११ ज्ञानम्

बुद्धिः

विश्वास-प्रस्तुतिः

सर्व-व्यवहार-हेतुर् गुणो बुद्धिर् ज्ञानम् ।

Eng A

Intellect is the knowledge that causes all mental activities

मूलम्

सर्वव्यवहारहेतुर्गुणो बुद्धिर्ज्ञानम् ।

दीपिका

बिद्धेर् लक्षणम् आह सर्व-व्यवहारेति ।
कालादाव् अतिव्याप्ति-वारणाय गुण इति।
रूपादाव् अतिव्याप्तिवारणाय सर्वव्यवहार इति।
“जानामीत्य्” अनु-व्यवसाय-गम्यं ज्ञानम् एव लक्षणमिति भावः।

नीलकण्ठी

जानामीत्यादि ॥ ज्ञानत्व-मात्रं लक्षणम् ॥
जानामीत्य्-अनुव्यवसाय-गम्यत्वं तु ज्ञानत्वस्य प्रमाणसिद्धत्व–सूचनाय।
तथाहि ’ घटं जानामि’ इत्य्-आद्य्-अनुगतानुव्यवसायस्य
+अनुगत-धर्मम् अन्तरा ऽनुपपन्नत्वेन
तस्य स्वीकर्त्तव्यतया लाघवात् जातित्व-सिद्धिः ॥
इत्थं च मूले ’ सर्वव्यवहारहेतु:’ इति बुद्धेः स्वरूप-कथनम् इति भावः ॥

न्यायबोधिनी

बुद्धेर्लक्षणमाह - सर्वव्यवहारेति ।
व्यवहारः शब्दप्रयोगः ।
ज्ञानं विना शब्द-प्रयोगासंभवाच् छब्द-प्रयोग-रूप-व्यवहार-हेतुत्वं ज्ञानत्व-लक्षणम् ।

पदकृत्यम्

बुद्धिलक्षणमाह - सर्वेति ।
सर्वे ये व्यवहारा आहारविहारादयस् तेषां हेतुर् बुद्धिर् इत्यर्थः ।
दण्डादि-वारणाय सर्व-व्यवहारेति
कालादिवारणायासाधारणेत्यपि देयम् ।

वरदाचार्यः

क्रमप्राप्तां बुद्धिं निरूपयति- सर्वव्यवहार इत्यादि ।
सर्वे च ते व्यवहाराः सर्वव्यवहारा इति विग्रहः,
न तु सर्व इति व्यवहार इति - व्यवहार-सामान्य-कारणत्वस्यैव विवक्षितत्वात् ।
सर्वव्यवहाराणां हेतुः सर्वव्यवहारहेतुः
सर्वव्यवहाराणाम् इत्यत्र प्रकृतेः सर्वविध-व्यवहारो ऽर्थः । षष्ठ्याः कार्यत्वम् अर्थः ।
प्रकृत्यर्थस्य सर्वविधव्यवहारार्थस्य षष्ठ्यर्थकार्यतायाम् आधेयतासम्बन्धेनान्वयः ।
तथा च सर्वविधव्यवहारनिष्ठकार्यता।

हेतुर् इत्यस्य कारणतावान् अर्थः ।
षष्ठ्यर्थकार्यताया निरूपितत्व-सम्बन्धेन हेत्व्-अर्थैक-देशे कारणतायाम् अन्वयः ।
कारणतावतश् चाभेद-सम्बन्धेन ज्ञाने +++(अन्वयः)+++।

अत्र कार्यतायां सर्व-पद-समभिव्याहारवशात्
कार्यता व्यवहारत्वावच्छिन्ना बोध्या ।

तथा च व्यवहारत्वावच्छिन्न-कार्यता-निरूपित-कारणतावद्-अभिन्नं ज्ञानं बुद्धिः इति बोधः ।

वस्तुतस्तु मुख्यो व्यवहार-पदार्थो हानोपादानादिर् एव ।
ज्ञानं तु तद्+हेतु-भूतम् ।
लक्षणं तु - व्यवहारत्वावच्छिन्न-कार्यता-निरूपित-कारणत्वम् इति ।

व्यवहारत्वावच्छिन्न-कार्यता केति चेत् ?
‘अयं घटः’ ‘अयं पट’ इत्याकारक-ज्ञान-जनक-शब्द-प्रयोग-रूप-व्यवहार-निष्ठा कार्यता ।
तादृश-शब्द-प्रयोगं प्रति घटादि-ज्ञानस्य कारणत्वात्
तादृश-कार्यता-निरूपित-कारणत्वं घटादि-ज्ञाने वर्तत इति समन्वयः ।

सांख्यैर् ज्ञानम् अन्यत्, बुद्धिश् चान्येत्य् अङ्गीकारात्
तन् निराकरणार्थम् उभयोः पर्यायत्व-सूचनाय ‘ज्ञानं बुद्धिः’ इति पदद्वयं प्रयुक्तम् ।
अतो न पुनरुक्तिः, न वा लक्षणे पद-द्वय-निवेशः ।।

नन्व् एवं सत्य् अप्य् अस्य लक्षणस्य कालेऽतिव्याप्तिर् दुष्परिहरा ।
तथाहि ‘कार्यसामान्यं प्रति कालस्य कारणत्वात्’
व्यवहारत्वावच्छिन्न-कार्यता-निरूपित-कारणता केति चेत्,
काल-निष्ठा कारणतापि भवतीत्य् अतिव्याप्तिरिति चेत्, न ।
कारणतावान् इत्यत्र कारणतायाम् असाधारण-पदनिवेशनात् ।
तथा च लक्षणम् -
‘व्यवहारत्वावच्छिन्न-कार्यता-निरूपितासाधारण-कारणत्वम्’ इति ।
एवञ्च नाति-व्याप्तिः ।
तथाहि - कालस्य कार्य-सामान्यं प्रति साधारण-कारणत्वे सत्य् अपि,
असाधारण-कारणत्वाभावात्
‘अयं घटः’ ‘अयं पटः’ इत्याकारक-व्यवहारत्वावच्छिन्न-कार्यतां प्रत्य्
असाधारण-कारणत्वं ज्ञानस्यैव,
न तु कालस्येति तत्र नातिव्याप्तिः ।।

बुद्ध्य्-आदयस् त्वात्मविशेष-गुणा, आत्म-सद्भाव-लिङ्ग-रूपाः ।
यद्य् अप्य् आत्मा ‘अहम् ’ प्रतीति-सिद्ध इति वदन्ति,
अथापि ‘अहं’-प्रतीतेश् शरीरादाव् अपि दर्शनाद् विप्रतिपत्ति-सत्त्वेन,
परकीयात्मनश् च स्वेन ‘अहम् इति’ प्रतीतिं कर्तुम् अशक्यत्वात्,
तादृश-प्रतीति-विषयत्वासंभवात्, आत्मनोऽनुमेयत्वाभिधानम् ।

न्याय-वैशेषिकयोस् समान-तन्त्रत्वात् परस्पर-पूरकत्वं सिद्धम् ।
तत्र न्यायशास्त्रं प्रमाण-प्रधानम्, वैशेषिकं तु प्रमेय-प्रधानम् ।
अनयोर् उभयोर् मध्ये व्यवहारे प्रमाणं प्रधानम्, स्वविषये तु प्रमेयं प्रधानम् ।
किञ्च प्रमाणस्यापि प्रमेयत्वम् अनिवार्यम्, प्रमेयत्वस्य केवलान्वयित्वात् ।
अतः सप्त-पदार्थ-रूप-प्रमेये गुण-वर्गे बुद्धौ प्रमाणानाम् अन्तर्भावात्
बुद्धि-निरूपणे प्रमाण-निरूपणम् अतिसमञ्जसम् ।

विरला

सांख्यमते बुद्धिशब्दस्य महत्तत्ववाचकत्वाद् अन्तःकरणरूपत्वाच् चाह - ज्ञानम् इति ।
तथा च मनोभिन्नान्तःकरणे मानाभावात् बुद्धिर् ज्ञान-पर्याय एवेति भावः ।

उत्तमूरु-वीरराघवः

सर्वेति । सर्वश् चासौ व्यवहारश् च, तस्य हेतुः
सर्वत्वं समभिव्याहृत-पदार्थतावच्छेदक-व्यापकं बुद्धि-विशेष-विषयत्वम् ।
तत्पर्याप्त्य्-अधिकरणं सर्व-शब्दार्थः ।
व्यवहार-पदस्य तादृश-बुद्धि-विशेष-विषयता-पर्याप्त्य्-अधिकरण-व्यवहार-निरूपितेति लक्ष्यार्थो ऽभेदेन हेतुत्वे ऽन्वेति ।
तादृश-हेतुत्ववद्-अभिन्ना ज्ञानाभिन्ना बुद्धिर् इति बोधः।

ननु संख्यादीनाम् अपि यत्किञ्चिद्-व्यवहार-हेतुत्वस्य प्राग्-उक्तत्वात्
तत्रातिव्याप्ति-वारणाय सर्व-पदम् इति वक्तव्यम् ?
नैतच् छक्यम् ।
अत्र हि हेतुत्वं जनकत्वम् एव, न तु जनक-ज्ञान-विषयत्वम् -
ज्ञानस्य साक्षाद् एव कारणत्वात् ।
संख्यादीनां च न साक्षाज् जनकत्वम् इति ।

तत्कुतः सर्व-पदम् इति चेत्, सत्यम् ।
संख्यापरिमाणादिलक्षणे व्यवहारविशेषणतया संख्या मानेत्यादि निवेशनोयमासीत् ।
अन्यथाऽतिव्याप्तेः ।
तद्वद् अत्र किमपि विशेषणं व्यवहारे न देयम् ।
अस्यैतद् व्यवहारं प्रत्येव कारणत्वं,
न त्व् अन्य-व्यवहारं प्रतीत्य् अस्याभावाद् व्यवहार-सामान्य-कारणत्वाद्
इति बोधनार्थम् एव सर्वेत्य् उक्तम् ।

अतो व्यवहार-हेतुत्वम् एव लक्षणम् ।
अदृष्टेऽतिव्याप्ति-वारणाय
व्यवहारत्वावच्छिन्न-कार्यता-निरूपित-कारणतावत्त्वम् इति निष्कर्षः ।

ज्ञानम् इति पर्यायपदं “बुद्धि-शब्देनान्तःकरणादि विवक्षितम्” इति भ्रमव्युदासाय ।

VN Jha

Knowledge is that cognition which prompts all behaviors of living beings.

VN Jha - Comment

Human beings perform three types of behaviour

  • (a) the act of going forward to get something
  • (b) the act of withdrawal to get rid of something and
  • (c) the conscious act of remaining neutral. All these three kinds of behavior are prompted by a cognition or knowledge.

The knowledge presents the world before the knower with a form and a name and if he wants it he goes to collect it; if he does not want it he withdraws from it and if he neither wants to get it nor to get rid of it he remains indifferent. But in any case it is the cognition or knowledge that prompts these behaviors.

It is our experience that some behaviors or activities are successful in the sense that whatever is shown by cognition, the same is obtained; while some other behaviors are not successful in the sense that there ‘x’ is shown by cognition, but ‘y’ is obtained. But in both the cases the prompting factor is nothing but cognition.

It is only after one gets the same thing which was shown by the cognition, one comes to conclude that the prompting cognition was a true cognition and when he meets a failure he comes to conclude that the prompting cognition of his behavior was a false cognition.

Thus, all behaviors are prompted by cognition.

विश्वास-प्रस्तुतिः

सा द्विविधा स्मृतिर् अनुभवश् च ।

Eng A

It is of 2 types - Recollection / Remembrance / Memory and Experience / Notion

मूलम्

सा द्विविधा स्मृतिरनुभवश्च ।

दीपिका

बुद्धिं विभजते सेति

न्यायबोधिनी

बुद्धिर् विभजते – सा द्विविधेति

English

That is of two types: remembrance and experience.

स्मृतिः

विश्वास-प्रस्तुतिः

संस्कार-मात्र-जन्यं ज्ञानं स्मृतिः

Eng A

“That knowledge which is caused by the mental impressions is called recollection / The knowledge which is produced only by its own antecedence is remembrance”

मूलम्

संस्कारमात्रजन्यं ज्ञानं स्मृतिः ।

दीपिका

स्मृतेर् लक्षणम् आह संस्कारेति
भावनाख्यः संस्कारः
संस्कार-ध्वंसे ऽतिव्याप्ति-वारणाय ज्ञानम् इति।
घटादिप्रत्यक्षे ऽतिव्याप्तिवारणाय संस्कारजन्यम् इति।
प्रत्यभिज्ञायाम् अतिव्याप्ति-वारणाय मात्र-पदम्।

अनुभवः

विश्वास-प्रस्तुतिः

तद्भिन्नं ज्ञानमनुभवः ।

Eng A

Experience or cognition is that knowledge which is different from recollection/ notion

मूलम्

तद्भिन्नं ज्ञानमनुभवः ।

दीपिका

अनुभवं लक्षयति तद्भिन्नमिति। स्मृतिभिन्नं ज्ञानमनुभव इत्यर्थः। अनुभवं विभजते स द्विविध इति

विश्वास-प्रस्तुतिः

सः द्विविधः यथार्थोऽयथार्थश्च ।

Eng A

It is of 2 types - Valid Experience / Notion and Invalid Experience / Notion

मूलम्

सः द्विविधः यथार्थोऽयथार्थश्च ।

विश्वास-प्रस्तुतिः

तद्वति तत्प्रकारकोऽनुभवो यथार्थः ।

Eng A

Of whatever description anything is, a notion of that same description is a right notion.

मूलम्

तद्वति तत्प्रकारकोऽनुभवो यथार्थः ।

दीपिका

यथार्थानुभवस्य लक्षणमाह तद्वतीति
ननु घटे घटत्वमिति प्रमायाम् अव्याप्तिः, घटत्वे घटाभावादिति चेत् न, यत्र ब्यत्सम्बन्धोऽस्ति तत्र तत्सम्बन्धानुभवः इत्यर्थाद्घटत्वे घटसम्भन्धोऽस्तीति नाव्याप्तिः। सैवेति। यथार्थानुभव एव शास्त्रे प्रमेत्युच्यते इत्यर्थः।

विश्वास-प्रस्तुतिः

यथा रजते इदं रजतमिति ज्ञानम् ।

Eng A

The cognition of silver as silver (possessing silver-ness)

मूलम्

यथा रजते इदं रजतमिति ज्ञानम् ।

विश्वास-प्रस्तुतिः

सैव प्रमेत्युच्यते ।

Eng A

This is called Pramaa : Commensurate with its object

मूलम्

सैव प्रमेत्युच्यते ।

विश्वास-प्रस्तुतिः

तदभाववति तत्प्रकारकोऽनुभवो ऽयथार्थः ।

Eng A

Supposing a thing to be as the thing is not - such a notion is called a wrong notion.

मूलम्

तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः ।

दीपिका

अयथार्थानुभवं लक्षयति तदभाववतीति। नन्विदं संयोगीति प्रमायामतिव्याप्तिरिति चेत् न। यदवच्छेदेन यत्सम्बन्धाभावास्तदवच्छेदेन तत्सम्बन्धज्ञानस्य विवक्षितत्वात्। संयोगाभावावच्छेदेन संयोगज्ञानस्य भ्रमत्वात्संयोगावच्छेदेन संयोगसम्बन्धस्य सत्त्वान्नतिव्याप्तिः।

विश्वास-प्रस्तुतिः

यथा शुक्ताविदंरजतमिति ज्ञानम् ।

Eng A

In the case of a pearly shell, the notion of its being silver.

मूलम्

यथा शुक्ताविदंरजतमिति ज्ञानम् ।

विश्वास-प्रस्तुतिः

सैव अप्रमेत्युच्यते ॥ ३४॥

Eng A

This is called apramaa

मूलम्

सैव अप्रमेत्युच्यते ॥ ३४॥

विश्वास-प्रस्तुतिः

यथार्थानुभवश्चतुर्विधः

Eng A

There are 4 types of Valid Cognition

मूलम्

यथार्थानुभवश्चतुर्विधः

विश्वास-प्रस्तुतिः

प्रत्यक्षानुमित्युपमितिशाब्दभेदात् ।

Eng A

According to the division of Perception, Inference, Conclusion from similarity and authoritative assertion / verbal knowledge .

मूलम्

प्रत्यक्षानुमित्युपमितिशाब्दभेदात् ।

विश्वास-प्रस्तुतिः

तत्करणमपि चतुर्विधं

Eng A

The instrumental causes of these also are of four kinds:

मूलम्

तत्करणमपि चतुर्विधं

दीपिका

प्रसङ्गात्प्रमाकरणं विभजते तत्करणमपीति। प्रमाकरणमित्यर्थः। प्रमाकरणं प्रमाणमिति प्रमाणसामान्यलक्षणम्।

विश्वास-प्रस्तुतिः

प्रत्यक्षानुमानोपमानशाब्दभेदात् ॥३५॥

Eng A

According to the division of Perception, Inductive generalizations, Recognition of similarity and authoritative assertion.

मूलम्

प्रत्यक्षानुमानोपमानशाब्दभेदात् ॥३५॥

कारणम्, करणम्, कार्यम्

विश्वास-प्रस्तुतिः

व्यापारवद् असाधारणं+++(→दिक्कालदि-भिन्नं)+++ कारणं करणम्

Eng A

A cause with an operation, not one of those causes common to all effects, is called an instrumental cause.

मूलम्

व्यापारवत् असाधारणं कारणं करणम् ।

दीपिका

करण-लक्षणम् आह असाधारणेति
दिक्-कालादाव् अतिव्याप्ति-वारणाय असाधारणेति

विश्वास-प्रस्तुतिः

अनन्यथासिद्धत्वे सति कार्य-नियत-पूर्व-वृत्ति कारणम्

Eng A

That which is invariably antecedent to some product, and is not otherwise constituted (i.e., is not by anything else, except the result in question, constituted a cause) is the cause of that product

मूलम्

अनन्यथासिद्धत्वे सति कार्यनियतपूर्ववृत्ति कारणम् ।

दीपिका

कारणलक्षणमाह कार्येति। पूर्ववृत्तिकारणमित्युक्ते रासभादावतिव्याप्तिः स्यादतो नियतेति। तावन्मात्रे कृते कार्येऽतिव्याप्तिरतः पूर्ववृत्तीति। ननु तन्तुरूपमपि पटं प्रति कारणं स्यादिति चेत् न, अनन्यथासिद्धत्वे सतीति विशेषणम्। अनन्यथासिद्धत्वमन्यथासिद्धिरहितत्वम्। अन्यथासिद्धिः त्रिविधा - येन सहैव यस्य यं प्रति पूर्ववृत्तित्वमवगम्यते तं प्रति तेन तदन्यथासिद्धम्। यथा तन्तुनां तन्तुरूपं तन्तुत्वं च पटं प्रति। अन्यं प्रति पूर्ववृत्तित्वे ज्ञात एव यस्य यं प्रति पूर्ववृत्तित्वमवगम्यते तं प्रति तदन्यथासिद्धम्। यथा शब्दं प्रति पूर्ववृत्तित्वे ज्ञात एव पटं प्रत्याकाशस्य। अन्यत्र क्लृप्तनियतपूर्ववतिर्न एव कार्यसम्भवे तत्सहभूतमन्यथासिद्धम्। यथा पाकजस्थले गन्धं प्रति रूपप्रागभावस्य। एवञ्च अनन्यथासिद्धनियतपूर्ववृत्तित्वं कारणत्वम्।

विश्वास-प्रस्तुतिः

कार्यं प्राग्-अभाव-प्रतियोगि ॥ ३६॥

Eng A

That which annuls its own antecedent non-existence is called Effect

मूलम्

कार्यं प्रागभावप्रतियोगि ॥ ३६॥

दीपिका

कार्य-लक्षणम् आह कार्यम् इति

विश्वास-प्रस्तुतिः

कारणं त्रिविधं समवाय्यसमवायिनिमित्तभेदात् ।

Eng A

Cause is of 3 kinds, according to the distinction of substantial, non-substantial and instrumental.

मूलम्

कारणं त्रिविधं समवाय्यसमवायिनिमित्तभेदात् ।

दीपिका

कारणं विभजते कारणमिति

विश्वास-प्रस्तुतिः

यत्+++(→कारण)+++-समवेतं कार्यम् उत्पद्यते तत् समवायिकारणम्

Eng A

That in which an effect intimately relative to it takes its rise, is a substantial cause [of that effect].

मूलम्

यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम् ।

दीपिका

समवायिकारणस्य लक्षणमाह यत्समवेतमिति। यस्मिन् समवेतमित्यर्थः।

विश्वास-प्रस्तुतिः

यथा तन्तवः पटस्य, पटश् च स्व-गत-रूपादेः ।

Eng A

As threads are of cloth nad the cloth itself of its own colour, etc.

मूलम्

यथा तन्तवः पटस्य पटश्च स्वगतरूपादेः ।

विश्वास-प्रस्तुतिः

कार्येण कारणेन वा सहैकस्मिन्न् अर्थे +++(→अद्रव्यरूपेण)+++ समवेतत्वे सति
यत् कारणं तद् अ-समवायि-कारणम् +++(=??)+++।

Eng A

Where this intimate relation exists, that cause which is associated in one and the same object [as a necessarily immanent cause] with such effect or cause, is the non-substantial cause.

मूलम्

कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतत्वे सति यत्कारणं तदसमवायिकारणम् ।

दीपिका

असमवायिकारणं लक्षयति कार्येणेति

विश्वास-प्रस्तुतिः

यथा तन्तुसंयोगः पटस्य,
तन्तुरूपं पटरूपस्य ।

Eng A

The conjunction of the threads is the non-substantial cause of the cloth and the colour of the threads as that of the colour of the cloth.

मूलम्

यथा तन्तुसंयोगः पटस्य, तन्तुरूपं पटरूपस्य ।

दीपिका

कार्येणेत्येतदुदाहरति तन्तुसंयोग इति
कार्येण पटेन सह एकस्मिंस् तन्तौ समवेतत्वात् तन्तुसंयोगः पटस्यासमवायिकारणमित्यर्थः। कारणेनेत्येतदुदाहरति तन्तुरूपमिति। कारणेन पटेन सह एकस्मिंस्तन्तौ समवेतत्वात्तन्तुरूपं पटरूपस्यासमवायिकारणमित्यर्थः।

विश्वास-प्रस्तुतिः

तदुभयभिन्नं कारणं निमित्त-कारणम्

Eng A

The cause which is distinct from both of these is the instrumental cause.

मूलम्

तदुभयभिन्नं कारणं निमित्तकारणम् ।

दीपिका

निमित्तकारणं लक्षयति तदुभयेति। समवाय्यसमवायिभिन्नकारणं निमित्तकारणमित्यर्थः।

विश्वास-प्रस्तुतिः

यथा तुरी-वेमादिकं पटस्य ।

Eng A

As the weaver’s brush, loom, etc are instrumental causes of cloth.

मूलम्

यथा तुरीवेमादिकं पटस्य ।

विश्वास-प्रस्तुतिः

तद् एतत् त्रिविध-कारण-मध्ये
यद् असाधारणं+++(→दिक्कालदि-भिन्नं)+++ कारणं
तद् एव करणम् ॥ ३७॥

Eng A

Among these three kinds of causes, that only is an instrumental cause which is not a universally concurrent cause.

मूलम्

तदेतत्त्रिविधकारणमध्ये यदसाधारणं कारणं तदेव करणम् ॥ ३७॥

दीपिका

करणलक्षणम् उपसंहरति तदेतदिति

ज्ञान-करणम्

प्रत्यक्षम्

विश्वास-प्रस्तुतिः

तत्र प्रत्यक्ष-ज्ञान-करणं प्रत्यक्षम्

Eng A

The cause of the knowledge called perception is sensation

मूलम्

तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम् ।

दीपिका

प्रत्यक्षलक्षणमाह तत्रेति। प्रमाणचतुष्टयमध्येत्यर्थः।

विश्वास-प्रस्तुतिः

इन्द्रियार्थ-सन्निकर्ष-जन्यं ज्ञानं प्रत्यक्षम्

Eng A

Sensation is the knowledge produced by the conjunction of an organ of sense and its object.

मूलम्

इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् ।

दीपिका

प्रत्यक्षज्ञानस्य लक्षणमाह इन्द्रियेति। इन्द्रियं चक्षुरादिकम्, अर्थो घटादिः, तयोः सन्निकर्षः संयोगादिः, तज्जन्यं ज्ञानमित्यर्थः। तद्विभजते तद्द्विविविधमिति। निर्विकल्पकस्य लक्षणमाह निष्प्रकारकमिति। इशेषणविशेष्यसम्बन्धानवगाहिज्ञानमित्यर्थः। ननु निर्विकल्पके किं प्रमाणमिति चेत् न, गौरिति विशिष्टज्ञानं विशेषणज्ञानजन्यं, विशिष्टज्ञानत्वात्, दण्डीति ज्ञानवत् इत्यनुमानस्य प्रमाणत्वात्। विशेषणज्ञानस्यापि सविकल्पकत्वेऽनवस्थाप्रसङ्गान्निर्विकल्पकसिद्धिः। सविकल्पकं लक्षयति सप्रकारकमिति। नामजात्यादिविशेष्यविशेषणसम्भन्धावगाहिज्ञानमित्यर्थः। सविकल्पकमुदाहरति यथेति

विश्वास-प्रस्तुतिः

तद् द्विविधं - निर्विकल्पकं सविकल्पकं चेति ।

Eng A

Perception is of 2 types - Perception which does not pay regard to an alternative and Perception which pays regard to an alternative

मूलम्

तद्द्विविधं निर्विकल्पकं सविकल्पकं चेति ।

विश्वास-प्रस्तुतिः

तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकं - यथेदं किञ्चित् ।

Eng A

The knowledge which does not pay regard to an alternative is that which involves no specification, as in the simple cognition that ‘This is something (we know not what)’

मूलम्

तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकं यथेदं किञ्चित् ।

विश्वास-प्रस्तुतिः

सप्रकारकं ज्ञानं सविकल्पकं - यथा डित्थोऽयं ब्राह्मणोऽयं श्यामोऽयं पाचकोऽयमिति ॥ ३८॥

Eng A

The knowledge which contemplates an alternative is that which includes a specification, as ‘This is Dittha’, ‘This is a Brahmana’, ‘This is black’.

मूलम्

सप्रकारकं ज्ञानं सविकल्पकं यथा डित्थोऽयं ब्राह्मणोऽयं श्यामोऽयं पाचकोऽयमिति ॥ ३८॥

विश्वास-प्रस्तुतिः

प्रत्यक्षज्ञानहेतुर् इन्द्रियार्थ-सन्निकर्षः षड्विधः ।

Eng A

The mutual proximity of a sense and its object, which is the cause of perception, is of 6 kinds

मूलम्

प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्निकर्षः षड्विधः ।

दीपिका

इन्द्रियार्थसंनिकर्षं विभजते प्रत्यक्षेति

विश्वास-प्रस्तुतिः

संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेषण-विशेष्य-भावश् चेति ।

Eng A

Conjunction, Intimate union with that which is in conjunction, Inherence in that which is in conjunction, Inherence, Inherence in that which inheres, The relation between a distinctive circumstance and that which is thereby distinguished.

मूलम्

संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेषणविशेष्यभावश्चेति ।

विश्वास-प्रस्तुतिः

चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः ।

Eng A

When a jar is perceived by the eye, there is [between the sense and the object] the proximity of conjunction

मूलम्

चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः ।

दीपिका

संयोगसन्निकर्षमुदाहरति चक्षुषेति। द्रव्यप्रत्यक्षे सर्वत्र संयोगः संनिकर्षः। आत्मा मनसा संयुज्यते, मनः इन्द्रियेण, इन्द्रियमर्थेन, ततः प्रत्यक्षज्ञानमुत्पद्यते इत्यर्थः।

विश्वास-प्रस्तुतिः

घट-रूप-प्रत्यक्ष-जनने संयुक्त-समवायः सन्निकर्षः,
चक्षुः-संयुक्ते घटे रूपस्य समवायात् ।

Eng A

In the perception of the colour of the jar, there is proximity through inherence in that which is in conjunction , because the colour inheres in the jar, which is in conjunction with the sense of vision.

मूलम्

घटरूपप्रत्यक्षजनने संयुक्तसमवायः सन्निकर्षः चक्षुः संयुक्ते घटे रूपस्य समवायात् ।

दीपिका

संयुक्तसमवायमुदाहरति घटरूपेति। तत्र युक्तिमाह चक्षुःसंयुक्त इति

विश्वास-प्रस्तुतिः

रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः चक्षुः संयुक्ते घटे रूपं समवेतं तत्र रूपत्वस्य समवायात् ।

Eng A

In the perception of the genus - the fact that this is a colour, there is the proximity of inherence in what inheres in that which is in conjunction, because the fact of being a colour inheres in the particular colour which inheres in the jar which is in conjunction with the sense of vision.

मूलम्

रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः चक्षुः संयुक्ते घटे रूपं समवेतं तत्र रूपत्वस्य समवायात् ।

दीपिका

संयुक्तसमवेतसमवायम् उदाहरति रूपत्वेति

विश्वास-प्रस्तुतिः

श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः कर्णविवरवृत्त्याकाशस्य श्रोत्रत्वात् शब्दस्याकाशगुणत्वाद्गुणगुणिनोश्च समवायात्

Eng A

In the perception of sound by the organ of hearing, the proximity is that of inherence, because the organ of hearing consists of the ether which resides in the cavity of the ear, and sound is a quality of ether , and a quality inheres in that of which it is the quality.

मूलम्

श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः कर्णविवरवृत्त्याकाशस्य श्रोत्रत्वात् शब्दस्याकाशगुणत्वाद्गुणगुणिनोश्च समवायात्

दीपिका

समवायमुदाहरति श्रोत्रेणेति। तदुपपादयति कर्णेति। ननु दूरस्थशब्दस्य कथं श्रोत्रसम्बन्ध इति चेत् न, वीचीतरङ्गन्यायेन कदम्बमुकुलन्यायेन वा शब्दान्तरोत्पत्तिक्रमेण श्रोत्रदेशे जातस्य श्रोत्रेण सम्भन्धात्प्रत्यक्षसम्भवः।

विश्वास-प्रस्तुतिः

शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः श्रोत्र्समवेते शब्दे शब्दत्वस्य समवायात् ।

Eng A

In the perception that it is a sound [in the case of any given sound of which we are cognizant] the proximity is that of inherence in what inheres, because the fact of being a sound inheres in the sound which inheres in the organ of hearing.

मूलम्

शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः श्रोत्र्समवेते शब्दे शब्दत्वस्य समवायात् ।

दीपिका

समवेतसमवायमुदाहरति शब्दत्वेति

विश्वास-प्रस्तुतिः

अभावप्रत्यक्षे विशेषणविशेष्यभावः सन्निकर्षः घटाभाववद्भूतलमित्यत्र चक्षुः संयुक्ते भूतले घटाभावस्य विशेषणत्वात् ।

Eng A

In the perception of non existence, the proximity is through the relation between a distinctive circumstance and that which is thereby distinguished, because In the case when we perceive ‘The ground is possessed of the non-existence of a jar’ , the perceived non existence of a jar distinguishes the ground which is in conjunction with the organ of vision.

मूलम्

अभावप्रत्यक्षे विशेषणविशेष्यभावः सन्निकर्षः घटाभाववद्भूतलमित्यत्र चक्षुः संयुक्ते भूतले घटाभावस्य विशेषणत्वात् ।

दीपिका

विशेष्यणविशेषभावमुदाहरति अभावेति। तदुपपादयति घटाभाववदिति भूतले घटो नास्तीत्यत्र अभावस्य अभावस्य विशेष्यत्व द्रष्टव्यम्। एतेन अनुपलब्धेः प्रमाणान्तरत्वं निरस्तम्। यद्यत्र घटोऽभविष्यत्तर्हि भूतलमिवाद्रक्ष्यत, दर्शनाभावान्नास्तीति तर्कितप्रतियोगिसत्वविरोध्यनुपलब्धिसहकृतेन्द्रियेणैव अभावज्ञानोत्पत्तौअनुपलब्धेः प्रमाणान्तरत्वासम्भवात्। अधिकरणज्ञानार्थमपेक्षणीयेन्द्रियस्यैव करणत्वोपपत्तावनुपलब्धेः कारणत्वायोगात्। विशेषणविशेष्यभावो विशेषणविशेष्यस्वरूपमेव, नातिरिक्तः सम्बन्धः। प्रत्यक्षज्ञानमुपसंहरस्तस्य करणमाह एवमिति

विश्वास-प्रस्तुतिः

एवं सन्निकर्षजन्यं ज्ञानं प्रत्यक्षं, तत्करणमिन्द्रियम् ।

Eng A

Knowledge produced by these 6 kinds of proximity is perception; Its Instrument is sense.

मूलम्

एवं सन्निकर्षजन्यं ज्ञानं प्रत्यक्षं, तत्करणमिन्द्रियम् ।

दीपिका

असाधारणकारणत्वादिन्दियं प्रत्यक्षज्ञानकरणमित्यर्थः। प्रत्यक्षप्रमाणमुपसंहरति तस्मादिति

विश्वास-प्रस्तुतिः

तस्माद् इन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम् ॥ ३९॥

Eng A

Therefore we hold that an organ of sense is what gives us the right knowledge called perception.

मूलम्

तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम् ॥ ३९॥

अनुमानम्

विश्वास-प्रस्तुतिः

अनुमितिकरणम् अनुमानम् ।

Eng A

An induction (Anumana) is the instrumental cause of an inference (Anumiti)

मूलम्

अनुमितिकरणमनुमानम् ।

दीपिका

अनुमानं लक्षयति अनुमितिकरणमिति

विश्वास-प्रस्तुतिः

परामर्शजन्यं ज्ञानमनुमितिः ।

Eng A

An inference is knowledge that results from syllogizing.

मूलम्

परामर्शजन्यं ज्ञानमनुमितिः ।

दीपिका

अनुमितिं लक्षयति परामर्शेति
ननु संशयोत्तर-प्रत्यक्षे ऽतिव्याप्तिः स्थाणु-पुरुष-संशयानन्तरं
“पुरुषत्व-व्याप्य-करादिमान् अयम्” इति परामर्षे सति
पुरुष एव इति प्रत्यक्षजननात्।
न च तत्रानुमितिरेवेति वाच्यम्। पुरुषं साक्षात्करोमि इत्यनुव्यवसायिविरोधादिति चेत् न, पक्षतासहकृतपरामर्शजन्यत्वस्य विवक्षितत्वात्। सिषाधयिषाविरहविशिष्टसिद्ध्यभावः पक्षता। साध्यसिद्धिरनुमितिप्रतिबन्धिका। सिद्धिसत्त्वेऽपि अनुमिनुयाम् इतीच्छायामनुमितिदर्शनात् सिषाधयिषोत्तेजिका। ततश्चोत्तेजकाभावविशिष्टमण्यभावस्य दाहकारणत्ववत्सिषाधयिषाविरहविशिष्टसिद्ध्यभावस्याप्यनुमितिकारणत्वम्।

विश्वास-प्रस्तुतिः

व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः।

Eng A

Syllogizing is the taking cognizance that the subject possesses what is constantly accompanied [by something which is thus seen to belong to the subject].

मूलम्

व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः।

दीपिका

परामर्शं लक्षयति व्याप्तीति। व्याप्तिविषयकं यत्पक्षधर्मताज्ञानं स परामर्श इत्यर्थः। परामर्शमभिनीय दर्शयति यथेति। अनुमितिमभिनीय दर्शयति तज्जन्यमिति। परामर्शजन्यमित्यर्थः। व्याप्तिलक्षणमाह यत्रेति

विश्वास-प्रस्तुतिः

यथा वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानं परामर्शः ।

Eng A

“For example, The taking cognizance that ‘This hill has smoke - which is constantly accompanied [at the point where is originates] by fire - is [an instance of] syllogizing [i.e., of apprehending, in connection, an induction and an observation].”

मूलम्

यथा वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानं परामर्शः ।

विश्वास-प्रस्तुतिः

तज्जन्यं पर्वतो वह्निमानिति ज्ञानमनुमितिः ।

Eng A

The knowledge resulting therefrom, viz, that ‘The hill has fire [somewhere about it]’ is an inference.

मूलम्

तज्जन्यं पर्वतो वह्निमानिति ज्ञानमनुमितिः ।

विश्वास-प्रस्तुतिः

यत्र यत्र धूमस्
तत्र तत्राग्निर्
इति साहचर्यनियमो व्याप्तिः

Eng A

‘The being constantly accompanied’ is such an invariableness of association as this - that wherever there is smoke there is fire.

मूलम्

यत्र यत्र धूमस्तत्र तत्राग्निरिति साहचर्यनियमो व्याप्तिः ।

दीपिका

यत्र धूमस् तत्राग्निर् इति व्याप्तेर् अभिनयः।
साह-चर्यनियमः इति लक्षणम्।
साहचर्यं सामानाधिकरण्यं तस्य नियमः।
हेतु-समानाधिकरणात्यन्ताभावाप्रतियोगि-साध्य-सामानाधिकरण्यं व्याप्तिर् इत्य् अर्थः।

विश्वास-प्रस्तुतिः

व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता ॥ ४०॥

Eng A

By the ‘subject’s possession’ [of something that is constantly accompanied], it means that there exists - in a mountain, for instance - that which is constantly accompanied, [by something else].

मूलम्

व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता ॥ ४०॥

दीपिका

पक्षधर्मतास्वरूपमाह व्याप्यस्येति

विश्वास-प्रस्तुतिः

अनुमानं द्विविधं स्वार्थं परार्थं च ।

Eng A

There are 2 types of Induction : Induction employed for oneself and Induction employed for another

मूलम्

अनुमानं द्विविधं स्वार्थं परार्थं च ।

दीपिका

अनुमानं विभजते अनुमानमिति

विश्वास-प्रस्तुतिः

तत्र स्वार्थं स्वानुमितिहेतुः ।

Eng A

That which is for oneself is the cause of a private conclusion [in one’s own mind].

मूलम्

तत्र स्वार्थं स्वानुमितिहेतुः ।

विश्वास-प्रस्तुतिः

तथाहि स्वायमेव भूयोदर्शनेन यत्र यत्र धूमस्तत्र तत्राग्निरिति महानसादौ धूमे व्याप्तिं गृहीत्वा पर्वतसमीपं गतः तद्गते चाग्नौ सन्दिहानः पर्वते धूमं पश्यन्व्याप्तिं स्मरति यत्र यत्र धूमस्तत्र तत्राग्निरिति ।

Eng A

Having repeatedly and personally observed, in the case of culinary hearths and the like, that where there is smoke there is fire, having gathered the invariable attendedness [ of smoke by fire], having gone near a mountain and being doubtful as to whether there is fire in it, having seen smoke on the mountain, a man recollects the invariable attendedness, viz., ‘where there is smoke there is fire.’

मूलम्

तथाहि स्वायमेव भूयोदर्शनेन यत्र यत्र धूमस्तत्र तत्राग्निरिति महानसादौ धूमे व्याप्तिं गृहीत्वा पर्वतसमीपं गतः तद्गते चाग्नौ सन्दिहानः पर्वते धूमं पश्यन्व्याप्तिं स्मरति यत्र यत्र धूमस्तत्र तत्राग्निरिति ।

दीपिका

स्वार्थानुमानं दर्शयति स्वयमेवेति। ननु पार्थिवत्वलोहलेख्यत्वादौ शतशः सहचारदर्शनेऽपि वज्रमणौ व्यभिचारोपलब्धेर्भूयोदर्शेनेन कथं व्याप्तिग्रह इति चेत् न। व्यभिचारज्ञानविरहसहकृतसहचारज्ञानस्य व्याप्तिग्राहकत्वात्। व्यभिचारज्ञानं निश्चयः शङ्का च।तद्विरहः क्वचित्तर्कात्, क्वचित्स्वतः सिद्धः एव। धूमाग्न्योर्व्याप्तिग्रहे कार्यकारणभावभङ्गप्रसङ्गलक्षणस्तर्को व्यभिचारशङ्कानिवर्तकः। ननु सकलवह्निधूमयोरसन्निकर्षात्कथं व्याप्तिग्रह इति चेत् न। वह्नित्वधूमत्वरूपसामान्यप्रत्यासत्त्यासकलवह्निधूमज्ञानसम्भवात्। तस्मादिति। लिङ्गपरामर्शादित्यर्थः।

विश्वास-प्रस्तुतिः

तदनन्तरं वह्निव्याप्यधुमवानयं पर्वत इति ज्ञानमुत्पद्यते ।

Eng A

Thereupon the knowledge arises that ’this mountain has smoke, which is constantly accompanied by fire.’

मूलम्

तदनन्तरं वह्निव्याप्यधुमवानयं पर्वत इति ज्ञानमुत्पद्यते ।

विश्वास-प्रस्तुतिः

अयमेव लिङ्गपरामर्श इत्युच्यते ।

Eng A

This is called the ‘pondering of a sign’.

मूलम्

अयमेव लिङ्गपरामर्श इत्युच्यते ।

विश्वास-प्रस्तुतिः

तस्मात्पर्वतो वह्निमानिति ज्ञानमनुमितिः उत्पद्यते ।

Eng A

Thence results the knowledge that ’the mountain is fiery’, which is the conclusion (anumiti).

मूलम्

तस्मात्पर्वतो वह्निमानिति ज्ञानमनुमितिः उत्पद्यते ।

विश्वास-प्रस्तुतिः

तदेतत्स्वार्थानुमानम् ।

Eng A

This is the process of inference for oneself.

मूलम्

तदेतत्स्वार्थानुमानम् ।

विश्वास-प्रस्तुतिः

यत्तु स्वयं धुमाग्निमनुमाय परम्प्रतिबोधयितुं पञ्चावयववाक्यं प्रयुज्यते तत्परार्थानुमानम् ।

Eng A

After having, for oneself, inferred fire from smoke, when one makes use of the 5-membered form of exposition, with a view to the information of another, then it is the process of inference for the sake of another.

मूलम्

यत्तु स्वयं धुमाग्निमनुमाय परम्प्रतिबोधयितुं पञ्चावयववाक्यं प्रयुज्यते तत्परार्थानुमानम् ।

दीपिका

परार्थानुमानमाह यत्त्विति। यच्छब्दस्य ’तत्परार्थानुमानम्’ इति तच्छब्देनान्वयः। पञ्चावयववाक्यमुदाहरति यथेति

विश्वास-प्रस्तुतिः

यथा पर्वतो वह्निमान्धूमत्वाद्यो यो धूमवान्स वह्निमान्यथा महानसः तथा चायं तस्मात्तथेति ।

Eng A

The mountain has fire in it Because it has smoke; Whatever has smoke has fire, as a culinary hearth and so this has; Therefore it is as aforesaid.

मूलम्

यथा पर्वतो वह्निमान्धूमत्वाद्यो यो धूमवान्स वह्निमान्यथा महानसः तथा चायं तस्मात्तथेति ।

विश्वास-प्रस्तुतिः

अनेन प्रतिपादिताल्लिज्ङ्गात्परोऽप्यग्निं प्रतिपद्यते ॥ ४१॥

Eng A

By this exposition, in consequence of the sign of token here rendered, the other also admits that there is fire.

मूलम्

अनेन प्रतिपादिताल्लिज्ङ्गात्परोऽप्यग्निं प्रतिपद्यते ॥ ४१॥

विश्वास-प्रस्तुतिः

प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवाः ।

Eng A

The 5 members of this exposition are Preposition, Reason, Example, Application and Conclusion.

मूलम्

प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवाः ।

दीपिका

अवयवस्वरूपमाह प्रतिज्ञेति। उदाहृतवाक्ये प्रतिज्ञादिविभागमाह पर्वतो वह्निमानिति॥ साध्यवत्तया पक्षवचनं प्रतिज्ञा। पञ्चम्यन्तं लिङ्गप्रतिपादकं हेतुः। व्याप्तिप्रतिपादकं उदाहरणम्। व्याप्तिविशिष्टलिङ्गप्रतिपादकं वचनमुपनयः। हेतुसाध्यवत्तया पक्षप्रतिपादकं वचनं निगमनम्। अबाधितत्वादिकं निगमनप्रयोजकम्।

विश्वास-प्रस्तुतिः

पर्वतो वह्निमानिति प्रतिज्ञा ।

Eng A

‘The mountain is fiery’ is the proposition

मूलम्

पर्वतो वह्निमानिति प्रतिज्ञा ।

विश्वास-प्रस्तुतिः

धूमवत्वादिति हेतुः ।

Eng A

’ Because of its being smoky’ is the reason

मूलम्

धूमवत्वादिति हेतुः ।

विश्वास-प्रस्तुतिः

यो यो धूमवान्स वह्निमान्यथा महानस इत्युदाहरणम् ।

Eng A

‘Whatever is smoke is fiery’ is [the general proposition or principle founded on] the example [ of culinary hearths and the like]

मूलम्

यो यो धूमवान्स वह्निमान्यथा महानस इत्युदाहरणम् ।

विश्वास-प्रस्तुतिः

तथा चायमित्युपनयः ।

Eng A

‘and so this [mountain] is’ is the [syllogistic] application

मूलम्

तथा चायमित्युपनयः ।

विश्वास-प्रस्तुतिः

तस्मात्तथेति निगमनम् ॥ ४२॥

Eng A

‘Therefore it [the mountain] is fiery’ is the conclusion

मूलम्

तस्मात्तथेति निगमनम् ॥ ४२॥

विश्वास-प्रस्तुतिः

स्वार्थानुमितिपरार्थानुमित्योः लिङ्गपरामर्श एव करणम् ।

Eng A

The instrument of an inference for oneself or another is simply the consideration of a ‘sign’ (linga)

मूलम्

स्वार्थानुमितिपरार्थानुमित्योः लिङ्गपरामर्श एव करणम् ।

दीपिका

अनुमितिकरणमाह स्वार्थेति। ननु व्याप्तिस्मृतिपक्षधर्मताज्ञानाभ्यामेव अनुमितिसम्भवे विशिष्टपरामर्शः किमर्थमङ्गीकर्तव्यः इति चेत् न, ’वह्निव्यप्यवानयम्’ इति शाब्दपरामर्शस्थले परामर्शस्यावश्यकता लाघवेन सर्वत्र परामर्शस्यैव कारणत्वात्। लिङ्गं न कारणम्, अतीतादौव्यभिचारात्। ’व्यापारवत्कारणं करणम्’ इति मते परामर्शद्वारा व्याप्तिज्ञानं करणम्। तज्जन्यत्वे सति तज्जन्यजनको व्यापारः। अनुमानमुपसंहरति तस्मादिति

विश्वास-प्रस्तुतिः

तस्माल्लिङ्गपरामर्शोऽनुमानम् ॥ ४३॥

Eng A

Therefore an induction (anumana) - the instrumental cause of Inference - is just this consideration of a sign

मूलम्

तस्माल्लिङ्गपरामर्शोऽनुमानम् ॥ ४३॥

विश्वास-प्रस्तुतिः

लिङ्गं त्रिविधम् अन्वयव्यतिरेकि केवलान्वयि केवलव्यतिरेकि चेति ।

Eng A

A sign [or characteristic token] is of 3 types : 1. That which is [a token in virtue of its being constantly] accompanied [by what it betokens], and absent [ when what it would betoken is absent], 2. That which is [a token in virtue of its being constantly] accompanied only [and never absent through the absence of what it should betoken - the thing betokened being in this case one everywhere present], 3. That which is [a token in virtue of its being invariably] absent only [in the case of everything that could be cited in addition to the subject of the proposition itself]

मूलम्

लिङ्गं त्रिविधम् अन्वयव्यतिरेकि केवलान्वयि केवलव्यतिरेकि चेति ।

दीपिका

लिङ्गं विभजते लिङ्गमिति। अन्वयव्यतिरेकिणं लक्षयति अन्वयेति। हेतुसाध्ययोर्व्याप्तिरन्वयव्याप्तिः

विश्वास-प्रस्तुतिः

अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि ।

Eng A

That which is accompanied and absent (anvayavyatireki - L1) is that which is pervaded by [ or of which there is invariably predictable] accompaniment (anvaya) [on the part of what it betokens] and absence (vyatireka) [on its own part, when what it might betoken is absent], as the possession of smoke when fire is what is to be established.

मूलम्

अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि ।

विश्वास-प्रस्तुतिः

यथा वह्नौ साध्ये धूमवत्त्वम् ।

Eng A

‘When there is smoke there is fire, as on the culinary hearth [where the fire is supposed never to be extinguished]

मूलम्

यथा वह्नौ साध्ये धूमवत्त्वम् ।

विश्वास-प्रस्तुतिः

यत्र धूमस्तत्राग्निर्यथा महानस इत्यन्वयव्याप्तिः ।

Eng A

Here, there is ‘pervadedness by attendance’ (anvayavyapti) [i.e., it is predictable of the token, smoke, that it is attended by fire which it betokens].

मूलम्

यत्र धूमस्तत्राग्निर्यथा महानस इत्यन्वयव्याप्तिः ।

विश्वास-प्रस्तुतिः

यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा महाहृद इति व्यतिरेकव्याप्तिः ।

Eng A

‘Where there is no fire, there is no smoke, as in a great lake [where it is taken for granted that fire cannot be]. Here, there is ‘pervadedness by absence’ (vyatirekavyapti) [i.e., it is predictable of smoke, as a token, that it will be absent where what it would have betokened is absent].

मूलम्

यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा महाहृद इति व्यतिरेकव्याप्तिः ।

विश्वास-प्रस्तुतिः

अन्वयमात्रव्याप्तिकं केवलान्वयि ।

Eng A

That sign which is accompanied only is that which is ‘pervaded by [or of which there is invariably predictable] accompaniment only [on the part of what it betokens].

मूलम्

अन्वयमात्रव्याप्तिकं केवलान्वयि ।

दीपिका

केवलान्वयिनो लक्षणमाह अन्वयेति। केवलान्वयिसाध्यकं लिङ्गं केवलान्वयि। (वृत्तिमत्) अत्यन्ताभावाप्रतियोगित्वं केवलान्वयित्वम्। ईश्वरप्रमाविषयत्वं सर्वपदाभिधेयत्वं च सर्वत्रास्तीति व्यतिरेकाभावः।

विश्वास-प्रस्तुतिः

यथा घटोऽभिधेयः प्रमेयत्वात्पटवत् ।

Eng A

‘A jar is namable because it is cognizable, as a web is '

मूलम्

यथा घटोऽभिधेयः प्रमेयत्वात्पटवत् ।

विश्वास-प्रस्तुतिः

अत्र प्रमेयत्वाभिधेयत्वयोः व्यतिरेकव्याप्तिर्नास्ति सर्वस्यापि प्रमेयत्वादभिधेयत्वाच्च ।

Eng A

Here, there is no [case of pervaded by absence, in cognizability and nameableness, because everthing [ that we can be conversant about], is both cognizable and nameable.

मूलम्

अत्र प्रमेयत्वाभिधेयत्वयोः व्यतिरेकव्याप्तिर्नास्ति सर्वस्यापि प्रमेयत्वादभिधेयत्वाच्च ।

विश्वास-प्रस्तुतिः

व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि ।

Eng A

That sign which is absent only is that which is pervaded by [ or, of which there is invariably predictable] absence only, [on its part, in the case of whatever could be cited, as an example, in addition to the subject of the proposition itself].

मूलम्

व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि ।

दीपिका

केवलव्यतिरेकिणो लक्षणमाह व्यतिरेकेति। तदुदाहरति यथेति। नन्वितरभेदः प्रसिद्धो वा नवा। आद्ये यत्र प्रसिद्धस्तत्र हेतुसत्त्वे अन्वयित्वम्, असत्वे असाधारण्यम्। द्वितीये साध्यज्ञानाभावात्कथं तद्विशिष्टानुमितिः। विशेषणज्ञानाभावे विशिष्टज्ञानानुदयात्प्रतियोगिज्ञानाभावाद्व्यतिरेकव्याप्तिज्ञानमपि न स्यादिति चेत् न। जलादित्रयोदशान्योन्याभावानां त्रयोदशसु प्रत्येकं प्रसिद्धानां मेलनं पृथिव्यांसाध्यते। तत्र त्रयोदशत्वावच्छिन्नभेदात्मकसाध्यस्यैकाधिकरणवृत्तित्वाभावान्नान्वयित्वासाधारण्ये। प्रत्येकाधिकरणप्रसिद्ध्या साध्यविशिश्ःटानुमितिः व्यतिरेकव्याप्तिनिरूपणं चेति।

विश्वास-प्रस्तुतिः

यथा पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात् ।

Eng A

Earth is different from these others [of the elements] because it is odorous.

मूलम्

यथा पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात् ।

विश्वास-प्रस्तुतिः

यदितरेभ्यो न भिद्यते न तद्गन्धवद्यथा जलम् ।

Eng A

What is not different from these others is not odourous - as water [for example, is inodorous.

मूलम्

यदितरेभ्यो न भिद्यते न तद्गन्धवद्यथा जलम् ।

विश्वास-प्रस्तुतिः

न चेयं तथा ।

Eng A

But this [earth] is not so [i.e., is not inodorous]

मूलम्

न चेयं तथा ।

विश्वास-प्रस्तुतिः

तस्मान्न तथेति ।

Eng A

Therefore it is not such [as the other elements, but different from these others].

मूलम्

तस्मान्न तथेति ।

विश्वास-प्रस्तुतिः

अत्र यद्गन्धवत्तदितरभिन्नमित्यन्वयदृष्टान्तो नास्ति पृथिवीमात्रस्य पक्षत्वात् ॥ ४४॥

Eng A

Here we are obliged to employ a universal negative, because there is no analogous example [to cite in confirmation,] in the case of [the universal affirmative] ‘What possesses odour is different from others’ seeing that Earth alone can be the subject [of a proposition in which odour is affirmatively predicated.

मूलम्

अत्र यद्गन्धवत्तदितरभिन्नमित्यन्वयदृष्टान्तो नास्ति पृथिवीमात्रस्य पक्षत्वात् ॥ ४४॥

विश्वास-प्रस्तुतिः

सन्दिग्ध-साध्यवान् पक्षः

Eng A

That, whose possession of what is to be established is doubled, is called the subject

मूलम्

सन्दिग्धसाध्यवान् पक्षः ।

दीपिका

पक्षलक्षणम् आह सन्दिग्धेति
ननु श्रवणानन्तर-भावि-मनन-स्थले अव्याप्तिः। तत्र वेदवाक्यैरत्मनो निश्चितत्वेन सन्देहाभावत्। किञ्च प्रत्यक्षेऽपि वह्नौ ययत्रेच्छयानुमितिस्तत्राव्याप्तिरिति चेत् न, उक्तपक्षताश्रयत्वस्य पक्षलक्षणत्वात्।

विश्वास-प्रस्तुतिः

यथा धूमवत्त्वे हेतौ पर्वतः ।

Eng A

As the mountain, when the fact of its smoking is [assigned as] the reason [for inferring the presence of fire]

मूलम्

यथा धूमवत्त्वे हेतौ पर्वतः ।

विश्वास-प्रस्तुतिः

निश्चितसाध्यवान्सपक्षः ।

Eng A

That which certainly possesses the property in question is called an instance on the same side.

मूलम्

निश्चितसाध्यवान्सपक्षः ।

दीपिका

सपक्षलक्षणमाह निश्चितेति

विश्वास-प्रस्तुतिः

यथा तत्रैव महानसः ।

Eng A

As the culinary hearth, in the same example

मूलम्

यथा तत्रैव महानसः ।

विश्वास-प्रस्तुतिः

निश्चितसाध्याऽभाववान्विपक्षः

Eng A

That which is certainly devoid of the property in question is called an instance on the opposite side

मूलम्

निश्चितसाध्याऽभाववान्विपक्षः

दीपिका

विपक्षलक्षनमाह निश्चितेति

विश्वास-प्रस्तुतिः

यथा तत्रैव महाह्रदः ॥ ४५॥

Eng A

As the great lake, in the same example

मूलम्

यथा तत्रैव महाह्रदः ॥ ४५॥

विश्वास-प्रस्तुतिः

सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्च हेत्वाभासाः ।

Eng A

The five that present the semblance of a reason are: 1. that which goes astray, 2. the reverse [of what it ought to be], 3. that which is counterbalanced, 4. the unreal, 5. the futile.

मूलम्

सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्च हेत्वाभासाः ।

दीपिका

एवं सद्धेतून्निरूप्य असद्धेतून्निरूपयितुं विभजते सव्यभिचारेति। अनुमितिप्रतिबन्धकयथार्थज्ञानविषयत्वं हेत्वाभासत्वम्।

विश्वास-प्रस्तुतिः

सव्यभिचारोऽनैकान्तिकः ।

Eng A

That alleged reason which goes astray, is that which has not just the one conclusion.

मूलम्

सव्यभिचारोऽनैकान्तिकः ।

विश्वास-प्रस्तुतिः

सः त्रिविधः साधारणासाधारणानुपसंहारिभेदात् ।

Eng A

It is of 3 kinds - 1. What is common [to others in such a way that is would prove too much], 2. What is common to none [besides the individual, and therefore proves nothing], 3. The non exclusive

मूलम्

सः त्रिविधः साधारणासाधारणानुपसंहारिभेदात् ।

दीपिका

सव्यभिचारं विभजते स त्रिविध इति।

विश्वास-प्रस्तुतिः

साध्याभाववद्वृत्तिः साधारणोऽनैकान्तिकः ।

Eng A

Among these 3 types of reason, that reason having not just the one [requisite] conclusion is [unduly] ‘common’ , which is present in that in which there is the absence of what is to be proved

मूलम्

साध्याभाववद्वृत्तिः साधारणोऽनैकान्तिकः ।

दीपिका

साधारणं लक्षयति तत्रेति। उदाहरति यथेति

विश्वास-प्रस्तुतिः

यथा पर्वतो वह्निमान्प्रमेयत्वादिति ।

Eng A

The mountain is fiery because it [the mountain] is cognizable

मूलम्

यथा पर्वतो वह्निमान्प्रमेयत्वादिति ।

विश्वास-प्रस्तुतिः

प्रमेयत्वस्य वह्न्यभाववति ह्रदे विद्यमानत्वात् ।

Eng A

Here the reason would be liable to this objection because cognizability belongs [equally] to a lake, which has no fire in it

मूलम्

प्रमेयत्वस्य वह्न्यभाववति ह्रदे विद्यमानत्वात् ।

विश्वास-प्रस्तुतिः

सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिः असाधारणः ।

Eng A

That reason which is excluded [alike] from all instances, whether similar or dissimilar, is one common to none [besides the individual].

मूलम्

सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिः असाधारणः ।

दीपिका

असाधारणं लक्षयति सर्वेति

विश्वास-प्रस्तुतिः

यथा शब्दो नित्यः शब्दत्वादिति ।

Eng A

‘Sound is eternal, for it has the nature of sound’.

मूलम्

यथा शब्दो नित्यः शब्दत्वादिति ।

विश्वास-प्रस्तुतिः

शब्दत्वं हि सर्वेभ्यो नित्येभ्योऽनित्येभ्यश्च व्यावृत्तं शब्दमात्रवृत्तिः ।

Eng A

Now, the nature of sound resides in sound alone and is excluded from all else, whether eternal or uneternal.

मूलम्

शब्दत्वं हि सर्वेभ्यो नित्येभ्योऽनित्येभ्यश्च व्यावृत्तं शब्दमात्रवृत्तिः ।

विश्वास-प्रस्तुतिः

अन्वय-व्यतिरेक-दृष्टान्त-रहितो ऽनुपसंहारी ।

Eng A

That [pretended argument] which is destitute of an example whether of association or of dissociation [between itself and anything else] is non exclusive

मूलम्

अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी ।

दीपिका

अनुपसंहारिणो लक्षणमाह अन्वयेति

विश्वास-प्रस्तुतिः

यथा सर्वमनित्यं प्रमेयत्वादिति ।

Eng A

Everything is uneternal, because it is capable of proof

मूलम्

यथा सर्वमनित्यं प्रमेयत्वादिति ।

विश्वास-प्रस्तुतिः

अत्र सर्वस्यापि पक्षत्वाद्दृष्टान्तो नास्ति ।

Eng A

Here there is no example [to cite, of any sort] because ’everything’ [leaving nothing over] is the subject.

मूलम्

अत्र सर्वस्यापि पक्षत्वाद्दृष्टान्तो नास्ति ।

विश्वास-प्रस्तुतिः

साध्याभावव्याप्तो हेतुर्विरुद्धः ।

Eng A

A reason the reverse is that which is constantly accompanied by the absence of what s to be proved.

मूलम्

साध्याभावव्याप्तो हेतुर्विरुद्धः ।

दीपिका

विरुद्धं लक्षयति साध्येति

विश्वास-प्रस्तुतिः

यथा शब्दो नित्यः कृतकत्वादिति ।

Eng A

Sound is eternal because it is created

मूलम्

यथा शब्दो नित्यः कृतकत्वादिति ।

विश्वास-प्रस्तुतिः

कृतकत्वं हि नित्यत्वाभावेनाऽनित्यत्वेन व्याप्तम् ।

Eng A

We should reject this argument at once because the fact of having been created implies non eternity - the negation of being eternal

मूलम्

कृतकत्वं हि नित्यत्वाभावेनाऽनित्यत्वेन व्याप्तम् ।

विश्वास-प्रस्तुतिः

यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते सः सत्प्रतिपक्षः ।

Eng A

A counterbalanced reason is that along with which there exists another reason, which establishes [equally well] the non-existence of what is to be proved.

मूलम्

यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते सः सत्प्रतिपक्षः ।

दीपिका

सत्प्रतिपक्षं लक्षयति यस्येति

विश्वास-प्रस्तुतिः

यथा शब्दो नित्यः श्रावणत्वाच्छब्दत्ववत् ।

Eng A

Sound is eternal because it is audible, as the nature of sound is [by both parties admitted to be]

मूलम्

यथा शब्दो नित्यः श्रावणत्वाच्छब्दत्ववत् ।

विश्वास-प्रस्तुतिः

शब्दोऽनित्यः कार्यत्वाद्घटवत् ।

Eng A

It still might be argued, with equal force on the other side, that ‘Sound is non eternal, because it is a product, as a jar is’

मूलम्

शब्दोऽनित्यः कार्यत्वाद्घटवत् ।

विश्वास-प्रस्तुतिः

असिद्धस्त्रिविधः आश्रयासिद्धः स्वरूपासिद्धो व्याप्यत्वासिद्धश्चेति ।

Eng A

Unreal reason is of 3 types - 1. That the [alleged] locality of which is unreal, 2. That where the nature [alleged as belonging to the subject] is not a fact, 3. That where the being constantly accompanied [ though alleged] is not a fact

मूलम्

असिद्धस्त्रिविधः आश्रयासिद्धः स्वरूपासिद्धो व्याप्यत्वासिद्धश्चेति ।

दीपिका

असिद्धं विभजते असिद्ध इति।

विश्वास-प्रस्तुतिः

आश्रयासिद्धो यथा गगनारविन्दं सुरभि अरविन्दत्वात्सरोजारविन्दवत् ।

Eng A

Example of that the [alleged] locality of which is unreal - [suppose that one argues] ‘The sky-lotus is fragrant, because the nature of a lotus resides in it, as in the lotuses of the lake’

मूलम्

आश्रयासिद्धो यथा गगनारविन्दं सुरभि अरविन्दत्वात्सरोजारविन्दवत् ।

दीपिका

आश्रयासिद्धमुदाहरति गगनेति

विश्वास-प्रस्तुतिः

अत्र गगनारविन्दमाश्रयः स च नास्त्येव ।

Eng A

Here, the sky-lotus is [alleged as] the locality [of the nature of a lotus] and in fact it [sky-lotus] does not exist at all

मूलम्

अत्र गगनारविन्दमाश्रयः स च नास्त्येव ।

विश्वास-प्रस्तुतिः

स्वरूपासिद्धो यथा शब्दो गुणश्चाक्षुषत्वात् ।

Eng A

Example of an argument where the nature does not really exist in a subject, - [suppose that one argues] ‘Sound is a quality because it is visible’

मूलम्

स्वरूपासिद्धो यथा शब्दो गुणश्चाक्षुषत्वात् ।

दीपिका

स्वरूपासिद्धमुद्दहरति यथेति

विश्वास-प्रस्तुतिः

अत्र चाक्षुषत्वं शब्दं नास्ति शब्दस्य श्रावणत्वात् ।

Eng A

Here [everyone would perceive at once, that] visibility does not reside in sound, for sound is recognised by the hearing [not by vision]

मूलम्

अत्र चाक्षुषत्वं शब्दं नास्ति शब्दस्य श्रावणत्वात् ।

विश्वास-प्रस्तुतिः

सोपाधिको हेतुः व्याप्यत्वासिद्धः ।

Eng A

The reason when there is some [indispensable] ‘condition’, is not really ‘constantly accompanied’.

मूलम्

सोपाधिको हेतुः व्याप्यत्वासिद्धः ।

दीपिका

व्याप्यत्वासिद्धस्य लक्षणमाह सोपाधिक इति। उपाधेर्लक्षणमाह साध्येति। उपाधिश्चतुर्विधः - केवलसाध्यव्यापकः, पक्षधर्मावच्छिन्नसाध्यव्यापकः, साधनावच्छिन्नसाध्यव्यापकः, उदासीनधर्मावच्छिन्नसाध्यव्यापकश्चेति। आद्यः आद्रेन्धनसंयोगः। द्वितीयो यथा वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वात् इत्यत्र बहिर्द्रव्यत्वावच्छिन्नप्रत्यक्षत्वव्यापकमुद्भूतरूपवत्वम्। तृतीयो यथा - प्रागभावो विनाशी जव्यत्वादित्यत्र जन्यत्वावच्छिन्नानित्यत्वव्यापकं भावत्वम्। चतुर्थो यथा - प्रागभावो विनाशी प्रमेयत्वात् इत्यत्र जन्यत्वावच्छिन्नानित्यत्वव्यापकं भावत्वम्।

विश्वास-प्रस्तुतिः

साध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधित्वम् ।

Eng A

A ‘condition’ (upadhi) (U) is that which, whilst constantly accompanying what is to be established, is not the constant accompanier of the argument [tendered in proof].

मूलम्

साध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधित्वम् ।

विश्वास-प्रस्तुतिः

साध्यसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं साध्यव्यापकत्वम् ।

Eng A

“To be the constant accompanier of what is to be established - It consists in the not being the counter-entity (apratiyogitva) of any absolute non-existence (atyantabhava) having the same subject of inhesion (samanadhikarana) as that which is to be established.”

मूलम्

साध्यसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं साध्यव्यापकत्वम् ।

विश्वास-प्रस्तुतिः

साधनवन्निष्ठात्यन्ताभावप्रतियोगित्वं साधनाव्यापकत्वम् ।

Eng A

“To be not the constant accompanier of the argument (sadhanavyapakatva) - consists in the being the counter-entity (pratiyogitva) of some absolute non-existence [not impossibly] resident in that which possesses the [character tendered as an] argument”

मूलम्

साधनवन्निष्ठात्यन्ताभावप्रतियोगित्वं साधनाव्यापकत्वम् ।

विश्वास-प्रस्तुतिः

(यथा) पर्वतो धूमवान्वह्निमत्वादित्यत्रार्द्रेन्धनसंयोग उपाधिः ।

Eng A

“Example: [Suppose it is to be argued that] ‘The mountain is smoky, because it is fiery’. In this case, the contact of wet fuel is a ‘condition’.”

मूलम्

(यथा) पर्वतो धूमवान्वह्निमत्वादित्यत्रार्द्रेन्धनसंयोग उपाधिः ।

विश्वास-प्रस्तुतिः

तथाहि यत्र धूमस्तत्रार्द्रेन्धनसंयोग इति साध्यव्यापकता ।

Eng A

To explain - ‘Wherever there is smoke, there there is the conjunction of wet fuel’ : this we assume to be not disputed, and thus there is a constant accompanying of [or attendance upon] what is to be established (साध्यव्यापकता)

मूलम्

तथाहि यत्र धूमस्तत्रार्द्रेन्धनसंयोग इति साध्यव्यापकता ।

विश्वास-प्रस्तुतिः

यत्र वह्निस्तत्रार्द्रेन्धनसंयोगो नास्त्ययोगोलक आर्द्रेन्धनसंयोगाभावादिति साधनाव्यापकता ।

Eng A

But where there is fire, there is not [necessarily] the conjunction of wet fuel; for there is no conjunction of wet fuel in the case of an [ignited] iron ball, so that there is not a constant accompanying of [or attendance upon] the proof.

मूलम्

यत्र वह्निस्तत्रार्द्रेन्धनसंयोगो नास्त्ययोगोलक आर्द्रेन्धनसंयोगाभावादिति साधनाव्यापकता ।

विश्वास-प्रस्तुतिः

एवं साध्यव्यापकत्वे अस्ति साधनाव्यापकत्वार्द्रेन्धनसंयोग उपाधिः ।

Eng A

Thus, the conjunction of wet fuel is a ‘condition’, since it is something ‘which, whilst constantly accompanying what is to be established, is not the constant accompanier of the argument [tendered in proof].

मूलम्

एवं साध्यव्यापकत्वे अस्ति साधनाव्यापकत्वार्द्रेन्धनसंयोग उपाधिः ।

विश्वास-प्रस्तुतिः

सोपाधिकत्वाद्वह्निमत्त्वं व्याप्यत्वासिद्धम् ।

Eng A

Fieriness is not really constantly accompanied by smoke, because there is a condition attached.

मूलम्

सोपाधिकत्वाद्वह्निमत्त्वं व्याप्यत्वासिद्धम् ।

विश्वास-प्रस्तुतिः

यस्य साध्याभावः प्रमाणान्तरेण निश्चितः स बाधितः ।

Eng A

An argument is futile when the absence of what it seeks to prove is established for certain by another proof.

मूलम्

यस्य साध्याभावः प्रमाणान्तरेण निश्चितः स बाधितः ।

दीपिका

बाधितस्य लक्षणमाह यस्येति। अत्र बाधस्य ग्राह्याभावनिश्चयत्वेन, सत्प्रतिपक्षस्य विरोधिज्ञानसामग्रीत्वेन साक्षादनुमितिप्रतिबन्धकत्वम्। इतरेषां तु परामर्शप्रतिबन्धकत्वम्। तत्रापि साधारणस्याव्यभिचाराभावरूपतया, विरुद्धस्य सामानाधिकरण्याभावतया, व्याप्यत्वासिद्धस्य विशिष्टव्याप्त्यभावतया, असाधारणानुपसंहारिणोः व्याप्तिसंशयाधायकत्वेन व्याप्तिज्ञानप्रतिबन्धकत्वम्, आश्रयासिद्धिस्वरूपासिद्धयोः पक्षधर्मताज्ञानप्रतिबन्धकत्वम्। उपाधिस्तु व्यभिचारज्ञानद्वारा व्याप्तिज्ञानप्रतिबन्धकः। सिद्धसाधनं तु पक्षताविघटकतया आश्रयासिद्धावन्तर्भवतीति प्राञ्चः। निग्रहस्थानान्तरमिति नवीनाः।

विश्वास-प्रस्तुतिः

यथा वह्निरनुष्णो द्रव्यत्वाज्जलवत् ।

Eng A

“Example: It may be argued that, ‘Fire is cold because it is a substance’.”

मूलम्

यथा वह्निरनुष्णो द्रव्यत्वाज्जलवत् ।

विश्वास-प्रस्तुतिः

अत्रानुष्णत्वं साध्यं तदभाव उष्णत्वं स्पर्शनप्रत्यक्षेण गुह्यते इति बाधितत्वम् ॥ ४६॥

Eng A

Here coldness is sought to be established and its absence, viz, warmth, is apprehended by the sense of touch and the direct apprehensions of Sense are of greater authority than any inference which contradicts them. Hence the argument is futile

मूलम्

अत्रानुष्णत्वं साध्यं तदभाव उष्णत्वं स्पर्शनप्रत्यक्षेण गुह्यते इति बाधितत्वम् ॥ ४६॥

उपमानम्

विश्वास-प्रस्तुतिः

उपमितिकरणम् उपमानम् ।

Eng A

The knowledge of a similarity is the instrument [in the production] of an inference from similarity.

मूलम्

उपमितिकरणमुपमानम् ।

दीपिका

उपमानं लक्षयति उपमितिकरणमिति

विश्वास-प्रस्तुतिः

संज्ञासंज्ञिसम्बन्धज्ञानमुपमितिः ।

Eng A

The inference consists in the knowledge of the relation between A name and Something so named

मूलम्

संज्ञासंज्ञिसम्बन्धज्ञानमुपमितिः ।

विश्वास-प्रस्तुतिः

तत्करणं सादृश्यज्ञानम् ।

Eng A

Its instrument is the knowledge of a likeness.

मूलम्

तत्करणं सादृश्यज्ञानम् ।

विश्वास-प्रस्तुतिः

अतिदेशवाक्यार्थस्मरणमवान्तर व्यापारः ।

Eng A

“Operation involved in the employment of this instrument for the attainment of knowledge is : the recollection of the purport of a statement of resemblance.”

मूलम्

अतिदेशवाक्यार्थस्मरणमवान्तर व्यापारः ।

विश्वास-प्रस्तुतिः

तथा हि कश्चिद्गवयशब्दार्थमजानन्कुतश्चिदारण्यकपुरुषाद्गोसदृशो गवय इति श्रुत्वा वन गतो वाक्यार्थं स्मरन्गोसदृशं पिण्डं पश्यति ।

Eng A

“Example: A person, not knowing what is meant by the word ‘gavaya’ , having heard from some inhabitant of the forest as : ‘A gavaya is like a cow’ - having gone to the forest, remembering the purport of what he has been told, sees a body like that of a cow. "

मूलम्

तथा हि कश्चिद्गवयशब्दार्थमजानन्कुतश्चिदारण्यकपुरुषाद्गोसदृशो गवय इति श्रुत्वा वन गतो वाक्यार्थं स्मरन्गोसदृशं पिण्डं पश्यति ।

विश्वास-प्रस्तुतिः

तदनन्तरमसौ गवयशब्दवाच्य इत्युपमितिरुत्पद्यते ॥ ४७॥

Eng A

Thereupon this inference from similarity arises in his mind that, this is what is meant by the word ‘gavaya’

मूलम्

तदनन्तरमसौ गवयशब्दवाच्य इत्युपमितिरुत्पद्यते ॥ ४७॥

शब्दः

विश्वास-प्रस्तुतिः

आप्तवाक्यं शब्दः ।

Eng A

A word [for right assertion] is the speech of one worthy [of confidence].

मूलम्

आप्तवाक्यं शब्दः ।

दीपिका

शब्दं लक्षयति आप्तेति। आप्तं लक्षयति आप्तस्त्विति। वाक्यलक्षणमाह वाक्यमिति। पदलक्षणमाह शक्तमितिअर्थस्मृत्यनुकूलपदपदार्थसम्भन्धः शक्तिः। सा च पदार्थान्तरमिति मीमांसकाः। तन्निरासार्थमाह अस्मादिति। डित्थादीनामिव घटादीनामपि सङ्केत एव शक्तिः न तु पदार्थान्तरमित्यर्थः। ननु गवादिपदानां जातावेव शक्तिः, विशेषणतया जातेः प्रथममुपस्थितत्वात्। व्यक्तिलाभस्तु आक्षेपादिति केचित्। तत् न, गामानयेत्यादौ वृद्धव्यवहारेण सर्वत्रानयनादेर्व्यक्तावेव सम्भवेन, जातिविशिष्टव्यक्तावेव शक्तिकल्पनात्। शक्तिग्रहश्च वृद्धव्यवहारेण। व्युत्पित्सुर्बालो ’गामानय’ इत्युत्तमवृद्धवाक्यश्रवणानन्तरम् मध्यमवृद्धस्य प्रवृत्तिमुपलभ्य गवानयनं च दृष्ट्वा मध्यमवृद्धप्रवृत्तिजनकज्ञानस्यान्वयव्यतिरेकाभ्यां वाक्यजन्यत्वं निश्चित्य ’अश्वमानयगां बधान’ इति वाक्यान्तरे आवापोद्वापाभ्यां गोपदस्य गोत्वविशिष्टे शक्तिः, अश्वपदस्य अश्वत्वविशिष्टे शक्तिरिति व्युत्पद्यते। ननु सर्वत्र कार्यपरत्वाद्व्यवहारस्य कार्यपरवाक्य एव व्युत्पत्तिर्नसिद्धपर इति चेत् न। ’काश्यां त्रिभुवनतिलको भूपतिरास्ते’ इत्यादौ सिद्धेऽपि व्यवहारात्, ’विकसितपद्मे मधुकरस्तिष्ठति’ इत्यादौ प्रसिद्धपदसमभिव्याहारात्सिद्धेऽपि मधुकरादिव्युत्पत्तिदर्शनाच्च। लक्षणापि शब्दवृत्तिः। शक्यसम्बन्धो लक्षणा। गङ्गायां घोष इत्यत्र गङ्गापदवाच्यप्रवाहसम्बन्धादेव तीरोपस्थितौ तीरेऽपि शक्तिर्न कल्प्यते। सैन्धवादौ लवणाश्वयोः परस्परसम्बन्धाभावान्नानाशक्तिकल्पनम्। लक्षणा त्रिविधा - जहलक्षणा, अजहल्लक्षणा, जहदजहल्लक्षणा चेति। यत्र वाच्यार्थस्यान्वयाभावः तत्र जहल्लक्षणा। यथा मञ्चाः क्रोशन्तीति। यत्र वाच्यार्थस्याप्यन्वयः तत्र अजहदिति। यथा छत्रिणो गच्छन्तीति। यत्र वाच्यैकदेशत्यागेन एकदेशान्वयः तत्र जहदजहदिति। यथा तत्वमसीति। गौण्यपि लक्षणैव लक्ष्यमाणगुणसम्बन्धस्वरूपा यथा अग्निर्माणवकः इति। व्यञ्जनापि शक्तिलक्षणान्तर्भूता, शब्दशक्तिमूला अर्थशक्तिमूला च। अनुमानादिना अन्यथासिद्धा। तात्पर्यानुपपत्तिर्लक्षणाबीजम्। तत्प्रतीतीच्छयोच्चरितत्वं तात्पर्यम्। तात्पर्यज्ञानञ्च वाक्यार्थज्ञाने हेतुः नानार्थानुरोधात्। प्रकरणादिकं तात्पर्यग्राहकम्। द्वारमित्यादौ पिधेहीति शब्दाध्याहारः। ननु अर्थज्ञानार्थत्वाच्छब्दस्यार्थमविज्ञाय शब्दाध्याहारसम्भवादर्थाध्याहार एव युक्त इति चेत् न। पदविशेषजन्यपदार्थोपस्थितेः शब्दज्ञाने हेतुत्वात्। अन्यथा ’घटः कर्मत्वमानयनं कृतिः’ इत्यत्रापि शाब्दज्ञानप्रसङ्गात्। पङ्कजादिपदेषु योगरूढिः। अवयवशक्तिर्योगः। समुदायशक्ती रूढिः। नियतपद्मत्वादिज्ञानार्थं समुदायशक्तिः। अन्यथा कुमुदेऽपि प्रयोगप्रसङ्गात्। ’इतरान्विते शक्तिः’ इति प्राभाकराः। अन्वयस्य वाक्यार्थतया भानसम्भवादन्वयांशेऽपि शक्तिर्न कल्पनीया इति गौतमीयाः।

विश्वास-प्रस्तुतिः

आप्तस्तु यथार्थवक्ता ।

Eng A

A Worthy Person is a speaker of the truth.

मूलम्

आप्तस्तु यथार्थवक्ता ।

विश्वास-प्रस्तुतिः

वाक्यं पदसमूहः ।

Eng A

A speech [or sentence] is a collection of grammatically inflected terms(Pada);

मूलम्

वाक्यं पदसमूहः ।

विश्वास-प्रस्तुतिः

यथा गामानयेति ।

Eng A

“Example: ‘Bring the cow’”

मूलम्

यथा गामानयेति ।

विश्वास-प्रस्तुतिः

शक्तं पदम् ।

Eng A

A gramatically inflected term (Pada) is that which is possessed of power [to convey a meaning].

मूलम्

शक्तं पदम् ।

विश्वास-प्रस्तुतिः

अस्मात्पदादयमर्थो बोद्धव्य इतीश्वरसंकेतः शक्तिः ॥ ४८॥

Eng A

Such power consists in its being the will - the appointment - of the Lord, that ‘Such and such a meaning is to be understood from such and such a gramatically inflected term’.

मूलम्

अस्मात्पदादयमर्थो बोद्धव्य इतीश्वरसंकेतः शक्तिः ॥ ४८॥

विश्वास-प्रस्तुतिः

आकाङ्क्षा योग्यता सन्निधिश्च वाक्यार्थज्ञानहेतुः ।

Eng A

The causes of the knowledge of the sense of a sentence are Expectancy, Compatibility and Juxtaposition.

मूलम्

आकाङ्क्षा योग्यता सन्निधिश्च वाक्यार्थज्ञानहेतुः ।

दीपिका

आकाङ्क्षएति। आकाङ्क्षादिज्ञानमित्यर्थः। अन्यथा आकाङ्क्षादिभ्रमाच्छाब्दभ्रमो न स्यात्। आकाङ्क्षां लक्षयति पदस्येति। योग्यता लक्षणमाह अर्थेति। सन्निधिलक्षणमाह पदानामिति। अविलम्बेनपदार्थोपस्थितिः सन्निधिः। उच्चारणं तु तदुपयोगितयोक्तम्।

विश्वास-प्रस्तुतिः

पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वमाकाङ्क्षा ।

Eng A

Expectancy means a word’s incapacity to convey a complete meaning, this being occasioned by the absence of another word [which, when it comes as expected, will complete the construction and the sense].

मूलम्

पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वमाकाङ्क्षा ।

विश्वास-प्रस्तुतिः

अर्थाबाधो योग्यता ।

Eng A

Compatibility consists in a word’s not having a meaning incompatible with that of other words in the sentence.

मूलम्

अर्थाबाधो योग्यता ।

विश्वास-प्रस्तुतिः

पदानामविलम्बेनोच्चारारणं सन्निधिः ॥ ४९॥

Eng A

Juxtaposition consists in the enunciation of the words without a long pause between them.

मूलम्

पदानामविलम्बेनोच्चारारणं सन्निधिः ॥ ४९॥

विश्वास-प्रस्तुतिः

आकाङ्क्षादिरहितं वाक्यमप्रमाणम् ।

Eng A

A collection of words devoid of expectancy, compatibility, and juxtaposition is no instrument of right knowledge.

मूलम्

आकाङ्क्षादिरहितं वाक्यमप्रमाणम् ।

विश्वास-प्रस्तुतिः

यथा गौरश्वः पुरुषो हस्तीति न प्रमाणमाकाङ्क्षाविरहात् ।

Eng A

For example, ‘Cow, horse, man, elephant’ gives no information, from the absence of expectancy; [the words having no reference one to another, and not looking out for one another]

मूलम्

यथा गौरश्वः पुरुषो हस्तीति न प्रमाणमाकाङ्क्षाविरहात् ।

दीपिका

गौरश्व इति। घटकर्मत्वमित्यप्यनाकाङ्क्षोदाहरणं द्रष्टव्यम्।

विश्वास-प्रस्तुतिः

अग्निना सिञ्चेदिति न प्रमाणं योग्यताविरहात् ।

Eng A

For example, ‘He should irrigate with fire’ is no instrument of right knowledge, by reason of the absence of compatibility between fire and irrigation.

मूलम्

अग्निना सिञ्चेदिति न प्रमाणं योग्यताविरहात् ।

विश्वास-प्रस्तुतिः

प्रहरे प्रहरेऽसहोच्चारितानि गामानयेत्यादिपदानि न प्रमाणं सान्निध्याभावात् ॥ ५०॥

Eng A

The words For example, ‘Bring - the - cow’ not pronounced close together, but with an interval of some three hours between each, constitute no instrument of right knowledge, from the absence of [the requisite closeness of] justaposition.

मूलम्

प्रहरे प्रहरेऽसहोच्चारितानि गामानयेत्यादिपदानि न प्रमाणं सान्निध्याभावात् ॥ ५०॥

विश्वास-प्रस्तुतिः

वाक्यं द्विविधम् वैदिकं लौकिकं च ।

Eng A

There are 2 types of speech - Sacred and Secular

मूलम्

वाक्यं द्विविधम् वैदिकं लौकिकं च ।

दीपिका

वाक्यं विभजते वाक्यमिति। वैदिकस्य विशेषमाह वैदिकमीश्वरोक्तमिति। ननु वेदस्यानादित्वात्कथमीश्वरोक्तमिति चेत् न। ’वेदः पौरुषेयः वाक्यसमूहत्वात् भारतादिवत्’ इत्यनुमानेन पौर्षेयत्वसिद्धेः। न च स्मर्यमाणकर्तृकत्वमुपाधिः, गौतमादिभिः शिष्यपरम्परया वेदेऽपि सकर्तृकत्वस्मरणेन साधनव्यापकत्वात्। ’तस्मात्तेपानात्त्रयो वेद अजायन्त’ इति श्रुतेश्च। ननु वर्णा नित्याः, स एवायं गकार इति प्रत्यभिज्ञाबलात्। तथा च कथं वेदस्यानित्यत्वमिति चेत् न, ’उत्पन्नो गकरो विनष्टो ह्गकारः’ इत्यादिप्रतीत्या वर्णानामनित्यत्वात्, ’सोऽयं गकारः’ इति प्रत्यभिज्ञायाः ’सेयं दीपज्वाला’ इतिवत्साजात्यावलम्बनत्वात्, वर्णानां नित्यत्वेऽप्यानुपूर्वीविशिष्टवाक्यस्यानित्यत्वाच्च। तस्मादीश्वरोक्ता वेदाः। मन्वादिस्मृतीनामाचाराणां च वेदमूलकतया प्रामाण्यम्। स्मृतिमूलवाक्यानामिदानीमनध्ययनात्त्न्मूलभूता काचिच्च्खोत्सन्नेति कल्प्यते। ननु पठ्यमानवेदवाक्योत्सादनस्य कल्पयितुमशक्यतया विप्रकीर्णवादस्यायुक्तत्वान्नित्यानुमेयो वेदो मूलमिति चेत् न, तथा सति कदापि वर्णानामानुपूर्वीज्ञानासम्भवेन बोधकत्वासम्भवात्।

प्रामाण्यम्

विश्वास-प्रस्तुतिः

वैदिकमीश्वरोक्तत्वात्सर्वमेव प्रमाणम् ।

Eng A

The sacred, being uttered by the Lord, is all authoritative

मूलम्

वैदिकमीश्वरोक्तत्वात्सर्वमेव प्रमाणम् ।

विश्वास-प्रस्तुतिः

लौकिकं त्वाप्तोक्तं प्रमाणम् ।

Eng A

The secular, if uttered by one who deserves confidence, is authoritative :

मूलम्

लौकिकं त्वाप्तोक्तं प्रमाणम् ।

विश्वास-प्रस्तुतिः

अन्यदप्रमाणम् ॥ ५१॥

Eng A

other than this is not authoritative,

मूलम्

अन्यदप्रमाणम् ॥ ५१॥

शब्दज्ञानम्

विश्वास-प्रस्तुतिः

वाक्यार्थज्ञानं शब्दज्ञानम् ।

Eng A

The knowledge of the meaning of a speech is verbal knowledge.

मूलम्

वाक्यार्थज्ञानं शब्दज्ञानम् ।

विश्वास-प्रस्तुतिः

तत्करणं शब्दः ॥ ५२॥

Eng A

Its instrument is speech.

मूलम्

तत्करणं शब्दः ॥ ५२॥

दीपिका

ननु एतानि पदानि स्मारितार्थसंसर्गवन्ति आकाङ्क्षादिमत्पदकदम्बकत्वात् मद्वाक्यवत् इत्यनुमानादेव संसर्गज्ञानसम्भवाच्छब्दो न प्रमाणान्तरमिति चेन्न। अनुमित्यपेक्षया विलक्षणस्य शाब्दज्ञानस्य ’शब्दात्प्रत्येमि’ इत्यनुव्यवसायसाक्षिकस्य सर्वसम्मतत्वात्। नन्वर्थापत्तिरपि प्रमाणान्तरमस्ति ’पीनो देवदत्तो दिवा न भिङ्क्ते’ इति दृष्टे श्रुते वा पीनत्वान्यथानुपपत्या रात्रिभोजनमर्थापत्या कल्पत इति चेन्न। ’देवदत्तो रात्रौ भुङ्क्ते दिवाऽभुञ्जानत्वे सति पीनत्वात्’ इत्यनुमानेनैव रात्रिभोजनस्य सिद्धत्वात्। शते पञ्चाशदिति सम्भवोऽप्यनुमानमेव। ’इह वटे यक्षस्तिष्ठति’ इत्यैतिह्यमपि अज्ञातमूलवक्तृकशब्द एव। चेष्टापि शब्दानुमानद्वारा व्यवहारहेतुरिति न प्रमाणान्तरम्। तस्मात्प्रत्यक्षानुमानोपमानशब्दाश्चत्वार्यैव प्रमाणानि।

ज्ञानानां तद्वति तत्प्रकारकत्वं स्वतोग्राह्यं परतो वेति विचार्यते। तत्र विप्रतिपत्तिः - ज्ञानप्रामाण्यं तदप्रामाण्याग्राहकयावज्ज्ञानग्राहकसामग्रीग्राह्यं न वा इति। अत्र विधिकोटिः स्वतस्त्वम्। निषेधकोटिः परतस्त्वम्। अनुमानादिग्राह्यत्वेन सिद्धसाधनवारणाय यावदिति। ’इदं ज्ञानमप्रमा’ इति ज्ञानेन प्रामाण्याग्रहाद्बाधवारणाय - अप्रामाण्यग्राहकेति। इदं ज्ञानमप्रमा इत्यनुव्यवसायनिष्ठप्रामाण्यग्राहकस्यापि अप्रामाण्याग्राहकत्वाभावार्स्वरत्स्त्वं न स्यादतस्तदिति। तस्मिन्ग्राह्यप्रामाण्याश्रयेऽप्रामाण्याग्राहिकेत्यर्थः। उदाहृतस्थले व्यवसायाप्रामाण्यग्राहकस्याप्यनुव्यवसाये तग्राहकत्वात्स्वतस्त्वसिद्धिः। ननु स्वत एव प्रामाण्यं गृह्यते, ’घटमहं जानामि’ इत्यनुव्यवसायेन घटघतत्वयोरिव तत्सम्बन्धस्यापि विषयीकरणात् व्यवसायरूपप्रत्यासत्तेस्तुल्यत्वात्। पुरोवर्तिनि प्रकारसम्बन्धस्यैव प्रमात्वपदार्थत्वादिति चेत् न। स्वतःप्रामाण्यग्रहे ’जलज्ञानं प्रमा न वा’ इत्यनभ्यासदशायां प्रमात्वसंशयो न स्यात्। अनुव्यवसायेन प्रामाण्यस्य निश्चितत्वात्। तस्मात्स्वतोग्राह्यत्वाभावात्परतो ग्राह्यत्वमेव। तथाहि। प्रथमं जलज्ञानानन्तरं प्रवृत्तौ सत्यां जललाभे सति पूर्वोत्पन्नं जलज्ञानं प्रमा सफलप्रवृत्तिजनकत्त्वात् यन्नैव तन्नैव यथा अप्रमा इति व्यतिरेकिणा प्रमात्वं निश्चीयते। द्वितीयादिज्ञानेषु पूर्वज्ञानदृष्टान्तेन तत्सजातीयत्वलिङ्गेनान्वयय्वतिरेकिणापि गृह्यते। प्रमाया गुणजन्यत्वमुत्पत्तौ परतस्त्वम्। प्रमासाधारणकारणं गुणः, अप्रमासाधारणकारणं दोषः। तत्र प्रत्यक्षे विशेषणवद्विशष्यसंनिकर्षो गुणः। अनुमितौ व्यापकवति व्याप्यज्ञानम्। उपमितौ यथार्थसादृश्यज्ञानम्। शाब्दज्ञाने यथार्थयोग्यताज्ञानम्। इत्याद्यूहनीयम्। पुरोवर्तिनि प्रकाराभावस्यानुव्यवसायेनानुपस्थितत्वादप्रमात्वं परत एव गृह्यते। पित्तादिदोषजन्यत्वमुत्पत्तौ परतस्त्वम्। ननु सर्वेषां ज्ञानानां यथार्थत्वादयथार्थज्ञानमेव नास्तीति। न च ’शुक्ताविदं रजतम्’ इति ज्ञानात्प्रवृत्तिदर्शनादन्यथाख्यातिसिद्धिरिति वाच्यम्। रजतस्मृतिपुरोवर्तिज्ञानाभ्यामेवप्रवृत्तिसम्भवात्। स्वतन्त्रोपस्थितेष्टभेदाग्रहस्यैव सर्वत्र प्रवर्तकत्वेन ’नेदं रजतम्’ इत्यादौ अतिप्रसङ्गाभावादिति चेत् न। सत्यरजतस्थले पुरोवर्तिविशेष्यकरजतत्वप्रकारकज्ञानस्य लाघवेन प्रवृत्तिजनकतया शुक्तावपि रजतार्थि प्रवृत्तिजनकत्वेन विशिष्टज्ञानस्यैव कल्पनात्।

अयथार्थानुभवः

विश्वास-प्रस्तुतिः

अयथार्थानुभवस् त्रिविधः संशय-विपर्यय-तर्क-भेदात् ।

Eng A

Invalid cognition/experience is of 2 types - Doubt, Mistake and reduction to absurdity.

मूलम्

अयथार्थानुभवस्त्रिविधः संशयविपर्ययतर्कभेदात् ।

दीपिका

अयथार्थानुभवं विभजते अयथार्थ इति।
स्वप्नस्य मानसविपर्ययरूपत्वान्न त्रैविध्यविरोधः।

दीपिका

यथार्थानुभवं विभजते यथार्थेति

विश्वास-प्रस्तुतिः

एकस्मिन् धर्मिणि विरुद्ध-नाना-धर्म-वैशिष्ट्यावगाहि-ज्ञानं संशयः

Eng A

In regard to one thing possessing a certain nature, thought, plunging itself into specialisation by various opposite natures, is Doubt

मूलम्

एकस्मिन्धर्मिणि विरुद्धनानाधर्मवैशिष्ट्यावगाहिज्ञानं संशयः ।

दीपिका

संशयलक्षणमाह एकेति। घटपटाविति समूहावलम्बनेऽतिव्याप्तिवारणाय एकेति। ’घटो द्रव्यम्’ इत्यादावतिव्याप्तिवारणाय विरुद्धेति।घटत्वविरुद्धपटत्ववान् इत्यत्र अतिव्याप्तिवारणाय नानेति।

विश्वास-प्रस्तुतिः

यथा स्थाणुर्वा पुरुषो वेति ।

Eng A

Example: A post, or a man

मूलम्

यथा स्थाणुर्वा पुरुषो वेति ।

विश्वास-प्रस्तुतिः

मिथ्याज्ञानं विपर्ययः ।

Eng A

Apprehending falsely is mistake

मूलम्

मिथ्याज्ञानं विपर्ययः ।

दीपिका

विपर्ययलक्षणमाह मिथ्येति। तदभाववति तत्प्रकारकनिर्णय इत्यर्थः।

विश्वास-प्रस्तुतिः

यथा शुक्तौ इदं रजतमिति ।

Eng A

“Example: In the case of mother of pearl, - that this is silver”

मूलम्

यथा शुक्तौ इदं रजतमिति ।

विश्वास-प्रस्तुतिः

व्याप्यारोपेण व्यापकारोपस्तर्कः ।

Eng A

Tarka is a self-willed notion in regard to the constant accompanier, [which notion it is absolutely attempted to justify] by a self-willed notion in regard to what is constantly accompanied thereby.

मूलम्

व्याप्यारोपेण व्यापकारोपस्तर्कः ।

दीपिका

तर्कं लक्षयति व्याप्येति। यद्यपि तर्को विपर्ययेऽन्तर्भवति, तथापि प्रमाणानुग्राहकत्वाद्भेदेन सङ्कीर्तनीयम्।

विश्वास-प्रस्तुतिः

यथा यदि वह्निर्न स्यात्तर्हि धूमोऽपि न स्यादिति ॥ ५३॥

Eng A

“Example: [In dealing with an illogical person who denies that there is fire in the hill, we may have to urge upon him the consideration that,] ‘If there were not fire, there would not be smoke’ : [whereupon the illogical person, so long as he persists in the form of error under consideration, will seek to deny the smoke, in spite of the testimony of his senses, rather than admit the fire which constantly accompanies it].”

मूलम्

यथा यदि वह्निर्न स्यात्तर्हि धूमोऽपि न स्यादिति ॥ ५३॥

स्मृतिः

विश्वास-प्रस्तुतिः

स्मृतिरपि द्विविधा ।

Eng A

Memory is of two kinds

मूलम्

स्मृतिरपि द्विविधा ।

दीपिका

स्मृतिं विभजते स्मृतिरिति

विश्वास-प्रस्तुतिः

यथार्थायथार्था च ।

Eng A

Correct Rememberence/Memory and Incorrect Rememberence/Memory

मूलम्

यथार्थायथार्था च ।

विश्वास-प्रस्तुतिः

प्रमाजन्या यथार्था ।

Eng A

Correct Memory is that which arises from correct knowledge.

मूलम्

प्रमाजन्या यथार्था ।

विश्वास-प्रस्तुतिः

अप्रमाजन्याऽयथार्था ॥ ५४॥

Eng A

Incorrect memory is that which arises from incorrect knowledge.

मूलम्

अप्रमाजन्याऽयथार्था ॥ ५४॥