१६ संस्कारः

विश्वास-प्रस्तुतिः

संस्कारस्त्रिविधः वेगो भावना स्थितिस्थापकश्चेति ।

Eng A

The quality self-reproductive is of 3 kinds - momentum, imagination and elasticity

मूलम्

संस्कारस्त्रिविधः वेगो भावना स्थितिस्थापकश्चेति ।

दीपिका

संस्कारं विभजते संस्कार इति।
संस्कारत्व-जातिमान् संस्कारः।

विश्वास-प्रस्तुतिः

वेगः पृथिव्यादिचतुष्टयमनोवृत्तिः ।

Eng A

Momentum resides in the four beginning with Earth and in Mind.

मूलम्

वेगः पृथिव्यादिचतुष्टयमनोवृत्तिः ।

दीपिका

वेगस्याश्रयमाह वेग इति। वेगत्वजातिमान्वेगः।

विश्वास-प्रस्तुतिः

अनुभवजन्या स्मृतिहेतुर् भावना

Eng A

Imagination, resulting from notion and the cause of memory,

मूलम्

अनुभवजन्या स्मृतिहेतुर्भावना ।

दीपिका

भावनां लक्षयति अनुभवेति। अनुभवध्वंसेऽतिव्याप्तिवारणाय स्मृतिरिति। आत्मादावतिव्याप्तिवारणाय अनुभवेति। स्मृतेरपि संस्कारजनकत्वं नवीनैरुक्तम्।

विश्वास-प्रस्तुतिः

आत्ममात्रवृत्तिः ।

Eng A

Imagination resides only in the Soul.

मूलम्

आत्ममात्रवृत्तिः ।

विश्वास-प्रस्तुतिः

अन्यथाकृतस्य पुनस्तदवस्थापकः स्थितिस्थापकः।

Eng A

Elasticity is that which restores to its former position what had been altered.

मूलम्

अन्यथाकृतस्य पुनस्तदवस्थापकः स्थितिस्थापकः।

दीपिका

स्थितिस्थापकं लक्षयति अन्यथेति। सङ्ख्यादयोष्टौ नैमित्तिकद्रवत्ववेगस्थितिस्थापकाः सामान्यगुणाः। अन्ये रूपादयो विशेषगुणाः। द्रव्यविभाजकोपाधिद्वयसमानाधिकरणावृत्तिजातिमद्गुणत्वं विशेषगुणत्वम्।

विश्वास-प्रस्तुतिः

कटादिपृथिवीवृत्तिः ॥ ६४॥

Eng A

It resides in [cane-woven] mats and the like which are formed of the earth element.

मूलम्

कटादिपृथिवीवृत्तिः ॥ ६४॥