०१ परमात्मा

विश्वास-प्रस्तुतिः

तत्रेश्वरः सर्वज्ञः परमात्मैक एव ।

Eng A

Of these two, the Supreme Soul is God, omniscient and He is one only.

मूलम्

तत्रेश्वरः सर्वज्ञः परमात्मैक एव ।

दीपिका

परमात्मनो लक्षणम् आह तत्रेति
नित्य-ज्ञानाधिकरणत्वम् ईश्वरत्वम्।
नन्व् ईश्वर-सद्भावे किं प्रमाणम्।
न तावत्-प्रत्यक्षम्।
तद्+धि बाह्यम् आन्तरं वा।
नाद्यः अरूपि-द्रव्यात्।
न द्वितीयः आत्मसुखदुःखादि-व्यतिरिक्तत्वात्।

“नाप्य् अनुमानं लिङ्गाभावाद्” इति चेत् न।
अङ्कुरादिकं सकर्तृकं कार्यत्वाद् घटवत्
इत्य् अनुमानस्यैव प्रमाणत्वात्।

उपादान-गोचरापरोक्ष-ज्ञान-चिकीर्षा-कृतिमत्त्वं कर्तृत्वम्।
उपादानं समवायि-कारणम्।
सकल-परमाण्व्-आदि-सूक्ष्म-दर्शित्वात् सर्व-ज्ञत्वम्।
“यः सर्वज्ञः सः सर्ववित्” इत्य् आगमोऽपि तत्र प्रमाणम्।

वरदाचार्यः

परमात्मा त्वेक एव ।
‘तु’ शब्दो जीव-वैलक्षण्य-सूचकः ।
स एव सर्व-जगन्-नियन्ता यतः,
तत ‘ईश्वरः’, अत एव सर्वज्ञश् च ।

अत एव एक एव,
ईश्वर-द्वये परस्पर-वैमत्यावश्यम्भावात्,
‘राजद्वयं राज्य-विनाश-हेतुः’ इति न्यायात् ।

सर्वांशेऽप्य् उभयोर् ऐकमत्यान् न विरोध-प्रसङ्ग इति यदि
तर्हि द्वितीय-वैयर्थ्यम्,
एकेनैव सर्व-जगन्-नियमनादि-निर्वाहात् ।

अतस् स एक एव ।

वरदाचार्यः - टिप्पनी

ईश्वरानुमानम्॥

ननु ईश्वरसद्भावे किं प्रमाणमिति चेत्,
जीवसद्भावे वा किं प्रमाणम् ?
‘अयम् अहम् अस्मि’ इति सर्वेषां स्वविषयकानुभवस्य सत्त्वात्,
परमात्मनः अप्रत्यक्षत्वेऽपि स्वात्मनो मानस-प्रत्यक्ष-सिद्धत्वम् अस्त्य् एवेति शक्यं वक्तुम्।
मन्यन्ते बहवस् तथा‌।
परन्तु देहादेर् एव तथा -
निर्देशात्,
तद्-अतिरिक्तात्मनः केनाप्य् अननुभवात्
(योगिनाम् एव तत्सम्भवात्)।+++(5)+++

अत एव सूत्रकारोऽपि
‘इच्छा-द्वेष-प्रयत्न-सुख-दुःख-ज्ञानान्य् आत्मनो लिङ्गम्’ ( न्या. सू-१-१-१० )
इत्य् आत्मनो ऽनुमेयत्वम् एवाह ।

स्वात्मनः प्रत्यक्षत्वेऽपि परात्मनो ऽप्रत्यक्षत्वात् तथोक्तम् इति समादधते केचित् ।
तर्हि सर्वेऽपि आत्म-ज्ञानिनो भवेयुः ।
लेशतो भवेच् चेत् तत्-परिणामः कीदृशो भवेद्
इत्य् अपरिचयाद् एव तथा वदन्ति ते ।+++(5)+++

[[71]]

वस्तुतः, इदानीन्तन-पण्डितानां शरीरातिरिक्तात्म-ज्ञानम्
अनुमिति-रूपम्, शब्द-रूपं वा, न प्रत्यक्ष-रूपम्।
एवं स्व-स्वरूप-ज्ञानस्यैवाभावे,
ईश्वर-सिद्धिः सुतराम् अनुमानेनैव वक्तव्या ॥

यद्य् अप्य् अयं विषयः न्याय-शास्त्र-सीमातीत एव ।
अत एव न्याय-सूत्रेषु, भाष्ये वा नेश्वर-साधनं दृश्यते ।

‘इन्द्रियार्थ-सन्निकर्षोत्पन्नं प्रत्यक्षम् ’ ( न्या. सू. १-१-४.)

इत्य्-आदि-सूत्रेणैवेदं स्पष्टीकृतम् -
ईश्वरीय-प्रत्यक्षस्यालक्ष्यत्वाभिप्रायात् ।

तथापि, ईश्वर-निराकरण-व्यग्राणां मुख-पिधानस्य
वेदैक-शरणैर् वेदान्तिभिः कर्तुम् अशक्यत्वात्,
स भारः तार्किकाणाम् उपरि अवशात् पतितः ।
तद्भारं स्वीकुर्वद्भिः न्यायाचार्यैर् उदयनैः,
तद्-अर्थम् एव व्यरचि न्याय-कुसुमाञ्जलि-नामकः प्रौढो ग्रन्थः ।
तद्-अनुसारेणेश्वरानुमानं सङ्ग्रहेण प्रदर्श्यते

‘क्षित्य्-अङ्कुरादिकम् अस्मद्-विलक्षण-पुरुष-कर्तृकम्,
अस्मद्-आद्य-कर्तृकत्वे सति सकर्तृकत्वात्’

इति परिशेषानुमानम् एव ईश्वरे प्रमाणम् ।
+++(नैवम् इति डार्विनेन प्रदर्शितम्। )+++

क्षितिपदं विविध-विचित्र-रचन-विश्वस्योपलक्षकम् ।
तत्र निदर्शनतया अङ्कुरम् उच्यते ।
भूमौ प्रति-क्षणम् उत्पद्यमानान्य् अङ्कुराणि
सर्वेऽपि पश्यन्ति ।
अत्र तादृशः को वा चेतनो दृश्यते ।

न चैतत् स्वभावाद् एव भवतीति वक्तुं शक्यम् ।
तथा कथनं तु पलायन-वादायते ।
पराजयम् अङ्गीकर्तुम् अशक्नुवताम् अहङ्कारिणाम् अयं वाद इत्यर्थः ।
‘स्वभावः’ इत्यत्र ‘स्व’ शब्दार्थः कः ?
तत् तद् वस्त्व् एव ‘स्व’-शब्दार्थ इति यथा -
अङ्कुर-कारण-भूतं बीजम् एव स्व-शब्दार्थ इति चेत्,
बीजं कथम् अङ्कुरम् उत्पादयतीत्य् एव प्रश्नः ।
बीजस्यायं स्वभाव इति चेत्,
तत्र ‘स्व’-शब्दस्यार्थः कः?
बीजम् एवेति चेत्, तत् कथम् अङ्कुरम् उत्पादयतीत्य् एव प्रश्नः ।
बीजस्यायं स्वभाव इति कथने ऽन्योन्याश्रयः,
आत्माश्रयो वानिवार्यः ।
एतावता कालेनादृष्टम् अङ्कुरम् इदानीं दृश्यते चेत्,
तत् कार्यम् एव भवति ।

[[72]]

कार्यं च लोके कस्यचित् पुरुषस्य प्रयत्नेनैव भवेद्
इति घटपटादौ दृष्टम् ।
अत्र स कः ? इत्य् एव प्रश्नः ।
मृत्-सलिलादि–तत्-तत्-सामग्री-सम्मेलनाद् एव तद् भवतीति चेत्,
मृदादयः किल न चेतनाः ।
ते कथं चेतनाधिष्ठानम् अन्तरा कार्यं कुर्युः ?
तेषाम् अयं स्वभाव इति चेत्,
तत्र स्वपदार्थः कः ?
अतो बहु-दूरं गत्वापि कश्चन चेतनस्
सर्वं सुव्यवस्थितं
चालयिता वर्तत एवेत्यङ्गीकार्यम्॥

ननु भोः !
किमियं बिभीषिका ।
अद्यतना महाविज्ञानिनोऽपि स्वभाववादम् एवाङ्गीकुर्वन्ति ।
किम् अधिकं वक्तव्यम् इति चेत् – सत्यम् ।
जानीम एव भवतां कूटस्थम्।
तेष्व् अपि प्राचीना महाविज्ञानिनो नैवम् अवदन् ।
आगच्छता कालेनैवायं नास्तिक-वादो वर्धमानः परिदृश्यते।

अत एव ज्ञायते
जगद् इदं महते परिवर्तनाय सज्जीभवद् अस्तीति
‘Nature’ इत्य् उच्यमानम् एव देववाण्यां स्वभाव इत्य् उच्यते ।
स एव प्रकृतिर् इत्युच्यते ।
तत् तद् वस्तूनां स्वभावाः खलु
परस्परविलक्षणा प्रश्नानर्हा विचित्राश् च दृश्यन्ते ।
तत्र सर्वत्र स्वभावपदे वर्तमानः स्व-पदार्थः
यत्रान्ते पर्यवस्येत्,
तत्र वर्तमानः पदार्थो न जडः ।
किन्तु स सर्वघटकः सर्वज्ञः सर्वशक्त ईश्वर इत्युच्यते ।
अत एव स जीवाद् अत्यन्त-विलक्षणश् च।

न हि न्याय-दर्शने ईश्वर-तुल्यः कश्चिद् अन्यस् सर्वज्ञः अङ्गीक्रियते ।
न्याय-दर्शनस्यावधिर् अप्य् अयम् एव ।

ईश्वरानङ्गीकारस् तु अहङ्कारात्, अज्ञानाद् वा भवेद्
इत्य् एव परमं रहस्यम् ।
अहङ्कारः खलु
वक्तुर् आत्मानं
स्वेतरेभ्यस् सर्वेभ्यो व्यावर्त्यमानं
स्वमात्र-विषयकं करोतीति सर्वेषाम् अनुभवसिद्धम् ।
एतत् कियद् अत्य् अल्पम् ? इति गाढम् आलोचयतां सुज्ञं भवेत् ।
एवम् अत्यल्पस्यास्य जीवस्य
ज्ञानं वा कियद् बृहद्भवेत् ।
एतादृशाहङ्काराज्ञानयोर् नाश एवेश्वरो ज्ञातुं शक्येत
क्रमेणेत्य् एव त्रि-काल-सत्यम् ॥

अतश्च अस्मिन् ब्रह्माण्डे वर्तमानास् सर्वे
अणवो वा विभवो वा पदार्थाः,
सर्वे स्व-स्व-कक्ष्यायां स्थित्वा
परस्पराविरोधेन यद्-अधीनास् सदा चलन्ति,
स एवान्तिम Nature [[73]] ईश्वर इति ज्ञातव्यम् ।

अतश्च विलक्षणात् बीजाद् आरभ्य
सूर्यचन्द्रादयोऽपि तद्-अधीना एव चलन्तीत्य् उच्यते ।
‘एतस्य वा अक्षरस्य प्रशासने गार्गि’ (बृ. ५-८- ९) इत्य् आरभ्य
‘यो वा एतद् अक्षरम् अविदित्वा ऽस्माल् लोकात् प्रैति
स कृपणः,
अथ य एतद् अक्षरं विदित्वा ऽस्माल् लोकात् प्रैति
स ब्राह्मणः’
इत्युपसंहरति भगवती श्रुतिः ।

एवं विज्ञानस्यान्तिमभूमौ वर्तमानम् एवोच्यते
‘विज्ञानेनात्मानं वेदयते’ (म.ना.) इत्यत्र ।
अतश् चास्मद्-आद्य्-अ-कर्तृकत्वे सति
सङ्कर्तृकत्वाद् इत्य् उक्तानुमानेनेश्वर-सिद्धिः ।+++(4)+++

अधिकम् अन्यत्र द्रष्टव्यम् ।
इदं सर्वेषां कथं सुसाध्यम् इति चेत्,
केनोक्तं सुसाध्यम् इति ।
तर्हि किम् उत्तरम् इति चेत्, श्रद्धैवेति गृह्यताम् ।
अन्ततः क्रियतां सत्सङ्गः ॥

VN Jha

Out of these two, God is all-knowing and only one.