विश्वास-प्रस्तुतिः
द्रव्य-गुण-कर्म-सामान्य-विशेष-समवायाऽभावाः सप्तपदार्थाः ॥ १॥
Eng A
Substance, quality, action, genus, difference, coherence, and non-existence - these are the seven categories.
मूलम्
द्रव्यगुणकर्मसामान्यविशेषसमवायाऽभावाः सप्तपदार्थाः ॥ १॥
दीपिका
द्रव्यं (द्रव्याणि) विभजते तत्रेति। तत्र द्रव्यादिमध्ये। द्रव्याणि नवैवेत्यन्वयः। कानि तानि इत्यत आह पृथिवीति। ननु तमसो दशमद्रव्यस्य विद्यमानत्वात्कथं नवैव द्रव्याणीति? तथा हि, नीलं तमश्चलतीत्यबाधितप्रतीतिबलान्नीलरूपाधारतया क्रियाधारतया च तमसो द्रव्यत्वं तावत् सिद्धम्। तत्र तमसो नाकाशादिपञ्चकेऽन्तर्भावः, रूपवत्वात्। अत एव न वायौ, स्पर्शाभावात् सदागतिमत्वाभावाच्च। नापि तेजसि, भास्वररूपाभावात् उष्णस्पर्शाभावाच्च। नापि जले, शीतस्पर्शाभावात् नीलरूपवत्वाच्च। नापि पृथिव्यां, गन्धाभावात् स्पर्शरहितत्वाच्च। तस्मात्तमसो दशमद्रव्यमिति चेत्, न। तमसस्तेजोऽभावरूप्अत्वात्। तथा हि, तमो न रूपिद्रव्यमालोकासहकृतचक्षुर्ग्राह्यत्वादालोकाभाववत्। रूपिद्रव्यचाक्षुषप्रमायामालोकस्य कारणत्वात्। तस्मात् प्रौढप्रकाशकतेजस्सामान्याभावस्तमः, तत्र नीलं तमश्चलति इति प्रत्ययो भ्रमः। अतो नव द्रव्याणीति सिद्धम्। द्रव्यत्वजातिमत्वं गुणवत्वं वा द्रव्यसामान्यलक्षणम्। लक्ष्यैकदेशावृत्तित्वमव्याप्तिः। यथा गोः कपिलत्वम्। अलक्ष्ये लक्षणस्य वर्तनमतिव्याप्तिः। यथा गोः शृङ्गित्वम्। लक्ष्यमात्रावृत्तित्वमसम्भवः। यथा गौरेकशफत्वम्। एतद्दूषणत्रयरहितधर्मो लक्षणम्। स एवासाधारनधर्मः इत्युच्यते। लक्ष्यतावच्छेदकसमनियतत्वमसाधारणत्वम्। व्यावर्तकस्यैव लक्षणत्वे व्यावृत्तावभिधेयत्वादौ चातिव्याप्तिरतस्तद्वारणाय तद्भिन्नं धर्मविशेषणं देयम्। व्यवहारस्यापि लक्षणप्रयोजनत्वे तन्न देयम्। व्यावृत्तेरपि व्यवहारसाधनत्वात्। ननु गुणवत्वं न द्रव्यलक्षणम्, आद्यक्षणावच्छिन्नघटे उत्पन्नविनष्टघटे चाव्याप्तेरिति चेत्, न। गुणसमानाधिकरणसत्ताभिन्नजातिमत्त्वस्य विवक्षितत्वात्। नन्वेवमपि एकं रूपं रसात्पृथक् इति व्यवहाराद्रूपादावतिव्याप्तिरिति चेत्, न। एकार्थसमवायादेव तादृशव्यवहारोपपत्तौ गुणे गुणानङ्गीकारात्॥
विश्वास-प्रस्तुतिः
तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव ॥ २॥
Eng A
Among those (categories), substances are nine : Earth, Water, Light, Air, Ether, Time, Place, Soul and Mind.
मूलम्
तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव ॥ २॥
विश्वास-प्रस्तुतिः
रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभगपरत्वापरत्वगुरुत्वद्रवत्व-स्नेह-शब्द-बुद्धि-सुख-दुःखेच्छा-द्वेष-प्रयत्न-धर्माधर्म-संस्काराः चतुर्विंशतिर्गुणाः ॥ ३॥
Eng A
Colour, savour, odour, tangibility, number, dimension, severalty, conjunction, disjunction, priority, posteriority, weight, fluidity, viscidity, sound, understanding, pleasure, pain, desire, aversion, effort, merit, demerit and the self-reproductive - these are the 24 qualities.
मूलम्
रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभगपरत्वापरत्वगुरुत्वद्रवत्व-स्नेह-शब्द-बुद्धि-सुख-दुःखेच्छा-द्वेष-प्रयत्न-धर्माधर्म-संस्काराः चतुर्विंशतिर्गुणाः ॥ ३॥
दीपिका
गुणान्विभजते रूपेति। द्रव्यकर्मभिन्नत्वे सति सामान्यवान् गुणः। गुणत्वजातिमान्वा। ननु लघुत्वकठिनत्वमृदुत्वादीनां विद्यमानत्वात् कथं चतुर्विंशतिगुणा इति चेत्, न। लघुत्वस्य गुरुत्वाभावरूपत्वान्मृदुत्वकठिनत्वयोः अवयवसंयोगविशेषत्वात्।
विश्वास-प्रस्तुतिः
उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि ॥ ४॥
Eng A
Throwing upwards, throwing downwards, contraction, expansion and going - these are the five actions
मूलम्
उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि ॥ ४॥
दीपिका
कर्म विभजते उत्क्षेपणेति। संयोगभिन्नत्वे सति संयोगासमवायि-कारणं कर्म कर्मत्वजातिमद्वा। भ्रमणादीनाम् अपि गमने अन्तर्भावान्न पञ्चत्व-विरोधः।
विश्वास-प्रस्तुतिः
परमपरं चेति द्विविधं सामान्यम् ॥ ५॥
Eng A
Genus is of two kinds, higher and lower
मूलम्
परमपरं चेति द्विविधं सामान्यम् ॥ ५॥
दीपिका
सामान्यं विभजते परमिति। परमधिकदेशवृत्ति। अपरं न्यूनदेशवृत्ति। सामान्यादिचतुष्टये जातिर्नास्ति।
विश्वास-प्रस्तुतिः
नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव ॥ ६॥
Eng A
Differences, which reside in eternal substances, [such as mind, soul, time, place, earth, water, etc] are endless
मूलम्
नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव ॥ ६॥
दीपिका
विशेषं विभजत्ए नित्येति। पृथिव्यादिचतुष्टयपरमाणवः आकाशादिपञ्चकं च नित्यद्रव्याणि।
विश्वास-प्रस्तुतिः
समवायस्त्वेक एव ॥ ७॥
Eng A
Co-inherence is one only
मूलम्
समवायस्त्वेक एव ॥ ७॥
दीपिका
समवायस्य भेदो नास्तीत्याह समवायस्त्विति।
विश्वास-प्रस्तुतिः
अभावश्चतुर्विधः।
प्रागभावः प्रध्वंसाभावः अत्यन्ताभावः अन्योन्याभावश्चेति ॥ ८॥
Eng A
Non-existence is of four kinds : Antecedent non existence, destruction, absolute non-existence, and mutual non-existence
मूलम्
अभावश्चतुर्विधः।
प्रागभावः प्रध्वंसाभावः अत्यन्ताभावः अन्योन्याभावश्चेति ॥ ८॥
दीपिका
अभावं विभजते प्रागभावेति।