[[अनुव्यवसायमीमांसा Source: EB]]
[
अनुव्यवसायमीमांसा
डाo
एन्o
एस्o
रामानुजताताचार्यः
आत्मविशेषगुणाः ज्ञानसुखादयः मनोजन्यज्ञानविषयाः। तत्र ज्ञानविषयकम् `
अहं जानामि’ `
अहं साक्षात्करोमि'
इत्याद्यकारकं मानसज्ञानम् अनुव्यवसायपदेन व्यपदिश्यते। तथा चानुव्यवसायसंज्ञकमानसप्रत्यक्षवेद्यं ज्ञानमिति नैययिकाः मन्यत्वे। ज्ञानस्य स्वयंप्रकाशत्वेन ज्ञानान्तरवेद्यत्वाभावात् मनोजन्यज्ञानविषयत्वं तस्य न संगच्छ इति पच्राभाकरादयः अभिप्रयन्ति। एतत्तत्त्वम् अस्मिन् निबन्धे विमृश्यते।
स्वयंप्रकाशवादसंग्रहः
तत्रादौ ज्ञानस्य स्वयंप्रकाशत्ववादिनां मतानि सगृह्णीमः। बौद्धैकदेशिनः प्राभाकरमीमांसकाः वेदान्तिनश्च ज्ञानं स्वयंप्रकाशम् इत्यातिष्ठन्ते।
(1) तत्र विज्ञानमेवात्मेति वादिनो बौद्धाः ज्ञानातिरिक्तं बाह्यं वस्तु अपलपन्तः क्षणिकं विज्ञानं स्वयंप्रकाशं नाम्ना चेत्यङ्गीकुर्वन्ति। ज्ञानस्य स्वयंप्रकाशत्वं च स्वविषयकत्वम्। न चैकस्य कर्मत्वं कर्तृत्वं च विरुद्धमिति वाच्यम्। ज्ञानातिरिक्तस्थल एव कर्मकर्तृभावस्य विरोधादिति तेषामाशयः।
(2) प्राभाकरास्तु सर्वेष्वपि स्मृत्यनुभवरूपेषु ज्ञानेषु मितिमातृनेय एततत्रितयविषयकत्वमुररीकुर्वाणः घटमहं जानामि’ `
घटमहं स्मरामि'
इत्याद्याकारमेव ज्ञानमभ्युपगच्छन्ति,
न तु `
अयं घटः'
इति। तत्रात्मा कर्तृत्वेन,
ज्ञेयं कर्मतया,
ज्ञानं क्रियात्वेन भासते। तथा च ज्ञानं ज्ञातृज्ञेयस्वविषयकमिति त्रिपुटीप्रत्यक्षात्मकं भवति। तत्र प्राचीनाः प्राभाकराः ज्ञानं क्रियात्वेन भासते। तथा च ज्ञानं ज्ञातृज्ञेयस्वविषयकमिति त्रिपुटीप्रत्यक्षात्मकं भवति। तत्र प्राचीनाः प्राभाकराः ज्ञानं न स्वात्मानं विषयीकरोति। अपि तु ज्ञानमस्ति प्रकाशत इति व्यवहारे स्वयमेव हेतुर्भवति। तथा च स्वव्यवहारे इतरानपेक्षत्वमेव ज्ञानस्य स्वयंप्रकाशत्वमिति वदन्ति। नव्याः प्रकरणपञ्चिकाकारादयस्तु ज्ञानं स्वमपि विषयीकुर्वदेव स्वव्यवहारहेतुर्भवति। तथा च स्वविषयकत्वे सति स्वव्यवहारहेतुत्वं स्वयंप्रकाशत्वमित्याशेरते।
(अयं निबन्धः 1976 तमे वर्षे नवम्बरमासे प्रचलन्त्यां अखिलभारतीयप्राच्यविद्यासंमेलने (All India Oriental Conference)
पण्डितपरिषदि पठनार्थं प्रेषितः।)
(3) अद्वैतवेदान्तिनस्तु—-ज्ञानं द्विविधं ब्रह्मस्वरूपभूतं वृत्तिरुपं च। तत्र वृत्तेर्जडत्वात् न स्वयंप्रकाशता। ब्रह्मस्वरूपं तु ज्ञानं स्वयंप्रकाशमित्याहुः। स्वयंप्रकाशत्वं च अवेद्यत्वे सति अपरोक्षव्यवहारविषयत्वयोग्यत्वं स्वयव्यवहारे स्वातिरिक्तसंविदनपेक्षत्वं वा इति प्राहुः। रामानुजमतानुयायिनोऽपि ज्ञानस्य स्वयंप्रकाशत्वमुपयन्ति।
तत्र तैस्तैः प्रतिपादिताः ज्ञानस्य स्वयंप्रकाशत्वयुक्तयः परामृश्यन्ते—
ज्ञानस्य ज्ञानान्तराधीनप्रकाशत्वे तस्यापि ज्ञानान्तरेण प्रकाश इत्यनवस्था भवेत्। अतः सविदपरपर्यायं ज्ञानं स्वयंप्रकाशमित्यास्थेयम् इति भामतीकाराः।
रामानुजीयास्तु स्वगोचरज्ञानान्तरनिरपेक्षव्यवहारयोग्यत्वं स्वयंप्रकाशत्वम ्। यथा `
ज्ञानमस्ति'
इत्याकारकं ज्ञानं स्वात्मनमपि विषयीकरोति,
ज्ञानत्वेन सामान्यरूपेण सर्वेषां ज्ञानानां भानेन स्वस्यापि ज्ञानत्वाक्रान्तस्य तद्विषयत्वात्';
तथा च सर्वविषयकम् ईश्वरज्ञानं सर्वान्तर्गतं स्वमपि विषयीकरोति,
अन्यथा असर्वज्ञत्वापत्तेः तथा सर्वमपि ज्ञानं स्विषयकमपि। परं तु स्वकाले स्वविषयकमपि कालान्तरे स्मृतिरूपज्ञानान्तरस्य पुरुषान्तरीयानुमित्यादेश्च ज्ञानं विषयो भवति,
न तु ज्ञानस्यावेद्यत्वम् अस्मन्मते इति वदन्ति। तदुक्तं न्यायसिद्धाञ्जते—-(पृo
238,
अण्णङ्गराचार्य प्राकाशनम्,
काञ्ची)।
`
स्वधीविशेषं सर्वज्ञोऽप्यध्यक्षयति वा न वा।
आद्ये सिद्धा स्वतः सिद्धिः अन्यत्रासर्ववेदिता॥
ज्ञानमस्तीति विज्ञानं स्वात्मानं साधयेन्न वा।
पूर्वत्र स्वप्रकाशत्वं सर्वासिद्धिरतोऽन्यथा॥ इति।
सर्वविषयकत्वेनाभिमता ईश्वरबुद्धिः स्वस्वरूपं विषयीकरोति न वा?
आद्ये स्वयंप्रकाशत्वमुररीकृतं भवति। द्वितीये सर्वविषयकत्वहानिः,
स्वस्वरूपस्यापि सर्वान्तर्गतत्वात्। एवं `
ज्ञानमस्ति'
इति ज्ञानं स्वं विषयीकरोति चेत् स्वयंप्रकाशता स्यात्। न चेत्,
ज्ञानस्यासत्त्वप्रसङ्गेन विषयस्याप्यसत्त्वप्रसङ्ग इति। न्यायसिद्धाञ्जने * अन्या अपि युक्तयः स्वयंप्रकाशत्वसाधिकाः प्रादर्शिषत—(* न्यायसिद्धाज्जनम्,
पृo
238 अण्णङ्गराचार्यप्रकाशनम्,
काञ्त्री।) अपि युक्तयः स्वयंप्रकाशत्वसाधिकाः प्रादर्शिषत—
प्रतीतेर्व्याहरणतः संदेहपरिवर्जनात्।
सत्तायां सिद्धवत्कारात् ज्ञानं भातीति भावितम्॥
परस्यादर्शनात् व्याप्तादन्वयिव्यतिरेकितः।
अर्थापत्तेश्च युक्तेश्च वचनाच्च स्वदृङ् मतिः॥
इति! अयमनयोः कारिकयोराशयः—
(1) ज्ञानोत्पत्त्यनन्तरक्षण एव `
अहं जानामि'
इति व्यवहारदर्शनात् मध्ये ज्ञानान्तरविलम्बादर्शनात् ज्ञानं स्वयम्प्रकाशम्।
(2) ज्ञानोत्पत्त्यनन्तरम् `
अहं जानामि न वा'
इति संदेहो वा, `
अहं न जानामि'
इति विपर्ययो वा न दृश्यते। अतो ज्ञानोत्पत्तिकाल एव ज्ञानं निश्चितमिति वक्तव्यम्। तथा च ज्ञानं स्वयंप्रकाशमिति सिध्यति।
(3) धारावाहिकज्ञानानन्तरम् `
एतावन्तं कालमिदमहं पश्यन्नेवास्मि'
इति ज्ञानधारायाः परामर्शो भवति। ज्ञानं चेत् अस्वप्रकाशम् अनुव्यवसायादिवेद्यं च स्यात् तदा मध्यभवैः अनुव्यवसायैः धारायाः विच्छेदः प्रसज्येत। न चान्ते एककाले सर्वेषां ज्ञानानामनुव्यवसायो भवतीति वाच्यम्। ज्ञानानां परामर्शकाले नष्टत्वात् अनुव्यवसायासम्भवात्। अतोऽपि ज्ञानं स्वयंप्रकाशमिति वक्तव्यम्।
(4) किं च ज्ञानं स्वजन्यपरगतधर्मात्यन्तसजातीयधर्मभाक्त्वे स्वात्यन्तसजातीयापेक्षानियमरहितम्,
स्वविजातीये स्वगतधर्मात्यन्तसजातीयधर्महेतुत्वात् प्रदीपादिवत् (अत साध्ये हेतौ च धर्मशब्दः प्रकाशपरः) इत्यन्तय्यनुमानेन,
ज्ञानं स्वयंप्रकाशम् अजडत्वात् ज्ञानत्वाच्चेति व्यतिरेक्यनुमानेन च ज्ञानस्य स्वयंप्रकाशत्वं सिध्यति।
(5) ज्ञानं न परप्रकाश्यं घटादिवदर्थाप्रकाशकत्वाप्रसङ्गात् इत्यादितर्का अपि स्वयंप्रकाशत्वसाधका इति।
अनुव्यवसाये न्यायसूत्रसंमतिः
न्यायदर्शने पञ्चमाध्याये जातिप्रकरणे—-
`
ज्ञानविकल्पानां भावाभावसंवेदनादध्यात्मम्’ (
न्या.सू.5-1-31) इति सूत्रम्। अस्य चायमर्थ—-अध्यात्मं आत्मनि,
ज्ञानविकल्पानां ज्ञानविशेषाणाम्,
भावाभावयोः मनसा संवेदनात्, `
घटं साक्षात्करोमि,
न साक्षात्करोमि’ `
वह्निमनुमिनोमि,
नानुमिनोमि'
इत्येवं ज्ञानविशेषतदभावानां मनसैव सुग्रहत्वमिति। आनेन ज्ञानं मानसप्रत्यक्षस्य विषयः इति सूत्रकारस्याशयः स्पष्टं प्रतीयते। अनुव्यवसाय इति पदं सूत्रे न प्रयुक्तमित्येव विशेषः।
वैशेषिकदर्शनेऽपि `
आत्ममनसोः संयोगविशेषादात्मप्रत्यक्षम्’ (
वै.सू.9-1-11) इति सूत्रेण मनोरूपेन्द्रियसंयोगः आत्मप्रत्यक्षं प्रति कारणम्। तथा च आत्मा मानसप्रत्यक्षविषय इति प्रतिपाद्य, `
आत्मसमवायादात्मगुणेषु’ (
वै.सू.9-1-15) इति सूत्रेण आत्मगुणानां बुद्धिसुखदुः खेच्छादीनां प्रत्यक्षं प्रति मनस्संयुक्तात्मसमवायः कारणमिति कथनेन आत्मनुणान्तर्गतस्य ज्ञानस्यापि मानसप्रत्यक्षविषयत्वं संसूचितम्।
मणिकाराशयः
मणिकारोऽपि प्रत्यक्षखण्डे ज्ञानस्य स्वयंप्रकाशत्वखण्डनपूर्वकं अनुव्यवसायविषयत्वं स्थापयाम्बभूव। तथाहि—यदुक्तं प्राभाकरैः `
आहमिदं जानामि'
इत्यकारेण त्रिपुटीरूपेण व्यवसायेन स्वात्मकज्ञानमपि विषयी क्रियते,
अतो ज्ञानस्य स्वविषयकत्वरूपं स्वप्रकाशत्वमिति। तन्न। व्यवसायस्य `
अहमिदं जानामि'
इत्याकारकत्वस्यासिद्धेः। व्यवसायो ह्यर्थमात्रविषयकः `
अयं घटः'
इत्याद्याकारकोऽनुभवसिद्धः। अनन्तरं तु विषयाश्रयावच्छिन्नं ज्ञानं विषयीकुर्वन्नुदयमानः `
इदमहं जानामि'
इत्याकारकः ज्ञानविशेषः अनुव्यवसायशब्देनोच्यते।
किं च `
इदमहं जानामि'
इत्याकारकं ज्ञानम् आत्मनि इदंविषयकज्ञानत्वविशिष्टस्य ज्ञानस्य वैशिष्ट्यं विषयीकरोति। तत्र विशेषणस्य ज्ञानस्य पूर्वमज्ञानात् तद्वैशिष्ट्यमात्मनि भासितुं नार्हति। तस्मात् `
इदमहं जानामि'
इति न व्यवसायः अपि तु अनुव्यवसायः।
अपि च घटविषयकज्ञानस्य स्वविषयकत्वं न सम्भवति। घटज्ञानस्य जनको य इन्द्रियचसंनिकर्षः तदनाश्रयत्वात्,
एतज्ज्ञानाजनकत्बाच्च। जाने यो विषयो भवति तस्य ज्ञानजनकत्वमावश्यकम्। स्वाजनकं च ज्ञानं कथं स्वस्मिन् विषयो भवेत्। अतः ज्ञानं मनस्संनिकर्षबलात् मानसप्रत्यक्षात्मकज्ञानान्तरस्यैव विषयः इति सिध्यति।
यदुक्तं वेदान्तदेशिकैः `
ज्ञानमस्ति'
इति ज्ञानं ज्ञानत्वेन स्वमपि विषयीकरोतीति ज्ञानस्य स्वयंप्रकाशत्वं सिध्यति। तथा सर्वविषयक्मीश्वरज्ञानं सवन्तिर्गतं स्वमपि विषयीकरोतीति तस्यापि स्वयंप्रकाशत्वमिति। तत्र मणिकारा एवं मन्यन्ते पूर्वनिदर्शितयोर्द्वयोर्ज्ञानयोः स्वयंप्रकाशत्वमिष्टमेव। तत्र ज्ञानमस्तीति ज्ञानं ज्ञानत्वात्मकसामान्यलक्षणप्रत्यासत्त्या स्वमपि गोचरयति। नैवं घटमहं जानामीत्यत्र वक्तुं शक्यतम्। विषयस्य घटस्य विषयिणो ज्ञानस्य च सामान्यधर्माभावेन सामान्य्प्रत्यासत्तेर्वक्तुमशक्यत्वात्। ज्ञश्वरज्ञानं तु अहेतुकत्वात् सर्वं साक्षात्कुर्वत् स्वमपि विषयीकृत्य स्वयंप्रकाशं भवतीति।
यदप्युक्तं भामत्यां ज्ञानस्य ज्ञानान्तरविषयत्वे तस्यापि तथेत्यनवस्था इति,
तत्राह मणिकारः ज्ञानं चेदवश्यवेद्यमेव इति नियमाभावान्नानवस्थेति।
अत्रेदं विचार्यते—स्वविषयकत्वरूपं स्वयंप्रकाशत्वं तावत् ज्ञानस्य दुर्घटम्। विषयविषयिभावस्य संबन्धत्वेन भेदव्याप्यतया स्वस्मिन् स्वविषयकत्वस्यासम्भवात्। अतः `
ज्ञानमस्ति,
प्रकाशते'
इत्यादिव्यवहारे स्वातिरिक्तज्ञाननिरपेक्षत्वं स्वयंप्रकाशत्वम् इत्यद्वैतसिद्ध्यादिप्रदर्शितः पन्या एव समीचीनः। ईदृशमपि स्वयंप्रकाशत्वं न सर्वेषां ज्ञानानाम्,
अपि तु ज्ञानमस्तीतिज्ञाने—ईश्वरज्ञानद्वयस्यैवेति नैयायिकानामाकूतमिति। * (* Paper submitted to the Pandita Parishad of the
28th All India Oriental Conference, Karnatak University, Dharwar,
1976.)
—————*************——————-
]