते ततश्च सन्नप्यसमवायिकारणं शब्दो न शब्दान्तरमारभते तस्य व स्वकारणं तत्कारणस्य तस्माद्विनाशो भवतीति द्रष्टव्यम् ।
एवमन्यत्रापीदृश एव शब्दविनाशहेतुरूहनीय
इति ।
इतश्च शब्दो ऽनित्य इत्याह ।
घण्टायामश्रिहन्यमानायामिति ।
यदि घण्टास्थेन व्यञ्जकेनान्यवृत्तिना वा ऽवस्थितेन सन्तानवृत्तिना वा नित्यः शब्दो व्यज्येत ततस्तारतारतरतारतममन्दमन्दतरादिश्रुतिभेदो न स्यात् ।
नित्यस्य च शब्दस्य न स्वाभाविको भेदो नाप्यौपाधिक इत्युपपादितमधस्तात् ।
यदि तु तारतमादयस्तावन्त एव शब्दा नित्यास्ततस्तावन्त एव युगपदेव गम्येरन् विशेषाभावाद् एकोह्येषां व्यञ्जकः स्थिर इति ।
अथ सन्तानवृत्तिस्तथा ऽपि सर्व एव तत्सन्ततिपतिताः समर्था इत्याद्येनैव सर्वे व्यज्येरन् न तु समानदेशानां समानेन्द्रियग्राह्याणां व्यञ्जकनियमो युक्त इत्युपपादितमधस्तात् ।
कारणत्वे तु धण्टास्थस्य सन्तानवृत्तेर्युक्तं यत्तारतमादिभेदेन कारणभेदात्कार्यभेद इति ।
तात्पर्यार्थः ।
युगपदनेकशब्दोपलब्धिप्रसङ्ग इति ।
( ३०४ । ५ ) अनेकस्य तारतमादेः शब्दस्योपलब्धिप्रसङ्ग
इत्यर्थः ।
घण्टास्थं चाभिव्यक्तिकारणं कथमन्यत्र वत्त्रमानमिति ।
श्रोत्रे वर्तमानमित्यर्थः ।
द्वितीयं कल्पमाशङ्क्य दूषयति ।
अथान्यगतमिति ।
घण्टासबन्ध्येष शब्द इति हि तावल्लौकिकप्रत्ययः सो ऽयमन्यगते शब्दव्यञ्जके यथैकस्यां धण्टायां भवति तथा घण्टान्तरेष्वपि तत्प्रत्यासन्नेषु भवेदविशेषात् ।
तस्मादेकघण्टास्थत्वे नियमहेतुर्वक्तव्य
इति ।
असति शब्दभेदे श्रुतीनामिति ।
शब्दज्ञानानामित्यर्थः ।
नाद इति वायुधर्मो ऽभिधीयत इति शङ्क्तते व्यामोहप्रत्यय इति ।
यथा हि वस्तुतः स्वच्छधवले स्फटिकमणौ लाक्षारसावसेकतिरस्कृतधवलिम्नि लोहितः स्फटिक इति प्रत्ययः एवमभिव्यञ्जकवृत्तिस्तारत्वादिर्भ्रान्त्याः शब्दे प्रतीयते इत्यर्थः ।
निराकरोति ।
न विशेषहेत्वभावादिति ।
न हि समीचीनात्प्रत्ययात्तारो ऽयं शब्द इति प्रत्ययस्य कश्चिद्विशेषहेतुरस्ति बाधकप्रत्ययो येनैष मिथ्याप्रत्ययः स्यादित्यर्थः ।
न च निर्बीजा भ्रान्तिरपि सम्भवितुमर्हति दीर्घत्वादिभ्रमाणाम्प तु शब्दे ऽस्ति बीजमित्याह ।
यदि चायमिति ।
यानि खलु दीर्घाणि वंशप्रभृतीनि एषामवयवो वा ऽपचयः समानजातीयोपचय
इहाप्यविरतभृतौ शब्दसन्ताने विवृतकारणनिष्पन्ने समस्ति समानजातीयोपचय
इति तत्साधर्म्याद् दीर्घत्वभ्रम एव शब्दसन्तान
एव तारो महानित्युच्यते तत्राप्यस्ति समानजातीयोपचयो ऽस्ति च स्फुटतरत्वं महानपि स्फुटतरो ऽयमपि तथेति महानित्युच्यते ।
शङ्कते तुल्यमिति चेत् ।
यथा ह्यनित्यवादे घण्टास्थमवस्थितं सन्तानवृत्ति न युगपत्तारमन्दानुत्पादयति र्कि तु क्रमणैव एवं नित्यानपि शब्दान् क्रमेण व्यङ्क्ष्यतीत्यर्थः ।
निराकरोति ।
न तन्निमित्तस्य कदा चिद्भावात् ।
न तावन्नित्यवादिभिस्तारत्वादिधर्मभेदेन शब्दभेदो ऽभ्युपेयते तथा चैकेनावस्थितेन घण्टास्थेन सन्तानवृत्तिना व्यज्यमान एकस्मिन् शब्दे नित्यं श्रुतिभेदः कादाचित्को नोपपद्यते ।
शब्दे त्वनित्ये ऽन्पयस्मिन्नन्यस्मिन् क्रियमाणे सन्तानवृत्तिना कारणेन तद्भेदात्कार्यत्वात्कादाचित्कत्वाच्च श्रुतिभेदोपपत्तिरिति वैषम्यमित्यर्थः ।
तच्च कारणमिति ।
( ३०५ । ८ )
निमित्तकारणमित्यर्थः ।
पाणिसंश्लेषमपेक्षमाणादिति ।
स्पर्शवद्वेगवद्द्रव्यसंयोगाद घण्टायां कर्म कर्मवद्घण्टाकाशसंयोगात्तादृशाच्छब्दश्चेत्येकः कालः तत्कर्म पाण्यभिधातमपेक्षमाणं विभागसमकालं संस्कारं घेगाख्यं करोति ।
सा घण्टा चलन्त्याध्यात्मिकं वायुमुपगृह्णाति घण्टातदवयवसंयुक्ता वायुपरमाणव
एवाध्यात्मिको वायुः तदुपग्रहो घण्टानयाः स्ववेगमपेक्षमाणाया वायुसंयोगाद्वायौ क्रियोत्पादकत्वं ततश्चानिलकर्मणो घण्टानिलसंयोगो वायुगतवेगापेक्षो घण्टायां कर्मारभते ।
तदिदमाह सा च वायुना ऽभिहता पुनः कर्म करोति ।
तदेवं वायुघण्टासंयोगो घण्टावेगापेक्षो घण्टाकाशसंयोगश्च शब्दमारभत इति द्रष्टव्यम् ।
ततश्च कर्मणा संस्कारः संस्कारेण पुनः कर्म शब्दश्चेत्यपि द्रष्टव्यम् ।
सुगममन्यत् ॥ ३५ ॥
न्य्स्_२,२।३६: पाणिनिमित्तप्रश्लेषाच्छब्दाभावे नानुपलब्धिः ॥
देशयति अथ घण्टास्थ
इति ।
न खलु कारणविनाशे कार्योच्छेदो, मा भूत्कुलालादिनिवृत्तावपि घटादिनिवृत्तिरित्यर्थः ।
परिहरति न ब्रूम
इति ।
यद्यपि निमित्तनिवृत्तावपि कार्यं निवर्त्तते यथा ऽपेक्षाबुद्धिनाशाद्
द्वित्वादि तथा ऽपि निमित्तनिवृत्तावपि तदनिवृत्तिमभ्युपगम्यैव परिहार इति मन्तव्यम् ॥ ३६ ॥
न्य्स्_२,२।३७: विनाशकारणानुपलब्धेश्चावस्थाने तन्नित्यत्वप्रसङ्गः ॥
सिंहावलोकितन्यायेन पूर्वोक्तं हेतु दूषयति ।
विनाशेति ।
( ३०६ । ३ ) प्रत्यक्षेण शब्दविनाशकारणानुपलब्धेश्चावस्थाने शब्दस्य शब्दोपलब्धेरपि नित्यत्वप्रसङ्गः ।
न हि तस्या अपि विनाशकारणं प्रत्यक्षेणोपलभ्यत इति तदनेन विनाशकारणानुपलब्धिरित्यस्यानैकान्तिकत्वमुद्भावितम्
॥ ३७ ॥
न्य्स्_२,२।३८: अस्पर्शत्वादप्रतिषेधः ॥
सम्प्रति साङ्ख्यः प्रत्यवतिष्ठते ।
कम्पसमानाश्रयस्येति ।
अनुवृत्तो नादः शब्दो ऽनुनाद इति ।
वैयधिकरण्ये हीति ।
द्रव्यप्रश्लेषासमानाधिकरणस्यैवव संस्कारस्योच्छेदः स्याद् न व्यधिकरणस्य शब्दस्य, व्यधिकरणस्य तूच्छेदाभ्युपगमे ऽतिप्रसङ्गः स्यात् तस्मात् कम्पसन्तानसंस्कारसमानाश्रयः शब्दो ऽभ्युपगन्तव्यः ।
तदनेनाकाशाश्रयत्वं शब्दस्य प्रतिषिद्धं तदेतद्वार्त्तिककारो व्याचष्टे ।
व्यधिकरणत्वादयुक्तमिति ॥
अस्योत्तरसूत्रम् ।
अस्प–धः (सू। ३८) ॥
प्राप्यकारित्वमिन्द्रियाणां व्यवस्थितं प्राक् ।
घण्टाद्याश्रयः शब्दो न श्रोत्रं प्राप्नोति ।
एवं हि प्राप्नुयाद् यदि घण्टा कर्णशष्कुलीमागच्छेत् कर्णशष्कुली वा घण्टाम्, न चैतदुभयमस्ति ।
न चाहङ्कारिकमिन्दियं व्यापीत्युक्तम् ।
तस्माच्छब्दाधारो निःस्पर्शो व्यापी वाकाशस्तदाधारः शब्दः श्रोत्रमायाति सन्तानवृत्त्येति युक्तं तथा च श्रवणमस्योपपन्नं नान्यथेति ।
तदेतद्वार्त्तिककृद्विभजते,
अस्पर्शेति ।
येन केन चिदिति ।
मन्दतरेण वा मन्दतमेनवा कारणशब्देनेत्यर्थः ।
अनेकः संस्कार इति तत्त्वं शब्दभेदादिति ।
एकस्य हि संस्कारस्य धर्मभेदकल्पनायां कल्पनागौरप्रसङ्गः संस्कारस्तावदेको धर्मो धर्मभेदाश्चेति ।
तदिह धर्मभेदस्थाने ऽस्तु संस्कारभेदः कृतमत्रैकेन धर्मिणा ।
न च संस्कारभेदेषु धर्मभेदाः कल्पनीयाः संस्कारभेदमात्रादेव कारणात्कार्यभेदोपपत्तौ तद्गतधर्मभेदकल्पनावैयर्थ्यादिति भावः।यस्य च वैशेषिकस्यैकः संस्कारस्तस्येषोः पातः प्राप्नोति संस्कारस्य हीषोर्मूर्तद्रव्यसंयोगो विनाशको ऽविनाशको वा, विनाशकश्चेद्
आद्येनैव मूर्त्तद्रव्यसंयोगेन तस्य विनाशादगत्वैव यावद्गन्तव्यमिषोः पातप्रसङ्गः ।
द्वितीये तु कल्पे कृतकस्यापि संस्कारस्य विनाशकारणाभावेनाविनाशान्न कदा चिदपि पातः स्यात् प्रयोगश्च इष्वादिवेगः क्षणिकः वेगत्वात् घटादिगतवेगवदिति ॥ ३८ ॥
न्य्स्_२,२।३९: विभक्त्यन्तरोपपत्तेश्च समासे ॥
विभ–से ( सू। ३९ ) ॥
सङ्ख्यानां रूपरसगन्धस्पर्शशब्दसमुदायो वीणावेणुशङ्क्षादिद्रव्यं तत्र समासे समुदाये स्थित एव व्यज्यत इति दर्शनं तस्मिन्समुदाये साङ्ख्याभिमते विभक्त्यन्तरोपत्तेश्च न व्यज्येत शब्दः यदि समुदाये व्यज्येत शब्दः विभक्तिश्च षड्जधैवतगान्धारादिभेदेन विभागान्तरं च षड्जजातीयस्यैव तारमन्द्रादिरूपं नोपपद्यते न हि तद्गतानां गन्धादीनामेकस्मिन्नेव द्रव्ये वीणादौ नानाजातीयानां च प्रतिक्षणं भेदो दृश्यते तस्माद्विभक्त्यन्तरोत्पत्तेर्न समासे व्यज्यते शब्दः अपि त्वाकाशगुणः क्रियत इति साम्प्रतम् ।
सूत्रव्याख्ययैव भाष्यवार्त्तिके व्याख्याते ॥ ३९ ॥
न्य्स्_२,२।४०: विकारादेशोपदेशात् संशयः ॥
तदेवं रूपादिसन्निविष्टः शब्दो व्यज्यत इति साङ्ख्यमते दूषिते स एव साङ्ख्यो वर्णेषु प्रकृतिविकारभावश्रुतेर्मृत्सुवर्णादिवत्परिणामिनित्या वर्णा इति यदि प्रत्यवतिष्ठते तत्र परीक्षामारभतेदिविधश्चायं शब्द इति ।
विकारोपदेशो ऽपि न ध्वनिमात्रे शब्दे ऽस्तीति न तस्य परिणामिनित्यतामापादयितुमर्हति केवलं वर्णात्मन्यापादयेद् यद्यसन्देहः स्याद्, अस्ति तु तत्रापि सन्देहः ।
तथा हि इको यणचि इत्यादिकं विकारोपदेशमाचक्षत एके ।
अन्ये त्वादशोपदेशम्, तत्र व्याख्यातृविप्रतिपत्तेः संशयः ।
तन्नापरीक्ष्य शक्यमवधारयितुमित्यर्थः ।
तत्र परीक्षायामादेशोपदेशस्तत्त्वमित्यवधारयते ।
आदेशोपदेश इति ।
सुवर्णजातीयाः खल्ववयवा अन्यतमव्यूहपरित्यागेनान्यतमं व्यूहमापद्यमाना रुचक इति वा वर्द्धमान
इति वा परिणमन्ते, अस्ति हि तेषु सर्वेषु सुवर्णजातीयानामवयवानामनुगमः
न तु यकारे इकारस्य वा तदारम्भकस्य वा अवयवस्यानुगममीक्षामहे ।
तस्माद्विकाराभाबादादेशत्वमस्य निश्चिनुम इति ।
उपपत्त्यन्तरं चाविकारे दर्शयति ।
भिन्नकारणयोश्चेति ।
यदि हीकारविकारो यकारः स्याद् यकारप्रयोगायेकारमुपाददानास्तत्कारणं विवृतकरणं पूर्वमुपाददीरन् ।
तन्निरपेक्षास्तु यकारं प्रयोक्ष्यमाणा ईषत्स्पृष्टकरणमुपाददते तस्मान्नेकारविकारो यकार इत्युत्पश्यामः ।
उपपत्त्यन्तरमाह ।
अविकारे चेति ।
कारकज्ञापकयोर्हेत्वोरविशेषमाह ।
उभयत्रेति ।
उपपत्त्यन्तरमाह ।
प्रयुज्यमानेति ।
यथा हि क्षीरं कालविपाकापेक्षं दधि भवद्दृश्यते न तथेकारो यकारो भवन्नित्यर्थः ।
यदि न विकारः कथं तर्हि शब्दान्वाख्यानमिको यणर्चात्यत आह ।
अविकारे चेति ।
इकः प्रयोगप्रसङ्गेः संहितायां यणः प्रयोगमाह तत्सूत्रे न पुनरिग्विकारं यणमित्यर्थः ।
ननु मा भूद्विकारः परिणामोर् ऽथान्तरं तु भविष्यति ततो नित्यावर्णा भविष्यन्तीत्यत आह ।
एतावच्चैतदिति ।
परिणामो वेत्यापाततः कार्यकारणभावो वेति परमार्थः ।
न जातु क्षीरं तदवयवा वा दधिरूपेण परिणमन्ते न ह्यवयवा अवयविस्वभावाः
तस्मात्कार्यकारणभाव एव तात्त्विक इति ।
स च वर्णेषु नास्ति इगनपेक्षस्य यणो निष्पत्तेः ।
तस्मादिक्प्रयोगप्रसङ्गे संहितायां यणः प्रयोग इत्यन्वाख्यानार्थ इति ।
इतश्चायमादेशोपदेश
इत्याह ।
वर्णसमुदायेति ।
वर्णस्यैकस्य वास्तवत्वात् कदाचिद्विकार उपपद्यते बुद्धिः समाहारमात्रस्य तु तत्समुदायस्य न विकारसम्भवः ।
तस्मात्तत्राकामेनाप्यादेशोपदेशो वक्तव्यः ।
स वरं कॢप्तत्वादेकस्मिन्नप्यस्तु वर्ण इति इत्यर्थः ॥ ४० ॥
न्य्स्_२,२।४१: प्रकृतिविवृद्वौ विकारवृद्धेः ॥
इतश्च न प्रकृतिविकारभावः ।
प्रकृतिविवृद्वाविति ।
महद्भिः खलु तूलपिण्डैरारब्धः स्थूलः पिण्डो ऽल्पैश्चारब्धो महानल्प इति दृष्टं तद्वदिहापि दीर्घेकारविकारस्य यकारस्येकारविकाराद्भवितव्यं विशेषेण, न चास्ति विशेषः तस्मान्न प्रकृतिविकारभाव
इत्यर्थः ॥ ४१ ॥
न्य्स्_२,२।४२: न्यूनसमाधिकोपलब्धेर्विकाराणामहेतुः ॥
अस्याक्षेपसूत्रम्—
न्यून–तुः ( सू। ४१ ) ॥ अल्पेन हि न्यग्रोधवीजेनारब्धो न्यग्रोधतरुर्महान् ततो ऽतिमहता वा नारिकेलबीजेनारब्धो नारिकेलतरुरल्पः नारिकेलबीजैरेव परस्परापेक्षमाणसमैरारब्धः सम इति ।
अस्य प्रत्याचयानसूत्रम् ।
द्विविधस्यापि हेतोरिति ।
यदि च न्यूनसमाधिकोपलब्धेरिति साधनं तदा द्विविधस्य हेतोरभावाद्
दृष्टान्तमात्रस्य चासाधकत्वात् ।
प्रतिदृष्टान्तस्य च सम्भवादित्येतद् दूषणम् ॥ ४२ ॥
न्य्स्_२,२।४३: नातुल्यप्रकृतीनां विकारविकल्पात् ॥
यदि च न्यूनसमाधिकोपलब्धेरित्यनेनानैकान्तिकोद्भावनं प्रकृत्यनुविधानस्य क्रियते तदा दूषणपक्षे नातुल्यप्रकृतीनां विकारविकल्पादिति दूषणम् ।
अनैकान्तिकदोषस्यासम्बन्धत्वं नाम न्यूनसमाधिकत्वे तु प्रकृत्यनुविधानं विकापराणामप्रच्युतम् ।
तथा ह्यतुल्यायाः प्रकृतेरिवकारा विकल्प्यन्ते प्रकृतिभेदमनुविधीयन्ते, न जातु न्यग्रोधबीजाद्
नारिकेलपादपो भवति भवति च न्यग्रोधबीजान्न्यग्रोधपादप
इति ।
एतदुक्तं भवति प्रकृतिभेदानुविधानं विकारभेदानां ब्रूमोप न पूनस्तद्विवृद्धिह्रासाभ्यां तद्विवृद्धिह्रासौ येनानैकान्तिकत्वमुद्भाव्येत तस्मादनैकान्तिकोद्भावनमसम्बद्धामित्यर्थः ।
न त्विवर्णमनुविधीयते यकार इति भाष्यम् ।
तस्यार्थो न त्विवर्णभेदमनुविधीयते इति ।
तस्मादनुदाहरणं न्यूनसमाधिकभावे द्रव्यविकार इति ॥ ४३ ॥
न्य्स्_२,२।४४: द्रव्यविकारे वैषम्यवद् वर्णविकारविकल्पः ॥
अस्याक्षेपसूत्रम्— द्रव्यविकार इति ।
( ३०८ । १ ) न प्रकृतिभेदमवश्यमनुविधीयन्ते विकाराः द्रव्यत्वेन तुल्यत्वे ऽपि प्रकृतीनां विकारवैषम्यं तथा च दीर्घह्रस्वाभ्यां वैषम्ये विकारवैषम्यं भविष्यति प्रकृतिसाम्यैव विकारवैषम्यम् इति भावः ॥ ४४ ॥
न्य्स्_२,२।४५: न विकारधर्मानुपपत्तेः ॥
तत्र प्रत्याख्यानसूत्रम् ।
न विकारधर्मेति ।
यद्यपि प्रकृतेर्द्रव्यत्वमभेदस्तथा ऽपि विकारभेदे प्रकृतिभेद एवोपयुज्यते न पुनः प्रकृतेरभेदः
तद्विकाराणां तु यदभिन्नं रूपं द्रव्यत्वं तत्र तस्योपयोग इति स्थिते परिहारो ऽन्वय
(स्याक्षेपसूत्रं द्रव्येविकार इति।) ग्रहणं परिहार उक्तः ॥ ४५ ॥
न्य्स्_२,२।४६: विकारप्राप्तानामपुनरापत्तेः ॥
इतश्च न सन्ति वर्णविकारा इत्याह ।
विकारेति ।
नो खलु क्षीरविकारो दधि पुनः क्षीरं दृष्टमित्यर्थः ।
अननुमानादिति प्रमाणाभावमुपलक्षयति ॥ ४६ ॥
न्य्स्_२,२।४७: सुवर्णादीनां पुनरापत्तेरहेतुः ॥
अस्याक्षेपः सुवर्णादीनामिति सूत्रम् ।
साधनपक्षे दूषणं व्यभिचारादिति ॥ ४७ ॥
न्य्स्_२,२।४८: न तद्विकाराणां सुवर्णभावाव्यतिरेकात् ॥
दूषणपक्षे दोषमाह ।
सुवर्णोदाहरणोपपत्तिश्चेति ।
तथा हि ।
ये सुवर्णजातीय अवयवा रुचकत्वमापन्नास्त एव पूर्वव्यूहपरित्यागेन वर्धमानतामापन्नाः पुना रुचकत्वमापद्यन्ते तदवयवानां तत्र प्रत्यभिज्ञायमानत्वात ।
न त्विहेकारो यकारानुगत इकारयकारानुगतो वा ऽन्यः कश्चिद्धर्मी दृश्यते य इत्त्वं परित्यज्य यत्त्वमापद्यते वर्णत्वं त्वनुगतमपि न धर्मि,
किं तु धर्म एव ।
न च निवर्तमान ईकारो यकारस्य धर्मो भवितुमर्हति धर्मधर्मिणोः समानकालत्वादित्यर्थः ॥ ४८ ॥
न्य्स्_२,२।४९: नित्यत्वे ऽविकारादनित्यत्वे चानवस्थानात् ॥
ननु दध्यत्रेति प्रयोगे कदेकारस्योत्पद्य निरोधः ।
तथा दधि अत्रेति प्रयोगे कदा यकारस्योत्पद्य निरोध इत्यत आह ।
तदेतदवगृह्य सन्धान इति ।
अवग्रहो ऽसंहिता दधि अत्रेत्युच्चार्य दध्यत्रेत्युच्चार्यते दध्यत्रेति वा सन्धाय दधि अत्रेत्यवगृह्यतैत्यर्थः ।
॥ ४९ ॥
न्य्स्_२,२।५०: नित्यानामतीन्द्रियत्वात्तद्धर्मविकल्पाच्च वर्णविकाराणामप्रतिषेधः ॥
जातिवादी प्रत्यवतिष्ठते ।
नित्यपक्षे तावदिति ।
यथा हि सत्यपि नित्यत्वे के चिदतीन्द्रियाः यथा परमाण्वाकाशादयः के चिदैन्द्रियकाः यथा गोत्वादयः एवं सत्यपि नित्यत्वे परमाण्वाकाशादयो न प्रकृतिविकारभूताः
वर्णास्तु प्रकृतिविकारभावमापत्स्यन्ते ।
नित्या अपत्यिर्थः ।
सेयं विकल्पसमा जातिरित्याह ।
विरोधादिति ।
न खल्वैन्द्रियकत्वानैन्द्रियकत्वाभ्यामस्मि कश्चिन्नित्यत्वस्य विरोधः ।
प्रकृतिविकारभावेन त्वस्ति, न हि सम्भवति कार्यं च नित्यं चेत्यर्थः ।
॥ ५० ॥
न्य्स्_२,२।५१: अनवस्थायित्वे च वर्णोपलब्धिवत् तद्विकारोपलब्धिः ॥
अनित्यपक्षे जातिवाद्याह ।
अनवस्थायित्वे चेति ।
यथा सत्यप्यनवस्थायित्वे वर्णा इन्द्रियेण सम्बध्य स्वविषयं ज्ञानं जनयन्ति एवं विकारमपि करिष्यन्तीत्यर्थः ।
सेयं साधर्म्यसमा जातिरित्याह ।
असम्बन्धादिति ।
कतिपयक्षणावस्थानेन वर्णानां क्षणिकानामपि स्वविषयज्ञानहेतुभावो युज्यते अवगृह्य चिरं स्थित्वा यदा सन्धीयते सन्धाय वा चरिं स्थित्वा यदा विगृह्यते तदा वर्णानामनित्यानां न तावन्तं कालमवस्थानमस्तीति नोपलब्धिहेतुत्वेन विकारकृतत्वं वर्णानां तुल्यम् ।
तस्मादसम्बन्धादसमर्था वर्णोपलब्धिर्वर्णविकारप्रतिपाद इत्यर्थः ।
माभूद्रर्णोपलब्धिर्वर्ण्णविकारेण साक्षात्सम्बद्धा ओदशविरोधितया तु तन्निवृत्त्या पारिशेष्याद्विकारं साधयिष्यतीत्यत आह ।
न च वर्णोपलब्धिरिति ॥ ५१ ॥
न्य्स्_२,२।५२: विकारधर्मित्वे नित्यत्वाभावात् कालान्तरे ऽविकारोपपत्तेश्चाप्रतिषेधः ॥
तदेवं जात्युत्तरमुत्थितमेव मारितं कृत्वा भाष्यकारो ऽत्रैवार्थे सूत्रं पठति ।
विकारधर्मित्व इति ।
वार्तिकम् उपलभ्यमानस्य चेकारस्य यत्वानुपपत्तेरिति ।
( ३०९ । १७ ) अवगृह्य चिरं स्थित्वा सन्धाय यदा यत्वं तदोपलभ्यमानतेकारस्य नास्तीत्यर्थः ॥ ५२ ॥
न्य्स्_२,२।५३: प्रकृत्यनियमाद् वर्णविकाराणाम् ॥
इतश्च वर्णविकारानुपपत्तिः ।
प्रकृत्यनियमादिति ।
क्षीरजातीयस्य दधिजातीयो विकारो न पुनः कदा चिदपि दधिजातीयस्य क्षीरजातीया विकारा उपलभ्यन्ते ।
इह तु यथेकारजातीयस्य यकारजातीयो विकारो दध्यत्रेति दृश्यते एवं यकारजातीयस्यापि विकार इकारजातीयो दृश्यते यथा व्यथेःसति प्रसारणे यकारस्येकार
इति ।
तस्मादनियमान्न प्रकृतिविकापरभाव
इत्यर्थः ॥ ५३ ॥
न्य्स्_२,२।५४: अनियमे नियमाद् नानियमः ॥
अत्र च्छलवादी प्रत्यवतिष्ठते ।
अनियमे नियमादिति ॥ ५४ ॥
न्य्स्_२,२।५५: नियमानियमविरोधादनियमे नियमाच्चाप्रतिषेधः ॥
तदेतस्य वाक्छलत्वमापादयति ।
नियमानियमविरोधादिति ।
नियमानियमसामानाधिकरण्यं विरुध्यते न त्वाधाराधेयभाव इत्यर्थः
॥ ५५ ॥
न्य्स्_२,२।५६: गुणान्तरापत्त्युपमर्दह्रातवृद्धिलेशश्लेषेभ्यस्तु विकारोपपत्तेर्वर्णविकाराः ॥
तदेवं प्रकृतिविकारभावं निराकृत्य विकारवचनव्यक्तिं शब्दानामादेशपक्षे समर्थयति ।
न चेयं वर्णविकारोपपत्तिरिति ।
एकस्याप्रयोगे अन्यस्य प्रयोगो विकार
इति सामान्यलक्षणम् ।
तस्य विशेषानाह ।
स भिद्यत इति ।
उपमर्द्दे नामेति ।
यथा ऽस्तेर्भूरिति ।
लेशः स्त इत्यत्रास्तेरकारलोपे सकारमात्रस्य लेशस्यैकदेशस्य व्यवस्थापनम् ।
श्लेषप
आगमः प्रकृतेः प्रत्ययस्य वा ।
अत्रापि केवलस्याप्रयोगे विशिष्टस्य प्रयोग इत्येतावता विकारसामान्यलक्षणं लक्षणीयम् ।
एतेन वार्त्तिकमपि व्याख्यातमेवेति ॥ ५६ ॥
न्य्स्_२,२।५७: ते विभक्त्यन्ताः पदम् ॥
तदेवमुक्तेन क्रमेण वर्णानामनित्यतां प्रतिपाद्य शब्दप्रामाण्योपयोगि पदं निरूपयति ।
ते वि–दम् ( सू। ५७ ) ॥
एवं किल के चित्पश्यन्ति न वर्णाः प्रतिपादयन्त्यर्थान्
ते हि प्रत्येकं वा अन्वयधियमादधीरन् नागदन्ता इव शिक्यालम्बनं मिलिता वा ग्रावाण
इव पिठरधारणम् ।
तत्र न तावत्पूर्वः कल्पः ।
प्रत्येकमर्थप्रत्ययानुत्पादात् ।
वर्णान्तरोच्चारणानर्थक्याच्च ।
नापि संहताः एकवक्तृप्रयोगे क्रमनियमेन सङ्घातानुपपत्तेः ।
अनेककर्तृकप्रयोगे ऽपि सत्यपि यौगपद्ये अर्थप्रत्ययानुत्पादनात् ।
नापि क्रमवत्पूर्ववर्णानुभवभावितसंस्कारसहितो ऽन्त्यवर्णप्रत्ययो ऽर्थप्रत्ययहेतुरिति साम्प्रतम् ।
भावनापरनाम्नः संस्कारस्य स्वोत्पादकानुभवविषयस्मृतिजननादन्यत्र सामर्थ्यादर्शनात् ।
न हि गवानुभवजनितः संस्कारः करोति स्मृतिं तुरङ्गमे ।
अपि चेयमन्त्यवर्णश्रुतिः स्वार्थसङ्केतस्मृत्यपेक्षा वार्थप्रत्ययमादधीत अनपेक्षा वा, तदपेक्षत्वे तत्काले अन्त्यवर्णश्रुतिरुपरता क्षणिकत्वेनेति कया सङ्केतस्मृतिरपेक्ष्यते अन्त्यवर्णश्रुतिसमये च सङ्केतस्मृतिरनागतेति किमन्त्यवर्णप्रत्ययो ऽपेक्षेत ।
सङ्केतस्मृत्यनपेक्षत्वे अगृहीतसङ्केतस्यापि प्रथमश्राविणोर् ऽथप्रत्ययप्रसङ्गः ।
न हि चिरध्यस्तस्यानपेक्षितस्मृतेः सङ्केतग्रहस्यास्ति कश्चिदुपयोग इति ।
न च भावनाख्यसंस्कारसहितो ऽन्त्यवर्णः प्रत्यायको ऽर्थस्य ।
नाप्यन्य एव कश्चित्पूर्ववर्णानुभवजनितः संस्कारः प्रोक्षणादिभिरिव व्रीह्यादेरन्त्यवर्णप्रत्ययसहकारीति युक्तम् ।
अनेकादृष्टकल्पनाप्रसङ्गात् ।
स एव तावददृष्टचरः कल्पनीयस्तस्य चानेकत्वमिति सो ऽयं वर्णेभ्योर् ऽथप्रत्ययो भवन्ननुपपद्यमानस्तदतिरिक्तं स्फोटानुभवमायतते ।
अस्ति हि भिन्नष्वेपि वर्णेषु वाक्यमिदमेकं पदमिति चा सर्वजनीनो ऽनुभवः ।
न चासौ भिन्नवर्णालम्बनो भवितुमर्हति एकस्य नानात्वविरोधात् ।
तस्माद्वर्णातिरिक्तं पदं वाक्यं वाऽलम्बते ।
तच्चे प्रत्येकमेव ध्वनयो ऽभिव्यञ्जयन्ति केवलं पूर्वे ध्वनयः स्वरूपमाभासयन्ते चरमस्तु व्यक्तम् ।
न चेयमर्थे विधा सम्भविनी प्रत्यक्षज्ञाननियतत्वात्
व्यक्तव्यक्तावभासितायाः पदे प्रत्यक्षे उपपत्तिः
अर्थस्य तु पदगम्यस्याप्रत्यक्षस्य मानान्तरेण ग्रहणमस्तीति अग्रहणं वा न तु स्फुटास्फुटत्वाभ्यां योगः ।
अपि च यस्मिन्ननुवर्तमाने यद्व्यावर्तते तत्तस्माद्भिद्यते यथा सुवर्णाक्यवेष्वनुवर्तमानेषु कटकमुकुटादयः ।
अनुवर्तमानेषु तु वर्णेषु व्यावर्तन्ते पदभेदास्तस्मात्ते ऽपि वर्णेभ्यो भिन्ना इति तान्प्रत्याह ।
ते विभक्त्यन्ताः पदम् ।
त एव वर्णा एव पदं न तु तदतिरिक्तं स्फोटाख्यमित्यर्थः ।
इदमत्राकूतम् ।
न तावद्वर्णातिरिक्तः पदात्मा कश्चिदुपलभ्यते प्रत्यक्षेण, पदमिति तु व्यपदेशस्तानेव वर्णान् बहूनप्येकस्मृतिसमारोहितया वा एकार्थधीहेतुतया वा अभिन्नकारकावस्थावत्तया वालम्बते भाक्तः ।
न चैवमन्योन्यसंश्रयः
नर्त्ते पदावधारणापदर्थाधिगमो न चार्थाधिगमन्तरेण पदावधारणमिति ।
एकस्मृतिबुद्धिसमारोहिणां वर्णानामसत्यर्थवत्तया ऽवबोधे सुज्ञानत्वात् तन्मात्रस्य च स्वार्थेन सङ्केतग्रहस्यापि सुकरत्वात् तदुत्तरकालत्वाच्च पदमिति कारकशब्दप्रवृत्तेः ।
इतरथा सर्वेषु कारकशब्देषु दुर्वारमितरेतराश्रयत्वं कार्योपहितमर्यादत्वात्कारकाणां तदनुपातित्वाच्च तच्छब्दानाम्, तस्माद्व्यपदेशमात्रानुरोधेन नैकैकवर्णमात्रावभासिनीषु श्रोत्रजासु बुद्धिषु तदाहितवासनालब्धजन्मायां चानु भूतवर्णसङ्कलनात्मिकायां स्मतिबुद्धावप्रथमानो वर्णविभागोपमर्देन न शक्यः पदात्मा प्रत्यक्ष
इति वक्तुम्, नापि निर्भागस्य स्फुटास्फुटत्वे वा भागविपर्यासोव वा युज्यते, नो खलु सर्वथा ऽदृश्यमानो नाम स्फुटः नापि समारोपविषयः ।
न हि सामान्यात्मना ऽप्यगृहीता शुक्ती रजतत्वसमारोपविषयः ।
न च निर्भागेपदात्मनि गृहीते किं चिदस्यागृहीतमवशिष्यते यदग्रहणादव्यक्तत्वं वा समारोपो वा भवेत् ।
न च तदेव तदैव तेन गृहीतमगृहीतं च सम्भवति ।
तस्मान्न प्रत्यक्षस्य तदाभासस्य वा गोचरः पदात्मा ।
नाप्यनुमानस्यार्थप्रत्ययलिङ्गजन्मनः परस्पराश्रयप्रसङ्गात् ।
न तावत्सत्तामात्रेण पदात्मार् ऽथप्रत्ययमाधत्ते मा धान्नित्यत्वेन नित्यमेनम् ।
तस्मात्स्वज्ञानेन ।
तच्च स्वज्ञानमर्थप्रत्ययात् तथा च सत्यर्थप्रत्यये पदप्रत्ययः पदप्रत्यये च सत्यर्थप्रत्यय इति व्यक्तमन्योन्याश्रयत्वम् ।
न चेयमर्थधीर्वर्णेभ्यो नोदेतुमर्हति ते हि पूर्वमनुभूताः प्रत्येकम् अनुभूतताक्रमोपसृष्टा एकबुद्धिसमारोहिणः शक्नुवन्त्यर्थधियमाधातुम् ।
न चाक्रमानुक्रमविपरीतक्रमाणामविशेषो वर्णानाम् ।
पूर्वानुभवसन्निवेशानुसारित्वात्स्मृतेः
तत्सन्निवेशस्य च विशेषाद्विशेषोपपत्तिः ।
अभेदे ऽपि च वर्णानां न हि हिनेत्यादौ पदभेद उपपत्स्यते विना ऽपि स्फोटकल्पनाम् ।
क्रमभेदानुविधायित्वात्पदभेदस्य, अर्थप्रत्ययकारकत्वं च न वर्णमात्राणामपि तु क्रमन्यूनातिरिक्तत्वाद्युपहितानाम् ।
तत्तदुपधानं न तुल्यत्वे ऽपि वर्णानामन्यदन्यदिति पदभेदसिद्धिः ।
तस्माद् दृष्टेभ्य एव वर्णेभ्यो दृष्टप्रकारानुपातिभ्योर् ऽथप्रत्ययोत्पत्तिरुपपद्यमाना नादृष्टं स्फोटात्मानं दृश्यमानवर्णभेदापह्नवेन कल्पयितुमर्हतीति सिद्धम् ।
ते विभक्त्यन्ताः पदमिति ।
यथादर्शनं विकृता इति भाष्यम् ।
गुणान्तरापत्त्यादिभिरादर्शरूपेण विकृताः यथादर्शनं यथाप्रमाणं न तु प्रकृतिविकारभावेन तस्नपवय प्रमाणबाधितत्वादित्यर्थः ।
वार्त्तिकम्
अर्थप्रत्ययस्तर्हि न प्राप्नोतीति ।
स्फोटवादिन
उक्तो ऽभिप्रायः ।
उत्तरम् ।
अन्त्यवर्णप्रत्ययादिति ।
वर्णेषु प्रत्ययो वर्णप्रत्ययः ।
अन्त्यश्चासौ वर्णप्रत्ययश्चेति अन्त्यवर्णप्रत्ययः सकलवर्णावगाहिनी स्मृतिः ।
सा च प्राचः प्रत्येकवर्णानुभवानपेक्ष्यान्त्या भवति ।
यद्येवमगृहीतसङ्केतानामप्यसावस्तीति तेषामर्थप्रत्ययप्रसङ्गः स्यादित्यत आह ।
पूर्ववर्णप्रतिसन्धानप्रत्ययापेक्षादिति ।
सङ्केतग्रहणसमयः पूर्वः तद्भाविनो वर्णाः पूर्वे तेषां प्रतिसन्धानं यावतां यज्जातीयानां गृहीतः सङ्केतस्तादृशास्तावन्तस्तज्जातीया एवैतैत्येवमाकारं तदेव प्रत्ययस्तदपेक्षात् ।
न चासावगृहीतसङ्केतानामस्तीति सन्नप्यन्त्यवर्णप्रत्ययो नार्थस्य प्रत्यायक इत्यर्थः ।
अभिधेयस्य क्रियान्तरयोगाद्विशिष्यमाणरूपः शब्दो नाम,प अन्तरशब्दो विशेषवचनः क्रियाविशेषयोगाद्धेतोरित्यर्थः ।
एतदुक्तं भवति ।
यस्याभिधेयं क्रियाविशेषसबन्धेन विनान पर्यवस्यति तन्नाम आख्यातार्थस्तु यद्यपि क्व चित् क्रियया ऽपि सम्बध्यते यथा ऽभिक्रामं जुहोति भुक्त्वा व्रजतीत्यादिषु तथा ऽपि जुहोति व्रजतीत्यादयो न क्रियासम्बन्धमन्तरेण न पर्यवस्यन्ति अपि तु तत्समभव्याहृता अपि सम्बध्यन्ते ।
नामार्थस्तु न पूर्वापरीभूतप्रधानक्रियापदार्थमन्तरेण पर्यवस्यति ।
अत एवाहुः–यत्रान्यत् क्रियापदं न श्रूयते तत्रस्तिर्भवन्तीपरः प्रयोक्तव्यः
तथा च ब्राह्मणे ऽभिक्रामं भोक्तुं भक्तेत्यादयश्च समुच्चयाद्यपेक्षाः क्रियाविशेषमन्तरेणापर्यवस्यन्तो नामत्वेन सङ्गृहीता भवन्ति ।
अस्योदाहरणमाह ।
यथा ब्राह्मण इति ।
अस्यार्थमाह क्रियाकारकसमुदायः कारकसङ्ख्याविशिष्टः ।
अत्र हि क्रियाशब्देन ब्राह्मणस्य भावो ब्राह्मणत्वमभिधीयते भावशब्दस्य क्रियार्थत्वात् ।
भविता च ब्राह्मणः कारकम् ।
तयोर्ब्राह्मणत्वब्राह्मणयोः समुदायः स च कारकस्य भवितुर्ब्राह्मणस्यैकत्वसङ्ख्यया विशिष्टो ब्राह्मण इत्येतस्मान्नामपदाद्गम्यत
इत्यर्थः ।
आख्यातलक्षणमाह ।
क्रियाकालयोगाभिधायि क्रियाप्रधानमाख्यातं क्रियायाः कालयोगः पूर्वापरीभावः ।
कालयोगाद्धि सम्भवति तदभिधायि ।
तदनेन पाक इत्यादेर्नामपदाद्
व्यवच्छिनति ।
एवमपि भुक्त्वा भोक्तुमित्यादावपि नाम्नि प्रसङ्गः ।
अस्ति हि तत्रापि कालावधिपूर्वापरीभूतकर्मक्षणप्रचयप्रत्ययो ऽन्यथा ओदनमिति कर्मसम्बन्धो न स्याद्
अत उक्तं क्रियाप्रधानमिति ।
स्वनिष्ठा ह्याख्यातात् क्रिया प्रतीयते नान्यतन्त्रा ।
भोक्तुमित्यादौ तु क्रियान्तरमन्तेण न पर्यवस्यन्तीति क्रिया गम्यते ।
व्रजतीत्यादौ तु न तथा तदिदं क्रियाप्राधान्यम् ।
तदनेन पचति पचेत पच्यते स्थीयतैत्यादि सर्वमाख्यातं सङ्गृहीतं भवति ।
न क्व चिदपि नाम्नि प्रसङ्गः यदप्यस्त्यादि नामाख्यातप्रतिरूपकं तत्रापि सन्नित्यस्यार्थे सिद्धरूपे तद्वर्त्तते न पुनः पूर्वापरीभूतक्रियार्थत्वमिति द्रष्टव्यम् ।
यस्मान्नाम्ना सर्वं पदं व्याप्यत इति ।
( ३११ । ६ ) बाहुल्यं व्याप्त्यर्थः ।
प्रायेण हि वाक्ये बहूनि नामपदानि आख्यातं पुनरेकमेवैकस्मिन् वाक्ये आख्यातभेदे वाक्यभेदादिति ।
अधिकरणमाक्षिपति न पदादर्थाधिगतिरिति ।
पदेन हि विशेषो वा ऽभिधीयते सामान्यं वा तत्र विशेषाभिधानं तावद् दूषयति ।
विशष इति ।
अनवस्थानमनवधारणमिति ।
सामान्याभिधानमास्थायाह न पदस्येति ।
दूषयति न सामान्यस्येति ।
व्यवहाराय हि वाक्यमुच्चारयन्ति वृद्धाः
न तु व्यसनितया ।
न चास्ति सामान्यसाध्यः कश्चिद्व्यवहारः किं तु सर्वो व्यवहारो विशेषसाध्यः ।
न चास्य पदं वाचकं तद्वाक्यमेव वाक्यार्थस्य वाचकमिति त पदार्थचिन्तावसर
इत्याक्षेपार्थः ।
समाधत्ते न सामान्यविषयत्वेसतीति ।
न तावत्पदातिरिक्तमस्ति वाक्यं नामेत्युक्तमधस्तात् ।
न च वर्णमालैव पदार्थप्रतिपादनावान्तरव्यापारानपेक्षा वाक्यार्थबोधिनीति युक्तम् ।
अनपेक्षिन्तसङ्केतग्रहायास्तदवबोधनं प्रथमश्राविणो ऽविदितसङ्केतस्य वाक्यार्थबोधप्रसङ्गः ।
यतः सङ्केतग्रहापेक्षत्वे वाक्यार्थेन सहानन्त्यव्यभिचाराभ्यां वाक्यसङ्केतग्रहासम्भव
इत्यकामेनापि पदानां स्वार्थे सङ्केतो ऽभ्युपगन्तव्यः ।
तस्मात्पदानां सामपान्यमर्थस्तत्प्रतिपादनावान्तरव्यापाराणां च यथा वाक्यार्थप्रतिपादकत्वं तथा ऽस्माभिस्तत्त्वबिन्दौ निपुणतरमुपपादितम् ।
सेयं पदात्सामान्यप्रतीतिर्गौरिति वा अश्व इति वा सर्वगबीषु सर्वाश्वेषु वोपसर्पन्ती शुक्ल इति कृष्ण इति वा विशेषश्रुत्यापव नियम्यतैत्यर्थः ।
पृच्छति कथं पुनरियमिति ।
तिष्ठति गच्छतीत्यादयो ऽपि न पदत्वेन विशेषे वर्त्तितुमर्हन्ति सम्बन्धग्रहणासम्भवात् ।
तस्मादेते ऽपि सामान्यवचना इति भावः ।
उत्तरं नैवेयमिति ।
तदेवं पदस्य सामान्यवाचकत्वनिश्चयादाकृतिव्यक्त्यो श्च पदात्प्रतीतेर्वादिनां विप्रतिपत्तेर्भवति संशयः ।
किं त्रितयमर्थ आहो अन्यतम इति ।
एथं तावत्सामान्यावगमाद्वाचकत्वं निश्चित्य चिन्तान्तरावतारो दर्शितः ।
सम्प्रति द्वितयावगमात्पदस्य वाचकत्वशङ्कैव नास्ति तस्माद्युक्तश्चिन्तान्तरावतार
इत्याह भवतु वेति ।
प्रतीतिवसिद्धमनुजानाति क्रिया च तत्साधनं चति ।
भविता गौरित्यर्थः
॥ ५७ ॥
न्य्स्_२,२।५८:: व्यक्त्याकृतिजातिसन्निधावुपचारात् संशयः ॥
किमन्यतमः पदार्थ
उतैतत्सर्वमिति भाष्यम् ।
तत्रान्यतमार्थमाह वार्त्तिककारः ।
किं व्यक्तिरिति ।
( ३१२ । ९) ॥ ५८ ॥
न्य्स्_२,२।५९: याशब्दसमूहत्यागपरिग्रहसङ्ख्यावृद्ध्यपचयवर्णसमासानुबन्धानां व्यक्तावुपचाराद् व्यक्तिः ॥
अत्र याशब्दादिप्रयोगसामर्थ्याद्व्यक्तिरेव पदार्थ इत्येके मन्यन्ते ।
स्यादेतत् ।
व्यक्तिवदाकृतिरपि भिद्यतैत्याकृतेरप्यभिधायकं कस्मान्न भवतीत्यत
आह ।
आकृतेरपीति ।
गोत्वं च जातिरुपाधिर्मविष्यति तेन नातिप्रसङ्गः ।
न चोपाधेरभिधानम् ।
अनभिहितस्यापि तच्छब्देनोपहितावच्छेदकत्वदर्शनात् ।
यथा गार्गिकया श्लाघतैत्यत्र श्लाघोपाधिविहितो वुञ् न श्लाघामाहेति भावः ।
न्य्स्_२,२।६०: न तदनवस्थानात् ॥
तमिमं व्यक्त्यभिधाननियमवादिनमपाकरोति ।
नानेनेति ।
न्य्स्_२,२।६१: सहचरणस्थानतादर्थ्यवृत्तमानधारणसामीप्ययोगसाधनाधिपत्येभ्यो ब्राह्मणमञ्चकटराजसक्तुचन्दनगङ्गाशाकटान्नपुरुषेष्वतद्भावे ऽपि तदुपचारः ॥
नाप्रतीत उपाधिरुपहितावच्छेदाय प्रभवति ।
न च गार्गिकयेत्यत्रोपाधिर्वुञाभिहितो ऽपि न प्रतीयते श्लाघत इति पदान्तरेण तस्याभिधानात् ।
यत्र तु श्लाघत इति न प्रयुज्यते न तत्र वुञोभावाभिधायिनः साधुत्वमस्ति ।
सेयं व्यधिकरणे ऽनुपाधौ गतिः ।
समानाधिकरणे तु पश्वादावुपाधौ प्रत्ययान्तशब्दवाच्यत्वमेव ।
यथा दृतिहरिः श्वेति ।
अत्र हि दृतिहरिरित्येतावतैव पशौ लब्धे तद्विशेषनियमार्थ श्वेति प्रयुज्यते ।
न च प्रयोगादेवोपाधेर्गम्यमानत्वादनभिधानं साम्प्रतम् ।
तदुपाध्यनभिधायिनस्तत्र प्रयोगनियमस्य पर्यनुयोज्यत्वात् ।
अननुयोज्यत्वे अनादेर्लोकप्रयोगस्य सर्वेषामेव शब्दानामनभिधायकत्वप्रसङ्गः ।
प्रयोगनियमादेव हि तेभ्यो ऽप्यर्थो ऽवगम्यते ।
अथाप्रतिपादकस्य प्रयोगनियमो नोपपद्यत इति यत्र प्रयोगस्तत्प्रतिपादकत्वमित्यभ्युपेयते तदुपाधावपि समानम् ।
तथा च स्मरति भगवान्कात्यायनः
तदन्तवाच्यः समानशब्दो ऽयमिति ।
समानशब्दः समानाधिकरणशब्दो य उपाधिरसौ प्रत्ययान्तशब्दवाच्य
इत्यर्थः ।
तस्माद्व्यक्तिनियमे अप्रतीता जातिरशक्ता ।
न च गोशब्दादन्यदस्याः प्रत्यायकमस्तीति सा ऽपि तेन प्रत्यायनीयेति सिद्धं न व्यक्तिमात्रं पदार्थ इति ॥ ६० ॥
कटार्थेषु वीरणेषु व्यूह्यमानेष्विति भाष्यम् ।
कटं करोतीति निर्वर्त्यस्य कटस्य कर्मत्वमनुपपन्नं कारकाधिकारीयत्वात् कर्मसञ्ज्ञायाः,
क्रियानिमित्तस्य च कारकत्वात् ।
असिद्धस्य च क्रियायाः पूर्वं निमित्तभावायोगात् ।
तस्मात्तादर्थ्यनिमित्तादेव कटशब्दः कटार्थेषु वीरणेषु व्यूह्यमानेषु वर्तते ।
वीरणानां च वा रच्यमानानामस्ति कटक्रियापूर्वभावित्वेन निमित्तभाव इति ॥ ६१ ॥
न्य्स्_२,२।६२: आकृतिस् तदपेक्षत्वात् सत्त्वव्यवस्थानसिद्धेः ॥
यदि न जात्या विना व्यक्तिनियम इति जातिरभिधेया हन्त भोः सा ऽप्याकृत्या नियन्तव्पयेत्याकृतिरेवाभिधीयतामित्याह ।
यदि तर्हीति ।
( ३१४ । ९ ) एतदपि दूषयति ।
अत्रापि तदेवोपस्थितं न तदनवस्थानादिति ।
संस्थानेनापि व्यज्यमानां जातिरेकार्थसमवायाद्व्यज्यते च व्यवस्थाप्यते च ।
सा तु व्यक्तिसंस्थानाभ्यां व्यावर्तमानाभ्यामनुवर्तमाना ऽभिन्नबुद्ध्या ऽवसीयते ।
तादृशी च व्यक्तिसंस्थानाभिधानानपेक्षेणापि पदेन शक्या बोधयितुम्, संस्थानं तु व्यक्तिवद्भिन्नमानन्त्यव्यभिचाराभ्यामशक्यसङ्केतग्रहणं जात्यभिधानमपेक्ष्य न शक्यं पदेनबोधयितुमिति न संस्थानापरनामाकृतिः पदार्थ इत्यर्थः ।
नापि जातिद्वारेण व्यक्तिवदाकृतिः पदार्थो जात्या सहासम्बन्धादित्याह ।
यस्य च जात्या योग इति ॥ ६२ ॥
न्य्स्_२,२।६३: व्यक्त्याकृतियुक्ते ऽप्य् अप्रसङ्गात् प्रोक्षणादीनां मृद्गवके जातिः ॥
अस्तु तर्हि जातिरेव पदार्थः तत्र हि सुकरः सङ्केतग्रहः व्यभिचाराभावादिति ।
व्यक्त्याकृत्योस्तु व्यभिचारः जात्यभिधायिनो व्यक्तावाकृतौ चौपचारिकः प्रयोगो भविष्यतीत्यभिप्रायेणाह ।
अस्तु तर्हीति ।
शेषमस्यातिरोहितार्थम् ।
एकमनेकत्र वर्त्तत इति प्रतिजानानोपव नानुयोक्तव्यः ।
उभयेन व्याघातादिति ।
( ३१८ । १३ ) यद्येकमनेकत्र वर्तमानं प्रतिव्यक्ति सर्वात्मना वर्तत इति किं त्वनेकमनेकत्र वर्तत इति प्राप्तम् ।
एवं चानुयोगाधिकरणव्याघातः ।
अथैकमनेकत्र वर्तमानं प्रतिव्यक्त्येकदेशेन वर्त्तते तथा ऽपि नैकमनेकत्र वर्तते किं त्वनेकमनेकत्रेति एकदेशानामनेकत्वादिति ।
सो ऽयमुभयेन व्याघातः उक्तो ऽवयविवादे ॥ ६३ ॥
न्य्स्_२,२।६४: नाकृतिव्यक्त्यपेक्षत्वाज्जात्यभिव्यक्तेः ॥
न्य्स्_२,२।६५: व्यक्त्याकृतिजातयस्तु पदार्थः ॥
तदेवमन्यतमाभिधाननियमं निराकृत्यानियमाभिधानं सिद्धान्तमाह ।
व्यक्त्यार्–थः ( सू। ६५ ) ॥
इदमत्राकूतम् ।
गोशब्दोच्चारणानन्तरं विदितसङ्गतेरेकपदे व्यक्त्या कृतिजातिनिर्भासः प्रत्यय उदयमासादयति न पुनर्यथा गङ्गायां घोषः प्रतिवसतीत्यत्र गौर्वाहीकं इत्यत्र वा गङ्गात्वगोत्वावगमोत्तरकालं वाक्यार्थे तत्सम्बन्धानुपपत्तेस्तदविनाभावेन वा लक्ष्यमाणगुणयोगेन वा तीरं वाहीको वा ऽवगम्यते तथेहावगतिः ।
प्रयोगप्राचुर्यादत्यन्ताभ्यासेनातिशीघ्रतया सन्नपि प्रत्ययक्रमो न लक्ष्यते ।
शीघ्रतरबाणहेतुकशतपत्रशतव्यतिभेदवदिति चेत् ।
न असति बाधके बलवति प्रत्ययाभेदप्रथायामन्यथाकरणायोगात् ।
तथाच सति न क्व चिदप्यभेदो ऽवतिष्ठेत तथा च भेदो ऽपि न स्याद् अभेदश्रयत्वाद्भेदस्य ।
अपि च न रूपिशून्या रूपावगतिः रूपं च द्रव्यस्य जातिः तेन रूप्यमाणत्वाद् रूपि द्रव्यम् ।
न च येन यद्रूप्यते तदनवगमे तदवगमः ।
यथा नार्थमन्तरेण बुद्धेरुपलम्भनम्,
तस्माज्जात्युपलम्भो द्रव्योपलम्भैकदेशो न द्रव्योपलम्भमन्तरेण केवलः सम्भवति ।
तस्मादेकीपलम्भगोचरत्वान्न जातिजातिमतोर्लक्ष्यलक्षणभावः स चोपलम्भः शब्दज्ञानानन्तरं जायमानः शाब्दः ।
न च वाच्यमेकोपलम्भगोचरत्वे ऽपि जातिव्यक्त्योर्जातिरेव वाच्या न व्यक्तिः
एकवाच्यत्वे ऽप्युभयोपलम्भोपपत्तावुभयवाच्यत्वकल्पनानुपपत्तेरिति ।
कार्यव्यङ्न्यं हिकारणानां सामर्थ्यं कार्य एव नाकार्ये ।
कार्यं चानुभवः स चैक
एवेति न सामर्थ्यभेदकल्पना ।
तद्द्वारेण तु कर्मण्यप्युच्यते पदमर्थे समर्थमिति कार्यं च द्वारमेकमिति विषयभेदे ऽपि सामर्थ्यमेकमेवेति ।
अपि चपुरुषसङ्केतापेक्षवृत्तीनां पदानां न किं चित्सामर्थ्यं नाम प्रमाणगोचरः यदेकमनेकं वा स्यात् ।
एतेन निरूढलक्षणायां शब्दस्य जात्यभिधानोपक्षीणस्य न व्यक्तिसामर्थ्यं कल्पनीयम् ।
अन्यत्राव्यापृतस्य तत्रार्थस्यैव सामर्थ्यमिति यदाहुस्तदपि निरस्तम् ।
स खल्वर्थः प्रतीतो वा व्यक्तिं गमयेद् अप्रतीतो वा ।
अप्रतीतस्य गमकत्वे सर्वदैव व्यक्त्यवगतिप्रसङ्गः कारणस्य नित्यत्वात् ।
प्रतीतस्य गमकत्वे दुरुत्तरमात्माश्रयत्वं न हि जातिप्रत्ययादन्यो व्यक्तिप्रत्यय इत्युक्तम् ।
तस्मात्साधु पारमर्षंसूत्रं व्यक्त्याकृतिजायस्तु पदार्थ इति ।
सम्प्रत्यन्यापोहपदार्थवादिनमुत्थापयति न व्यक्त्याकृतिजातयस्तु पदार्थ इति के चिदिति ।
( ३२१ । ३ ) अथ द्रव्यादिवृत्तित्वादिति ।
गवाश्वस्य तु नाश्रयाश्रयिभाव इति भावः ।
जातिमन्मात्राभिधायको ऽपि सच्छब्दो न भवति ।
कस्मात् अस्वतन्त्रत्वादिति ।
जातिमन्तो घटपटादयः, च चैते घटादिशब्दादिव निरपेक्षात्सच्छब्दात्प्रतीयन्ते किं तु सच्छब्दाद्
घटादिषु बुद्धिः परिप्लवते घटादिशब्दापेक्षस्तु सच्छब्दो घटादिनिश्चयहेतुः ।
तस्मात्
घटादिशब्दपरतन्त्रत्वान्न तद्वतो वाचक इत्यर्थः ।
अथ वेति ।
यद्यत्र प्ररतन्त्रं वर्तते तत्तस्य न वाचकं यथा गङ्गागवादिशब्दास्तीरवाहीकादेः ।
तथा च जातिशब्दा जातिमति ।
तस्मान्न जातिमद्वाचकाः ते हि जातिमपेक्ष्य जातिमति वर्तन्त इति तादृशं पारतन्त्र्यमित्यर्थः ।
अथ जात्यनपेक्षं कस्मान्न तद्वति वर्तततैत्यत
आह ।
उक्तं चात्रति ।
( ३२१ । ३ ) अस्तु तर्ह्यैपचारिक
एव तद्वति प्रत्यय इत्यत आह तद्वति चेति ।
यथाधिपत्यलक्षणो गुणः स्वामिनो जितकाशिनि भृत्ये ऽप्यस्तीति तत्र स्वामिशब्दः प्रर्वतते न तथा जातिगुणयोगो व्यक्तेरित्यर्थः ।
अपि च अन्यशब्दो ऽन्यत्र वर्तमानः प्रथमं तावदन्यधियमुत्पादयति अथान्यत्र वर्तते यथा गोशब्दो गवि बुद्धिमुत्पाद्य वाहीके वर्तते ।
न चेह जातिशब्दो जातौ तद्व्यतिक्रमेण प्रवृत्तः न चौपचारिकस्य वृत्तियौगपद्यमित्याह ।
क्रमवृत्त्यभावात् युगपदसम्भवाच्च ।
गुणोपरागं दूषयति ।
अयथार्थज्ञानोत्पत्तिप्रसङ्गाच्च ।
गुणोपरागाद्यथा नीलः स्फटिक इति ज्ञानमेवं सर्वमेव शाब्दञ्ज्ञानं विना बाधकमयथार्थमेव स्यादित्यर्थः ।
एकस्वलक्षणाभिधानं दूषयति ।
असाधारणेति ।
अशक्यसमयत्वाच्चेत्यपि द्रष्टव्यम् ।
तदेवमन्यापोहवादिनमुत्थाप्य दूषयति ।
अत्रास्माभिरिति ।
व्यक्त्याकृतिजातयस्तिस्त्रो ऽस्माकं पदार्थः ।
गुणप्रधानभावस्तु क्व चिदेव कस्य चित् जातिमद्व्यक्त्यभिधाने द्विविधमप्यस्वातन्त्र्यं न सम्भवति शब्दानाम् ।
न तावद्व्यकिज्ञाने जनयितव्ये तदर्थं जातिज्ञानं पूर्वमपेक्षन्ते शब्दः इति सम्भवति ।
द्वयोरप्येकज्ञानवेद्यत्वनियमेन पौर्वापर्यायोगात् ।
नापि विशेषवाचकं पदं विना जातिशब्दानां बुद्धिपरिप्लवात्तद्विनिश्चयाय विशेषशब्दापेक्षया स्वातन्त्र्यम् ।
स्वविषये जातिशब्दाद्बुद्धेरपरिप्लवात् ।
जातिमद्व्यक्तिमात्रमस्य हि विषयो न चात्र बुद्धिपरिप्लवः ।
व्यक्तिनियमस्तु विषय इति न तत्र बुद्धिपरिप्लवो दुष्यति ।
दूराद्धि आरोहपरिणाहवदद्रव्यमात्रं गोचरः प्रत्यक्षस्य न तु स्थाणुः पुरुषो वा ।
न चात्र बुद्धिपरिप्लुतिः प्रत्यक्षक्षतिं कां चनावहति ।
न चास्मिन् पक्षे जातिशब्दो व्यक्त्याकृत्योः परशब्दो येनौपचारिकः स्यात् ।
न च सामानाधिकरण्यं न कल्पते जातिव्यक्तिपदयोरेकार्थाभिधायिनोर्वैयधिकरण्यायोगात् ।
तस्मात्सर्वमवदातम् ।
एवमनेकान्तवादे परोक्तदोषाप्रसङ्गमभिधाय दूषणवाक्यं परोक्तं दूषयन् दोषाभावमाह ।
न वेतै दोषा इति ।
सत्ताशब्द इति सत्तायाः शब्द
इति वा विग्रहः सत्तारूपः शब्द इति वानपव तत्र पूर्वस्मिन्कल्पे सत्ताया न वाचकः सत्ताशब्द
इति व्याघातः ।
उत्तरस्मिन्कल्पे न वाचकः सत्ताया इत्यनेन व्याघातः सत्ताया इत्यनेन शब्देन सत्तामभिधत्से अथ च तस्य वाचको न सत्ताशब्द
इति ब्रूषे ततो व्याघातः सत्ताशब्द इति चोपलक्षणार्थं सत्तानया न वाचक इति द्रष्टव्यम् ।
शङ्कते भवदभिप्रायेणेति ।
निराकरोति ।
नेति ।
यद्यस्मदभिप्रायार्थं प्रतिपद्यसे अर्थप्रतीत्यधीनो ऽभ्युपगम इति अभ्युपगमं ब्रूषे तत्तथा च न निषेद्धुमर्हसीति भावः ।
अथ निषेद्धुं प्रत्येमि न पुनरभ्युपैमीत्याशङ्क्याह यच्चेदमिति ।
( ३२२ । ४ ) दूषयति तदपि नेति ।
अतथाभूतस्यापुरुषभूतस्य स्थाणोस्तथाभाविभिः पुरुषैः सामान्यं सत्यध्यारोपितः पुरुषत्वादिधर्मो यस्य स तथेत्युक्तः तस्य प्रधानमर्थः पुरुषः तदकाराप प्रतीतिरित्यर्थः ।
सत्तायाः प्रधानसाधनवाचिनेति ।
प्रधानं साधनं व्यञ्जकतया भवितृद्रव्यं तद्वाची खलु सच्छब्दः मत्ताशब्दस्तु द्रव्योपसर्जनभाववाची न तस्य द्रव्यवाचिना सामानाधिकरण्यमित्यर्थः ।
सामानाधिकरण्यासिद्धिः सद्द्रव्यशब्दयोरिति ।
सिद्धिः प्रतीतिः सा भवन्मते न स्यादिति यदुक्तं कैश्चित्तदप्यनेन सामानाधिकरण्यव्यवस्थापनेन प्रत्युक्तम् ।
व्याख्यातोप निराकार्यत्वेन ।
स्वयं प्रकॢप्तां वाचोयुक्तिमिति ।
( ३२३ । ३ )
जातिशब्द इति सदादिशब्देषु स्वयं प्रकॢप्ता या वचनव्यक्तिस्तां प्रतिषेधति तत्र चास्माकं सिद्धसाधनमित्यर्थः ।
सच्छब्दो जातिशब्दस्तस्य भेदवाचकत्वं नास्य सम्मतमिति भन्वानो देशयति ।
यदि तर्हीति ।
सुगमः परिहारः ।
तथा ऽपि नान्वयी न व्यतिरेकी चेति ।
ये ये अनन्ता न ते जातिशब्दवाच्या इति न दृष्टान्तः ।
सर्वभेदपक्षीकरणात् ।
नापि यो जातिशब्दवाच्यो न तत्रानन्त्यं यथा गोत्वादिकमिति शक्यम्प वक्तुं जातेरेव भवन्मते व्योमारविन्दायमानत्वादिति भावः ।
शङ्कते अथापीति ।
तथा सत्यन्वयी दृष्टान्तो लक्ष्यत इति भावः ।
निराकरोति ।
अयमपि नेति ।
विशेषणोपादानविरोधात् ।
न हि भेदमन्तरेण किं चिदस्ति वस्तुसद यतो विशेषणं व्यावर्त्तयोदिति भावः ।
हेतुभावानभ्युपगमादिति ।
( ३२४ । ५ ) न शब्दो ऽर्थप्रत्यायने लिङ्ग येन व्यभिचारेण दुष्यति ।
न च प्रत्यायकमात्रं व्यभिचारेण दुष्यति चक्षुरादीनामपि नीलादिव्यभिचारेण पीतादौ वर्त्तमानतया व्यभिचारिणामप्रत्यायकत्वप्रसङ्गात् ।
सङ्केतग्रहस्तु सत्यपि भेदानां व्यभिचारे चैकैकजातिक्रोडीकृतानां सुकर एवेति भावः ।
भेदवाचकत्वप्रतिषेधादिति ।
भेदवाचकत्वे निषिद्धे द्रव्यवाचकत्वं निषिद्धं भवति द्रव्यस्य भेदत्वात् ।
ततश्च द्रव्यशब्द इति व्याघात
इत्यर्थः ।
उक्तोत्तरमेतत् सच्छब्दद्रव्यशब्दयोरेकविषयत्वादिति ।
विशेषमात्रं विषयः सदादिशब्दस्य न पुनर्नियतो ऽयमेव नान्य इति भावः ॥
सत्ताशब्देन द्रव्यगुणकर्माणि नाक्षिप्यन्त
इति ।
सामानाधिकरण्ययोग्यतयेत्यर्थः ।
तदन्तरेण तदनुपपत्तेः ।
आक्षेपामात्रं तु शक्यं वक्तुमित्याह ।
शक्यं वक्तुमिति ।
पृष्ट्वासच्छब्दस्य गुणप्रधानभावेन त्रयोर् ऽथा इति सूत्रकारन्यायेनावधारयति ।
सदिति चायमिति ।
अर्थकृत इति ।
अर्थः कार्यं तत्कृतः ।
तदुक्तं भवति यस्य कार्येण सम्बन्धस्तत्प्रधानं यस्य कार्यसम्बन्धावच्छेदकत्वं तदङ्गमिति ।
एतेनेति ।
( ३२५ । ९ ) अर्थत्रयाभिधानेन ।
न हि स्वामिप्रत्ययो भवति भृत्ये ।
अपि तु तदर्थक्रियाकारितया स्वामिव्यपदेशमात्रमित्यर्थः ।
नात्र क्रमो न युगपत्प्रत्यय इति ।
( ३२६ । ३ ) भेदाधिष्ठाने क्रमयौगपद्ये नैकस्मिन् विशिष्टद्रव्यप्रत्यये सम्भवति इति ।
एतेनेति ।
शब्दस्य सत्ताविशिष्टद्रव्यबाचित्वाभिधानेनायथार्थज्ञानोत्पत्तिप्रसङ्गादिति प्रत्युक्तम् ।
परमार्थस्वच्छधवले हि स्फटिके नीलीद्रव्योपधानान्नीलाप्रत्ययो भवतु भ्रान्तः तस्य परमार्थतो नीलगुणासमवायात् ।
सत्तासमवायस्तु द्रव्यादीनां पारमार्थिक
इति न द्रव्यादिषु सदिति प्रत्ययस्य मिथ्यात्वमित्यर्थः ।
न हि कश्चिच्छब्द इति ।
स्वलक्षणानामशक्यसमयतया न कश्चिदपि शब्दो भवता तद्वाचकत्वेनाभ्युपेयतैत्यर्थः ।
न च जातिशब्दस्येति ।
जातेरभावादिति भावः ।
न जातिशब्दो भेदानां वाचकः कस्य तर्हीति पूर्वं भेदान्प्रधानीकृत्योक्तं सम्प्रति तु जातिशब्दानित्येतावता अपौरुक्त्यम् ।
नास्ति विवाद इति ।
( ३२७ । २० ) अन्यापोहजात्योर्लक्षणाभेदे नास्ति विवाद इत्यर्थः ।
द्रव्यसच्छब्दयोस्तु सामानाधिकरण्यं न च श्रेदवाचकाः शब्दा इति व्याहतमिति ।
( ३२८ । ४ ) द्रव्यमिति हि विधिरूपमेवं सदित्यपि विधिरूपं तच्छब्दौ तयोर्वाचकौ तयोरन्यापोहार्थत्वं व्याहतं विधिशब्दौ चान्यापोहार्थाविति न सम्भवति ।
न च भेदानभिधायिनोः सामानाधिकरण्यमपि युज्यते ।
भिन्नाभ्यां हि निमित्ताभ्यामेकस्मिन्नर्थे भेदरूपे वर्तमानौ समानाधिकरणौ भवेतां भेदं चेन्नाभिधत्तो नैकत्र वर्तेयाताम् ।
अवर्त्तमानौ च भिन्नप्रवृत्तिनिमित्तपर्यवसितौ गौरश्व इतिवन्न समानाधिकरणौ भवितुमर्हतः ।
सो ऽयमपरो व्याघातः ।
भेदानभिधानं च सामानाधिकरण्यं चेति ।
तदनेन व्याघातद्वयमुक्तं तदेतद्व्याघातद्वयं निराचिकीर्षुराशङ्कते ।
उपचारतो न व्याघात इति चेत् ।
तदेतद्विभजते द्रव्यसच्छब्दाविति ।
तदनेन प्रथमो व्याघातः परिहृतः ।
द्वितीयं व्याघातं शङ्किता परिहरति ।
तावेताविति ।
ब्रूतः प्रतिपादयतो ऽध्यवस्यत
इति यावत् ।
एतदत्राकूतम् ।
विकल्पयोनयो हि शब्दास्तदेवाभिनिविशन्ते यद्विकल्पानां गोचरः ।
कार्यकारणयोः सामानाधिकरण्येन प्रतिपत्तेः ।
चतुष्टयी चेयं विकल्पानां सदसद्धर्मिसद्धर्मावगाहिनां जातिः ।
गौरीश्वरो नीलं नित्त्यमित्येवमादीनां न च विकल्पानां गोचरो यो विकल्पते देशकालावस्थाभेदेनैकत्वेनानुसन्धीयते तदेवेदमिति ।
एव च स शब्दगोचरः तत्र शब्दानां शक्यसङ्केतत्वात् ।
न च स्वलक्षणानि त्रैलोक्यविलक्षणान्येवमिति न विकल्पविषयः ।
न च सामान्यं नाम किं चिदस्ति यद्विषयः स्यात् ।
अत एव न तद्वन्ति स्वलक्षणान्यपि तेषां सामान्यानामभावे तद्वत्तायाः स्वलक्षणेष्वभावात् ।
अपि चास्तु सामान्यं वस्तुसत् तथा ऽपि नित्यत्वादनुपकार्यतया स्वलक्षणाधारत्वानुपपत्तिः
आधारत्वमपि हि करणत्वमेव ।
पतनधर्माणो हि बदरादयः कुण्डादिभिरपतनधर्माणः क्रियन्त ।
न च नित्यं क्रियत इति नाधेयम् ।
तथा वृक्षत्वशिंशपात्वे स्वतन्त्रे एव सामान्ये स्वशब्दाभ्यामवगमिते न गौरश्वर इतिवत्सामानाधिकरण्यं भजेताम् ।
अपि च भवतु नित्यस्याप्युपकार्यत्वेनाधेयत्वं तथा ऽप्येतद्विकल्पनीयम् ।
किं येनैव स्वभावेन तत्स्वलक्षणं वृक्षत्वमुपकरोति तेनैव शिंशपात्वमपि अथ स्वभावान्तरेण ।
अथ हि स्वभावान्तरेणप स्वभावभेदादन्यत्स्वलक्षणं शिंशपात्वाधारो ऽन्यच्च वृक्षत्वाधार
इति पुनरपि गौरश्व इतिवत्सामानाधिकरण्याभाव
एव ।
अथैकेन स्वभावेन स्वलक्षणं सर्वसामान्योपकारि तथापिपव स्वभावाभेदे तदुपकाराधीनस्वभावानां सामान्यानां च मध्ये एकसामान्यवतः स्वलक्षणस्य एकेन शब्देन विकल्पेन वा ग्रहणे सर्वेषां तदेकोपकारनिबद्धस्वभावानां सामान्यानां ग्रहणात्सद् द्रव्यपार्थिववृक्षशिंशपाविकल्पानां शब्दानां च पर्यायत्वप्रसङ्गः ।
यथाह। ॥। एकोपकारके ग्राह्ये नोपकारास्ततो ऽपरे ।
दृष्ट तस्मिन्नदृष्टा ये तद्ग्रहे सकलग्रह ॥।
इति ।
तस्मान्न सामान्यवद्भेदगोचरा विकल्पाः ।
स्वलक्षणभेदगोचरत्वनिषेधेन ज्ञानग्राह्याकारगोचरत्वमप्यपास्तम् ।
स्वाकारमबाह्यं बाह्यमध्यवस्यन् विकल्पः स्वाकारबाह्यविषय
इति चेत् ।
यथाह ॥। स्वप्रतिभासे ऽनर्थे ऽर्थाध्यवसायेन प्रवृत्ति ॥। रिति ।
अथ को ऽयमध्यवसायः ।
किं ग्रहणमाहो स्वित्करणम् ।
उत योजना अथ समारोपः ।
तत्र स्वप्रतिभासमनर्थमर्थं कथं गृह्णीयात् कुर्याद्वा विकल्पः न हि पीतं नीलं शक्यं ग्रहीतुं कर्तुं वा शिल्पिशतेनापि ।
नाप्यगृहीतेन स्वलक्षणेन स्वाकारं योजयितुमर्हति विकल्पः ।
न च स्वलक्षणं विकल्पगोचर इति चोपपादितम् ।
न च स्वाकारमनर्थमर्थ आरोपयति ।
न तावदगृहीतः स्वकारः शक्य आरोपयितुमिति तद्ग्रहणमेषितव्यम् ।
तत्किं गृहीत्वा आरोपयति अथ यदैव गृह्णाति तदैवारोपयति ।
न तावत् पूर्वः पक्षः न हि विकल्पज्ञानं क्षणिकं क्रमवन्तौ ग्रहणसमारोपौ कर्तुमर्हति ।
उत्तरस्मिंस्तु पक्षे विकल्पस्वसम्वेदनप्रत्यक्षा द्विकल्पाकारादहङ्कारास्पदादनहङ्कारास्पदं समारोप्यमाणो विकल्पो नास्वगोचरो न शक्यो ऽभिन्नः प्रतिपत्तुं नापि बाह्यस्वलक्षणैकत्वेन शक्यः प्रतिपत्तुं विकल्पज्ञानेन स्वलक्षणस्य बाह्यस्वयाप्रतिभासनात् ।
तस्मादेष विकल्पविषयो न ज्ञानम्न ज्ञानाकारो नापि बाह्य इत्यलीक
एवास्थेयः ।
यथाह भदन्तधर्मोत्तरः। ॥। बुद्ध्या कल्पिकया विविक्तमपरैर् यद्रूपमुल्लिख्यते बुद्धिर्नो न बहिरिति ॥। ।
तथापि विकल्पज्ञानाद्वाह्याभिमुखी प्रवृत्तिस्तदर्थिनां न स्यात् ।
तस्मादलीकबाह्यमेषां विषयः
बाह्यभेदाग्रहश्चास्य बाह्यत्वं न पुनर्बाह्याभेदग्रहः ।
विकल्पगोचरेव बाह्ये तदभेदग्रहस्याशक्त्वात् ।
तस्मान्निर्विकल्पकपृष्ठभाविनो विकल्पाः
तदुपनीतबाह्यस्वलक्षणभेदं स्वग्राह्यालीकस्यागृह्णन्तः
तदभिमुखं प्रवर्त्तयन्ति व्यवहर्तॄनर्थिनः पारर्ंयेण तत्सम्बन्धात् ।
प्राप्तेर्न्न विसम्वादयन्ति लोकम् ।
तेषां च विकल्पविषयाणां न तैरेव विकल्पैः परस्परतो भेदो गृह्यते नापि विकल्पान्तरैरिति भेदाग्रहादभेदमभिमन्यते पुरुषः तदभेदाच्चावमर्षाणाम् अभेदः
तदभेदाच्च तद्धेतूनामविकल्पधियामभेदः
तदभेदाच्च स्वलक्षणानामविकल्पधीविषयाणामप्यभेदः ।
यथाऽह। ॥। एकप्रत्यवमर्षस्य हेतुत्वाद्धीरभेदीनी ।
एकधीहेतुभावेन व्यक्तीनामप्यभिन्नतेति ॥।
॥ तत् सिद्धमलीकं बाह्यं विषयोविकल्पानां शब्दानां चेति ।
तच्चेदमन्यव्यावृत्तिरूपं भावाभावसाधारण्याच्चात्यन्तीवलक्षणानीं सालक्षण्यापादनाच्च ताद्रूप्यानुभवाच्च ।
तथा हि यद्भावाभावसाधारणं तदन्यव्यावृत्तिरूपमेव ।
यथाप ऽमूर्त्तत्वं तत् खलु विज्ञाने च शशविषाणे च साधारणम् ।
तथा च विवादाध्यासिता विकल्पविषयाः घटपटादय
इति स्वभावहेतुः ।
गौरस्ति गौर्नास्तीति हि भावाभावसाधारणो गावादिविकल्पविषयो विधिरूपस्वलक्षणवद्भावासाधारण्ये नास्तीत्यनेन न सम्बध्यते विरोधात् ।
अस्तीत्यनेनापि न सम्बध्यते पौनरुक्त्यात् ।
भावाभावसाधारणग्रहणञ्च नानिमित्तं नाप्यन्यनिमित्तं न हि विधिरूपविषयस्य तत्स्वरूपविषयस्य वा विधिधर्मापातिनस्तत्र निमित्तभावः सम्भवति ।
तस्मान्निमित्तवत्तया साधारणग्रहणं व्याप्तं विपक्षान्निमित्तवत्त्वस्य व्यापकस्यानुपलब्ध्या निवर्त्तमानमन्यव्यावृत्तिविषयत्वेन वयाप्यत इति प्रतिबन्धसिद्धिः ।
अपि चात्यन्तविलक्षणानां सालक्षण्यम् अन्यव्यावृत्तिकृतमेव ।
यथा गवाश्वमहिषमातङ्गानामत्यन्तविलक्षणानामपि सिंहव्यावृत्या सालक्षण्यम् ।
तथा च बाह्यस्य स्वलक्षणस्य विधिरूपस्य परमार्थसतो ऽपरमार्थसतात्यन्तविलक्षणेन सालक्षण्यमिति स्वभावहेतुः ।
बाह्यंहि विधिरूपमप्यगोव्यावृत्तम् ।
विकल्पविषयो ऽपि चेदगोव्यावृत्तस्ततः सालक्षण्यं नान्यथा तथा च सालक्षण्यमिति निमित्तवत्तया व्याप्तं तदनुपलब्ध्या विपक्षाद्व्यावर्त्तमानं स्वसाध्येन व्याप्यत इति प्रतिबन्धसिद्धिः ।
अपि चानुभूयत एव विकल्पविषयो व्यावृत्तिरूपः ।
तथा हि ।
तदप्रतिभासने गां बधानेति देशितो ऽश्वं बध्नीयाद् गोरश्वाद्प भेदेनाप्रतिभासनात् ।
प्रतिभासे वा कथं नागोव्यावृत्तिप्रतिभासः ।
तस्मादन्यापोहगोपचरौ शब्दविकल्पाविति ।
तदेतदुक्तम् वार्तिककृता ।
तावेतावसद्द्रव्यव्युदासरूपेण प्रवर्तमानावेकमर्थमधिकुरुत
इति ।
( ३२८ । ८ ) एकं स्वलक्षणमध्यवस्यतः अध्यवसायश्च स्वविषयस्य स्वलक्षणाद्भेदेनाग्रह इत्युक्तम् ।
अत्रोच्यते ।
जातिस्तावदुपपादितसद्भावा तत एव तद्वतीव्यक्तिरपि परमार्थसती ।
स्वाभाविकश्च सम्बन्धो व्यक्तेर्जात्या सह नोपकारमपेक्षते ।
अपि चानित्यस्याप्युपकार्यता क्षणभङ्गभङ्गौपपादयिष्यते ।
यथा चैकोपाधिग्रहे ऽपि नोपाध्यन्तरविशिष्टग्रहस्तथोपपादितं प्रत्यक्षलक्षणावसरे ।
न चात्यन्तासतः केन चिदसदूपस्य प्रथोपपद्यत- इति सारूप्यनिमित्तां भ्रान्तिमुपपादयता वार्तिककृतोक्तम् ।
उपपादितं चास्माभिः ।
तस्माज्जातिमत्यो व्यक्तयो विकल्पानां शब्दानां च गोचरः
तासां तद्वृत्तीनां रूपमतज्जातीयव्यावृत्तमित्यर्थः
अतस्तदवगतेर्न्न गां बधानेति चोदितो ऽश्वादीन् बध्नाति ।
न च शब्दार्थस्य जातेर्भावभावसाधारण्यं नोपपद्यते ।
सा हि स्वरूपतो नित्या ऽपि देशकालविकीर्णानन्तव्यक्त्याश्रयतया भावाभावसाधारणी भवत्यस्तिनास्तिसम्बन्धयोग्या ।
वर्तमानव्यक्तिसम्बन्धिता हि जातेरस्तिता अतीतानागतव्यक्तिसम्बन्धिता च नास्तितेति ।
सन्दिग्धव्यतिरेकित्वादनैकान्तिकं भावाभावसाधारण्यमन्यथासिद्धं चेति ।
जातिमती व्यक्तिर्विकल्पगोचरो नालीकमिति कस्य वस्तुना सह सादृश्यायान्यव्यावृत्ति–
रूपतास्थीयते ।
अपि चालीकस्य समस्तसामर्थ्यविरहिणो ऽत्यन्तविसदृशस्य समर्थेन स्वलक्षणेन विधिरूपेण किं सादृश्यम् ।
अन्यव्यावृत्तिरिति चेत् ।
नन्वन्यव्यावृत्तिर्भाविकी स्वलक्षणस्य स्वभावो वा अन्यो वा न तत्स्वभावो विधिरूपेण विरोधात् ।
अविरोधे वा विधिनिषेधयोरेकत्वाद्विधिरूपतानिषेधेनालीकस्य स्वलक्षणसारूप्यायान्यव्यावृत्तिरूपतोपपादनमनर्थकम् ।
विधिरूपेणानुच्छेन तुच्छस्य सारूप्यमनुपपन्नमिति चेत् ।
हन्त भोः स्वलक्षणस्यास्ति किं तुच्छमपि रूपं येनालीकस्य तुच्छस्य सारूप्यं स्यात् ।
तथा सत्ययमेकस्य स्वलक्षणस्य तुच्छातुच्छविरुद्धस्वभावद्वयसमावेशमभ्युपगच्छन्
श्लाघनीयप्रज्ञो देवानाम्प्रियः ।
न च स्वलक्षणोदन्यव्यावृत्तिरलीकमन्यव्यावृत्तं स्वलक्षणेन सरूपयति तथा सति हस्तिमशकावपि रासभः सरूपयेत् ।
धर्मो न च स्वलक्षणधर्मो व्यावृत्तिर्भवद्भिरभ्युपेयते ।
स्यादेतत् ।
अध्यवसीयमानमपि स्वलक्षणं न परमार्थसत्, अपि तु तदपि कल्पितम्, तस्मात्तस्य विधिनिषेधरूपता न विरुध्यते, वस्तुनि हि विरुद्धधर्माध्यासो विरुध्यते नावस्तुनि तेनास्य विधिरूपपरित्यागेन निषेधरूपतामुपादायालीकस्य सारूप्यमुपपद्यते ।
यथाऽह— ॥। यच्च गृह्यते यच्चध्यवमीयते ते द्वे अप्यन्यब्यावृत्ती न वस्तुन ॥।
इति ।
अथालीकस्य स्वलक्षणस्यालीकसादृश्ये किं सिध्यति ।
न तावत् तत्र प्रवृत्तिः असतः प्रवृत्तिविषयत्वायोगात् ।
सतस्तु प्रवृत्तिविकल्पस्य न सादृश्यमसता सादृश्ये वा वृथा अलीकस्वलक्षणाभ्युपगमः ।
अथ न वयमलीकं स्वलक्षणान्तरमातिष्ठामहे किं त्वलीकस्यैव दाहपाकादिकसामर्थयरोपम् ।
न तत्स्वलक्षणं तस्य सर्वतो व्यावृत्त्या अभिलापसंसर्गायोग्यत्वेन विकल्पज्ञानप्रतिभासाभावात् ।
अभिलापसंसर्गयोग्यस्य चान्वयिनो ऽस्वलक्षणत्वात् ।
तस्मात्स्वान्वयिनो ऽन्यव्यावृत्तिरूपस्यासमर्थस्यापि सामर्थ्यं समारोप्य तत्तदर्थिनो व्यवहर्त्तॄन् प्रवर्त्तन्ते लोकविकल्पाः पारम्पर्येण सम्बन्धात्समर्थं वस्तु प्रापयन्तो न विसंवादयन्ति लोकमिति युक्तमुत्पश्यामः ।
अथास्य अतदर्थक्रियासामर्थ्यारोपः किं दृष्टार्थक्रियास्वलक्षणसालक्षण्येनाहो स्विदनादिवासनावशात् ।
तत्र स्वलक्षणेन सर्वतो व्यावृत्तेन समर्थेन समस्तसामर्थ्यविरहिणो ऽन्वयिना न किञ्चिदस्ति सारूप्यम् ।
अन्यवृत्त्या तु सारूप्ये विधिरूपेणापि प्रसङ्गः ।
तस्यास्ततो भेदाभावादित्युक्तम् ।
अनादिवासनावशात्तु तदारोपे प्रथमदर्शने ऽपि नालिकेरद्वीपागतस्य वह्नौ दाहपाकादिसामर्थ्यज्ञानप्रसङ्गः ।
वह्निस्वलक्षणाद्दाहपाकादिकारिणो भेदाग्रहादलीकस्य तद्रूपसमारोप इति चेत् ।
किं स्वलक्षणे गृह्यमाणे अथागृह्यमाणे ।
न तावद्गृह्ममाणे तस्य विकल्पज्ञानगोचरत्वाभावादित्युक्तम् ।
तत्समयभावि त्वविकल्पकं तत्त्वं गृह्णदपि न विकल्पे स्वविषयं निवेशयति ।
तस्य ततो ऽन्यत्वेन तद्वार्त्तानभिज्ञत्वात् ।
एवं विकल्पज्ञानमपि समनन्तरोत्पन्ननिर्विकल्पकव्यापारपारम्पर्ये ऽपि न स्वलक्षणं गोचरयितुमर्हति ।
तस्याभिलापसंसर्गयोग्यप्रतिभासविषयत्वादित्युक्तम् ।
समनन्तरप्रत्ययादविकल्पादुत्पत्तेस्तद्व्यापारपारम्पर्यादतद्गोचरो ऽपि तद्गोचर इवाभासत इति चेत् ।
अनुभववासनाभावेषु भेवदपीयं गतिर्न तु परोक्षाभावावगाहिष्वविद्यावासनाप्रभवेषु सम्भवति ।
अपि चानुभववासनाप्रभवस्यापि तद्गोचरत्वाभिमानस्तस्मिन्नप्रथमाने तदुत्पत्तिमात्रान्न भवितुमर्हति ।
अगृह्यमाणे तु वह्निस्वलक्षणे ततो भेदाग्रहेण तद्रूपारोपे त्रैलोक्यरूपारोपप्रसङ्गो नियमहेतोरभावात् ।
न हि तदानीमगृह्यमाणतया त्रैलोक्याद्वह्निस्वलक्षणस्य कश्चिद्विशेषः
वह्निस्वलक्षणविषयनिर्विकल्पकप्रभवत्वेन तस्मिन्नियते अविद्यावासनाप्रभवेषु प्रधानेश्वरादिविकल्पेषु तदभाव इति नियमो न स्यात् ।
न चाग्रहेण तदारोपसम्भव इत्युक्तम् ।
तस्मादलीकस्य बाह्यत्वं विकल्पगोचर इति रिक्तं वचः ।
अपि च ज्ञानाकारवत्स्वलक्षणवच्चालीकग्राह्यत्वमपि न विकल्पगोचरो भवितुमर्हति ।
एतद्धि कल्पनाधीनमुत्पन्नायां कल्पनायामुत्पन्नमिव विनष्टायां नष्टमिव विकल्पनाभेद भिन्नमिव न शक्यमेकत्वेन प्रतिकर्त्तुम् ।
भेदानवमर्षादिति चेत् ।
किमस्यानवमृष्टमपि तत्त्वम् ।
ओमिति चेत् ।
न तर्हिं कल्पितम् ।
ननु नास्य भेदो ऽपि स्वाभाविकः स्वाभाविको हि भेदाभेदाभ्यां युज्यते न त्वलीकम् ।
मा भूद्भेदो ऽस्य स्वाभाविकः कल्पनाधीनं तु तदलीकं तद्भेदाद्भिन्नं प्रतिपत्तव्यम् ।
अन्यथा तदधीनत्त्वापत्तेः ।
इदमेव हि तस्य विकल्पितस्य कल्पनाधीनत्वं यत्कल्पनाभेदाभेदानुविधानं नाम तदधीनत्वे तु कल्पितत्वानुपपत्तेरनलीकत्वप्रसङ्गात् ।
तन्मा नाम भूतामस्य स्वाभाविके नानात्वैकत्वे न तु भिन्नकल्पनानुपाति शक्यमेकत्वेन प्रतिपत्तुमिति भिन्नं प्रतिपत्तव्यम् ।
तत्सिद्धं विकल्पागोचरत्वमलीकबाह्यस्य
अभिलापसंसर्गायोग्यत्वात्सुखादिस्वलक्षणवदिति ।
अभिलापसंसर्गायोग्यं हि तत् तेनाशक्यसमयत्वात् सुखादिलक्षणवदिति ।
शक्यसमयतया खल्वभिलापसंसर्गयोग्यता व्याप्ता अन्यथा ऽतिप्रसङ्गात् ।
सालीकबाह्यतायाः प्रतिविकल्पं भिन्नाया व्यावर्त्तमाना ऽभिलापसंसर्गयोग्यत्वमपि व्यावर्त्तयतीति प्रतिबन्धसिद्धिः ।
अपि चेदमलीकमगोव्यावृत्तिरूपं वा तद्धर्मो वा ।
अगोव्यावृत्तिरूपं चेत् ।
न तदसिद्धं गवि शक्यं ग्रहीतुम् ।
अगौश्च गोनिषेधात्मेति गोसिद्धिमपेक्षत इति दुरुत्तरमितरेतराश्रयत्वं तद्धर्मत्वे वा गोत्वमेवास्तु भाविकं तद्धर्मो विधिरूपः कृतमलीकेनाविधिरूपेण ।
तद्धर्माणां तद्भाविकत्वसाधनं च निराकृतं तस्य च भावाभावसाधारण्यमुपपादितं तद्विस्तराद्विभ्यतो ऽपि बहुतरविस्तरे पतिताः स्म इत्यास्तामेतन्नास्तिकमानोपमर्द्दनमिति ।
उपचारतो न व्याघात इति चेदिति शङ्कायाः परिहारवार्त्तिकम् ।
मुख्यासम्भवादिति ।
( ३२८ । ११ ) सर्वत्र मुख्यपूर्वक उपचारो वा समारोपो वा दृष्टः तव तु राद्धान्ते न विधिविषयः कश्चिदस्ति मुख्यः शब्दो वा विकल्पो वा सर्वस्य निवृत्तिगोचरत्वात् ।
न चाध्यवसेयो विधिः सम्भवतीत्युपपादितमधस्तादिति भावः ।
न चान्यापोहपक्ष उपचारो युक्तः उभयोः प्रधानशब्दत्वादिति ।
न हि सिंहत्त्वं नाम किं चिदस्ति सिंहव्यक्तिषु यन्मानणवके न स्यात् ।
अपि तु प्रसह्यकारित्वादिव्युदासो माणवके नास्तीति सिंहव्यक्तिष्विव माणवके ऽपि सिंहशब्दो मुख्य एव स्यादित्यर्थः ।
किं गौरगौरिति ।
( ३२९ । ५ ) अश्वादिरित्यर्थः ।
प्रैष्यप्रत्ययपूर्विका प्रैषस्य प्रैषविषये प्रवृत्तिः सम्प्रतिपत्तिः
अङ्गव्यतिरिक्तस्य चाङ्गिनः सेनावनबहुत्वसङ्ख्यादीनां भवद्भिरभ्युपगमादित्यर्थः ।
क्रियारूपत्वाच्चापोहस्य विषयो वक्तव्य इति ।
कर्म विषयः क्रियायास्तद्वक्तव्यमित्यर्थः कथमन्यविषयादिति ।
कथमन्यविषयादपोहदगोविषयागवि प्रतिपत्तिरिति ।
अथागोरिति ।
( ३३० । २ ) अस्ति हि का चित् क्रिया या ऽन्यस्यान्यविषया ।
यथा विज्ञानमात्मनोर् ऽथः विषयं वेत्यर्थः ।
निराकरोति ।
केन गोरिति ।
क्रिया हि चेतनानां प्रयत्नपूर्वा भवति ।
अपोहलक्षणा च क्रिया निषेधरूपा निषेधश्च प्राप्तिपूवकः न हि गोरगोत्वं केन चित्प्रसञ्जितं यत्प्रेक्षावता व्यपोह्येतेत्यर्थः ।
कथं चागवीति ।
अगवीति पदेन यो ऽयं प्रतिषेधो नासौप गोप्रतिपत्तिमन्तरेण भवतीत्यर्थः ।
अध्यासानुपपत्तेरर्थप्रत्ययो न युक्त इति ।
अपोहरूपोर् ऽथप्रत्ययो न युक्त
इत्यर्थः ।
किमपोहो वाच्यो ऽथावाच्य इति ।
अपोहादिशब्देनेत्यर्थः ।
यदि वाच्य इति ।
स्वरूपेणैवापोहो वाच्यो न चापोहापोहेनेत्यर्थः ।
स्यादेतत् ।
यद्यन्यापोहेन शब्दो न वर्तते कथं तर्हि द्व्यादिविशेषेष्वनेकशब्द एकापोहेन वर्तते ।
न ह्यत्रानेकत्वं नाम गोत्वमिव किं चिदस्ति सामान्यमित्यत आह ।
अनेकमिति चास्य पदस्य द्वयादिविषयत्वात् ।
( ३३१ । २ ) सामान्याधिगतावेकत्ववर्जितसङ्ख्यात्वसामान्याधिगतौ विशेष आश्रयितव्यः सङ्ख्यात्वसामान्यमेवैकत्ववर्जितं तत्र द्व्यादिविशेषाधिगतिहेतुर्न पुनरन्यापोहमात्रमित्यर्थः ।
न ह्यसति सामान्यशब्दादेकत्ववर्जितसङ्ख्यासामान्यवाचकादनेकशब्दाद्
विशेषाश्रयणे अन्यापोहमात्राद्विशेषाध्गितिरिति योजनीयम् ।
अब्राह्मणादिशब्दानामपीमेव गतिः ।
तत्रापि पुंस्त्वसामान्यमेव ब्राह्मणशब्दार्थ
इति ।
नीलोत्पलशब्दयोश्च प्रधानत्वादिति ।
अनीलानुत्पलव्युदासौ हि प्रधानौ नीलोत्पलशब्दावाहतुः
न ह्येतयोरस्ति विशेषणविशेष्यभावः परस्परासम्बन्धादिति भावः ।
एतेन नीलोत्पलशब्दयोरस्मिन्सिद्धान्ते प्रधानार्थत्वेन व्युत्पादनेन राजपुरुषशब्दौ व्याख्यातौ प्रधानत्वेन अत्राप्यराजापुरुषव्यवच्छेदयोर्नावच्छेद्य वच्छेदकभावः नापि स्वस्वामिभाव इत्यर्थः ।
समानाधिकरणयोश्चेति ।
शब्दविकल्पयोः परमार्थसद्वस्तुसंस्पर्शासम्भवादित्यर्थः ।
॥ ६५ ॥
न्य्स्_२,२।६६: व्यक्तिर्गुणविशेषाश्रयो मूर्तिः ॥
यत्र हि व्यक्त्याकृतिजातीनां समावेशस्तत्र व्यक्तिनिर्द्धारणाभेदं लक्षणम् ।
तेनाकाशाद्यनवरोधे ऽपि न दोषस्तत्राकृतेरभावादिति भाष्यमतम् ।
यथाह भाष्यकारः न सर्वं द्रव्यं व्यक्तिरिति ।
यद्यपि गुरुत्वादयः सामान्यगुणास्तथापि गुणान्तरेभ्योव्यावर्त्तमाना गुणविशेषा इत्युच्यन्ते ।
अव्यापिन इति ।
सर्वगतस्य द्रवयस्य परिमाणं व्यवच्छिनत्ति ।
मूर्च्छिताः परस्परं संयुक्ता अवयवा यस्य तन्मूर्च्छितावयवम् ।
कथं पुनरित्यादिभाष्यमाक्षिपति वार्त्तिककारः ।
अधिगतत्वादिति ।
स्वरूपागवमपूवर्कत्वाद्वाक्यप्रतिपादनस्य स्वरूपावगमो ऽपि तन्नान्तरीयकत्वात्सिद्ध
इत्याक्षेपाभिप्रायः ।
निराकरोति ।
न निमित्तत्रैविध्ये सति तद्विशेषविषयज्ञानपनार्थत्वात् ।
प्रश्नस्य शब्दप्रवृत्तिनिमित्तानां त्रैविध्ये सति तद्विशेष
एव विषयः तज्ज्ञापनमर्थः प्रयोजनं यस्य स तथोक्तः।एतदुक्तं भवति सिद्धं कृत्वा भेदमभिधेयत्वं ब्रयाणां प्रतिपादितम् ।
सम्प्रति स एव भेदः प्रतिपाद्यत इति ।
सूत्रमिति ।
बहूनामर्थानां सूचनादिति भावः ।
अत्रभाष्यव्याख्यानमुपन्यस्यति ।
व्यज्यत इति ।
( ३३२ । २ ) दूषयति एतत्तुनेति ।
व्यक्तिः पदार्थ इत्येतत् प्रकृतं तत्र यथावयविनो व्यक्तेः पदार्थत्वमेवम् आकाशादीनां चोत्क्षेपणादीनां च तत्तथा लक्षणं व्याख्येयं यथा सर्वं सङ्गृह्यते अन्यथा सूत्रकारो ऽकुशनलः स्यात्प तदर्थमाह ।
वयं तु ब्रम इति ।
अत्रेदं व्याख्यानम् ।
व्यक्तिरिति लक्ष्यनिर्द्देशः शेषं लक्षणम् ।
गुणविशेषा इति द्वेधा समासः गुणश्च विशेषश्चेति प्रथमो विग्रहः तेनाकृतिर्निराकृता सङ्गृही ताश्च रूपादयो भवन्ति ।
तथा ऽप्युत्क्षेपणादिव्यक्तेरसङ्ग्रह
इति द्वितीयो विग्रहः ।
गुणेभ्यो विशेषा गुणविशेषाः गुणेभ्यो व्यावृत्ता उत्क्षेपणादय
इति यावत् ।
तथा ऽपि न द्रव्यं सङ्गृह्यतैत्यत
आह ।
आश्रय इति ।
तच्छब्दाध्याहाराद् गुणविशेषाश्रयो द्रव्यमित्यर्थः ।
प्रतिपदमिति ।
गुण इति च विशेष इति चाऽश्रय इति चेति पदानि ।
अथ वा गुणविशेषाणामाश्रय इति चेति पदानि ।
अथ वा गुणविशेषाणामाश्रय इति गुणा रूपादयः विशेषाः कर्माणि गुणेभ्य इत्यर्थात् ।
तेषामाश्रयश्चेतिद्वन्द्व एव तेषामित्यर्थाद्गम्यते ।
तत्र मूर्च्छित इतिमूर्छनं सम्बन्ध इह चासौ समवाय इति ॥ ६६ ॥
न्य्स्_२,२।६७: आकृतिर्जातिलिङ्गाख्या ॥
जातिश्च जातिलिङ्गानि च जातिलिङ्गानि तान्याख्यायन्ते यया सा आकृतिः ।
शिरः पाण्यादिव्यूह
आकृतिर्जातिमनुष्यत्वादिकमाचष्टे ।
शिरोनासिकाललादीनां व्यूहो मनुष्यत्वजातिलिङ्गं शिर आचष्टे ।
शिरसा पादेन गामनुमिन्वन्तीति भाष्यम् ।
यद्यपि गोत्वं प्रत्यक्षमेव नाकृतिव्यङ्न्यं तथा ऽपि विप्रतिपद्यमानं प्रत्युच्यते अनुमिन्वन्तीति न पुनः सर्वा जातिराकृत्या लिङ्ग्यत इति ।
मृत्सुवर्णरजतादिका हि रूपविशेषव्यङ्ग्या जातिर्नाकृतिव्यङ्न्या ब्राह्मणत्वादिजातिस्तु योनिव्यङ्ग्या आज्यतैलादीनां जातिस्तु गन्धेन वा रसेन वा व्यज्यते ।
अत एव न सार्षपादीनां तैलत्वमस्ति तद्व्यञ्जकयोर्गन्धरसयोरभावात् ।
भाक्तस्तु तैलशब्दप्रयोगः क्षीरजातिरपि रसव्यङ्ग्यैव अत एवामिक्षायाः क्षीरत्वं न तु वाजिनस्य तव्यञ्जकस्य रसभेदस्य वाजिने ऽभावाद् आमिक्षायां च भावादिति ॥ ६७ ॥
न्य्स्_२,२।६८: समानप्रसवात्मिका जातिः ॥
प्रसूत इति प्रसवः समानबुद्धेर्भिन्नेषु पसोत्री या जातिः सा ऽवश्यं समानप्रत्ययं प्रसूते न पुनर्या समानप्रत्ययं प्रसूते सा जातिः ।
पाचकादिषु व्यभिचारादिति ।
व्यक्त्याकृतिभ्यां भेदकत्वमात्रेण चैतल्लक्षणं न तु सर्वथा वेदितव्यम् ।
यस्तु वैयात्यात्प्रत्यक्षे ऽपि विप्रतिपद्यते तं प्रत्यनुमानान्याह ।
गवादिष्वनुवृत्तप्रत्यय
इति ।
( ३३३ । १८ ) व्यपदेश इति सम्बन्धिना सम्बन्धान्तरस्य विशेषणं पुरुषो व्यपदिश्यते राज्ञ इत्यनेनेति ।
गोर्गोत्वानुवृत्तिप्रत्यया इति ।
पूर्वमनुवृत्तप्रत्ययमात्रम्पक्षीकृतम्
इह तु गोर्गोत्वानुवृत्तिप्रत्यय इत्यपौनरुक्त्यम् ।
कीर्तित इति ।
यथा लिङ्गं विवक्षितमन्तरत्वात् ।
अन्यत्र यथालिङ्गं प्रत्यय इति ।
नपुंसकमनपुंसकेनेति नपुंसकत्वं नाशङ्कनीयमिति ।
इति मिश्रश्रीवाचस्पतिविरचितायां न्याय-वार्त्तिकतात्पर्यटीकायां द्वितीयाध्याय-स्य द्वितीयमाह्निकम् ।
द्वितीयो ऽध्यायः समाप्तः ॥
तृतीयाध्यायस्य प्रथममाह्निकं
न्य्स्_३,१।१: दर्शनस्पर्शनाभ्यामेकार्थग्रहणात् ॥
अत्र भाष्यं परीक्षितानि प्रमाणानि प्रमेयमिदार्नी परीक्ष्य इति ।
वृत्तानुकीर्तनं प्रमेयपरीक्षां वर्तिष्यमाणां प्रति वृत्तायाः प्रमाणपरीक्षायाहेतुभावं दर्शयितुम् ।
प्रमाणेन हि प्रमेयं पीक्ष्यते नान्येन ।
न च तदपरीक्षितं प्रमेयपरीक्षायै प्रभवति ।
तस्मात्प्रमाणपरीक्षा हेतुः हेतुमती प्रमेयपरीक्षेति ।
द्वादशविधं प्रमेयं तत्कस्मात्प्रथमत
आत्मैव परीक्ष्यते न प्रमेयान्तरमित्यत आह ।
तच्चात्मादीत्यात्मा विचार्यत इति ।
(३३५।५) आत्मैव हि प्रमेयेषु प्रथममुद्दिष्टो लक्षितश्चेति तदनुरोधादात्मैव प्रथमं परीक्ष्यते न प्रमेयान्तराणीति ।
अत्र च यद्यपि स्वरूपेणात्मन्येव परीक्षां प्रतिजानीते तथा ऽपि लक्षणपरीक्षाद्वारेण लक्ष्यपरीक्षणाल्
लक्षणपरीक्षैव द्रष्टव्या ।
यथा चेयमात्मलक्षण्णपरीक्षा तथोपरिष्टाद्दर्शयिष्यते ।
तदेतद्वार्त्तिककारो व्याचष्टे ।
आनन्तर्यादिति ।
किं पुनः प्रयोजनं प्रमेयपरीक्षायाः न हि निष्प्रयोजनं परीक्षन्ते प्रेक्षावन्त इत्यत आह ।
यद्विषयो ऽहङ्कार
इति ।
अहङ्कार इत्यात्मादिविषयं मिथ्याज्ञानं निदिंशति ।
शरीराद्यभेदेनात्मदर्शनं खलु संसार प्रवर्तयतीत्युक्तं द्वितीयसूत्रे ।
अनेन प्रमेयपरीक्षायाः प्रयोजनवत्त्वं दर्शितम् ।
अत्र भाष्यकारेण विचारपूर्वरूपः संशयो दर्शितः ।
किं देहेन्द्रियमनोबुद्धिसङ्घामात्रमात्मेति ।
संशयकारणं चोक्तं व्यपदेशस्येति ।
यद्यपि वृक्षप्रासादयोरवयविसमुदाययोरन्ययोरेवावयवेन समुदायिना च व्यपदेशस्तथाप्यवयव्यभावं समुदायं च समुदाय्यनतिरिक्तं मन्वानस्य परस्योदाहरणं द्रष्टव्यम् ।
तदेतद्वार्तिककार
आक्षेप्तुं पृच्छति ।
किं पुनरस्येति ।
उत्तरम्व किं शरीरेति ।
आक्षियति नेति ।
समानधर्मणो धर्मिणो दर्शनात्संशयो न पुनरदर्शनादित्यर्थः ।
समाधत्तेः ।
नेच्छादिसूत्रेति ।
इच्छादयो हि कार्यत्वाल्लिङ्गमात्मन इति दर्शितम् ।
तान्येव तु लिङ्गानि दर्शयत्येषितारं परीक्षन्ते ।
किं देहेन्द्रियव्यतिरिक्त एषितैभ्यः सिध्यति आहो स्विदभिन्न इति युक्तो विचारः ।
अपि चायमात्मशब्दाभिधेयो धर्मी सर्वतन्त्रसिद्धः केवलमस्य शरीरेणं सह भेदाभेदे वादिनां विवाद इत्याह ।
अविप्रतिपत्तेश्चेति ।
(३३६।१) ननु चात्मासत्त्वे परैः प्रमाणान्यजातत्वादीन्युपन्यस्तानि तत्र कथं न तत्सत्त्वे विप्रतिपत्तिरत आह ।
असत्त्वप्रतिपादकप्रमाणाभावाच्चेति ।
वाद्येवासौ न भवति यो धर्मिणि विप्रतिपद्यते न हि धर्मिणि विप्रतिपद्यमानस्यास्ति किं चित्प्रमाणं सर्वस्य तस्याश्रयासिद्धेरप्रमाणत्वात् ।
अभावस्य च भावाधीननिरूपणस्यात्यन्तासद्भावानिरूपणात् ।
तस्माद्धर्म्यभाववादी न लौकिको न परीक्षक
इत्युन्मत्तवदुपेक्षणीयः ।
धर्म्यसिद्धिवादिनां प्रमाणमुपन्यस्यति ।
न नास्तीति ।
निराकरोति ।
तत्र नास्त्यात्मेति ।
यत्पुनरपरे समादधुः
अनादिवासनोद्भूतविकल्परिनिष्ठितः ।
शब्दार्थस्त्रिविधो धर्मी भावाभावोभयाश्रयः
॥ भावाश्रयो यथा नीलमिति अभावाश्रयो यथा शशविषाणमिति उभयाश्रयो यथा ऽमूर्तमिति ।
अमूर्तं हि भवति विज्ञानं भवति च शशविषाणम् ।
तस्मिन्बाह्यानुपादाने साध्ये ऽस्यानुपलम्भनम् ।
तथा हेतुर्न तस्यैवाभावः शब्दप्रयोगत इति ।
सो ऽयमात्मविकल्पो बाह्योपादानो न भवतीति ।
यथा नीलविकल्पो बाह्यनीलोपादानः नैवमात्मविकल्पो बाह्योपादानं
इत्यर्थः ।
तत्रैवं भवान्प्रष्टव्यो जायते ।
किमात्मविकल्पस्य बाह्योपादानत्वमात्रं प्रतिषिध्यते किं बाह्यात्मोपादानत्वम् ।
पूर्वस्मिन् सिद्धासाधनं मा भूदात्मविकल्पो बाह्यनीलाद्युपादानः किं नः छिन्नम् ।
उत्तरस्मिंस्तु कल्पे क्वायं बाह्यात्मा सिद्धः यदुपादानत्वं विकल्पस्य प्रतिषिध्यते ।
सिद्धश्चेत् क्वापि नास्यात्यन्ताय प्रतिषेधः ।
असिद्धश्चेत् कथमप्रतीतस्य निषेधः ।
प्रतीतो विकल्पे बाह्ये निषिध्यते चैत्र इव गेहे चत्वरतले निषिध्यत इति चेत् ।
एवमपि यत्र प्रतीतस्तत्र न निषिध्यते यथा भवद्भिरेवोक्तं न तस्यैवाभावः शब्दप्रयोगत इति ।
बाह्यश्चात्मा विकल्पेन नोपदर्शित इति प्रसक्त्यभावान्न शक्यो निषेद्धुम् ।
अप्रदर्शितोप्यध्यवसित इति प्रसक्त एवेति चेत् ।
ननु विकल्पस्य को ऽयमध्यवसायो नाम ।
ग्रहणादतिरिक्तः ग्राह्यस्य स्वाकारस्य वालीकस्य वा बाह्याध्यारोप इति चेत् ।
न बाह्याविषया विकल्पा बाह्यमारोपयन्तीति चित्रम् ।
न हि आरोपविषयरोप्ये अजानन् आरोपयितुर्महतीत्यसकृदावेदितम् ।
अपि च अलीकं प्रतीयमानं यथा न निषेद्धुं शक्यं प्रतीयमानत्वादेवमस्य बाह्यत्वमपि ।
मिथ्यात्वात्प्रतिषिध्यत इति चेत् तत्किमलीकमपि सत्यं यत्तदुल्लङ्घ्य बाह्यत्वं प्रतिषेद्धुमध्यवसितो ऽसि बाह्यभेदग्रहन्तदध्यवसायो न प्रसञ्जक
इति न निषेधगोचरः ।
न च ज्ञानकार आत्मा परमार्थसन् बाह्यत्वेनारोप्यमाणः प्रतिषिध्यत
इति साम्प्रतम् ।
विज्ञानमये हि सर्वथा बाह्यस्याग्रह तत्समारोपसम्भवात् ।
अत्यन्तासतश्च बाह्यस्य विज्ञानात्मनो ग्रहे तथाविधेनासता विज्ञानानात्मना विज्ञानग्रह्येण किमपराद्धं येन तद्ग्राह्यो न स्यादिति विज्ञाननयो दत्तजलाञ्जलिः प्रसज्येत ।
न चायमात्मा पूर्वापरकालावस्थायी क्षणिकविकल्पाकारो भवितुमर्हति येन तदाकारो बाह्यत्वेन प्रतिषिध्यते ।
तस्मादन्यत्र दृष्टमन्यत्र समारोप्य प्रतिषिध्यत इति युक्तम् ।
स च समारोपः क्व चित्स्वकारणप्रभवः क्व चित्प्रतिषिध्यते यथेन्द्रियादिदोषादुत्पन्नरजतज्ञानस्य शुक्तिकायां नेदं रजतमिति ।
क्वचित्पुनराहार्यो यथा नेह चैत्र इति ।
तस्मादात्मनो देशकालान्तरे वस्तुनि विकल्पनं विज्ञाने चासम्भवादत्यन्तासत्तो समारोपः तदभावादात्मन्येव नास्ति अस्ति चेत्कथमत्यन्ताय निषेधः ।
तस्मादात्मा नास्तीति पदयोर्व्याघातः ।
यद्यप्यात्मा नास्तीति पदानि तथा ऽपि नास्तीत्यैकपद्यं विवक्षित्वा पदे इति द्विवचनोपपत्तिः ।
पद्यते गम्यते ऽनेनार्थ
इति विवक्षित्वा पदसमुदायो ऽपि पदमुच्यते ।
यद्यपि घटादीनां देशान्तरादौ निषेधस्तथा ऽपि आत्मनो ऽत्यन्ताय भविष्यति न हि प्रतिषेधान्तरधर्ममवश्यं प्रतिषेधान्तरमनुबध्नातीत्यत आह ।
सर्वश्चायमिति ।
उपपादितमेतदधस्ताद् यथा चाननुभूतमशक्यमारोपयितुमिति न क्व चिदात्मन्यन्याधारत्वमुक्तं पिण्डाद्याधारा इति ।
पृच्छति ।
किमयमिति ।
(३३७।२) यन्न क्व चिदस्ति तदत्यन्तमसद् तथा चायं तस्मादत्यन्तमसन्निति भावः ।
उत्तरं न नास्तीति ।
न तावन्न क्व चिदस्तीति वाक्यमात्मानं स्वरूपेण निषेधति देशरूपविशेषप्रतिषेधात् ।
शङ्किता आह ।
केयं वाचोयुक्तिरिति ।
उत्तरवाद्याह ।
एषा वाचोयुक्तिरिति ।
एषा वक्ष्यमाणार्था ।
तदर्थमाह ।
यद्यथाभूतमिति ।
न हि पदार्थानां सत्ता देशबलेन व्याप्ता येन देशवत्त्वं निवर्त्तमानं तां निवर्त्तयेदिति भावः ।
न च कालविशेषप्रतिषेधो ऽपीति ।
कालान्तरप्रतियोगी एकैकः कालः कालविशेषः तत्प्रतिषेधो ऽप्यात्मन्ययुक्तः
न हि यथा घटादिष्ववच्छेदार्थः कालः तथा नित्य आत्मनि ।
प्रध्वंसाभाववान् घटः खल्वासन्नि तथात्वा प्रागभाववान् घटो भविष्यति न तथा आत्मा ।
अतीतप्रागभावो ऽनागतप्रध्वंसः
घटो वर्तमानो न च तथा आत्मा तस्मान्नास्यावच्छेदार्थेन त्रैकाल्यमुपावर्तते ।
अतीतानागतव्यपवृक्तवर्त्तमानक्रियाव्यङ्न्यः कालो ऽस्ति सदा नित्यानां यतो ऽस्त्यात्मा विद्यते व्योमेति तस्मादवच्छेदकत्रैकाल्याप्राप्तेः
न त्रैकाल्यप्रतिषेधः ।
अतीतानागतव्यप्रवृक्तक्रियाव्यङ्न्यस्य च वर्तमानस्याशक्यनिषेधत्वाद् नात्मनि कालप्रतिषेध इति स्थितम् ।
आत्मप्रतिषेधं चेति आत्मेति हि पदं लोकसिद्धं पद्यते ह्यनेन कश्चिदर्थः येन न कश्चिदर्थः पद्यते तदपार्थकं भवितुमर्हति ।
किमसतः सता साधर्म्यमिति ।
तर्हि भवतां सिद्धान्ते सर्वोपाख्यारहितमसन्त्प्रमेयमपीति भावः ।
अथ शरीरादेरात्मत्वं कल्पितं निषिध्यते शरीरादयो नात्मान इति तत्राह ।
आत्मसामान्यं चेति ।
अथ शरीरादीति ।
अहङ्कारस्तावत्परमार्थतः शरीरादिविषयः स्थूलो ऽहं गोरो ऽहमिति प्रत्ययात ।
तमिममात्मेति कल्पयित्वा विपर्यस्यति तदनुरूपं व्यपदिशति व्यवहरति च ।
सो ऽयं विपर्ययः प्रतिषिध्यते नास्त्यात्मेति ।
निराकरोति ।
एवं शरीरादीति ।
( ३३८ । १ ) न ह्यहङ्कारसमारोपविषयसत्त्वमनभ्युपगच्छतः समारोप उपपद्यते तस्मात्तत्प्रतिषेधतो व्याघात
इत्यर्थः ।
चतुर्णामुपादानरूपत्वात् तमस
इति ।
रूपरसगन्धस्पर्शाश्चत्वारो घटादिरूपेण परिणतास्तेषामुपादानरूपं न भ इति उपादीयतैत्युपादानम् ।
उपादेयरूपत्वादिति क्व चित्पाठःसतु सुसमः ।
सो ऽयं वात्सीपुत्राणां वैभाषिकाणां सिद्धान्तः तेन विरोध इत्यर्थः ।
सुगममन्यत् ।
अथायं भावप्रतिषेध इति ।
(३३९।१६) न जन्मात्रप्रतिषेधो ऽपि तु आत्मानो भावः सत्ता प्रतिषिध्यत इत्यर्थः ।
स्वतन्त्रस्य धर्मस्य समवायादन्यस्यादर्शनादिति ।
निकायो देवमनुष्यतिर्यगादीनामनौत्तराधर्येणावस्थितः सङ्घातः तद्विशिष्टाभिरित्यर्थः ।
कार्यं कारणं वेति ।
( ३४० । १४ ) यदि विषाणमवयवस्तदा कारणं यदि तु केशनखादितुल्यत्वेनानारम्भकत्वान्नावयवस्तदा कार्यं तस्मात्तत्प्रभवतीति ।
उक्तमप्यर्थं पुनर्विकल्पयन् पर्यनुयोगार्थमाह ।
इदं शशविषाणं नास्तीति ब्रुवाण इति ।
सामान्यप्रतिषेधो विषाणसम्बन्धमात्रप्रतिषेध इति ।
विशेषप्रतिषेधः कार्यकारणभावलक्षणसम्बन्धप्रतिषेध इति ।
विषयस्वभावभेदानुविधायीति ।
अहमिति विज्ञानं मानसं विषथस्यात्मनो यः स्वभावभेदः कर्तृत्वभोक्तृलक्षणो जाने ऽहं भुञ्जैत्यादिस्तदनुविधायि ।
एतदुक्तं भवति न केवलमात्मस्वरूपमात्मज्ञानस्य विषयस्तथा सति परसमवेतक्रिया फलशालित्वाभावेनात्मनः कर्मत्वाभावेनाकर्मतया तद्व्याप्यज्ञानस्यापि निवृत्तिप्रसङ्गात् ।
यदा तु धर्मवदात्मविषयं ज्ञानं भवति तदा धर्माणां परसमवेतकियाफलशालितया तद्व्याप्तस्य ज्ञानस्यापि निवृत्तिरिति ।
जानातिश्चात्मधर्मकर्मा आत्मानमपि गोचरयतीति सूक्तं विषयस्वभावभेदानुविधायीति ।
अहङ्कारालम्बनेति ।
( ३४१ । १६) आलम्ब्यते अनेनेत्यालब्नं ज्ञानमहङ्कारेण च विषयिणा विषयमुपलयति ।
देशयति ।
ननु भवत्यहं गौर इति ।
परिहरति न भवतीति ब्रूम इति ।
न व्यपदेशमात्रं देहाद्यव्यतिरिक्तात्मसद्भावसाधनमस्माभिरुक्तं येनानैकान्तिकं भवेत् ।
अपि त्वनुभवः ।
स च न शरीरादिष्विदमो विषयेष्वस्ति ।
अपि त्सम्भिन्नेदंविषयो ऽहम्प्रत्ययः शरीरादयस्तु मतुब्लोपादभेदोपचाराद्वा ऽहमा विषयीक्रियन्ते ।
ममात्मेति तु व्यपदेशमात्रं न पुनः शरीरादिष्विव मकारस्तत्र मुख्यो भेदेनाप्रतिभासनात् ।
राहोः शिर इतिवत्तु ममकार आत्मनि द्रष्टव्यः ।
अत एवाह ।
ममप्रत्ययेति ।
(३४२।२) न पुनर्ममकारमात्रं तस्मात्सर्वं रमणीयम् ।
विरुद्धा प्रतिपत्तिर्विप्रतिपत्तिर्बाधितेति यांवत् ।
कः साधनार्थ इति ।
कः साधनशब्दस्यार्थः ।
अथानुपलब्धिरपि नास्तीति ।
भावरूपो धर्मो ऽसति विरुध्यते नासद्रूप उभयोः समानशीलत्वादित्यर्थः ।
निराकरोति ।
कः साधनार्थो ऽनुपलब्धेरिति ।
असत्यास्तुच्छाया अनुपलब्धेः कः साधनत्वरूपो ऽर्थ इत्यर्थः ।
शङ्कते ।
अथ कल्पितस्येति ।
(३४३) नापलब्धिस्तुच्छा किं तु तत्त्वान्तरं सत् सा तु कल्पिताश्रयतया नाश्रयासिद्धेत्यर्थः ।
एतद्विकल्प्य निराकरोति ।
कथं कल्पितस्येति ।
न हि तात्त्विक्यनुपलब्धिः परमार्थसदाश्रया कल्पितसत्त्वस्य धर्मिणो धर्मो भवितुमर्हतीत्यर्थः ।
द्वितीयं कल्पमाशङ्कते ।
अथासत्त्वेनेति ।
निराकरोति ।
सिध्यत्यनुपलब्धिरिति ।
असत्त्वेन कल्पितस्पय पारमार्थिकं सत्त्वमनुमन्तव्यम् ।
असत्यसत्त्वकल्पनाया अयोगात् तथा च भावाश्रयानुपलब्धिस्तात्विकी सिध्यत्येव ।
यदर्थं त्वसौ तदेव पारमार्थिकमसत्त्वमात्मनो न सिध्यति असत्त्वस्य काल्पनिकत्वाभ्युपगमाद्भवद्भिरित्यर्थः ।
अपि चायमसत्वेन सन्तमात्मानं कल्पयित्वा ऽत्यन्तासत्वमनुपलब्धेरस्य साधयितुमध्यवसितः ।
तच्चास्य सधर्मेणानुपलब्ध्या न सिध्यति ।
न जातु स्थाणुधर्मेण कल्पितेन पुरुषे स्थाणुत्त्वं पारमार्थिकं शक्यं साधयितुमित्याह ।
किमर्थं चायमात्मेति ।
रूपादिशब्देभ्यो ऽन्यत्वे सतीति ।
यदि हि पदत्वादित्युच्यते रूपादिशब्दैरनैकान्तिकं स्यादत उक्तम् ।
रूपादिशब्देभ्यो ऽन्यत्वे सतीति ।
यद्येकपदत्वादित्युच्येत रूपादिशब्दैरनैकान्तिकं स्यादत उक्तं रूपादिशब्देभ्यो ऽन्यत्वेसतीति ।
तथा ऽपि रूपविज्ञानवेदनासञ्ज्ञासंस्कारा इत्ययं शब्दो रूपादिवाचको यः शब्दो रूपं वेदना सञ्ज्ञा विज्ञानमित्यादिस्ततो ऽन्यो ऽसमस्तादन्यः समस्त इति तेनानैकान्तिकत्वमत
उक्तमेकेति ।
तेन रूपादिवाचकैकपदव्यतिरिक्तं यदेकपदं तद्रूपादिव्यतिरिक्तस्य वाचकं यथा घटादिपदं तथा चात्मपदं तस्मात्तदपि तथेति ।
एतेनेति ।
आत्मशब्दसाध्यत्वेनैवासम्भिन्नेदम्प्रत्ययो ऽहम्प्रत्ययो व्याख्यातः ।
शङ्कते असिद्ध इति ।
घट इति रूपादय एवैकोदकाहरणावच्छिन्ना उच्यन्ते ।
न तु रूपाद्यतिरिक्तो घटो नाम कश्चिदस्तीत्यर्थः ।
निराकरोति ।
अत्रोक्तमिति ।
उपादेयरूपत्वात्तमस
इति ।
यथा दाय इति देयमुच्यते एवमुपादायेत्यनेनोपादेयमिति ।
सविषयत्वं सद्विषयत्वं सिद्धान्तिनोक्तमिति मन्वानश्चोदयति तमः शब्दस्य सविषयत्व
इति ।
यद्यप्यभावविषयत्वे ऽपि न निर्विषयत्वं तथा ऽपि देशकाभिमानमनुविदधानः परिहरति न सूत्रार्थे पुनर्दृष्टान्तो नास्तीति ।
(३४४।१०) पूर्वमात्मानुपकारकत्वे साध्ये दृष्टान्ताभाव उक्तः पुनरिहोच्यैत्यर्थः ।
देशयति ।
अथात्मशब्द इति ।
यो योवर्णात्मकः ससर्वो ऽनित्यविषयो यथा घटादिशब्दः
तथा चानित्यत्वे सति तद्विज्ञानमेव स्यान्नात्मेति फलत आत्मप्रतिषेध इत्यर्थः ।
एतदपि दूषयति ।
तथापीति ।
नित्यशब्दस्तावन्नित्यमाचष्टे अन्यथा न तत्प्रतिषेध इत्यर्थः ।
शङ्कते अथेति ।
सिद्धसाधननिवृत्त्यर्थं शरीरादिव्यतिरिक्तविषय इति ।
निराकरोति तथापीति ।
रूपादिस्कन्धपञ्चकातिरिक्तं नास्तीति भवतां राद्धान्तस्तदतिरिक्ताभ्युपगमेन विरुध्यतैत्यर्थः ।
यदि विवक्षितार्थव्यतिरेकेणेति ।
(३४५।८) वादिनो हि शरीरेन्द्रियबुद्धिवेदनासङ्घातस्पय पारार्थ्यं विवक्षितं परार्थाश्चक्षुरादय
इति ब्रुवतोपव न सङ्घातपरार्थत्वं तच्चेह पक्षधर्मताबलात्सिध्यदस्याभिप्रायेण व्याप्यते न तु साक्षाद्विवक्षितं तद्वदिहाभिप्रायव्याप्तं विवक्षितमारोप्य यद्यन्वयविरोधौ देश्येते ततः सर्वानुमानोच्छेदः एतच्चेश्वरसिद्धौ निपुणतरमुपपादयिष्यते ।
अथानुमानेन बाध्यत–इति ।
सङ्घातत्वानुमानमेवाभिप्रेतविपरीतसङ्घातपरार्थत्वपक्षो व्यवस्थालक्षणानिष्टप्रसङ्गरूपतर्कसहायमस्य बाधकं प्राणादिसत्त्वानुमानं चेति ।
एकदेशेन च एकदेशान्तराणामिति ब्रुवतो वार्तिककारस्य गृहप्रप्रासादायतो नावयविनो विजातीयानामनारम्भकत्वादित्यभिमतम् ।
अकार्यकारणभूतानां चेति ।
(३४७।१९) यथा हि कालाक्षीं गामीक्षितवतः स्वस्तिमत्यां गवि भवति प्रतिसन्धानं न चैतयोरस्ति कार्यकारणभाव
इत्यर्थः ।
स्वं चैतन्यं त्वात्मनः स्वातन्त्र्ये सत्त्यव्यवस्थानाच् चक्षुरादिवदिति हेतुः प्रमाणसंशयविपर्ययस्मृतिषु यो ऽनुस्यूत
एक उपलभ्यते स चेतनः स्वातन्त्र्ये सत्यव्यवस्थानात् ।
यस्त्वचेतनो नासौ स्वातन्त्र्ये सत्यवस्थितो यथा चक्षुरादिरिति व्यतिरकी हेतुः ।
यद्यव्यवस्थानादित्येतावन्मात्रमुच्येत ततो मनसानैकान्तिकं स्यादत उक्तं स्वातन्त्र्ये सतीति ।
अथ वा कृतमव्यवस्थानेन स्वातन्त्र्यमेव केवलमस्तु चैतन्यसाधनमित्याह ।
नाचेतन
आत्मेति ।
प्रमाणंसशयविपर्ययस्मृतिष्वनुस्यूतमनुभूतम्
उपलक्षयति ।
निराकृतमप्यर्थं प्रकारान्तरेण पुनरुपन्यस्य निराकरोति ।
पृथिव्यादिनित्यत्वसाधन इति ।
भाष्यं भिन्ननिमित्ताविति ।
भिन्नमिन्द्रियं निमित्तं ययोः, अनन्तकर्तृकौ–आत्मैककर्तृकौ,
समानविषयौ–द्रव्यमेकं विषय इत्यर्थः
॥ १ ॥
न्य्स्_३,१।२: न विषयव्यवस्थानात् ॥
पूर्वपक्षसूत्रम्— न वि–त् (सू। २) ॥ यद्भावाभावानुविधायिनौ ज्ञानभावाभावौ तच्चेतनम् ।
इन्द्रियभावाभावानुविधायिनौ ताविति तदेव चेतनमिति भावः ।
सिद्धान्तभाष्यं सन्दिग्धत्वादहेतुः अनन्यथासिद्धावन्वयव्यतिरेकौ कारणत्वामात्रे प्रमाणं न तु कर्ता न चेतनश्चेतनं करणमित्यत्रेत्यर्थः ॥ २ ॥
न्य्स्_३,१।३: तद्व्यवस्थानादेवात्मसद्भावादप्रतिषेधः ॥
विषयव्यवस्थानं च विरुद्धमिन्द्रियादीनामचैतन्यस्य साधनादित्याह ।
यच्चोक्तमिति ।
तद्व्य–धः (सू।३) ॥
सर्वज्ञ इत्यस्य विवरणं सर्वविषयग्राही सर्वेषामिन्द्रियाणां च ये विषयास्तद्ग्राही इन्द्रियान्तराणि प्रमाणान्तराणि च पुनर्व्यवस्थितविषयाणि तेनार्वागपि सर्वज्ञ इति सिद्धम् ।
तत्रेदमभिज्ञानमिति ।
असाधारणं चिन्हमभिज्ञानमुच्यते तच्चाप्रत्याख्येयमनुभवसिद्धत्वात् ।
चेतनवृत्तमभिज्ञानमप्रत्याख्येयमुदाह्रियत
इति योजना ।
अनियतपर्यायमनियतक्रममित्यर्थः ।
अनेकविषयमर्थजातमिति ।
अनेकपदार्थो विषयो यस्यार्थजातस्य तत्तथोक्तम् ।
क्व चित्पाठो ऽनेकविषयमर्थजातमिति स सुगम
एव ।
आकृतिमात्रं त्विति ।
सामान्यमात्रमित्यर्थः ।
तदेतच्चेतनवृत्तं देहादिभ्यो व्यावर्तमानं तदतिरिक्तं चेतनं साधयतीति स्थितं नेच्छाद्याधारत्वं देहादीनामिति ॥ ३ ॥
न्य्स्_३,१।४: शरीरदाहे पातकाभावात् ॥
सूत्रान्तरमवतारयति भाष्यकारः इतश्च देहादिव्यतिरिक्त आत्मा न देहादिसङ्घातमात्रमिति ।
शरीर–वात् (सू। ४) ॥
प्राणातिपाते पातकाभावप्रसङ्गादिति ।
अयं यद्यपि भूतचैतनिकानां नानिष्टप्रसङ्गस्तथा ऽपि शाक्यान्प्रति द्रष्टव्यः ते हि प्राणातिपातकृतं पातकमिच्छन्ति ।
एवं च न बुद्धिरात्मेति वक्तव्ये देहादिग्रहणं विचित्राभिसन्धित्वात्पुंसाम्,
यदि कश्चिद्भूतचैतनिकः प्राणातिपातकृतं पातकं नेच्छेत्तं प्रति दूषणं भवत्वेवमर्थमिति मन्तव्यम् ।
वार्तिकम् ।
अकृतकृताभ्यागमनाशदोष
इति ।
(३५०।१७) येनाकृतं कर्म प्राणातिपातः तस्य पातकाभ्यागमो येन च कृतं तस्य नाश
इत्यर्थः ।
शास्त्रचोदितं फलमनुष्ठातरीत्ययमुत्सर्गो यत्र पुनः शात्रमन्यस्य फलमाह यथा श्राद्धे वैश्वानरीयेष्ट्यादौ तत्र भवतु पुत्रकृतस्य श्राद्धस्य पितृगामि फलं पितृकृताया वा जातेष्टेः पुत्रगामि फलमिति ।
भावना स्मृतिहेतुः संस्कारः ।
यत्कायेति ।
(३५१।२) येन कायेनोपलक्षितः कश्चिच्चित्सन्तानः कायान्तरवर्त्यपि फलं भुङ्क्तित्यर्थः ।
एकनिमित्तानां प्रत्ययानां प्रतिसन्धानादिति ।
उक्तमेतद् यथा नर्तकीभ्रूलताभङ्गे एकस्मिन् बहूनां प्रतिसन्धानमिति ।
सर्वावस्थोपलब्धेरिति ।
(३५२।७) सर्वावस्थासु बीजावयवानामुपलब्धेः परमाण्ववस्थत्वे त्वनुपलम्भः स्यात् ।
तस्मान्न बीजावयवाः पच्यमाना अङ्कुरोत्पत्तौ परमाण्ववस्था भवन्ति ।
अपि त्ववयविन एव पच्यन्तैत्यर्थः ।
परमाण्ववस्था बीजावयवा न बीजत्वादिजातिविशेषवन्तमारब्धुमर्हन्तीत्युक्तं सिद्धान्तिनेति मत्वा दर्शयति ।
यदि तर्हीति ।
परिहरति नानेनैवोक्तोत्तरत्वादिति ।
प्रतिसन्धानाय बीजत्वजातीयानवयवान् लक्षितुमस्माभिर्बीजावयवानां परमाण्वन्तो विभागो निषिद्धः कल्पादौ त्वारम्भे परमाणूनां न प्रतिसन्धानमस्ति न हि पूर्वसर्गे ये बीजमारेभिरेव साम्प्रतमपि त एवारभन्ते नान्य इति प्रतिसन्धाननियमः
अपि त्वन्येभ्यो ऽपि भवन्तीति भावः ।
पैलुकण्ठःशङ्कते ।
आमध्यात्पाकानुपपत्तिरिति चेत् ।
परिहरति नाप्रतिबन्धादिति ।
सान्तराण्येवावयविद्रव्याणीत्यर्थः ।
अथायमवयवानुप्रवेशो द्रव्यस्य विनाशकः कस्मान्न भवतीत्यत आह ।
यदि चायमवयवानुप्रवेश
इति ।
( ३५३ । ६ ) भाजनगतानामपां भाजनविनाशे ऽवस्थानमेव न स्यात् ।
सान्तरत्वे तु तावत्य
एवापो भाजने स्पन्दन्ते यावतीभिर्बहिः शीतस्पर्शोपलब्धिर्भवति मात्रया च तत्र कालपरिपाकवशादनवस्थानमपि विनाशे तु सहसानवस्थानमपां भाजनगतानां भवेदित्यर्थः ।
व्यवहिते द्रव्ये स्फटिकभाजने न तुल्योपलब्धिरिति शङ्कते ।
सुखी स्यामिति तत्क्रियेति चेत् ।
यद्यपि विशरारवः स्कन्धास्तथा ऽप्यनाद्यविद्यावासनावशो ऽयमेकमहङ्कारास्पदं सत्त्वं मित्यभिमन्यमानः सुखी भवेयं दुःखी मा भूवमिति तृष्णक् प्रवर्त्ततैत्यर्थः ।
निराकरोति तन्नाननुभूतत्वादिति ।
यथा च क्षणिकानां विज्ञानानां परस्परवार्त्तानाभिज्ञतया न प्रतिसन्धानक्षमत्वं तथोपपादितमस्माभिरात्मलक्षणावसर इति ।
नानागतानामनुत्पत्तेः सत्त्वादिति (३५४।१७) न च ब्रह्मचर्यादिपरिपाकसहितेन ज्ञानक्षणेनासमर्थो ज्ञानक्षणो जन्यते स च न ज्ञानान्तरं प्रसूतैत्यनागतानुत्पत्तिरसमर्थस्य च क्षणस्य स्वभावतो विनाश इति युक्तम् ।
असमर्थक्षणोत्पादस्यैव सहकारिसापेक्षत्वानपेक्षत्वानुपपत्तेः ।
यथा चैतत्तथा क्षणभङ्गभङ्गावसरे उपपादयिश्यते ॥ ४ ॥
न्य्स्_३,१।५: तदभावः सात्मकप्रदाहेपि तन्नित्यत्वात् ॥
वैनाशिको नैयायिकपक्षवत्साङ्ख्यपक्षे ऽपि हिंसातत्फलानुपपत्तिमापादयितुं हिंसां तत्फलसम्भवं पूर्वपक्षयति ।
इयं तु हिंसेति (३५५।७) व्यक्तेरिति ।
सदेव कार्यं कारणेन व्यज्यते न त्वसत् क्रियतैत्यर्थः ।
परिहरति नेति ।
त्रिविधो ऽप्ययं धर्मलक्षणावस्थापरिणामो नित्यात् धर्मिणो न भिद्यते इति परिणामानित्यत्वं धर्मिनित्यत्वेन विरुध्यते ।
अविरोधाय वा धर्मिणो ऽनित्यत्वाभ्युपगमे वैनाशिकपक्षोक्तदोषप्रसङ्ग
इत्यर्थः ।
गुण इति ।
ऋजुत्ववक्रत्वे खलु गुणौ प्रचयसंयोगविभागविशेषौ सत्येव द्रव्यारम्भकसंयोगे उदयव्ययवन्तावनुभूयेते इति तदेतद्
नैयायिकपक्षदूषणं साङ्ख्यपक्षे ऽप्थापाद्य नैयायिकं पृच्छति अथात्मनो नित्यस्येति ।
(३५६।१०) नैयायिक
आह ।
सुख दुःखे इति ।
नित्यादात्मनो व्यतिरिक्ताभ्यां पुण्यपापाभ्यामात्मधर्माभ्यामनित्याभ्यामात्मधर्मावेव सुखदुःखे जन्येते इत्यर्थः ।
एतदुक्तं भवति ।
नित्यस्यानित्यधर्माधानमेवोपकारो न तु नित्यस्वरूपकरणं येन तदनित्यं स्यात् ।
धर्मश्च धर्मिणो भिन्नो न तु धर्मिस्वभावः ।
यथा च भेदाविशेषे सत्यपि वह्निधूमयोरेव कार्यकारणभावो न वह्निक्रमेलकयोर्वस्तुस्वभावनियमात् ।
एवं भेदाविशेषे ऽपि आत्मनः पुण्यपापयोरेव धर्मधर्मिभावो नात्माकाशयोः पुण्याकाशयोर्वेति लेशमात्रमन्नोक्तं विस्तरस्तु क्षणभङ्भङ्गे भविष्यतीति ।
नानेकान्तादिति ।
वाद्यभिमतपरमाणुनित्यत्वग्राहिप्रमाणदार्ढ्येनानैकान्तिकत्वमुक्तं न तु बौद्धराद्धान्ते नित्यः परमाणुरिति ।
अत एवापरितोषेणान्यथासिद्धिमाह ।
चर्मणश्चानित्यत्वमिति ।
तद्वतां चोपलादीनामवस्थानादिति ।
नासति विनाशप्रत्यये विनाशे ऽस्ति किं चित्प्रमाणम् ।
उपलादिषु चावयवविभागविनाशाभ्यां प्राग् न विनाशो ऽनुभूयते क्षणभङ्गभङ्गश्च निषेत्स्यत इति भावः ।
आरब्धकार्याणां द्रव्यान्तरानारम्भिका इति ।
(३५७।१५) अवयव्यारम्भकात्संयोगाद्भेद
उक्तः ।
विक्रियायां च दृष्टान्ताभाव इति ।
धर्मोत्पादमन्तरेणाविनश्यतो धर्मोत्पादमन्तरेणाविनश्यतो धर्मिस्वरूपस्य विक्रियायामित्यर्थः ।
शङ्कते यद्येवमिति ।
यद्येवम्भूतोप विकारः यादृशो घटादीनां श्यामतानिवृत्तौ लोहितोत्पादे विकारस्तादृशो नात्मन इति यदि शङ्कतैत्यर्थः ।
निराकरोति ।
आत्मन्यपीति ।
न बाह्येन्द्रियग्राह्य एव विकारो ऽपि तु धर्मान्तरोत्पादमात्रं तच्चात्मन्यप्यस्तीति ॥ ५ ॥
न्य्स्_३,१।६: न कार्याश्रयकर्तृवधात् ॥
वैकल्यं वा प्रमापणं वेति ।
( ३५८ । ८ ) यथा शरीरमुपध्नन् हिनस्त्येवं चक्षुराद्युत्याटयन् हिनस्त्येवेति ।
पृच्छति कुत एतदिति ।
स्वरूपतो हिंसासम्भवे भाक्ती हिंसा न युक्तेति वैनाशिकस्नयाभिसन्धिः ।
उत्तरं हिंसाफलोपभोगस्येति ।
वैनाशिकस्यापि विशरारूणां भावानां न स्वरूपहिंसा कारणजन्येति विलक्षणोत्पादो हिंसेति वक्तव्यं तत्र कारणव्यापारसम्भवात् तथा च तत्रापि हिंसाभाक्तीति भाक्तत्वस्योभयत्राप्यविशेषाद्
यस्मिन्पक्षे कृतहानमकृताभ्यागमदोषो नास्ति स पक्षो ऽभ्युपेतव्यः ।
स च नित्यत्त्वपक्षः
तस्मात्पारिशेष्यात्तत्सिद्धिरिति ।
ज्ञानचिकीर्षाप्रयत्नानां समवायः कर्तृत्वमिति ।
( ३५९ । ३ ) उपायतद्व्यपापाराणामनभिज्ञो हि चिकीर्षन्नपि न कर्ता एवमभिज्ञो ऽप्पयचिकीर्षन्
तथा चिकीर्षन्नप्यलसतया अप्रयतमानो न कर्त्तेति ।
सुखदुःखसंवित्समवाय इति ।
स्वसुखदुःखेति द्रष्टव्यम् ।
अस्ति हि परकीयसुखदुःखसाक्षात्कारो योगिनां न चैते भोगिनः ॥ ६ ॥
न्य्स्_३,१।७: सव्यदृष्टस्येतरेण प्रत्यभिज्ञानात् ॥
इतश्च देहादिव्यतिरिक्त आत्मा कुतः ।
सव्य–त् (सू। ७) ॥
तत्र मानसमनुव्यवसायलक्षणं प्रत्यभिज्ञानं भाष्यकारो दर्शयति ।
तमेवैतर्हीति ।
व्यवसायं बाह्येन्र्दियजं प्रत्यभिज्ञानमाह ।
स एवायमर्थ इति ।
अस्यैवपव चानुव्यवसायः पूर्वः ॥ ७ ॥
न्य्स्_३,१।८: नैकस्मिन्नासास्थिव्यवहिते द्वित्वाभिमानात् ॥
तदेतच्चक्षुरैक्येनाक्षिपति ।
नैक–त् (सू। ८) ॥
न्य्स्_३,१।९: एकविनाशे द्वितीयाविनाशाद् नैकत्वम् ॥
समाधत्ते ।
एक–त्वम् (सू। ९) ॥
विनाशाविनाशलक्षणविरुद्धधर्माध्यासान्नानात्वमित्यर्थः
॥ ९ ॥
न्य्स्_३,१।१०: अवयवनाशे ऽप्य् अवयव्युपलब्धेरहेतुः ॥
आक्षेप्ताह ।
अव तुः (सू। १०) ॥
न्य्स्_३,१।११: दृष्टान्तविरोधादप्रतिषेधः ॥
समाधाता आह ।
दृष्टा–धः (सू। ११) ॥
तृतीयं व्याख्यानमाह ।
अथ वा एकविनाशस्यानियमादिति ।
एकत्वे चक्षुषो विनाशनियमो न स्यात् ।
सव्यस्यैव चक्षुषो न दक्षिणस्येति ।
एकत्वात्सव्यविनाशे दक्षिणस्यापि नाशप्रसङ्गात् ।
दृश्यते चायं नियमः ।
तस्माद्
द्वावर्थौ पृथगावरणौ पृथगुपधातौ चेति ।
अपि च यदि चक्षुरेकं सव्येन नासावंशेनावपीडितं ततोङ्गुल्या ऽवपीडितं यथैकं भिन्नभिवावभासयति ।
अवपीडनेनिवर्तमाने भिन्नावभासौ तावर्थौ सन्दधातीति ।
तथा नासावंशावपीडितं भिन्नमिव दर्शयेत् तन्निवृत्तौ सन्दध्यादिवेत्याह ।
अवपीडवनाच्चैकस्य चक्षुष इति ।
रश्मिभेदाद्विषयसन्निकर्षस्य भेद इत्यर्थः ।
अङ्गुल्यवपीडितेन चक्षुषां दृष्टान्तेन विरोधादित्यर्थः ।
एकविनाशेनेतरविनाशो वा दृष्टान्तः ।
तेन विरोधादिति।व स खलु दृश्यमानश्चैकान्तावधारणादतश्चेति दृष्टान्त
इति सूत्रार्थः ।
तदेतत्प्रकरणं वार्त्तिककारो दूषयति ।
सिद्धत्वादनारम्भ इति ।
युक्तो ऽन्यः समुच्चयः शास्त्रे ।
अयमभिसन्धिः ।
काणस्तथा न पश्यति पिहितैकलोचनो वा यथा ऽविकलेन्द्रियः ।
तत्र यदि सव्यदक्षिणाधिष्ठानभेदभिन्नं चक्षुर्न्न चैतद् द्वयमणुना मनसा युगपदधिष्ठातुं शक्यमित्यन्यतरदधिष्ठेयम् ।
तथा च सर्व
एवैकैकेन पक्षुषा पश्यतीति पिहितैकलोचनेनातुल्योपलम्भः
अविकलाक्षस्य स्यात् ।
न चैवमस्ति एकत्वे तु तदुभाभ्यामधिष्ठानाभ्यां विनिर्यत्क्व चिदपि मनसा ऽधिष्ठितमेवेत्यविकलाक्षस्य न विकलाक्षवदुपलम्भप्रसङ्गः ।
तस्मादेकमनेकाधिष्ठानं चक्षुरिति ।
प्रकरणविरोधश्चेन्द्रियपञ्चत्वादिति (३६०) ।
न चैतदेकस्मिन् शरीरे जात्यभिप्रायं प्राणादीनां व्यक्तीनां चतसृणां व्यक्त्यन्तरेण समभिव्याहारोपपत्तेर्न तु जात्या न हि भवति ब्राह्मणयुधिष्ठिरावागताविति किं तु ब्राह्मणराजन्याविति वा वशिष्ठयुधिष्ठिरावितिवा ।
विनष्टे ऽप्येकस्मिन्नधिष्ठाने यो ऽविनष्टो ऽवशिष्यते तेन प्रत्ययमात्रं कारणस्येव भवति ।
न च नासावंशावपीडितेन सर्वेषां सर्वदा सर्वत्र द्विचन्द्रवद्विभ्रमप्रसङ्गः ।
आगन्तुकामवपीडनं भ्रमहेतुर्नौत्पत्तिकमिति कार्यदर्शनात्कल्प्यते ॥ ११ ॥
न्य्स्_३,१।१२: इन्द्रियान्तरविकारात् ॥
तदेवं प्रतिसन्धानद्वारेणात्मनि प्रत्यक्षं प्रमाणयित्वा अनुमानमिदानीं प्रमाणयति ।
अनुमीयते चायमिति ।
( ३६१ । १५ ) विप्रतिपन्नं हि प्रति यतिसन्धानमुक्तं परमार्थतस्तु अनुभवानुसारसार्गो ऽयमिति मन्तव्यम् ॥
इन्द्रि–त् (सू। १२) ॥
कस्य चिदम्लचिरबिल्वादेरनुभूतस्य तेन सहचरितं रूपं वा गन्धं वा ऽनुभवति ।
अथ तत्सहचरितं रसमनुस्मरति स्मृत्वा चेच्छति इच्छातो रसनेन्द्रियविकारो दन्तोदकसम्प्लवलक्षणः प्रवर्तते तद्दर्शनाच्चास्येच्छानुमीयते इच्छया च स्मृतिः सेयं स्मृतिरसत्यात्मनि सर्वेन्द्रियविषयवेदिनि न भवितुमर्हतीति ॥ १२ ॥
न्य्स्_३,१।१३: न स्मृतेः स्मर्तव्यविषयत्वात् ॥
अस्याक्षेपसूत्रम् ।
न स्मृ–त् (सू। १३) ॥ स्मृतिरात्मानं कारणत्वेनावगमपेत्
विषयत्वेच वा ।
न तावत्कारणत्वेन तस्याः संस्कारकारणत्वात् ।
न विषयत्वेन स्मर्तव्यविषयत्वात् ।
स्मृताच्च तस्मादिन्द्रियान्तरविकारोत्पत्तिरित्यर्थः
॥ १३ ॥
न्य्स्_३,१।१४: तदात्मगुणसद्भावादप्रतिषेधः ॥
समाधत्तेः
तदा–धः (सू। १४) ॥
असत्यात्मनि स्मृत्यनुत्पत्तिन्दर्शयित्वा स्मर्तव्यार्थविषयैव स्मृतिर्नात्मविषयेति पूर्वपक्षिणो ऽवथारणं खण्डयति ।
अपरिसङ्ख्यानाच्चस्मृतिविषयस्येति (सू। १५) ॥
मानसानुव्यवसायजनितसंस्कारकारणासु चतसृष्वपि स्मृतिषु नार्थमात्रं विषयो ऽपि तु ज्ञानज्ञातृज्ञेयानि सर्व एव विषयाः चतुर्षु वाक्येषु एकत्र ज्ञानं क्रिया कारकान्निष्कृष्टा यथा अमुष्मिन् मम ज्ञानमभूदिति अगृह्यमाणो ऽप्यर्थः स्मृतिसन्निधापनादमुष्मिन्नित्युच्यते कारकादनिष्कृष्टाप्येकत्र पूर्वापरीभूतभावनाप्रधाना ज्ञानक्रियागम्यते अज्ञासिषमहममुमर्थमिति ।
अन्यत्र तु ज्ञानभावने कारकादनिष्कृष्टे कतृप्रधाने यथा ज्ञातवानहममुमर्थमिति ।
अन्यत्र ज्ञानभावने कारकादनिष्कृष्टेकर्मप्रधाने यथा ऽसावर्थो मया ज्ञात इति ।
समानार्थमिति ।
ज्ञानज्ञेयज्ञातृप्रकाशनं समानमित्यर्थः ।
एवं तावदगृह्यमाणेर् ऽथे स्मृतिः प्रदर्शिता ।
अत प्रत्यक्षेर् ऽथे स्मृतिः प्रदर्श्यते ।
अथ प्रत्यक्षेर् ऽथ इति ।
स्मृतिरिति प्रत्यभिज्ञानमाह स्मृतिच्छायावाहित्वात् ।
अद्राक्षमिति ।
पूर्वार्थमर्थदर्शनं परामृषपि तेनार्थदर्शनानुभवः कल्प्यतामनुभवकल्पना तु कुतस्त्येत्यत आह ।
न खल्वसविदिते स्वे दर्शने इति ।
अपि त्वर्थदर्शनं तद्दर्शनं च संविदिते एवेत्यर्थः ।
कुत एतदित्यत आह ।
एतदद्राक्षमिति ।
यस्मादनुभवपुरस्क्षरं यदत्राद्राक्षमिति भवति नूनं तत्रानुभवप्रथा ऽप्यभूदिति कल्पनीयमित्यर्थः ।
इतो ऽपि न शरीरगुणः स्मृतिः बाल्ये अनुभूतस्य वार्धके स्मरणात् ।
अन्यद्धि बालशरीरमन्यच्च वृद्धशरीरमिति ।
आस्तां तावत्प्रत्यभिज्ञातम्,
सादृश्यमपि दुर्विज्ञानम् ।
न च परमाणूनां चैतन्यम्, ते हि प्रत्येकं वा चेतयेरन् मिलिता वा ।
पूर्वस्मिन् कल्पे अनेकचैतन्ये एकस्मिन् शरीरे नैकमित्यनियमो भवेत् ।
न हि नानाचेतनानामैकमत्यनियमो दृष्टः
मिलितानां तु चैतन्ये परमाणूनामावापोद्वापभेदेन मेलकस्पय नानात्वात्स एवान्योपलब्धस्यान्येन स्मृत्यभावप्रसङ्गः ।
तस्मान्न शरीराधारा चेतनेति ।
परेषां कारिकां दूषयति वार्तिककारः ।
एतेन न तच्चक्षुषि नोरूप इति प्रत्युक्तम् ।
( २६३ । ६ ) आत्मनः पारिशेष्यात्सिद्धेः स्मृत्याधारत्वव्युत्पादनेनेत्यर्थः ।
यत्राधिकरणे तज्ज्ञानं निष्ठितं भवेन्न तदधिकरणमस्ति न च नास्तीति व्याहतम् ।
स्यादेतद् नायं विशेषप्रतिषेधो न चक्षुषि विज्ञानं न रूप इति, किं तु ये चक्षुराद्याश्रयं विज्ञानं मन्यन्ते तन्मतं प्रतिषिध्यते ।
आधारवत्तं तु न प्रतिषिद्धमप्रसक्तत्वादित्यत आह ।
कस्य वेति ।
अपि चैषा कारिका आत्माभावविवक्षया प्रयुक्ता आत्मसत्त्वमेव प्रतिपादयन्तो विवक्षितविरुद्धेत्याह ।
अयं च विज्ञानस्येति ।
तदेवं भाष्यमतेनेन्द्रियान्तरविकारादिति सूत्रं व्याख्याय वार्तिककारः स्वमतेन व्याचष्टे ।
अथ वैकस्येति ।
उक्तमेव प्रतिसन्धानं पुननिन्द्रियान्तरविकारद्वारेण दर्शयति सूत्रं यथा च प्रतिसन्धानं देहेन्द्रियादिव्यतिरिक्तमात्मानं प्रतिपादयति तथा ऽध स्तादेव विवृतमित्याह ।
उक्तन्यायमिति ॥ १२-१५ ॥
न्य्स्_३,१।१५: नात्मप्रतिपत्तिहेतूनां मनसि सम्भवात् ॥
न्य्स्_३,१।१६: ज्ञातुर्ज्ञानसाधनोपपत्तेः सञ्ज्ञाभेदमात्रम् ॥
मतिः स्मृत्यनुमानादिज्ञानम् ।
यद्यपि चेदं प्रातिस्विकसंस्कारादिकारणकं तथाप्यवश्यमेतेनेन्द्रियजेन भवितव्यं ज्ञानत्वाद्रूपादिज्ञानवदिति, तच्चेन्द्रियमसति चक्षुरादौ भावान्मतेश्चक्षुराद्यतिरिक्तं मन
इत्युच्यते ।
ननु भवतु करणान्तरं मनः तत्तु कथमिन्द्रियान्तरसहकारि कथं चाणुपरिमाणमित्यत
आह ।
तच्च ज्ञानायौगपद्यलिङ्गमिति ॥ १५-१६ ॥
न्य्स्_३,१।१७: नियमश्च निरनुमानः ॥
वार्तिकं यदि सर्वं विज्ञानं समाधनमुच्यते मनस्यपीति ।
( ३६४ । १७ ) न च तत्र मन एव करणमात्मनि वृत्तिविरोधादिति तदन्यस्य करणत्वे तज्ज्ञानायापीन्द्रियान्तरमुपासनीयमित्यनवस्था,
अनिन्द्रियजत्वे तु मतावपि संस्काराद्येव कारणमस्तीति कृतं मनसेति भावः ।
परिहरति – ओमितीति ।
यथा कारणसत्तया कार्यं जनितं कारणं ज्ञायते एवं मनःसत्तया मनोलिङ्गज्ञानं जनितं मनो ज्ञापयति ।
तच्च लिङ्गजं मनोज्ञानं मनःसत्ताहेतुकम् ।
न च स्वात्मनि वृतिविरोधः
न हि मनःसत्तायां मनःकरणं मनोज्ञाने वा मनोज्ञानं करणं येन स्वात्मनि वृत्तिविरोधः स्यात् ।
केवलं वा मनः स्वज्ञाने करणं येनैकत्र कर्मकरणत्वे स्याताम् ।
अपि तु मनोज्ञाने लिङ्गज्ञानसहितं मनः करणं तत्स्वरूपं तु लिङ्गज्ञानसाहित्यादिति न स्वात्मनि वृत्तिविरोधः ।
नाप्येकस्यव केवलस्य कर्मकरणभाव
इति भावः ।
स्यादेतद् लिङ्गज्ञानसहितस्य मनसः करणत्वे मा भूदेकस्यैव कर्मकरणभावः स्वरूपेण कर्मत्वाद लिङ्गज्ञानसाहित्येन च करणत्वात् ।
यदा तु योगिना प्रत्यक्षेण मनो गृह्यते तदा कथमेकस्य कर्मकरणभाव
इत्यत आह ।
यस्य तु मनः प्रत्यक्षमिति ॥ १७ ॥
न्य्स्_३,१।१८: पूर्वाभ्यस्तस्मृत्यनुबन्धाज्जातस्य हर्षभयशोकसम्प्रतिपत्तेः ॥
शास्त्रार्थभूताभ्युदयनिःश्रेयसोपयोगिनं परलोकं परिचिक्षिषुः परीक्षाहेतु भूतं संशयमाह ।
किं पुनरयमिति ।
( ३६५ । ८) अत्र वार्त्तिककारः संशयं दूषयन् प्रकरणान्तरारम्भमाक्षिपति ।
एतस्मिन्नर्थ इति ।
देहेन्द्रियबुद्धिवेदनाभ्यो व्यतिरिक्तत्वामात्मनो दर्शयता बाल्यकौमारयौवनवार्द्धकभेदे ऽपि चैकात्मप्रतिसन्धानमर्थादुपपादयता शरीरनाशादूर्ध्वमात्मसद्भावो दर्शितः ।
तावता च नः प्रयोजनं तत्किमवशिष्यते यत्र संशयोयत्कृते च प्रकरणोत्थानमित्यर्थः ।
समाधते ।
नानारभ्यमिति ।
सिद्धे ऽपि देहादिव्यतिरेके बाल्यादिषु चानुगमे किमयमात्मा आ शरीरोत्पत्तेरा च प्रायणाद्यावद्देहसन्तानभावी आहो खिदुपरते ऽपि देहादिसन्ताने ऽनुवर्तत
एवेत्येष विमर्षो ऽद्यापि न निराकृत इति तन्निरासायेदं प्रकरणमारभ्यत इत्यर्थः ।
भाष्यं देहभेदादिति ।
ल्यब्लोपे पञ्चमी ।
बाल्यकौमारयौवनवार्धकदेहभेदमभिसमीक्ष्नय प्रतिसन्धानादस्यावस्थानं सिद्धमित्यर्थः ।
वार्त्तिकम् ।
अभिप्रेतविषयप्रार्थनप्राप्ताविति ।
अभिप्रेतविषयप्राप्ताविति वक्तव्ये प्रार्थनाग्रहणम् इष्यमाणतमत्वं सूचयति ।
नेष्यमाणप्राप्तौ इर्षो ऽपि त्विष्यमाणतमप्राप्तौ तेनाभिप्रेतविषयस्य प्रार्थनायां सत्यां प्राप्तावित्यर्थः ।
हानानशक्यतेति ।
(३६६।१) विषयेण विषयिणीं बुद्धिमुपलक्षयति ।
अनिष्टो विषयो मरणादिस्तस्य साधनमहिव्नयाघ्रादिस्तस्योपनिपातः सन्निधानं तस्मिन्सति व्याघ्रादिजिहासोरशक्यहानमेतदिति बुद्धिर्भयं सा हि कस्यापि जनयति ।
इष्टविषयवियोगे सति तत्प्राप्त्यशक्यप्रार्थनो शोकः ।
तस्यैव पुरुषस्य यः प्राप्त्यशक्यः तत्र प्रार्थना शोकः
य इष्टो विषयः प्राप्तुमशक्यस्तत्र प्रार्थना इदं मे उपपद्यतां भवत्विति इत्थम्भूता चेयं प्रार्थपना न स्वरूपेण शोक इत्यत आह ।
इष्टविषयवियोगे सतीति ।
अनर्हणेनेति यावत् ।
तदयमर्थः ।
इष्टवियोगे तत्प्राप्त्यशक्यताज्ञानं शोक इति ।
अनर्हणेन प्राप्त्यशक्यताज्ञानं शोचतः सूचयति ।
प्रत्यक्षबुद्धिनिरोध इति ।
प्रत्यक्षग्रहणेन ग्रहणमात्रमुपलक्षयति ।
तदनुगृहीतः स्मृत्यनुगृहीतः ।
तदनुसन्धानविषय इति ।
अनुसन्धीयतैत्यनुसन्धानं स्मृते यदनुसन्धेयं तद्विषय इत्यर्थः ।
तथा ऽपि स्मृतिप्रत्यभिज्ञयोरविशेष
इत्यत आह ।
वर्तमानस्य विषयस्य दृश्यस्य तद्भावविषय इति ।
दृष्टो हि निरालम्बनो बालः स्खलन्मातुरङ्कात्पतनस्यानिष्टसाधनत्वमनुस्मृत्येदं च पतनमिति परामृष्य तस्यानिष्टसाधनत्वमनुप्राय रुदन्मातुर्मङ्गल्यभुरः- सूत्रं विक्षिप्य हस्तौ वेपमान उपाददानः तस्यानया चेष्टवया भयशोकावनुमीयेते इत्यर्थः ॥ १८ ॥
न्य्स्_३,१।१९: पद्मादिषु प्रबोधसम्मीलनविकारवत्तद्विकारः ॥
दृष्टेन विशेषितत्वादिति ।
( ३६७ । १४ ) दृष्टशब्देन विशेषितो व्यवस्थापितः कार्यकारणभावो न शक्यो व्युदसितुमित्यर्थः ।
अथात्मन उत्पत्तिनिरोधानुमानमिति ।
यद्विकारि तदुत्पत्तिनिरोधधर्मकं दृष्टं यथा पद्मं तथा चात्मा तस्मादनित्य इत्यर्थः ।
यदि धर्मोपजननमात्रं विकारः स आकाशादिष्वपीत्यनेकान्तः धर्म्मधर्मिणोश्च भेदान्न धर्मोपजननापायौ धर्मिणि युज्येते इति नानित्यत्वानुमानं विकारात् ।
अस्माकं स्वात्मनित्यत्वे ऽनुमानमस्तीत्याशयेन नित्यत्वानुमान माह ।
तन्न युक्तमिति ।
सर्वदामूर्तत्वादिति ।
घटादयो ऽप्येकस्मिन् क्षणेभवन्त्यमूर्ताः परिमाणविशेषो हि मूर्त्तिः न च द्रव्यसमानकालोत्पत्तिर्गुणानामिति तन्निवृत्त्यर्थ सर्वदेत्युक्तम् ॥ १९ ॥
न्य्स्_३,१।२०: नोष्णशीतवर्षकालनिमित्तत्वात् पञ्चात्मकविकाराणाम् ॥
पञ्चात्मकानां पद्मादीनाम्व विकाराः पञ्चात्मकविकारा इति ॥ २० ॥
न्य्स्_३,१।२१: प्रेत्याहाराभ्यासकृतात् स्तन्याभिलाषात् ॥
सामान्यतो ऽधिगतस्य विशेषज्ञापनार्थमिति ।
हर्षादिना सामान्यत इच्छामात्रमवगतं तद्विशेषस्तु स्तन्याभिलाषो रागश्चात्रोक्त
इत्यर्थः ॥ २१ ॥
न्य्स्_३,१।२२: अयसो ऽयस्कान्ताभिगमनवत्तदुपसर्पणम् ॥
अय–णम् (सू। २२) ॥ न पूर्वाभ्यस्तनुबन्ध एव प्रवृत्तिकारणम् ।
अयसो ऽयस्कान्तोपसपणे तदभावात् ।
यदि च बालकस्य पूर्वाभ्यस्तस्मृत्यनुबन्धो भवेज्जात्यन्धबधिरादयस्तज्जन्मानुभूतान् गन्धस्पर्शान् जात्यन्तरानुभूतान् रूपस्पर्शादीनपि व्याचक्षीरन्नित्यभिप्रायः ।
विकल्प्य दूषयति ।
किमिदमिति ।
( ३६९ । २ ) यौवनाद्यवस्थायां चेतनस्य प्रवृत्तिः क्षीरादौ पूर्वाभ्यस्तस्मृत्यनुबन्धहेतुका प्रतीतेति बाल्यावस्थायामपि चेतनस्य तद्धेतुकैव भवितुमर्हति तेन हेतुना चेतनप्रवृत्तेः स्वाभाविकसम्बन्धावगमाद् वह्निनेव धूमस्य ।
एवं व्यवस्थिते यत्र स्मृतेः कार्यं दृश्यते तन्मात्रविषयैव बालस्पय स्मृतिव्यमिति नान्यत्र ।
न च य एक स्मरति तेनापरमपि स्मर्तव्यमिति कश्चिन्नियमहेतुरस्ति येन जात्यन्धबधिरादयो रूपादिभेदान् व्याचक्षीरन् अदृष्टपरिपाकोद्बोधितस्य संस्कारस्य तन्नियमेन नियमोपपत्तेः ।
अद्यत्वऽपि चानुभूतेषु कस्य चिदेव स्मरत्यात्मा न सर्वस्येति ॥ २२ ॥
न्य्स्_३,१।२३: नान्यत्र प्रवृत्त्यभावात् ॥
भाष्य न च स्तन्याभिलाषलिङ्गमन्यदिति ।
स्तन्याभिलाषो लिङ्गमस्य निमित्तान्तरस्य तत्तथोक्तम् ।
अन्यत्र लोष्टादौ लोष्टादेरिति यावत् ।
षष्ठीसप्तम्योरभेदार्थत्वात् ।
एतदुक्तं भवति लोष्टादेरन्यस्यायस्कान्तप्रवृत्त्यभावाद
अयसश्च सनिमित्तमुपसर्पणमिति पूर्वं व्याख्यातम् ।
सम्प्रति त्वन्यथा व्याचष्टे अयसः खल्वपीति ।
निपातसमुदायः कल्पान्तरं द्योतयति ॥ २३ ॥
न्य्स्_३,१।२४: वीतरागजन्मादर्शनात् ॥
पूर्वानुभूतविषयानुचिन्तनमिति ।
एकविषयः स्मृतिप्रवाहो विजातीयप्रत्ययासम्भिन्नश्चिन्तनम्,
तच्चानुभवश्च पश्चाद्भवतीत्यनुचिन्तनम्,
न च तत्स्मृतिमन्तरेण भवति, न हि तत्र प्रवाहः प्रवाहिणं विनास्ति तदेवानुचिन्तनं पूर्वानुभूतविषयप्रार्थनार्थः सङ्कल्पः प्रार्थना सङ्कल्पः स च पूर्वानुभूतविषय
इत्यर्थः ।
अथास्मिन्नेवजन्मनि इन्द्रियजो विषयानुभवो ऽन्वयव्यतिरेकावधारितेष्टोपायतासहाकरी कस्माद् रागहेतुर्न भवतीत्यत आह वार्तिक्वकारः ।
न विषयावगमासमर्थेष्विति ।
तदनेन पूर्वानुभवश्च विषयाणामन्यस्मिन् जन्मनीति भाष्यं व्याख्यातम् ॥ २५ ॥ अत्रायमुदितानुवाद इति भाष्यम् ।
तस्यार्थः उदितमिदं चोद्यम् अयस्कान्तदृष्टान्तेन चोद्येन, तथापि तस्यानुवादो निदर्शनार्थः ।
पूर्वमयस्कान्तो निदर्शनमिदानीं तु घटादीनामुत्पद्यमानानां रूपादयो निदर्शनमिति तदर्थमित्यर्थः ।
चोद्यस्योदितानुवादत्वात्परिहारो ऽप्युदितानुवाद
एवेति ।
तन्मयत्वाद्राग इति ।
( ३७० । ३ ) अभ्युपेत्यादृष्टकारणत्वं रागादीनां परिहृतं परमार्थतस्तु तन्मयत्वाद्राग
इत्यर्थः ।
स्यादेतद् यदि पूर्वाभ्यस्तस्मृत्यनुबन्धाद्रागादीनामुत्पादो हन्त मनुष्यजन्मानन्तरं प्राप्तकरभभावस्य मनुष्यजन्मोचितानां भावानामानन्तर्यात्तदनुरूपा एव रागादयो भवेयुर्न करभभावानुरूपाः करभजातेरस्य विजातीयजन्मसहस्रव्यवहितत्वादत
आह ।
जातिविशेषाच्चेति ।
कर्मणः संस्कारोद्बोधकत्वात्करभजात्यर्थेन कर्मणा जन्मसहस्रव्यवहितापि करभभावनोद्बोध्यते नानन्तरापि मनुष्यभावना प्रायणाभिभूतेतिभावः
॥ २४ ॥
न्य्स्_३,१।२५: सगुणद्रव्योत्पत्तिवत्त्दुत्पत्तिः ? ॥
ननु सगुणद्रव्योत्पत्तिवदिति साधनपक्षे मा भूदनैकान्तिकापादनपक्षे तु को दोष इत्यत आह वार्तिककारः ।
अनैकान्तिकपक्षे सूत्रं न कस्मात् नोक्तोत्तरत्वात् ।
उक्तोत्तरमेतद्यत
इति ॥ २५ ॥
न्य्स्_३,१।२६: न सङ्कल्पनिमित्तत्वाद्रागादीनाम् ॥
॥ अपि च मनुष्यत्वेन तुल्यत्वे ऽपि प्रज्ञामेधाप्रकर्षनिकर्षभेददर्शनात् प्राग्भवीयाभ्यासकल्पना अद्यत्वे ऽपि हि शास्त्राभ्यासस्तद्गोचरप्रज्ञामभिवर्धयन्नन्वयव्यतिरेकाभ्यामनुभूयते सो ऽयमिह जन्मन्यकृतशास्त्राभ्यासस्य तद्विषयः प्रज्ञामेधातिशयः प्राग्भवीयाभ्यासातिशयं स्वकारणमवगमयति, जनस्य तिर्यगादिजातिशतव्यवधानपरिम्लानप्राग्भवीयसंस्कारस्य प्रज्ञामेधानिकर्ष इति कल्पनीयं तस्मान्नित्यस्यात्मनः कर्माविद्यानिबन्धनो ऽनादिरेषो ऽ नेकविधशरीरपरिग्रहपरित्यागप्रवाहो ऽपवर्गान्त
इति सिद्धम् ॥ २६ ॥
न्य्स्_३,१।२७: पार्थिवं गुणान्तरोपलब्धेः ॥
आत्मानन्तरमुद्दिष्टं शरीरं परीचिक्षिषमाणो ऽवान्तरसङ्गतिमाह भाष्यकारः अनादिश्चेतनस्य शरीरयोग
इत्युक्तम् ।
परीक्षोपयोगिनिर्वेदसाधनत्वमाह ।
स्वकृतकर्मेति ।
परीक्षापूर्वरूपं संशयमाह ।
किं घ्राणादिवदिति ।
एकद्वित्रिचतुःपञ्चप्रकृतिकतामास्थिषत शरीरस्य वादिनः सो ऽयं सङ्ख्याविकल्पः ।
अत्र वार्तिककारः स्वातन्त्रयेण शरीरपरीक्षायां सङ्गतिमाह ।
आत्मानन्तरमिति ।
भाष्यमतेन सङ्गतिमाह ।
अथ वेति ।
अवान्तरसङ्गतेस्तात्पर्यमाह तस्मिन् परीक्ष्यमाण इति ।
मानुषं शरीरं पार्थिवं गन्धवत्त्वात् पार्थिवपरमाणुवदिति ।
न कारणं कार्यस्यात्मा तत्कथमेकात्मकमित्यत
आह ।
एकात्मकमित्येकस्वभावं स्वो भावो भवितॄणां जातिः एकजातीयसमवायिकारणत्वे हि तत्त्देकजातीयं स्याद् नान्यथेत्यर्थः ।
परोक्तान् हेतूनन्यथासिद्धयिष्यप्रथमं तावत्सुहृद्भावेनाह नत्विदमबादिभिरिति ।
( ३७१ । ३ )
न्य्स्_३,१।२८: पार्थिवाप्यतैजसं तद्गुणोपलब्धेः
न्य्स्_३,१।२९: निःश्वासोच्छ्वासोपलब्धेश् चातुर्भौतिकम्
न्य्स्_३,१।३०: गन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकम्
परोक्तसाधनमन्यथासिद्धमुक्त्वा बाधकमुक्तं भाष्यकृता तदनुभाष्य वार्तिककारो व्याचष्टे ।
तदिदमनेकप्रकृतीति ।
पृथिव्युदकाभ्यामारभ्यमाणमगन्धं कारणगन्धस्यैकस्यानारम्भकत्वात् ।
अयमभिसन्धिः पृथिव्याप्यपरमाणू तावन्नैकं द्व्यणुकमारब्धुमर्हतः
तयो रूपरसस्पर्शवत्त्वेन तदारम्भसम्भवे ऽपि गन्धवत्त्वाभावप्रसङ्गात् ।
एवं पार्थिवाणुसमवेतस्य गन्धस्यैकत्वेनानारम्भकत्वात् ।
नापि पार्थिवरमाणुद्वयमेकश्चपाथसीयः परमाणुरित्यणूनामारम्भकत्वे गन्धवत्त्वोपपत्तिरिति साम्प्रतम् ।
परमाणूनां बहूनामनारम्भकत्वात् ।
तथा हि त्रयः परमाणवो न कार्यद्रव्यमारभन्ते परमाणुत्वे सति बहुत्वसङ्ख्यायुक्तत्वाद्
घटोपगृहीतपरमाणुप्रचयवत् ।
आरम्भकत्वे तेषां घटोपगृहीतानां कपालशर्कराचूर्णक्रमो घटनाशे नोपलभ्येत द्व्यणुके च विजातीयानारम्भकत्वे सिद्धे तेनैव दृष्टान्तेनान्यत्रापि विजातीयेनारम्भो निषेध्यः ।
एतेन पार्थिवावयवानां महतां पाथसीयैरवयवैः शरीरारम्भः प्रत्युक्तः
विजतीयानामनारम्भकत्वस्य दृष्टान्तधर्मिणि विनिश्चयादिति ।
तदनेन वार्तिककृता षड्विंशतिकल्पा निराकृता इति ।
यदि पुनरेकैकं कारणं स्यात् ततः किं भवेदित्यत आह ।
एककारणत्वे त्विति ।
( ३७२ । ६ ) नित्यं निरपेक्षमेकं कारणमिति सततोत्पत्तिः कार्यस्य भवेत् ।
कारणविनाशात्तद्विभागाद्वा द्रव्यं विनश्यति न चैकस्य कारणस्य नित्यस्य विनाशो ऽस्ति ।
न च बिभागः तस्य सद्वितीयवस्त्वाश्रयत्वात् ।
एकस्य च द्वितीयाभावात् ।
विनाशकारणाभापवात्कृतकनित्यत्वप्रसङ्गरूपमसहायमेकमवयविनि न रूपमारभत इति नीरूपो ऽवयवी तथा च रूपसंस्काराभावेनावयवी नोपलभ्येतेत्यर्थः ॥ २८ ॥ २९ ॥ ३० ॥
न्य्स्_३,१।३१: श्रुतिप्रामाण्याच्च ॥
स्पृतिरुत्पत्तिरित्यर्थः ।
न्यायसिद्धमर्थं श्रुतिरूपोद्बलयति न पुनरस्य प्रापिका साङ्ख्यराद्धान्ताबलम्बनेनाप्यस्याः कथं चिदुपपत्तेः ॥ ३१ ॥
न्य्स्_३,१।३२: कृष्णसारे सत्युपलम्भाद् व्यतिरिच्य चोपलम्भात्संशयः ॥
उद्देशक्रमानुरोधाच्छरीरानन्तरमिन्द्रियाणां परीक्षां प्रतिजानीते भाष्यकारः ।
अथेदानीमिन्द्रियाणि प्रमेयक्रमणेति ।
तत्र परीक्षापूर्वरूपं संशयमाह ।
किमाव्यक्तिकानि आहो स्विद्भौतिकानीति ।
उपलक्षणं चैतत् ।
यदापि भौतिकानि तदापि किं कृष्णसारं यदेतदुपलभ्यते तदेवेन्द्रियम्
आहो तदधिष्ठानं तैजसमित्यपि संशयो द्रष्टव्यः ।
विप्रतिपत्तेः संशयः ।
तत्र पूर्वः साङ्ख्यनैयायिकयोर्विप्रतिपत्तेः ।
उत्तरस्तु सौगतनैयायिकयोरिति ।
आव्यक्तिकत्वमाहङ्कारिकत्वं द्रष्टव्यम् ।
अहङ्काराद्धि बुद्धिविकाराद्वैकारिकापदेकादशेन्द्रियाणि जायन्त इति साङ्ख्याः ।
आव्यक्तिकत्वं त्वव्यक्तस्य मूलकारणत्वादुक्तम् ।
विप्रतिपत्तिबीजं पृच्छति ।
कुतः संशय इति विप्रतिपत्तिमाह कारणे कार्योपचारात् ।
उत्तरं कृष्णसारे सतीति ।
कृष्णसारे सत्युपलम्भात् कृष्णसारमेव चक्षुरिति बौद्धाः ।
व्यतिरिच्य चोपलम्भात् तदतिरिक्तं तच्चाहङ्कारिकम् ।
अहङ्कारस्यप विभुत्वेनाप्रतिधातात् ।
भौतिकत्वे काचाभ्रपटलादिभिर्भौतिकैः प्रतिघातप्रसङ्गादिति साङ्ख्याः ॥ ३२ ॥
न प्रदीपादिभिरनेकान्तादिति ।
वर्तिदेशस्येन पिण्डितेन तेजसा प्रदीपेनानेकान्तात् ।
प्रभा हि विसारिणी तमर्वं प्राप्य प्रकाशयतिं न तु प्रदीप इत्यर्थः ।
विषयीभावादिति चेदिति ।
उत्पादविशेष एव स तादृक् चक्षुरर्थक्षणयोर्यतो ऽप्राप्तयोरपि विषयविषयिभावाद्वेद्यवेदकत्वम्,
न चायं व्यवहितविप्रकृष्टयोरिति न तयोर्वेद्यवेदक भाव इत्यर्थः ।
निराकरोति नोक्तोत्तरत्वात् ।
स एवार्थो विप्रकष्टो न विषयः सन्निकृष्टश्च विषय इत्येकस्य विषयीभावस्तदभावश्चायुक्तः क्षणभङ्गश्च निषेत्स्यत इति भावः
न्य्स्_३,१।३३: महदणुग्रहणात् ॥
तत्र साङ्ख्यमुत्थाप्य बौद्धपक्षं दूषयति ।
अभौतिकानीति ।
कृष्णसाराधिकग्रहणे विवक्षितेर् ऽथग्रहणं सम्पातायातं न तु तदत्र विवक्षितम् असाधकत्वादिति ।
धाना अङ्कुरः ॥
अभौतिकत्वं तु व्पयापकत्वादिति ।
( ३७४ । २ ) तद्यथा विज्ञानाद्यभौतिकं महच्चाणु च गृह्णातीत्यर्थः ।
एकदेशिमतेन दूषणमाह ।
न भौमिकेषु प्रदीपादिष्विति ।
ननु बुद्धिर्यदि महदण्वोः प्रकाशनं तत् किमिदानीं सर्वस्यैवाप्रकाशनमित्यत आह ।
अवधापरितस्यत्वर्थस्येति ।
नच हानोपादानोपेक्षाबुद्धयो ऽण्व्यो महत्यो वेति भावः ।
पूर्वपक्ष्याह नेन्द्रिये ऽपि समानत्वादिति ।
तदेवमेकदेशिनो ऽसाधारणत्वापादने पूर्वपक्षिणापव दूषिते सिद्धान्त्याह ।
अभूतात्मकं व्यापकं चेति ।
साङ्ख्यः शङ्कते ।
वृत्तिरिति ।
इन्द्रयाणां वृत्तयो ज्ञानहेतवः प्रतिषिध्यन्तैत्यर्थः ।
युगपदनेकग्रहणप्रसङ्गाच्चेति ।
यद्यपि साङ्ख्यीयराद्धान्ते दीर्घां शष्कुलीं भक्षयतो गुगपदनेकज्ञानोत्पत्तिरभिमता तथा पि क्वचित् क्रमो ऽपि दृश्यते स न स्याद्
वृत्तिमतो ऽवस्थाने तदभिन्ना वृत्तिरप्यवतिष्ठत इति तन्मात्राधीनोत्पत्तीनां विज्ञानानां क्रमो न स्यादिति भावः ।
उभयं नेष्यत इति ।
( ३७६ । ४ ) वृत्तिभ्यो ऽनन्यत्वं वृत्तिमतो नेष्यते नापि वृत्तीनामनन्यत्वं वृत्तिमत इत्यर्थः
॥ ३३ ॥
न्य्स्_३,१।३४: रश्म्यर्थसन्निकर्षविशेषात् तद्ग्रहणम् ॥
नैयायिकः साङ्ख्यं दूषयति ॥ रश्म्य॥।णम् (सू। ३४) ॥
आहङ्कारिकत्वे चक्षुर्न प्रतिहन्यते यदि तत् काचाभ्रपटलान्तरितप्रकाशवत् कुड्यान्तरितमपि प्रकाशयेत् ।
न चैवमस्ति,
तस्मात्कृष्णसाराधिष्ठानं तेज एव भौतिकं प्राप्य गृह्णाति कुड्यान्तरितं त्वर्थमप्राप्तं न गृह्णाति ।
काचाभ्रपटलान्तरिते तु वक्ष्यति ।
भूयो ऽवयवसन्निकर्षानुग्रह
इति ।
इन्द्रियावयवानामर्थावयवैः इन्द्रियावयवानामर्थेन
अर्थावयवानामिन्द्रियेण इन्द्रियस्यार्थेनेति ॥ ३४ ॥
न्य्स्_३,१।३५: तदनुपलब्धेरहेतुः ॥
तदनुपलब्धेरिति ।
नोपलब्धिलक्षणप्राप्तमनुपलभ्यमानं शक्यमनुमातुं नरविषाणादीनामप्यनुमानप्रसङ्गादित्यर्थः ॥ ३५ ॥
न्य्स्_३,१।३६: नानुमीयमानस्य प्रत्यक्षतो ऽनुपलब्धिरभावहेतुः ॥
परिहारः नानुमीयमानस्येति ।
सत्यमनुपलब्धिनलक्षणप्राप्तमनुपलभ्यमानं न शक्यमनुमातुं न तु महत्त्वाद्येवोपलक्षणप्राप्तेरपि तु रूपविशेषो ऽपि ।
न चासौ विशेष उद्भवसमाख्यातः कृष्णसाराधिष्ठानस्पय चक्षुषो ऽस्तीत्यर्थः ॥ ३६ ॥
न्य्स्_३,१।३७: द्रव्यगुणधर्मभेदाच्चोपलब्धिनिमयः ॥
यत्रोपलब्धिस्तत्रैतदिति सूत्रार्थः ।
ततो महत्त्वादिषु मध्ये यत्किं चिदेकं वक्तव्यं सूत्रकारेण यत्रोपलब्धिस्तत्रैतदित्यकस्मादेव सिद्धेरनेकोपादानवैयर्थ्यं तस्मात्सम्भावनायोग्यताभिधानपदं सूत्रम् ॥
ननु यथाश्रुतं महत्त्वाद्युपलब्धिकारणमस्ति चाक्षुषस्य रश्मेरिति कस्मादयं नोपलभ्यत इत्यत आह ।
द्रव्यगुणधर्मेति ॥ ३७ ॥
न्य्स्_३,१।३८: कर्मकारितश्चेन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः ॥
अनेकरश्मिसन्निधाने स्पर्शस्योद्भूतौ सत्यां द्रव्यं दह्येत रूपोद्भूतौ सत्यां व्यवहितत्वादादौ निपतितेन चक्षुरन्तरेण द्रव्यस्यानुपलब्ध्या भवितव्यम् ।
शङ्कते अथानेकेति ।
( ३७९ । ९ ) नानानयनावयवैरेको ऽसौ नयनावयव्यारभ्यतैत्यर्थः ।
निराकरोति एवं सतीति ।
नानानयनावयवैरारब्ध एको ऽसौ नयनावयवी समग्रासमग्रचक्षुःपुरुषसाधारण
इत्युपलब्धिस्तुल्या स्यादित्यर्थः ॥
न्य्स्_३,१।३९: मध्यन्दिनोल्काप्रकाशानुपलब्धिवत्तदनुपलब्धिः ॥
न्य्स्_३,१।४०: न रात्रावप्यनुपलब्धेः ॥
न हि यद्यस्याभिभावकं तत्तस्य व्यञ्जकमिति ।
( ३८० । १७ ) रात्रौ यद् लोष्टतेजसो ऽभिभावकं दिवा कथं तदेवास्य व्यञ्जकं येन तदभावाद्रात्रौ लोष्टतेजो नोपलभ्येत इत्यर्थः ।
अपिशब्दाद्गम्यत
इति ।
न रात्रावपीति सूत्रगतादित्यर्थः ॥ ३९-४० ॥
न्य्स्_३,१।४१: बाह्यप्रकाशानुग्रहाद्र विषयोपलब्धेरनभिव्यक्तितो ऽनुपलब्धिः ॥
सो ऽयं चक्षुषो रश्मिः किमभावान्नोपलभ्यते किं वा ऽनुद्भूतेरत्राह भाष्यकारः उपपन्नरूपा चेयमनभिव्यक्तितो ऽ
नुपलब्धिरिति योजना ।
अनभिव्यक्तितो ऽनुद्भूतेरित्यर्थः ।
अत्र हेतुर्बाह्यप्रकाशानुग्रहाद्विषयोपलब्धेः
विषयश्च स्वंरूपमात्मनो ऽन्यच्च ।
एतदुक्तं भवति यदुपलब्धौ बाह्यप्रकाशमनुग्राहकमपेक्षते तस्यानुद्भूतेरेवानुपलब्धिर्न त्वभिभूतेः
यथा हेमन्ते विषक्तावयवस्याप्यस्य द्रव्यस्य ।
आप्यं हि द्रव्यं विषक्तावयवं स्वविषयोपलब्धौ बाह्यप्रकाशानुग्रहमपेक्षमाणं दृष्टं चक्षुरपि च विषयोपलब्धौ बाह्यप्रकाशमपेक्षते निरालोकेतस्याप्रवृत्तेः ।
तस्माद्विषयोपलब्धौ बाह्यप्रकाशापेक्षत्वात्तदनुद्भूत्या न प्रतीयते न पुनरभिभूत्येति सिद्धं प्रकृतम् ।
तदेतद्वार्तिककारो व्याचष्टे ।
तस्य विद्यमानस्येति ॥ ४१ ॥
न्य्स्_३,१।४२: अभिव्यक्तौ चाभिभवात् ॥
कस्मात्पुनर्नायनस्येति ।
अस्योत्तरम् ।
अभिभवनीयस्य रूपमाह ।
यदुद्भूतरूपमिति ।
( ३८१ । ७ ) तद्वैधर्म्यमनुद्भूतरूपस्याह ।
अनुद्भूतरूपश्चेति ।
अनुद्भूतरूपस्याभिभवाभावे निदर्शनमाह ।
यदनुद्भूतरूपमिति ।
बाह्यप्रकाशानुग्रहापेक्षस्य चाभिभवाभावे निदर्शनमाह ।
यच्च बाह्यप्रकाशानुग्रहापेक्षमिति ।
कृष्णसारं रश्मिमदित्युच्यमाने प्रसन्नान्धस्यापि कृष्णसारं रश्मिमत्साध्येत तथा चापसिद्धान्त
इत्यत आह ।
विप्रतिपत्तिविषय इति ।
तेन विप्रतिपतिविषयः कृष्णसारं रूपं च रश्मिमदिति साध्यनिर्द्देशः ।
उपलब्धौ निमित्तत्त्वादित्युच्यमाने गन्धादिभिरनैकान्तिकं स्यादत उक्तं रूपोलब्धाविति ।
रूपसाक्षात्कार इत्यर्थः ।
तथापि सन्निकर्षादिभिरनैकान्तिकमत
उक्तं द्रव्यत्वे सतीति ।
तथापि मनसानैकान्तिकमत
उक्तं नियतस्पय साधनाङ्गस्येति ।
असाधारणस्य साधनाङ्गत्वे सतीति ।
मनसस्तु साधारणस्य साधनाङ्गस्य रूपोपलब्धौ निमित्तत्वम् ।
साधनं समुदायस्तदङ्गमवयवः ।
अथ वेति ।
द्रव्यत्वे सति नियतत्वे चार्थप्रकाशकत्वादित्युच्यमाने घ्राणादिभिरनैकान्तिकं स्यादत उक्तं स्फटिकादिव्यवहितेति ॥ ४२ ॥
न्य्स्_३,१।४३: नक्तञ्चरनयनरश्मिदर्शनाच्च ॥
मानुषं चक्षूरश्मिमदिति ।
रूपाद्युपलब्धिनिमित्तत्वादिति सावधारणं रूपादीनामेवेति ।
तेन न मनसा ऽनैकान्तः ।
तथापि सन्निकर्षेणानैकान्त इत्यत उक्तमप्राप्तिस्वभावत्व
इति ।
इतश्च भौतिकानीन्द्रियाणि चक्षूरसनत्वग्घ्राणानीत्यर्थः ।
तथापि श्रोत्रस्य रूपं न ज्ञायते कीदृशं तदित्यत
आह ।
भूतं श्रोत्रम् ।
( ३८२ । ३ ) अर्थप्रकाशकत्वादित्युच्यमाने मनसानैकान्तिकमत आह प्राप्तेति ।
न हि रूपादिभिः सहास्ति मनसः प्राप्तिस्तथापि मनस्येवायैकान्तः
आन्तरं हि दुःखादि मनः प्राप्य प्रकाशयत्यत
आह बाह्येति ।
तथापि सन्निकर्षादृष्टादिभिरनैकान्तो ऽत
आह ।
द्रव्यत्वे सतीति ।
शङ्काभाष्यं जातिभेदवदन्द्रियभेद
इति चेत् ।
निराकरोति धर्मभेदमात्रं चानुपपन्नम् ।
वृषदंशनयनस्य रश्मिमत्वं मानुषनयनस्य तु न तत्त्वमिति यो ऽयं धर्मभेदः स एव मात्रं तच्चानुपपन्नम् ।
चो ऽवधारणे भिन्नक्रमः ।
अनुपपन्नमेवेति योजना ।
कुतो ऽनुपपन्नमित्यत्र हेतुमाह आवरणस्येति ।
तथा हि धूमवत्वं पर्वते रसवत्यां चान्यत् तथाऽप्येष विशेषो ऽस्याग्निमत्त्वानग्नित्वे प्रत्यप्रयोजकः ।
एवं बिडालत्वमनुष्यत्वे अप्रयोजके इत्यर्थः ॥ ४३ ॥
न्य्स्_३,१।४४: अप्राप्यग्रहणं काचाभ्रपटलस्फटिकान्तरितोपलब्धेः ॥
न्य्स्_३,१।४५: कुड्यान्तरितानुपलब्धेरप्रतिषेधः ॥
न्य्स्_३,१।४६: अप्रतीघातात् सन्निकर्षोपपत्तिः ॥
सो ऽप्रतिहन्यमान
इति ।
स रश्मिरप्रतिहन्यमानः काचेन काचं व्यतिभिद्यार्थेन सम्बध्यते काचान्तर्गतेन ॥ ४४-४६ ॥
न्य्स्_३,१।४७: आदित्यरश्मेः स्फटिकान्तरितेपि दाह्ये ऽविघातात् ॥
वार्तिकम् अव्यूह्यमानावयवद्रव्यानुप्रवेश
इति ।
( ३८३। १० ) यस्य द्रव्यस्य भर्जनकपालादेरवयवा न व्यूह्यन्ते पूर्वोत्पन्नद्रव्यारम्भकसंयोगनाशेन द्रव्यान्तरजनकसंयोगोत्पादनं व्यूहनं तन्न क्रियन्ते तस्य द्रव्यस्य भर्जनकपालादेरव्यूह्यमानस्यावयवव्यूहनमवयविनो ऽपीति अव्यूह्यमानस्येत्युक्तम् ।
तस्य भर्जनकपालादेरन्तरावयवैर्यो ऽभिसम्बन्धो वह्नेः सो ऽप्रतिघातः ।
एतदुक्तं भवति सान्तरत्वादवयविद्रव्याणां तदविनाशेनाग्नेर्यो ऽनुप्रवेशः सो ऽप्रतिघात
इति ।
प्रवेशे ऽप्रतिघातमुक्त्वा निःसरणै ऽप्यविघातमाह ।
अन्तर्व्यवस्थितस्य वा द्रव्यस्य मधूदकादेर्बहिरवस्थितहस्तादिप्राप्तिः
तस्य कीदृशस्य बहिरित्यत आह ।
अव्यूह्यमानावयवस्य शलाकादेस्तस्य बहिरिति ॥ ४७ ॥
न्य्स्_३,१।४८: नेतरेतरधर्मप्रसङ्गात् ॥
न्य्स्_३,१।४९: आदर्शोदकायोः प्रसादस्वाभाव्याद् रूपोपलब्धिवत्तदुपलब्धिः ॥
द्रव्यान्तरासम्पृक्तद्रव्यसमवायः स्वच्छतेत्यर्थः ।
प्रसङ्गात्प्रतिबिम्बभ्रमोत्पादक्रममाह ।
आदर्शादिष्विति ।
( ३८४ । १० ) यदभिमुखमग्रमिति ।
द्रष्टुः पुरुषस्याभिमुखं नयनरश्मेः परावृत्तस्याग्रं तदभिमुखं मुखादि पश्यति ।
सारूप्यनिबन्धनत्वाद्विभ्रमाणां सारूप्यमिहाप्याह ।
यथा ऽग्रतो ऽवस्थितस्य पुरुषस्य मुखं लोचनरोचिरप्रश्मिसम्बन्धभिमुखमेवमेतदिति ।
नन्वादर्शप्रतिहतश्चेद् नयनरश्मिः परावृत्तः कथं पश्चादभिमुखविभ्रमहेतुः हन्त भोः पातमात्रादादर्शज्ञानेन भवितव्यं पश्चात्प्रतिम्बिविभ्रमेण,
न चैवमस्ति यौगपद्यप्रतिभासादित्यत आह ।
आदर्शेति ।
कुतस्तर्हि मणिकृपाणादेर्दर्पणतलेषु नानानिर्भासः प्रतिबिम्बावभास इत्यत आह
आदर्शरूपानुग्रहादिति ॥ ४८-४९ ॥
न्य्स्_३,१।५०: दृष्टानुमितानां नियोगप्रतिषेधानुपपत्तिः ॥
न्य्स्_३,१।५१: स्थानान्यत्वे नानात्वाद् अवयविनानास्थानत्वाच्च संशयः ॥
सम्प्रति तेषामेवेन्द्रियाणामेकानेकत्वे परीचिक्षिषुः सन्दिग्धे ।
अथापि खल्वेकमिति ।
प्रश्नपूर्वकं सूत्रमवतारयति ।
कुतः संशयः
॥ स्थाना–यः (सू। ५१) ॥
तत्र के चिदिदं सूत्रं भाष्यमतानपेक्षं यथाश्रुति व्याचक्षते ।
तद्दूषणपुरःसरं भाष्यव्याख्यानं गृहीतु यथाश्रुति व्याख्यानं परेषां सूत्रपाठपूर्वकमुपन्यस्यति ।
एके त्विति ।
( ३८५ । १३ ) अनुपपन्नरूपश्चायमिति ।
अत्र हि यथाश्रुति स्थानान्यत्व इति नियित्तसप्तम्या नानात्वस्य बीजं स्थानान्यत्त्वमुक्तं न त्वेकत्वस्येति ।
एकत्वस्य तु बीजं नानास्थानत्वं यथोक्तम् ।
अवयविनानास्थानत्वादिति ।
अवयवीत्येकत्वमुपलक्षयति ।
स्थानान्यत्वं च स्थानस्यान्यत्वमुच्यते ।
नानास्थानत्वं च नानास्थानानि यस्येत्यन्यपदार्थः स्थानान्यत्वादन्यः
न तु धर्मद्वयं साक्षात्संशयकारणमित्येकतरस्यैकानेकसाधारण्यं वाच्यम् ।
तत्र यदि तावदेवं क्रियते संशयः स्थानान्यत्वे नानात्वैकत्वदर्शनादिति ।
यदा सूत्रार्थालोचनेनैकत्वे स्थानान्यत्वस्यादर्शनान्न समानधर्मः सूत्रं खल्वेकत्वे नानास्थानत्वमाह न स्थानान्यत्वम् ।
अनेकत्वमात्रे हि तदुक्तं सूत्रकारेण स्थानान्यत्वे नानात्वादिति ।
अथ नानास्थानत्वे सत्येकत्वानेकत्वदर्शनात्संशय
इति एतद् दूषयति ।
तदा द्रव्यं नानास्थानमनेकं न किं चिद् दृष्टं सूत्रम् ।
अवयविनानास्थानत्वादिति सूत्रं नानास्थानत्वेनैकत्वमाह न तु नानात्वमपि यत्पुनर्घटाद्यनेकं न तन्नानास्थानमुक्तं सूत्रकृता ।
अपि तु स्थानान्यत्वं सूत्रकृतोक्तं स्थानान्यत्वे नानात्वादित्यनेन दूषणभुपंसहरति ।
सो यं संशय उभयथा ऽनुपपन्न इन्द्रियेषु यथाश्रुतसूत्रपरिग्रहेण
उभयथा स्थानान्यत्वेन नानास्थानत्वेन चेत्यर्थः ।
तदेवं परव्याख्यानं दषयित्वा भाष्यकारीयस्य व्याख्यानस्य युक्तत्वमाह स्थानेषु तु युक्तः ।
स्थानेष्वितिनिमित्तसप्तमी नानास्थानत्वनिमित्त
इन्द्रियेष्वेकत्वानेकत्वसंशयो युक्तः नानास्थानं खल्वेकमवयविद्रव्यं दृष्टमनेकं च भिन्नभाजनगतं फलमिति ।
इन्द्रियविषयं नानास्थानत्वनिमित्तकं संशयमाह ।
किं नानास्थानानीन्द्रियाणि उत नानास्थानमेकमिन्द्रियमिति ।
तदिदमुक्तं भाष्यकारेण बहूनि द्रव्याणि नानास्थानानि दृश्यन्ते नानास्थानश्च सन्नेको ऽवयवी च ।
तेनेन्द्रियेषु भिन्नस्थानेषु संशय इति ।
सूत्रे ऽपि स्थानान्यत्वे इत्यनेन नानास्थानत्वमेवोपलक्षणीयमित्यविरोधः ।
यथाश्रुतस्तु न सूत्रार्थ इत्याह ।
इन्द्रियेषु तु न स्थाननानात्वात्सम्भवति ।
न च नानास्थानत्वादिति ।
( ३८६ । १ ) किं त्विन्द्रियविषयो नानास्थानत्वादेव संशयो भाष्यकारीयः साधीयानित्यर्थः ।
तदेवं परोक्तं संशयबीजं दूषयित्वा भाष्यकारीयं संशयबीजं दर्शयित्वा वार्त्तिककारः स्वातन्त्र्येण संशयबीजमाह ।
शरीरव्यतिरेकित्वात्सत्त्वाच्च संशय इति ॥ ५०-५१ ॥
न्य्स्_३,१।५२: त्वगव्यतिरेकात् ॥
पूर्वपक्षं गृह्णाति ।
त्वग–त् (सू। ५२) ॥
कः पुनरव्यतिरेक इति ।
घटादिप्राप्तं चक्षस्त्वचो व्यतिरिच्यत एवेति भावः ।
उत्तरम् ।
सर्वाधिष्ठानसम्बन्ध इति ।
सौत्रस्याव्यतिरेकशब्दस्य व्याख्यानान्तरमाह ।
सति भावो वेति ।
तदनेन यस्यां च सत्यामिति भाष्यं व्याख्यातम् ।
चो विकल्पार्थः ।
सिद्धान्तभाष्यं नेन्द्रियेति ।
लोकविरोध इति ।
लोक्यते ज्ञायते ऽनेनेति लोकः प्रमाणं तद्विरोध
इत्यर्थः ।
अनेकेन चानिन्द्रियेणेति ।
शरीरं पार्थिवं भूतान्तरसम्पृक्तं च तदिन्द्रियाधिष्ठानानि शरीरावयवभूतानि पृथिव्यादिना व्याप्तानीत्यनेकान्तः ।
न व्याघातादिति ।
परदोषोद्भावनपम्र न पुनरत्वगवयवत्वमिन्द्रियान्तराणामभिमतमिति ॥ ५२ ॥
न्य्स्_३,१।५३: न युगपदार्थानुपलब्धेः ॥
एवं भाष्यकारीयसिद्धान्तमुतत्वा सौत्रसिद्धान्तमाह ।
सूत्रेण चाभिसम्बन्धः सिद्धान्तस्य ॥ ( ३८७ । ८ ) न यु–ब्धेः (सू। ५३) ॥
नैतदस्त्येकमिन्द्रियमिति ।
कस्याद् ? युगपदर्थानुपलब्धेरिति ।
तदेतत्सूत्रं भाष्यदृष्ट्या व्याचष्टे वार्त्तिककारः ।
यस्यैकमिन्द्रियमिति ।
तद्वेतद्व्याख्यानं दूषयति ।
नैकेन्द्रियग्राह्याणामिति ।
भाष्यव्याख्यानं दूषयित्वा सूत्रमन्यथा व्याख्यातुं भूमिरचनां करोति ।
एवं ब्रुवाण
एकेन्द्रियवादीति ॥ ( ३८८ । ५ ) सामि–अर्धम् ।
एकमपीन्द्रियमर्धं प्राप्य गृह्णाति अप्राप्तं चार्धमेकदेश इति यावत् ।
करणधर्ममतिक्रामन्तं प्रति युगपदुपलब्धिप्रसङ्गो दूषणमित्यर्थः ॥ ५३ ॥
न्य्स्_३,१।५४: विप्रतिषेधाच्च न त्वगेका ॥
एकत्वप्रतिषेधादेव पारिशेष्यान्नानात्वं सेत्स्यतीत्यत आह नासाधना क्रियेति ।
( ३८९ । ७ ) एकत्वं च कथमिति ।
न शक्यः पक्षो दूषयितुमित्युक्तम् ।
पृच्छति ।
कथं तर्हीति ।
उत्तरम् ।
प्रतिषेधाच्चानन्तरमिति ।
यद्यप्यनन्तरशब्दप्रयोगे पञ्चमी न स्मर्यते तथा ऽप्यन्यशब्दस्याध्याहारेण पञ्चमी व्याख्येया ।
अनन्तरं प्रतिषेधादन्यः स्थापनाहेतुरिति योजना ।
अथ वेति ।
व्यतिरेकी हेतुर्द्वयोर्विरुद्धयोरेकतरनिषेधेनैकत(नीं)रं व्यवस्थापयति ।
यथा नैरात्म्यनिषेधेन जीवच्छरीरस्पय सात्मकत्वमिति ॥ ५४ ॥
न्य्स्_३,१।५५: इन्द्रियार्थपञ्चत्वात् ॥
सूत्रमाक्षिपति ।
इदं तु सूत्रमिति ।
एष न्यायो मया वाचो भङ्ग्या सूत्रित
इत्यर्थः ॥ ५५ ॥
न्य्स्_३,१।५६: न तदर्थबहुत्वात् ॥
पूर्वपक्षिणः सूत्रम् ।
न त–त् (सू। ५६) ॥
पूर्वपक्षमाक्षिपति न विरोधादिति ।
पूर्वपक्षिणः समाधानं नासाधनादिति ॥ ५६ ॥
न्य्स्_३,१।५७: गन्धत्वाद्यव्यतिरेकाद् गन्धादीनामप्रतिषेधः ॥
सिद्धान्तः— गन्ध–धः (सू। ५७)
न्य्स्_३,१।५८: विषयत्वाव्यतिरेकादेकत्वम् ॥
न्य्स्_३,१।५९: न बुद्धिलक्षणाधिष्ठानगत्याकृतिजातिपञ्चत्वेभ्यः ॥
यस्याधिष्ठानं भिन्नमिति ।
( ३९१ । १० ) भिन्नं नियतम् ।
एतदुक्तं भवति रूपव्यञ्जकस्य कृष्णसारमेवाधिष्टानं न कर्णशष्कुल्यादि एवमन्यत्रापि द्रष्टव्यम् ।
यस्य पुनः सिद्धान्तिनो ऽधिष्ठानाभेदस्तथा च तदधिष्ठानस्येन्द्रियस्यापि भेदः तस्यैकाधिष्ठानविनाशेन तद्गतस्येन्द्रियस्य विनाशे ऽप्यधिष्ठानान्तराश्रितस्येन्द्रियान्तरस्यावस्थानमिति नैकाधिष्ठाननाशे सर्वाधिष्ठाननाशात्सर्वेन्द्रियनाशलक्षणः
तथैकाधिष्ठानावस्थाने सर्वेन्द्रियावस्थानलक्षणो दोष इति ।
इष्टानिष्टोपेक्षणीय इति ।
उपेक्षणीयस्यापि पुरुषार्थत्वं भवति केन चित्प्रकारेण, यदि हि तत्र पुरुषः प्रवर्तते ततो निष्फले कर्मणि प्रवृत्तः पुरुषस्तप्येत ।
दुःखं कर्मेत्यनु भवो लोकस्य, उपेक्षणीयत्वे तु तन्न तस्य भवति ॥ ५८-५९ ॥
न्य्स्_३,१।६०: भूतगुणविशेषोपलब्धेस्तादात्म्यम् ॥
तत्र पार्थिवं घ्राणं रूपरसगन्धस्पर्शेषु नियमेन गन्धस्य व्यञ्जकत्वाद् बाह्यपार्थिववदिति ।
यथा हि मृगमदगन्धव्यञ्जकाः कुक्कुटोच्चारादयः पार्थिवा इत्यर्थः ।
न चातपेनानेकान्तः ।
न ह्यतपो गन्धव्यञ्जको ऽपि तु जलाभिभूतो गन्धो द्रव्याणाम्व नोपलभ्यते केवलं जलमातयो ऽपनयति न तु गन्धं द्रव्यस्याभिव्यनक्ति तस्मान्नानेकान्तः ।
एवं रसनमिन्द्रियमाप्यं गन्धादिषु मध्ये नियमेन रसस्य व्यञ्जकत्वाद्
दन्तान्तरस्यन्दमानोदकविन्दुवत् ।
न खलु विशुष्यदास्यो मोदकादिरसमनुभवति ।
एवं तैजसं चक्षुः गन्धादिषु मध्ये नियमेन रूपस्य व्यञ्जकत्वात् प्रदीपादिवत् ।
एवं वायवीयं त्वगिन्द्रियं गन्धादिषु मध्ये स्पर्शस्यव व्यञ्जकत्वात् स्वेदोदबिन्दुशतिस्पर्शव्यञ्जकव्यजनपचनवत् ।
नियमग्रहणं मनोनिवृत्त्यर्थम् ।
मध्य इति चावधारणसिद्ध्यर्थम् ।
अन्यथा घ्राणादीनां गन्धत्वादिव्यञ्जकत्वेनावधारणं न स्यात् ।
तदेतदाह ।
एवं शेषेष्विति ।
( ३९२ । १९ ) एवं चेन्द्रियपञ्चत्वेन हस्तपायूपस्थवाचामिन्द्रियत्वनिषेधो ऽपि सूचित इन्द्रियलक्षणविरहात् ।
यच्छरीरसंयुक्तं संस्कार(क)दोषव्यतिरिक्तं साक्षात्प्रतीतिसाधनं तदिन्द्रियमिति हीन्द्रियलक्षणम्, न चैतदस्ति हस्तादिषु ।
तज् ज्ञानेन्द्रियाणां लक्षणमिमानि कर्मेन्द्रियाणीति चेत् ।
हन्तैनषामिन्द्रियत्वलक्षणान्तरं वक्तव्यम् ।
शरीराश्रितमसाधारणकार्यकारीन्द्रियमिति लक्षणमिति चेत् ।
वक्तव्यमेषामसाधारणं कार्यम् ।
उक्तं वचनादानविहरणोत्सर्गानन्दाः पञ्चानामिति ।
नन्वादानविहरणोत्सर्गास्तावद्वक्रहस्तादिभिरपि शक्याः कर्तुम् ।
अपि चास्ति कण्ठहृदयामाशयपक्वाशयादीनां गिरणादितत्तदसाध रणं कार्यमिति तान्यपीन्द्रियाणि प्रसज्येरन्निति तस्माद्यत्किञ्चिदेतदपीति ॥ ६० ॥
न्य्स्_३,१।६१: गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्याः ॥
न्य्स्_३,१।६२: अप्तेजोवायूनां पूर्वं पूर्वमपोह्याकाशस्योत्तरः ॥
क्रमप्राप्तमर्थलक्षणं परीचिक्षिषमाणोर् ऽथलक्षणं स्मारयति ।
गन्धादयः पृथिव्यादिगुणा इत्युद्दिष्टमिति ।
लक्षितमिति वक्तव्ये सम्मुग्धाभिधानं सामान्यादुद्दिष्टमित्युक्तम् ।
तत्र परीक्षामुखं संशयमाह ।
उद्देशश्च नियोगेति ।
नियोगादीनां रूपमाह ।
तत्र नियोग इति ।
तदेवं विमृष्य नियोगसमुच्चयौ परित्यज्य विकल्पमालम्बते सूत्राभ्यामतो विशेषणार्थमिति ।
( ३९३ । २ ) गन्ध—व्याः (सू। ६१) अप्त—रः (६२) ।
विशेषणार्थमिति ।
सूत्रयोस्तात्पर्यमुक्तं तदेवं स्फुटयति ।
नियमार्थे इति ।
उत्तरेष्वबादिष्वेकैकशो ऽपकर्षो गन्धादीनां स्पर्शपर्यन्तानाम् ।
तथा हि चतुर्षु गन्धापकर्षोपस्वपकृष्टस्य गन्धस्य पुनरुद्भवो नास्तीति अद्भ्य उत्तरे तेजसि रसस्यापकर्षः ।
एवमपकृष्टयोश्च गन्थरसयोः पुनरुद्भावो नास्तीति तेजौत्तरे वायौ रूपापकर्ष इति ।
एवमपकृष्टानां गन्धरसरूपाणां पुनरुद्भवो नास्तीति वायोरुत्तरस्मिन्नाकाशे स्पर्शस्यापकर्षः ।
तदिदमुक्त मेकैकश इति ।
अव्युत्पन्नो ऽयसुत्तरशब्दो ऽनन्तरवचनः तेन बहूनां निर्द्धारणे ऽप्युपवन्नार्थ इति ।
भवतु वा तरब्निर्देशः तथा ऽपि न दोष इत्याह ।
भवत्विति ।
क्व चित्पाठस्तन्त्रं वेति यथाभाष्यम्
स्फुटार्थ एव ॥ ६१-६२ ॥
न्य्स्_३,१।६३: न सर्वगुणानुपलब्धेः ॥
पूर्वपक्षी नियोगपक्षमुत्थापयति ।
न स–ब्धेः (सू। ६३) ॥
पृथिव्यादिप्रकृतीनां घ्राणादीनां गन्धादिप्रतिव्यक्तिनियम एवमुपपद्यते यदि गन्धमात्रगुणा पृधिवी रसमात्रगुणा आप
इत्यादि न त्वन्यथा ।
अन्यथा तु पार्थिवेन घ्राणेन गन्धवद्रसरूपस्पर्शा अपि व्यज्येरन् अविशेषादित्यर्थः ॥ ६३ ॥
न्य्स्_३,१।६४: एकैकश्येनोत्तरोत्तरगुणसद्भावादुत्तराणां तदनुपलब्धिः ॥
न्य्स्_३,१।६५: विष्टं ह्यपरं परेण ॥
विष्टं ण (सू। ६५) ॥
संसर्गस्य द्व्याश्रयत्वे ऽपि न द्वये सजानत्वं यथा ऽग्निधूमयोः सम्बन्धो न्यथाऽग्नेः स हि व्यापको धूमे धूमध्वजस्य भाव एव नाभावः ।
धूमस्तु व्याप्यः तस्पय वान्हावेव भावो नान्यत्रेति ।
एवमपरं पृथिव्यादि परेणाबादिना विष्टं व्याप्तं नाबादिमन्तरेणास्ति पृथिवी ।
तेन पृथिव्यामबादिगुणानां रसादीनां नियमेनोपलम्भो न त्वबादिषु पृथिवीगुणानाम्,
एवमप्स्वनलादिगुणो व्याख्यातः ।
विष्टत्त्वं संयोगविशेषो व्याप्तिस्त्यिर्थः ।
भाष्यं तच्चैतद्भूतसृष्टाविति ।
भूतसृष्टिप्रतिपादकेषु पुराणेषु नैतर्हीति ।
नेदानीमननुभवादित्यर्थः
॥ ६४-६५ ॥
न्य्स्_३,१।६६: न पार्थिवाप्ययोः प्रत्यक्षत्वात् ॥
सिद्धान्ती विकल्पवाद्येतद्
दूषयति ।
नपा–त् (सू। ६६) ॥
त्रिविधं हि द्रव्यं चाक्षुषमिष्यते प्रार्थिवमाप्यं तैजसं च ।
तत्र रूपवत्त्वेन तैजसमेव चाक्षुषं स्याद्
नेतरद् रूपवत्त्वात् ।
न च रूपिद्रव्यसन्तर्माच्चाक्षुषत्वम्प्ररूपथोच्चपि पार्थिवाप्ययोरिति वाच्यम् ।
नभोनभस्वतोरपि चाक्षुरत्वप्रसङ्गात् ।
अस्ति हि रूपवता तेजसा तयोः इति ।
अथ वा पार्थिवाप्यसम्बन्धिनो रसभेदस्य रूपभेदस्य चैकानेकविधत्वेन प्रत्यक्षत्वादित्याह भाष्यकारः ।
रसयोर्वेत्यादि नोपपद्यत इत्यन्तेन ।
पुनरस्यैव व्याख्यानान्तरमाह ।
स्पर्शयोरिति ।
पार्थिवाप्ययोरित्यस्योदाहरणमात्रार्थत्वात् ।
पार्थिवतैजसयोरित्वपि व्याख्यानमुक्तम् ।
व्याख्यानान्तरमाह ।
अथ वेति ।
कार्यस्य व्यवस्थितगुणस्य दर्शनात् कारणमपि व्यवस्थितगुणमनुमपिते ।
न च सर्वत्र संसर्गो येनान्यस्य गुणो ऽन्यत्रोपलभ्यते विवेकस्यासंसर्गस्य दर्शनात् ।
व्याख्यानान्तरमाह ।
दृष्टश्चति ।
चो विकल्पार्थः ।
नियोगस्तु निरनुमानं इत्याह ।
निरनुमानं तु विष्टं ह्यपरम्परेणेत्येतदिति ।
नियमो गन्ध
एव पृथिव्नयामित्येवमादिः ।
तस्य कारणं प्रमाणं नास्ति तद्बाधकस्यैव प्रमाणस्योक्तत्वात् ।
तस्माद्भूतसृष्टिः कथं चिदुपचारतो व्याख्येयेति ।
विष्टत्वं संयोगः स च द्वयोःच समान इति ।
अन्यगुणो यदन्यत्रोपलभ्यते तत्किं संयोगादोहो स्विद्व्याप्तेः, यदि व्याप्तेः नायोगोलके वह्निसम्पृक्ते वह्निगुणा गृह्येरन् ।
तयोर्व्याप्यव्यापकभावाभावात् ।
धूमे च गगनतलावलम्बिनि भूमिष्ठेन वह्निना व्याप्तेरग्नेर्गुणागृह्येरन् तयोर्व्याप्यव्यापकभावात् ।
तस्मादन्यसंयोगो हेतुः स चोभयोरविशिष्ट
इति तेजसा संयुक्तस्य वायोरपि रूपवत्त्वेन चाक्षुषत्वप्रसङ्ग इति ॥ ६६ ॥
न्य्स्_३,१।६७: पूर्वपूर्वगुणोत्कर्षात् तत्तत्प्रधानम् ॥
पूर्व–नम् (सू। ६७) ॥
प्रधानतापदार्थं व्याचष्टे भाष्यकारः विषयग्राहकत्वं गन्धादिर्विषयः ।
तदेव विषयग्राहकत्वं कुतस्तत्राह ।
गुणोत्कर्षात्तदभिव्यक्तिसामर्थ्यात् ।
विषयग्राहकत्वं चेत्प्राधान्यं तत्सर्वेषामेवेन्द्रियाणां विषयग्राहकत्वादित्याशयवान् वार्त्तिककरो भाष्यकारीय व्याख्यानममृष्यमाणः पृच्छति ।
का प्रधानता ( ३९५ । ८ ) ।
स्वमतेनोत्तरमाह ।
चतुर्गुणत्वादिरिति ।
एतदुक्तं भवति यस्माच्चतुर्गुणत्वेन पार्थिवं घ्राणं रसनादिभ्य आप्यादिभ्यः प्रधानं तस्मादस्यागन्धवत्त्वं नास्ति येन गन्धं न गृह्णीयात् ।
न न्वेवं रसवत्त्वान्दिकमप्यस्ति घ्राणस्यति रसादिकमपि गृह्णीयादत उक्तं गुणोत्कर्षादिति ।
सर्वेषां समवायाविशेषे ऽपि गन्धस्यैव घ्राणौत्कर्ष इति गन्धमेव गृह्णाति तेनागन्धवत्त्वनिषेधपरं प्रधान्याभिधानं न पुनर्गन्धग्रहणे गन्धवत्त्वं प्रयोजकमपि तु गन्धस्योत्कर्ष इति सिद्धम् ।
तत्रोत्कर्षपदार्थं पृच्छति वार्त्तिकारः को गुणोत्कर्षः ।
उत्तरं स्वगुणाभिव्यक्तिसामर्थ्यं स्वो गुणो घ्राणस्य मन्धः तज्जातीयश्चन्दनादिसमवेतो ऽपि गन्धः स्व इत्युच्यते ।
न पुनः स्वगुणमेवाभिव्यनक्ति घ्राणं घ्राणसमवेतस्य हि गन्धस्यादृष्टवशात्तादृशो निर्माणभेदो येन सजातीयं चन्दनादिसमवेतं गन्धमभिव्यनक्ति यथा मृगमदादिगन्धं पार्थिवद्रव्यान्तरसमवेतो गन्ध इति ।
अत एवाह येन गुणेन यद् द्रव्यमुत्कृष्यते स तज्जातीयाभिव्यञ्जकत्वादुत्कृष्टो भवति ।
तस्मिन् द्रव्यैति शेषः ।
यः पुनर्गन्धगुणत्वादिति ।
गन्धमात्रगुणत्वोदेव घ्राणं गन्धस्य व्यज्जकं न तु मन्धस्योत्कर्षादित्यर्थः ।
तस्य वादिनः सर्वेषामेव पार्थिवानां गुणानामुपलब्धिप्रसङ्गः
घ्राणग्राह्यत्वप्रसङ्ग इत्यर्थः ॥ ६७ ॥
न्य्स्_३,१।६८: तव्द्यवस्थानं तु भूयस्त्वात् ॥
ननु भवतो ऽपि कुतो व्यवस्थितिरिति सूत्रमवतारयितुं पृच्छति ।
कस्मात्पुनरिति ।
तद्व्य–त् ( सू। ६८ ) ॥
अर्थनिर्वृत्तीति ।
अर्थः पुरुषार्थः ।
प्रविभक्तस्येति ।
इतरेभ्यो विशिष्टस्य ।
संस्कारकारित इति ।
अदृष्टकारित इति ॥ ६८ ॥
न्य्स्_३,१।६९: सगुणानामिन्द्रियभावात् ॥
शङ्कते ।
यदि पुनरिन्द्रियस्य गन्ध इति ( ३९६ । ६ ) निराकरोति ।
तेनैव तस्येति ।
न्य्स्_३,१।७०: तेनैव तस्याग्रहणाच्च ॥
तदेतद्ग्रहणकवाक्यं सोपस्कारं व्याचष्टे ।
यदीनिद्रयं स्वगन्धं गृह्णीयात्ते तव दर्शनेनासाविन्द्रियगन्धः, अथेन्द्रियगन्धस्ततो नेन्द्रियग्राह्यः स्यात् ।
कस्मान्नेन्द्रियग्राह्य इन्द्रियगन्ध
इत्यत आह ।
गन्धं च गृह्णदिति ।
चो हेत्वर्थे ।
न चात्मसाधनं करणमस्तीति मनस्तु लिङ्गवदात्मनि करणं न केवलमित्युक्तम् ।
तुल्यत्वमापादयितुं सिद्धान्ती पूर्वपक्षिणमनुयुङ्क्ते कस्मात्पुनरिदं न चोद्यत इति ।
पूर्वपक्ष्याह न चोद्यत इति ।
सिद्धान्तवाद्याह तुल्ये घ्राणेन स्वस्य गन्धस्याग्रहणमिति ।
तुल्यतामेवापादयति एतदप्यदेशनीयमिति ॥ ७० ॥
न्य्स्_३,१।७१: न शब्दगुणोपलब्धेः ॥
न्य्स्_३,१।७२: तदुपलब्धिरितरेतरद्रव्यगुणवैधर्म्यात् ॥
( ३९७ । ११ ) शब्दगुणत्वमेव दिक्कालयोरिति चेद नाम्नि विवादः दिक्कालयोर्हि शब्दगुणत्वे सत्यसाधारणयोगित्वेन न परापरव्यतिकरकारणत्वं पृथिव्यादिवद्भवितुमर्हतीति ।
तथा च शब्दगुणं परापरप्रत्ययकारणं चाकाशमेवेति नाम्नि विवादः ।
दिक्कालौ तु परापरव्यतिकरकारणे कल्पनीयौ तेन व्यतिरिक्तावित्यर्थः ।
अपि चाकाशमिच्छत
आकाशप्रत्याख्यानं च सामर्थ्यानुपलब्धेरिति ।
रूपादिसाक्षात्कारे हि इन्द्रियाणामिन्द्रियत्वमेव स्वरूपसामर्थ्यं तच्चक्षुरादिद्रव्यस्य दृष्टं न गुणादीनामित्यर्थः ॥ ७५ ॥ इति मिश्रश्रीवाचस्यतिविरचितायां न्यायवार्तिकतात्पर्यटीकायां
तृतीयाध्यायस्य प्रथममाह्निकं समाप्तम् ॥
श्रीवाचस्पतिमिश्रविरचितायां न्यायवार्तिकतात्पर्यटीकायां
तृतीयो ऽध्यायः
न्य्स्_३,२।१: कर्माकाशसाधर्म्यात् संशयः ॥
परीक्षितानीन्द्रियाण्यर्थाश्च बुद्धेरिदानीं परीक्षाक्रमः ।
क्रमः स्थानं ।
वृत्तवर्त्तिव्यमाणानुकीर्त्तनं हेतुहेतुमद्भावज्ञापनार्थम् ।
अर्थोन्द्रियपरीक्षा च बुद्धिपरीक्षणं ( च ) यथोपयुज्यते तथा बुद्धिपरीक्षायामेव स्फुटपीभविष्यति ।
संशयमाक्षिपति ।
अनुपपन्नरूप इति ।
(३९८ । १२) यद्युपलभ्यमानज्ञानविषयः संशयः सो ऽनुपपन्नः साङ्ख्यानामपि तदनित्यत्वस्याभ्युपगमात् ।
अथ साङ्ख्याभिमतमहत्तत्त्वविषयः तस्य सत्त्व एव विप्रतिपत्तिरिति कुतस्तद्गतधर्मविचारः सति धर्मिणि धर्माश्चिन्त्यन्ते न सन्दिग्धसत्त्वा इति भावः ।
समाधते दृष्टिप्रवादेति ।
साङ्ख्यानां हि दर्शने प्रवादो महदन्तः करणं बुद्धिरिति तदुपालम्भार्थं दूषणार्थं प्रकरणमिति ।
अयमभिप्रायः
नेह नित्यानित्यविचारो ऽपि तवनया द्वारा वृत्तरतिरिक्ता साङ्ख्याभिमता बुद्धिर्निराक्रियते सामान्यतो बुद्धिमात्रस्य नित्यानित्यत्वविचारेण ।
यदि हि नित्या बुद्धिः स्यात्ततो वृत्तिभ्य
उदयव्ययवतीभ्यो ऽतिरिक्तं महत्तत्वमन्तःकरणं स्यात् ।
अथ तु नित्यत्वसाधनानि प्रतिसन्धानादीनि न बुद्धिनित्यत्वस्येशते ततो वृत्तय एव बुद्धयो न तु तदतिरिक्तं बुद्धितत्त्वं सिध्यतीति सिध्यति बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरमिति बुद्धेर्लक्षणं तथा चास्पय लक्षणे सङ्गतिः
इतरथा तु प्रधानतो नित्यानित्यत्वविचारो न लक्षणेन सङ्गच्छत इति ॥ १ ॥
न्य्स्_३,२।२: विषयप्रत्यभिज्ञानात् ॥
साधनं च प्रचक्षते ।
विषयप्रत्यभिज्ञानादिति ।
( ३९९ । ३ ) वृत्तिमान् किल विषयं प्रत्यभिजानन्नात्मानमपि प्रत्यभिजानाति ।
न च चेतनो वृत्तिमान् तस्य कूटस्थनित्यत्वात् ।
अन्यथा पूर्वापरावस्थाभेदवान् न कृटस्थनित्यः स्यात् ।
परिणामिनित्या तु बुद्धिरुदयव्ययवदनेकवृत्तिमती युज्यत इति भावः ॥ २ ॥
न्य्स्_३,२।३: साध्यसमत्वादहेतुः ॥
सिद्धान्त्याह साध्यसमत्वादहेतुरिति ।
वृत्तयो हि वृत्तिमतो भिन्नस्तेन तासां नित्यत्वे ऽपि न वृत्तिमान् कौटस्थ्वाच् च्यवते ।
तथा च प्रत्यभिज्ञातात्मैव प्रत्यभिज्ञानान्नित्यः स्यान्न त्वन्तःकरणं बुद्धिसञ्ज्ञकम्, न हि तत्प्रत्यभिज्ञाने प्रकाशत
इत्यर्थः ।
क्रियानाधारत्वाच्च करणस्येति ।
प्रधानक्रियानाधारः करणं प्रधानक्रिया चेयमुपलब्धिः स्वतो यदाधारा प्रतीयते स कर्त्ता न करणम्, तथा च प्रत्यभिज्ञानाद्युपलब्ध्या तदाधारः कर्त्तात्मा सिध्यति नित्यो न तु करणमित्यर्थः ।
क्रियामात्राभिधानेन शङ्कते ।
स्वक्रियेतञ् प्रिधानक्रियामालम्ब्य निराकरोति ।
सत्यं भवतीति ।
ननु यदि भेदविवक्षया कर्त्रादिशब्दवृत्तिरभेदविवक्षया च कारकशब्दप्रवृत्तिः कथं तर्हि कर्त्ता कारकं करणं कारकमित्यादिसामानाधिकरण्यं भेदाभेदविवक्षयोर्विरुद्धार्थत्वादित्यत
आह ।
कारकशब्देनापीति ( ४४० । ४ ) नाभेदविवक्षा विशेषाणां किं तु सामान्यविवक्षा भिद्यत इति भेदो न भेदो ऽभेद इति सामान्यस्याभिधानात् ।
तथा च सामान्यविवक्षया प्रवृत्तः शब्दस्तद्भेदाभिधानाद्भेदवाचिना सामानाधिकरण्यं प्रतिपद्यमान इतरेतरव्यावृत्ते विशेषे ऽपादानादौ प्रवर्त्तते अन्यस्य कारकविशेषस्य कारकशब्देन सामानाधिकरण्यासम्भवात् ।
पूर्ववदिति ।
द्वितीयाध्यायोक्तं कारकविशेषस्य लक्षणं स्मारयति ।
चोदयति यद्यन्यकारकेति ।
कारकाणामुपादानेन खलु प्रवर्त्तितः कर्त्ता कारकाण्युपादत्ते ।
तस्मादितराप्रयोज्यत्वमस्यासिद्धमित्यर्थः ।
परिहरति ।
न प्रयुज्यते फलस्य प्रयोजकत्वादिति ।
नाप्रयुज्यमानं कर्त्तारं ब्रूमो ऽपि तु कारकाप्रयोज्यम्,
न च फलं कारकमित्यर्थः ।
उपेत्य प्रत्यभिज्ञानमन्तः करणे तस्येति ।
प्रत्यक्षं चेत्प्रत्यभिज्ञानं नैकत्वे किं त्वनुमानं ततो यद्यत्प्रत्यभिज्ञायते तत्तदेकमिति न निदर्शनमस्ति, न हि तस्यैकत्वमन्यतो निश्चितमतः प्रतयभिज्ञानात् ।
नाप्यनेकत्वं दृष्टं तथा चासाधारणतया हेत्वा भास
इत्यर्थः ।
प्रत्यभिज्ञानस्वरूपावधारणे च सति विरुद्धो हेत्वाभासो बुद्ध्यनित्यत्वसाधनादिति ।
शेषं निगदेनैव व्याख्यातम् ।
चेतनाध्यवसायाभेदो बुद्धिलक्षणे ऽस्माभिर्विचारितः ॥ ३ ॥
न्य्स्_३,२।४: न युगपदग्रहणात् ॥
वृत्तिमतो ऽवस्थानाद्वृत्त्यवस्थानप्रसङ्ग
इति सूत्रार्थः ॥ ४ ॥
न्य्स्_३,२।५: अप्रत्यभिज्ञाने च विनाशप्रसङ्गः ॥
न्य्स्_३,२।६: क्रमवृत्तित्वादयुगपद्ग्रहणम् ॥
न्य्स्_३,२।७: अप्रत्यभिज्ञानं च विषयान्तरव्यासङ्गात् ॥
न्य्स्_३,२।८: न गत्यभावात् ॥
आक्षेप्तुर्वचनं ममाप्येवं कस्मान्नेति ( ४०३ । १५ ) समाधातुर्वचनं न कारणभेदे दृष्टत्वादिति ।
कारणभेदेहि सति एकस्य कर्तुर्युगपदनेकं कार्यं दृष्टम् ।
साङ्ख्यानां चान्तःकरणं कर्तृ व्यापकं चेति सर्वव्यापकेनान्तः करणेनाधिष्ठितानीन्द्रियाणि युगपदेव कार्याणि कुर्युः ।
अस्माकिं त्वन्तःकरणस्य करणत्वादेकेन्द्रियग्राह्ये ऽपि न युगपत्कार्योत्पाद
इति विशेषः ।
गत्यभावाच्च प्रतिषिद्धं विभुनो ऽन्तःकरणस्यायुगपद्ग्रहणं न लिङ्गान्तरेणानुमीयत इति भाष्यस्य गतयभावाच्च विभुनो ऽन्तःकरणस्येति प्रतीकमनूद्य तस्यार्थमाह प्राप्त्यर्थस्य गमनस्या भावादिति ।
न चा ऽयुगपत्प्रत्ययोत्पत्तौ प्रमाणमस्ति येन प्रमाणेन प्रतिषिद्धमपि प्रत्ययायौगपद्यं प्रतिपद्यते ।
तस्माद्विभुन्यन्तःकरणे ऽवश्यम्भावि प्रत्यययौगपद्यं न चैतद्दृष्टं तस्मादन्तःकरणमण्वित्यर्थः ।
ननु दीर्घां शष्कुलीं भक्षयतः पञ्चानामपि ज्ञानानां युगपदुत्पादो दृष्ट इति को ऽयं प्रसङ्गः अन्तःकरणस्य विभुत्वे युगपदुत्पादः प्रसज्येतेत्यत आह ।
न च युगपत्प्रत्ययोत्पत्ताविति ।
अतिशीघ्रतया युगपदुत्पादाभिमानो न तु तत्र यौगपद्यं भाविकमित्यर्थः ।
पुरुषो जानीते नान्तः करणमिति स्वमतसमाधानपरं भाष्यं व्याचष्टे यस्य पुनर्वृत्तिर्वृत्तिमतोरिति ।
( ४०४ । १२ ) यदपि साङ्ख्या आचख्युर्विषयान्तरव्यासक्ते ऽन्तःकरणे चक्षुरादिसम्बन्धस्याप्यज्ञानदन्तःकरणवृत्तिर्ज्ञानमिति तन्निराकरणपरं भाष्यम्–एतेन विषयान्तरव्यासङ्ग
इति ।
तदनुभाष्य वार्त्तिककारो व्याचष्टे ।
एतेनेति ।
तत्रेति ।
नेत्यस्योपजीव्यमाह पुरुषो जानीते नान्तःकरणमिति ।
हेतुना विषयान्तरव्यासङ्गो ऽन्तःकरणस्य प्रत्युक्तः ।
व्यासक्तो हि स भवति यो जानीते ।
न चान्तःकरणं जानीते किं तु पुरुष इति तस्येदृशव्यासङ्गो नान्तःकरणस्य, अन्यादृशस्त्वन्तःकरणस्य व्यासङ्गो न निषिध्यतैत्यर्थः ॥ ८ ॥
न्य्स्_३,२।९: स्फटिकान्यत्वाभिमानवत् तदन्यत्वाभिमानः ॥
चोद्यभाष्यम् एकमन्तःकरणं नानावृत्तय इति तद्व्याचष्टे ।
एकमन्तःकरणं नानावृत्तय इति ।
नैतदिति ।
सम्यगाचष्टे जानीते सञ्चक्षाणकः साङ्ख्यः ।
सङ्ख्या हि समीचीना बुद्धिस्तया वर्त्तत इति साङ्ख्यः ।
एतदुक्तं भवति–यद्यपि वृत्तयो नाना प्रतिभान्ति तथा ऽपि भ्रान्तिरियमन्तःकरणादेकस्मादभिन्नानां नानात्वानुपपत्तेः ।
तस्मात्स्फटिकस्य यथैकस्यापि तापिच्छजपाकर्णिकारादिकुसुमोपधानभेदाद्भेद
औपाधिक एवमन्तःकरणमणेरपि स्वच्छस्येन्द्रियप्रणाडिकया तत्तदर्थोपरक्तस्यौपाधिकं नानात्वं वृत्तिरिति च प्रत्यय इति ज्ञानमिति चाख्यायतैत्यर्थः ।
तदेतद् दूषयति ।
नानेकान्तादिति ।
( ४०५ । ४ ) यो ऽपि वृतीनामौपाधिकभेदमाह तेनाप्युपाधयो ऽर्था आजानतो भिन्ना वक्तव्याः ।
तथा च भेदस्य द्विधा दर्शनादनेकान्तो दृष्टान्तो नैकार्थस्य साधकः ।
न हेत्वभावादिति भाष्यं व्याचष्टे यथाश्रुतिसूत्र इति ।
न केवलं साधनाभावो बाधकं चात्रास्तीत्याह विकल्पानुपपत्तेश्चेति ।
न परपक्षस्य प्रतिषेधमात्रेण स्वपक्षसिद्धिरस्तीत्याशयवान् पृच्छति ।
अथ भवतामिति ।
उत्तरं ज्ञानानां क्रमेणेति ।
स्यादेतत् प्रत्ययनानात्वाभिमानो भविष्यति हेतुरेकत्वे वृत्तीनाम्, एकत्वं वृत्तीनां नानात्वाभिमानविषयत्वात् स्फटिकवदिति तस्मान्न हेत्वभाव इति अत आह ।
एकानेकविषयत्वाच्च प्रत्ययनानात्वाभिमानस्य
एकानेकविषयाधिगतिः कथमिति ।
नानात्वाभिमानो ऽपि दृष्टान्तवदसाधकः नैकान्तिकत्वात् ।
तदेवमन्तरा परकीयामाशङ्कां निराकृत्य पुनरपि वृत्तिभेदं साधयति ।
यश्चायमभिन्न इति ।
यद्यर्थोपधानभेदात्प्रययेषु भेदो नाजानत स्तत एकस्मिन्नर्थे न प्रत्ययभेदः प्रत्ययोपधानभेदाभावादित्यर्थः ।
कश्चिद्देशयति ।
स्फटिक इति ।
परिहरति नैरन्तर्यदर्शनादिति ।
( ४०६ । १ ) नीलीद्रव्यलेपस्यापि सान्तरत्वं नीलः स्फटिक इति साक्षात्कारानुमेयमिति भावः ।
इतो ऽपि प्रत्ययभेद इत्याह ।
यस्य च प्रत्ययाभेद
इति ।
प्रमाणस्य भेदः प्रत्ययलक्षणकार्यभेदोन्नेयो नासति प्रत्ययभेदे भवितुमर्हति ।
शङ्कते विषय भेदादिति ।
एतदुक्तं भवति ।
प्रातिस्विको ऽपि भेदो विषयाणां यदि प्रमाणभेदहेतुः
हन्तैतस्यानन्त्येन प्रमाणानामनन्तो भेदः स्याद् न तु त्रित्वं तस्मादवान्तरसामान्यं विषयाणामास्थेयं न च तदपि स्वरूपमात्रनिष्ठं विषयाणां सम्भवति एकस्मिन्नपि प्रमाणानां सम्प्लवात् ।
तस्मात्प्रत्ययभेदोपहितसामान्या विषयास्त्रित्वे व्यवतिष्ठमानाःप प्रमाणमपि त्रित्वे व्यवस्थापयन्ति ।
सामग्रीत्रयान्वयव्यतिरेकानुविधायिनश्च प्रत्ययास्त्रयो भवन्ति ।
तथा च त्रिविषयत्वात्प्रमाणानि त्रीणि, तदिदमुक्तं विषयभेदादिति ।
निराकरोति ।
तन्नेति ।
प्रमाणाभेदे सामग्रीत्रयाभेदे तदुनविधायिनां प्रत्ययानामभेदात् ।
न हि प्रत्ययभेदामन्तरेण सामग्रीभेदः शक्यो विज्ञातुम्, तस्मात्प्रत्ययसामग्रयभेदे ऽपि विषयभेदानधिगतेर्न विषयभेदस्त्रित्वाधिगमो वा प्रत्ययभेदमन्तरेणेति ।
शङ्कते विषयतादात्म्यादिति चेत् ।
प्रत्ययप्रत्येतवययोरभेदादुपपन्नः प्रत्ययभेद इत्यर्थः ।
निराकरोति ।
तन्नेति ।
अपि च प्रत्ययाभेदे प्रकारवत्त्वाभावाद् यथाध्यवस्यति बुद्धिस्तथा चेतयते पुरुष इति व्याघातः ।
कुतो ऽप्रकारवत्त्वाद् भिन्नो हि प्रकारवान् भवति नाभिन्न इत्यर्थः ।
अन्तःकारणस्य बुद्धेः प्रत्ययानामभेदे बुद्धिस्तं प्रत्ययमुपलभते इति विरोध इति ॥ ९ ॥
न्य्स्_३,२।१०: स्फटिकेप्यपरापरोत्पत्तेः क्षणिकत्वाद् व्यक्तीनामहेतुः ॥
तदेवं स्वमतेन साङ्ख्यपक्षं दूषयित्वा बौद्धैर्यत्साङ्ख्यराद्धान्ते दूषणमुक्तं तद्
दूषयितुं बौद्धमतमुपन्यस्यति ।
स्फटिकान्यत्वाभिमानैतदिममृष्यमाणः क्षणिकवाद्याहेति ।
स्फटिः–तुः ( सू। १० ) ॥
यत्सत्तत्सर्वं क्षणिकं यथा शरीरं तथा च स्फटिक इति जरन्तो बौद्धाः ।
शरीरस्या च च कालपरिपाकवशेन स्थौल्यस्य ह्रासस्य च दर्शनात् प्रतिक्षणं सूक्ष्मः परिणतिभेदो ऽनुमीयते स चान्तरा विनाश
एवेति ।
यस्यापि स्फटिकादेस्तादृशं स्थौल्यंह्रासो वान दृश्यते तस्यापि सत्त्वेन शरीरवदेव प्रतिक्षणं विनाशोत्पादावनुमीयेते इति ।
स्यादेतद् यदैवोपचयापचयौ शरीरस्य दृश्येते तदैवोत्पादविनाशौ भविष्यतः पूर्वं तु तत्प्रबन्धकल्पनायां किं प्रमाणमित्यत
आह ।
यस्पय खलु प्रतिक्षणमिति ।
( ४०७ । ९ ) अस्य प्रयोगः प्रतिक्षणमन्यच्चान्यच्चेति ।
पटस्य कुङ्कुमादिद्रव्यसंयोगे सत्यन्ते ऽरुणिमलक्षणो विशेषो दृश्यते न चास्यारुणिमा प्रतिक्षणभावीत्यत उक्तं बाह्यप्रत्ययाभेदेसतीति ।
अभिन्नो हि शरीरोपचयहेतुः प्रतिदिनमुपयुज्यमानो ऽन्नपानप्रचथोयथा पाकजोत्पत्तावौष्ण्यापेक्षो वह्निसंयोगो बाह्यः प्रत्ययः कारणम्, पटे त्तु रागोत्पत्तौ कुङ्कुमद्रव्यसंयोगः साम्प्रतिको विशिष्ट इत्यर्थः ॥ १० ॥
न्य्स्_३,२।११: नियमहेत्वभावाद् यथादर्शनमभ्यनुज्ञा ॥
सिद्धान्तसूत्रम् ।
निय–ज्ञा (सू। ११) ॥
तदेतद्व्याचष्टे ।
तदिदमुपचयापचयेति ।
न हि धूमदर्शनानुमितो वह्निः क्वचित्प्रवर्त्ततैत्यदृश्यमाने ऽपि धूमे पर्वतत्वमात्रेण पर्वतान्तरे ऽपि वह्निमनुमिन्वते ऽनुमातार इत्यर्थः ।
शङ्कते यत्रोपलब्धिरिति ।
क्षणिकत्वं पूर्वापरभागविकलकालकलामात्राबस्थायित्वम् ।
न च तादृशं क्षणिकत्वं नैयायिकान्नां क्वचिदपि सम्मतमिति न सिद्धसाधनमित्यर्थः ।
निराकरोति ।
सत्यमिति ।
कस्मात्पुनरस्मदभिमतैव क्षणिकता न सिध्यत्युपचयापचयप्रबन्धदर्शनादित्यत
आह ।
उपचयापचयप्रबन्धदर्शनं चान्यथा भवदिति ।
चो हेत्वर्थः ।
शङ्कते तुल्यमिति ।
( ४०८ । ५ )
निराकरोति नासाधनादिति ।
एकान्तनिश्चयं विना न साधनम्, दूषणं तु सन्देहापादनेनापीति,
सो ऽयं साधनदूषणयोर्विशेष इत्यर्थः
॥ ११ ॥
न्य्स्_३,२।१२: नोत्पत्तिविनाशकारणोपलब्धेः ॥
उत्तरसूत्रमवतारयति ।
अथावश्र्यं साधनं वक्तव्यमिति ।
नोत्प–ब्धेः
( सू। १२ ) ॥
उत्पत्तिविनाशकारणं ज्ञापकमवयवोपचयापचयौ न क्षणिकपक्षे युज्येते ।
निरन्वयोत्पादविनाशयोरुपचयापचयप्रतययाभावादिति ।
उपचयापचयात्पत्तिविनाशकारणोपलब्धेरिति ।
उपचयापचयौ च तावुत्पत्तिविनाशकारणे चेति कर्मधारयः ।
उत्पत्तिविनाशकारणोपलब्धेरित्यस्य व्याख्यानान्तरमाह ।
अथवा कारणमिति ।
( ४०९ । १ ) समवायिकारणं हि कार्यात्पूर्वं च कार्यकाले चेति लोकसिद्धं तच्चैतत्क्षणिकत्वे ऽनुपपन्नमित्यर्थः ।
एककालानुभाविनी अनुभवः प्राप्तिः एककालप्राप्ते इत्यर्थः ।
भिन्नलोकमर्यादः शङ्कते आधाराधेयभावस्येति।निराकरोति नानेकान्तात् ।
भवतामपि राद्धान्ते रूपं सप्रतिधं कार्यमाधारवच्च ।
यदि तु रूपमप्यनाधारं मनुषे ततस्ते स्वसिद्धान्तव्याकोप इत्याह ।
स्पर्शस्तदाश्रय इति च व्याघात इति ।
सर्व तदेककालानुभावि सिद्धं भवतीति ।
शङ्कते सिद्धः कार्यकारणभावः क्षणिकेष्वपीति ।
कार्यस्यानाधारत्वप्रसङ्गेन,
न हि क्षणिकत्वे कार्यकारणभावो न सिध्यति ।
सतु सिद्धः क्षणिकत्वपक्षे ऽपीति कारणविनाशसमकालत्वेन कार्योत्पादस्य कार्यकारणयोः समानकालत्वादित्यर्थः ।
निराकरोति ।
न हेत्वर्थापरिज्ञानादिति ।
एतावता प्रयासेन त्वया कार्यकारणभावः क्षणिकानां समर्थ्यते न चायमक्षणिकत्वे हेतुरपि त्वाधाराधेयभावः स चाशक्यसाधनः को नु खल्वयं कारणविनाशः कारणाभावो वा विनाशकारणसान्निध्यं वा ।
पूर्वस्मिन्पक्षे कार्यकारणयोः कुतः समानकालता ।
उत्तरस्मिन्नप्युत्पन्नस्य पश्चाद्विनाशकारणमान्निध्ये ऽपि कुतः सतः क्षणिकता ।
न चोत्पद्यमानताविनश्यत्तयोस्तुल्यकालत्वमनुभवविरोधात् ।
कार्यस्य च तदैवोत्पद्यमानत्वे कार्यकारणभावाभावः सव्यदक्षिणशृङ्गवदिति भावः ।
अपि च दृष्टान्तो ऽपि साध्यविकल इत्याह ।
तुलाधारस्येति ।
( ४१० । १ ) ये अवयवकर्मणी लासोल्लासौ न तयोःप कार्यकारणभावः ।
यत्त्ववयविकर्मन तत्र यौगपद्यं नापि कार्यकारणभाव एकत्वादित्यर्थः ।
गुरुत्वाप्रयत्नसंयोगा उन्नतेरिति ।
विधारकः प्रयत्नस्तुलाधारस्य तदपेक्षः संयोगः सयुक्तंसंयोगो गुरुत्वं च तत्संयुक्तावयवान्तरवर्तिकारणमुन्नतेस्तुलावयवस्य
अनवतेरपि द्रव्यं गुरुत्ववत्सुवर्णादि परिमयिमाणं तत्संयोगानुगृहीतो रज्जुतुलासंयोगः कारणम् ॥ १२ ॥
न्य्स्_३,२।१३: क्षीरविनाशे कारणानुपलब्धिवद् दध्युत्पत्तिवच्च तदुपपत्तिः ॥
न्य्स्_३,२।१४: लिङ्गतो ग्रहणाद् नानुपलब्धिः ॥
चोदयति न नास्ति शीतोष्णस्पर्श भेदस्येति ।
( ४११ । ५ ) परिहरति स तु निमित्तान्तरादिति ।
पुनश्चोदयति ।
अप्तेजोवयवानुप्रवेशो न युक्त इति ।
स्वगता महाभूतविशेषास्तदवयवाः पृथिव्यादयः
ते हि परस्परतो विशिष्यन्त इति विशेषाः ।
परिहरति ।
न युक्तमिति ।
यदि प्रतिक्षणमन्यत्वमात्रेण विशेषस्ततः काष्ठक्षणानामपि भूम्यश्मलोहवद्विशेषोपलम्भः स्यात् ।
यथा हि काष्ठक्षणादकस्माल्लोहक्षणा भिद्यन्ते एवं काष्ठक्षणान्तराण्यपीति ।
तस्मात्पार्थिवत्वे ऽपि स्वतो विशेषावास्थेयौ यतो भूम्यश्मादिभ्यो व्यावर्त्तन्ते न व्यावर्त्तन्ते च काष्ठक्षणान्तरेभ्यः काष्ठक्षणः तस्मादेव विशेषादक्षणिकत्वे ऽपि काष्ठभूम्यश्मलोहानामुपपन्नौत्तरेत्तरो विशेष इति वृथा क्षणिकत्वकल्पनेति ।
असाधनं भूस्वभावः ।
क्षणिकत्वसिद्धावित्यर्थः ।
दूषणान्तरमाह ।
विरुद्धश्चायं हेतुः ।
उत्तरोत्तरविशेषदर्शनादिति ।
भवतां किल भूतानामन्योन्यव्यावर्त्तकं लक्षणे खरस्नेहौष्ण्येरणात्मकानि भूतानीति ।
खरा पृथिवी स्नेह उदकम् उष्णं तेजः ईरणं समीरणो गतिमानिति यावत् ।
तथोत्पादे तु काष्टभूम्यश्मलोहानामङ्गीक्रिषमाणे एकमेव खरोष्न्ने खरोष्णेरणात्मकं स्यादिति सङ्कीर्णत्वा द्भूतलक्षणव्याघात इति ।
कठिनमिति खरां पृथिवीमुपलक्षयति ।
अस्मत्पक्षे तु न व्याघात इत्याह यस्य पुनरिति ।
न केवलं पृथिव्यादिलक्षणेन विरुध्यते अपि तु शीतोष्णस्पर्शभेदेन नानात्वस्य साधनेन पूर्वोक्तनापीत्याह ।
विरुद्धश्चायमिति ।
( ४१३ । १ ) पृच्छति कथम् ।
उत्तरम् ।
एकस्य विशेषाभ्युपगमात् ।
येनैव विशेषेण पूर्वस्मान्नानात्वमभ्युपगतं शीतोष्णादिना भेदेन, तेनैव सम्प्रत्येकत्वादित्यर्थः ।
सिद्धान्तमभ्युपेत्येति ।
पूर्वेण हेतुना यो ऽभ्युपगतो ऽर्थः
तद्विरोधितया विरुद्धैत्यर्थः ।
शङ्कते अथ मन्यसे न विशेषमात्रमिति ।
मा भूद्रूपं सप्रतिघमुपादानमिति रूपस्यैकस्य नानात्वमिति भावः ।
निराकरोति नाभिप्रायेति ।
यस्त्ववयवानुप्रवेशे देशयेदुष्णजले वह्निस्पर्शवद्रूपग्रहे ऽपि स्यादयोगोलकैवेति तम्प्रत्येकदेशिमतेन परिहारमाह ।
जले ऽग्निरूपग्रहणप्रसङ्स्त्विति ।
तद्दूषयति ।
तन्नेति ।
युक्तं मध्यन्दिने सवितृप्रकाशेनोल्वणेन मन्द उल्काप्रकाशो ऽभिभूयते सजातीयत्वे सत्युल्बणत्वात् ।
तोयरूपं तु नोल्बणं न च सजातीयमभावस्वरत्वात् ।
तेजस्तु भास्वरं तस्मान्नाभिभव इत्यर्थः ।
परमार्थपरिहारमाह ।
अपि तु तेजसश्चातुर्विध्यात् ।
किं चिदुद्भूतरूपस्पर्शं तेजो भवति, यथा सवितृ प्रकाशः शरदि दिवा, किञ्चिदनुद्भूतरूपस्पर्शं यथा चाक्षुषं तेजः किं चिदुद्भूतरूपमनुद्भूतस्पर्शं च यथा प्रदीपप्रभायां तेजः किं चिदनुद्भूतरूपमनुद्भूतस्पर्शं यथा चोयगतं तेजः यथा वा निशीथे निदाघसमये तेजो यतो मेदस्विनः स्विद्यन्तीति ।
प्रतिज्ञार्थं यथासम्भवं विकल्प्य दूषयति ।
या चेयं प्रतिज्ञेति ।
अथ वर्त्तमानं स्फटिकमभ्युपगम्य यदतीतं स्फटिकान्तरं तत्पक्षीकृत्य वर्तमानात्तदन्यदिति साध्यते ।
निराकरोति ।
एवं सतीति ।
( ४१३ । ५ ) यदि लिङ्गं स्वसत्ताज्ञानाभ्यां नमकं तदा सत्यपि ज्ञाने अतीतधर्मस्य सत्ता नास्तीति न गमकमिति भावः ।
यदि पुनः स्वज्ञानमात्रेण गमकं लिङ्गमुच्येत तदा दूषणान्तरमाह ।
वर्त्तमानाच्चेति ।
तद्विरोध्याश्रयविनाशानुविधानेन विनश्यतीति ।
विरोधीति गुणाभिप्रायम् ।
गुणो हि विरोधिपना गुणान्तरेण नाश्यते ।
आश्रयनाशेचेति सर्वसाधारणम् ।
आश्रयग्रहणं चोपलक्षणं तेनासमवायिकारणनिमित्तकारणविनाशेनापि यथासम्भवमुन्नेतव्यमिति ।
शङ्कते विनश्यदवस्थेति ।
मा भूत्प्रदीपो दृष्टान्तो विनश्यदवस्थे तु द्रव्ये कर्मोत्पन्नमुत्पत्त्यनन्तरमेवापवृज्यते अत ईदृशं कर्म दृष्टान्तो भविष्वतीत्यर्थः ।
निराकरोति न कर्मण इति ।
कर्मापलापनिबन्धनो ह्ययं क्षणिकबादस्तदभ्युपगमे न भवितुमर्हति ।
स्थिराद् द्रव्यादागन्तुककर्मसहितादेव कार्योत्पादोपपत्तेरिति ।
निराकरणान्तरमाह
अनभ्युपगमाच्चेति ।
तादृशस्यापि कर्मणः क्षणिकत्वस्यास्माभिः,
तथा हि द्रव्यस्य विनश्यत्ता कर्मोत्पाद इत्येकः कालः।अय द्रव्यस्य विनाशः न च कारणोत्पादसमये कार्योत्पाद इति द्रव्यविनाशानन्तरं कर्मनाश
इति सिद्धं क्षणद्वयावस्थानं कर्मण इति ।
शङ्कते ।
विनाशहेत्वभावादिति चेत् ।
अयमभिसन्धिः स्वकारणादयं भावो विनश्वरो जायते ऽविनश्वरो वा ? विनश्वरश्चेद् विनाशं प्रति न हेतुमपेक्षेत न हि नीलं स्वकारणादुत्पन्नं नीलत्वे हेतुमपेक्षते तस्यैव ताद्रूप्यत् ।
अविनश्वरश्चेत्तथा ऽपि नास्य हेतुशतैरपि शक्यो विनाशः कर्तुम् ।
न हि नीलमुत्पन्ने पीतं शिल्पिशतेनापि शक्यं कर्तुम् ।
अपि चायं विनाशो भावस्पय कारणैराथीयमानो भावाद्भिन्नो ऽभिन्नो वा जायते ।
अभिन्नत्वे भाव एवासाविति विनष्टो भावः प्राग्वदुपलब्ध्यर्थक्रिये कुर्यात् ।
न च भावाभावयोः कारणभेदे सति सम्भवत्यभेदः ।
तन्तुसंयोगभेदेभ्यो हि पो जायते तन्तुविभागाद्वा तन्तुविनाशाद्वा पटाभाव इति कारणभेदः ।
भावाद्भिन्नत्वे तु जायतामभावो भावस्य किमायातं न हि क्रमेलकोत्पादने पीलवो निवर्तन्ते ।
अभावेन भावस्तिरोधीयत इतिचेत् ।
न तिरोधानस्यापि भावादभेदे पूर्ववदुपलब्ध्यादिप्रसङ्गः ।
भेदे ऽपि तिरोधानस्यान्यस्योत्पादे अन्यस्य न किं चिदुत्पन्नं विनष्टं चेति भावतादवस्थ्यात्पूर्ववदुपलब्ध्यादिप्रसङ्गः ।
अपि च यद्येषां ध्रुवभावि न तत्र तेषां हेत्वन्तरापेक्षा यथा कृपाणस्यायोमयत्वे ।
ध्रुवभावी च कृतकानां भावानाम्व विनाश इति विरुद्धव्याप्तोपलब्धिः ।
ध्रुवभाविता हि प्रतिषिध्यमानहेत्वन्तरापेक्षत्वविरुद्धतन्निरपेक्षत्वव्याप्तोपलब्धा सेह प्रतीयमाना निरपेक्षत्वमुपस्थापयन्ती हेत्वन्तरापेक्षतां प्रतिक्षिपति ।
ये हि हेत्वन्तरापेक्षो न ते ध्रुवभाविनो यथा वाससि रागादयः कुसुम्भादिसंयोगसापेक्षा नावश्यं भाविन इति ।
तस्मादभावस्य सर्वोपाख्यारहितस्य कल्पितस्य क्रियानुपपन्नेति अभावं करोतीति करोति क्रियाया अभावेन सम्बन्धानुपपत्तेर्नञासम्बन्धो भावनं करोतीति ।
यथाह ॥। न तस्य किं चिद्भवति न भवत्येव केवल ॥। मिति ।
तस्माद्विनाशकारणाभावादुत्पन्नमात्र एवभावो विनश्यतीतिसिद्धः क्षणभङ्ग इति ।
तदेतन्निराकरोति ।
न विकल्पानुपपत्तेः ।
अयमभिसन्धिः यत्तावद्विकल्पितं स्वहेतुभ्यो भावा विनश्वरा अविनश्वरा वा जायन्त इति ।
तत्र ब्रूमः किं पुनरिदं विनश्वरत्वं भावानामभिमतमायुष्मतः किं विनाशस्वभावत्वम् आहो विनाशार्हत्वं नित्येभ्यो व्यावृत्तंरूपम् ।
न तावत्पूर्वः कल्पः परस्परपरिहारवतोर्भावतन्नाशयोस्तादात्म्यानुपपत्तेः ।
तादात्म्ये च विनाशवद्भावो ऽपि द्वितीयादिक्षणेषु वर्तेतेति साधु क्षणिकत्वं समर्थितमत्रभवता भावानां नित्यत्वमुपपादयता ।
भावसमये वा विनाशो ऽपि भावात्मा ऽस्तीत्यत्यन्ताभावो भावस्य भवेदिति सुष्ठवदातं तत्त्वं भावानाम् ।
न च भाव एकक्षणस्थितिधर्मा नाशो द्वितीयादिक्षणेष्विति साम्प्रतम् ।
प्रथमद्वितीयलक्षणावच्छेदलक्षणविरुद्धधर्मसंसर्गेण भेदात् ।
द्वितीयं तु कल्पमनुमन्यामहे ।
नन्वेवं विनाशार्हाश्चेद्भावाः स्वकारणादुत्पन्नाः
हन्तोदयानन्तरमेवापवृज्येरन् नापवृज्यन्ते विनाशार्हा अपि पटादयस्तन्तुविनाशाद्वा तन्तुविभागाद्वा स्वकारणाधीनजन्मनो विनङ्क्ष्यन्ति ।
न हि तण्डुपलाः पचेलिमा इति विनैव दहनसलिलसंयोगप्रचयभेदं विक्लिद्यन्ति ।
काष्ठानि वा भिदेलिमानीति कुठाराभिघातमन्तरेण दलन्ति ।
यो मन्यते त एव तण्डुलाः पचेलिमाः ये समर्थदहनोदकपिठरस हभुवः तदनन्तरं हि पुलाकाः प्रादुर्भवन्ति,
यदनन्तरं हि न प्रादुर्भवन्ति न ते पचेलिमा इति ।
तस्योत्तरमक्षणिकार्थक्रियामुपपादयन्तो वक्ष्यामः ।
तस्माद्विनश्वराणामुत्पत्तेः स्वकारणान्न विनाशकारणापेक्षा भावानामिति युक्तम् ।
केवलं भावादन्यस्याकारणत्त्वं ब्रुवाणः पर्यनुयोज्यो भवान् ।
किमकारणत्वान्नाशस्य नास्तित्वं रोचयते किं वा नित्यतां तत्रोक्तं साक्षाद्दूषणं वार्त्तिककृता भवतां शाक्यानां पक्षे अकारणं द्विधा नित्यं व्योम शशविषाणादि वा तुच्छम् ।
अस्माकं तु नित्मयेव भवदभिमतस्य तस्य तुच्छस्याभावस्यानङ्गीकारादस्मदभिमतस्य भवद्भिरनङ्गीकृतत्वेन नास्तीत्यध्यारोप्य राशिरेक उक्तः ।
उत्पन्नस्य विनाश इति सर्वजनीनं तद्विपरीतं भवत्पक्षे प्राप्नोति ।
नन्वस्तु भावाभावयोः सहावस्थानं को दोष इत्यत आह ।
ततश्च भावानामिति ।
( ४१४ । ५ ) शङ्कते अथाविनाशित्वादिति ।
प्रयोजनक्षतिरियं यदकारणत्वे विनाशस्यैष दोष इति ।
न तु दोषभयेन स्फुटतरप्रमाणबाधितं कारणत्वं विनाशस्य शक्यमङ्गीकर्तुमिति भावः ।
गूढाभिसन्धिः सिद्धान्ती पृच्छति विनाशो न विनश्यतीति कुत एतत् ।
चोदक
आह विनष्टानामिति ।
सिद्धान्ती बौद्धमतमालम्ब्याह ।
न हि विनाशाभाव इति ।
यस्य पटाभाव एव तुच्छस्तस्य तदभावे का कथा तस्य तुच्छादपि तुच्छतरत्वादिति भावः ।
स्वमतमास्थायाह ।
अपि च विनाशः कारणवांश्चेति ।
शेषं सुबोधम् ।
यदप्यकारणत्वे कारणमुक्तं भावाद्भिन्नश्चेदभावो जन्येता भावतादवस्थ्यमिति ।
तत्रोच्यते ।
नाभावस्योत्पादे भावस्यापरा निवृत्तिः किं त्वभावोत्पाद एव तन्निवृत्तिः कथमन्यस्योत्पादे ऽन्यस्य निवृत्तिः अत्र स्वभावभेदैरुत्तरं वाच्यं ये परस्परपरिहारावस्थितयः ते स्वहेतुभ्यो जायन्ते ।
न हि स्वतो ऽन्यस्याङ्कुरस्पय वह्निर्न कारणमित्यन्यत्वाविशेषाद्भस्मनो ऽपि न कारणमिति ।
स्वभावभेदेन तु कार्यकारणभावनियमसमर्थनं परस्परपरिहारस्थितिनियमे ऽपि तुल्यम् ।
यथा चोत्पादस्य पुरस्तादखिलसामर्थ्यरहितस्याङ्कुरप्रागभावस्योपकारं किं चिदकुर्वन्तो ऽपि बीजादयो ऽङ्कुरमारभन्ते तदुत्पादस्यैव तत्प्रागभावनिवृत्तिरूपत्वात् ।
एवं तदभावहेतवो ऽपि भावरूपे अकिञ्चित्करा अपि तदभावमादधति न चेद्भावरूपे किं चित्कृतं तदभावहेतुभिरथ भावः प्रागिव स्वाभावसमये कस्मान्न स्वरूपोपलम्भार्थक्रिये करोति ।
अथोत्पादात्प्रागिवोत्पन्नो ऽऽप्यङ्कुरः कस्मादुपलम्भार्थक्रिये करोति ।
उत्पत्तेः प्रागङ्कुरो नासीत्तेन नाकार्षीदुत्पन्नस्त्वस्ति तस्मात्करोतीतिचेत् ।
हन्त भावो ऽपि यदासीत्तदा ऽकार्षीत्तदानीं तु विनष्ट इति नास्ति तेन न करोति ।
यथा च भावोत्पाद एव तत्प्रागभावस्य नास्तिता एवमभावोत्पाद एव भावस्य नास्तिता ।
उपजनापायधर्मतया भावाभेदो विनाशस्य ततो न सदसद्रूपतया द्वैराश्यं विश्वस्येति चेत् को ऽयमुपजनो यदि स्वकारणसमवायः सत्तासमवायो वा सो ऽभावे नास्ति ।
अथ स्वरूपप्रतिलम्भः
तथा ऽपि तावन्मात्रस्य साम्ये ऽपि अवान्तरभेदेन द्वैराश्योपपत्तिः ।
तस्माद्यथा सत्त्वस्य साम्ये ऽपि द्रव्यगुणकर्माणि तेन तत्त्वेनान्योन्यं भिद्यन्ते एवं प्रमेयत्वाभिधेयत्वकारणवत्त्वेनाविशेषे ऽपि तद्भिः सहासतां सत्तातद्विरहरूपभेदाद्भेद
इति सिद्धम् ।
या ऽपि ध्रुवभाविता विनाशस्य ।
तत्र ब्रूमः ध्रुवभावित्वेन विनाशस्य हेत्वन्तरानपेक्षत्वं ब्रुवाणो नाहेतुकत्वं वक्तुमर्हति ।
हेत्वन्तरनिराकरणे हेतुमात्रानिराकरणात् ।
विशेषनिषेधस्य शेषाभ्यनुज्ञाफलकत्वात् ।
अपि च ध्रुवभावित्वमसिद्धमनैकान्तिकं वा ।
इदं भावान् पृष्टो व्याचष्टां किं घटसन्तानात्सभागात् कपालसन्ततिर्ध्रुवभाविनी न वा ।
न चेद्
न्न विनाशो ऽपि घटस्य ध्रुवभावी न खलु विसभागक्षणोत्पादमन्तरेण घटविनाशमीक्षामहे मांसचक्षुषः तथा चासिद्धा ध्रुवभाविता विनाशस्य ।
अथ ध्रुवभाविनी तस्यामेव तर्हि विसभागसन्ततौ ध्रुवभाविन्यां मुद्गरादिहेत्वपेक्षेत्यनैकान्तिकं ध्रुवभावित्वं नानपेक्षत्वव्याप्तमिति न हेत्वन्तरापेक्षित्वं निषेद्धुमर्हतीति ।
तदेतद्यश्चाकारणविनाशेदोषः स चापरिहार्य इत्यनेन वार्त्तिकेन सूचितम्।एवं तावदन्यत्वे साध्ये दोष उक्त इति ।
( ४१५ । ११ )
यद्यपि क्षणिकत्वमपि पूर्वमुक्तं दूषितं च तथा ऽपि क्षणिकाभिधानं तवान्यपरमन्यत्वमेव तु तत्र प्रधानम् ।
इदानीं तु क्षणिकत्वमेव प्रधानतया साध्यमित्येतावता प्रकरणभेद
इति ।
विशेषणं सिद्धान्तविरोधीति ।
यद्यनाशुविनाशिनो ऽपि के चन भावा भवेयुः ततो विशेषणमाशुविनाशिन
इति कल्पेत तथा च सिद्धान्तविरोध इत्यर्थः ।
मत्वर्थीय इति ।
( ४१६ । २ ) क्षणिक इति ।
अत इनिठनाविति मत्वर्थीयष्ठन् ।
अनन्तरेण विनाशेन विशिष्यमाण
इत्युपलक्ष्यमाणः ।
सर्वान्तकालमिति ।
पूर्वापरभागविकलकालकलैका ज्योतिर्विद्यासिद्धा सर्वान्त्य कालमिति सञ्ज्ञामात्रं न तु वास्तवं वास्तवी च क्षणिकता ऽभिमतेति ।
पक्षवचनं दूषयित्वा हेतुं दूषयति ये ऽपीति ।
अत्रादिग्रेहणेन सत्त्वकृतकत्वादयः सङ्गृहीता वेदितव्याः ।
तत्र यत्सत्तत्सर्वं क्षणिकं यथा घटः संश्च विवादाध्यासितः शब्दादिरिति स्वभावहेतुः सत्तामात्रानुबन्धित्वात्क्षणिकत्वस्य ।
कथं पुनः सत्तामात्रानुबन्धसिद्धिः क्षणिकतायाः, ।
उच्यते सत्त्वं नामार्थक्रियाकारित्वं भावानां नान्यत् ।
न ह्यस्ति सम्भवः संश्च भावो न चार्थक्रियां करोतीति ।
तथा हि स सर्वज्ञस्य विज्ञानस्यालम्बनप्रत्ययो भवेन्न वा ।
न चेद् नास्ति सर्वज्ञो वा न सर्वज्ञः तस्यैवाज्ञानाद् ।
आलम्बनप्रत्ययश्चेत् कथं नार्थक्रियां करोतीति ।
न च सत्तासामान्यं नामास्ति किं चन ।
नापि तत्समवायो यतः सन्नित्युच्यते ।
तत्सद्भावे वा न भावतां सामान्यविशेषसमवायाःप सन्तो भवेयुः
तेषां सामान्याधारत्वानभ्युपगमात् ।
प्रमाणग्राह्यता ऽपि प्रमाणविषयता प्रमाणं प्रत्यालम्बनप्रत्ययत्वमेव तच्चार्थक्रियाकारित्वान्नान्यदिति सिद्धमर्थक्रियाकारित्वमेव सत्त्वमिति ।
तच्च क्रमाक्रमाभ्यां व्याप्तं तृतीयप्रकारविरहात् ।
तथा हि भावानां तासु तास्वर्थक्रियासु क्रमाक्रमौ परस्परपरिहारवन्तौ चकास्तः
तथा च क्रमाक्रमात्मकं प्रकारान्तरमपि यदीदृशाभ्यामेवानुभूतावसिताभ्यां क्रमाक्रमाभ्यां करम्बितमङ्गीक्रियते ततो दृश्यमानयोरपि क्रमाक्रमयोः परस्परसङ्करप्रसङ्गः ।
करम्बितावेन हि क्रमाक्रमाविमावपीति दृश्यमानः क्रमो ऽक्रमात्मकः अक्रमश्च क्रमात्मकः प्रतिभासेत ।
न च तथा प्रतिभासते ।
एतेन प्रत्यक्षमेव परस्परपरिहारवन्तौ क्रमाक्रमौ परिच्छिन्दत्सर्वत्रैवानयोः सङ्करं प्रतिक्षिपति ।
यदि क्व चिदप्यनयोस्तादाम्यं भवेदिहापि तावेव क्रमाक्रमाव् इति सङ्कीर्णौ गृह्येयाताम् ।
तस्मादनयोरिह सङ्करानुपलम्भ
एव देशान्तरे कालान्तरे च सङ्करं निषेधति ।
तादात्म्यनिषेधे च दृश्यत्वविशेषणादनुपलब्धेः
दृश्यमानस्तम्भतादात्म्येन स्वयमदृश्यानां पिशाचादीनां दृश्यानां च प्लवङ्गादीनामविशेषेणा प्रतिषेधात् ।
यथाह विशेषणं चावाच्यमिति ।
अनेवम्भूतक्रमयौगपद्यव्यतिरेकवती प्रकारान्तरे क्रमयौगपद्ये एव न भवतः न हि शब्दाभेदेन वस्तुनो ऽप्यभेदः ।
मा भूद्गोशब्दसामानाधिकरण्येन वागादीनामपि विषाणित्वप्रसङ्गः ।
स्यादेतत् ।
मा भूतां क्रमयौगपद्ये अस्त्वन्य एव क्रमाक्रमाभिधानः क्रमयौगपद्याभ्यामन्यः प्रकारो यमास्थाय भावाः स्थिरा अप्यर्थक्रियायायामुपयोक्ष्यन्ते ।
न त्वेषां प्रकारान्तरवदर्थक्रिया ऽपि पिशाचायमानैव ।
तथा चेत् किं नः छिन्नं दृश्यमानास्त्वनुभूतावसिताःपरस्परव्यावृत्तक्रमयौगपद्यरूपप्रकारद्वयसमालिङ्गितरूपा अर्थक्रिया न प्रकारान्तराद्भवितुमीशते ।
न च प्रकापरान्तरमपि ।
तथा हि यत्र यत्प्रकारप्रतिषेधेन यदितरप्रकारव्यवस्थानियमस्तत्र न प्रकारान्तरसम्भवः
यथा नीलप्रकारप्रतिषेधेनानीलप्रकारव्यवस्थायां पीते अस्ति चतयोरन्यतरप्रकारनिषेधे ऽन्यतरव्यवस्थानियमो निषिध्यमानप्रकाराविषयीकृते सर्वत्र कार्यकारणे इति विरुद्धोपलब्धिः ।
निषिध्यमानप्रकारान्तरसम्भवविरुद्धो हि द्वयोरन्यतरनिषधेनान्यतरव्यवस्थानियम
इति प्रकारान्तरासम्भवाद्भावानामर्थक्रिया क्रमाक्रमाभ्यां व्याप्ता तौ च स्थिरान्निवर्त्तमानावर्थक्रियामपि व्यावर्तयतः वृक्षतेव निवर्तमाना शिंशपात्वमाराद्दृश्यमानादेकशिलामयाद्भूभृत्कटकादिति प्रतिबन्धसिद्धिः ।
तथा हि न तावतावदक्षणिकः क्रमेणार्थाक्रियां कर्त्तुमर्हति ।
स्वेन हि रूपेण भावा अर्थक्रियायामुपयुज्यमाना दृश्यन्ते ।
यद्वस्तु यत्कार्यान्वयव्यतिरिकानुविहितभावाभावं तद्वस्तु तत्कार्यप्रसवसमर्थं रूपं च तस्य कार्येणानुकृतान्वयव्यतिरेकमिति रूपमेव समर्थम्, तच्च द्वितीयादिक्षणेष्विव प्रथमे ऽपि क्षणे सदिति द्वितीयादिक्षणजन्यकार्यकलापं प्रथम एव क्षणे निष्पादयेत्, समर्थस्य क्षेपायोगादिति नाक्षणिकस्य क्रमवद्व्यापारता प्रसज्यते ।
स्यादेतत् समर्थो ऽपि क्रमवत्सहकारियोगात् क्रमेण करोतीति ।
तदवुक्तम् ।
विकल्पासहत्वात् ।
किमस्य सहकारिणः कं चिदुपकारमादधति न वा, आदधाना वा भावाद्भिन्नमभिन्नं वा ।
तत्र भिन्नोपकाराधाने भावे सत्यनुत्पत्तरुपकारे च सत्युत्पत्तेः एवं कार्यस्योपकार एव जनको न जनको भावः ।
न चोपकारसहकारी भाव
एव कार्यस्य जनको नोपकारमात्रमिति वाच्यम् ।
उपकारस्योपकारान्तरजनने अनवस्थानात् ।
अजनने तु सहकारिभावाभावात् ।
अभिन्नोपकाराधाने च भाव एव जनयेत् स च प्रागप्यासीदिति सहकारिवैयर्थ्यम् ।
अनुपकारकत्वे वा सहकारिणो न भावेनापेक्ष्येरन्नित्युत्पन्नमात्र
एव भावः कार्यमुत्पादयेत् ।
यदि मन्यते अनुपकारका अपि भवन्ति सहकारिणो यतस्तैः सह भावः कार्यं करोति ।
न चभावेन नापेक्ष्यन्ते तैर्विना कार्यस्यानुत्पत्तेरिति ।
ननु स्वरूपेण चेत्कार्यजनको भावः न कस्मान्नेमानन्तरेण जनयति तेभ्यः प्रागपि स्वरूपसद्भावात् ।
सहकारिरूपेण वा जनकत्वे सहकारिण एव जनका न जनको भावः ।
न चोभयभावाभावानुविधानादर्थक्रियाभावाभावयोरेकस्माच्च व्यभिचारादुभयाधीनतेति साम्प्रतम् ।
भावे सत्यनुत्पादात्कार्यस्य व्यभिचारेण चरमभाविनिमित्तसहकारिसमवधाने सति भावादेव सहकारिसमवधानस्यैव चरमभाविनो व्यभिचारेण कारणत्वावधारणात् ।
एतेनैतन्निरस्तं यदाहुरेके ॥। स्वहेतोर्विलम्बकारी भावो जात इति नोत्पन्नमात्रः करोतीति ॥। ।
सा हि बिलम्बकारिता अस्य स्वभावः सहकारिसमवधानकाले ऽप्यस्ति न वा, अस्ति चेत्तदापि न कुर्यात् ।
नास्ति चेत् कथं स्वभावनाशे भावो न नष्टः ।
अथास्य विलम्बकारिता न स्वभावः कथमुत्पन्नमात्रो न कार्यं कुर्यादिति ।
तस्मान्न क्रमेणार्थक्रिया भावनाम्, नापि यौगपद्येन,
तस्माद्यावत्कार्य तेनाक्षणिकेन प्रथमे क्षणे सम्पादितं ताबत्सर्वं द्वितीयादिक्षणेषु सम्पादयेत् ।
तावत्कार्यसम्पादनस्वरूपस्य द्वितीयादिष्वपि क्षणेषु भावात् ।
न च सम्पादितं शक्यसम्पादनमिति यद द्वितीयादिक्षणेषु सम्पादयति तत्प्रथमक्षणे सम्पादितादन्यदिति क्रमा एवावर्त्तन्त इति तत्र चोक्तो दोषः ।
युगपत्कृतकृत्यस्य वा द्वितीयादिषु कर्त्तव्याभावान्नार्थक्रियासामर्थ्यमस्तीत्यसत्त्वेन क्षणिकत्वापत्तिः ।
तस्मादक्षणिके सत्त्वव्यापकयोः क्रमाक्रमयोरनुपलम्भाद्व्यापकानुपलब्ध्या निवर्त्तमानं सत्त्वमक्षणिकात् क्षणिकत्वेन व्याप्यत इति प्रतिबन्धसिद्धिः ।
नीलमेव नानुभूतावसितं समारोपिताक्षणिकभावमक्षणिकं तादृशनीलस्वरूपोपलम्भ एव तत्राक्षणिके क्रमयौगपद्यानुपलम्भः यथा भूतलस्वरूपोलम्भ
एव समारोपितदृश्यत्त्वस्य घटस्यानुपलम्भः
भूतलं च तथोत्पन्नं घटाभावो न त्वभावो नाम कश्चिद्विग्रहवानस्ति यः प्रतिपत्तिगोचरः स्यात् ।
अपि व्यवहर्त्तव्यः परम् ।
स्यादेतत् ।
क्षणिकोभावो ऽर्थक्रियाजनकस्वभावो न वा, न चेदसन्नेव, तज्जनकस्वभावश्चेत्किमस्य सहकारिभिः ।
उत्पन्नमात्रमेव बीजमङ्कुरं जनयेत् ।
ननूत्पन्नो बीजक्षणः समर्थो जनयत्येवाङ्कुरं कुतः समर्थस्योत्पत्तिः समर्थस्योत्पत्तिः पूर्वस्माद्बीजक्षणात् ।
तर्हि तत्सन्तानवर्तिनां सर्वेषां बीजत्वाविशेषादङ्कुरजननसामर्थ्यमिति कुसुमानन्तरलब्धजन्ममात्रमेव बीजमङ्कुरं जनयेत् ।
मैवम् ।
पूर्वपूर्वक्षितिबीजपवनादिक्षणसमवधानोत्पन्नातिशयवदुत्तरक्षणपरम्परालब्धजन्मा ऽन्त्योबीजक्षणः समर्थः समर्थक्षित्यादिलक्षणसहभूरनपेक्ष
एवाङ्कुरञ्जनयति ।
न चास्य क्षित्यादिसहभुवस्तदनपेक्षस्यापि तैर्विना करणे तदेकसामग्र्यधीनस्य तदभावे ऽभावात् ।
न वा सहकारिता क्षित्यादीनां तैरेव सहाङ्कुरजननात् ।
तेषामपि कार्यात्पूर्वभावस्य नियमतो ऽविशेषात् ।
तन्मात्रत्वादेव च कारणतायाः ।
न वानपेक्षाणानमपि प्रत्येकं कार्यान्तरारम्भणं तन्मात्रस्य तेभ्य उपलब्धेस्तत्रैव सामर्थ्यनियमात् ।
न च कृतकरणतयेतरेषामक्रिया सहक्रियायां कृतमित्यसम्भवात् ।
न च स्वकारणलब्धसन्निधयो भावाः प्रेक्षावन्तः शक्यमिदमस्मास्वेकेनापि कर्तुं कृतं नः सर्वेषां सन्निधानेनेत्यालोच्य निवर्तितुमीशते ।
न चस्वकारणभेदमात्रं कार्यभेदहेतुः अपि तु सामग्रीभेदः तस्मिन्सति कार्यभेदोपलब्धेः
अभिन्नाभेदसामग्रीति न कार्यभेदप्रसङ्गः ।
परस्परसमवधानं चोपसर्पणप्रत्ययेभ्यः क्षित्यादीनामिति ।
न च क्षणिकस्यार्थक्रियाविरोधादसाधारणता हेतोः ।
न च साध्यधर्मिणि दृश्यमाने शब्दादौ व्याप्तिसाधनादेव साध्यसिद्धेरसाधनाङ्गं हेतुवचनम् ।
न खलु सर्वोपसंहारवती व्याप्तिर्दृश्यमात्रविषया भवितुमर्हति ।
शक्यं हि शङ्कितुं परेणादृश्यमामनानां सत्त्वमक्षणिकाद् न व्यावर्त्तितं त्वयेति सत्त्वमनैकान्तिकं क्षणिकत्वसाधन इति ।
तस्माद्यद्दृश्यमदृश्यं वा तत्सर्वं क्षणिकमिति दर्शनीया व्याप्तिः ।
नन्वेवमपि शब्दादेर्विवादास्पदी भूतस्य व्याप्तिदर्शनबलादेव सिद्धा क्षणिकतेति तदवस्थमेवासाधनाङ्गत्वं हेतुवचनस्य ।
मैवम् ।
असत्यपि शशविषाणादौ यत्सद्दृश्यमदृश्यं वा तत्सर्वं क्षणिकमिति यथा सर्वोपसंहारवती व्याप्तिः न च शशविषाणादयो ऽपि भवन्ति क्षणिकाः एवं सत्यपि विवादास्पदी भूते शब्दादौ व्याप्तिसिद्धवपि न सिध्यति क्षणिकता,
तेनावश्यं दर्शयितव्यमेतेषां क्षणिकत्वसाधनाय सत्त्वमिति नासाधनाङ्गता हेतुवचनस्येति ।
अत्रोच्यते ।
न सत्त्वं क्षणभङ्गसिद्धावङ्गमसाधारणत्वात् सन्दिग्धव्यतिरेकित्वाद्वा ।
तथा हि क्रमाक्रमाभ्यां व्याप्तं सत्त्वं तदनुपलम्भेनाक्षणिकाद्व्यावर्त्तत एवं तदेव सापेक्षत्वानपेक्षत्वाभ्यां व्याप्तं तदनुपलम्भेन क्षणिकादपि व्यावर्त्तते तस्माद्गन्धवत्त्ववदसाधारणं सदसाधनाङ्गम् ।
तथा ह्यन्तक्षणप्राप्तानि क्षितिपवनपाथस्तेजोबीजानि समर्थानि प्राग्भावनियतानि नियतचरमोत्पादानामवनिजलानलाङ्कुराणां कारणं भवद्भिरभ्युपेयन्ते तान्यमूनि परस्परानपेक्षाणि वा जनयेयुः सापेक्षाणि वा ।
ननु निरपेक्षाण्येवान्त्यक्षणप्राप्तानि क्षित्यादीन्युत्तरस्मिन्पुञ्जे जनयितव्यैत्युक्तम् ।
तत्किमनभ्युपगतविकल्पेन सापेक्षाणि ।
निरपेक्षाणि चेति ।
तत्किमिदानीं समर्थबीजक्षणजनको ऽपि बीजक्षणो ऽनपेक्ष
एव ।
ओम्मिति चेत् ।
नेन्वेवं सर्व एव बीजक्षणा निरपेक्षाः स्वकार्योपजन इति कृतं सहकारिभिः ।
ननूक्तं नैते प्रेक्षावन्तः किं तु स्वप्रत्ययाधीननियतसन्निधयो न व्यवधेरीशत इति ।
तत्किमयं कृषीवलो ऽपि न प्रेक्षावान् ?, प्रेक्षावान् यतः प्रयत्नेन कुसूलादवतार्य बीजमावपति भूमौ परिकर्षितायाम्,
क्षित्यादिसहभुव एव बीजक्षणस्यातिशयोत्पादपरम्पराया अङ्कुरप्रसवसामर्थ्यात् कुशूलस्थात्तु सहस्रेणापि वर्षैरङ्कुरानुत्पादे तत्रावपतीति ।
चेत् ।
अथ किमयं न स्वसन्तानमात्रप्रभवः समर्थो बीजक्षणः तथा चेत्कथं सन्तानान्तरं नापेक्षेत स्वकार्ये ।
नन्वपेक्षत एव किं तु तु स्वोत्पादे न पुनः स्वकार्ये, तत्र तस्यानपेक्षत्वमुपेयते न तु स्वोत्पादे ।
ननूत्पत्तावप्यस्य जागर्ति स्वसन्तानवर्त्ती पूर्व एव निरपेक्षः क्षण एवं तस्य पूर्वः पूर्वः क्षणः स्वसन्ततिपतित एवानपेक्षो जागर्त्युपजनन इति कुशूलनिहितबीज एव स्यात्प कृती कृषीवलः कृतमस्य कृषिकर्मणा दुःखबहुलेन ।
तस्मात्परस्परापेक्षाणामेवान्त्यक्षणप्राप्तानां कार्यजनकत्वमकामेनाप्युपेयम् ।
अपि चान्त्यक्षणप्राप्तं बीजमनपेक्ष्य अङ्कुरावनिपवनपाथस्तेजांसि जनयेत्किं येनैव रूपेणाङ्कुरं जनयति तनैव तदितराण्यपि किं वा रूपान्तरेण ।
न तावत्तेनैव क्षित्यादीनामङ्कुरस्वाभाव्यापत्तेः ।
न खलु भवतां कारणाभेदे भेदवत्कार्य भवितुमर्हति ।
कार्यभेदस्याकस्मिकत्वप्रसङ्गात् ।
यथोक्तं भवद्भिरेव अयमेव हि भेदो भेदहेतुर्वा यद्विरुद्धधर्माध्यासः कारणभेदश्चेति ।
नापि सामग्रीभेदः तस्या अप्यभेदात् ।
अन्यथा सहभावनियमाभावात् ।
स्वकारणादासादितः कश्चिदेव स्वभावभेद एकस्तादृशो यस्मान्नानाकार्याणि जायन्ते तस्मान्नाकस्मिकत्वं कार्यनानात्वस्य नाप्यतिप्रसङ्गः तादृशस्य तस्यासार्वात्रिकत्वात् ।
न च कार्यकारणयोरभेदो येन कारणभेदाभेदावनुपतेतां कार्यभेदाभेदौ ।
तस्माद्यथा केभ्यः कश्चिदेव बहुभ्यः कार्यमेकं जायते तथैकस्मादेव कुतश्चिद्बहूनि जनयिष्यन्ते कार्याणीति चेत् ।
मुधैव तर्हि नानादेशवृत्तिरेको ऽवयविसामान्यसंयोगादिरर्थस्तपस्वी भवतायासितः न हि नानात्वे ऽपि देशानां तदाश्रितः सामान्यादिरर्थो नाना भवितुमर्हति ।
तस्य तेभ्यो ऽभिन्नत्वात् ।
रूपान्तरेण बीजमङ्कुरादितरेषां क्षित्यादीनां जनकम् तथा हि बीजमङ्कुरस्योपादानं तत्सारभागविक्रियया ऽङ्कुरस्योत्पत्तेः क्षित्यादिषु तु जनयितव्येषु सहकारि पूर्वे तु क्षित्यादयः क्षित्यादीनां यथास्वमुपादानानि तद्विक्रियया तदुत्पत्तिरिति चेत् ।
अथ सहकारितोपादानते किमेकं तत्त्वं नाना वा ।
एकं चेत् कथं रूपान्तरेण जनकं नानात्वे तयोर्बीजाद्भेदो ऽभेदो वा भेदे कथं बीजस्य जनकत्वं ताभ्यामेवाङ्कुरादीनामुत्पत्तेः ।
अभेदे वा कथं न भेदो बीजस्य भिन्नतादात्म्यात् ।
तयोर्वैकरूपत्वमेव तादात्म्यात् ।
तस्मादङ्कुराद्भिन्ने क्षित्यादौ जनयितव्ये तदुपादानं पूर्वमेव क्षित्यादिसमसमयभावि बीजेनापेक्ष्यते ।
एवं बीजमपि समसमयभाव्येव सहकारिकारणं क्षित्यादिभिरपेक्ष्यते नान्यथा कार्यभेदसिद्धिरित्यनिच्छता ऽप्यभ्युपेयम् ।
न चानुपकारकमपेक्षागोचर
इति भवद्भिरेवोपपादितम् ।
न च क्षणिकस्योपकारकतवसम्भवो ऽन्यत्र जननात् तस्याभेद्यत्वात् ।
न च समसमयभाविनोर्जन्यजनकत्वमस्ति सव्येतरविषाणयोरिव ।
तस्मात्स्वसन्तानमात्रादेव कार्योत्पादप्रसङ्गात्कार्यभेदानुपपत्तेश्चानुपकारिण्यपेक्षाविरहाच्च क्षणिकस्यापि सापेक्षस्यानपेक्षस्य वा नार्थक्रिया सम्भविनीत्यसाधारणसत्त्वं न क्षणभङ्गसिद्धावङ्गम् ।
अथ मा भूदसाधारणता सत्त्वस्येत्यनुपकारकेष्वपि कार्यकरणायापेक्षाभ्युपेय ते तेषामपि कार्येणानुकृतान्वयव्यतिरेकत्वात् ।
न त्वनेन क्रमेणाक्षणिको ऽपि भावो ऽनुपकारकानपि सहकारिणः क्रमवतः क्रमवतैव कार्येणानुकृतान्वयव्यतिरेकानपेक्षिष्यते ।
करिष्यते क्रमवत्सहकारिवशः क्रमेण कार्याणि ।
समर्थस्याप्यपेक्षणीयासन्निधेः कार्यक्षेपौपपत्स्यते ।
न चैतावता सहकारिसमवधानादेवोत्पत्तिमतः कार्यसिद्धिः कृतमेषां रूपेणेति वाच्यम् ।
तत्सहितादेव तत उत्पत्तिदर्शनात् ।
रूपे सत्यप्यनुत्पादात् ।
समवधाने (हेतु) सत्युत्पादादेव कार्यस्वसमवधानमेव हेतुर्न पुना रूपमपीति चेत् तत्किमिदानीं रासभादितुल्यताबीजरूपस्य ।
ओम्मिति चेत् ।
अथ कस्माद्गर्दभादीनन्तरेणेव बीजरूपं विनापि नाङ्कुरो जायते ।
तत्समवधानस्य तत्कारणत्वादिति चेत् ।
तत्समबधाने कारणे कथं तन्निवेशि रूपमपि न कारणम् ।
न चावर्जनीयतया तन्निवेशः ।
समवधानमात्रस्य बीजरूपमन्तरेणापि तत्र तत्र भावात् ।
विशेषस्तु समवधाने रूपमेव बीजादीनाम् ।
तस्माद्य थोभयाधीननिरूपणा व्याप्तिरयोगव्यवच्छेदेन व्यापके निरूप्यते व्याप्ये भाव एव व्यापकस्य नाभाव इति व्याप्ये पुनरन्ययोगव्यवच्छेदेन व्यापक
एव भावो व्याप्यस्य नान्यत्रेति एवं कार्यकारणभावो ऽप्युभयाधीननिरूपणो ऽपि कारणे अयोगव्यवच्छेदेन निरूप्यते ।
कार्योत्पादस्य पुरस्ताद्भाव
एव कारणस्य नाभाव इति ।
कार्ये पुनरयोगव्यवच्छेदेन ।
कारण एव सति भावो नान्यस्मिन्निति अनुभवानुसारान्निश्चीयते ।
तथैव हि लौकिकपरीक्षकाणां सम्प्रतिपत्तेः ।
न च कारणतैव सत्ता किं तु स्वरूपं नीलादेरनुभूतावसितं तद्धि तेनैव रूपेण स्वाभावव्यवच्छिन्नं तासु तास्वर्थक्रियासूपयुज्यते न पुनरर्थक्रियाकारितैवव त्वरूपं मा भूदनेकार्थक्रियाकारिणो ऽपर्यायेण रूपभेदः ।
तस्माद्यद्यस्ति सर्वज्ञस्ततः स्वरूपेणैव सन्भावः तज्ज्ञानस्यालम्बनप्रत्ययो भविष्यति ।
अथ तु नास्ति तथापि तद्रूपो जनित्वा आपाततो ऽकिञ्चित्करो ऽपि पश्चात्कुतश्चिन्निमित्तादासाद्य सहकारिप्रत्ययान् तासु तास्वर्थक्रियासूपयोक्ष्यते ।
तत्सिद्धमेतत् क्षणिकस्यापि क्रमाक्रमाभ्यां यथायोगमर्थक्रियोपपत्तेर्व्यापकानुपलब्धेरसिद्धेः सन्दिग्धव्यतिरेकमनैकान्तिकं सत्त्वं शाक्यानां क्षणिकत्वे साध्ये भावानाम् ।
अस्माकं त्वन्यथासिद्धमसिद्धप्रभेद
एवेति ।
न च जनकत्वाजनकत्वलक्षणविरुद्धधर्मसंसर्गो नानात्वे हेतुर्भवितुमर्हति ।
जनकत्वं नाम न वस्तुस्वभावो ऽपि तु तद्धर्मः ।
धर्मश्च धर्मिणो वस्तुतो भिद्यते ।
न चान्यस्य भेदो ऽन्यस्य भेदायालमतिप्रसङ्गात् ।
अन्यत्त्वाविशेषे कथं तस्यैव धर्म इति चेत् ।
अत्र वस्तुस्वभावैरेवोत्तरं वाच्यम् ।
यथा ऽन्यत्वाविंशेषे ऽपि कार्यं धूमो हुतभुज एव न बीजस्येत्युक्तम् ।
न च कृतकत्वमपि क्षणिकत्त्वे हेतुरन्यथासिद्धेः ।
सहेतुके विनाशे तदुपपत्तेश्च ।
न चोत्पत्तिविनाशयोस्तादात्म्यं भावस्यात्यन्ताभावप्रसङ्गादित्युक्तम् ।
तदिदमुक्तं वार्तिककृतता ते ऽप्यसिद्धा अन्यथासिद्धा विरुद्धा वा भवन्तीत्यहेतव इति ।
( ४१६ । १५ )
अन्त्यक्षणविशेषदर्शनं पूर्वक्षणधर्मत्वेनासिद्धत्वादसिद्धम् ।
सत्त्वकृतकत्वे अन्यथासिद्धे ।
विरुद्धत्वं च सर्वस्यैव हेतोः क्षणिकत्वे साध्ये ।
तथा हि सत्त्वं कृतकत्त्वं वा त्रैपलोक्यव्यावृत्ततया ऽननुगतं देशतः कालतो वा न साधनं तस्याशक्याविनाभावज्ञानतया लिङ्गभावाभावात् ।
अन्वयमुखेन व्यतिरेकमुखेन वा ऽविनाभावग्रहस्यैकस्मिन् क्षणे ऽशक्यत्वात् ।
तस्माद्देशकालानुगतं सत्त्वं कृतकत्वमन्यद्वाहेतूकर्तव्यम् ।
तच्च विधिरूपं वा भवत्वन्यव्यावृत्तिरूपं वा नानाकालमेकमक्षणिकं क्षणिकत्वेन साध्येन विरुध्यतैत्युक्तं विरुद्धा वेति ।
अन्ते विशेषदर्शनादित्यस्य तु विरुद्धत्वमनन्तरं वक्ष्यति ।
उपेत्य विशेषवत्त्वे सिद्धत्वमनैकान्तिकत्वमाहप उपेत्य वेतञ्
हेतोरिसिद्धत्वविरुद्धत्वे दर्शयितुमाह ।
अन्ते विशेषेति ।
दर्शनादर्शनलणस्य हेतोरन्यथासिद्धतेत्याह ।
यो ऽप्ययं हेतुरिति ।
भावाभावयोस्तद्वत्त्वादिति ( ४१७ । ७ ) संयोगाभावाभावयोरिहबुद्धेर्भाववत्त्वादित्यर्थः ।
प्रदीपस्य देशान्तरे उत्पाद इत्येतदपि न बुध्यामह इति ।
क्षणिकस्य प्रदीपस्य यदि सन्तानमात्रप्रभवत्वं निबद्धं देशान्तरे कार्योत्पादकत्वं ततः सर्व एव प्रदीपक्षणा देशान्तरे प्रदीपमुत्पादयेयुः ।
न के चन प्रधनोदर एवेति ।
अथोः पसर्पणप्रत्ययवशात्प्रघनोदरादन्यत्रापि कार्यमुत्पादयन्ति ।
नूनपसर्पणप्रत्ययः प्रदीपे कं चिदुपकारमाधत्ते न वा, न तावदाधत्ते क्षणस्याभेद्यत्वेनोपकृतानुपकृतत्वासम्भवात् ।
अनाधाने च सहकारिभावाभावात् ।
अनुपकारकस्पय सहकारित्वे ऽतिप्रसङ्गादिति भवतामेव गिरः ।
न च विशिष्टप्रदीपक्षणजननमेवोपकारः सहकारिणां तस्य पूर्वस्मादेवोपादानादुपपत्तेः सहकार्यनपेक्षणात् ।
न खलु तस्येव तत्कारणस्याप्युपकारकाः सहकारिणो भवितुमर्हन्ति ।
एवं पूर्वेषामपि प्रदीपक्षणानां पूर्वपूर्वप्रदीपमात्रसामर्थ्यभुवा न सहकारिणा किञ्चिदाधीयत इति सर्व एवैकस्मिन् प्रधानं कार्यं कुर्युः देशान्तरे वा ।
यदि पुनरनुपकारिणो ऽपि कार्यानुविहितभावाभावतया क्षणिकेन प्रदीपेन कार्यक्रियां प्रत्यपेक्ष्यन्ते तदक्षणिकपक्षे ऽपि तुल्यमिति सङ्क्षेपः ।
विपञ्चितं चैतदस्माभिर्ब्रह्यतत्त्वसमीक्षान्यायकणिकाभ्यामित्युपरम्यते ।
न किलाकाशे पततो लोष्टादेरिति ।
लोष्टश्येनादेस्तुल्यगुरुत्ववतां द्रव्याणामेकस्य गुरुत्वप्रयत्नक्षेपाः कारणम् ।
तथा हि सौधस्योपरिस्थेन पुरुषेण भूमौ चरन्तं पारावतमुद्दिश्य यदा ऽधः श्येनः क्षिप्यते तदा श्येनस्य पारावतजिधृक्षाजनितः प्रयत्नो गुरुत्वं च क्षेपश्चाशुतरपतनहेतवः ।
अक्षिप्तस्य तु गुरुत्वप्रयत्नावाशुपतनहेतू अप्रयतमानस्य गुरुत्वमात्रं पतनहेतुरिति ।
औलूक्यमते ऽपि न दोष इत्यत आह ।
एकश्च संस्कार इति ।
( ४१८ । ७ ) अयुगपत्कालाः प्रत्यया एकविषया इत्युच्यमाने घटपटादिप्रत्ययाः प्रदीपादिप्रत्ययाश्च क्रमवन्त एकविषयाः प्रसज्येरन्नित्यत
आह ।
विप्रतिपन्ना इति ।
समानशब्दवाच्यत्वादित्यनेकान्तः
भवन्ति हि समानशब्दवाच्याः प्रत्ययाः अक्षो ऽक्ष इति, न च समानविषयाः देवनादीनां तद्विपयाणां भेदादत आह ।
तत्प्रत्ययसामानाधिकरण्ये सतीति ।
तथा ऽपि प्रदीपप्रत्ययैरेवानेकान्त
इत्यत आह ।
अव्युत्थायीति ।
व्युत्थातुं भ्रमितुं शीलप्रस्येति व्युत्थायि भ्रान्तमिति यावत् ।
अभ्रान्तत्वं चास्य क्षणिकत्वसाधननिराकरणेन द्रष्टव्यम् ।
अव्युत्थायितत्प्रत्ययसामानाधिकरण्येनैव सिद्धे समानशब्दवाच्यत्वं प्रपञ्चः ॥ १३-१४ ॥
न्य्स्_३,२।१५: न पयसः परिणामगुणान्तरप्रादुर्भावात् ॥
भाष्यं गुणान्तरप्रादुर्भाव
इति ।
द्रव्यं तावत्सदेव गुणो ऽपि सन् केवलमनुद्भूत
आसीत् ।
एकश्चोद्भूतो गुणः तत्र य उद्भूतस्तिरोभवति पूर्वगुणस्यनिवृत्तौ तिरोभूतौ गुणान्तरमुत्पद्यतेतद्भवतीत्यर्थः
॥ १५ ॥
न्य्स्_३,२।१६: व्यूहान्तराद् द्रव्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्यनिवृत्तेरनुमानम् ॥
अत्र तु प्रतिषेध इति ।
क्षीरावयवा एव हि क्षीरविनाशे सत्युत्पन्नपाकजा विलक्षणं द्रव्यमुत्पादयन्ति ।
यदि तु सर्वं कार्यं सदेव कारणव्यापारात्प्रागपि व्यर्थः कारणव्यापारः अभिव्यक्तेरपि कार्यायाः सत्त्वात् ।
असत्त्वे वा यथा सैव न सती क्रियते एवं कार्यान्तराण्यपीति ।
विपञ्चितं चैतदस्माभिर्न्यायकणिकायाम्
॥ १६ ॥
न्य्स्_३,२।१७: क्वचिद्विनाशकारणानुपलब्धेः क्वचिच्चोपलब्धेरनेकान्तः ॥
अभ्यनुज्ञाय च निष्कारणमिति ।
विनाशोत्पादवत्त्वात्समानधर्मात्संशयः
दधिक्षीरयोर्विनाशोत्पादावकारणौ दृष्टौ कुम्भस्य चोत्पादविनाशौ सकारणकौ, तदिह स्फटिके विनाशोत्पादौ सकारणौ निष्कारणौ वेति सन्देहः ।
तद्यदि सकारणावेवेति प्रमाणतो निश्चीयते ततो विनाशकारणानुपलब्धेः स्फटिकस्य कुम्भवद्विनाशो नास्तीति निश्चीयते ।
तदिदमुक्तं भाष्यकारेण ।
न पुनर्यथा विनाशकारणाप्रावादिति ।
निरधिष्ठानं चेति ।
धर्मिणमाश्रित्य तत्समानधर्मा दृटान्तो भवति स्फटिकोत्पादविनाशौ च धर्मिणौ तत्समानधर्मतया क्षीरदधिविनाशोत्पादयोर्दृष्टान्तत्वेन भवितव्यम् ।
न पुनः स्फटिकोत्पादविनाशौ धर्मिणौ गृह्येते ।
तस्मान्न तत्समानधर्मतया दृष्टान्तौ भवत इति ।
यदि तु द्रव्यसमवायादित्युच्येत ततस्तोयादिपरमाणुविसमवेतै रूपादिभिरनेकान्तः स्यादित्यत आह ।
व्यापकेति ।
( ४२० । १७ ) तथाप्यात्मत्वसामान्येनानेकान्तो ऽत आह ।
गुणत्वे सतीति ।
तथा ऽप्यात्मपरिमाणेनानेकान्तो ऽत आह ।
प्रत्यक्षतयेति ।
अस्मदादीनामिति शेषः ।
गुणत्वादिविशेषणयोगात्प्राग्व्यापकग्रहणस्योपयोगः ।
अस्मदादिप्रत्यक्षत्वादित्युच्यमाने सामान्यसमवायाभ्यामनेकान्तः स्यादत आह जातिमत्त्वे सतीति ।
आश्रितत्वादित्यत्रापिजातिमत्वे सति प्रत्यक्षत्त्वे चेत्यनुषञ्जनीयम् ।
अनित्या बुद्धिः प्रत्यक्षत्वादित्युर्च्यमाने मनसा व्यभिचारो ऽत आह ।
अयोगीति ।
तथा ऽप्यात्मना व्यभिचारो ऽत
उक्तं करणभावे सतीति ।
हानादिबुद्धिः करणं भवति ।
शब्दश्च प्रत्यये करणम् ।
अत्रा पि जातिमत्त्वे सतीत्यनुषञ्जनीयं तेन न गन्धत्वादिभिरनेकान्तः
॥ १७ ॥
न्य्स्_३,२।१८: नेन्द्रियार्थयोस् तद्विनाशेपि ज्ञानावस्थानात् ॥
चिन्तान्तरमवतारयति ।
इदं तु चिन्त्यत इति ।
नन्वात्मपरीक्षायामात्मगुणत्वं बुद्धेर्व्यवस्थापितं तत्कस्मात्पुनः परीक्ष्यत
इत्यत आह भाष्यकारः ।
प्रसिद्धो ऽपीति ।
यद्यप्ययमर्थः परीक्षितस्तथा ऽप्यवान्तरविशेषपरिज्ञानार्थं पुनः परीक्ष्यत इत्यर्थः ।
चोदयति वार्ततिककारः ।
न गुणेति ।
परिहरति ।
अनित्वत्वे सतीति ।
विमृष्य सिद्धान्ती(य)पक्षं गृह्णाति सन्निकर्षोत्पत्तरिति ।
चोदयति अद्राक्षमित्येतन्नेति ।
( ४२१ । ३ ) परिहरति स्मृतावपीति ॥ १८ ॥
न्य्स्_३,२।१९: युगपज्ज्ञेयानुपलब्धेश्च न मनसः ॥
देशयति अस्तु तर्हीति ।
परिहरति युगपदिति ।
यत्करणत्वेनानुमितं तत्करणत्वमपोद्य न कर्तृ भवितुमर्हतीत्यर्थः ।
युगपज् ज्ञेयानुपलब्ध्या यत्समधिगतमिति भाष्यमाक्षिपति ।
विशेषणोपादानादिति ।
समाधत्ते न सर्वस्येति ।
पुनराक्षिपति ।
एवमपीति ।
विशिष्टस्य करणस्य ज्ञानगुणत्वनिषेधः करणान्तरस्य ज्ञानगुणत्वमापादयति न चात्मा करणमित्यर्थः ।
समाधत्ते अनयस्योपपत्तेरिति ।
एतदेव विवृणोक्ति ।
अनवस्थितत्वादिति ।
प्रमातैव कदा चित्प्रमाणं कदा चित्प्रमेयमित्यर्थः ।
पुरुषान्तरेण पुरुषान्तरं परिच्छिनत्तीति ।
यादृशो ऽयं पुरुषस्तादृशो ऽवमपीति पुरुषान्तरेण प्रसिद्धेन पुरुषान्तरपरिच्छेद इति ।
पृच्छति ।
यदि न करणस्य कस्पय तर्हीति ।
उत्तरं ज्ञस्य वशित्वात् ।
कर्तुः स्वातन्त्र्यादित्यर्थः ।
कर्तृकरणादिसमवधाने हि चैतन्यं कर्तर्येव दृष्टं न करणादौ ।
यथा मृद्दण्डचक्रसलिलसूत्रकुलालसमवधाने कर्तुरेव कुलालस्य न तु मृदादीनामिति ।
वशी ज्ञाता वश्यं करणमिति भाष्यं तदनुपन्नं ज्ञातुरपि क्व चिद्वश्यत्वदर्शनात् ।
यथा देवदत्तं कटं कारयति यज्ञदत्त इत्यत आह ।
न चायं ज्ञातरीति ।
यदि तु कश्चिज् ज्ञानगुणं मन
इच्छेत्तं प्रति भाष्यं ज्ञानगुणत्वे चेति तद्व्याचष्टे ।
ज्ञानगुणत्वेवेति ।
( ४२२ । ३ ) घ्राणादिसाधनस्येति भाष्य व्याचष्टे ।
यथा च ज्ञातुरिति ।
तथा च मन्तुर्मतिसाधनं यत्तन्मनः करणम् ।
अथ तदपि कस्माच्चेतनं न भवतीत्यत आह ।
उभयोरिति ।
विभु चान्तःकरणं ज्ञानमन्तःकरणान्तररहितमितिशेषः
॥ १९ ॥
न्य्स्_३,२।२०: तदात्मगुणत्वेपि तुल्यम् ॥
अथ मनो ऽन्तःकरणमपश्यंश्चोदयति ।
तदात्मगुणत्वे
न्य्स्_३,२।२१: इन्द्रियैर् मनसः सन्निकर्षाभावात् तदनुत्पत्तिः ॥
परिहरति न प्रसङ्ग इति ।
विकरणधर्मेति भाष्यंऽपीति ।
विशिष्टं करणं धर्मो यस्य स विकरणधर्मा अस्मदादिकरणविलक्षणकरणः
येन व्यवहितविप्रकृष्टसूक्ष्मादिदर्शी भवतीत्यर्थः
॥ २१ ॥
न्य्स्_३,२।२२: नोत्पत्तिकारणानपदेशात् ॥
यदि पुनरित्यादि भाष्यं पूरयित्वा व्याचष्टे ।
यदि पुनरिति ।
नोत्पत्तीति ।
नात्र प्रमाणमपदिश्यते ।
प्रत्युत बाधकं प्रमाणमस्तीत्यर्थः ।
व्याख्यानान्तरमाह ।
अयुगपदुत्पत्तौ वेति ।
व्याख्यानान्तरमाह ।
अयुगपदुत्पत्तौ वेति ।
व्याख्यानान्तरमाह ।
विदेहेति ।
शरीरवृत्तित्वे हि मनसः सर्वं ज्ञानं शरीरायतनस्यात्मनो भवेत् ।
यदा तु मन एव नास्ति तदेन्द्रियार्थसन्निकर्षस्यात्मनश्च शरीराद्बहिरपि भावाद्विदेहप्रत्ययोत्पादप्रसङ्ग
इति ।
अन्तःकरणप्रत्याख्याने चेति ।
यद्यपि सर्वाण्यपि ज्ञानानि न युगपदुपजायन्ते तथापि स्मृतीनामवश्यं युगपदुत्पादप्रसङ्ग इति पूर्वस्मादस्य विशेषः ।
व्याख्यानान्तरमाह ।
यदा चेन्द्रियमात्मा चार्थेन युगपत्सम्बद्धाविति ।
असतीन्द्रियमनःसन्निकर्षे व्यभिचारिणां कारणत्वकल्पनायां विनिगमनाहेतोरभावादिति भावः ॥ २२ ॥
न्य्स्_३,२।२३: विनाशकारणानुपलब्धेश्चावस्थाने तन्नित्यत्वप्रसङ्गः ॥
विना–ङ्गः–(सू। २३) ॥
अत्र पूर्वपक्षसूत्रे चकारः पूर्वपूर्वपक्षसूत्रापेक्षयेत्याह ।
तदात्मगुणत्व इति ।
अतः( ४२३ । ६ ) परस्य निगद
एव व्याख्यानम् ॥ २३ ॥
न्य्स्_३,२।२४: अनित्यत्वग्रहाद् बुद्धेर्बुद्ध्यन्तराद्विनाशः शब्दवत् ॥
यदनन्तरमपवृज्यते पुरुषः सा ऽन्त्या बुद्धिः ।
स्थितिहेत्वभावाद्विनश्यतीति ।
स्थितिहेतू ( ४२४ । ६ ) धर्माधर्मौ तयोरभावादिति ।
अथ तयोरभावः कस्मादित्यत आह ।
कालात् ।
अन्त्यसुखदुःखोपभोगाकलं प्राप्येत्यर्थः ।
अथ वा स्वजनितात्संस्कारादेवान्त्याया बुद्धेर्विनाश
इत्याह ।
संस्काराद्वा ।
संस्कारस्य तु स्थितिहेत्वदृष्टाभावाद्विनाशो भवतीति भावः ।
पृच्छति ।
कथं कालात् ।
उत्तरं यावन्त्यस्य जन्मन इति चरमस्य देहस्येत्यर्थः
॥ २४ ॥
न्य्स्_३,२।२५: ज्ञानसमवेतात्मप्रदेशसन्निकर्षान्मनसः स्मृत्युत्पत्तेर्न युगपदुत्पत्तिः ॥
देशयति यदि कारणस्येति ।
अत्र तावदेकः परिहार इति ।
एकः प्रधानः परिहारः परिहारान्तरं त्वेकदेशिमतेनाप्रधानमित्यर्थः ।
अपि च न स्मृतयो युग पदुत्पद्यन्ते परिच्छेदकत्वाद्
गन्धरसरूपस्पर्शशब्दज्ञानबदित्याह परिच्छेदत्वाच्चेति ।
एकदेशिपरिहारमाह अपरे त्विति ॥ २५ ॥
न्य्स्_३,२।२६: नान्तःशरीर वृत्तित्वान्मनसः ॥
दूषयति एतत्तु न सम्यगिति ।
न हि मनः क्व चिदाश्रितमिति (४२५।२)न क्व चित्समवेतं संयोगमात्रं त्वतिप्रसक्तमित्यर्थः ।
नापि वृत्तिः स्वकार्यसामर्थ्यमिति ।
शरीर एव मनः स्वकार्यं करोति नान्यत्रेति शरीराश्रितं मन इत्युच्यत इत्येतदपि नास्ति ।
इन्द्रियार्थसन्निकर्षस्य मनःकार्यस्य शरीराद्बहिर्भावादि त्यर्थः ।
तमिममाक्षेपं समाधत्ते ।
अत्र ब्रूम इति ।
येनात्मना यच्छरीरं कर्मोपार्जितं तत्संयुक्तस्य मनसो वैशेषिकज्ञानादिलक्षणकारित्वे न तदसंयुक्तस्येति शरीराश्रितत्वे मनसो नान्यदित्यर्थः ॥ २६ ॥
न्य्स्_३,२।२७: साध्यत्वादहेतुः ॥
चोद्यम् ।
साध्य–तुः ( सू। २७ ) ॥
न्य्स्_३,२।२८: स्मरतः शरीरधारणोपपत्तेरप्रतिषेधः ॥
परिहारः ।
स्मर–धः
( सू। २८ ) ॥
न्य्स्_३,२।२९: न तद् आशुगतित्वान्मनसः ॥
पुनश्चोद्यम् ।
न त–सः ( सू। २९ ) ॥
न्य्स्_३,२।३०: न स्मरणकालानियमात् ॥
परिहारः ।
न स्मर-त् ( सू। ३० ) ॥
भाष्यं निन्ताप्रबन्धः स्मृतिप्रबन्धः ।
कस्य चिदेवार्थस्य लिङ्गभूतस्य चिह्नभूतस्या साधारणस्येति यावत् ।
चिन्तनं स्मरणम् ।
आराधितम् सिद्धं चिह्नवतः स्मृतिहेतुर्भवतीति ।
इतश्च शरीरसंयोगापेक्षमेव मनः स्मृतिर्हेतुर्नेतरथेत्याह ।
शरीरसंयोगानपेक्ष
इति ॥ ३० ॥
न्य्स्_३,२।३१: आत्मप्रेरणयदृच्छाज्ञताभिश्च न संयोगविशेषः ॥
आत्म–षः ( सू। ३१ )
न्य्स्_३,२।३२: व्यासक्तमनसः पादव्यथनेन संयोगविशेषेण समानम् ॥
न्य्स्_३,२।३३: प्रणिधानलिङ्गादिज्ञानानामयुगपद्भावादयुगपत्स्मरणम् ॥
दूषयति ।
व्यास–नम्
( सू। ३२ ) ॥
प्रातिभवदिति स्मृत्युत्पादस्व पुरस्तात्प्रणिधानादीनां स्मृतिकारणानामसंवदनादात्ममनः संयोगात्संस्कारापेक्षात् स्मृतीनां युगपदुत्पादप्रसङ्गः ॥ ३२-३३ ॥
प्रातिभवदित्याक्षेपः ।
समाधानमाह ।
सतः स्मृतिहेतोरिति ।
( ४२६ । २१ ) अदृश्यमानमपि करणं तत्क्रमश्च कार्योत्पादक्रमेणानुमीयते इति प्रातिभमपि पुरुषकर्मविशेषापेक्षादात्ममनःसन्निकर्षादुपजायमानं नाकारणं न चाक्रमवदिति प्रधानभूतामुपपत्तिमवतारयितुं पृच्छति भाष्यकारः ।
प्रातिभमिदानीमिति ।
अत्रोत्तरमाविलं दत्वा शङ्कते ।
हेत्वभावादयुक्तमिति चेत् ।
उत्तरसारमाह ।
न करणस्येति ।
यद्यवि क्व चिद् व्रश्चनस्य युगपद्दारुद्वयसंयोगे युगपच्छिदाद्वयं भवति तथा ऽपि व्रश्चनावयवभेदात्करणभेद
उन्नेयः ।
अथ वा करणान्तराणि युगपत्कार्याणि कुर्वन्तु प्रत्ययकरणन्तु क्रमेणैव प्रत्ययान्करोतीत्यत्र न व्यभिचारः तदुक्तं प्रत्ययपर्याय इति ।
तस्मात्करणमेकं न क्व चिदपि युगपत्कार्यायालमिति ।
कर्त्ता पुनरेको ऽपि करणभेदे युगपद्बहूनि कार्याणि करोतीत्याह ।
न ज्ञातुर्विकरणधर्मणो देहनानात्वे प्रत्यययौगपद्यादिति ।
विविधं करणं धर्मो यस्य स तथोक्तः तद्व्याचष्टे वार्त्तिककारः
न चायं नियम इति ।
( ४२७ । ५ ) योगी खलु ऋद्धौ प्रादुर्भूतायां सेन्द्रियाणि शरीराणि तेषु तेषु लोकेषु निर्माय मुक्तात्मनामादाय मनांसि मोक्षाय त्वरमाणो युगपत्कर्मोपार्जितान्
सुखदुःखभेदान्न द्विषन्न रक्तो भुङ्क्ते तदस्यैकस्यापि करणभेदाद्युगपज् ज्ञानानि भवन्तीति ।
अयं च द्वितीयः प्रतिषेधः ज्ञानसंस्कृतात्मप्रदेशभेदस्यायुगपज्ज्ञानोत्पादकस्य ।
अवस्थितेति ।
यत्रात्मप्रदेशो ऽस्य ज्ञानानि नानाविषयाणि जातानि तत्संस्काराश्च तत्रैवावस्थितशरीरस्य ।
तदनेन शरीरान्तर्गतस्य मनसस्तत्र प्रदेशे संयोग उपपादितः ।
तदिदमाह वार्त्तिककारः ।
यदि च ज्ञानसमवेतात्मप्रदेशेन सन्निकर्षादिति ।
अतश्चाव्यापकत्वादपरिहारः ।
आचार्यदेशीयानां तु स्मृतियौगपद्यप्रसङ्गमाह ।
अवस्थितसंस्काराः समानदेशा इत्ययुक्तम् ।
कुतः आत्मप्रेदशानामद्रव्यान्तरत्वात्सर्वसंस्काराणां समानदेशत्वे प्रत्ययौगपद्यप्रसङ्गो ऽपरिहार्यः ।
न ह्यात्मनो घटस्येव प्रदेशास्ततो ऽन्ये सम्भवन्ति किं नामात्मैव स चैक एवेति सर्व एवात्मवर्त्तिनः समानदेशा इत्यर्थः ।
तदिदमुक्तं भाष्यकारेण
आत्मप्रदेशानामद्रव्यान्तरत्वादेकार्थसमवायस्याविशेषे सति स्मृतियौगपद्यस्पय प्रतिषेधानुपपत्तेरिति ।
शब्दसन्ताने त्विति शङ्कानिराकरणभाष्यं तुशब्दः शङ्कां निराकरोति ।
तदेतद्भाष्यं वार्तिककारो व्याचष्टे ।
संस्कारप्रत्यासत्त्येति ।
पृच्छति ।
का प्रत्यासत्तिरिति ।
उत्तरं न ब्रूम
इति ।
निष्प्रदेशत्वे ऽप्यात्मनः संस्कारस्याप्यवृत्तित्वमुपपादितं तेन शब्दवत्सहकारिकारणस्य सन्निधानासन्निधाने कल्पेते एवेत्यर्थः ॥ ३३ ॥
न्य्स्_३,२।३४: ज्ञस्येच्छाद्वेषनिमित्तत्वादारम्भनिवृत्त्योः ॥
सम्प्रति बुद्धिरेव किमिच्छादिसमानाधिकरणा न वेति विचार्यते ।
तत्र साख्यदर्शनवैनाशिकानां विप्रतिपत्तेः संशयः ।
तद्विप्रतिपत्तिमाह ।
पुरुषधर्मो ज्ञानमन्तःकरणस्यत्विति ।
पुरुषचैतन्यमेकमेव कूटस्थनित्यं सत्तत्तदर्थाकारपरिणतबुद्धितत्त्वप्रतिबिम्बविभ्रमवशाद्भिन्नमिवोपजनापायधर्मकं विज्ञानमिति च वृत्तिरिति चाख्यायते ।
इच्छाद्वेषादयस्तु वस्तुत उपजनापायधर्माणो ऽन्तःकरणस्येति दर्शनं तत्प्रतिषिध्यते ।
ज्ञस्ये–त्योः
( सू। ३४ ) ॥
प्रतिवृत्त्यञ्चतीति स चात्मा चेति प्रत्यगात्मा तस्मिन् ।
एतदुक्तं भवति ।
ज्ञानसामानाधिकरण्येनोपलब्धेरन्यदीयानामिच्छादीनामन्यस्याप्रत्यक्षीकरणात्तत्करणे वा मैत्रगतानामपि चैत्रेण ग्रहणप्रसङ्गाद
अन्तःकरणवृत्तीनां च गुणान्तराणां नित्याप्रत्यक्षत्वादात्माश्रिता एवेच्छादयो नान्तः– करणाश्रया इति ॥ ३४ ॥
न्य्स्_३,२।३५: तल्लिङ्गत्वादिच्छाद्वेषयोः पार्थिवाद्येष्वप्रतिषेधः ॥
अत्रान्तरे लब्धावकाशो भूतचैतनिकः प्रत्यवतिष्ठते ।
तल्लि–धः ( सू। ३५) ॥
( ४२८ । ४ ) यदि यस्यारम्भनिवृत्ती तस्येच्छाद्वेषौ यस्य चैतौ तस्य चैतन्यं हन्तायातमनेन क्रमेण भूतचैतन्यमस्मदभिमतं भूतेष्वेव कायाकारपरिणतेषु आरम्भनिवृत्तिदर्शनादित्यर्थः ॥ ३५ ॥
न्य्स्_३,२।३६: परश्वादिष्वारम्भनिवृत्तिदर्शनात् ॥
परश्वादिष्वित्यस्य तात्पर्यमाह वार्तिककारः ।
परश्वादिष्विति ।
( ४२८ । ९ ) भूतचैतनिकस्तल्लिङ्गत्वादिति हेतुं स्वपक्षसिध्द्यर्थमन्यथा व्याचष्टे ।
अयं तर्हीति ।
शरीरेष्ववयवव्यूहभेददर्शनाच्च लोष्टादिषु ( अ ) शरीरारम्भकानामणूनां प्रवृत्तिभेदो ऽनुमीयतेततश्चेच्छाद्वेषौ ताभ्यां चैतन्यमिति ।
त्रसं जङ्गमं विशरारु अस्थिरं कृमिप्रभृतीनां शरीरम्, स्थावरं स्थिरं शरीरं देवमनुष्यादीनाम्, तद्धि चिरतरं वा व्रि (ध्रि) यते ।
तदेतद् दूषयति ।
कुम्भादिमृदवयवानामिति ।
कुम्भाद्यारम्भिकाणां मृदां व्यूहभेदादारम्भदर्शनाददर्शनाच्च सिकतानामारम्भनिवृत्योरनैकान्तत्वम्
॥ ३६ ॥
न्य्स्_३,२।३७: नियमानियमौ तु तद्विशेषकौ ॥
तदेवं भूतचैतन्यसाधनं दूषयित्वा तेभ्यो ऽन्यस्य चैतन्ये साधनमाह ।
नियमानियमौ तु तद्वि शेषकौ (सू। ३९) ॥
तयोरिच्छाद्वेषयोर्नियमानियमौ विशेषकौ ।
अयमेव चेच्छाद्वेषयोर्विशेषो यद्भूताश्रयत्वमनयोर्व्यावर्त्य तदितराश्रयत्वव्यवस्थितिः ।
तत्रानियमं तावदाह ।
ज्ञस्येच्छाद्वेषनिमित्ते प्रवृत्तिनिवृत्ती–स्पन्दास्पन्दौ,
न स्वाश्रये–नेच्छाद्वेषयोराश्रये, किन्तर्हि प्रयोज्ये परश्वादावाश्रये, तत्र प्रयुज्यमानेष्वेव भूतेषु प्रवृत्तिनिवृत्ती स्यातां न सर्वेषु प्रयोजकेष्वपि शररादिष्विति ।
सेयमनियमोपपत्तिः ।
सार्वत्रिकत्वमनियम
इति ।
एतदुक्तं भवति न शरीरमिच्छाज्ञानद्वेषाधारः
इच्छादिजनितस्पन्दाधारत्वात् परश्वादिवदिति ।
तदेवमनियमे भेदकं व्याख्याय नियमं व्याचष्टे ।
यस्य तु चार्वाकस्य दर्शने ज्ञत्वाद्भूतानामिच्छाद्वेषनिमित्ते आरम्भनिवृत्ती स्वाश्रये शरीरादौ, तस्य चार्वाकस्य ।
यथा भूतानां गुरुत्वादिगुणान्तरनिमित्ता प्रवृत्तिः पतनादिलक्षणा,तस्यैव गुरुत्वादेर्गुणान्तरस्य प्रतिबन्ध आधारद्रव्यसंयोगेन तस्मान्निवृत्तिरपतनादिका,
सा भूतमात्रे भवन्ती नियमेन व्याप्ता, न तु शरीरोपगृहीतेष्वेव भूतेषु, एवं भूतमात्रे ज्ञानेच्छाद्वेषनिमित्ते प्रवृत्तिनिवृत्ती स्वाश्रये स्याताम् ।
एतदुक्तं भवति ये ये पृथिव्यादिधर्मास्ते ते यावत्पृथिव्यादिभाविनो दृष्टाः यथा गुरुत्वादयः ज्ञानेच्छादयो ऽपि चेत्पृथिव्यादिधर्मास्तैरप्यवश्यं यावत्पृथिव्नयादिभाविभिर्भवितव्यं न तु घटादौ दृश्यन्ते तस्मान्न पृथिव्यादिधर्मा ज्ञानादय इति ।
अत्र च भाष्यकृता सार्वत्रिकत्वप्रसङ्गविवक्षया नियमशब्दः प्रयुक्तः असार्वत्रिकत्वविवक्षया त्वनियमशब्दः ।
वार्त्तिककृता तु प्रयोज्य एवेत्यवधारणं विवक्षित्वा प्रादेशिके नियमशब्दः प्रयुक्तः ।
सार्वत्रिके तृक्तनियमरूपावधारणाभावादनियमशब्द
इति विवक्षाभेदाश्रयादविरोध इति ।
यस्तु नियमं मदशक्त्या व्यभिचारयेद् यथा किल किण्वादयः परिणामविशेषवन्तो मदिराभावमापन्ना मदयन्ति एवं कायाकारेण परिणतानि पृथिव्यादीनि चेतयन्ते नान्यथा तेन घटादिष्वप्रसङ्ग
इति, तं प्रत्याह एकशरीरे चेति ।
यथा मदिरावयवेषु प्रत्येकमेव मदशक्तिरस्ति न पुनः समुदायमात्रसमवायिनी एवं शरीरावयवेष्वपि प्रत्येकमेव चैतन्येन भवितव्यम् ।
न च वैयात्यात् कायसमुदायाश्रयमेव चैतन्यं नावयवाश्रपयमिति शक्यमास्थातुं त्रिचतुरावयवच्छेदे ऽपि चैतन्योपलम्भात् ।
तस्मादवयवानां प्रत्येकं चैत्न्ये शरीर
एकस्मिन्बहवश्चेतनाः स्युः ।
भवतु किं नो बाध्यत इति चेन्न ।
विरुद्धाभिप्रायत्वेन स्वतन्त्राणां न किञ्चिदपि कार्यं जायेत ।
न च बहूनामेकाभिप्रायनियमो दृष्टः काकतालीयन्यायेन स्यादेकाभिप्रायत्वं न पुनरस्य नियमो दृष्टचर इति प्रसिद्धत्वाद्
दूषणमेतदुपेक्ष्य प्रत्ययव्यवस्थानुमानं न भवेदिति दूषणमुक्तम् ।
एकस्मिन् शरीरे प्रत्ययानां परस्परप्रतिसन्धानं पश्यामो न शरीरान्तर इति व्यवस्था ।
सेयं यद्येकस्मिन्
शरीरे एक एव चेतनो न चासौ शरीरान्तरे ततो भवेन्नान्यथेत्यर्थः ।
क्वचित्पाठः प्रत्ययव्यवस्थानानुमानं स्यादिति स सुगम एव ।
नियमानियमाविति यदुक्तं तत्रानुमानमेव सूचयति भाष्यकारः ।
दृष्टश्चान्यगुणनिमित्तः प्रवृत्तिविशेष इति ।
हिताहितप्राप्तिपरिहारहेतुःपरिस्पन्दः प्रवृत्तिविशेषः ।
सो ऽयं प्रयोगः त्रसस्थावरशरीरेषु प्रवृत्तिः स्वाश्रयव्यतिरिक्ताश्रयगुणनिमित्ता प्रवृत्तिविशेषत्वात्, परश्वादिगतप्रवृत्तिविशेषवदिति ।
न केवलं शरीरस्य प्रवृत्तिविशेषो ऽन्यगुणनिमित्तः
भूतानामपि तदारम्भकाणां प्रवृत्तिविशेषो ऽन्यगुणनिबन्धन एवेत्याह ।
तदवयवव्यूहलिङ्ग
इति ।
नेन्द्रियार्थयोर्विनाशे ऽपि ज्ञानावस्थानादिति च समान इति ।
यथा हीन्द्रियार्थयोर्विनाशे ऽपि ज्ञानावस्थानान्नेन्द्रिनयार्थयोर्गुणो ज्ञानमेवं बाल्यकौमारयौवनवार्द्धकावस्थासु शरीरविनाशे ऽपि ज्ञानावस्थानान्न शरीरगुणोज्ञानमित्यर्थः ।
अपि च ज्ञस्येच्छाद्वेषनिमित्तत्वादारम्भनिवृत्त्योरित्यत्रारम्भनिवृत्तिशब्देन न प्रवृत्तिनिवृत्तितमात्रमभिमतमस्माकमपि तु हिताहितप्राप्तिपरिहारार्थः स्पन्दविशेषः ।
तमिमं प्रवृत्तिविशेषमविज्ञाय त्वया प्रवृत्तिसामान्येन प्रत्यवस्थितमित्यप्रतिपत्तिस्ते निग्रहस्थानमित्याह भाष्यकारः ।
क्रियामात्रमिति ।
तद्वार्तिककारो व्याचष्टे ।
अन्यथा ऽभिधानाच्चायुक्तमिति शेषः ।
स्यादेतत् ।
यथोक्तहेतुत्वादित्यादयो वक्ष्यमाणसूत्रगता हेतवो भूतेन्द्रियचैतन्यप्रतिषेधे ऽपि समाना इति कस्मान्मनोमात्रे चैतन्यं प्रतिषिध्यते न भूतेन्द्रियम नसमित्यत आह ।
भूतेन्द्रियमनसामिति ( ४२९ । ३ ) ॥ ३७ ॥
न्य्स्_३,२।३८: यथोक्तहेतुत्वात् पारतन्त्र्यादकृताभ्यागमाच्च न मनसः ॥
यथो–सः (सू। ३८) ॥
यथोक्तहेतुत्वादिति व्याचष्टे ।
इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गमित्यत आत्मलक्षणात्प्रभृति तल्लक्षणपरीक्षापर्यवसानं यावदुक्तं तत्सङ्गृह्यते ।
अत्र च हेतुशब्देनेच्छादिसूत्रं सुसङ्गृहीतं भावप्रत्ययेन हेतुत्वविषया परीक्षोपलक्षिता ।
वार्त्तिकं यथोक्तहेतुत्वादिति ।
दर्शनस्पर्शनाभ्यामेकार्थग्रहणादित्येवमादीनां हेतूनामुक्तहेतुत्वं तस्मादिति योजना ।
तदनेन भाष्यगतप्रभृतिपदार्थो विवृतः ।
तन्वेते यथोक्ता हेतवः परैः प्रतिषिद्धा इत्यत आह ।
अप्रतिषेधात् ।
वाङ्न्यात्रेण प्रतिषिद्धा न वस्तुत इत्यर्थः ।
धारणप्रेरणव्यूहनक्रियासु यथायोगं शरीरेन्द्रियाणि परतन्त्राणि भौतिकत्वाद् घटादिवदिति, मनश्च परतन्त्रं करणत्वाद्वास्यादिवदिति कस्यचित्प्रयत्नवशात्प्रवर्तन्ते चैतन्ये पुनः स्वतन्त्राणि स्युः ।
तथा च पारतन्त्र्यप्रसाधकानुमानविरोध
इत्यर्थः ।
यस्तु कश्चिदभ्युपेतवेदप्रामाण्यः पुरुषमचेतनं फलभागिनमभ्युपगम्य शरीरादीनां चैतन्यं रोचयते तं प्रति तेषामचैतन्ये हेतुमाह ।
अकृताभ्यागमाच्च ।
उपदेशफलं हि कर्तरि, कर्त्रपेक्षितोपायताभिधानलक्षणत्वादुपदेशस्य ।
यथाऽह स्मात्र भगवाञ् जैमिनिः, शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वादिति ।
उपपादितं चैतदस्मार्भिविधिर्विधायक इत्यत्रान्तरे ।
स्वर्गकामो यजेतेति च कर्त्रभिप्रायफलावगमाद्
अत्रैवात्मनेपदस्मरणात् य एव कर्मणः कर्ता स एव तत्फलस्य भोक्तेति सर्वैरास्तिकपथानुसारिभिरभ्युपेयम् ।
शरीरादीनां चैतन्ये चेतनस्य स्वातन्त्र्यात्त
एव कर्मणः कर्तारः, न चैतेषां भस्मसाद्भूतानामामुष्मिकफलशालितासम्भव
इत्यात्मनो ऽचेतनस्य तद्भागिताभ्युपगन्तव्या,
तथा च तैः शरीरादिभिः कर्म कृतं पुरुषेण भुज्यत इति शास्त्रप्रतिक्षिप्ताकृताभ्यागमकृतनाशदोषप्रसङ्गः ।
अचैतन्ये तु शरीरादीनां देहाद्यतिरिक्तस्य च पुरुषस्य चैतन्ये पुरुषः स्वातन्त्र्यात्कर्ता तत्प्रयोज्यतया शरीरादीनि तत्साधनानीति तत्साधनस्य स्वकृतकर्मफलोपभोग इति न शास्त्रव्याकोपः नापि प्रेक्षावत्प्रवृत्तिविरोध
इति भावः ॥ ३८ ॥
न्य्स्_३,२।३९: परिशेषाद् यथोक्तहेतूपपत्तेश्च ॥
अथायं सिद्धोपसङ्ग्रहः उपसंहार इत्यर्थः ।
उपपत्तिपदार्थव्याख्यानमप्रतिषेधादिति ।
भाष्यं कायस्यभेदाद्विनाशादिति ।
अप्रतिसंहितमिति ।
पूर्वेद्युरर्द्धकृतानामपरेद्युः परिसमापना दृष्टा मयारब्धं मयैव परिसमापनीयमिति प्रतिसन्धाय, अप्रतिसन्धाने तु न परिसमापयेयुः परिसमापने वा चैत्रारब्धमपि मैत्रः परिसमापयेद्
यतः स्वयमारब्धात् परारब्धमव्यावृत्तमविशिष्टं स्वस्यापि परत्वादपरिनिष्ठं च कर्मजातं स्यात् ।
तथा हि वैश्यस्तोमे वैश्य एवाधिकारी न ब्राह्मणराजन्यौ एवं राजसूये राजैव न ब्राह्मणवैश्यौ एवं सोमसाधनके यागे ब्राह्मण एवाधिकृतो न राजन्यवैश्यौ शूद्रकश्चानधिकृत
एवेति परिनिष्ठा सा बुद्धिसन्ततिमात्रे न स्यात्, कुतः सल्लक्षणानां सर्वेषामेव त्रैलोक्यवैलक्षण्येन भेदात् अन्यापोहसामान्यस्य च व्यावर्तितत्वादित्यर्थः ।
अप्रतिसंहितत्वे हेतुमाह ।
स्मरणाभावादिति ॥ ३९ ॥
न्य्स्_३,२।४०: स्मरणं त्वात्मनो ज्ञस्वाभाव्यात् ॥
त्रिकालव्यापिनी ज्ञानशक्तिरेव ज्ञस्वाभाव्यं तच्चाकाशादिभ्यो व्यावृत्तं त्रिकालव्यापि स्वरूपमेवात्मनः ॥ ४० ॥
न्य्स्_३,२।४१: प्रणिधाननिबन्धाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहाश्रयाश्रितसम्बन्धानन्तर्यवियोगैककार्यविरोधातिशयप्राप्तिव्यवधानसुखदुःखेच्छाद्वेषभयोर्थित्वक्रियारागधर्माधर्मनिमित्तेभ्यः ॥
स्मृतिहेतूनामयौगपद्यादित्येतत्सिंहावलोकितन्यायेन पृच्छत्यनन्तरसूत्रमवतारयितुं स्मृतिहेतूनामिति ।
तात्पर्याभिधानपुरः सरं सूत्रमवतारयति ।
स्मृतिकारणानामिति ( ४३० । १ ) ।
प्रणि–भ्यः (सूत्र। ४१) ॥
भाष्यं सुस्मूर्षया मनसो धारणमिति ।
तेषु तेषु विषयेषु प्रसक्तस्थ मनसस्ततो निवारणमित्यथः ।
सुस्मूर्षितलिङ्गानुचिन्तनं वा साक्षाद्वा धारणं तल्लिङ्गे वा प्रयत्न
इत्यर्थः ।
निबन्धः खल्विति ।
यथा अत्रैव प्रमाणदयो ऽर्था एकग्रन्थोपात्ता अन्योन्यस्मृतिहेतवः ।
आनुपूर्व्या वा ।
यथा प्रमाणपदार्थं स्मृत्वा प्रमेयं स्मरति ।
इतरथा वा ।
यथा निग्रहस्थानानां प्रमाणानां स्मृत्वा प्रमेयं स्मरति ।
निबन्धस्य व्याख्यानान्तरमाह ।
धारणेति ।
धारणाशाखं जैगीषव्यादिप्रोक्तं तत्कृता ज्ञातेष्वेव वस्तुषु नाडीचक्रहृत्पुण्डरीककण्ठकूपनासाग्रता लुललाटब्रह्मरन्ध्रादिषु स्मर्तव्यानां बीज
(रूप) संस्थानास्त्राभरणभृतां च देवतानामुपविक्षेपः समारोपः तथा तत्र देवताः समारोपितास्तास्तत्तदवयवग्रहणात् स्मर्यन्त इत्यर्थः ।
अभ्यासजनितः संस्कार आत्मगुणो ऽत्राभ्यासशब्देनोच्यते ।
तेन आदरप्रत्ययावपि सङ्गृहीतौ भवतः ।
तयोरप्यभ्यासवत्संस्काराधानद्वारेणैव स्मृतिहेतुत्वात् ।
अपि च स्मृतिकारणानां नासमावेशो विवक्षितः नेन संस्कारेण स्मृतिहेतूनां सर्वेषामेव प्रणिधानादीनां समावेश एव ।
निबन्धादिभिस्तु यथायोगं समावेशासमावेशावूहनीयाविति ।
अयत्रत
उपलब्धं लिङ्गं पुनरिति ।
संयोगिन उदाहरणं धूमो ऽग्नेरिति ।
समवायिन उदाहरणं कुड्यादिव्यवहिताया गोरव्यवहितप्रत्यक्षं विषाणं गवा सहास्ति विषाणस्य समवाये इति समवायि विषाणमुक्तम् ।
न तु तद्गवि समवायि गोरेव स्वावयवे विषाणादौ समवायात् ।
एकार्थसमवायीत्यस्य एकार्थस्य समवाय
एकार्थसमवायः स यस्यास्ति स एकार्थसमवायीत्यर्थः ।
तदेतदुदाहरणं यथा पाणिः पादस्येति ।
एकस्य खल्वत्रावयविनः समवायः पादे च पाणौ च तौ पाणिपादावेकार्थसमवायवन्तौ तत्रैकेनैकार्थसमवायवता प्रत्यक्षेणाप्रत्यक्ष एकः स्मर्यत इति ।
यदा त्वेकस्मिन्नेर्थे समवाय इत्यर्थस्तदा रूपं स्पर्शस्येत्युदाहरणम् ।
खाभाविकाविनाभावयुक्तं लिङ्गं साङ्केतिकं तु चिह्नमिति विशेषः ।
ग्रामणीर्नायकः ।
यद्यपि सर्वत्र प्रणिधानादौ सम्बन्धः सम्प्लवते तथा ऽपि प्रणिधानादिपरिहाण्या सम्बन्धान्तरे गोबलीवर्दन्यायेन सम्बन्धशब्दो वर्तते ।
न च सम्बन्धशब्देन सर्वसङ्ग्रहादनर्थकमितरपदोपादानमिति वाच्यम् ।
उक्तमत्र भाष्यकृता ऽन्यत्र वाक्यलाघवं नाद्रियाते सूत्रकार इति ।
शिष्यधीप्रसादश्चैवं भवति विशिष्याभिधानादिति ।
आनन्तर्यादिति ।
ब्राह्मे हि मुहूर्ते प्रबोधानन्तरमुत्थानं ततो मूत्रं ततः शौचं ततो सुखप्रक्षालनदन्तधावनादीनि इति ।
वियोगादिति शोकमुपलक्षयति ।
ततो ऽपि शोकविषयस्य स्मरति ।
एककार्यादिति ।
यथा सप्तदशावराणामृद्धिकामानामेकं सत्रं कार्यम् ।
तत्रैकं यजमानं दृष्ट्वा यजमानान्तरं स्मरति ।
अतिशायात् यथा ब्रह्मचारी उपनयनविद्याविनयातिशयोत्पादकमाचार्यं स्मरति ।
प्राप्तेस्तु यथा प्रार्थको (?) यतो ऽनेन मिष्टमन्नं प्राप्तं प्राप्तव्यं वा तमभीक्ष्णं स्मरति ।
इच्छा स्नेहः ।
स तु भ्रात्रादिषु द्वेषः प्रतिकूले दारादौ, ताभ्यामपि च तद्विषयं स्मरति ।
क्रियया कार्येणेत्यर्थः ।
धर्माद्पव देवाभ्यासजनितेन धर्मेण जातिं स्मरति पूर्विकाम् ।
एवं जातमात्रस्य सुखादिसाधनस्मरणं धर्माधर्माभ्यां द्रष्टव्यम् ।
ननून्मादादयो ऽपि स्मृतिहेतवो लोकसिद्धास्तत्किं ते ऽपि नोक्ता इत्यत आह ।
निदर्शनमात्रं चेदं स्मृतिहेतूनामिति ॥ ४१ ॥
न्य्स्_३,२।४२: कर्मानवस्थायिग्रहणात् ॥
तदेवं सिंहावलोकितं समर्थ्य प्रकृताथामेव बुद्धौ विचारमारभते ।
अनित्यायां च बुद्धाविति ( ४३० । ९ ) द्रव्याश्रितत्वादित्युच्यमाने ऽपि चक्षुरादिगतै रूपादिभिर्व्यभिचारो ऽत आह ।
व्यापकद्रव्याश्रितत्वादिति ।
तथाप्यात्मत्वादिभिरनेकान्तो ऽत आह जातिमत्त्वेसतीति ।
तथापि विभुत्वेन परिमाणेना नेकान्तो ऽत आह ।
अस्मदादिप्रत्यक्षत्वे सतीति ।
कर्मादिसन्तानविषया बुद्धय आशुतरविनाशिन्यः ।
अत्र यदि प्रकाशकत्वादित्युच्येत तत आत्मना ऽनेकान्तो ऽत आह ।
करणत्वे सतीति ।
तथापि मनः श्रोत्रादिभिरनेकान्तो ऽत आह प्रत्यर्थेति ।
एका बुद्धिरेकविषया न विषयान्तरविषया एवमन्या अपि बुद्धयः स्वविषयमात्रे पर्ववसिताः न मनःश्रोत्रादि तथा नानाविषयत्वात्तस्येति ।
ननु प्रत्यर्थनियतत्त्वमव्यापकं युगपदनेकार्थसन्निकर्षे सति नानाविषया ऽप्येका बुद्धिरुपजायते ऽत आह ।
प्रतिक्षण कर्मणो ऽर्थस्यापूर्वस्योत्पत्तौ सत्यां तत्कार्याता बुद्धेरयुगपदुत्पत्तौ कारणक्रमानुविधानात्कार्यक्रमस्य प्रत्यक्षबुद्धेर्विषयकारणत्वात् ।
एकैकश्चासौ विषयः क्रमोत्पादवान्कारणमिति क्रमवतीनां बुद्धीनां सर्वासामेव सिद्धं प्रत्यर्थैकानियतत्वम् ।
नियमश्च तज्जातीयकर्मान्तरापेखया न तु द्रव्यापेक्षया, तेन कर्मबुद्धेर्द्रव्यादिविषयत्वे ऽपि प्रत्यर्थनियमाविरोधः ।
प्रत्यर्थनियतत्वविशेषणयोगाच्च प्रागात्मना ऽनैकान्तिकत्वाशङ्कायां करणत्वं विशेषणमिति ।
प्रयोगान्तरमाह ।
अथ वेति ।
सुखत्वादिभिरनैकान्तिकत्वं मा भूतद उक्तं गुणत्वेसतीति ( ४३१ । १) ।
रूपादिभिर्व्यभिचारनिवृत्त्यर्थमुक्तमबाह्येति ।
अवस्थितग्रहणे ऽपि प्रत्यक्षनिवृत्तेर्ध्वंसिनीति ।
यद्यपि शक्यं वक्तुं स्पर्शादिबुद्धिरेकैव तावन्तं कालमवस्थिता व्यवधानादिनार् ऽथसन्निकर्षविनाशाद्विनङ्क्ष्यति,
निमित्तकारणविनाशो ऽपि कार्यविनाशहेतुर्दृष्टो ऽपेक्षाबुद्धिविनाशाद् द्वित्वविनाशवदिति तथा ऽपि क्षणिकत्वे हेत्वन्तरादेव सिद्धे बुद्धीनामभ्युच्चयमात्रतयैतद्
द्रष्टव्यम् ।
तथा हि क्षणविध्वंसिवस्तुविषयबुद्धिक्षणिकत्वसमर्थनेनैव स्थायिवस्तुविषयबुद्धिक्षणिकत्वसमर्थनमपि सूचितम् ।
स्थिरगोचरा बुद्धयः क्षणिकाः
बुद्धित्वात्कर्मादिबुद्धिवदिति ।
बुद्धिरेव स्मर्त्री ग्रहीत्री चेत्यात्मभावं बुद्धावारोप्य शङ्क्तते ।
स्मृतेरवतिष्ठत इति चेदिति ।
निराकरोति ।
नात एवेति ।
न हि बुद्धिः स्मर्त्री येन तदभावे स्मृतिर्नोत्पद्येत, अपि त्वात्मा,
स च नित्यः, बुद्धिसद्भावस्तु स्मृतिविरोधीत्यर्थः ।
अथ यदि बुद्धिर्नास्ति कुतस्तर्हि स्मृतिरुत्पद्यते न ह्यकारणं कार्यं भवति ।
न चात्ममात्रं कारणं मा भूदात्मनो नित्यत्वेन स्मृत्युत्पादो ऽपि नित्यः तस्मात्स्मृत्युत्पादो ऽपि लिङ्गं बुद्ध्यवस्थान इत्यत आह ।
अन्यतश्च तद्भावादिति ।
स्यादेतत्।बुद्धिजः संस्कारश्चेत्स्मृतिहेतुरथ यावत्संस्कारं स्मृतिः स्यादत आह ।
तत ।
प्रणिधानादीति ।
न संस्कारो ऽस्तीत्येतावता स्मृतिरपि तु तत्प्रबोधात् ।
प्रबोधश्च कादाचित्कः कादाचित्कत्वात् प्रणिधानादेरित्यर्थः ॥ ४२ ॥
न्य्स्_३,२।४३: अव्यक्तग्रहणमनवस्थायित्वाद् विद्युत्सम्पाते रूपाव्यक्तग्रहणवत् ॥
बुद्धिस्थैर्यवाद्याह ।
यद्यनवस्थायिनीति ॥ ४३ ॥
न्य्स्_३,२।४४: हेतूपादानात् प्रतिषेद्धव्याभ्यनुज्ञा ॥
दूषयति ।
न विरोधादिति ।
( ४३२ । ५ ) बुद्धिमात्रस्य स्थायित्वं प्रतिज्ञाय विद्युत्सम्पातजाताया घटादिबुद्धेरनवस्थायित्वाभिधानं विरुद्धमित्यर्थः ।
अव्यक्तग्रहणस्यान्यथासिद्धत्वं चाह ।
अव्यक्तग्रहणस्येति ।
धर्मिग्रहणहेतोर्भेदात् ।
अव्यक्तश्च यो धर्मिग्रहणे हेतुः सामान्यमात्रवन्तं धर्मिणं गृह्णाति तद्वशादव्यक्तग्रहणं यस्तु सामान्यविशेषवन्तं तद्वशाद्व्यक्तग्रहणमित्यर्थः ।
धर्मिणं त्वनाश्रित्य स्वे विषये ग्रहणानां तदसम्भवात् व्यक्तत्वादित्यर्थः ।
धर्मिणमनाश्रित्येत्यविद्वान्
शङ्कते ।
लोकविरोध इति चेदिति ।
धर्मिग्रहणमाश्रित्य निराकरोति ।
नान्यथेति ।
दोषान्तरमाह ।
अनैकान्तिकत्वाच्चेति ।
वार्त्तिकव्याख्यानेनैव भाष्यव्याख्या ॥ ४४ ॥
न्य्स्_३,२।४५: न प्रदीपार्चिःसन्तत्यभिव्यक्तग्रहणवत् तद्ग्रहणम् ॥
न्य्स्_३,२।४६: द्रव्ये स्वगुणपरगुणोपलब्धेः संशयः ॥
शरीरेति(४३३।९) ।
पूर्वं हि भूतेन्द्रियमनसां चैतन्यं साक्षान्निराकृतमुपक्षेपात्तु शरीरस्य,
सम्प्रति तु शरीरस्यैव साक्षाच्चैतन्यं निरस्यत इति तात्पर्यभेदादपुनरुक्तम् ।
वस्तुतस्तु पौनरुक्त्यपरिहारं भाष्यकारः प्रकारान्तरेण प्रकरणान्ते वक्ष्यति ।
तद्गुणत्वं तत्रोपलब्ध्या सिध्यति ।
अबाधितयेति शेषः ॥ ४४-४५ ॥
न्य्स्_३,२।४७: यावच्छरीरभावित्वाद्रूपादीनाम् ॥
न कारणानुच्छेदात्–चेतनायाः,
शरीरमस्याः कारणं तच्चानुच्छिन्नम्, संस्कारस्य तु कारणस्योच्छेद इति द्रष्टव्यम् ॥ ४७ ॥
न्य्स्_३,२।४८: न पाकजगुणान्तरोत्पत्तेः ॥
तच्च न, पाकजगुणान्तरोत्पत्तेरिति ।
नात्यन्तिकः परमाणौ वा पिठरे वा रूपाभाव
इत्यर्थः ॥ ४८ ॥
न्य्स्_३,२।४९: प्रतिद्वन्द्विसिद्धेः पाकजानामप्रतिषेधः ॥
तदेवमात्यन्तिकानात्यन्तिकत्वं वैधर्म्यमुत्क्वा सप्रतिद्वन्द्वित्वासप्रतिद्वन्द्वित्वं वैधर्म्यान्तरमाह इतश्च ।
प्रतिद्वन्द्विसिद्धेः पाकजानाम्(४३५।८) तद्व्यभिचारोद्भावनेन चैतन्यस्य यावच्छरीरभावित्वाप्रतिषेधः
॥ ४९ ॥
न्य्स्_३,२।५०: शरीरव्यापित्वात् ॥
प्रत्ययव्यवस्थाप्रसङ्गात् ।
(४३६।३) यथा देवदत्तस्य ज्ञानं न यज्ञदत्तः प्रतिसन्धत्ते किं तु देवदत्त एवेति व्यवस्था एवमेकस्मिन्
शरीरे अवयवान्तरज्ञानमवयविनो वा ज्ञानं न प्रतिसन्धत्ते इत्यर्थः ॥ ५० ॥
न्य्स्_३,२।५१: न केशनखादिष्वनुपलब्धेः ॥
दृष्टान्तसूत्रमिति ।
न करचरणादयश्चेतनाः शरीरावयवत्वात् केशनखादिवादिति दृष्टान्तार्थं सूत्रमित्यर्थः ॥ ५१ ॥
न्य्स्_३,२।५२: त्वक्पर्यन्तत्वाच्छरीरस्य केशनखादिष्वप्रसङ्गः ॥
त्वक्पर्यन्तत्वादिति ।
शरीरावयवत्वं केशनखादीनां हेतुरसिद्धः इन्द्रियाश्रयत्वं शरीरलक्षणम्, तद्यत्र शरीरं समवेतं तेनेन्द्रियाश्रयेणावश्यं भवितव्यम् ।
त्वक्पर्यन्तश्चावयवसमूहस्तथा,
न तु केशनखादयस्तादृशा इति न शरीरावयवा इत्यर्थः ॥ ५२ ॥
न्य्स्_३,२।५३: शरीरगुणवैधर्म्यात् ॥
न्य्स्_३,२।५४: न रूपादीनामितरेतरवैधर्म्यात् ॥
न्य्स्_३,२।५५: ऐन्र्दियकत्वाद् रूपादीनामप्रतिषेधः ॥
रूपादीनां त्वितरेतरवैधर्म्यमननुसंहितं च–शरीरगुणत्वेनानन्वितमित्यर्थः ।
न हि येषां चाक्षुषत्वरासनत्वादिरूपवैधर्म्ययोगस्ते न शरीरगुणा इति दृष्टम् ।
अव्यावृत्तं च शरीरगुणानां तादृशवैधर्म्यदर्शनात् ।
तस्मादशरीरगुणत्वान्वयव्यतिरेकाभावाद्वैधर्म्यमात्रमेतत् ।
बाह्यकरणप्रत्यक्षाप्रत्यक्षशरीरगुणवैधर्म्यं मानसप्रत्यक्षत्वमन्वयव्यतिरेकि तु चेतनायाः शरीरगुणत्वसाधनं न भवति ।
अपि तु तदन्यगुणत्वसाधनमित्यर्थः ।
विशेषप्रतिषेधस्य शेषाभ्यनुज्ञाहेतुत्वादिति ।
ये हेतव इति(४३७।२)बहुवचनं हेत्वेकदेशविवक्षया ।
न शरीरगुणश्चेतना अयावद्द्रव्यभावित्वादित्युच्यमाने संस्कारेणानेकान्त इत्यत उक्तं निमित्तान्तराभाव
इति ।
तथा ऽपि पाकजेन गुणेनानेकान्त इत्यतौक्तं विरोधिगुणादर्शने चेति ।
शरीरव्यापित्वादिति ।
न साधनमिति ।
प्रसङ्गो हि न साधनं हेतोभावात् ।
यथाहुरस्ति प्रसङ्गो न प्रसङ्गसाधनमिति ।
बाह्यकरणाप्रत्यक्षत्वादिति ।
न च गुरुत्वादिभिरनेकान्तः ।
तेषां खल्वप्रत्यक्षत्वमेव ।
न तु बाह्यकरणप्रत्यक्षत्वमिति भावः ॥ ५५ ॥
न्य्स्_३,२।५६: ज्ञानायौगपद्यादेकं मनः ॥
मनःस्वरूपपरीक्षायां भाष्यवार्त्तिके निगदेनैव व्याख्याते ॥ ५६ ॥
न्य्स्_३,२।५७: न युगपदनेकक्रियोपलब्धेः ॥
संस्थापनं स्थानम्
॥ ५७ ॥
न्य्स्_३,२।५८: अलातचक्रदर्शनवत् तदुपलब्धिराशुसञ्चारात् ॥
न्य्स्_३,२।५९: यथोक्तहेतुत्वाच्चाणु ॥
न्य्स्_३,२।६०: पूर्वकृतफलानुबन्धात्तदुत्पत्तिः ॥
मनसि विचार्यमाणे कः सम्बन्धः शरीरोत्पत्तिनिमित्तविचारस्येत्यत
आह ।
मनसः खल्विति ।
(४३८।१०)मन एवाधिकरणविचारेणापि परीक्ष्यत इति नासम्बन्धः शरीरोत्पत्तिनिमित्तविचारस्य ।
परित ईक्षा परीक्षा सा च स्वरूपतश्च सम्बन्धितश्च, शरीरं च मनःसम्बन्धि तदधिकरणत्वान्मनसः
तस्मान्मनस एव परीक्षा या शरीरस्येत्यर्थः ।
उत्पत्तिसमकालमिति ।
(४३९।१) सममिव समम् ।
उत्पत्त्यनन्तरमित्यर्थः ।
क एवमाह न ददातीति ।
यदि समग्रं भवति तत उत्पत्त्यनन्तरं दास्यत्येवत्यर्थः ।
विपच्यमानः कर्माशय इति ।
स्वफलं भोजयन्नित्यर्थः ।
यानि वा प्राण्यन्तराणि तस्य कर्मणः समानोपभोगानीति ।
तद्यथा किन्नरत्वनिर्वर्त्तनीयं कर्म स्त्रीपुंसभोग्यं स्त्रीपुंसयोरन्यतरकर्मप्रतिबन्धे फलं न ददातीति ।
यानि प्राण्यन्तराणि स्नेहविषया भ्रात्रादयस्तस्य कर्मणो भागीनीति ।
कर्मफलानामन्नाद्याश्वग्रामादीनां भागित्वात्कर्मभागीनीत्युच्यन्ते तेषां प्राणिपनां कर्मभिरभाग्यादिशब्दवाच्यैः प्रतिबन्धादिति ।
तस्य वा कर्मणः सहकारिधर्माधर्मलक्षणं निमित्तं नास्तीति ।
अयमर्थः ।
दृष्टानां सेवादिकर्मणां व्यभिचाराद्ग्रामादिलाभे ऽदृष्टं कारणं कल्पनीयम् ।
यथाहुः। ॥। तच्चैव तत्र कारणं शब्दश्चेति ॥।
दृष्टं सेवादिच कारणम् ।
शब्दश्चेति विषयिणा तद्विषयमदृष्टमुपलक्षयति ।
ते च ग्रामादयस्तस्माददृष्टादुपजायमाना अन्तरा विघ्ननाशाय देवतानमस्कारादिजनितमपि धर्ममपेक्षन्ते, तस्मात् प्रारभवीयेन धर्मेण स्वफलनिर्वर्त्तनाय धर्मान्तरं सहकार्यपेक्ष्यते,
सहकारिणां च वैचित्र्यात्प्रतिबन्धापगमहेतोरपि सहकारित्वाविरोधः ।
तेन कर्मणः सहकारिनिमित्ताभावात्प्रतिबद्धमदृष्टं फलं न जनयतीत्यर्थः ।
तस्य वा कर्मणः सहकारिणः कारणस्य गरीयसा कर्मान्तरेण प्रतिबन्धात्फलस्यानारम्भः ।
एवं स्वकर्मणां सहकारिनिमित्ताभावप्रतिबन्धावुत्क्वा समानोपभोगसत्त्वान्तरकर्मणामपि सहकारिनिमित्ताभावप्रतिबन्धौ दर्शयति ।
सत्त्वान्तरकर्मणां चेति ।
रूपादिमत्त्वादित्युच्यमानेपरमाणुभिरनेकान्तः स्यादत आह ।
बाह्यकरणग्राह्यत्वे सतीति ।
इन्द्रियग्राह्यत्वे सतीत्येतावतैव सिद्धे इन्द्रियग्राह्यराशेर्बाह्यकरणग्राह्यं राश्यन्तरमित्येतावन्मात्रविवक्षया बाह्यकरणग्राह्यत्वे सतीत्युक्तम् ॥ ५८-६० ॥
न्य्स्_३,२।६१: भूतेभ्यो मूर्त्युपादानवत् तदुपादानम् ॥
न्य्स्_३,२।६२: न साध्यसमत्वात् ॥
सिकतादिदृष्टान्तस्य साध्यसमतयैव पुरुषार्थक्रियापसामर्थ्यादित्यस्य हेतोरनैकान्तिकत्वोद्भावनमपि प्रत्युक्तम् ।
सिकतादीनामपि कथं चित्पुरुषार्थहेतुत्वात्तत्सर्गः पुरुषगुणपूर्वक
इत्युक्तम् ॥ ६२ ॥
न्य्स्_३,२।६३: नोत्पत्तिनिमित्तत्वान्मातापित्रोः ॥
मा भूद्वा पुरुषगुणपूर्वकत्वं सिकतादिसर्गस्य, तथा ऽपि शरीरस्योत्पत्त्यादि परिभावयन्तः सिकतादिभ्यो वैषम्यं वीक्षमाणास्तद्विलक्षण्कारकणत्वमेव प्रतिषद्यामहे तथा च सिध्यति पुरुषगुणनिमित्ततेत्याह ।
विषमश्चायमुपन्यास इति ।
(४४०।१६) ननु मातापितरौ न साक्षात् शरीरोत्पत्तौ कारणमित्यत आह मातापितृशब्देन लोहितरेतसी इति ।
अनुभवनीये इति भव्यगेयादिपाठत्कर्तरि कृत्यः ॥ ६३ ॥
न्य्स्_३,२।६४: तथाहारस्य ॥
इतो ऽपि वैषम्यमित्याह ।
तथाहारस्य (सू। ६४) ॥
पूर्वसूत्रप्रतीकेन पूरयति ।
उत्पत्तिनिमित्तत्वादिति प्रकृतम् ।
कललरकण्डमांसपेश्यादयो लोहितरेतसोः शरीरारम्भकयोः परिणामभेदाः ॥ ६४ ॥
न्य्स्_३,२।६५: प्राप्तौ चानियमात् ॥
प्राप्तौ–त् (सू। ६५) ॥
दम्पत्योः संयोगः प्राप्तिः तस्यामनियमः शरीरोत्पादस्य,
तस्माद् दृष्टस्य व्यभिचारादस्ति तददृष्टं यतः शरीरसर्ग इत्यर्थः ॥ ६५ ॥
न्य्स्_३,२।६६: शरीरोत्पत्तिनिमित्तवत् संयोगोत्पत्तिनिमित्तं कर्म ॥
पार्श्वस्थः शङ्कते ।
सर्वात्मभिरिति ।
ननु यदीयेनादृष्टेन यच्छरीरमुपात्तं तत्तस्यैव भोगायतनं नानियम इत्यत आह ।
न च पुरुषगत इति ।
आत्ममनःसन्निकर्षजौ हि धर्माधर्मौ, सन्निकर्षश्च मनसः सर्वात्मभिः साधारण इति सर्वेषामेव धर्माधर्मौ,
न पुनः कस्पय चिदेवासाधारणावित्यर्थः ।
अस्योत्तरं शरीरेति ।
उक्तेनैवाभिप्रायेण शङ्कते तत्स्थता एकपुरुषस्थता कुत इति चेत् ।
उत्तरमान् स्वसंयोगेति ।
पुनः पृच्छति संयोगे कृतो नियम इति ।
(४४२।१) यथैवैकेनात्मना मनःसंयुक्तमेवमात्मान्तरैरपि ।
एवं यथैकेन मनसा संयुक्तं एवमनोन्तरैपीति नात्ममनःसन्निकर्षे ऽस्ति विशेष इत्यर्थः ।
उत्तरं न मनोनियमहेतुत्वादिति ।
अदृष्ट (नियम) निबन्धनो हि मनोनियमः
मनोनियमनिबन्धनश्चादृष्टनियमः ।
अनादित्वाच्च बीजाङ्कुरवदन्योन्याश्रयो न क्षतिमावहतीत्यर्थः
॥ ६६ ॥
न्य्स्_३,२।६७: एतेन नियमः प्रत्युक्तः ॥
तदेवमात्मगुणनिबन्धने शरीरसर्गे व्यावस्था दर्शिता ।
ये तु मेनिरे न कर्मनिबन्धनः शरीरसर्गो ऽपि तु प्रकृत्यादिनिबन्धनः ।
प्रकृतयो हि स्वयमेव धर्माधर्मरूपनिमित्तानपेक्षाः सत्त्वरज स्तमस्तया प्रवृत्तिशीलाः स्व स्व विकारमारभन्ते, प्रतिबन्धापगममात्रे तु धर्माधर्मावपेक्षन्ते तद्यथा कृषविलः केदारादां पूर्णात्केदारान्तरमपूर्णमापिप्लावयिषुरषां सेतुमात्रं केदारमाप्लावयन्ति ।
एवमाप्लावयन्ति प्रकृतयो ऽपि विकारानिति ।
यथाहुः ऽनिमित्तमप्रयोजकं प्रकृतीनामावरणभेदस्तु ततः क्षेत्रिकवदिति ।
तान् प्रतयाह ।
एतेनानियमः प्रत्युक्तः (सू। ६७) ।
एतेन कर्मसापेक्षाणां भूतानां शरीरसर्गे अनियमाभिधानेन तन्निरपेक्षाणां व्यतिरेकमुखेनानियमः प्रत्युक्तः ।
नियमो व्याप्तिः साधारणविग्रहवत्त्वं सर्वात्मनाम् ।
अनियमस्त्वव्याप्तिः कस्य चिदात्मन किं चिच्छरीरं कस्यचित् किञ्चिदिति ।
प्रकृतिनिबन्धने हि शरीरसर्गे तस्या एकत्वात् सर्वात्मसाधारण्याच्च न शरीराणामस्त्यसाधारण्ये हेतुः ।
भूतग्रहणं तु प्रकृत्युपलक्षणार्थं न केवलमकर्मनिमित्ते शरीरसर्गे साधारणविग्रहवत्त्वं दोषः
अपि तु मोक्षो ऽपि न स्यादिति दर्शयितुं स्वपक्षे मोक्षमुपपादयति ।
उपपन्नश्चेति ।
साङ्ख्यपक्षे तु न मोक्षः स्यादिति दर्शयति ।
कर्मनिरपेक्षेष्विति ॥ ६७ ॥
न्य्स्_३,२।६८: तददृष्टकारितमितिचेत् पुनस्तत्प्रसङ्गोपवर्गे ॥
शङ्कते ।
तददृष्टकारितमिति चेदिति उपभोग्वशब्दाद्यदर्शनं प्रकृतिपुरुषभेदादर्शनं वा ऽदृष्टमुच्यते ।
तत्कारितमित्यर्थः ।
निराकरोति एतस्मिन्निति ।
(४४३।४) यथा प्रागदर्शनमेवं निरोधसमाधेः पश्चादप्यदर्शनमित्यप्रवृक्तो ऽपि पुनः संसरेदित्यर्थः ।
शङ्कामुत्थाप्य दूषयति ।
चरितार्थचेति ।
ननु न शब्दाद्युपभोगं पुरुषार्थं ब्रूमो येन चरितार्थता स्यात् ।
अपि तु पुरुषभेददर्शनं तच्चाद्यापि न भवतीत्यारभते शरीरमिति देशयति ।
पुरुषार्थेन च हेतुनेति ।
चो ऽवधारणे पुरुषार्थेनैवेत्यर्थः ।
परिहरति ।
तस्य–चाकरणादिति ।
चस्त्वर्थे ।
देश्यनिवृत्तौ ।
यदर्थं शरीराण्यारभते तन्न कृतमन्यत्तु कृतमितिकिं केन सङ्गतमित्यर्थः ।
शङ्कते दिदृक्षाविशेष इति ।
दर्शनं हि नञा पर्युदस्तमतस्तन्मूलां दिदृक्षां ब्रूते सा चापवर्गे नास्ति तस्मान्नापवृक्तः संसरतीत्यर्थः ।
निराकरोति न प्रागिति ।
एतदुक्तं भवति ।
दिदृक्षा हि बुद्ध्याश्रया नासत्यां बुद्धावस्ति प्रकृतिपरिणामश्च बुद्धिस्तथा च सत्यां दिदृक्षायां बुद्धिः बुद्धौ सत्यां दिदृक्षेति परस्पराश्रयप्रसङ्गः ।
न चानादिता परिहारः, सृष्ट्यादौ द्वयोरभावात् ।
अस्माकं तु प्रलयसमये धर्माधर्मसंस्कृतो ऽस्त्यात्मा मनश्चेति विशेषः ।
सत्कार्यमादाय शङ्कते ।
सर्वशक्तिमत्त्वादिति ।
निराकरोति ।
नापवर्गाभावप्रसङ्गादिति ।
(४४४।३) श्लिष्टं विभजते दिदृक्षावन्नानात्वदर्शनमप्यस्तीति ।
न तदर्थं प्रकृते प्रवृत्तिः तथा च न संसारस्तप्रध्वंसश्चापवर्गाभावान्नास्तीत्यपवर्गाभाव
इत्यर्थः ।
एतदेव स्फुटयति ।
विद्यमाने च नानात्वदर्शने तदर्थं प्रधानस्य प्रयुक्तिरयुक्ता ततः संसाराभावात्तत्प्रध्वंसो ऽपवर्गो न स्यादिति भावः ।
तमेवापवर्गाभावं तद्विरोधिसंसारसत्त्वे दर्शयति ।
यदा च नानात्वदर्शनमिति ।
निदानानुच्छेदे निदानिनो नोच्छेद इत्यर्थः ।
पुनर्विकल्पं दर्शयति ।
अज्ञानमदर्शनमिति चेति ।
विवेकज्ञानाभावस्य तुल्यत्वादित्यर्थः ।
शेषमतिरोहितार्थमिति ।
अपरे त्वार्हता अदृष्टं परमाणुगुणं वर्णयन्ति ।
पार्थिवानामणूनां मनसश्च स्वगुणप्रयुक्तं तच्छरीरमाविशति ।
तच्च स्वकादेवादृष्टात्पुद्गलस्य सुखदुःखोपभोगं साधयति ।
न तु पुद्गलस्पय धर्मो ऽदृष्टमिति ।
साङ्ख्यवत्तेषामपि पुनस्तत्प्रसङ्गो ऽपवर्गे ।
एतदुपपादयति ।
परमाणुगुणस्येति ॥ ६८ ॥
न्य्स्_३,२।६९: मनःकर्मनिमित्तत्वाच्च संयोगानुच्छेदः ॥
अपि चास्मिन् दर्शने प्रायणं न स्यादित्याह ।
मनः कर्मनिमित्तत्त्वादिति ॥ ६९ ॥ अस्मद्दर्शने तूपपद्यते प्रायणमित्याह ।
वर्तमानशरीरारम्भककर्माशयक्षये तु भविष्यद्देहान्तरारम्भककर्माशयान्तरादपसर्पणं मनस इति युक्तं प्रायणम् ।
उभयहेतुरिति ।
उपसर्पणापसर्पणहेतुरित्यर्थः ॥ ६९ ॥
न्य्स्_३,२।७०: नित्यत्वप्रसङ्गश्च प्रायणानुपपत्तेः ॥
ननु भवतु संयोगानुच्छेदः किं नोबाध्यतैत्यत आह ।
शरीरस्य नित्यत्वप्रसङ्गश्च प्रायणानुपपत्तेः ।
संयोगाव्युच्छेदादित्यर्थः ।
ननु सदकारणं नित्यमिति कथं सकारण शरीरे नित्यं भवेदित्यत आह ।
नित्यत्वप्रसङ्ग
इति प्रायणानुपत्तिं ब्रूमः ।
विनाशानुपपत्तिरित्यर्थः ।
यादृच्छिके अकारणके ।
प्रायणभेदो न स्यात् ।
दृष्टश्च प्रायणभेदः कश्चिद्गर्भस्य एव प्रैति कश्चिज्जातमात्रः कश्चित्कुमारक इत्यादिरिति अकारणस्य नित्यं सत्त्वमसत्त्वं वा स्यात् ।
गगनवत्तत्कुसुमवदित्यर्थः ॥ ७० ॥
न्य्स्_३,२।७१: अणुश्यामतानित्यत्ववदेतत् स्यात् ॥
अकारणत्वादित्यस्य हेतोरनैकान्तिकत्वेन प्रत्यवतिष्ठते ।
अणुश्यामतावदिति ॥ ७१ ॥
न्य्स्_३,२।७२: नाकृताभ्यागमप्रसङ्गात् ॥
निराकरोति ।
एतच्च नेति (४४६।२) ।
प्रमाणेनाविषयीकृतमकृतम् प्रत्युत प्रत्यक्षागमविरुद्धमिति यावत् ।
तस्याभ्यागप्रो ऽभ्युपगमस्तत्प्रसङ्गादित्यर्थः ।
न च परमाणुश्यामताप्यकारणा पार्थिवरूपत्वात्
लोहितादिरूपवदित्यनुमानेन तस्यापि पाकजत्वाभ्युपगमादिति भावः।यथा श्रुति वा सूत्रार्थः ।
अकृतस्य कर्मणः फलोपभोगप्रसङ्गादिति ।
यथा खलु परमाणुगुण एव नित्यः शरीराद्यारम्भकस्तथा ऽसौ नित्यत्वान्न केन चित् क्रियते ।
तस्याकृतस्यैव फलं पुरुषैरुपभुज्यते ततश्चायमास्तिकानां विहितनिषिद्धप्रवृत्तिनिवृत्तिनिचयो ऽनर्थकः शास्त्रप्रणयनं चाप्यनर्थकं भवेदिति भावः ।
एतच्चातिविस्तृतं भाष्ये ।
तस्यार्थो निगदव्याख्यातः
॥ ७२ ॥
इति श्रीवाचस्पतिमिश्रविरचितायां न्यायवार्तिकतात्पर्यटीकायां
तृतीयो ऽध्यायः समाप्तः ॥
अत्र तृतीये ऽध्याये प्रथमे आन्हिके ७५ सूत्राणि, द्वितीये च ७३ सूत्राणि इति आदित आरभ्य मिलितवा १४८ सूत्राणि ।
३ अ० १ आन्हिके ९ प्रकरणानि, ३ आन्हिके ९ प्रकरणानि ।
मिलित्वा १६ प्रकरणानि ।
आदितः ४२ प्रकरणानि ।
चतुर्थाध्यायस्याद्यमाह्निकम् ॥
न्य्स्_४,१।१: प्रवृत्तिर्यथोक्ता ॥
अथ मनः परीक्षानन्तरमुद्देशलक्षणक्रमानुरोधेन प्रवृत्तिः परीक्षितुं युक्ता, सा कस्मान्न परीक्ष्यत इति शङ्कानिराकरणाय सूत्रमित्याह ।
मनसो ऽनन्तरमिति ।
( ४४६।३ ) प्रवृत्तिर्यथोक्ता (सू।१) ॥
अस्य शेषस्तथा परीक्षिता यथा लक्षिता तथा परीक्षितेत्यर्थः ।
पृच्छति किं पुनरिति ।
प्रमेयमात्मादि मनोन्तं परीक्षितम्, न पुनः प्रवृत्तेः स्वरूपं वा कार्यं वा परीक्षितामिति भावः ।
उत्तरम् ।
यावद्धर्माधर्माश्रयमिति ।
एकद्रव्येत्येकस्मिन्नेवात्मनि वर्त्ततैत्यर्थः ।
अवस्थिता न तु बुद्ध्यादिवदाशुतरविनाशिनीत्यर्थः ।
आत्मसमवायादिति ।
कार्यत्वे सतीति द्रष्टव्यं विशेषणम् ।
तेन न सामान्यविशेषाभ्यां व्यभिचारः ।
प्रायणादीत्यादिशब्देन सुखादिक्षयो ऽपवर्गश्च गृह्यते ।
संसारापवर्गहेतुभूतात्मसद्भावासद्भावाभ्यामिति शेषः ।
एवमाद्युक्तमिति ।
आदिग्रहणेनात्मसमवेता प्रवृत्तिर्न तु पृथिव्याद्याश्रयेति दर्शयति ॥ १ ॥
न्य्स्_४,१।२: तथा दोषाः ॥
प्रवृत्तेरनन्तरास्तर्हि दोषाः परीक्ष्यन्तामित्यत आह ।
तथा दोषाः
(सू। २) ॥
उक्ता इति शेषः ।
प्रवृत्तितुल्यतया प्रवृतिपरीक्षयैव तावद्दोषाणां सत्त्वं परीक्षितमित्यर्थः ।
कार्यरूपप्रवृत्तितुल्यतामाह बुद्धिसमानाश्रयत्वादिति ।
अभीष्टविषयानुचिन्तनप्रभवाः खल्विमे दोषा नानुचिन्तनबुद्धिव्यधिकरणा भवितुमर्हन्ति, तथा सति चैत्रस्याभीष्टविषयानुचिन्तने मैत्रस्य रागः प्रवर्त्तेत ।
तस्माद्बुद्धिसमानाश्रयत्वादात्मगुणाः
आत्मगुणत्वाच्च कार्यप्रवृत्तितुल्यतया प्रवृत्तिपरीक्षयैव त्तावद्दोषाः परीक्षिता इत्यर्थः ।
इदं च प्रवृत्तितुल्यत्वमपरं दोषाणामित्याह ।
संसारस्यानादित्वादिति ।
एतच्चोक्तं वीतरागजन्मादर्शनादित्यनेन ।
तथोद्देशपरीक्षापरेण द्वितीयसूत्रेण यत्तेषां दोषाणां परीक्षितं तदाह ।
सम्यग्ज्ञाना च्चेति ।
स्यादेतत् ।
गुणत्वेसत्यात्मगुणा इति सिद्ध्यति तदेव तु कुत इत्यत आह ।
कार्यत्वेसतीति ।
( ४४०।१ ) इन्द्रियान्तरं मन इति मानसप्रत्यक्षैश्चात्मत्वसुखत्वादिभिरनैकान्तित्वं मा भूदत उक्तं कार्यत्वे सतीति विशेषणम् ।
अचाक्षुषप्रत्यक्षत्वादित्यत्रापि कार्यत्वे सतीति विशेषणमनुषञ्जनीयम् ॥ २ ॥
न्य्स्_४,१।३: तत् त्रैराश्यं रागद्वेषमोहार्थान्तरभावात् ॥
न्य्स्_४,१।४: नैकप्रत्यनीकभावात् ॥
तदेवं बहु परीक्षितं दोषाणाम्,
यत्तु किं चिद्दोषाणामपरीक्षितमस्ति तत्परीक्षितुमुपक्रमते ।
प्रर्वतनालक्षणा इत्युक्तं तथा च मानादय
इति ।
रागद्वेषमोहा एव दोषा न च मानादयस्तेष्वन्तर्भवन्ति बुद्धिव्यपदेशभेदात् ।
प्रवर्त्तनालक्षणत्वं तु तेषामप्यस्ति तस्मादतिव्यापकत्वान्न लक्षणमेतद्युक्तं युक्तत्वे वा लक्षणसूत्रे मानादयो ऽपि दोषवत्पठनीया इति पूर्वपक्षः ।
सिद्धान्तवाद्याह नोपसङ्ख्यायन्ते सङ्गृहीतत्वादिति ।
रागद्वेषमोहानां सामान्यत्रयाणां कामादयो विशेषास्तथा चोपपन्नो बुद्धिव्यपदेशभेदः सङ्ग्रहश्चेति भावः ।
अस्ववस्त्वादानेच्छा स्वामिदानपूर्विका स्पृहा ।
पुनर्भवप्रार्थना तृष्णाहेतुभूता प्रवृत्तिद्वारेण पुनर्भवप्रतिसन्धानस्येति ।
प्रमाणविरुद्धेति।(४४९।१) अन्यायेनेत्यर्थः ।
परस्य ज्ञातेर्ममाप्येतदिति बुद्धिरभिनिवेशः
तत्प्रतिषेधाभिप्रापयो ज्ञानिपिशाचस्येर्ष्येत्युच्यते ।
अमर्षलक्षणो द्वेष इति ।
( ४५०।१ ) ननु कृतापकारस्य या असहिष्णुता सो ऽमर्ष इति द्वेषस्यैव विशेष इत्युक्तं कथं द्वेषसामान्यमुच्यत
इत्यत आह ।
असहिष्णुता दुःखस्य दुःख साधनानां चेति ।
मिथ्याप्रतिपत्तिलक्षणो मोह इति ।
संशयोपि हि यथाबस्थिते पदार्थे अयथाभावप्रतिपत्ति भवति, व्यवस्थितं हि वस्तु अवयवस्थिततया गृह्णाति संशयः एवं पण्डितमानिनो मीमांसकदुर्दुरूढस्याभिमान इति ॥ ३-४ ॥
न्य्स्_४,१।५: व्यभिचारादहेतुः ॥
एकियोनयो हि रूपादयो न चैषामेकत्वम्, यदि पुनस्तत्र रूपादीनां परस्परभेदसिद्धये कश्चित्कारणभेद आस्थीयते स रागादिष्वपि समान इति भावः ।
आर्यप्रज्ञेति भाष्यम् ।
आरात्तत्त्वाद्याता आर्या ।
आर्या चासौप्रज्ञा चेति आर्यप्रज्ञा ।
सम्यग्बोधः सम्बोधः ॥ ५ ॥
न्य्स्_४,१।६: तेषां मोहः पापीयान् नामूढस्येतरोत्पत्तेः ॥
नासति निदानोच्छेदे निदानिनामुच्छेद इति–रागद्वेषयोर्निदानिनोरुच्छेदाय तन्निदानत्वं मोहस्य दर्शयति सति चार्थान्तरत्व
इति ।
तेषां मोहः पापीयान् कुतः नामूढस्येतरोत्पत्तेः ॥ ६ ॥ अमूढस्येतरोत्पत्तिर्न भवति यत इत्यत्रार्थे नामूढस्येतरोत्पत्तेरित्युक्तम् ।
मोहाद्विषयस्य सुखसाधनत्वानुस्मृतिः
दुःखसाधनतानुस्मृतिश्च सङ्कल्पः ।
रञ्जनीयाः कोपनीया इति कर्तरि कृत्यो भव्यगेयादिपाठात् ।
वार्तिकं मूढोमुह्यतीति ।
(४५१।३) मूढ इति मोहवासनावान् ।
भवतु निदानोच्छेदादुच्छेदो निदानिनः निदानस्य कुत उच्छेद इत्यत आह ।
तत्वज्ञानाच्चेति ।
प्रतिपक्षाभ्यासान्निदानोच्छेद
इत्यर्थः ॥ ६ ॥
न्य्स्_४,१।७: निमित्तनैमित्तकभावादर्थान्तरभावो दोषेभ्यः ॥
न्य्स्_४,१।८ ॥ दोषनिमित्तित्वादिति हेतोरप्रयोजकत्वमाह ।
न दोषलक्षणावरोधादिति ।
तथाभावस्तज्जीतायत्वमतथाभावो ऽतज्जातीयत्वम् ॥ ७-८ ॥
न्य्स्_४,१।९: निमित्तनैमित्तकोपपत्तेश्च तुल्यजातीयानामप्रतिषेधः ॥
अनैकान्तिकत्वमाह ।
निमित्तनैमित्तिकोपपत्तेश्चेति ॥ ९ ॥
न्य्स्_४,१।१०: आत्मनित्यत्वे प्रेत्यभावसिद्धिः ॥
उत्पादोच्छेदौ प्रेत्यभावो न चात्मनो नित्यस्य तौ स्तः तस्मादस्मिन् दर्शने न युक्तः प्रेत्यभावः ।
वैनाशिकानां तु सत्त्वोत्पादनिरोधाभ्यां युक्तः प्रेत्यभावः ।
प्रेत्येति ल्यब् मुखं व्यादाय स्वपितीतिवद् द्रष्टव्यः ।
तथा च भूत्वा प्रायणमिति भवनप्रायणयोः समानकर्तृकत्वमप्युपपन्नमिति पूर्वपक्षः ।
पूर्वाभ्यस्तसूत्रे आत्मनित्यत्वव्यवस्थापनात् सत्त्वोत्पादोच्छेदे च कृतहानाकृताभ्यागमदोषेणाभ्युदयनिःश्रेयसार्थमप्रवृत्तिः
ऋष्युपदेशानर्थक्यप्रसङ्गश्च स्वदेहेन्द्रियबुद्धिसंवेदनासम्बन्धोत्पादविपनाशौ नित्यस्यात्मनो जन्मप्रायणे तथा चोपपन्नः प्रेत्यभाव इति सिद्धान्तः ॥ १० ॥
न्य्स्_४,१।११: व्यक्ताद् व्यक्तानां प्रत्यक्षप्रामाण्यात् ॥
न्य्स्_४,१।१२: न घटाद् घटानिष्पत्तेः ॥
न्य्स्_४,१।१३: व्यक्ताद् घटनिष्पत्तेरप्रतिषेधः ॥
प्रेत्यभावविचारप्रस्तावेनेदमपरं विचारयति ।
येयं प्रेतयोत्पत्तिर्नाम सा कथमिति चेत् ।
अत्र हि प्रावादुकानां नानाविधा विप्रतिपत्तयः सन्ति ।
तत्राभिमतं तावत्पक्षं गृह्णाति ।
व्यक्तादिति ।
अग्रे विप्रतिपत्तीर्निवारयिष्यति ।
शरीरेन्द्रियविषयोपकरणाधारमिति एकवद्भावेन नपुंसकत्वम् ।
प्रत्यक्षगृहीतसम्बन्धप्रभवमनुमानं प्रत्यक्षेप्युपदिशति प्रतयक्षमूलकत्वादिति ।
ननु भवतु शरीरं पृथिव्यादि च व्यक्तं महत्त्वानेकद्रव्यवत्त्वरूपविशेषेभ्यः तन्मूलकारणं परमाणवः कथं व्यक्ता इत्यत आह ।
तत्सामान्यादिति ।
रूपादिमत्सामग्रीपूर्वकं गवादि शरीरमित्यर्थः ॥ ११-१३ ॥
न्य्स्_४,१।१४: अभावाद् भावोत्पत्तिर् नानुपमृद्य प्रादुर्भावात् ॥
अतः परं प्रावादुकानां तैर्थिकानां च दर्शनान्युपन्यस्तानि कानि चित्प्रतिषिध्यन्ते तत्र कानि चिदभ्यनुज्ञायन्त इति ( ४५४।३ ) तत्र तावदेके प्राहुरभावाद्भावोत्पत्तिः कुतः नाननुपमृद्य प्रादुर्भावो यतः तस्मादित्यर्थः ।
विश्यं हि शून्यताया एव जायते ।
एवं किल श्रूयते असदेवेदसग्र आसीदिति ।
अत एवाद्याप्यसत
एव जन्म दृश्यते न सतः तत्कस्य हेतोः अभावस्तस्या कारणमिति ।
उपलक्षणं चेदं नानुपमृद्य प्रादुर्भावादितिद्व
असत उत्पादाभित्यपि द्रष्टव्यम् ।
तस्मादसदुपादानं विश्वमिति सिद्धम् ॥ १४ ॥
न्य्स्_४,१।१५: व्याघातादप्रयोगः ॥
तत्र सिद्धान्तीप गूढाभिसन्धिराह उपमृद्यप्रादुर्भवतीति व्याघात इति ॥ १५ ॥
न्य्स्_४,१।१६: नातीतानागतयोः कारकशब्दप्रयोगात् ॥
तदभिसन्धिमविद्वान् पूर्वपक्षी दूषयति ।
न अतीतानागतयोः कारकशब्दप्रयोगादिति ।
उपमृद्य प्रादुर्भवतीति भाक्त एष प्रयोगो न मुख्य इत्यर्थः ।
भिन्नस्य कुम्भस्य कपालानीति तु यद्यपि न साक्षात्कारकशब्दस्तथापि षष्ठ्या सम्बन्धाभिधानात् तस्य क्रियामर्भत्वात्क्रियायाश्च कारकनान्तरीयकत्वात्पारम्पर्येण कारकशब्दता द्रष्टव्या ।
पृच्छति कः पुनरङ्कुरेण बीजोपमर्दार्थः ।
(४४५।२) का पुनर्भक्तिः यया योगादुपसङ्गृह्णाति बीजमङ्कुर इति भवति प्रयोग इत्यर्थः ।
उत्तरम् ।
अनन्तरोत्पत्त्यर्थः उपमर्द्येपमर्दयोरप्यानन्तर्यमनयोरपीति एतत्सामान्यमित्यर्थः ।
पुनरपि गूढाभिसन्धिरेव सिद्धान्ती उक्तं स्मारयति ।
अत्रोक्तमिति ।
अभिप्रायमुद्घाटयति ।
यदपीदमुच्यत इति ।
नौपचारिकं प्रयोगं व्यासेधामः कारकशब्दानाम्, किन्तु यथा भविष्यन्नङ्कुरः सम्प्रति असन्न बीजमुपमृद्गाति एवं बीजाभावो ऽसन्नाङ्कुरं करोतीति ब्रूमः ।
तदिदमाह अपि त्वसतः कारणादुत्पत्तिर्न युक्तेति ।
ननूक्तमुपमृद्य प्रादुर्भावादित्यनेनानन्तर्यं बीजविनाशाङ्कुरोत्पादयोः सूचितं बीजविनाशानन्तर्याच्चाङ्कुरोत्पादस्य बीजविनाशकार्यत्वमित्यत आह ।
यत्पुनरेतदानन्तर्यसामर्थ्यादिति ।
अनन्यप्रयुक्तमानन्तर्यं कार्यकारणभावसाधनम्
इदन्तु व्यूहानन्तर्यप्रयुक्तमिति नाभावस्य कारणत्वं गमयितुमर्हतीत्यर्थः ।
यदि व्यूहान्तरकार्यो ऽङ्कुरो ऽथ कस्मादविनष्टे पूर्वव्यूहे न भवतीत्यत आह ।
न चाविनष्टे इति ।
ननु यदि बीजावयवव्यूहान्तरमङ्कुरोत्पादहेतुर्न बीजं कस्मादङ्कुरार्थिनः कृषीवला बीजमुपाददतैत्यत
आह ।
एवं चेति ।
बीजावयवोपादाने अवर्जनीयतया बीजमागच्छदशक्यप्रत्याख्यानमित्यर्थः ॥ १६ ॥
न्य्स्_४,१।१७: न विनष्टेभ्यो ऽनिष्पत्तेः ॥
तदेवमर्थं परिशोध्यात्रैवार्थे सूत्रं योजयति ।
अस्य चार्थस्येति ।
न विनष्टेभ्यो बीजेभ्यो ऽङ्कुरस्यानिष्पत्तेः ।
बीजविनाशश्चेदङ्कुरोत्पादहेतुरथ विनष्टे बीजे तदवयवेषु परस्परविच्छिन्नेष्वसति तेषां व्यूहान्तरे कस्मादङ्कुरो न भवति भवति तु सति तेषां व्यूहे तस्माद्विनष्टेभ्यो ऽङ्कुरानुत्पत्तेरसति व्यूहे न बीजनाशः कारणमिति सूत्रार्थः ॥ १७ ॥
न्य्स्_४,१।१८: क्रमनिर्देशादप्रतिषेधः ॥
क्रमनिर्द्देशादित्यस्य हेतोरस्मत्पक्षे ऽप्यप्रतिषेधः ।
तत्राप्यानन्तर्यस्य तुल्यत्वात् ।
तथापि विनिगमनायां को हेतुरित्यत आह ।
अभावश्चेदङ्कुरोत्पादकारणं स्यात् ।
अनुपाख्येय इति शेषः ।
न ह्यनन्वयविनष्टयोः शालियवबीजयोः कश्चिद्विशेषो ऽस्ति येनैकस्माच्छाल्यङ्कुरो नान्यस्मादिति ।
को नु खल्वभावानामस्त्याजानतो भेद इति ।
अपि च कारणानां शक्तिभेदात्कार्याणि भिन्नशक्तियुक्तानि ।
यदा तु कारणानामभेदस्तदा कुतस्तच्छेक्तीनां भेदः तथा च कार्याणि भिन्नशक्तीनि न स्युरित्याह ।
अनन्वितं च कार्यं सर्वाभिरिति ।
यदप्यसत उत्पादादभावस्योपादानत्वं तदपि कार्याणां भिन्नत्वेन भिन्नशक्तिकत्वेन च प्रयुक्तम् ।
तत्प्रागभावानां स्वाभाविकभेदविरहात् ।
अपि च प्रागभावानामनादित्वेन कार्योत्पादस्याप्यनादित्वप्रसङ्गः
भावरूपकारणसहकारित्वं त्वभावस्य न निषिध्यते अस्मदभिमतस्योपाख्येयस्य ।
अत
एव पाकजादीनांरूपादीनां पूर्वरूपादिध्वंसनिमित्तत्वमप्युपेयते ।
श्रुतिस्तु पूर्वपक्षाभिप्राया, तथा च सिद्धान्तश्रुत्यन्तरं सदेव सोम्येदमग्र आसीदिति कथमसतः सज्जायेतेति ।
शून्यताविवर्तो विश्वप्रपञ्च
इति तु दर्शनमसत्ख्यात्यनिर्वचनीयख्यातिनिराकरणेनापाकृतम् ।
अपि च शून्यत्वे ख्यातुरभावात्ख्यातरेभावः ।
तस्मान्न शून्यतोपादानस्तद्विवर्तो वा विश्वप्रपञ्च इति सिद्धम् ॥ १८ ॥
न्य्स्_४,१।१९: ईश्वरः कारणम्-- पुरुषकर्माफल्यदर्शनात् ॥
अथापर आह— इश्वरः कारणं पुरुषकर्माफल्यदर्शनात्
(सू। १९) मा मूदयं नामरूपप्रपञ्चः शून्यतोपादानो ऽपि तु ब्रह्मोपादानोभविष्यति, ब्रह्मैवहि प्रपञ्चरूपेण परिणमते मृत्तिकेव घटशरावोदञ्चनादिभावेन ।
न चैवं नित्यत्वव्याघातः ।
परिणामे ऽपि तत्त्वाविघातात् तल्लक्षणत्वाच्च नित्यतायाः ।
यदाह ऽयस्मिंस्तत्त्वं न विहन्यते तदपि नित्यऽमित्येकं दर्शनम् ।
अपरं च ब्रह्मैवानिर्वचनीयानाद्यविद्योपधानान्नामरूपप्रपञ्चभेदेन विवर्त्तते सुखमिवैकमनेकमणिकृपाणादिभेदान्नैकविधप्रतिबिम्बभेदेनेति,
तदेतद्दर्शनद्वयमनेन सूचितम् ।
ईश्वरो ब्रह्म ईशनायोगात् ।
चेतनाशक्तिः क्रियाशक्तिश्चेशना ।
सा चास्ति ब्रह्मणीति ब्रह्मश्वरः कारणं जगतः ।
श्रूयते हि तदैक्षत बहुस्यां प्रजायेयेत्यादि ।
सा चेयं श्रुतिश्चेतनस्य जगत्कारणतामाह ।
न चाभावो वा प्रधानं वा परमाणवो वा चेतयन्ते ।
ननु जीवा एव चेतनास्तत्कर्मनिमित्तोनामरूपप्रपञ्चो भविष्यति, कृतमत्र भगवतेश्वरेणेत्यत उक्तं पुरुषकर्माफल्दर्शनादिति पुरुषश्चेत्
चेतयेनैवं निष्फलं कर्मारभेद, निष्फलं विद्वान् प्रवर्त्तमानः कथं चेतनो नामद्व तस्मात्पुरूषकर्माफल्यदर्शनादीश्वरः कारणमित्यर्थः ॥ १९ ॥
न्य्स्_४,१।२०: न पुरुषकर्माभावे फलानिष्पत्तेः ॥
तदेतद्दर्शनद्वयमपाकरोति ।
न पुरुषकर्माभावो फलानिष्यतेः (सू। २०) ॥
इदमात्राकूतम् न तावन्मृत्तिकेव नामरूपप्रपञ्चरूपेण ब्रह्म परिणमते ।
तद्धि सर्वात्मना वा परिणमते एकदेशेन वा, तत्र सर्वात्मना परिणामे तत्त्वविघातादनित्यत्वम् ।
एकेदेशेन परिणामे सावयवत्वात्तदेवानित्यत्वम् ।
अथ तत्वेनानुगतस्य परिणामः तच्च ब्रह्म ? न तर्हि ब्रह्मणः परिणामः ।
न च निर्भागस्यैकस्य स्वसम्वेदनप्रत्यक्षस्य विपरीतज्ञानगोचरत्वसम्भवः ।
सामान्यतो ग्रहे रूपविशेषाग्रहे च तदन्यरूपारोपेण विभ्रमो दृष्टः शुक्तिकादौ, न तु जातु शुक्तिरूपं विद्वान रजतमिति विपर्यस्यति ।
न च निरंशे स्वसंवेदनप्रत्यक्षे ब्रह्मणि तत्स्वरूपाग्रहः सामान्यग्रहो वा भवति ।
तस्मादीश्वरो जगद्भेदेन विवर्ततैत्ययुक्तम् ।
निमित्तं तु स्यादीश्वरो जगतः, स चेदनपेक्ष एव जगत्कारणमित्युच्यते तत्रेदमुपतिष्ठते ।
नपुरुषकर्माभावे फलानिष्पत्तेरिति ।
अस्य व्यतिरेकमाह वार्तिककारः ।
ईश्वरश्चेत्कारणं भवेदिति ।
( ४५६।११ ) एकरूर्पं कार्यं स्यादित्याह ईश्वरस्येति ।
कर्मणीश्वरो ऽनीश्वरः स्यात् ।
तथा च तत्कारणानि नेश्वरेण प्रयुज्यन्तैत्यनेकान्तो वक्ष्यमाणो हेतुरित्यर्थः ॥ २० ॥
न्य्स्_४,१।२१: तत्कारितत्वादहेतुः ॥
तदेवमीश्वरोपादानत्त्वं च ब्रह्मविवर्तत्वं च निरपेक्षेश्वरनिमित्तत्वं च निराकृत्पयाभिमतं पक्षं गृह्णाति ।
तत्कारितत्वादहेतुः (सू। २१ ) ॥
परमाणूपादानस्य जगतः पुरुषकर्मापेक्ष
ईश्वरो निमित्तकारणं यच्च तेनापेक्षणीयं पुरुषकर्म तदपीश्वरनिमित्तकमेव ।
न च यदपेक्ष्यते तस्यानिमितत्वमित्युपदिष्टात्प्रवेदयिष्यामः ।
तस्मादीश्वरकारितत्वात्पुरुषकारस्य तत्सहाय
ईश्वरो निमित्तकारणं जगत इत्यस्य पक्षस्य निराकरणे पुरुषकर्माभावे फलानिष्पत्तेरित्यहेतुः ।
निरपेक्षेश्वरनिमित्तकत्त्वनिराकरणे हेतुरेवेत्यर्थः ।
भाष्यं गुणविशिष्टमात्मान्तरमिति ।
गुणानीश्वरस्य ज्ञानादीनुपपादयिष्यति वार्त्तिककारः ।
आत्मकल्पादित्यत्रात्मप्रकारादात्मजातीयादिति यावत् ।
संसारवद्भ्य आत्मभ्यो विशेषमाह ।
अधर्मेति ।
नन्वस्य कर्मानुष्ठानाभावात् कुतो धर्मः तथा चाणिमादिकमैश्वर्यं कार्यरूपं विनैव कर्मणेत्यकृताभ्यागमप्रसङ्ग
इत्यत आह ।
सङ्कल्पानुविधायी चास्य धर्म
इति ।
प्रवर्त्तयतु किमेतावतेत्यत आह ।
एवं च स्वकृताभ्यागमस्यालोपेनेति ।
मा भूद्बाह्यानुष्ठानं सङ्कल्पलक्षणानुष्ठानजनितधर्मफलमस्यैश्वर्यं जगन्निर्माणफलमिति नाकृताभ्यागमप्रसङ्ग
इत्यर्थः ।
स्यादेतत् ।
प्रयोजनं विना न प्रेक्षावतां प्रवृत्तिः न च प्राप्तसकलप्राप्तव्यस्यास्ति प्रापणीयं किं चिदीश्वरस्य, तस्मात् कृतमस्य जगन्निर्माणेनेत्यत
आह ।
आप्तकल्पश्चेति ।
माभूदस्य भगवतः स्वार्थः परानुग्रहार्थं जगन्निर्माणे प्रवर्त्स्यतीत्यर्थः ।
अत्रैव दृष्टान्तमाह ।
अयं यथा पितुरपत्यानाम् ।
अयं पिता स्वापत्यानां यथा पितेत्यर्थः ।
दार्ष्टान्तिके योजयति तथा पितृभूत ईश्वर इति ।
नन्वात्मान्तराण्यनित्त्यज्ञानयोगीनि दृष्टानि तद्वैलक्षण्यादीश्वरोनात्मजातीयो भवितुमर्हतीत्यत आह न चात्मकल्पादिति ।
यद्यप्यात्मान्तराण्यनित्यज्ञानयोगीनि अयं च नित्यज्ञानादियुक्तः तथाप्यात्मजातीय एव बुद्व्यादिगुणयोगित्वात् ।
अन्यथा तोयादिपरमाणूनामतोयत्वादिप्रसङ्गो नित्यरूपादियोगात् ।
करकादिगतानां रूपादीनामनित्यत्वोपलब्धेरिति ।
यदि चायं बुद्ध्यादिगुणैर्नोपाख्यायेन प्रमाणाभावानुपपन्न एव स्यादित्याह बुद्ध्यादिभिश्चेति ।
स्यादेतत् यदि कारुण्यादीश्वरो जगन्निर्माणे प्रवर्त्तते हन्त भोः सुखिनमेव सृजेन्न तु दुःखिनम् ।
न च क्षेत्रज्ञगतधर्माधम्रसहकारितया निर्माणवैचित्र्यं वाच्यम्, धर्मस्य तदनधिष्ठितस्य स्वकार्याकरणेन कारुणिकेन तदधिष्टानायोगात्–तस्मात्सुखिदुःख्यादिभेदेन जगद्वैचित्र्यदर्शनान्नानुकम्पाप्रयुक्त ईश्वरः करोतीत्यत आह ।
स्वकृताभ्यागमालोपेन प्रवर्तमानस्येति ।
अयमभिसन्धिः ।
कारुणिको ऽप्ययमात्मान्तरातिशायितमहिमापि न वस्तूनां सामर्थ्यमन्यथा कर्तुं पारयति ।
तस्मादधर्मेणोत्पत्तिमता(पि) नेश्वरप्रभावादपि नित्येन भवितुं युक्तम् ।
न च स्वफलविरोधिना फलमप्रदाय विनंष्टुमपि शक्यम् ।
अतः क्षेत्रज्ञानां नियतिमलङ्घयता ईश्वरेण नाधर्मः शक्यो ऽनधिष्ठातुम्,
तस्मात्कारुणिको ऽप्ययं वस्तुस्वभावमनुविधीयमानो धर्माधर्मसहकारी जगद्वैचित्र्यं विधत्ते तदिदमुक्तं स्वकृताभ्यागमालोपेन प्रवर्त्तमानस्येति ।
पुरुषैर्यत्कर्म कृतं तत्फलाभ्यागमालो पेन प्रवर्त्तमानस्येत्यर्थः ।
वार्तिक ईश्वरप्रक्रियेति ।
( ४५७।९ ) प्रक्रिया प्रकरणं ईश्वरनिमित्तत्वविचार
इत्यर्थः ।
अथ विद्यमानः प्रतिबन्धान्न प्रवर्त्तयतीति ।
( ४५८।१२ ) सुखाय पुरुषार्थेन प्रधाने प्रवर्तयितव्ये अधर्मः पुरुषार्थस्य प्रतिबन्धकः– एवं दुःखाय पुरुषार्थेन प्रधाने प्रवर्त्तयितव्ये अधर्मः पुरुषार्थस्य प्रतिबन्धकः एवं दुःखाय पुरुषार्थेन प्रधाने प्रवर्तयितव्ये धर्म इत्यर्थः ।
न चायं हेतुस्तस्मान्निवर्त्तत इति ।
(४५९।१४) अयमेवाचेतनत्वलक्षणो हेतुः क्षीरान्न निवर्त्तत इत्यर्थः ।
परिस्पन्दःक्रिया सा मूर्त्यनुविधायिनी नामूर्ते सर्वगत ईश्वरे सम्भविनी इति मन्वानः शङ्कते ।
क्रियानावेशादकारणमिति चेदिति ।
(४६०।१६) अपरिस्पन्दा अपि ज्ञानचिकीर्षाप्रयत्ना आख्यातपदवाच्यतया भवन्ति क्रिया ईश्वरैत्यभिसन्धिना परिहारः ।
न विकल्पानुपपत्तेः ।
यदा च युगपदनेकानि द्रव्याणि संहन्यते तदासाधारणकार्यव्यावृत्तेभ्यः संयोगेभ्यः इति ।
(४६१।८) असाधारणं कार्यम्–एकैकस्य तन्तुद्वयसंयोगस्य द्वितन्तुकं तस्माद्व्यावृत्तेभ्यः संयोगेभ्यः सह साधारणस्यैव कार्यस्य पटलक्षणस्योत्पादादित्यर्थः ।
न केवलमुत्पन्नक्रियेषु क्रियोपरतौद्रव्योत्पादः क्व चिदनुत्पन्नक्रियेष्वपि द्रव्येष्ववस्थितसंयोगेभ्यः पूर्वद्रव्योपरतौ द्रव्यान्तरोत्पाद इत्याह ।
एकावयवविभागे त्विति ।
तुशब्देन पूर्वस्मादुत्पन्नोपरतक्रियाविशेषो दर्शितः ।
किमक्रियावतामेवारम्भो नेत्याह कानि चित्पुनरिति ।
अन्यतरकर्मजान्नोदनात्संयोगान्निवृत्ते कर्मणि इतरस्मिन् द्रव्ये कर्मनिर्वृत्तिसमकालमेव द्रव्यं चोत्पद्यत इति तत्स्वाभाव्यात्प्रवर्त्ततैत्यदुष्टमिति ।
चेतनो ऽप्ययं परानुग्रहस्वभावो ऽपि वस्तुस्वभावमनुरुध्यमानः कर्माशयानुरोधेन जगद्वैचित्र्यं विधत्ते ।
न चावश्यं दुष्कृते पुंसां प्रवृत्तिं विहन्तीत्यर्थः ।
अद्यत्वे ऽपि चेतनानां विचित्रस्वभावत्वं दृष्ट्रं सदसन्मध्यमानां जनानाम् ।
अथ नित्यमैश्वर्यं धर्मवैयर्थ्यं न तद्धर्माद्भवतीति ।
( ४६४।३ )
ततश्चेश्वरस्यैश्वर्यं स्वकृतकर्मफलं वेदितव्यमित्ययुक्तं भाष्यमिर्तिं भावः ।
परिहरति नित्यमिति ब्रूमः ।
तस्य हि ज्ञानक्रियाशक्ती नित्ये इति ऐश्वर्यं नित्यम् ।
अणिमादिकं त्वनित्यं तदभिप्रायं च भाष्यकारस्य धर्मफलत्वाभिधानम् ।
प्रत्यात्मवृत्तिधर्माधर्मसन्निचयाधिष्ठानं धृत्यात्मवृत्तिसङ्कल्पानुविधायिन ईश्वरस्य धर्मस्य प्रयोजनमिति ।
अभ्युपेत्येश्वरधर्ममेतदुक्तं भाष्यकृता ।
परमार्थतस्तु नेश्वरस्य धर्मसद्भावे प्रमाणमस्ति नित्याभ्यामेव ज्ञानक्रियाशक्तिभ्यां सकलकार्योत्पादसिद्धेरित्याशयवानाह ।
न चेश्वरे धर्मो ऽस्तीति ।
बुद्धिमत्त्वात्तर्ह्यत्मान्तरमिति ।
आत्मान्तरं शरीर्यन्तरमभिप्रेतमिति ।
स च शरीरसम्बन्धो वर्त्तमानः केषां चिद्यथा संसारिणां केषां चिदतीतो यथा मुक्तानां शुकप्रह्लादादीनाम् ।
तदनेनेश्वरेण बुद्धिमता सतावश्यं भाव्यं शरीरिणेति देश्यार्थः ।
नात्मान्तरं शरीर्यन्तरमित्यर्थः ।
कुतो गुणभेदात् ।
नित्याश्चेदस्य बुद्ध्यादयः कृतं शरीरग्रहणेन तदुत्पादार्थेनेति भावः ।
नन्विदमेव बुद्धिमत्कारणाधिष्ठिताः परमाणवः प्रवर्त्तन्त इति ।
पक्षधर्मताबलात्तर्कसहायान्नित्यबुद्धिमत्त्वमस्य सिद्ध्यतीत्यर्थः ।
प्रत्यर्थनियमासम्भवादित्यादिना तर्कः प्रमाणसहायो दर्शितः ।
एवं तावद्गुणभेदेनाशरीरित्वमीश्वरस्य दर्शितं न चैतस्य शरीरयोगो विकल्पमपि सहतैत्याह ।
अथ बुद्धिमत्तयेति ।
( ४६५।४ ) अतीतानागतवर्त्तमानविषया प्रत्यक्षेति ।
साक्षात्कारवतीत्यर्थः ।
न पुनरक्षमाश्रिता नित्यत्वात् ।
उपलक्षणं चैतत् ।
नानुमानिकी चेति ।
नैन्द्रियकी नौपमानिकीत्यपि द्रष्टव्यम् ।
अक्लिष्टेति ।
( ४६६।४ ) क्लेशो ऽविद्या तददूषितेत्यर्थः ।
मूर्त्तिमद्द्रव्यसम्बन्धित्वादिति ।
संयोगित्वादित्यर्थः ।
तथा च न रूपादिभिर्व्याभिचारः ।
तथा च न रूपादिभिर्व्यभिचारः ।
एतावदभिप्रेतमाचार्यस्य त्रयो हि खलु भावा जगति भवन्ति प्रसिद्धचेतनकर्तृकाः
यथा प्रासादाट्टालगोपुरतोरणादयः ।
प्रसिद्धतद्विपर्ययाः ।
यथा परमाण्वाकाशादयः ।
सन्दिग्धचेतनकर्त्तृका यथा तनुगिरिमहीधरादयः ।
तत्र प्रमेयत्वाद्वादिविप्रतिपत्तेर्वा साधकबाधकप्रमाणाभावेचेतनकर्त्तृत्वे संशयः ।
न च प्रत्यक्षानुपलब्धिमात्रमत्र बाधकं भवितुमर्हति ।
स्वभावविप्रकर्षिणां सतामपि प्रत्यक्षानुपलब्धेः परमाण्वादीनाम् ।
तथा च विवादाध्यासितास्तनुतरुमहीधरादय
उपादानाभिज्ञकर्तृका उत्पत्तिमत्वात् अचेतनोपादानत्वाद्वा युदुत्पत्तिमदचेतनोपादानकं वा तत्सर्वमुपादानाभिज्ञपूर्वकं यथा प्रासादादि, तथा च विवादाध्यासितास्तनुतरुमहीधरादयस्तस्मात्तथेति ।
न चैषामुत्पत्तिमत्त्वमसिद्धम् ।
सावयवत्वेन वा महत्त्वे सति क्रियावत्त्वेन वा वस्त्रादिवत्तत्सिद्धेः ।
न चैतावता वैनाशिकानां कर्मणा चेतनेन मीमांसकानां क्षेत्रज्ञेन चेतनेन चेतनकर्त्तृत्वसिद्धेः पृथिव्यादीनां सिद्धसाधनं चैतन्ये ऽपि तेषामुपादानानभिज्ञत्वात् ।
तज्ज्ञत्वे वा स एवास्माकमीश्वरः ईदृशमस्तु सिद्धसाधनं को हे क्लेशं विना न वाञ्छितसिद्धिमिच्छेत् ।
न च साध्यहीनो दृष्टान्तः ।
पटादीनामप्युपादानाभिज्ञकुविन्दादिकर्त्तृकत्वात् ।
अत एव न विरुद्धता हेतोः, एवं हि सा भवेत्,
यद्युपादानाभिज्ञर्त्तृकाः पटादयो भवेयुः
न चैतत्परेषामपि सम्मतम् ।
स्यादेतद्
अर्थाक्षिप्तस्य विशेषस्य शरीरादिमत्त्वादेः प्रमाणविरोधाद्विरुद्धता ।
यथा तृणादिविकारकारित्वादग्निमद्धिममित्यत्र वह्निमत्वाक्षिप्ततृणादिविकारोपयुक्तवह्निगतोद्भूतोष्णस्पर्शविरुद्धशीतस्पर्शस्य प्रतयक्षेणोपलम्भाद्बाधितो विरुद्धो हेतुः ।
तथा ह्यस्य क्षित्याद्युपादानादिविषयं ज्ञानमात्ममनःसन्निकर्षशरीरादिकारणकं नासति तस्मिन् भवतीति तदनेनाक्षिप्तम्,
तच्चात्र प्रमाणबाधितम्, तन्निवृत्तौ च ज्ञानमस्य निर्वत्तेत उष्णत्वोद्भूतिनिवृत्ताविव दाहको वह्निरवश्याय इति ।
न ।
अव्यापकनिवृत्तावव्याप्यनिवृत्तोरयोगात् ।
कारणं चेदव्यापकं कार्यस्य हन्त हता तर्हि व्याप्यव्यापकसङ्कथा ।
भवेदेतद्यदि क्षित्याद्युपादानज्ञानमप्यस्य कार्यं स्यान्नित्यं तु तदभ्युपेयत इति न शरीरादिनिवृत्तावपि निवर्त्तितुमर्हति ।
अव्यापकनिवृत्तेरव्याप्यस्यानिवृत्तेरिति ।
अन्यथा नाश्ववान् मैत्र इति गोमानपि न स्यात् ।
न च बुद्ध्यादीनामनित्यानां बहुलमुपलब्धेर्नित्या बुद्धिरसम्भाविनीति साम्प्रतम् ।
न हि प्रत्यक्षाः पाथसीया हिमकरकादयस्तद्गता रूपादयो ऽनित्या इति तदारम्भकैः परमाणुभिस्तद्गतैर्वा रूपादिभिस्तथा भवितव्यम् ।
सदकारणतया तु नित्यतोभयत्रापि तुल्या ।
न च शरीरादिसहभावेन ज्ञानस्य तत्र तत्रोपलम्भाच्छरीरादीनां ज्ञानं व्याप्यमिति युक्तम् ।
स्वाभाविकसम्बन्धशालिता हि व्याप्यता सा चोपाधिविरहे भवति,
अस्ति च शरीरादिसहभावे ज्ञानस्योपाधिः कार्यत्वम् ।
कार्यं ज्ञानं स्वकारणं शरीरादिनातिवर्त्तते नित्यं तु तदतिवर्त्तमानमपि साहित्योपलम्भं न विरुणद्धि, तस्माद्यथा ऽनित्यः शब्दः उत्पत्तिमत्वात्
घटवदिति प्रयुक्ते कश्चित्साध्यदृष्टान्तयोर्धर्मवैचित्र्यात्प्रत्यवतिष्ठेत,
यदि घटसाधर्म्यादुत्पत्तिमत्त्वादनित्यः शब्दः हन्त तस्मादेव रूपादिमता तेन भाव्यम्,
न चेदयं घटसाधर्म्येण रूपादिमान् एवमनित्यो ऽपि माभूदित्येवं च प्रत्यवतिष्ठमान उत्कर्षसमजातिवादी पराजीयते एवमेवेवाद्युत्कर्षसमजातिवादितया पराजेतव्यः साधर्म्यमात्रेणाप्रयोजकेन प्रत्यवस्थानात् ।
तस्य च सर्वानुमानेषु सुलभतया सर्वानुमानोच्छेदापादकत्वात् ।
स्यादेतत् ।
उत्पत्तिमत्त्वमुपादानाद्यभिज्ञकर्तृपूर्वकत्वमात्रव्याप्तं घटादिषु दृष्टं तावन्मात्रमेव पृथिव्यादीनां गमयेद् नित्यसर्वविषयज्ञानवत्कर्तृत्वं तु कुतस्त्यम् ।
न हि तद्दृष्टान्तधर्मिणि दृष्टम् ।
अथ रूपाद्युपलब्धेः क्रियात्वेन चक्षुराद्यनुमानपि कथम्, न हि च्छिदादयः क्रिया इन्द्रियादिसाधनाः
तासां कुठारादिसाधनत्वात् ।
अथ दृष्टान्तधर्मिण्यदृष्टमपीन्द्रियसाधनत्वं पक्षधर्मताबलात्सिध्यति ।
रूपाद्युपलब्धिगतं हि क्रियात्वं तदेव करणं गमयेद् यदुपलब्धिनिर्वर्तनसमर्थम्,
न च कुठारादयः समर्था इति पक्षधर्मताबलात्कुठारादिविलक्षणमदृष्टचरमपि चक्षुराद्युपस्थापयतीति ? तदितरत्रापि समानम् ।
न ह्ययरिभेयानियतदिग्देशैन्द्रियकानैन्द्रियकत्रसस्थावरादिलक्षणकार्योत्पादयौगपद्यमसत् इ सर्वविषयज्ञाने तन्नित्यत्वेवा सूद्धुमर्हति,
नो खल्वीदृशं परमेश्वरविज्ञानं कार्यशरीरादिकार्यं सम्भवति शरीराद्युत्पत्तेः प्रागस्याचैतन्येन तत्प्राक्कालकार्यान्तरोत्पादायेश्वरान्तरकल्पनाप्रसङ्गात् ।
एवं तत्प्राक्तत्प्रागित्यनेकालौकिककल्पनया वरं बुद्धिनित्यत्वं कल्पितम् ।
एतेन शरीरेन्द्रियनित्यत्वकल्पना ऽपि प्रत्युक्ता ।
एतेन यदेके ब्रुवते–
सन्निवेशादिमत्सर्वं बुद्धिमद्धेतु यद्यपि ।
प्रसिध्येत्सन्निवेशादेरेककारणता कुतः ।
इति ।
तदपि परिहृतम् ।
तेषां प्रसिध्येत्सर्वज्ञनिराक्रियामनोरथो यदि पिशितचक्षुषः परमाणून् क्षेत्रज्ञान्
तत्समवेतान्वा कर्माशयान् द्रष्टुमीशते,
न चैतदस्ति ।
तस्मादतीन्द्रियार्थदर्शिनो ऽस्मदादिबिलक्षणा बहवः कल्पनीयाः तद्वरमेक एव तादृशः कल्पनालाघवायेति ।
न च कादाचित्कपरिपाकादृष्टवत् क्षेत्रज्ञपरमाणुसंयोगादेव तनुभुवनादिकार्योपपत्तेः कृतं चेतनकर्तृकत्वेनेति वाच्यम् ।
उत्पत्तिमत्त्वस्योपादानाद्यभिज्ञकर्तृकत्वेनोपाधिविरह्विणः स्वाभाविकप्रतिबन्धसिद्धेः ।
न चाविज्ञातानामिन्द्रियमनसां ज्ञानोत्पादसाधनानामनधिष्ठानस्य च वत्सवृद्धिनिमित्तस्याप्येचतनस्य क्षीरस्य स्वातन्त्र्येण प्रकृतेः, वने विटपादीनां च विना प्रयत्नमुत्पादस्य दर्शनाद्व्यभिचार
इति साम्प्रतम् ।
सर्वेषामेव तेषां विवादास्पदीभूतत्वेन पक्षनिक्षेपात् ।
न च शशशृङ्गास्तितावदनुपलब्धिविरोधादपक्षधर्मत ।
धर्मिणो दर्शनानर्ह्वतया भगवतस्तद्विरोधानुपपत्तेः ।
अन्यथा सर्वानुमानोच्छेदप्रसङ्गात् शृङ्गस्य तु शशाशिरोवर्तिनो वत्सादिगतस्येव दर्शनार्हस्यानुपलब्धिनिराकृतस्य साधनानर्हत्वात् ।
स्यादेतत् ।
नोत्पत्तिमात्रं स्वभावप्रतिबद्धं बुद्धिमद्धेतुत्वेन, किं तु तद्विशेषः, यद्दृष्टेरक्रियादर्शिनो ऽपि कृतबुद्धिरुत्पद्यते तस्य च दृष्टेः सोपजायते ।
यद् बुद्धिमद्भावानुविधायिभावाभावं दृष्टं घटादि च तथा न तृत्पत्तिमन्मात्रं तनुभुवनाद्यपि तस्य सद्भावासद्भावानुविधानादर्शनात् ।
तदेतेन विशेषेणोपाधिना प्रयुक्तां बुद्धिमद्धेतुकत्वव्याप्तिमुपजीवदुत्पत्तिसामान्यं न तेन स्वभावप्रतिबद्धमिति न तद्गमयितुमर्हतीति,
अन्यथा धूमप्रयुक्तां धूमध्वजव्याप्तिमुपजीव्य पाण्डुतादेः कुमुदकपोतकादिगतादपि धूमकेतुनानुमानप्रसङ्गादिति ।
अत्रोच्यते ।
इदमेव निपुणतरं भवन्तो निरूपयन्तु किं बुद्धिमदन्वयव्यतिरेकानुविधानं विशेष आहो तद्दर्शनम् ।
यदि पूर्वपक्षः स बुद्धिमद्धेतुकत्वं तनुभुवनादीनामातिष्ठमानैरभ्युपेयत एव ।
न हि कारणं कार्याननुविहितभावाभावमन्यो वक्तुमर्हत्यस्वीकात् ।
अथ दर्शनं नतर्ह्यक्रियादर्शिनः कृतबुद्धिसम्भवः ।
य एव हि पटो ऽनेन बुद्धिमद्धेत्वेन्वयव्यतिरेकानुविधायी दृष्टः स एव तत्कार्यो न तु विपणिवर्ती ।
तज्जातीयस्य तदन्वयव्यतिरेकानुविधानदर्शनाददृष्टान्वयव्यतिरेकानुविनधानमपि तज्जातीयं तथेति चेत् ।
हन्तोत्पत्तिमद् घटादि बुद्धिमदन्वयव्यतिरेकानुविधायीत्यन्यदपि तज्जातीयं तनुभुवनादि तथा भवद्दण्डेन न पराणुद्यते ।
घटजातीयमुत्पत्तिमद् बुद्धिमत्पूर्वमिति चेत् ।
ननु प्रासादादि न तद्धेतुकं भवेत् ।
अघटजातीयत्वात् ।
अथ यज्जातीयं बुद्धिमदन्वयव्यतिरेकानुविधायि दृष्टं तज्जातीयमेवादृष्टान्वयव्यतिरेकमपि बुद्धिमद्धेतुकम् ।
तत्कि मिदार्नीं कार्यजातीयं प्रासादादि बुद्धिमद्धेतुकं न दृष्टं येनोत्पत्तिमत्तनुभुवनादि तथा न स्यात् ।
न खलु तज्जातीयत्वे कश्चिद्विशेष
इति ।
यत्तु मृद्विकारत्वेन वल्मीकस्य घटादिवत्कुलालकार्यत्वं न भवति तत्कुम्भकारस्य प्रत्यक्षानुपलम्भविरोधात् ।
अदृश्यचेतनपूर्वकत्वे तु तस्योपेयत एव ।
स्यादेतत् ।
नोत्पत्तिमात्रमुपादानाभिज्ञकर्तृकत्वेन व्याप्तम् ।
अपि तु यदस्मदादिशक्यज्ञानोपादानादि,
न च तथा तनुभुवनाद्युत्पत्तिमदपि, तस्माद्
व्याप्तिविरहान्न तत्पूर्वकमिति ।
तदयुक्तम् ।
उत्पत्तिमत्त्वतदुपादानाद्यभिज्ञकर्तृकत्त्वयोः प्रथममन्वयव्यतिरेकाभ्यां व्याप्तौ सिद्धायां तदुपादानादिशक्यज्ञानत्वकल्पनायाः कार्यज्ञानविषये व्यवस्थापनात् ।
व्याप्तिबलेन ज्ञानसामान्यसिद्धौपक्षधर्मताबलेन तन्नित्यत्वसिद्धिरित्युक्तम् ।
तेनोपाधेरनुस्त्रियमाणस्यानुपलब्धेः स्वभावप्रतिबद्धमुत्पत्तिमत्त्वं बुद्धिमद्धेतुकत्त्वेन ।
न चस्वभावप्रतिबद्धमुत्पत्तिमत्वं स्वसम्बन्धिनमतीत्यापि वर्त्स्यतीति शक्यं शङ्कितुम् ।
तथा सति स्वभावहानिप्रसङ्गः ।
स्यादेतत् ।
न सर्वज्ञपूर्वकाः क्षित्यादयः प्रमेयत्वसत्वादिभ्यः घटादिवदित्यनुमानानि सन्ति प्रतिपक्षसाधनानीति सत्प्रतिपक्षतया प्रकृतमनुमानाभासम् ।
अत्रोच्यते ।
किमनेन सर्वज्ञपूर्वकत्वं निषिध्यते उत ज्ञातृमात्रपूर्वकत्वं सर्वग्रहणमुपलक्षणार्थम् ।
यदि पूर्वःपक्षः तदैकदेशदर्शिपूर्वकत्वं साधितं स्यात् ।
तथा चापसिद्धान्तः, न च शक्यमपि,
न ह्यस्मदादिना ऽर्वाग्दर्शिनाशक्याः पृथिव्यादयः कर्तुम्, ज्ञातृमात्रपूर्वकत्वे तु निषेध्ये घटादिभिर्व्यभिचारः ।
यच्चेश्वरो नाधिष्ठाता परमाण्वादीनामशरीरित्वाद्
मुक्तात्मवत् ऐश्वरं ज्ञानं न सर्वविषयम् अनित्यं च ज्ञानत्वात् अस्मदादिज्ञानवदित्यनुमानं तत्पक्षधर्मतासिद्ध्यर्थमीश्वरसिद्धिं तद्बुद्धिमत्त्वं चापेक्षमाणं तत्साधकप्रमाणविरुद्धमात्मानमेव तावन्नासादयितुमर्हति प्रागेव तद्विरोद्धुम् ।
न ह्यागमानुमाने जगत्कर्तृत्वनित्यसर्वविषयबुद्धिमत्त्वव्यतिरेकेण केवलमश्विरं साधयतः तथा च ताभ्यां विरुद्धं भवदनुमानं नोत्पतुमर्हतीति सिद्धम् ।
बुद्धिवदिच्छाप्रयत्नावपि तस्य नित्यौ सकर्तृकत्वसाधनान्तर्गतौ वेदितव्यौ ज्ञानचिकीर्षाप्रयत्नसमवायलक्षणत्वात् कर्तृत्वस्य, तेषां च परस्पराविनाभावादन्यतरसिद्धावितरयोः सिद्धेः ।
तदेवमुत्पत्तिमत्वादेव पक्षधर्मतासहायादेवम्भूतेश्वरसिद्धिरित्युक्तम् ।
भवतु वा तस्मादुपादानाद्यभिज्ञकर्तृकत्वमात्रसिद्धिः परिशेषानुमानात्तु व्यतिरेकसिद्धेर्विशेषसिद्धिः ।
तथा हि तनुभुवनाद्यभिज्ञः कर्त्ता नानित्यासर्वविषयबुद्धिमान्
तत्कर्तुस्तदुपादानाद्यनभिज्ञत्वप्रसङ्गात् ।
न ह्येवंविधस्तदुपादानाद्यभिज्ञो दृष्टः यथास्मदादिः
तदुपादानाद्यभिज्ञश्चायं तस्मात्तथेति ।
नोखलु परमाणुभेदान् प्रतिक्षेत्रज्ञसमवायिनश्च तस्मात्तथेति ।
नोखलु परमाणुभेदान् प्रतिक्षेत्रज्ञसमवायिनश्च कर्माशयानन्यः शक्तो ज्ञातुमृते तादृशादीश्वरादिति प्रपञ्चितमधस्तात् ।
परपुरुषसमवेतावपि धर्माधर्मावधिष्टातुं शक्नोति सम्बन्धाद्
न हि साक्षात्संयोगसमवायावेव सम्बन्धौ संयुक्तसंयोगिसमवायस्यापि तद्भावात् ।
संयुक्ताः खल्वीश्वेरण परमाण्वादयः तैश्च क्षेत्रज्ञाः तत्समवेतौ धर्माधर्माविति संयुक्तसमवायोव वा क्षेत्रज्ञेनेश्वरस्य संयोगात् अजसंयोगस्याप्युपपादितत्वात् ।
धर्माधर्मौ परमाणून्वा स्वधर्मोपग्रहमन्तरेणापि चेश्वरः स्वकार्याभिमुखान् करिष्यति विषविद्याविदिव विषशकलं क्रियारम्भाभिमुखम् ।
एतेन चेतनोपादानत्त्मपि व्याख्यातम् ।
वार्तिककृता तूपलक्षणतया चेततत्वं हेतुरुक्तः ।
उत्पत्तिमत्वादयो ऽपि हेतव ऊहनीयाः इमं च न्यायमाम्नाय
उपोद्बलयति ।
ऽएतस्य वाक्षरस्य प्रशासने गांर्गि द्यावापृथिवी विधृते तिष्ठतःऽ ऽद्यावापृथिवी जनयन् देव एकःऽ ऽतदैक्षत बहु स्यां प्रजायेयेऽत्यादिः ।
स्मृतिश्च भवति ।
अज्ञो जन्तुरनीशो ऽयमात्मनः सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वाऽ अकारणत्वेन चेश्वरज्ञाननित्यतां दर्शयति श्रुतिः ऽअपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः स वेत्ति विश्वं न हि तस्य वेत्ता तमाहुरग्र्यं पुरुषं पुराणऽ मित्यादिका ।
एतयैवाशरीरित्वं दर्शितं भवति ।
परिशिष्टं तु वार्त्तिककृता स्वयमेव प्रपञ्चितमित्युपरम्यते ॥ २१ ॥
न्य्स्_४,१।२२: अनिमित्ततो भावोत्पत्तिः कण्टकतैक्ष्ण्यादिदर्शनात् ॥
कण्टकादीनां संस्थानविशेषवतां निमित्तादर्शनेनानिमित्तत्तां मन्वानस्येनैव दृष्टान्तेन शरीरादीनामपि संस्थानभेदवतामनिमित्ततां मन्वानः पूर्वपक्षयति ।
अनिमित्तत इति ।
अदृश्यमाननिमित्तानां शरीरकण्टकाकादीनां पक्षनिक्षेपात् पक्षेण व्यभिचारानुद्भावनात् ।
उद्भावने वा सर्वानुमानोच्छदप्रसङ्गात् सर्वत्र तस्य सुलभत्वात् ।
उभयसिद्धेन निमित्ततत्पटादिदृष्टान्तेन संस्थान भेदवत्त्वात्कण्टकशरीरादीनामपि निमित्तवत्त्वमिति सिद्धान्तः ॥ २२ ॥
न्य्स्_४,१।२३: अनिमित्तनिमित्तत्वाद् नानिमित्ततः ॥
सिद्धान्त्येकदेशिमतमुद्भाव्य दूषयति ।
अपरे त्विति ( ४६८।९ ) ॥ २३ ॥
न्य्स्_४,१।२४: निमित्तानिमित्तयोरर्थान्तरभावादप्रतिषेधः ॥
स्वयं वार्तिककारः कण्टकादीनामनिमित्ततां विकल्प्य दूषयति ।
कण्टकादीनामनिमित्तं जन्मेति ।
प्रतिपाद्यप्रतिपादकन्यायस्येति ।
( ४६९।२ ) प्रतिपाद्यः पुरुषः कर्म, प्रतिपादकश्च पुरुषः कर्ता, कर्तृकर्मणी च कारके, कारकं च क्रियाया निमित्तमिति प्रतिपाद्यप्रतिपादकविषयो न्यायः स चायमनिमित्तं शरीरादीनां जन्मेति प्रतिजानानेनानेनाभ्युपेयते ।
अन्यथा तेमूकतैव स्यादिति ।
तदिदमुक्तं सर्वं चामिमित्तं प्रतिपादयसि चेति व्याहतम् ।
न केवलं प्रतिपाद्यप्रतिपादकन्यायाभ्युपगमादितो ऽपीत्याह ।
वाक्योपादानाच्चेति ।
प्रतिपादननिमित्तं वाक्यमुपादत्से अभिधत्सेचानिमित्तं सर्वमिति व्याघात इत्यर्थः ।
तथा ऽप्यन्यतरधर्मासिद्ध
इति ।
अन्यतरेण साध्यधर्मेणानिमित्तत्वाख्येनासिद्धो ऽनिमित्तत्वस्यैवासिद्धेः ।
ननु प्रतिवादिनो वाङ्न्यात्रेण न सिद्धमसिद्धं भवत्यतिप्रसङ्गादित्यत आह ।
संस्थानविशेषवत्त्वस्य भावात् ।
पटादिदृषन्तेन कण्टकादीनां सनिमित्तकत्वस्य प्रामाणिकत्वेन वाङ्न्यात्रादसिद्धेरिति ।
कस्मात्पुनः पूर्व पक्षः स्वयं सूत्रकारेण न निराकृत इत्यत आह भाष्कारः स खल्वयं वादो ऽकर्मनिमितित्त इति ॥ २४ ॥
न्य्स्_४,१।२५: सर्वमनित्यम् उत्पत्तिविनाशधर्मकत्वात् ॥
अन्ये तु मन्यन्ते ।
सर्वमनित्यमुत्पत्तिविनाशधर्मकत्वादिति ।
हेतोर्गकत्वं दर्शयितुं पृच्छति ।
किमनित्यमिति ।
उतरं यस्य कदा चिद्भावः ।
हेत्वर्थं विवृणोति उत्पत्तीति ।
यद् उत्पत्तिधर्मकर्मनुत्पन्नं नास्ति तद् उत्पन्नं चास्ति विनाशधर्मकं च विनष्टं नास्ति अविनष्टं चास्ति तस्मात्पूर्वापरयोः कालयोरभावान्मध्ये च भावात्सिद्धं कदाचिद्भावलक्षणमनित्यत्वमुत्पत्तिविनाशधर्मकत्वादित्यर्थः ।
साध्यधर्मिरूपं पृच्छति, किं पुनरिति ।
उत्तरं भौतिकं चेति ।
अत्र तावत्स्वयं वार्तिककार
उत्तरमाह ।
सर्वमनित्यमिति सूत्रस्य दृष्टान्तार्थत्वादिति ।
( ४७०।१ ) अर्थशब्दो निमित्तवचनः दृष्टान्तनिमित्तत्वात् सूत्रस्य प्रतिज्ञाहेतूपन्यासपरस्य ।
न दृष्टान्तं विना हेतुः प्रतिज्ञातार्थस्य गमको यत
इत्यर्थः ।
एतदेव विभजते सर्वमनित्यमिति ।
निराकरणान्तरमाह उत्पत्तिविनाशधर्मकत्वादितिचायमिति ॥ २५ ॥
न्य्स्_४,१।२६: नानित्यतानित्यत्वात् ॥
सिद्धान्त्येकदेशिमतमुपन्यस्य दूषयति ।
नानित्यतानित्यत्वादिति ॥ २७-२८ ॥
न्य्स्_४,१।२७: तदनित्यत्वम् अग्नेर्दाह्यं विनाश्यानुविनाशवत् ॥
न्य्स्_४,१।२८: नित्यस्याप्रत्याख्यानं यथोपलब्धि व्यवस्थानात् ॥
परमसिद्धान्तं सूत्रोक्तमाह ।
अयं खल्विति ।
अथोच्चते न वयं सर्वमनित्यं साधयामो ऽपि तु यस्पय यस्यानित्यता नामास्ति धर्मस्तत्सर्वमनित्यमिति ।
ततश्चाकाशादीनां नित्यत्वे ऽपि नास्मत्पक्षक्षतिरिति तदेतत्सिद्धसाधनेन दूषयति ।
अनित्यताभावाच्च सर्वमनित्यमिति न दोष इति ।
( ४७१।५ ) यस्य सन् धर्मीस्वं तद्योगादनित्यः स्यात्स एव कदाचिन्नास्तीत्यत आह ।
अनित्यत्वं नाम धर्मः सो ऽसति धर्मिणि न भवतीति ।
स्यादेतद् उत्पत्तिविनाशधर्मकत्वावगतावनित्यतायोगाद्
घटादि भवत्वनित्यं तेनैव दृष्टान्तेन सत्त्वादाकाशादयो ऽपि भविष्यन्त्यनित्या इति देशयति ।
अथ पुनरिति परिहरति ।
तस्याप्युत्तरपदसिद्धौ तत्पदार्थस्य नित्यत्वस्य सिद्धेरिति ॥ २८ ॥
न्य्स्_४,१।२९: सर्वं नित्यं पञ्चभूतनित्यत्वात् ॥
अयमपर एकान्तः— सर्वं नित्यं कस्मात्पञ्चभूतनित्यत्वात् ।
पञ्चभूतात्मकं खल्वेतद् गोघटादिकार्यमुपलभ्यते व्यपदिशन्ति हि मृद् घटो सृच्छरीरमिति ।
भूतानि च नित्यानि तेषामुच्छेदस्य नैयायिकैरनभ्युपगमात् ।
तेन भूतानां गोघटादीनां नित्यतेति पूर्वः पक्षः ॥ २९ ॥
न्य्स्_४,१।३०: नोत्पत्तिविनाशकारणोपलब्धेः ॥
भूतेभ्यो भौतिकानि भिन्नानि न हि परमसूक्ष्माः परमाणवो गोघटादयः ।
परमाणुवत्तेषामतीन्द्रियत्वे सर्वाग्रहप्रसङ्गादित्युक्तं द्वितीये ऽध्याये ।
तस्माद्ग्रहणाग्रहणविरुद्धधर्माध्यातयोगादन्वे भौतिका भूतेभ्यः ।
तथा च तेषामुत्पत्तिविनाशकारणोपलब्धेर्न नित्यत्वं भूनित्यत्वे ऽपीति सिद्धान्तमाह ।
नोत्पत्तिविनाशकारणोपलब्धेरिति ॥ ३० ॥
न्य्स्_४,१।३१: तल्लक्षणावरोधादप्रतिषेधः ॥
भूतसारूप्येण तादात्म्यं मन्यमानः पुनरपि पूर्वपक्षवाद्याह ।
तल्लक्षणावरोधाद्गोघटादीनां भूतनित्यत्वेन नित्यत्वाप्रतिषेधः ॥ ३१ ॥
न्य्स्_४,१।३२: नोत्पत्तितत्कारणोपलब्धेः ॥
भूतसाम्यं गोघटादीनां भूतकार्यत्वे ऽप्युपपद्यमानं न भूतात्मकत्वमवगमयतीत्याशयवानाह ।
नोत्पत्तितत्कारणोपलब्धेरिति ।
(३२) अपि च यद्युत्पत्तिविनाशौ न भावानां वस्तुसन्तौ कथ प्रेक्षावतामभिमतोत्वपत्तिकारणे ऽनभिमतविनाशकारणे च तदर्थिनां प्रवृत्तिरित्याह ।
उत्पत्तिविनाशकारणेति ।
अपि चाव्यापको हेतुरित्याह शब्दकर्मबुद्ध्यादीनां चाव्याप्तिः ।
अव्यापकश्चानैकान्त उक्तः ।
पक्षो हि सर्वं नित्यमिति ।
( ४७१। ० ) तस्मिन्सत्वासत्त्वाभ्यामनेकान्तः
नैकः सत्त्वासत्त्वलक्षणो ऽन्तो ऽस्येत्यनेकान्त इति ।
तदेतद्वार्त्तिककारो वक्ष्यत्यर्थदृष्ट्या पक्षस्यान्तद्वये ऽवस्थानादिति ।
हेतोरन्तद्वये सत्त्वासत्त्वरूपे पक्षस्यावस्थानादिति योजना ।
असति बाधके मिथ्यात्वकल्पनायामतिप्रसङ्ग इत्यमुमर्थं शङ्कानिराकरणाभ्यामाह स्वप्नविषयेत्यादि ।
भाष्योक्तमर्थमुक्त्वा स्वयं वार्तिककार
आह ।
सर्वस्य चेति ।
यावद्येन प्रतिपाद्यत इति ।
प्रतिपादनेन क्रियत इत्यर्थः ।
शेषमतिरोहितार्थम् ।
न्य्स्_४,१।३३: न व्यवस्थानुपपत्तेः ॥
तदेवं साङ्ख्यानां मतमपास्य स्वायम्भुवानां मतमपाकर्तुमुपन्यस्यति ।
अपरे सर्वं नित्यमित्यन्था वर्णयन्ति ।
त्रिविधः खल्वयं धर्मिणः परिणामोधर्मलक्षणावस्थारूपः
तद्यथासुवर्णं धर्मि तस्य परिणामो वर्धमानरुचकादिः
धर्मस्य तु लक्षणपरिणामो ऽनागतादि ।
यदा खल्वयं सुवर्णकारो वर्धमानकं भङ्क्त्वा रुचकं रचयति तदा वर्धमानको वर्त्तमानलक्षणं हित्त्वातीतलक्षणमापद्येते रुचकं त्वनागतलक्षणं हित्वा वर्त्तमानतामापद्यते वत्तमानतापन्न
एव तु रुचको नवपुराणभावमापद्यमानो ऽवस्थापरिणामवान् भवति ।
नवपुराणावस्थाश्च वर्त्तमानलक्षणाश्रया लक्षणपरिणामाः सो ऽयं त्रिविधः परिणामो धर्मिणः धर्मलक्षणावस्थाश्च धर्मिणो भिन्नाश्चाभिन्नाश्च ।
तथा च ते धर्म्यभेदान्नित्याः
भेदाच्चोत्पत्तिविनाशविषत्वमित्युभयमुपपन्नम् ।
ननु यद्युपजनापायधर्मकत्वं धर्मिणां हन्तोत्पत्तेः प्राक्तेषा मसत्वाद्विनाशाच्चोर्द्धमसत्वात्कथं सर्वनित्यत्वसिद्धिरित्यत आह यच्चोपजायते तत्प्रागप्युपजनादस्ति ।
धर्मिरूपेणेति शेषः ।
तन्निवृत्तमप्यस्तीति ।
अत्रापिप धर्मिरूपेणेति शेषः ।
निराकरोति ।
न व्यवस्थानुपपत्तेः (सू। ३३) ॥
उपजनापाययोः स्वरूपतः कालतो विशेषतः सम्बन्धितो ऽनागतत्वादिव्यवस्थानुपपत्तिरित्यर्थः ।
एतदुक्तं भवति न तावद्भेदाभेदो परस्परपरीहारव्यवस्थितधर्मावेकत्र समाविशतः ।
तस्मादुपजनापायव्यवस्थायै भेदं धर्मलक्षणावस्थानां धर्मिण इच्छता तेषामतित्यत्वमभ्युपेतव्यम्, साङ्ख्यवत्सकार्याभ्युपगमेन तु नित्यत्वव्यवस्थापने वार्त्तिककार आह ।
यच्च निवर्त्तते तन्निवृत्तमप्यस्तीति ब्रुवाण
इति ।
सुगमम् ॥ ३३ ॥
न्य्स्_४,१।३४: सर्वं पृथग् भावलक्षणपृथक्त्वात् ॥
अयमप्यन्य एकान्तो बौद्धानां सर्वं पृथक् कस्माद् भावलक्षणपृथक्त्वात् ।
न रूपाद्यतिरिक्तं द्रव्यं नाम किं चिदस्ति नाप्यवयवातिरिक्तः कश्चिदस्त्यवयवीति सौत्रान्तिका वैभाषिकाश्च प्रपतिपेदिरे ॥ ३४ ॥
न्य्स्_४,१।३५: नानेकलक्षणैरेकभावनिष्पत्तेः ॥
तान्निराकरोति ।
नानेकलक्षणैरेकभावनिष्पत्तेः (सू। ३५) ॥
अनेकविधैर्लक्षणैः सम्बद्धस्यैकस्य भावस्य घटादेरवयविनो निष्पत्तेरिति ॥ ३५ ॥
न्य्स्_४,१।३६: अथापि लक्षणव्यवस्थानादेवाप्रतिषेधः ॥
अथापीति ।
अपि चेत्यर्थः ।
अणुसमूहे चागृह्यमाण इति ।
परमसूक्ष्मत्वेनातीन्द्रियत्वादित्यर्थः ।
अथाप्येतदनूक्तमिति ।
अपि च भावलक्षणपृथत्कादिति हेतुमुत्का बोद्धेन पश्चादेतदुक्तम्, किं तदुक्तमित्यत
आह ।
नास्त्यको भावो यस्मात्समुदाय
इति ।
एतदनूक्तं दूषयति ।
एकानुपपत्तेर्नास्त्येव समूहः ।
अनूक्तं विवृणोति ।
नास्त्येको भावो यस्मात् समूहे भावशब्दप्रयोगः ।
अस्य दूषणं विवृणोति ।
एकस्यानुपपत्तेरिति ।
एततप्रपञ्चयति एकसमुच्चयो हीति ।
नास्त्येको भाव इति यस्य भावस्यैकत्वप्रतिषेधः प्रतिज्ञायते समूहे भावशब्दप्रयोग इति ब्रुवता स एवाभ्यनुज्ञायते ।
ननु समूहो ऽभ्यनुज्ञायते न त्वेको भाव इत्यत आह ।
एकसमुच्चयो हि समूह इति ।
तदेनन प्रतिज्ञाया हेतोर्व्याघात
उक्तः ।
सम्प्रति प्रतिज्ञाया हेतुना व्याघात
इत्याह समूहे भावशब्दप्रयोगादिति चेति ।
वार्त्तिकम् ।
अस्य प्रयोग इति ।
( ४७५।९ ) कुम्भशब्दो ऽनेकविषय इति पारमार्थिकानेकविषयः काल्पनिकं तु कुम्भस्यैकत्वं न वार्यते तथा चैकपदमित्येकपदेन व्यभिचारः तस्यापि पारमार्थिकानेकविषयत्वादित्यर्थः ।
स्यादेतद्
घटादिशब्देभ्यो रूपादीनां बुध्नादीनां च बहूनामवगमात् कथमेकार्थतेत्यत आह ।
आधाराधेयभावेति ।
यदि नानार्थता ऽपि भवति घटादिशब्दानां तथा ऽपि प्रत्येकमेकत्वं तदर्थानामशक्यापह्नवमिति न पूर्वपक्षिणो ऽभिमतसिद्धिरिति ।
उपेत्य तूच्चते अनेकार्थत्वमप्यत्र न सम्भवतीति ।
समूहे भेदस्य चानवस्थादिति ।
( ४७६। १९) यदि समूहमात्रमेव न त्वेकं किं चिदस्ति तथा सति घटलक्षणे समूहे भेद्यमाने नाल्पतरतमादिभेदः प्रतीयेत घटादिकपालशर्कराचूर्णपरमाणूनां समूहत्वेनानन्तावयवत्वादयं महानयमल्पो ऽल्पतर
इति विभागो न स्यात् ।
तस्मादनेन तारतम्यं समर्थयमानेन क्व चित् समूहनिवृत्तिर्वाच्यान चासावसमूहमेक मन्तरेणेत्येको ऽभ्युपेयतैत्यर्थः ।
उक्तमर्थमविद्वान् शङ्कते ।
अथ मन्यस इति ।
(४७७।५) रूपादीनां समुदाय इति चत्वारि वाद्रव्याणीति चावान्तरदर्शनभेदविवक्षया द्रष्टव्यम् ।
उक्तार्थदर्शनेनोत्तरम् ।
एतस्मिन् वै दर्शन
इति१ अथानन्तं समुदायं प्रतिपद्यस इति निराकृतस्यापि पुनराशङ्का आगमविरोधमापायितुम् ।
एकानुपपत्तौ नानेकोपपत्तिरिति ।
यत्तदनेकमुक्तमेतत् त्याज्यमिति ।
शेषं भाष्यव्याख्यया व्याख्यातम्
॥ ३६ ॥
न्य्स्_४,१।३७: सर्वमभावो भावेष्वितरेतराभावसिद्धेः ॥
सम्प्रति शून्यतावादिनमुत्थापयति ।
अयमपर एकान्तः ।
(४७८।१) सर्वमभाव इति प्रतिज्ञा ।
अत्र हेतुर्भावेष्वितरेतराभावसिद्धेरिति ।
सर्वमिदं प्रमाणप्रमेयप्रमितिरूपमभावस्तुच्छम् ।
भावेष्वितरेतराभावसिद्धेरिति ।
वार्त्तिककारो व्याचष्टे असत्प्रत्ययभावप्रतिषेधाभ्यां भावशब्दसामानाधिकरण्यात् ।
प्रमाणादयः खल्वमी परस्परानात्मकतया असदिति प्रत्ययस्य नञश्च गोचरा इत्यनुभूयन्ते अतस्तद्वाचिनां शब्दानां तत्सामानाधिकरण्यं ततः प्रमाणादयो ऽसन्तः अनुत्पन्नप्रध्वस्तपटवत् ।
अपि चामी भावा नित्या अनित्या वा नित्यत्वे सर्वसामर्थ्यरहितस्यासत्त्वम् ।
न हि नित्यं क्व चित्कार्यौपयुज्यते क्रमाक्रमानुपपत्तेरित्युक्तम् ।
अनित्यत्वे तु विनाशस्वभावाश्चेद् द्वितीयादिक्षणैव प्रथमक्षणे ऽपि न स्युः ।
सत्त्वे वानामी विनाशस्वभावाः
अतत्स्वभावत्त्वे वा क्षणान्तरे ऽपि न विनश्येयुः ।
नो खलु नीलं स्वकारणादुपजातं जातु कारणसहस्रैरपि शक्यं पीतं कर्त्तुमिति विनाशस्वभावकत्वमकामेनापि अनित्यानामेषितत्यम् ।
तस्माद्भावानां शून्यतैव पारमार्थिकी कल्पनया त्ववस्तुसत्या सन्तैवावभासन्त इति युक्तमुत्पश्यामः ।
तथा च सर्वे भावा इति ।
सर्वे भावशब्दा इत्यर्थः ।
प्रयोगश्च सर्वेभावशब्दा असद्विषयाः असत्प्रत्ययप्रतिषेधाभ्यां सामानाधिकरण्यात् ।
अनुत्पन्नप्रध्वस्तपटशब्दवत् ।
अत्र तावदुत्सूत्रं भाष्योक्तं दूषण वार्त्तिककार आह ।
प्रतिज्ञापदयोः प्रतिज्ञाहेत्वोश्च व्याघात इति ।
अभिन्नविभक्तिकत्वमभिन्नार्थकविभक्तिकत्वं न त्वभिन्नविभक्तिकत्वमेव, भिन्नविभक्तिकानामपि सामानाधिकरण्यात् ।
यथा चैत्रः पठतीति ।
यथा च न त्वां तृणाय मन्य इति ।
नामति तत्प्रत्ययेन भवितुमिति ।
न ह्यत्यन्तासन्निरूपाख्यं सर्वमिति वा भाव इति वा ऽभिधानस्पय गोचरः उपपादितं हि द्वितीयसूत्र एव यथा ऽसद्वा ऽनिर्वचनीयं वा न ख्यातिगोचरो ऽपि तु सदेव सदन्तरात्मना,
तथा च कुतो ऽत्यन्तासतः कल्पनागोचरत्वमपीति ।
शेषं भाष्य इति ।
प्रतिज्ञाहेतोर्व्याघातो भाष्ये प्रपञ्चित इति ॥ ३७ ॥
न्य्स्_४,१।३८: न स्वभावसिद्धेर्भावानाम् ॥
उत्सूत्रमुत्का भाष्यकारः सौत्रं दूषणं वक्तुमाह ।
सूत्रेण चाभिसम्बन्धो दूषणस्य ।
न स्वभावसिद्धेर्भावानाम् (सू। ३८) ॥
सर्वमभाव इति नास्ति ।
कस्मात्स्वभावसिद्धेर्भावानां स्वभावो धर्मो द्रव्यादीनां सदादिः ।
अथ वा स्वभावः स्वरूपं भावानां येनामी भावाः स्वभावाद्व्यावर्त्तन्ते ।
यद्वा असन्निति प्रत्ययस्य गव्यश्वात्मनेति विशेषणात् ।
अगौरित्यस्य गां परिहृत्याश्वादिभिः सम्बन्धाद्गोभावसिद्धेरेवमश्वादिष्वपीति स्वभावसिद्धेर्भावानां नाभाव इत्यर्थः ।
न स्वभावसिद्धेरिति सूत्रमनूद्य वार्त्तिकारः स्वरूपमात्रेण व्याख्यायं प्रश्नपूर्वकं तात्पर्यमस्य दर्शयति ।
पूर्वसूत्रस्येति ।
( ४७९।५ ) कश्चस्वभावैत्यादिना सिद्धो भाव इत्यन्तेन सूत्रस्य व्याख्यानत्रयं भाष्यकारीयं वार्त्तिककारो दर्शयति ।
सामान्यो धर्मः समानो नित्यत्वादिरित्यर्थः ।
प्रश्नपूर्वकमसत्प्रत्ययप्रतिषेधसामानाधिकरण्यं भावस्योपपादयति ।
कथं तर्हीति ।
( ४८०।२ ) असच्छब्दः खल्व भावविशेषणं सदेवाभिधत्ते शुक्लगुणविशिष्टे पटे वर्त्तते तथा चासत्प्रत्ययाभिधानयोरुपपन्नं भाववाचिना पदेवन सामानाधिकरण्यमित्यर्थः ।
भावश्च कश्चिन्नित्यः कश्चिदनित्यः तत्र नित्यस्यार्थक्रियाकारित्वमुपपादितं क्षणभङ्गभङ्ग एव ।
अनित्यो ऽपि न विनाशस्वभावो भावः किं तु स्वकारणादयं सत्स्वभावो जातः कारणान्तरात्तु विनश्यति ।
यतूक्तं नीलं शक्यं न पीतं कर्त्तुमिति ।
तत्र ब्रूमः शक्य एव नीलः पटः पीतः कर्त्तुम् आमश्यामो घटो वह्निसंयोगाद्रक्तः ।
अथ नीलत्वं न पीतत्वं शक्यं कर्तुं ननु भावो ऽपि नाभावः कर्त्तुं शक्य इति ।
यथैव कुम्भाधिकरणे श्यामरक्तत्वे पर्यायेण भवतः एवं कपालाधिकरणौ कुम्भभावाभावावित्यदोषः
॥ ३८ ॥
न्य्स्_४,१।३९: न स्वभावसिद्धिर् आपेक्षिकत्वात् ॥
स्वभावसिद्धेरिति यदुक्तं तदाक्षिपति शून्यवादी ।
न स्वभावसिद्धिरापेक्षिकत्वात् (सू। ३९) ॥
सर्व एवं हि भावा भिन्नस्वभावा भिन्नत्वं च तेषामन्यापेक्षम् ।
तथा हि नीलं भिन्नं पीताद्यपेक्षया न तु स्वभावतः एवं ह्रस्वत्वदीर्घत्वपरत्त्वापरत्वपितापुत्रत्वादयः परस्परापेक्षा द्रष्टव्याः ।
यच्च परापक्षं तन्न स्वाभाविकं यथा जपाकुसुमापेक्षं स्फटिकस्य रक्तत्वमित्याक्षेपार्थः ॥ ३९ ॥
न्य्स्_४,१।४०: व्याहतत्वादयुक्तम् ॥
समाधत्ते ।
व्याहतत्वादयुक्तम् (सू। ४०) ॥
तद्व्याचष्टे यदीति ।
ननु यद्यनेन क्रमेणोभयाभावो भवति भवतु सिद्धमेव नः समीहितमित्यत आह ।
अपेक्षायामनपेक्षायां चेति ।
परिमाणभेदो हि दीर्घत्वं ह्रस्वत्वं च स च भावानामौत्पत्तिकः केवलं तस्यातिशयानतिशयौ परस्परग्रहणाधीनौ ।
तथा हीक्षुयष्टेर्वेणुयष्टितो ह्रस्वत्वं पूर्वसङ्ख्यायोगिहस्तपरिमितत्वमनतिशयः
वेणुयष्टेर्दीर्घत्वमतिशयः परसङ्ख्यायोगिहस्तपरिमितत्वं तच्चेदं प्रतियोगिनिरूपणाधीननिरूपणम्,
न तु प्रतियोग्यधीनोत्पत्तीति, न वस्तुधर्मो ऽयं परापरापेक्षः ।
भिन्नत्वं च भेदः स च वस्तुविशेषणं नोत्पत्तौ वस्त्वन्तरमपेक्षते किं तु स्वनिरूपणे ।
एवं पितृत्वमपि व्यवस्थिता जनकशक्तिरेव सा जन्यनिरूपणाधीननिरूपणा न तु तदधीनोत्पत्तिः ।
विपञ्चितं चैतदस्माभिर्ब्रह्मतत्त्वपरीक्षायाम् ।
परत्वापरत्वादयस्त्वपेक्षाबुद्धिनिमित्ततया परापेक्षोत्पत्तिका अपि लोकयात्रां वहन्तो न शक्याः प्रत्याख्यातुम् ।
न चैतावता तदधिकरणं भावो न निरपेक्ष इति सर्वमवदातम् ।
स्यादेतत् अपेक्षामात्रमेव दीर्घत्वादयो भविष्यन्ति कृतमेषां वस्तुस्वभावेनेत्यत
आह ।
स्वभावसिद्धौ चासत्यामिति ।
(४८१।१) अपेक्षा सामर्थ्यमपेक्षाप्रयोजनयोगः ।
स्वयंवार्तिककारो दूषणान्याह सर्वथा चायं व्याहत इति ।
निगदव्याख्यातम् ॥ ४० ॥
न्य्स्_४,१।४१: सङ्ख्यैकान्तासिद्धिः कारणानुपपत्त्युपपत्तिभ्याम् ॥
उत्तरसूत्रावतारपरं भाष्यम् ।
अथैते सङ्ख्यैकान्तवादाः सङ्ख्या एकान्तो येषु वादेषु ते तथोक्ताः ।
अथ शून्यतावादानन्तरं ते परीक्ष्यन्तैत्यर्थः ।
तत्र प्रथमं ब्रह्माद्वैतमुत्थापयति ।
सर्वमेकं कुतः सदविशेषात् ।
इदमस्याकूतम् ।
न तावदयं नामरूपप्रपञ्चः प्रकाशाद्भिन्नः सन् प्रकाशितुमर्हति ।
जडस्य स्वयम्प्रकाशासम्भवात् ।
न च प्रकाशयोनगात्प्रकाशत इति युक्तम् ।
न खल्वान्तरेण प्रकाशेनास्य कश्चिद्योगः सम्भवति ।
विषयविषयिभावः सम्बन्ध इति चेन्न ।
तत्राकिञ्चित्करस्य विषयित्वासम्भवात् ।
न चार्थे ज्ञानं फपवलं जनयतीति साम्प्रतम् ।
अतीतानागतयोरर्थयोस्तदसम्भवात् ।
न च न तयोर्विषयभावः ।
तस्मात् ज्ञानाद्भिन्नस्य नामरूपप्रपञ्चस्य न प्रकाशसम्भव इति ज्ञानस्यैवायं विवर्त्त इति युक्तमुत्पश्यामः ।
न च प्रकाशात्मनो घटादय एवोदयव्ययधर्मिणः परस्परव्यावृत्ताः सन्त्विति साम्प्रतम् ।
तद्व्यावृत्तिग्रहे प्रमाणाभावात् ।
सा हि यद्यतो वयावर्तते तदुभयग्रहे गृह्यते न च विज्ञानानि विलक्षणानि स्वरूपमात्रावस्थितानि परस्परवार्त्तानभिज्ञानि ज्ञानान्तरमपि ग्रहीतुमुत्सहन्ते प्रागेव स्वस्माद्व्यावर्तयितुम् ।
न च निषेध्यनिषेधाधिकरणग्रहणकारणको व्यावृत्तिग्रहः स्वकारणेन समसमयोत्पादो भवितुमर्हति ।
तादृशोः सव्येतरविषाणवत्कार्यकारणभावाभावात् ।
न चैकं विज्ञानं क्षणिकं निषेध्यनिषेधाधिकरणे गृहीत्वा पश्चान्निषेधं गृह्णातीति युक्तम् ।
क्षणिकस्याक्रमस्य क्रमवद्व्यापारायोगात् ।
न चैकं विज्ञानं निषेध्यनिषेधाधिकरणे गृह्णाति अथ ज्ञानान्तरं निषेधतीति युक्तम् ।
चैत्रगृहीते ऽपि तस्मिन्यैत्रस्य निषेधज्ञानप्रसङ्गात् ।
न च ज्ञानस्वरूपग्रह एवास्य निषेध ग्रह इति साम्प्रतम् ।
एवं हि स भवेद्यदि स्वरूपतदन्यव्याववृत्त्योरेकत्वं भवेत् ।
तत्र व्यावृत्तिस्वभावो वा भावो भावस्वभाव वा व्यावृत्तिः ।
तत्र पूर्वस्मिन्कल्पे व्यावृत्तेस्तुच्छत्वात्तत्स्वभावा भवाभेदास्तुच्छाः स्युः ।
ततश्च वचोभङ्न्यन्तरेण शून्यबादप्रसङ्गः ।
उत्तरस्मिंस्तु कल्पे विधिरूपो भाव एव व्यावृत्तिरिति विधिरूपतया च ते व्यावर्त्तन्त इति न व्यावृत्ता भावाः परस्परं परमार्थतः तदिदमुक्तं सदविशेषादिति ।
(४८२।१) अनाद्यनिर्वचनीयाविद्यानिबन्धनं तु भावानां भेदं न व्यासेधामः ।
न च ज्ञातुरपि ज्ञानाद्भेदग्राहकमस्ति प्रमाणमुक्तादेव विशेषात् ।
तस्मान्न ज्ञेयानां परस्परतश्च ज्ञानाच्च भेदः ।
नापि ज्ञातुर्ज्ञानादसित भेदः
नापि ज्ञानानामन्योन्यस्य, तस्मात्प्रकाश एव स्वयं प्रकाशः कूटस्थनित्य आनदघनो ऽनाद्यविद्योपदर्शितविविधविचित्रनामरूपप्रपञ्चो ब्रह्मेत्यद्वैतसिद्धिः ।
अत एव श्रुतयो भवन्ति ।
ऽएकमेवाद्वितीयं ब्रह्म नेह नानास्ति किञ्च न ।
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यतिऽ इत्येवमादिकाः ।
तदेवमैकान्तिकमेकत्वमुपन्यस्य द्वित्वमैकान्तिकमाह सर्वं द्वेधा कुतः नित्यानित्यभेदात् ।
न हि नित्यानित्याभ्यामन्यो राशिरस्ति यमाश्रित्य पदार्थास्त्रित्वादिके व्यावतिष्ठेरन्निति ।
मतान्तरमाह सर्वं त्रेधा ।
तदेव दर्शयति ।
ज्ञाता ज्ञेयं ज्ञानमिति ।
ज्ञप्तिरपि ज्ञायमानत्वाज्
ज्ञेयान्नातिरिच्यत इति भावः ।
मतान्तरमाह ।
सर्वा चतुर्धा ।
दर्शयति ।
प्रमाता प्रमाणं प्रमेयं प्रमितिरिति ।
यदि प्रमितिर्नाम तत्त्वं प्रमाणादिभ्यो भिन्नं नाश्रीयते प्रमायाः प्रधानक्रियाया अभावात्कथं प्रमात्रादयः ।
कथं च प्रधाक्रियामन्तरेणैकवाक्यता स्यात् कारकवैचिश्यं वा ।
प्रमायाः फलत्वावस्थाया उपरि प्रमेयव्यपदेशं न वारयामः ।
न चैतावता तत्त्वान्तरं न भवति ।
इति ।
एवं यथासम्भवमन्ये ऽपीति ।
प्रकृतिपुरुषाविति वा पञ्चस्कन्धा इति वा पशुपाशतदुच्छेदेश्वरा इति वेत्यादयः ।
तत्र परीक्षां सङ्ख्यैकान्ततानिराकरणरूपान्तां दर्शयति सूत्रेण ॥
सङ्ख्यैकान्तासिद्धिः कारणानुपपत्त्युपपत्तिभ्याम् (सू। ४१) ॥
अनवयवेन सर्वं चेदेकं द्वेधा त्रेधा चतुर्धा चेति प्रतिज्ञार्थः ? तदतिरिक्तं साधनं वाच्यम् ।
न हि साध्यमेव साधनं भवति ।
तथा च साधनस्य तदतिरेकान्न सेख्यैकान्तसिद्धिः,
न च किं चिदपि स्वसंवेदनमस्ति, ज्ञानप्रदीपादीनामपि परसंवेद्यत्वात् ।
यथा च ज्ञानातिरिक्तो ऽप्यर्थो विषयस्तथा विज्ञानवादनिरासावसरे वक्ष्यते ।
न च विज्ञानादर्थस्य भेदो ऽशक्यग्रहः ।
तथा हि नीलमुपलभ इत्यनुहङ्कारास्पदमश्वेतादिरूपं नीलं प्रतयात्ममनुभवगोचरः एवं नीलादीनामपि परस्परम् ।
अन्यथा घटमानयेति देशितो नयने निमील्य शयीत, शयीथा इति देशिते तोयमाहरेत् ।
कस्य चित् कुतश्चित्कथं चिद्विवेचकाभावात् ।
न चानिर्वचनीयानाद्यविद्यानिबन्धनो ऽयं भेदव्यवहार इति साम्प्रतम् ।
अनिर्वचनीयख्यातेः पूर्वमेव निराकृतत्वात् ।
तस्मात्सर्वजनसंवेदनसिद्धो ऽयं भेदप्रत्ययो न कारणमुखनिरीक्षणेन युक्तो निराकर्तुम् ।
अपि तु स्पष्टदृष्टात्कार्याद्भेदप्रत्ययलक्षणात्तादृशं तत्कारणं कल्पनीयं यादृशेन तत्कारणेन प्रपञ्चप्रत्ययो ऽप्रत्यूहमुत्पद्येत ।
तच्च प्रत्यक्षमेव ।
तथा हि तन्नीलं परिच्छिन्दत्पीतादिभ्यो ऽस्य भेदं परिच्छिनत्ति संयुक्तविशेषणतालक्षणादिन्द्रियार्थसन्निकर्षात् ।
नीलं हि नीलमित्यनुभवन् पीतादिकं च पीतादिकमित्यनुभवन्स्मरन्वा शक्नोति निषेध्यनिषेधाधिकरणतया समाकलयितुं रूपमात्रेणागृहीतपरस्पभेदमपि ।
न हि तन्न भेदेन प्रथतैत्यभेदेन प्रथेत।न येनानयोर्नीलपीतयोर्गृहीतस्वरूपयोरवध्यवधिमद्भावो न स्यात् ।
तथा च तौ गृहीत्वा प्रत्यक्षेण शक्यो ऽनयोर्भेदो ग्रहीतुमित्यसाम्प्रतमेतत् ।
ऽअन्योन्यसंश्रयाद्भेदो न प्रमान्तरसाधनः ।
तस्मिन्निदं नायमयमिति भेदं विना नधीःऽ ।
एतेन प्रमातुरपि प्रमाया भेदो व्याख्यातः ।
प्रमातारश्चानेकविधसुखदुःखोपभोगव्यवस्थानाद्बधिरान्धकाणादिकोविदजाल्मसंसारिमुक्तविभागोपपत्तेश्च भेदवन्तो ऽनुमीयन्ते ।
एकस्मिन्नपर्यायेण विरुद्धधर्मसंसर्गासम्भवात् ।
कल्पनया कथञ्चित्सम्भाव्यमानो ऽप्ययं गोमयपायसीयन्यामावहति ।
तदेवं प्रत्यक्षविरोधादनुपपन्नार्थाः श्रुतय
ऽएकमेवाद्वितीयऽ मित्याद्याः प्रथमां वृत्तिमुल्लङ्घ्य जधस्यामवलम्बन्ते ऽयजमानः प्रस्तरऽ ऽआदित्यो वै यूपऽ इत्यादिवदिति ।
यदाह भगवान्
जैमिनिः— ऽगुणवादस्त्वितिऽ ऽतत्सिद्धिरितिऽ
चेति, तस्मान्नाद्वैतमिति ।
न्य्स्_४,१।४२: न कारणावयवभावात् ॥
साध्यात्साधनस्य भेदेन च सङ्ख्यान्तरैकान्ता अप्यपहृतार्था इत्युक्तम् ॥ ४१ ॥न्या। सू। ॥ ४ ॥ १ ॥ ४२ ॥ अत्र पूर्वपक्षवाद्याह—
न कारणावयवभावात् (सू। ४२) ॥
तद्व्याचष्टे कारणस्य साध्यावयवभावात् ।
एकस्य द्वयादीनां वा कश्चिदेकदेशः साधनं तथा च न सङ्ख्यान्तरं न च साधनभाव इत्यर्थः ॥ ४२ ॥
न्य्स्_४,१।४३: निरवयवत्वादहेतुः ॥
निराकरोति ।
निरवयवत्वादहेतुः (सू। ४३) ॥
अवयवभावादिति यदि साध्यस्य कश्चिदवयवो भवेन्न सङ्ख्यैकान्तः स्यादिति सर्वमेकमित्येतस्मिन्प्रतिज्ञार्थे न किं चिदपवृज्यते व्यावर्त्तते यतस्तत्साधनं स्यादित्यर्थः ।
अथ कस्मान्न साध्यमेव हेतुरित्यत
आह ।
आत्मनि चेति । (४०२।२०) चो हेतौ ।
अपि चैते सङ्ख्यैकान्ताः प्रत्यक्षादिप्रमाणविरोधान्मिथ्यावादा इत्याह ।
ते खल्विमे सङ्ख्यैकान्ता इति ।
खलुशब्दः समुच्चये ।
प्रक्रकोटरपाण्यादिविशेषकारितो योर् ऽथभेदः स्थाणुपुरुषादिः तत्प्रत्याख्यानेनेत्यर्थः ।
अथ विशेषकारितार्थभेदाभ्यनुज्ञानेन वर्तन्ते तथा ऽप्येकान्तत्वं जहति एकत्वादिसङ्ख्याया अनैकान्तिकत्वमित्यर्थः ।
अथ सामान्यकारित
इति (४८३।५) सङ्ख्यामात्रमङ्गीक्रियते न पुनरस्नया ऐकान्तिकत्वमित्यर्थः ।
तदस्माकमभिमतमेवेत्याह तथा ऽपि न किं चिद्बाध्यत इति ।
ये ऽप्याहुः सत्तासामान्यमेव तत्त्वं भेदास्तु काल्पनिका इति तान् प्रत्याह ।
न च भेदमन्तरेणेति ।
यदाहुः ।
ऽनिर्विशेषं न सामान्यं भवेच्छशविषाणवऽ
दिति ।
स्यादेतत् प्रेत्यभावपरीक्षायां क
एषामवसरो यदेते एकान्तवादाः परीक्ष्यन्त
इत्यत आह ।
ते इति ।
अद्वैतादिष्वेकान्तेषु प्रेत्यभावो न तात्त्विको भवेदपि तु काल्पनिकः
न केवलं प्रेत्यभावो ऽपि तु षोडशापि पदार्थाः ।
तस्मादेतेषां यत्तत्त्वज्ञानं तस्य प्रविवेकार्थं ज्ञेयप्रविवेकेन ज्ञानप्रविवेक
इति तदर्थमेते परीक्षिता इति ।
तदनेन प्रबन्धेन प्रेत्यभावः परीक्षितः ॥ ४३ ॥
न्य्स्_४,१।४४: सद्यः कालान्तरे च फलनिष्पत्तेः संशयः ॥
अथोद्देशक्रमानुरोधात्फलमिदानीं परीक्ष्यते ।
तत्राग्निहोत्रादीनां फलमनन्तरभावि कालान्तरभावि वेति संशयः ।
एतदुक्तं भवति ।
कर्मानन्तरं दुःखं च लोकपङ्क्त्यादि चोपलभ्यते प्रशंसन्ति हि लौकिका धार्मिको ऽयं साधुतम इति,
तत्किमेतावदेवास्य फलमस्तु अथामुष्मिकं स्वर्गादीति ।
किं प्राप्तं स्वर्गादिफलत्वे कर्मणः स्वरूपेणाकारणत्वाच्चिरनिवृत्ते तस्मिंस्तदुत्पत्तेः अपूर्वकल्पनायां च प्रधानाङ्गापूर्वाणि भूयांसि कल्पनीयानि न च तान्युत्पन्नमात्राणि जनयन्ति फलमिति तत्सहकार्यन्तराणि कल्पनीयानीत्यदृष्टकल्पनागौरवात् तदनन्तरदृष्टफलाबाधनाच्च, नास्याऽभुष्मिकं फलं स्वर्गादि, अपि त्वनन्तरदृश्यमानमेव ।
तत्रापि दुःखफलत्वे उपदेशव्याघाताल् लोकपङ्क्तिलाभख्यात्यादिकमेव फलं तच्च सुखहेतुतया कथं चित्स्वर्गादिपदेनोच्यते ।
दृष्टो हि सुखहेतौ स्वर्गपदप्रयोगो लोके यथा चन्दनं स्वर्गः सूक्ष्माणिवासांसि स्वर्ग इति प्राप्तम् ।
एवं प्राप्ते ब्रूमः ।
स्वर्ग पदस्य तावदर्थवादतो— ऽयन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् ।
अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदऽमिति सुखं प्रति वाचकत्वमवधारितम् ।
न च तद्वाचकत्वेनैव चन्दनादौ तत्प्रयोगोपपत्तावनेकार्थत्वकल्पनाप युक्ता ।
यदाहुरन्यायश्चानेकार्थत्वमिति ।
तस्मान्मुख्यो ऽयं स्वर्गशब्द उक्तभेदे सुखे ।
तथा च स्वर्गकाम इत्यत्र मुख्यार्थसम्भवे नोपचरितार्थता युक्ता ।
न चानेकादृष्टकल्पनाभयान्मुख्यार्थपरित्यागो न्याय्यः प्रमाणसिद्धे नियोगपर्यनुयोगानुपपत्तेः ।
यथा ऽहुः ।
ऽश्रुतिसिद्ध्यर्थमश्रुतोपलब्धौ यत्नवता भवितव्यं न तु श्रुतशैथिल्यमादरणीयऽमिति ।
तथा— ऽप्रमाणवन्त्यदृष्टानि कल्प्यानि सुबहून्यपिऽ ।
न चानन्तरदृश्यमानं लोकपङ्क्त्यादि होमाद्यनुष्ठानफलमपि तु तदुपलम्भफलम् ।
अदाम्भिकानां प्रच्छन्नमनुतिष्ठतामपि लोकपङ्क्यादेरभावात् ।
तस्मात्सुष्ठूक्तं न सद्यः कालान्तरोपभोग्यत्वादिति भाष्यम् ।
तथा प्रवृत्त्या संस्कारो धर्माधर्मलक्षणो जन्यत इति ।
नैष पुरुषसंस्कारः स्नानादिजन्य
इव बोद्धव्यो ऽपि तु पुरुषधर्मतामात्रेण संस्कार इत्युच्यते परमार्थतस्त्वयं धर्मः पुरुषाश्रयो ऽपि कर्मणा फले जनयितव्ये तस्यावान्तरव्यापार इति ।
वार्तिकं सद्यस्तापादिफलेतञ्
(४८४।१) अतिद्गुणसंविज्ञानो ऽयं बहुव्रीहिस्तापादीति ।
तेन लोकपङ्क्त्यादिकमुच्यते ॥ ४४ ॥
न्य्स्_४,१।४५: न सद्यः कालान्तरोपभोग्यत्वात् ॥
न्य्स्_४,१।४६: कालान्तरेणानिष्पत्तिर् हेतुविनाशात् ॥
न्य्स्_४,१।४७: प्राङ् निष्पत्तेर्वृक्षफलवत् तत् स्यात् ॥
स्वर्गः फलं श्रूयते इत्ययुक्तम्, स्वर्गकाम इति स्वर्गस्य पुरुषविशेषणत्वेन श्रवणादसाध्यत्वादत
आह ।
देशितया च क्रियया नानर्थिकया श्रवितव्यम् ।
आप्तोपदेशः खल्वयमुपदेश्यस्य कर्मणो ऽभिमतोपायतामाह तत्र कर्मणो ऽभिमतापेक्षायां पुरुषविशेषणस्याप्यपेक्षितत्वात्साध्यत्वमिति सिद्धम् ।
एवं हि लोकपङ्क्त्यादिरग्निहोत्राद्यनुष्ठानसाध्या भवेद् यदि तत्कामस्य स्वर्गकामस्येवाग्निहोत्राद्यनुष्ठानं देश्येत, न चैतदस्तीत्याह न च तापादिकाम
इति ।
लोकपङ्क्त्यादिकाम इत्यर्थः ।
शेषमतिरोहितार्थम् ॥ ४५ ॥ ४६ ॥ ४७ ॥
न्य्स्_४,१।४८: नासन् न सन् न सदसत् सदसतोर्वैधर्म्यात् ॥
इदमिदानीं चिन्त्यते किमेतत्फलमुत्पत्तेः प्रायसद्वा सद्वा सदसद्वा ऽनभयं वेति ।
अत्र समस्तपक्षाक्षेपेण फलाभावमभिधित्सुः पूर्वपक्षयति ।
तदिदं फलं निष्पत्तेः प्राक् ।
नासन्न सन्न सदसत् ।
सदसत् कस्मान्न भवतीत्यत आह ।
सदसतोर्वैर्ध्म्यात् ।
परस्परविरुद्धधर्मत्वाद् धर्मः स्वभावः
विरोधादित्यर्थः ।
अथानुभयं कस्मान्न भवतीत्यत
आह ।
नाप्युभयविपरीतमिति ।
सिद्धान्त्याह ।
प्रागुत्पत्तेरुत्पत्तिधर्मकमसदित्यद्धा ॥ ४८ ॥
न्य्स्_४,१।४९: प्रागुत्पत्तेरुत्पत्तिधर्मकम् असद् इत्य् अद्धा, कस्माद् उत्पादव्ययदर्शनात् ॥
ननु नासदुतपद्यते न सन्निरुद्ध्यतैत्याचक्षते साङ्ख्याः तत्कथमेतदित्यत आह ।
उत्पादव्ययदर्शनात्
(सू। ४९) ॥
यथा नित्यस्वरूपायाश्चितिशक्तेर्नोत्पादो न च व्यय एवं फलस्यापि नित्यस्य तौ न स्यातामित्यर्थः ।
न हि सत्पक्ष इति ।
(४८६।१) सत्कार्यपक्षैत्यर्थः ।
न किं चिज्जायत इति ।
न प्रतिज्ञावाक्यात्किञ्चित्तत्त्वज्ञानं सम्भवति ।
किं चिच्च सन्देहादि न विनश्यतीति ।
अज्ञानतिरो भावः संशयविपर्ययतिरोभावः ।
कारणस्य हि प्रधानस्य लक्षणं महान् लक्ष्यते हि महता प्रधानमिति ।
एवं तस्याप्यहङ्कारस्तस्य पुष्टिः स्थूलतेत्यर्थः ।
पश्चाद्भवतीति केवलकारणावस्थायाः पश्चादिति ॥ ४९ ॥
न्य्स्_४,१।५०: बुद्धिसिद्धं तु तद् असत् ॥
यच्चोक्तमुपादाननियमादिति ।
तत्र यदि पुरुषस्योपादाननियमः पटार्थी तन्तूनेवोपादत्ते न वीरणम्, कटार्थी वीरणमिति,
ततस्तदुपादानानां तत्र तत्र कार्ये सामर्थ्यपरिज्ञानात् तच्च सामर्थ्यमानुमानिकं तदिदमुच्यते ।
सू। बुद्धिसिद्धं तु तदसदिति ॥ ५० ॥ तदसद्भावि कार्यमनेनैव कारणेन जन्यते नान्येनेत्यनुमानाद्
बुद्धिसिद्धमेवेत्यर्थः ।
अथासत्कार्यपक्षे तन्तव
एव पटस्योपादानं न वीरणादीत्ययं नियमो न स्यादिति ब्रूषे तदयुक्तम्, असत्त्वाविशेषे ऽपि स्वकारणादुत्पन्नं किं चिदेव चित्कार्यं जनयितुं समर्थं नान्यदित्ययं स्वभावविशेषादुपपद्यत इति ।
अपि च सत्कार्यपक्षे प्रधानोपादानत्वाद्विश्वस्य तस्य चाभेदापवत्कारणात्मकत्वाच्च कार्यजातस्य सर्वं सर्वात्मकमितीदमिहनेदमिदमिदानीं नेदमिदमेवन्नेदमिति नियमो न स्यात् कस्य चित्कुतश्चिद्विवेकहेतोरभावात् ।
तस्मादस्ति रासभे ऽपि विषाण मिति तत्र तस्यासत्त्वं ब्रुवाणः स्वसिद्धान्तं बाधतैत्याह ।
असत्त्वाच्च खरविषाणं नोत्पद्यत इति ब्रुवाण
इति ।
सत्त्वे चासत्त्वे च समाने यस्य कारणमस्ति तदुत्पद्यत इति गुडजिह्विका ।
परमार्थतस्त्वसत्त्वे कारणसामर्थ्यनियमादुत्पत्तिनियमः कल्पते,
सर्वात्मना सर्वस्य सत्त्ववे तु न नियमहेतुरस्तीत्युक्तप्रापयम् ।
देशयति अथासत्कार्ये किं प्रमाणं ? न ह्यनुमानमस्मिन्नर्थे प्रमाणं भवितुमर्हति आश्रयासिद्धेः ।
नापि प्रत्यक्षं तेनाप्यसतः स्वातन्त्र्येणानिरूपणादिति भावः ।
विदिताभिप्राय उत्तरमाह नासत्त्ववे न सत्त्ववे ऽनुमानमस्ति ।
यथा ऽस्माकमाश्रयासिद्धिदोषादसत्त्वे कार्यस्य नानुमानम् ।
एवं भावे ऽपि कार्यस्य सत्त्वे नानुमानमाश्रयासिद्धेरेव ।
क्व तर्ह्यनुमानमित्यत
आह धर्मिण्यविप्रतिपत्तेरनुमानमस्तीति योजना ।
तथा सत्याश्रयो ऽस्यसिद्ध्यतीत्यर्थः ।
पुनः पृच्छति क्वेति ।
यदि धर्मिण्यविप्रतिपत्तिः क्व तर्हि विवादः ।
उत्तरं यदुभयेति ।
धर्म्यधिकरणान्
सत्कार्यवादिनामेव वादान्विभजते तान्प्रतीति ।
तन्तुमात्रं पट इति ।
तन्तुभ्यो ऽभिन्न इत्यर्थः ।
कार्यात्मनेति ।
कार्यं कारणाद्भिन्नाभिन्नमित्यर्थः ।
असत्कार्यपक्षस्तु स्वाभिमतः स्फुटत्वादवान्तरप्रतिबन्द्यभावाच्च नोपन्यस्तः ।
उपपादित इति द्वितीयाध्याये ।
प्रागुपलब्धिकालादिति ।
कारणव्यापारात् प्रागित्यर्थः ।
संस्थानविशेषशून्यतामात्रविवक्षया तुर्यादिदृष्टान्तो न तु प्रागभावो विवक्षितः ।
शक्तिविशेषावस्थिता इति कारणव्यापारात् प्रागिति शेषः ।
अत्र सिद्धसाधनं वयमपि ब्रमहे स्वव्यापारात्पटोत्पत्तिनिमित्तात्प्राक्
तन्तवः शक्तिविशेषावच्छिन्ना ऐवेति ।
परेषां सत्कार्यसाधनमुपन्यस्यति ।
विद्यमानाम्भिव्यक्त्यर्थास्तन्तवस्तदर्थिना नियमेनोपादानात् खनित्रादिवत् ।
(४८९।१)
यथा हि खनित्रं विद्यमानमेवोदकं मृदपनयनेन व्यनक्तीति ।
तदेतद् दूषयति ।
विद्यमानस्याभिव्यक्तिरसतीति अभिव्यक्तिवत्कार्ये ऽपि प्रसङ्गः ।
यथाव्यक्तेरसत्या एवोत्पादस्तथा कार्यस्याप्यसत पत्रोत्पाद
इत्यर्थः ।
खनित्रादिवदिति दृष्टान्तः साध्यविकल
इत्याह यदपीति ।
सा ऽप्राप्तिः कुतो भवतीति वक्तव्यमिति ।
प्राप्तिः खलु संयोगः स च गुणः
गुणश्च द्रव्यविनाशाद्विनश्येद् विरोधिगुणान्तराद्वा ।
तत्र तावदावरणद्रव्यमाव्रियमाणं वोदकं न विनष्टं येन तयोः संयोगो विनश्येत् ततस्तद्विरोधिगुणान्तरोत्पादो वक्तव्यः स एव च संयोगविरोधी गुणो विभाग
इत्युच्यतैत्यर्थः ।
प्राप्तेरभावो ऽप्राप्तिरिति पक्षं दूषयित्वा पर्युदासपक्षमाशङ्क्य दूषयति अथ प्राप्तेरिति ।
पुनः शङ्कते अथभिन्नदेशोत्पत्तिमिति ।
न च वयं संयोगं विभागं वा गुणमुपेमः ।
किं तु भिन्नदेशोत्पन्न एव द्रव्ये विभागो निरन्तरोत्पन्न एव संयोग इत्यर्थः ।
निराकरोति श्रिन्नदेश इति ।
विशेषणोपादानान्न भिन्नदेशोत्पत्तिर्विभागः कस्माद् उत्पन्ने उत्पन्नमिति भिन्नदेशतया भिन्नमिति विशेषणं हि स्वानुरिक्तं प्रत्ययं विशेष्ये जनयति, न त्वन्यानुरक्तम् ।
न खलु नीलं विशेषणमुत्पले रक्तप्रत्ययं जनयत्वभ्रान्तस्येत्यर्थः ।
अपि च क्षणभङ्गं भावानां व्यासेधद्भिरस्माभिर्भिन्नदेशोत्पत्तेः प्रतिषेधान्न भिन्नदेशोत्पत्तिर्विमागः ।
शङ्कते क्षणिकत्वाद्विभागस्येति ।
उत्पद्य हीन्द्रियसन्निकर्षाद्विभागेन स्वविषयं ज्ञानं जनयितव्यम् ।
न चैतावन्तं कालमसावस्ति क्षणिकत्वेनोत्पन्नापवर्गित्वादित्यर्थः ।
निराकरोति नसामान्याभिव्यक्तीति ।
(४९०।१) एतद्विभजते ।
पूर्वं तावदुत्पन्नो विभागः सामान्यं व्यनक्तीति ।
स्वकारणसमवायः सत्तासमवायो वा उत्पत्तिः ।
तद्विशिष्ट उत्पन्न
इत्युच्यते ।
येषां सामान्यग्रहपुरः सरं विशेषज्ञानं तन्मते न सामान्यं व्यनक्ति तदुत्तरकालं च स्वप्रत्ययं जनयतीत्युक्तम् ।
एतदुक्तं भवति न वयं बौद्धा इव पूर्वापरकालमात्रावस्थितिलक्षणां क्षणिकतां विभागादीनामाचक्ष्महे किं त्वाशुतरविनाशलक्षणां सा च द्वित्रादिक्षणस्थायिनां चिरस्थायिभ्योव घटादिभ्यो व्यावृत्तात्मा शक्यावक्तुमिति ॥ ५० ॥
न्य्स्_४,१।५१: आश्रयव्यतिरेकाद् वृक्षफलोत्पत्तिवदित्यहेतुः ॥
देहाद्यतिरिक्तमात्मानं नित्यं परलोकिनमसन्तं मन्यमान आह ।
आश्रयव्यतिरेकाद्वृक्षफलोत्पत्तिवदित्यहेतुः
(सू। ५१) ॥
मूलसेकफलोत्पादयोरेकवृक्षाश्रयत्वम् ।
कर्मणस्तु होमादेराश्रयः शरीरम् ।
न चामुष्मिकस्य स्वर्गादेः शरीरमाश्रयः तस्मिन्नष्टे ऽस्य भावात् ।
तस्मादाश्रयव्यतिरेकात्स्वर्गादेर्वृक्षफलोत्पत्तिवदित्ययं दृष्टान्तः स्वर्गफलत्वे होमस्याहेतुरित्यर्थः
॥ ५१ ॥
न्य्स्_४,१।५२: प्रीतेरात्माश्रयत्वादप्रतिषेधः ॥
अस्त्यात्मा स्वगौपभोगसमर्थः शरीरादिव्यतिरिक्तः कर्त्तेत्युषपादितमित्याशयवानाह ।
प्रीतेरात्माश्रयत्वादप्रतिषेधः (सू। ५२)
न्य्स्_४,१।५३: न पुत्रपशुस्त्रीपरिच्छदहिरण्यान्नादिफलनिर्देशात् ॥
अस्तु स्वर्गाद्यात्माश्रयं तथा ऽप्यव्यापको हेतुः पुत्रादिफलेभ्यो निवृत्तेरिति देशयति ।
न पुत्रपशुस्त्रीपरिच्छदहिरण्यान्नादिफलनिर्द्देशात् (सू। ५३) ॥
न्य्स्_४,१।५४: तत्सम्बन्धात् फलनिष्पत्तेस्तेषु फलवदुपचारः ॥
परिहरति ।
तत्सम्बन्धात्फलनिष्पत्तेस्तेषु फलवदुपचारः (सू। ५४) ॥
स्वर्गो ऽपि तावत्स्वर्गतया न काम्यते किं तु भोग्यतया ।
एवं सति कैव कथा पुत्रादिषु ।
ते ऽपि भोग्यतयैव काम्यन्ते न तु स्वरूपं भोग्यमिति तत्साध्यं सुखं भोग्यम् ।
तस्मात्पुत्रादिसम्बधात्तदुत्पत्तेः सुखोत्पत्तेः तेषु यथा फलशब्दप्रयोगस्तथा तेषु पुत्रादिष्वित्यर्थः ।
सूत्रार्थकथनेनैव भाष्यवार्तिकेव्याख्याते ॥ ५४ ॥
न्य्स्_४,१।५५: विविधबाधनायोगाद् दुःखमेव जन्मोत्पत्तिः ॥
फलानन्तरं दुःखपरीक्षणम्, तत्रेयं परीक्षा भवतु दुःखं बाधनालक्षणमनुभूयमानम्,
यत्पुनरिदं सुखं प्रत्यात्ममनुकूलवेदनीयं तत्कथं दुःखमनुभवविरोधात् ।
शरीरेन्द्रियबुद्धयश्च यदि दुःखहेतुतया दुःखं कस्मात्सुखहेतुतया सुखमेव न भवन्ति ।
सेयमतिभीरुता सकललोकयात्राविरोधिनी ।
यथाहुः ऽन हि मृगाः सन्तीति शालयो नोप्यन्ते ।
न हि भिक्षवः सन्तीति स्थाल्यो नाधिश्रीयन्तऽइति ।
तस्मान्मांसार्थीव कण्टकानुद्धृत्त्य मांसमश्नन्नानर्थं कण्टकजन्यमाप्नोतीत्येवं प्रेक्षावान् दुःखमुद्धृत्त्येन्द्रियादिसाधनं सुखं भोक्ष्यते, सन्ति च विविधदुःखपरिवर्जनहेतवो दृष्टाः परिदृष्टसामर्थ्या अन्वयव्यतिरेकाभ्यामित्यभिप्रायवान् पूर्वपक्षी गुडजिव्हिकया संशयान इव पृच्छति ।
तत्किमिदमिति ।
सिद्धान्तिन उत्तरम्
अन्य इत्याह सूत्रकार इति ।
तेनैवाभिप्रायेण पूर्वपक्षी पृच्छति कथम् ।
उत्तरं न वै सर्वलोकसाक्षिकमिति ।
अयं तु दुःखभावनोपदेशः किमर्थमित्यत
आह भाष्यकारः दुःखहानार्थः ।
किम्भूतस्य दुःखहानमित्यत आह ।
जन्ममरणप्रबन्धस्यानुभवः प्राप्तिः तन्निमित्ताद् दुःखोपदेशपरिशीलनेन निर्विण्णस्यालम्प्रत्ययवतः अत एव दुःखं जिहासत
इति योजनीयम् ।
स्वाभिप्रायेण पूर्वपक्षी पृच्छति ।
कया युक्त्या ।
उत्तरम् ।
सर्वे खपलु सत्त्वनिकाया इति ।
उत्पत्तिः सुखदुःखहेतुभूता विषयसम्पत्तिः तस्याः संस्थानानि भुवनानि ।
आ सत्यलोकादा चावीचेरिति ।
एतदुक्तं भवति ।
यदि दुःखवर्जनेन शक्यते सुखमुपादातुं ततस्तादृशं सुखमनकूलवेदनीयं कः प्रज्ञावान् प्रजह्यात् ।
न च तादृशमस्ति सुखं क्व चिदपि सर्वस्य दुःखाविनाभाविनः केवलस्योपादातुमशक्यत्वात् ।
न हि मधुविषसम्पृक्तमन्नं विषमपहृत्य शक्यं मधुमात्रमुपादातुमिति ।
तस्मान्नेदं सुखस्य प्रत्याख्यानमपि तु सुख एव दुःखभावनमुपदिश्यते ॥ ५५ ॥
अत्र हेतुरुपादीयते ऋषिणा । विविधबाधनायोद् दुःखमेव जन्मोत्पत्तिः (सू। ५५) ॥
जन्मन उत्पत्तिः सा दुखमेव भावयितव्या विविधबाधनायोगादिति ॥ ५५ ॥
न्य्स्_४,१।५६: न सुखस्याप्यन्तरालनिष्पत्तेः ॥
कस्मात्पुनर्दुःखमेव स्वरूपतो न भवतीत्यत आह ।
न सुखस्यान्तरालनिष्पत्तेः (सू। ५६) ॥
न खल्वयं दुःखोद्देशो दुःखकयनं सुखस्य प्रत्याख्यानम् ॥ ५६ ॥
न्य्स्_४,१।५७: बाधनानिवृत्तेर्वेदयतः पर्येषणदोषादप्रतिषेधः ॥
इतश्च दुःखसञ्ज्ञाभावनं न सुखस्य प्रत्याख्यानं दुःखोद्देशेनेत्याह ।
यस्मादिदं मे सुखसाधनमिति वेदयन् प्रार्थयते सुखसाधनम् ।
तच्च उक्ताद्बहुप्रकाराद्बाधनाहेतुरिति दुःखभावनयोपदेशनमिति ।
कामं काम्यं कामयमानस्य यदा कामः समृध्यति सम्पन्नो भवति ।
अथानन्तरमेनं पुरुषमपरः काम
इच्छा क्षिप्रं बाधते स्वर्गादिप्राप्तावपि स्वराज्यादि कामयते ।
एवं तत्प्राप्तौ प्राजापत्यादीति अस्येच्छा तदुपायप्रार्थनादिना दुःखेन प्रबाधतैत्यर्थः ।
समन्तादुदनेमि यथा भवति तथा भूमिं लभति इति योजना ॥ ५७ ॥
न्य्स्_४,१।५८: दुःखविकल्पे सुखाभिमानाच्च ॥
नन्वयं यद्यप्यन्तराले सुखान्यनुभवति तथा ऽपि दुःखसम्भेदमाकलयन् अनुपदिष्टो ऽपि स्वयमेव निवर्त्स्यति कृतमस्य दुःखभावनोपदेशेनेत्यत आह ॥
दुःखविकल्पे सुखाभिमानाच्च (सू। ५८) ॥
शास्त्रनिष्ठानां विवेकिनां खलु विविधबाधनानुषङ्गाद्
अनवयवेन सुखमात्रं दुःखमेवेति विनिश्चयो ऽक्षिपात्रकल्पा हि ते ।
तद्यथेषीकातूलसम्पर्कादप्यक्षिपात्र दूयते न गात्रावयवान्तराणि तथा मृदुचित्ततया विवेकिनो दूयन्ते अविवेकिनस्तु प्रणयकलहकुपितकुरङ्गशाबलोचनाङ्गनालक्तकरसार्द्रपोदपल्लवपातमपि शिरसि रहसि सुखमभिमन्यमाना धनपुलककञ्चुकाञ्चिततनवः सान्द्रानन्दाश्रुप्लुतनयना निर्वृण्वन्तीति तान् प्रत्ययमुपदेशोर् ऽथवानित्यर्थः ।
जायस्व म्रियस्व चेति सन्धावतीति ।
पुनर्जायते पुनर्म्रियते जनित्वा म्रियते मृत्वा जायते तदिदं सन्धावनव्यापारप्रचय इत्यर्थः ।
चोदयति ।
कस्माद् दुःखं जन्मेति नोच्यत इति ।
यदि दुःखभावनोपदेशो जन्मनि एवं सत्येवकारः किमर्थ इत्यर्थः ।
परिहरति ।
जन्मविनिग्रहार्थीय
इति विनिग्रहो विनिवृत्तिः स एवार्थः प्रवर्तत
इति जन्मविनिग्रहार्थीयः ।
यथा च मत्वर्थीय
इति ।
एतदुक्तं भवति ।
जन्म दुःखमेवेति भावयितव्यं नात्रमनागपि सुखबुद्धिः कर्तव्या अनेकानर्थपरम्परायामपवर्गप्रत्यूहप्रसङ्गादिति ॥ ५८ ॥
न्य्स्_४,१।५९: ऋणक्लेशप्रवृत्त्यनुबन्धादपवर्गाभावः ॥
दुःखोद्देशानन्तरमपवर्ग
उद्दिष्टो लक्षितश्चेति शेषः ।
स प्रत्याख्यायते ।
ऋणक्लेशप्रवृत्त्यनुबन्धादपवर्गाभावः (सू। ५९) ॥
तद्व्याचष्टे भाष्यकारः ।
ऋणानुबन्धादिति ।
अस्ति हि ।
॥। ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेद् ।
अनपाकृत्य मोहेन मोक्षमिच्छन् व्रजत्यधः। ॥।
ऋणत्रयापाकरणेनैव वयःसमाप्तेर्मोक्षनिवेशक्षणो नास्तीत्यपवर्गाभाव इत्यर्थः ।
क्लेशानुबन्धान्नास्त्यपवर्गः ।
नानुच्छिन्ननिदानः संसारः शक्य उच्छेत्तुमित्यर्थः ।
प्रवृत्त्यनुबन्धादित्यस्यापीयमेव व्याख्या ॥ ५९ ॥
न्य्स्_४,१।६०: प्रधानशब्दानुपपत्तेर्गुणशब्देनानुबादो निन्दाप्रशंसोपपत्तेः ॥
एवं पूर्वपक्षयित्वा सिद्धान्तमुपक्रमते ।
अत्राभिधीयते ।
यत्तावदृणानुबन्धादिति ।
जायमान इत्यस्य प्रधानार्थतानुपपत्त्या गुणशब्दत्वं साधयितुं दृष्टान्तलाभाय ऋणशब्दस्य प्रथमं गुणशब्दत्वमाह ।
प्रधानशब्दानुपपत्तेरिति ।
तद्व्याचष्टे ।
ऋणैरिति ।
नायं प्रधानशब्द इति ।
(४९१।१) ऋणवानिवास्वतन्त्रस्तेषु तेषु कर्मसु नाधिकारीति निन्दा ।
तदभावे तु स्वतन्त्र
इति प्रशंसा ।
एवं जायमान इति गुणशब्दो न मुख्य इति ।
कस्मात् पुनर्न मुख्य इत्यत
आह मातृतो जातमात्रस्यैवानधिकारात् ।
कस्मादनधिकार इत्यत आह ।
अर्थिनः शक्तस्य चाधिकारात् ।
कस्मादर्थिन इत्यत आह ।
कर्मविधावग्निहोत्रं जुहुयात्स्वर्गकाम इत्यादौ कामसंयोगश्रुतेः ।
न च बालकः सुखदुःखप्राप्तिपरिहारकामो ऽपि विवेकेन स्वर्गपुत्रपश्वन्नादि कामयत इति ।
शक्तस्य च प्रवृत्तीति ।
न ह्यशकनीयमर्थमशक्तं प्रति वेद आप्तोपदेशरूपो विधातुमर्हति ।
न च बालकः शक्तो ऽविद्वत्त्वादिना ।
अत एव तिर्यग्देवर्षिपङ्गुशूद्रषार्षेयाणामनधिकारः सामर्थ्याभावात् ।
न केवलं वैदिको ऽयमीदृशो व्यवहारो ऽपि तु लौकिको पीत्याह ।
न भिद्यते चायं लौकिकात् ।
तद्व्याचष्टे लौकिकस्तावदिति ।
उपपन्नानवद्यवादीति ।
उपपन्नं प्रमाणेन अनवद्यं पुनरुक्तदोण अनपेक्षितमुपदेष्टव्यं यन्न भववति तदित्यर्थः ।
न्यायप्राप्तमिममर्थं लिङ्गदर्शनमुपोद्बलयतीत्याह ।
गार्हस्थ्यलिङ्गं च मन्त्रब्राह्मणं कर्माभिवदतीति ।
गार्हस्थ्यस्य लिङ्गं पत्नी यस्मिन्कर्मणि तत्तथोक्तम् ।
ऽपत्न्यवेक्षितमाज्यं भवतिऽ ।
ऽपत्न्य उद्गायन्तिऽ ।
ऽक्षौमे वसानावग्निमादधीयाताऽ मित्येवमादि ।
तदनेन गार्हस्थ्यात्पूर्वावस्था तावदृणानुबद्धा न भवतीत्युक्तं सम्प्रत्युत्तरावस्थापि न ऋणानुबद्धेत्याह ।
यदा चार्थिनो ऽधिकारस्तदा ऽर्थित्वस्याविपरिणामे जरामर्यवादोपपत्तिः ।
तेन युदक्तमृणापाकरणेन वयःपर्यवसानान्नस्ति मोक्षावसरस्तदपाकृतं भवति ।
अविपरिणामपदार्थव्याख्यानं न निवर्तत इति ।
तुरीयस्येत्यस्य व्याख्यानं चतुर्थस्येति ।
प्रायेण पञ्चसप्ततिवर्षेष्वतिवाहितेषु अर्थतृष्णा तनूभवति ।
अत्यन्तसंयोगे तु जरया हवेत्यनर्थकम् ।
मृत्युना वेत्यनेनैव सिद्धेरिति शेषः ।
यद्युच्यते अशक्ततोपलक्षणमेतज्जरया हवा मृत्युना वेति, तेन कस्यानर्थक्यमित्यत
आह ।
अशक्तो विमुच्यतैत्येतदपि नोपपद्यत इति ।
स्यादेतत् ।
यद्यपि गृहस्थस्य यज्ञादिविधानान्तराणि सन्ति तथा ऽपि जायमानस्त्रिभिरृणैरिति वाक्यं बालस्यापि यज्ञादि विधास्यतीत्येतां शङ्कां विमर्शपूर्वमपाकरोति ।
अथापि विहितं वा ऽनूद्येत कामाद्वार् ऽथः प्रकल्प्येतेति ।
न तावज्जायमानो हवै इति शक्ये विधिविभक्तिरस्ति तेन सिद्धानुवादः स्वरसतः प्रतीयते यदि तु तस्यार्थस्य सिद्धिर्वाक्यान्तराद्वा प्रमाणान्तराद्वा कथमपि न कल्पेत ततोव ऽवचनानि त्वपूर्वत्वाऽ
दिति न्यायान्द्विधित्वमस्य कल्प्येत, सन्ति तु शतशस्तदर्थविधायकानि वाक्यानि विभक्तिमन्तीति को जात्वस्य स्वेच्छामात्रेण विधित्वं कल्पयेत् ।
तस्माद्विहितानुवचनमेव न्याय्यमिति जायमानशब्दो जघन्यवृत्तिरिति युक्तमुत्पश्यामः ।
स्यादेतत् ।
जायमानशब्दो ऽनुपचारितार्थः स्वभावतो मातुरुदराद्विभागमाह ।
स कथं चिदनुवादानुरोधपेन जघन्यवृत्तिः कल्पनीयः ।
तद्वरं मुख्यार्थानुरोधेन विधानमेव कल्प्यताम् ।
एवं सति श्रुतिरनुरोधिता भवति ।
अस्ति च बालकस्यापि फलोत्पादनयोग्यता तदात्मनः फलं प्रति समवायिकारणत्वात् ।
तेन यद्यपि जातमात्रस्य फलसाधनानुष्ठानयोग्यता नास्ति तथा ऽपि फलोत्पादं प्रति योग्यता ऽस्ति, फलेन च प्रयोजनं न तत्साधनेनेत्यत
आह फलस्य साधनानि हि प्रयत्नविषयो न फलमिति ।
अयमभिसन्धिः ।
विधिर्हि स्वव्यापारे कर्तृतया पुरुषं नियुङ्क्ते प्रयत्नश्चास्य व्यापारः सम्भवति विषये न शक्यो निवर्त्तयितुमिति स्वविषयमपेक्षते ।
न चास्य साक्षात्फलं विषयो भवितुमर्हति ।
उद्देश्यतामात्रेण तु भवेत् ।
नैतावता प्रयत्नो ऽस्य निर्वृणोति यावदयं साक्षादभिनिर्वर्तनीयं न प्राप्नोति ।
तदुपायस्य साक्षादभिनिवर्त्तनीय इति फलोद्देशप्रवृत्तस्य पुरुषप्रयत्नस्य निर्वृणोति यावदुपायो विषयः ।
न च बालकस्य तदुपायमविदुषस्तत्र सामर्थ्यमस्ति ।
असमर्थश्चाकर्ता कथमात्मानं प्रयत्नेन व्याप्नुयात् ।
अव्याप्नुवंश्च कथमधिकारीति जायमानशब्दो जघन्यवृत्तिरेव न्याय्य
इति सिद्धम् ।
विहितं च जायमानमिति ऋणवाक्यात्प्राग्विधीयते च ऋणवाक्यार्द्ध्वमित्यर्थः ।
यदुक्तं तत्र हि प्रव्रज्या विधीयत इति तदमूष्यमाण आह प्रत्यक्षविधानाभावादिति चेत् ।
शङ्कां निराकरोति ।
न प्रतिषेधस्यापि विधानाभावात ।
शङ्कां विभजते प्रत्यक्षत इति ।
परमाप्तो हि भगवानीश्वरो ऽनुकम्पया भूतोपदेशायप्रवृत्तो यद्गार्हस्थ्यमेवाश्रयममुपदिशति ततो ऽवगच्छामो न सन्त्याश्रमान्तराणि भूतेभ्यो हितानीत्यर्थः ।
अत एवाहुः ऽऐकाश्रम्यं त्वाचार्याः प्रत्यक्षविधानाद्गार्हस्थ्यस्येतिऽ ।
निराकरणं विभजते न प्रतिषेधस्येति ।
स्मृतीतिहासपुराणानि तावदविवादं विदधति चातुराश्रम्यमुपलभ्यन्ते यदि प्रत्यक्षया श्रुत्या प्रतिषिध्यन्ते ततस्तद्विरोधेनौदुम्बरीसर्ववेष्टनवत् तत्राप्रमाणानि स्युः, न च तत्प्रतिषेधः श्रुतेः साक्षादवगम्यते ।
तस्मात्स्मृत्यादिविहितं चातुराश्रम्यमप्रतिषिद्धं श्रुत्या न शक्यं परित्यक्तुमित्यर्थः ।
न चाविधानेन तत्प्रतिषेधानुमानमित्याह ।
अधिकाराच्चेति ।
गार्हस्थ्योपदेशस्याधिकारात्तस्यैव विधानं नाश्रमान्तरस्य न त्वाश्रमान्तराभावात् ।
न हि व्याकरणं शब्दं व्युत्पादयत्प्रमाणाद्यभावमाक्षिपति ।
अपि च मा भूत्प्रत्यक्षविधानं श्रुतौ ससाधनापवर्गाभिधानानि चातुराश्रम्याभिधानानि च प्रत्यक्षाण्युपलभ्यन्ते वचनानि तान्यपूर्वत्वाद्विधानानि अपवर्गस्य ससाधनस्य चातुराश्रम्यस्य च भविष्यन्तीत्याह ।
ऋग्ब्राह्मणं चापवर्गाभिधाय्यभिधायत इति ।
मृत्युमिः परं कर्मभ्य इति ।
कर्मपरित्यागमपवर्गसाधनं सूचयति ।
अमृतत्वमिति चापवर्गो दर्शितः ।
सूचितं कर्मत्यागमपवर्गसाधनं श्रुत्यन्तरेण विशदयति ।
न कर्मणा न प्रजयेति ।
परेण नाकमिति ।
नाकमित्यविद्यामुपलक्षयति ।
अविद्यातः परमित्यर्थः ।
निहितं गुहायामिति लौकिकप्रमाणागोचरत्वं दर्शयति ।
तमसः परस्तादिति ।
अविद्या तमः तस्य परस्तात् ।
आदित्यवर्णमिति ।
नित्यप्रकाशमित्यर्थः ।
तदनेनेश्वरप्रणिधानस्यापवर्गोपायतवमुक्तम् ।
ऋच उदाहूत्य ब्राह्मणमुदाहरति अथ ब्राह्मणानीति ।
यज्ञ इत्यादिना गृहस्थाश्रमो दर्शितः ।
तप
एवेति वानप्रस्थाश्रमः ।
ब्रह्मचारीति ब्रह्मचर्याश्रमः ।
एषामभ्युदयलक्षणं फलमाह ।
सर्व एवैत इति ।
चतुर्थाश्रममाह ।
ब्रह्मसंस्थ इति ।
तथाक्रतुरिति ।
क्रतुः सङ्कल्पः ।
कामयमानोव य आसीत् स एवाथाकामयमानो भवति ।
अकामयमानः कामं परिहरन् तत्परिहारसिद्धौ सो ऽकामयंस्तस्य व्याख्यानं निष्काम इति ।
आत्मकाम
इति ।
कैवल्योपेतात्मकामः तत्प्राप्त्या आप्तकामो भवति ।
न तस्य प्राण इति शाश्वतो भवतीत्यर्थः ।
प्रकृतमुपसंहरति तत्र यदुक्तमिति ।
अपरामपि चातुराश्रम्याभिधायिनीं श्रुमिमाह ।
ये चत्वाच इति ।
इतश्च फलार्थिन एष जरामर्यवाद
इत्याह ।
फलार्थिनश्चेति ॥ ६० ॥
न्य्स्_४,१।६१: समारोपणादात्मन्यप्रतिषेधः ॥
पृष्ट्वा ।
सूतं पटते कथम् ।
समारोपणादात्मन्यप्रतिषेधः (सू। ६१) ॥
आत्मयग्नीनां समारोपणादृणानुबन्धनापवर्गस्याप्रतिषेधः ।
तदेनन च्छलेन प्रत्यक्षविधानं प्रव्रज्याया अपि दर्शितम् ।
एषणाव्युत्थितस्य विपर्यस्तुबुद्धेः
अलमाभिरेषणाभिरनर्थहेतुभिरिति कृतबुद्धेः
अत एव निवृत्ते फलार्थित्वे समारोषणमात्मन्यग्नीनां विधीयते इति ।
एवं ब्राह्मणानीति यदैषणाभ्यो व्युत्थितस्य प्रव्रज्याविधानं तदा तदभिधायीनि ब्राह्मणान्युपपन्नानीत्यर्थः ॥ ६१ ॥
न्य्स्_४,१।६२: पात्रचयान्तानुपपत्तेश्च फलाभावः ॥
प्रमृते खलु यजमाने यज्ञपात्राणि यजमानस्य शरीरे यथावयसवं निधायान्त्येष्टिः क्रियते ।
तत्र जरामर्ये कर्मण्यविशेषेण कल्प्यमाने सर्वस्य पात्रचयान्तानि कर्माणीति प्रसज्येत मरणपर्यन्तानि कर्माणीति प्रसज्येतेत्यर्थः ।
नन्विष्यत एव पात्रचयान्तत्वं कर्मणामित्यत
आह ।
तत्रैषणाव्युत्थानमिति ।
तस्मान्नाविशेषेण कर्तुः प्रयोजकं फलं भवतीति ।
फलाभाव
इत्यस्य सूत्रावपयवस्याविशेषेण फनस्य कर्तृप्रयोजनकत्वाभाव इत्यर्थः ।
तदनेनैषणाव्युत्थानश्रुतिविरोधा दर्शितः ।
तदेवं चातुराश्रम्यस्य श्रुतिरुक्ता ।
सम्प्रति स्मृत्यादयो ऽपि चातुराश्रयम्यस्योपदेशकाः सन्तीत्याह चातुराश्रम्यविधानाच्चेति ।
शङ्कते तदप्रमाणमिति चेत् ।
जगन्निर्मातुः परमकारुणिकस्य सर्वज्ञस्यात्रभवतः परमेश्वरस्यागमो भवतु प्रमाणमाप्तोक्तत्वात् ।
मनुव्यासादीनां त्वाप्तत्वानिश्चयात्कयं तत्प्रणीतानां प्रामाण्यनिश्चय इत्यर्थः ।
उत्तरं प्रमाणेनेति ।
स्यादेतत् ।
भवतु वेदेनाभ्यनुज्ञानादितिहासपुराणप्रामाण्यं धर्मशास्त्राणां तु मन्वादिप्रणीतानां कुतः प्रामाण्यनिश्चय इत्यत आह ।
अप्रामाण्ये चेति ।
सर्वजनपरिग्रहात्तेषामपिप्रामाण्यमित्यर्थः ।
बुद्धादिस्मृतयस्तु वेदनिन्दितैर्म्लेच्छादिभिः परिगृहीता न त्वार्यैरिति न ताः प्रमाणं भवितुमर्हन्तीत्यर्थः ।
द्रष्टृप्रवक्तृसामान्याच्चाप्रामाण्यानुपपत्तिः ।
य एव वेदस्य द्रष्ट्रारो ऽनुष्ठातारश्च तदर्थस्य त एवेतिहासादीनां प्रवक्तारः प्राचेतसकृष्णद्वैयायनमनुप्रभृतयः ।
अपि च वैदिकानि कर्माणि स्मार्तीमितिकर्तव्यतामपेक्षन्ते स्मार्तनि च वैदिकानि मन्त्रादीनीति सर्वमेतदप्रमाण्ये धर्मशास्त्राणां नोपपद्यते ।
यद्यपि च मन्वादयो ऽपि धर्मज्ञानवैराग्यैश्वर्यशालितया अनुभूयाप्युपदिशन्तीति सम्भवति तथापि वेदमूलकत्वमेवेतिहासपुराणादिनां युक्तम् ।
तथा हि ।
ऽवेदो ऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।
यः कश्चित्कस्य चिद्धर्मोमनुना परिकीर्तितः ॥
स सर्वो ऽभिहितो वेदे सर्वज्ञानमयो हि सः ॥। इत्यादिभिः स्ववचनप्रपञ्चैरात्मा बद्धपा वेद एवार्पितस्तैरिति ।
अथायमितिहासादिगोचरोर् ऽथः कस्मात्प्रत्यक्षप्रतीतेन वेदेन नोच्यत इति तदनभिधानादवगच्छमो नूनमयमनभिमतो वेदानां कर्तुरिति ।
निराकृतो ऽप्ययं पुनर्निराक्रियते दार्ढ्यार्थं विषयव्यवस्थानाच्चेत्यनेन॥ ६२ ॥
न्य्स्_४,१।६३: सुषुप्तस्य स्वप्नादर्शने क्लेशाभावादपवर्गः ॥
यदप्युक्तं क्पलेशानुबन्धस्याविच्छेदादिति तद्दूषयति ।
सुषुप्तस्य स्वप्नादर्शने क्लेशाभावादपवर्गः (सू। ६३) तद्व्याचष्टे सुषुप्तस्य खल्विति ।
लोकसिद्धतया सुषुप्तावस्थोदाहृता ।
महाप्रलयावस्थायामपि क्लेशमुक्ता एवात्मानः केवलमसौ न लोकसिद्धेति नोदाहृता ।
एतावांस्तु मुक्तावस्थायां विशेषः यदस्यां क्लेशवासनापि नास्ति ।
सुषुप्तावस्थायां प्रलयावस्थायां च क्लेशविच्छेदे ऽपि तद्वासना ऽस्तीति ॥ ६३ ॥
न्य्स्_४,१।६४: न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य ॥
यदपि प्रवृत्त्यनुबन्धादिति तत्राह— न प्रवृत्तिः प्रतिसन्धानाय हि हीनक्लेशस्य (सू। ६४) ॥
देहिनः ।
तद्व्याचष्टे क्षीणेषु रागद्वेषमोहेषु सत्यपि न प्रवृत्तिः स्वप्रतिसन्धानाय ।
उपपादितमिदमस्माभिर्यथा दोषतुषावनद्धाः कर्मतन्दुला जन्माङ्कुराय कल्पन्ते, न केवला इत्यर्थः ।
शङ्कते कर्मवैफल्येति।वैफल्ये शास्त्रस्य कर्मणां फलसाधनताप्रतिपादकस्याप्रामाण्यप्रसङ्ग
इति भावः ।
निराकरोति न कर्मविपाकेति ।
विपाक फलं तस्य प्रतिसंवेदनं भोगः ॥ ६४ ॥
न्य्स्_४,१।६५: न क्लेशसन्ततेः स्वाभाविकत्वात् ॥
पूर्वपक्षबाद्याह ।
न क्लेशसन्ततेः स्वाभाविकत्वात् (सू। ६५) ॥
सिद्धान्त्येकदेशी ब्रूते ।
न्य्स्_४,१।६६: प्रागुत्पत्तेरभावानित्यत्ववत् स्वाभाविकेप्यनित्यत्वम् ॥
प्रागु–त्वम् (सू। ६६) ॥
दध्यादेरुत्पत्तेः प्राक् क्षीरादिषुयो भावस्तस्यानित्यत्ववदिति योजना ॥ ६६ ॥
न्य्स्_४,१।६७: अणुश्यामतानित्यत्ववद्ध ॥
अपरस्त्वेकदेशी भावमेव दृष्टान्तयतीत्याह ।
अणुश्यामतानित्यत्ववद्वा (सू। ६७) ॥
यदेतच्छ्यामं रूपं तदन्नस्येत्यागमः पार्थिवानां परमाणूनां श्यामतामनादिमाह
अन्नपदेन मृदो ऽभिधानादिति भावः ।
अत्र प्रथममेकदेशिनं दूषयति सतः खल्विति ।
द्वितीयमेकदेशिनं दूषयति ।
अनादिरणुश्यामतेति हेत्वश्रावान्न युक्तम् ।
अणुश्यामता कार्या पृथिवीरूपत्वात्
लोहितादिवदिति प्रत्युतानित्यताहेतुरस्ति ।
पुरुषयत्नजलोहितापदिरूपवैलक्षण्येन त्वस्पवयाप्रयत्नपूर्वकत्वमात्रेणानादित्वाभिधानमिति नागमविरोधः ॥ ६७ ॥
न्य्स्_४,१।६८: न सङ्कल्पनिमित्तत्वाच्च रागादीनाम् ॥
तदेवमेकदेशिनौ दूषयित्वा परमसमाधिमाह ।
अयं तु समाधिः–
न सङ्कल्पनिमित्तत्वाच्च रागादीनाम् (सू। ६८) ॥
चकारमनुक्तसमुच्चायार्थं व्याचष्टे ।
कर्मनिमित्तत्वादितरेतरनिमित्तत्वाच्च ।
समुच्च्यो ऽनुक्तस्येति शेषः ।
तत्र सङ्कल्पनिमित्तत्वादिति विभजते ।
मिथ्यासङ्कल्पेभ्य इति ।
यद्यप्यनुभूतविषयप्रार्थना सङ्कल्पः तथा ऽपितस्य पूर्वभागो ऽनुभवो ग्राह्यः ।
प्रार्थनाया रागत्वात् ।
तेन मिथ्यानुभवः सङ्कल्प इत्यर्थः ।
नन्वेकस्मान्मिथ्याज्ञानात्कुतः कार्यवैचित्र्यमित्यत आह ।
रञ्जनीयकोपनीयमोहनीयेभ्य
इति ।
भव्यगेयादिषु पाठात्कर्त्तरिकृत्यः ।
मोहनीयः सङ्कल्पो मिथ्याज्ञानसंस्कारः ।
कर्मनिमित्तत्वं रागादीनां विभजते ।
कर्म चेति निकायेन जातिरुपलक्ष्यते ।
इतरेतरनिमित्तत्वं रागादीनामाह ।
इतरेतरेति ।
स्यादेतत् ।
भवन्त्यनित्याः क्लेशाः तथापि यदेषां निर्वर्त्तकं मिथ्याज्ञानं तस्य निवृत्तिहोतोरभावत्स
एव क्लेशानुबन्धादपवर्गाभाव इत्यत आह ।
सर्वमित्यासङ्कल्पानामिति ।
अपि चानादिः क्लेशसन्ततिरित्युक्तम् ।
कुतः सर्वैमे आध्यात्मिका भावा इति ।
आत्मानमधिकृत्य प्रवर्तमानाः शरीरेन्द्रियादयो भवन्त्यापध्यात्मिका इति ।
अथ यद्यनादीनामपि निवृत्तिः हन्तानुत्पत्तिधर्मकाणामपि निवृत्तिप्रसङ्ग इत्यत आह ।
न चैवं सत्यनुत्पत्तिधर्मकं किं चिदिति ।
रागादीनामुत्पत्तिधर्मकाणामेव व्ययधर्मकत्वाभ्युपगमादित्यर्थः ।
ननु मा भूवन्मिथ्याज्ञाननिमित्ता रागादयो मिथ्याज्ञानानिवृत्तौ,
ये पुनरमी कर्मनिमित्तास्तेषां कुतो निवृत्तिः न च कर्मनिवृत्तौ रागादिनिवृत्तिः
रागादिमतः कर्मनिवृत्तेरभावात्, तस्मान्न मोक्ष इत्यत आह ।
कर्म च निकायनिर्वर्तकं तत्त्वज्ञानकृतान्मिथ्याज्ञानरूपसङ्कल्पविघातान्न रागाद्युतपत्तिनिमित्तं भवति ।
सर्वरागादीनां मित्याज्ञानमेव निमित्तम् ।
कर्माणि तु निकायनियमेन रागादीन् प्रवर्तयन्तीति कर्मनिमित्तत्वमुक्तमिति भावः ।
ननु यथा रागादयः सत्यपि कर्मणि मिथ्याज्ञाननिवृत्त्या निवर्तन्ते एवं सत्यपि कर्मणि मिथ्याज्ञाननिवृत्त्या फलमपि मा भूदित्यत आह ।
सुखदुः खसंवित्तिः फलं तु भवतीति ।
वार्त्तिकम् ।
यावज्जीवसंयोगे हि जरया ह वेत्यनर्थकमिति ।
(४९५।९) मृत्युना वेत्यनेनैव गतार्थत्वादित्यनुक्त्वा भाष्योक्ता द्वितीय युक्तिरभिहिता वार्तिककृता ।
यस्मात्स्वयमशक्तस्येत्यनेन ।
यज्ञसाधनत्वादिति ।
(४९६।७) यज्ञकर्तृत्वादित्यर्थः ।
एतदेव स्फटयति ।
यस्माद्यजमानो यज्ञाङ्गं भवति ।
यथाह भगवान जैमिनिः पुरुषश्च कर्मार्थत्वादिति ।
सङ्कल्पाद्यपेक्षं कर्म रागादिकारणमिति ।
(४९८।२०) यज्जातीयस्य जन्मनो यत्कर्म कारणं तज्जन्मोचितामेव मिथ्याज्ञानवासनामभिव्यनक्तीति तद्द्वारेण रागादीनां कारणं भवति ।
चोदयति ।
सुखादीनामिति ।
यथा मिथ्याज्ञानसहायं कर्म रागादिहेतुः एवं तत्सहायं फलहेतुरिति चरमदेहस्य तत्वज्ञानवतः सदपि कर्म फलकारणं न स्यादित्यर्थः ।
परिहरति ।
न निरप्रेक्षत्वादिति ।
कर्माशयप्रपञ्चमुच्छेत्तुममूढो ऽप्यसक्तो ऽप्यद्विष्टो ऽपि मूढ इव सक्त इव द्विष्ट इव तत्फलं भुङ्क्त इति रागाद्यनपेक्षं कर्म स्वफलं जनयति तेनासौ फलोषभोगो न बन्धहेतुः मूढादीनां बन्धहेतुः मूढादीनां बन्धहेतुफलोपभोगः स चतादृशो रागादिसहायैः कर्मभिः क्रियते न रागादिनिरपेक्षैरित्यवदातम् ॥ इति मिश्रश्रीवाचस्पतिविरचितायां न्यायवार्तिकतात्पर्यटीकायां चतुर्थाध्यायस्याद्यमाह्निकम् ॥
चतुर्थे ऽध्यायेद्वितीयमाह्निहम् ।
न्य्स्_४,२।१: दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः ॥
तदेवं संशयप्रमाणप्रमेयाणि परीक्षितानि ।
प्रयोजनादयो ऽपि यत्र संशयस्तत्रैवमुत्तरोत्तरप्रसङ्ग
इतयतिदेशेन परीक्षिता इति षोडशापि प्रमाणादयः परीक्षिताः ।
तेषां तत्त्वज्ञानं निःश्रेयसाधिगमहेतुरित्युक्तम् ।
तत्रापि प्रमेयतत्त्वज्ञानं साक्षान्निःश्रेयसहेतुरितरेषां तु तत्त्वज्ञानाङ्गतयेत्युक्तम्१ इदमिहेदानीं परीक्ष्यते किम्प्रत्येकमात्मादीनां प्रमेयाणां तत्त्वज्ञानं निःश्रेयसाधिगमहेतुरुताहो कस्य चिदेषामेकदेशस्येति ।
तामिमां परीक्षामवतारयति भाष्यकारः ।
किं नु खवलु भोः यावन्तो विषयाः प्रमेयाणि तावत्सु प्रत्येकमिति।प्रतिप्राणभृद्भेदं यावन्त आत्मानः यावन्ति चेन्द्रियाणिप चेत्यर्थः ।
पार्श्वस्थः पूर्वपक्षिणं पृच्छति कश्चात्र विशेषः ।
पूर्वपक्षिण उत्तरं न तावदेकैकत्रेति ।
समुदायैकदेशाभ्यामनुपपत्तेः ।
प्रमाणादितत्त्वज्ञानान्निःश्रेयसाधिगम इत्ययुक्तमिति पूर्वः पक्षः ।
सिद्धान्तमाह ।
मिथ्याज्ञानं वै खलु मोह इति ।
वैशब्दः खलु पूर्वषक्षाक्षमायां खलुशब्दो हेत्यर्थे ।
अयुक्तः पूर्वपक्षो यस्मान्मिथ्याज्ञानं मोह इति ।
न तत्त्वज्ञानमज्ञाननिवृत्तिमात्रेण निः श्रेयसोपयोगि अपि तु संसारनिदानोच्छेदद्वारेण दृष्टेनैव, न च तत्त्वाज्ञानं संसारहेतुरपि तु मिथ्याज्ञानम् ।
तदुच्छिन्दद्विरोधितया तत्त्वज्ञानमपवर्गहेतुरिति ।
भवत्वेतत्तथा ऽपि पूर्वपक्षस्य किमायातमित्यत आह ।
तच्च मिथ्याज्ञानं यत्र विषये प्रवर्तमानमिति ।
स्वसम्बन्धिनो ह्यात्मादयो विपर्ययेण परिच्छिन्नाः संसारहेतव इति तद्विषयमेव मिथ्याज्ञानमपनेयं नात्माद्यन्तरविषयं ज्ञानं तेन तत्र मिथ्याज्ञानं मा निवर्तिष्ट निवर्ततां वा, स्वात्मादिदृष्टान्तेन,
न तु तस्य संसारनिवृत्तिं प्रत्युपयोगः ।
यस्य तूपयोगस्तत्र तत्त्वज्ञानं दुष्करमिति ।
पृच्छति ।
किं पुनस्तन्मिथ्याज्ञानम् ? सन्ति खलु वादिनां नानाविप्रतिपत्तयः ।
के चिदाहुः ।
विधूतविविधनामरूपप्रपञ्चोपप्लवविशुद्धविदानन्दघनाद्वैतब्रह्मसाक्षात्कारस्तत्त्वज्ञानमिति ।
अन्ये तु सत्त्वपुरुषान्यताख्यातिम् ।
धर्ममुद्गलनैरात्म्यज्ञानमित्यपरे ।
शरीरेन्द्रियाद्यनित्वव्यतिरिक्तनित्यात्मदर्शनमिति वृद्धाः ।
तदेवं विप्रतिपत्तेः प्रश्नः ।
उत्तरम् ।
अनात्मन्यात्मग्रहो ऽहमस्तीति मोहो ऽहङ्कारः ।
न तावदद्वैतानन्दघनात्मज्ञानं तत्त्वज्ञानम् ।
भेदस्य प्रत्यक्षसिद्धस्यासति बाधके ऽपह्नोतुमशक्यत्वात् ।
न च प्रकाशानन्दावात्मधर्मातिरिक्तावात्मस्वभावौ भवितुमर्हतः ।
सत्यं विज्ञानमानन्दं ब्रह्मेति श्रुतिरानन्दचैतन्यशक्त्यभिप्रापया भेद एव च तद्वत्तया कथं चित् सामानाधिकरण्यमुपपद्यते ।
अभेदे त्वानन्दविज्ञानयोस्तत्पदयोः पर्यायतया सह प्रयोगानुपपत्तिः ।
न च प्रकृष्टप्रकाशः सवितेत्यत्र प्रकृष्टप्रकाशयोरभेदो ऽप्रकाशस्यापि प्रकर्षसम्भवात् ।
अप्रकृष्टस्यापि खद्योतादेः प्रकाशसम्भवात् ।
तस्माद्यत्किं चिदेतत् ।
सत्त्वपुरुषान्यताख्यातिस्तु सत्त्वस्यैव प्रकृतेरसम्भवादयुक्ता सत्कार्यवादमूलत्वात्प्रधानसद्भावस्य तन्निराकरणेनैव निराकरणम् ।
धर्मपुद्गलनैरात्म्ये तु क्षणभङ्गभङ्गे नित्यात्मसद्भावकथनेन निराकृते ।
तस्मात्सुष्ठूक्तमनात्मन्यात्मग्रहो ऽहमस्मीति मोहो ऽहङ्कार इति ।
अत एव सर्वस्यैवमात्माशीः कृमेरपि मा न भूवं भूयासमिति ।
सो ऽयमीदृशो ऽभिनिवेशः शरीरादीनामात्मत्वेनाध्यवस्यतो भवति नात्मतत्त्वविदुषः स खल्वहिनिर्ल्वयनीमिवाहिस्ततो व्यतिरिक्तं शरीरादि पश्यन्न तत्र स्निह्यति स्नेहविरहान्न तप्यते नाप्यनुशोचतीति ।
अतत्त्वज्ञानवतः संसारं दर्शयित्वा तत्त्वज्ञानवतः संसारनिवृत्तिमाह ।
यस्तु दुःखमिति ।
तदेवमुक्तेन प्रकारेण मोहतत्त्वज्ञानयोः संसारापवर्गहेतुभावो यस्मात्तस्मान्मोक्षमाणैः प्रेत्यभावफलदुःखानि च ज्ञेयानि व्यवस्थापयतीत्यादिपूर्वोपसंहारः ।
आसेवमानस्याभ्य स्यतो भावयत इति पर्यायकथनं भावनादार्ढ्येपदर्शनार्थम् ।
अर्थगतिं परिशोध्यात्रार्थे सूत्रं पठति ।
दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः
(सूः१) ॥
शास्त्रार्थसङ्ग्रहो ऽनूद्यते शास्त्रतात्पर्यसङ्ग्रहो द्वितीयसूवेणानूद्यतैत्यर्थः ।
किं नु खलु भो इति भाष्यं तदनुपपन्नं यतो न विषयमात्रज्ञानमपवर्गहेतुरपि तु प्रमेयतत्त्वज्ञानमित्यत
आह वार्तिककारः ।
तत्र विषयान्तराणामिति ।
(५००।८) यावन्तो विषया इति न विषयमात्राभिप्रायमपि तु प्रमेयाभिप्रायमित्यर्थः ।
सुगममन्यद्वार्तिकम्
॥ १ ॥
न्य्स्_४,२।२: दोषनिमित्तं रूपादयो विषयाः सङ्कल्पकृताः ॥
शरीरादिष्वनात्मस्वात्मबुद्धिर्निवर्तनीयेत्युक्तं तत्र प्रथमं कस्मिन्नात्मबुद्धिर्निवर्तनीयेत्यपेक्षायामाह ।
प्रसङ्ख्यानानुपूर्व्या तु खलु ।
प्रसङ्ख्यानं समाधिजं तत्त्वज्ञानं तच्च विषये सुकरमिति तत्रैव प्राथमिकस्य प्रथमं प्रयत्नो युक्तः ।
सूत्रम् ।
दोषनिमित्तं रूपादयो विषयाः सङ्कल्पकृताः (सू। २) ॥
मिथ्याज्ञानं सङ्कल्पस्तेन विषयीकृता इत्यर्थः ।
कामाः काम्याः ॥ २ ॥
न्य्स्_४,२।३: तन्निमित्तं त्व् अवयव्यभिमानः ॥
अन्ये खलु अवयविसञ्ज्ञां निवर्तयन्तो ऽवयविनमेव प्रत्याचक्षते तान् प्रत्याचक्षाण आह ।
अतः परं काचिदिति (५०२।२) सूत्रम्— तन्निमित्तं त्ववयव्यभिमानः (सू। ३) ॥
निमित्तं दन्तत्वादि तद्विशिष्टा विषयाः सञ्ज्ञाः प्रियायाः कामुको दन्तोष्ठनासिकादीनवयवाननुभावयन्
तस्यां सक्तो भवति ।
व्यञ्जनान्यवयविनो ऽवयवास्तैः सहोपलम्भात्तेषामनुव्यञ्जनं तत्सादृश्यं तेन तदारोपः ।
तथा च स्त्रैणानां व्यवहारः ।
द्रवत्कनकनिर्मलद्युतिरनङ्गलीलैकभ-
र्महेभकटविभ्रमस्तनभरालसाङ्गी यदि ।
प्रिया न परिरभ्यते तुलितसिद्धंसञ्जीविनी सहेमहि कुतो ऽन्यथा विषमबाणबाणव्यथाम् ।
मदनसरितमेनां गाहमानो जनो ऽयं जघनपुलिननाभीमण्डलावर्तरम्याम् ।
मुखनलिनसनाथामुल्लसद्भ्रुलतोर्मिं चिरविरहहुताशायासमुज्झां चकार ।
विवेकिनस्त्वशुभसञ्ज्ञां भावयन्तः प्राहुः ।
मज्जामस्थ्नामथ प्लीह्नां यकृतां शकृतामपि ।
पूर्णाः स्नायुशिरास्यूताः स्त्रियश्चर्मप्रसेविकाः ।
ऋषयो ऽप्यूचुः ।
स्थानाद्बीजादुपष्टम्भान्निष्पन्दान्निधनादपि ।
कायमाधेयशौचत्वात्पण्डिता ह्यशुचिं विदुः ।
अशुभसञ्ज्ञाभावनाप्रयोजनमाह ।
तामस्यभावयत
इति ।
तत्किमिदानीमवयवानुव्यञ्जनसञ्ज्ञयोर्विषयो नास्त्यशुभसञ्ज्ञाविषय एव परमस्तीत्यत
आह ।
सत्येव च द्विविधविषय इति ।
द्विविध
एवासौ कामिनीलक्षणो विषयस्तथा ऽपि रागादिप्रहाणार्थमवयवादिसञ्ज्ञागोचरत्वं परित्यज्याशुभसञ्ज्ञागोचरत्वमस्योपादीयते वैराग्योत्पादनायेत्यर्थः ।
अत्रैव दृष्टान्तमाह ।
यथा विषसम्पृक्त इति ।
न हि विषमधुनी परमार्थतो न स्तः अपि तु वैराग्याय विषसञ्ज्ञा तत्रोपादीयतैत्यर्थः ॥ ३ ॥
न्य्स्_४,२।४: विद्याविद्याद्वैविध्यात् संशयः ॥
तदेवं स्वमतेन प्रसङ्ख्यानोपदेशमुक्त्वा पराभिमतप्रसङ्ख्यानं निराकर्त्तुमुपन्यस्यति ।
अथेदानीमर्थं निराकरिष्यता विज्ञानवादिना ऽवयविनिराकरणमुपपाद्यते ।
अर्थविशेषे खल्ववयवानुव्यञ्जनसञ्ज्ञे ।
तत्रार्थमात्रस्याभावात्कुतो ऽवयवानुव्यञ्जनसञ्ज्ञे, तन्निराकरणाय प्रथममवयवी निराक्रियते पश्चात्परमाणुः, ततश्च ज्ञानमात्रमर्थरहितं सिद्धं भवतीत्यभिप्रायः ।
तत्र संशयपूर्वकत्वादुपपादनस्य विचारस्य संशयं प्रथममाह ।
विद्याविद्याद्वैविध्यात्संशयः (सू। ४) ॥
उपलब्धिर्विद्या अनुपलब्धिश्चाविद्या ।
सच्चोपलभ्यते यथा तडागे तोयम् ।
असच्चोपलभ्यते यथा मरुमरीचिकायामुदकम् ।
सच्च नोपलभ्यते यथा चिरनिखातं भूमौ निध्यादि ।
असच्च नोपलभ्यते यथा भूतले दृश्यमाने तत्तुल्योपलम्भनयोग्यतो घटादिः ।
तदेवं विद्याविद्याद्वैविध्यादवयविनि संशयः ।
यद्यवयव्युपलभ्यते तथापि संशयः
अथ नोपलभ्यते तथा ऽपि संशय इत्यर्थः ।
न्य्स्_४,२।५: तदसंशयः पूर्वहेतुप्रसिद्धत्वात् ॥
तत्र सिद्धान्ती वक्ष्यमाणमप्यवयविनिराकरणहेतुं निराकरिष्यामीत्याशयवानाह ।
तदसंशयः पूर्वहेतुप्रसिद्धत्वात् (सू। ५) ॥
अवयविनः ।
वार्तिककारस्तु स्वयं संशयं निराकरोति ।
न विद्याविद्याद्वैविध्यं संशयस्य कारणमिति (५०२।२१)॥ ४-५ ॥
न्य्स्_४,२।६: वृत्त्यनुपपत्तेरपि तर्हि न संशयः ॥
पूर्वपक्षवाद्याह वृत्त्यनुपपत्तेरिति ॥ ६ ॥
न्य्स्_४,२।७: कृत्स्नैकदेशावृत्तित्वादवयवानामवयव्यभावः ॥
वृक्षस्तिष्ठति शाखादिषु शाखादयो वा वृक्ष इति लौकिकीं प्रतिपत्तिमनुरुध्यमानो विकल्पयति वार्त्तिककारः ।
अवयवा अवयविनीति ।
(५०३।१०) एकद्रव्यश्चावयवः प्राप्नोति ।
कुतः एकावयविवृत्तित्वात् ।
भवतु को दोष इत्यत आह ।
न चैकद्रव्यं द्रव्यमविनश्यदाधारमस्ति ।
कृतकस्य नित्यत्वप्रसङ्गादिति शेषः ।
अवयव्येकदेशेनेति ।
अवयविनो य एकदेशास्तेनावयवो ऽवयविनि वर्त्ततैत्यर्थः ।
न ह्यस्यावयविनो ऽन्ये अवयवेषु एकदेशा अवयवाः सन्तीति
न्य्स्_४,२।८: तेषु चावृत्तेरवयव्यभावः ॥
एकेनावयवेनारभ्यत इति सततोत्पत्तिप्रसङ्गः ।
संयोगाय किल चरमभाविने अवयवव्यापारस्तन्निमित्तानि चापेक्ष्यन्ते ।
एकद्रव्यस्योत्पत्तिं प्रति न संयोगापेक्षेति यावदवयवमवयव्युत्पद्येतेत्यवयव्यनवरुद्धो न कदाचिदवयवो दृश्येतेत्यर्थः ॥ ७-८ ॥
न्य्स्_४,२।९: पृथक् चावयवेभ्यो ऽवृत्तेः ॥
अवयव्यतिरेकेण वर्त्तमानो ऽवयव्युपलभ्येत न चास्याधारान्तमुपलभ्यते दृश्यमानश्चावयवो नाधिकरणमस्येति भवतैव वादिना ऽभ्युपगतमित्यभिप्रायेणाह ।
नित्यश्च स्यात् ॥ ९ ॥
न्य्स्_४,२।१०: न चावयव्यवयवाः ॥
यस्तु मन्यते अवयवानां धर्ममात्रमवयवी न त्ववयवेभ्यो ऽत्यन्तं भिन्नो ऽभिन्नो वा भिन्नत्वे गवाश्ववद्वर्मधर्मिभावानुपपत्तेः ।
अभेदे ऽपि धर्मिरूपवत्तदनुपपत्तेश्च ।
तस्मात्कथं चिद्भिन्नो ऽभिन्नश्च कथं चिद्धर्ममात्रमवयवानाममयवीति तं प्रत्याह ।
न चावयव्यवयवाः (सू। १०) ॥
न तावद्भेदाभेदौ परस्पराभावात्मानावेकत्र समवेत इत्युक्तम् ।
नाप्यात्यन्तिके ऽभेदे धर्मधर्मिभावः तस्माद्यथात्यन्तिकभेदे ऽपि केषाञ्चिदेव कार्यकारणभावः तथा केषां चिदेव धर्मधर्मिभाव इत्येषितव्यम् ।
तथा च दूषणमित्यर्थः ।
अवयवी चैकदेशेनावयवे वर्त्तत इति अवयवसमूहमात्रमवयवी प्राप्नोतीति ।
अस्यायमर्यः ।
अवयवे हि वर्त्तमानो ऽवयवीत्युच्यते ।
अवयव्येकदेशाश्चेदवयवेषु वर्त्तन्ते एकदेश
एव तर्ह्यवयविनः ।
ते च नानेत्त्यवयवसमूहमात्रमवयवी प्राप्नोति ।
एकस्मिंश्चावयवे एकदेशे वर्त्तमानो ऽवयवीति न तावदवयवी क्वचिदवयवे वर्त्तत इति तदेकदेशानां तत्र तत्रावयवे वृत्तेः तावन्मात्रेण चावयविनो ग्रहणमिति यत्रैवास्यैकदेशो वर्त्तते तत्रैव ग्रहीतव्यः ।
तथा चैकस्मिन् तन्तौ पटैकदेशो वर्त्तत इति तन्तावेकस्मिन् पटो दृश्येतेत्यर्थः ॥ १० ॥
न्य्स्_४,२।११: एकस्मिन् भेदाभावाद् भेदशब्दप्रयोगानुपपत्तेरप्रश्नः ॥
सिद्धान्तवाद्याह ।
न्य्स्_४,२।१२: अवयवान्तराभावे ऽप्यवृत्तेरहेतुः ॥
एकदेशनेन चावयवी न स्वावयवेषु वर्त्ततैत्यत्र प्रतिज्ञार्थे अवयवान्तराभावादित्यहेतुः ।
कस्माद् यद्यप्यवयवान्तरमवयविनो भवति तथाप्यवयवान्तराण्यवयविनो ऽवयवान्तरेषु वर्त्तन्ते किमायातमवयविवृत्तेरिति ।
एक श्चानेकत्र वर्त्तत इति प्रतिज्ञानानः किं कार्त्स्न्येन किमेकदेशेनेति नानुयोक्तव्यः, कस्मात्
उभयेन कार्त्स्न्येन एकदेशेन वा नानात्वैकार्थसमवायिना एकस्यावयविनो व्याघातात् ।
एतदुपजीव्याह यद्यवयवी नैकदेशेन वर्त्तने न कार्त्स्न्येन
अथ कथं वर्त्तत इति ।
शङ्कते रूपान्तरानिर्द्देशादिति चेत् ।
(५०६।७) सोपहासं दृष्टान्तमाह ।
यथा अचित्रास्तन्तवः पटं चित्रमारभन्त इति ।
नैयायिकैः किलाचित्रैस्तन्तुभिश्चित्रः पट आरभ्यतैत्यभ्युपेयते ।
तच्चैतदयुक्तम् ।
न तावच्चित्रं रूपमेकं पटसमेवतं स्ववचनविरोधात् ।
नाना हि चित्रमुच्यते तत्कथमेकमिति ।
तेन यदुक्तं भवति नानैकमिति तदुक्तं भवति चित्रमेकमिति ।
यदाहुः ॥। चित्रं तदेकमिति चेदिदं चित्रतरं महदिति ।
न च नीलपीतादय एव बहवो ऽव्याप्यवृत्तयश्चित्रपदास्पदमिति साम्प्रतम् ।
रूपादनां व्याप्यवृत्तित्वात् ।
ते ऽमी विवादाध्यासिता नीलपीतादयो व्यापनीया आश्रयवृत्तयो रूपजातीयत्वात्
शुक्लपटगतरूपवदिति–उपपन्न उपहासो यथा अचित्रास्तन्तवः पटं चित्रमारभन्त इति ।
निराकरोति ।
नोपलभ्यमानरूपाधारत्वात् ।
अवयविनो रूपं निर्द्दिश्यतामिति ब्रुवाणेनेति ।
अवयवो ऽस्यास्तीत्यवयवी अवयवश्च कारणं तद्वानवयवी कार्यमिति कार्यकारणभावाभ्युपगमः कुतो भवति ।
न च प्रसङ्गसाधनं नाम किं चिदस्ति प्रमाणम् ।
तर्कस्तु भवेत् न चायं प्रमाणेनेतिकर्तव्यतां विना प्रमाणमर्थं साधयितुमर्हतीत्यर्थः ।
यदपि त्वयोपहासाभिप्रायेण पटरूपं चित्रं दृष्टान्तीकृतं तत्राभिप्रायस्तावत्तव यादृशस्तादृशोवा सचनात्तावदयं दृष्टान्तः प्रतिभाति ।
दृष्टान्तश्च वादिप्रतिवादिनोरविवादविषय इति तत्साधनं व्यर्थम् ।
तथा ऽप्युपेत्य चित्रवादं ब्रूमः त्वां प्रति चित्रं रूपं पटसम्बन्धितया साधयामस्त्वदभिप्रायव्याप्तोपहासनिराकरणायेत्यर्थः ।
पटस्य चित्रं रूपमित्यनुभव एवात्राबाधितः प्रमाणमिति भावः ।
बौद्धः स्वाभिप्रायमुद्घाटयति अनेकत्वप्रसङ्ग इति श्चेदिति ।
निराकरोति ।
चित्रशब्दस्यैकानेकविषयत्वात् ।
यदि नानैव चित्रमुच्येत ततः स्याद्विरोधः किं त्वेकस्मिन्नपि चित्रपदं प्रयुज्यते ।
तस्मान्नैकत्वेनास्य विरोध इत्यर्थः ।
देशक आह नैकस्मिन्नदृष्टत्वात् ।
एकस्मिंश्चित्रग्राहिणो ऽनुभवस्यादृष्टत्वात् ।
पुरुषविवक्षाधीनप्रवृत्तयस्तु शब्दाः क्व नाम दुर्लभा इति भावः ।
परिहरति नाभ्युपेतहानेरिति ।
(५०७।१) न तावदनेकपदपर्यायश्चित्रशब्दो ऽनेकं चित्रमित्यनेक प्रदेन सामानाधिकरण्यं प्रतिपत्तुमर्ह्वति ।
पर्यायशब्दानां सहप्रयोगानुपपत्तेः दृश्यते तु प्रयोगो ऽनेकं चित्रमिति ।
तस्माद्यथा शुक्लानि नाना तथा चित्राणि नानेत्यभ्युपेतव्यम् ।
तथा चैकं शुक्लमनभ्युपगच्छतो यथा शुक्लनानात्वाभ्युपगमो हीयते एवमेवैकं चित्रमनभ्युपगच्छतश्चित्रनात्वाभ्युपगमो हीयतहत्यर्थः ।
शङ्कान्तरमाह ।
अथानेकमचित्रमिति ।
निराक्ररोति ।
एवमपीति ।
शङ्कते ।
अथाचित्राणीति ।
परिहरति एवं च न किं चिदिति ।
इष्यत एवास्माभिर्यथा ऽवयवसमवेतैः सितहरितलोहितादिभिरसमवायिकारणैरवयविनि चित्रं रूपमारभ्यत इति ।
देशयति पुटान्तर
इति ।
पुटान्तरं पार्श्वान्तरम् ।
परिहरति ।
भवतैवेदेमुक्तमिति ।
एको ऽपि गुण आरभत इति मत्वा शङ्कते ।
चित्रप्रत्ययस्तत्रेति ।
समाधते न प्रसक्त इति ।
ननु यच्चित्राचित्राभ्यामारब्धमवयविनो रूपं तदपि पीतादिवन्निद्दिंश्यतां न च शक्य निर्द्देष्टुं तस्मान्नास्तीत्यत आह ।
एतावदिति ।
अनिर्वाच्यमप्यनुभूयमानमशक्यापहूवम् ।
यथेक्षुक्षरीरादीनां माधर्यस्यान्तरं महदित्यर्थः ।
न तावदवयवरूपादयवविनो ग्रहणं युक्तमिति ।
न द्रव्यान्तररूपेण द्रव्यान्तरे चाक्षुषत्वं दृष्टं न खलु पृथिव्यादिरूपेण वायुश्चाक्षुष इत्यर्थः ।
प्रकृतमुपसंहरति ।
तस्मादिति ।
अविकल्पिता अविचारिता इत्यर्थः
(५०८।५) ॥ १२ ॥
न्य्स्_४,२।१३: केशसमूहे तैमिरिकोपलब्धिवत्तदुपलब्धिः ॥
न्य्स्_४,२।१४: स्वविषयानतिक्रमेणेन्द्रियस्य पटुमन्दभावाद् विषयग्रहणस्य तथाभावो नाविषये प्रवृत्तिः ॥
सर्वाग्रहणमवयव्यसिद्धेरिति अत्र प्रत्यवस्थितः पूर्वपक्षी अथेदमाहेति ।
केशसमूहे तैमिरिकोपलब्धिवत्तदुपलब्धेरित्यादिसूत्रभाष्यवार्तिकानि पूर्वपक्षसिद्धान्तयोरतिरोहितार्थानि ॥ १३-१४ ॥
न्य्स्_४,२।१५: अवयवावयवप्रसङ्गश्चैवम् आप्रलयात् ॥
अपि चायं वृत्तिविकल्पं
आश्रयव्याघातादयुक्त इत्याह ।
अवयवावयविप्रसङ्गश्चैवमा प्रलयात् (सू। १५) ॥
अत्र त्रयः पक्षाः सम्भवन्ति ।
यो ऽयमवयवेषु अवयविवृत्तिविकल्पानुपपत्त्या अवयविनो ऽभावप्रसङ्ग आपाद्यते स आ प्रलयाद्वा निवर्त्तता परमाणोर्वा न क्व चिदपि निवर्त्तते इति ।
तत्र प्रथम द्वितीयविकल्पावाश्रित्येदंसूत्रम् ।
यथैव वृत्तिविकल्पः स्थूले घटादाववयवेषु तदवयवेष्विति तदभावात्प्रलये व्यवतिष्ठेत ।
न च तदा प्रलयः सर्वोपाख्याविरहितो दर्शनविषयः सम्भवतीति दर्शनविषयाभावादनाश्रयो विकल्प आत्मानमेव न लभते ।
उपलक्षणं चैतदा प्रलयादिति ।
आ परमाणोरित्यपि द्रष्टव्यम् ।
परमाणूनामप्यतीन्द्रियत्वेन दर्शनविषयत्वाभावादनाश्रयता विकल्पस्य तदवस्थैव ।
तदिदमुक्तं निरवयवाद्वा परमाणुतो निवर्त्तेतेति ॥ १५ ॥ अथापीति ।
न्य्स्_४,२।१६: न प्रलयो ऽणुसद्भावात् ॥
अपि चेत्यर्थः ।
अपि च प्रलयमभ्युपेत्येदमुक्तमा प्रलयादिति ।
वस्तुतस्तु ।
न प्रलयो ऽणुसद्भावात् (सू। १६) ॥
निरवयवत्वे प्रमाणमाह ।
निरवयवत्वं तु परमाणोरिति ॥ १६ ॥
न्य्स्_४,२।१७: परं वा त्रुटेः ॥
अथानन्त एवायमवयवाक्यविविभागः कस्मान्न भवतीत्यत आह ।
परं वा त्रुटेः (सू। १७) ॥
त्रुटिस्त्रसरेणुरित्यनर्थान्तरम् ।
जालसूर्यमरीचिस्थं त्रसरेण रजः स्मृतम् ।
यदि त्रुटेः परं द्वित्रिपदके ऽवयवविभगो न व्यवतिष्ठते ततो ऽवयवविभागस्यानवस्थानाद्
द्रव्याणामसङ्ख्येयत्वात् त्रुटित्वनिवृत्तिः
त्रुटिरपि सुमेरुणा तुल्यपरिमाणः स्यात् ।
न खल्वनन्तावयवत्वे कश्चिद्विशेष इत्यर्थः ।
वार्तिकं यावद्वा प्रलयो ऽनिवृत्तिर्वेति ।
प्रलयपरमाणुपक्षे विकल्पनिवृतिर्नास्ति दर्शनविषयस्तु नास्तीत्यनाश्रयो विकल्पः ।
अनन्तावयवत्वे सर्वस्य विकल्पाघ्रातत्वेव दर्शनविषयाभाव इत्यनाश्रयो विकल्पैत्यर्थः ।
सङ्ख्योदाहरणम् ।
इयन्तश्च ते परमाणवः संहतास्त्रुटिभावमापद्यन्त इति (५१०) ।
सावयवत्वे तु परमाणुशब्दस्यार्थो वक्तव्यः ।
किमुक्तं भवति परमाणुरिति परमत्वविशिष्टो ह्यणुः परमाणुः यतः क्षोदीयो नापरमस्तीति यावत् ।
तस्मादपि चेत् क्षोदीयो ऽन्यदस्ति नैष परमत्वविशिष्टो ऽणुरित्यर्थः ।
अथ भिन्नपरिमाणाः परमाण्ववयवास्ततो न्यूनपरिमाणा इति यावत् ।
ततो न परमाणुः प्रतिषिध्यते परमाण्ववयवा एव परमाणवस्ते चानवयवत्वादकार्याः ।
त्वया च परमाण्वारब्धं कार्यं परमाणुरिति कृत्वा आरोप्य वृत्तित्रिकल्पेन प्रतिषिध्यत इति ॥ १७ ॥
न्य्स्_४,२।१८: आकाशव्यतिभेदात् तदनुपपत्तिः ॥
अथेदानीमानुपलम्भिकस्तस्य व्याख्यानं सर्वं नास्तीति मन्वानं आह ।
आकाशव्यतिभेदात्तस्य परमाणोर्निरवयवस्यानुपपत्तिः ।
सावयत्वे तु वृत्तिविकल्पात्तदभाव इति शून्यतैव तत्त्वं भावानाम् ।
अनाश्रितोपि विकल्पो यथा लोकप्रतीतिकल्पनामात्रनिर्मितस्तात्त्विकीं शून्यतां गमयति ।
मिथ्याज्ञानानामपि तत्त्वावगमहेतुत्वदर्शनात् ।
यथा दूराद्वनस्पतौ हस्तिप्रत्ययप्रवाहो वनस्पतितत्त्वप्रतिपत्तेर्द्देतुः ।
यथा रेखागवयो वा गवयत्वप्रतिपत्तेरित्यादि बहूत्प्रेक्षितव्यमिति भावः ।
तेदतद्वार्त्तिककारोदूषयति ।
आकाशव्यतिभेदादनित्यः परमाणुरित्यभिधानो व्यतिश्रेदार्थं प्रष्टव्य
इति ।
न्य्स्_४,२।१९: आकाशासर्वगतत्वं वा ॥
न्य्स्_४,२।२०: अन्तर्बहिश्च कार्यद्रव्यस्य कारणान्तरवचनादकार्ये तदभावः ॥
(५११।४) अन्तर्बहिरिति वचनं कार्यस्य कारणान्तरवचनमिति (५१२।३) कारणान्तरं कारणविशेषः तस्य वचनमित्यर्थः ।
उपेत्य परमाणोरवयवान्न तद्विभागस्याकाशं कारणमिति आकाशव्यतिभेदादित्याकाशहेतुकं व्यतिभेदं विभागमाह ।
न चाकाशं विभज्यमानयोर्द्रव्यान्तरयोर्विभागस्य कारणमपि तु कर्मेत्यर्थः ।
सर्वतो ऽव्यवहितस्य यस्य मध्ये अवयवा न सन्तीति तत्सुपिरमिति ।
सर्वतो ऽव्यवहितस्पय निरन्तरस्यावयविनः स्वावयवद्वारेण ।
एतदुक्तं भवति ।
यस्यावयवाः परितो निरन्तरमवस्थिता मध्ये च न सन्ति तत्सुषिरमिति ।
यन्मूर्तिमत्तेन सर्वेणसम्बध्यते ।
मूर्तिमता सर्वेण सम्बद्धत्त्वं सर्वतत्वं वदतो वार्तिककारस्याजसंयोगस्याभ्युपगमः प्रौढिवादतयेति लक्ष्यते ॥ १९-२० ॥
न्य्स्_४,२।२१: सर्वसंयोगशब्दविभवाच्च सर्वगतम् ॥
न्य्स्_४,२।२२: अव्यूहाविष्टम्भविभुत्वानि चाकाशधर्मार्ः ॥
स्यादेतत्
आकाशं चेत्सर्वगतं ततो मूर्तिमतां द्रव्याणां तेन प्रतिबन्धाद्गतेरावरणं व्यूहान्तरापादनं च जलौघस्येव नावादिना भवेन्न चास्ति,
तस्मान्न सर्वगतमित्यत आह ।
अव्यूहाविष्टम्भविभुत्वानि चाकाशधर्माः (सू। २२) ॥
यत एवाव्यूहाविष्टम्भावत
एवाप्रत्यूहं विभुत्वमस्येत्यर्थः ॥ २२ ॥
न्य्स्_४,२।२३: मूर्तिमतां च संस्थानोपपत्तेरवयवसद्भावः ॥
पुनः शून्यतावादी प्रत्यवतिष्ठते ।
मूर्त्तिमताम्व च संस्थानोपपत्तेरवयवसद्भावः (सू। २३) ॥
चस्त्वर्थः सिद्धान्तं निवर्त्तयति ।
यद्यपि मूर्तिमतामिति सम्बन्धित्वमात्रेणोपात्तं सूत्रं तथापि हेतुपदतया वार्तिककारोव्याचष्टे ।
सावयवाः परमाणवोमूर्त्तिमत्त्वाद् घटादिवदिति ।
(५१३।१९) प्रयोगान्तरमाह संस्थानवत्त्वादिति ॥ २३ ॥
न्य्स्_४,२।२४: संयोगोपपत्तेश्च ॥
सूत्रान्तरमनुवृत्तिसहितं पठति ।
संयोगोपपत्तेश्च (सू। २४) ॥
इति ।
न्य्स्_४,२।२५: अनवस्थाकारित्वादनवस्थानुपपत्तेश्चाप्रतिषेधः ॥
पौनरुक्त्यं देशयति ।
नन्विदमिति (५१४।४) परिहरति ।
न चरितार्थमिति ।
मूर्तिर्नामाव्यापिनो द्रव्यस्य षड्विधं परिमाणमिति ।
परमह्वस्वत्वपरमाणुत्वे परमसूक्ष्म एव द्रव्ये व्यवतिष्ठेते व्यापि तु गृहीत्वा परममहत्त्वपरमदीर्घत्वाभ्यामष्टविधं परिमाणं भवति ।
परममहत्त्वपरमदीर्घत्वं च सर्वगतव्यापिनी इति न मूर्तिः ।
असर्वगतद्रव्यपरिमाणं मूर्त्तिरिति पारमर्षंवचनात् ।
संस्थानं नाम प्रचयाख्यः संयोगो घटादिवृत्तिर्घटत्वादिजातिव्यक्तिहेतुरिति ।
संयोगः संयोगमात्रं न त्वप्राप्तिपूर्विका प्राप्तिरिति ।
तस्मादपौनरुक्त्यम् ।
तदेतच्छून्यतामतमपाकरोति ।
यत्तावन्मूर्तिमत्त्वादिति ।
शून्यतावादी प्रलयान्तत्वाभिमानेनाह ।
अथ तावदिति ।
सिद्धान्त्याह अन्तो निरवयव
इति ।
प्रलयान्तत्वमधस्तान्निकाकृतमिति भावः ।
नन्वधस्तान्निराकरणान्मा भूत्प्रलयान्तो विभागो विभागान्तस्तु भविष्यति किं परमाण्वन्तताग्रहेणेत्याशङ्कते ।
अथान्तो विभागः ।
निराकरोति ।
स न युक्त
इति ।
नासति गुणिनि गुणो ऽस्तीत्यर्थः ।
एतावन्तश्च कल्पाः सम्भविनः ।
तत्र प्रथमकल्पे अनैकान्तिकत्वव्याघातौ द्वितीये विभागस्यानाधारत्वप्रसङ्गः तृतीये त्रुटेरमेयत्वप्रसङ्ग इत्याह ।
एतावच्चैतत् (कल्पजातम्) स्यादिति ।
परमाण्वन्ततां विभागस्य ब्रुवन्निरवयवं मूर्त्तिमन्तं परमाणुं प्रतिपद्यस इति ।
अनन्तत्वे तु त्रुटेरमेयत्वप्रसङ्गो व्याघातः ।
प्रलयान्तत्वे च विभागस्यानाधारत्त्वप्रसङ्गो व्याघातः ।
सावयवशब्दस्यार्थः समानजातीयावयवं न केवलं तदारव्धमपि तु तदाश्रितम् ।
तन्त्वाद्यारब्धं पटादि द्रव्यं तन्त्वाद्याश्रितं च ।
नन्वेवमपि कुतः सावयवत्वमित्यत आह ।
अवयवस्तदाधारस्तस्य समानजातीयारब्धस्य कार्यद्रव्यस्याधारः
तस्मात्सावयवत्वं कार्यविशेषः तस्मात्सावयवाः परमाणव इत्यतिब्रुवता कार्यविशैषः परमाणुरित्युक्तं भवति ।
कार्यविषेश्च परमाणुरिति व्याहतम् ।
(५१५।२) आनन्त्ये तु त्रुटेरमेयत्वप्रसङ्गात् ।
सा खल्वनवयवस्य कल्पितस्य परमसूक्ष्मतया परमाण्वाख्या तेन परमाणुरिति किमुक्तं भवति अनवयवो ऽकार्यश्चेति ।
सावयव इति किमुक्तं भवति सावयवः कार्यश्चेति ।
प्रतिज्ञापदयोर्व्याघातैत्यर्थः ।
अथ मा भूत्त्रृटेरमेयत्वमित्येकपरमाणुपूर्वकत्वं परमाणोः प्रतिपद्यसे ।
शेषमतिरोहितार्थम् ।
यदि द्वे द्रव्य अधिकृत्याभिधीयत इति ।
मध्यस्य हि परमाणोरुपयर्धः पार्श्ववर्तिभिः परमाणुभिर्ये संयोगास्तत्र मध्यस्य पूर्वेण परमाणुना यः संयोगो नासौ मध्यपश्चिमपरमाण्वाश्रितः
एवं मध्यमपरमाणुसंयोगो नैव मध्यमपूर्वपरमाण्वाश्रय
इति ।
एव मन्यत्रापि द्रष्टव्यम् ।
षडपि भिन्नदेशा एवेति समानदेशत्वमंसिद्धम् ।
अथ परमाणूनां सम्बन्धिनं परमाणुं मध्यमधिकृत्योच्यते तदाश्रिता हि संयोगाः षडपि भवन्तीति तत्राह ।
न किं चिद्बाध्यत इति ।
(५१७।२) स्यादेतत् ।
संयोगसमानदेशत्वेन परमाणवो ऽपि संयुक्ताः समानदेशा इति पिण्डस्याणुमात्रत्वप्रसङ्ग
इति परोक्तमनुवदति ।
यत्पुनरेतदिति ।
तद् दूषयति ।
तन्नेति ।
यत्र यत्समवेतं स तस्य दोशो यथा रूपादीनां द्रव्यम्, न च परमाणवः क्व चित्समवयन्ति किं तु तत्संयोगाः ।
तेन देशवतां संयोगानामस्तु समानदेशता न तु परमाणूनामदेशत्वादित्यर्थः ।
देशयति ।
ननु कार्यकारणे इति ।
यथेह कुण्डे बदरमिति यथा बदरं कुण्डदेश एवं तदवयवास्तदवयवाः ।
न च समवाय एव देशदेशित्वनिबन्धनमपि तु संयोगो ऽपि ।
न हीह कुण्डे बदरमिह पटे शुक्लत्वमिति वा आधार्याधारप्रत्ययो विशिष्यते ।
तस्माद्बहूनां द्रव्याणां समानदेशत्त्वदर्शनान्नासिद्धो दृष्टान्त इत्यर्थः ।
तद् दूषयति ।
एतदनभ्युपगमेन प्रत्युक्तम् ।
द्रव्याणामेकत्र समवायेन समानदेशतां व्यासेधामो न तु संयोगेन, समवायेन हि समानदेशता स्थौल्यपरिपन्थिनी ।
यथा गन्धरसरूपस्पर्शाः समानदेशा न स्थौल्यमारभन्ते तत्कस्य हेतोः एषाममूर्तानां समानदेशसमवायात् ।
मूर्तास्तु स्पर्शवन्तः समवायेनासमानदेशाः परस्परसंयोगिनो यदि स्थौल्यमारभन्ते किं बाध्यते तस्मात्संयोगिनो यदि स्थौल्यमारभन्ते किं बाध्यते तस्मात्संयोगेन समानदेशता न प्रतिषध्यते समवायेन तु प्रतिषिध्यते सा हि स्थौल्यविरोधिनीति सिद्धम् ।
अभ्युपेत्यैवमुक्तं संयोगाः समानदेशा इति ।
परमार्थतस्तु कुण्डबदरसंयोगस्य कुण्डबदरे आश्रयः
तदवयवकुण्डबदरसंयोगस्य कुण्डबदरावयवा इति सिद्धं संयोगानामपि भिन्नदेशत्वमित्याह ।
न च संयोगा अपीति ।
उपसंहरति ।
षण्णां समानदेशत्वादिति ।
वाक्यमिति ।
यत्पुनरुक्तं दिग्देशभेदो यस्यास्ति तस्यैकत्वं न युक्तमिति ।
परमाणोः किल भवदभिमतस्यैकस्य दिग्भागाः षट्, न चैकस्य दिग्भागे भेदो ऽस्तीति षडेव परमाणवः ।
एतद् दूषयति क एवमाह दिग्देशभेदो (यस्या) स्तीति ।
स्वरूपेणैका दिक् सर्वगता च नास्या भेदो ऽस्तीत्यर्थः ।
यद्येकैव दिक् क्व तर्हि परमाणावस्मादयं परमाणुः पूर्वो ऽयं पश्चिम इत्यादयो बुद्धिव्यपदेशभेदा इत्यत आह ।
दिग्देशभेदाश्च दिशः संयोगा एकत्वे ऽपि दिश आदित्योदयदेशप्रत्यासन्नदेशसंयुक्तो यः सैतरस्माद्विप्रकृष्टदेशसंयोगात्परमाणोः पूर्वःप एवमादित्यास्तमयदेशप्रत्यासन्नदेशसंयुक्तो यः स इततस्माद्विप्रकृष्टदेशसंयोगात्परमाणोः पश्चिमः तौ च पूर्वपश्चिमौ परमाणू अपेक्ष्य यः सूर्योदयास्तमयदेशविप्रकृष्टदेशसंयोगः स मध्ववतीं ।
एवमेतयोर्यौ तिर्यग्देशसम्बन्धिनौ मध्यस्य आर्जवेन व्यवस्थितौ पार्श्ववर्तिनौ तौ दक्षिणोत्तरौ परमाणू एवं मध्यन्दिनवर्तिसूर्यसन्निकर्षविप्रकर्षौ पूर्वसङ्ख्यावच्छिन्नत्वं चाल्पत्वं परसङ्ख्यावच्छिन्नत्वं च भूयस्त्वम् ।
तस्मादेकस्यापि परमाणोः परमाण्वन्तरसंयोगा अव्याप्यवृत्तय एव भागाः ।
एवं दिशो ऽप्येकस्या अपि संयोगा एव भागाः सो ऽयं परमाणोः षट्केन युगपद्योगो मूर्त्तत्वमात्रप्रयुक्तो न सावयवत्वप्रयुक्त
इति न सावयवत्वं गमयितुमर्हतीति ।
तेन युदच्यते प्रसङ्गसाधनं परैः यन्निरयवं तन्न षट्केन संयुक्तं यथा विज्ञानं तथा च परमाणुरिति व्यापकविरुद्धोपलब्धिरिति तन्निरस्तम् ।
मूर्तत्वप्रयुक्तत्वेन षट्कसंयोगस्य सावयवत्वेन व्याप्तेरसिद्धेः ।
छायातपयोगो ऽपि परमाणोरेकसंयोगस्याव्याप्यवृत्तित्वेनोपपन्नः ।
नन्वनवस्था नोपपद्यत इत्युक्तं तत्कुत इत्यत आह भाष्यकारः ।
अनवस्थायां प्रत्यधिकरणं द्रव्यावयवानामानन्त्यात् ।
क्रियावत्त्वादीनहेतून् सर्वथा विकल्प्य वार्तिककारो दूषयति ।
ये तु क्रियावत्त्वादिति ।
एतेनासिद्धत्वेन ।
न हि घटादिकमवयविनमनभ्युपगच्छतो घटादिरस्तीत्यर्थः ।
मतुपश्चार्थान्तरे दृष्टत्वाद्विरुद्ध इति ।
क्रिया परमाणोरर्थान्तरमनिच्छतो मतुप्प्रयोगो विरुद्ध इत्यर्थः ॥ २५ ॥
न्य्स्_४,२।२६: बुद्ध्या विवेचनात्तु भावानां याथात्म्यानुपलब्धिस्तन्त्वपकर्षणे पटसद्भावानुपलब्धिवत्तदनुपलब्धिः ॥
विज्ञानवाद्याह यदिदं भवान् बुद्धीरिति ।
यदि पटस्तन्तुभ्योभिन्नो भवेत्तन्त्वतिनेकेण गौरिवाश्वातिरेकेणोपलभ्येत ।
न चोपलभ्यते तस्मात्पट इति मिथ्याबुद्धिरियम् ।
तन्तुरित्यपि मिथ्याबुद्धिरंशुभ्यो भेदेनानुपलम्भात् ।
एवमंशुरित्यपि ।
तदनेन क्रमेण परमाणुष्वपि बुद्ध्या विविच्यमानेषु याथात्म्यानुपलब्धेर्न बाह्यवस्तु स्थूलं वा क्षोदीयो वास्तीति सर्वा एव बुद्धयः स्वाकारमबाह्यं बाह्यतया आलम्बमाना मिथ्याभूता इति ।
ननु पटादयः सावयवा भवन्त्वेवं परमाणूनां त्वनवयवत्वाद्
बुद्ध्या विवेचनाद्भावानां याथात्म्योपलब्धिरित्यत
आह ।
परमाणवो ऽपि भागशोविभज्यमानान्तावद्यावत्प्रलय
इति (५१९।१७) ।
भवन्तु परमाणवो ऽनवयवाः संयोगेभ्यस्तु षड्भ्यो बुद्ध्या विविच्यमानस्य याथात्म्यमुपलभ्यत इति ॥ २६ ॥
न्य्स्_४,२।२७: व्याहतत्वादहेतुः ॥
तदेतद् दूषयति ।
व्याहतत्वादहेतुरिति ।
यस्य विविच्यामानस्य याथात्म्यानुपलब्धिस्तत्कुतश्चिद्विवेचनीयम्
अवध्यभावे तदनुपपत्तेः ।
तथा च तेनावधिपना क्व चिदवस्थातव्यम् ।
अनवस्थायां त्रुटेरमेयत्वप्रसङ्गादित्युक्तम् ।
तस्मात्परमाणुषु वा तत्संयोगेषु वा तेनावस्थातव्यम् ।
तथा च यतो विविच्यते भावः स एवास्पयावधिर्याथात्म्येनोपलभ्यत इति बुद्ध्या विविच्यमानस्य सर्वभावानुपपत्त्याव्याघात
इति सिद्धम् ।
दूषणान्तरमाह ।
सर्वभावानुपपत्तिरिति ।
(२५०।५) प्रमाणस्यापि भावात् तद्गतत्वेन तदनुपपत्तौ सर्वभावानुपपत्तिरित्यर्थः ॥ २७ ॥
न्य्स्_४,२।२८: तदाश्रयत्वादपृथग्ग्रहणम् ॥
तदाश्रयत्वादपृथग्ग्रहणम् (सू। २८) ॥
अपृथग्ग्रहणादिति ब्रुवाणः प्रष्टव्यो जायते ।
किं विलक्षणव्यवहाराभावः उत भेदाभावः
उत तन्तुव्यतिरेकेण देशान्तरे ऽनुपलम्भ
इति ।
न तावदाद्यः तन्तवो हि भिन्नाभबुद्धिवेद्याः पटस्तु अभिन्नाभबुद्धिवेद्य इति ।
नापि द्वितीयः ।
तन्तूनामंशुदेशत्वात् पटस्य तन्तुदेशत्वात् ।
तस्मात्तन्तुभ्यो ऽन्यत्रादर्शनमपृथग्ग्रहणं तच्च भेदे ऽपि तदाश्रितत्वेनोपपद्यमानं नाभेदं गमयितुमर्हतीत्यर्थः ।
भाष्यं बुद्ध्या विवेचनात्तु भावानां पृथग्ग्रहणमतीन्द्रियेष्वणुषु ।
यत्र खल्ववयवावयविनावैन्द्रियकौ तत्र पृथग्ग्रहणमविवेचकानामस्फुटतरमतीन्द्रियेभ्यो ऽणुभ्य आनुमानिकेभ्यः प्रत्यक्षदृश्यानां तदाश्रितानामवयविनां पृथग्ग्र्हणमित्यतिस्फुटमित्यर्थः ॥ २८ ॥
न्य्स्_४,२।२९: प्रमाणतश्चाथप्रतिपत्तेः ॥
सम्प्रत्यैन्द्रियके ऽप्यवयवे ऽवयविनो विविच्यमानस्य याथात्म्येन पृथग्ग्रहणमाह ।
प्रमाणतश्चार्थप्रतिपत्तेरिति ।
यदस्ति–पटादिकमवयवि द्रव्यं यथा च स्वावयवसमवेतत्वेन गुणाधारतया च,
यन्नास्ति–शशविषाणादि, यथा च–कार्यकारणभावेन,
तत्सर्वं प्रमाणत उपलब्ध्या सिध्यति ।
सुगमं भाष्यम् ॥ २९ ॥
न्य्स्_४,२।३०: प्रमाणानुपपत्त्युपपत्तिभ्याम् ॥
न्य्स्_४,२।३१: स्वप्नवविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः ॥
यदुक्तं प्रमाणोपपत्त्यनुपपत्तिभ्यां न सर्वभावानुपपत्तिरिति ।
तत्र प्रत्यवतिष्ठते विज्ञानवादी ।
स्वप्नविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः (सू। ३१) ॥
न खलु वास्तवः प्रमाणप्रमेयभावः किं त्वनादिवासनानिबन्धनकल्पनाधीनः ।
यथा हि न स्वप्ने सन्ति विषया अथ च प्रतिभान्ति कल्पनामत्रेण तथा च सांवृतेनापरमार्थसता प्रमाणप्रमेयभावेन बाह्यार्थशून्यता सिध्यति परमार्थसती प्रत्ययानां दृष्टा मिथ्याप्रत्ययानामपि तत्त्वप्रतिपत्तिहेतुतेत्यावेदितं पुरस्तादित्यर्थः ।
तद्व्याचष्टे वार्त्तिककारः ।
यथा न स्वप्ने विषयाः सन्तीति ॥ ३१ ॥
न्य्स्_४,२।३२: मायागन्धर्वनगरमृगतृष्णिकावद्वा ॥
ननु स्वप्नप्रत्ययानामस्त्वेवन्धर्मकत्वं ये पुनरभी जाग्रत्यत्प्रयाः स्तम्भ इति वा कुम्भ इति वा किमायातं तेषामत्यन्तवैलक्षण्यादित्यत
आह ।
मायागन्धर्वेति ।
जाग्रत्प्रत्यया अप्येवंविधाः सहस्रशो दृश्यन्ते न चैते स्तम्भकुम्भादिप्रत्ययास्ततो विलक्षणा इत्यर्थः ॥ ३२ ॥
न्य्स्_४,२।३३: हेत्वभावादसिद्धिः ॥
तदेतद्दूषयति ।
हेत्वभावादसिद्धिः (सू। ३३) ॥
न्य्स्_४,२।३४: स्मृतिसङ्कल्पवच्च स्वप्नविषयाभिमानः ॥
तद्व्याचष्टे भाष्यकारः ।
स्वप्नान्ते विषयाभिमानवदिति ।
अन्तशब्दो ऽवयववचनो ऽप्याश्रितत्वमात्रेणावस्थायां प्रयुक्तः ।
तेन स्वप्नावस्थाया मित्यर्थः ।
एतदुक्तं भवति स्वप्नज्ञानस्यायाथार्थ्यमिच्छता वाधकपन्तरेण तदनुपपत्तेर्जाग्रत्प्रत्ययो ऽस्य बाधको वक्तव्यः
न चासावसमीचीनस्तद्बाधितुमुत्सहत इति समीचीनत्वं जाग्रत्प्रत्ययस्याभ्युपगन्तव्यम् ।
तथा च जागरितान्ते विषयोपलब्धिवदित्यनुपपन्नम् ।
वार्त्तिकं ख्यातिरिति चेत् ।
प्रत्ययत्वमेव स्वप्नोदाहरणसहितं प्रमाणप्रमेयाभिमानभिथ्यात्वे हेतुरित्यर्थः ।
विपर्यये च सामर्थ्याभावादिति ।
पूर्वं प्रतिबुद्धेनेति विशेषणं विवक्षित्वोक्तम् ।
अधुना त्वनुपलब्धेरिति विवक्षित्वोच्यतैत्ययौ नरुक्त्यम् ।
अत्र विज्ञानवादी स्वपक्षे प्रमाणमाह ।
न चित्तव्यतिरेकिणो विषयाः ग्राह्यत्वाद्
वेदनावदिति ।
इदमत्राकूतम् ।
विज्ञानस्य हि बाह्योर् ऽथो ग्राह्यो भवन्निराकारस्य सत्तामात्रेण वा भवेत् कारणत्वेन वा एकसामग्र्यधीनत्वेन वा ज्ञानाहितफलाधारत्वेन वा ।
न तावत्सत्तामात्रेणान्यस्यान्यो विषयः सत्तामात्रस्य विषयान्तरेषु भावात्सर्वे ऽर्थाः सर्वविषया इति सर्वसर्वज्ञतापत्तिः ।
न च सत्तामात्रामपि विषयत्वव्यवस्थापकम्
असतो ऽपि विषयत्वात् ।
अत एव न कारणत्वेन विषयभावः ।
अपि च चक्षुरादयो ऽपि विज्ञानस्य कारणमिति विषया रूपविज्ञानस्य प्रसज्येरन्,
वर्त्तमानावभासि च विज्ञानं न भवेत् ।
क्षणिकत्वेनोत्पादकस्यार्थक्षणस्योत्पाद्यविज्ञानसमये विनिपातात् ।
एकसामग्र्यधीनत्वेन तु विषयत्वे वर्त्तमानावभासितोपपद्यते ।
सा तु नोपपद्यते असतोरप्यतीतानागतयोर्ग्रहणे व्यापकत्वादतिव्यापकत्वाच्च इन्द्रियादिक्षणस्यैकसामग्र्यधीनस्यालम्बनत्वप्रसङ्गात् ।
विज्ञानाहितफलाधार आलम्बनमिति चेत् किं पुनर्विज्ञानेनार्थे जन्यते प्राकट्यं न चैतदर्थधर्मो ऽपि शुक्लादिवत्सर्वपुरुषसाधारणम् ।
ज्ञानाहितस्यार्थधर्मस्यापि ज्ञानवन्तं प्रत्यसाधारणत्वदर्शनात् ।
यथा यस्यापेक्षाबुद्धिजनितं द्वित्वमर्थधर्मः सो ऽपेक्षाबुद्धिमन्तमेव पुरुषं प्रत्यसाधारण
इति ।
तन्न अव्यापकत्वात् ।
सन्ति खल्वतीतानागतविषयाणि सहस्रशो विज्ञानानि शब्दानुमानजानि च,
न चैतन्यर्थे फलमाधातुमुत्सहन्ते अर्थस्य तदानीमसम्भवात् ।
न खल्वस्ति सम्भवो ऽसन्ननुत्पन्नरूपो धर्मी धर्मो ऽस्याविनश्यन् प्रत्युत्पन्नरूप इति ।
स्वकारणादात्मानात्मप्रकाशनशक्तियुक्तमुत्पद्यते ज्ञानं तादृशं येन कश्चिदेवास्य विषयो न सर्वमिति चेत् ।
हन्त भोः शक्तेः शक्यनिष्ठत्वात्किमस्य शक्यमिति वक्तव्यम् ।
अर्थ इति चेन्न ।
न तावदयमस्य निर्वर्त्यः अर्थस्यैव ज्ञाननिर्वर्त्तकत्वात् ।
न चार्थाधारं फलमाधत्तैत्युक्तम् ।
न चासति शक्ये शक्तिसम्भवः तस्मादनाकारं विज्ञानं बाह्मं गोचरयतीति मनोरथमात्रम् ।
अस्तु साकारमेव बाह्यगोचरम् ।
तथा हि नीलाद्याकारं ज्ञानं नीलादिगोचरम् ।
नीलमस्य स्वरूपं यतः ।
अत्रैवं वक्तव्यम् ।
किं सर्वात्मना सारूप्यभावाद् विषयभाव आहो कथं चित्सारूप्यभावात् ।
न तावदर्थस्य जडात्मनो ज्ञानेन प्रकाशात्मना सर्वथा सारूप्यं सारूप्ये ज्ञानमपि जडं भवेदिति ज्ञानत्वहानिः ।
एकदेशेन च सारूप्ये तत् क्व नाम नास्तीति सर्वं ज्ञानं सर्वं वेदयेत् ।
अपि च नीलज्ञानात्समनन्तरप्रत्ययादुत्पन्नं ज्ञानं न तथा नीलार्थसरूपं यथा नीलज्ञानसरूपमिति समनन्तरप्रत्ययतत्सारूप्याभ्यां विषयः स्यानन चैतदस्ति, तस्मान्न सारूप्यसमुत्पत्ती अपि विषयलक्षणम् ।
स्तामस्य सारूप्यसमुत्पत्ती मनस्कारेन्द्रियादिभिस्तथापि यमध्यवस्यति सो ऽस्य विषयो ऽर्थं चाध्यवस्यतीति अर्थ एवास्य विषयो न मनस्कारादीतिचेत् ।
अथ को ऽयमध्यवसायः।न तावद्ग्रहणं न खलु द्वावाकारौ गृह्येते नीलमित्यनुभवो न तु नीले इति ।
स्वाकारस्य बाह्यसमारोपो ऽध्यवसाय इति चेत् ।
स किं गृह्यमाणे बाह्ये उतागृह्यमाणे ।
न हि नीलद्वयं प्रकाशतैत्युक्तम् ।
न चारोपविषयमगृहीत्वारोप्यमारोपयितुमर्हतीति ।
न ह्यननुभवन् पुरोवर्तति शुक्लभास्वरं रजतमारोपयति तत्र ।
अपि चागृह्यमाणे बाह्ये प्रवृत्तिनियमो न भवेत् ।
इतरेषामगृह्यमाणत्वेनाविशेषात्तेष्वपि प्रवृत्तिप्रसङ्गात् ।
न च साकारज्ञाननये बाह्यसद्भावे प्रमाणमस्ति अगृह्यमाणत्वात् ।
ननु नीलाद्याकारस्य कादाचित्कत्वमेव प्रमाणम् ।
तथाहि यद्यस्मिन्सत्यपि कदा चिद्भवेत्तत्तदितरापेक्षम् ।
यथा सत्यपि सोपाने विच्छिन्नगमनरचनप्रतिभासाः प्रत्ययाः सन्तानान्तरापेक्षास्तथा च सत्यप्यालयसन्ताने षडपि प्रवृत्तिप्रत्यया इति स्वभावहेतुः ।
वासनापरिपाकप्रत्ययकादाचित्कत्वात् कदा चिदुत्पाद इति चेत् ।
नन्वेकसन्तानपतितानामालयज्ञानानां तत्तत्प्रवृत्तिविज्ञानजननशक्तिर्वासना तस्याश्च कार्यजननं प्रत्याभिमुख्यं परिपाकः तस्य च प्रत्ययः स्वसन्तानवर्त्ती पूर्वक्षणो हेतुः सन्तानान्तरापेक्षानभ्युपगमात् ।
तथा च सर्वे आलयसन्तानपतिताः परिपाकहेतवो भवेयुः
न वा कश्चिदपि अविशेषात् ।
क्षणभेदाच्छक्तिभेदस्तस्य कादाचित्कत्वात्कार्यकादाचित्कत्वमिति चेत् ।
नन्वेकस्यैव नीलविज्ञानजननसामर्थ्यं शक्तिप्रबोधजननसामर्थ्य च क्षणान्तरस्य तन्न स्यात् ।
सत्त्वे वा कथं क्षणभेदात्सामर्थ्यभेद
इत्यालयसन्तानवत्रिनः सर्वे समर्था इति समर्थहेतुसद्भावे कार्यक्षेपानुपपत्तिः ।
स्वसन्तानमात्राधीनत्वे तु निषेध्यस्य कादाचित्कत्वस्य विरुद्धं सदातनत्वं तस्योपलब्ध्या तु कादाचित्कत्वं निवर्त्तमानं हेत्वन्तरापेक्षत्वे व्यवतिष्ठत इति प्रतिबन्धसिद्धिः ।
न च सन्तानान्तरनिमित्तानि प्रवृत्तिविज्ञानानि सन्तत्यन्तराणामपि नित्यसन्निधानाद्विज्ञानानामदेशात्मकत्वेन दूरत्वानुपपत्तेर्व्यतिरिक्तस्यानभ्युपगमात् ।
नापि कालतो विप्रकर्षसम्भवः अपूर्वसत्त्वप्रादुर्भावानभ्युपगमात् ।
तदिदमनुमानं सौत्रान्तिकानां बाह्याम्युपगम
इति ।
तदयुक्तम् ।
स्वसन्तानमात्रनिमित्तत्वे ऽपि नीलादिविज्ञानानां कादाचित्कत्वोपपत्तौ सन्दिग्धव्यतिरोकित्वेन हेतोरनैकान्तिकत्वात् ।
ननूक्तम् न क्षण्भेदः कार्यभेदहेतुरिति कल्पितस्य सन्तानस्य सर्वसामर्थ्यविरहिणो भेदः कार्यभेदहेतुरिति न तु परमार्थसतः क्षणस्य कार्यभेदहेतुत्वमिति को ऽन्यो भदन्ताद्वक्तुमर्हति ।
ननु यदि क्षणभेदः शक्तिभेदहेतुस्ततो भिनानां क्षणानां नैका शक्ति स्यात् तथा चैकेन केन चिन्नीलज्ञाने जनिते तन्नीलज्ञानं क्षणान्तरान्न स्यात् ।
यदि भिन्नानां नैकं सामर्थ्यम् ।
अथ बाह्यार्थवादिनो ऽपि कथं भिन्नानां नीलोत्पलसन्तानानामेकनीलोत्पलाकारज्ञानधारासामर्थ्यम् ।
यद्युच्यते अन्यदेव नीलविज्ञानं यन्नीलोत्पलसन्तानान्तरात् ।
वयमपि ब्रूमहे अन्यदेव नीलविज्ञानं यत् क्षणान्तरादिति ।
तस्मात्कश्चिदेव तादृशः स्वलक्षणभेदो जायते यः कं चिदेव कार्यभेदं जनयति न कार्यान्तरमिति ।
तस्मात्साकारस्यापि ज्ञानस्यार्थो न गोचरो ।
न चागोचरः शक्यो ऽनुमातुमिति ।
न च प्रत्यक्षवदनुमानमप्यर्थगोचरं तस्मात्साधूक्तं वार्त्तिककृता न चित्तव्यतिरेकिणो विषयः ग्राह्यत्वाद्वेदनावदिति ।
नीलादयो हि विषया उभयवादिसिद्धास्तेषां चित्तभेदाभेदयोर्विप्रतिपत्तिः ।
तत्रैषां चित्तव्यतिरेकः परैरभ्युपगतः प्रतिषिध्यते यावांश्च प्रतिषिध्यते सर्वो ऽनुपलब्धेरिति ग्राह्यत्वादित्ययं हेतुर्विरुद्धव्याप्तोपलब्धिः प्रतिषेध्यश्चित्तव्पयतिरेकस्तद्विरुद्धस्तदव्यतिरेकस्तेन व्याप्तं ग्राह्यत्वं तस्योपलब्धिरेव तन्निषेध्यस्यानुपलब्धिरिति ।
अत्र तावदेतद्वक्तव्यम् ।
ग्राह्यत्त्वस्याभेदेन व्याप्तौ सत्यां भेदं निवर्तयेद् न त्वभेदेनास्य व्याप्तिः ।
तथा हि यदेतन्नीलं स्थूलं विच्छिन्नमुपलभ्यते तस्यास्य विच्छेदः स्थौल्यं च न ज्ञानस्यात्मा,
नानादिग्देशव्यापिता हि स्थौल्यम् ।
न चैकमदिग्देशात्मकमनवयवं विज्ञानं नानादिग्देशव्यापि सम्भवति ।
यथाह ।
तस्मान्नार्थे न विज्ञाने स्थूलाभासस्तदात्मनः ।
एकत्र प्रतिषिद्धत्वाद्वहुष्वपि न सम्भव इति ।
एवमर्थविच्छेदो ऽपि न ज्ञानात्मकः ।
तस्य तथात्वे परमार्थतोर् ऽथाद्विच्छिन्नं ज्ञानं स्यात् ।
तस्मादयमपि न ज्ञानमित्यसन्नभ्युपगन्तव्यः ।
न च सदसतोरेकत्वमित्यनात्मा ऽपि विज्ञाने प्रकाशतैत्यनिच्छता ऽपि स्वीकर्त्तव्यम् ।
तथा च सदपि प्रकाशिष्यते ।
नन्वनात्म्न्यर्थे ऽकिञ्ञ्चित्करं विज्ञानं कथमर्थप्रकाशकम् ।
अथाकिञ्चित्करं ज्ञानं स्थौल्ये कथमस्य प्रकाशकम् ।
स्वभावादिति चेत् अत्राप्यसौ न दण्डवारितः ।
यद्धि यस्य स्वभावः तस्य नान्यापेक्षा यथा लिङ्गस्य स्वसाध्यसम्बन्धे ।
स्वभावतश्चार्थस्य ज्ञानमिति न तदीयत्वे अन्यदपेक्षते ।
असम्बद्धत्वात्कथं ज्ञानमर्थस्येति चेद् अथ सम्बन्ध एव सम्बन्धिनोः कथम् ।
सम्बन्धान्तरकल्पनायामनवस्था ।
तस्माद्यथा सम्बन्ध एव सम्बन्धान्तरमन्तेरण सम्बन्धिनोः
एवं ज्ञानमपि सम्बन्धान्तरमन्तरेणार्थस्येति समानम् ।
न चातिप्रसङ्गः ।
स्वकारणादुत्पन्नस्य कस्य चिद्विज्ञानस्य कश्चिदेव विषयो नान्यः ।
न स्वभावाः पर्यनुयोगमर्हन्ति एवं भवतैवं मा भवत एवं कस्मान्न भवतेति ।
अकिञ्चित्करस्य रूपविज्ञानस्य कथं रूपविषयतेति चेत् ।
किं रूपविज्ञानं प्रमाणं विवक्षित्वेदमुच्यते आहो फलं विवक्षित्वा ।
यदि प्रमाणं ततो न तदकिञ्चित्करं तत्र हानोपादानोपेक्षाप्रसवहेतुत्वात् ।
अथ फलं तदयुक्तम् ।
क्व नाम फलं किञ्चित्करं न हि गतिजन्या नगरप्राप्तिश्चैत्रस्य चैत्रनगरसंयोगसमवायाय किं चित्करोति ।
एवमर्थविषयत्वाय स्वाभाविकाय न ज्ञानेन किं चिदपरं जनयितव्यम् ।
अर्थप्रतिबद्धत्वं ज्ञानस्यार्थविषयत्वं न हि ज्ञानिमनुव्यवसायज्ञानेन निरूप्यमाणमर्थनिरूपणं विना शक्यं निरूपयितुमित्युक्तम् ।
कर्मण्यसमवेतं कथं कर्मणः ।
तत्पारतन्त्र्यादिति चेत् किमिदं पारतन्त्र्यम् ।
तन्निरूपणाधीननिरूपणत्वमिति चेत् तदिहापि समानमन्यत्राभिनिवेशात् ।
तस्मादभेदेन ग्राह्यस्याव्याप्यत्वाद्ग्राह्यत्वं विरुद्धव्याप्तं न भेदं निवर्तयितुमर्हतीति दूषणे स्थवीयसि सत्येव दूषणान्तरमाह वार्तिककारः वेदना सुखदुःखे चित्तं विज्ञानमिति ।
अभ्युपेत्याह अथाभिन्नंविज्ञानं वेदनात
इति ।
(५२२।१)यथा ऽङ्गुल्यग्रं न तेनैवाङ्गुल्यग्रेण स्पृश्यते एवं ज्ञानं न तेनैव ज्ञानेन ग्रहीतुं शक्यते ।
ननु न गृहीतिर्ग्राह्या न ह्यस्याः कर्मभावो विद्यते क्रियाफलशालितया कर्म भवति न चास्यामस्ति फलान्तरम्, अपि तु स्वयमाविर्भूतस्वभावा गृहीतिरपराधीनप्रकाशा ग्राह्येत्युच्यते ।
यदि वैषा स्वयं न प्रकाशेत नार्था अपि प्रकाशेरन्
तत्प्रकाशाधीनप्रकाशा हि ते ।
तथा हि यद्यत्प्रकाशाधीनप्रकाशं तत्तस्मिन् प्रकाशमाने प्रकाशते यथा दण्डप्रकाशाधीनप्रकाशो दण्डिप्रकाशः ज्ञानप्रकाशाधीनप्रकाशश्च विषय इति स्वभावहेतुः न च ज्ञानादन्यत्स्वसंवेदनं न दृष्टमित्येतावता स्वसंवेदनं विज्ञानं न भवेदिति दर्शनादर्शनाभ्यां न हेतुर्गमको ऽपि तु स्वसाध्याविनाभावात् स च विपर्यये बाधकप्रमाणप्रवृत्त्या सिध्यतीति कृतं दृष्टान्तेनेत्यत्र
आह ।
न कर्म क्रिया चैकं भवतीति ।
इदमत्राकूतम् ।
किं पुनरिदमर्थानां संवित्प्रकाशाधीनत्वप्रकाशत्वं नाम न हि संवित्प्रकाशेनार्थे प्रकाशान्तरं जन्यते ।
अपि च लिङ्गप्रकाशाधीनप्रकाशो हि लिङ्गिप्रकाशः न च लिङ्गे प्रकाशमाने प्रकाशते किं तु लिङ्गप्रकाशे विनष्टे ।
यद्युच्येत न ज्ञानादतिरिक्तो ऽरथप्रकाशो ज्ञानप्रकाशश्च किं तु ज्ञानमेव स्वसंवेदनमर्थस्य स्वात्मनश्चेति ।
एवं तर्हि किमायातं न ह्यात्मैवात्मायत्तः ।
न च ज्ञानमेवात्मनः परस्य च प्रकाश इति सिद्धम् ।
अन्यो हि ज्ञानप्रकाशो मानस ऐन्द्रियकश्चार्थप्रकाशः ।
न च प्रमाणज्ञानप्रकाशाधीनोर् ऽथप्रकाशः किं तु प्रमाणज्ञानसत्ताधीनः फलाधीनं तु न किं चिदित्यविदितम् ।
तत्सिद्धमेतद्विवादाध्यासितं विज्ञानं स्वप्रकाशाद्भिन्नं प्रकाशमानत्वात् ।
सत्त्वान्तरप्रकाशस्य सत्त्वान्तरप्रकाशवत् ।
तदनेनाभिसन्धिनोक्तं न च कर्म च क्रिया चैकं भवतीति ।
एतेन सहोपलम्भनियमादभेदो नीलतद्धियोरिति परास्तं वेदितव्यम् ।
अर्थज्ञानोपलम्भयोरेकोपलम्भतैव नास्ति कुतः पुनरस्य नियम इति ।
अथ यथाश्रुतः सहोपलम्भो हेतुरित्युच्यते ततो विरुद्धः अभेदे सहार्थासम्भवात् ।
कृतप्रपञ्चश्चायमर्थो न्यायकाणिकायामिह तु विस्तरभयान्न प्रपञ्चित
इत्युपरम्यते ।
सो ऽपि दृष्टं विज्ञानभेदमनुवयोक्तव्य
इति ।
न सन्तानमात्रनिबन्धनो विज्ञानभेदो भवितुमर्हति नीलपीतादिरूपः नापि सन्तानान्तराधिपत्यसन्निधाननिबन्धनो विज्ञानानामदेशात्मकानां स्वरूपेण देशविप्रकर्षायोगात् ।
नापि कालविप्रकर्षो ऽपूर्वसत्त्वप्रादुर्भावाभावादिति भावः ।
शङ्कते स्वप्नवद्विज्ञानश्रेदमिति ।
बाह्याभावे ऽप्याध्यात्मिको विज्ञानभेदहेतुरस्तीति भावः ।
निराकरोति सो ऽपीति ।
स्वप्नज्ञानमपि पारम्पर्येण बाह्यनिबन्धनमित्यर्थः ।
अवाह्यनिमित्तकत्वं स्वप्नप्रत्ययस्याभ्युपेत्याह ।
अथ स्वप्नपक्षे ऽपीति ।
वर्गः पक्षः ।
न चैकं विज्ञानं चिन्तनीयमपरं चिन्तकमिति वाच्यम् ।
व्यतिरिक्तालम्बनत्वानभ्युपगमादिति भावः ।
अभ्युपेत्य त्वबाह्यनिमित्तत्वं स्वप्नप्रत्ययानामेतदुक्तम् ।
बाह्यनिमित्तत्वमेव तु पारमार्थिकं इत्याह ।
ये चैते स्वप्न प्रत्यया इति ।
समापीति ।
अपिशब्दः सम्भावनायां मम पक्षे सम्भाव्यत एतत्
यत्सर्व एव प्रत्यया मिथ्या भवन्तीत्यर्थः ।
सुगममितरत् ।
मिथ्या निद्रा ।
विषयमन्तरेण विज्ञानस्फुटता चावक्तव्येति ।
सामान्यविशेषतद्वतां ग्रहणं स्फुटता सामान्यमात्रग्रहणमस्फुटता तच्चैतदसतिविषये दुष्करं तदाकारोत्पत्तेरशक्यत्वादित्यर्थः ।
शङ्कते असत्यर्थे विज्ञानश्रेदो दृष्ट इति चेत् ।
(५२३।१२) स्वप्नमायागन्धर्वनगरमृगतृष्णादिविज्ञानेष्वनुवर्तमानेषु विषयेन्र्दियमनोदोषननिमित्तत्वमस्तु,
ये पुनरमी प्रतीनां सर्वेषामनुवृत्तिमन्तः पूयपूर्णनदीप्रत्यया न ते बाह्यविषया दोषवत्त्वाद्भवितुमर्हन्ति ।
दोषनिमित्तत्वाद्बहुनामनुवृत्तेरभावात् ।
अदुष्टेन्द्रियार्थसन्निकर्षकत्वे तु जलरुचिराकारविरोधात् ।
तस्मादनादिवासनावैचित्र्यलब्धजन्मतया ऽर्थनिरपेक्षा एव विचित्राकारा बुद्धय उदयन्ते व्ययन्ते चेति साम्प्रतमिति शङ्कार्थः ।
न तत्र नद्यस्तीति स्वमतदार्ढ्येनोक्तम् ।
न व्याघातादितञ्
अयिमभिसन्धिः ।
जनरुधिरयो रसवीर्यविपाकादिभेदात्तोयरसवीर्यपरिपाकादिदर्शनान्नद्यास्तोयपूर्णत्वे निश्चिते पूयपूर्णत्वनिश्चयः प्रेतानां मिथ्येति निश्चये तदनुवृत्तेर्देषानुवृत्तिः कल्पनीया दोषश्च प्रेत्तशरीरनिवर्त्तकं कर्मैव ।
यथोक्तं तुल्यकर्मविपाकोत्पन्नाः प्रेता इति ।
कर्मणो वासना ऽन्यत्र फलमन्यत्र कल्पत
इति ।
(५२४।६) फनपलं पुत्रपश्वन्नादि ।
तद्यदि विज्ञानं तदा यत्र ज्ञानसन्ताने कर्मवासना तत्रैव पुत्राद्याकारं विज्ञानं फलमिति सामानाधिकरण्यमुपपद्यते ।
पुत्रपश्वन्नादौ त्वर्थरूपे फले वैयधिकरण्यं स्यात् तथा चातिप्रसङ्ग इति भाव ।
निराकरोति तन्नानभ्युपगमादिति ।
न पुत्रादि स्वरूपेण फलमपि तु तन्निमित्ता प्रीतिः ।
तस्या एव चेतनेन काम्यमानत्वात् तल्लक्षणत्वाच्च फलस्येति भावः ।
मुक्तकेनार्थं साधयित्वा प्रयोगानाह ।
मदीयाच्चित्तादिति ।
यदि चित्तमात्रं पक्षीक्रियते तदा दृष्टान्तो नास्तीत्यत उक्तं मदीयाच्चितादिति ।
मदीयाहङ्कारानास्पदत्वे सतीति विशेषणान्न स्वचित्तेन व्यभिचारः ।
आरोपनिराकरणार्थत्वाच्च हेतूनां नासमर्थविशेष्यतेति ।
न्य्स्_४,२।३५: मिथ्योपलब्धिविनाशस्तत्त्वज्ञानात् स्वप्नविषयाभिमानप्रणाशवत् प्रतिबोधे ॥
अपि च मित्योपलब्धीनां बाह्यानालम्बनत्वमास्थाय तत्त्वबुद्धीनां बाह्यानालम्बनत्वं साधनीयम् ।
तासां बाह्यानालम्बनत्वं बाधकाधीनं बाधकं चात्र समारोपितरजताद्यभिमानं निवर्त्तयति न तु पुरो ऽवस्थितमर्थसामान्यं शुक्लभास्वरम् ।
तस्मान्न बाधकानुरोधादपि मिथ्याज्ञानं बाह्यानालम्बनमिति स्वप्नवदिति दृष्टान्तः साध्यविकल इत्याह ।
एवं सति मिथ्याज्ञानस्य प्रधानाश्रयत्वे मिथ्योपलब्धेर्विनाशस्तत्त्वज्ञानाद्बाधकात् स्वप्नविषयाभिमानप्रणाशवत् प्रतिषेधो न सामान्यस्यापीति शेषः ।
शेषं भाष्ये ।
भाष्यं सुबोधम् ॥ ३५ ॥
न्य्स्_४,२।३६: बुद्धेश्चैवं निमित्तसद्भावोपलम्भात् ॥
यस्तु माध्यमिको मिथ्याबुद्धि दृष्टान्तेन बाह्यापह्नवं कृत्ववा तेनैव दृष्टान्तेन विज्ञानाभावं कृत्वा विचारासहत्वं तत्त्वम्भावानां व्यवस्थापयाम्बभूव तं प्रत्याह ।
बुद्धेश्चैवं निमित्तसद्भावोपलम्भात् (सू। ३६) ॥
अर्थे हि निषिद्धे भवेदप्येतत् ।
तद्व्यवस्थापने तद्वदेवाप्रत्यूहं बुद्धिसद्भावो ऽपि सिध्यति ।
न चैवं वादिनः प्रमाणमस्त्यसता च प्रमाणेन विचारासहत्त्वं भावानां व्यवस्थापयन्
श्लाघनीयप्रज्ञो देवानाम्प्रिय इतञ् नि च कल्पनामात्रर्मित
उपायस्तत्त्वज्ञानाय पर्याप्तः ।
न च वनस्पत्यादितत्त्वज्ञानस्य मिथ्याहस्तिज्ञानं निबन्धनमपि तु प्रणिहितमनस
इन्द्रियार्थसन्निकर्षविशेषः ।
न चासौ मिथ्याज्ञानसमये आसीत् ।
न च मोहाभ्यासः समीचीनाय ज्ञानाय कल्पते स हि माहेमेव द्रढयतीति सर्वमवदातम् ।
सो ऽयं माध्यमिको ऽनुभूयमानां मिथ्याबुद्धिं नापह्नोतुमर्हति ।
तथा च मिथ्याबुद्धिं प्रतिपद्यमानेन तस्या निमित्तं वक्तव्यमित्युक्तम्
॥ ३६ ॥
न्य्स्_४,२।३७: तत्त्वप्रधानभेदाच्च मिथ्याबुद्धेर्द्वैविध्योपपत्तिः ॥
तत्त्वप्रधानभेदाच्च मिथ्याबुद्धेर्द्वैविध्योपपतिः (सू। ३७) ॥
मिथ्याबुद्ध्या स्वनिमित्तं लक्ष्यते तेन मिथ्याज्ञाननिमित्तस्य द्वैविध्यमित्यर्थः ।
यत्र स्थाणौ पुरुष इति ज्ञानं भवति तत्र तत्त्वं स्थाणुरिति प्रधानं पुरुष इति यः पूर्वं पुरुषो ऽभूदित्यर्थः ।
एवं तावद्रूपबुद्धीः प्रतिपाद्य गन्धादिबुद्धीरपि प्रतिपादयति भाष्यकारः ।
गन्धादौ च प्रमेय इति ।
उपसंहरति ।
तस्मादयुक्तमेतदिति ॥ ३७ ॥
न्य्स्_४,२।३८: समाधिविशेषाभ्यासात् ॥
दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिरित्युक्तम् ।
अथ तत्त्वज्ञानं कथमुत्पद्यत इति ।
(५२५।९) न तावदागमत
उपपत्तितो वा तत्त्वज्ञानमहङ्कारनिवृत्तिं कर्तु मुत्सहते ।
दोषनिमित्तेषूत्पन्नज्ञानानामपि पूर्ववदहङ्कारदोषानुवृत्तेः साक्षात्कारस्तूपायाभावादयुक्त
इति ।
अस्योत्तरं सूत्रम् ।
समाधितत्त्वाभ्यासात् (सू। ३८) ॥
समाधिपदं व्याचष्टे भाष्यकारः ।
स तु प्रत्याहृतस्येन्द्रियेभ्यो मनस इति ।
अनेन विक्षेपं निवर्त्तयति ।
इन्द्रियेभ्यः प्रतीपमाहृतस्य मनसः क्व चित् हृत्पुण्डरीकप्रदेशे आत्मनो निजौकसि धारकेण प्रयत्नेन धार्यमाणस्यात्मना संयोगो ऽयम् ।
स खलु सुप्तावस्थायामस्तीत्यत
उक्तं तत्त्वबुभुत्साविषिष्ट इति ।
तदभ्यासश्च तद्विषयप्रयत्नोत्पादषौनःपुन्यं तस्मादादरनैरन्तर्यदीर्घकालविशिष्टात्तत्त्वबुद्धिरुत्पद्यते ॥ ३८ ॥
न्य्स्_४,२।३९: नार्थविशेषाप्राबल्यात् ॥
एतदाक्षेपसूत्रमवतारयति यदुक्तं सति हि तस्मिन्निति ।
न्य्स्_४,२।४०: क्षुदादिभिः प्रवर्तनाच्च ॥
इन्द्रियविषयैरपहृतमनसो धारणा ।
तथा च तदभ्यासाभावान्न सत्त्वसाक्षात्कार
इति सूत्रार्थः ॥ ३९ ॥ ४० ॥
न्य्स्_४,२।४१: पूर्वकृतफलानुबन्धात् तदुत्पत्तिः ॥
समाधानसूत्रमवतारयति ।
अस्त्वेतत्समाधिव्युत्थाननिमित्तमिति ।
सूत्रम् ।
पूर्वकृतफलानुबन्धात्तदुत्पत्तिः (सू। ४१) ॥
पूर्वकृतः समाधिः तस्य फलं संस्कारः
तस्यानुबन्धः स्थेमा तस्मादिति सूत्रार्थः ।
तद्व्याचष्टे भाष्यकारः ।
पूर्वकृत इति ।
प्रविविच्यते ऽनेनेति प्रविवेकः प्रकृष्टः संस्कारः स त्वात्मधर्म
इति ।
कस्मात्पुनरदृश्यमानः संस्कारः कल्प्यतैत्यत
आह ।
निष्फले हीति ।
प्रयत्नविशेषा हि विशरारवो बहवो ऽपि परस्परमसहभवन्तो न तत्त्वसाक्षात्कारापय पार्याप्ता इति तज्जनिताः संस्काराः कल्प्यन्ते तेषां स्थेम्ना सम्भवति सम्भूयकारितेत्यर्थः ।
न्य्स्_४,२।४२: अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः ॥
प्रचयकाष्ठा प्रचयावधिः
यतः परमपरः प्रचयो नास्ति ।
तत्सहकारिशालितया प्रकृष्टायां समाधिभावनायां समाधिप्रयत्नः समाधिभावना तस्यामित्यर्थः ॥ ४२ ॥
न्य्स्_४,२।४३: अपवर्गे ऽप्येवं प्रसङ्गः ॥
पूर्वपक्षवाद्याह ।
यद्यर्थविशेषप्राबल्यादिति ।
स खल्वयमीदृशो बाह्यार्थस्य महिमा यत
इन्द्रियाद्यनपेक्षादेवात्मनो बुद्धिं जनयिव्यतीत्यभिमानः पूर्वपक्षिणः ॥ ४३ ॥
न्य्स्_४,२।४४: न निष्पन्नावश्यम्भावित्वात् ॥
सिद्धान्तसूत्रम् ।
न निष्पन्नावश्यं भावित्वात् (सू। ४४) व्याख्यातम् ।
न खलु तण्डुला अत्यन्तं फलीकृता अपि पिठरोदकदहनसंयोगप्रचयमन्तरेण पुलाका भवन्तीति भावः ॥ ४४ ॥
न्य्स्_४,२।४५: तदभावश्चापवर्गे ॥
न्य्स्_४,२।४६: तदर्थं यमनियमाभ्यामात्मसंस्कारो योगाच्चाध्यात्मविध्युपायैः ॥
किं समाधिविशेष एव तत्त्वज्ञानसाधनम् ।
मैवम् ।
किं तु ।
तदर्थं यमनियमाभ्यामात्मसंस्कारो योगच्चाध्यात्मविध्युपायैः (सू। ४६) समानमाश्रमिणां धर्मसाधनम् ।
अहिंसा सत्यमस्तेयं ब्रह्मचर्यमपरिग्रह
इति यमः ।
नियम इति ।
यस्याश्रमिणो ऽसाधारणो धर्मोपायः ।
योग इति विषयेण योगशास्त्रं पातञ्जलं लक्षयति ।
योगाचारः एकाकिता आहारविशेषः
एकत्रानवस्थानमित्यादि यतिधर्मोक्तम् ।
एते ऽपि तत्त्वज्ञानक्रमोत्पादक्रमेणापमर्गसाधनमित्यर्थः
॥ ४६ ॥
न्य्स्_४,२।४७: ज्ञानग्रहणाभ्यासस्तद्विद्यैश्च सह संवादः ॥
ननु यद्येते तत्त्वज्ञानोत्पादक्रमेणापवर्गोपायः कृतं तर्ह्यान्वीक्षिक्येत्यत आह ।
ज्ञानग्रहणाभ्यासस्तद्विद्यैश्च सह संवादः (सू। ४७) ॥
तद्व्याचष्टे तदर्थमिति प्रकृतम् ।
आत्मविद्याऽन्वीक्षिकी ।
अभ्यासः सततक्रिया तत्र प्रयत्न इत्यर्थः ।
प्रयोजनमाह प्रज्ञापरिपाकार्थम् ।
परिपाकस्तु संशयच्छेदनम् ।
किं देहाद्यतिरिक्त
आत्मा उत नेति संशयः ।
तस्य च्छेदनं लोकस्य तत्त्वज्ञानमात्मनि तदवरोधः अध्यवसितं प्रमाणेन ।
तस्याभ्यनुज्ञानं तर्केण ॥ ४७ ॥
न्य्स्_४,२।४८: तं शिष्यगुरुसब्रह्मचारिविशिष्टश्रेयोर्थिभिरनसूयुभिरभ्युपेयात् ॥
सब्रह्मचारी सहाध्यायी ।
गुरुशिष्यसहाध्यायिभ्यो ऽन्यः शास्त्रेणानुशिष्टः शिष्टश्रेयोर्थिनः श्रेयसि मोक्षलक्षणे श्राद्धाः ।
तेषामपवर्गे श्रद्धादर्शनादस्ति तदुपायाभ्यासः प्रागभवीय इत्यनुमीयते ।
तेन तेषामपि प्राग्भवीयसंस्कारवशात्प्रतिभोपावसनीयेति ।
अभ्युपेयादभिमुखमुपेत्य जानीयात् गुर्वादिभिः सहेत्यर्थः ।
नीतार्थम् गतार्थम् ॥ ४८ ॥
न्य्स्_४,२।४९: प्रतिपक्षहीनमपि वा प्रयोजनार्थमर्थित्वे ॥
तदनेन गुर्वादिभिर्वादं कृत्वा तत्वनिर्णय उक्तः ।
यदि च मन्येत पक्षप्रतिपक्षपरिग्रहः प्रतिकूलः परस्य गुर्वादेस्तस्मान्न वादो ऽप्युचित
इति ।
तत्रेदं सूत्रमुपतिष्ठते ।
प्रतिपक्षहीनमपि वा प्रयोजनार्थमर्थित्वे (सू। ४९) ॥
व्याचष्टे तमभ्युपेयादिति वर्त्तते ।
परतो गुर्वादेः प्रज्ञामुपादित्समानस्तत्त्वबुभुत्साप्रकाशनेनात्मनः शरीरादिभ्यो भेदं बुभुत्सैत्यभिदधानः स्वपक्षमनवस्थापयन् स्वदर्शनं गुर्वादिकृताद्विचारात्पूर्वपक्षोच्छेदेन सिद्धान्तव्यवस्थापनलक्षणात् स्वदर्शनं परिशोधयेत् ।
अन्योन्यप्रत्यनीकानिं च प्रावादुकानां दर्शनान्ययुक्तपरित्यागेन युक्तपरिग्रहणेन च परिशोधयेदिति सम्बध्यते ॥ ४९ ॥
न्य्स्_४,२।५०: तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थं कण्टकशाखावरणवत् ॥
ननु यत्र वादस्यैव दशेयमीदृशी तत्त्वनिर्णये दत्तजलाञ्जली तर्हि जल्पवितण्डे इत्यत आह ।
स्वपक्षरागेण चैकै न्यायमतिवर्त्तन्ते ।
तत्र ।
तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थं कण्टकशाखावरणवत् (सू। ५०) इति सूत्रम् ।
तद् व्याचष्टे अनुत्पन्नतत्त्वज्ञानानामिति ॥ ५० ॥
न्य्स्_४,२।५१: ताभ्यां विगृह्य कथनम् ॥
न केवलं तदर्थं घटमानानां जल्पवितण्डे अपि तु विद्यानिर्वेदादिभिनश्च परेणावज्ञायमानस्य ।
ताभ्यां विगृह्य कथनम् (सू। ५१) इति सूत्रम् ।
यस्तु स्वदर्शनविलसितमिथ्याज्ञानावलेपदुर्विदग्यतया सद्विद्यानवैराग्याद्वा लाभपूजाख्यात्यर्थितया कुहेतुभिरीश्वराणां जनाधाराणां पुरतो वेदब्राह्मणपरलोकादिदूषणप्रवृत्तस्तं प्रति वादी समीचीनदूषणमप्रतिभयापश्यन्
जल्पवितण्डे अवतार्य विगृह्य जल्पवितण्डाभ्यां तत्त्वकथनं करोति विद्यापरिपालनाय ।
मा भूदीश्वराणां मतिविभ्रमेण तच्चरितमनुवर्तिनीनां प्रजानां धर्मविप्लव इति ।
इदमपि प्रयोजनं जल्पवितण्डयोः ।
न तु लाभख्यात्यादि दृष्टम् ।
न हि परहितप्रवृत्तः परमकारुणिको मुनिर्दृष्टार्थं परपांसुलोपायमुपदिशतीति ।
शङ्कावार्त्तिकम् ।
व्यापकत्वादन्तः करणस्येति ।
(५२५।१३) अस्य वक्ष्यमाणो ऽभिसन्धिः ।
निराकरोति ।
नोक्तोत्तरत्वाद् साङ्ख्यं दूपयद्भिरित्यर्थः ।
शङ्किता स्वाभिप्रायमुद्घाटयति ।
स्वाङ्गगतीक्षणेति ।
यावद्धस्तावच्छिन्ने आत्मप्रदेशे प्रयत्नो न जायते न तावत्तत्रकर्म न च तत्रात्ममनः सन्निकर्षं विना प्रयत्नः ।
न च मनस इन्द्रियसंयोगं विनेक्षणम् ।
न चाणुना मनसा इन्द्रियेण हस्ते चापर्यायेण सम्भवः ।
तस्माद्व्यापकं मन इति शङ्कार्थः ।
निराकरोति न शरीरात्ममनः संयोगयौगपद्यात् प्रयत्नदर्शनयोर्युपगदुत्पत्तेः ।
तत्रात्मनःशरीरसम्बन्धात्स्वाङ्गगतिरिति ।
पाणिचालनेच्छापेक्षेणात्ममनःसंयोगेन पाणिं चालयामीत्येवमाकारः प्रयत्नो जायते तत्र प्रयत्नवदात्ममनःसंयोगात्पाणौ क्रिया जायते ।
यद्यप्यात्मनः सर्वाङ्गे संयोगो न विशिष्यते तथापीच्छाविशेषादुत्पन्नः प्रयत्नविशेषः पाणावेव कर्म करोति ।
नान्यत्र प्रयत्नवदात्मसयोगाच्चक्षुषः प्रेरणम् ।
यद्यपि चानयोः प्रयत्नयोर्न युगपदुत्पादः तथापि तदत्यन्तसौक्ष्म्यात्कालभेदो न लक्ष्यते ।
नन्वेकस्मिन्नात्मप्रदेशे वर्त्तमानसंयोगो वा प्रयत्नो वा कथं देशान्तरे असंयोगित्यप्रयत्नवति कार्यमारभत इत्यत
आह ।
न चात्मनः प्रदेशाः सन्तीति ।
परिशिष्टवार्त्तिकं भाष्यव्याख्यया व्याख्यातम् ॥ ५१ ॥
इति मिश्रश्रीवाचस्पतिविरचितायां न्यायवार्त्तिकतात्पर्यटीकायां चतुर्थोध्यायः समाप्तः ॥
४ अध्याये १ आह्निके ६७ सूत्राणि २४ प्रकरणानि ।
२ आह्निके ५१ सूत्राणि ६ प्रकरणानि ।
आदित आरभ्यमिलित्वा ४६० सूत्राणि ६० प्रकरणानि ।
अथ पञ्चमो ऽध्यायः ।
न्य्स्_५,१।१: साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकारणाहेत्वर्थापत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमाः ॥
अथ प्रमाणादयः पदार्था उद्दिष्टा लक्षिताश्च तत्किमपरमवशिष्यते यदर्थं पञ्चमो ऽध्याय
आरभ्यतैत्यत आह ।
साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानस्य विकल्पाज्जातिबहुत्वमिति भाष्यम् ।
तस्यार्थमाह वार्त्तिककारः ।
जातेः सङ्क्षेपेणोक्ताया इत्यादि ।
(५२९।१) यद्यपि जातिनिग्रहस्थानभेदा जातिनिग्रहस्थानसामान्यलक्षणानन्तरं प्रथमे ऽध्याये युक्ता लक्षयितुं तथाप्येषां बहुत्वात्प्रमेयपरीक्षायां विलम्भोमाभूदपेक्षिता चासौ शिष्यैः ।
संशयादिपरीक्षां तु विना प्रमेयपरीक्षा न शक्यते ।
तस्मान्मुनिः शिष्यानुरोधेन परीक्षां तावद्वर्त्तयां बभूव ।
तदनन्तरमवशिष्टं जातिनिग्रहस्थानविशेषलक्षणं वर्त्तयति ।
जल्पवितण्डापरीक्षा चानन्तरं प्रवृत्ता तदङ्गं च जातिनिग्रहस्थाने इत्यवान्तरसङ्ङ्गतिरस्तीति सर्वमदातम् ।
विशेषोपयोगि सामान्यलक्षणमाह ।
तत्र जातिर्नामेति ।
प्रतिषेधबुद्ध्या प्रयुक्त
इति शेषः ।
आह्निकारम्भमाक्षिपति ।
जातेः प्रयोगप्रतिषेधादिति ।
परिवर्जनं तु सामान्यज्ञानादिप भवन्न विशेषज्ञानमपेक्षत इति भावः ।
समाधत्ते नारम्भप्रयोजनस्योक्तत्वात् ।
एतदेव स्मारयति स्वयं च सुकरः प्रयोग इति ।
प्राश्निकैः कतमा जातिरित्युक्ते स्वयं च सुकरः प्रयोग इति ।
अथ वा सद्विद्याविद्विषा अधिक्षिप्ते तत्वे अह्नाय तन्निरासहेतावस्फुरति साक्षिणां पुरत एकान्तपराजयाद्वरं सन्देहो ऽप्यस्तु कथं चित्परपराजयोवेति बुद्ध्या पांशभिरिवावकिरन्
जातिं प्रयुङ्क्ते ।
तेन हि लोके तत्त्वमवस्थापितं भवति ।
अन्यथा ऽसन्मार्गप्रवृत्तो लोकः स्यात् ।
न च नखचपेटादिभिर्विद्याविद्वेषिणो निराकरणे तदुत्थापितकुहेतुनिराकरणधीरस्ति लौकिकानाम् ।
तस्मान्न नखचपेटादय उपदेष्टव्याः शास्त्रकृतेत्यभिप्रायवानाह ।
साधुसाधननिराकरणार्थं वेति ।
अतत्त्वविषयत्वेन परमार्थतो ऽसाध्वपि साधनमह्नाय दूषणस्याप्रतिभासनात्साध्वित्युक्तम् ।
लाभपूजाख्यातिकामश्चेत्यन्वाचये चकारः ।
प्रसिद्धं तावत्तत्वपरिपालने प्रयोजनं तस्मिन्सत्येतदप्यन्वाचीयतैत्यर्थः ।
मतान्तरं निराकर्तुमुपन्यस्यति ।
असाधुसाधनेति (५०३।२) तत्त्वविषयमपि साधनमसाध्विति विदितवान् वादकाले चाप्रतिभयासाधुत्त्वोपपादनं न स्फुरति ।
असाध्येतदिति स्मरन्नेवासौ जातिं प्रयुङ्क्ते तदिदमुक्तमनभिज्ञतया साधनदोशस्येति ।
अथ वा जानन्नपि जातिं प्रयुङ्क्तो तस्य साधनस्य दोषप्रदर्शनार्थं प्रसङ्गव्याजेन मदीयं तावद्दूषणाभासम् एवं त्वदीयमपि साधनाभासं यदि त्वत्साधनं सम्यक् तदा मदीयमपि सम्यक् स्यादितिप्रसङ्गः तद्व्याजेन साधनं दूषयतीत्यर्थः ।
तदेतत्परमतं दूषयति ।
एतत्त्विति ।
जात्यभिधाने हि पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगश्चेति द्वयं निग्रहस्थानं तस्माद्बुद्ध्वेत्युक्तम् ।
अथ न बुध्यते तत्किमिति जातिं प्रयुञ्जीतेति ।
यो हि समादर्शनमात्रात्पूर्वाभ्यस्तमपि विस्मरति तस्य कैव कथा अननुसंहितपूर्वजात्युद्भावनस्येति भावः ।
एतेन बुद्धाबुद्धा वेति विकल्पासम्भवेनानैकान्तिके साधने प्रयुक्ते पञ्चानां साधर्म्यसमवैधर्म्यसमविकल्पसमसाध्यसमसंशयसमानां जातीनां प्रयोगः प्रत्युक्तः ।
पूर्वा परभाव
इति ।
पूर्वस्य युक्तस्य साधनस्य युक्तमुत्तरम् ।
अपरस्यायुक्तस्य साधनस्यायुक्तमुत्तरमिति ।
ननु साधर्म्यसमादीत्युच्यते ।
न च वस्तुतः साधर्म्यसमादीनां साम्यमस्ति स्थापनया तथा सत्यजातित्वप्रसङ्गादित्यत आह ।
समीकरणार्थं प्रयोग इति ।
आभिमानिकंसाम्यं न वास्तवमित्यर्थः ।
साधर्म्यमेव समं यस्मिन् प्रयोग इति शेषः ।
तदिदमुक्तं समार्थः साधर्म्यसमार्थः समीकरणार्थः प्रयोगो द्रष्टव्य इति ।
एवं वैधर्म्यमेव सममित्यत्र विग्रहे स्वरूपेण साम्यमुक्त्वा विशेषहत्वभावेन साम्यमाह विशेषहेत्वभावो वेति ।
ये त्वाहुः सर्वेष्वेवादपेशेषु सर्वासामेव जातीनां प्रयोग इति तान् प्रत्याह ।
सर्वापदेशव्याप्तिः सर्वजातिप्रयोगस्य (५३१।२) ।
अपदेशो हेतुवचनम् ।
ये पुनः साधर्म्यसम इत्यादौ समशब्दस्तस्य साधनवादिजातिवादिनोस्तुल्यार्थत्वाद्
यादृशो वादी तादृशः प्रतिवाद्यपि साधर्म्येण द्वौ समाविति मन्यन्ते तान्प्रत्याह न च वादिप्रतिवादिनोस्तुल्यता सुमार्थः प्रतिवादी जातिवादी विवक्षितः
॥ १ ॥
न्य्स्_५,१।२: साधर्म्यवैधर्म्याभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ ॥
प्रतिषेधाविति सूत्रपूरणेन पुल्लिङ्गं समर्थयते ।
अन्यथा जातेः प्रकृतत्वात्समानाधिकरण्येन साधर्म्यवैधर्म्यसमे इति स्यात् ।
तद्धर्मविपर्ययोपपत्तेः कृते साध्यविपर्ययोपपत्त्यर्थमित्यर्थः ।
भाष्ये निदर्शनं क्रियावानात्मा द्रव्यस्य क्रियाहेतुगुणयोगादिति ।
अस्ति खल्वात्मनः क्रियाहेतुर्गुणः प्रयत्नो ऽदृष्टं वा लोष्टस्यापि क्रियाहेतुर्गुणः स्पर्शवद्वेगवद्द्रव्यसंयोग
इति ।
एवमुपसंहृते परः साधर्म्येणैव प्रत्यवतिष्ठते निष्क्रिय आत्मा विभुत्वादाकाशवदिति ।
अत्र च साधनमाभासमुत्तरं च न जातिः विभुत्वस्याक्रियत्वेपन स्वभावतः प्रतिबन्धात् ।
तेनैतदुपेक्ष्य वार्तिककार
उदाहरणान्तरमाह ।
यथा ऽनित्यः शब्द उत्पत्तिधर्मकत्वाद् ।
इदं तु सम्यक्साधनमुत्तरं त्वाभासमिति ।
साधर्म्योक्ते साधर्म्यसमः वैधर्म्योक्ते वैधर्म्यसमः ।
एवं साधर्म्योक्ते वैधर्म्यसमः वैधर्म्योक्ते साधर्म्यसम इति ॥ २ ॥
न्य्स्_५,१।३: गोत्वाद्गोसिद्धिवत्तत्सिद्धिः ॥
कथं पुनरियं जातिः, अथ प्रकरणसमोद्भावनं सम्यगुत्तरमेव कस्मान्न भवतीत्यत आह ।
अनयोश्च साधर्म्यवैधर्म्यसमयोरुत्तरम् ।
गोत्वाद्गोसिद्धिवत्तत्सिद्धिः (सू। ३) ॥
भवेदेवं यद्यन्वयव्यतिरेकमात्राद्धेतोर्गमकत्वं स्यात् ततो विशेषग्रहणाभावात्प्रकरणसमत्वं भवेत् ।
न त्वेवं भवति स्वाभाविकसम्बन्धभाजो गमकत्वात् ।
स्वभावसम्बद्धं च कृतकत्वमनित्यत्वेन,
न त्वमूर्त्तत्वस्य नित्यत्वेन स्वाभाविकः सम्बन्धः बुद्धिकर्मादौ व्यभिचारात् ।
तस्माद्गृह्यमाणविशेषत्वान्न प्रकरणसमः ।
यथा गोत्वाद्गौः सिध्यति स्वाभाविकप्रतिबन्धात् ।
नतु सास्नादिसम्बन्धादिति भाष्यं सास्नादीत्यतद्गुणसंविज्ञनो बहुव्रीहिः ।
तेन व्यभिचारिणः शृङ्गादयो गृह्यन्ते ।
वार्त्तिकम् एकस्यानन्वयादेकस्याव्यावृत्तेः ।
(५३२।११) एकस्य सत्त्वस्य गवा ऽनन्वयाद् अश्वादौ व्यभिचारादनन्वयः ।
एकस्यैकशफत्वादेर्वैधर्म्यस्य गोष्वेवाव्यावृत्तेः महिषादावपि व्यावृत्तेरित्यर्थः
॥ ३ ॥
न्य्स्_५,१।४: साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्च उत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यसमाः ॥
साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यसमाः (सू। ४) ॥
उभयसाध्यत्वात्साध्यसमः ।
पञ्चानां जातीनां साध्यदृष्टान्तयोर्धर्मविकल्पादित्यनेन पञ्चैव लक्षणानि सूचितानि ।
तानि च जातिसमाख्याभिर्मिथो विशिष्यन्ते ।
अनित्यः शब्दः कृतकत्वाद् घटवदित्युक्ते यदैवं प्रतिवादी प्रसङ्गेन प्रत्यवतिष्ठते यदि घटसाधर्म्यात्कृतकत्वादनित्यः शब्दः
तस्मादेव घटसाधर्म्याद्रूपादिमता ऽपि शब्देन भवितव्यम् ।
न चेद्रूपादिमान्मा भूत्तथा ऽनित्यो ऽपि ।
न चास्ति विशेषहेतुः कृतकत्वादनित्येन भवितव्यं न पुना रूपादिमतेति ।
सो ऽयं साध्यदृष्टान्तयोर्द्धर्मविकल्पाद्वैचित्र्याद्यत्रोत्कर्षं प्रसञ्जयति स उत्कर्षसमः ।
एवं तदेव साध्यदृष्टान्तयोर्धर्मवैचित्र्यमपकर्षेण विशिष्यमाणमपकर्षसमस्य लक्षणम् ।
साध्यदृष्टान्तयोर्धर्मवैचित्र्यात्स्वरूपेणा साध्यासाधनत्वप्रसङ्गजनने वर्ण्यावर्ण्यसमौ ।
साध्यदृष्टान्तधर्मविकल्पहेतुकवर्ण्यत्वनिबन्धनं तु हेत्वाद्यवयवोगित्वप्रसञ्जनं साध्यसमः ।
अत एवोभयसाध्यत्त्वादिति साध्यत्वं हेतुमाहमाध्य समस्य सूत्रकारः ।
भाष्यकारो ऽपि हेत्वाद्यवयवसामर्थ्ययोगीति ब्रुवाणस्तत्प्रसञ्जनं साध्यसमं मन्यते ।
तदेतद्वार्त्तिककृदाह ।
घटा वा ऽनित्य इत्यत्र को हेतुरिति ।
(५३३।९) न च यदि समाख्याभेदेन विशिष्यमाणं लक्षणपदं भिन्नार्थं तर्हि समाख्यापदान्येव लक्षणानि सन्तु कृतं लक्षणपदेनेति वाच्यम् ।
लक्षणपदसहितानामेव तेषां लक्ष्यभेदप्रतिपादकत्वादिति ॥ ४ ॥
न्य्स्_५,१।५: किञ्चित्साधर्म्यादुपसंहारसिद्धेर्वैधर्म्यादप्रतिषेधः ॥
आसां षण्णां जातीनां प्रत्याख्यानम् ।
किञ्चित्साधर्म्यादुपसंहारसिद्धेर्वैधर्म्यादप्रतिषेधः (सू। ५) ॥
यस्य धर्मिणः साध्यधर्मेण स्वाभाविकसम्बन्धः साधको धर्म उपपद्यतौपपन्नो भवति स धर्मस्तस्य साध्यधर्मस्य साधनं साध्यधर्थ्मण्युपसंह्वियते ।
तथा च शब्देनेति ।
उपनयपदेनेत्यर्थः ।
यत्पुनरेतद्विभागजाविभगजविकल्पवन्नित्यानित्यविकल्प
इति तत्राह ।
यथोत्पत्तिधम्रकत्वमन्वयव्यतिरेकि नैवं विभागजत्वम् ।
अयमर्थः विकल्पसममुत्तरं वदता हि यथा सत्युत्पत्तिमत्त्वे घटो न विभागजः इति व्यवस्थितो विकल्पः एवं सत्युत्पत्तिमत्त्वे सत्यपि विभागजवच्छब्दो ऽपि नित्यो भविष्यति घटस्त्वनित्य इत्युक्तम् ।
तत्र तावदुत्पत्तिधर्मकत्वं यथा सत्यनित्यत्वे घटादौ दृष्टम् आकाशादिषु चासत्यनित्यत्वे न दृष्टं तेनानित्यत्वेन स्वभावप्रतिबद्धमवधारितं नैवमुत्पत्तिधर्मकत्वस्य विभागजत्वेनाविभागजत्वेन वा स्वाभाविकसम्बन्धो गृहीतो येनोत्पत्तिमत्किं चिद्विभागजं किं चिदविभागजं न भवेत् ।
तस्मा द्विकल्पसमं जात्युत्तरं वदता ऽतिनिर्बन्धेन विभागजत्वेन शब्दस्य नित्यत्वं वक्तव्यं तत्रदमुपतिष्ठते यथोत्पत्तिधर्मकत्वमन्वयव्यतिरेक्यनित्यत्वं प्रति नैवं विभागजत्वं शब्दनित्यत्वं प्रत्यन्वयव्यतिरेकीति ।
तद्ध्यसाधारणमित्यर्थः ।
असाधारण्यमाह ।
न हि किं चिच्छब्दादन्यद्विभागाज्जायमानं नित्यमानत्वं वा दृष्टम् ।
(५३४।१) ननु विभागजो विभागो ऽनित्योव दृष्ट इत्यत आह ।
थोक्तविशेषणमिति ।
कारणमात्रविभागपूर्वकः शब्दो विभागजस्तु विभागः कारणाकारणविभागपूर्वकः इति सिद्धं कारणमात्रविभागपूर्वकत्वमसाधारणमित्यर्थः
॥ ५ ॥
न्य्स्_५,१।६: साध्यातिदेशाच्च दृष्टान्तोपपत्तेः ॥
षण्णां जातीनां प्रत्याख्यानमुक्त्वा वर्ण्यावर्ण्यसाध्यसमानामपरं प्रत्याख्यानमाह ।
साध्यातिदेशाच्च दृष्टान्तोपपत्तेः (सू। ६)
इति ।
तद्व्याचष्टे दृष्टान्तः साध्य इति ब्रुवतेति ।
चतुर्दशविधजातिवादिनामिह दूषणमुपन्यस्यति ।
यत्त्वत्रोक्तं जातीनां पौनरुक्त्यमिति ।
लक्षणभेदाभ्यां किल लक्ष्यभेदाभेदौ लक्षणं चेदमेकमिति न षड्जातयः तस्माद्विकल्पसमायामेवोत्कर्षसमादीनामन्तर्भाव
इत्यर्थः ।
दूषयति ।
न पौनरुक्त्यम् ।
तत्तल्लक्ष्यपदसहितानि पञ्च लक्षणानि उभयसाध्यत्वाच्चेत्यनेन सह लक्षणानि षडिति न केवलं लक्ष्य भेदात्प्रयोगभेददर्शनाच्च ।
शङ्कते ।
यदि लक्ष्यभेदाज्जातिभेदस्तत आनन्त्यमिति चेत् ।
निराकरोति ।
नानवधारणादिति ।
न लक्ष्याणामवधारणमस्त्येषामानन्त्यात् ।
लक्षणोपग्रहेण चतुर्विंशतिर्जातय इत्यर्थः ।
लक्ष्याणां लक्षणाभेदे ऽपि भेदे निदर्शनमाह ।
तथा हि प्रकरणसमैकेति ।
सुगममितरत्
॥ ७ ॥
न्य्स्_५,१।८: प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याविशिष्टत्वाद् अप्राप्त्यासाधकत्वाच्च प्राप्त्यप्राप्तिसमौ ॥
प्राप्त्यप्राप्तिसमाविति लक्ष्यपदम् ।
शेषं लक्षणम् ।
असत्साध्यते न तु सत् ।
प्राप्तं सत् ।
असतः प्राप्त्यसम्भवात् ।
तस्मान्न साध्यम् ।
अपि च येन यस्य प्राप्तिस्तेन गङ्गा सागरं प्राप्ता सागरेणसङ्गता सागरेणाभिन्ना तद्वदेवाभिन्ने ।
चेत्साध्यसाधने नास्ति साध्यसाधनभावः
तस्य भेदाधिष्ठानत्वादित्यपि द्रष्टव्यम् ।
अप्राप्तिसमस्तु स्फुट एवेति ।
ननु प्राप्त्यप्राप्तिसमयोर्मिलितयोः साधनप्रतिषेधस्यैकत्वात् कथं प्राप्त्यप्राप्तिसमौ भिन्नावित्यत आह ।
अनयोर्भेदोपदेशो विवक्षात इति (५३५।९) ।
साधनप्रतिषेधस्यैकत्वे ऽपि प्राप्य वा ऽप्राप्य वेति विकल्पभेदाद्भेदविवक्षेत्यर्थः ।
अभेदविवक्षायां त्वेकमेवोत्तरम् ।
यथा वृक्षाणां बहुत्वं विवक्षित्वा बहुवचनप्रयोगो वृक्षा इति तद्बहुत्वसङ्ख्यायाव एकत्वं विवक्षित्वैकवचनम् एकं वनमिति ।
उदाहरणेन साधर्म्यंवैधर्म्याभ्यां प्रत्यवस्थानमिति जातिसामान्यलक्षणं मन्वानो देशयति ।
जातिलक्षणाभावादिति परिहरति ।
न सूत्रार्थापरिज्ञानादिति ।
सूत्रे नोदाहरणसाधर्म्यं विवक्षितमपि तु येन केन चिद्विद्यमानेनासाध्येन साधर्म्यम् ।
अप्राप्तेन वा हेतुना साधमर्यमिति न सामान्यलक्षणायोग
इति ॥ ८ ॥
न्य्स्_५,१।९: घटादिनिष्पत्तिदर्शनात् पीडने चाभिचारादप्रतिषेधः ॥
प्रत्याख्यानम्—
घटादिनिष्पत्तिदर्शनादिति सूत्रम्, तद्व्याचष्टे मृत्पिण्डप्राप्तानां दण्डादीनां न गङ्गासागरवदविशेषः ।
मृदवयवाः पूर्वव्यूहपरित्यागेनेति ।
(५३६।२) साध्यं कर्म तच्च मृदवयवास्ते च सिद्धा एवेत्यव्यभिचारः ।
घटस्तु फलं न साध्य
इति भावः ।
को ऽप्राप्त्यर्थ इति।अप्राप्तस्य साधकत्वे ऽतिप्रसङ्गः इति भावः ।
उत्तरं परस्परोपश्लेषमन्तरेण साधकत्वमिति ।
अन्यथा तूद्देशेनायं प्राप्त
एव ।
यदुद्देशेनाभिचारः श्येनादिना क्रियते तस्यैव प्रत्यवायो भवति नान्यस्येति नियमः ।
अत्रापि हेतुत्वं क्रियां प्रति दृष्टम् ।
यथा पङ्काख्यायां भुवि ।
सुगममन्यत् ॥ ९ ॥
न्य्स्_५,१।९: दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ ॥
दृष्टान्तस्य कारणानपदेशात्प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ (सू। ९) ॥
दृष्टान्तस्य कारणं प्रमाणं तस्यानपदेशात्प्रसङ्गपसमः साध्यसमो हि दृष्टान्ते साध्यवद्धेत्वाद्यवयवं प्रसञ्जयति ।
पञ्चावयवप्रयोगसाध्यतां दृष्टान्तस्य गतस्यानित्यत्वस्य प्रसञ्जयतीत्यर्थः ।
प्रसङ्गसमस्तु दृष्टान्तगतस्यानित्यत्वस्य प्रमाणमात्रसाध्यतामित्यपौनरुक्त्यम् ।
भाष्यं साधनस्यापि ।
दृष्टान्तगतस्यानित्यत्वस्पय साधनं प्रमाणं वाच्यमिति ।
वार्त्तिकं घट एव तावदनित्य इत्यत्र को हेतुरिति ।
अत्र किं प्रमाणमित्यर्थः ।
भाष्यं प्रतिदृष्टान्त उदाह्नियते ।
किंयाहेतुगुणयुक्तमाकाशमक्रियं दृष्टं तस्मादनेन प्रतिदृष्टान्तेन कस्मात् ।
क्रियाहेतुगुणयोगो निष्क्रियत्वमेव न साधयत्यात्मन इति शेषः ।
यदि पुनरियमनैकानितकदेशना स्यात् क्रियाहेतुगुणयुक्तस्याप्यक्रियत्वं दृष्टं यथाकाशस्येति तद् एतत्सदुत्तरं स्यात् ।
न त्वेवमेतदिति जातिः ।
शङ्कते ।
वाय्वाकाशसंयोगस्येति ।
निराकरोति ।
न तत्समानधर्मोपपत्तेः ।
तत्समानधर्मणो धर्मिणः क्रियावत्त्वोपपत्तेः ।
यदि तथाभूत एवाकाशे कस्मान्न करोतीत्यत आह यस्त्वसाविति ।
(५३७।१) यस्तु मन्यते कार्योत्पादैक्यव्यङ्न्यमेव कारणं न दृष्टकार्यकारणसाधर्म्यव्यङ्न्यमपीति,
तस्य दूषणान्याह यदि चेति ।
न्य्स्_५,१।१०: प्रदीपोपादानप्रसङ्गनिवृत्तिवत्तद्विनिवृत्तिः ॥
यदि प्रज्ञापनार्थमुत्तरं नाप्रज्ञातो दृष्टान्तः ।
तत्र लौकिकपरीक्षकाणां बुद्धिसाम्यादिति शेषः ।
न्य्स्_५,१।११: प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः ॥
स च कथमहेर्तुन स्यादिति (५३८।१) कथं हेतुः स्यादिति ।
अभ्युपगमादिति ।
मदीयस्य च दृष्टान्तस्याभ्युपगमान्न त्वदीयो दृष्टान्त इत्यर्थः ।
अथैवं प्रयुङ्क्ते यथा मदीयो न दृष्टान्तस्तथा त्वदीय इति तथापि व्याघातान्न दृष्टान्तो मदीयस्यादृष्टान्तत्वे साध्ये प्रतिदृष्टान्तेन हि तेन मदीयस्या दृष्टान्तता साध्या, स चेन्न दृष्टान्तः मदीपस्यादृष्टान्तता साध्येति व्याहतमित्यर्थः ॥ ९ ॥ १० ॥ ११ ॥
न्य्स्_५,१।१२: प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः ॥
उदाहरणपुरःसरं भाष्यकारो व्याचष्टे अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद्
घटवदित्युक्त इति ।
तदश्रावात्कारणाभावादनित्यत्वस्य कार्यस्याभावे नित्यत्वं प्राप्तम् ।
नित्यत्वानित्यत्वाभ्यां राश्यन्तराभावादिति ॥ १२ ॥
न्य्स्_५,१।१३: तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः ॥
तस्य प्रत्याख्यानम् ।
तथा भावापदुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः । (सू। १३) ॥
नित्यत्वेन हि शब्दस्य धर्मेणानुत्पत्त्या प्रत्यवस्थेयम् ।
न चानुत्पन्नः शब्द इति नित्य इति चानुत्पत्तिधर्मक
इति च सम्भवति ।
उत्पन्नस्तृत्पत्तिधर्मा च शब्दश्चानि त्यश्चेति नानुत्पत्त्या शक्यं प्रत्यवस्थातुमित्यर्थः ।
कारणोपपत्तेरिति प्रयत्नानन्तरीयकत्वस्य प्रतिषेध इत्यर्थः ।
यदुक्तं कारणाभावादनित्यत्वस्य कार्यस्याभावे नित्यत्वं प्राप्तमिति तत्राह वार्तिककारः ।
ज्ञापकश्चायं हेतुर्न कारक
इति ।
कारको हि हेतुर्निवर्तमानः स्वकार्यं निवर्तयति न तुज्ञापकस्तदभावे ऽपि भूमौ चिरनिखातानां निध्यादीनामनिवृत्तेरिति ।
ततश्च विशेषण मनर्थकं प्रागुत्पत्तेरति ।
(५३९।४) प्रागसतो हि सत्तासम्बन्ध उत्पत्तिः प्रागपि चेदसावभ्युपगतः प्रागिति विशेषणमनर्थकम् ।
उत्पत्तेरभावे सदैवानुत्पत्तिधर्मकत्वादित्यर्थः ।
अपरे तु प्रागुत्पत्तेः कारणाभावादित्युक्ते अर्थापत्तिसमैवेयं जातिरिति मत्वा ऽस्या उत्तरमाहुः यदैवम्मुच्येत प्रयत्नानन्तरीयकत्वादनित्यः शब्द इति तदर्थादप्रयत्नानन्तरीयकत्वे नित्यत्वमुक्तं भवतीत्यर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसमैवेयं जातिरित्यभिमानः ।
एवं कृते त एवास्यां जातावुत्तरं ब्रुवते नायं नियम इति ।
तदेतत्परेषां मतं दूषयति ।
एतत्त्विति ।
शङ्कते ।
जातिलक्षणाभावान्नेयं जातिरिति चेत् ।
साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः न चानुत्पत्तिसमायाः साधर्म्यं वैधर्म्यं वा ऽस्ति केन चिदित्यर्थः ।
निराकरोति ।
नानुत्पन्नैरहेतुभिः सारूप्यादिति ।
यथा ऽनुत्पन्नास्तन्तवो न पटस्य कारणं तथा शब्दोत्पत्तेः प्रागनुत्पन्नं प्रयत्नानन्तरीयकत्वं नानित्यत्वस्य कारणमिति साधर्म्येण प्रत्यवस्थानमित्यस्ति सामान्यलक्षणमित्यर्थः ।
एतावता चार्थापत्तिसमाया अनुत्पत्तिसमातो भेदो दर्शितः इहानुत्पन्नैरहेतुभिः साम्येन कार्यप्रतिषेधात् अर्थापत्तिसमायां वाक्यार्थविपरीतारोपेण प्रतिषेधादिति ॥ १३ ॥
न्य्स्_५,१।१४: सामान्यदृष्टान्तयोरैन्द्रियकत्वे समाने नित्यानित्यसाधर्म्यात् संशयसमः ॥
दृष्टान्तः प्रयत्नानन्तरीयकत्वस्य हेतोर्घट इति ।
यथा हि विशेषदर्शनं निश्चयस्य कारणमस्तीति निश्चयोत्पत्तिरेव साधर्म्यदर्शनमात्रमस्ति संशयस्य कारणमिति संशयेनापि भवितव्यमित्यर्थः ।
सूत्रार्थप्रयोजनमाक्षेपसमाधानाभ्यां स्फुटीकरोति ।
संशयसमा साधर्म्यसमाया इति ॥ १४ ॥
न्य्स्_५,१।१५: साधर्म्यात्संशये न संशयो वैधर्म्याद् उभयथा वा संशये ऽत्यन्तसंशयप्रसङ्गो नित्यत्वानभ्युपगमाच्च सामान्यस्याप्रतिषेधः ॥
अस्य प्रत्याख्यानसूत्रम् ।
साधर्म्यात्संशये न संशयो वैधर्म्यादुश्रयथा वा संशये ऽत्यन्तसंशयप्रसङ्गो नित्यत्वानभ्युपगमाच्च सामान्यस्याप्रतिषेधः (सू। १५) ।
न सामान्यदर्शनमात्रं संशयस्य कारणमपि तु विशेषादर्शनसहितं विशेषदर्शने तु तद्रहितं न कारणमिति सूत्रार्थः ।
उभयथा वेति ।
साधर्म्यविशेषदर्शनाभ्यामित्यर्थः ।
नित्यत्वानभ्युपगमाच्च सामान्यस्येति ।
नित्यं संशयकारणत्वानभ्युपगमात्साधर्म्यस्येत्यर्थः
॥ १५ ॥
न्य्स्_५,१।१६: उभयसाधर्म्यात्प्रक्रियासिद्धेः प्रकरणसमः ॥
उपलक्षणं चैतद् उभयसाधर्म्यादिति ।
उभयवैधर्म्यादित्यपि द्रष्टव्यम् ।
एतद्व्याचष्टे भाष्यकारः उभयेन नित्येन चानित्येन चेति ।
द्वितीयश्च नित्यसाधर्म्यात्प्रतिपक्षं प्रवर्तयति नित्यः शब्दः श्रावणत्वाच्छब्दत्ववदिति ।
अथ द्वितीयसाधनप्रवृत्तौ प्रथमस्य साधनस्य किं भवतीत्यत आह ।
एवं च सति प्रयत्नान्नन्तरीयकत्वादिति हेतुरनित्यसाधर्म्येणोच्यमानो न प्रकरणमतिवर्तते ।
मा ऽतिवर्त्तिष्ट प्रकरणं को दोष इत्यत आह ।
प्रकरणानतिवृत्तेर्निर्णयानतिवर्त्तनम् ।
निर्णयानिष्पत्तिरित्यर्थः ।
एवमानित्यसाधनवादिनं प्रत्युत्तरं दर्शयित्वा नित्यसाधनवादिनं प्रत्याह ।
समानं चैतन्नित्यसाधर्म्येणोच्यमान
इति ।
तदेवं साधर्म्येण प्रकरणसमद्वयमुक्तं तथा वैधर्म्येण प्रकरणसमद्वयं नित्यानित्यसाधनवादिनावेव प्रत्याह ।
समानं चैतदिति ।
उभयवैधर्म्यादिति ।
नित्याकाशवैधर्म्यात्कृतकत्वादनित्यघटवैधर्म्याच्चास्पर्शवत्त्वादिति ।
तदेवं प्रकरणसमचतुष्टयम् ।
पूर्वपक्षवार्त्तिकं संशयसमसाधर्म्यसमाभ्यामिति (५४०।१३)परिहरति ।
नोभयपक्षसाधर्म्यात्तद्भेदोपपत्तिरिति ।
प्रकरणसमे हि स्वपक्षनिश्चयेन मया वादिपक्षसाधनं दूषणीयमिति बुद्ध्या प्रवर्त्तते ।
साधर्म्यसमसंशयसमयोस्तु वादिसाधनेन साम्यमात्रापादनेन तद्दूषणम्,
न तु प्रतिपक्षनिश्चयेनेति विशेषः ।
इह तु साम्यमात्रापादनं न साधनेन, किं तु दूषणैरित्येतावता समार्थः प्रयोगः सम इति बोद्धव्यम् ॥ १६ ॥
न्य्स्_५,१।१७: प्रतिपक्षात् प्रकरणसिद्धेः प्रतिषेधानुपपतिः प्रतिपक्षोपपत्तेः ॥
अस्य प्रत्याख्यानम् ।
प्रतिपक्षात्प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः । (सू। १७) ॥
द्वयोः साधनयोस्तदानीमगृह्यमाणविशेषयोः को ऽयमभिमानः प्रतिवादिनो यन्मयास्वपक्षसाधनेनैव वादिनः साधनं दूषणीयमिति ।
समानबलयोश्चेदयमात्मीयात्साधनात्स्वपक्षसिद्धिपमिच्छति अतो ऽनिच्छन्नपि वादिनापि साधनात्सिद्धिमभ्युपगमयितव्यः ।
अन्यथा स्वसाधनात्साध्यसिद्धिमुपजीव्य व्यक्तमियं राजङ्कुलस्थितिरिति ।
एवं व्यवस्थिते सूत्रभाष्ये योजयितव्ये ।
प्रतिपक्षात्प्रतिपक्षसाधनात्प्रकरणस्य प्रक्रियमाणस्य साध्यस्येति यावत् ।
सिद्धेः समानात् स्वसाधनात् प्रतिषेधस्य प्रतिवादिसाधनस्य स्वसाध्यसिद्धिद्वारेण परकीयसाधनप्रतिषेधस्यानुपपत्तिः ।
कस्मात्प्रतिषेधानुपपत्तिरित्यत उक्तं प्रतिपक्षोपपत्तेः ।
फलतः परकीयसाधनस्य समानात्स्वसाधनात्प्रक्रियासिद्धिं स्वसाध्यसिद्धिं ब्रुवता प्रतिपक्षात्प्रक्रियासिद्धिरुक्ता भवति प्रतिवादिना ।
नन्वेवं प्रकरणसमाव्हयो हेत्वाभासो नोद्भावनीयः प्रतिवादिना जात्युत्तरप्रसङ्गादित्यत आह ।
तत्त्वानवधारणाच्च प्रक्रियासिद्धिः ।
स्वसाध्यनिर्णयेन परसाध्यविघटनबुद्ध्या प्रतिवादिना साधनं प्रयुज्यमानं प्रकरणसमजात्युत्तरं भवति ।
सत्प्रतिपक्षतया वादिनः साधनमनिश्चायकं करोमीति बुद्ध्या प्रतिपक्षसाधनं प्रयुञ्जानो न जातिवादी सदुत्तरवादित्वात् ।
सत्प्रतिपक्षताया हेतुदोषस्यानैकान्तिकादिवदुपपादितत्वात् ।
तत्त्वानवधारणादित्यनेन प्रकरणसमोदाहरणं दर्शितम् ।
वार्तिकं विरुद्धाव्यभिचार्येष
उक्तोत्तर इति ।
तुल्यबलयोरेकतरस्मात्स्वसाध्यसिद्धिमभ्युपगच्छतोर्द्वयोरपि फलतो व्यभिचारः सिध्यति ।
न च विरुद्धाव्यभिचारी सम्भवति ।
अव्यभिचारो ह्यविनाभावः स च पञ्चरूपसम्पत्तिश्चतूरूपसम्पत्तिर्वा न विरुद्धाव्यभिचारिणि सास्तीत्यर्थः ॥ १७ ॥
न्य्स्_५,१।१८: त्रैकाल्यासिद्धेर् हेतोरहेतुसमः ॥
सूत्राभाष्यवार्तिकानि प्रमाणसामान्यपरीक्षाव्याख्यानेन व्याख्यातानि ॥ १८ ॥
न्य्स्_५,१।१९: न हेतुतः साध्यसिद्धेस्त्रैकाल्यासिद्धिः ॥
न्य्स्_५,१।२०: प्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्याप्रतिषेधः ॥
न्य्स्_५,१।२१: अर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसमः ॥
उदाहरणपुरःसरं सूत्रं योजयति ।
अनित्यः शब्द इति ।
अनित्यसाधर्म्यादनित्यं शब्दं ब्रुवाणो भवाननक्षरं नित्यसाधर्म्यान्नित्यत्वं शब्दस्य ब्रूतैत्यर्थः ।
न साधर्म्यसमादौ वाद्यभिप्रायवर्णनमित्यतो भेदः ॥ २१ ॥
न्य्स्_५,१।२२: अनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वादनैकान्तिकत्वाच्चार्थापत्तेः ॥
अस्य प्रत्यादेशसूत्रम् ।
अनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वादनैकान्तिकत्त्वाच्चार्थापत्तेः (सू। २२) ॥
तद्व्याचष्टे अनुपपाद्य सामर्थ्यमिति ।
तदेव खल्वनुक्तं वचनाल्लभ्यते यत्कल्पनमन्तेरण वचनार्थो न घटते यथा पीनो देवदत्तो दिवा न भुङ्क्तैत्युक्ते रात्रौ भुङ्क्त इति ।
यथा वा यागेन स्वर्गं भावयेदित्युक्ते ऽन्तरापूर्वं कृत्वेति वाक्यार्थोपपादने तस्य सामर्थ्यात् ।
न त्वव्यभिचारिणः साधर्म्यात्साध्ये साध्यमाने ऽर्थादुक्तं भवति व्यभिचारिणा ऽपि साधर्म्येण साधयितव्यमिति ।
तस्य वाक्यार्थोपपादने ऽसामर्थ्यात् ।
तदन्तरेण वाक्यार्थोपपत्तेः ।
यदि पुनरनुपलब्धसामर्थ्यमनुक्तमपि गम्येत ततस्त्वया नित्यत्वापादने शब्दस्योच्यमाने ऽनुच्यमानमनित्यत्वं प्रत्येतव्यम् ।
तथा च भवदभिमतस्य नित्यत्वस्य व्यावृत्तिः ।
तदिदमाह
अनित्यपक्षस्यानुक्तस्य सिद्धावर्थादापन्नं नित्यपक्षस्य हानिरिति ।
विपर्ययेणापि प्रत्यवस्थानसम्भवात् ।
अनैकान्तिकत्वमाह उभयपक्षसमा चेयमिति ।
व्यभिचाराच्चानैकान्तिकत्वमाह ।
न चेयं विपयर्यमात्रादिति ।
न हि भोजननिषेधादेवाभोजनविपरीतं सर्वत्र कल्पते ।
धनत्वं हि ग्राव्णः पतनानुकूलगुरुत्वातिशयसूचनार्थं न त्वितरेषां पतनं वारयति ।
वार्तिकं सुबोधम् ॥ २२ ॥
न्य्स्_५,१।२३: एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात् सद्भावोपपत्तेर् अविशेषसमः ॥
यदि घटसाधर्म्यात्यप्रयत्नानन्तरीयकत्वाद्
घटेनाविशेषो ऽनित्यत्वाख्यः शब्दस्य सत्त्वात्साधर्म्यात्सर्वेषां सर्वाविशेषप्रसङ्गः ।
न त्वेवं यथा प्रयनानन्तरीयकत्वादपि साधर्म्यान्न शब्दघटयोरनित्यत्वमविशेष
इति प्रतिषेधो ऽविशेषसमः ।
अविशेष
इत्यस्य विवरणमुभयोरनित्यत्व इति ।
देश्यं वार्तिकं साधर्म्यसमातो न भिद्यते इति (५४२।६) ।
परिहारवार्त्तिकं नैकसमस्तेति ॥ २३ ॥
न्य्स्_५,१।२४: क्वचिद्धर्मानुपपत्तेः क्वचिच्चोपपत्तेः प्रतिषेधाभावः ॥
अस्य प्रत्यादेशसूत्रम् ।
क्व चित्तद्धर्मानुपपत्तेः क्व चिच्चोपपत्तेः प्रतिषेधाभावः (सू। २४) ॥
क्व चित्साधर्म्ये प्रयत्नानन्तरीयकत्वादौ सति शब्दादेर्घटादिना सह तद्धर्मस्य घटधर्मस्यानित्यत्वस्योपपत्तेः क्व चित्साधर्म्ये शब्दस्य भावमात्रेण सह सत्त्वादौ भावमात्रधर्मस्यानुपपत्तेः प्रतिषेधाभाव
इति योजना ।
एतदुक्तं भवति अविनाभावसम्पन्नं साधर्म्यं गमकं न तु साधर्म्यमात्रमिति ।
सद्भावो पपत्तिनिमित्तमिति सद्भावव्यापकमित्यर्थः ।
अत्रान्तरे वैनाशिकः सत्ताव्यापकमनित्यत्वं मन्वानो देशयति ।
अथ मतमनित्यत्वमेव धर्मान्तरमिति ।
निराकरोति ।
एवं खलु वै कल्प्यमान इति ।
पूर्वपक्षोत्तरपक्षपवनिर्वाहस्तृतीये प्रपञ्चितः ।
अपि च सन्तः के चन प्रमाणावधृतनित्यत्वाः
यथाकाशादिगात्मपरमाणवः, के चित्प्रमाणविनिश्चितानित्यभावा यथा घटादयः तस्मात्सत्त्वमनैकान्तिकत्वादसाधकमित्याह सतश्च नित्यानित्यभावादिति ।
अपि च यत्प्रतिषेधाय प्रसङ्गापादनं तदेव प्रतिषेध्यं साधयति,
न तु निषेधतीत्याहसर्वभावानां सद्भावोपपत्तेरिति ।
वार्तिकं क्व चित्साधर्म्यमुपलभ्यत इति ।
व्याप्यतयेति शेषः ।
अथ शब्दवर्जमुच्यत
इति तत्राह व्यर्थंवा सर्वभावग्रहणम् ।
उक्तश्च विशेषो ऽन्वयव्यतिरेकसम्पन्नो हेतुरिति प्रयत्नान्तरीयकत्वं न तूत्तरः सद्भावोपपत्तेरित्यन्वयव्यतिरेकसम्पन्न
इति ॥ २४ ॥
न्य्स्_५,१।२५: उभयकारणोपपत्तेरुपपत्तिसमः ॥
यद्यनित्यत्वकारणं प्रयत्नानन्तरीयकत्वमुपपद्यते तदस्ति शब्दस्येत्यनित्यः शब्द इति ।
प्रकरणसमायां जातौ पक्षप्रतिपक्षसाधनयोः समानबलत्वे ऽपि प्रतिवादि स्वासाधनास्वपक्षसिद्ध्पवया वादिसाधनदूषणे प्रवर्त्तते, उपपत्तिसमायां तु स्वसाधनेनैवेति विशेषः ॥ २५ ॥
न्य्स्_५,१।२६: उपपत्तिकारणाभ्यनुज्ञानादप्रतिषेधः ॥
अस्य प्रत्यादेशसूत्रम् ।
उपपत्तिकारणाभ्यनुज्ञानादप्रतिषेधः (सू। २६) ॥
वाद्यभिमतस्य साधनस्योपपत्तौ यत्कारणं तस्वय प्रतिवादिना ऽभ्यनुज्ञानादिति भावः ।
प्रकरणसमप्रत्याख्यानवदस्यापि प्रतयाख्यानं द्रष्टव्यम् ।
सुगमे भाष्यवार्त्तिके ॥ २६ ॥
न्य्स्_५,१।२७: निर्दिष्टकारणाभावेप्युपलम्भादुपलब्धिसमः ॥
अनित्यत्वकारणस्येति ।
ज्ञापकस्येत्यर्थः ।
ननु यद्वृत्तयोगप्राथम्ययोः साधनधर्मो विषयो न तु साध्यधर्मः स हि तद्वृत्तयोगस्य विषयः एवं प्रयुज्यते यो यः प्रयत्नानन्तरीयकः स सर्वो ऽनित्यः अनेन हि प्रयत्नानन्तरीयकत्वमनित्यादन्यतो व्यावर्त्तितम् ।
अनित्यत्वं त्वनियतं स यद्यप्रयत्नानन्तरीयके शब्दे ऽन्यत्र वा भवेत् कः प्रयत्नानन्तरीयकत्त्वस्यानित्यत्वनियमविरोधः
एवं हि स भवेद् यदि नित्यो ऽपि प्रयत्नानन्तरीयको दृश्येत न त्वेवमस्ति, तस्मादुपलब्धिसमाया उत्थानमेव नास्ति बीजाभावादित्यत आह वार्तिककारः सर्वसाध्याध्यारोपेणाव्यापकत्वं साधनस्येत्युपलब्धिसमार्थः ।
(५४३।७) यद्यपि वर्णात्मकः शब्दो ऽनि त्यत्वेन साध्यतया विवक्षितः प्रकरणादनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवदिति तथा ऽपि शब्दमात्रमनेन पक्षीकृतमित्यारोप्य भागासिद्धत्वारोपणं साधनस्येत्युपलब्धिसमार्थः ।
समारोपमेवोदाहरणान्तरेण दर्शयति ।
सर्वमनित्यमिति ।
शब्दोनित्य इति प्रतिज्ञायामपि सर्वमनित्यमित्नपवयारोप्येति योजना ।
भाष्यकारोदाहरणापतितोपश्चोदाहरणान्तरप्रदर्शनबीजम् ।
यस्त्वनित्यः शब्द इति प्रतिज्ञायां सर्वानित्यत्वारोपो निर्बीज इति न तुष्यति तं प्रत्याह ।
श्रूयमाणेति ।
यद्यप्यनित्यः शब्द इति श्रूयते तथा ऽपि सामर्थ्थादाद्य
इति विवक्षितः ।
शब्दान्तरोत्पादकत्वं सजातीयोत्पादकत्वमिति१
एवं च नायोगव्यवच्छेदेन शब्दानित्यत्वं हेतुरव्यापकत्वात् ।
नाप्यन्ययोगव्यवच्छेदेन हेत्वन्तरस्य विद्यमानत्वादिति जातिवादिनो ऽभिसन्धिरिति ॥ २७ ॥
न्य्स्_५,१।२८: कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः ॥
अस्य प्रतयाख्यानसूत्रम् ।
कारणान्तरादपि तद्धर्मोयपत्तेरप्रतिषेधः (सू। २८) तद्व्याचष्टे ।
प्रयत्नानन्तरीयकत्वादिति ब्रुवतेति ।
कारणतः प्रयत्नाच्छब्दस्योत्पत्तिनियमो विधीयते वर्णानामनित्यत्वम्व साधयितुम् ।
न तु कार्यस्य कारणनियमः, प्रयत्नादेव सर्वः शब्दो जायते न तु वायुसंयोगाद्वृक्षभङ्गादिति नियम उच्यते येनाव्यापकत्वं हेतोः स्यादिति ।
सूत्रार्थस्तु कारणान्तरादपि ज्ञापकान्तरादपि तद्धर्मोपपत्तेः साध्यधर्मोपपत्तेरप्रतिषेध
इति ।
एतदेव वार्त्तिककारो व्याचष्टे अनित्यः शब्द इति ब्रुवता प्रयत्नानन्तरीयकत्वेनेति शेषः ।
साध्यान्तराणां शाखाभङ्गजशब्दानां कारणमनित्यत्वज्ञापकं न प्रतिषिध्यते ।
यद्यपक्षीकृतानामपि कारणान्तरादनित्यत्वं भवति कामं भवत्वित्यर्थः ।
नापि शब्दस्य साध्यस्यानित्यत्वे कारणान्तरं प्रतययभेदभेदित्वादि प्रतिषिध्यते ।
एकदेशिमतमाह ।
अपरे तु परिहारं ब्रुवते यदेव प्रयत्नानन्तरीयकमितञ्
तिदेतद्पव दूषयति एतत्तु नाविवादादिति ।
अयमभिसन्धिः ।
प्रयत्नानन्तरीयकत्वं हि कोष्ठ्यस्य वायोः क्रियायाः सा हि प्रयत्नवदात्मसंयोगाज्जायते ।
वायोः पुनरुरःस्थानादिषु संयोगविभागादयो न प्रयत्नानन्तरीयकाः प्रागेव तु शब्दः यदा चाद्यशब्दस्येयं गतिस्तदा कैव कथ प्रयत्नानन्तरीयकत्वे ऽन्त्यस्य श्रवणविवरसमवायिनः श्रूयमाण्स्य शब्दस्य ।
तस्माद्यः प्रयत्नानन्तरीयकत्वं शब्दस्पय विना प्रमाणेन प्रतिपद्यते न तं प्रति किं चित्साध्यते प्रमाणेन ।
प्रमाणानधीनस्य प्रतिभासमात्रेण प्रमेयसिद्धेः सर्वत्र सुलभतवादिति ।
तदनेनापरितोषबीजमुक्तम् ।
अभ्युपेत्य शब्दस्य प्रयत्नानन्तरीयकत्वमाह ।
यदा तु प्रयत्नानन्तरीयकत्वमिति ।
देशयति ।
जातीति ।
परिहरति नेति ॥ २८ ॥
न्य्स्_५,१।२९: तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेर् अनुपलब्धिसमः ॥
अनुपलब्धिसमप्रतिषेधस्य लक्षणं दर्शयितुं तत्प्रतिषेध्यं तावदाह भाष्यकारः ।
न प्रागुच्चारणाद्विद्यमानस्यानुपलब्धिरिति ।
तस्मादुदकादिवदावरणादिरस्यानुपलम्भकारणं भवतीत्यत आह ।
गृह्येत चैतदस्याग्रहणकारणमिति ।
प्रतिषेध्यमुत्क्वा ।
प्रतिषेधस्य जातेर्लक्षणमाह ।
तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेरनुपलब्धिसमः (सू। २९) ॥
व्याचष्टे तेषामावरणादीनामनुपलब्धिर्नोपपद्यते ।
उपलभ्यमानत्वे उपलब्धिरूपतया अनुपलब्धित्वानुपपत्तेः ।
तथा चानुपलब्धेरनुपलम्भादनुपलब्धिर्नास्तीत्यावरणाद्युपलब्धिसिद्धिरिति ।
आवरण इवावरणानुपलब्धिरप्यनुपलब्धिसमेत्यर्थः
॥ २९ ॥
न्य्स्_५,१।३०: अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः ॥
अस्य प्रत्यादेशसूत्रम् अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः (सू।३०) ॥
आवरणाद्यनुपलब्धिरावरणादीनामभावं गमयति ।
न त्वात्मनो ऽभावमावरणाद्युपलब्धिरूपं न ह्यसावनुपलब्धिरप्यात्मनो येनात्माभावं गमयेत् ।
उपलब्धिरप्युपलभ्यविषया नात्मविषया किं पुनरनुपलब्धिः ।
तस्मादनुपलब्धिरुपलभ्याभावहेतुः
न हेतुरात्माभावस्य तथा सति सैव न स्यादिति न स्यादुपलभ्याभावो ऽपीत्यावरणं तदुपलब्धिनश्च स्यादिति ।
तदिदमाह भाष्यकारः ।
अनुपलम्भादित्ययमहेतुरिति ।
कस्मात् ।
अनुपलम्भात्मकत्वादनुपलब्धेः ।
एतद्व्याचष्टे उपलम्भाभावमात्रत्वादिति ।
मात्रग्रहणेन जातिवाद्यभिमतात्माभावरूपतां व्यवच्छिनत्ति ।
नन्वियमनुपलब्धिर्भवतूपलम्भाभावो मा च भूदुपलभ्यस्य किमायातमावरणाद्यभावस्येत्यत
आह ।
यदस्ति तदुपलब्धेर्विषय उपलब्ध्या तदस्तीति विज्ञायते ।
न पुनरनुपलब्धेरनुपलम्भात्मतया तत्प्रतिज्ञेयमिति भावः ।
अनुपलब्धेः प्रज्ञेयमाह ।
यज्ञास्ति सो ऽनुपलब्धेरिति ।
ननु ज्ञायतां किमेतावता ऽपीत्यत आह ।
सो ऽयमावरणाद्यनुपलब्धेरनुपलम्भ
इति ।
त्वया हि जातिवादिना आवरणाद्यनुपलब्धेरनुपलम्भेनावरणोपलम्भमावरणं च प्रसञ्जयता ऽनुपलम्भस्य स्वविषयलोपेन प्रतयवस्थेयम् ।
एवं चेद्वरमस्यावरणतदुपलम्भौ विषयौ एवमनेन भावाभावबुद्धिव्यपदेशव्यवहाराः सकललोकयात्रावाहिनो ऽनुकूलिता भवन्ति,
तदिदमुक्तं सो ऽयमावरणाद्यनुपलब्धेरनुपलम्भ
आवरणोपलम्भनिषेधविषयं प्रमाणमुपलब्ध्यभावे ऽनुपलब्धौ स्वविषये प्रवर्त्तमानो न स्वविषय मनुपलब्धिं प्रतिषेधति अपि तूपलब्धिमेव,
जातिवादिनस्तु निषेध्येत तथा च सर्वलोकव्यवहारः समुच्छिद्येतेति भावः ।
अप्रतिषिद्धा चावरणाद्यवनुपलब्धिरावणादीनामभावं प्रति हेतुत्वाय कल्पते ।
ननु च नानुपलम्भमात्रमभावग्रहहेतुः
मा भूच्चन्द्रमसः परभागे हरिणसदसद्भावसंशय
इत्यत आह ।
आवरणादीनि त्विति ।
उपलभ्यं वोपलब्धिर्वा नानुपलम्भमात्रान्नास्तीति सिध्यति, अपि तु दर्शनयोग्यं सदिति नातिप्रसङ्ग
इत्यर्थः ।
ननूपलब्धेः स्वविषयस्य प्रतिपादिकाया अभावादावरणादयो मा नामोपलभ्यन्ताम्
अभावस्तु तेषां कुतस्त्य इत्यत आह अनुपलम्भात्प्रतिषेधकात्प्रमाणादनुपलब्धेर्यो विषयः उपलभ्याभावः स गम्यते ।
न सन्त्यावरणादीनि शब्दस्याग्रहकारणानीति ।
तत्किमिदानीं साक्षादेवोपलम्भनिषेधकं प्रमाणमुपलभ्याभावं गमयति नेत्याह ।
अनुपलम्भात् उपलब्धिनिषेधकात्प्रमाणादनुपलब्धिरावरणस्य सिध्यति ।
कस्मादित्यत आह ।
विषयः स तस्योपलब्धिनिषेधकस्य प्रमाणस्यानुपलब्धिः ततश्चावरणाद्यभाव
इति द्रष्टव्यम् ॥ ३० ॥
न्य्स्_५,१।३१: ज्ञानविकल्पानां च भावाभावसंवेदनादध्यात्मम् ॥
न केवलं निषेधविषयप्रमाणगम्यतानुपलब्धेरुपपत्तिगम्या,
अपि तु सर्वजनप्रत्यात्मवेदनीयेत्याह सूत्रकारः ।
ज्ञानविकल्पानां च भावाभावसंवेनादध्यात्मम् (सू। ३१) ॥
व्याचष्टे अहेतुरिति वर्तते ।
शरीर इति ।
प्रागुच्चारणाच् शब्दस्यानुपलब्धेरसत्त्वे साध्यमाने ऽनैकान्तिकत्वं स्याद् यदि तु पश्चाद्विशिष्येत आवरणाद्यसम्भवे सतीति ततो हेत्वन्तरं नाम निग्रहस्थानं स्यादित्याशङ्क्य वार्तिककार आह ।
आवरणाद्यसम्भवे सत्त्वाभ्युपगमे च सत्यनुपलब्धेरिति प्रयोगः ।
(५४४।८) सत्त्वाभ्युपगमे चेत्यस्योपादानप्रयोजनमाह ।
आवरणाद्यसम्भवे सत्त्वाभ्युपगमे विपर्ययस्याव्यभिचारान्नार्थापत्तिसमः ।
अयमर्थः ।
यद्यावरणासम्भवे सत्यनुपलब्धेरित्युच्यमाने कश्चिदर्थापतिसमया जात्या प्रत्यवतिष्ठते आवरणाद्यसम्भवे सत्यनुपलब्धेरित्युच्यमाने अर्थादापतितमावरणादिसम्भवे सत्युपलब्धेरिति ।
यदा तु सत्त्वाद्यभ्युपगम इति ।
विषयविपर्ययस्सूच्यते तदावरणाद्यसभवे सत्यनुपलब्धेरसत्त्वमित्यस्य विपर्यय एवं प्रयोक्तव्यः ।
सत्त्वोपगमे चावरणाद्यसम्भवे सत्युपलभ्येतेति अस्य विपर्ययस्याव्यभिचाराद् नार्थापत्तिसम
इत्यर्थः ॥ ३१ ॥
न्य्स्_५,१।३२: साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः ॥
अस्ति घटेनानित्येन सर्वभावानां सत्त्वं साधर्म्यमिति ॥ ३२ ॥
न्य्स्_५,१।३३: साधर्म्यादसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधर्म्यात् ॥
अस्य प्रत्याख्यानसूत्रम् ।
साधर्म्यादसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधर्म्याच्च (सू। ३३)
न्य्स्_५,१।३४: दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य हेतुत्वात्तस्य चोभयथा भावान्नाविशेषः ॥
तदिदं जातिवादिना साम्यमापाद्य परमार्थप्रतिषेधमाह ।
दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य हेतुत्वात्तस्य चोभयथाभावान्नाविशेषः (सू। ३४) ॥
साधर्म्यामात्रं चाश्रित्यसाध्या विनाभावरहितमिति ।
देश्यवार्त्तिकमविशेषसमात
इति ।
परिहरति भिद्यत इति ।
यच्चाविशेषसमौत्तरमिति ।
(५४५।७) सर्वानित्यत्वं हि प्रसञ्जयता न शब्दानित्यत्वं निषिद्धं भवतीति तत्रोक्तमित्यर्थः ।
अत्र शङ्कते नासाधनादिति ।
परिहरति ।
न विशेषहेतूपपत्तेरिति ।
सुगममन्यत्
॥ ३४ ॥
न्य्स्_५,१।३५: नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसमः ॥
धर्मस्य सर्वदा भावाद्धर्मिणो ऽपि सर्वदा भावः
न ह्यस्ति सम्भवः सामान्यसमवायातिरिक्तधर्मा नित्या धर्मी चानित्य इति ॥ ३५ ॥
न्य्स्_५,१।३६: प्रतिषेध्ये नित्यमनित्यभावादनित्ये ऽनित्यत्वोपपत्तेः प्रतिषेधाभावः ॥
अस्य प्रत्यादेशसूत्रम् ।
प्रतिषेध्ये नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेः प्रतिषेधाभावः (सू। ३६) नित्यमनित्यभावादिति हेतोरभ्युपगमे ऽनभ्युपगमे च दोष
इत्यर्थः ।
उत्पन्नस्य निरोधादभावः शब्दस्यानित्यत्वम् ।
तत्र च परिप्रश्नानुपपत्तिः ।
यदि हि निरोधकादभावो ऽनित्यत्वं तथापि प्रश्नानुपपत्तिः ।
अथाप्यस्मन्मते समवायस्तथा ऽपि तदनुपपत्तिः अनित्यत्वं हि शब्दस्यापरान्ताव च्छिन्नसत्तासमवायः ।
न चासौ शब्दाधेयस्तस्य स्वतन्त्रत्वादेवेत्यर्थः ।
वार्तिकम् ।
पृथगधर्मत्वेनानित्यत्वस्यानभ्युपगमादिति ।
(५४६।८) अनात्यन्तिकसत्तासमवायो ह्यनित्यता न चासौ समवायात्पृग्रग्धर्मो न च समवायो ऽपि धर्मो ऽनाश्रितत्वात्पारतन्त्र्येण तु निरूपणात्कथं चिद्धर्मीत्युच्यत इति ।
अपि चानात्यन्तिकसत्तायोगो ऽनित्यतेत्युक्ते न युक्तः प्रश्न इति ।
न हि घटमानयेति प्रेषितः परिवृत्य पृच्छति किं घट आनेतव्य
उत पट इति तादृशमेतदित्यर्थः ।
अपि चानित्यता नित्नपया ऽनित्या वेति विकल्पो नावतरति विरोधादित्यत आह ।
आत्यन्तिकानात्यन्तिकभावयोगश्चैकस्येति ।
शङ्कते प्रतिषेध्येति ।
एवमभ्युपगच्छतो ऽयं दोष इत्येतत्परमेतद् न तु स्वपक्षोपवर्णनपरमेतदिति शङ्कार्थः ।
निराकरोति न विकल्पानुपपत्तेरिति ।
विरोधस्य चोक्तोत्तरत्वादिति ।
परिप्रश्नानुपपत्तेरित्युत्तरं विरोधस्योक्तमित्यर्थः ॥ ३६ ॥
न्य्स्_५,१।३७: प्रयत्नकार्यानेकत्वात् कार्यसमः ॥
उदाहरणवपूर्वकमस्यार्थं व्याचष्टे प्रयत्नानन्तरीयकत्वादनित्यः शब्द इति ।
कार्यत्वानित्यत्वे च परस्परासङ्कीर्णे प्रथम एवाध्यायेदर्शिते ।
उदाहृत्य जातिमवतारयति ।
एवमवस्थिते प्रयत्नकार्यानेकत्वादिति प्रतिषेध
उच्यत इति ।
प्रयत्नानन्तरीयकत्वं प्रयत्नानन्तरोत्पादो वा स्यात् प्रयत्नानन्तरोपलम्भो वा ।
न तावत्पूर्वः कल्पो ऽसिद्धत्वात् ।
तस्मात्प्रयत्नानन्तरोपलम्भ आस्थेयः
तत्र कार्यसमं प्रतिषेधमाह प्रयत्नानन्तरमुपलभ्यमानानां प्रयत्नानन्तरमात्मलाभश्च दृष्टो यथा घटादीनां व्यवधानापोहाच्चाभिव्यक्तिर्व्यवहितानां मूलककीलकादीनाम्, तत्किं प्रयत्नानन्तरमात्मलाभः शब्दस्याहो स्विदभिव्यक्तिरिति विशेषो नास्ति ।
तदेवं कार्याविशेषेण प्रत्यवस्थानं कार्यसमः ।
येन तु कार्यसमा जातिरन्यथैवोक्ता तद्यथा ऽनित्यः शब्दः कृतकत्वाद् घटवदित्युक्ते अन्यद् मृत्पिण्डादिकार्यत्वं घटस्य अन्यच्च विवक्षाप्रयत्नवायुप्रेरणाभिघातकार्यत्वं शब्दस्य तस्माच्छब्दकृतकत्वस्य घटादिकृतकत्वाद्भेदान्न साधनं कृतकत्त्वमनित्यत्वस्येति ।
सेयं कार्यान्यत्वेन प्रत्यवस्थानात्कार्यसमेति ।
तदाह कार्यत्वान्यत्वलेशेन यत्साध्यासिद्धिदर्शनं तत्कार्यसममिति भदन्तेनोक्तम् ।
कीर्तिरप्याह ।
ऽसाध्येनानुगमात्कार्यसामान्येनापि साधने ।
सम्बन्धिभेदाद्भेदोक्तिर्देषः कार्यसमो मतऽ इति ॥
तदनेन यदीश्वरसाधननिरालरणायोक्तम्—तनुगिरिसागरादीनामन्यत्कार्यत्वम्
अन्यच्च प्रासादाट्टालगोपुरादीना मिति तदपि जात्युत्तरमेनेत्युक्तं भवति ।
न च प्रत्यक्षदृश्यमानं बुद्धिमदन्वयव्यतिरेकानुविधानं सौधादीनामिव तनुभुवनादीनां तास्तीत्येतावता भेदेन कार्यभेदे शब्दमात्राभेद इति साप्रन्तम् ।
अभूत्वा भावलक्षणस्य कृतकत्वस्य संस्थानवत्त्वस्य वा वस्तुन एवाभेदात् तस्मादेतदप्ययुक्तम् ।
ऽवस्तुभेदे प्रवृत्तेपि शब्दसाम्यादभेदिनः ।
न युक्ता ऽनुमितिः पाण्डुद्रव्यादिव हुताशनेऽ ।
न चेयं जातिरुत्कर्षापकर्षसमाभ्यां भिद्यते साध्यदृष्टान्तयोर्धर्मविकल्पेन प्रवर्तमानत्वात्तस्मात्सूत्रकारोक्त
एव कार्यसमोसङ्कीर्ण इति युक्तमुत्पश्यामः
॥ ३७ ॥
न्य्स्_५,१।३८: कार्यान्यत्वे प्रयत्नाहेतुत्वम् अनुपलब्धिकारणोपपत्तेः ॥
अस्य प्रत्यादेशसूत्रम् ।
कार्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणोपपत्तेः (सू। ३८) ॥
कार्यस्योत्पत्तिर्न लक्षणस्यान्यत्वे ऽभिव्यक्तिलक्षणात्कार्यात्प्रयत्नस्याभिव्यक्तिं प्रत्यहेतुत्वं न भवतीत्यत आह ।
अनुपलब्धिकारणस्यावरणादेरुपपत्तेरभिव्यक्तिहेतुत्वं स्याद् एवं तु नास्तीति व्यतिरेकपरं द्रष्टव्यम् ।
सति कार्यान्यत्व इति भाष्यं सूत्रवद्योजनीयम् ।
यत्र प्रयत्नानन्तरमित्यत्र यत्रतत्रयोर्व्यत्यासः
तत्र प्रयत्नानन्तरमभिव्यक्तिर्यत्रानुपलब्धिकारणं व्यवधानमुपपद्यत इति ।
कस्मादनुपलब्धिकारणोपपत्तेः प्रयत्नाभिव्यङ्ग्यत्वमित्यत आह ।
व्यवधानायोगाच्चेति ।
(५०५।१) चो हेत्वर्थे ।
प्रयत्नानन्तरभाविन इति ।
विषयेण विषयिणमुपलक्षयति प्रयत्नानन्तरभाविन
इत्यर्थः ।
अनुपलब्धिकारणोपपत्तेरित्यस्य व्यतिरेकप्रधानतामाह ।
न तु शब्दस्यानुपलब्धीति ।
देश्यवार्तिकं संशयसमात इति ।
(५४७।७) परिहरति उभयसाधर्म्यादिति ।
विशेषानुपलब्धौ सत्यामुभयसाधर्म्यात्संशयसमः ।
इदं तु विशेषोपलब्धिमविवक्षित्वेति विशेषः ।
तदिदमुक्तमयं तु न तथेति ।
देशयति साधर्म्यसमात
इति ।
निराकरोति न हेत्त्वध्यारोपणादिति ।
प्रयत्नानन्तरीयकत्वादित्ययं प्रयत्नानन्तरमुपलब्धेरित्यध्यारोप्य प्रतिषिध्यते ।
साधर्म्यसमे तु नारोपणमित्यर्थः ।
तदेवं जात्युत्तरवादिनं प्रति साधनवादिना सर्वत्रैव सम्यक् समाधानं स्वसाधनस्य वक्तव्यम् ।
एवं सति तत्त्वनिर्णये कथापर्यवसानं भवति ॥ ३८ ॥
न्य्स्_५,१।३९: प्रतिषेधे ःपि समानो दोषः ॥
यदि पुनर्वाद्यपि जातिवादिनं प्रति साधनाभासेन प्रतयवतिष्ठते ततः षट्पक्ष्यां सत्यां न तत्त्वनिर्णयावसाना कथा भवेदिति शिष्यहितः सूत्रकारः समाधानाभासवादिनं प्रति षट्पक्षीमवतारयति ।
प्रतिषेधे ऽपि समानो दोषः (सू। ३९) ॥
तदेतत्सूनत्रावतारपरं भाष्यं हेतोश्चेदनैकान्तिकत्वमुपपाद्यते प्रतिवादिने ऽनैकान्तिकत्वादसाधकः स्यादिति ।
यदि चानैकान्तिकत्वादसाधकं वादिनो वचनं प्रतिषेधे ऽपि समानो दोषः ।
यो ऽयं प्रयत्नकार्यानेकत्वादिति प्रतिषेधो जातिवादिननः सो ऽप्यनैकान्तिकः ।
एवं ह्यैकान्तिकः स्याद्यदि सर्वमेव प्रतिषेधेद्
यतस्तु किं चित्प्रतिषेधति किं चिच्च न, तस्मादयमनैकान्तिकः
अतो ऽसाधक इत्यर्थः ।
व्याख्यान्तरमाह ।
अथ वा शब्दस्येति ।
नित्यपक्षो ऽभिव्यक्तिर्नोत्पाद
एवमनित्यपक्षे उत्पादो नाभिव्यक्तिरित्ययं विशेषो न सिध्यत्ययं प्रतिषेधे ऽपि समानो दोष इत्यर्थः ॥ ३९ ॥
न्य्स्_५,१।४०: सर्वत्रैवम् ॥
न केवलमस्यां जातावयं समाधानाभासो वादिनो ऽपि तु सर्वत्रैव जाताविति शिष्यान् शिक्षयति सूत्रकारः ।
सर्वत्रैवम् (सू। ४०) ॥ अस्मिन्समाधाने प्रयुक्ते वादिना पुनर्जातिवादी प्रत्यवतिष्ठते ।
न्य्स्_५,१।४१: प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद्दोषः ॥
प्रतिषेधो जातिवादिनस्तस्य विप्रतिषेधो मूलसाधनवादिनस्तस्मिंस्तुल्यो दोष
इति जातिवादिनः प्रत्यवस्थानमित्यर्थः ॥ ४१ ॥
न्य्स्_५,१।४२: प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गो मतानुज्ञा ॥
अथ पञ्चमं पक्षं साधनवादिनश्चतुर्थपक्षवादिनं प्रति मतानुज्ञापापादनमाह ।
प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गो मतानुज्ञा (सू। ४२) ॥
न्य्स्_५,१।४३: स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षदोषाभ्युपगमात् समानो दोषः ॥
सेयं मतानुज्ञा तृतीये पक्षे पञ्चमपक्षवादिनो ऽपि साधन वादिन
इति जातिवादी षष्ठपक्षस्थित आह ।
स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारहेतुनिर्देशे परपक्षदोषाभ्युपगमात्समानो दोषः (सू। ४३) ॥
स्वपक्षणे लक्ष्यते तदुत्थानत्वाज्जातिः स्वपक्षलक्षणा अनैकान्तिकत्वोद्भावनलक्षणा तामभ्युपेत्य
अनुद्धूत्य प्रतिषेधे ऽपि जातिलक्षणे समानो ऽनैकान्तिकत्वदोष इत्युपपद्यमानं स्वपक्षे ऽपि दोषं परपक्षे जातिवादिपक्षे साधनवाद्युपसंहरति ।
तत्र चानैकान्तिकं हेतुं ब्रूते तदेवं स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारे हेतुनिर्द्देशे परपक्षे यत्स्वयं दूषणं दत्तं तस्याभ्युपगमाद्वादिनो ऽपि समानोव दोष
इति ।
जातिवादिनो वचनं षष्ठे पक्षे स्थितस्य तदेवं विस्तीर्य सङ्कलय्याह ।
तत्र खलु स्थापनाहेतुवादिन इति ।
सेयं षट्पक्षी समानदोषापादनेनानिर्णायकत्वात्पौनरुक्त्याच्च न तत्त्वनिर्णयाय पर्याप्ता, तस्मात्समाधानाभासेन जातिवादिनं प्रति न प्रत्यवस्थेयम्, किं तु सम्यक् साधनेन, तथा च षट्रपक्षी उपहतानावतरति ।
तत्त्वनिर्णयपर्यवसाना च कथा भवति ।
यदि त्वस्य कदा चित्सम्यक्साधनवादिनो ऽपि प्रतिभाक्षयात्समाधानं न स्फुरति ततो ऽत्यन्तपराजयाद्वरं संशयो ऽपीति न्यायेन समाधानाभासेनापि प्रत्यवस्थेयमेवेत्याशयवानाह ।
तेषां साध्वसाधुतायामिति ।
भाष्यव्याख्यया वार्तिकमपि व्याख्यातम् ।
एतास्तु जातयो न तत्त्वविवेकमुपकुर्वन्ति प्रयुज्यमानतया निराकरणीयतया त्वासामप्युपकार इति ॥ ४१ ॥
इति मिश्रश्रीवाचस्पतिविरचितायां न्यायवार्तिकतात्पर्यटीकायां
पञ्चमस्याध्यायस्याद्यमाह्निकम् ॥
मिश्रश्रीवाचस्पतिविरचितायां न्यायवार्तिकतात्पर्यटीकायां
पञ्चमोध्यायः
न्य्स्_५,२।१: प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासन्न्यासो हेत्वन्तरमर्थान्तरं निरर्थकम् अविज्ञातार्थम् अपार्थकम् अप्राप्तकालं न्यूनमधिकं पुनरुक्तम् अननुभाषणम् अज्ञानम् अप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगोपसिद्धान्तो हेत्वाभासाश्च निग्रहस्थानानि ॥
विप्रतिपत्त्यप्रतिपत्त्योर्विकल्पाद्वैचित्र्यान्निग्रहस्थानबहुत्वमिति सङ्क्षेपेणोक्तं तदिदानीं विभजनीयम् ।
तत्र य एवमाहुः सर्वो ऽयं साधनदूषणप्रकारो बुद्ध्यारूढो न वास्तव इति ।
तान् प्रत्याह पराजयवस्तूनीति ।
पराजयो वसत्येष्विति पराजयस्थानानीत्यर्थः ।
काल्पनिकत्वे कल्पनायाः सर्वत्र सुलभत्वात्साधनदूषणव्यवस्था न स्यादिति भावः ।
निग्रहस्थानानि पर्यायान्तरेण स्पष्टयति ।
अपराधेति ।
य आहुरसाधनाङ्गं वचनमदोषोद्भावनं द्वयोर्निग्रहस्थानत्वमन्यत्तु न युक्तमिति तान् प्रत्याह ।
सामान्यतो द्वे निग्रहस्थाने ।
सामान्यविवक्षायां प्रतिज्ञाहान्यादयो द्वार्विशतिरपि न भिद्यन्ते तत्त्वसाधनाङ्गं वचनमदोषोद्भावनमिति भवद्भिः सङ्गृहीतमृषिणा च विप्रतिपत्त्यप्रतिपत्तिभ्यामिति न कश्चिद्विशेषः ।
अत्र विचारयति कर्तृकर्मकरणानामिति ।
तत्रैके वर्णयन्ति पक्षस्येति ।
(५४९।१३) यथा पक्षोद्देशेन साधनं प्रवर्तमानं पक्षस्य एवं तदुद्देशेन दूषणानि प्रवर्तमानानि पक्षस्यैवेति ।
एवं चाहुर्दूषणानीति ।
न्यूनतादयो हि सर्वे पक्षोद्देशेन प्रवर्तमानाः पक्षस्यैवेत्यर्थः ।
दूषयति एतत्तु न सम्यगिति ।
पक्षोद्देशेन प्रवृत्तेः पक्षविषयतां नापजानीमः साक्षात्तु तद्विषयतां निराकुर्मः ।
तस्य वस्तुसतस्तादवस्थ्यात् ।
एवं साधनमपि यत्रासमर्थं तत्र प्रयुज्यमानं न स्वतो दुष्यति यत्र तु समर्थं तत्साधयत्येव तस्मात्कर्तुरेव दोष इत्याह ।
तस्मादसमर्थयोरिति ।
(५५०।१) न केवलं स्वातन्त्र्यात्कर्तुर्निग्रहो ऽपि तु तदाधारत्वाद्विप्रतिपत्त्यप्रतिपत्त्योरित्याह ।
विप्रतिपत्त्यप्रतिपपत्त्योश्चेति ।
ननु वाक्ये न्यूनतादयो दोषा न पुरुषाश्रया इत्यत
आह ।
विप्रतिपत्त्यप्रतिपत्ती चेति ।
न स्वरूपेण वाक्यं दुष्टं तस्य तादवस्थ्यादित्युक्तं किं तु पुरुषस्य विप्रतिपत्त्यप्रतिपत्तिभ्यां तथा प्रतिभाति तेन वाक्यगतन्यूनतादिदर्शनात्पुरुषे विप्रतिप्रत्त्यप्रतिपती प्रतीयेते तेन द्वारेण पुरुषो निगृह्यते न तु वाक्यमेतावता च प्रतिज्ञादोष इत्युच्यते ।
नचायमपि नियमो यद्वाक्यद्वारेण पुरुषी निगृह्यते अज्ञानादिषु तदभावादि त्याह ।
कानि चिन्निग्रहस्थानीति ।
शङ्कते द्वविध्यानुपपत्तिरिति ।
सामान्यं विवक्ष्यते विशेषो वा सामान्यविवक्षायां निग्रहस्थानमित्येवास्तु तस्य सर्वत्राविशेषाकुतो द्वैविध्यं विशेषविवक्षायां प्रतिज्ञाहान्यादीनि बहूनीत्ययुक्तं द्वैविध्याभिधानमुभयथा ऽपीत्यर्थः ।
निराकरोति न सामान्यभेदविस्तरस्य विवक्षातः प्रवृत्तेरिति ।
सामान्यविवक्षायामपि निग्रहस्थानमिति नोक्तम् उद्देशादविशेषप्रसङ्गात् ।
तस्मात् लक्षणं प्रणयता ऽन्यथा तदसम्भवादवान्तरसामान्यद्वैविध्यविवक्षया सामान्यं लक्षितम् ।
भेदानां तु विस्तरविवक्षया प्रतिज्ञाहान्या दयो ऽपि प्रपञ्चिता इत्यर्थः ।
आन्तर्गणिकानां तु भेदानामानन्त्यमित्याह ।
उदाहरणमात्रत्वाच्चेति ।
द्वाविंशतिसङ्ख्यावच्छिन्नो भेद उदाहरणमात्रम् ।
आन्तर्गणिकभेदविवक्षयां त्वानन्त्यमित्यर्थः ।
भाष्यमनुभाष्याक्षिवपति प्रायेण प्रतिज्ञेति ।
समाधत्ते क्रियावचनदोषद्वारेणेति ।
(५५१।१) वचनदोषद्वारेणेत्येतावन्मात्रे वक्तव्ये क्रियादोषामिधानं दृष्टान्तार्थम् ।
नन्वाश्रयार्थो ऽप्ययुक्तः पुरुषाश्रयत्वादित्यत आह ।
न चाधाराधेयभाव
इति ।
अपरमपि भाष्यमनुभाष्याक्षिपति तत्त्ववादिनमतत्त्ववादिनं चेति ।
समाधत्ते ।
न परापदिष्टेति ।
सम्यम्
साधने जात्युत्तरे दत्ते तस्य जातित्वमनुद्भावयंस्तत्त्ववाद्यपि निगृह्यतैत्यर्थः ॥ १ ॥
न्य्स्_५,२।२: प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः ॥
लक्षणं तु ।
प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः (सू। २) ॥
तदेतत्सूत्रं भाष्यमतेन तावद् व्याचष्टे प्रतिदृष्टान्तस्य योधर्मस्तं यदा स्वदृष्टान्ते ऽभ्यनुजानातीति ।
तदेतद्भाष्यव्याख्यानमुपन्यस्य वार्त्तिककारो दूषयति ।
एतत्तु न बुध्यामहे कधमत्र प्रतिज्ञा हीयत इति ।
अनित्यः शब्द ऐन्द्रियकत्वाद्
घटवदिति साधने प्रयुक्ते प्रतिवादिना चानैकान्तिकत्वे सामान्येनोद्भाविते तृतीयस्थानपतितो वाद्याह ।
अस्तु तर्हि सामान्यवद् घटादिर्नित्य
इति ।
तथा सत्यैन्द्रियकत्वमनैकान्तिकं न भवति नित्यमात्रागामित्वाद् घटादीनामपि नित्यताभ्युपगमादित्याशयेन यद्यपपि तथा ऽपि साक्षादनैकान्तिकदोषोद्वारमक्षरारूढमनुक्वा स्वदृष्टान्ते नित्यतां प्रतिपद्यते, नित्यताप्रतिपत्तेश्चासिद्धता दृष्टान्ते दोषो भवति साध्यविकलतेत्यर्थः ।
सो ऽयं दृष्टान्तदोषेण हेतुदोषेण वा विरुद्धत्वेन घटादीनामपि नित्यत्वाभ्युपगमेनैन्द्रिनयकत्वस्य हेतोः साध्यानित्यत्वविरुद्धेन नित्यत्वेन व्याप्तत्वाद् निग्रहो वादिनो न प्रतिज्ञाहानिः ।
न खल्वनेनास्तु शब्दो नित्य इतिप्रतिज्ञा परित्यक्ता किं त्वस्तु घटो ऽपि नित्य इत्युक्तम् ।
यदि दृष्टान्तपरित्यागेन प्रतिज्ञातार्थस्यासिद्धेः प्रतिज्ञाहानिरित्युच्यते ततः सर्व एव दोषः प्रतिज्ञाहानिः सर्वस्मादेव दोषात्प्रतिज्ञाहानेरुपपत्तेः ।
तस्मात्कथं चिद् दृष्टान्तपरित्यागेन प्रतिज्ञाहानिरुपचरितव्नया च चासौ प्रधानं प्रतिज्ञाहानिं विना भवितुमर्हतीत्याह ।
दृष्टान्तं चजहदिति ।
(५५२।३) तदेवं भाष्यकरीयं व्याख्यानं दूषयित्वा स्वमतेन व्याचिख्यासुः पृच्छति ।
कथं तर्हीति ।
दृष्टश्चासावन्ते निगमने व्यवस्थित इति दृष्टान्तः ।
दृष्टान्तप्रतिदृष्टान्तौ पक्षप्रतिपक्षावुच्येते ।
एतदुक्तं भवति ।
प्रतिदृष्टान्तस्य प्रतिपक्षस्य सामान्यस्य यो धर्मो नित्यत्वं तं स्वपक्षे शब्दे ऽभ्यनुजानाति ।
उदाहरणमाह ।
यथानित्यः शब्द ऐन्द्रियकत्वादिति ।
द्वितीयपक्षवादिति सामान्येन प्रतयवस्थितैदमाह तृतीयपक्षे स्थितो वादी यदि सामान्यमैन्द्रिपयकं नित्यं शब्दो ऽप्येवं भवत्विति ।
प्रतिज्ञाहानिः ।
अत्र चानैकान्तिकत्वेन प्रत्यवस्थितैत्युपलक्षणं येन केन चित्ग्नकारेण स्वप्रतिज्ञातार्थानिर्वाहं पश्यन् प्रतिज्ञार्थञ्जहत्प्रतिज्ञाहानिमाप्नोतीति परमार्थः ।
यदप्युच्यते स्वयमेव घटमनित्यमैन्द्रियकमुदाहृत्य घटस्यैन्द्रियकत्वं पश्यन् कथमनुन्मतः सन्
सामान्यस्य नित्यस्यैन्द्रियकत्वदर्शनमात्राच्छब्दे नित्यत्त्वमभ्युपगच्छेत्किन्तूभयत्रदर्शनात्संशयित्तः स्यात् तत्र सर्वं नित्य मिति साङ्ख्यीयराद्धान्तावष्टम्भेनापि स्वपक्षनिर्वाहं पश्यतो ऽनैकान्तिकत्वोद्धाराय प्रेक्षावतो ऽपि प्रवृत्तिसम्भवात् ।
न चात्यन्तिकं प्रेक्षावत्त्वमिह ग्राह्यम् ।
तादृशस्यनिग्रहाधिकरणत्वानुपपत्तेः ।
तस्माद्यथा जडं प्रति विचारो नास्त्येवं प्रामाणिकमपि प्रति निग्रहावतातारो नास्तीति मध्यमो जनो निग्राह्यः ।
तस्य च सम्भवन्त्येवं प्रमादा इति ।
शङ्कते ।
प्रसङ्गविधानादिति चेत् ।
निराकरोति तच्च न अत एव तत्प्राप्तेः ।
हेतुदोषमुद्दिधीर्षुः प्रसञ्जयन्नभ्युपगच्छत्येव न हि साङ्ख्यीयं राद्धान्तमनभ्युपगच्छन्ननैकान्तिकत्वमुद्धर्तुमर्हतीति भावः ।
तदनेन परमतं निराकृतप्रायमपि साक्षान्निराकर्त्तुमुपन्यस्यति ।
हेतुदोषेणानैकान्तिकत्वलक्षणेन चरितार्थत्वान्न प्रतिज्ञाहानि र्निग्रहस्थानमित्यन्ये ।
(५५३।१) यदाह कीर्तिः ।
ऽतस्मादैन्द्रियक त्वस्य नित्यानित्यपक्षवृत्तेर्व्यभिचारादसाधनाङ्गस्योपादानान्निग्रहो न प्रतिपक्षधर्मस्याभ्यनुज्ञानादिति ।
निराकरोति ।
नानैकान्तिकदोषपरिहारेण विप्रतिपत्तेस्तदुपपत्तेः ।
यदा हि साङ्ख्यपक्षावलम्बनेन शब्दनित्यत्वमभ्युप इति तदा प्रतिज्ञाहानिः न विरुद्धो हेतुर्नाप्यनैकान्तिको विपक्षाभावात् केवलं प्रतिज्ञातार्थहानमेवास्य पराजयस्थानम्, विप्रतिपत्तेः स्वसाध्यविरुद्धप्रतिपत्तेरिति सर्वमवदातम् ॥ २ ॥
न्य्स्_५,२।३: प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात्तदर्थनिर्देशः प्रतिज्ञान्तरम् ॥
एतद्व्याचष्टे प्रतिज्ञातो मीमांसकं प्रति वैशेषिकेणानित्यः शब्दः इति तस्य साधनमैन्र्दियकत्वाद्धटवदिति एवमुक्तस्य प्रतिषेधो मीमांसकेन क्रियते प्रतिदृष्टान्तेन हेतुव्यभिचारः तमाह सामान्यमैन्द्रियकं नित्यमिति ।
तस्मिन्प्रतिषेधे मीमांसकेन कृते धर्मवविकल्पात्तथा निर्द्देनश इति यावन्नोचयते तावदर्धोक्त एव धर्मविकल्पादित्यनूद्य व्याचष्टे ।
दृष्टान्तप्रतिदृष्टान्तयोर् धटसामान्ययोः साधर्म्यमैन्द्रियकत्वं तद्योगे तद्धर्मभेदात् सामान्य मैन्द्रियकं सर्वगतमैन्द्रियकस्त्वसर्वगतो घट इति धर्मविकल्पात्तदर्थं प्रति ज्ञातार्थसिद्ध्यर्थं शब्दस्यासर्वगतत्वं मीमांसकानां प्रतिपादयितुं निर्द्देशः तस्य हि शब्दस्यासर्वगतत्वमसिद्धम् ।
प्रश्नपूर्वकं निर्द्देशस्वरूपमाह कथम् ।
यथा घटो ऽसर्वगतो ऽनित्य इति एवं शब्दो ऽप्यसर्वगतो ऽनित्य
इति ।
इदं हि प्रतिज्ञावाक्यम् अनित्यः शब्द इतिवदसर्वगतः शब्द इति मीमांसकं विप्रतिपन्नं प्रति निर्द्देशान्न तु कृतकत्वादितिवदुदाहरणसाधर्म्यादस्य हेतुलक्षणमस्ति साध्यनिर्देशः प्रतिज्ञेति तु प्रतिज्ञालक्षणयोगात्प्रतिज्ञान्तरमेव यद्यप्यस्य मनसिविपरिवर्तते असर्वतत्वं साधयित्वा मया असर्वगतत्वे सतीति ऐन्द्रियकत्वं हेतुर्विशेषणीय इति तथाप्येतदनेन न कृतं किं त्वसर्वगतः शब्दो घटवदित्युक्त्वैव विरतः परार्थानुमाने च वचनगता गुणदोषा विचार्यन्ते न तु वचनानपेक्षं वस्तु, तदिदमाह
असर्वगतः शब्द इति द्वितीया प्रतिज्ञा हेतुरहिता ।
अस्य प्रश्नपूर्वकं निग्रहस्थानत्वमाह तत्कथमिति ।
अनर्थकं निष्प्रयोजनमिष्टार्थसिद्धेरभावादिति ।
वार्त्तिकं तत्रानित्यः शब्द इति प्रतिज्ञाप प्रथमा ।
अस्यां सामान्येनैन्द्रियकेण हेतोरनैकान्तिकत्वात्प्रतिहतो वादी प्रतिवादिना असर्वगतः शब्दो ऽनित्य
इति प्रतिज्ञान्तरं पूर्वप्रतिज्ञासिद्ध्यर्थं करोतीत्यनुषज्यते ।
पृच्छति कथमिति ।
उत्तरम् ।
साधनसामर्थ्याप्रज्ञानात् ।
अनित्यः शब्द
ऐन्द्रियकत्वाद् घटवदित्येताववदुक्त्वा निराकाङ्क्षो वादी न त्वसर्वगतत्वे सतीति साधनं विशेषितवान् न चाविशिष्टं साधनमत्रार्थे ऽसमर्थं विशिष्टं तु समर्थं तस्य सामर्थ्यमपरिज्ञायाविशिष्टे तदारोप्याविशिष्टसाधनं प्रयुक्तवान् ।
तत्र निराकाङ्क्षो वादी सव्यभिचारहेतुप्रयोगादेव पराजीयते न तु प्रतिज्ञान्तरप्रयोगात् ।
यदि तु वादिन्यपर्यवसितवाद एव मध्ये प्रतिवादिना हेतोरनैकान्तिकत्वे उद्भाविते तमेवहेतुमसर्वगतत्वे सतीति विशेष्टुं मीमांसके प्रति शब्दस्यासर्वगतत्वं प्रतिजातीते ।
असर्वगतः शब्द इति प्रतिज्ञाय च न हेतुं ब्रवीति तदानैकान्तिकत्वोद्धाराय प्रतिज्ञान्तरकरणान्नानैकान्तिकत्वेन पराजीयते अपि तु प्रतिज्ञान्तरादेव, न हि प्रतिज्ञा प्रतिज्ञान्तरं साधयितुमर्हतीति ।
सो ऽयं प्रतिज्ञाम्मात्रस्यासाधकत्वाप्रतिपत्त्या ऽसाधकस्यैव वा साधकत्वप्रतिपत्त्या पराजीयते ।
तदेतदाह न च प्रतिज्ञा प्रतिज्ञान्तरं साधयति ।
तेन प्रतिज्ञा यत्रार्थे समार्था तदपरिज्ञानात्पञ्चावयवसाध्ये च सामर्थ्यारोपणादपरिज्ञानादिति श्लिष्टनिर्द्देशः प्रसज्यप्रतिषेधपर्युदासौ विवक्षितौ तेनाज्ञानाद्विपरीतज्ञानाच्च प्रतिज्ञान्तरं निग्रहस्थानमिति ।
यत्पुनरुच्यते परैः अत्यन्तासम्बद्धमेतद् यत्प्रतिज्ञा प्रतिज्ञासाधनायेति यो हि प्राक् प्रतिज्ञामुक्त्वा हेतूदाहरणादिकं वक्तुं जानाति स कथं चिदनुक्रमं साधनस्य जानात्येव जानन् कथमवि कलान्तःकरणः प्रतिज्ञामेव प्रतिज्ञानसाधनायोपाददीतेति ।
तत्र ब्रूमः
नायं प्रतिज्ञया प्रतिज्ञा साधनीयेति बुद्ध्या प्रवृत्तः किं त्वसर्वगतत्वं शब्दस्य मीमांसकं प्रति साधयित्वा तेनैन्द्रियकत्वं विशिष्यानैकान्तिकत्वमुद्धरणीयमिति मनोरथेन प्रवृत्तः प्रतिज्ञां कृतवान् असर्वगतः शब्द इति ।
अथास्य प्रतिवाद्यवष्टम्भात्परिषद्दर्शनाद्वा स्तम्भितत्वे साधनाप्रतिभनया तूष्णीं भवतः प्रेक्षावतो ऽपि प्रतिज्ञान्तरं भवति निग्रहस्थानम् ।
अयं च विकलान्तःकरणस्य निग्रहो भवद्भिरप्युक्त
एव तदभ्युपगम्याप्रतिभया तूष्णीम्भावादिति वदद्भिः सो ऽयमीदृशो ऽसत्प्रलापो भवद्भिः शास्त्रे निबन्धनीयोन त्वस्माभिरिति व्यक्तमियं राजकुलस्थितिरिति सर्वं चतुरसम् ॥ ३ ॥
न्य्स्_५,२।४: प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः ॥
अत्र प्रतिज्ञाहेत्वोरिति प्रतियोगिद्वयमात्रोपलक्षणपरम् ।
तेन दृष्टान्तादयो ऽपि प्रतियोगिन उन्नेयाः ।
एतदुक्तं भवति येषां वाक्यगतानां पदार्थानां मिथो व्याघातः प्रतीयते प्रमाणान्तरं च विरोधकं स विरोधो नाम निग्रहस्थानम्१ लक्ष्यस्थितस्पय प्रतिज्ञाग्रहणस्याप्युपलक्षणार्थत्वात् ।
नचैवं भाण्डालेख्यन्यायः एकदेशेनाव्यापकेन समुदायसङ्ग्रहे स हि भवति, न तु व्यापकेन सङ्ग्रहे व्यापकं चानवयवेन इदम्प्रतियोगिमिथुनयोर्विरोधः
अतो यथाश्रुति तावित्सूत्रं व्याचष्टे वार्तिककारः
यत्र प्रतिज्ञा हेतुना विरुध्यत इति ।
द्वयोर्विरोधे यस्य प्रमाणान्तरानुग्रहस्तेन तद्बाध्यत इति तेन तद्विरुध्यतैत्युच्यते ।
यत्र प्रतिज्ञया हेतुर्विरुध्यते तदुदाहरति ।
यथा गुणव्यतिरिक्तं द्रव्यं भेदेनाग्रहणादिति ।
अत्र हि भेदेनाग्रहणादित्यनेन ग्रहणप्रतिषेधेन ग्राह्याभाव उपलक्ष्यते ।
तेनैवं हेत्वर्थो भवति गुणव्यतिरिक्तं द्रव्यमव्यतिरेकादिति ।
सो ऽयं प्रतिज्ञाहेतुपदयोर्व्याप्तिस्मरणानपेक्ष
एव परस्परव्याघातो ऽस्तितास्तिपदयोरेव ।
न चैवंविधः शब्दे नित्यत्वकृतकत्वयोर्येन कृतकत्ववद्विरुद्धो ऽयं हेत्वाभासः स्यात् ।
तत्र हि कृतकत्वस्य नित्यत्वेन व्याप्तिस्मरणापेक्ष
एव विरोधः प्रतीयते न त्वयं तथा अस्तिनास्तिवत्स्वभावविरोधात् ।
यद्यप्ययमसिद्धो ऽपि हेतुस्तथा ऽप्यस्यासिद्धिर्बाधकं प्रमाणान्तरमनुसृत्य प्रतिपत्तव्या प्रतिज्ञाविरोधस्तूच्चारणमात्रादेव प्रथमत एव गम्यत इति ।
तेनैव दूषितेनासिद्धिः पश्चात्तनी न दूषणत्वाय कल्पते भस्मीकृते दहनवत् ।
प्रतिज्ञाहेतुविरोधमात्रेण च निग्रहसिद्धेः सुहृद्भावमात्रेण प्रतिज्ञाया बलवत्तास्मरणम् ।
प्रतिज्ञायाश्चात्र बलवत्त्वं प्रमाणान्तरानुग्रहात् ।
तथा हि दर्शनस्पर्शनाभ्यामेकार्थप्रतिसन्धानाद्रूपादिव्यतिरिक्तं द्रव्यं सिध्यतीति तदनुगृहीता प्रतिज्ञैव हेत्वर्थं बाधत इति ।
एतेनैवेति ।
लक्षणेन ।
श्रमणा गर्भिण्णीति श्रमणा ब्रह्मचारिणी नान्तर्वत्नी भवितुमर्हति जितेन्द्रयस्योपस्थसंयमो हि ब्रह्मचर्यम्, न–चासाधनाङ्गस्य प्रतिज्ञाया वचनादेव निगृहीत इति कृतं विरोधोद्भावनेन निष्पादितक्रिये कर्मणि अविशेषाभिधायिनो दूषणस्य दूषणन्यायातिपातादिति साम्प्रतम् ।
प्रतिज्ञायाः साधनाङ्गत्वस्य प्रथम एवाध्याये दर्शितत्वात् ।
हेतुविरोधो ऽपि यत्र हेतुना प्रमाणान्तरेणानुगृहीतेन प्रतिज्ञा बाध्यते ।
यथा सर्वं पृथगिति प्रतिज्ञा न किं चिदेकमित्यर्थः ।
हेतुः समूहे भावशब्दप्रयोगादिति१ एकसमुच्चये घटादिप्रयोगादित्यर्थः ।
नास्त्येकमेकसमुच्चयश्चेति वचनं मिथो विरुध्यते विनैव व्याप्त्यनुस्मरणमिति ।
न च सर्वनास्तित्ववादिनो नैकसमुच्चयोव
ऽस्तीति वक्तव्यम् असति हेतौ साध्यसिद्धेरयोगात् ।
न च कल्पितस्य हेतोः साधनाङ्गतेति तत्र तत्र निवेदितम् ।
अत्र चैकसमुच्चयस्य प्रमाणानुग्रहान्नैकं किं चिदिति प्रतिज्ञा हेतुना बाध्यते ।
एतेन लक्षणेन प्रतिज्ञाया दृष्टान्तविरोधो ऽपि वक्तव्यः ।
यथा नित्यः शब्दः प्रमेयत्वाद् यत्प्रमेयं तन्नित्यं यथाकाशमिति साधर्म्यदृष्टान्तः ।
यद्यप्यत्र वस्तुतो हेतुरनैकान्तिकस्तथा ऽपि दृष्टान्तस्य प्रतिज्ञाविरोधेनैव निगृह्यते विरोधस्य वाक्ये प्रथममवगतेः ।
अनित्यं घटाद्युन्नीयानैकान्तिकत्वप्रतिपत्तेस्तज्जधन्यत्वादिति ।
हेतोश्च दृष्टान्तादिभिर्विरोध एतेन वक्तव्य
इत्यनुषज्यते यथा नित्यः शब्द ऐन्द्रियकत्वादनैन्द्रियद्व्यणुकवदिति ।
अत्राप्यैन्द्रियकत्वानैन्द्रियकत्वयाः शब्दतो विरोधः प्रतीयते साधनवैकल्यं तु वस्तुस्वभावालोचनयेति विशेषः ।
एवमुपनयेन विरोधो ऽनैन्द्रियकश्च शब्द इति ।
अत्रापि वस्तुस्वभावालोचनया ऽनैन्द्रियकत्वासिद्धिः प्रतीयते शब्दतस्तु विरोध इति ।
प्रमाणविरोधश्च प्रतिज्ञाहेत्वोर्वक्तव्यः ।
(५५४।१) यद्यपि बाधितविषयं हेत्वाभासान्तर्गतं तथापीहाप्यस्तीति विरोधहेत्वाभासयोरत्र निग्रहस्थानयोः समावेशो ऽस्तु न क्व चिद्विषये समावेशादानर्थक्यम् ।
विषयान्तरे समावेशाभावादर्थवत्त्वात् ।
दर्शितं चानन्तरमेव भिन्नविषयत्वमिति ।
तदेवं साधनवादिनो विरोधं निग्रहस्थानमभिधायोत्तरवादिनो ऽपि निग्रहस्थानमनेनैव सङ्गृहीतमित्याह परपक्षसिद्धेन गोतवादिनेति ।
यदा हि बौद्धेन प्राभाकरं प्रति साध्यते अनित्यः शब्दः श्रावणत्वादिति ।
यद्यनित्यत्वं न भवेच्छ्रावणत्वं न स्यादिति प्राभाकरो ऽनैकान्तिकत्वमुद्भावयति श्रावणं शब्दत्वं नित्यं चेति तदास्यानैकान्तिकत्वोद्भावनं स्वकीयशब्दत्वनिराकरणविरुद्धमिति ।
परपक्षसिद्धं गोत्वाद्यपीदृश एव विषये विरुद्धे द्रष्टव्यम् ।
सिद्धान्तविरुद्धं च साधनं विरुद्धमित्याह ।
स्वपक्षानपेक्षं च ।
ननु यद्यनैकान्तिकोद्भावनमपि विरुद्धं कस्तर्ह्यनैकान्तिकत्वापादनस्य विषय इत्यत् आह ।
उभयपक्षसम्प्रतिपन्नस्त्विति ।
देशयति ।
दृष्टान्ताभासा इति ।
अवयवान्तरं हि प्रतिज्ञाहेत्पवादिभ्य उदाहरणे तेन हेत्वाभासोक्त्या तस्य सङ्ग्रहः।पारम्पर्येण तूदाहरणाभासस्य हेतुदूषकत्वेन सर्वमेव हेतुदूषकमिति भावः ।
परिहरति हेत्वाभासपूर्वकत्वादिति ।
हेत्वाभासा इत्यत्र हेतुशब्दः स्वार्थमपरित्यज्य दृष्टान्तमुपलक्षयति ।
उपलक्षणे हेतुरुक्तः
हेत्वाभासपूर्वकत्वाद्धेत्वाभासप्रधानकत्वाद्
दृष्टान्ताभासेनापि हेतुरेव दूष्यते यतः ।
न चैतावता प्रतिज्ञादिदोषोपलक्षणप्रसङ्गः ।
न हि यत्र यत्र निमित्तमस्ति तत्सर्वमुपलक्षणीयम्,
किं तु यदुपलक्ष्यते तत्रावश्यं निमित्तं वक्तव्यम् ।
न च सूत्रकारस्य सर्वत्र लाघवादरो दृढ
इत्युक्तम् ।
तस्मात्सर्वं रमणीयम् ॥ ४ ॥
न्य्स्_५,२।५: पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासन्न्यासः ॥
ऐन्द्रियकत्वस्य हेतोरनैकान्तिङ्कत्वोद्भावनेन शब्दानित्यत्वपक्षे प्रतिक्षिप्ते वादी प्रतिवादिनं ब्रूयादनैकान्तिकत्वमुद्दिधीर्षुः कः पुनराहानित्यः शब्द इति ।
यद्यहमनित्यः शब्द इति प्रतिज्ञातमपह्वोतुं शक्नोति तदा न सामान्येन नित्येन मे हेतुरनैकान्तिको भवतीति बुद्ध्या ऽह्नुपते सो ऽयमेवंवादी न शक्यो ऽनैकान्तिकत्वेन जेतुम् ।
अपह्ववस्यापह्नवत्वावेदने ऽनैकान्तिकत्वोद्धारात्तस्मादनैकान्तिकस्यानैकान्तिकत्वस्थापनायापह्नवस्यापह्नवत्वमुद्भावनीयम् ।
तत्र किमपज्नवत्वमुद्भाव्यानैकान्तिकत्वं व्यवस्थाप्य निगृह्यतामुतापह्नवादेवेति संशये ऽपह्नवत्वोद्भावनेनैव पूर्वापरपराहते निर्गृह्यते नानैकान्तिकत्वेन तत्पूर्वकत्वादनैकान्तिकत्वस्थापनस्य ।
तस्माद्यदुक्तं कीर्तिना किमिदानीं हेत्वाभासादुत्तरप्रतिज्ञासन्न्यासापेक्षया तस्य प्रतिवादिनो हेत्वाभास एवाद्यं निग्रहस्थानमिति तदप्यपास्त् ।
प्रतिज्ञासन्न्यासस्यैव पूर्वभावित्वात् ।
यदपि तेनोक्तं पक्षप्रतिषेधे तूष्णीम्भवतस्तूष्णीम्भावो नाम निग्रहस्थानं प्रलपतश्च प्रलपितं नामेत्याद्यपि वाच्यं स्यादिति ।
तदप्यसाम्प्रतम् ।
न हि तूष्णीम्भावेन प्रलपितादिभिर्वा शक्यमनैकान्तिकत्वमुद्धर्तुं यथा प्रतिज्ञार्थापह्नवेन, न चैते हेत्वाभसोद्भावनस्य पुरस्तात्तनाः तस्मादेतदप्यनिरूपिताभिधानाद्यत्किञ्चिदिति ॥ ५ ॥
न्य्स्_५,२।६: अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम् ॥
व्याख्यातुं निदर्शनमाह निदर्शनमेकप्रकृतीदं व्यक्तं भूतभौतिकेन्द्रियमेकप्रकृतीनां विकाराणां परिमाणात् ।
तद्यथा एकमृत्पूर्वा घटशरावोदञ्जनादयः परिमिता दृष्टाः यावान् प्रकृतेर्व्यूहः संस्थानं तावान्विकार इति ।
न चैतदुदाहरणं साधनविकलमित्याह दृष्टं चेति ।
उपनयमाह अस्ति चेदमिति ।
निगमनमाह तदेकप्रकृतीनामिति ।
अस्य परिमितत्वस्य हेतोर्व्यभिचारेण प्रत्यवस्थानं प्रतिवादिनः ।
नानाप्रकृतीनां घटरुचकादीनामेकप्रकृतीनां च घटशरावादीनां दृष्टं परिमाणमिति ।
एवं प्रत्यस्थिते प्रतिवादिनि वादी पश्चात्परिमितत्वं हेतुं विशिनष्टि एकप्रकृतिसमन्वये सति शरावादिविकाराणां परिमाणदर्शनादिति ।
प्रकृतिः स्वभावः, एकस्वभावसमन्वये सतीत्यर्थः ।
एकप्रकृतिसमन्यवं स्फुटयति ।
सुखदुःखमोहसमन्वितं हीदं सर्वं व्यक्तं परिमितं गृह्यते ।
तथा हि ।
मेत्रदारेषु नर्मदायां मैत्रस्य सुखबुद्धिर्भवति तत्सपत्नीनां च दुःखबुद्धिः चैत्रस्य तामविन्दतो रणरणकवतो मोहो विभादः ।
नर्मदया भावान्तराणि व्याख्यातानि ।
तदेवं यत्रैकस्वभावसमन्वये सति परिमाणं तत्रैकप्रकृतित्वमेव तद्यथैकमृत्पिण्डस्वभावेषु घटशरावोदञ्चनादिषु ।
घटरुचकादयस्तु नैकस्वभावाः मार्दसौवर्णादीनां स्वभावानां भेदात् ।
निदर्श्यात्र सूत्रं योजयति तदिदमविशेषोक्ते हेतौ प्रतिषिद्ध इति ।
अस्य निग्रहस्थानत्वमाह ।
सति च हेत्वन्तरभाव इति ।
अपि च यदि हेत्वन्तरवचने विश्वमेकप्रकृति साध्यते तदा निदर्शनं नास्ति सर्वस्य पक्षे निक्षेपात् ।
अथ निदर्शनसिद्ध्यर्थं किं चित्पक्षाद्व्यतिरिच्यतेततस्तेनैवानैकान्तिकत्वम् ।
अन्वितानां परिमितानां भिन्नप्रकृतिकत्वादित्याह ।
हेत्वन्तरवचने सति यदि हेत्वर्थनिदर्शन
इति ।
हेतुः साधनम् अर्थः साध्यः तौ हेत्वर्थौ निदर्शयति व्याप्यव्यापकभावेनेति ।
निदर्शनः
निदर्शनः हेत्वर्थयोर्निदर्शनो हेत्वर्थनिदर्शनो दृष्टान्तः स यद्युपादीयते ततो नेदं व्यक्तमेकप्रकृति भवति दृष्टान्तस्य प्रकृत्यन्तरोपादानात् ।
वार्त्तिकं साधनान्तरोपादाने पूर्वस्येति ।
दत्तोत्तरावसर एव वादिनि यदि प्रतिवादी हेत्वर्थं व्यभिचारयति वादीच तृतीयपदके स्थितो हेतुं विशेषयति तदा साधनान्तरोपादानान्निगृह्यतामुतानैकान्तिकसाधनोपादानात् ।
न तावदनैकान्तिकसाधनादस्य निग्रहो हेतुविशेषणेननपव समाहितत्वादिति ।
तस्माद्धेत्वन्तरवचनादेव निगृह्यते पूर्वस्य वस्तुतो ऽसमर्थस्यासामर्थ्यख्यापनात् ।
सामर्थ्ये वा हेत्वन्तरानर्थक्यमिति सूक्तम्
॥ ६ ॥
न्य्स्_५,२।७: प्रकृतादर्थादप्रतिसम्बद्धार्थम् अर्थान्तरम् ॥
व्याचष्टे यथोक्तलक्षणे पक्षप्रतिपक्षपरिग्रहे सति वादे जल्पे वितण्डायामित्यर्थः ।
हेतुतः साध्यसिद्धौ प्रकृतायां वादी साधनं ब्रूयाद् नित्यः शब्दो ऽस्पर्शत्वादिति ।
अत्रान्तरे सूखादिभिर्व्यभिचारेण हेतोरसामर्थ्यं पश्यन तत्प्रच्छादनार्थं प्रसक्तानुप्रसक्त्या तं तमर्थमुपन्यस्यन्नर्थान्तरेण निगृह्यते ।
अभिधेयस्य क्रियान्तरयोगात् क्रियाविशेषस्य योगाद्विशिष्यमाणरूपो भिद्यमानरूपः शब्दो नामेति यथा वृक्षस्तिष्ठति वृक्षं छिनत्ति वृक्षेण चन्द्रमसं पश्यति वृक्षायोदकमासिञ्चतीत्यादि ।
तदेवमभिधेयस्य क्रियाविशेषयोगाद्विशिष्यमाणरूपः शब्दो नामेति ।
आख्यातस्वरूपमाह ।
क्रियाकारकसमुदाय
इति ।
विषयेण विषयिणमुपलक्षयति ।
पचति पच्यतैत्येवमादयः शब्दाः क्रियां कर्तारं कर्म चाभिवदन्ति तदेतल्लक्षणमसिद्धमतिव्यापकं च, न हि कर्ता कर्म वा आख्यातेनाभिधीयते ।
क्रियाक्षेपेणैव तयोः प्रतिलम्भात् ।
अनन्यलभ्यस्य च शब्दार्थत्वात् ।
कर्तृकर्मणोश्च कारकान्तरेम्यो भावनायामभ्यर्हिततमत्वेन तत्सङ्ख्याभिधाननियमादसिद्धं कारकाभिधानम् ।
अतिव्यापकं च पाचकः पाक्य
इत्यादेर्नाम्नो ऽपि क्रियाकारकसमुदायाभिधायित्वात् ।
तदस्मिन् लक्षणे ऽपरितुष्यन् लक्षणान्तरद्वयेनाख्यातपदान्युपसङ्गृह्णाति ।
कारकसङ्ख्याविशिष्टक्रियाकालयोगाभिधाय्याख्यातम् ।
पचति पच्यतैत्यादौ कर्तुः कर्मणो वा सङ्ख्यया कालेन वर्तमानादिना विशिष्टा क्रिया प्रतीयते ।
कालश्च क्व चिदस्तीत्येताववोक्तो,
न तु विवक्षितो लक्षणे पचत यजेतेत्येवमादौ तद्योगाप्रतीतेः ।
अनेन लक्षणेन स्थीयते सुप्यतैत्यादीनामाख्यातानामसङ्घहः कारकतत्सङ्ख्ययोरप्रतीतेः तत्सङ्ग्रहाय द्वितीयं लक्षणमाह ।
धात्वर्थमात्रं च कालाभिधानविशिष्टमभिधीयतैत्यभिधानम् ।
प्रयोगेष्विति ।
नाम्नो वाख्यातस्य वा तदर्थादभिद्यमानरूपा निपाताः ।
यथा समुच्चयविकल्पादिनामपदैः समुच्चयादयः समुच्चेतव्यान्नामार्थादाख्यातार्थाद्वा भेदेनोच्यन्ते तत्र षष्ठीप्रयोगात् ।
तेषां समुच्चयो विकल्पो वेति नैवं चादयः स्वार्थान्नामार्थादाख्यातार्थाद्वा भेदेनाभिदधति ।
रूप्यन्ते प्रतिपाद्यन्ते रूपाणि अर्थान्नामार्थादाख्यातार्थाद्वा भिद्यमानं रूपं प्रतिपाद्यमानं येषां निपातानां ते तथोक्तः ।
उपसूज्यमानाः समीपे प्राक् प्रयुज्यमानाः क्रियावद्योतका उपसर्गाः अवद्योतनं चोपलक्षणम् ।
अधिकार्था विपरीतार्थाश्चोपसर्गा गृह्यन्ते ।
यथा ऽभ्यागच्छति प्रतिष्ठतैत्यादिषु तदस्य निग्रहस्थानत्वं वार्तिककार उपपादयति ।
अभ्युपगतेति ।
यथा च साधनवादिनोर् ऽथान्तरं निग्रहस्थानमेवमुत्तरवादिनो ऽपि द्रष्टव्यम् ॥ ७ ॥
न्य्स्_५,२।८: वर्णक्रमनिर्देशवद् निरर्थकम् ॥
वर्णक्रमनिर्द्देशवदिति वतिः ।
अत्र यदा द्राविडः स्वभाषया तद्भाषानभिज्ञमार्यं प्रति शब्दनित्यत्वं प्रतिपादयति तदा तन्निरर्थकं निग्रहस्थानं स खल्वार्यभाषां जानन्नसामर्थ्यप्रच्छादनाय तद्भाषानभिज्ञतया वा स्वभाषया साधनं प्रयुक्तवान् सो ऽयं पूर्वस्मिन्कल्पे विप्रतिपत्त्या निगृह्यते उत्तरस्मिंस्त्वप्रतिपत्त्या ।
वस्तुतः साधनसामर्थ्ये ऽपि मूकवदार्यप्रतिपादकशब्दाप्रतीतेस्तत्प्रतिपादनारम्भवैयर्थ्यात् ।
अत्रैव दृष्टान्तमात्रतया वतिना अत्र वर्णक्रमो दर्शितो न पुनरेतदुदाहरणं निग्रहस्थानस्य येन कपोलवादित्रादावपि प्रसङ्गः ।
यथा हि द्राविडस्यार्थभेदविवक्षोत्थापितं वचनं नैवं वर्णक्रमनिर्द्देशः कपोलवादित्रं वा अप्रतिपादकत्वसामान्याद्वर्णक्रमनिर्द्देशवदिति दृष्टान्तः ।
अत एवाह भाष्यकारः ।
एवम्प्रकारमिति ।
न पुनरिदमेवेत्यर्थः ।
वार्तिकमुदाहरणं भाष्य इति ।
(५५५।३) एवम्प्रकारोदाहरणमित्यर्थः ।
साधनानुपादानादिति ।
परप्रतिपादकं पञ्चावयवं वाक्यं साधनं तत्तेन नोपात्तं तस्य स्वसमयेन प्रतिपादकत्वे ऽप्यार्यान् प्रत्यप्रतिपादकत्वादित्यर्थः
॥ ८ ॥
न्य्स्_५,२।९: परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातम् अविज्ञातार्थम् ॥
यद्वाक्यं परिषदा प्रतिवादिना च न विज्ञायते समानसङ्केतेन वादिना त्रिरभिहितं यावद्भिर्वारैः परिषत्प्रतिवादिनोरर्थप्रत्ययो भवति स च प्रायेण त्रिभिरिति त्रिरभिहितमित्युक्तम् ।
ननु समानसङ्केतेन वादिना त्रिरभिहितमविज्ञातार्थं चेति न सम्भवति ।
सम्भवे वा परिषत्प्रतिवादिनै जडौ न च जडानवबोधे प्रतिपादकस्य कश्चिदपराधः ।
न हि बधिरो गीतं न शृणोतीति गायनस्य कश्चिदपराध इत्यत आह ।
श्लिष्टशब्दमसति प्रकरणादौ नियामके यथा श्वेतो धावतीति ।
अप्रतीतप्रयोगं जर्भरीतुर्फरीतू इति ।
अतिद्रुतोच्चारितमित्येवमादिना कारणेन तदविज्ञातार्थम्।अस्य निग्रहस्थानत्वमाह ।
असामर्थ्येति ।
वार्तिकं भाष्यव्याख्यया गतार्थम्
॥ ९ ॥
न्य्स्_५,२।१०: पौर्वापर्यायोगादप्रतिसम्बद्धार्थम् अपार्थकम् ॥
यत्रानेकस्य पदस्याश्लिष्टस्य प्रतीतयोगस्याद्रुतोच्चारितस्य वाक्यस्य चानेकस्य पौर्वापर्येणायोगः सम्बन्धो नास्तीति तस्मादसम्बद्धार्थता गृह्यते तदपार्थकं निग्रहस्थानं निष्प्रयोजनम्, कस्मात्? ।
समुदायार्थस्य वाक्यार्थस्य वा ऽपायाद्वाक्यमहावाक्यार्थप्रत्यायनप्रयोजनो हि पदानां वाक्यानां वा प्रयोगो ऽसति तस्मिन्नपार्थकमित्यर्थः ।
वाक्यस्य पौर्वापर्यासम्बन्धौदाहरणमाह ।
यथा दश दाडिमानि षडपूषा इति ।
पदानां पौर्वापर्यासम्बन्धे उदाहरणमाह ।
कुण्डमजाजिनम्
इति ।
रौरुकं ररुसम्बन्धि ।
पार्य्य पाययितव्यम् ।
अप्रतिशीनो वृद्धः ।
वार्तिककारः शङ्कते ।
निरर्थकापार्थकयोरिति ।
परप्रत्यायनप्रयोजनं हि वचनोच्चारणं तत्र निरर्थकेनेवापार्थकेनापि न परः प्रतिपाद्यत इति उभयोरभेदः ।
न च वर्णक्रममात्रमेकत्रान्यत्र च पदानीत्येतावता भेदेनोपादनं युक्तम् ।
एकत्र वाक्योपादानमन्यत्र पदोपादानमित्यपार्थकयोरप्यवान्तरभेदेन भेदोपादानप्रसङ्गादिति शङ्कार्थः ।
निराकरोति ।
भिद्यत इति ।
पृच्छति ।
कथम् ।
उत्तरम् ।
तत्रानर्थके वर्णमात्रम् अभिधेयशून्यम् इह त्वपार्थके पदानि पद्यते गम्यते ऽभिधेयमेभिरिति पदानि वाक्यानि चाभिधेयवन्ति असम्बद्धानि निरभिधेयनिष्प्रयोजनयोर्निरर्थकापार्थकयोर्महान्विशेषः ।
न त्वीदृशो वाक्यपदयोर्निष्प्रयोजनयोर्विशेषो येनावान्तरभेदमाद्रियामहे ।
परप्रत्यायनप्रयोजनाभावामात्रविवक्षया त्वविशेषे सर्वनिग्रहस्थानाविशेषः सर्वत्र परप्रत्यायनाभावात् ।
भावे वा निग्रहस्थानानुपपत्तेः
॥ १० ॥
न्य्स्_५,२।११ ॥ अवयवविपर्यासवचनमप्राप्तकालम् (सू। ११) ॥
व्याचष्टे प्रतिज्ञादीनामवयवानां यथालक्षणमर्थवशात् क्रमः लक्षणानतिक्रमेण क्रमः उक्तमेतदस्माभिः प्रथमाध्याये ।
यदपेक्षिताभिधायिनो वचनात्परे प्रतिपद्यन्ते नान्यस्य ।
तत्र प्रथमं साध्यनिर्द्देशो ऽपेक्षितः परैर्न तु साधननिर्द्देशः
तत्र यद्ययं प्रथमं साधनमेव प्रयुञ्जीत कथमपोक्षितं ब्रूयाद्, अनपेक्षिताभिधायी च कथं प्रतिपादको नाम ।
तदेवं सर्वाण्येव हेतुवचनादीनि अपि क्रमवन्ति नाक्रमाणि प्रतिपादयितुमर्हन्तीति विपरीतक्रमेभ्यो ऽप्यार्थक्रमानुसरणादेवार्थप्रतिपत्तेः ।
सो ऽयं प्रतिज्ञादीनामर्थ एतादृशो य एषां क्रममन्तरेण न शक्यो ज्ञातुमिति ।
अवयवविपर्यासे तवाकाङ्क्षाभावात् तत्पूर्वकत्वाच्च पदार्थसम्बन्धस्यासम्बन्धं निग्रहस्थानमित्यर्थः ।
वार्तिकं नैवमपिव सिद्धेरित्येके ।
यथाहुरत्रापि न कश्चित् क्रमनियम इष्टार्थपसिद्धेरुभयत्राविशेषात् ।
यद्युच्येत अर्थशब्दवदयमस्माकं समयो यदनेन क्रमविशेषेणार्थः प्रत्येतव्यो नान्येनेति अतस्तथेव प्रतीयते न क्रमान्तरेणेत्यत आह ।
समयानभ्युपगमाच्च ।
पदेष्वेव समयपूर्वकः प्रत्ययो न वाक्येषु अभिनवकविरचिततत्समयानपेक्षादेव वाक्यादर्थप्रतीतेः ।
स्यादेतद् वाक्येष्वपि क्रमनियमो दृष्टः यथा पाचयां बभूवेति न पुनर्वभूवपाचयामिति अत आह प्रयोगाच्चेति ।
तत्र लौकिकः प्रयोगो नियत इह त्ववयवव्यत्ययस्यापि दृष्टः प्रयोग इत्यर्थः ।
तदेतद्दूषयति ।
यत्तावन्नैवमपि सिद्धेरिति ।
तत्रोत्तरं प्रयोगो पेतशब्दवदेतत् ।
एतदेव विवृणोति ।
यथा गौरित्यस्यैव पदस्यार्थें गावीति प्रयुज्यमानं पदं ककुदादिमन्तमर्थं प्रत्याययति ।
(५५६।१) यद्यपि शब्दानामर्थप्रत्यायनं न स्वाभाविकं तथा ऽपि परमेश्वरसङ्केतपूर्वकमद्य यावदनुवर्त्तते ऽत एव साधवोर् ऽथभेदे शब्दभेदा येषां पारमेश्वरसङ्केतः तदसङ्केतात्तु प्रवर्त्तमाना अप्यर्थे ऽसाधवः शब्दा अपभ्रंशा भवन्ति ।
तदपेक्षाश्च साधुभिर्भाषितव्यमित्यादयो विधयो धर्मेषु निन्दार्थवादाश्च मन्त्रो हीनः स्वरतो वर्णत इत्यादयः वेदानां च प्रामाण्यं प्रतिपादितं द्वितीये ऽध्याये ।
न चायमर्थो ये ये साधवस्ते सर्वे धर्महेतव
इति, किं तु धर्मानुष्ठानं तदनुरूपभाषणे प्राप्ते साधुभिरेवति नियम्यते ।
तदेवं व्यवस्थिते अविशेषेण गोगाव्यादिशब्दा आर्येण प्रयुज्यमाना दृश्यन्ते तत्रैते किमविशेषेणैवसाधव
उत कश्चिदेकः साधुः तत्पूर्विकेतरेभ्यः प्रतीतिः
तत्रैकशब्दस्य साधुत्वकल्पनायामितरस्मात् तन्मूलतया ऽर्थप्रतिपत्त्युपपत्तौ न सर्वत्र साधुत्वकल्पनायुक्ता ।
यथाह स्मात्रभवान्
जैमिनिरन्यायश्चानेकशब्दत्वमिति ।
तत्रापि कतमस्यासाधुत्वमेकस्यैतोष्विति जिज्ञासायां तत्र तत्त्वमभियोगविशेषात्स्यादिति यो ऽभियुक्ततमैरिन्द्रपाणिनिप्रभृतिभिः साधुत्वेनाविगानतः स्मर्यते स साधुरितरो ऽसाधुरिति निश्चीयते ।
तेन यद्यपि लौकिका गाव्यादिशब्देभ्य एव गवाद्यर्थमधिगच्छन्तीति दृष्टार्थमात्रव्यवहारिणः प्रतिपत्तिस्तथा ऽपि परीक्षकाणां विचारयतामेवं विचारक्रमो यद्वृद्धतमेन गोशब्दे प्रयोक्तव्ये प्रमादाद्गावीशब्दः प्रयुक्तः ततश्च वृद्धतरेण गोशब्दमुन्नीय गोत्वं प्रतीतम् ।
यथाहुः ।
ऽअम्बाम्बेति यदा बालः शिक्षमाणः प्रभाषते ।
अव्यक्ते तद्विदां तेन व्यक्ते भवति निर्णयः ॥
एवं साधौ प्रयोक्तव्ये यो ऽपभ्रंशः प्रयुज्यते ।
तेन साधुव्यवहितः कश्चिदर्थो ऽभिधीयते।ऽ
पार्श्वस्थाश्चातो ऽनेन मूलशब्दमुन्नीयार्थः प्रतीत इत्यगृहीत्वैव गावीशब्दादेवायममुमर्थं प्रतीतवानिति तमेव गोत्वस्य वाचकमवगम्यान्येषां वृद्धो बभूव ।
ततः प्रभृत्यननुसृतमूलशब्दानामयं वाचकत्वभ्रमो ऽपभ्रंशे वर्तते न वृद्धतरस्योभयवेदिनो मूलशब्दानुसारिणसी पदर्थप्रतिपत्तिरिदानीन्तनानां त्वपभ्रंशादेव अत एवानवाख्यानमपि प्रयोजनवत् ।
असत्यस्मिन् वाचकापभ्रंशविभागे ज्ञानानभावात्साधुभिर्भाषितव्यमिति नियमविधेर्न म्लेच्छितवै नापभाषितवै इति निषेधस्य च विषयसंशयेन दुरधिगमत्वेन धर्मानुष्ठानस्याशक्यत्वप्रसङ्गात् ।
यत्रार्थे यस्य शब्दस्य भगवतेश्वरेण सङ्केतः कृतः स तत्र साधुरसाधुरन्यत्र यथा य एवास्वशब्दो दरिद्रे साधुः स एवासाधुर्वाजिनि प्रयुज्यमानः
यथा नकुलदंष्टाग्रस्पृष्टा या का चिदोषधिरसौ सर्पविषं हन्ति एवमीश्वरेण कृतसङ्केतः शब्दः साधुर्धर्मौपयुज्यते नान्य इति ।
यववराहादिशब्दानामार्यम्लेच्छयोरर्थविवादे वैदिकाद्वाक्यशेषादार्यसम्मतोर् ऽथो ग्रहीतव्यो न म्लेच्छसम्मतः तत्र वैदिकवाक्यशेषविरोधात् ।
येषां तु शब्दानामार्येषु न दृष्टचरः प्रयोगः केवलैर्म्लेच्छैरेवार्थभेदे प्रयुज्यन्ते यथा पिकनेमतामरसादयः वेदे तु प्रयुक्तास्तेषां म्लेच्छव्यवहारादेवार्थो ऽवधारणीयः
तत्र तेषामभियोपगादिति आर्यव्यवहारापरिपन्थित्वाच्चेति ।
तदेवं व्यवस्थिते न्यायमीमांसापरिशीलनविकलानां बाह्यतराः प्रलापा उपेक्षणीयाः तस्मात्सुष्ठूक्तं प्रयोगापेतशब्दवदिति ।
न च शब्दान्वाख्यानं व्यर्थमिति चेति ।
प्रतिज्ञादीनां क्रमनियमकारणं प्रश्नपूर्वकं दर्शयति ।
तदेतत्कथं पूर्वं तावदिति ।
द्वितीयं देश्यमनुभाष्य परिहरति ।
यत्पुनरेतत्समयानभ्युपगमादिति ।
सो ऽयमर्थस्यानुर्वीं प्रतितिबलप्रवृत्तामन्वाचक्षाणो नाभ्याख्येय इति— नोपालभ्यः ।
शास्त्रे वाक्यान्यर्थसङ्ग्रहार्थमुपादीयन्त इति ।
न हिशास्त्रे कृत्स्नासदिवादरभूतदिवेत्यर्थसङ्ग्रहो यथा कथं चित् क्रियत इति वादे ऽपि तथा क्रियतामिति युक्तं वादादिषु पक्षप्रतिपक्षवद्वक्रोरपि परीक्ष्यमाणत्वात् परीक्षितस्य च शास्त्रितत्वात्
॥ ११ ॥
न्य्स्_५,२।१२: हीनमन्यतमेनाप्यवयवेन न्यूनम् ॥
प्रतिज्ञादीनां पञ्चावयवानां मिलितानां साधनत्वमुपपादितम् ।
न्यूनत्वे साधनत्वं नास्ति तदभावे न साध्यसिद्धिः
न हि सामग्रीनिष्पाद्यं कार्यं सामग्र्येकदेशाद्भवतीत्यर्थः ।
परेषां मतमुपन्यस्ति एके त्विति ।
एके तु प्रतिज्ञान्यूनं नामनिग्रस्थानं नास्तीति ब्रवते।दूषयति एतत्तु न युक्तमिति ।
किं प्रतिज्ञान्यूनं निग्रहस्थानान्तरं न भवति अथ निग्रहस्थानमेव न भवति ।
एतदेवाह किमसौ निगृह्यते न वेति ।
प्रथमकल्पे दोषमाह यदीति ।
द्वितीयकल्पे दोषमाह अथ न निग्रह
इति ।
प्रतिज्ञायाः साधनाङ्गत्वमुक्तमित्यर्थः ।
यच्च ब्रवीषि दिङ्नागसिद्धान्तपरिग्रह एवेति ।
एततु दूषप्रति ।
एतदपीति ।
(५५७।१) सिद्धसाध्यार्थयोः सिद्धान्तप्रतिज्ञयोर्महान् भेद इत्यर्थः ॥ १२ ॥
न्य्स्_५,२।१३: हेतूदाहरणाधिकमधिकम् ॥
तदेतन्नियमाभ्युपगम इति भाष्यम् ।
तत्र कथमेतत्साध्यं सिध्यतीति जिज्ञासा तत्रैकेनैव साधनेन साध्यसिद्धेः साधनान्तराभिधानमनर्थकमिति ।
निष्पादितक्रिये कर्मणि अविशेषाभिधायिनः साधनस्य साधनन्यायातिपातात् ।
यत्र तु प्रतिवादिनः परिषदो वा जिज्ञासा भवति कति साधनानिसम्भवन्त्यस्मिन्साध्य
इति तत्र यावन्ति साधनानि तावन्ति सर्वाण्येव वाच्यानि अन्यतराभिधाने निग्रहप्रसङ्गादिति,
नाधिकं निग्रहस्थानमिति य आहुस्तन्मतमुपन्यस्यति ।
तच्च न दार्ढ्यादिति ।
दूषयति न दार्ढ्यार्थेति ।
यदि निश्चयो दार्ढ्यं तदेकस्मादेव प्रमाणाद्भवति अनिश्चायकस्याप्रमाणत्वात् ।
अथ स्फुठत्वं तदपि चेन्निश्चयः स दत्तोत्तरः ।
अथ सामान्यविशेषतद्वतां ग्रहणं न तदनुमानसहस्रैरपि तेषां सामान्यवद्द्रव्यमात्रविषयत्वात् ।
शङ्कते अथ ब्रवीषि द्वे अपि ज्ञापके इति ।
नास्माकमनधिगतार्थगन्तृत्वं प्रमाणत्वं येनैकेनाधिगते प्रमाणान्तरमप्रमाणं स्यात् ।
अपि तु गन्तृमात्रं प्रमाणं तच्च द्वितीयस्याप्यविशिष्टमिति शङ्कार्थः ।
निराकरोति सत्यं द्वे अपि ज्ञापते इति ।
पुरुषो ऽत्रापराध्यते यो ज्ञातमर्थमजिज्ञासितं ज्ञापयति न तु प्रमाणं तद्धि सामर्थ्येन मेने प्रवर्तत एव ।
यदि जिज्ञासायां सित्यां प्रवर्तते प्रतिपादयति ज्ञेयं नास्य कश्चिदपराध इति ।
न हि धान्येष्वलूनेषु दात्रमव्रश्चनं भवति तस्मादनपेक्षितकारणादनवस्थाप्रसङ्गाच्च पुरुषस्य निग्रह इति स्थितम् ॥ १३ ॥
न्य्स्_५,२।१४: शब्दार्थयोः पुनर्वचनं पुरुक्तमन्यत्रानुवादात् ॥
न्य्स्_५,२।१५: अर्थादापन्नस्य स्यशब्देन पुनर्वचनं पुनरुक्तम् ॥
तदनेन सूत्रद्वयेन पुनरुक्तमेकमेव निग्रहस्थानं कथं चिदवान्तरभेदविवक्षयात्रिविधमुक्तं प्रापञ्चार्थम् ।
तदेव पुनरुक्तं क्व चिच्छब्दाभ्यासात् क्व चित्पर्यायान्तरात् क्व चिदर्थादिति ।
आक्षिपति नाबाधनादिति ।
समाधत्ते सत्यमिति ।
जल्पवितण्डयोर्वक्तुर्नैपुण्यं चिन्त्यते ।
पुनरुक्तप्रयोगे त्वनिपुणः स्याद्
अनपेक्षिताभिधानात्साधनस्य विषयः साध्यो ऽर्थो न सिद्धः तस्यापरिज्ञनान्निगृह्यते ।
वैयर्थ्यं चानर्थक्यं विरुद्धप्रयोजनत्वं वाभिमतम् ।
तथा हि पुनरुक्तप्रयोगे तत्प्रयोजनानुसरणसमाकुलचित्तः प्रथमाभिधानादापाततः प्रतीतमप्यर्थमप्रतीतमिव मन्यमानो न निश्चेतुमर्हतीति ततश्च प्रतिपादनाय प्रवृत्तो न प्रतिपादयितेति विरुद्धप्रयोजनवत्त्ववैयर्थ्यं स्यादित्युपपन्नं निग्रहस्थानमिति ॥ १५ ॥
न्य्स्_५,२।१६: विज्ञातस्य परिषदा त्रिरभिहितष्याप्यप्रत्युच्चारणमननुभाषणम् ॥
व्याचष्टे विज्ञातस्य वाक्यार्थस्येति ।
निग्रहस्थानत्वे ऽस्योपपत्तिमाह ।
अप्रत्युच्चारयन् किमाश्रयं प्रतिषेधं ब्रूयादिति ।
वार्त्तिकं नेदं निग्रहस्थानमिति के चित् ।
(५५५।९) उत्तरेण
उत्तरगुणदोषनिरूपणेन प्रतिवादिनो मूढत्वामूढत्वावस्थापनात् ।
एतद्विभजते उत्तरेण गुणदोषवतेतीति ।
तस्मात्किं पुनरुच्चारितेनोच्चारणेनास्ति प्रयोजनमिति शेषः ।
अस्ति हि कश्चिदिति क्व चित्पाठः ।
तत्रास्ति हीति निपातद्वयं वाक्यावतारे द्रष्टव्यम् ।
पुंसां विचित्रस्वभावत्वात् कश्चिदुत्तरे समर्थो न प्रत्युच्चारणे नासौ सदुत्तपरमभिदधानः
तावताननुभाषणमात्रेण निग्रहमर्हति ।
ननु यद्यननुभाषणं न निग्रहस्थानं तदा ऽनुभाषितुमुपक्रम्य सर्वमननुभाषमाणो न निगृह्येतेत्यत आह ।
यस्त्वारभ्य न निर्वाहयेत् सदुत्तरं तु ब्रूयात् तस्य स्यात् खलीकारमात्रसमामर्थ्यकृतं न तु तत्त्ववादित्वविहतिरित्यर्थः ।
तमेवं भदन्ताक्षेपं समाधत्ते नोत्तरविषयापरिज्ञानादिति ।
दूष्यविषयं हि दूषणम् असति दूष्याभिधाने न शक्यं वक्तुम् ।
न खलु प्रतिज्ञाहेतूदाहरणोपनयनिगमनदोषास्तत्स्वरूपमनभिधाय शक्या दोषत्वेनावस्थापयितुमित्यनुच्चारयन्न दोषमभिधातुमर्हतीति ।
तदिदमुक्तं तदिदं व्याहतमुच्यते नोच्चारयति उत्तरं च ब्रवीतीति ।
स्यादेतद् न प्रतिवादिना सर्वं दूषणीयम्
अन्यतमावयवदूषणेनैव साधनस्य दूषितत्वेन दोषान्तराभिधानवैयर्थ्यात् ।
न खलु मृतो मृत्युना रक्षितो मारयितुं शक्यः एवं दूषितमपि दूषयितुम्, तस्मात् सत्यपि दूष्यबाहुल्ये ऽन्यतमं दूष्यं तथा च सर्वानुभाषणे सर्वस्यादूष्यत्वाद् यद्दूषणीयं तत्पुनरनुवाद्यमिति सर्वानुवादे द्विरनुवादो ऽदूष्यानुवादश्चेति दूषकनिग्रहस्थानद्वयं तस्मादनुभाषणमेव निग्रहस्थानमिति विपरीतमापतितमित्यत
आह अप्रतिज्ञानाच्चेति ।
एतद्विभजते न चेदं प्रतिज्ञायते ।
पूर्वमेकग्रन्थेन सर्वमुच्चारयितव्यं पश्चादुत्तरं यद्दूष्यं तदनुवादेनाभिधेयं येन दूष्यानुवादो द्विरनुवादश्च दोषौ स्याताम् अपि तु यथाकथं चिदुत्तरंवक्तव्यम् ।
उत्तरवादपरस्योत्तरमाश्रयाभावे न युक्तमिति तदाश्रयमात्रमनुवदितव्यं तदन्तरेणाशक्याभिधानत्वादुत्तरस्येति ।
तस्माद्युक्तं तन्मात्रस्याप्रत्युच्चारणमननुभाषणं न सर्वस्याप्रत्युच्चारणमननुभाषणमित्यर्थः ।
नन्वप्रतिभाया निग्रहस्थानत्वविधानेनाननुभाषणस्यापि विदितं तस्य तद्विशेषत्वात् ।
न खलु नानुभाषतैत्येतावतैव निगृह्यते अपि त्वननुभाषमाणो दूष्यं न बुध्यते अबुध्यमानश्च तत्रोत्तरं न प्रतिपद्यते ततो ऽप्रतिभया निगृह्यते ।
तदेवमननुभाषणमप्रतिभाविशेष इति अप्रतिभाया विहितं निग्रहस्थानत्वं तद्विशेषे ऽपि विहितं भवति ।
यथा गवि सास्नादिमत्त्वं विहितं शाबलेये ऽपि विहितं भवति न पुनस्तत्र सास्नादिमत्वविधानाय पृथग् यत्नान्तरमारभन्ते ।
अत्र ब्रूमः, न तावदुत्तराप्रतिपत्तिसामान्यविशेषो ऽननुभाषणं पुंसां सामर्य्यवैचित्र्यात् ।
कश्चिद्दूनष्यं दूषणं च विदन्नपि नानुभाषितुं पारयति बहुवचनकुण्ठत्वात् ।
तस्मादसत्यामप्रतिभायामननुभाषणसम्भवान्नाप्रतिभाया विशेषो ऽननुभाषणमिति ।
कश्चिद्दूषणविषयं वेदानुभाषते च उत्तरप्रतिपत्तिविकलस्तु स्यात्सो ऽयमप्रतिभया निगृह्यते नाननुभाषणेन तत्र सामर्थ्यात् ।
कश्चित्पुनर्दूष्यमेव न जानाति सो ऽज्ञानेन निगृह्यते न चाज्ञाने ऽननुभाषणमवश्यम्भावि धारणावतोर् ऽयानिरूपणे वाद्युदीरिताक्षरस्वरूपमात्रपाठसम्भवेनानुभाषणोपपत्तेः ।
अप्रतिभा त्ववश्यं भेवद् न ह्यस्ति सम्भवो दूष्यं न वेदास्य दूषणं तु वेदेति ।
तथापि स्वरूपतस्तावद्भेदः न हि यदेव दूषणविषयमज्ञानमप्रतिभा तदेव दूष्यविषयमज्ञानं तस्मात्सत्यप्यननुभाषणाप्रतिभाज्ञानानानामुत्तरानभिधानफलत्वे तुल्ये अवान्तरभेदविवक्षया भेदेनोपन्यासः ।
त्रिरभिहितस्येति ।
त्रिरभिधानमेवमप्यप्रतिपद्यमानस्यातिजडतया न वादे ऽधिकार इत्यभिसन्धिमत इति ॥ १६ ॥
न्य्स्_५,२।१७: अविज्ञातं चाज्ञानम् ॥
तद्व्याचष्टे विज्ञातार्थस्य परिषदेति ।
निग्रहस्थानसामन्यलक्षणमत्र योजयति वार्तिककारः ।
अप्रतिपत्तितो निग्रहस्थानमिति ॥ १७ ॥
न्य्स्_५,२।१८: उत्तरस्याप्रतिपत्तिरप्रतिभा ॥
तद्व्याचष्टे ।
परपक्षेति ।
वार्तिकं श्लोकपाठादिभिरवज्ञां दर्शयन्निति ।
अर्थान्तरे हि निग्रहस्थाने प्रसक्तानुप्रसक्तं तत्सिद्ध्यर्थताव्याजेनावतारयता न प्रकृतावज्ञानं क्रियते इह त्ववज्ञानमेतावता भेदेनोपन्यास
इति ।
इयं चाप्रतिभा सम्यक्साधनोपन्यासे द्रष्टव्या साधनाभासोपन्यासे तु पर्यनुयोज्योपेक्षणम् ॥ १८ ॥
न्य्स्_५,२।१९: कार्यप्रसङ्गात् कथाविच्छेदो विक्षेपः ॥
साधनस्य दूषणस्य चोपन्यासमभ्युपगम्य तदवस्थः प्रतीयमान एव प्रतिवादिनो दार्ढ्यं सभ्यानां वा कठोरत्वमवगम्याकस्मात्कार्यं व्यासज्याभ्युपगतां कथां व्यवच्छिनत्ति तत्र विक्षेपो नाम निग्रहस्थानम् ।
तदनेनाप्रतिभया तूष्णीम्भावो ऽपि सङ्गृहीतो वेदितव्यः ।
कार्यव्यासङ्गस्याभ्युपगतकथाविच्छेदमात्रोपलक्षणत्वात् ।
न चेदमर्थान्तरं तत्र प्रकृतमेव साधयामीति व्याजेन प्रसक्तानुप्रसक्तावतारेण कथाविच्छेदाभावाद्
इह तु कथाविच्छेदात् ।
न चास्य हेत्वाभासेष्वन्तर्भावः ।
न हि विक्षेपस्यान्यतमलिङ्गधर्मानुविधानं नापि प्रकृतसाध्यसिद्धये प्रयोगो येन हेत्वाभासः स्यात् ।
न च वादिनो विक्षेपो हेत्वाभासः ।
अनन्तरं कथामम्युपत्यैव हेतुमनभिधायापसारणात् ।
यदि चायं सम्यञ्चं हेतुमभिधाय तत्समर्थनासमर्थो ऽपसरेत् किमेतावता न निगृह्येत हेत्वाभासेन वा निगृह्येत किं तु व्यासङ्गादेव ।
अनर्थकापार्थकाम्यां तु भेदे ऽस्य स्फुट एव ।
न ह्यत्रासमानसङ्केतः प्रतिपादको येनानर्थकः स्यात् ।
नापीह पदानि वाक्यानि वा पौर्वापर्येणासम्बन्धानि येनापार्थकः स्यात् ।
न चावज्ञानं येनाप्रतिभा भवेत् ।
तस्माद्विक्षेपः पृथङ् निग्रहस्थानमिति सिद्धम्
॥ १९ ॥
न्य्स्_५,२।२०: स्वपक्षदोषाभ्युपगमात् परपक्षे दोषप्रसङ्गो मतानुज्ञा ॥
व्याचष्टे यः परेण देशित दोषं स्वपक्षे ऽभ्युपगम्य ।
कथं ज्ञायते अभ्युपगम्यतैत्यत
आह ।
अनुद्धृत्येति ।
अनभ्युपगमे ऽसाबुद्धरेदिति भावः ।
वार्तिकं किं तु परस्वेनानतिसृष्टेनादत्तेनेत्यर्थः ।
(५५९।१३) प्रसङ्गविधानान्न निग्रहस्थानमित्यन्य
इति ।
यदि पुरुषत्वाच्चोरो ऽहं ततो भवानपि चोरः स्यात् ।
न च भवत एवमिष्टं तस्मात्त्वयैवानैकान्तिकत्वान्नायं हेतुरिति प्रसङ्गविपर्ययः तस्मान्नात्मनश्चोरत्वमनेनाभ्युपगतमिति मतानुज्ञा नासौ निग्रहस्थानमित्यर्थः ।
निराकरोति एतत्तु न, कस्मात् अत एव ।
कुतः ? यत एवासौ उत्तरे कर्तव्ये प्रसङ्गं करोति अत एव निगृह्यते ।
यदि हि वादी प्रतिवादिनं ब्रूयात्सत्यमहं चोर एवेति तदा किमनैकान्तिकत्वं शक्नुयात्कर्तुम् ।
तस्मात्पुरुषत्वं न चोरत्वहेतुः अपि तु परस्वेनादत्तेन सम्बन्ध इत्युत्तरे कर्तव्ये यदुत्तराभासमाह तेन ज्ञापयति नूनमयं सभ्यगुत्तरं न जानाति सम्यगुत्तराज्ञानान्निगृह्यते, तच्चोत्तरापरिज्ञानं मतानुज्ञाद्वापरेणोद्भाव्यमानं मतानुज्ञेत्युच्यते ॥ २० ॥
न्य्स्_५,२।२१: निग्रहस्थानप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणम् ॥
व्याचष्टे पर्यनुयोज्यो नामेति ।
निग्रहस्योपपत्तिः प्रमाणतः सिद्धिस्तयेत्यर्थः ।
एतत्तु न तावद्वादिनोद्भावनीयं न ह्यसौ स्वस्वसाधनावद्यमनुन्मत्त उद्भावयति,
नापि प्रतिवादिना न ह्यनुन्मत्त आत्मानमात्मना निगृह्णाति ।
अपि तु पर्यनुयोज्यं जानानः कस्मादुपेक्षतेतस्मात्सभापनिता वादिप्रतिवादिभ्यामनुयुक्तया वा परिषदा तन्निग्रहस्थानमुद्भावनीयम् ।
अत्र च तत्त्वनिर्णयावसाने वादे द्वयोरपि निग्रहात्परिषदेव विजयते जल्पवितण्डयोश्च तत्त्वानपेक्षं पुरुषसामर्थ्यपरीक्षणप्रवृत्तयोः प्रतिवादी निगृह्यते ।
साधनाभासवादिना ऽपि वादिना स्फुरता प्रतिवादी स्तम्भितो यतः सम्यक्साधनोपन्यासो विहितः ।
प्रतिवादिन
उत्तराप्रतिपत्तिरप्रतिभा साधनाभासोपन्यासे च उत्तराप्रतिपत्तिः पर्यनुयोज्योपेक्षणमिति विशेषः ।
वार्तिकं नान्यवचनादित्येके ।
यत्र प्रतिवादी तूष्णीम्भवति तत्र तूष्णीम्भावेनैव वादिन उत्तरानर्हतां दर्शय न्नस्य साधनाभासवादितां सूचयति यत्रास्य दोषोद्भावनं सम्यग्दोषमनुक्त्वा करोति तत्राप्यसौ दुष्टमुत्तरं ददत्तत्साधनदोषमेव सूचयति ।
उपदिशन्ति हि वृद्धाः दुष्टे हि साधने दृष्टोत्तरं देयमिति ।
तस्मादवचने ऽन्यवचने वा न पर्यनुयोज्योपेक्षणं निग्रहस्थानमुभयथा ऽप्यनुपेक्षणादित्यर्थः ।
दूषयति तच्च नेति ।
(५६०।१) साधनस्य हि सम्यञ्चं दोषं जानन् तमेव ब्रूयात् ।
सो ऽयं प्राप्तावसरो ऽब्रुवन् विब्रुवन् वा नूनं न सम्यञ्जं दोष जानाति ।
निश्चितप्रमाणभावस्य पुरुषस्येङ्गितादिभिरभिप्रायःप सूच्यते न त्वनिश्चितप्रमाणभावस्य ।
यथाऽहुः ।
श्रुतिस्मृत्यतिरेकेण युक्तजल्पाकभाषितम् ।
तद्यथाश्रति दुष्टं चेद् दुष्टमेवावधार्यताम्
॥ इति सुष्ठूक्तं जानानो ऽप्ययं किमर्थमन्यद् ब्रवीतीति॥ २१ ॥
न्य्स्_५,२।२२: अनिग्रहस्थाने निग्रहस्थानाभियोगो निरनुयोज्यानुयोगः ॥
न चायमप्रतिभातो न भिद्यते ।
सा ह्युनराप्रतिपत्तिरियं त्वनुत्तरस्यैवोत्तरत्वेन
(वि) प्रतिपत्तिरिति महान् विशेषः ।
अनेनैव सर्वा जातयो निग्रहस्थानत्वेन सङ्गृहीता भवन्ति ।
न च हेत्वाभासानामितो न भेदः
ते हि वादिनो निग्रहस्थानमयं तु प्रतिवादिन
इति महान्विशेषः ।
अत एव भवतामपि गाथा ।
ऽअसाधनाङ्गं वचनमदोषोद्भावनं तयोः ।
निग्रहस्थानमन्यत्तु न युक्तमिति नेष्यते इति ।
अप्रतिभाया एव प्रसज्यप्रतिषेधात्मिकाया अस्या निरनुयोज्यानुयोगस्य भेदे दर्शयति भाष्यकारः ।
निग्रहस्थानलक्षणस्य मिथ्याध्यवसाया त्समारोपादित्यर्थः ।
सुगमं वार्तिकम्
॥ २२ ॥
न्य्स्_५,२।२३: सिद्धान्तमभ्युपेत्यानियमात्मकथाप्रसङ्गो ऽपसिद्धान्तः ॥
अभ्युपेत्पयेत्यस्य व्याख्यानं कस्य चिदर्थस्य तथाभावं प्रतिज्ञायेति ।
प्रतिज्ञातार्थविपयर्यादिति ।
अभ्युपेतार्थविपर्ययात्सिद्धान्तविपर्ययादित्यर्थः ।
तदेतदनियमादित्यस्य व्याख्यानम् ।
तत्र साङ्ख्यीयं सिद्धान्तमाह ।
यथा न सदिति ।
तस्य पर्यायान्तरेण कथनं न सत इतञ् नासिदात्मानमित्यस्य पर्यायान्तरेण विवरणं नासदुत्पद्यत इति ।
सो ऽयं सिद्धान्तः साङ्ख्यानां तमभ्युपेत्य तद्विपर्ययात्कथाप्रसङ्गमाह स्वपक्षं व्यवस्थापयति ।
पक्षावस्थानं दर्शयति ।
एका प्रकृतिर्व्यक्तस्योपलभ्यमानस्यार्थजातस्य युक्तेति प्रतिज्ञा ।
विकाराणामिति व्यक्तस्यैवानुवादः ।
अन्वयदर्शनादिति हेतुः ।
मृदन्वितानामिति साधर्म्योदाहरणं तथा यं ऽव्यक्तभेदः सुखदुःखमोहसमन्वितो गृह्यते इत्युपनयः ।
निगमनमाह तस्मात्समन्वयदर्शनाद्विश्वव्यक्तस्य कैरित्यपेक्षायामुत्तरं सुखादिभिरिति ।
एकप्रकृतिः सर्वो विकार इति सेयं कथा ।
सिद्धान्तमभ्युपेत्त्यैवमुक्तवान् साङ्ख्यो नैयायिकेन पर्यनुयुज्यते ।
दूषणाय पृच्छ्यते ।
अथ प्रकृतिर्विकापर इति कथं लक्षितव्यमिति ।
स एवं नैयायिकेन पृष्टः साङ्ख्य उत्तरमाह यस्यावस्थितस्य मृदादेर्धर्मान्तरनिवृत्तौ शरावविनाशे यद्धर्मान्तरं मणिमादि प्रवर्तते असदेव जायते सा प्रकृतिर्मृदादि ।
यद्धर्मान्तरं निवर्तते प्रवर्तते वा स विकार इति ।
एतास्मिन्नुदाहरणे ऽपसिद्धान्तं योजयति ।
सोयं प्रतिज्ञातार्थस्य सिद्धान्तार्थस्य वादी विपर्ययादनियमात्कथां प्रसञ्जयति प्रतिज्ञातः सिद्धान्तः खल्वनेन नासदाविर्भवतीति उत्पद्यते न सत्तिरो भवतीति न विनश्यतीति ।
तथा ऽपि कस्मादनेन सिद्धान्तो बाध्यते अथ सिद्धान्तेनैव कस्मान्न बाध्यतैत्यत आह ।
सदसतोश्चेति ।
इदं हि लौकिकं प्रमाणसिद्धं सिद्धान्तस्त्वभ्युपगममात्रसिद्धो ऽप्रामाणिकः
तस्मादनेन सिद्धान्तो बलवता बाध्यते ।
तदेतन्मृद्धर्माणामपि न स्यादिति ।
न केवलं प्रेक्षावतां कर्तॄणामपि तु सद्धर्माणामप्युत्पादविनाशौ प्रवृत्त्युनपरमौ दृश्यमानौ न स्यातामित्यर्थः ।
एवं प्रत्यवस्थितः साङ्ख्योनैयायिकेन पृष्टो यद्यसत आत्मलाभं सतश्चात्महानमभ्युप इति ततो ऽस्यापसिद्धान्तो भवति ।
अथ नाभ्युपैति पक्षो ऽस्य न सिद्ध्यति ।
विकारो ह्यनेन पक्षीकृत एकप्रकृतित्वेन तत्र विकाराणामनिरूपणात् तदभावे न प्रतिज्ञार्थो न च हेत्वर्थः आश्रयासिद्धत्वात् ।
नन्वेवं प्रतिज्ञातार्थविरोधित्वात्सतो निरोधस्यासतश्चोत्पादस्य हेत्वाभास
एव निग्रहस्थानं भवेत् ।
प्रतिज्ञाविरोधो वेत्याशङ्क्य वार्तिककार आह ।
प्रतिज्ञातार्थव्यतिरेकेणेति ।
न ह्यत्रैकप्रकृतयो विकाराः एकप्रकृतिकत्वादित्ययं हेतुः साध्यविरुद्धेन व्याप्त उद्भावितो येन विरुद्धो भवेत् ।
नाप्येकप्रकृतिकत्वं विकाराणां शब्दतो विरुद्धं समन्वयेन हेतुना येन प्रतिज्ञाविरोधो भवेत् ।
वैभवमात्रेण च प्रतिज्ञाहेत्वोर्विरोध
इत्यत्रोक्तं वार्तिककृता स्वसिद्धान्तस्पय गोत्वार्देर्नित्यत्वविरोधाद्विरोध
इति ।
अपि च तत्र बलवता सिद्धान्तेनानैकान्तिकदेशना बाध्यते इह तु सिद्धान्त एव बाध्यते ।
दुर्बल इत्युदाहरणपौनरुक्त्यमपि नास्ति ।
तस्माद्यत्र प्रतिज्ञार्थेन विरोधः तत्र विरुद्धो हेत्वाभासः प्रतिज्ञाविरोधो वा इह तु प्रतिज्ञार्थव्यतिरेकेणाभ्युपगमान्तरेण विरोध इति पुरुषस्य पूर्वापरविरुद्धार्थाभिधायिनो ऽसामर्थ्यान्निग्रहस्थानं जल्पवितण्डयोरिति सिद्धम् ॥ २३ ॥
न्य्स्_५,२।२४: हेत्वाभासाश्च यथोक्त ॥
व्याचष्टे हेत्वाभामाश्चेति ।
यद्यनुक्तमपि किं चिदवशिष्यते निग्रहस्थानं तच्चकारेण समुच्चेयम् ।
यथोक्ता इति सूत्रावयवनिराकरणीयामाशङ्कामाह ।
किं पुनर्लक्षणान्तरयोगाद्धेत्वाभासानिग्रहस्थानतामापद्यन्ते यथा प्रमाणानि प्रमेयत्वं तेषामेव प्रत्यक्षादीनामुपलब्धिसाधनत्वेन लक्ष्यमाणानां प्रमाणत्वं प्रमाव्याप्यतया प्रमेयत्वं लक्षणान्तरेण प्रमाणानि प्रमेयत्वमापद्यन्त इति शङ्कायाः सम्भवादत आह भगवान् सूत्रकारः
यथोक्ता इति ।
सकलशास्त्रार्थमुपसंहरति ।
त इमे प्रमाणादय उद्दिष्टा लक्षिताः परीक्षिताश्चेति ।
इतिः शास्त्रपपरिसमाप्तौ ।
वार्तिककारः सङ्गृह्णाति जातीनां सप्रपञ्चानामिति ।
निग्रहस्थानलक्षणमिति ।
समासेन जातीनामपि प्रतिवादिनिग्रहस्थाने ऽस्ति निवेश इति सूचयति ।
शास्त्रस्य चोपसंहार इति ।
त इमे प्रमाणादय उद्दिष्टा इत्यनेन कृत इत्यर्थः ॥
यदलम्भि किमपि पुण्यं दुस्तरकुनिबन्धपङ्कमग्नानाम् ।
उद्द्योतकरगवीनामतिजरतीनां समुद्धरणात्
॥ १ ॥ संसारजलधिसेतौ वृषकेतौ सकलदुःखशमहेतौ ।
तस्य फलमखिलमर्पितमेतेन प्रीयतामीशः
॥ २ ॥ तत्त्वज्ञानप्रसवसुरभिर्गूढबह्वर्थजाता सेयं मोक्षामृतमयफला सूक्तिमञ्जुप्रवाला ।
प्रत्यक्षाप्तागममयमहान्यायमूला मनोज्ञा टीकावीरुद्भवतु कृतिनां नन्द्रिनी षठ्पदानाम्
॥ ३ ॥ क्रूराः कृतो ऽञ्जलिरयं बलिरेष दत्तः कायो मया प्रहरतात्र यथाभिलाषम् ।
अभ्यर्थये वितथवाङ्मयपांशुवर्षैर्- मा माविलीकुरुत कीर्तिनदीः परेषाम् ॥ ३ ॥ इति मिश्रश्रीवाचस्पतिविरचितायां न्यायवार्तिकतात्पर्यटीकायां पञ्चमोध्यायः समाप्तः ॥
समाप्तश्चायं ग्रन्थः ॥
शुभम्भूयात् ॥
५ अध्याये १ आह्निके ४३ सूत्राणि १७ प्रकरणानि २ आह्निके २४ सूत्राणि ७ प्रकरणानि मिलित्वा ६७ सूत्राणि २४ प्रकरणानि ।
अस्मिन न्यायशास्त्रे ऽध्यायाः ५
आह्निकानि १० प्रकरणानि ८४ सूत्राणि ५२८ पदानि १९६ अक्षराणि ८३८५ न्यायसूचीनिबन्धानुसारेण निर्दिष्टानि ।