विश्वास-प्रस्तुतिः
रूपरहितः स्पर्शवान्वायुः ।
Eng A
That substance which is devoid of colour and possesses extraordinary quality of touch/स्पर्श is called Air/वायु
मूलम्
रूपरहितः स्पर्शवान्वायुः ।
दीपिका
वायुं लक्षयति रूपरहितेति। आकाशादावतिव्याप्तिवारणाय स्पर्शवानिति। पृथिव्यादावतिव्याप्तिवारणाय रूपरहितेति।
विश्वास-प्रस्तुतिः
स द्विविधः नित्योऽनित्यश्च ।
Eng A
It is of 2 kinds : Eternal and Non - eternal
मूलम्
स द्विविधः नित्योऽनित्यश्च ।
विश्वास-प्रस्तुतिः
नित्यः परमाणुरूपः ।
Eng A
Eternal is in the form of Atoms
मूलम्
नित्यः परमाणुरूपः ।
विश्वास-प्रस्तुतिः
अनित्यः कार्यरूपः ।
Eng A
When a product is produced by those atoms, then it is said to be non eternal
मूलम्
अनित्यः कार्यरूपः ।
विश्वास-प्रस्तुतिः
पुनस्त्रिविधः शरीरेन्द्रियविषयभेदात् ।
Eng A
Again, air is of 3 kinds, through these differences ; body, organ of sense, and mass.
मूलम्
पुनस्त्रिविधः शरीरेन्द्रियविषयभेदात् ।
विश्वास-प्रस्तुतिः
शरीरं वायुलोके ।
Eng A
The body is found in the airy region / aerial world
मूलम्
शरीरं वायुलोके ।
दीपिका
प्राणस्य कुत्रान्तर्भाव इत्यत आह शरीरेति। स च इति। एक एव प्राणः स्थानभेदात्प्राणापानादिशब्दैः व्यवह्रियत इत्यर्थः। स्पर्शानुमेयो वायुः। तथा हि, योऽयं वायौ वाति सति अनुष्णाशीतस्पर्श उपलभ्यते स क्वचिदाश्रितः गुणत्वाद्रूपवत्। न जलतेजसी अनुष्णाशीतस्पर्शवत्वात्। न विभुचतुष्टयं सर्वत्रोपलब्धिप्रसङ्गात् न मनः परमाणुस्पर्शस्यातीन्द्रियत्वात्। तस्माद्यः प्रतीयमानस्पर्शाश्रयः स वायुः (एव)। ननु वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वात् घटवदिति चेत् न। उद्भूतरूपस्योपाधित्वात्। “यत्र द्रव्यत्वे सति बहिरिन्द्रियजन्यप्रत्यक्षत्वं, तत्र उद्भूतरूपवत्वम्” इति साध्यव्यापकत्वम्। पक्षे साधनाव्यापकत्वम्। न चैवं तप्तवारिस्थतेजसोऽपि अप्रत्यक्षत्वापत्तिः इष्टत्वात्। तस्माद्रूपरहितत्वाद्वायुरप्रत्यक्षः। इदानीं कार्यरूपपृथिव्यादिचतुष्टयस्योत्पत्तिविनाशक्रमः कथ्यते। ईश्वरस्य चिकीर्षावशात्परमाणुषु क्रिया जायते। ततः परमाणुद्वयसंयोगे द्व्यणुकमुत्पद्यते। त्रिभिरेव द्व्यणुकस्त्र्यणुकमुत्पद्यते। एवं चतुरणुकादिक्रमेण महती पृथिवी; महत्य आपः; महत्तेजः; महान्वायुरुत्पद्यते। एवमुत्पन्नस्य कार्यद्रव्यस्य सञ्जिहीर्षावशात् क्रियया परमाणुद्वयविभागे द्व्यणुकनाशः। इत्येवं पृथिव्यादिनाशः। असमवायिकारणनाशात् द्व्यणुकनाशः। समवायिकारणनाशात् त्र्यणुकनाश इति सम्प्रदायः सर्वत्रासमवायिकारणनाशात् द्रव्यनाश इति नवीनाः। किं परमाणुसद्भावे प्रमाणम्। उच्यते, जालसूर्यमरीचस्थं सर्वतः सूक्ष्मतमं यत् द्रव्यं उपलभ्यते तत्सावयवं चाक्षुषद्रव्यत्वात् घटवत्। त्र्यणुकावयवोऽपि सावयवः महदारम्भकत्वात्कपालवत्। यो द्व्यणुकावयवः स परमाणुः। स च नित्यः, तस्यापि कार्यत्वे अनवस्थाप्रसङ्गात्। सृष्टिप्रलयसद्भावे “धाता यथा पूर्वमकल्पयत्” इति श्रुतिरेव प्रमाणम्। “सर्वकार्यद्रव्यध्वंसोऽवान्तरप्रलयः। सर्वभावकार्यध्वंसो महाप्रलयः” इति विवेकः।
विश्वास-प्रस्तुतिः
इन्द्रियं स्पर्शग्राहकं त्वक्सर्वशरीरवर्ति ।
Eng A
The tactual sense organ is that which cognizes touch. It exists all over the body
मूलम्
इन्द्रियं स्पर्शग्राहकं त्वक्सर्वशरीरवर्ति ।
विश्वास-प्रस्तुतिः
विषयो वृक्षादिकम्पनहेतुः ॥ १२॥
Eng A
The gross objects of air are those which cause the movement of trees, leaves, etc.
मूलम्
विषयो वृक्षादिकम्पनहेतुः ॥ १२॥
प्राणः
विश्वास-प्रस्तुतिः
शरीरान्तःसंचारी वयुः प्राणः ।
Eng A
The other gross variety of air is the air which circulates within the body. It is called प्राण/vital air.
मूलम्
शरीरान्तःसंचारी वयुः प्राणः ।
विश्वास-प्रस्तुतिः
स च एकोऽप्युपाधिभेदात्प्राणापानादिसंज्ञां लभते ॥ १३॥
Eng A
The vital Air moving in the body is of 5 kinds
मूलम्
स च एकोऽप्युपाधिभेदात्प्राणापानादिसंज्ञां लभते ॥ १३॥