विश्वास-प्रस्तुतिः
त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः ।
Eng A
That quality which can be cognized only by the skin or the sense of touch is called Touch
मूलम्
त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः ।
दीपिका
स्पर्शं लक्षयति त्वगिति। स्पर्शत्वेऽतिव्याप्तिवारणाय गुणपदम्। संयोगादावतिव्याप्तिवारणाय मात्रपदम्।
विश्वास-प्रस्तुतिः
सः च त्रिविधः शीतोष्णानुष्णाशीतभेदात् ।
Eng A
And it is of 3 kinds, through the distinctions of cold, warm and temperate (neither hot nor cold)
मूलम्
सः च त्रिविधः शीतोष्णानुष्णाशीतभेदात् ।
विश्वास-प्रस्तुतिः
पृथिव्यप्तेजोवायुवृत्तिः ।
Eng A
This quality (Taste) resides in Earth, Water, Light and Air
मूलम्
पृथिव्यप्तेजोवायुवृत्तिः ।
विश्वास-प्रस्तुतिः
तत्र शीतो जले ।
Eng A
Cold Touch resides in water
मूलम्
तत्र शीतो जले ।
विश्वास-प्रस्तुतिः
उष्णस्तेजसि ।
Eng A
Warm touch resides in Light
मूलम्
उष्णस्तेजसि ।
विश्वास-प्रस्तुतिः
अनुष्णाशीतः पृथिवीवाय्वोः ॥ २२॥
Eng A
Temperate Touch resides in Earth and air
मूलम्
अनुष्णाशीतः पृथिवीवाय्वोः ॥ २२॥
विश्वास-प्रस्तुतिः
रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च ।
Eng A
The 4 qualities of which Colour is the first (i.e., Colour, Taste, Odour and Touch) may be produced in Earth by maturation (by the special conjunction of heat ) and they are then transient.
मूलम्
रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च ।
दीपिका
पाकजमिति। पाकस् तेजःसयोगः। तेन पूर्वरूपं नश्यति रूपान्तरमुत्पद्यत् इत्यर्थः। तत्र परमाणुष्वेव पाको न द्व्यणुकादौ। आमनिक्षिप्ते घटे परमाणुषु रूपान्तरोत्पत्तौ श्यामघटनाशे पुनर्द्व्यणुकादिक्रमेण रक्तघटोत्पत्तिः। तत्र परमानवः समवायिकारणम्। तेजः संयोगोऽसमवायिकारणम्। अदृष्टादिकं निमित्तकारणम्। द्व्यणुकादिरूपे कारणरूपमसमवायिकारणमिति पीलुपाकवादिनो वैशेषिकाः। पूर्वघटस्य नाशं विनैव अवयविनि अवयवेषु च परमाणुपर्यन्तेषु युगपद्रूपान्तरोत्पत्तिरिति पिठरपाकवादिनो नैयायिकाः। अत एव पार्थिवपरमाणुरूपादिकमनित्यमित्यर्थः। अन्यत्र जलादवित्यर्थः। नित्यगतमिति। परमाणुगतमित्यर्थः। अनित्यगतमिति। द्व्यणुकादिगतमित्यर्थः। रूपादिचतुष्टयं उद्भूतं प्रत्यक्षम्। अनुद्भूतमप्रत्यक्षम्। उद्भूतत्वं प्रत्यक्षत्वप्रयोजको धर्मः। तदभावोऽनुद्भूतत्वम्।
विश्वास-प्रस्तुतिः
अन्यत्र अपाकजं नित्यमनित्यं च ।
Eng A
In others, (i.e., water, light and air) Colour and the like are not owing to the conjunction of Heat. They are eternal or transient
मूलम्
अन्यत्र अपाकजं नित्यमनित्यं च ।
विश्वास-प्रस्तुतिः
नित्यगतं नित्यम् ।
Eng A
When they reside in eternal things (as atoms) they are eternal
मूलम्
नित्यगतं नित्यम् ।
विश्वास-प्रस्तुतिः
अनित्यगतमनित्यम् ॥ २३॥
Eng A
When they reside in things not eternal (viz. products), they are transient
मूलम्
अनित्यगतमनित्यम् ॥ २३॥