०६ समवायः

विश्वास-प्रस्तुतिः

नित्यसम्बन्धः समवायः ।

Eng A

Co-inherence is constant connection.

मूलम्

नित्यसम्बन्धः समवायः ।

दीपिका

समवायं लक्षयति नित्येति। संयोगेऽतिव्याप्तिवारणाय नित्येति। आकाशादावतिव्याप्तिवारणाय संबन्धेति।

विश्वास-प्रस्तुतिः

अयुत-सिद्ध-वृत्तिः ।

Eng A

It exists in things which cannot exist separately.

मूलम्

अयुतसिद्धवृत्तिः ।

विश्वास-प्रस्तुतिः

ययोर् द्वयोर् मध्ये
एकम् अविनश्यद् अवस्थम् अपराऽश्रितम् एवावतिष्ठते
ताव् अयुत-सिद्धौ

Eng A

Two things which cannot exist separately are those of which two the one exists only as lodged in the other.

मूलम्

ययोर्द्वयोर्मध्ये एकमविनश्यदवस्थमपराऽश्रितमेवावतिष्ठते तावयुतसिद्धौ ।

दीपिका

अयुतसिद्धलक्षणमाह ययोरिति। ’नीलो घटः’ इति विशिष्टप्रतीतिर्विशेषणविशेष्यसम्बन्धविषया, विशिष्टबुद्धित्वात्, दण्डीति विशिष्टबुद्धिवत् इति समवायसिद्धिः। अवयवावयविनाविति। द्रव्यसमवायिकारणमवयवः जन्यद्रव्यमवयवि।

विश्वास-प्रस्तुतिः

यथा अवयवा ऽवयविनौ
गुणगुणिनौ
क्रियाक्रियावन्तौ
जाति-व्यक्ती
विशेष-नित्य-द्रव्ये
चेति ॥ ६८॥

Eng A

Examples: Parts and what is made up of parts, Qualities and the thing qualified, Action and agent, Species and individual, Difference and eternal substances

मूलम्

यथा अवयवाऽवयविनौ गुणगुणिनौ क्रियाक्रियावन्तौ जातिव्यक्ती विशेषनित्यद्रव्ये चेति ॥ ६८॥