विश्वास-प्रस्तुतिः
आद्यस्यन्दनासमवायिकारणं द्रवत्वम् ।
Eng A
Fluidity is the Non intimate cause of insipient trickling, i.e., oozing or melting or flowing
मूलम्
आद्यस्यन्दनासमवायिकारणं द्रवत्वम् ।
दीपिका
द्रवत्वं लक्षयति आद्येति। स्यन्दनं प्रस्रवणम्। तेजःसयोगजं नैमित्तिकम्। तद्भिन्नं सांसिद्धिकम्। पृथिव्यां नैमित्तिकमुदाहरति घृतादाविति। तेजसि तदाह सुवर्णादाविति।
विश्वास-प्रस्तुतिः
पृथिव्यप्तेजोवृत्ति ।
Eng A
Resides in Earth, water and light.
मूलम्
पृथिव्यप्तेजोवृत्ति ।
विश्वास-प्रस्तुतिः
तद्द्विविधं सांसिद्धिकं नैमित्तिकं च ।
Eng A
It is of 2 types - Natural and Induced / Adscititious
मूलम्
तद्द्विविधं सांसिद्धिकं नैमित्तिकं च ।
विश्वास-प्रस्तुतिः
सांसिद्धिकं जले ।
Eng A
Natural Fluidity resides in water
मूलम्
सांसिद्धिकं जले ।
विश्वास-प्रस्तुतिः
नैमित्तिकं पृथिवीतेजसोः ।
Eng A
Induced Fluidity resides in Earth and Light.
मूलम्
नैमित्तिकं पृथिवीतेजसोः ।
विश्वास-प्रस्तुतिः
पृथिव्यां घृतादावग्निसंयोगजं द्रवत्वम् ।
Eng A
In earthly substances, i.e., the fluidity in Ghee , etc fluidity is produced by the conjunction of heat.
मूलम्
पृथिव्यां घृतादावग्निसंयोगजं द्रवत्वम् ।
विश्वास-प्रस्तुतिः
तेजसि सुवर्णादौ ॥ ३१॥
Eng A
The fluidity that is caused in gold, a variety of tejas is due to application of heat
मूलम्
तेजसि सुवर्णादौ ॥ ३१॥
विश्वास-प्रस्तुतिः
चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः ।
Eng A
“The quality that binds flour, etc is called viscosity / The quality which is the cause why particles and the like become a heap, is Viscidity.”
मूलम्
चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः ।
दीपिका
स्नेहं लक्षयति चूर्णेति। कालादावतिव्याप्तिवारणाय गुणपदम्। रूपादावतिव्याप्तिवारणाय पिण्डीभावेति।
विश्वास-प्रस्तुतिः
जलमात्रवृत्तिः ॥ ३२॥
Eng A
Resides in water only
मूलम्
जलमात्रवृत्तिः ॥ ३२॥