०३ तेजः

विश्वास-प्रस्तुतिः

उष्णस्पर्शवत्तेजः ।

Eng A

That of which the sensation of touch is warm, is called light

मूलम्

उष्णस्पर्शवत्तेजः ।

दीपिका

तेजसो लक्षणमाह उष्णस्पर्शवदिति। “उष्णं जलम्” इति प्रतीतेस्तेजः संयोगनुविधायित्वान्नातिव्याप्तिः।

विश्वास-प्रस्तुतिः

तच्च द्विविधं नित्यमनित्यं च ।

Eng A

It is of 2 kinds : Eternal and Non - eternal

मूलम्

तच्च द्विविधं नित्यमनित्यं च ।

विश्वास-प्रस्तुतिः

नित्यं परमाणुरूपम् ।

Eng A

Eternal is in the form of Atoms

मूलम्

नित्यं परमाणुरूपम् ।

विश्वास-प्रस्तुतिः

अनित्यं कार्यरूपम् ।

Eng A

When a product is produced by those atoms, then it is said to be non eternal

मूलम्

अनित्यं कार्यरूपम् ।

विश्वास-प्रस्तुतिः

पुनस्त्रिविधं शरीरेन्द्रियविषयभेदात् ।

Eng A

Again, light is of 3 kinds, through these differences ; body, organ of sense, and mass.

मूलम्

पुनस्त्रिविधं शरीरेन्द्रियविषयभेदात् ।

विश्वास-प्रस्तुतिः

शरीरमादित्यलोके प्रसिद्धम् ।

Eng A

The firy body exists in the world of the Sun / Solar Region

मूलम्

शरीरमादित्यलोके प्रसिद्धम् ।

विश्वास-प्रस्तुतिः

इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति ।

Eng A

The ocular sense organ is that which cognizes the colour. The ocular sense organ is located at the fore-part of pupil of the eye.

मूलम्

इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति ।

विश्वास-प्रस्तुतिः

विषयश्चतुर्विधः भौमदिव्यौदर्याकरजभेदात् ।

Eng A

The masses are of 4 kinds,through these differences—-residing in earth , residing in the sky , resident in the stomach , and produced in mines

मूलम्

विषयश्चतुर्विधः भौमदिव्यौदर्याकरजभेदात् ।

दीपिका

विषयं विभजते भौमेति। ननु “सुवर्णं पार्थिवं” पीतत्वाद्गुरुत्वात् हरिद्रावत् इति चेत् न। अत्यन्तानलसंयोगे सति घृतादौ द्र्वत्वनाशदर्शनेन, जलमध्यस्थघृतादौ तन्नाशादर्शनेन च असति प्रतिबन्धके पार्थिवद्रवत्वनाशाग्निसंयोगयोः कार्यकारणभावावधारणात्सुवर्णस्य अत्यन्तानलसंयोगे सत्यनुच्छिद्यमानद्रवत्वाधिकरणत्वेन पार्थिवत्वानुपपत्तेः पीतद्रव्यद्रवत्वनाशप्रतिबन्धकतया द्रवद्रव्यान्तरसिद्धौ नैमित्तिकद्रवत्वाधिकरणतया जलत्वानुपपत्तेः रूपवत्तया वाय्वादिष्वनन्तर्भावात्तेजसत्वसिद्धिः। तस्योष्णस्पर्शभास्वररूपयोरुपष्टम्भकपार्थिवरूपस्पर्शाभ्यां प्रतिबन्धादनुपलब्धिः। तस्मात् सुवर्णं तैजसमिति सिद्शम्।

विश्वास-प्रस्तुतिः

भौमं वह्न्यादिकम् ।

Eng A

“(Residing in Earth) Earthly fire is the ordinary fire on the earth”

मूलम्

भौमं वह्न्यादिकम् ।

विश्वास-प्रस्तुतिः

अबिन्धनं दिव्यं विद्युदादि ।

Eng A

“(Residing in Sky) Divine Fire/Lightning caused by watery portions in the sky”

मूलम्

अबिन्धनं दिव्यं विद्युदादि ।

विश्वास-प्रस्तुतिः

भुक्तस्य परिणामहेतुरौदर्यम् ।

Eng A

(Residing in stomach)Abdominal Fire/ It is the fire existing in the stomach which digests the food.

मूलम्

भुक्तस्य परिणामहेतुरौदर्यम् ।

विश्वास-प्रस्तुतिः

आकरजं सुवर्णादि ॥ ११॥

Eng A

Mineral Fire / The varieties of Fire that are generated in the mines are called आकरज. Ex: gold, etc.

मूलम्

आकरजं सुवर्णादि ॥ ११॥