मूलम् - सप्तपदार्थसिद्धिः - 71
सर्वेषां पदार्थानां यथायथमुक्तेष्वन्तर्भावात्सप्तैव पदार्था इति सिद्धम्॥ ७०॥
Tags - 71
सप्तपदार्थाः, पदार्थसंकलनम्, सिद्धिः
दीपिका - सप्तपदार्थसङ्ग्रहः
काणादन्यायमतयोर्बालव्युत्पत्तिसिद्धये।
अन्नम्भट्टेन विदुषा रचितस्तर्कसंग्रहः।।
दीपिका - षोडशपदार्थनिरूपणम्
ननु ‘प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभास-च्छलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः’ इति न्यायसूत्रे षोडशपदार्थानामुक्तत्वात्कथं सप्तैवेत्यत आह- सर्वेषामिति। सर्वेषां सप्तस्वेवान्तर्भाव इत्यर्थः। आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयमिति द्वादशविधं प्रमेयम्। प्रवृत्तिर्धर्माधर्मौ। रागद्वेषमोहा दोषाः। रागः इच्छा। द्वेषो मन्युः। मोहश्शरीरादावात्मभ्रमः। प्रेत्यभावो मरणम्। फलं भोगः। अपवर्गो मोक्षः। स च स्वसमानाधिकरणदुःखप्रागभावासमानकालीनदुःखध्वंसः। प्रयोजनं सुखप्राप्तिः दुःखहानिश्च। दृष्टान्तो महानसादिः। प्रामाणिकत्वेनाभ्युपगतोऽर्थः सिद्धान्तः। निर्णयो निश्चयः, स च प्रमाणफलम्। तत्त्वबुभुत्सोः कथा वादः। उभयसाधनवती विजिगीषुकथा जल्पः। स्वपक्षस्थापनाहीना वितण्डा। कथा नाम नानावक्तृकः पूर्वोत्तरपक्षप्रतिपादकवाक्यसंदर्भः। अभिप्रायान्तरेण प्रयुक्तस्यार्थान्तरं परिकल्प्य दूषणं छलम्। असदुत्तरं जातिः। साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणाहेत्वर्थापत्त्यविशेषोपपत्युपलब्ध्यनुपलब्धिनित्यानित्यकार्याकार्यसमा जातयः। वादिनोऽपजयहेतुर्निग्रहस्थानम्। तच्च प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासन्न्यासः हेत्वन्तरम् अर्थान्तरं निरर्थकम् अविज्ञातार्थकम् अपार्थकम् अप्राप्तकालं न्यूनम् अधिकं पुनरुक्तम् अननुभाषणम् अज्ञानम् अप्रतिभा विक्षेपः मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगः अपसिद्धान्तः हेत्वाभासाश्च निग्रहस्थानानि। शेषं सुगमम्।
दीपिका - शक्तिविचारः
अथ शक्त्यादिविचारप्रारम्भः
ननु करतलानलसंयोगे सत्यपि प्रतिबन्धके सति दाहानुत्पत्तेः शक्तिः पदार्थान्तरमिति चेन्न। प्रतिबन्धकाभावस्य कार्यमात्रे कारणत्वेन शक्तेरनुपयोगित्वात् कारणत्वस्यैव शक्तिपदार्थत्वमिति।
ननु भस्मादिना कांस्यादौ शुद्धिदर्शनात् आधेयशक्तिरङ्गीकार्येति चेन्न। भस्मादिसंयोगसमानकालीनास्पृश्यस्पर्शप्रतियोगिकयावदभावसहितभस्मादिसंयोगध्वंसस्य शुद्धिपदार्थत्वात्।
स्वत्वमपि न पदार्थान्तरम्। यथेष्टविनियोगयोग्यत्वस्य स्वत्वरूपत्वात्। तदवच्छेदकं च प्रतिग्रहादिलब्धत्वमेवेति।
दीपिका - विध्यर्थव्याख्या
अथ विधिवाद आरभ्यते
अथ विधिर्निरूप्यते- प्रयत्नजनकचिकीर्षाजनकज्ञानविषयो विधिः। तत्प्रतिपादको लिङादिर्वा। कृत्यसाध्ये प्रवृत्त्यदर्शनात् कृतिसाध्ये प्रवृत्तिदर्शनाच्च कृतिसाध्यताज्ञानं प्रवर्तकम्। न च विषभक्षणादौ प्रवृत्तिप्रसङ्गः। इष्टसाधनतालिङ्गककृतिसाध्यताज्ञानस्य काम्यस्थले, विहितकालशुचिजीवित्वनिमित्तज्ञानजन्यस्य नित्यनैमित्तिकस्थले प्रवर्तकत्वात्। न चाननुगमः। स्वविशेषणवत्ताप्रतिसंधानजन्यत्वस्यानुगतत्वादिति गुरवः। तन्न। लाघवेन कृतिसाध्येष्टसाधनताज्ञानस्यैव चिकीर्षाद्वारा प्रयत्नजनकत्वात्। न च नित्यनैमित्तिकस्थले इष्टसाधनत्वाभावादप्रवृत्तिप्रसङ्गः। तत्रापि प्रत्यवायपरिहारस्य पापक्षयस्य च फलत्वकल्पनात्। तस्मात् कृतिसाध्येष्टसाधनत्वमेव लिङर्थः।
ननु “ज्योतिष्टोमेन स्वर्गकामो यजेत" इत्यत्र लिङा स्वर्गसाधनमपूर्वं कार्यं प्रतीयते। यागस्याऽऽशुतरविनाशिनः कालान्तरभाविस्वर्गसाधनत्वायोगात्तद्योग्यं स्थायिकार्यमपूर्वमेव लिङर्थः। कार्यं कृतिसाध्यम्, कृतेः सविषयत्वात्, विषयाकांक्षायां यागो विषयत्वेनान्वेति। कस्य कार्यमिति नियोज्याकांक्षायां स्वर्गकामपदं नियोज्यपरतयाऽन्वेति। कार्यबोद्धा नियोज्यः। तेन ज्योतिष्टोमनामकयागविषयकं स्वर्गकामस्य कार्यमिति वाक्यार्थः संपद्यते। वैदिकलिङ्त्वात् “यावज्जीवमग्निहोत्रं जुहुयात्" इति नित्यवाक्येऽप्यपूर्वमेव वाच्यं कल्प्यते। “आरोग्यकामो भेषजपानं कुर्यात्" इत्यादिलौकिकलिङः क्रियाकार्ये लक्षणेति चेन्न। यागस्याप्ययोग्यतानिश्चयाभावेन इष्टसाधनतया प्रतीत्यनन्तरं तन्निर्वाहार्थमवान्तरव्यापारतयाऽपूर्वकल्पनात्। कीर्तनादिना नाशश्रुतेः न यागध्वंसो व्यापारः। लोकव्युत्पत्तिबलात् क्रियायामेव कृतिसाध्येष्टसाधनत्वं लिङा बोध्यत इति लिङ्त्वरूपेण विध्यर्थकत्वम्, आख्यातत्वेन प्रयत्नार्थकत्वम्। पचति पाकं करोतीति विवरणदर्शनात् किं करोतीति प्रश्ने पचतीत्युत्तराच्च आख्यातस्य प्रयत्नार्थकत्वनिश्चयात्। रथो गच्छतीत्यादावनुकूलव्यापारे लक्षणा। ‘देवदत्तः पचति तण्डुलम्’, ‘देवदत्तेन पच्यते तण्डुलः’ इत्यादौ कर्तृकर्मणोः नाख्यातार्थत्वम्। किंतु तद्गतैकत्वादीनामेव। तयोराक्षेपादेव लाभः। प्रजयतीत्यादौ धातोरेव प्रकर्षे शक्तिः। उपसर्गाणां द्योतकत्वमेव। न तत्र शक्तिरस्ति।
वरदाचार्य आलोके - पदार्थसङ्ग्रहः
तर्कसंग्रहः
सर्वेषामपि पदार्थानां यथायथम् उक्तेष्वेवान्तर्भावात् सप्तैव पदार्थाः इति सिद्धम्॥
काणादन्यायमतयोर्बालव्युत्पत्तिसिद्धये।
अन्नम्भट्टेन विदुषा रचितस्तर्कसंग्रहः॥
वरदाचार्य आलोके - पदार्थस्वरूपविश्लेषणम्
सर्वेषामित्यादि। अत्र ‘पदार्थानाम्’ इति कथनात् शक्तिसादृश्यादयो ग्राह्याः, न तु ‘प्रमाणप्रमेय’ इत्यादयः, तेषां पदार्थत्वाकथनात्। पदानि चतुर्विधानि, पदार्थाश्च चतुर्विधाः लोकसिद्धाः, इतरौ द्वौ विशेषसमवायौ शास्त्रसिद्धौ। अभावस्तु वाक्यस्यार्थः, न तु पदस्य। अभावस्य पदार्थत्वाभिमानेऽपि आहत्य सप्तैव पदार्थाः। अत एव महर्षि कणादेन सूत्रे ‘पदार्थानाम्’ इत्येव कथितम्। नैवं महर्षिगौतमेन प्रमाणप्रमेयेत्यादिसूत्रे पदार्थपदं प्रयुक्तम्। प्रमाणादीनि षोडश मुमुक्षुभिरवश्यं ज्ञेयानि तत्त्वानीत्येव भाष्ये व्याख्यातम्। अतश्शक्तिसादृश्यादय एवात्र ग्राह्याः। पदं किञ्चित्, पदार्थः कश्चिच्चेत्, स एष्वेवान्तर्भवतीत्यर्थः, अतिरिक्तपदस्य तदर्थस्य चाभावादित्यर्थः। अधिकमन्यत्र द्रष्टव्यम्।
एवं पदार्थतत्त्वज्ञानम्, पदार्थ साधर्म्य वैधर्म्य तत्त्वज्ञानं च शरीराद्यतिरिक्तात्मतत्त्वज्ञानप्रयोजकम्। एतद्विषयविमर्शनाय च प्रमाणादिषोडशतत्त्वज्ञानमप्यावश्यकम्। इदं च तत्त्वज्ञानं केवलग्रन्थपठनान्न कदापि संभवि। अत एव काणादसूत्रे ‘धर्मविशेषप्रसूतात्’ (वै.सू.१.१.४) इति साधर्म्यवैधर्म्यतत्त्वज्ञानस्य विशेषणमुक्तम्। एवं गौतमीयं सूत्रम् ‘समाधिविशेषाभ्यासात्’ (न्या. सू. ४-२-३८) इति। अस्य चावतरणभाष्यम् ‘अथ तत्त्वज्ञानं कथमुत्पद्यत इति’ इत्यादि। सूत्रद्वयेऽपि विशेषपदप्रयोगोऽप्यवधेयः। ‘अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः’ (न्या.सू.४-२-४२) ‘तदर्थं यमनियमाभ्यामात्मसंस्कारो योगाच्चाध्यात्मविध्युपायैः’ (न्या. सू. ४.२.४६) ‘ज्ञानग्रहणाभ्यासः तद्विद्यैश्च सह संवादः’ (न्या. सू. ४.२.४७) ‘तं शिष्यगुरुसब्रह्मचारिविशिष्ट श्रेयोऽर्थिरनसूयुभिरभ्युपेयात्’ (न्या.सू. ४. २.४८) इत्यादीनिसूत्राण्यप्यवधेयानि। आहत्य तु-
प्रतारितास्तु सर्वेऽपि प्रायः पण्डितमानिभिः।
ख्यातिलाभादिपूजादिपरैर्हन्त ! किमुच्यते ? ॥
आत्मापरोक्षज्ञानं क्व, क्व वा ग्रन्थात्परोक्षधीः।
उभयोरन्तरं ज्ञेयं मेरुसर्षपयोरिव॥
अतो भारो महानस्ति पण्डितानां विवेकिनाम्।
आत्मा श्रेयसि योक्तव्यो नार्थकामेषु जातुचित्॥
‘उद्धरेदात्मनात्मानं नात्मानमवसादयेत्।’
इत्येतद्वचनं नैव विस्मर्तव्यं कदाचन ॥
ननु भोः ! कोऽयमाग्रहः ? अज्ञानं वा ? प्रमाणादयः पदानामर्थास्तेऽपि पदार्था एव।
दीपिका पठिता नैव व्याख्यैतत्कर्तृका त्वया।
न केवलं सा पठिता, वहुधा शोधिता च सा॥
‘गतानुगतिको लोको न लोकः पारमार्थिकः।’
इति गाथालक्ष्यभूताः प्रायो हन्त ! धियाधिकाः॥
किं कुर्मो वयमत्र ! न हि हस्तामलकदर्शनार्थं काशी गन्तव्या। अधिकमप्रसक्तमत्र।
ग्रन्थमुपसंहरति- काणादेत्यादि। कणादमतं पदार्थनिरूपणप्रधानम्। अक्षपादप्रणीतं तु न्यायविस्तरपदवाच्यं प्रमाणप्रधानम्।
वरदाचार्य आलोके - शास्त्रभेदः
कणादगौतमप्रोक्तशास्त्रे भिन्नपथे मते।
समानतन्त्रे स्यातां तु न सांकर्यं परस्परम्॥
न्यायशास्त्रस्य प्रमाणशास्त्रत्वात्, अर्थापत्त्यादीनामनुमानादावेवान्तर्भावात्, इतरैः प्रमाणसंख्योल्लङ्घनादिकं शास्त्राणां साङ्कर्यरूपमेवेति चत्वार्येव प्रमाणानि। अत एव प्रमाणद्वयवादो वा प्रमाणत्रयवादो वा अक्षपादाभिप्रायाननुगुणः। वेदविरोधिभिः मध्यकालिकबौद्धैः, केवलतर्कपरायणैः स्वतन्त्रं तर्कशास्त्रं प्रणीतं प्रमाणसमुच्चयप्रमाणवार्तिकादिरूपम्। तद्दृष्टान्तेनैवानन्तरकाले वैदिकैरपि स्वस्वसिद्धान्तानुगुणास्तर्कशास्त्रग्रन्थाः शिष्यानुग्रहदृष्ट्यैव रचिता इति सुगमं सूक्ष्ममतीनाम्। न्यायशास्त्रं वेदोपाङ्गभूतं लोकायतपदवाच्यं प्रमाणशास्त्रं पर्याप्तं वैदिकानां विचारप्रियाणाम्।
पदार्थशास्त्रं काणादम्, प्रमाणशास्त्रं गौतमम्, इत्येव वस्तुस्थितिः। ‘पदार्थधर्मसंग्रहः प्रवक्ष्यते इत्येव च प्रशस्तपादीयं प्रशस्ततमं वचनम्। पदार्थानां सप्तत्वे च कारणमपि प्रदर्शितमेव। वर्तते तु प्रमाणप्रमेययोः परस्परापेक्षा। तावताऽन्योन्यचारितार्थ्यं वाऽन्तर्भावो वा न क्लेशेन कर्तव्यः।।
‘अङ्गानि वेदाश्चत्वारो मीमांसान्यायविस्तरः।
पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश॥ ’
एतानि विद्यास्थानानि धर्मस्यापि विदुर्बुधाः।
‘पुराणतर्कमीमांसाधर्मशास्त्राङ्गमिश्रिताः।
वेदा: स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ ’
अत्र तर्कपदेनैते शास्त्रे क्रोडीकृते, शृणु।
उपाङ्गभूतावेतौ हि मीमांसा न्यायविस्तरः।
वाक्यन्यायविचारो हि मीमांसा कथिता बुधैः॥
अर्थन्यायविचारात्मा कथितो न्यायविस्तरः।
मानाधीना मेयसिद्धिः मानं मेयावलम्बि च ॥
विषयौ मानमेये तु तर्कशास्त्रस्य सम्मतौ।
काणादं गौतमीयं च तर्कशास्त्रं समीरितम् ॥
सत्तर्कशास्त्रप्रविविक्षवो ये बाला महाकोमलबुद्धिमन्तः।
आलोकनाम्नी विवृतिर्मयैषा कृता हितायैव मुदेऽस्तु तेषाम् ॥
गोवर्धन-न्यायबोधिनी - न्यायसिद्धान्तः
ननु सादृश्यादीनामतिरिक्तपदार्थानां निरूपणेन न्यूनतेत्यत आह। सर्वेषामिति। “प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितणडाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्वज्ञानान्निःश्रेयसाधिगमः” इति न्यायस्यादिमसूत्र उक्तानां प्रमाणप्रमेयादीनाम् इत्यर्थः। तद्भिन्नत्वविशिष्टतद्गतभूयोधर्मरूपसादृश्यस्यापि घटपटादिरूपत्वेन नातिरिक्तत्वमेवमन्येषामप्यूह्यम्। विस्तरस्त्वन्यत्रानुसन्धेयः। काणादेति। कणादस्येदं काणादं काणादन्यायमते इति द्वन्द्वगर्भकर्मधारयः। कणादप्रोक्तगौतमप्रोक्तमतयोरिति यावत्। काणादन्यायाभिन्नमतद्वयविषयकबालसमवेताऽभिन्नव्युत्पत्तिसिद्धप्रयोजकान्नंभट्टाभिन्नविद्वन्निष्ठभूतकालीनकृतिविषयाभिन्नस्तर्कसंग्रहाख्यग्रन्थ इत्यन्वयबोधः॥
कृष्णावलम्बिनो गाः पुषो गोवर्धनस्तमभ्यर्चन्।
विपुलाभीरसभाजनजनितविबुधेन्द्रस्तवाभिरचनाभिः॥
इति तर्कसंग्रहव्याख्या न्यायबोधिन्याख्या संपूर्णा॥