०९ मनः

विश्वास-प्रस्तुतिः

सुखाद्युपलब्धिसाधनमिन्द्रियं मनः ।

Eng A

The sense organ which is existing for the cognition of happiness, suffering, etc is called मनस्/mind

मूलम्

सुखाद्युपलब्धिसाधनमिन्द्रियं मनः ।

दीपिका

मनसो लक्षणमाह सुखेति
स्पर्श-रहितत्वे सति क्रियावत्वं मनसो लक्षणम्।

VN Jha

Mind is the internal sense organ of our awareness of happiness, unhappiness, etc.,

VN Jha - Comment

We have seen that a knower acquires knowledge of the world.
In other words, he internalizes the world and makes the world an object of his knowledge.
As he internalizes the external world so he internalizes the inner world.
He requires an instrument to internalize.

He internalizes the external world through the external senses.
There are five external senses
and the knower is an all-pervading substance
and so the Self is related to all of them at a time and hence there is a possibility of internalizing the external world through all sense organs simultaneously.
But it is against our experience.
We do not have perception of colour, taste, smell, touch and sound simultaneously.
[[32]] To explain this, it is necessary to say that at a time the Self is using only one sense organ to acquire perception of only one thing.
This is achieved by introducing an entity called ‘mind’ in between the self and the external sense organ.

Thus, Self comes in contact with the mind, mind with the sense-organ, and the sense-organ with the external object and thus the perception of the external world, one at a time, becomes possible.
Moreover, this is our every day experience that many a time we remain absent-minded and some one thinks that I am looking at him,
but in fact I am not looking at him because I may be thinking something else
and that leads to misunderstanding,
and I am required to resolve the misunderstanding by telling him that ‘I was absent-minded and really I did not see him.’
This fact also supports the presupposition that there is mind
and it gets related to one sense organ at a time.

Moreover, as we have perception of the external world
so also we have perception of our inner world.
How do we know it?
The proof is our verbalizations like
‘I am happy’ ‘I am unhappy’, ‘I have knowledge’, ‘I have desire’ etc.
These sentences have verbalized our mental perceptions of our inner world, namely, happiness, unhappiness, knowledge, desire, etc.

Thus, as the self requires ‘mind’ to connect himself with external world through the senses,
so also he requires ‘mind’ to acquire the knowledge of the inner world.

Therefore, each self must be provided with an instrument called ‘mind’
to internalize the external world [[33]]
as well as the internal world.

Thus, there are as many selves so many ‘minds’.
The size of the mind is accepted as the size of an atom because it moves fast.
It plugs in with a particular sense-organ and the next moment it establishes its contact with another sense organ.
This becomes feasible only when it is provided with minimum possible size.
Since it has smallest possible size it can have maximum possible velocity (vega).

Thus, mind is a substance.
It is different from the self.
It is an instrument used by the Self.

It has smallest possible size.
It has highest possible speed.
Mind is plural, each self is provided with a ‘mind’.
It is permanent.

विश्वास-प्रस्तुतिः

तच् च प्रत्य्-आत्म-नियतत्वाद् अनन्तं परमाणु-रूपं नित्यं च ॥ १८॥

Eng A

Since each individual self is associated with one specific mind, minds/मनस् are said to be innumerable. Hence they are infinite and atomic in nature

मूलम्

तच्च प्रत्यात्मनियतत्वादनन्तं परमाणुरूपं नित्यं च ॥ १८॥

दीपिका

तद् विभजते तच् चेति
एकैकस्यात्मनः एकैकं मन इत्य्
आत्मनाम् अनेकत्वान्
मनसोऽप्यनेकत्वम् इत्य् अर्थः।

“ननु मनो विभु, स्पर्शरहितत्वे सति द्रव्यत्वाद् आकाशादिवद्”
इति चेत् न।
मनसो विभुत्वे
आत्म-मनः-संयोगस्याऽसमवायिकारणस्याभावाज्
ज्ञानानुत्पत्ति-प्रसङ्गः।
न च विभु-द्वय-संयोगोऽस्त्व् इति वाच्यम् -
तत्-संयोगस्य नित्यत्वेन सुषुप्त्य्-अभाव-प्रसङ्गात्,
पुरी-तद्+++(=अन्न-नाल)+++–व्यतिरिक्त-स्थले आत्ममनः संयोगस्य सर्वदा विद्यमानत्वात्।
अणुत्वे तु
यदा मनः पुरीतत् प्रविशति
तदा सुषुप्तिः,
यदा निस्-सरति तदा ज्ञानोत्पत्तिर्
इत्य् अणुत्वसिद्धिः।

VN Jha

and that mind is unique to each self and therefore, it is innumerable, it is of the size of an atom and it is eternal.

वरदाचार्यः

मनसो लक्षणमाह - सुखादीति ।
सुखादीनाम् उपलब्धिः सुखाद्युपलब्धिः ।
उपलब्धेः साधनम् - उपलब्धिसाधनम् ।
‘सुखादीनाम्’ इत्यत्र षष्ठ्या विषयत्वमर्थः।

प्रकृत्य्-अर्थस्याधेयता-सम्बन्धेन
षष्ठ्य्-अर्थ-विषयतायाम् अन्वयः ।
तथा च सुखादि-निष्ठ-विषयता ।

उपलब्धिर् नाम साक्षात्कारः ।
षष्ठ्य्-अर्थ-विषयताया उपलब्ध्य्-अर्थ-साक्षात्कारे
निरूपकता-सम्बन्धेनान्वयः ।
तथा च सुखादि-निष्ठ-विषयता-निरूपक-साक्षात्कारः ।

उपलब्धेर् इत्य्-अत्र षष्ठ्याः कार्यत्वम् अर्थः ।
प्रकृत्य्-अर्थस्य साक्षात्कारस्य
षष्ठ्य्-अर्थ-कार्यतायाम् आधेयता-सम्बन्धेनान्वयः ।

तथा च साक्षात्कार-निष्ठ-कार्यता ।
साधनं नाम कारणतावत् ।
षष्ठ्य्-अर्थकार्यताया निरूपितत्व-सम्बन्धेन
साधन-पदार्थैक-देश-कारणतायाम् अन्वयः ।
अथवा षष्ठ्या निरूपितत्वम् अर्थः ।
तस्याश्रयता-सम्बन्धेन कारणतायाम् अन्वयः ।
तथा च साक्षात्कार-निरूपित-कारणताश्रय इति बोधः ।

तथा च
सुखादि-साक्षात्कार-निष्ठ-कार्यता-निरूपित-कारणताश्रयः
(कारणतावद्-अभिन्नम् ) इन्द्रियत्वाश्रयाभिन्नं मनः इति बोधः ।

तथा चाखण्ड-बोधः
‘सुखादि-निष्ठ-विषयता-निरूपक (विषयता-निरूपित-विषयिताश्रय) साक्षात्कार-निष्ठ-कार्यता-निरूपित-कारणतावद्-अभिन्नम् इन्द्रियत्वाश्रयाभिन्नं मनः’ ।

लक्षणम् तु
सुखादि-निष्ठ-विषयता-निरूपक-साक्षात्कार-निष्ठ-कार्यता-निरूपित-कारणत्वे सति +इन्द्रियत्वम् ।
अस्य लक्षणस्य मनसि समन्वयः ।

तथा हि सुखादि-निष्ठ-विषयता केति चेत् -
“‘अहम् सुखी’ इति प्रतीति”-सिद्धा विषयता ।
तादृश-विषयता-निरूपक-साक्षात्कारः कः ? इति चेत्,
‘अहम् सुखी’ इत्याकारक-साक्षात्कारः।

[[75]]

तादृश-साक्षात्कार-निष्ठ-कार्यता-निरूपित-कारणत्वे सति इन्द्रियत्वं
मनसि वर्तत इति लक्षण-समन्वयः ।

इन्द्रियत्व-मात्रोक्तौ चक्षुर्-आदाव् अतिव्याप्तिः ।
अतः ‘सुखाद्य्-उपलब्धि-साधनत्वम्’ इति विशेषणम् ।
चक्षुर्-आदीनां बाह्य-प्रत्यक्षत्वं
प्रत्य् एव साधनत्वात्,
सुखाद्य्-उपलब्धि-साधनत्वाभावात्
तत्र नातिव्याप्तिः ।

सुखाद्य्-उपलब्धि-साधनत्व-मात्रोक्तौ, आत्मनि अतिव्याप्तिः ।
सुखादिकं प्रति आत्मनः समवायि-कारणत्वात्
सुखादि-निष्ठ-विषयता-निरूपक-साक्षात्कार-निष्ठ-कार्यता-निरूपिता कारणताऽत्मन्यपि वर्तत इति अतिव्याप्तिः ।
अत इन्द्रियत्वं निवेशनीयम् ।
आत्मन इन्द्रियत्वाभावान् नातिव्याप्तिः ॥

तच्चेत्यादि ।
आत्मनां भेदस्योक्तत्वात्, तत्-तद्-आत्मनां सुखादेर् व्यवस्थितत्वात्,
सुखाद्य्-उपलब्धि-साधनानां मनसाम् अपि व्यवस्थितत्वावश्यम्भावेन
मनसाम् अप्य् आत्म-भेदेन भिन्नत्वम् आवश्यकम् इत्य् अर्थः ।

“प्रतिशरीरं भिन्न” इतिवत्
‘प्रत्यात्मं भिन्नम्’ इति वक्तुं शक्यत्वेऽपि
‘प्रत्यात्म-नियतत्वात्’ इति कथनं कुत इति चेत् -
शरीर-भेदे सत्य् अप्य् आत्म-भेदः कैश् चिद् वेदान्तिभिर् नाङ्गीक्रियते ।
एतत्-पक्षे मनो-भेदो ऽपि नावश्यकः, आत्मन एवैकत्वात् ।
ततश् च मनोभेदस्यात्म-भेदाधीनत्वात्,
आत्मनां च सुख-दुःखादि-वैलक्षण्येन भेद आवश्यके
प्रत्य्-आत्मं मनो-व्यवस्थाया अनिवार्यत्वेन
मनोभेदसिद्धिर् इति सूचनाय
प्रत्य्-आत्म-नियतत्वं मनो-भेदे हेतुर् उक्तः ।
अत एव मनांस्य् अप्य् अनन्तानि ।

आत्मनो विभुत्वावश्यकताया अनुपदम् उक्तत्वात्,
मनसोऽपि विभुत्वे विभु-द्वय-संयोगासम्भवात्
मनसो ज्ञान-कारणत्वं न स्यात् ।
विभु-द्वय-संयोगाङ्गीकारे
आत्म-मनस्-संयोगस्य ज्ञान-करणस्य सदातनत्व-प्रसक्त्या
ज्ञानम् अपि जीवानां सदातनं स्यात् ।
ततश् च सुषुप्त्य्-अनुपपत्तिः ।
+++(सुषुप्ताव् अपि ज्ञानम् भवत्येवेति नव्यविज्ञानप्रयोगसिद्धम्। )+++

मध्यमपरिमाणत्वे तु नाशावश्यम्भावात्
कदाचिज् ज्ञानाभावोऽपि प्रसज्येत ।

अतो मनसो ऽणुत्वम् उक्तम् ।
न च मनसोऽणुत्वेऽपि
आत्मनो विभुत्वेन मनस्-संयोग अनिवार्य एवेति
कथं सुषुप्त्य्-उपपत्तिर् इति वाच्यम्;
मनसो विभुत्वे तस्य चलनम् अप्य् असम्भवि ।
अणुत्वे तु शरीरान्तर-सञ्चारस्य सुवचत्वात्,
देश-विशेषावच्छेदेनात्म-संयोग एव ज्ञानकारणम्,
न तु यत्र-कुत्रचिद् अव-स्थित-मनस्-संयोगो ज्ञान-कारणम्
इति व्यवस्थायास् सुवचत्वेनात्मविभुत्व-मात्रेण न सुषुप्त्य्-अनुपपत्तिः ।

स च देश-विशेषः पुरीतत्-सञ्ज्ञक-नाडी-विशेषो वा
अन्यो वेति नास्माकम् आग्रह इति भावः ।

एवं परमाणु-रूपत्वाद् एव नित्यम् ॥

सिद्धान्त-चन्द्रोदयः

मनो निरूपयति - सुखेति
सुखाद्य्-उपलब्धिः सुखादि-साक्षात्-कारस्
तस्य साधनं निमित्त-बीजं मन इत्यर्थः ।
आत्म-मनः-संयोग-वारणायेन्द्रियम् इति,
चक्षुर्-आदिवारणाय सुखेत्यादि
एतेन मनसि प्रमाणम् अपि दर्शितम् ।
तथाहि सुखादि-साक्षात्कारः करण-साध्यः
जन्य-साक्षात्कारत्वात् चाक्षुषादिवद्
इत्य् अनुमानाच्
चक्षुरादीनां बाधान्
मनः सिद्ध्यति ।

मनो विभजते तच् चेति
मनश् चेत्यर्थः।
मनसो ऽनन्तत्वे हेतुम् आह - प्रत्यात्मेति।

[[४२]]

आत्मानं आत्मानं प्रति प्रत्यात्मं
तस्मिन् नियतत्वान् नियमेन वर्त्तमानत्वाद् इत्य् अर्थः ।
तथाचैकैकात्मन एकैक-मनस आवश्यकत्वेनात्मनाम् अनन्तत्वान् मनसोप्यनन्तत्वम् इति भावः ।
ननु आकाशादिवन् मनसो विभुत्वे
विभु-द्वय-संयोगानङ्गीकारेण ज्ञानोत्पत्तिर् न स्यात्
ज्ञानासमवायिकारणाप्रसिद्धेर् - अत आह परमाणु-रूपम् इति ।
परमाणु-स्वरूपम् इत्य् अर्थः ।

१ मूर्त्तत्वे सति निरवयवः परमाणुः ।
“परं वा त्रुटेः” (गौ० ४।२ ३ ) ॥
त्रुटेः परं यद् अतिसूक्ष्मं तत् परमाणुः ॥
“यस्मान् नाल्पतरम् अस्ति
य परमोऽल्पस् तत्र निवर्त्तते
यतश्च नाल्पीयोऽस्ति
तं परमाणुं प्रचक्ष्महे " ( वात्स्या० )
निष्कर्षस् तु परमाणुः - जन्यद्रव्यावयवः, अक्रियावान्, अतीन्द्रियः, निरवयवः, नित्यश् चेति नैयायिकवैशेषिकाणां राद्धान्तः ।

तथा च मनसोऽणुत्वेनात्म-मनः-संयोगः सम्भवत्य् एवेति भावः ।

मीमांसकास् तु “मनो विभु - स्पर्श-रहित-द्रव्यत्वाद् आकाशवद्
इत्यनुमानेन विभुत्वं सिद्ध्यति, विभु-द्वय-संयोगो ऽप्य् अस्त्य् एवे"त्य् आहुः ।
नैतत् तादृशसंयोगस्य नित्यत्वापत्त्या सर्वदा ज्ञानोत्पत्ति-प्रसङ्गेन सुषुप्त्यभावापत्तेः ।
मम तु यदा मनः पुरीतति प्रविशति तदा सुषुप्तिः,
यदा निःसरति तदा ज्ञानोत्पत्तिः,
पुरीतति बहिर्-देशावच्छिन्नात्म-मनः-संयोगस्येव ज्ञान-कारणत्वात् ।
अत एव सुषुप्ति-काले ज्ञानापत्ति-वारणाय
“ज्ञान-मात्रे त्वङ्-मनः-संयोगः कारणम्” इति मतं निराकुर्वन्ति नव्याः ।

“ननु मनसोऽणुत्वेऽष्टावधानिनां कथं युगपत् ज्ञानोत्पत्तिः,
मनसः चक्षुर्-इन्द्रिय-संयोग-काले त्वग्-इन्द्रियादीनां संयोगासम्भवाद्” इति
चेन् न,
मनसोऽतिशय-वेगशालित्वेन क्षण-विलंबेनैवेन्द्रिय-सम्बद्धं
सद्-अभ्यास-विशेष-शाल्य्-अष्टावधानिनां ज्ञानोत्पादनाद्
युगपद् अनुभवामीति प्रत्ययो भ्रमः,
अत एव “किम् उक्तं - व्यासङ्गान् न ज्ञातम्” इत्य् अनुभवो दरीदृश्यते ।
तथा च न्याय-सूत्रं “युगपज् ज्ञानानुत्पत्तिर् मनसो लिङ्गम्” इति।

मनसो नित्यत्वे लाघवं, परमाणुरूपत्वाद् वा नित्यम् इत्याह नित्यं चेति । इति मनोनिरूपणम् ।