69 समवायः

मूलम् - समवायः - 69

नित्यसम्बन्धः समवायः। अयुतसिद्धवृत्तिः। ययोर्द्वयोर्मध्ये एकमविनश्यदपराऽश्रितमेवावतिष्ठते तावयुतसिद्धौ। यथाऽवयवाऽवयविनौ क्रियाक्रियावन्तौ जातिव्यक्ती विशेषनित्यद्रव्ये चेति॥ ६८॥

Tags - 69

समवायः, नित्यसम्बन्धः, अयुतसिद्धवृत्तिः

दीपिका - समवायलक्षणम्

समवायं लक्षयति- नित्येति। संयोगादावतिव्याप्तिवारणाय नित्येति। आकाशादावतिव्याप्तिवारणाय संबन्ध इति। अयुतसिद्धलक्षणमाह- ययोरिति। नीलो घटः इति विशिष्टबुद्धिः विशेषणविशेष्यसंबन्धविषया विशिष्टबुद्धित्वात्, दण्डी पुरुषः इति विशिष्टबुद्धिवत् इति समवायसिद्धिः। अवयवाऽवयविनाविति। द्रव्यसमवायिकारणमवयवः। तज्जन्यं द्रव्यमवयवि।

वरदाचार्य आलोके - समवायः

तर्कसंग्रहः
नित्यसंबन्धः समवायः। अयुतसिद्धवृत्तिः। ययोर्द्वयोर्मध्य एकमविनश्यदवस्थमपराश्रितमेवावतिष्ठते तावयुतसिद्धौ। यथा अवयवावयविनौ, गुणगुणिनौ, क्रियाक्रियावन्तौ, जातिव्यक्ती, विशेषनित्यद्रव्ये चेति।
आलोक व्याख्या
नित्यत्वे सति संबन्धत्वं समवायस्य लक्षणम्। नित्यत्वमात्रोक्तावाकाशादावतिव्याप्तिः। अतस्संबन्धत्वम्। संबन्धत्वमात्रोक्तौ संयोगेऽतिव्याप्तिः। अतो नित्यत्वम्। अस्य संबन्धस्यावश्यकतां प्रदर्शयितुम् अयुतसिद्धवृत्तिरिति। ‘यु अमिश्रण’ इति धातुः। अमिश्रणं पृथग्भावः। युतं यथा तथा सिद्धौ इति वा, युतौ च तौ सिद्धौ चेति वायुतसिद्ध इति विग्रहः। न युतसिद्धौ अयुतसिद्धौ। कदापि पृथक्कर्तुं वा पृथक्ज्ञातुं वा यौ न शक्यौ, तावयुतसिद्धौ। पृथक्कर्तुमशक्यौ इति कथनेनैव तत्र द्वौ वर्तेते इति स्पष्टम्। एवं सति तयोस्संबन्धो वक्तव्यः। न चेद्विशिष्टबुद्धिर्न स्यात्। यथा गुणगुणिनौ। ’ रूपवान् घटः’ इति खलु व्यवहरति। एतादृशव्यवहारविषयो न केवलं रूपम्, न केवलं घटः, किन्तु मतुबर्थस्तयोस्संबन्धोऽपि। नो चेत् ‘रूपघटौ’ इत्येवोच्येत- यथा ‘घटपटौ’ इति। अतो मतुप्प्रत्ययवाच्यस्तयोः संबन्ध आवश्यकः। अतश्चेयं विशिष्टबुद्धिरित्युच्यते। अत एवानुमानम्- गुणक्रियादिविशिष्टबुद्धिः, विशेषणविशेष्यसंबन्धविषया, विशिष्टबुद्धित्वात्, ‘दण्डी’ इति विशिष्टबुद्धिवत् इति। दण्डं धरन् पुरुषो ‘दण्डी’ भवति। दण्डपुरुषयोस्संबन्धाभावे ‘दण्डी पुरुषः’ इति न स्यात्, किन्तु ‘दण्डपुरुषौ’ इति स्यात्। अतस्तत्र दण्डः, पुरुषः, तयोः संबन्ध इति त्रयं विषयः। एवमेव ‘गुणवान्’ ‘क्रियावान्’ इत्यादावपि। स एव संबन्धः समवाय इत्युच्यते। अवयवावयविभावरहितयोर्द्रव्ययोरेव संयोगः, तयोः पृथक्सिद्धत्वात्। गुणगुणिनौ त्वपृथक्सिद्धौ। अतो न तयोस्संयोगः, किन्तु विलक्षणः। अयं च संबन्धो लोकप्रसिद्ध्या चतुर्षु - अवयवावयविनोः, गुणगुणिनोः, क्रियाक्रियावतोः, जातिव्यक्त्योश्च। शास्त्रतस्तु विशेषनित्यद्रव्ययोः। आहत्य पञ्चसु स्थलेषु समवायस्संबन्धः। अयं च संबन्धः सत्तयैव विशिष्टबुद्धिजनकः, न तु ज्ञाततया। अत एव न प्रत्यक्षः, रूपघटयोर्मध्येऽतिरिक्तस्य कस्यापि पदार्थस्य चक्षुषादर्शनात्। अथाप्युक्तेनानुमानेन स सम्बन्धो ज्ञायते। एवमनुमानसिद्धत्वादेव ‘सिद्ध्यतो वस्तुनो नित्यत्वे एकत्वे च लाघवम्’ इति लाघवतर्कवशात् समवायो नित्य एकश्च, लाघवात्। अत एव समवायस्य प्रत्यक्षत्ववादोऽपि न युक्तः। अनुमानेन सिद्धावेव लाघवतर्कप्रसङ्गात्। न चास्तु समवायोऽनित्योऽनेकश्च का हानिरिति चेत्, न। उत्पत्तिविनाशादिकल्पनस्य, तस्य हेतुकल्पनादेरावश्यकत्वात्। तेषां प्रत्यक्षतोऽदर्शनात् कल्पनासंभवात्, नित्य एकश्च समवायः।
ननु समवायस्याप्रत्यक्षत्वे विशिष्टबुद्धिः कथं भवेदिति चेत्, सत्तया कार्यकारिण एव संबन्धत्वात्। ज्ञातश्चेत् प्रकारो वा भवेत्, विशेष्यो वा भवेदित्येव परमं तत्त्वम्। ननु तर्हि संयोगोऽप्यतीन्द्रियः स्यात्तर्हीति चेत्, अतीन्द्रियत्वं प्रति संबन्धत्वस्याप्रयोजकत्वात्। वस्तुन ऐन्द्रियकत्वं हि तत्कारणप्रयुक्तम्। विशिष्टबुद्धौ संबन्धः सत्तयैव कार्यकारीत्येव प्राचां निर्णयः। यथा ‘घटवद्भूतलम्’ इत्यादौ हि घटभूतलयोः पूर्वं प्रत्येकं दर्शनात्, अनन्तरमुभयोर्मेलने ‘घटभूतले’ इत्यनुभवाभावात्, अतिरिक्तः कश्चन पदार्थः विशिष्टबुद्धावावश्यक इति, अवयवावयविभावरहितयोः द्रव्ययोः समवायासंभवात् संयोगः सिद्ध्यतीत्यादिकं संयोगविभागप्रकरण एव गतम्। ‘घटसंयोगिभूतलम्’ इत्यादौ तु संयोगः प्रकार एव। संबन्धस्तु समवायः। संयोगस्तु वस्तुतो गुणः। स्वरूपसंबन्धस्तु नातिरिक्तः। समवाय एक एव संबन्धः शिष्यते।

गोवर्धन-न्यायबोधिनी - समवायलक्षणम्

समवायं निरूपयति नित्येति। सम्बन्धवत्त्वं विशिष्टप्रतीतिनियामकत्वम्। तावन्मात्रोक्तौ संयोगेऽतिव्याप्तिरतो नित्येति विशेषणम्। ययोर्द्वयोर्मध्य इति। यन्निष्ठकालनिरूपिताधेयतासामान्यं यदवच्छिन्नं तदुभयान्यतरत्वमयुतसिद्धत्वमित्यर्थः।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - समवायद्वैतीयत्वम्

समवायस्त्वेक एव।
समवायमाह- समवायेति, एकत्वविशिष्टाभिन्नस्समवाय इति बोधः। समवायगतैकत्वं न संख्यारूपम् द्रव्येतरवृत्तित्वात्, किन्तु यथाश्रुते स्वसजातीयधर्म्यन्तररहितत्वरूपं तत् ज्ञेयम्, समवायान्तरस्याभावेन स्वसजातीयधर्म्यन्तररहितत्वं सम्भवत्येव।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - समवायः

नित्यसम्बन्धः समवायः। अयुतसिद्धवृत्तिः। ययोर्मध्ये एकमविनश्यदवस्थमपराश्रितमेवावतिष्ठते तावयुतसिद्धौ। यथा, अवयवावयविनौ गुणगुणिनौ क्रियाक्रियावन्तौ जातिव्यक्ती विशेषनित्यद्रव्ये चेति।।
समवायं लक्षयति नित्येति। नित्यत्वे सति सम्बन्धत्वं समवायस्य लक्षणं बोध्यम्। नित्यत्वमात्रोक्तौ गगनादौ सम्बन्धत्वमात्रोक्तौ संयोगादौ च अतिव्याप्तिरिति उभयोपादानम्।।
अयुतसिद्धं लक्षयति ययोरिति। ययोः घटकपालयोः मध्ये एकं घटः अविनश्यदवस्थं विनश्यदवस्थामनापन्नं सत् अपराश्रितमेव कपालाश्रितमेव अवतिष्ठते तौ घटकपालौ अयुतसिद्धौ। एवम् अवयवि-गुण-क्रिया-जाति-विशेषाणां कदाचिदपि अवयवि-गुणि-क्रियावत्-व्यक्ति-नित्यद्रव्याणि विहाय पृथगवस्थितेरभावेन अवयवावयविनोः गुणगुणिनोः क्रियाक्रियावतोः जातिव्यक्त्योः विशेषनित्यद्रव्याणाञ्च अयुतसिद्धत्वमिति भावः। लक्षणन्तु यन्निष्ठकालनिरूपिताधेयतासामान्यं यदवच्छिन्नं तदुभयान्यतरत्वं बोध्यम्। घटाद्यवयविनः काले कपालाद्यवच्छेदेन वर्तन्ते। अतः यन्निष्ठकालनिरूपिताधेयतासामान्यं घटाद्यवयविनिष्ठकालनिरूपिताधेयतासामान्यं यदवच्छिन्नं कपालाद्यवयवावच्छिन्नं तदुभयान्यतरत्वम् अवयावावयविनोः वर्तते इति लक्षणसमन्वयः। एवमन्यत्रापि समन्वयः कार्यः।
ननु अत्राधेयतासामान्यमित्यत्र सामान्यपदं व्यर्थम्, प्रयोजनाभावात् इति चेन्न। इदानीं भूतले घटः इति प्रतीत्या घटनिष्ठकालनिरूपिताधेयतायाः भूतलावच्छिन्नतया तदुभयान्यतरत्वमादाय भूतलघटयोरपि अयुतसिद्धत्वप्रसङ्गात्। सामान्यपदनिवेशे तु घटनिष्ठकालनिरूपिताधेयतासामान्यान्तर्गतकपालावच्छिन्नवृत्तितायां भूतलावच्छिन्नत्वाभावेन नातिव्याप्तिः। नचैवमप्यसम्भवः, यत्पदग्राह्यघटनिष्ठाधेयतासामान्यान्तर्गतभूतलावच्छिन्नवृत्तितायां कपालावच्छिन्नत्वाभावात् इति वाच्यम्, इह भूतलकपालयोः घटः इति प्रतीत्यनुरोधेन भूतलावच्छिन्नकालनिरूपितवृत्तितायामपि कपालावच्छिन्नत्वस्य सम्भवेन असम्भवाभावात्।