72 समापनम्

मूलम् - समापनम् - 72

कणादन्यायमतयोर्बालव्युत्पत्तिसिद्धये। अन्नंभट्टेन विदुषा रचितस्तर्कसंग्रहः॥ इति श्रीमहामहोपाध्याय अन्नंभट्टविरचिततर्कसंग्रहः समाप्तः॥

Tags - 72

समापनम्, कणादमतम्, अन्नंभट्टः, तर्कसंग्रहः

दीपिका - मोक्षसाधनम्

पदार्थतत्त्वज्ञानस्य मोक्षोपयोगित्वनिरूपणप्रारम्भः
पदार्थज्ञानस्य परमं प्रयोजनं मोक्षः। तथाहि-“आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः” इति श्रुत्या श्रवणादीनामात्मसाक्षात्कारहेतुत्वबोधनात्। श्रुत्या देहादिविलक्षणात्मज्ञाने सत्यपि असंभावनानिवृत्तेः युक्त्यनुसन्धानुरूपमननसाध्यत्वात्। मननोपयोगिपदार्थनिरूपणद्वारा शास्त्रस्यापि मोक्षोपयोगित्वम्। तदनन्तरं श्रुत्युपदिष्टयोगविधिना निदिध्यासने कृते तदनन्तरं देहादिविलक्षणात्मसाक्षात्कारे सति देहादावहमित्यभिमानरूपमिथ्याज्ञाननाशे सति दोषाभावात्प्रवृत्त्यभावे धर्माधर्मयोरभावे जन्माभावे पूर्वधर्माधर्मयोरनुभवेन नाशे चरमदुःखध्वंसलक्षणो मोक्षो जायते। ज्ञानमेव मोक्षसाधनं मिथ्याज्ञाननिवृत्तेः ज्ञानमात्रसाध्यत्वात्। “तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय" इति श्रुत्या साधनान्तरनिषेधाच्च। ननु “तत्प्राप्तिहेतुर्विज्ञानं कर्म चोक्तं महामुने" इति कर्मणोऽपि मोक्षसाधनत्वश्रवणात् ज्ञानकर्मणोः समुच्चय इति चेन्न।
“नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम्।
ज्ञानं च विमलीकुर्वन्नभ्यासेन च पाचयेत्।
अभ्यासाच्च क्वचिज्ज्ञानात् कैवल्यं लभते नरः।”
इत्यादिना कर्मणो ज्ञानसाधनत्वप्रतिपादनात्, ज्ञानद्वारैव कर्मणो मोक्षसाधनत्वम्, न साक्षात्। तस्मात् पदार्थतत्त्वज्ञानस्य मोक्षः परमप्रयोजनमिति सर्वं रमणीयम्।

इति महामहोपाध्यायान्नम्भट्टविरचिता तर्कसङ्ग्रहदीपिका समाप्ता।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - तर्कसङ्ग्रहव्युत्पत्तिः

काणादन्यायमतयोः बालव्युत्पत्तिसिद्धये।
अन्नम्भट्टेन विदुषा रचितस्तर्कसङ्ग्रहः।।

तमस्सादृश्यप्रभृतीनामतिरिक्तपदार्थानां सत्त्वेन कथं सप्तैव पदार्था इत्यत आह सर्वेषामिति। एतत्सर्वम् अस्मदीयपारिभाषिकपदार्थसङ्ग्रहे सर्वपदार्थानां क्लृप्तपदार्थेष्वन्तर्भावनिरूपणप्रस्तावे प्रपञ्चितम्।
कणादस्येदं काणादम्, कणादाभिमतं मतम्, न्यायमतम् गौतममुनिमतम्, काणादन्याये च ते मते चेति द्वन्द्वगर्भकर्मधारयः, (कर्मधारयसमासेन समस्यमानपदार्थयोरभेदसंसर्गलाभः) मतयोरित्यत्र षष्ठ्याः विषयतानिरूपकत्वमर्थः, बालानां व्युत्पत्तिरित्यत्र षष्ठ्याः समवेतत्वमर्थः, सिद्धय इत्यत्र चतुर्थ्याः प्रयोजकत्वमर्थः, (समानविभक्तिकनामार्थयोरभेदसम्बन्धेनान्वय इति नियमः) विदुषेत्यत्र तृतीयायाः समवेतत्वम्, रचयतेः कृतिः क्तप्रत्ययस्य भूतकालिकत्वं विषयतावांश्चार्थः, भूतकालिकत्वस्य कृतौ विषयतावतः तर्कसङ्ग्रहे चान्वयः। काणादन्यायाभिन्नमतद्वयविषयकबालसमवेतव्युत्पत्तिसिद्धिप्रयोजकान्नम्भट्टाभिन्नविद्वत्समवेतभूतकालिककृतिविषयाभिन्नस्तर्कसङ्ग्रहाख्यग्रन्थ इत्यन्वयबोधः।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - समापनम्

श्रीमत्‌त्रिलिङ्गदेशविराजमान-गुण्टूरूमण्डलान्तर्वर्ति-कृष्णातटिनीसमीपवर्ति-वेमूरुग्रामवास्तव्येन श्री न्यायवेदान्ततन्त्रसमुपलब्धनिरवधिकप्रज्ञाविशेषवेमूर्युपनामक श्री रामब्रह्मसुधीन्द्रगुरुवरपदपङ्कजसेवासमधिगतशास्त्रविज्ञानेन गुण्टूरुमण्डलान्तर्वर्ति-श्री तेनालिसंस्कृतकलाशालायां तर्कालङ्‌कारशास्त्राध्यापकेन कुरुगण्ट्युपनामक-श्रीरामशास्त्रिणा विरचिते श्रीमदन्नम्भट्टविरचित तर्कसङ्ग्रहव्याख्यानरूपे तर्कसङ्ग्रहसर्वस्वेऽयथार्थानुभवादिनिरूपणं समाप्तिमगमत्।।