+०८ आत्मा

विश्वास-प्रस्तुतिः

ज्ञानाधिकरणम् आत्मा ।

Eng A

That which is the substratum of consciousness is आत्मा / Self/Soul

मूलम्

ज्ञानाधिकरणमात्मा ।

दीपिका

आत्मनो लक्षणमाह ज्ञानेति

VN Jha

Soul or self (jīvātman) is that substance which is the locus of knowledge.

वरदाचार्यः

आत्मनो लक्षणमाह - ज्ञानाधिकरणम् इति ।
ज्ञानस्याधिकरणम् ज्ञानाधिकरणम् इति विग्रहः ।

‘ज्ञानस्य’ इत्यत्र षष्ठ्या आधेयत्वमर्थः ।
प्रकृत्य्-अर्थस्य ज्ञानस्य षष्ठ्य्-अर्थाधेयतायां निष्ठत्व-सम्बन्धेनान्वयः ।
तथा च ज्ञान-निष्ठाधेयता ।

अधिकरणं नाम अधिकरणतावान् ।
षष्ठ्य्-अर्थाधेयताया अधिकरणतावान्
इत्यत्रैकदेशे ऽधिकरणतायां निरूपितत्व-सम्बन्धेनान्वयः ।
तथा च -
ज्ञान-निष्ठाधेयता-निरूपिता-धिकरणताश्रयः (अधिकरणतावदभिन्नः) आत्मा ।

अथवा षष्ठ्या निरूपितत्वम् अर्थः ।
निरूपितत्वस्य चाश्रयता-सम्बन्धेनाधिकरणतायाम् अन्वयः ।
तथा च
ज्ञान-निरूपिताधिकरणता(श्रयः)वद्-अभिन्न आत्मेति बोधः ।

लक्षणं तु -
ज्ञान-निष्ठाधेयता-निरूपिताधिकरणत्वम् ।
लक्षण-समन्वयः -
ज्ञान-निष्ठाधेयता केति चेत् -
‘अहं जानामि’ ‘ज्ञानवान् अहम्’ इति प्रतीतिसिद्धाधेयता ।
तादृशाधेयता-निरूपिताधिकरणत्वम्
अहम्-पदार्थे आत्मनि वर्तत
इति लक्षणसमन्वयः ॥

नन्व्

एवं सत्य् अपि लक्षणस्यास्य
कालादाव् अतिव्याप्तिर् दुष्परिहरा ।
ज्ञान-निष्ठाधेयता केति चेत्
‘इदानीं घट-ज्ञानवान् अहम्’ इति प्रतीतिसिद्धाधेयता ।
तादृशाधेयतानिरूपिताधिकरणत्वं कालेऽपि
कालस्य सर्वाधारत्वात् इति
तत्राऽतिव्याप्तिर्

इति चेत्, न ।
ज्ञान-निष्ठाधेयतायां समवाय-सम्बन्धावच्छिन्नत्वस्य [[68]] विशेषणात् ।
तथा च लक्षणम्
‘समवाय-सम्वन्धावच्छिन्न–ज्ञान-निष्ठाधेयता-निरूपिताधिकरणत्वम्’ ।
तथा च नातिव्याप्तिः ।
तथा हि यद्य् अपि ज्ञान-निष्ठाधेयता-निरूपिताधिकरणत्वं काले वर्तते,
किन्तु तत्र ज्ञान-निष्ठाधेयता कालिक-सम्बन्धावच्छिन्ना,
न तु समवाय-सम्बन्धावच्छिन्ना ।
“कुतः ?” इति चेत्, गुण-गुणिनोः समवायात्,
ज्ञानस्यात्मगुणत्वात् ।
ज्ञानं न कालस्य गुणः ।

अतः समवाय-सम्बन्धावच्छिन्न-ज्ञान-निष्ठाधेयता केति चेत् ?
‘ज्ञानवानहम्’ इति प्रतीतिसिद्धा आधेयता ।
तादृशाधेयता-निरूपिताधिकरणत्वम् आत्मन्य् एव वर्तते,
न तु कालादाविति नातिव्याप्तिः ॥

नन्व्

एवं सत्य् अप्य् अस्य लक्षणस्य
पुनर् घट-रूप-पृथिव्याम् अतिव्याप्तिर् दुर्वारा ।
तथाहि - ज्ञानं कश्चन गुणः ।
तथा च ज्ञान-निष्ठाधेयता गुणत्वावच्छिन्ना ऽपि भवति ।
गुणत्वावच्छिन्न-ज्ञान-निष्ठाधेयता केति चेत् ?
‘गुणवान्’ इति प्रतीति-सिद्धा
चतुर्-विंशति-गुण-साधारणी एकैवाखण्डाधेयता ।
सा समवाय-सम्बन्धावच्छिन्नापि ।
अतः समवाय सम्बन्धावच्छिन्न-गुणत्वावच्छिन्न-ज्ञान-निष्ठाधेयता
यथा ज्ञाने वर्तते
तद्वत् गन्धादाव् अपि वर्तते ।
तादृशाधेयता-निरूपिताधिकरणत्वं घट-रूप-पृथिव्याम् अपि वर्तत
इति पृथिव्यादाव् अतिव्याप्तिर्

इति चेत् न ।
ज्ञाननिष्ठाधेयतायां ज्ञानत्वावच्छिन्नत्वस्य निवेशनात् ।
तथा च लक्षणम् -
‘समवाय-सम्बन्धावच्छिन्न-
ज्ञानत्वावच्छिन्न-
ज्ञान-निष्ठाधेयता-निरूपिताधिकरणत्वम्’ ।
एवञ्च नातिव्याप्तिः ।

तथाहि -
समवायसम्बन्धावच्छिन्न-ज्ञानत्वावच्छिन्न-ज्ञान-निष्ठाधेयता केति चेत् ?
तत्राधेयता-द्वयं वर्तते -

  • एका चतुर्विंशति-गुण-साधारणी ‘गुणवान्’ इति प्रतीतिसिद्धा गुणत्वावच्छिन्ना ज्ञान-निष्ठाधेयता ।
  • एवं ज्ञानत्वावच्छिन्ना ‘ज्ञानवान्’ इति प्रतीतिसिद्धा ज्ञानमात्र-निष्ठाधेयतान्या ।

तत्र गुणत्वावच्छिन्न-ज्ञान-निष्ठाधेयतायाः स्वीकारे तु
‘गुणवान्’ इति प्रतीतिसिद्धाधेयता भवति ।

[[69]]

लक्षणेऽस्माभिस् तावत्
‘ज्ञानवान्’ इति प्रतीतिसिद्धा ज्ञान-निष्ठाधेयता ज्ञानत्वावच्छिन्ना निविष्टा,
न तु ‘गुणवान्’ इति प्रतीतिसिद्धाधेयता ।
तादृशाधेयतानिरूपिताधिकरणत्वं त्वात्मन्य् एव वर्तते;
न तु घटादि-रूप-पृथिव्याम् इति तत्र नातिव्याप्तिः ॥

नन्व्

एवं सत्य् अप्य् अस्य लक्षणस्य
सुषुप्ति-कालावच्छेदेनात्मन्य् अव्याप्तिर् दुष्परिहरा ।
तथाहि – आत्मनो नित्यत्वाङ्गीकारेऽपि
ज्ञानस्यानित्यत्वात् सुषुप्तौ ज्ञाननाशात्,
समवाय-सम्बन्धावच्छिन्न–ज्ञानत्वावच्छिन्न–
ज्ञान-निष्ठाधेयता-निरूपिताधिकरणत्वं
सुषुप्तिकालिकात्मनि नास्तीत्य् अव्याप्तिर्

इति चेत् - न ।
जाति-घटित-लक्षण-परिष्कारात् ।
तथा च लक्षणम्-
‘समवाय-सम्वन्धावच्छिन्न–
ज्ञानत्वावच्छिन्न–
ज्ञान-निष्ठाधेयता-निरूपिताधिकरणतावद्-वृत्ति-जातिमत्त्वम्’ ।
एवञ्च नातिव्याप्तिः ।
तथाहि
समवाय-सम्बन्धावच्छिन्न-ज्ञानत्वावच्छिन्न-
ज्ञान-निष्ठाधेयता-निरूपिताधिकरणतावान्,
यत्रास्माकं ज्ञानम् उपलभ्यते
तादृश-जाग्रदवस्थाविशिष्टात्मा स्वीकार्यः ।
तद्-वृत्तिर् या जातिर् इति चेत्, आत्मत्व-जातिः।
तादृश-जातिमत्त्वं सुषुप्तिकालावच्छेदेनात्मन्य् अपि वर्तत
इति लक्षण-समन्वयात् नाव्याप्तिः ॥

नन्व्

एवं सत्य् अप्य् अस्य लक्षणस्य पुनः
पृथिव्यादाव् अतिव्याप्तिर् दुष्परिहरा ।
तथाहि–
समवाय-सम्बन्धावच्छिन्न–
ज्ञानत्वावच्छिन्न-
ज्ञान-निष्ठाधेयता-निरूपिताधिकरणतावान् आत्मा ।
तद्वृत्तिर्या जातिर् इति चेत् ?
आत्मत्वजातिर् यथा,
तद्-वत् द्रव्यत्व-जातिर् अपि भवति ।
तादृशजातिमत्त्वं पृथिव्यादावपि वर्तत
इत्य् अतिव्याप्तिर्

इति चेत् न ।
जातौ द्रव्यत्व-व्याप्यत्वस्य विशेषणात् ।
तथा च लक्षणम् -
‘समवाय-सम्बन्धावच्छिन्न-ज्ञानत्वावच्छिन्न-
ज्ञान-निष्ठाधेयता-निरूपिताधिकरणता-वद्-वृत्ति-
द्रव्यत्व-व्याप्य-जातिमत्वम्’ ।

एवञ् च नातिव्याप्तिः । तथाहि -
समवाय-सम्बन्धावच्छिन्न–ज्ञानत्वावच्छिन्न–
ज्ञान-निष्ठाधेयता-निरूपिताधिकरणतावान् आत्मा ।
तद्-वृत्तिर् या द्रव्यत्व-व्याप्या जातिर् इति चेत् ?
आत्मत्व-जातिर् एव भवति, न तु द्रव्यत्व-जातिः ।
स्वस्य स्वव्याप्यत्वाभावात् ।
एवं सत्ताऽपि तद्व्याप्य-जातिर् न भवति,
तस्या द्रव्यत्व-व्यापकत्वात् ।
अतस् तादृश-द्रव्यत्व-व्याप्या जातिः केति चेत् ? आत्मत्व-जातिर् एव भवति ।
तादृश-जातिमत्त्वम् आत्मन्य् एव वर्तत
इति पृथिव्यादौ नातिव्याप्तिः ॥

विश्वास-प्रस्तुतिः

सः द्विविधः परमात्मा जीवात्मा च ।

Eng A

It is of two kinds - Individual Soul and Supreme Soul

मूलम्

सः द्विविधः परमात्मा जीवात्मा च ।

दीपिका

आत्मानं विभजते स द्विविध इति

वरदाचार्यः

आत्मपदस्य परमात्मन्य् अपि प्रयोगात्,
तत्पदं जीव-परमात्म-साधारणम्।
अत आत्मा द्विविधः - जीवात्मा परमात्मा चेति ।

VN Jha

The Self is of two categories: the living beings, and God.

VN Jha - Comment

Ātman is soul or Self.
Atman is also God.
Atman is a substance no doubt, but it is not of the nature of either earth, or water, or fire, or sky, or time or space or mind.
It is a spiritual substance.

It is the locus of our inner world namely, cognition, knowledge, happiness, unhappiness, desire, aversion, volition, merit, demerit and impressions.
Atman is the material cause of these qualities.
These qualities are produced only in the atman.
These are the members of our inner world.

Atman is not conscious by nature.
But ātman alone is capable of becoming conscious.
Conscious is one who has consciousness.
Consciousness is the property of the conscious.
Cetana is not consciousness.
If ātman is said to be cetana, it can only be called locus of caitanya.
Consciousness, therefore, is the property of the atman which makes the ātman conscious.
This consciousness, therefore, is the cognition or knowledge or desire or volition in terms of which the atman is called cetana.

Consciousness is the guna of the soul which is a substance.

God, however, is always cetana because His knowledge, desire and volition are eternal.

An individual Self is cetana only after jñāna or iccha or prayatna is produced in him.
His knowledge or desire or volition is a product because it is acquired and hence non-eternal.

Atman alone is capable of becoming cetana.
In jīvātman, jñāna is said to be agantuka i.e. a kārya or a product.

[[31]]

The jīvātman acquires knowledge through the instrument of mind and an instrument cannot be equated with the agent who uses it and therefore, ātman is not even ‘mind’.

Atman is a distinct spiritual substance.
God alone is always cetana, because He possesses eternal knowledge.