०१ पृथिवी

विश्वास-प्रस्तुतिः

तत्र गन्धवती पृथिवी ।

Eng A

That which has odour as its extraordinary quality is called Earth

मूलम्

तत्र गन्धवती पृथिवी ।

दीपिका

तत्रोद्देशक्रमानुसारात् प्रथमं पृथिव्या लक्षणमाह तत्रेति। नाम्ना पदार्थसङ्कीर्तनमुद्देशः। उद्देशक्रमे च सर्वत्रेच्छैवं नियामिका। ननु सुरभ्यसुरभ्यवतवारब्धे द्रव्ये परस्परविरोधेन गन्धानुत्पादादव्याप्तिः। न च तत्र गब्धप्रतीत्यनुपपत्तिरिति वाच्यम्। अवयवदन्धस्यैव तत्र प्रतीतिसम्भवेन चित्रगन्धानङ्गीकारात् किं चोत्पन्नविनष्टघटादावव्याप्तिरिति चेत् न। गन्धसमानाधिकरणद्रव्यत्वापरजातिमत्त्वस्य विवक्षितत्वात्। ननु जलादावपि गन्धप्रतीतिरिति चेत् न। अन्वयव्यतिरेकाभ्यां पृथिवीगन्धस्यैव तत्र भानाङ्गीकारात्। ननु कालस्य सर्वाधारतया सर्वेषां लक्षणानां कालेऽतिव्याप्तिरिति चेत् न। सर्वाधारताप्रयोजकभिन्नसम्बन्धेन लक्षणत्वस्य विवक्षितत्वात्।

विश्वास-प्रस्तुतिः

सा द्विविधानित्याऽनित्या च ।

Eng A

It is of 2 kinds : Eternal and Non - eternal

मूलम्

सा द्विविधानित्याऽनित्या च ।

दीपिका

पृथिवीं विभजते सा द्विविधेति। नित्यत्वं ध्वंसाप्रतियोगित्वम्। अनित्यत्वं ध्वंसप्रतियोगित्वम्।

विश्वास-प्रस्तुतिः

नित्या परमाणुरूपा ।

Eng A

Eternal is in the form of Atoms

मूलम्

नित्या परमाणुरूपा ।

विश्वास-प्रस्तुतिः

अनित्या कार्यरूपा ।

Eng A

“In the shape of some product [which has arisen out of those atoms, then] it is [said to be] un-eternal”

मूलम्

अनित्या कार्यरूपा ।

विश्वास-प्रस्तुतिः

पुनस् त्रिविधा शरीरेन्द्रियविषयभेदात् ।

Eng A

Again, Earth is of 3 kinds, through these differences ; body, organ of sense, and mass.

मूलम्

पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात् ।

दीपिका

प्रकारान्तरेण विभजते पुनरिति। आत्मनो भोगायतनं शरीरम्। यदवच्छिन्नात्मनि भोगो जायते तद्भोगायतनम्। सुखदुःखसाक्षात्कारो भोगः। शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनः संयोगाश्रयत्वमिन्द्रियत्वम्। शरीरेन्द्रियभिन्नो विषयः। एवं च गन्धवच्छरीरं पार्थिवशरीरम्, गन्धवदिन्द्रियं पार्थिवेन्द्रियम्, गन्धवान् विषयः पार्थिवविषयः इति तत्तल्लक्षणं बोध्यम्।

विश्वास-प्रस्तुतिः

शरीरमस्मदादीनाम् ।

Eng A

The body is that of us men.

मूलम्

शरीरमस्मदादीनाम् ।

दीपिका

पार्थिवशरीरं दर्शयति शरीरमिति

विश्वास-प्रस्तुतिः

इन्द्रियं गन्द्धग्राहकं घ्राणम् ।

Eng A

Organ is the apprehender of odour/smell.

मूलम्

इन्द्रियं गन्द्धग्राहकं घ्राणम् ।

दीपिका

इन्द्रियं दर्शयति इन्द्रियमिति। गन्धग्राहकमिति प्रयोजनम्। घ्राणमिति संज्ञा। नासाग्रेत्याश्रयोक्तिः। एवमुत्तरत्र ज्ञेयम्।

विश्वास-प्रस्तुतिः

तच्च नासाग्रवर्ति ।

Eng A

It resides in the fore-part of the nose.

मूलम्

तच्च नासाग्रवर्ति ।

विश्वास-प्रस्तुतिः

विषयो मृत्पाषाणादिः ॥ ९॥

Eng A

The masses are clods, stones, etc

मूलम्

विषयो मृत्पाषाणादिः ॥ ९॥

दीपिका

पार्थिवविषयं दर्शयति मृत्पाषाणादीति