70 अभावः

मूलम् - अभावः - 70

अनादिः सान्तः प्रागभावः। उत्पत्तेः पूर्वं कार्यस्य। सादिरनन्तः प्रध्वंसः। उत्पत्यनन्तरं कार्यस्य। त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः। यथा भूतले घटो नास्तीति। तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकोऽन्योन्याभावः। यथा घटः पटो नेति॥ ६९॥

Tags - 70

अभावः, प्रागभावः, प्रध्वंसः, अत्यन्ताभावः, अन्योन्याभावः

दीपिका - अभावः

अभावश्चतुर्विधः। प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावोऽन्योन्याभावश्चेति।
अभावं विभजते - प्रागभावेति।

दीपिका - अभावविचारः

प्रागभावं लक्षयति-अनादिरिति। आकाशादावतिव्याप्तिवारणाय सान्त इति। घटादावतिव्याप्तिवारणायानादिरिति। प्रतियोगिजनकः प्रतियोगिसमवायिकारणवृत्तिः भविष्यतीति व्यवहारहेतुः प्रागभावः। ध्वंसं लक्षयति- सादिरिति। घटादावतिव्याप्तिवारणायानन्त इति। आकाशादावतिव्याप्तिवारणाय सादिरिति। प्रतियोगिजन्यः प्रतियोगिसमवायिकारणवृत्तिः ध्वस्त इति व्यवहारहेतुः ध्वंसः। अत्यन्ताभावं लक्षयति- त्रैकालिकेति। अन्योन्याभावेऽतिव्याप्तिवारणाय संसर्गेति। ध्वंसप्रागभावयोरतिव्याप्तिवारणाय त्रैकालिकेति। अन्योन्याभावं लक्षयति- तादात्म्येति। प्रतियोगितावच्छेदकाऽऽरोप्यसंसर्गभेदात् एकप्रतियोगिकयोरत्यन्ताऽन्योन्याभावयोः भिन्नत्वम्। केवलदेवदत्ताभावात् दण्ड्यभावप्रतीत्या विशिष्टाभावः, एकसत्त्वेऽपि द्वौ न स्तः इति प्रतीत्या द्वित्वावच्छिन्नाभावः, संयोगेन घटवति समवायेन घटाभावः, तत्तद्घटाभावाद्घटत्वावच्छिन्नप्रतियोगिताकसामान्याभावश्चातिरिक्तः। एवमन्योन्याभावोऽपि। घटत्वेन पटो नास्तीति प्रतीत्या व्यधिकरणधर्मावच्छिन्नाभावो नाङ्गीक्रियते। पटे घटत्वं नास्तीति तदर्थः। अतिरिक्तत्वे केवलान्वयी। सामयिकाभावोऽपि अत्यन्ताभाव एव समयविशेषे प्रतीयमानः। घटाभाववति घटानयनेऽत्यन्ताभावस्यान्यत्र गमनाभावेऽपि तदप्रतीतेः, घटापसरणे सति प्रतीतेः, भूतलघटसंयोगप्रागभावध्वंसयोः घटात्यन्ताभावप्रतीतिनियामकत्वं कल्प्यते। घटवति तत्संयोगप्रागभावध्वंसयोरसत्त्वादेवात्यन्ताभावस्याप्रतीतिः। घटापसरणे तु संयोगध्वंसस्य सत्त्वात्प्रतीतिरिति। केवलाधिकरणेनैव नास्तीति व्यवहारोपपत्तौ अभावो न पदार्थान्तरमिति गुरवः। तन्न। अभावानङ्गीकारे कैवल्यस्य निर्वक्तुमशक्यत्वात्। अभावाभावो भाव एव, नातिरिक्तः, अनवस्थाप्रसङ्गात्। ध्वंसप्रागभावः प्रागभावध्वंसश्च प्रतियोग्येव इति प्राञ्चः। अभावाभावोऽतिरिक्त एव। तृतीयाभावस्य प्रथमाभावस्वरूपत्वान्नानवस्थेति नवीनाः।

वरदाचार्य आलोके - अभावः

तर्कसंग्रहः
अनादिः सान्तः प्रागभावः। उत्पत्तेः पूर्वं कार्यस्य। सादिरनन्तः प्रध्वंसाभावः। उत्पत्तेरनन्तरं कार्यस्य। त्रैकालिकसंसर्गाभावोऽत्यन्ताभावः। यथा भूतले घटो नास्तीति। तादात्म्यावच्छिन्नप्रतियोगिताकोऽन्योन्याभावः। यथा घटः पटो न भवतीति।
आलोक- व्याख्या
‘अभावश्चतुर्विध:’ इति पूर्वमेव विभागस्योक्तत्वात् विभक्तानां लक्षणान्याह अनादिरित्यादि। यथा ‘अस्ति’ इति प्रतीत्या षड्विधो भावः सिद्धः, तथा ‘नास्ति’ इति प्रतीतिसिद्धोऽभावः। यथा ‘घटोऽस्ति’ इति व्यवहारः, तथा ‘घटो नास्ति’ इत्यपि व्यवहारस्सर्वसंमतः। अतोऽभावपदार्थोऽप्यावश्यकः। स चाभावश्चतुर्विधः, नञश्चतुर्धा प्रयोगात्। ‘घटः पटो न’ इत्येकः, ‘घटो नास्ति’ इत्यपरः। आद्योऽन्योन्याभावः, द्वितीयोऽत्यन्ताभावः। एतदन्तरा घटस्योत्पत्तेः पूर्वं ‘नास्ति घटः’ इति वदन्ति। एवं घटस्य नाशानन्तरम् ‘नास्ति घटः’ इति वदन्ति। आद्यव्यवहारे प्रागभावः, द्वितीयव्यवहारे ध्वंसश्च विषयः। आहत्याभावश्चतुर्विध आवश्यकः।
विभागक्रमेण लक्षयति - अनादित्वे सति सान्तत्वं = नश्वरत्वं प्रागभावस्य लक्षणम्। अनादित्वमात्रोक्तावाकाशादावतिव्याप्तिः। अतः सान्तत्वम्। सान्तत्वमात्रोक्तौ घटादावतिव्याप्तिः। अतोऽनादित्वम्। एतस्यानादित्वं सादित्वं च प्रदर्शयति - कार्यस्य घटादेरुत्पत्तेः पूर्वं विद्यमानः, घटोत्पत्तौ स्वयं नङ्क्ष्यन् ‘भविष्यति’ इति प्रतीतिसिद्धोऽभावः प्रागभाव इत्युच्यते। ‘प्राक् अभावः’ इति व्युत्पत्त्या प्रागभाव इति संज्ञा। ‘भविष्यति’ इति कथनेनैव ‘इदानीं नास्ति’ इत्यप्यर्थात्सिद्ध्यति। तत्र नञो विषयीभूतोऽभावः प्रागभावः।
सादित्वे सत्यनन्तत्वं प्रध्वंसाभावस्य लक्षणम्। सादित्वमात्रोक्तौ घटादावतिव्याप्तिः। अतोऽनन्तत्वम्, घटादेस्सान्तत्वात् नातिव्याप्तिः। अनन्तत्वमात्रोक्तौ आकाशादावतिव्याप्तिः। अतः सादित्वम्। एतत्प्रदर्शयति घटादेरुत्पत्तेरनन्तरं कदाचित् जायमानोऽभावः - ‘घटो ध्वस्तः = नष्टः ’ इति प्रतीतिसिद्धोऽभावः = प्रध्वंसाभावः। ‘ध्वस्तो घटः’ इति प्रतीत्या तदानीं नास्तित्वं प्रतीयते। तत्र नञो विषयोऽभावः प्रध्वंसाभावः। स तु सादित्वादुत्पद्यते।
वस्तुतस्तु भविष्यतीति प्रतीतिसिद्धोऽभावः प्रागभावः। ‘ध्वस्तः’ इति प्रतीतिसिद्धोऽभावः प्रध्वंसाभावः। उभयत्रापि ‘नास्ति’ इति प्रतीतिरनन्तरकालिकी आर्थिकी, न प्रागभावप्रध्वंसाभावविषयिणी। अत एवाभावो द्विविध एवेति केचित्। उभयत्रापि ‘नास्ति’ इति प्रतीतिर्न प्रामाणिकीत्येव प्राचां मतम्। अत एतावुभावभावौ तत्तत्समवायिकारणवर्तिनावित्युच्येते। अत एव ध्वंसप्रागभावाधिकरणे नात्यन्ताभाव इति प्राचीनाः। घटो भविष्यति’ ‘घटो ध्वस्त इति व्यवहारौ हि घटविशेषविषयौ। अतः प्रागभावप्रध्वंसाभावौ न सामान्यधर्मावच्छिन्नप्रतियोगिताकौ॥
त्रैकालिकेत्यादि। त्रैकालिकः = कालत्रयवर्ती यः संसर्गाभावः = तत्तत्संबन्धनिषेधरूपोऽभावः = अत्यन्ताभावः। ‘भूतले घटो नास्ति’ इत्युक्ते भूतले घटनिषेधो घटसंबन्धनिषेध एव न तु घटस्यैव निषेधः, अन्यत्र घटस्य सत्त्वात्। अत एव ‘शशशृङ्गं नास्ति’ इत्यादि व्यवहारो ‘घटो नास्तीति प्रतीतिवत् न प्रमाणिकः। प्रमेयदृष्ट्या घटनिषेधोऽन्यः, घटसंसर्गनिषेधोऽन्यः। उभयोः पर्यायता तु स्थूलदृष्ट्या। अतोऽत्यन्ताभावः सम्बन्धावच्छिन्नप्रतियोगिताकः। प्रागभावप्रध्वंसाभावौ तु न संसर्गावच्छिन्नप्रतियोगिताकौ, तयोस्संबन्धाभानात्। यद्यपि श्वो भविष्यतो घटस्य प्रागभावः, घटोत्पत्तेः पूर्वं श्वोऽपि स्थास्यति, अद्यापि वर्तते, ह्योऽप्यासीदिति त्रैकालिक इति कश्चिद्वदेत्, परन्तु अतीतत्ववर्तमानत्वादिकं नास्मद्दृष्ट्या ज्ञातव्यम्, किन्तु तत्तद्वस्तुदृष्ट्यैव। अन्यथा सर्वमपि त्रैकालिकम्, अत एवाव्यवस्थितं च स्यात्। तत्तद्वस्तुदृष्ट्या तत्तद्वस्तुनः कालः वर्तमान एव। अत्यन्ताभावव्यवहारस्य त्रैकालिकत्वात् स एव त्रैकालिकः = नित्यः। ‘घटो नास्ति’ इतिव्यवहारः खलु त्रैकालिकः।
नित्यत्वे सत्यभावत्वं चेदत्यन्ताभावस्य लक्षणम्, अन्योन्याभावेऽतिव्याप्तिः, घटपटयोर्भेदस्यान्योन्याभावरूपस्य नित्यत्वात्, न हि घटः पटो भवेत्, न वा पटो घटः कदाचित्। अन्तत आत्मनां हि परस्परं भेदो नित्यः। नापि नित्यत्वे सति संसर्गावच्छिन्नप्रतियोगिताकत्वम्, अन्योन्याभावस्यापि तादात्म्यसंबन्धवच्छिन्न-प्रतियोगिताकत्वात्। किन्तु तादात्म्यातिरिक्तसंबन्धावच्छिन्नप्रतियोगिताकत्वे सत्यभावत्वमत्यन्ताभावस्य लक्षणम्। अभावत्वमात्रोक्तावन्योन्याभावेऽतिव्याप्तिः, अत इतरदलम्। तादात्म्यातिरिक्तसंबन्धावच्छिन्नप्रतियोगिताकत्वमात्रोक्तौ घटादावतिव्याप्तिः। ‘भूतले घटः’ इत्यादौ हि घटभूतलयोर्वर्तमानस्य संयोगसंबन्धस्य प्रतियोगी घटः, अनुयोगि भूतलम्। एवञ्च भूतलानुयोगिकसंयोगप्रतियोगी घटः इत्यर्थो भवति। प्रतियोगिता घटे वर्तते। सा च संयोगस्य गुणत्वेन समवायसंबन्धावच्छिन्ना। अतस्तादात्म्यातिरिक्त- समवायसंबन्धावच्छिन्नप्रतियोगिताकत्वं घटेऽप्यस्तीत्यतिव्याप्तिः। अतोऽभावत्वम्। घटस्य भावत्वान्नातिव्याप्तिः।
तादात्म्येत्यादि। ‘घटः पटो न’ इत्युक्ते हि परस्परनिषेधः प्रतीयते। अत एवायमन्योन्याभाव इत्युच्यते। परस्परनिषेधः – परस्परभेदनिषेधः - परस्परतादात्म्यनिषेधः - परस्परतादात्म्यसंबन्धावच्छिन्नप्रतियोगिताकोऽन्योन्याभावः। तथा च तादात्म्यसंबन्धावच्छिन्नप्रतियोगिताकत्वे सत्यभावत्वमन्योन्याभावस्य लक्षणम्। अभावत्वमात्रोक्तावत्यन्ताभावेऽतिव्याप्तिः। अतस्तादात्म्यसंबन्धावच्छिन्नप्रतियोगिताकत्वम्। एतावन्मात्रोक्तौ ‘नीलो घटः’ इत्यादावभेदसंबन्धावच्छिन्नप्रकारताशालिबोधजननात्, प्रकारतायां विशेष्यतायां वा तादात्म्यसंबन्धावच्छिन्नप्रतियोगिताकत्वसत्त्वादतिव्याप्तिः। अतोऽभावत्वम्।
अभावाभावः प्रथमाभावप्रतियोगिरूपः, न त्वतिरिक्तः, अन्यथान- वस्थाप्रसङ्गात्। यथा घटाभावाभावो घटरूप एव ‘घटाभावो नास्ति’ इत्युक्ते हि ‘घटोऽस्ति’ इत्येवार्थः। भेदाभावस्तु भेदप्रतियोगितावच्छेदकरूपः। यथा घटभेदः पटे वर्तते। घटभेदाभावः घट एव, नान्यत्र, अतः स घटत्वरूपः। अभावाधिकरणकाभावप्रतियोगिकाभावः अधिकरणीभूताभावरूपः। यथा ‘घटाभावे पटाभावो नास्ति’ इत्युक्ते पटाभावाभावः घटाभाववृत्तिस्तत्स्वरूप एव, अन्यथाऽनवस्थाप्रसङ्गादित्याद्यन्यत्र द्रष्टव्यम्।

गोवर्धन-न्यायबोधिनी - अभावाः

अत्यन्ताभावं निरूपयति त्रैकालिकेति। प्रागभावाऽप्रतियोगित्वे सति ध्वंसाऽप्रतियोगित्वे सत्यन्योन्याभावभिन्नत्वे सत्यभावत्वमत्यन्ताभावस्य लक्षणम्। ध्वंसप्रागभावान्योन्याभावाकाशादीनां वारणाय यथाक्रमं विशेषणोपादानम्। वस्तुतस्तु संसर्गाभावत्वं तादात्म्यभिन्नसंबन्धावच्छिन्नप्रतियोगिताकाभावत्वम्। ध्वंसप्रागभावयोश्च न संसर्गावच्छिन्नप्रतियोगिताकत्वमिति तेनैव तद्वारणे त्रैकालिकेति स्वरूपाख्यानमेवेति बोध्यम्। अन्योन्याऽभावं निरूपयति तादात्म्येति। अभावत्रयवारणाय विशेषणम्। घटाभाववान्नेति प्रतीतिविषयघटादिवारणाय विशेष्यम्।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - अभावविभागः

अभावश्चतुर्विधः। प्रागभावः प्रध्वंसाभावः अत्यन्ताभावः अन्योन्याभावश्चेति।
अभावं विभजते प्रागभाव इति, अन्वयक्रमः पूर्ववदेव, प्रागभावत्वप्रध्वंसाभावत्वात्यन्ताभावत्वान्योन्याभावत्वरूपविभाजकधर्मचतुष्टयान्यतमवान् अभाव इति शाब्दबोधः।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - अभावलक्षणानि

अनादिः सान्तः प्रागभावः। उत्पत्तेः पूर्वं कार्यस्य। सादिरनन्तः प्रध्वंसाभावः। उत्पत्तेरनन्तरं कार्यस्य। त्रैकालिकसंसर्गाभावोऽत्यन्ताभावः। यथा भूतले घटो नास्तीति। तादात्म्यावच्छिन्नप्रतियोगिताकोऽन्योन्याभावः। यथा घटः पटो न भवतीति।
प्रागभावं लक्षयति अनादिरिति। प्रागभावाप्रतियोगित्वे सति ध्वंसप्रतियोगित्वं प्रागभावस्य लक्षणम्। प्रागभावस्योत्पत्त्यभावेन प्रागभावाप्रतियोगित्वम्। कार्योत्पत्त्यनन्तरं कार्यप्रागभावस्य नष्टत्वेन ध्वंसप्रतियोगित्वञ्चास्तीति लक्षणसमन्वयः। प्रागभावाप्रतियोगित्वमात्रोक्तौ गगनादौ ध्वंसप्रतियोगित्वमात्रोक्तौ घटादौ च अतिव्याप्तिरित्युभयोपादानम्।
टिप्पणी- ध्वंसप्रागभावलक्षणयोः। नन्वत्र ध्वंसलक्षणे ध्वंसत्वस्य प्रागभावलक्षणे प्रागभावत्वस्य च अनुप्रवेशेनात्माश्रयदोषप्रसङ्गः, ध्वंसलक्षणे प्रागभावत्वस्य प्रागभावलक्षणे ध्वंसत्वस्य च प्रवेशेनान्योन्याश्रयदोषप्रसङ्गश्चेति वाच्यम्, प्रतियोगिजनकाभावत्वम्, प्रागभावत्वम्, प्रतियोगिजन्याभावत्वम् ध्वंसत्वम् इति परिष्कारे दोषाभावात्।

प्रध्वंसाभावं लक्षयति सादिरिति। प्रागभावप्रतियोगित्वे सति ध्वंसाप्रतियोगित्वं प्रध्वंसाभावस्य लक्षणम्। घटादिध्वंसस्य शिलापातादिजन्यतया प्रागभावप्रतियोगित्वम्, कदाचिदपि ध्वंसस्य नाशासम्भवेन ध्वंसाप्रतियोगित्वञ्चास्तीति लक्षणसमन्वयः। प्रागभावप्रतियोगित्वमात्रोक्तौ घटादावतिव्याप्तिः ध्वंसाप्रतियोगित्वमात्रोक्तौ गगनादावतिव्याप्तिः अतः उभयोपादानम्।
अत्यन्ताभावं लक्षयति त्रैकालिकेति।। त्रैकालिकत्वञ्च नित्यत्वम्, तच्च ध्वंसाप्रतियोगित्वे सति प्रागभावाप्रतियोगित्वम्, संसर्गाभावत्वञ्च अन्योन्याभावभिन्नाभावत्वम्। तथा च, ध्वंसाप्रतियोगित्वे सति प्रागभावाप्रतियोगित्वे सति अन्योन्याभावभिन्नत्वे सति अभावत्वम् अत्यन्ताभावस्य लक्षणमिति फलितम्। प्रागभावध्वंसान्योन्याभावाकाशादिवारणाय क्रमेण दलचतुष्टयोपादानम्। केचन संसर्गाभावत्वम् तादात्म्यभिन्नसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वमिति वदन्ति। तन्मते ध्वंसप्रागभावयोः सम्बन्धावच्छिन्नप्रतियोगिताकत्वविरहेण अन्योन्याभावे च तादात्म्यभिन्नसम्बन्धावच्छिन्नप्रतियोगिताकत्वविरहेणैव च तत्र तत्र अतिव्याप्तिवारणसम्भवेन त्रैकालिकत्वस्य निवेशे प्रयोजनाभावेन तत्पदं स्वरूपाख्यानपरमेवेति बोध्यम्।
अन्योन्याभावं लक्षयति तादात्म्येति। तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकत्वे सति अभावत्वम् अन्योन्याभावस्य लक्षणम्। येन सम्बन्धेन यन्नास्तीत्युच्यते तन्निष्ठा प्रतियोगिता तत्सम्बन्धावच्छिन्ना इति न्यायेन घटे पटस्य तादात्म्यसम्बन्धेनाभावेन तत्र तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावस्य सत्त्वेन तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकत्वाभावत्वयोः तस्मिन्नभावे सत्त्वात् समन्वयः। अभावत्वमात्रोक्तावत्यन्ताभावादावतिव्याप्तिः, तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकत्वनिवेशे तु अत्यन्ताभावस्य तादात्म्यभिन्नसम्बन्धावच्छिन्नप्रतियोगिताकतया तत्र तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकत्वाभावात् नातिव्याप्तिः, ध्वंसप्रागभावयोस्तु सम्बन्धावच्छिन्नप्रतियोगिताकत्वविरहेण च नातिव्याप्तिः। तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकत्वमात्रोक्तौ घटाभाववान्नेति प्रतीतिविषयीभूते घटस्वरूपे घटाभाववद्भेदे तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकत्वस्य सत्त्वेन तत्रातिव्याप्तिः, अतोऽभावत्वनिवेशः। न च तादृशभेदेऽभावत्वमप्यस्तीत्यतिव्याप्तितादवस्थ्यमिति वाच्यम्, अभावत्वस्य भावभिन्नार्थकत्वेन निरुक्तभेदस्य घटात्मकभावरूपतया तत्र भावभिन्नत्वाभावेन अतिव्याप्त्यभावात्।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - अन्योन्याभावटीका

टिप्पणी- अन्योन्याभावलक्षणे। अत्राभावत्वस्य भावभिन्नत्वरूपत्वेन परिष्करणीयतया भेदलक्षणे भेदत्वस्य घटकत्वेनात्माश्रयदोषप्रसङ्गः इति वाच्यम्, अत्राभावत्वम् न भावभिन्नत्वरूपम् किन्तु भावत्वात्यन्ताभावरूपम्, अतो नोक्तदोषः। नचैवमपि भेदलक्षणे भावत्वात्यन्ताभावरूपात्यन्ताभावत्वस्य अत्यन्ताभावलक्षणेऽन्योन्याभावभिन्नत्वदलघटकभेदस्य च अनुप्रविष्टत्वेन प्रकारान्तरेणान्योन्याश्रयदोषप्रसङ्ग इति वाच्यम्, अत्यन्ताभावलक्षणघटकीभूतसंसर्गाभावपदेन तादात्म्यभिन्न(वृत्तिनियामक)(तादात्म्याभिन्नत्वोपलक्षित) सम्बन्धावच्छिन्नप्रतियोगिताकाभाव एव विवक्ष्यते न तु अन्योन्याभावभिन्नाभावः, अतो नोक्तदोषः। एवमेव अन्यत्रापि प्रसक्ता दोषा वारणीयाः।

सर्वेषामपि पदार्थानामुक्तेष्वेवान्तर्भावात् सप्तैव पदार्था इति सिद्धम्।।