68 विशेषाः

मूलम् - विशेषाः - 68

नित्यद्रव्यवृत्तयो व्यावर्तका विशेषाः॥ ६७॥

Tags - 68

विशेषः, नित्यद्रव्यवृत्तिः

दीपिका - नित्यविशेषाः

विशेषं लक्षयति- नित्येति।

वरदाचार्य आलोके - व्यावर्तकाः

*नित्यद्रव्यवृत्तयो व्यावर्तका विशेषाः।
व्यावर्तका इति। भेदानुमितिहेतव इत्यर्थः। गुणक्रियादीनां भेदो हि तत्तदाश्रयभेदाधीनः। घटपटादीनां परस्परं भेदस्तत्तज्जात्यैव सिद्ध्यति। एकजातीययोर्घटयोर्भेदः कथं भवति ? द्वयोर्भेदे कारणं किमित्यर्थः। घटयोरुभयोर्जातिभेदाभावात् कथं भेदः सिद्ध्यतीति प्रश्नः। कोऽयं प्रश्नः प्रत्यक्षसिद्धे विषय इति चेत् ? आशयानभिज्ञो भवान्। सिद्ध्यतीति न प्रमाणप्रश्नः। किन्तु एतद्घटः, तद्धटश्च कथं परस्परं भिन्नावभूताम् ? इति कारणप्रश्नः। प्रत्यक्षेण सिद्धे भेदे कः प्रश्न इति चेत् ? पुनराशयं न जानासि। भेदः प्रत्यक्षेण ज्ञायते, न तु प्रत्यक्षेण भेदस्तयोर्जातः। घटद्वये भेदः कथं जात इति प्रश्नः। भिन्नभिन्नकपालजन्यत्वात्तयोर्भेदोऽनिवार्यः, अतः कोऽयं महान् प्रश्न इति चेत्! आगतोऽसि समीचीनं मार्गम्। घटभेदः कपालभेदात्। कपालभेदः तदवयवभेदात्। एवं त्र्यणुकभेदस्तदवयवद्व्यणुकभेदात्। द्व्यणुकभेदः परमाणुभेदात्। परमाणुभेदः कुतोऽभूत् ? इति प्रश्ने किमुत्तरम् ? परमाणूनाम् अवयवाभावात्। अतः परमाणूनां परस्परं भेदस्तद्गतानिर्वचनीयविशेषाख्यपदार्थभेदादेव। अयमर्थः पूर्वमुक्तः। एवमेव नित्यानामात्मादीनामपि विशेषभेदादेव भेदः, अन्यस्य वक्तुमशक्यत्वात्। ‘एतत्परमाणुस्तत्परमाणुभिन्नः, एतद्विशेषात्’ इत्यनुमानस्याकारः।
ननु विशेषाणां परस्परं भेदः कथं सिद्ध इत्यत्र - व्यावृत्ता इति। स्वत एव व्यावृत्ता इत्यर्थः। अन्यथानवस्थाप्रसङ्गः। अतश्च स्वतोव्यावृत्तत्वमेव विशेषाणां लक्षणम्। भेदनिरूपणं कर्तुमेव विशेषाख्यं पदार्थमङ्गीकृतवन्त इत्येते काणादा वैशेषिका इत्युच्यन्ते। भेदनिरूपका भेदवादिन इत्यर्थः।
टिप्पणी
*ननु ‘नित्यद्रव्यवृत्तयः’ इत्यत्र द्रव्यपदं किमर्थं ? परमाणुवदेव नित्यगुणा अपि निरवयवाः किल! तर्हि नित्यानां परमाणुगतगुणानां कथं भेदसिद्धिरिति चेत्, विशेषवशात् परमाणूनां परस्परभेदसिद्धौ तत्तद्गतगुणानामाश्रयभेदादेव सिद्ध्यति। शुक्लनीलादिगुणा हि भिन्ना तथैव प्रत्यक्षसिद्धाः। भिन्नयोः शुक्लपटयोर्वर्तमानयोः शुकुरूपयोः तदाश्रयपटभेदादेव भेदः। निरवयवे द्रव्ये कारणाभावात् भेदः कथं सिद्धः ? इति प्रश्न इत्यतः विशेषाः नित्यद्रव्यवृत्तयः, न तु नित्यगुणादिवृत्तय इति ज्ञेयम्।

गोवर्धन-न्यायबोधिनी - विशेषः

नित्यद्रव्यवृत्तय इति। नित्यद्रव्येषु परमाण्वादिषु वर्तमानाः। अत एव व्यावर्तकाः इतरभेदानुमितिहेतवः। नित्यद्रव्यवृत्तित्वरूपपक्षधर्मताप्रयोज्येतरभेदानुमापकताशालिन इत्यर्थः। नित्यद्रव्यनिष्ठविशेष्यतानिरूपितैकमात्रवृत्तिभेदानुमितिजनकतावच्छेदकप्रकारताश्रयत्वं विशेषाणां लक्षणमिति भावः। पार्थिवपरमाणौ जलादिभेदानुमापकगन्धेऽतिव्याप्तिवारणाय एकमात्रवृत्तित्वं भेदविशेषणम्। घटादौ तदितरभेदानुमापके तद्रूपादावतिव्याप्तिवारणाय निरूपितान्तम् प्रकारताविशेषणम्। एतेन व्यावर्तका इत्यस्य नित्यद्रव्यविशेष्यकेतरभेदानुमितिप्रयोजका इत्यर्थकतया लक्षणपरत्वेन साफल्येऽपि नित्यद्रव्यवृत्तय इति विफलमेव स्वरूपाख्यानस्यापि कृतत्वादिति प्रत्युक्तम्।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - नित्यद्रव्यविशेषाः

नित्यद्रव्यवृत्तयो व्यावर्तका विशेषाः।।
विशेषान् लक्षयति नित्यद्रव्येति। नित्यद्रव्यनिरूपितवृत्तिताश्रयत्वे सति व्यावर्तकत्वं नित्यद्रव्यविशेष्यकेतरभेदप्रकारकानुमितिजनकत्वरूप यथाश्रुते विशेषलक्षणं बोध्यम्। पृथिव्यादिचतुष्टयपरमाणवः आकाशादिपञ्चकञ्च नित्यद्रव्याणि, तद्विशेष्यकेतरभेदप्रकारकानुमितिः अयं परमाणुः इतरभिन्नः इत्याकारकानुमितिः तज्जनकत्वं एतद्विशेषरूपहेतौ वर्तत इति समन्वयः। एतद्विचारस्तु दीपिकाव्याख्यानावसरे व्यक्तीकरिष्यते।