विश्वास-प्रस्तुतिः
जीवात्मा प्रतिशरीरं भिन्नो विभुर्नित्यश्च ॥ १७॥
Eng A
Individual self is different in each body, all pervasive and eternal.
मूलम्
जीवात्मा (जीवस् तु) प्रतिशरीरं भिन्नो विभुर्नित्यश्च ॥ १७॥
दीपिका
जीवस्य लक्षणमाह जीव इति।
सुखाद्य्-आश्रयत्वं जीव-लक्षणम्।
ननु ““मनुष्योऽहं ब्राह्मणोऽहम्” इत्यादौ
सर्वत्राहं-प्रत्यये शरीरस्यैव विषयत्वाच्
छरीरमेवात्मे"ति चेत् न।
शरीरस्यात्मत्वे करपादादि-नाशे शरीर-नाशाद् आत्मनोऽपि नाश-प्रसङ्गात्।
नापीन्द्रियाणाम् आत्मत्वम्,
“योऽहं घटम् अद्राक्षं, सोऽहम् इदानीं स्पृशामि” इत्य् अनुसन्धानाभाव-प्रसङ्गात्,
अन्यानुभूतेऽर्थे अन्यस्यानुसन्धानायोगात्।
तस्माद् देहेन्द्रिय-व्यतिरेको जीवः
सुखदुःखादि-वैचित्र्यात् प्रतिशरीरं भिन्नः।
स च न परमाणुः -
सर्व-शरीर-व्यापि-सुखाद्य्-अनुपलब्धि-प्रसङ्गात्।
न मध्यम-परिमाणवान् -
तथा सति अनित्यत्व-प्रसङ्गेन कृत-हानाकृताभ्यागम-प्रसङ्गात्।
तस्मान् नित्यो विभुर् जीवः।
वरदाचार्यः
ईश्वर-भिन्नत्वे सति चेतनत्वं जीव-लक्षणम् ।
चेतनत्वमात्रोक्तौ ईश्वरे, चेतनत्वानुपादाने घटादौ चातिव्याप्तिः ॥
तथा च सर्वज्ञत्वम् ईश्वरलक्षणम् ।
जीवस्त्वित्यादि ।
अत्रापि ‘तु’ शब्दो परमात्म-वैलक्षण्य-सूचकः ।
तच् च असर्वज्ञत्व-रूपम्, अनेकत्व-रूपञ् च ।
जीवानाम् अनेकत्वे कारणं प्रतिशरीरं भिन्न इति ।
शरीराणि प्रत्यक्षत एव परस्परं भिन्नान्य् अनन्तानि च ।
अतस् तत्-तच्-छरीरावच्छिन्नात्मानो ऽप्य् अनन्ताः ।
शरीरं हि सुखदुःखादि-भोग-कारणम् ।
सुख-दुःखादिकं च प्रतिजीवं विलक्षणं दृष्टम्,
प्रतिजीवं पुण्य-पाप-कर्मणां विलक्षणत्वात् ।
अतश् शरीराण्य् अपि भिन्नानि,
आत्मानोऽपि भिन्नाः ।
तथा च ‘भिन्नाः’ इत्यत्र
भेदो न शरीर-मात्र-प्रतियोगिकः,
अपि तु इतर-शरीरावच्छिन्न-जीव-प्रतियोगिकः ।
शरीराज् जीवस्य भेदस् तु,
शरीरस्य पाञ्चभौतिकस्य जडत्वात्,
आत्मनश् चाजडत्वस्य ‘ज्ञानाधिकरणमात्मा’ इति लक्षण-करणेनैव सिद्धत्वात्
पृथङ् न वक्तव्यम् इत्य् अभिप्रायः ।
‘प्रतिशरीरं भिन्नः’ इत्यनेन,
यद् यच् छरीरं तत् सर्वं तद्-अवच्छिन्न-चेतनाधिष्ठितम्,
तच्-छरीर-भिन्न-शरीराधिष्ठित-चेतनानधिष्ठितं च ।
एवञ् च भिन्न-भिन्न-शरीराणाम् अधिष्ठातृतया
भिन्न-भिन्न-जीवानां सिद्धिः ।
शरीराणाम् आनन्त्याच् च जीवानन्त्य-सिद्धिः ।
तथा च शरीर-भेद एव जीव-भेदे प्रमाणम् ।
शरीरभेदश् च सुख-दुःख-वैलक्षण्याद् इत्य् उक्तमेव ॥
‘प्रतिग्रामं देवालयोऽस्ति’ इति कथने,
“ग्रामश् चेद् देवालयः स्याद् एवे"त्य् अर्थलाभात्,
‘यत्र यत्र ग्रामत्वम्, तत्र सर्वत्र देवालयवत्त्वम्’ इति व्याप्तिलाभः ।
तद्वद् अत्रापि ‘प्रतिशरीरं भिन्नः’ इत्यत्रापि
शरीराणां भेदन, ग्रामभेदेन देवालय-भेदवत्
तद्-अवच्छिन्न-जीवानाम् अपि भेदः सिद्धः ।
विभुरिति ।
युगपद् एव पादे शिरसि च वेदनानुभवात्
जीवानाम् अणुत्वं न युज्यते ।
मध्यम-परिमाणत्वे चानित्यत्व-प्रसङ्गः ।
जीवानाम् अनित्यत्वे च मोक्षार्थ-प्रयत्नाद्य् अनुपपत्तिर् इति
अर्थात् विभुत्वसिद्धिः ।
विभुत्वाद् एव नित्यत्व-सिद्धिश् च
मध्यम-परिमाणस्यैवानित्यत्वेन व्याप्तेः ।
VN Jha
Living beings on the other hand are many, distinct with each body, all-pervading and eternal.