विश्वास-प्रस्तुतिः
रसनग्राह्यो गुणो रसः ।
Eng A
That quality which can be cognized by the tongue is called Taste
मूलम्
रसनग्राह्यो गुणो रसः ।
दीपिका
रसं लक्षयति रसनेति। रसत्वेऽतिव्याप्तिवारणाय गुणपदम्। रसस्याश्रयमाह पृथिवीति। आश्रयं विभज्य दर्शयति तत्रेति।
विश्वास-प्रस्तुतिः
स च मधुराम्ललवणकटुकषायतिक्तभेदात् षड्विधः ।
Eng A
And this quality is of 6 kinds, through the differences of Sweet, Sour, Saline, Bitter, Astringent and Pungent.
मूलम्
स च मधुराम्ललवणकटुकषायतिक्तभेदात् षड्विधः ।
विश्वास-प्रस्तुतिः
पृथिवीजलवृत्तिः ।
Eng A
This quality (Taste) resides in Earth and Water
मूलम्
पृथिवीजलवृत्तिः ।
विश्वास-प्रस्तुतिः
तत्र पृथिव्यां षड्विधः।
Eng A
In earth it is of 6 kinds
मूलम्
तत्र पृथिव्यां षड्विधः।
विश्वास-प्रस्तुतिः
जले मधुर एव ॥ २०॥
Eng A
In water there is only sweet savour.
मूलम्
जले मधुर एव ॥ २०॥