विश्वास-प्रस्तुतिः
श्रोत्रग्राह्यो गुणः शब्दः आकाशमात्रवृत्तिः ।
Eng A
Sound is that quality which can be cognised by the ear, which resides only in Ether.
मूलम्
श्रोत्रग्राह्यो गुणः शब्दः आकाशमात्रवृत्तिः ।
दीपिका
शब्दं लक्षयति श्रोत्रेति। शब्दत्वेऽतिव्याप्तिवारणाय गुणपदम्। रूपादावतिव्याप्तिवारणाय श्रोत्रेति। शब्दास्त्रिविधः - संयोगजः, विभागजः, शब्दजश्चेति। त्यत्र आद्यो भेरीदण्डसंयोगजन्यः। द्वितीयो वंशे पाट्यमाने दलद्वयविभागजन्यश्चटचटाशब्दः। भेर्यादिदेशमारभ्य श्रोत्रदेशपर्यन्तं द्वितीयादिशब्दाः शब्दजाः।
विश्वास-प्रस्तुतिः
सः द्विविधः ध्वन्यात्मकः वर्णात्मकश्च ।
Eng A
It is of two types - Inarticulate and Articulate
मूलम्
सः द्विविधः ध्वन्यात्मकः वर्णात्मकश्च ।
विरला
मृदङ्गादिर् आदिना ग्राह्यः ।
द्विविधो ऽप्ययं शब्दस् त्रिविध:- संयोगजो [१] विभागजः [२] शब्दजश्चे[३]ति ।
प्रथमः भेरीदण्ड संयोगजः ध्वन्यात्मकः वायुकण्ठ-संयोगजः वर्णात्मकश् च ।
वंशे पाट्यमाने दल-द्वय-विभागजो ध्वन्यात्मकश् चटचटेत्य्-आदिशब्द ओष्ठ-द्वय-विभागजो वर्णात्मकश्च द्वितीयः ।
तृतीयस्तु द्वितीयादिश्वरमान्तः+++(=??)+++ शब्दः ।
विश्वास-प्रस्तुतिः
तत्र ध्वन्यात्मकः भेर्यादौ ।
Eng A
Sound emanating from Drum, etc is inarticulate
मूलम्
तत्र ध्वन्यात्मकः भेर्यादौ ।
विश्वास-प्रस्तुतिः
वर्णात्मकः संस्कृतभाषादिरूपः ॥ ३३॥
Eng A
Phonetic sounds in the form of syllables of languages like Samskrit, etc is inarticulate
मूलम्
वर्णात्मकः संस्कृतभाषादिरूपः ॥ ३३॥
विरला
शब्द-मात्रे आकाशं समवायि, भेर्याकाशादिसंयोगा असमवायिनः अन्यत् सर्वं निमित्तम् इति बोध्यम् ।
अत्र शङ्का - ननु सोऽयं ककार इति प्रत्यभिज्ञा-बलाच् छब्दस्य नित्यत्वम् इति कथं नैयायिकैः शब्दस्यानित्यत्वमुच्यते इति ।
उत्तरम् -न, तदेवौषध- मितिवत्तस्याः साजात्यावलम्बनत्वात्, अत एवोत्पन्नः ककारः विनष्टः ककार इति प्रतीतिरिति अलं पल्लवितेन ॥