ओं भाट्टसारः
रघुवरचरणद्वन्द्वध्यानसुधास्वादनित्यतृप्तेन।
श्रीकृष्णतातसुधिया क्रियते कुतुकेन भाट्टसारोऽयम्॥
प्रमाणाधीनसिद्धिकतया प्रमेयस्य प्रमाणमादौ निरूप्यते। तत्र प्रमाकरणं प्रमाणम्। अनधिगताबाधितार्थज्ञानं प्रमा। स्मृतिव्यावृत्तये अनधिगतेति। भ्रमव्यावृत्तये अबाधितेति। धारावाहिकबुद्धिस्थलेऽप्युत्तरोत्तरज्ञानानां पूर्वपूर्वज्ञानाविषयतत्तत्क्षणविशेषविषयकतया नाव्याप्तिः। नीरूपस्यापि कालस्य रूपस्येवानुभवानुरोधेन प्रत्यक्षवेद्दत्वाभ्युपगमात्। अत एव हि किमत्र घटोऽवस्थित इति पृष्टः प्रतिब्रूते - अस्मिन् क्षणे वर्तमानतया मयोपलब्ध इति। प्रकृष्टं कारणं करणम्। अनन्यथासिद्धनियतपूर्ववृत्ति कारणम्। तत् त्रिविधम् - उपादानासमवायिनिमित्तभेदात्। यत्र तादात्म्येन कार्यमुत्पद्दते तदुपादानम्। यथा - तन्तवः पटस्य। अवयवावयविनोः गुणगुणिनोः क्रियाक्रियावतोर्जातिव्यक्त्योश्च तादात्म्याभ्युपगमात्। तादात्म्यं च भिन्नाभिन्नत्वम्। ननु भेदाभेदौ मिथो विरुद्धौ कथमेकत्र स्यातामिति चेन्न। घटोऽयमित्यादिसमानाधिकृतप्रत्ययेन तयोः सहभावसिद्धेः। अत्यन्ताभेदे अत्यन्तभेदे वा तथा प्रतीतिविरहात्। न हि घटः कलश इति घटः पट इति वा समानाधिकृतप्रत्ययः। उपादाने तादात्म्येन प्रत्यासन्नं कारणमसमवायिकारणम्। यथा तन्तुसंयोगः पटस्य। यत्तु तन्तुरूपं पटरूपस्यासमवायिकारणमिति, तन्न। तन्तुरूपापेक्षयातिरिक्तस्य पटरूपस्याप्रतीतेः। तन्तुषु पटभावमापन्नेषु तन्तुरूपस्यैव पटरूपतया प्रतीतेः। अत एवातिरिक्तचित्ररूपमपि नास्त्येव। तदुभयभिन्नं कारणं निमित्तकारणम्। यथा - तुरीवेमादिकं पटस्य। उक्तत्रिविधकारणजन्यत्वं भावकार्यस्यैव। अभावकार्यस्य तु निमित्तकारणमात्रजन्यत्वम्। तस्य क्वचिदपि तादात्म्याभावात्। तत्सिद्धं प्रमाकरणं प्रमाणमिति।
तानि च प्रमाणानि षट् - प्रत्यक्षानुमानशब्दोपमानार्थापत्त्यनुपलब्धिभेदात्। तत्र प्रत्यक्षप्रमाकरणं प्रत्यक्षप्रमाणम्। इन्द्रियार्थसम्प्रयोगजन्यं ज्ञानं प्रत्यक्षम्। तत् द्विविधम् - निर्विकल्पकसविकल्पकभेदात्। वैशिष्ट्यानवगाहि ज्ञानं निर्विकल्पकम्। जात्यादिवैशिष्ट्यावगाहि ज्ञानं सविकल्पकम्। यथा - घटोऽयं नीलोऽयमित्यादि। ननु निर्विकल्पके किं प्रमाणमिति चेन्न। जात्यादिविशिष्टज्ञानं विशेषणज्ञानजन्यं विशिष्टज्ञानत्वात् दण्डीति ज्ञानवदित्यनुमानस्यैव प्रमाणत्वात्। अथ प्रत्यक्षप्रमायां किं कारणमिति चेत्, निर्विकल्पके इन्द्रियसम्प्रयोगः, सविकल्पके तु विशेषणज्ञानरूपं निर्विकल्पकमेवेति गृहाण॥
इन्द्रियं द्विविधम् - बाह्यमाभ्यन्तरं चेति। बाह्येन्द्रियाणि घ्राणरसनचक्षुस्त्वक्छ्रोत्राणि। आभ्यन्तरं मनः। घ्राणरसनचक्षुस्त्वगिन्द्रियाणि पृथिव्यप्तेजोवायुरूपाणि। श्रोत्रं तु दिग्रूपम्। आकाशरूपमिति सुचरितमिश्राः। इन्द्रियार्थसम्प्रयोगश्चतुर्विधः - संयोगः, संयुक्ततादात्म्यम्, संयुक्ततादात्म्यवत्तादात्म्यम्, तादृशतादात्म्यावत्तादात्म्यं चेति। चक्षुरादिना घटादिद्रव्यप्रत्यक्षे संयोगः सम्प्रयोगः। शब्दस्यापि विभुद्रव्यत्वाभ्युपगमात् तत्रापि संयोग एव सम्प्रयोगः। ननु श्रोत्रस्य दिगात्मकस्याकाशात्मकस्य वा विभुत्वेन क्रियाविरहात् विभुनाशब्देन कथं संयोग इति चेन्न। विभुद्वयस्य अजसंयोगाभ्युपगमात्। कण्ठताल्वादिव्यापारस्य तज्जन्यध्वनेर्वा व्यञ्जकत्वाभ्युपगमान्न सर्वदा शब्दसाक्षात्कारप्रसङ्गः। वर्णस्यैव नित्यत्वाभ्युपगमात्। गुणकर्मगोत्वादिप्रत्यक्षे संयुक्ततादात्म्यम्। गुणत्वादिप्रत्यक्षे संयुक्ततादात्म्यवत्तादात्म्यम्। गुणत्वादिगतसत्ताप्रत्यक्षे उक्ततादात्म्यवत्तादात्म्यम्॥
इति प्रत्यक्षनिरूपणम्॥
अथानुमाननिरूपणम्
अनुमितिकरणमनुमानम्। व्याप्तिज्ञानजन्यज्ञानमनुमितिः। व्याप्तिश्चाशेषसाधनाश्रयाश्रितसाध्यसम्बन्धः। स च व्यभिचारज्ञानाभावसहायेन भूयो दर्शनेन गृह्यते। व्याप्तिज्ञानं च पक्षधर्मताज्ञानसहकृतमनुमितिं जनयति। व्याप्तिपक्षधर्मताज्ञाने क्वचित्साधनवाक्याधीने। साधनवाक्यं च प्रतिज्ञाहेतूदाहरणत्रयम्। उदाहरणोपनयनिगमनत्रयं वा। न तु पञ्चावयवम्। तत्र पर्वतो वह्निमानिति प्रतिज्ञा। धूमवत्त्वादिति हेतुः। यो यो धूमवान् स वह्निमान् यथा महानस इति उदाहरणम्। धूमवांश्चायं पर्वत इत्युपनयः। तस्मादयमपि वह्निमानिति निगमनम्। तच्चानुमानमन्वयिरूपमेकमेव। न तु केवलव्यतिरेकिरूपम्। साध्याभावे हेत्वभावव्याप्यत्वस्य हेतुना साध्यानुमितावनुपयोगात् व्यतिरेकव्याप्तिग्रहदशायां साध्यप्रमितेरर्थापत्तिरूपत्वात्। अत एव नान्वयव्यतिरेकिरूपमपि॥
अनुमानदोषो द्विविधः - प्रतिज्ञादोषो हेतुदोषश्च। प्रतिज्ञाविरोधादयः प्रतिज्ञादोषाः। तत्र प्रतिज्ञाविरोधः स्ववाग्विरोधः। स च त्रिविधः - उच्चारणधर्मधर्मिभेदात्। आद्दो यथा - यावज्जीवमहं मौनीति। अत्र स्वपक्षः प्रतिज्ञोक्तिमात्रेणैव बाध्यते। द्वितीयो यथा - सर्वं वाक्यं मृषेति। अत्र सर्वान्तर्गतस्य स्ववचनस्य मृषात्वे इतरेषां वाक्यानां सत्यत्वसिद्ध्या स्वपक्षबाधः। तृतीयो यथा - वन्ध्या मे जननीति। अत्र जननीति धर्मिनिर्देशेन स्वपक्षबाधः। अधिकं वार्त्तिके द्रष्टव्यम्॥
हेतुदोषोऽपि त्रिविधः - असिद्धिरनैकान्तिकत्वं बाधकत्वं चेति। तत्रासिद्धिः पञ्चधा - स्वरूपासिद्धिसम्बन्धासिद्धिव्यतिरेकासिद्ध्याश्रयासिद्धिव्याप्त्यसिद्धिभेदात्। यथा - बुद्धो धर्मवादी सर्वज्ञत्वादिति स्वरूपासिद्धिः। न हि सर्वज्ञत्वस्वरूपं क्वचिदस्ति। ईश्वरस्यापि सर्वज्ञत्वनिराकरणादिति केचित्। वस्तुतस्तु शशशृङ्गादिहेतुके स्वरूपासिद्धिर्बोध्या। वह्निरदाहकः शीतत्वादिति सम्बन्धासिद्धिः। शैत्यस्य वह्निसम्बन्धाभावात्। गोशब्दः सास्नादिमद्वचनः गोशब्दत्वादिति व्यतिरेकासिद्धिः। न हि धर्मिव्यतिरेकेण गोशब्दत्वं नाम किञ्चिदस्ति। नित्यमाकाशम् अनवयवद्रव्यत्वादिति आकाशानङ्गीकर्तृसौत्रान्तिकं प्रत्याश्रयासिद्धिः। वायुराकाशानन्यः मूर्तत्वादिति व्याप्त्यसिद्धिः। मूर्तत्वस्याकाशव्याप्त्यभावात्॥
अनैकान्तिकत्वं द्विविधम् - सव्यभिचारं सप्रतिसाधनं च। तत्र सव्यभिचारं यथा नित्यः शब्दः अमूर्तत्वादिति। नित्यत्वशून्येषु कर्मादिषु अमूर्तत्वसत्त्वात्। सप्रतिसाधनं यथा - अप्रत्यक्षो वायुः, द्रव्यत्वे सत्यरूपत्वात्। प्रत्यक्षो वायुः, महत्त्वे सति स्पर्शवत्वादिति। अत्र द्वयमप्यनिर्णायकम्, किन्तु संशयहेतुः। उभयोरप्यगृह्यमाणबलाबलत्वात्। बाधको यथा - नित्यः शब्दः कृतकत्वादिति। अत्र कृतकत्वं नित्यत्वाभावसाधकतया बाधकम्।
इत्यनुमाननिरूपणम्॥
अथ शब्दनिरूपणम्॥
अथ शब्दो निरूप्यते। शाब्दप्रमाकरणं शब्दप्रमाणम्। शाब्दप्रमा च शब्दजन्यतात्पर्यविषयाबाधितार्थसंसर्गानुभवः। अत्र शब्दस्तज्ज्ञानं वा पदार्थस्तज्ज्ञानं वा करणम्। वाक्यार्थज्ञानं फलम्। आकाङ्क्षा, योग्यताज्ञानम्, आसत्तिः, तात्पर्यज्ञानं चेति चत्वारि सहकारिकारणानि। तत्र पदार्थानां परस्परापेक्षाविषयत्वमाकाङ्क्षा। क्रियाश्रवणे कारकस्य कारकश्रवणे क्रियायाश्चापेक्षाविषयत्वात्। अपेक्षाशून्यतादशायामपि शाब्दबोधात् योग्यत्वमुपात्तम्। तच्चापेक्षाविषयतावच्छेदकधर्मवत्त्वम्। जिज्ञासात्मकापेक्षाविरहदशायामपि तद्विषयतावच्छेदकक्रियात्वकारकत्वादिधर्मसद्भावान्न दोषः। योग्यता च तात्पर्यविषयसंसर्गाबाध। यथा - पयसा सिञ्चेदित्यादौ। अग्निना सिञ्चेदित्यादौ तदभावान्न योग्यता। स प्रजापतिरात्मनोवपामुदख्खिदत् इत्यादावपि तात्र्यविषयतूपरपशुप्रशस्त्याबाधात् योग्यतोपपत्तिः। पदजन्यपदार्थौपस्थितिरासक्तिः। मानान्तरोपस्थापितपदार्थान्ाामन्वयबोधविरहात् पदजन्येति। अत एव द्वारमित्यादौ पिधेहीति पदाध्याहारः। एवमिषेत्वेत्यादौ छिनद्मीति पदाध्याहारः। यद्दपि लिङ्गादिविधया पदजन्योपस्थितिविषयस्यान्वयबोधप्रसङ्गः। तथापि वृत्त्या पदजन्यत्वस्य विवक्षितत्वान्न दोषः।
वृत्तिस्त्रिविधा - शक्तिः, लक्षणा, गौणी चेति। तत्र शक्तिः पदानामर्थेषु मुख्या वृत्तिः। यथा - घटपदस्य घटत्वजातौ। सा च पदार्थान्तरम्। तद्विषयोऽर्थः शक्य इत्युच्यते। तत्र जातेरेव शक्यत्वं न तु व्यक्तीनाम्, आनन्त्यात्। कथं तर्हि गवादिपदाद्व्यक्तिलाभ इति चेत्, जातेः व्यक्तिसमानवित्तिवेद्दत्वादिति ब्रूमः। अथवा लक्षणया आक्षेपाद्वा व्यक्तिलाभ इति। बोध्यसम्बन्धो लक्षणा। सा च पदस्येव वाक्यस्यापि। यथा - गङ्गायां घोष इत्यादौ गङ्गादिपदस्य तीरे, **वायुर्वै क्षेपिष्ठा **इत्याद्दर्थवादवाक्यस्य च प्राशस्त्ये। सा द्विविधा - केवललक्षणा लक्षितलक्षणा चेति। साक्षात्सम्बन्धरूपा केवला। गङ्गायां घोष इत्यादौ प्रवाहसंयोगः।द्वारे परम्परासम्बन्धरूपा लक्षितलक्षणा। यथा द्विरेफादिपदस्य भ्रमरे। तत्र हि द्विरेफपदबोध्यस्य रेफद्वयस्य भ्रमरे स्वघटितपदवाच्यत्वरूपः परंपरासम्बन्ध एव। पुनरपि लक्षणा द्विविधा - जहल्लक्षणा अजहल्लक्षणा चेति। यत्र वाच्यर्थस्याभानम्, सा जहती। यथा - गङ्गायां घोष इत्यादौ केवलतीरे। गङ्गातीरे लक्षणायां तु अजहल्लक्षणैवेति केचित्। पदार्थान्तरेणानन्वयात्तत्रापि जहत्येवेत्यन्ये। यत्र वाच्यार्थस्य भानम्, सा अजहती।यथा छत्रिणो यन्तीति। तत्र हि छत्र्यच्छत्रिसाधारणैकसार्थवाहित्वावच्छिन्ने लक्षणा। लक्ष्यमाणगुणसम्बन्धरूपा वृत्तिर्गौणी। यथा - सिंहो माणवक इत्यत्र सिंहशब्दस्य माणवके। तत्र हि सिंहशब्दलक्ष्यस्य सिंहगतशौर्यस्य स्वसदृशशौर्यरूपसंम्बन्धात् माणवकबोधः। खपुष्पं भवत्सिद्धान्त इत्यत्रापि खपुष्पादिगताप्रामाणिकत्वादिसदृशाप्रामाणिकत्ववत्त्वं सिद्धान्तेऽस्तीति गौणीनिर्वाहः। असतोऽपि शब्दजन्यज्ञानविषयत्वाङ्गीकारात्। भावरूपधर्मानाधारत्वेऽपि अभावरूपधर्माधारत्वाङ्गीकाराच्च। तात्पर्यं च तदर्थप्रतीतिप्रयोजनकत्वम्। तच्च न तदर्थप्रतीतिगोचरवकᐃत्रच्छारूपम्। वेदे अपौरुषेये तदसंभवात्। किं तु तदन्यार्थप्रतीतीच्छया अनुच्चरितत्वे सति तदर्थप्रतीतिजननस्वरूपयोग्यत्वं तादृशप्रतीतिजनकतावच्छेदकशक्तिमत्त्वरूपम्। कारणेषु सर्वत्र कार्यानुकूलशक्त्यङ्गीकारात्। यदा लवणबोधतात्पर्येण सैन्धवमानयेत्युक्तम् ; तदापि अश्वबोधस्वरूपयोग्यताया अनपायात् अश्वतात्पर्यवारणाय सत्यन्तम्। घटादिवारणाय विशेष्यम्। यद्दपि ईदृशतात्पर्यम् आर्थवादिकयथाश्रुतार्थसाधारणमिति तत्र तात्पर्याविषयत्वव्यवहारानुपपत्तिः। तथापि न्याययुक्तार्थप्रतीतिजननस्वरूपयोग्यत्वमेव वैदिकवाक्ये तात्पर्यमित्याङ्गीकारान्न दोषः। ईदृशतात्पर्यनिर्णयस्य न्यायनिर्णयाधीनतया तन्निर्णयाय मीमांसाप्रवृत्तिः। अलौकिक एव वा तत्प्रीतिच्छासमानाकारः वेदवाक्यनिष्ठः वेदे तात्पर्यम्। तन्निर्णयश्च मीमांसया। लोके तु तत्प्रतीतिगोचरवकᐃत्रृच्छैव तत्। तच्च प्रकरणादिना ज्ञेयम्। ईश्वरेच्छैव वा वेदे तात्पर्यमित्यपि शक्यं वक्तुम्।
तच्च शब्दप्रमाणम् द्विविधम् - पौरुषेयमपौरुषेयं च। पौरुषेयमाप्तवाक्यम्। अपौरुषेयं वेदवाक्यम्। तच्च द्विविधम् - मन्त्रब्राह्मणभेदात्। अभियुक्तानां मन्त्रपदवाच्यत्वप्रकारकनिश्चयविषयो मन्त्रः। मन्त्रपदवाच्यतावच्छेदकश्चाखण्डोपाधिः मन्त्रभिन्नवेदत्वम्, अखण्डोपाधिर्वा ब्राह्मणत्वम्। यत्तु विधायकत्वं ब्राह्मणत्वमिति, तन्न। मन्त्रकाण्डसमाम्नाते वसन्ताय कपिञ्जलानालभेत इति मन्त्रेऽतिप्रसङ्गात्। ब्राह्मणं द्विविधम् - विध्यर्थवादभेदात्। प्रवर्तनानिवर्तनान्यतरबोधकं वाक्यं विधिः। प्रवर्तनानिवर्तने प्रवृत्तिनिवृत्तिजनकव्यापारौ। तौ च लोके अयमत्र प्रवर्ततामयमस्मान्निवर्ततामित्याकारकपुरुषाशयरूपौ। वेदे तु तदसंभवात् लिङ्गादिनिष्ठौ उक्तपुरुषाशयसमानाकारौ अलौकिकौ धर्मौ; वेदस्थलिङ्गादिप्रेरितो यजे इति व्यवहारात्। तत्र नञ्समभिव्याहाररहितलिङ्गादिना प्रवर्तना, तत्सहितलिङ्गादिना च निवर्तनाऽभिधीयते। शक्यतावच्छेदकस्तु इच्छाऽलौकिकधर्मोभयसाधारणो विषयिताविशेषः।
विधिश्चतुर्विधः - उत्पत्तिविनियोगप्रयोगाधिकारविधिभेदात्। तत्र कर्मस्वरूपबोधको विधिरुत्पत्तिविधिः। कर्मस्वरूपबोधकत्वं च कर्मस्वरूपनिष्ठाज्ञातज्ञाप्यत्वशब्दित -विधेयताख्यविषयताविशेषशालिबोधतात्पर्यकत्वम्। भवति चेदम् अग्निहोत्रम् जुहोति इत्यादौ। तेन कर्मस्वरूपस्यैवाज्ञातस्य ज्ञापनात्। इष्टसाधनताबोधको विधिर्विनियोगविधिः। यथा - **अग्निष्टोम**े _प्रवृणक्ति _ इति। अनेन हि प्रवर्ग्यस्य अग्निष्टोमोपकाररूपेष्टसाधनता अज्ञाता ज्ञाप्यते। एवम् **_अग्निहोत्रं जुहुयात्स्वर्गकामः _**इत्याद्दपि ग्राह्यम्। तत्र हि स्वर्गसाधनता अज्ञाता ज्ञाप्यते। परन्तु न विनियोगमात्ररूपम्। कृतिसाध्यत्वबोधको विधिः प्रयोगविधिः। यथा - अस्मिन् काले अस्मिन् देशे साङ्गप्रधानं कुर्यादित्येवं रूपः। अधिकारबोधको विधिरधिकारविधिः। यथा दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत इति। क्वचिदेकस्य विधिद्वयरूपत्वं विधित्रयरूपत्वं विधिचतुष्टयरूपत्वं च सम्भवति। यथा - समिधो यजति इत्यस्य उत्पत्तिविनियोगोभयपरत्वम्; प्रयोगाधिकारयोरन्यतः सिद्धत्वात्। ज्योतिष्टोमेन स्वर्गकामो यजेत इत्यस्य विनियोगाधिकारप्रयोगपरत्वम्। उत्पत्तेः सोमेन यजेत इत्यनेनैव सिद्धत्वात्। _उद्भिदा यजेत पशुकामः _ इत्यस्य चतुष्टयरूपत्वम्। कस्याप्यन्यतः सिद्धत्वविरहात्।
पुनरपि विधिस्त्रिविधः - अपूर्वविधिर्नियमविधिः परिसंख्याविधिश्चेति। तदुक्तम् - विधिरत्यन्तमप्राप्ते नियमः पाक्षिके सति। तत्र चान्यत्र च प्राप्ते परिसङ्ख्येति गीयते इति। तत्रात्यन्ताप्राप्तप्राप्तिफलको विधिरपूर्वविधिः। यथा - _व्रीहीन् प्रोक्षति _ इति। अत्र एतद्विध्यभावे व्रीहिप्रोक्षणं कथमपि न प्राप्नोतीति तत्प्राप्तिफलकत्वाल्लक्षणसंगतिः। पाक्षिकप्राप्तस्य अप्राप्तांशपरिपूरणरूपनियमफलको विधिर्नियमविधिः। यथा - व्रीहीनवहन्ति इति। अत्र एतद्विध्यभावे वैतुष्यरूपकार्याय अवघातस्य निखविदलनादीनां च पाक्षिकी आक्षेपतः प्राप्तिरिति अवघातनियमार्थमेव विधानमिति लक्षणसमन्वयः। न च नखविदलनादिनिवृत्तिरेव विधिफलमस्त्विति वाच्यम्। नियमस्य विधेयावघातप्रत्यासन्नत्वेन तस्यैव फलत्वात्। नियमो हि दर्शपूर्णमासिकसकलव्रीहिसम्बन्धित्वरूपो विधेयावघातनिष्ठः। अतः अवघातविधेः प्रयोजनाकाङ्क्षायां तस्यैव शीघ्रमुपस्थित्य प्रयोजनत्वकल्पनं युक्तम् ; न तु नखविदलनादिनिवृत्तेरिति। यत्तु नियमस्यैव इह विधेयत्वमिति। तन्न, व्रीहीणां पुरोडाशसाधनत्वान्यथानुपपत्त्या वैतुष्ये प्राप्ते वैतुष्यार्थं लोकस्यार्थमवघाते विहिते वैतुष्यसाधनाकाङ्क्षायाः शान्तेराक्षेपानुन्मेषात् नियमसिद्ध्या तस्य विधानानावश्यकत्वात्। अन्यथा स्वार्थत्यागादिप्रसङ्गात्। उभयत्र नियतप्राप्तौ एकनिवृत्तिरूपपरिसङ्ख्याफलको विधिः परिसङ्ख्याविधिः। यथा **इमामगृभ्णन रशनामृतस्येत्यश्वाभिधानीमादत्त**े इति। अत्र हि एतद्विध्यभावे रशनाग्रहणप्रकाशनसामर्थ्यरूपाल्लिङ्गात् अश्वरशनादाने गर्दभरशनादाने च मन्त्रस्य नियता प्राप्तिरिति गर्दभरशनातो मन्त्रनिवृत्तिर्विधिफलमिति लक्षणसंगतिः। परिसङ्ख्या द्विविधा - प्राप्तपरिसङ्ख्या अप्राप्तपरिसङ्ख्या चेति। तत्राद्दा - पञ्च पञ्च नखा भक्ष्याः इति। अत्र हि पञ्चनखभक्षणं न विधेयम्, रागप्राप्तत्वात्, किं तु पञ्चातिरिक्तपञ्चनखभक्षणस्य रागप्राप्तस्य निवृत्तिरूपा परिसङ्ख्यैवेति भवदीयं प्राप्तपरिसंख्या। अस्यां च परिसंख्यायां त्रैदोष्यम्। दोषाश्च - स्वार्थत्यागः, परार्थस्वीकारः, प्राप्तबाधश्च। अत्र पञ्चनखभक्षणस्य स्वार्थस्य रागप्राप्तत्वेन विधेयत्वासंभवात्त्यागः। पञ्चातिरिक्तपञ्चनखभक्षणनिवृत्तेः परार्थस्य च स्वीकारः। रागप्राप्तस्य पञ्चातिरिक्तपञ्चनखभक्षणस्य च बाध इति भवति त्रैदोष्यम्। द्वितीया तु इमामगृभ्णन् इत्यादिका। अत्र लिङ्गकल्प्यश्रुत्या उभयत्र विनियोगे तत एव मन्त्रस्य प्रयोजनाकाङ्क्षाशान्तेर्लिङ्गात् श्रुतिकल्पना नावतरतीति अप्राप्तपरिसङ्ख्या। नात्र त्रैदोष्यम्; अश्वरशनाङ्गत्वस्य स्वार्थस्यैव विधेयत्वात्, लिङ्गकल्प्यश्रुतेः पूर्वमेव प्रत्यक्षवचनप्रवृत्तेः। अत एव न परार्थस्वीकारः। नापि प्राप्तबाधः, लैङ्गिकश्रुतिकल्पनाप्रतिबन्धेन गर्दभरशनाङ्गत्वस्याप्राप्तेः॥
अर्थवादश्चतुर्विधः - निन्दा, प्रशंसा, परकृतिः, पुराकल्पश्च। निन्दा यथा - **_अश्रुजं हि यो बर्हिषि ददाति पुरास्य संवत्सराद्गृहे रुदन्ति _**इति। प्रशंसा यथा - आग्नेयी वा एषा यदजा वायुर्वै क्षेपिष्ठा देवता इत्यादि। परकृतिः बबरः प्रावाहणिरकामयत इत्यादि। पुराकल्पो यथा - **इदं वा अग्रे नैव किंचनासीत**् इत्यादि। पुनरनर्थवादस्त्रिधा - गुणवादः, अनुवादः, भूतार्थवादश्चेति। तदुक्तम् - विरोधे गुणवादः स्यादनुवादोऽवधारिते। भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः इति। प्रमाणान्तरबाधितविषयः आद्दः। प्रमाणान्तरावगतविषयो द्वितीयः। अनवगताबाधितविषयस्तृतीय इत्यर्थः। आद्दो यथा - **स प्रजापतिरात्मनो वपामुदख्खिदत**् इत्यादि। द्वितीयो यथा - **अग्निर्हिमस्य भेषजम**् इति। तृतीयो यथा - वज्रहस्तः पुरन्दरः इत्यादि। अत्र भूतार्थवादवशात् देवताविग्रहादिसिद्धिस्तु न अर्थवादानां वक्ष्यमाणरीत्या प्राशस्त्याप्राशस्त्ययोरेव तात्पर्यात्तादृशार्थे तात्पर्यविरहादिति वदन्ति।
॥अथ प्रथमाध्यायः॥
॥अथ प्रथमपादः॥
वेदे तात्पर्यनिर्णयो मीमांसयेत्युक्तम्। तत्र मीमांसा वेदवाक्यतात्पर्यनिर्णयौपयिकन्यायनिरूपणात्मिका द्वादशलक्षणी। संकर्षचतुर्लक्षणी तु द्वादशलक्षणीविचारितार्थस्यैव वैशद्दहेतुतया न पृथग्गण्यते। औपनिषदास्तु सङ्कर्षचतुर्लक्षणीं द्वादशलक्षण्यनिरूपितदेवतानिरूपणार्थामाचक्षते। लक्षणान्यध्यायाः। तत्र तृतीयषष्ठदशमाध्यायाः पादाष्टकपरिमिताः। अन्ये पादचतुष्टयपरिमिताः। तत्र सहस्रमधिकरणानीति प्रसिद्धिः। अधिकरणलक्षणं च **_विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम्। सङ्गतिश्चेति पञ्चैते प्राञ्चोऽधिकरणं विदुः_** इत्युक्तम्।**_ प्रयोजनं च पञ्चाङ्गं प्राञ्चोऽधिकरणं विदुः_** इति पाठान्तरम्। तत्राङ्गशब्दोऽवयवपरस्सन् **_रथगजादयः सेनाङ्गानि_** इत्यत्रेव घटकमाचष्टे। तथा च विषयादिपञ्चकसमुदायत्वं तादृशषट्समुदायत्वं वा अधिकरणत्वमिति पर्यवसितम्। केचित्तु विषयसंशयसंगतिसंशयोत्थानकारणतदर्थसंशयफलफलिभावपूर्वपक्षसिद्धान्तन्याययद्वयतत्फलद्वयसहितं दशाङ्गमधिकरणमित्याहुः। तत्र अभिधानप्रयोजन(न)कसम्बन्धः संगतिः। सा च षोढा - शास्त्रसंगतिः, षट्कसंगतिः, अध्यायसंगतिः, पादसंगतिः, पेटिकासंगतिः, अधिकरणसंगतिश्चेति। तत्र शास्त्रप्रतिपाद्दत्वतात्पर्यविषयार्थनिर्णयजनकत्वरूपः शास्त्रसम्बन्धः शास्त्रसंगतिः। इयं च शास्त्रान्तर्गततया अभिधाने प्रयोजिका। एवं षट्कादिसंगतिरपि बोध्या। शास्त्रादिप्रतिपाद्दत्वतात्पर्यविषयीभूतार्थः अनन्तरमेव वक्ष्यते। अधिकरणसंगतिस्तु अनन्तराभिधाने प्रयोजिका। अत एव सा अनन्तरसंगतिरिच्युते। सा च षट्िवधा - आक्षेपसंगतिः, दृष्टान्तसंगतिः, प्रत्युदाहरणसंगतिः, उपोद्घातसंगतिः, अपवादसंगतिः, प्रसङ्गसंगतिश्चेति। तत्र पूर्वाधिकरणसिद्धान्तस्य अनुपपन्नत्वशङ्कया उत्तराधिकरणपूर्वपक्षोत्थाने आक्षेपसंगतिः। पूर्वाधिकरणसिद्धान्तन्यायदृष्टान्तेनोत्तराधिकरणपूर्वपक्षोपन्यासे दृष्टान्तसङ्गतिः। पूर्वाधिकरणसिद्धान्तन्यायाविषयत्वमवलम्ब्य पूर्वपक्षोपन्यासे प्रत्युदाहरणसंगतिः। प्रकृतसिद् ध्यर्थत्वमुपोद्घातसंगतिः। पूर्वाधिकरणसिद्धान्तन्यायमवलम्ब्य पूर्वपक्षोत्थाने अपवादसंगतिः। उक्तसंगतिपञ्चकव्यतिरिक्तः स्मृतिप्रयोजकसम्बन्धः, प्रसङ्गसंगतिः।
तत्र अथातो धर्मजिज्ञासा इति प्राथमिकसूत्रेण कृत्स्नस्यापि शास्त्रस्य धर्मविचाररूपता प्रतिज्ञाता। अनेन शास्त्रप्रतिपाद्दत्वतात्पर्यविषयो धर्म इत्युक्तं भवति। तत्र पूर्वषट्के उपदेशविचारः, उत्तरषट्के चातिदेशविचारः। इत्थं कुर्यादित्युपदेशः, तद्वत्कुर्यादित्यातिदेशः। तत्र द्वादशाध्यायार्था इत्थं संगृहीताः - धर्मधीर्मानभेदाङ्गप्रत्युक्तिक्रमकर्तृभिः। सातिदेशविशेषोहबाधतन्त्रप्रसक्तिभिः इति।
तत्र अथातो धर्मजिज्ञासा इतीदमाद्दमधिकरणं कृत्स्नस्यापि शास्त्रस्य उपोद्घाततया आरम्भणीयतासमर्थनपरम्। तथाहि - अत्र चोदनालक्षणोऽर्थो धर्मः इत्यारभ्य कृत्स्नं मीमांसाशास्त्रं विषयः। किमिदं विचारशास्त्रमारम्भणीयं न वेति विशयः। तदर्थं किमिदं विधिप्रयुक्तमुत नेति, तदर्थं स्वाध्यायोऽध्येतव्यः इति विधिः स्वर्गार्थमध्ययनं विधत्ते उतार्थज्ञानार्थमिति। तत्र यदि स्वर्गार्थमध्ययनं विधत्ते, तदा विचारस्य विधिप्रयुक्तत्वाभावात् विचारशास्त्रमनारम्भणीयमिति पूर्वपक्षे फलफलिभावः। यद्दर्थज्ञानार्थमध्ययनं विधत्ते, तदा विचारमन्तरेणार्थनिर्णयासंभवाभावात् विचारस्य विधिप्रयुक्ततया स्मृत्यादिबाधायोगात् विचारशास्त्रमारम्भणीयमिति सिद्धान्ते फलफलिभावः। तत्र स्वाध्यायोऽध्येतव्यः इति विधिर्नार्थज्ञानार्थमध्ययनं विधत्ते, अध्ययनस्यार्थज्ञानसाधनतया लोकसिद्धत्वे विधानायोगात्। अप्राप्ते हि शास्त्रमर्थवत्। न च व्रीहीनवहन्ति इत्यादाविव नियमार्थं विधानमस्तु, लिखितपठनादिनाप्यर्थज्ञानसंभवेन गुरुपूर्वकाध्ययनस्य नियमेनाप्राप्तेरिति वाच्यम्, नियमस्यानुपयोगात्। व्रीहीनवहन्ति इत्यादौ तु प्रकरणाद्दर्शपूर्णमासापूर्वोपस्थितेरवघातनियमस्यापूर्वद्वारा तत्रोपयोगसंभवान्नियमविधित्वं युज्यते। इह तु अध्ययनविधेरनारभ्याधीततया कस्यचिदपि क्रतोरनुपस्थितेर्नियमस्य उक्तरीत्या उपयोगकल्पनानुपपत्तेर्न नियमविधित्वं संभवति। अतो वक्ष्यमाणविश्वजिन्न्यायेन स्वर्गार्थमेवाध्ययनं विधीयत इत्याश्रयणीयम्। न च विचारस्य वैधत्वविरहेऽपि क्षत्यभावः। साङ्गाध्ययनजन्यापातप्रतीत्या तन्निर्णयाय फलविचारे रागत एव प्रवृत्तयुपपत्तेरिति वाच्यम्। अधीत्य स्नायात् इति स्मृतिविरोधेन रागतः प्रवृत्त्यसंभवात्। अनया हि स्मृत्या अध्ययना नन्तर्यं समावर्तने बोध्यते। तच्च विचारारम्भे बाध्यते ; तदर्थं गुरुकुलवासावश्यंभावात्। अतो नारम्भणीयमेव विचारशास्त्रमिति प्राप्ते - दृष्टे संभवति अदृष्टकल्पनानुपपत्तेर्न स्वर्गार्थमध्ययनं विधीयते। संभवति चार्थज्ञानं दृष्टमेव फलमध्ययनस्य; न च विधिवैयर्थ्यम्; नियमार्थत्वसम्भवात् । न च नियमानुपयोगः शङ्क्यः । स्वाध्यायबोधिताशेषक्रतुजन्यापूर्वेषूपयोगसम्भवात्, स्वाध्यायाध्ययनस्य क्रतुज्ञानसाधनतया तदुपस्थितेरिति प्राञ्चः। नव्यास्तु - अर्थज्ञानार्थमध्ययनविधाने अर्थस्य प्रयोजनत्वमन्तरा तज्ज्ञानस्य फलत्वानुपपत्या कृत्स्नस्यापि स्वाध्यायस्य प्रयोजनवदर्थतात्पर्यकत्वासिद्ध्या आर्थवादिकयथाश्रृतार्थस्य निष्प्रयोजनतया तत्र अर्थवादानां तात्पर्यासम्भवात् प्रयोजनवति प्राशस्त्यादावेव तात्पर्यस्य वाच्यतया तत्र लक्षणासिद्धौ अर्थवादाधीनप्राशस्त्यज्ञानेनैवानुष्ठाने फलसिद्धिर्नान्यथेत्येवं नियमसिद्धेर्न विधिवैयर्थ्यमिति वदन्ति। सर्वथा अर्थज्ञानार्थमेवाध्ययनं विधीयत इति सिद्धम्। इत्थं चार्थनिर्णयस्य विचारमन्तरेणासंभवाद्विचारस्य विधिप्रयुक्तत्वसिद्ध्या आरम्भणीयमेव मीमांसाशास्त्रम्। न च _अधीत्य स्नायात् _ इति स्मृत्यवगतनैरन्तर्यबाध इति वाच्यम्। **समानकर्तृकयोः पूर्वकाल**े इति विहितस्य क्त्वाप्रत्ययस्य समानकर्तृकत्वसहितपौर्वापर्यमात्रबोधकतया नैरन्तर्याबोधकत्वात्। व्यवधायककारणाभावे परं नैरन्तर्यं प्रतीयेत। इह तु विधिफलप्राप्तविचारस्य व्यवधायकस्य सत्वान्न तत्प्रतीतिः सम्भवतीति।
इत्थं प्रथमाधिकरणेन धर्मविचारस्यारम्भणीयत्वे समर्थिते चोदनालक्षणोऽर्थो धर्मः इति द्वितीयसूत्रेण धर्मस्य लक्षणमुच्यते। अस्मिन् शास्त्रे धर्मापवादतया अधर्मनिरूपणमपि विवक्षितम्। तत्र वेदैकगम्येष्टसाधनत्वं धर्मत्वम्, वेदैकगम्यानिष्टसाधनत्वमधर्मत्वम्। विध्यर्थवादमन्त्रस्मृत्याचारनामधेयवाक्यशेषसामर्थ्यादष्टौ धर्मप्रमाणानि प्रथमाध्याये निरूपितानि। तत्र प्रथमपादेन तर्कपादाभिधानेन विधेर्धर्मप्रामाण्यनिरूपणम्।
तथाहि - यजेत स्वर्गकामः इत्यादावाख्यातेन आख्यातत्वेन व्यापाररूपा वा कृतिरूपा वा आर्थभावनाभिधीयते। लिङ्त्वेन रूपेण प्रवर्तनारूपा शाब्दभावना, तत्रार्थभावनायां प्रवर्तनायाः स्वज्ञानाधीनेष्टसाधनत्वानुमितिजन्यत्वरूपप्रयोज्यत्वसम्बन्धेनान्वयः। सर्वत्र प्राथमिकबोधे तत्तत्संबन्धानां सम्बन्धत्वेन स्वरूपतो वा भानम् ; पश्चाद्दोग्यतावशात् ताद्रूप्येणावधारणम्। एवं धात्वर्थस्य यागस्य करणतासम्बन्धेन भावनायामन्वयः। सर्वत्र धात्वर्थस्य कर्मत्वकरणत्वान्यतरसम्बन्धेन भावनान्वय इति सिद्धान्तात्। पचतीत्यादौ पाकं करोतीति, ओदनं पचतीत्यादौ पाकेनौदनं करोतीति च विवरणदर्शनात्। तत्र यद्दपि धात्वर्थनिष्ठकरणतानिरूपकत्वं भावनायां बाधितम्, तस्याः धात्वर्थाजन्यत्वात्,प्रत्युत धात्वर्थयागस्यैव तज्जन्यत्वाच्च। तथापि स्वनिष्ठकरणतानिरूपकोद्देश्यकत्वमेव धात्वर्थस्य भावनायां सम्बन्धः। दर्शितसम्बन्धस्य च करणताघटितत्वात्, करणतासम्बन्धेनान्वय इत्युच्यते। स्वर्गादेस्तु कर्मतयान्वयः। कर्मत्वं च साध्यत्वम्। तत्र प्राथमिकबोधे उक्तसंबन्धाभ्यां यागस्वर्गयोर्भावनायामन्वयेऽपि स्वर्गो यागसाध्य इति बोधः पार्ष्ठिको भवति। तत्राख्यातेन लिङ्त्वादिनाभिहितायाः प्रवर्तनायाः विषयाकाङ्क्षायां सन्निहितार्थभावनैव विषयतयावगम्यते। मृदस्ति घटं करिष्यामीत्यादौ मृन्मयघटप्रतीतिवत्। एवं प्रवृत्तिरूपार्थभावनाया अपि विषयाकाङ्क्षायां धात्वर्थो विषयतयावगम्यते; ततश्च यागादौ प्रवर्तनाविषयप्रवृत्तिविषयत्वसिद्धौ प्रवर्तनाश्रयस्य वेदस्य प्रतारणाद्दनधीनहिताहितज्ञानप्रयोजकत्वरूपाप्तत्वनिश्चयात् इष्टसाधनत्वव्याप्यस्य आप्तप्रवर्तनाविषयप्रवृत्तिविषयत्वस्य यागादौ सिद्ध्या तत्रेष्टसाधनत्वानुमित्या प्रवृत्तिरिति प्रवर्तनाप्रयोज्यत्वं स्वज्ञानाधीनेष्टसाधनत्वानुमितिजन्यत्वरूपं प्रवृत्तिरूपार्थभावनायामुपपद्दते। इत्थं च वेदानधीनज्ञानाविषयत्वरूपवेदैकगम्यत्वोपलक्षितस्वर्गरूपेष्टसाधनत्वात्मकर्धर्मत्वविशिष्ट -यागादिप्रमितिप्रयोजकत्वरूपं धर्मप्रामाण्यं विधेरव्याहतमेवेति॥
ननु उत्पादयेदिति कुर्यादिति वा उक्ते किं केन कथमित्याकाङ्क्षात्रयस्य नियमेनोत्पत्त्या भावनायाः कर्मकरणेतिकर्तव्यतालक्षणांशत्रयवत्त्वनियमेऽपि अनुभवानुरोधेन कर्माकाङ्क्षाया एव प्राथम्यात् समानपदोपात्तयागस्य तत्र कर्मतचयैवान्वयावश्यंभावात् कथं करणतयान्वय इति चेदुच्यते - आख्याताभिहितायामार्थभावनायां तेनैव लिङ्गत्वादिना अभिहिता प्रवर्तनारूपा शाब्दभावना प्रयोज्यतासम्बन्धेनान्वेतीत्युक्तम्। इत्थं च दुःखरूपयागादेरार्थभावनायां कर्मतयान्वये आख्यातावगतं शाब्दभावनारूपविधेः प्रवर्तकत्वं व्याहन्येत। अतः भिन्नपदोपात्तस्यापि स्वर्गादेरेव कामपदसमभिव्याहारेण इष्टतयावगतस्य कर्मतयान्वयात् धात्वर्थस्य करणतयैवान्वय इति। ननु स्वर्गस्य कथं भावनायां विशेषणता, समासघटकपूर्वपदार्थस्य समासघटकपदार्थे विशेषणतयान्वययायोगादिति चेन्न, स्वर्गकामपदस्य स्वर्गे प्रथमायाश्च कर्मत्वे लक्षणाङ्गीकारात्, स्वर्गकामपदं यथाश्रुतमेव ; द्वितीयान्तस्वर्गादिपदाध्याहार इत्यपि वदन्ति॥
ननु वेदस्य वाक्यसमूहतया भारतादिवत् पौरुषयत्वमावश्यकम्। अत एव काठकादिसमाख्याप्युपपद्दते। इत्थं च तदन्तर्गतविधेरपि पौरुषेयतया पुरुषदोषाणां भ्रमप्रमादविप्रलिप्साकरणापाटवानामनिवार्यतया कथं तस्य प्रामाण्यसम्भव इति चेदुच्यते - न हि वेदस्य पौरुषेयत्वसम्भवः; कर्तृस्मरणाभावात्। न चान्धकूपादिवत् अनादरेण कर्तृस्मरणाभावोपपत्तिरिति वाच्यम्। अद्द यावन्महीयसा आदरेण परिपाल्यमानस्य वेदस्य कर्तृत्वे तत्र अनादरायोगेन तत्स्मरणावश्यंभावात्। काठकादिसमाख्या तु प्रवचननिमित्तैव। इत्थं च वेदस्यापौरुषेयत्वे सिद्धे तदन्तर्गतचोदनापरपर्यायविधेरपि अपौरुषेयतया पुरुषदोषासंस्पर्शात् प्रामाण्यमुपपद्दत इति॥
इति प्रथमाध्यायस्य प्रथमः पादः
अथ द्वितीयः पादः
द्वितीयेन पादेनार्थवादमन्त्रयोर्धर्मप्रामाण्यनिरूपणम्। तथा हि - _वायुर्वै क्षेपिष्ठा _- अश्रु जँहि इत्याद्दर्थवादानां किं धर्माधर्मयोः प्रामाण्यमस्ति, उत नेति विशये, तैः कस्यचिदर्थस्याविधानादनिषेधाच्च न तेषां तयोः प्रामाण्यं संभवतीति प्राप्ते उच्यते - अध्ययनविधिवशेन कृत्स्नस्यापि स्वाध्यायस्य प्रयोजनवदर्थपरत्वसिद्ध्या आर्थवादिकयथा -श्रुतार्थस्य च निष्प्रयोजनतया विधिनिषेधापेक्षितप्राशस्त्याप्राशस्त्यरूपप्रयोजनवदर्थे अर्थवादानां लक्षणामाश्रित्य संनिहितविधिनिषेधाभ्यामेकवाक्यतायाः स्वीकरणीयतया तेषां धर्माधर्मयोः प्रामाण्यमुपपद्दते। ननु कथं विधिनिषेधयोः प्राशस्त्याप्राशस्त्यापेक्षेति चेदित्थम् - नञ्समभिव्याहाररहितलिङादिना प्रवर्तनारूपायाः तत्समभिव्याहृतलिङादिना च निवर्तनारूपायाः शाब्दभावनाया अभिधानात् तस्याश्च भावनास्वाभाव्यादंशत्रयाकाङ्क्षायां प्रवर्तनायां प्रवृत्तिरूपार्थभावनायाः निवर्तनायां नञुपस्थाप्यतदभावस्य च भाव्यत्वेनान्वयः। लिङादिज्ञानम्, लिङादिशक्तिज्ञानम्, प्रवर्तनादिज्ञान्ामेव वा करणम्, स्वरूपसत्योः प्रवर्तनानिवर्तनयोः प्रवृत्तिनिवृत्त्यप्रयोजकत्वात्। करणत्वं च भावनाभाव्यनिष्पादकत्त्वम्। इह च भाव्ये प्रवृत्तिनिवृत्ती। तन्निष्पादकत्वं च लिङादिज्ञानस्याक्षतम्। परं तु उक्तकरणस्य शाब्दबोधे न भानम्, बोधकपदाभावात्। प्राशस्त्याप्राशस्त्ययोश्च इतिकर्तव्यतात्वेनान्वयः। प्रवर्तनाज्ञानेन प्रवृत्तौ जननीयायां प्राशस्त्यज्ञानस्य, निवर्तनाज्ञानेन निवृत्तौ जननीयायाम् अप्राशस्त्यज्ञानस्य च सहकारित्वात्। यजेत स्वर्गकामः, न सुरां पिबेत् इत्याभ्यां हि यागसुरापानयोः स्वर्गनरकसाधनत्वावगमेऽपि यागे तात्कालिकदुःखाधिकसुखजनकत्वरूपप्राशस्त्यज्ञानमन्तरा स्वर्गे उत्कटरागरूपा रुचिः, तात्कालिकदुःखमविगणय्य यागे प्रवृत्तिर्वा, सुरापाने तात्कालिकसुखाधिकदुःखजनकत्वरूपाप्राशस्त्यज्ञानमन्तरा नरके उत्कटद्वेषरूपा अरुचिः, तात्कालिकसुखमविगणय्य सुरापानान्निवृत्तिर्वा, नैव जायत इत्यनुभवसिद्धमेव। अतः प्रवर्तनानिवर्तनारूपाभ्यां विधिनिषेधाभ्यां स्वसाध्यप्रवृत्तिनिवृत्तिसिद्धये उक्तरूपप्राशस्त्याप्राशस्त्ये आकाङ्िक्षते एवेति। तत्र प्राशस्त्यस्य स्वज्ञानाधीनोत्कटरागजन्यत्वसंबन्धेन अप्राशस्त्यस्य च स्वज्ञानाधीनोत्कटद्वेषप्रयोज्याभावप्रतियोगित्वसम्बन्धेनाख्यातार्थकृतावन्वयः। नरकसाधनताज्ञानसहितनरकद्वेषस्य कृतिरूपप्रवृत्तौ प्रतिबन्धकतया कृत्यभावस्य द्वेषप्रयोज्यत्वम्। तत्सिद्धमर्थवादानां विध्येकवाक्यत्वम् , तच्च तदर्थान्वितस्वार्थबोधकत्वम्। तद्द्विविधम् - पदैव????5वाक्यत्वम् , वाक्यैकवाक्यत्वं चेति। तदर्थान्वितस्वार्थो यदि स्वजन्योपस्थितिविषयः तदा पदैकवाक्यत्वम् ; यथा अर्थवादानाम् ; तत्र प्राशस्त्यस्य तथात्वात्। तदर्थान्वितस्वार्थो यदि स्वजन्यशाब्दबोधविषयः, तदा वाक्यैकवाक्यत्वम् ; यथा वक्ष्यमाणं **_समिधो यजति _**इत्यादिवाक्यानां दर्शपूर्णमासविध्येकवाक्यत्वम्। तदुक्तम् - स्वार्थबोधे समाप्तानामङ्गाङ्गित्वाद्दपेक्षया। वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते इति। यद्दपि विधेः प्रवर्तकत्वान्यथानुपपत्त्यैव विधेयस्य प्राशस्त्यावगमः संभवति, तथाप्यर्थवादाम्नानबलादर्थवादैरेव प्राशस्त्यं ज्ञातव्यमिति नियमाङ्गीकारान्न वैयर्थ्यम्। उक्तनियमस्य च दृष्टप्रयोजनासंभवात् अदृष्टमेव प्रयोजनम्। तस्य च क्रतुजन्यापूर्वे उपयोगः, अवघातनियमजन्यापूर्ववत्। इत्थं च तादृशनियमादृष्टप्रयोजकीभूतप्राशस्त्यस्यापि धर्मरूपतया अर्थवादानां धर्मप्रामाण्योपपत्तिः। केचित्तु - धर्मानुष्ठानोपयोगिज्ञानजनकत्वमेव धर्मप्रामाण्यम्। एवमधर्मनिवृत्युपयोगिज्ञानजनकत्वमधर्मप्रामाण्यम्। इत्थं च उक्तरीत्या प्राशस्त्याप्राशस्त्यज्ञानयोर्धर्माधर्मप्रवृत्तिनिवृत्त्युपयोगिता अर्थवादानां धर्माधर्मप्रामाण्योपपत्तिरित्याहुः। तत्सिद्धमर्थवादानां धर्माधर्मयोः प्रामाण्यम्॥
एवं मन्त्राणामपि धर्मप्रामाण्यं संभवति। ननु यद्दपि तेषां प्रयोगकालार्थस्मरणं दृष्टमेव फलम्। न च ध्यानाद्दुपायान्तरेणापि स्मरणसंभवात् मन्त्रवैयर्थ्यमिति वाच्यम्, मन्त्राम्नानबलेन मन्त्रैरेव स्मृत्वानुष्ठाने फलसिद्धिः, नान्यथेति नियमकल्पनात्। नियमस्य दृष्टफलासंभवेन अदृष्टफलकत्वाङ्गीकारेऽपि मन्त्राणामनुष्ठानौपयिकार्थस्मरणरूपदृष्टफलसंभवात् न तत्परित्यागो युक्तः। ततश्च यथार्थज्ञानजनकत्वं तेषां समभवति। तथापि तावता न धर्मप्रामाण्यनिर्वाह इति चेदुच्यते। शाब्दबोधजनकज्ञानविषयपदानामिव तज्जनकोपस्थितिविषयपदार्थानामपि शाब्दबोधे करणत्वमङ्गीक्रियते। इत्थं च **_उरु प्रथस्व _**इति पुरोडाशं प्रथयति, इमामगृभ्णन् रशनामृतस्येत्यश्वाभिधानीमादत्ते इत्यादिषु मन्त्रविनियोजकवाक्येषु मन्त्राणां पदार्थविधया शाब्दबोधकरणत्वसत्वात् धर्मप्रामाण्योपपत्तिः॥
इति प्रथमाध्यायस्य द्वितीयः पादः
अथ तृतीयः पादः
तृतीयपादे स्मृत्याचारयोः धर्मप्रामाण्यनिरूपणम्। तथाहि शिष्टत्रैवर्णिकपरिगृहीतानां मन्वादिस्मृतीनां वेदमूलकत्वमेव न भ्रान्त्यादिमूलकत्वम्। भ्रान्तिहेतुभूतदोषस्य अद्द यावत् तदज्ञानस्य च कल्पने गौरवात्। मन्वादीनां त्रैवर्णिकतया वेददर्शनसंभवाच्च। अतः प्रमाणानि मन्वादिस्मृतयः। नन्वेवं सति औदुम्बरीं स्पृष्ट्वोद्गायेत् इति श्रुतिविरुद्धायाः औदुम्बरी सर्वावेष्टयितव्या इति स्मृतेरपि प्रामाण्यं स्यादिति चेन्न। स्मृतेः श्रुतिमूलकतयैव प्रामाण्यस्योक्ततया श्रुतिविरोधे प्रामाण्यासंभवात्। एवं वसन्तोत्सवाद्दाचाराणां स्मृतिमूलकतया प्रामाण्यम्। अत एव स्मृतिविरोधे तेषां न प्रामाण्यम्, यथा मातुलसुतापरिणयाद्दाचारस्य**_ मातुलस्य सुतामूढ्वा मातृगोत्रां तथैव च। समानप्रवरां चैव त्यक्त्वा चान्द्रायणं चरेत्_** इति स्मृतिविरुद्धतया न प्रामाण्यमिति॥
इति प्रथमाध्यायस्य तृतीयः पादः॥
अथ चतुर्थः पादः॥
चतुर्थपादे नामधेयवाक्यशेषसामर्थ्यानां धर्मप्रामाण्यनिरूपणम्। तथाहि - नामधेयत्वं चतुर्भिः प्रकारैः यौगिकवाक्यभेदतत्प्रख्यतद्व्यपदेशरूपैर्भवति। यथा उद्भिदा यजेत पशुकामः इत्यत्र उद्भित्पदं गुणविधिपरं कर्मनामधेयं वेति विशये नामधेयत्वे प्रयोजनविरहेण गुणविधिपरत्वेमेव युक्तम्। तथा सति तद्गुणेन यागानुष्ठानरूपप्रवृत्तिविशेषपरत्वसंभवात्। न च उद्भिन्नामकगुणाप्रसिद् -ध्या नैतद्दुक्तमिति वाच्यम्। उद्भिद्दते फलमनेनेति व्युत्पत्त्या कर्मणीव उद्भिद्दते भूमिरनेनेति व्युत्पत्त्या खनित्रादौ गुणेऽपि प्रवृत्तिसंभवात् इति प्राप्ते, कर्मनामधेयत्वेनैव उपपत्तौ गौरवापादकगुणविधित्वाश्रयणं न युक्तम् तथाहि - विधिप्रकाराः षट्। तत्र धात्वर्थमात्रविधिराद्दः। यथा अग्निहोत्रं जुहोति इति। इदमेव कर्मोत्पत्तिवाक्यमित्युच्यते।अत्र चाग्निहोत्रहोमेन इष्टं भावयेदिति बोधः। विधिसमभिव्याहारे धात्वर्थस्य करणतयैवान्वयस्य प्रागुक्तत्वेन इष्टसामान्यस्यैव कर्मोत्पत्तिवाक्ये भावनायां भाव्यत्वेन अन्वयबोधात्॥ अन्योद्देशेन धात्वर्थविधिर्द्वितीयः। यथा अग्निहोत्रं जुहुयात् स्वर्गकामः इति। इदमेव फलवाक्यमित्युच्यते। अत्राग्निहोत्रहोमेन स्वर्गं भावयेत् इति बोधः। अत्र भाव्यसमर्पकपदान्तरसापेक्षतया जघन्यत्वम्; विलम्बितप्रतीतिजनकत्वात्। धात्वर्थोद्देशेन अन्यविधिस्तृतीयः। यथा दध्ना जुहोति इति। इदमेव गुणवाक्यमित्युच्यते। अत्र दध्ना होमं भावयेदिति बोधः। फलवाक्येन धात्वर्थस्य इष्टसाधनत्वावगत्या इष्टत्वसंभवात् तस्य भाव्यत्वोपपत्तेः। विधिसमभिव्याहारे भावनाया इष्टभाव्यकत्वनियमादेव हि कर्मोत्पत्तिवाक्ये धात्वर्थस्य भाव्यत्वानुपपत्तिः । अत्र च विधिशक्तेः अज्ञातज्ञापकत्वदिरूपायाः भिन्नपदोपात्ते संक्रमात् ततोऽपि जघन्यत्वम्। अन्योद्देशेनान्यविधिश्चतुर्थः। यथा _दध्नेन्द्रियकामस्य जुहुयात् _ इति। इदमेव गुणकामवाक्यामिति फलाय गुणविधिरिति चोच्यते। अत्र धात्वर्थस्योद्देश्यतयाऽपि भावनान्वयविरहात् ततोऽपि जघन्यत्वम्। अत्र हि दध्ना इन्द्रियं भावयेदित्येव वाक्यार्थः। तत्र पुरुषकृतिसाध्यकिंचिद्व् यापारसंबन्धमनापन्नस्य दध्यादेः सिद्धस्य गुणस्य फलसाधनत्वे विधिवैयर्थ्यप्रसङ्गः। गुणसत्वेन पुरुषप्रवृत्तिमन्तरेणैव फलोत्पत्तिसंभवात्। अतो गुणसम्बन्धिव्यापाराकाङ्क्षारूपाश्रयाकाङ्क्षायां प्रकरणात् होम एव तथा प्रतीयते इति प्रकारणप्राप्तहोमानुवादकः। साधुत्वमात्रार्थो धातुः; न केवला प्रकृतिः प्रयोक्तव्या नापि प्रत्यय इति स्मृतेः , केवलाख्यातस्य प्रयोगानर्हत्वात्। प्राञ्चस्तु धात्वर्थहोमस्य करणतासम्बन्धेन दध्यादौ विशेषणतयान्वयः। यद्वा तृतीयान्तपदोपस्थाप्यदधिनिष्ठकरणतायाः भावनायां करणत्वेनान्वयः। करणतायां च होमादेर्निरूपितत्वसंबन्धेन तादृशकरणतायाः निरूपाकाङ्क्षैवाश्रयाकाङ्क्षेत्याहुः। गुणविशिष्टधात्वर्थविधिः पञ्चमः। यथा सोमेन यजेत इदमेव सगुणकर्मोत्पत्तिवाक्यमित्युच्यते। अत्र हि सोमशब्दस्य मत्वर्थलक्षणया सोमवत्परत्वेन सोमवता यागेन इष्टं भावयेदिति वाक्यार्थः। स्फुटीभविष्यति चेदमुपरिष्टात्। ततश्च विशेषणविध्यन्तरस्य मत्वर्थलक्षणायाश्च कल्पनीयतया ततोऽपि जघन्यत्वम्। अन्योद्देशेन विशिष्टविधिः षष्ठः। यथा सौर्यं चरुं विर्वपेत् ब्रह्मवर्चसकामः इति। तत्र तद्धितेनावगतस्य देवस्वमित्यादिव्यवहारगम्यद्रव्यदेवतासम्बन्धस्य यागादन्येनानुत्पत्तेः यागेनैवोत्पत्तिर्वाच्या। देवतोद्देश्यपूर्वकद्रव्यत्वागस्य यागरूपत्वात् तस्य विधानमन्तरेणासिद् ध्या तद्विधायकवाक्यान्तरादर्शनेन उक्तवाक्यस्यैव तद्विधाने तात्पर्यस्य वाच्यतया तात्पर्यानुपपत्त्या धातोर्यागे लक्षणा। द्वितीया च करणत्वलाक्षणिकी। द्रव्यदेवतयोरन्यत्राविनियुक्ततया व्रीहीन् प्रोक्षति इत्यादाविव संस्कार्यत्वासंभवेन शक्यार्थभूतसाध्यत्वबोधकत्वानुपपत्तेः। चर्वादिशब्दः वक्ष्यमाणरीत्या मत्वर्थलक्षणया तद्वत्परः। ततश्च चर्वादिमता यागेन ब्रह्मवर्चसं भावयेदिति वाक्यार्थः सम्पद्दते। अत्र फलपदस्याप्यपेक्षिततया ततोऽपि जघन्यत्वम्।
इत्थं च **_उद्भिदा यजेत _**इत्यत्र उद्भित्पदस्य गुणविधिपरत्वे उद्भिद्वता यागेन पशून् भावयेदिति वाक्यार्थस्य समाश्रयणीयतया षष्ठविधिप्रकारापत्तिः। नामत्वेतु द्वितीयविधिप्रकार इति नामत्वमेव युक्तम्। न च नामत्वे वैयर्थ्यम्। संकल्पादौ सार्थकत्वात्। न च फलोद्देशेन यागविधानं यागोद्देशेन च गुणविधानम् इति संभवात् विशिष्टविधिमत्वर्थलक्षाश्रयणं किमर्थमिति वाच्यम्।
विरुद्धत्रिकद्वयसामावेशेन वैरूप्यनिबन्ध्नवाक्यभेदप्रसङ्गात्। तथा हि - उद्देश्यत्वानुवाद्दत्वप्रधानत्वत्रयस्य उपादेयत्वविधित्वगुणत्वत्रयस्य चानुभवानुरोधेन एकवाक्ये एकस्मिन् वस्तुनि समावेशासंभवात् तत्समावेशे वाक्यभेद आवश्यकः। तत्र उद्देश्यत्वं कृत्युद्देश्यतया विधिविषयत्वम्। उपादेयत्वं कृतिविधेयतया विधिविषयत्वम्। विधेयत्वम् अज्ञातज्ञापनविषयत्वं प्रमाणान्तराप्रमितवस्तुनिष्ठविषयताविशेषरूपम् अनुवाद्दत्वं ज्ञातज्ञापनविषयत्वं तदतिरिक्तविषयतारूपम्। अङ्गत्वं गुणत्वम्। अङ्गित्वं प्रधानत्वम्। इत्थं च गुणविधित्वे विशिष्टविध्याश्रयणस्य मत्वर्थलक्षणायाश्चावश्यकतेति युक्तमुद्भिदादिपदं यौगिकत्वेन कर्मनामधेयमिति। एवं चित्रया यजेत पशुकामः इत्यत्र चित्रापदमपि कर्मनामधेयम्। दधिमधुघृतमित्यादिवाक्यविहितप्रकृतयागस्य चित्रद्रव्यकत्वात्। स्त्रीलिङ्गस्य च इष्ट्यभिप्रायत्वात्। न तु प्राप्ताग्नीषोमीययागानुवादेन चित्रत्वस्त्रीत्वोभयविधायकम्, वाक्यभेदप्रसङ्गात्। सौर्यं चरुं निर्वपेदित्यादौ तु यागस्यापि प्रमाणान्तरेणाप्राप्ततया द्रव्यदेवतोभयविशिष्टस्य यागस्य एकस्यैव विधानात् न वाक्यभेदः। तदुक्तम् - प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः। अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः इति। एवमग्निहोत्रं जुहोतीत्यत्राग्निहोत्रशब्दः तत्प्रख्यन्यायेन कर्मनामधेयम्। तत्प्रख्यन्यायो नाम गुणप्रापकशास्त्रान्तरसद्भावः। अग्निहोत्रहोमे हि अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा इति सायं जुहोति इति विहितमन्त्रवर्णेन देवता प्राप्नोति। मन्त्रलिङ्गादीनां देवतासम्बन्धबोधकत्वात्। तदुक्तम् - **_तद्धितेन चतुर्थ्या वा मन्त्रलिङ्गेन वा पुनः। देवतासंगतिस्तत्र दुर्बलं तूत्तरोत्तरम् _**इति । सौर्यं चरुं निर्वपेत् इत्यादौ _सास्य देवता _ इति विहिततद्धितेन देवतासम्बन्धः। _अनुमत्यै पुरोडाशमष्टाकपालम् _ इत्यादिषु चतुर्थ्या देवतासंबन्धः। त्यागोद्देश्यत्वविशिष्टप्रतिग्रहीतृत्वरूपस्य तत्समनियताखण्डोपाधिरूपस्य वा संप्रदानत्वस्य वाचिकायाश्चतुर्थ्याः त्यागोद्देश्यत्वरूपे तत्समनियताखण्डोपाधिरूपे वा देवतात्वे लाक्षणिकतया देवतात्ववाचकतद्धितापेक्षया दौर्बल्यम्। अग्निर्ज्योतिः - इत्याद्दुक्तस्थले मन्त्रलिङ्गेन देवतासम्बन्धः। अत्र देवतासंबन्धबोधकवचनस्यैव मन्त्रलिङ्गेन कल्पनीयतया लाक्षणिकचतुर्थीघटितादपि प्रत्यक्षवचनात् दौर्बल्यम्। तदेवं मन्त्रलिङ्गप्राप्तदेवतासंबन्धं निमित्तीकृत्य अग्नये होत्रमस्मिन्निति व्युत्पत्त्या अग्निहोत्रशब्दः कर्मनामधेयमिति सिद्धम्। एवं **_श्येनेनाभिचरन् यजेत _**इत्यत्र श्येनशब्दः पक्षिविशेषरूपगुणविधिपरः कर्मनामधेयं वा इति विशये प्रसिद्धेर्गुणविधिपरत्वमेवेति प्राप्ते उच्यते - यथा वै श्येनो निपत्यामिषमादत्ते एवमयं भ्रातृन्निपत्यादत्ते इति श्येनसादृश्यव्यपदेशः गुणविधिपरत्वे नोपपद्दते।
स्वस्मिन् स्वसादृश्यासंभवात्। अतोऽर्थवादाभिहितसादृश्यं निमित्तीकृत्य कर्मणि वर्तमानः श्येनशब्दः कर्मनामधेयम्। तत्सिद्धं चतुर्भिः प्रकारैः कर्मनामधेयत्वम्। नामधेयस्य च विध्येकवाक्यतायाः स्पष्टतया धर्मप्रामाण्यमिति। एवं वाक्यशेषोऽपि धर्मे प्रमाणम्। तथाहि - **_शर्करा अक्ता उपदध्यात्। तेजो घृतम् _**इत्यत्राञ्जनसाधनतया यस्य कस्यापि द्रवद्रव्यस्य उपादानम्, उत घृतमात्रस्य इति विशये तेजो घृतम् इति वाक्यशेषवशेन घृतमात्रस्यैवोपादानम्। विधिस्तुत्योरेकविषयत्वावश्यंभावादिति। एवं सामर्थ्यमपि धर्मप्रमाणम्। यथा - _स्रुवेणावद्दति। स्वधितिनावद्दति। हस्तेनावद्दति _ इत्यविशेषेण प्रतीतावपि सामर्थ्यवशात् द्रवद्रव्यावदानोद्देशेन स्रुवस्य, मांसाद्दवदानोद्देशेन स्वधितेः, पुरोडाशाद्दवदानोद्देशेन हस्तस्य च विधानमिति निर्णीयते॥
तदेवमष्टौ धर्मप्रमाणानि प्रथमाध्याये निरूपितानि॥
समाप्तश्च प्रथमाध्यायः
द्वितीयोऽध्यायः॥
द्वितीयाध्याये शब्दान्तराभ्याससंख्यानामधेयगुणप्रकरणान्तरात्मकप्रमाणषट्कगम्यः कर्मभेदो निरूपितः। कर्मभेद इति भावनाभेदो विवक्षितः। तदुपपादकत्वेन च धात्वर्थभेदनिरूपणम्। तत्फलत्वेन चापूर्वभेदप्रतिपादनम्। तत्र प्रथमे पादे भेदविचारोपोद्घाततया किंञ्चिद्विचार्यते। ननु अपूर्वे मानाभावः। आशुतरविनाशिनोऽपि यागकलञ्जभक्षणादेः स्वध्वंसद्वारेणैव कालान्तरभाविस्वर्गनरकसाधनत्वोपपत्तेरिति चेन्न। धर्मः क्षरति कीर्तनात्। प्रायश्चित्तेन नश्यन्ति पापानि सुमहान्त्यपि इत्यादिप्रमाणावगतनाशप्रतियोगित्वान्यथानुपपत्त्या ध्वंसातिरिक्तापूर्वसिद्धेः। तच्चापूर्वं प्रधानाव्यवहितोत्तरजातमुत्पत्त्यपूर्वमित्युच्यते। अङ्गापूर्वोपकृतोत्पत्त्यपूर्वेण जनितं फलपर्यन्तस्थायि फलापूर्वं महापूर्वमिति चोच्यते। तथाहि अग्निहोत्रं जुहुयात् स्वर्गकामः इत्यनेनाग्निहात्रहोमस्य स्वर्गकारकत्वे अवधारिते स्वर्गाव्यवहितपूर्ववृत्तित्वशून्यस्य होमस्य स्वर्गजनकव्यापारजनकत्वमन्तरा स्वर्गकारणत्वमनुपपन्नमिति अनुपपत्तिप्रतिसन्धानात्मकार्थापत्तिप्रमाणेन वा **होमः स्वर्गजनकव्यापारजनकः स्वर्गाव्यवहितपूर्ववृत्तित्वशून्यत्वे सति स्वर्गजनकत्वात्। या**े **_यदव्यवहितपूर्ववृत्तित्वशून्यत्वे सति यज्जनकः स तज्जनकव्यापारजनकः। यथा स्मृतिजनकसंस्कारजनकानुभवः _**इत्यनुमानेन वा होमस्य परमापूर्वकतासिद्धौ केवलस्य प्रधानस्य तदङ्गीकारे तत एव फलसंभवात् अङ्गानामानर्थक्यम्। अतोऽङ्गसहकृतस्यैव प्रधानस्य परमापूर्वजनकत्वमाश्रयणीयमिति॥
उदीच्यचरमाङ्गसमनन्तरं जायमाने परमापूर्वे प्रधानस्यापूर्वद्वारैव कारणत्वमास्थेयम्। अग्न्यन्वाधानादिब्राह्मतर्पणादीनां प्राच्योदीच्याङ्गानामपि परमापूर्वजनकत्वं न स्वरूपेण संभवतीति अङ्गापूर्वाण्यङ्गीकार्याणि। यद्दपि परमापूर्वं प्रति प्रधानवदेवाङ्गानामपि उत्पात्त्यपूर्वद्वारा कारणत्वम्, तथापि फले अङ्गानामन्यथासिद्धत्वेनाकारणतया न समप्राधान्यप्रसङ्गः। अथवा संनिपत्योपकारकाङ्गजन्यापूर्वाणां प्रधाननिष्ठोत्पत्त्यपूर्वानुकूलशक्तिजनकत्वम्। आरादुपकारकाङ्गजन्यापूर्वाणामुत्त्यपूर्वनिष्ठपरमपूर्वाद्दनुकूलशक्तिजनकत्वम्। अङ्गं द्विविधम् - संनिपत्योपकारकम्, आरादुपकारकं चेति। अङ्गिस्वरूपनिष्पादकं संनिपत्योपकारकम्। यथादर्शपूर्णमासयोरवघातप्रोक्षणादि। अङ्गिस्वरूपमित्यनेन उत्पत्त्यपूर्वानुकूल -शक्तिविशिष्टप्रधानस्य विवक्षिततया प्रोक्षणादेरपि तथात्वोपपत्तिः। उत्पत्त्यपूर्वनिष्ठतदव्यवहितकार्यानुकूलशक्तिसंपादकमारादुपव????5ारकम् ; यथा तत्रैव प्रयाजादि। यत्र प्रधानमनेकं तत्र प्रतिप्रधानमुत्पत्त्यपूर्वभेदः। परमापूर्वं तु एकमेव। दर्शपूर्णमासयोस्तु समुदायापूर्वद्वयमधिकम्। तथाहि - _यदाग्नेयोऽष्टाकपालोऽमावास्यायां च पौर्णमास्यां चाच्युतो भवति _ इत्याग्नेययागो विहितः। तत्र भूधातोः द्रव्यदेवतासंबन्धानुमिते यागे लाक्षणिकत्वस्याख्याते लेट्त्वस्य चाङ्गीकारात्। **ताभ्यामेतमग्नीषोमीयमेकादशकपालम**् इत्यग्नीषोमीययागः। उपांशुयाजमन्तरा यजति इत्युपांशुयाजः। एतानि पौर्णमास्यां प्राधानानि। **ऐन्द्रं दध्यमावास्यायाम् ऐन्द्रं पयोऽमावास्यायाम**् इति विहितसांनाय्ययागौ यदाग्नेयवाक्यविहिताग्नेययागश्चामावास्यायां प्रधानानि।
ननु षण्णां कथं प्राधान्यम्।_ दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत_ इत्याधिकारिकवाक्ये द्विवचनश्रवणेनाग्नेयद्वयस्यैव कालद्वययोगिनः एकवाक्योपादानावगतद्वित्वयोगेन फलसम्बन्धसंभवात्। इतरेषां फलवत्सन्निधौ अफलं तदङ्गमिति न्यायेनाङ्गत्वस्यैवावश्यकत्वात् इति चेन्न। समुदायानुवादिविद्वद्वाक्यद्वयवशेन षण्णां फलसम्बन्धस्य सिद्ध्या प्राधान्योपपत्तेः। तथाहि - य एवं विद्वान् पौर्णमासीं यजते। य एवं विद्वानमावास्यां यजते इति वाक्यद्वयगतलडन्तयजिना तत्तत्कालयोगिनां त्रयाणामनुवादात् समुदायद्वयं सिद्ध्यति। ततश्च दर्शपूर्णमासप्रतिपादकोपस्थापिताग्नेयादिगतबहुत्वे द्विवचनशक्यद्वित्वस्य स्वाश्रयसमुदायघटकवृत्तित्वरूपसंबन्धसिद्ध्या अधिकारवाक्यगतद्विवचनस्य बहुत्वलक्षणातात्पर्यग्राहकं विद्वद्वाक्यद्वयमिति तद्वशेन षण्णां फलसम्बन्धसिद्धिरिति॥
अन्ये तु दर्शादिशब्दस्य समुदायलक्षणातात्पर्यग्राहकं विद्वद्वाक्यमित्याहुः। तदेवं षण्णां प्राधान्यसिद्धौ प्रधानाव्यवहितजन्यानि षडुत्पत्त्यपूर्वाणि _पौर्णमास्यां पौर्णमास्या यजेत अमावास्यायाममावास्यया यजेत _ इति वाक्यद्वयेन यागकरणकानां तिसृणां त्रिकान्तरनिरपेक्षाणां साहित्यप्रतीतेः। साहित्यस्य च एककार्यनिरूपितत्वरूपतया प्रतित्रिकमेकं समुदायापूर्वमङ्गीकार्यम्। तेन च परमापूर्वमति नवापूर्वमिति।
कर्म द्विविधम्। गुणकर्मप्रधानकर्मभेदात्। तत्र संस्कारजनकं कर्म गुणकर्म। यथा व्रीहीन् प्रोक्षति व्रीहीनवहन्तीत्यादिविहितप्रोक्षणावघातादि। तत्र हि प्रोक्षणेनादृष्टसंस्कारः अवघातेन वैतुष्यरूपदृष्टसंस्कारश्च व्रीहिषु जन्यते। गुणकर्म द्विविधम्। उपयोक्ष्यमाणसंस्कारकम् उपयुक्तसंस्कारकं चेति। तत्र उपयोक्ष्यमाणसंस्कारकमपि द्विविधम्, विनियुक्तसंस्कारकं विनियोक्ष्यमाणसंस्कारकं चेति। तत्र विनियुक्तसंस्कारकं प्रोक्षणावघातादि। विनियोक्ष्यमाणसंस्कारकं यथा - तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा इति। वैश्वदेवयागे विनियोक्ष्यमाणस्य पयसः संस्कारकं दध्यानयनम्। विनियोगो नामाङ्गत्वबोधनम्। तदिदमुपयोक्ष्यमाणसंस्कारद्वयमपि उपयुक्तसंस्कारकादभ्यर्हितम्। उपयुक्तसंस्कारकं प्रतिपत्तिकर्म। उपयुक्तस्य आकीर्णकरस्य विशिष्यदेशे प्रक्षेपः प्रतिपत्तिः। प्रतिपत्तेराकीर्णकरतानिवृत्तिरेव फलम्। यथा नीतासु दक्षिणासु चात्वाले कृष्णविषाणां प्रास्यति इति विहितं कृष्णविषाणाप्रासनमुपयुक्तसंस्कारकम्। कृष्णविषाणा हि जयमानकण्डूयने उपयुक्ता। कृष्णविषाणया कण्डूयते इति वचनात्॥
प्रतिपत्तिस्त्रिधा। प्रधानपूर्वकाला प्रधानोत्तरकाला प्रधानसमकाला चेति। प्रधानपूर्वकाला यथा - पशौ शकृत् संनिरस्यति लोहितं निरस्यति इति विहितलोहितनिरसनादिरूपा। लोहितादेः वपोद्धरणोपयुक्तपशुसम्बन्धित्वेनोपयुक्तत्वात्। उपयुक्तशब्देन प्रधानयागोपयुक्तस्याविवक्षितत्वात्। उपयुक्तत्वाभावेऽपि अवस्कन्नत्वे प्रतिपत्त्यपेक्षत्वाच्च। प्रधानोत्तरकाला यथा - इडाभक्षणादिरूपा। प्रधानसमकाला च चतुरवत्तहोमरूपा। वषट्कृते जुहोति इति वचनात् वषट् कारानन्तरमेव होमोऽध्वर्युणा क्रियते। तदैव याज्यास्मारितदेवतायागः कर्तव्य इति होमस्य प्रधानसमकालत्वम्। अत्र चतुरवत्तमित्यनेन सकृदुपस्तृणाति। द्विर्हविषोवद्दति। सकृतभिघारयति इति विहितोपस्तरणादिसंस्कृतमभिधीयते। गुणकर्मातिरिक्तं कर्म प्रधानकर्म। तच्चात्मगतादृष्टजनकम्। यथा प्रयाजादिकं स्तोत्रशस्त्रादिकं च। प्रगीतमन्त्रसाध्यगुणिनिष्ठगुणाभिधानं स्तोत्रम्। अप्रगीतमन्त्रसाध्यगुणिनिष्ठगुणाभिधानं शस्त्रम्।
** इति द्वितीयाध्यायस्य प्रथमः पादः।**
** अथ द्वितीयः पादः॥**
तदेवं प्रथमे पादे कर्मभेदोपोद्घातविचारे प्रवृत्ते द्वितीयेन पादेन शब्दान्तराभ्याससंख्यानामधेयगुणैः कर्मभेदो निरूपितः। तत्र शब्दान्तरं नाम अपर्यायधातुरिति प्राञ्चः। विभिन्नधात्वर्थकत्वमिति नव्याः। यथा ज्योतिष्टोमप्रकरणे सोमेन यजेत हिरण्यमात्रेयाय ददाति दाक्षिणानि जुहोति इति। अत्र धात्वर्थभेदात् भावनाभेदः। कार्यमात्रवृत्तिजातेः कार्यतावच्छेदकत्वनियमेन विजातीययागत्वादेः कार्यतावच्छेकत्वनियमेन विजातीययागत्वादेः कार्यतावच्छेदकत्वे तदवच्छिन्नकार्यतानिरूपितकारणतावच्छेदकतया भावनासु वैजात्यसिद्धेः। अभ्यासो नाम विशेषपुनःश्रवणम्। यथा समिधो यजति तनूनपातं यजति इति । अत्र विहितस्य विधानायोगात् तनूनपाद्वाक्येन यागान्तरमेव विधीयत इति। अभ्यासात् यागभेदे सिद्धे शब्दान्तरात् भावनाभेदः। एवं संख्यादिभिरपि धात्वर्थभेदे सिद्धे शब्दान्तरादेव भावनाभेद इति बोध्यम्। तिस्र आहुतीर्जुहोति इत्यत्र संख्यया कर्मभेदः। एकत्वान्यसंख्यायाः स्वाश्रयप्रतियोगिकभेदसामानाधिकरण्यनियमात्। अथैष ज्योतिः। अथैष विश्वज्योतिः। अथैष सर्वज्योतिः। एतेन सहस्रदक्षिणेन यजेत इत्यत्र नामधेयेन कर्मभेदः। तत्र नामधेयकार्यस्य व्यवहारस्य एकेनैव सिद्धेः एकस्मिन् कर्मणि अनेकेषां नामधेयानामानर्थक्यात् नामभेदस्य कर्मभेदकत्वात्। **सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम**् इत्यत्र गुणात् कर्मभेदः। तत्र उत्पत्तिशिष्टामिक्षाद्रव्येणैव वैश्वदेवयागस्य नैराकाङ्क्ष्यात्। तत्र वाजिनद्रव्यस्य उत्पन्नशिष्टस्य निवेशासंभवेन वाजिनवाक्येन यागान्तरस्यैव विधेयत्वात्। न च परस्परापेक्षाविषयतावच्छेदकधर्मवत्वमेवाकाङ्क्षेत्युक्तम्, तथा च तादृशधर्मस्य यागत्वप्रदेयद्रव्यत्वादिरूपस्य उत्पत्तिशिष्टद्रव्यान्वयबोधे सत्यप्यक्षततया कथमाकाङ्क्षाविरह इति वाच्यम्। परस्परविषयाकाङ्क्षोत्थापकतावच्छेदकधर्मवत्त्वस्यैवाकाङ्क्षारूपतया विवक्षितत्वात्।अनवगतद्रव्यकयागत्वस्यैव द्रव्याकाङ्क्षोत्थापकतावच्छेदकतया द्रव्यावगतिसमनन्तरं दर्शिताकाङ्क्षाया असंभवात्। यत्र उत्पत्तिवाक्ये गुणाश्रवणम्, यथा अग्निहोत्रं जुहोति इति तत्र तदनुवादेन दध्ना जुहोति इत्यादिभिःसर्वैरेव खलेकपोतन्यायेन युगपत् द्रव्यविधानं विकल्पेन संभवति दर्शिताकाङ्क्षानपायादिति॥
यद्दपि विकल्पस्याष्टदोषदुष्टत्वम्। तथाहि - प्रामाण्यत्यागः, अप्रामाण्यस्वीकारः, त्यक्तप्रामाण्यस्वीकारः, स्वीकृतप्रामाण्यपरित्यागः, इति एकैकशिरसि चत्वारो दोषा इति शिरोद्वये अष्टौ दोषाः।
शिराधिक्ये च दोषाधिक्यम्। तत्र प्रथमतो दध्यनुष्ठाने पयोवाक्यस्य अनुष्ठापकत्वलक्षणस्याप्रामाण्यस्य त्यागः। अननुष्ठापकत्वलक्षणस्याप्रामाण्यस्य स्वीकारः। अनन्तरं पयोऽनुष्ठाने प्रथमप्रयोगे त्यक्तस्य प्रामाण्यस्य स्वीकारः। स्वीकृतस्य चाप्रामाण्यस्य त्यागः। दधिवाक्यस्य प्रामाण्यत्यागाप्रामाण्यस्वीकारौ। तदनन्तरं दध्यनुष्ठाने दधिवाक्यस्य त्यक्तप्रमाण्यस्वीकारस्वीकृताप्रामाण्यपरित्यागाविति प्रयोगत्रयावधिकं दोषाष्टकमिति। तथापि अगत्या विकल्पः स्वीक्रियते। सति गत्यन्तरे न युक्त एवेति।
द्वितीयाध्यायस्य द्वितीयः पादः॥
** अथ तृतीयः पादः**
तृतीयपादे प्रकरणान्तरेण कर्मभेदः प्रतिपादितः। प्रकरणान्तरं नाम अनुपादेयसहितानुपस्थितिः। अनुपादेयानि च कालदेशनिमित्तफलसंस्कार्याणि पञ्च। तत्र कालस्योदाहरणम् कुण्डपायिनामयने उपसद्भिश्चरित्वा मासमग्निहोत्रं जुहोति इति। अत्र प्रवर्तकस्य विधेः कृतिविषयत्वापरपर्यायमुपादेयत्वम्। प्रमाणत्वाच्च अज्ञातज्ञाप्यत्वाख्यं विधेयत्वं च प्रमेयम्। तदुभयमप्येकवृत्तीत्यत्सर्गः। ततश्च मासस्यानुपादेयत्वात् उपादेयत्वं धात्वर्थ एवेति वाच्यम्। अतस्तत्समानाधिकरणेन विधेयत्वमपि तत्रैवेति विहितस्य विधानायोगात् नित्याग्निहोत्रात् भिन्नमेव मासाग्निहोत्रमिति। देशस्योदाहरणम् -_ सरस्वत्या दक्षिणेन तीरेणाग्नेयोऽष्टाकपालः_ इति। निमित्तस्योदाहरणम् - सत्रायागूर्विश्विजिता यजेत इति। आगोरणं संकल्पः। संकल्पानन्तरं सत्रमकुर्वतो विश्वजित् प्रसिद्धात् विश्वजिता यजेत इति विहितात् कर्मान्तरम्। फलस्योदाहरणम् - आग्नेयमष्टाकपालं निर्वपेद्रुक्कामः इति **_यदाग्नेय _**इति विहितात् कर्मान्तरम्। संस्कार्यस्येदाहरणम् - _औदुम्बरीं प्रोक्षति _ इति व्रीहिप्रोक्षणात् कर्मान्तरम्।
इति द्वितीयस्याध्यायस्य तृतीयः पादः॥
अथ चतुर्थः पादः
चतुर्थे पादे विनियोगभेदनिरूपणम्। तथा हि - _यावज्जीवमग्निहोत्रं जुहोति _ इत्यत्र किं काम्य एव स्वर्गाद्दर्थाग्निहोत्रे जीवनपर्याप्तकालविधिः, किं वा क्लृप्तफलात् फलान्तरार्थं जीवनरूपनिमित्तवशेनाग्निहोत्रस्य विनियोगान्तरविधिर्वेति विशये, कालविधिरेवायम् ;् तत्रैवस्वारस्यात्, इति प्राप्ते काललक्षणापत्तेर्नायं कालविधिः, किं तु जीवने निमित्ते अग्निहोत्रविधिः। धातुसम्बन्धाधिकारविहितो हि णमुल्प्रत्ययः जीवनस्य कर्मसम्बन्धमवगमयति। संबन्धश्च निमित्तलक्षणः, न तु स्वावच्छिन्नकालकत्वरूपः। तथा सति गुणभूतकालानुरोधेन प्रधानावृत्तेर्न्यायसिद्धत्वाभावेन यावच्छब्दार्थस्यापि विधेयत्वापत्तेः। निमित्तत्वरूपत्वे तु प्रतिनिमित्तं नैमित्तिकावृत्तेर्न्यायसिद्धतया यावच्छब्दस्यानुवादत्वोपपत्तिः। निमित्तत्वं हि स्वान्वयव्यतिरेकानुविधाय्यनुष्ठानवद्विधेयकत्वरूपम्। तदनुष्ठानव्याप्यत्व तदनुष्ठानाभावव्याप्याभावप्रतियोगित्वोभयवत्वं तन्निमित्तत्वमिति तु निष्कर्षः। तत्र तदनुष्ठानाभावव्याप्याभावप्रतियोगित्वांशस्य प्रापकप्रमाणाभावादेव सिद्धेः तदनुष्ठानव्याप्यत्वांश एवेह विधेस्तात्पर्यं बोध्यम्। एवं शाखान्तरेषु अग्निहोत्रादिकं किं भिद्दते, उत सर्वास्वपि शाखासु एकमेवेति विशये अविशेषपुनःश्रुतिलक्षणादभ्यासात् प्रकरणान्तराच्च शाखान्तरेष्वग्निहोत्रादिकं भिद्दत एवेति प्राप्ते अध्येतृभेदात् एकस्यैव कर्मणः एकस्यां शाखायां विहितस्यापि शाखान्तरे पुरुषान्तरं प्रति विधिसंभवात् नाभ्यासादीनां भेदकत्वम्। अभ्यासादयो हि कर्मस्वरूपस्य विधेयतामापादयन्ति। तत्र विहितविधानायोगात् कर्मान्तरत्वं भवति। इह तु एकं पुरुषं प्रति विहितस्यापि पुरुषान्तरं प्रति अज्ञातज्ञापनादिरूपं विधानं संभवति। स्वाध्यायोऽध्येतव्यः इति सर्वेषां स्वशाखाध्ययनस्यैव विहिततया शाखान्तरस्य पुरुषान्तरं प्रत्येव प्रवृत्तेः। अतः सर्वशाखाप्रत्ययमेकं कर्मेति शाखान्तरोक्तानामप्यङ्गानामुपसंहारः कार्यः। तज्ज्ञानं च कल्पसूत्रादिना सुलभम्॥
**इति द्वितीयस्याध्यायस्य चतुर्थः पादः॥ **
अध्यायश्च समाप्तः॥
अथ तृतीयाध्याये प्रथमः पादः॥
एवं द्वितीयाध्यायेन भेदे सिद्धे तृतीयाध्यायेनाङ्गत्वनिरूपणम्। अङ्गत्वं नाम परोद्देश्यककृतिकारकत्वेन विहितत्वम्। दध्यादेर्होमाद्दुद्देश्यककृतिकरणत्वेन आहवनीयादेः तादृशकृतिरिरूपिताधिकरणकारकत्वेन च विहितत्वाल्लक्षणसंगतिः। तत्राङ्गत्वे श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यारूपाणि षट् प्रमाणानि। तत्र प्रथमे पादे श्रुतिविचारः। श्रुतिर्नाम अङ्गत्वघटकीभूतपरोद्देश्यत्वकृतिकारकत्वान्यतरनिष्ठमुख्यविशेष्यताशालिनी शक्त्यधीना या उपस्थिति तज्जनकः शब्दः। दध्ना जुहोति, **_व्रीहीन् प्रोक्षति _**इत्यादिषु तृतीयाद्वितीययोः करणत्वेप्सिततमत्वरूपोद्देश्यत्वयोरेव शक्ततया लक्षणसमन्वयः। प्रोक्षिताभ्यामुलूखलमुसलाभ्यामावहन्ति इत्यादौ निष्ठाप्रत्ययादौ अतिव्याप्तिवारणाय मुख्यविशेष्यतेति। कर्मत्वविशिष्टे शक्तेन तेन कर्मत्वमुख्यविशेष्यकोपस्थित्यजननात् न दोषः। तप्तं पयः दध्यानयनेन संस्कुर्यात् इत्यर्थके - तप्ते पयसि इति वाक्ये लाक्षणिकसप्तम्यादिवारणाय शक्त्यधीनेति। अत्र च करणत्वाद्दन्यतमरूपकारकत्वमात्रस्य तृतीयादिरूपश्रुत्यभिधानेऽपीतरांशस्यान्यलभ्यतया अङ्गत्वबोधोपपत्तिः। दध्ना जुहोति इत्यादौ होमादेः धातुना कृतेश्वाख्यातेन लाभः। कृतौ होमादेः संसर्गमर्यादया ईप्सिततमत्वात्मककर्मरूपोद्देश्यत्वस्य भानम्। लिङादिसमभिव्याहाराच्च। तादृशकृतिकारकत्वविषयितानिरूपितप्रवर्तनाविषयत्वरूपस्य तादृशकृतिकारकत्वेन विहितस्य लाभः। यद्दपि वाचकशब्दमात्रे श्रुतिव्यवहारोऽस्ति। अत एव श्रुतिस्त्रिधा - विधात्री अभिधात्री विनियोक्त्री चेति। प्रवर्तनावाचकलिङाद्दात्मिका विधात्री। अभिधात्री व्रीह्यादिश्रुतिः। संबन्धग्राहिका विनियोक्त्री। सा च त्रिधा। विभक्तिरूपा, एकाभिधानरूपा, एकपदरूपा चेति। तत्र विभक्तिरूपा यथा व्रीहीन् प्रोक्षति, व्रीहिभिर्यजेत, दध्ना जुहोति, आहवनीये जुहोति इत्यादौ द्वितीयादिश्रुतिः। तत्र द्वितीया अङ्गित्वस्य, तृतीया अङ्गत्वस्य वाचिकेति विवेकः। एकाभिधानरूपया श्रुत्या पशुना यजेत इत्यत्र विभक्त्यभिहितपुंस्त्वैकत्वयोः करणत्वे संबन्धः।
य्**ाजेत स्वर्गकामः इत्यादौ एकपदश्रुत्या फलभावनायां यागादेः करणत्वसम्बन्धेनान्वयः** इत्यादिकं प्राचां लेखनं संगच्छते।
तत्र एकाभिधानैकपदयोः संसर्गमर्यादयैव सम्बन्धबोधकतया तद्वाचकताविरहात् तत्र श्रुतित्वव्यवहारो गौणः। प्राचां मतेऽपि यजेत स्वर्गकामः इत्यादौ विशेषणविशेष्ययोः क्रियायां प्रकारीभूय भासमानकारकवत्वनियमात् ज्योतिष्टोमेनेति तृतीयाभिहितकरणत्वस्य भावनायां प्रकारतया तदनुरोधेन धातोर्यागनिष्ठकरणत्वे लक्षणैवेति न मुख्यं श्रुतित्वम्। अन्यत्र तु श्रुतित्वव्यवहारो मुख्य एव। तथापि अङ्गत्वघटकीभूतेत्यादिकं मुख्यायाः विनियोक्तृश्रुतेरेव लक्षणमिति न दोषः।
एवं श्रुतेर्विनियोजकत्वे स्थिते क्वचित् तद्विशेषविचारः। तथा हि - ज्योतिष्टोमे श्रूयते - **_अरुणयैकहायन्या पिङ्गाक्ष्या सोमं क्रीणाति _**इति। अत्रारुण्यं किमेकहायनीमात्रे निविशते, उत प्राकरणिकसर्वद्रव्येषु इति विशये प्राकरणिकसर्वद्रव्येष्वित्येव युक्तम्। तथा हि - अत्रारुणादिशब्दानां गुण एव शक्तिः। आरुण्यादीनामाश्रयभेदेन भेदानुपगमेन एकव्यक्तितया आनन्त्यव्यभिचारयोरभावात्। एकहायन्यादिपदानां तु बहुव्रीहित्वादवयवार्थविशिष्टान्यपदार्थरूपे द्रव्य एव शक्तिरिति प्राञ्चः। तादृशान्यपदार्थे पदद्वयस्यानुशासनिकी निरूढलक्षणेत्यन्ये। एवं च मत्वर्थलक्षणया आरुण्यवता एकहायनीमता पिङ्गाक्षीमता क्रयेण सोमं भावयेत् इति विशिष्टविधौ सति पश्चाद्विशेषणविधित्रयकल्पनया आरुण्येन क्रयं भावयेत्, एकहायन्या क्रयं भावयेत्, पिङ्गाक्ष्या क्रयं भावयेत् इति वाक्यार्थे आरुण्यसाध्यः एकहायनीसाध्यः पिङ्गाक्षीसाध्यः क्रय इति पार्ष्ठिकबोध इति वक्तव्यम्। नैतद्दुक्तम्। आरुण्यस्यामूर्तस्य क्रयसाधनत्वासंभवात्॥
न चात एवान्यथानुपपत्या अरुणापदस्यारुण्यगुणविशिष्टे लक्षणा स्वीकरणीयेति वाच्यम्। बहुव्रीहिशक्त्यवगतशीघ्रोपस्थितिकैकहायन्यवरुद्धे क्रये अरुणापदलक्षितारुण्यगुणविशिष्टस्य विलम्बितोपस्थितिकस्य निवेशासंभवात्। बहुव्रीहौ पदद्वयस्यान्यपदार्थे लक्षणेति पक्षेऽपि अनुपपत्तिप्रतिसंधाननिरपेक्षानुशासनिकनिरूढलक्षणापेक्षया तत्सापेक्षारुणापदलक्षणाया दौर्बल्यात्। अतोऽरुणयेत्यस्य क्रीणातिना एकवाक्यत्वासंभवात् भिन्नवाक्यत्वमेवाश्रयणीयम्। ततश्चारुणयेत्यस्य भावनाभाव्यैतदुभयबोधकपदसमभिव्याहारमन्तरेण बोधकत्वानुपपत्तेः तादृशपदद्वये कल्पनीये योग्यतानुसारात् प्राकरणिकज्योतिष्टोमापूर्वसाधनीभूतद्रव्यपरिच्छेदं भावयेत् इति पदद्वयं कल्प्यते। आरुण्यस्य द्रव्यपरिच्छेदं प्रति करणत्वसंभवात्।द्रव्यपरिच्छेदस्य चानुष्ठानोपयोगितया इष्टत्वसंभवेन भाव्यत्वोपपत्तेश्च। तथाहि - तृतीयया तत्तद्रव्याणां तत्ततᐃक्रयाङ्गत्वावगतो कीदृशस्य्ा द्रव्यस्याङ्गत्वमिति विशेषाकाङ्क्षाऽस्तीत्यविवादः। तत्र विशेषाश्रवणे परं यस्य कस्यचिदिति सिध्यति। विशेषश्रवणे तु तस्यैवेति लभ्यते। इत्थं च कीदृशस्य द्रव्यस्याङ्गमित्येवंविधाकाङ्क्षाशान्तिमन्तरेणानुष्ठानासंभवात् तादृशाकाङ्क्षाशामकस्यारुण्यगुणविशिष्टं द्रव्यं तत्तत्क्रि ्याङ्गमित्येवंविधविशेषनिर्णयरूपद्रव्यपरिच्छेदस्यानुष्ठानोपयोगित्वमक्षतम्। तत्र च विशेषणज्ञानमुद्रया हेतुभूते आरुण्यप्रत्यक्षे आरुण्यस्य विषयविधया हेतुत्वात् तस्य द्रव्यपरिच्छेदकरणत्वोपपत्तिरिति। ततश्च उक्तपरिच्छेदरूपोपकारजनकं सत् आरुण्यं प्राकरणिकसर्वद्रव्याङ्गमिति तत्र सर्वत्रापि तस्य निवेश इति प्राप्ते, यद्दप्यारुण्यस्यामूर्तस्य क्रयोपधायककृत्युपादानतया क्रयसाधनत्वं न संभवति, मूर्तस्यैव तथात्वसंभवात्। क्रयोपधायककृतौ उपादानप्रत्यक्षस्यैव हेतुतया विषयविधया तादृशप्रत्यक्षहेतुत्वेन क्रियाकरणत्वमुपादानताख्यविषयताशालिन एव हि संभवति न ह्यमूर्तस्यारुण्यादेस्तादृशत्वं संभवतीति तथापि द्रव्यपरिच्छेदद्वारा क्रयकरणत्वमारुण्यस्याप्युपपद्दत एव।
न च द्रव्यस्य क्रयसाधनत्वानवगमे क्रयसाधनपरिच्छेदद्वारारुण्यं क्रयसाधनमित्येवंविधयोग्यताज्ञानं न संभवति। तदवगमे च करणाकाङ्क्षाविरहात् आरुण्यस्य करणतयान्वयासंभव इति वाच्यम्। योग्यतासंशयेनैव शाब्दबोधनिर्वाहात्। तथाहि - संशयसाधारणयोग्यताज्ञानत्वेनैव शाब्दबोधकारणता, अयोग्यतानिश्चयत्वेन प्रतिबन्धकत्वं वा। न तु योग्यतानिश्चयत्वेन कारणत्वम्। यागादेः स्वर्गादिसाधनत्वबोधानुपपत्तिप्रसंगात्। इत्थं चारुणयैकहायन्येत्यादिवाक्येन एकहायन्यादीनां क्रयसाधनताबोधस्य निर्विवादतया शाब्दबोधात् पूर्वमेकहायन्यादीनां क्रयसाधनत्वसंशयरूपं योग्यताज्ञानमावश्यकम्। ततश्च तादृशसंशयाधीनमारुण्यस्य द्रव्यपरिछेदद्वारा क्रयसाधनत्वसंशयरूपं योग्यताज्ञानमपि संभवत्येव। अयोग्यतानिश्चयाभावोऽपि यागादेः स्वर्गसाधनताविषय इव प्रकृतेऽपि संभवत्येव। इत्थं च पूर्वोक्तरीत्या आरुण्यसाध्यः एकहायनीसाध्यः पिङ्गाक्षीसाध्यः क्रयः इति अन्वयबोधे अपरिच्छिन्नद्रव्यस्य क्रयोपधायकत्वासंभवात् एकहायन्याः परिच्छेदकाकाङ्क्षायाममूर्तस्य गुणस्य द्रव्यपरिच्छेदद्वारैव क्रयसाधनत्वसंभवात् आरुण्यस्य परिच्छेद्दाकाङ्क्षायां नष्टाश्वदग्धरथन्यायेन परस्पराकाङ्क्षया परस्परसंबन्धादेकहायन्यामेव निवेशः। एवमेकवाक्यत्वसंभवे वाक्यभेदमङ्गीकृत्य प्राकरणिकसर्वद्रव्यान्वयाश्रयणमनुपपन्नमिति॥
इति तृतीयस्याध्यायस्य प्रथमः पादः॥
अथ द्वितीयः पादः
द्वितीयपादे तु लिङ्गविचारः। लिङ्गं नाम योग्यतापरपर्यायं सामर्थ्यम्। तच्च श्रुतिकल्पनाद्वारा अङ्गत्वे प्रमाणम्। तथाहि - **_बर्हिर्देवसदनं दामि _**इत्यादिमन्त्रः स्वनिष्ठबर्हिर्लवनाङ्गताबोधकश्रुतियुक्तः बर्हिर्लवनप्रकाशनसामर्थ्यात्। यत्र यदर्थप्रकाशनसामर्थ्यं तत्र स्वनिष्ठतदङ्गताबोधकश्रुतियुक्तत्वम्, यथा - प्रत्ययवचनविनियुक्ते मन्त्रे, इत्यनुमानेन यद्दत्राङ्गताबोधकश्रुतियुक्तत्वं न स्यात् तर्हि मन्त्रवैयर्थ्यं स्यात् इति तर्कसहकृतेन मन्त्रे बर्हिर्लवनाङ्गताबोधकश्रुतिसिद्ध्या मन्त्रस्य बर्हिर्लवनाङ्गत्वसिद्धिरिति॥
एवं लिङ्गस्य विनियोजकत्वे सिद्धे अङ्गिविशेषविचारः। तथाहि किमर्थप्रकाशनसामर्थ्यरूपं लिङ्गं मुख्य एवार्थे विनियोजकम्, उत गौणार्थेऽपि इति विशये शब्दानां मुख्यवृत्त्येव गौणवृत्त्यापि बोधकत्वदर्शनात् गौणार्थेऽपि लिङ्गाविशेषात् विनियोगः संभवति। ततश्च बर्हिः शब्दस्य उलपराजिरूपतृणविशेषे लक्षणया तल्लवनप्रकाशकत्वासंभवात् मन्त्रस्य तत्रापि विनियोगः। ततश्च प्रतिप्रधानं गुणावृत्तिन्यायात् मन्त्रस्यावृत्तिरिति प्राप्ते शक्यसंबन्धग्रहणसापेक्षजघन्यार्थप्रतीतेः विलम्बितत्वात् प्रथमप्रतीतमुख्यार्थविनियोगेनैव मन्त्रस्य प्रयोजनाकाङ्क्षाशान्तेर्न गौणार्थे विनियोगः। गौणसामर्थ्येन श्रुतिकल्पनादशायामनुकूलतर्कासंभवात् पूर्वमेव मुख्यार्थविनियोगेन मन्त्रसार्थक्यनिर्णयात्। अत एव गौणस्य स्मारकाकाङ्क्षाध्यानाद्दुपायान्तरेणैव निवर्त्यते। अत एव च यत्र प्रकरणे मुख्यार्थोपयोगो न क्लृप्तः, तत्र मन्त्राम्नानबलादेव तत्कल्पना। यथा उपांशुयाजे विष्ण्वादिदेवताप्रतिपादकयाज्यापुरोऽनुवाक्यामन्त्राभ्यां देवताकल्पना। यत्र प्रकरणे विरोधिगुणावरोधात् मुख्यार्थविनियोगो न कल्पयितुं शक्यते, तत्र अन्यत्र सामान्यसंबन्धबोधकप्र्ामाणसत्त्वे तत उत्कर्षः। यथा **पूष्णोहं देवयज्यया पुष्टिमान् भूयासम**् इति पूषानुमन्त्रणमन्त्रस्य दर्शपूर्णमासप्रकरणपठितस्य प्राकरणिकेषु अग्न्यादिदेवतावरुद्धतया देवताकल्पकत्वासंभवात् अप्राकरणिके पौष्णयागे निवेशः। यागानुमन्त्रणमन्त्रसमाख्यया तत्र सामान्यसम्बन्धसिद्धेः अप्राकरणिकनिवेश एव उत्कर्ष इत्यभिधीयते। सामान्यसंबन्धबोधकप्रमाणाभावे उत्कर्षस्याप्यसंभवात् तत्र परं प्रकरण एव जघन्यार्थे विनियोगः। यथा मनोतादाविति त्वं ह्यग्ने प्रथमो मनोता इत्युक्तत्वात्॥
इति तृतीयस्याध्यायस्य द्वितीयः पादः
अथ तृतीयः पादः
तृतीयपादे तु वाक्यप्रकरणस्थानसमाख्याविचारपूर्वकं श्रुत्यादीनां बलाबलविचारः। तत्र वाक्यं नाम पदद्वयसमभिव्याहारः। यथा - _धेनुर्दक्षिणा उच्चैर्ऋषा क्रियते प्रयाजशेषेण हवीग्ँष्यभिवारयति _ इत्यादौ धेनुदक्षिणादिपदद्वयसमभिव्याहारः। यद्दपि दध्ना जुहोति अरुणया क्रीणाति इत्यादावपि पदद्वयसमभिव्याहारोऽस्ति , तथापि अङ्गत्वघटकीभूतपरोद्देश्यत्वकृतिकारकत्वान्यतरविषयकशक्त्यनधीनबोधप्रयोजकपदद्वयसमभिव्याहारस्यैव वाक्यत्वेन विवक्षितत्वान्न दोषः। धेनुर्दक्षिणा इत्यत्र हि धेनुपदोत्तरप्रथमायाः करणत्वे लक्षणा। दक्षिणापदस्य च आनतिसाधनद्रव्यवाचिनः कार्यभूतानतिनिष्ठकर्मत्वे लक्षणा। ततश्च धेन्वा आनतिं भावयेत् इति वाक्यार्थः। एवमुच्चैरित्यादौ लुप्तविभक्त्यर्थे करणत्वे प्रातिपदिकस्य लक्षणा। एवं प्रयाजशेषेण हवीगँ्ष्यभिधारयति इत्यादौ प्रयाजशेषं हविषु प्रक्षिपेदित्यर्थात् तृतीयादेः कर्मत्वादिलाक्षणिकत्वं बोध्यम्। एवं ज्योतिष्टोमप्रकरणे प्रजापतिरकामयत प्रजाः सृजेयेति। स तपोऽतप्यत। तस्मात्तेपानात् त्रयो देवा अजायन्त अग्निर्वायुरादित्यः। ते तपोऽतप्यन्त। तेभ्यस्तेपानेभ्यस्त्रयो वेदा अजायन्त। अग्नेर्ऋग्वेदः वायोर्यजुर्वेदः आदित्यात्सामवेदः इत्युपक्रम्य उच्चैर्ऋचा क्रियते उपांशु यजुषा उच्चैः साम्ना इति श्रुतेन वाक्येन विधीयमानोच्चैस्त्वादिकं किमृगादिमन्त्रकार्योद्देश्येन विधीयते, उत, ऋग्वेदादिविहितकर्मोद्देशेन इति संशयः। तदर्थमुपसंहारस्थऋगादिपदानुरोधेन उपक्रमस्थवेदपदं वेदैकदेशभूतमन्त्रलाक्षणिकम्, उत, उपक्रमस्थवेदपदानुरोधेन उपसंहारस्थऋगादिपदमृग्वेदादिलाक्षणिकमिति विचारणीयम्। अत्र वेदत्वं मन्त्रब्राह्मणसमुदायात्मकग्रन्थविशेषपर्याप्तमखण्डोपाधिरूपम्। ऋक्त्वं च पादव्यवस्थापन्नमन्त्रत्वम्। सामत्वं मन्त्रत्वसमानाधिकरणगीतित्वम्। यजुष्ट्वम् ऋक्सामभिन्नमन्त्रम्। इत्थं च ऋगादिशब्दानां विध्युद्देशगतत्वेन प्राबल्यादुपक्रमस्थार्थवादगतवेदशब्दस्य तदनुरोधेन वेदैकदेशे लक्षणा। अन्यथा विधिस्तुत्योरेकविषयत्वानुपपत्तिप्रसङ्गात्। तथा च ऋचा ऋग्मन्त्रेण यत् क्रियते उत्पाद्दते तदुच्चैरित्यर्थात् ऋगादिमन्त्रजन्यार्थप्रकाशनाद्दुद्देशेन उच्चैस्त्वादिकं विधीयते। ततश्च आनर्थक्यात् तदङ्गेषु इति न्यायेनार्थप्रकाशनादिजनकऋगादिमन्त्रेषु उच्चैस्त्वादिकं पर्यवस्यतीति प्राप्ते उपक्रमे वेदस्य स्तूयमानतया तत्रावश्यमुद्देश्यत्वं विधेयत्वं वा वाक्ये विवक्षितमिति प्रतीयते। तद्दशायामुपसंहारस्थऋगादिपदज्ञानरूपविरोधिनोऽसंजातत्वात्। ततश्च उपसंहारे उच्चैस्त्वस्य विधेयस्य लाभात् परिशेषात् वेदस्य उद्देश्यत्वसिद्धौ उद्देश्यसमर्पकऋगादिपदानां वेदतात्पर्यकत्वावश्यंभावात् तदनुरोधेन ऋगादिपदानामृग्वेदादौ लक्षणा। ततश्च ऋचा ऋग्वेदेन यत् क्रियते विधीयते तदुच्चैरित्येवम् ऋग्वेदविहितकर्मोद्देशेन उच्चैस्त्वादिविधाने उक्तन्यायेन तदङ्गभूतमन्त्रेष्ववतार इति॥
प्रकरणं नाम इतिकर्तव्यताकाङ्क्षा। इतिकर्तव्यतात्वं च करणानुग्राहकत्वम्। सर्वत्र हि अशक्तस्य करणत्वायोगात् करणनिष्ठा शक्तीरस्तीति निर्विवादम्। सा च करणतावच्छेदिका करणतारूपा वा। तस्याश्च जन्यवृत्तित्वे जन्यतैवत्युत्सर्गः। सामग्र्यलाभे परमनादितेत्यपवादः। तथा च करणानुग्राहकत्वं करणनिष्ठाशक्तिजनकव्यापारत्वमिति फलितम्। तादृशव्यापाराकाङ्क्षैव प्रकरणम्। तथा चाकाङ्क्षया प्रयाजादिगतप्रयोजनाकाङ्क्षासहितया प्रयाजादीनां तादृशव्यापाररूपतावगमादङ्गत्वसिद्धिः। तच्च प्रकरणं द्विविधम् - महाप्रकरणमवान्तरप्रकरणं चेति। प्रधानेतिकर्तव्यताकाङ्क्षा महाप्रकरणम्। अङ्गेतिकर्तव्यताङ्क्षा अवान्तरप्रकरणम्। यद्दप्यङ्गेतिकर्तव्यताया नाङ्गान्तरग्राहकत्वम्, विनिगमनाविरहात्। तथापि वाचनिकाङ्गद्वयमध्यपठिताङ्गग्राहकत्वमुपपद्दत एव। वाचनिकाङ्गसंदंशस्यैव विनिगमकत्वात्। यथा - अतिहायेडोपबर्हिः प्रतिसमानयते,जुह्वामौपभृतं प्रयाजशेषेण हवीग्ँष्यभिघारयति इति वचनद्वयमध्ये अभिक्रामं जुहोति इति विहितस्याभिक्रमणस्यावान्तरप्रकरणेन प्रयाजहोमाङ्गत्वमेव। न तु महाप्रकरणे न प्राकरणिकसर्वहोमाङ्गत्वम्। महाप्रकरणादवान्तरप्रकरणस्य बलीयस्त्वात्॥
स्थानं नाम इतिकर्तव्यतात्वेन संबन्धायोग्ययोः संनिधिः। तच्च द्विविधम् - पाठसादेश्यमनुष्ठानसादेश्यं चेति। आद्दमपि द्विविधम् - यथाक्रमपाठः संनिधिपाठश्चेति। त्रितयमपीदं द्विविधम् - उभयाकाङ्क्षया अन्यतराकाङ्क्षया चेति। अत्रोभयाकाङ्क्षाघटकप्रधानाकाङ्क्षा इतिकर्तव्यताकाङ्क्षाभिन्ना ग्राह्या। तत्र यथाक्रमपाठेन काम्येष्टियाज्यापुरोऽनुवाक्यामन्त्रणामिन्द्राग्नीरोचनादिव इत्यादीनामैन्द्रग्नमेकादशकपालं निर्वपेदित्यादिविहितकाम्येष्ट्यङ्गत्वम्। सन्निधिपाठेन च सांनाय्यपात्रशोधनविधिसंनिधौ समाम्नातस्य **शुन्धध्वम**् इत्यादिमन्त्रस्य तदङ्गत्वम्। अनुष्ठानसादेश्येन च पशुधर्माणां दैक्षपशुशब्दिताग्नीषोमीयपश्वङ्गत्वम्॥
समाख्या च यौगिकं पदम्। यथा ऋग्वेदादिविहितपदार्थेषु हौत्राध्वर्यवादिसमाख्या वेदे याज्ञिकैश्च प्रयुज्यते। तथा च तत्तत्पदार्थे तत्तत्कर्तृकत्वसिद्धिः।
श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां मेलने पूर्वपूर्वापेक्षया उत्तरोत्तरस्य दौर्बल्यम्, विलम्बितप्रवृत्तिकत्वात्। तथा हि - लिङ्गस्य श्रुतिकल्पनाद्वारैव विनियोजकताया उक्तत्वात् विलम्बितप्रवृत्तिकत्वं स्पष्टम्। अत एव ऐन्द्र्या गार्हपत्यमुपतिष्ठत इति गार्हपत्योपस्थानाङ्गतया विनियुक्तस्य**_ कदाचन स्तरीरसिनेन्द्रसश्च सिदाशुषे_** इति मन्त्रस्य न लिङ्गादिनाङ्गत्वम्। लिङ्गेन श्रुतिकल्पनाद्वारा इन्द्राङ्गत्वबोधनात् प्रागेव ऐन्द्र्येति प्रत्यक्षश्रुत्या तृतीयारूपया गार्हपत्योपस्थनाङ्गत्वबोधनेन मन्त्रस्य नैराकाङ्क्ष्येण लिङ्गेन श्रुतिकल्पनाप्रतिबन्धनात्। एवं वाक्यस्यापि लिङ्गकल्पनाद्वारा श्रुतिकल्पकतयैव विनियोजकत्वात् लिङ्गापेक्षया दौर्बल्यम्। तथाहि - अङ्गत्वघटकीभूतपरोद्देश्यत्वकृतिकारकत्वन्यतरविषयकशक्त्यनधीनबोधप्रयोजकपदद्वयसमभिव्याहारो वाक्यम्। तस्य च योग्यताज्ञानं विना लक्षणादिना कर्मत्वादिबोधकत्वानुपपत्तेः योग्यतारूपलिङ्गपरिशीलनमपेक्षितम्। ततश्च श्रुतस्यैव पदस्य कर्मत्वादिलक्षकत्वाङ्गीकारेण तत्तद्वाचकपदरूपश्रुतिकल्पकत्वाभावेऽपि श्रुतपदस्य तत्तात्पर्यकत्वरूपधर्मवैशिष्ट्यरूपेण कल्पनात् श्रुतिकल्पकत्वव्यवहारः। ततश्च वाक्यं लिङ्गं श्रुतिं च कल्पयित्वा विनियोजकमिति वाक्यस्य लिङ्गात् दौर्बल्यम्। एवं प्रकरणं वाक्यादित्रयकल्पकतया विनियोजकम्। तथाहि - प्रधानगतेतिकर्तव्यताकाङ्क्षया प्रयाजादिगतप्रयोजनाकाङ्क्षासहितया तत्तद्वाक्यस्य स्वस्वावान्तरवाक्यार्थे समाप्तस्यापि महावाक्यैकदेशत्वरूपपारिभाषिकपदसंनिध्याख्यवाक्यकल्पनया निरुक्तपदानां च स्वार्थोपस्थितिद्वारा तन्निष्ठाश्रुतपदान्तरकल्पनानुकूलयोग्यताकल्पनया च समिधो यजति इत्थं दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत इति अश्रुतेतिकर्तव्यतात्ववाचीत्थंपदरूपश्रुतिकल्पनया च इतिकर्तव्यतात्वरूपकृतिकारकत्वमवगम्यत इति॥
एवं स्थानमपि प्रकरणादिचतुष्टयकल्पकतया विनियोजकम्। इति कर्तव्यताकाङ्क्षालक्षणप्रकरणस्य तत्र कल्पनीयत्वात्। प्रकरणस्य च वाक्यादिकल्पकतयैव विनियोजकताया उक्तत्वात्। एवं समाख्यया अवयवार्थयोः संबन्धे संसर्गमर्यादया बुद्धे सति न तन्निर्देशान्यथानुपपत्त्या स्वतन्त्रविधिकल्पना, गौरवापत्तेः। किं तु अन्वाधानादिवाक्यस्य ᐀्ु अध्वर्युं वृणीते इति वाक्यस्य च एकवाक्यतासंपादवप्दकमात्रं कल्प्यते **यमध्वर्युं वृणीत**े _सोऽग्नीनन्वादधाति _ इति। तच्च द्वयोर्विध्योः कथं चिदस्त्वेकबुद्धिस्थतेत्येवंविधस्थानकल्पनां विना न संभवतीति तत्कल्पनापूर्वकमध्वर्योरङ्गत्वबोधकाकाङ्क्षारूपप्रकरणकल्पनया तद्विध्योर्महावाक्यैकदेशत्वाख्यपदसंनिधिरूपवाक्यं कल्प्यते। तेन चाध्वर्युनिष्ठयोग्यतारूपलिङ्गकल्पनया एकवाक्यतासंपादकपदरूपश्रुतिः कल्प्यत इति समाख्यायाः स्थानादिपञ्चककल्पकतया विनियोजकत्वं बोध्यम्।
एवं श्रुत्यादीनां विरोधेन बलाबले व्यवस्थिते। इत ऊर्ध्वमध्यायशेषेण विरोधसदसद्भावविचारः। तथाहि ज्योतिष्टोम एव श्रूयते - तिस्र एव साह्नस्योपसदो द्वादशाहीनस्य इति। तत्र वाक्यप्रकरणयोः विरोधोऽस्ति उत नेति संशयः। तदर्थं चाहीनशब्दः किं हीनो न भवतीत्यहीन इति व्युत्पत्त्या ज्योतिष्टोमपरः, उत अह्नः खः क्रतौ इति विहितखप्रत्ययान्ततया द्वादशाहपर इति विचार्यते। तत्र प्रकरणाविरोधायाहीनशब्दो नञ्समासः सन् ज्योतिष्टोमपरः। एवं साह्नशब्दोऽपि अह्नासमाप्यमानतया तत्परः। ततश्च ज्योतिष्टोमे उपसदां त्रित्वद्वादशत्वयोर्विकल्प इति प्राप्ते अहीनशब्दस्य अह्नः खः क्रतौः इति स्मृत्या वैदिकप्रयोगाच्च योगरूढतया रूढ्या ज्योतिष्टोमाद्देकाहव्यावृत्ताखण्डोपाध्यवच्छिन्नस्यैव बोधनात् वाक्यप्रकरणयोर्विरोधावश्यंभावात् बलवता वाक्येन द्वादशाह एव द्वादशोपसत्त्वविधिरिति॥
इति तृतीयाध्याये तृतीयः पादः॥
अथ चतुर्थः पादः
चतुर्थे पादे निवीतं मनुष्याणाम् इत्यादेः विरोधाविरोधहेतुभूतविधित्वार्थवादत्वविचारः। तथाहि - दर्शपूर्णमासयोः _निवीतं मनुष्याणां प्राचीनावीतं पितृणामुपवीतं देवानुमुपयुव्ययते देवलक्ष्ममेव तत् कुरुते _ इति श्रूयते। तत्र निवीतं मनुष्याणामित्यादेः विधित्वमर्थवादकत्वं वेति विशयेऽर्थवादमात्रस्यानर्थक्यात् विधित्वमेवेति प्राप्ते उपव्ययत इति उपवीतविधिसंनिहितस्यार्थवादतया तदेकवाक्यत्वसंभवे वाक्यभेदापादकविधित्वाश्रयणस्यान्याय्यतया अर्थवादत्वमेवैवंविधानामिति॥
इति तृतीयाध्याये चतुर्थः पादः॥
अथ पञ्चमः पादः॥
पञ्चमे पादे प्रतिपत्तिविचार-। तथा हि - उपांशुयाजप्रयाजाज्यभागानूयाजादिद्रव्याणां स्विष्टकृदिडादीनि शेषकार्याणि कर्तव्यानि वा, न वा, इति विशये, सर्वेभ्यो हविर्भ्यः समवद्दतीतिवचनबलात् अङ्गप्रधानसाधारणसर्वहविरर्थत्वप्रतीतेः कर्तव्यानीति प्राप्ते, तत्तद्दज्याक्षिप्तिविशेषप्रतिपत्तिसत्त्वात् न सामान्यविहितविद्दमानशेषोपक्षीणस्विष्टकृदादिप्रतिपत्तिग्राहकत्वमिति न तेषां स्विष्टकृडादीनि शेषकार्याणि कर्तव्यानीति॥
इति तृतीयाध्याये पञ्चमः पादः
अथ षष्ठः पादः॥
षष्ठे पादे अनारभ्याधीतविचारः। तथा हि - अनारभ्याधीतेन यस्य पर्णमयी जुहूर्भवति न स पापग्ँश्लोकगँ शृणोति इत्यादिना विहितपर्णतादीनां किं प्रकृतिविकृतिसाधारण्येन विधानम्, उत, प्रकृतिमात्रे ? इति विशये अविशेषात् प्रकृतिविकृतिसाधारण्येनैव विधानमिति प्राप्ते,जुहूद्देशेन विधीयमाना पर्णता जुहूप्राप्त्यनन्तरमेव विधेया। विकृतिषु च जुहूरतिदेशेनैव प्राप्यते। अतिदेशप्रवृत्तिश्च प्रकृतौ यावदङ्गावगतिसमनन्तरमेव। ततश्च प्रथमं प्रकृतौ पर्णताविधानानन्तरं विकृतौ तद्विधानं वाच्यमिति विरम्यव्यापाररूपद्विरुक्तिदोषप्रसङ्गः। अतः प्रकृतिमात्र एव तद्विधानमिति॥
इति तृतीयाध्याये षष्ठः पादः॥
**अथ सप्तमः पादः॥ **
सप्तमे बहुप्रधानोपकारकविचारः। तथा हि - दर्शपूर्णमासप्रकरणे वेद्दां हवीगँ्ष्यासादयति। बर्हिषि हवीग्ँष्यासादयति इति विहितवेद्दधिकरणकमासादनं किं प्रधानहविर्मात्रार्थम्, उत, अङ्गप्रधानसाधारणसर्वहविरर्थमिति विशये प्रकरणात् प्रधानहविर्मात्रार्थमिति प्राप्ते, प्रकरणेन वाक्यसंकोचायोगात् असंकुचितेन वाक्येनाङ्गप्रधानसाधारणसर्वहविरर्थत्वमेवेति॥
इति तृतीयाध्याये सप्तमः पादः॥
अथ अष्टमः पादः॥
अष्टमे पादे स्वामिकर्मविचारः। तथाहि - वरणं दक्षिणादानं च यजमानेन कार्यम्, उत, अध्वर्य्वादिभिरिति विशये समाख्याबलात् अध्वर्य्वादिभिरेव कार्यम्। तत्राध्वर्युरितरेषां वरणादिकं कुर्यात्। यथा अध्वर्युः स्वद्रव्येण इतरान् परिक्रीणीयात् तमुपायं यजमानः कुर्यात्, अध्वर्योश्च वरणं प्रतिप्रस्थाता कुर्यात्, इति प्राप्ते, वरणाभावे अध्वर्युत्वस्यैवासंभवात् अर्ध्वयुत्वंसपत्तये क्रियमाणस्य प्राथमिकवरणस्य असमाख्यातकर्तृकत्वावश्यंभावात् वरणे समाख्याबाध आवश्यकः। एवं दक्षिणादानेऽपि उपायान्तरकल्पने गौरवात् प्रयोगवाक्यावगतस्वामिकर्तृकत्वबाधापत्तेश्च समाख्याया एव केवलाया बाधः। अतश्च वरणं दक्षिणादानं च स्वामिकर्तृकमेवेति॥
इति तृतीयाऽध्याये अष्टमः पादः॥
** इति समाप्तश्च तृतीयोऽध्यायः॥**
॥अथ चतुर्थोऽध्यायः॥
इत्थं पादाष्टकपरिमितेन तृतीयाध्यायेन शेषिनिरूपितशेषत्वविचारे वृत्ते चतुर्थेन प्रयोजकनिरूपितप्रयोज्यत्वविचारः कृतः। तत्र प्रयोजकत्वमनुष्ठापकत्वम्। तच्च यद्दपि विधेरेव, तथापि यदुद्देशेनानुष्ठानं विधिना बोध्यते, तत्रापि प्रयोजकत्वव्यवहारः शास्त्रे। तथाचानुष्ठापरपर्यायकृत्युद्देश्यतया विधिविषयत्वं प्रयोजकत्वम्। तद्विधेयतया विधिविषयत्वं प्रयोज्यत्वमिति फलितम्। तत्र क्रत्वर्थानां क्रतुः प्रयोजकः। पुरुषार्थानां तु फलम्। ततश्च क्वचित् क्रत्वर्थत्वादिविचारमुखेन, क्वचित् साक्षादेव च इह प्रयोजकत्वविचारः। तत्र प्रथमे पादे क्रत्वर्थत्वादिस्वरूपनिरूपणपूर्वकं प्रतिग्रहादेः क्रत्वर्थत्वपुरुषार्थत्वविचाररूपः प्रधानस्य प्रयोजकत्वविचारः। तथाहि - स्वयं प्रार्थितफलोद्देशेन विहितत्वं पुरुषार्थत्वम्। फले पुरुषार्थत्वव्यवहारस्तु भाक्तः। स्वयंप्रार्थितत्वं च नेष्टसाधनताज्ञानाधीनेच्छाविषयत्वम्, पश्वादेस्तथात्वसंभवेन तदर्थचित्रादेः पुरुषार्थत्वानुपपत्तिप्रसङ्गात्। किं तु शास्त्राधीनेष्टसाधनताज्ञानानधीनेच्छाविषयत्वम्। तच्च पश्वादावपीति न दोषः॥
स्वयंप्रार्थितभिन्नोद्देशेन विहितत्वं क्रत्वर्थत्वम्। संभवति चेदं प्रयाजादीनां क्रतूपकारोद्देशेन विहितानाम्। तत्र ब्राह्मणः प्रतिग्रहादिना द्रव्यमार्जयेत्, जयादिना राजन्यः इत्यादिविधिसिद्धः प्रतिग्रहनियमः क्रत्वर्थः पुरुषार्थो वेति विशये पुरुषार्थत्वे फलकल्पनापत्तेः क्रत्वर्थत्वमेवेति तदार्जितद्रव्यस्यापि सर्वस्य क्रत्वर्थत्वमेवेति प्राप्ते, श्रुत्याद्दभावात् अदृष्टकल्पनस्य च क्रत्वर्थत्वपक्षेऽपि तुल्यत्वात् न क्रत्वर्थत्वम्, किं तु पुरुषार्थत्वमेव। ततश्च तदार्जितद्रव्यस्य विहिताविहितसाधारण्येन सर्वकृत्यशेषत्वम्। अन्यथा जीवनलोपात् सर्वतन्त्रपरिलोपापत्तिः। तस्मादार्जननियमः अदृष्टार्थः सन् पुरुषार्थ इति। एवं पशुना यजेतेत्यत्र पश्वेकत्वं विवक्षितमविवक्षितं वेति विशये ग्रहं संमार्ष्टि इत्यादौ ग्रहैकत्ववत् पश्वेकत्वमपि अविवक्षितमेवेति प्राप्ते उद्देश्यविशेषणस्य विवक्षायां वाक्यभेदप्रसङ्गेन प्रतिप्रधानगुणावृत्तिन्यायेन सर्वेषां ग्रहाणां संमार्जनीयत्वनिर्णये कति ग्रहाः संमार्जनीयाः इत्याकाङ्क्षाविरहेण ग्रहैकत्वस्याविवक्षायामपि पश्वेकत्वं विवक्षितमेव। तथा वाक्यभेदविरहात्। ग्रहं संमार्ष्टीत्यत्र हि एकत्वं न प्रकृत्यर्थे अन्वेति। सुबर्थसंख्यायाः समानाभिधानश्रुत्या कारक एवान्वयस्य व्युत्पन्नत्वात्। ततश्च गृहस्य एकत्वस्य च कर्मतया भावनान्वयो वाच्यः। स च न संभवति। करोतिपर्यायभावनाया एककर्मकत्वनियमात्। अतः एकस्मिन् वाक्ये अनेकोद्देश्यान्वयासंभवात् वाक्येभेद आवश्यकः। पशुना यजेत इत्यत्र तु न तथा। एकत्वस्य समाभिधानश्रुत्या आधेयत्वेन सामानाधिकरण्येन प्रथमतः कारकान्वये पश्वेकत्वोभयविशिष्टैककारकविधाने पश्चात् पार्ष्ठिकः पशौ आश्रयतया एकत्वान्वय इति। एवं कतिभिः पशुभिर्यागः कार्यः इत्याकाङ्क्षावशादपि एकत्वविवक्षाया आवश्यकतेति पश्वेकत्वं क्रत्वर्थमेवेति तदभावे क्रतुवैगुण्यमेव स्यादिति॥
एवं चातुर्मास्येषु प्रथमे पर्वणि प्रथमे पर्वणि तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम् इति श्रुतम्। तत्र दध्यानयनस्यामिक्षा वाजिनं चेत्युभयं प्रयोजकम्, उत, आमिक्षैवेति चिन्तायामुभयमेव प्रयोजकमिति युक्तम्। तप्ते पयसीति वाक्यस्य हि तप्तपयोधिकरणकानयनेन दधि संस्कुर्यादिति न वाक्यार्थः। दध्न उपयोगाभावात्। अतः सक्तून् जुहोति इत्यत्रेव द्वितीयायाःकरणत्वलाक्षणिकतामङ्गीकृत्य तप्तपयोधिकरणकदधिकरणकानयनेनेष्टं भावयेदिति वाक्यार्थे योग्यताबलात् तादृशदध्यानयनजन्यामिक्षाया इव तज्जन्यवाजिनस्यापि तत्फलत्वस्यावश्यंभावकतया उभयोरपि प्रयोजकत्वमावश्यकमेवेति प्राप्ते सा वैश्वदेव्यामिक्षा इत्युत्तरवाक्ये तच्छब्देन प्रधानपरामर्शनात्पूर्ववाक्ये आमिक्षायाः प्राधान्यावगतेरामिक्षैव प्रयोजिका न तु वाजिनम्। आमिक्षा हि पयोरूपैवेति अष्टमे वक्ष्यते। ततश्च उक्तप्राधान्यावगत्यनुरोधेन सप्तम्याः कर्मत्वलाक्षणिकतामङ्गीकृत्य तप्तं पयः दधिकरणकानयनेन संस्कुर्यादिति वाक्यार्थस्याश्रयणीयतया आमिक्षायाः संस्कार्यत्वाभ्युपगमः आवश्यक इति वाजिनस्यनुनिष्पन्नतया तद्दागस्य स्विष्टकृदादिवत् अनुनिष्पन्नप्रतिपत्तित्वागतेर्न प्रयोजकत्वमिति। दर्शपूर्णमासयोः पुरोडाशकपालेन तुषानुपवपतीति विहिततुषोपवापस्य न कपालोपादानादिप्रयोजकत्वम्। परप्रयुक्तकपालोपजीवित्वप्रतीतेः। एवं तत्रैव प्रयाजशेषेण हवीग्ँष्यभिधारयति इति श्रुतम् अभिधारणं हविः संस्कारः प्रयाजशोषप्रतिपत्तिर्वेति विशये हवीग्ँषीति द्वितीयया अभिधारणापेक्षया हविषां प्राधान्यावगतेः उपयुक्यसंस्कारादुपयोक्ष्यमाणसंस्कारस्याभ्यर्हितत्वाच्च हविः संस्कारत्वमेवेति प्राप्ते, अदृष्टकल्पनाप्रसङ्गात् न हविः संस्कारत्वम्। किन्तु प्रयाजशेषप्रतिपत्तित्वमेवेति। तथा सति आकीर्णकरतानिवृत्तिरूपदृष्टप्रयोजनसंभवात्। इत्थं च हवीग्ँषीति द्वितीयया कर्मत्वं च लक्षयित्वा प्रयाजशेषं हविःषु प्रक्षिपेदिति वाक्यार्थः समाश्रयणीय इति॥
इति चतुर्थेऽध्याये प्रथमः पादः॥
अथ द्वितीयः पादः
द्वितीये पादे स्वरुप्रभृतेः छेदनादियूपधर्माप्रयोजकत्वादिनिरूपणरूपः अप्रधानस्य प्रयोजकत्वविचारः। तथाहि - अग्नीषोमीये पशौ श्रूयते यूपस्य स्वरुं करोति। स्वरुणा पशुमनक्ति इति। तत्र किमेष स्वरुः यूपात् पृथक् छेदनादीनां यूपधर्माणां प्रयोजकः,उत, न, इति विशये प्रयोजक एवासौ यूपधर्माणाम्। तत्र हि प्रथमवाक्ये स्वरुकर्मिकैव भावना विधीयते। तस्याश्च करणेतिकर्तव्यतापेक्षायां यूपशब्देन खादिरादिवृक्षः करणत्वेन छेदनादयो धर्माश्च इतिकर्तव्यतात्वेन समर्प्यन्ते। तथोत्पन्नश्च स्वरुणा पशुमनक्ति इति विनियुज्यते। अतो युक्तं प्रयोजकत्वमिति प्राप्ते करणेतिकर्तव्यता विशिष्टभावनाविधाने बह्वर्थविधानात् गौरवम्। मुख्यस्य च यूपशब्दस्य लक्षणा। अतः स्वरुणा पशुमनक्तीति वाक्येनाञ्जनसाधनं स्वरुरित्यवगम्यते। कुतोऽसावुपादेय इत्याकाङ्क्षायां यूपस्य स्वरुं करोतीति वाक्येन स्वरुमुपादत्त इति यत् तत् यूपादिति विशेषणमात्रविधानम्, लाघवात्। करोतेर्जघन्यस्यैव उपादानलाक्षणिकत्वाच्चेति न छेदनादिप्रयोजकः स्वरुरिति॥
इति चतुर्थोऽध्याये द्वितीयः पादः॥
** अथ तृतीय पादः ॥**
तृतीये पादे फलविचारः। तथाहि - यस्य पर्णमयी जुहूर्भवति न पापँग् शृणोति इत्यत्र किं पर्णमयत्वं क्रत्वर्थम्, उत पुरुषार्थम्, आहोस्वित् उभयार्थमिति विषये फलश्रवणात् पुरुषार्थमेव। अथवा अव्यभिचरितक्रतुसंबन्धेन क्रत्वपूर्वप्रयोजकताव्याप्यजुहूत्वरूपेण क्रतूपस्थितेः तदर्थत्वेऽपि फलश्रवणात् पुरुषार्थत्वस्यापि संभवात् उभयार्थमेवेति प्राप्ते, अव्यभिचरितक्रतुसंबन्धेन क्रतूपस्थितौ तदर्थतयैव प्रयोजनाकाङ्क्षायाः शान्तेः कामपदादिरहितस्य न स पापमित्याद्दर्थवादस्य फलसमर्पकत्वासंभवात् केवलक्रत्वर्थत्वमेवेति। एवं विश्वजिता यजेतेति एकाहकाण्डपठितविश्वजिदादावश्रुतफलके भावनायाः भाव्याकाङ्क्षायां विधिसमभिव्याहरेण धात्वर्थत्वस्य भाव्यत्वासंभवात् फलवाचिपदमध्याहार्यम्। तच्च फलमेकमेव, तत एव नैराकाङ्क्ष्यात्। तच्च किमित्याङ्क्षायां स्वर्गरूपमेव, न पुत्रादि, स्वर्गस्य **यन्न दुःखेन संभिन्नम**् इत्यादिवाक्येनातिशयितसुखरूपतया प्रतीतेः बहुभिः प्रार्थ्यमानतया शास्त्रस्य महाविषयतालाभादिति। एवं ज्योतिर्गौरायुरिति रात्रिसत्राभिधानानि कर्माणि विधाय प्रतितिष्ठन्ति ह वा य एता रात्रीरुपयन्ति इति श्रुतम्। अत्र किमेतानि कर्माणि स्वर्गफलकानि, उत, आर्थवादिकप्रतिष्ठाफलकानीति विषये पूर्वोक्तन्यायेन स्वर्गफलकान्येव। प्रतितिष्ठन्तीत्यादिकं तु न स पापमित्यादिवदर्थवादः इति प्राप्ते, स्वर्गोपस्थितितद्वाचकपदोपस्थित्यादिकल्पनागौरवात् प्रतितिष्ठन्तीत्यस्य सन्नन्ततया विपरिणाममुपयन्तीत्यस्य लेट्त्वं यच्छब्दस्य व्यवहितान्वयं चाङ्गीकृत्य ये प्रतिष्ठास्सन्ति ते रात्रीरुपेयुः इत्यर्थस्यैव लाघवेन समाश्रयणीयतया आर्थवादिकप्रतिष्ठाफलकान्येव एतानि कर्माणीति।
** इति चतुर्थाध्याये तृतीयः पादः॥**
** अथ चतुर्थः पादः॥**
अथ चतुर्थपादे विदेवनादीनां राजसूयाद्दङ्गताविचारः। तथा हि - अनुमत्यादीनि च यागायागकर्मणि प्रकृत्य राजसूयेन स्वाराज्यकामो यजेत इति श्रूयते। अत्र विदेवनादीनां क्रत्वर्थत्वम्, उत, पुरुषार्थत्वं वेति संशये सर्वेषामप्यविशेषेण फलसाकाङ्क्षत्वात् राजसूयशब्दस्य च राज्ञा क्षत्रियेण सूयते निष्पद्दते इति व्युत्पत्त्या सर्वेषामभिधानसंभवात् तृतीयया तेषां करणत्वप्रतीतेश्च सर्वेषां फलभावनायां करणत्वम्। यजिधातुः छत्रिन्यायेन लक्षणया यागायागसमुदायमनुवदन् आख्यातसाधुत्वमात्रार्थः इति प्राप्ते, आख्यातोपात्तभावनायां समानपदोपात्तधात्वर्थस्यैव करणतयान्वयः, नोपपदार्थस्य। **परिपूर्णे पदं पदान्तरेण संबध्यत**े इति न्यायेन भावनायां धात्वर्थान्वयात् प्राक् उपपदार्थान्वयायोगात्। ततश्चानुमत्यादियागानामेव फलभावनाकरणतया प्राधान्ये फलवदफलन्यायेन विदेवनादीनां यागनामङ्गतया क्रत्वर्थत्वमेव। न च राज्ञा सोमः सूयते अभिषूयते अस्मिन्निति व्युत्पत्त्या सोयागमात्रस्यैव राजसूयपदेनाभिधानात् तन्मात्रप्राधान्यमस्त्विति वाच्यम्। राजसूयशब्दस्य क्वचिदपि प्रसिद्धत्वाभावेन राज्ञा सूयत इति प्रागुपदर्शितव्युत्पत्त्या सर्वयागपरत्वसंभवेन यजिधातुसंकोचे प्रमाणाभावात्। न ह्यप्रसिद्धस्य नाम्नः यजिसंकोचकत्वं सम्भवति। दर्शपूर्णमासवत् प्रसिद्धस्य हि नाम्नः यजिसंकोचकत्वम्। तत्र हि आग्नेयादिषु उत्पत्तिवाक्यावगतकालसंबन्धेष्वेव दर्शपूर्णमासनामप्रसिद्ध्या तदनुरोधेन दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत इत्यत्र यजेः संकोचात् नाज्यभागादीनां प्राधान्यमिति॥
एवं **_ज्योतिष्टोमेन स्वर्गकामो यजेत_** इत्यनेन किं सोमयागमास्यैव फलोद्देशेन विधानम्, किं वा प्रायणीयादीनामपीति चिन्तायां यागत्वाविशेषात् सर्वेषामेव फलोद्देशेन विधानम्। न हि ज्योतिष्टोमशब्दः कुत्रचित् यागे प्रसिद्धः, येन दर्शपूर्णमासवत् यजिसंकोचः स्यात्। ज्योतिष्टोमशब्दो हि ज्योतिराख्यस्तोमसंबन्धं निमित्तीकृत्य प्रवर्तते। **_त्रिवृत्पञ्चदशः सप्तदश एकविग्ँश एतानि वा व तानि ज्योतीग्ँषि एतस्य स्तोमाः_** इत्यर्थवादेन तथावगमात्। स्तोमा नाम स्तोत्रीयागतसंख्याः, स्तोत्रीयाः स्तोत्रसाधनभूता ऋचः। इत्थं च स्तोमसंबन्धस्य बलसंबन्धस्योत्तरकालिकतया यूपं छिनत्तीत्यादौ यूपादिशब्दवत् भाविप्रवृत्तिनिमित्तमादायैव ज्योतिष्टोमशब्दस्य प्रवृत्तिर्वाच्या। शाटकं वयेत्यादौ लोकेऽपि शाटकादिशब्दानां तथा प्रवृत्तिदर्शनात्। अतः सर्वेषामेव फलसंबन्धात् प्राधान्यमिति प्राप्ते **_गृहं वा गृहीत्वा चमसं वोन्नीयस्तोत्रमुपाकुर्यात्_** इति क्रमविधायकवाक्येन स्वाश्रयऋक्साध्यस्तोत्रोपाकरणपूर्वकालिकग्रहणकत्वरूपस्य स्तोमसंबन्धस्य सोमयोगेऽवगमात् ज्योतिष्टोमनाम्नः तत्र प्रसिद्धतया यजिसंकोचकत्वोपपत्त्या तस्यैव फलसंबन्धः। प्रायणीयानां तु तदङ्गतया क्रत्वर्थत्वमेवेति॥
** इति चतुर्थाध्याये चतुर्थः पादः॥**
** समाप्तस्च चतुर्थोऽध्यायः॥**
** अथ पञ्चमोऽध्यायः॥**
** प्रथमः पादः॥**
एवं पादचतुष्टयपरिमितेन चतुर्थाध्यायेन प्रयुक्तिविचारे वृत्ते पञ्चमाध्यायेन क्रमो निरूपितः। क्रमो नाम एकपदार्थनिष्ठापरपदार्थाव्यवहितोत्तरत्वम्। तत्र प्रथमपादेन क्रमनियामकानि श्रुत्यर्थपाठस्तानमुख्यप्रवृत्त्याख्यानि षट्प्रमाणानि निरूपितानि। तत्र श्रुतिर्नाम वृत्त्या क्रमबोधकः क्लृप्तः शब्दः। स चाथशब्दादिः। तत्र अथशब्दस्य शक्त्यैवानन्तर्यवाचकत्वम्। क्त्वाप्रत्ययादीनां तु पूर्वकालादिवाचिनामपेक्षानुरोधात् क्रमपरत्वं लक्षणया। अर्थादिषु कल्प्यशब्दस्यैव क्रमबोधकत्वात् क्लृप्तेत्यनेन तद्व्यावृत्तिः। तत्र श्रौतक्रमोदाहरणम् द्वादशाहे सत्रात्मके अध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्म दीक्षयति इति श्रूयते। अत्र क्त्वाप्रत्ययेन लक्षणया बोध्यमानं ब्रह्मदीक्षायां गृहप्रतिदीक्षानन्तर्यं किमनूद्दते विधीयते वेति विशये श्रृत्यर्थविधिसंभवे वाक्यार्थविधेरन्याय्यत्वात् दीक्षैवेह विधेया। ततश्च पाठप्राप्तः क्रमोऽनूद्दते इति प्राप्ते, सत्रे ये यजमानास्त ऋत्विजः इति यजमानानामेव ऋत्विक्कार्ये विधानात् तेषां चोदनादेव दीक्षाप्राप्त्या न तस्याः विधेयत्वसंभवः। ततश्चान्यतः प्राप्तिविरहात् क्रमस्यैव विधेयत्वमिति। अर्थो नाम प्रयोजनम्। तच्च व्युत्क्रमे अनुपपद्दमानं सत् क्रमे प्रमाणम्। यथा अग्निहोत्रं जुहोति। यवागूं पचति इत्यत्र यवागूपाकस्य पाठक्रमेण पश्चात्करणे पाकसंस्कृतायाः यवाग्वाः होमरूपमप्रयोजनानिर्वाहः। होमो हि _यवाग्वा अग्निहोत्रं जुहोति _ इत्यनेन यवागूत्पादकपाकं प्रति प्रयोजनत्वेनावगम्यते। अतोऽत्र प्रयोजनवशेन क्रमनिर्णय इति पदार्थबोधकवाक्यपाठक्रमोऽपि पदार्थक्रमे प्रमाणम्। समिधो यजति। तनूनपातं यजति इति क्रमेण पठितानां यागानां क्रमनियमोऽस्ति न वा इति विषये पूर्वोक्तनियामकाभावात् नास्ति क्रमनियम इति प्राप्ते पाठक्रमेणैव पदार्थानां स्मरणात् तेनैव क्रमेणानुष्ठानमित्यस्त्येव क्रमनियम इति॥
एवं प्रवृत्तिरपि क्रमनियामिका। तथाहि वाजपेये - **_सप्तदशप्राजापत्याः पशूनालभते _**इति विहिताः प्राजापत्याः पशवः सह क्रियन्ते। तत्रोपाकरणनियोजनादयः संनिपातिनः प्रतिपशु आवर्तनीयाः। आवृत्तिश्च प्रथमं सर्वेषामुपाकरणं कृत्वा ततः सर्वेषां नियोजनमित्येवंरूपा। न तु एकस्मिन् पशौ उपाकरणादिकं सर्वं कृत्वा ततः पश्वन्तरे तत्करणमित्येवंरूपेति वक्ष्यते। तत्रोपाकरणं यतः कुतश्चित् पशोरारभ्य यत्रकुत्रचित् पशौ समाप्यते। नियोजनादौ तु संदेहः। किं तत्राप्यनियमः, उत, येन क्रमेण उपाकरणं तेनैव क्रमेणानुष्ठानमिति नियामकाभावात् उपाकरणवत् नियोजनादावपि अनियमः। न हि समिधो यजति इत्यादौ पाठवदिह क्रमनियामकं किंचिदस्तीति प्राप्ते, अस्त्यत्र उपाकरणप्रवृत्तिः क्रमनियामिका। नियोजने हि उपाकरणाव्यवहितोत्तरत्वं प्रकृतितः प्राप्तम्। तच्च वैश्वदेवीं कृत्वा प्राजापत्यैश्चरन्ति इति वचमावगतपश्वन्तरसाहित्यबलात् अन्यदीयैः षोडशभिः पदार्थैः व्यवधानं सहते। न त्वधिकम्, प्रमाणाभावात्। ततश्चोपाकरणप्रवृत्तिक्रमेण नियोजनानुष्ठान एवाधिकव्यवधानराहित्यमिति स एव क्रमः समाश्रयणीयः। न च वैश्वदेवीं कृत्वा प्राजापत्यैश्चरन्ति इति वचने साहित्यबोधकपदाभावात् कथं साहित्यप्राप्तिरिति वाच्यम्। एकेन पदेन उपस्थापितानामनेकेषां क्रियासंबन्धे एककालावच्छिन्नत्वरूपसाहित्यस्यानुभूयमानस्य शाब्दत्वसिद्धये लक्षणाङ्गीकारात्। प्रतीयते हि शतावधानवान् चैत्रः, पृथिव्यां राजानो बहवः इत्यादौ शतत्वाद्दवच्छिन्नानामेककालावच्छिन्नचैत्रादिसंबन्ध इति॥
स्थानमपि क्रमनियामकम्। तच्च क्लृ* प्तक्रमपदार्थोपस्थितिः। सा च एकसंबन्धिज्ञानमुद्रया परसम्बन्धिनः पदार्थस्य स्मारिका सती क्रमनियामिका। तथाहि - प्रकृतौ अग्नीषोमीयप्रणयनानन्तरमौपवसत्थ्याहे दैक्षः पशुः। आश्विनग्रहोत्तरकालश्च सौत्याहे सवनीयः। उदयनीयानन्तरं सुत्योत्तरमनुबन्धः साद्दस्के च सर्वमग्नीषोमीयप्रणयनादि सौत्याह एव क्रियते। तत्र सह पशूनालभते इति श्रुतम्। तच्च प्रधानेनात्यन्तप्रत्यासत्तिलाभादाश्विनोत्तरमेव। ततश्चाश्विनस्य उपस्थापकस्य सत्त्वात् सवनीयस्योपस्थितिः। ततश्च तद्रूपेण स्थानेन सवनीयस्य पशोः प्रथमत उपीकरणम्। न तु दैक्षस्य, तदुपस्थापकस्य भ्रष्टत्वेन स्थानाभावात्। प्राकृतपाठस्य च व्यवधायकपदार्थान्तरसत्त्वेन नियामकाभावात्। अत एवोपाकरणोत्तरभाविनियोजनादिपदार्थेषु प्रवृत्त्यैव क्रमसिद्धेः न स्थानोदाहरणत्वम्। इत्थं च सवनीयोपाकरणानन्तरं दैक्षस्योपाकरणम्, तदुत्तरमनुबन्ध्यस्य ; प्रकृतिदृष्टपौर्वापर्यस्यैव नियामकान्तराभावे नियामकत्वस्वीकारादिति॥
एवं मुख्यक्रमोऽप्यङ्गक्रमनियामकः। मुख्यत्वं प्रधानत्वम्। तथा हि - सारस्वतौ भवतः एतद्वै दैव्यं मिथुनं यत् सरस्वती च सरस्वांश्च इति विहिते स्त्रीपुंसदैवत्ये यागद्वये स्त्रीदैवत्यस्य प्रथममनुष्ठानम्, ततः पुंदैवत्यस्य; याज्यानुवाक्यापाठक्रमात्। तत्र चोदकप्राप्तौ निर्वापौ प्रधानक्रमेणैव कार्यौ। उत्तरभाविनः प्रधानस्य पूर्वं निर्वापे प्रधानेन सहाङ्गस्याधिकव्यवधानापत्तेः। अतः प्रधानप्रत्यासत्त्यनुग्रहाय स्त्रीदैवत्ययागाङ्गभूतो निर्वापः प्रथमं कार्यः, ततः पुंदैवत्ययागाङ्गभूतो निर्वाप इति।
तदेवं क्रमनियामकानि षट् प्रमाणानि सूत्रोक्तक्रमेण निरूपितानि। बलाबलविषये तु श्रुत्यर्थपाठस्थान मुख्यप्रवृत्तीनां समवाये पूर्वपूर्वापेक्षया उत्तरोत्तरं दुर्बलम्। तच्चाग्रे निरूपयिष्यते। एवमग्निष्टोमीये पशौ प्रकृतितः हविरासादनोत्तरकाले प्राप्तानां प्रयाजानां तिष्ठन्तं पशुं प्रयजन्ति इति वचनेनापकर्षो विहितः। तथा सवनीये हविरुतादूर्ध्वमनूयाजैश्चरन्ति इति वचनेन उत्कर्षो विहितः। तत्र किमेतौ उत्कर्षापकर्षौ श्रुतमात्रविषयौ, उत तदादितदन्तविषयाविति विशये प्रयाजादिग्रहणस्य उपलक्षणत्वे प्रमाणाभावात् पूर्वोत्तरपदार्थानां च प्रयाजाद्दङ्गतया तदुत्कर्षापकर्षयोस्तेषामुत्कर्षापकर्षशङ्कानुपपत्तेः तत्तत्पदार्थानां प्रधानप्रत्यासत्तिबाधापत्तेश्च तन्मात्रस्यैवोत्कर्षापकर्षाविति प्राप्ते, प्रकृतौ पाठादिक्रमेण पदार्थानां क्लृप्तक्रमत्वात् पूर्वपदार्थोपस्थापितस्यैव उत्तरपदार्थस्यानुष्ठेयत्वावगतौ श्रुतवचनयोस्तन्मात्रविषयत्वेऽपि अनूयाजोत्तरपदार्थस्य सूक्तवाकादेरनूयाजानन्तर्यानूयाजोपस्थापितत्वादिति धर्मानुग्रहलोभेनानूयाजाद्दुत्कर्षः। न च प्रधानप्रत्यासत्तिबाध इति वाच्यम्। तस्याः प्रयोगविधिना क्लृप्तप्रमाणगम्यक्रमानुरोधेनैव प्रकृताविव विकृतावपि कल्पनीयत्वात्। एवमपकर्षोऽपि प्रयाजान्तस्यैव। अन्यथा प्रयाजानामाधारादिरूपपूर्वपदार्थानन्तर्यस्य तदुपस्थापितत्वस्य च बाधापत्तेः। न हि पू्र्वभाविनामपकर्षे काचित् क्षतिः, प्रधानप्रत्यासत्तिबाधस्याकिंचित्करत्वादिति॥
**इति पञ्चमाध्याये प्रथमः पादः॥**
** अथ द्वितीयः पादः॥**
** **द्वितीयपादे काण्डानुसमयपदार्थानुसमयविचारः। तथा हि - वाजपेये वैश्वदेवीं कृत्वा प्राजापत्यैश्चरन्ति इति वचनेन सप्तदशानां प्राजापत्यपशूनां साहित्यं विहितमित्युक्तम्। तत्रारादुपकरनान्तं तन्त्रम्। द्रव्यसंस्कारस्तु उपाकरणनियोजनादयः प्रतिपशुभेदेन कर्तव्याः। ते किमेकैकस्य कार्त्स्येन कृत्वा ततोऽपरस्य कर्तव्याः इति काण्डानुसमयः, किं वा उपाकरणं सर्वेषां कृत्वा ततो नियोजनमिति पदार्थानुसमय इति विशये प्रकृतितः परस्परसंश्लिष्टानामेव उपाकरणनियोजनादीनामेकैकस्मिन् पशौ आकाङ्क्षानुरोधेन प्रतिकर्मावसायिना चोदकेन प्राप्तत्वादेकैकस्य पशोरुपाकरणादिकं सर्वं गुणकाण्डं कृत्वा ततोऽपरस्य कर्तव्यम्। वाचनिकं तु साहित्यमारादुपकारकतन्त्रादप्युपपन्नमिति काण्डानुसमय एवेति प्राप्ते वैश्वदेवीं कृत्वा प्राजापत्यैश्चरन्ति इति प्रत्यक्षवचनेन साङ्गकानां प्रधानानामेककालकर्तव्यत्वावगमेन सर्वेषामुपाकरणानामेककालावच्छिन्नत्वं प्राप्तम्। इदं च नानुमानिकेन चोदकेन बाधितुं शक्यम्। ततश्च यस्मिन्नेव क्षणे एकस्योपाकरणं कर्तव्यमापतति तस्मिन्नेवापरस्य उपाकरणं कर्तव्यमापतति। तदशक्यतया केवलं न क्रियते। द्वितीयक्षणे तदकरणे हेत्वदर्शनात् कर्तव्यमेव पश्वन्तरे तत्। तस्मादेकं पदार्थं सर्वेषां कृत्वा ततो द्वितीयादिः कर्तव्य इति पदार्थानुसमय एव। यत्र तु पदार्थानुसमये प्रधानविरोधो भवति, यथा अश्वप्रतिग्रहेट्यां यावतोऽश्वान् प्रतिगृह्णीयात् तावतो वारुणान् चतुष्कपालान् निर्वपेत् इति वचनेन शते सहस्रे वा पुरोडाशेषु श्रप्यमानेषु यदि सर्वेषामधिश्रयण़ं कृत्वा उद्वासनं क्रियते तदा दह्येरन्। ततस्तत्र काण्डानुसमय एव कतिपयाङ्गानामिति॥
**इति पञ्चमाध्याये द्वितीयः पादः॥**
** अथ तृतीयः पादः॥**
तृतीयपादे वृद्ध्यवृद्धिविचारः। तथा हि - एकादशा प्रयाजान् यजति षडुपसदः इति प्राकृतानां संख्याविवृद्धिः विकृतौ श्रूयते। सा किं प्रत्येकं भवति, उत सर्वं संपाद्देति विशये प्रतिप्रधानगुणावृत्तिन्यायेन एकादशत्वादिसंख्यायाः प्रत्येकं संबन्धात् एकैकः प्रयाजः एकादशवारमावर्तनीय इति प्राप्ते, न ह्येकैकशः समुदितानां वा संख्यान्वयः संभवति। एकस्य पञ्चानां वा एकादशत्वासंभवात्। अतः संख्यान्वयसिद्धये जघन्यप्रयाजपदेन प्रयोगो लक्षणीयः। ततश्च तत्राभिधानबलेन सहितप्रयाजप्रयोगाणां सहितानामेवोद्देशात् सर्वसंपाद्दैव संख्येति। षडुपसद इत्यत्र संख्यायाः सर्वसंपाद्दत्वात् तिसृणामुपसदां द्विरभ्यासः कार्यः। तत्र दण्डकलितपदावृत्तिः स्वस्थानविवृद्धिर्वेति विशये, लोके त्रिरनुवाकः पठ्यताम् इत्यादौ दण्डकलितपदावृत्तिदर्शनादिहापि तथा स्यात्। अतः सर्वा उपसदः सकृत् कृत्वा पुनरादितः कार्या इति प्राप्ते, तृतीयां कृत्वा प्रथमायां क्रियमाणायां प्राकृतक्रमबाधप्रसङ्गेन तदबाधाय प्रथमां द्विः कृत्वा द्वितीयां द्विरभ्यस्य तृतीयाऽपि तथैव कार्येति स्वस्थानविवृद्धिरेवेति॥
**इति पञ्चमाध्याये तृतीयः पादः॥**
़ अथ चतुर्थः पादः ॥
चतुर्थपादे क्रमनियामकानां श्रुत्यर्थादीनां बलाबलविचारः। तथा हि - श्रुतिविरोधे पाठो दुर्बलः। यथा आश्विनो दशमो गृह्यते तं तृतीयं जुहोति इति। अत्र ऐन्द्रवारुणं गृह्णाति मैत्रावरुणं गृह्णाति आश्विनं गृह्णाति इति पाठात् तृतीये स्थाने प्राप्तस्य दशमश्रुत्या दशमस्थाने अनुष्ठानम्। श्रौतक्रमस्थले हि श्रुत्या उत्पन्नस्य क्रमस्य वाक्येन विनियोगः। क्रमान्तरे तु अर्थादिना उत्पन्नस्य प्रकरणादिकल्पतश्रुत्या विनियोगः। एवर्थविरोधेऽपि पाठो दुर्बलः। यथा अग्निहोत्रं जुहोति यवागूं पचति इति पाठात् यवागूपाकस्याग्निहोत्रानन्तर्ये प्राप्ते यवाग्वा अग्निहोत्रं जुहोति इति वचनावगतहोमरूपप्रयोजनवशेन पाकस्य पूर्वमनुष्ठानमित्युक्तम्। पाठयोस्तु मन्त्रब्राह्मणगतयोः मन्त्रपाठो बलीयान्। यथा दर्शपूर्णमसयोर्ब्राह्मणपाठवशेनाग्नीषोमीयस्य प्रथममनुष्ठानप्राप्तौ याज्यानुवाक्यादिमन्त्रपाठवशेनाग्नेयस्य प्रथममनुष्ठानम्। पश्चादुपांश्ाुयाजोत्तरमग्नीषोमीयस्यानुष्ठानकाले मन्त्रस्यैव स्मारकतया तज्जन्यस्मृतिक्रमेणैवानुष्ठानावश्यम्भावात्, तद्दशायां ब्राह्मणपाठस्याकिंचित्करत्वात्। एवं मुख्यक्रमप्रवृत्तिक्रमयोः मुख्यक्रमो बलीयान्। तथा हि - दर्शपूर्णमासयोः सान्नाय्यधर्माः पाठवशेन पूर्वं प्रवर्तन्ते। पश्चादाग्नेयधर्माः। प्रधानं त्वाग्नेयस्य प्रथमम्, पश्चात् सान्नाय्यस्य। तत्र हविरासादनप्रयाजशेषाभिधारणादिकानि किं प्रवृत्तिक्रमात् सान्नाय्यस्य पूर्वं कर्तव्यानि, उत मुख्यक्रमादाग्नेयस्येति विशये, प्रवृत्तिमुख्ययोः बलाबलनिरूपणादनियमे प्राप्ते मुख्यक्रम एव बलीयान्। मुख्यक्रमे हि प्रधानप्रत्यासत्त्यनुग्रहः। प्रवृत्तिक्रमे तु अङ्गानामेव परस्परप्रत्यात्त्यनुग्रह इति। तदेवं पादचतुष्टयपरिमितेन पञ्चमेन क्रमो निरूपितः॥
**इति पञ्चमाध्यायस्य चतुर्थः पादः॥**
** इति पञ्चमाध्यायः समाप्तः॥**
** अथ षष्ठाध्यायः॥**
** ** प्रथमः पादः॥
षष्ठाध्यायेनाधिकारनिरूपणम्। अधिकारो नाम फलभोक्तृत्वसमानाधिकरणं कर्तृत्वम्। श्राद्धादिफलभोक्तुः पित्रादेः यागादिकर्तृणामृत्विजामधिकारवारणाय उभयोपादानम्। तथा हि - कर्मसु किं तिर्यगादिसाधारण्येन चेतनमात्रस्याधिकारः, किं वा साङ्गानुष्ठानसमर्थानां मनुष्याणामेवेति विशये, स्वर्गकामत्वाविशेषात् चेतनमात्रस्याधिकारः। न च तिरश्चां स्वर्गकामसंभव इति वाच्यम्। परकीयेच्छाया अप्रत्यक्षत्वेन तदभावनिश्चयायोगात्, श्येनादीनामष्टम्युपवासदर्शनात् तदनुमानाच्च। न च साङ्गकरणासामर्थ्यादनधिकारः, शक्यमात्रस्यैव करणत्वोपपत्तेः इति प्राप्ते, भावनाया अंशत्रयान्वये सति पश्चाद्विधिबलेन अधिकारिकल्पनात् पूर्वावगतसाङ्गप्रधानभावनानुष्ठानसमर्थ एवाधिकारी। अतश्चासमर्थत्वादविद्वत्त्वाच्च न तिरश्चामधिकारः। किन्तु समर्थो विद्वान् द्रव्यवान् मनुष्य एवाधिकारीति। एवं क्रतुषु पुंस एवाधिकारः, उत स्त्रिया अपीति चिन्तायाम्, स्वर्गकाम इति पुंलिङ्गश्रवणात् पुंस एवाधिकार इति प्राप्ते, पुंस्त्वस्याधिकारिविशेषणतया अधिकारिणश्च फलं प्रत्यपि प्राधान्यात् उद्देश्यविशेषणत्वेन ग्रहैकत्ववदविवक्षितत्वात् स्त्रिया अप्यधिकार इति। एवं सिद्धे द्वयोरप्यधिकारे किं दम्पती पृथक् पृथक् यजेयाताम्, उत सहेति चिन्तायाम्, स्वर्गकामपदोपात्तस्य एकत्वस्य पुंस्त्ववदविवक्षितत्वेऽपि आख्यातोपात्तस्य तस्य निरूढलक्षणया आख्यातगम्यकर्तृविशेषणस्योपादेयगतत्वेन विवक्षितत्वात् एकैकशः प्रयोग इति प्राप्ते, प्रत्येकप्रयोगे अन्यतरकर्तृकाज्यावेक्षणान्वारम्भादिपदार्थलोपेन वैगुण्यापत्तेः सहैव प्रयोगः। न चाख्यातोपात्तमेकत्वं सहाधिकारे नोपपद्देतेति वाच्यम्। एकवचनश्रवणादेव दम्पत्योर्व्यासृज्यवृत्तेरेकस्य कर्तृकस्य कल्पनात्। आख्यातस्य हि अखण्डोपाधिरूपे कर्तृत्व एव निरूढलक्षणा। ततश्च तत्रैव पार्ष्ठिक एकत्वान्वय इति॥
एवमग्निहोत्रादिषु किं चतुर्णामपि वर्णानामधिकारः, उत अपशूद्राणां त्रयाणामेवेति विशये, अविशेषाच्चतुर्णां वर्णानामधिकारः। ननु शूद्राणामाधानाध्ययनयोरभावात् कथमग्निविद्दासाध्येषु कर्मस्वधिकारः। आधानं हि - वसन्ते ब्राह्मणोऽग्नीनादधीत ग्रीष्मे राजन्यः शरदि वैश्यः इति त्रयाणामेव विहितम्। यद्दप्यध्ययनविधिरनिष्टकर्तृकः, तथापि तस्य कर्त्रापेक्षायां प्रकृतोपनयनसंस्कृतानां किमर्थं वयमाचार्यसमीपं नीता इति प्रयोजनमपेक्षमाणानां ब्राह्मणानामेव कर्तृत्वेनान्वयात् न शूद्रस्याध्ययनविधायकत्वम्। तस्मात् अध्ययनजन्यज्ञानरूपविद्दाया आधानजन्यं हवनीयादिरूपाग्नेश्च विरहान्न शूद्रस्याधिकार इति चेन्न। क्रतुविधिभिरेव शूद्रस्याग्निविद्दयोराक्षेपात्। ततश्च शूद्रस्य उपनयनमन्तरेणैवाध्ययनं वसन्तादिकालनियममन्तरेणाधानं च कर्तव्यमिति प्राप्ते, क्रतुविधीनामन्यथानुपपत्त्यैव शूद्रस्याग्निविद्दाक्षेपव????5त्वं वक्तव्यम्। तच्च नोपपद्दते, क्रतुविधीनां सिद्धाग्निविद्दत्रैवर्णिकलाभेन कृतार्थत्वात्। अतोऽपशूद्राणामेवाधिकारः॥
एवं वर्षासु रथकारोऽग्नीनादधीत इति वचनं किं ब्राह्मणादीनामेव रथकरणे निमित्ते वर्षाविधायकम्, उत रथकारसंज्ञस्यावान्तरवर्णस्याधानान्तरविधायकमिति विशये, ब्राह्मणादीनां विद्दावत्त्वात् कालमात्रविधाने लाघवात् तेषामेव कालविधिः। नाविदुषोऽवान्तरवर्णस्य विशिष्टाधानविधानम् इति प्राप्ते रथकारशब्दस्य जातिविशेषरूढतया रूढ्या योगबाधात् वचनबलेनाविदुषोऽपि अधिकारप्रतीत्यविघातेनावान्तरवर्णस्यैव इदमाधानमिति॥
एवं रौद्रं वास्तुमयं चरुं निर्वपेत् इति प्रकृत्य एतया निषादस्थपतिं याजयेत् इति श्रुतम्। तत्र किं निषाधानामधिपतेः त्रैवर्णिकस्याधिकारः, उत निषादाात्मकस्य स्थपतेरिति विषये, विद्दावतो निषाधादिपतेः त्रैवर्णिकस्यैवाधिकारः, न तु निषादस्य, विद्दाविधुरत्वात् तदाक्षेपे गौरवात्। अतो निषादानां स्थपतिः निषादस्थपतिरिति षष्ठीसमासमाश्रित्य त्रैवर्णिकाधइकार एव युक्त इति प्राप्ते, षष्ठीसमासे पूर्वपदे विभक्त्यन्तार्थविशिषअटे लक्षणामाश्रित्य उत्तरपदार्थे अभेदसंबन्धेनान्वयो वाच्यः। नामार्थयोरभेदातिरिक्तसंबन्धेनान्वयस्याव्युत्पन्नत्वात्। अतः कर्मधारयस्यैवाश्रयणणीयतया निषादस्यैवाधिकारः॥
अथ उक्तव्युत्पत्त्यनुपगमेऽपि क्षत्वभावः। न च राजा पुरुष इत्यादौ स्वत्वसंबन्धेन राजादेः पुरुषादौ अन्वयप्रसङ्ग इति वाच्यम्, समासातिरिक्तस्थले नामार्थयोः परस्परान्वयस्यैवाव्युत्पन्नत्वात्, सिद्धान्ते राजा पुरुष इत्यादौ अभेदसंबन्धेनाप्यनन्वयात्। राजा पुरुष इत्यादौ हि अस्तीत्यध्याहारः, अस्तीर्भवन्तीपरोऽप्रयुज्यमानोऽप्यस्ति इति महाभाष्यकारवचनात् , क्रियान्वयमन्तरेण शब्दबोधापर्यवसानाच्च। तत्र धात्वर्थः सत्ता। आख्यातार्थ आश्रयत्वम्। आख्यतार्थे राज्ञः पुरुषस्य चाधेयतासंबन्धेनान्वयः। तत्र च राजनिष्ठं पुरुषनिष्ठं सत्ताश्रयत्वनᐃमति शाब्दबोधः। राजपुरुषयोरभेदबोधस्तु औत्तरकालिको मानस एवेति चेन्न, राज पुरुष इत्यादि समानाधिकरणपदस्थले पार्ष्ठिकमासबोधस्याभेदविषयकत्वात् कदाचित् स्वत्वादिसंबन्धविषयकत्वापत्तिवारणाय नामप्रयोज्यतर्थान्वय बोधस्याबेधविषयकत्वनियम़ाङ्गीकारेण राजपुरुष इत्यादितत्पुरुषे राजादेः पुरुषादौ स्वत्वााᐃदसंसर्गेणान्वयायोगात्। ततश्चाभेदान्वयाय तत्पुरुषे लक्षणाया आवश्यकत्वेन श्रुत्यर्थलिप्सया कर्मधारय एवाश्रयणीयः। विद्दाक्षेपकत्वगौरवं तु फलमुखत्वान्न दोषाय॥
** इति षष्ठाध्याये प्रथमः पादः॥**
** अथ द्वितीयः पादः॥**
द्वितीये पादे अधिकारिधर्मनिरूपणम्। तथाहि – **_ऋद्धिकामाः सत्रमासीरन् _**इत्यादौ अनेककर्तृकसत्रप्रयोगादेकं फलं किं सर्वैः कर्तृभिः अवश्यवशो भुज्यते किं वा कृत्स्नमिति विषये एकप्रयोगादनेकफलनिष्पत्त्यङ्गीकारे एकेन ज्योतिष्टोमादिप्रयोगेणानेकस्वर्गाद्दापत्त्या तदसंभवादेकमेव फलमवयवशो भुज्यते। यद्दपि ऋद्धिस्वर्गादीनां मुख्यावयवासंभवः, तथापि ऋद्धित्वस्वर्गत्वादीनां तत्तत्कर्मजन्यतावच्छेदकानां समुदायपर्याप्तत्वाङ्गीकारात् तद्घटकेष्ववयवस्य व्यवहार इति प्राप्ते, एकप्रयोगादेकात्मनि युगपदनेकफलोत्पत्त्यसंभवेऽपि भिन्नभिन्नेष्वात्मसु प्रत्येकं कृत्स्नफलोत्पत्तिसंभवात् सर्वैरपि प्रत्येकं कृत्स्नमेव फलं भुज्यते, ऋद्धित्वस्वर्गत्वादीनां व्यासज्यवृत्तित्वे मानाभावाच्च। ततश्च तत्तत्कर्मजन्यतावच्छेदकीभूतधर्मावच्छिन्नरूपकृत्स्नफलभोक्तृत्वं सर्वेषां संभवतीति तादृशकृत्स्नफलकामनावत एवाधिकार इति॥
** इति षष्ठाध्याये द्वितीयः पादः॥**
** अथ तृतीयः पादः॥**
तृतीये पादे नित्यानां कर्मणां यथाशक्त्यङ्गोपसंहारेण कर्तव्यता। काम्यानां तु सर्वाङ्गोपसंहारेणैव। नित्येषु श्रुतद्रव्यापचारे प्रतिनिध्युपादानम्। काम्येषु तु आरम्भोत्तरं तदपचारे प्रतिनिध्युपादानादिकं यथाशक्त्यनुष्ठानं निरूपितम्। तथाहि - **_यावज्जीवमग्रिहोत्रं जुहोति। यावज्जीवं दर्शपूर्णमासाभ्यां यजेत। वसन्ते वसन्ते ज्योतिषा यजेत_** इति किं सर्वाङ्गोपसंहारेणाधिकारः, उत यथाशक्त्यङ्गोपसंहारेणेति विशये यथाविनियोगमधिकारस्य प्रागुक्तत्वात् सर्वाङ्गोपसंहारसमर्थस्यैवाधिकार इति प्राप्ते, जीवनादेर्निमित्तस्य स्वान्वयव्यतिरेकानुविधाय्यनुष्ठानकत्वानुरोधेन यदा यावन्त्यङ्गान्युपहर्तुं शक्नुयात् तदा तदुपसंहारेणानुष्ठेयत्वसिद्धिः। काम्ये तूक्तन्यायाभावात् सर्वाङ्गोपसंहारेणैवाधिकारः। उपक्रान्तस्य तु काम्यस्यासमापने प्रत्यवायात् यथाशक्त्युपबन्धः। परं तु तत्र न फलोत्पत्तिः। पापक्षयस्यु नित्यवदस्त्येव। नित्यस्थले अवश्यानुष्ठेयत्वावगत्त्या प्रत्यवायजनकाभावप्रतियोगिकृतिविषयत्वमाक्षिप्यते। तावतैव प्रवृत्त्युपपत्तावपि भावनायाः भाव्याकाङ्क्षायां **_धर्मेण पापमपनुदति_** इति शास्त्रान्तरानुसारेण पापक्षयस्य भाव्यत्वेनान्वयः। एवं काम्यस्य उपक्रमानन्तरं फलकामनायां निवृत्तायामपि उपक्रान्तकर्मासमापने शिष्टगर्हादिना प्रत्यवायसत्वात् प्रत्यवायजनकाकरणप्रतियोगित्वेन प्रवृत्तावपि पूर्ववत् पापक्षयसंभव इति। तथा काम्ये आरम्भोत्तरं नित्ये ततः पूर्वमपि श्रुतद्रव्यालाभे द्रव्यान्तरं प्रतिनिधेयं न वा इति चिन्तायामशक्तावङ्गत्यागेन प्रयोगेपि अनङ्गग्रहणे प्रमाणाभावात् न द्रव्यान्तरं प्रतिनिधेयमिति प्राप्ते, व्रीहिभिर्यजेतेत्यादिद्रव्यविधिना नियमविधिरूपेण कर्मशास्त्रस्य द्रव्याक्षेपकत्वमिति व्रीहिलाभ एव प्रतिपद्दते, न तु तदलाभेऽपि। ततश्च कर्मविध्याक्षिप्तद्रव्यान्तरं प्रतिनिधेयमेवेति॥
एवं सर्वस्यापि प्रतिनिध्युपादाने प्रसक्ते देवतायाः आहवनीयाद्दग्नेः मन्त्रस्य प्रयाजादिक्रियायाश्च न प्रतिनिधिः। तथाहि - देवतात्वं हविस्त्यागकालीनोच्चारणकर्मत्वविशिष्टविधिगतशब्दप्रतिपाद्दत्वस्य तत्समनियताखण्डोपाधेर्वा देवतात्वरूपतया न प्रतिनिधिसंभवः। एवमाहवनीयाद्दग्निमत एवाधिकारितायाः प्रागुक्ततयाऽनग्निकस्यानधिकार एवेति नाग्नीनां प्रतिनिधिः, यथाशक्तिन्यायाविषयत्वात्॥
एवं मन्त्राणामपि न प्रतिनिधिसंभवः, ध्यानादिना अनुष्ठेयार्थानवगमे तदर्थप्रतिपादकत्वज्ञानासंभवात्, तदवगमे चास्मिन् स्मारकापेक्षाविरहात्। एवमदृष्टार्थानां प्रयाजादीनामपि न प्रतिनिधिः, तददृष्टस्य अन्यत उत्पत्तौ मानाभावात्। एवम् अयाज्ञयिा वै माषाः वराकाः कोद्रवाश्च इति माषादीनां यज्ञसाधनत्वप्रतिषेधात् न तेषां प्रतिनिधित्वमिति॥
एवं प्रतिनिधौ विचारिते किं सति संभवे सदृश एव प्रतिनिधिः उत अनियम इति कर्मचोदनया यत्किंचिद्रव्यमात्राक्षेपात् सदृशनियमे मानाभावात् अनियम एवेति प्राप्ते, सदृश एव प्रतिनिधिः। तथाहि - व्रीहिशास्त्रेण व्रीहित्वजातेः साधनत्वे प्रमिते अमूर्तायास्तस्याः साधनत्वासंभवात् अर्थात् तत्परिच्छिन्नस्यावयविनः साधनत्वमवगम्यते। तस्यापि चावयवोपादानव्यतिरेकेण साधनत्वासंभवात् तदवयवानामपि साधनत्वमर्थादेवावगम्यते। ततश्च व्रीह्यवयवजातीयावयवान्तरोपेतानां नीवारारम्भकतया यथाशक्तिप्रयोगे जातेरवयविनः अवयवान्तराणां च साधनत्वासंभवेऽपि कतिपयावयवानां तत्सम्पत्त्यर्थं सदृशनीवारादेरेव प्रतिनिधितयोपादानमिति। इत्थं च सुसदृशलाभे मन्दसदृशं नोपादेयम्, सुसदृशे बह्ववयवानुग्रहात्॥
एवं यदि सोमं न विन्देत् प्रतीकानभिषुणियात् इत्यादौ किं सोमाभावे प्रतीकत्वेन रूपेण प्रतीकानां विधानम् उत प्रतिनिधिविधया प्रतीकगतसोमावयवानां नियमविधिरिति विशये प्रतिनिधिनियमविधित्वे प्रतीकशब्दस्य प्रतीकगतसोमावयवलाक्षणिकतापत्तेः अभावे विधिरेवायमिति प्राप्ते, अभावे विधाने प्रतीकत्वस्य तदवच्छिन्नव्यक्तेः तदवयवान्तराणां च सोमावयवविजातीयानां कारणत्वकल्पने गौरवापत्तेः प्रतिनिधिनियम एवायम्। तथा सति हि क्लृप्तसोमावयवनिष्ठकारणताक्षिप्तसोमसदृशद्रव्यपरिच्छेदकत्वेन यागोद्देशेन प्रतीकत्वनियममात्रविधानात् कतिपयसोमावयवानुग्रहाय सोमसदृशद्रव्योपादित्सया प्रवर्तमानः पुरुषः प्रतीकानेवोपादद्दादित्यर्थपर्यवसानेन प्रतीकव्यक्तितदवयवान्तराणां यागकरणत्वाकल्पनात् लाघवम्। इत्थं च प्रतीकानित्यत्र द्वितीयया उक्तपरिच्छेदद्वारकं प्रयोजकत्वमेव लक्षणीयम्, धातुना च यागः। प्रतीकपदे तु न लक्षणा, प्रतीव????5त्वस्यैव विधानात्। यद्दपि एतद्विध्यभावे प्रतीकत्वस्योक्तयागप्रयोजकत्वं न पक्षप्राप्तम्, प्रतीकानां मन्दसदृशत्वेन सोमाभावे सुसदृशस्यैव प्राप्तेः। तथापि कर्मचोदनया यत्किंचित्प्रतिनिधिप्रसक्तौ सदृशन्यायेन नियमकरणात् पूर्वमेव एतद्वचनप्रवृत्त्या नियमोपपत्तिरिति। अत्र पूर्वपक्षे प्रतीकालाभे प्रतीकसदृशस्यापि प्रतिनिधितयोपादानम्, सिद्धान्ते तु सोमसदृशस्यैवेति प्रयोजनं बोध्यम्॥
**इति षष्ठाध्याये तृतीयः पादः॥**
** अथ चतुर्थः पादः॥**
चतुर्थे पादे उत्पन्नहविर्नाशे आज्येन समापनमित्यादिकं विचारितम्। तथाहि - दर्सपूर्णमासयोर्मध्यादवद्दति। पूर्वार्धादवद्दति इत्यादि श्रूयते। तत्र यदावत्तस्य भवति तदा किं यस्य सर्वाणि हवींषि नश्येयुर्दुष्येयुरपहरेयुर्वा अज्येनैता देवताः परिसंख्याय यजेत इति चोदितहविर्नाशनिमित्ताज्ययागः कार्यः उत तस्यामवस्थायां शेषादेव पुनरवदेयमिति चिन्तायां व्द्दवदाननाशेऽपि पुनर्मध्यादिसंभवात् तत एवावदेयम्, तन्मात्रस्यैव शास्त्रार्थत्वात्। कृत्स्नहविर्नाशादावेव तु आज्ययागः, तदानीमेव तु हविरन्तरापेक्षया न्यायबलेन हविरन्तरोत्पत्तौ प्रसक्तायां वचनेनाज्यविधानात् इति प्राप्ते, कृत्स्नस्य पुरोडाशस्य यो मध्यदेशः तदपादानको यस्तस्योपरितनोङ्गुष्ठपर्वमात्रोऽवयवः सोऽवदातव्यः। यस्तु तस्याधस्तनोऽवयवः सोऽवदेयस्यापादानभूतः। नत्वसाववदातव्यः। अतो नासौ हविः। यत्तु हविस्तन्नष्टम्। अतो हविर्नाशनिमित्ताज्ययागः कार्यः। न च सर्वाणीति वचनात् सर्वहविर्नाश एवाज्ययाग इति भ्रमितव्यम्, हविर्नाशस्य निमित्तत्वात् सर्वशब्देन विशेषणासंभवात्, निमित्तमपि ह्युद्देश्यम्। एवं दर्शपूर्णमासयोः सायंदोहप्रातर्दोहौ प्रकृत्य श्रुते यस्योभयगँ् हविरार्तिमार्च्छेत्। ऐन्द्रं पञ्चशरावमोदनं निर्वपेत् इत्यत्र नार्तिमात्रस्य निमित्तता, सर्वदैव कस्यचिद्वस्तुनः आर्तिसत्वेन नित्यतया निमित्तत्वानुपपत्तेः। अतः अर्धमन्तर्वेदि मिनोति। अर्धं बहिर्वेदि इत्यत्रेव लक्षणया हविरार्तिर्निमित्तमिति सर्वैराश्रयणीयम्। तत्रोभयत्वमपि निमित्तकोटिप्रविष्टं न वा इति विशये उभयत्वमप्यन्तर्भाव्यलक्षणामङ्गीकृत्य उभयहविरार्तिरेव निमित्तमिति वक्तव्यम्, अन्यथा उभयपदवैयर्थ्यापत्तेः। न हि ग्रहं संमार्ष्टीत्यत्र एकवचनस्य साधुत्वार्थत्वमिव इहोभयपदस्य किंचित् प्रयोजनं संभवति। अत उभयत्वमपि निमित्तकोटिप्रविष्टमेवेति प्राप्ते, उभयपदस्य उभयमपीत्येवं पूर्वोक्तैकैकनाशप्रायश्चित्तापेक्षया उत्कर्षेण स्तावकतयाप्यर्थवत्वोपपत्तेः न तदर्थान्तर्भावेन लक्षणाश्रयणं युक्तम्, अन्यथा गृहं संमार्ष्टीत्यत्रापि एकवचनानुरोधेन एकत्वान्तर्भावेन लक्षणाङ्गीकारापत्तेः। अत उभयत्वं न निमित्तकोटिप्रविष्टम्। ततश्च एकैकहविर्नाशेऽपीदं प्रायश्चित्तमिति॥
** इति चतुर्थाध्याये चतुर्थः पादः॥**
** अथ पञ्चमः पादः ॥**
पञ्चमे पादे कतिपयप्रायश्चित्तविचारः। तथा हि - ज्योतिष्टोमे दक्षिणादानात् प्राक् बहष्पिवमानार्थं तद्देशे कच्छं धृत्वा प्रसर्पतामुद्गातृप्रतिहर्तृप्रस्तोतृणां मध्ये यद्दुद्गाताऽपच्छिन्द्दात् अदक्षिणं तं यज्ञमिष्ट्वा तेन पुनर्यजेत। **_तत्र तत् दद्दात् यत्पूर्वस्मिन् दास्यन् स्यात्। यदिप्रतिहर्ता सर्ववेदसं दद्दात्। यदि प्रस्तोता ब्रह्मणे वरं दद्दात्_** इत्यादिना तत्तत्कर्तृकापच्छेदे निमित्ते प्रायश्चित्तं श्रुतम् । तत्रोद्गातृप्रतिहर्त्रोर्युगपदपच्छेदे प्रायश्चित्तद्वयप्राप्तौ किं विकल्पः समुच्चयो वेति विशये अष्टदोषदुष्टस्य विकल्पस्यान्याय्यत्वात् समुच्चय एव, तेन पुनर्यजेतेति प्रयोगद्वयसत्त्वेन पूर्वस्मिन्नदाक्षिण्यम् उत्तरस्मिन् सर्ववेदसमित्यविरोधादिति प्राप्ते, यत्र हि प्रयोगे निमित्तं तस्यैव हि नैमित्तिकं प्रायश्चित्तमङ्गं प्रयोगान्तरे क्रियमाणेन प्रायश्चित्तेन निमित्तवतः प्रयोगस्य साद्गुण्यासंभवात् । ततश्च एकस्मिन्नेव प्रयोगे अदाक्षिण्यसर्ववेदसयोः प्राप्त्या विरोधाद्विकल्प इति । एवं यत्र क्रमेण निमित्तद्वयसंनिपातः तत्र पूर्वनिमित्तमुत्रनिमित्तकं वा प्रायश्चित्तनिमित्तमिति चिन्तायामसंजातविरोधित्वात् पूर्वनिमित्तकमेवेति प्राप्ते पूर्वाबाधेन उत्तरानुपपत्तेः उत्तरनिमित्तकमेव प्रायश्चित्तम्। उपक्रमाधिकरणन्यायस्तु पूर्वापरवाक्ययोरेकवाक्यतया परस्परसापेक्षतामेव। परस्परनिरपेक्षत्वे तु पूर्वदौर्बल्यमेवेति॥
** इति षष्ठाध्याये पञ्चमः पादः ॥**
** अथ षष्ठः पादः॥**
षाष्ठे पादे सत्राधिकारविषयविचारः। तथा हि - दर्शपूर्णमासयोः कल्पभेदः श्रुतः । **_राजन्यवासिष्ठादीनां नाराशगँसो द्वितीयः प्रयाज। तनूनपादन्येषाम् _**इति। अत्र द्वितीयप्रयाजक्रमे समाम्नातयोर्नाराशंसतनुनपान्मन्त्रयोरव्यवस्थया विकल्पेन द्वितीयप्रयाजसंबन्धित्वेन प्राप्तयोर्वासिष्ठसंबन्धमात्रं नराशंसस्य क्रियते। अत एव नाराशँग्स इति तद्धितः। द्वितीयप्रयाजपदं चानुवादः। ततश्च परिशेषात् तनूनपान्मन्त्रे अन्यसंबन्धसिद्धेः तनूनपादन्येषामित्यनुवाद एव। स च कल्पभेदः दीक्षणीयादिद्वारा अनेककर्तृकेषु सत्रादिषु प्राप्तः। तत्र सत्रादौ भिन्नकल्पानामप्यधिकारः समानकल्पानामेव वेति विशये अविशेषात् भिन्नकल्पानामपीति प्राप्ते एककल्पाननुष्ठाने अन्येषां वैगुण्यापत्त्या समानकल्पानामेवाधिकार इति॥
** इति षष्ठाध्याये षष्ठः पादः॥**
** अथ सप्तमः पादः॥**
सप्तमे पादे देयविचारः। तथाहि -_ विश्वजिति सर्वस्वं ददाति_ इति श्रुतम्। तत्र पित्रादीनामपि ज्ञातित्वेन स्वशब्दवाच्यतया दानम्, उत धनस्यैवेति चिन्तायाम् अविशेषात् पित्रादीनामपि दानम्। परस्वत्वापादनरूपस्य दानस्य पित्रादिविषयेऽपि परविधेयीकरणेनोपपत्तेः इति प्राप्ते, स्वस्वत्वत्यागपूर्वकं परस्वत्वापादनं हि दानम्। न हि पित्रादिषु धन इव यथेष्टविनियोगयोग्यत्वरूपं स्वत्वं संभवति। तस्मात् धनस्यैव दानमिति॥
** इति षष्ठाध्याये सप्तमः पादः॥**
** अथाष्टमः पादः॥**
अष्टमे पादे अग्न्यादिविचारः। तथाहि -**_यो ब्रह्मचार्यवकिरेत् स नैर्ऋतं गर्दभं पशुमालभेत_** इति श्रुतो यागः आहवनीयादिषु लौकिकाग्नौ वेति विशये ब्रह्मचारिणस्त्रैवर्णिकत्वेन विद्दावत्त्वाच्च भार्यामधिगम्याधानोपपत्तेराहवनीयादिष्वेवेति प्राप्ते **_अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेत्_** इति वचनेन विप्लुतब्रह्मचर्यस्यावकीर्णिनः अकृतप्रायश्चित्तस्य विवाहनिषेधात् अपत्नीकस्य चाधानासंभवात् लौकिकाग्नावेवेति। एवम् **_अग्नीषोमीयं पशुमालभेत_** इत्यनेनाश्वादीनामपि यागाङ्गत्वमविशेषात् बोध्यते उत **_छागस्य वपाया मेदसोऽनुब्रूहि_** इति मन्त्रवर्णानुरोधात् छागमात्रस्येति चिन्तायामविशेषप्रवृत्तविधेः न मन्त्रवर्णात् संकोचसंभवः। मन्त्रवर्णस्य विध्येकवाक्यतानापन्नत्वात्। **_अक्ताः शर्करा उपदध्यात_**् इत्यत्र तु तेजो घृतमित्यर्थवादवशात् घृतेनैवाञ्जनमित्युपपद्दते। अर्थवादस्य विध्येकवाक्यत्वात्। छागस्य वपाया इति मन्त्रस्तु छागपक्ष एवेति प्राप्ते, सामान्यशब्दस्य विशेषपर्यवसानमन्तरेणानुष्ठानानिर्वाहात् विशेषापेक्षायामनुष्ठानदशायामर्थस्मारकस्य मन्त्रस्यैव विशेषसमर्पकतया तदनुरोधेन विधिगतपशुशब्दस्य छागमात्रपरतया तस्यैवाङ्गत्वम्। न त्वश्वादीनामिति छागवत एवाधिकार इति॥
** इति षष्ठाध्याये अष्टमः पादः॥**
** समाप्तश्च षष्ठोऽध्यायः॥**
** अथ सप्तमोऽध्यायः॥**
** प्रथमः पादः॥**
तदेवं पादाष्टकपरिमितेन षष्ठाध्यायेनाधिकारो निरूपितः। इत्थं पूर्वषट्केन उपदेशविचारे वृत्ते उत्तरषट्केन तदधीनसिद्धिकातिदेशषविचारः प्रवर्तते। तत्रातिदेशो नाम यः पदार्थो यादृशोपकारद्वारा यदङ्गत्वेनावधारितः तस्य पदार्थस्य तत्सम्बन्धित्वेन रूपेण तादृशोपकारद्वारैवान्याङ्गताबोधकं प्रमाणम्। भवति च प्रकृतिवत् विकृतिः कर्तव्यत्येवमादिकं वाक्यम्। प्रयाजादिपदार्थानामदृष्टोपकारद्वारा आग्नेयाद्दङ्गत्वेनावधारितानामाग्नेयादि संबन्धित्वेन रूपेण तादृशोपकारद्वारैव सौर्याद्दङ्गताबोधकम्। अत्र च दर्शपूर्णमासादीनामपूर्वद्वारा स्वर्गाद्दङ्गत्वेनावधारितानां तेनैव द्वारेण पापक्षयाद्दङ्गताबोधके यावज्जीवादिवाक्ये अतिप्रसङ्गवारणाय तत्संबन्धित्वेन रूपेणेति। न हि दर्शादेः स्वर्गसंबन्धित्वेन रूपेण पापक्षयार्थता, प्रमाणाभावात्। अपि तु दर्शत्वादिनैव। प्रकृते तु प्रयाजादीनामाग्नेयेतिकर्तव्यतात्वनैवानुगमात् तदेव विकृत्यङ्गतावच्छेदव????5म्। पुरोडाशकपालादेश्च पुरोडाशसंबन्धित्वेनावधारितस्य तेनैव रूपेण तुषोपवापाङ्गताबोधके **_पुरोडशकपालेन तुषानुपवपति_** इति वाक्येऽतिप्रसङ्गवारणाय तादृशोपकारद्वारेति। पुरोडाशे तज्जनकश्रपणाधिकरणतया कपालस्योपकारकत्वम्। तुषोपवापे तु करणतया तथात्वमिति भेदात् न दोषः॥
स चातिदेशस्त्रिविधः - प्रत्यक्षवचनातिदेशः, नामातिदेशः, अनुमितिवचनातिदेशश्चेति। तत्र तृतीयस्त्रिविधः - सादृश्यकल्पितवचनातिदेशः, स्थानापत्तिकल्पितवचनातिदेशः, आश्रयोपस्थितिकल्पितवचनातिदेशश्चेति। तत्र सप्तमेऽध्याये सामान्यातिदेशविचारः। तत्र प्रथमे पादे प्रत्यक्षवचनातिदेशनिरूपणम्। तथाहि - इषुर्नाम एकाहो ज्योतिष्टोमविकारः। तत्र प्रकृतिप्राप्तसामानुवादेन वषट्कारनिधनं प्राकृतविषुताविष्वाकारम्। प्राकृतस्तोत्रे सप्ताहाख्यं साम च विधाय, **_समानमितरत् श्येनेन_** इति श्रुतम्। इदं च वाक्यं किमनुवादः, उत अतिदेशविधिरिति विशये अतिदेशप्राप्तानां ज्योतिष्टोमादिधर्माणामनुवाद एवायम्। अप्राप्तत्वेन विधानार्हाणां श्येनवैशेषिकधर्माणां लोहितोष्णीषादीनामसंनिहिततया इतरशब्देन प्रतिपादनासंभवात्। इतरशब्दस्य हि पूर्वोक्तातिरिक्तसंनिहितवाचित्वमेव, लोके तथैव दर्शनात्। ततश्च ज्योतिष्टोमधर्माणामतिदेशतः संनिहितत्वात् श्येनेऽपि सत्त्वेन सादृश्यनियामकत्वसंभवाच्च इतरशब्दस्तत्पर एवेति अनुवादरूपमेवेदं वाक्यमिति प्राप्ते अतिदेशविधिरेवायं श्येनवैशेषिकधर्माणाम्। इतरशब्दो हि न पूर्वोक्तातिरिक्तसंनिहितमात्रवाची। किंतु पूर्वोक्तातिरिक्ततत्सदृशसंनिहितवाची। चैत्रमैत्रयोः कम्बलकौ शेये देये, इतरत् विष्णुमित्रायेत्यत्र इतरशब्देन पूर्वोक्तसदृशसंनिहितवस्त्रादेरेव प्रतीतेः। इत्थं च संनिहितानां प्राकृतानां पूर्वोक्तैरप्राकृतैः सप्ताहादिभिः सादृश्य्ाासंभवात् श्येनवैशेषिकधर्माणामप्राकृतत्वेन सादृश्यसंभवेऽपि असंनिहिततया सादृश्यसंनिहितत्वयोरन्यतरस्य त्यागे अवश्यकर्तव्ये वचनार्थवत्त्वाय संनिहितत्याग एव युक्तः। ॅन ह्यनुवादे किंचित् फलमस्ति। तथा च श्येनाङ्गसदृशं यदप्राकृतत्वेन सप्ताहादिसदृशं तदीषौ कार्यमिति वाक्यार्थः। तस्मादतिदेशविधिरेवायमिति॥
** इति सप्तमाध्याये प्रथमः पादः॥**
** द्वितीयः पादः॥**
द्वितीये पादे अतिदेशोपयुक्तो रथं तरादिपदशक्तिविचारः। तथाहि - **_कवतीषु रथंतरं गायति_** इत्यादौ रथंतरादिशब्दा ऋग्वाचिनः, गीतिविशेषवाचिनो वेति विशये गीतिविशिष्टायामृच्येव रथंतरादिशब्दानां प्रयोगात् तद्वाचित्वमेवावश्यकम्। ततश्च ऋचि ऋगन्तरातिदेशासंभवात् कवतीशब्देन कवतीकार्यमर्थप्रकाशनं लक्षयित्वा तदुद्देशेन रथंतरशब्दवाच्याया अभिवत्या विधानमिति प्राप्ते गीतिविशेष एव रथन्तरादिपदशक्तिः। न तु गीतिविसिष्टायामृचि, गौरवात्। गोत्वादिवाचकगवादिपदात् व्यक्तेरिव ऋग्लाभसंभवात्। ततश्च कवतीषु कार्य इति। अभित्वा शूरनोनुम इत्यादिका ऋक् अभिवती। कयानश्चित्र आभुवदित्यादिकाः कवत्यः॥
इति सप्तमाध्याये द्वितीयः पादः॥
तृतीयः पादः॥
तृतीयेपादे नामातिदेशविचारः। तथा हि - कुण्डपायिनामयने श्रूयते - **_मासमग्निहोत्रं जुह्वति_** इति । इदं चाग्निहोत्रं नैयमिकाग्निहोत्रात् कर्मान्तरमिति प्रकरणान्तराधिकरणे स्थितम्। तत्राग्निहोत्रशब्दः किं नैयमिकाग्निहोत्रधर्माणामतिदेशकः, उत नेति चिन्तायां नैयमिकाग्निहोत्रस्येव मासाग्निहोत्रस्यापि शक्त्यैव बोधोपपत्त्या न मासाग्निहोत्रेऽग्निहोत्रशब्दस्य गौणत्वम्। अतश्च न धर्मातिदेशकत्वमिति प्राप्ते, अनेकार्थत्वस्यान्याय्यतया नैयमिकाग्निहोत्र एव शक्तिः। मासाग्निहोत्रे तु नैयमिकाग्निहोत्रधर्मसदृशधर्मवत्परतया गौणत्वमेव। न च विनिगमनाविरहः। तत्प्रख्यन्यायेन नैयमिकाग्निहोत्रनामताया व्यवस्थापितत्वात् । मासाग्निहोत्रे अग्निदेवताकत्वस्य कथमप्यप्राप्तत्वेन तन्न्यायानवतारात्। तस्मान्मासाग्निहोत्रे अग्निहोत्रशब्दः नैयमिकाग्निहोत्रधर्मविधानार्थतया आतिदेशिक एवेति॥
इति सप्तमाध्याये तृतीयः पादः॥
अथ चतुर्थः पादः॥
चतुर्थे पादे अनुमितवचनातिदेशविचारः। तथाहि - **_सौर्यं चरुं निर्वपेत् ब्रह्मवर्चसकामः_** इत्यादिषु अनाम्नातेतिकर्तव्यताकेषु इतिकर्तव्यताकाङ्क्षायां वक्ष्यमाणसादृश्येन प्रकृतिभावनोपस्थितौ तदंशत्रयस्याप्युपस्थितेः। तत्र फलकरणयोरनपेक्षिततया अपेक्षितेतिकर्तव्यतैव कल्पितेन प्रकृतिवदित्येवंरूपेण विकृतिवाक्यशेषभूतातिदेशेन विकृत्यङ्गतया विधीयते। अतः सर्वत्रानाम्नातेतिकर्तव्यताकस्थले आम्नातेतिकर्तव्यताकादितिकर्तव्यतातिदेशः। तत्राम्नातेतिकर्तव्यताकाश्च यथा दर्शपूर्णमासादयः। श्रौतास्त्रेताग्निसाध्या वैदिकाभिधानास्तथा पार्वणस्थालीपाकादयः स्मार्ताग्निसाध्याः लौकिकाभिधाना अपीति। तत्राविशेषात् सौर्यादावुभयेभ्योऽप्यतिदेश इति प्राप्ते, प्रत्यक्षपठितश्रुतिविहितत्वसादृश्यात् वैदिकानामेवोपस्थित्या तत एवेतिकर्तव्यतातिदेश इति॥
इति सप्तमाध्याये चतुर्थः पादः॥
समाप्तश्च सप्तमोऽध्यायः॥
अथाष्टमोऽध्यायः॥
प्रथमः पादः॥
एवं सामान्यतश्चोदनालिङ्गातिदेशे सिद्धे प्रकृतिविशेषनिरूपणाय अष्टमाध्यायप्रारम्भः। तत्र एकस्मिन् सौर्यादौ एकविध्यन्तेनैव निराकाङ्क्षत्वात् सर्वविध्यन्तसमुच्चयायोगेऽपि नियामकाभावात् अनियमेनानेकविध्यन्तप्राप्तेर्विकल्प एवेति प्राप्ते, अष्टदोषदुष्टविकल्पस्यान्याय्यत्वात् यस्यैव सादृश्यविशेषेण शीघ्रोपस्थितिः तत एव धर्मातिदेशः। तच्च सादृश्यं शब्दघटितमर्थघटितं चेति उत्तरत्र प्रपञ्चयिष्यते। तत्र प्रथमे पादे स्पष्टलिङ्गेनातिदेशविशेषनिरूपणम्। तथा हि - सौर्यादिषु इष्टिसमाख्याकत्वसामान्यात् निर्वपतिधातुमद्वाक्यसंबन्धित्वात् तद्धितपदविहितदेवताकत्वाच्च दर्शपूर्णमासविकारत्वमेव। अत एव _प्रयाजे प्रयाजे कृष्णलं जुहोति _ इति लिङ्गमुपपद्दते। परिमाणविशेषविशिष्टसुवर्णशकलं कृष्णलम्। तच्च प्रयाजानुवादेन विधीयते। न हि दर्शपूर्णमासविकारत्वाभावे कथमपि प्रयाजप्राप्तिः संभवति। एवं पशावप्यग्नीषोमीयदैक्ष संज्ञिके तद्धितपदविहितदेवताकत्वात् आलभतिधातुमद्वाक्यसंबन्धित्वाच्च दर्शपूर्णमासविकारत्वामेव। अत एव प्रयाजानिति लिङ्गोपपत्तिः। सवनीयादिपशुषु तु दैक्षपशुविकारत्वमेव। आलभतिचोदनाकत्वपशुद्रव्यकत्वाद्दधिकसादृश्यात् यूपाद्दधिकधर्मलाभाच्च। अत एव औदुम्बरोयूपो भवतीत्यादिलिङ्गमुपपद्दते। ऐकादशिनेषु तु सवनीयविकारत्वम्, सुत्याकालिकत्वस्याधिक्यात्। पशुगणेषु सौत्येषु असौत्येषु वा पशुगणान्तार्गतत्वसादृश्यात् गणधर्माधिक्यलाभाच्च ऐकादशिनविकारित्वम्। उद्भिदादिषु अव्यक्तत्वसादृश्यात् ज्योतिष्टोमविकारम्। अव्यक्तत्वं च स्वाङ्गतया सहितदेवतारहितत्वम्। ग्रहणाङ्गभूताया इन्द्रवाय्वादिदेवतायाः प्रसङ्गेन सोमयागोपकारकत्वेऽपि ज्योतिष्टोमाङ्गत्वाभावात् तस्याव्यक्तत्वोपपत्तिः। उद्भिदादौ देवतात्मकरूपलाभस्तु अव्यक्तत्वेन ज्योतिष्टोमधर्मातिदेशे सिद्धे आतिदेशिकग्रहणाङ्गभूताया देवतायास्तदुपकारकत्वकल्पनया सुलभः। एवं गवामयनादिसत्रेषु द्विरात्र्याद्दहीनेषु च सुत्यागणेषु द्वादशाहविकारत्वम्। सुत्यागणान्तर्वर्त्तित्वसामान्यात् अहोरात्रसाध्यकर्मवाचिपदवाच्यत्वसामान्याच्च। अत्र हि रात्रिशब्दोऽहःशब्दाश्चाहोरात्रसाध्यकर्मविशेषपरः। संवत्सरसाध्यसत्रेषु गवामयनविध्यन्तः, संवत्सरसत्रत्वसामान्यात् अयनशब्दवत्त्वसामान्याच्च। निकायिनां तूत्तरेषु पूर्वविध्यन्तः साहस्राः साद्दस्का इति एकसंज्ञया युगपत् प्रकृत्य पश्चात् क्रमेण विहिता यागा निकायिना उच्यन्ते, संघातरूपनिकाययोगात्। तेषु च यो धर्मवान् तस्याधर्मकेषु प्रवृत्तिः एकसंज्ञायोगित्वसाम्यात् धर्मवांश्च पूर्व ेएवेति तद्विध्यन्त उत्तरेषु प्रवर्तत इति॥
एवं प्रकृतिविशेषे निरूपिते फलनियमकर्तृसमुदायांशेऽपि तेषां प्रकृतित्वं संभवति न वेति चिन्तायां, प्रयाजादीनामिव प्रकृतिसंबन्धितया अतिदेशसंभवात् तदंशेऽपि प्रकृतित्वं संभवतीति प्राप्ते, न तदंशे प्रकृतित्वं संभवति। तथाहि - फलस्य नियमशब्दाभिहितनिमित्तस्य कर्तृशब्दाभिहिताधिकारिणश्चाङ्गताविरहेण इतिकर्तव्यतामात्रसाकाङ्क्षायां विकृतौ नातिदेशसंभवः, अनाकाङ्िक्षतत्वात्। अथ सौर्यादिरूपविकृतौ श्रुतब्रह्मवर्चसादिना फलाकाङ्क्षाशान्तावपि अश्रुतफलविश्वजिदादिषु फलाकाङ्क्षासत्वात् अव्यक्तत्वसादृश्येन ज्योतिष्टोमफलातिदेशः संभवत्येवेति चेत्। उच्यते - न तावदेकेनैव प्रकृतिवत् विकृतिः कार्येति वचनेन विकृत्युद्देशेनाङ्गविधानं फलोद्देशेन विकृतिविधानमिति संभवति। वैरूप्यापत्तेः। नापि सादृश्यकल्पितवचनान्तरेण फलोद्देशेन विकृतिमात्रविधानमात्रम्। स्वविध्युप्ास्थापितविश्वविन्न्यायेनैव फलकल्पनोपपत्तौ अतिदेशकल्पने प्रमाणाभावात्। अतो न फलस्यातिदेश इति। समुदायः अग्नीषोमीयादिप्रधानान्तरसाहित्यम्। तस्य प्रकृतावङ्गत्वेऽपि परप्रयुक्ताग्नीषोमीयादिप्रतियोगिकत्वात् तदभावे विकृतौ नातिदेशसंभव इति॥
एवमिष्टिषु दर्शपूर्णमासविकारत्वमुक्तम्। तत्रापि सौर्यादिषु औषधद्रव्यकत्वविशिष्टैकदेवताकत्वरूपविशेषसादृश्यात् आग्नेयविकारत्वम्। सानाय्यव्यावृत्तये औषधद्रव्यकत्वस्य अग्नीषोमीयव्यावृत्तये एकदेवताकत्वस्य चादरणम्। अनेकदेवताकेष्वग्नीषोमीयविध्यन्त आज्यहविष्के उपांशुयाजविध्यन्तः दधिद्रव्यके पयोद्रव्यके च तत्तद्दागविध्यन्त इत्यादि बोध्यम्। तत्राग्नेयं पय इति विहिते अग्निदेवताकपयोद्रव्यकयोगे किं देवतासामान्यादाग्नेयविध्यन्तः, उत द्रव्यसामान्यात् सांनाय्यविध्यन्त इति विशये, आग्नेयविध्यन्त एव, आग्नेयं पय इत्यत्र देवतायाः प्रथममुपस्थितत्वात् यागापेक्षया प्राधान्याच्च। यागो हि देवताराधनरूपः तत्प्रसादद्वारा फलजनकः। अतस्तत्सादृश्यस्यैव बलीयस्त्वमिति प्राप्ते यागविध्युत्तरमेवातिदेशकल्पनया तद्दशायां द्रव्यस्यैव प्रत्यासन्नतया शीघ्रोपस्थितेः तत्सादृश्यस्यैव बलवत्त्वम्। यागो हि देवताराधनरूपः तत्प्रसादद्वारा फलजनकः। अतस्तत्सादृश्यस्यैव बलीयस्त्वमिति प्राप्ते यागविध्युत्तरमेवातिदेशकल्पनया तद्दशायां द्रव्यस्यैव प्रत्यासन्नतया शीघ्रोपस्थितेः तत्सादृश्यस्यैव बलवत्त्वम्। यागो हि वृद्धव्यवहारात् देवतोद्देशविशिष्टद्रव्यत्यागरूपः। तत्र द्रव्यस्य प्रधानभूतत्यागे विशेषणत्वम्। देवतायास्तु विशेषणीभूतोद्देशे। अतो द्रव्यं यागप्रत्यासन्नम्। यद्दपि यागो देवताराधनरूप इति तस्याः प्राधान्यम्, तथापि द्रव्यस्य प्रत्यासन्नतया प्रत्यक्षवेद्दतया च शीघ्रोपस्थितिकत्वेन तद्घटितसादृश्यस्यैव प्राबल्यम्। जैमिनिना तु देवताप्राधान्यमेव नाङ्गीकृतमिति। अतः सिद्धमाग्नेये पयसि सांनाय्यविध्यन्त एवेति। एवमैन्द्रपुरोडाश आग्नेयविध्यन्त एव॥
इत्याष्टमाध्याये प्रथमः पादः॥
अथ द्वितीयः पादः॥
द्वितीये पादे अस्पष्टलिङ्गकल्पितवचनातिदेशः। तथा हि - वाजिभ्यो वाजिनमिति विहिते आमिक्षानुनिष्पन्नवाजिनप्रतिपत्तिरूपे वाजिनयागे सौत्रामण्यङ्गभूतदेवतासंस्कारार्थसुरागृहेषु च किं सौमिकविध्यन्तः उत दार्शिक इति चिन्तायां सोमो वै वाजिनं सुरा सोमः इति असोमे सोमशब्दस्य सोमधर्मातिदेशार्थतया सौमिकविध्यन्त एवेति प्राप्ते, आर्थवादिकस्य सोमशब्दस्य प्रकृष्टफलवत्वरूपसिद्धसादृश्येनोपपत्तौ वाक्यभेदापादकविधिपरत्वे प्रमाणाभावात् न सौमिकविध्यन्तः। अतश्चोदनालिङ्गातिदेशात् दार्शिकविध्यन्त एव। तत्रापि वजिने पशप्रभवत्वसामान्यात् पयोयागविकारत्वम्। सुरायां चौषधद्रव्यकत्वसामान्यात् पुरोडाशयागविकारत्वमिति॥
एवं पशावग्नीषोमीये देवतासामान्यादग्नीषोमीयपुरोडाशविकारत्वे प्राप्ते, द्रव्यसामान्यात् सांनाय्यविकारत्वम्, सांनाय्यद्रव्यं हि पशुप्रभवम्, पशुरपि पशुप्रभावः। एवं च यदि पशुरुखायां पच्यमानः स्कन्देत् इति पशौ सांनाय्यपात्रस्य उखाया दर्शनमुपपद्दते। तत्रापि पयोयागविकारत्वमेव, साक्षात् पशुप्रभवत्वसामान्यात् स्वतो गतिमत्वसामान्याच्च। पयो हि साक्षात् पशुप्रभवं स्वतो गतिमच्च। पशुरपि तथा। दधि तु न तथा, पयोव्यवहितत्वात् स्वतो गतिविरहाच्चेति॥
एवम् आमिक्षाया जुषन्तां युज्यं पयः इति मन्त्रवर्णेन पयोरूपत्वावगमात् तद्दागस्य पयोयागविकारत्वम्। एवमहर्गणाभिधानेषु सुत्यागणेषु द्वादशाहविकारत्वमित्युक्तम्। अहर्गणाश्च द्विविधाः - सत्ररूपा अहीनरूपाश्चेति। द्वादशाहोऽपि द्वेधा - सत्ररूपोऽहीनरूपश्चेति। तत्र सत्रत्वमासीरन् उपेयुरित्यादि चोदनाचोदितनिष्ठमखण्डोपाधिरूपम्। अनियतस्वामिकयजतिचोदनचोदितनिष्ठमहीनत्वमप्यखण्डोपाधिरूपमेव, वृद्धव्यवहारात्। तत्र सत्राणां सत्रद्वादशाहविकारत्वम्, अहीनानां चाहीनद्वादशाहविकारत्वम्, सत्रत्वाहीनत्वसामान्यात्। अत्र द्विरात्रप्रभृति एकादशरात्रपर्यन्ताः केवलाहीनात्मकाः। त्रयोदशरात्रप्रभृतयः विश्वसृजामयनपर्यन्ताः सर्वे केवलसत्रात्मकाः। द्वादशाहस्तु उभयात्मक इति बोध्यम्॥
इत्यष्टमाध्याये द्वितीयः पादः॥
अथ तृतीयः पादः॥
तृतीयपादे प्रबललिङ्गकल्पितातिदेशविचारः। तथाहि - आग्नावैष्णवमेकादशकपालं निर्वपेदभिचरन्त्सरस्वत्याज्यभागा स्यात् बार्हस्पत्यश्चरुः इत्यादिहविर्गणे क्रमसामान्यात् प्रथमतृतीययोराग्नेयाग्नीषोमीयविकारत्वमिति प्राप्ते, क्रमसामान्यस्याशाब्दस्यान्यसापेक्षस्य च विलम्बितोपस्थितिकतया उत्पत्तिवाक्यगतदेवतासादृश्यस्यानन्यापेक्षत्वेन शीघ्रोपस्थितिकतया प्रबलत्वेन तेनैवातिदेशः। ततश्चाग्नावैष्णवस्याग्नीषोमीयविकारत्वं बार्हस्पत्यस्य चाग्नेयविकारत्वमिति॥
एवं पादत्रयेण सादृश्यकल्पितवचनातिदेशविशेषनिरूपणं कृतम्। स्थानापत्तिकल्पितवचनातिदेशाश्रयोपस्थितिकल्पितवचनातिदेशयोस्तु विशेषविचारासंभवात् स न कृतः। तत्र स्थानापत्तिर्नाम तत्कार्यकारिता। सा च पञ्चविधा - प्रत्यक्षगम्या, अनुमानगम्या, श्रुतस्वशब्दगम्या, निषेधानुवादानुमितस्वशब्दगम्या, अभावे विध्यनुमितनिषेधकल्पितस्वशब्दगम्या चेति । तत्र प्रत्यक्षगम्या यथा - नैवारश्चरुर्भवति इति । अत्र हि नीवाराणां व्रीहिस्थानापन्नत्वं व्रीहिकार्यचरुजनकतारूपं प्रत्यक्षेणावगम्यते । एवं च नैवारश्चरुर्भवति इत्यनेन नीवारैश्चरुं कुर्यादित्यन्वयबोधे , कथमित्याकाङ्क्षायां दर्शितव्रीहिस्थानापत्त्या व्रीह्युपस्थितौ व्रीहिवदिति पदकल्पना व्रीहिधर्माणामतिदेशः। अनुमानगम्या यथा नखावपूतश्चरुर्भवति इत्यत्र नखानामुलूखलमुसलस्थानापत्तिः। अत्र हि नखानामवपनसाधनत्वमेव प्रत्यक्षेणावगम्यते । उलूखलमुसलयोस्तु अवघातसाधनत्वम् । तत्रावपनावघातयोर्वितुषीभावरूपैककार्यजनकतया अवपवनावघातसाधनयोरपि दर्शितैककार्यप्रयोजकत्वमनुमेयम् । इत्थं च उक्तस्थानापत्त्या उलूखलमुसलोपस्थितौ तत्सदृशैरपि पदकल्पनया उलूखलमुसलसदृशैर्नखैरवपवनं कुर्यात् इत्यन्वयबोधेन नखेषु उलूखलमुसलधर्मातिदेशः । श्रुतस्वशब्दगम्या यथा - परिधौ पशुं नियुञ्जीत इत्यनेनावगम्यमाना परिधेर्यूपकार्यकारिता परिधेः पशुनियोजनाधिकरणतारूपा सप्तमीरूपेण तद्वाचकशब्देन गम्यते । अत्र च तक्षणप्रोक्षणाष्टाश्रीकरणादिजन्यदृष्टादृष्टसंस्कारमुदाय एव यूपत्वमित्येके। तावज्जन्यमपूर्वान्तरमित्यपरे । निषेधानुवादानुमितस्वशब्दगम्या यथा - न गिरा गिरेति ब्रूयात् ऐरंकृत्वोद्गेयम् इत्यत्र इरापदस्य गिरापदस्थानापत्तिः । अत्र हि ऐरंकृत्वोद्गेयमित्यनेनाग्निष्टोमस्तोत्रापूर्वसाधनीभूतविजातीयगुणाभिधानमिरापदेन कुर्यात् इत्यन्वयबोधः। तत्रोद्देश्यवाचपदस्याश्रवणेऽपि न गिरा गिरेति निषेधानुवादबलात् दर्शितोद्देश्यवाचकपदं कल्पनीयम् । यद्दप्यत्र न मुख्या स्थानापत्तिः, उक्तविजातीयगुणाभिधानस्य गिरापदेन क्वचिदप्यजननात् , तथापि दर्शितनिषेधानुवादाभावे उक्तगुणाभिधानस्य गिरापदीयत्वप्रसक्तिमात्रेण तत्र स्थानापत्तिव्यवहारः । अभावे विध्यनुमितनिषेधकल्पितस्वशब्दगम्या यथा - **संस्थिते षडहे मध्वाशयेत**् इत्यत्र मध्वशनस्य षडहस्थानापत्तिः। अत्र हि षडहाभावे मध्वशनविधिना षडहनिषेधमनुमाय षडहकार्यवाची स्वशब्दोऽनुमीयते । इदं च कृत्वाचिन्तया उदाहृतं भाष्यकारेण। अनेन हि न षडहाभावे मध्वशनं विधीयते , किं तु षडहसमाप्त्युत्तरं तदङ्गत्वेन मध्वशनं विधीयते। स्थिरोदाहरणं तु मृग्यमित्याहुः ॥
अत्र च स्थानापत्त्यतिदेशापेक्षया चोदनालिङ्गातिदेशः प्रबलः । अङ्गापेक्षयामङ्गघटितसादृश्यस्यैव पुरःस्फूर्तिकत्वात्। अत एव सोमाभावे वैश्वनर्येत्यादौ वैश्वानर्या न सोमविकारत्वम् , किं तु दर्शपूर्णमासविकारत्वमेवेति। तदेवं स्थानापत्तिकल्पितवचनातिदेश उक्तः । आश्रयत्वं नाम गुणनिष्ठाकारकतानिरूपकत्वम्, गुणनिष्ठफलकरणतावच्छेदकसंबन्धप्रतियोगिक्रियात्वं वा। तथा हि - **दध्नेन्द्रियकामस्य जुहुयात**् इत्यत्र दध्ना इन्द्रियं भावयेत् इत्यन्वयबोधेन दध्न इन्द्रियकरणत्वे सिद्धे तस्य ताद्रूप्येण करणत्वे विधिवैयर्थ्यप्रसङ्गात् पुरुषकृतिसाध्यकिंचिद्व्यापारसंबन्धविशिष्टत्वेनैव तस्य कारणत्वं वाच्यमिति दध्यादिनिष्ठेन्द्रियकरणतावच्छेदको होमादिसंबन्ध इति होदमादेराश्रयत्वोपपत्तिः । तत्र दध्ना इन्द्रियं भावयेदिति वाक्यार्थे कथंभावाकाङ्क्षायां प्रकरणेन होमादिरूपाश्रयोपस्थितौ तद्वदिति पदकल्पनया होमधर्माणां दध्नि अतिदेशः । तत्सिद्धं त्रिविधः कल्पितवचनातिदेश इति॥
इत्यष्टमाध्याये तृतीयः पादः॥
अथ चतुर्थः पादः॥
चतुर्थे पादे एतदपवादेन दर्विहोमस्य प्रकृतिराहित्यरूपमपूर्वत्वं निरूपितम् । तथा हि - दर्विहोमशब्दः जुहोतिचोदनाचोदितहोमसामान्यवचनः, दर्विशब्दस्य पात्रान्तरोपलक्षकत्वात् एकदेशप्रवृत्तिनिमित्तकत्वाद्वा । यागस्थले तु चतुरवत्तं जुहोतीति जुहोतिना प्रक्षेपमात्रस्य प्रतिपत्तिरूपस्य लक्षणया विधेयत्वेन तस्य न मुख्यहोमत्वम् । अतो देवतोद्देशपूर्वकद्रव्यत्यागविशिष्टप्रक्षेपात्मकाः अग्निहोत्रादय एव दर्विहोमपदवाच्याः। तेषु द्रव्यदेवतादिसंनिपत्योपकारकाङ्गसामग्रीसाकल्यरूपकृत्स्नविधानवत्त्वेन यावदुक्तेतिकर्तव्यतयैव निराकाङ्क्षत्वात् न कुतश्चित् धर्मातिदेशः । अतोऽपूर्वा एव दर्विहोमा इति॥
इत्यष्टमाध्याये चतुर्थः पादः॥
समाप्तश्चाष्टमोऽध्यायः॥
अथ नवमोऽध्यायः॥
प्रथमः पादः॥
तदेवं पादचतुष्टयपरिमितेनाष्टमाध्यायेन प्रकृतिविशेषविचारात्मकविशेषातिदेशनिरूपणं कृतम्। एवं सिद्धे अतिदेशे , तत्प्राप्तपदार्थविषयः ऊहः नवमाध्यायेन विचार्यते। ऊहो नाम प्रकृतौ यस्य यत्संबन्धित्वं श्रुतं, विकृतौ तस्य तदन्यसम्बन्धित्वम्। अस्ति चेदं देवस्य त्वा इत्यादिमन्त्रेषु प्रोक्षणादिसंस्कारे च । तथा हि - प्रकृतौ स्मारकतासंबन्धेन स्मार्यतासंबन्धेन वा अग्निसंबन्धितया श्रुतस्य _देवस्य त्वा सवितुः प्रसवे। अश्विनोर्वाहुभ्याम् _ इत्यादिमन्त्रस्य विकृतौ सौर्ये स्मारकतया स्मार्यतया वा सूर्यसंबन्धित्वम्। प्रोक्षणावघातादीनां प्रकृतौ संस्कार्यतया व्रीहिसंबन्धिनां विकृतौ संस्कार्यतया श्यामाकसंबन्धित्वमिति । स त्रिविधः - मन्त्रोहः, सामोहः, संस्कारोहश्चेति। तत्र प्रथमे पादे उपोद्घातपूर्वकमूहविचारप्रारम्भः । तथाहि - प्रोक्षणावघातादीनाम् अग्नये जुष्टं निर्वपामि इत्यादौ अग्न्यादिपदानां च प्रकृतौ किं व्रीहित्वाग्नित्वाद्दवच्छिन्नोद्देशेनैव विधानम्, उत, अपूर्वसाधनत्वाद्दवच्छिन्नोद्देशेनेति विशये, व्रीहित्वाद्दवच्छिन्नसंबन्धितयैव श्रवणात् तदवच्छिन्नोद्देशेन विधानम्। ततश्च प्रोक्षणादीनां व्रीह्यादिस्वरूपप्रयुक्ततया श्यामाकचर्वादौ तदभावात् प्रोक्षणादीनां लोप एव। प्राकृतपदार्थानं हि यद्रूपावच्छिन्नोद्देश्यसंबन्धितया विधानं तद्रूपावच्छिन्नसंबन्धितयैवातिदेशः, उपकारपृष्ठाभावेन पदार्थानामतिदेश इति सिद्धान्तात्। अतो नास्त्यूह इति प्राप्ते, प्रोक्षणादिव्यतिरेकेणापि व्रीह्यादेर्जायमानतया प्रोक्षणादेर्व्रीह्यादिस्वरूपे आनर्थक्यात् न व्रीह्याद्दुद्देशेन प्रोक्षणादिविधानं संभवति। तस्य हि प्रोक्षणादौ व्रीह्यादिसाधनताप्रतिपत्तिरेव फलम्। सा चायोग्यतानिश्चयान्न संभवति। अतो व्रीह्यादिपदेन अपूर्वसाधनत्वावच्छिन्नं लक्षयित्वा तदुद्देशेनैव प्रोक्षणादिविधानमावश्यकमिति प्रोक्षणादीनामपूर्वप्रयुक्त्ातया विकृतावपि अपूर्वसत्त्वेन प्रोक्षणादीनामतिदेशावश्यंभावात् अस्त्येवापूर्वसाधनश्यामाकादौ प्रोक्षणादेरूहः। न चापूर्वसाधनत्वविशिष्टव्रीहित्वमेव उद्देश्यतावच्छेदकं वाच्यम्, अपूर्वसाधनतामात्रस्याज्यादिसाधारणत्वेन तत्राप्यवघाताद्दापत्तेः। ततश्च श्यामाके तदभावान्नोहसंभव इति वाच्यम्, गौरवेण व्रीहित्वस्य उद्देश्यतावच्छेदककोटौ अनिवेशात् अवान्तरव्यापारतयोपस्थिततण्डुलादिद्वारककरणताया एवोद्देश्यतावच्छेदकतया यवादावेव प्रोक्षणावघातादिसिद्धिः, न त्वाज्यादाौ। इत्थं च श्यामाकादावपि तादृशकरणतासत्त्वेन ऊहोपपत्तिरिति। एवं दर्शपूर्णमासयोर्देवस्य त्वा सवितुरित्यादिनिर्वापमन्त्रे सवित्रश्विपूषशब्दाः विकृतौ ऊहितव्याः, उत, नेति संशयः, तदर्थं किमेते समवेतार्थाः, उत, असमवेतार्था इति। तत्र प्रकृतकर्मसम्बन्ध्यप्रकाशत्वरूपसमवेतार्थत्वे दृष्टप्रयोजनलाभात् तदर्थत्वमेव युक्तम्। ततश्च विकृतौ तत्तत्सम्बन्धदेवताप्रकाशनाय ऊहः कर्तव्य इति प्राप्ते, उत्पत्तिवाक्यश्रुततद्धितावगताग्निदेवताके प्रकृतयागे मान्त्रवर्णिकसवित्रादिदेवताकल्पनाया असंभवात् सवित्रादिपदानामग्न्याद्दवाचकत्वाच्च नैतेषां समवेतार्थकत्वम्। किं तु असमवेतार्थत्वाददृष्टार्थप्रकाशनार्थत्वमेव वा। तथा हि - देवस्य त्वेत्यादिपदानां यः शक्योर्थः तद्विशिष्टनिर्वापप्रकाशनमेव देवस्य त्वेत्यादिविशिष्टमन्त्रस्य प्रयोजनम्। येषां पदार्थानां दृष्टप्रयोजनसंभवः तत्प्रकाशनस्य दृष्टमेव प्रयोजनम्। येषां तु तदसंभवः तत्प्रकाशनस्य अदृष्टमेव प्रयोजनम्। अत एव तादृशपदार्थानां निर्वापे वैशिष्ट्यमाहार्यसंबन्धेनैव। इत्थं च निर्वापपदस्य पृथक्करणरूपं दृष्टमेव प्रयोजनम्। त्वापदस्य निर्वापकर्मसमर्पकस्य तदुपयोगितया तस्यापि दृष्टमेव प्रयोजनम्, अग्नये जुष्टम् अग्निना सेवितं यथा तथा निर्वपमीत्यर्थाङ्गीकारात्। अग्निजुष्टपदयोः निर्वापफलप्रकाशकतया इतरदैवत्यहविर्विवेकसंपत्तिः फलम्, अ्ान्यथा हि कस्यै देवतायै निरुप्तमिति निर्णयो न स्यात्। तदितरेषां सर्वेषामदृष्टफलकस्वार्थप्रकाशनार्थत्वमेवेति। तस्मात् सवित्रादिशब्दानां नास्त्यूहः। अग्निशब्दस्य तु प्रकृतयागीयदेवताप्रकाशनार्थस्यास्त्येवोहः। यद्दपि साौर्ये अग्नये इति पदस्थाने सूर्यायेति पदं प्रक्षेप्तव्यम्। तथा हि - अग्निपदेनापूर्वसाधनीभूतां देवतां शक्त्या प्रकाशयेदिति लिङ्गकल्पितश्रुत्या मन्त्रविनियोगात् विकृतावन्यदेवत्यायामग्निपदेन शक्त्या अपूर्वसाधनीभूतदेवताप्रकाशनासंभवात् अग्निपदनिवृत्तौ शक्त्या अपूर्वसाधनीभूतदेवताप्रकाशनरूपप्रकृतकार्यनिर्वाहाय सूर्यायेति पदप्रक्षेप एवावश्यक इति। अयं च एकपदस्थाने अपरपदप्रक्षेपो नोहरूपः, प्रागुक्तोहलक्षणानाक्रान्तत्वात्। तथाप्यूहकार्ये पदान्तरप्रक्षेपे ऊहशब्दो भाक्तः॥
इति नवमाध्याये प्रथमः पादः॥
अथ द्वितीयः पादः॥
द्वितीये पादे सामोहोपयोगिविचारपूर्वकं सामोहविचारः। तथा हि - एकं साम त्यृचे क्रियते स्तोत्रीयम् इति श्रूयते। तत्र किं तिसृषु ऋक्षु व्यासज्य गानं कर्तव्यम्, उत प्रत्यृचं परिसमाप्य गानमावर्तनीयमिति विशये एकं साम त्यृचे क्रियत इत्यनेन सामाद्देशेन त्यृचविधानात् साम्नः प्राधान्यम्, ऋचां च गुणभूतत्वमवगम्यत इति गुणानुरोधेन प्रधानावृत्तेरन्याय्यत्वात् तिसृषु ऋक्षु व्यासज्यैव गानं कर्तव्यमिति प्राप्ते, प्रत्यृचं परिसमाप्य गानमवर्तनीयमेव। तथा हि - साम्ना स्तुवीतेत्यनेन बोधितं साम्नः स्तोत्राङ्गत्वम् ऋगक्षराभिव्यक्तिरूपदृष्टद्वारैव। अभिव्यक्तिर्नाम विश्लेषः। प्रगीतमन्त्रसाध्यगुणाभिधानं हि स्तोत्रम्। प्रगीतमन्त्रसाध्यत्वं च गानविश्लिष्टमन्त्राक्षीवृत्तिसंश्लेषज्ञानजन्यत्वम्। ततश्च गानेन ऋगक्षराभिव्यक्तिं विना स्तोत्रानुपपत्तेः साम्नः ऋगक्षराभिव्यक्तिद्वारा स्तोत्राङ्गत्वम्। इत्थं च साम्नः ऋगक्षराभिव्यक्त्यर्थतया ऋचां प्राधान्यं साम्नो गुणत्वम्। ततश्च प्रतिप्रधानगुणावृत्तिन्यायात् प्रत्यृचं परिसमाप्य गानमावर्तनीयमिति।
एवं च एकं साम त्यृचे क्रियते इत्यनेन त्यृचोद्देशेन स्तोत्रीयविधानम्। अत्र हि त्रित्वस्य ऋच्यन्वयव्युत्पत्त्या न विशिष्टोद्देश्यनिबन्धनो वाक्यभेदः। यद्दोन्यां तदुत्तरयोर्गायतीत्यनेन उपसंहारात् स्तोत्रीयस्य सामरूपतासिद्धेः सामेत्यनुवादः। यत्तु एकं साम त्यृचे क्रियते स्तोत्रीयम् इत्यनेन स्तोत्रसाधनीभूतऋगुद्देशेन त्रित्वविधानमिति, तन्न, एकप्रसरताभङ्गप्रसङ्गात्। एकप्रसरता नाम - उद्देश्यमात्रसमर्पकत्वविधेयमात्रसमर्पकत्वान्यतरवत्वम् उद्देश्यत्वविधेयत्वोभयप्रयोजकत्वाभावपर्यवसितम्। इदं च एकपदे नियतम्, तथैवानुभवात्। अत एव वषट्कर्तुः प्रथमभक्षः इत्यत्र न भक्षोद्देशेन प्राथम्यविधानम्, किन्तु प्राथम्यविशिष्टभक्षान्तरविधानमेव। इत्थं च त्यृच इत्यत्र ऋगुद्देशेन त्रित्वविधाने उक्त एकप्रसरताभङ्गः स्यादेवेति॥
किं च तत्तत्स्तोत्रेषु स्तोमान्तरविधानात् त्रित्वविधानानुपपत्तिः। स्तोमः स्तोत्रीयागतनवत्वादिसंख्या। स्तोत्रसाधनीभूता ऋक् स्तोत्रीया। अत्र च तिसृषु ऋक्षु प्रत्येकं गीयमानमेकं साम समास्वेव गेयम्, न विषमासु। न्यूनासु गाने सामैकदेशस्य लोपाख्यसंशरापत्तेः। अधिकपरिमाणासु गाने ऋक्शेषे सामादर्शनरूपविलेशापत्तौ तत्र सामैकदेशस्यावृत्त्यापत्तेः। तस्मात् समासु गानमिति॥
एवं सामोहोपयोगिविचारे वृत्ते अनन्तरं सामोहविचारः। कवतीषु रथंतरं गायति, यद्दोन्यां तदुत्तरयोर्गायति इत्यादिसामातिदेशे, स किं यत्र स्थाने योनौ एकाराद्दक्षरसंस्कारिका आ- इ- भावादिरूपा गीतिः श्रुता, तत्र स्थान उत्तरागतवर्णान्तरे सा ऊहितव्या, उत, तत्र वा अन्यत्र वा उत्तरगत एकार एव सा ऊहितव्या न तु वर्णान्तर इति विशये, यत्र स्थाने योनौ आ-इ-भावः श्रुतः तत्रैव स्थाने अतिदेशवशेन तादृशगीतेः कर्तव्यतावगमात् उत्तरागते तादृशस्थानपठितवर्णान्तरेऽपि सा कर्तव्या इति प्राप्ते, वर्णान्तरे अकारादौ आ-इ- भावकरणे तस्य तदक्षराभिव्यञ्जकत्वासम्भवेनारादुपकारतापत्तिः, आ-इ- भावे अवर्णेवर्णात्मकस्य सन्ध्यक्षरस्य एकारस्य विश्लेषरूपसंस्कारार्थः। न हि एकारो नाम वर्णान्तरम्, मानाभावात्। किन्तु अवर्णेवर्णात्मकः, स्मृतिसहकृतप्रत्यक्षेण तथैवावगतेः। ततश्च तद्विश्लेषकस्य आ-इ- भावस्य तत्स्थानपठिताक्षरान्तरविश्लेषकत्वासंभवात् यत्रैवोत्तरादावेकारः तत्रैव आ-इ- भावः कार्यः इति॥
इति नवमाध्याये द्वितीयः पादः॥
अथ तृतीयः पादः॥
तृतीयपादे मन्त्रोहविचारः। तथा हि - अग्नये जुष्टं निर्वपामि व्रीहीणां मेधसुमनस्यमानः इत्यादौ अग्न्यादिपदस्थाने सूर्यादिपदप्रक्षेपात्मको भाक्त ऊहः कार्यो न वेति विशये, अग्न्यादिपदानां लक्षणया सूर्यादिप्रकाशकत्वसंभवात् न कार्य इति प्राप्ते वृत्तेरपि विवक्षितत्वात् शक्त्यधीनप्रकाशनस्यैव प्रकृतौ कार्यत्वात् विकृतौ तादृशकार्यस्याग्निपदेन कर्तुमशक्यतया अग्निपदस्य बाधे तादृशकार्यरूपद्वारसिद्ध्यर्थं पदान्तरप्रक्षेप आवश्यक इति। एवं दैक्षपशौ पाशप्रमोचने अनुमन्त्रणमन्त्रद्वयमाम्नातम् - **अदितिः पाशं प्रमुमोक्त्वेतम**् इत्येकवचनान्तमेकम्, **अदितिः पाशान् प्रमुमुोक्त्वेतान**् इति बहुवचनान्तमपरम्। तत्र बहुवचनान्तस्य किं दैक्ष एव विकल्पेन निवेशः, उत, बहुपाशिकायामुत्कर्ष इति विशये, दैक्षे पाशबहुत्वविरहात् पूषानुमन्त्रणमन्त्रवत् उत्कर्ष एवेति प्राप्ते, पाशप्रातिपदिकार्थस्य विभक्त्यर्थकर्मत्वस्य प्रमोचनभावनायाश्च प्रधानभूताया दैक्षेऽपि संभवेन गुणभूतबहुवचनमात्रानुरोधेन उत्कर्षकल्पनाया असंभवात् बहुवचनस्य शक्यबहुत्वाश्रयावयवकत्वसंबन्धेन एकत्वलाक्षणिकत्वमाश्रित्य दैक्ष एव विकल्पेन निवेशः। इत्थं च बहुवचनान्तमन्त्रस्य द्विपाशिकायां विकृतौ द्विवचनान्ततया ऊहः कार्यः। छन्दसि दृष्टानुविधिः इत्यनेन पाशैकत्वे लक्षणया प्रयुज्यमानस्य बहुवचनस्य साधुत्वोपपत्तावपि द्वित्वे तस्य साधुत्वासंभवादिति॥
इति नवमाध्याये तृतीयः पादः॥
अथ चतुर्थः पादः॥
चतुर्थे पादे अध्रिगुप्रेषगते षड्िवगँशतिरस्य वंक्रयः। ता अनुष्ट्योच्यावयतात् इत्यत्र पशुगणे कीदृग्भूत ऊहः कार्य इति विचारः। तथा हि - पशुगणे पशुद्वयादिगतसमस्तपंक्तिप्रकाशनार्थं किं षड्िवंशतिरस्य इति पदद्वयावृत्ति कार्या उत षड्िवंशती अनयोर्वंक्रय इत्येवंरूपो द्विवचनोहः कार्यः, आहोस्वित् द्विपञ्चाशत् अनयोर्वंक्रय इत्येवं कार्यमति विशये, प्रकृतिदृष्टपदान्यथात्वे प्रमाणाभावात् अश्रुतपदान्तरकल्पनानुपपत्तेः यावत्पशुगतसमस्तवंक्रिप्रकाशनार्थं षड्िवंशतिरस्येति पदद्वयावृत्तिरेव कार्या। यदि च पशुगणे एकप्रयोगविधिपरिगृहीतानामनेकेषां साङ्गानां यौगपद्दावगतेः अर्थप्रकाशनस्यापि यौगपद्दावगमात् तदनुरोधेन युगपदनेकप्रकाशकपदप्रक्षेपस्यैवावश्यकतया न श्रूयमाणपदावृत्तिर्युज्यते इत्युच्यते, तदा षड्िवंशती अनयोर्वंक्रयः इत्येवमूहः कार्यः। तत्र षड्िवंशतिशब्दः गवां षाड्िवंशतिरित्यादावपि संख्यापरः। न चैवं वंक्रीणामिति षष्ठ्यापत्तिरिति वाच्यम्, वंक्रिशब्दस्य वंक्रिसंबन्धिलाक्षणिकतया सामानाधिकरण्योपपत्तेः, वंक्रय इति बहुवचनस्य
स्वशक्त्याश्रयसमवेतवृत्तित्वरूपसंबन्धेन द्वित्वलक्षणार्थत्वादिति प्राप्ते, **ता अनुष्ठ्योच्यावयतात**् इति वंक्रीणामेव परामर्शात् तासामेव प्राधान्यम्। संख्या तु तद्विशेषणत्वेनोपपन्ना साकल्यसूचिकेति नादृष्टार्थतापत्तिः। एवं च पञ्चाशदनयोः वंक्रयः इत्येवमेवोहः कार्यः। किं च प्रकृतावप्येकस्मिन् पार्श्वे त्रयोदशवंक्रयः समस्यैव षड्िवंशतिपदेनोक्ता इति विकृतावपि समस्यैव सर्वाः प्रकाशयितव्या इति गम्यते इति । तदेवं पादचतुष्टयपरिमितेन नवमाध्यायेनोहविचारः कृतः॥
इति नवमाध्याये चतुर्थः पादः॥
समाप्तश्च नवमोऽध्यायः॥
अथ दशमोऽध्यायः॥
प्रथमः पादः॥
दशमे बाधनिरूपणम्। बाधो नाम प्रकृतिसंबन्धिनः पदार्थस्य विकृत्यङ्गत्वग्राहकप्रमाणविषयत्वाभावः। अस्ति चायं प्राजापत्यं घृते चरुं निर्वपेत् शतकृष्णलमायुष्कामः इति विहिते कृष्णलचरौ अवघातस्य। तत्र सत्यप्यतिदेशे वैतुष्यरूपप्रयोजनलोपात् न तस्यावघाते विकृत्यङ्गत्वग्राहकत्वम्। स च बाधस्त्रिविधः - अर्थलोपकृतः , प्रत्याम्नानकृतः, प्रतिषेधकृतश्चेति। अर्थः प्रयोजनम्। इदमेव द्वारमित्यभिधीयते। तत्र प्रथमे पादे अर्थलोपप्रत्याम्नानकृतबा़धोपोद्घातपूर्वकमर्थलोपकृतबाधो विचार्यते । तथा हि - विकृतौ प्रकृतिदृष्टपदार्थानां किं स्वरूपेणातिदेशः, उत , उपकारपृष्ठभावेनेति विशये, प्रकृतिवच्छब्देन प्रकृतिसंबन्धिनः पदार्थाविकृतौ कर्तव्याः इत्यर्थावगमात् स्वरूपेण पदार्थानामतिदेशः। ततश्च कृष्णलादावपि अवघातस्य कर्तव्यत्वावगमात् वैतुष्यरूपदृष्टप्रयोजनासंभवेऽपि अदृष्टप्रयोजनस्यैव कल्पनीयतया न बाधसंभवः इति प्राप्ते, आकाङ्क्षायोग्यतासक्तिभिः उपकाराणामेवातिदेशः। पश्चात् तत्पृष्ठभावेन पदार्थानामतिदेशः। विकृतिर्हि फलानुकूलयोग्यताजननाय उपकारमेवापेक्षते, स्वतः क्षणिकत्वेन योग्यताजनने अयोग्यत्वात्। उपकारैरेव प्रकृतौ योग्यताजननेन उपकारस्यैव तज्जनने योग्यत्वमवसीयते। विकृतौ सादृश्येन प्रकृति भावनोपस्थितौ तदव्यवहितान्वयिनोऽवान्तरोपकारस्यैव संनिहितत्वम्। ततश्चाग्रेयसंबन्ध्युपकारसजातीयोपकारैः सौर्यस्योपकर्तव्यमित्येवं विधिवाक्यकल्पनया प्रथममुपकारेष्वतिदिष्ठेषु पश्चाज्जनकापेक्षायां तज्जनकप्राकृतपदार्थानां पृथगतिदेशकल्पनम्। वस्तुतस्तूपकारजनकापेक्षायामपि पृथक्पदार्थातिदेशकल्पने गौरवात् पदार्थविशिष्टोपकाराणामेक एवातिदेशः, प्रकृतिवत् तत्तत्पदार्थजन्यात् तत्तदुपकारान् विकृतौ कुर्यात् इति॥
इत्थं च कृष्णलादौ वैतुष्यादिरूपोपकारासंभवात् तदनतिदेशे अवघातादेरपि अनतिदेशात् युक्तो बाध इति। अयं च दाशमिको बाधः प्राप्तबाधः, कृष्णलादौ हि बोधकमस्त्येव। परं तु तस्यावघातादिविषयकत्वं नास्तीति प्राप्तबाधोऽयम्। एवं विकृतिविशेषे स्वयंदिनं बर्हिर्भवतीति श्रूयते। अत्र स्वतश्चिन्नबर्हिषि बर्हिर्लवनप्रयोजनस्य मूलाग्रावयवसंयोगनाशस्य प्रतियोग्यभावेनानुत्पत्तेः अर्थलोपेनाध्वर्युकर्तृकस्य प्रयोगान्तःपातिनो वैधस्य तदङ्गभूतस्यास्यादानादेश्च बाध इति॥
इति दशमे प्रथमः पादः॥
द्वितीयपादे अस्यैवार्थलोपकृतबाधस्य बहुभिरुदाहरणैर्विस्तरः॥
अथ तृतीयः पादः॥
तृतीये पादे यस्यां विकृतौ प्राकृताङ्गसंबन्धेनापूर्वाङ्गश्रवणम्, यथा एकादश प्रयाजान् यजति इति तत्रातिदेशेनाङ्गानां सामान्यरूपेणैव प्राप्तेः विशिष्यप्रयाजत्वादिना उपस्थित्यभ ावात् तदवच्छिन्नोद्देशेन एकादशत्वादिविधानायोगात् एकादशत्वादिविशिष्टप्रयाजादिविध्यवश्यंभावः। ततश्च वक्ष्यमाणगृहमेधीयाज्यभागन्यायेन क्लृप्तोपकारप्रयाजपुनर्विधानात् तेनैव पश्वादिभावनायाः निराकाङ्क्षत्वात् अतिदेशाकल्पनात् न प्रयाजातिरिक्ताङ्गकरणमिति प्राप्ते, **_मद्गृहे धान्यमस्ति शष्कुलिं भुङ्क्ष्व _**इत्यादौ सामान्यपुरस्कारेण प्राप्तस्य पदार्थस्य संबन्धिविधयोपस्थितविशेषधर्मपुरस्कारेणापि प्राप्त्युपपत्तेः प्रयाजत्वेन रूपेणानुवादे बाधकाभावात्। तृतीयविधिप्रकारलिप्सया प्रयाजोद्देशेन एकादशत्वसंख्यामात्रविधानेनातिदेशोपजीवितया तद्बाधतानुपपत्तेः नेतराङ्गनिवृत्तिरित्येवमादिविचारः॥
इति दशमाध्याये तृतीयः पादः॥
अथ चतुर्थः पादः॥
चतुर्थपादे समुच्चयप्रत्याम्नानकृतबाधादिविचारः। तथा हि - _अग्नये कृत्तिकाभ्यः पुरोडाशमष्टाकपालं निर्वपेत् इति नक्षत्रेष्टिं विधाय उपहोमाः समाम्नाताः सोऽत्र जुहोति। अग्नयो कृत्तिकाभ्यः स्वाहा - इत्यादि । प्रकृतितश्च नारिष्टान् जुहोतीतिविहिता नारिष्टहोमाः प्राप्ताः। ते किमुपहोमैर्बाध्यन्ते उत समुच्चीयन्त इति चिन्तायाम्, उपहोमानां कार्याकाङ्क्षायां होमत्वसामान्यात् प्राकृतहोमकार्ये उपस्थिते तदुद्देशेनैव विधीयन्त इति प्रत्यक्षश्रुतैः उपहोमैरेव नारिष्टहोमकार्यनिष्पत्या अतिदिष्टा नारिष्टा बाध्यन्त इति प्राप्ते, सर्वसाधारणहोमत्वस्य नारिष्टहोमकार्योपस्थापकत्वासंभवात् न तदुद्देशेनोपहोमविधानं संभवति। अतो न बाधः। किं तु समुच्चय एवेति। एवं , सोमाय रौन्द्रं चरुं निर्वपेत् _ इति विहितेष्टिविशेषे शरमयं बर्हिरिति श्रुतम्। तत्र बर्हिः पदलक्षिते बर्हिकार्ये शराणां विधानात् प्रत्यक्षश्रुतैरेव चोदकप्राप्तबर्हिर्बाधः। अयमेव प्रत्याम्नानकृतो बाधः॥
इति दशमाध्याये चतुर्थः पादः॥
अथ पञ्चमः पादः॥
पञ्चमे पादे न्यूनसंख्याककपालादिस्थले कस्य लोप इति विचारः। तथा हि - कपालादिषु किमनियमेन येषां केषाञ्चिल्लोपः, उत चतुर्थादेरेवेति नियम इति विशये, श्रुतसंख्यासंपत्तये केषांचिल्लोपावश्यकतायां विनिगमनाविरहात् अनियमेन येषां केषांचिल्लोप इति प्राप्ते, प्रथमकपालोपधानपूर्वभाविपदार्थस्योपस्थापकस्य सत्वेन नियमेनोपस्थितत्वात् तदनुरोधेनाद्दानामेवानुष्ठेयतया चतुर्थादेरेव लोप इति नियम इति॥
इति दशमाध्याये पञ्चमः पादः॥
अथ षष्ठः पादः॥
षष्ठे पादे प्रासाङ्गिकः सामविचारः। तथा हि - ज्योतिष्ठोमे यानि रथंतरादीनि रतोत्रीयाणि सामानि सन्ति, तानि किमेकस्यामृचि गेयानि, उत त्यृच इति विशये, स्वाध्यायवेलायामेकस्यामेव गीतत्वात् तदवैलक्षण्याय यज्ञेऽप्येकस्यामेव गेयानि। **एकं साम त्यृचे क्रियते स्तोत्रीयम**् इत्यस्य वर्तमानापदेशरूपतया न विधायकत्वमिति प्राप्ते, **ऋक्सामोवाच मिथुनीसंभवामीति । सोऽब्रवीत् । न वै त्वं ममालं जायात्व**े इत्याद्दर्थवादवशेन एकं सामेत्यादेः विधानतात्पर्यनिर्णयात् लिटो विपरिणामेन लेट्त्वकल्पनया वा त्यृचे सामविधायकतया त्यृच एव गेयानीति॥
इति दशमाध्याये षष्ठः पादः॥
अथ सप्तमः पादः॥
सप्तमे पादे पशुहृदयादीनामेव हविष्ट्वं गृहमेधीयस्यापूर्वत्वमित्यादिरूपणम्। तथाहि - अग्नीषोमीयं पशुमालभेत इत्यत्र यद्दप्युत्पत्तिवाक्ये पशोरेव पुरोडाशवत् देवतासंबन्धित्वेन हविष्ट्वप्रतीतिः, तथापि पिशुं विशसति। लोहितं निरस्यति। शकृत् संप्रविध्यति। वयामुद्धरति । कुम्भ्यामङ्गानि पचति। हृदयं शूलेन इत्यादिसंस्कारवाक्यपर्यालोचनया पशोः स्वावयवद्वारैव साधनताप्रतीतेः पशोः प्रदेयप्रकृतित्वमेव, न तु साक्षात् प्रदेयत्वम्। तच्चावयवानामेव , तत्रापि न सर्वेषामवयवानाम्, किन्तु हृदयादीनामेकदेशानामेव, तेषामेव हविःसंस्कारावदानसंबन्धावगमात् । श्रूयतो हि - हृदयस्याग्रेऽवद्दति , अथ जिह्वायाः , अथ वक्षसः इत्यादि। अतो हृदयादीनामेव हविष्ट्वमिति तेष्वेव पयोधर्माः । एवं चातुर्मास्येषु _मरुद्भ्यो गृहमेधिभ्यः सर्वासां दुग्धे सायमोदनं निर्वपेत् _ इति गृहमेधीयेष्टिं विधाय आज्यभागौ यजति यज्ञतायाः इति श्रुतम्। तत्रातिदेशप्राप्ताज्यभागपुनःश्रवणं किं रूपमिति चिन्तायाम् अनुवादरूपमित्याद्दः पक्षः। अनुवादमात्रत्वे प्रयोजनविरहात् सौर्यादौ निर्वपत्यादेः प्रकृतिसादृश्यबोधनद्वारा प्रकृतितानियामकत्ववत् अस्यापि आज्यभागविधायकत्वमङ्गीकृत्य तादृशवाक्यत्वसादृश्येन वा तादृशवाक्यविहितार्थवत्त्वसादृश्येन वा प्रकृतिनियम इत्येतदर्थमेव तदिति द्वितीयः। औषधद्रव्यकत्वानेकदेवताकत्वादिनैव प्रकृतिविशेषनियमोपपत्तेः आज्यभागौयजतीत्यस्य वैयर्थ्यम्। निर्वपत्यादेस्तु यागलक्षकतया सार्थकस्य सादृशयोपपादकत्वमुपपन्नम्। उपदेशातिदेशाभ्यामेकस्य विधानं चानुपपन्नम्, विहितविधानायोगात्। ततश्चोदकप्राप्तस्य ऐष्टिकविध्यन्तस्य प्रशंसार्थमेवेदम्। अयं विध्यन्तः प्रशस्तः। यत्राज्यभागौ विकृतौ विद्देते तौ च यज्ञताया इति विध्यन्तप्रशंसाद्वारा यागस्तुतिरिति तृतीयः। असंबन्धिवाचनिकगुणव्यवहितत्वेन गृहमेधीयविध्येकवाक्यत्वासंभवात् अर्थवादत्वानुपपत्तेरभ्यासात् कर्मान्तरमेवेदम्। अप्राकृतकार्यमाज्भागधर्मकं गृहमेधीयाङ्गतया विधीयत इति चतुर्थः पक्षः॥
न तावदभ्यासात् कर्मान्तरम्, वक्ष्यमाणरीत्या विधिपुनःश्रवणस्य परिसंख्यार्थत्वसम्भवेन अनन्तरत्वासम्भवात्। अनन्यपर विधिपुनःश्रवणं ह्यभ्यासः। इदमेव ह्यविशेषपुनः श्रवणमित्यभिधीयते। अतः प्राप्ताज्यभागपुनःश्रवणम् आज्यभागावेव यजति न समिदादीनित्येवं परिसंख्यार्थमिति पञ्चमः पक्षः। नैतद्दुक्तम्, परिसंख्यायास्त्रिदोषत्वात्। अतोऽतिदेशविशेषशास्त्रेणानेनोपसंहारः। उपसंहारो नाम सामान्यस्य विशेषविषयतया व्यवस्थापनम्। आस्मिंश्च पक्षे उपदेशातिदेशाभ्यां प्रमितयोरेवाज्यभागयोः अनुष्ठाने फलसिद्धिरित्यभ्युदयशिरस्कत्वकल्पनात् सिद्धान्तापेक्षया अनुष्ठाने विशेष इति षष्ठः पक्षः। उपदेशस्य प्रत्यक्षत्वेन झटिति प्रवृत्तौ अतिदेशस्य तद्विहिताज्यभागविषयकत्वासंभवात् तदतिरिक्तविषय एक एवातिदेशः। न चातिदेशेनैवैज्यभागप्राप्तिसंभवात् तदुपदेशवैयर्थ्यमिति वाच्यम्, यजुर्भ्रेषप्रायश्चित्तप्राप्तिफलकतया तत्सार्थक्य्ाात् । आतिदेशिकत्वे हि तस्य कल्पितत्वेन यजुर्वेदत्वाभावात् यजुर्वेदप्रमिताङ्गताकपदार्थभ्रेषनिमित्तप्रायश्चित्तानुपपत्तिरिति सप्तमः पक्षः॥
सिद्धान्तस्तु न हि यजुर्भ्रेषप्रायश्चित्तप्राप्तिराज्यभोगोपदेशस्य फलम्, विकृत्यङ्गत्वस्य यजुर्वेदप्रमितत्वाभावेऽपि आज्यभागोत्पत्तेः यजुर्वेदप्रमिततया आतिदेशिकत्वेऽपि सौर्यादाविव तत्प्राप्त्युपपत्तेः। किंतु क्लृप्तोपकारकप्राप्ताज्यभागविधिना प्रथमप्रवृत्तेन झटित्याज्यभागोपस्थापनात् तेनैव निराकाङ्क्षस्य गृहमेधीयविधेः नातिदेशकल्पकतेति अतिदेशपरिलोपकतया फलतः प्रयाजादिपरिसंख्यैवाज्यभागोपदेशफलम्। ततश्च गृहमेधीयस्यापूर्वत्वमेव।
कर्म हि चतुर्विधम् - केवलप्रकृतिरूपम्, केवलविकृतिरूपम्, प्रकृतिविकृतिरूपम्, अपू्र्वञ्चेति। किंचिद्विकृतित्वरहिता केवलप्रकृतिः, यथा - दर्शपूर्णमासादिः। किंचित्प्रकृतित्वरहिता केवलविकृतिः, यथा -विश्वसृजामयनादिः। किंचित्प्रकृतित्वकिंचिद्विकृतित्वोभयवती प्रकृतिविकृतिः, यथा - अग्नीषोमीयपश्वादिः। तत्र हि दर्शपूर्णमासविकृतित्वं सवनीयादिप्रकृतित्वं चास्ति। तदुभयशून्यमपूर्वम्। यथा - दर्विहोमः गृहमेधीयादिश्चेति। एवम् शंय्वन्ता प्रायणीया संतिष्ठते। इडान्त तिथ्या इत्यादावपि तावदङ्गकलापविधानेन नैराकाङ्क्ष्यात् अपूर्वत्वं बोध्यम्। एवं वैकृतं श्यामाकादिद्रव्यं सू्र्यादिदेवताक्रियान्ततरसाधनम्। शरदि च प्राकृतद्रव्यदेवताकुशादिनिवर्तकं न वेति विशये उभयोरपि प्रमाणसिद्धत्वात् विकल्प एव न्याय्यः। न चातिदेशस्य कल्प्यतया क्लृप्तप्रत्यक्षवचनापेक्षया दौर्बल्यमिति वाच्यम्, प्रयाजादिविषये आवश्यकत्वेनातिदेशस्य कुशादिविषयकत्वावश्यम्भावात्। न हि प्रत्यङ्गं भिन्नोऽतिदेशः, कथम्भावाकाङ्िक्षण्या विकृत्या प्रकृतिवदित्याकारकस्य एकस्यैव सर्वाङ्गविषयकस्य लाघवेन कल्पनात्। अतो न क्वचिदपि प्रत्याम्नानात् बाधः इति प्राप्ते, उपकारपृष्ठाभावेन हि पदार्थानामतिदेशः। ततश्च यादृशोपकारजनकीभूतः पदार्थः विकृतावाम्नातः तादृशोपकारजनकीभूतप्राकृतपदार्थातिरिक्तपदार्थानामेव विकृतावतिदेशः, कुशादिपदार्थस्याकाङ्क्षाविरहेणातिदेशविषयत्वस्यैवाकल्पनात्त। अतऋ सिद्धं प्रत्याम्नानात् बाध इति॥
इति दशमाध्याये सप्तमः पादः॥
अथाष्टमः पादः
अष्टमे पादे प्रतिषेधकृतबाधनिरूपणम्। तथाहि - दर्शपूर्णमासविकृतौ महापितृयज्ञे अतिदेशप्राप्तस्य होतृवरणस्य न होतारं वृणीते इति निषेधः श्रूयते। तथा **_यज्ञेषु येयजामहं करोति, नानूयाजेषु येयजामहं करोति _**इत्यनारभ्य श्रूयते। तत्र किं महापितृयज्ञे होतृवरणतन्निषेधयोः अनूयाजेषु येयजामहतन्निषेधयोश्च विकल्पः, उत, महापितृयज्ञे होतृवरणस्यानूयाजेषु येयजामहस्य च नित्यं वर्जनमेवेति संशयः। तदर्थं किमयं प्रतिषेधः पर्युदासो वेति चिन्तनीयम्। तत्र प्रतिषेधत्वमेव युक्तम्, पर्युदासत्वे लक्षणादिप्रसङ्गात्। प्रतिषेधत्वं हि आख्यातार्थप्रतियोगिकाभावबोधकवाक्यत्वम्। पर्युदासत्वं चाख्यतार्थव्यतिरिक्तप्रतियोगिकान्योन्याभावबोधकवाक्यत्वम्। न होतारं वृणीते इत्यत्र होतृवरणभावनया सह नञर्थस्याभावस्य प्रतियोगितयान्वये प्रतिषेधो भवति। तत्र न लक्षणा, नञर्थस्य प्रधानभूतभावनान्वयसंपत्तिश्च। न होतारमित्यस्य होतृवरणव्यतिरिक्तं कुर्यादित्यर्थमङ्गीकृत्य पर्युदासत्वस्वीकारे तु नञ अन्योन्याभाववल्लाक्षणिकत्वं गुणभूतधात्वर्थान्वयश्च। एवं नानूयाजेषु येयजामहं करोतीत्यर्थमङ्गीकृत्य पर्युदासत्वस्वीकारेऽपि दर्शितदोषो बोध्यः। तस्मादुभयत्रापि प्रतिषेधस्यैवावश्यकतया प्रतिषेधस्य च प्राप्तिसापेक्षतया प्राप्तेश्च प्रकृते शास्त्रीयतया शास्त्रप्राप्तस्य चात्यन्तबाधायोगात् अगत्या ग्रहणाग्रहणवत् विकल्पः। स्वीक्रियते हि _नातिरात्रे षोडशिनं गृह्णाति। अतिरात्रे षोडशिनं गृह्णाति _ इति शास्त्रद्वयबलात् षोडशिग्रहणाग्रहणयोः अतिरात्रे विकल्पः। तत्र षोडशिग्रहणे फल्गुभूयस्त्वं तदभावे तु फलभूयस्त्वाभावेऽपि इतराङ्गैरेव क्रतूपकारसिद्ध्या फलसिद्धिरिति। इत्थं च प्रकृते महापुतृयज्ञे होतृवरणस्य अनूयाजेषु येयजामहस्य च करणे फलभूयस्त्वम्। अकरणे तु इतराङ्गैरेव क्रतूपकारसिद्ध्या फलसिद्धिरित्येवं प्राप्ते, अभिधीयते - अष्टदोषदुष्टविकल्पापेक्षया लक्षणाश्रयणस्य च युक्ततया पर्युदासत्वमेव न्याय्यम्। ततश्च **_न होतारं वृणीते _**इत्यत्र नञ्धातुभ्यां होतृवरणव्यतिरिक्तं लक्षयित्वा तस्याख्यातार्थान्वयः स्वीकार्यः। नञोऽन्योन्याभावबद्धोधनेऽपि अन्योन्याभावे धात्वर्थस्य प्रतियोगितासंबन्धेन प्रकारत्वानुपपत्तेः, धात्वर्थस्याख्यातार्थातिरिक्तप्रकारतया अन्वयस्याव्युत्पन्नत्वात्। नानूयाजेष्वित्यत्रापि नञनूयाजपदाभ्यामनूयाजव्यतिरिक्तं लक्षणीयम्, सप्तम्यर्थान्वयानुरोधात्। इत्थं च प्रकृतिवत् कुर्यादिति यत् तत् होतृवरणव्यतिरिक्तं कुर्यात्, एवं यज्ञेषु येयजामहं करोतीति यत् तत् अनूयाजव्यतिरिक्तेषु येयजामहं कुर्यादित्येवं वाक्यैकवाक्यतया एकभावनायामपरभावनायाः
अभेदसम्बन्धेन प्रकारत्वम्, आख्यातद्वयसत्वे तथैवावश्यकत्वात्। यथा **_पुरोडाशं चतुर्था करोति , आग्नेयं चतुर्धा करोति इति वाक्ययोरेकवाक्यत्वम् _**तद्वत्। परं तु तत्र तन्मात्रसंकोचार्थतया उपसंहाररूपत्वम्, प्रकृते तु तदन्यसंकोचार्थतया पर्युदासरूपत्वम्। अतो महापितृयज्ञे होतृवरणस्यानुयाजेषु येयजामहस्य च नित्यं वर्जनमेवेति।
एवं दर्शपूर्णमासयोः आज्यभागौ प्रकृत्य नतौ पशौ करोति न सोम इति श्रुतम्। तत्र नतौ पशौ करोतीत्ययं किं प्रतिषेधः पर्युदासो वेति विशये पूर्वोक्तन्यायेन पर्युदास एवेति प्राप्ते, न तावदतिदेशैकवाक्यतया संभवति, दूरस्थात्वात्। पर्युदासो हि दर्शपूर्णमासप्रकरणस्थः। न हि पर्युदासस्य दर्शपूर्णमासवाक्यैकवाक्यतायां किञ्चित् प्रयोजनमस्ति। अतः प्रतिषेध एवायं पश्वधिकरणकाज्यभागयोः । तयोश्च प्राप्तेः शास्त्रीयतया पूर्वोक्तरीत्या विकल्प एव। न कलञ्जं भक्षयेदितिवत् रागप्राप्तनिषेधे हि प्रापकप्रमाणस्याप्रामाण्यसंभवान्न विकल्पः। न सोम इति तु नित्यानुवादः। नताविति प्रतिषेधार्थवादः। यथा सोमे आज्यभागावप्रसिद्धौ तथा पशावपीति निन्दारूपः। न हि न सोम इत्यस्य पर्युदासत्वं संभवति, उक्तयुक्तेः। नापि प्रतिषेधत्वम्, सोम आज्यभागयोः प्राप्त्यभावात्। न हि प्राप्त्यभावे प्रतिषेधो युज्यते, सर्वत्र नञर्थाभावस्य सकलकारकान्वितभावनारूपाख्यातार्थ एव प्रतियोगितासंसगर्गेणान्वयस्यौत्सर्गिकत्वात्, तादृशाख्यातार्थस्य प्रतियोगितया उद्देश्यतया च तज्ज्ञानरूपप्राप्तेर्निषेधवाक्यार्थज्ञानात् प्रागावश्यकत्वात्। यत्र च **_नान्तरिक्षेऽग्निश्चेतव्यः _**इत्यादौ कथंचिदपि सकलकारकविशिष्टभावनाया अप्राप्तिः, तत्रागत्या अग्निचयनभावनायामन्तरिक्षाद्दधिकरणकाभावः प्रतियोगितायान्वेतीत्यभ्युपगम्यते। अतः सोमाधिकरणकाभावः आज्यभागभावनायां नित्यप्राप्तोऽनूद्दते इत्यर्थवाद एवायमिति॥
एवं यदाहवनीये जुहोति इति सामान्यशास्त्रविहितस्याहवनीयस्य पदे जुहोति, वर्त्मनि जुहोति,गार्हपत्ये पत्नीसंयाजां जुहोति इति विशेषविहितैः पदादिभिः किं विकल्पोऽथवा बाध इति सन्देहे सामान्यशास्त्रस्यापि प्रत्यक्षत्वेन कल्पनीयत्वविरहेण दौर्बल्यासंभवात् विकल्प एवेति प्राप्ते, सामान्यशास्त्रस्य कल्पनीयत्वविरहेऽपि विशेषशास्त्रापेक्षया दौर्बल्यमेव। सामान्यशास्त्रं हि होमत्वजातिवाचिना जुहोतिना तदवच्छिन्नव्याक्तिं लक्षयित्वा तदुद्देशेनाहवनीयं विदधाति। तत्र शक्यसंबन्धालोचनेन निर्ज्ञातसम्बन्धसकलव्यक्तिलक्षणापूर्वकं पदहोमव्यक्तौ आहवनीयं वाच्यम्। ततः पूर्वमेव झटिति प्रवृत्तेन विशेषशास्त्रेण विजातीयहोमे पदविधानात् तेनैव निराकाङ्क्षः पदहोमो नावहनीयं गृह्णाति। यद्दपि विजातीयहोमेऽपि जुहोतेर्लक्षणैव। एवं जुहोतेः होमत्वजातिवाचितया लक्ष्यतावच्छेदकवैजात्यमपि लक्षणीयमित्यधिकं गौरवम्। तथापि तस्य विधिबलादेव झटित्युपस्थितत्वात् प्राबल्यम्। किं च सामान्यशास्त्रं विशेषशास्त्रानाक्रान्तविषये सावकाश्ाम्। विशेषशास्त्रं तु सामान्यशास्त्रानाक्रान्तविषयाभावात् निरवकाशमित्यतोऽपि विशेषशास्त्रस्य प्राबल्यम्। ततश्च समशिष्टयोरेवागत्या अष्टदोषदुष्टविकल्पस्वीकारात् विषमशिष्टयोस्तदयोगात् प्रबलेन दुर्बलस्य बाध एव। अत एव न हिंस्यादिति सामान्यनिषेधस्य विहिताहिंसायां न प्रवृत्तिः, सामान्यतो विहिततिरिक्ते सावकाशत्वात्। नतौ पशौ करोतीति विशेषनिषेधस्थले तु सामान्यशास्त्रस्य विशेषविषयेऽपि प्राप्त्यर्थं प्रवृत्यवश्यंभावेन उपजीव्यतया अत्यन्तबाधायोगात् विकल्पस्वीकार इति। तदेवं पादाष्टकपरिमितेन दशमेनाध्यायेन बाधो निरूपितः॥
इति दशमाध्याये अष्टमः पादः॥
समाप्तश्च दशमोऽध्यायः॥
एकादशोऽध्यायः॥
प्रथमः पादः
एकादशेऽध्याये अनेकोद्देशेन सकृदनुष्ठानरूपतन्त्रनिरूपणम्। तच्च प्रयोगविधिना अवगम्यते। प्रयोगविधिर्हि साङ्गस्य प्रधानस्य फलार्थमनुष्ठानं बोधयन् अनेकप्रधानस्थले साङ्गानां सर्वेषां प्रधानानामेकवाक्योपादानबलेन साहित्यमवगमयति। एकेन पदेनानेकाभिधाने साहित्यबोधस्य प्राग्दर्शितत्वात्। तच्च साहित्यसमति बाधके एकक्षणवृत्तित्वमेवेति। आग्नेयाग्नीषोमीय उपांशुयाजाङ्गभूतप्रयाजादीनामेकक्षणवृत्तित्वसाहित्यसंपत्तये आग्नेयाद्दुद्देशेन सकृदेव प्रयाजादिकमनुष्ठेयमिति सिध्यति।तच्च प्रयाजादिकमगृह्यमाणविशेषतया सर्वोपकारकं भवति। एवं दधिपयसोरपि संप्रतिपन्नदेवताकयोः उक्तयागद्वयसाहित्यानुरोधेनैव युगपदिन्द्रोद्देशेन त्यागः। सम्प्रतिपन्नदेवताकत्वम् एकदेवताकत्वम्। अतः सांनाय्ययागयोः विजातीययोरपि तन्त्रम्। तत्र स्वर्गस्यैकत्वेऽपि उत्पत्त्यपूर्वरूपावान्तरोद्देश्ययोर्भिन्नतया लक्षणोपपत्तिः। तत्र प्रथमे पादे तन्त्रोपोद्घातविचारः। तथाहि - किमग्नेयादीनां षण्णां यागानां तृणारणिमणिन्यायेन परस्परनिरपेक्षाणां भिन्नभिन्नस्वर्गजनकत्वम्, उत दण्डचक्रादिन्यायेन परस्परसहकारेण एकस्वर्गजनकत्वमिति विशये, यदाग्नेय इत्याद्दुत्पत्तिवाक्येनाग्नेयेन यागेन इष्टं भावयेदित्येव प्रतीत्या इतरनैरपेक्ष्येणैव फलसाधनता अवगम्यते। यद्दपि दर्शपूर्णमासाभ्यामित्यादिफलवाक्ये एकपदोपादानवशेन साहित्यमवगम्यते, तथापि तन्त्रोत्पत्तिवाक्यावगताग्नेयाद्दुद्देश्येन फलस्य तत्सम्बन्धस्य वा विधानात्। उद्देश्यविशेषणसाहित्यस्य विवक्षितुमशक्यत्वात्, न परस्परसहकारेण फलजनकत्वावगतिः। अतः आग्नेयादीनां भिन्नभिन्नस्वर्गजनकत्वमेव। इत्थं च एकयागसाध्यफलेच्छादशशामपरसाध्यफलेच्छानैयत्यविरहेण षण्णां युगपच्चिकीर्षाया असंभवात् आकाङ्क्षाविरहेण षण्णामेकप्रयोगविधिविषयत्वासंभवेन नोक्तरीत्या तन्त्रसिद्धिरिति प्राप्ते - न हि दर्शपूर्णमासवाक्ये आग्नेयाद्दुद्देश्येन फलस्य तत्संबन्धस्य वा विधानं संभवति। उत्पत्तिवाक्य एव सामान्यतः फलस्य प्राधान्यावगत्या तस्योद्देश्यत्वावश्यंभावात्। अतः फलोद्देशेनैवाग्नेयादीनां विधानमिति वक्तव्यम्। स्वरूपेण प्राप्तानामपि आग्नेयादीनां फलसम्बन्धविशिष्टवेषेणाप्राप्तत्वात् विधानोपपत्तेः। ततश्च एकपदोपादानावगतस्य आग्नेयादिविशेषणीभूतसाहित्यस्य विवक्षितत्वोपपत्त्या परस्परसहकारेणैव फलजनकतासिद्धिः। इत्थं च सर्वेषां युगपच्चिकीर्षया आकाङ्क्षानुरोधेन एकप्रयोगविधिविषयत्वावश्यंभावात् तन्त्रसिद्धिरिति।
इति एकादशेऽध्याये प्रथमः पादः॥
अथ द्वितीयः पादः॥
द्वितीये पादे तन्त्रावापविचारः। तथाहि - दर्शपूर्णमासयोः समे दर्शपूर्णमासाभ्यां यजेते दर्शः पौर्णमास्यां पौर्णमास्या यजेत अमावास्याममावास्यया यजेत इति कालः दर्शपूर्णमासयोश्चत्वार ऋत्विज इति कर्तारश्च श्रुताः। तत्र संशयः किं यस्मिन् समे यस्यां पौर्णमास्यां यैः कर्तृभिराग्नेयोऽनुष्ठीयते तस्मिन्नेव समे तस्यां पौर्णमास्यां तैरेव कर्तृभिः अग्नीषोमीयोऽनुष्ठेयः, उत, अन्यस्मिन् अन्यस्यामन्यैरिति तदर्थं किमुत्पत्तिविध्यतिरिक्तः प्रयोगविधिरिति कश्चिदस्ति न वेति। तत्रोपत्तिविधावेव लिङ्वाच्यया प्रवर्तनया स्वस्वविषये आक्षेपेणानुष्ठानबोधोपपत्तेः उत्पत्तिविध्यतिरिक्तः प्रयोगविधिर्नाम न कश्चिदस्ति। ततश्चाग्नेयादीनां प्रत्येकमेवोत्पत्त्या प्रत्येकमेवानुष्ठेयत्वबोधनात् आकाङ्क्षानुरोधेन कालादयोऽपि प्रत्येकमेव संबध्यन्ते। अतो नाग्नेयादीनामेकदेशकालकर्तृकत्वमिति प्राप्ते, सर्वत्र हि लिङाद्दभिहितप्रवर्तनाविषयस्य त्रिविधा विधेयता। एका स्वरूपेण यागत्वादिना, अपरा इष्टसाधनत्वेन अन्या कृतिसाधनत्वेन। अत एव तद्भेदेनैव उत्पत्तिविधिः विनियोगविधिः प्रोयोगविधिरिति विधित्रैविध्यम्। तत्र हि इष्टसाधनत्वकृतिसाध्यत्वयोः ज्ञानमन्तरा प्रवृत्त्यसंभवात्
धर्मस्वरूपज्ञानमन्तरा इष्टसाधनत्वज्ञानासंभवाच्च धर्मस्वरूपं तस्य इष्टसाधनत्वं कृतिसाध्यत्वं चावश्यं विधिना बोधनीयम्। तत्र प्रथममुत्पत्तिः अनन्तरं विनियोगः अनन्तरं प्रयोग इति क्रमः। आकाङ्काक्रमानुरोधात्। प्रथमं धर्मस्वरूपे अवगते हि फलाकाङ्क्षैव जायते। अनन्तरमिति कर्तव्यताकाङ्क्षया अङ्गसंबन्धे अवगते साङ्गस्य प्रधानस्य चिकीर्षायां प्रयोगविधिः प्रवर्तते। एवं चानेकप्रधानस्थले पूर्वोक्तरीत्या फलजनकतया साङ्गानां परस्परसहितानामेव चिकीर्षा जायत इति तदनुरोधेन ईदृशानामेव प्रयोगो विधीयते। तत्तत्कर्मणः कृतिसाध्यताज्ञानमन्तरा कुत्र कर्तव्यम्, कदा कर्तव्यम्, केन कर्तव्यमित्याकाङ्क्षानुदयात्। देशकालकर्तृणां प्रयोगान्वयिगुणत्वम्। द्रव्यदेवतयोस्तु यागे कृतिसाध्यताज्ञानमन्तरेणापि विशेषणज्ञानमुद्रया यागस्वरूपपरिचायकतया उत्पत्त्यन्वयित्वम्। तन्त्राभिधानावगतसाहित्यादेर्विनियोगान्वयित्वम्। प्रय्ााजादीनां तु प्रथमातिक्रमे कारणाभावादुत्पत्यन्वयित्वमेव। इत्थं च उत्पत्यन्वयिनः सर्वस्याङ्गस्य प्रत्येकमेव सर्वप्रधानाङ्गता। प्रयोगान्वयिनस्तु साङ्गसहितप्रधानाङ्गता। ततश्च समे दर्शपूर्णमासाभ्यां यजेतेत्यनेन षण्णां दैशिक एकः प्रयोगो विधीयते। दर्शपूर्णमासयोश्चच्वार ऋत्विज इत्यनेन कर्तृसंबन्ध्यपरः पूर्ववाक्यविहितप्रयोगानुवादेनानेककर्तृविधानम्। एतद्वाक्यविहितानुवादेन वा पूर्ववाक्येन देशविधानमित्यत्र विनिगमनाविरहात्। परं तु तयोर्युगपदनुष्ठानमविरोधात्। अतः षट्स्वपु यागेषु एको देशः एकः कर्ता इति सिध्यति। पौर्णमास्यां पौर्णमास्या यजेत, अमावास्याममावास्यया यजेत इत्यादौ कालिकोऽपरः प्रयोगो विधीयते। परं तु तत्र विरुद्धकालभेदात् विशेष्यभूतप्रधानभेदाच्च प्रयोगद्वयम्। व्याप्यव्यापकभावेन दैशिकादिप्रयोगेणाविरोधः। अतो यस्यां पौर्णमास्यां यस्मिन् समे यैः कर्तृभिराग्नेयोऽनुष्ठीयते। तस्यामेव पौर्णमास्यां तस्मिन्नेव समे तैरेव कर्तृभिः अग्नीषोमीयोऽनुष्ठेय इति। कर्तृकालदेशैक्यात्, प्रयाजादयस्तन्त्रमेव। एवं सर्वत्र कर्तृकालदेशैक्ये अगृह्यमाणविशेषाणामारादुपकारकाणां तन्त्रम्। गृह्यमाणविशेषाणां संनिपत्योपकारकाणां तु आवृत्तिः। देशादिभेदे तु प्रयोगभेदादारादुपकारकाणामप्यावापशब्दिता आवृत्तिरिति॥
** इति एकादशाध्याये द्वितीयः पादः॥**
तृतीये पादे बहुभिरुदाहरणैस्तन्त्रस्य - चतुर्थे पादे आवापस्य च - तथा प्रपञ्चनम्॥ इत्येकदेशोऽध्यायः॥
अथ द्वादशोऽध्यायः
** प्रथमः पादः॥**
द्वादशाध्याये प्रसङ्गविचारः। प्रसङ्गो नाम अन्यत उपकारलाभप्रयुक्तमननुष्ठानम्। भवति च पशुपुरोडाशयागे पशुयागार्थमनुष्ठितप्रयाजादिजन्योपकारलाभात् प्रयाजाननुष्ठानात् प्रयाजादीनां प्रसङ्गव्यवहारः। पशुपुरोडाशयागो हि अग्नीषोमीयस्य वपया प्रचर्य अग्नीषोमीयं पशुपुरोडाशं निर्वपतीत्यनेन विहितः। स च उद्देशांशेन इष्टदेवतासंस्कारार्थः त्यागांशेनादृष्टार्थः। देवतासंस्कारश्च स्मृतिदार्ढ्यरूपं दृष्टमेव। ततश्च दृष्टादृष्टोभयार्थतया पशुपुरोडाशयागः आश्रयिकर्मेत्युच्यते। तस्य च पशुयागतन्त्रमध्यपतितस्य पश्वर्थानुष्ठितप्रयाजादिजन्योपकारैरेव योग्यताजननात् न तदर्थं प्रयाजाद्दनुष्ठानमित्यादि निरूपितम्॥
इति द्वादशाध्याये प्रथमः पादः॥
अथ द्वितीयः पादः॥
द्वितीये तु सवनीयपशौ पशुपुरोडाशस्य सवनीयहविप्रसङ्गोऽस्ति न वेति विचारः। प्रकृतौ हि पुरोडाशः छिद्रापिधानार्थः। **सुषिरो वा एतर्हि पशुः यर्हि वपामुत्खिदति। यद्व्रीहिमयः पुरोडाशो भवति छिद्रस्यापिहित्यै **इत्यर्थवादात् सवनीयहविषां चानुसवनं, सवनीया निरूप्यते। ्अपिहित्यै छिद्रताया इत्यर्थवादात् छिद्रापिधानार्थत्वं प्रतीयते। ततश्च पशुपुरोडाशकार्यस्य छिद्रापिधानस्य सवनीयपशौ पशुपुरोडाशः कार्य इति प्राप्ते, प्रत्यक्षविरोधेन सवनीयहविषां पशुपुरोडशस्य नार्थवादिकच्छिद्रापिधानार्थत्वसंभवः, किं तु सवनीयहविषामारादुपकारकतया सोमाङ्गत्वम्। पशुपुरोडाशस्य तु देवतासंस्कारार्थत्वम्। ततश्च पुरोडाशकार्यस्य सवनीयहविर्भिरसिद्धेः पशुपुरोडाश आवश्यक एवेति॥
एवं काम्येष्टिकाण्डे - अ्**ाग्नये दात्रे पुरोडाशमष्टाकपालं निर्वपेदिन्द्राय प्रदात्रे पुरोडाशमेकादशकपालं दधिमधुघृतमापोधानाः तत्र संसृष्टं प्राजापत्यमि**ति श्रूयमाणेषु सप्तसु यागेषु प्रथमस्य धानायागस्य चाग्नेयविकारत्वम्। ऐन्द्रस्य एकादशकपालस्य ऐन्द्राग्नैकादशकपालविकारत्वम्। दधियागस्य दधियागविकारत्वम्। मधुघृतोदकयागानामुपांशुयागविकारत्वम्। ततश्च सप्तसु यागेषु आग्नेयविकारयोः द्वयोः पौर्णमासीधर्मः अमावास्याधर्मश्चाविरुद्धः, आग्नेयस्योभयकालिकत्वात् उभयधर्माविरोधः। ऐन्द्रैकादशकपालदधियागयोः दर्शधर्माः। इतरेषु त्रिषु पौर्णमासधर्माः। तत्र सप्तसु यागेषु सह क्रियमाणेषु वार्त्रघ्नी पूर्णमासेऽनूच्येते वृधन्वती अमावास्यायामिति विहितामावास्यापूर्णमासमन्त्रयोः अन्यतरेणाज्यभागानुष्ठाने अन्यमन्त्रार्थं पुनराज्यभागानुष्ठानायोगात् अन्यतरेणैवाज्यभागानुष्ठानमिति स्थिते, तत्र किममावास्यामन्त्रः, उत, पौर्णमासमन्त्र इति विशये, नियामकाभावादनियम इति प्राप्ते, भूयोऽनुग्रहस्य न्याय्यत्वात् पौर्णमासमन्त्र एव। अत्र हि द्वावमावास्याविकारौ, त्रयः पूर्णमास्ाविकारा इति। एवं यत्र समसंख्याकानां धर्मविप्रतिषेधः तत्र प्राथमिकस्यैव धर्मानुग्रहः असंजातविरोधित्वात्। यत्र चाङ्गप्रधानयोः धर्मविप्रतिषेधः तत्र प्रधानानुग्रहस्य न्याय्यतया अङ्गस्य धर्मबाध इति। अत एवाग्नीषोमीयपशोः न पूर्णमास्यामावास्याकालिकत्वम्, किं तु प्रधानभूतसोमस्येति॥
इति द्वादशाध्याये द्वितीयः पादः॥
तृतीयचतुर्थपादयोः समुच्चयविकल्पचिन्ताप्रवृत्तिरिति संक्षेपः। विस्तरस्तु भाट्टदीपिकादौ द्रष्टव्यः॥
इति द्वादशोऽध्यायः॥
समाप्तश्चायं ग्रन्थः॥
अवगाह्य तन्त्रवारिधिमनघोऽभ्युदहारि भाट्टसारोऽयम्।
श्रीकृष्णतातसुधिया रघुवरचरणद्वयैकसक्तधिया॥
इति अथतृतीयाध्याये षष्ठः पादः॥इति