मूलम् - सामान्यम् - 67
नित्यमेकमनेकानुगतं सामान्यम्। द्रव्यगुणकर्मवृत्ति। तद्द्विविधं परापरभेदात्। परं सत्ता। अपरं द्रव्यत्वादि॥ ६६॥
Tags - 67
सामान्यः, द्विविधसामान्यः, सत्ता, द्रव्यत्वम्
दीपिका - सामान्यलक्षणम्
सामान्यं लक्षयति- नित्यमिति। संयोगादावतिव्याप्तिवारणाय नित्यमिति। जलपरमाणुगतरूपेऽतिव्याप्तिवारणाय एकेति। परमाणुपरिमाणादावतिव्याप्तिवारणायानेकेति। अनुगतत्वं समवेतत्वम्। तेन नाभावादावतिव्याप्तिः।
वरदाचार्य आलोके - साधर्म्यवैधर्म्यम्
साधर्म्यवैधर्म्ये
“धर्मविशेषप्रसूतात् द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानान्निःश्रेयसम्” इति महर्षिः कणादः। साधर्म्यज्ञानं भ्रमहेतुः। वैधर्म्यज्ञानं तन्निवृत्तिहेतुः। सर्वमिदं अन्ते आत्मस्वरूपस्य विविक्तस्य परिचये पर्यवस्यति। एतदभ्यासरूपमिदं साधर्म्यवैधर्म्यज्ञानमिति भावः। समानो धर्मः येषाम्, ते सधर्माणः। तेषां भावः साधर्म्यम्। साधारणो धर्म इत्यर्थः। एवं विरुद्धो धर्मो येषाम्, ते विधर्माणः। तेषां भावः वैधर्म्यम्, तत्रावर्तमानो धर्म इत्यर्थः। सप्तानामपि पदार्थानां ज्ञेयत्वम्, वाच्यत्वम्, पदार्थत्वमित्यादिकं साधर्म्यम्। ज्ञेयत्वं ज्ञानविषयत्वम्। एतच्च सर्वपदार्थसाधारणो धर्मः। येन केन प्रकारेण, यस्य कस्यचित् यदा कदाचित् ज्ञेयाः स्युरेव सर्वे पदार्थाः। अत एव ज्ञेयत्वं केवलान्वयि। एकदैव एकपुरुषीयज्ञानविषयत्वे सत्येव ज्ञानविषयत्वं स्यादिति न भ्रमितव्यम्। यदा कदाचित् यस्य कस्यचित् ज्ञानविषयताया अपि तथात्वात्। अथवा ईश्वरीयज्ञानविषयतामादायापि समन्वयात्। ईश्वरो हि सदा सर्वज्ञो वैदिकानाम्। तावता अस्मदीयज्ञानविषयताऽपि न वार्यते। ज्ञानपदं चात्र प्रमापरम्, गुणादिपदानां सद्गुणपरत्ववदौत्सर्गिकमिदम्। एवं वाच्यत्वमपि केवलान्वयि। एवं पदार्थत्वादिकमपि। वाच्यत्वम् अभिधेयत्वं च समानम्।
द्रव्यादीनां षण्णां भावत्वं साधर्म्यम्। तच्च अभावविलक्षणत्वम् - अस्तीति प्रतीति विषयत्वम्। अभावो हि नास्तीतिप्रतीतिविषयः। समवाय - एकार्थसमवायान्यतरसंबन्धेन सत्तावत्त्वमिति केचित्। एकस्मिन् वस्तुनि उभयोरपि समवायेन सत्त्वमेव एकार्थसमवायः। द्रव्यगुणकर्मसु हि समवायसंबन्धेन सत्ताजातिः वर्तते, तत्रैव च समवायसंबन्धेन सामान्यं, विशेषः, समवायोऽपि वर्तते। यद्यपि समवायस्य स्वरूपं सम्बन्धः, अथापि समवायस्य स्वरूपं समवाय एव। अतो नानुपपत्तिः।।
द्रव्यादीनां पञ्चानाम् अनेकत्वं समवायित्वं च साधर्म्यम्। षष्ठः पदार्थस्समवायस्त्वेक एव। अतः पञ्चसु समन्वयः। यद्यपि अनेकत्वम् अभावेऽप्यस्ति, तथापि भावत्वे सतीति विशेषणान्न दोषः।
द्रव्यादीनां चतुर्णां समवेतसमवेतवृत्तिधर्मत्वम्। विशेषा हि नित्यद्रव्यमात्रवृत्तयः। गुणादयस्त्रयोऽनित्यद्रव्येष्वपि वर्तन्ते। द्रव्यत्वं स्वावयवकपालसमवेते घटादौ वर्तते। घटादौ द्रव्यत्वं वर्तते। अतो द्रव्यं समवेतसमवेतवृत्ति भवति। गुणत्वादिकं तु तादृशद्रव्यसमवेते गुणादौ वर्तन्त इति समन्वयः।
द्रव्यादीनां त्रयाणां सत्ताजातिमत्त्वं साधर्म्यं प्रसिद्धमेव। कार्यसामान्यं प्रति द्रव्यं समवायिकारणम्। गुणकर्मणी त्वसमवायिकारणे। तथा च कार्यसामान्यं प्रति द्रव्यादित्रितयमेव कारणं भवति। तादृशकारणत्वस्य त्रिष्वेव वर्तमानत्वात्, तदवच्छेदकतयानुगतायाः सत्ताजातेः सिद्धिः।
द्रव्यगुणयोः द्वयोः नित्यानित्यवृत्तिपदार्थविभाजकधर्मवत्त्वं साधर्म्यम्। कर्मत्वं त्वनित्यमात्रवृत्ति। सामान्यत्वादिकं तु नित्यमात्रवृत्ति। द्रव्यत्वगुणत्वे तु नित्येषु परमाण्वादिषु, तद्गतगुणेष्वपि यथासंख्यं वर्तते। तथैव अनित्येषु घटपटादिषु, तद्गतगुणेष्वपि वर्तत एव। अभावत्वस्यापि अनित्यप्रागभावे, नित्येऽत्यन्ताभावे च सत्त्वादव्याप्तिवारणाय भावत्वे सतीत्यपि विशेष्यताम्।
एवम्, गुणादीनां निर्गुणत्वं निष्क्रियत्वं च साधर्म्यम्। गुणवत्त्वं क्रियावत्त्वं वा नवद्रव्याणां साधर्म्यं चेत्, तदेव इतरेषां वैधर्म्यं भवति। यदुक्तं यस्य साधर्म्यं वैधर्म्यमितरस्य तत् इति हि नियमः।
सामान्यादीनां जातिशून्यत्वं साधर्म्यम्, सत्ताजातेः, द्रव्यत्वगुणत्वकर्मत्वानां च यथासंख्यं त्रिष्वेव वर्तमानत्वात्।
पारिमाण्डल्यभिन्नानां कारणत्वं साधर्म्यम्। पारिमाण्डल्यं परमाणुपरिमाणम्। तद्भिन्नानां सर्वेषां यत्र कुत्रचित् कारणत्वं वर्तत इति तत् तेषां साधर्म्यमित्यर्थः। परमाणुपरिमाणं हि न कुत्रापि कार्ये कारणमित्यर्थः। न चावयविपरिमाणं प्रत्यवयवपरिमाणस्य कारणत्वनियमात् द्व्यणुकपरिमाणं प्रति परमाणुपरिमाणस्य कारणत्वेन, कथं कुत्रापि तत् न कारणमिति शङ्क्यम्, एवं सति परमाणुजन्यं द्व्यणुकम् अणुतरं भवेत्। यथा महत्कपालद्वयजन्यो घटो महत्तरो भवति, तथैव अणुजन्यः अणुतर एव भवेत्।
लोके हि धनवान् कश्चित् दशसहस्ररूप्यकाधिपतिश्चेत्, धनवत्तरस्त- तोऽप्यधिकविंशतिसहस्राधिपतिर्भवेत्। धनवत्तमस्तु त्रिंशत्सहस्राधिपतिर्भवेत्। एवं दरिद्रः कश्चित् दशरूप्यकवान् यदि भवति, तदा दरिद्रतरः पञ्चरूप्यकवान् भवेत्, न तु विंशतिरूप्यकवान्। दरिद्रतमस्तु रूप्यकत्र्यवान् एव भवेत्। अतः तरप्तमप्प्रत्ययार्थः तत्तत्कक्ष्यानुरोधेनैव लोके व्यवह्रियते। एवमेव प्रकृते महत्परिमाणवान् कश्चित् घटश्चेत् ततोऽपि महत्तरमहत्तमपरिमाणवन्तोऽन्ये घटादयोऽधिकपरिमाणवन्त एव भवेयुः। अतश्च अण्वपेक्षया अणुतरस्तु न्यूनपरिमाणवानेव भवेत्। अणुतमस्तु ततोऽपि न्यूनपरिमाणवानेव। एतेन परमाणुगतमणुपरिमाणम् द्व्यणुकपरिमाणं प्रति न कारणम्, किन्तु तद्गतसंख्यैव। एवं त्र्यणुकपरिमाणं प्रति द्व्यणुकत्रयगता संख्यैव कारणम्,अत एव द्व्यणुकत्रयजन्यस्त्र्यणुको महान् भवति, त्र्यणुकस्य महत्परिमाणवत्त्वात्, प्रत्यक्षं प्रति महत्त्वस्य कारणत्त्वात्। अन्यथा द्व्यणुकमणुतरं त्र्यणुकं चाणुतमम् इत्येव वक्तव्यं भवेत्।
न चाणुतर-अणुतमादिशब्दानां तथात्वेऽपि प्रत्यक्षदृष्ट्या अवयवगतपरिमाणमेव किल अवयविपरिमाणं प्रति कारणं दृश्यते इति शङ्क्यम्, वस्तुतत्त्वनिर्णयः खलु व्यवहाराधीनः। व्यवहारश्च शब्दाधीनः। शब्दानां शक्तिग्रहणं हि व्यवहारादेवेति शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्याद् व्यवहारतश्च इत्यादौ निरूपितम्। पदार्थो नाम पदस्यार्थः, इदञ्च लोकव्यवहारसिद्धम्। लोकव्यवहारदृष्ट्या अणोरणुतरः पूर्वोक्तरीत्यैव वक्तव्यः। न्यायशास्त्रं हि लोकव्यवहारसिद्धपदार्थनिरूपणपरम्। अत एवेदमेव दर्शनं लोकायतपदवाच्यमासीत् पूर्वम्। चार्वाकमतं तु केवलनवीनपण्डित परिकल्पितम्। यतः- अतिप्राचीने प्रसिद्धे चाणक्यविरचिते अर्थशास्त्रे सनत्कुमारसंहितायां च सांख्यम्, योगः, लोकायतञ्च इत्यान्वीक्षिकी त्रिविधा इति दृश्यते। आन्वीक्षिकीति न्यायशास्त्रमिति न्यायभाष्ये अभिहितम्। प्रतीतिशरणाः नैयायिकाः, प्रयोगशरणाः वैयाकरणाः इति हि प्रसिद्धम्। ईश्वरानुमानादिकं तु वेदान्तिसुहृदां नैयायिकानामेव, न तु न्यायशास्त्रान्तर्गतम्। अत एव न्यायसूत्रभाष्ययोर्न कुत्रापि ईश्वरविषयको विचारो दृश्यते। ईश्वरविचारो वेदान्तशास्त्र एवेति तयोराशयः। अत एव च इन्द्रियार्थसन्निकर्षोत्पन्नम् इति प्रत्यक्षलक्षणविशेषणम्। न हि ईश्वरप्रत्यक्षम् इन्द्रियार्थसन्निकर्षजन्यम्, तस्य नित्यत्वात्। अतो लोकायतपदं न्यायशास्त्रपरमेव।
न तावन्मात्रम्, चार्वाकदर्शनं हि प्रत्यक्षैकप्रमाणवादीत्युच्यते। एवं सति किण्वादिभ्यो मदशक्तिवत् भूतानामेव चैतन्यं केन प्रमाणेन गृह्येत ? न हि चैतन्यमैन्द्रियकम्। नापि मानसम्, इन्द्रियाणां सर्वेषामपि अतीन्द्रियत्वेन तैः तेषामङ्गीकारासंभवात्। अतञ्चार्वाकदर्शनमिति संपूर्णमेकं दर्शनमेव वस्तुतो नास्त्येवेत्यादिकं तत्त्वमुक्ताकलापस्य सर्वाङ्कषाव्याख्यायां विस्तरेण निरूपितम्॥
अतश्च अणुपरिमाणं न कुत्रापि कारणम्। एवञ्च पारिमाण्डल्यपदं द्व्यणुकपरिमाणस्याप्युपलक्षकम्। परमाणुपरिमाणं द्व्यणुकपरिमाणं च न कुत्रापि कारणमिति भावः। एवं पारिमाण्डल्यपदं परममहत्परिमाणस्य, अतीन्द्रियपदार्थवृत्तिसामान्यस्य, विशेषाख्यपदार्थस्य चोपलक्षकमिति विश्वनाथो न्यायपञ्चाननः। तेषामपि कुत्रापि कारणत्वाभावादित्यर्थः। आकाशादिगतं विभुपरिमाणं हि नान्यस्य परिमाणस्य जनकम्, विभुत्वापेक्षयाधिकपरिमाणस्याभावात्। एवम् ऐन्द्रियकस्थूलवस्तुगतं घटत्वादिरूपं सामान्यं तु तत्तत्प्रत्यक्षनिमित्तकारणं भवति, प्रत्यक्षं प्रति विषयस्य निमित्तकारणत्वात्। अतीन्द्रियपदार्थवृत्तिसामान्यस्य तु इन्द्रियजन्यज्ञानं प्रति न कारणत्वम्, तदविषयत्वात्। एवं नित्यद्रव्यवृत्तयो विशेषाख्याः पदार्था अपि न कुत्रापि कारणानि भवन्तीत्याशयः। तथा च परमाणुपरिमाण-द्व्यणुकपरिमाण-विभुपरिमाण- अतीन्द्रियसामान्य-विशेषभिन्नानां सर्वेषां कारणत्वं साधर्म्यमित्यर्थः।
ननु योगिनो हि तपः प्रभावविशेषादतीन्द्रियाण्यपि वस्तूनि साक्षात्कुर्वन्तीति प्रसिद्धम्। प्रत्यक्षे च विषयस्य कारणत्वं लोकसिद्धम्। एवञ्चातीन्द्रियं परमाणुपरिमाणम्, द्व्यणुकपरिमाणञ्च तद्विषयकयोगिप्रत्यक्षे कारणं भवत्येव। एवमतीन्द्रिय- सामान्यविषयकयोगिप्रत्यक्षे अतीन्द्रियसामान्यमपि कारणं भवेदेव। एवमेव विशेषविषयकयोगिप्रत्यक्षे विशेषाः कारणम्। तथा च सर्वेषामपि कुत्रचित् कारणत्वात्, प्रमेयत्वादिवत् कारणत्वमपि केवलान्वयिधर्मः। एवम् अणुत्वेन निखिलाणूनामुपस्थितौ अणुत्वाद्यतीन्द्रियसामान्यस्यापि कारणत्वमागतम्। एवम्, एषः परमाणुः तत्परमाणुभिन्नः, एतद्विशेषात् इति परमाणूनां परस्परभेदसाधकानुमाने विशेषस्य लिङ्गविधया कारणत्वात्, विशेषाणामपि कारणत्वमनिवार्यम्। तथा च तद्भिन्नानां कारणत्वं साधर्म्यमित्ययुक्तम् कारणत्वस्य पूर्वोक्तरीत्या केवलान्वयिधर्मत्वात् इति चेत्, न उक्तसर्वस्यापि प्राचीनमते एव स्वीकारात्। नवीनानां मते तु, लिङ्गज्ञानमेवानुमितिकरणम्, न तु लिङ्गम्। सामान्यज्ञानमेव प्रत्यासत्तिः, न तु सामान्यम् इत्यङ्गीकारात् नानुपपत्तिः। एवम् अस्मदादि प्रत्यक्ष एव विषयः कारणं, न तु योगिप्रत्यक्षे। अतीतानागतवस्तून्यपि योगिनः पश्यन्तीति कथनात्, अतीतानागतानां वस्तूनामिदानीमभावात् कथमेषां कारणत्वम्। ननु विषयाभावेऽपि कथं ते पश्यन्तीति चेत्, योगजन्यादृष्टविशेषवशादेवेति योगशास्त्रादवगम्यते। अतो नास्ति तेषां कारणत्वमिति, कारणत्वं न केवलान्वयिधर्म इति न कश्चन दोषः।
ननु एवमपि महत्त्वं हि त्र्यणुकादारभ्य द्रव्यप्रत्यक्षे कारणं सम्मतम्। अतः आत्मविषयकमानसप्रत्यक्षे आत्मगतं परममहत्परिमाणं कारणं वाच्यम्। एवञ्च विभुपरिमाणस्य कुत्रापि न कारणत्वमिति कथमुच्यत इति चेत्; आत्मप्रत्यक्षस्य योगजधर्मप्रभावाधीनत्वेन अत्यन्तमलौकिकत्वात्, तत्र घटादिदृष्टान्तेन आत्मगतमहत्त्वस्य कारणत्वे, तेनैव न्यायेन आत्मप्रत्यक्षे आलोकोऽपि कारणं वक्तव्यं भवेत् इत्यलं शास्त्रान्तरविचारेण। आकाशशरीरिणामव्याप्यवृत्तिक्षणिको विशेषगुण इष्यते इति कारिकावली। अव्याप्यवृत्तिविशेषगुणवत्त्वम्, क्षणिकविशेषगुणवत्त्वं च आकाशात्मनोः साधर्म्यम् इत्यर्थः। आकाशे विशेषगुणः शब्द एक एव। आत्मनां विशेषगुणाश्च बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नादृष्टभावनाख्यसंस्काराः। शब्दश्च आकाशे अव्याप्यवृत्तिः। अव्याप्यवृत्तित्वं नाम स्वात्यन्ताभावसमानाधिकरणत्वम्। स्वं शब्दः। तदत्यन्ताभावः शब्दात्यन्ताभावः। विभावाकाशे शब्दः एकदेशावच्छेदेनैव जायते, न तु सर्वत्र। तथैवानुभवात्। अतश्च शब्दः स्वात्यन्ताभावाधिकरण एव वर्तते। अतः शब्दः स्वात्यन्ताभावसमानाधिकरणः। एवमात्मनि विभौ विशेषगुणा बुद्ध्यादयः शरीरावच्छेदेनैव जायन्ते, तथैवानुभवात्। अतोऽव्याप्यवृत्तिविशेषगुणवत्त्वमुभयोस्समानम्॥
एवं क्षणिकविशेषगुणवत्त्वं च तयोस्समानम्। क्षणिकत्वं च न बौद्धादिवत् एकक्षणमात्रवृत्तित्वम्, क्षणिकवादस्य निराकृतत्वात्। किन्तु द्विक्षणवृत्तित्वम्। शब्दो हि आकाशे जातो विशेषगुणो वीचीतरङ्गन्यायेन (तरङ्गात्तरङ्गोत्पत्तिवत्) श्रोत्रदेशं प्राप्तः श्रोत्रेन्द्रियेण गृह्यते। अतः उत्पन्नः शब्दः शब्दान्तरमुत्पाद्य स्वयं नश्यति, शब्द द्वयाश्रवणात्। अतश्शब्दस्य द्विक्षणवृत्तित्वमावश्यकम्। प्रथमक्षणे उत्पन्नः, द्वितीयक्षणे शब्दान्तरमुत्पाद्य नश्यति। अतः सिद्धान्ते क्षणिकत्वं द्विक्षणवृत्तित्वमेव, नैकक्षणवृत्तित्वम्। एवञ्च क्षणिकविशेषगुणवत्त्वम् आकाशस्य सिद्धम्। एवमात्मनि जाता बुद्ध्यादयोऽपेक्षाबुद्धिव्यतिरिक्ता विशेषगुणा द्विक्षणमात्रावस्थायिन एव। प्रतिक्षणमिन्द्रियविषयसंयोगस्य नानाविधेषु जायमानत्वात्, ज्ञानान्यपि अनेकविषयाणि जायन्ते। तानि सर्वाण्यपि न स्थिराणि, अननुभवात्। युगपज्ज्ञानद्वयोत्पत्तेरसंभवात्। अतो ज्ञानान्यपि द्विक्षणमात्रावस्थायीति। धारावाहिकज्ञानानां किञ्चित् कालानुवृत्तिश्च, ज्ञानात् ज्ञानान्तरोत्पत्यैव समर्थनीया। अतञ्च क्षणिकविशेषगुणवत्त्वमात्मनां सिद्धम्। संख्यादिसामान्यगुणानाम् आत्मसु आकाशे च नित्यत्वात्, विशेषगुणेत्यभिहितम्। आत्मगुणबुद्धिप्रभेदरूपाया अपेक्षाबुद्धेस्तु त्रिक्षणवृत्तित्वमावश्यकम्। द्वित्वादयः किल संख्या अपेक्षाबुद्धिजाः। अयमेकः, अयमेकः इति गणनरूपा बुद्धिरेव, तत्तत्पुरुषापेक्षया तत्तद्वस्त्वपेक्षयैव च जायमानत्वात्, अपेक्षाबुद्धिरित्युच्यते। तया तत्तद्वस्तुद्वये द्वित्वोत्पत्तिः। ततो द्वित्वत्वनिर्विकल्पकम्। ततो द्वित्वसविकल्पकम् इति तृतीयक्षण एव द्वित्वानुभवात्, तावत्पर्यन्तमपेक्षाबुद्धिः वर्तत एव। अपेक्षाबुद्धिनाशे च द्वित्वादिकमपि नश्यति। अतस्तद्भिन्ना बुद्धय एव द्विक्षणावस्थायिन्यः, अपेक्षाबुद्धेः त्रिक्षणावस्थायित्वेऽपि इतरबुद्धेः द्विक्षणमात्रस्थायित्वात्। एवं सुखादीनामात्मविशेषगुणानाम्, आकाशविशेषगुणस्य शब्दस्य च द्विक्षणवृत्तित्वरूपं क्षणिकत्वं साधारणम्। अतश्च क्षणिकविशेषगुणवत्त्वम्, अव्याप्यवृत्तिविशेषगुणवत्त्वं च आकाशात्मनोः साधर्म्यम्। संख्यापरिमाणादिसामान्य-गुणानां नित्यद्रव्यवृत्तीनां नित्यत्वात्, विशेषपदं गुणविशेषणम्।
समवायिकारणत्वं नवानां द्रव्याणां साधर्म्यम्। कालदिशोः विद्यमानसंख्यादिगुणानां नित्यत्वेन तन्निरूपितसमवायिकारणत्वस्य कालादिष्वसंभवेऽपि, विभुद्वयसंयोगाभावेऽपि घटादिमूर्तद्रव्याणां तैः साकं संयोगस्योभयवृत्तित्वेन घटादिनाशे तादृशसंयोगस्यापि नाशात् तस्यानित्यत्वेन तन्निरूपितं समवायिकारणत्वम् अक्षतमेव।
विभुद्वयसंयोगाभावे मानाभावात् विभुद्वयसंयोगे विरोधो नास्तीति नव्याः। अप्राप्तयोस्तु या प्राप्तिः सैव संयोग ईरितः इति संयोगस्य विभागपूर्वकत्वनियमात्, विभुद्वयस्य विभागासंभवात् तयोः संयोगोऽपि न संभवत्येव। संयोगस्य नित्यत्वे समवायोऽन्यथासिद्धो भवेत्। न च द्रव्ययोरेव संयोगात्, गुणगुणिनोरतथात्वेन न संयोगस्तयोः संबन्धो भवितुमर्हतीति वाच्यम्, संयोगस्य नित्यत्वेनैव सिद्धौ समवायस्यातिरिक्तकल्पने गौरवात्, द्रव्ययोरेव संयोगः इति नियमस्याप्यनावश्यकत्वात्। एवं धर्मिकल्पनातो वरं धर्मकल्पना इति न्यायेन समवायासिद्धौ, क्रमेण भिक्षुपादप्रसरणन्यायेनेदं शास्त्रमेव न शिष्येत। तत्तत्पण्डितैः स्वेच्छया तत्तत्पदार्थकल्पने, अन्ते बौद्धन्यायस्यापि प्रामाण्यापत्त्या, व्यासयाज्ञवल्क्यादिसंमतं न्यायविस्तरशास्त्रं लुप्येत। इष्टापत्तौ, वैदिकत्वमेव न स्यात्। तत्रापि इष्टापत्तौ नास्तिक्यमपि दुर्निवारं स्यात्। तथा च उच्छृङ्खलानां नवीनानां वचनानि नोपादेयान्येव॥
वस्तुतस्तु सुसूक्ष्मपरिशीलने प्राचीनानां प्रक्रियैव साधीयसी, क्षेमकरी च जीवानामित्यादिकमन्यत्र विस्तरेण द्रष्टव्यम्। अत एव न्यायवैशेषिकयोः समानतन्त्रत्वेऽपि नैकशास्त्र्यं प्रामाणिकम्। अत एव षोडशपदार्थानां सप्तस्वेव अन्तर्भाव इत्यादिकमपि अप्रामाणिकमेव। सप्तानां पदार्थत्वेऽपि षोडशानां पदार्थत्वाभावात्, न्यायसूत्रे तेषां तत्त्वपदेनैव निर्देशात्।
एवञ्च समवायिकारणत्वं नवद्रव्याणां समानम्। एवमेव गुणकर्मणोः असमवायिकारणत्वमेव साधर्म्यम्। न च केषाञ्चित् गुणानां कुत्रचित् असमवायिकारणत्वेऽपि आत्मविशेषगुणादीनां कुत्रापि असमवायिकारणत्वाभावात् कथं गुणकर्मणोः असमवायिकारणत्वं संभवतीति वाच्यम्, असमवायिकारणं चेत् गुणविशेषरूपमेव भवेत् इत्येव व्याप्तेरभिमतत्वेन, गुणकर्मभिन्नानाम् असमवायिकारणत्वं वैधर्म्यमित्यत्रैव तात्पर्यात् अथवा जातिघटिततया लक्षणकरणेन न दोषः।
नित्यद्रव्यातिरिक्तानाम् आश्रितत्वं साधर्म्यम्। ननु किं नाम आश्रितत्वम् ? न तावत् साधारत्वम्, नित्यानामपि कालदिगाधारवत्त्वेन तथात्वात्। तथाहि- सर्वाधारः कालः इति हि प्रसिद्धं किल। अत्र काल इति दिशोऽप्युपलक्षकम्। एवमेव कालेश्वरादृष्टादीनां साधारणकारणत्वम् इत्यत्र हि आदिपदेन दिशो ग्रहणमिति मर्मज्ञा एव जानन्ति। नित्यानां कालानधीनत्वेऽपि कालसंबन्धित्वरूपं सत्त्वं तु वर्तत एव। सदातनत्वं हि नित्यत्वम्। सदा इति काल एव ह्युच्यते। यथा अनित्याः पदार्थाः तत्तद्देशकालसंबन्धिनः, तथैव नित्या अपि सर्वदेशकालसंबन्धिनः। अत एव ब्रह्मणोऽपि नित्यं विभुम् इति निर्देशोपपत्तिः। नित्यमिति सर्वकालसंबन्धः, विभुमिति सर्वदेशसंबन्धः। अन्यथा ब्रह्म शशशृङ्गवत् तुच्छं भवेत्।
अत आश्रितत्वं न संबन्धित्वमात्रम्, किन्तु आधाराधीनत्वरूपम्। तादृशाधाराधीनत्वरूपाश्रितत्वं तु गुणादीनां सर्वेषां समानम्, ते हि द्रव्यमाश्रिताः। अनित्यद्रव्याण्यपि स्वावयवमाश्रितानि। यथा- घटः कपालाश्रितः। पटस्तन्त्वाश्रितः।
ननु घटादयो हि भूतलमाश्रिता इति चेत्, न, नियताश्रितत्वस्यात्र विवक्षितत्वात्। घटादीनां भूतलाश्रितत्वं तु देशकृतं न नियतम्। कदाचित् अत्र, कदाचित् तत्रेति अव्यवस्थितत्वात्। अतो न मुख्यमाश्रितत्वमिदम्। अनित्यद्रव्याणि हि स्वावयवेषु यावन्नाशं वर्तन्ते। अत एते वृत्तिमत्पदार्थाः। नित्यद्रव्याणां तु अवयवाभावात् तत्रावर्तमानत्वात्, नैते वृत्तिमत्पदार्थाः। ननु सन्तु गगनादयोऽवृत्तिपदार्थाः, तथैव प्रसिद्धाः। परमाणवस्तु आकाशे खलु वर्तेरन्। अतस्ते कथमवृत्तिपदार्था इति चेत् न, घटादीनां यथा भूतलादयो न मुख्याधाराः, किन्तु स्वावयवा एवेति यथोक्तम्, तथैव परमाणवोऽतिलघुद्रव्याणि आकाशे प्लवन्ते, न वर्तन्ते। अतः परमाणवोऽपि गगनादिवदेवावृत्तिपदार्था एव, निरवयत्वात्। अतश्च नित्यद्रव्याण्यनाश्रितानि, तद्व्यतिरिक्तानि च द्रव्याश्रितानि। गुणकर्मादीनां सर्वेषां मुख्यमाश्रयो द्रव्यमेव। अतः सुष्ठुक्तम् - अन्यत्र नित्यद्रव्येभ्यो ह्याश्रितत्वं साधर्म्यम् इति।
पृथिव्यादीनां नवानां द्रव्यत्वम्, गुणक्रियादिमत्त्वञ्च साधर्म्यम्। पृथिव्यप्ते- जोवायुमनसां मूर्तत्वं, परत्वापरत्ववेगवत्त्वं क्रियावत्त्वं च साधर्म्यम्। मूर्तत्वं नाम परिच्छिन्नपरिमाणवत्त्वम्। पृथिव्यप्तेजोवाय्वाकाशानां भूतत्वं साधर्म्यम्। तच्च बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वम्। आत्मनो मनोग्राह्यसुखादिविशेषगुणवत्त्वात् बहिरितीन्द्रियविशेषणम्। संख्यादिसामान्यगुणानां नवद्रव्यसाधारणत्वात् विशेषगुणपदम्। कालदिगाकाशात्मनां विभुत्वम्, सर्वगतत्वं च साधर्म्यम्। पृथिव्यप्तेजोवायूनां चतुर्णां स्पर्शवत्त्वं, द्रव्यारम्भकत्वं च साधर्म्यम्। तेष्वेवावयवावयविभावस्य सत्त्वात्, अवयवानामवयव्यारम्भकत्वात्। पृथिव्यप्तेजसां रूपवत्त्वं, द्रवत्ववत्त्वं, चाक्षुषत्वं च साधर्म्यम्। पृथिवीजलयोः रसवत्त्वं, गुरुत्त्ववत्त्वं च साधर्म्यं स्पष्टम्। पृथिवीतेजसोः नैमित्तिकद्रवत्ववत्त्वं साधर्म्यम्॥
एवं साधर्म्यवैधर्म्यज्ञानात् पदार्थानामसङ्कीर्णं ज्ञानं सुसंपदं भवति। तेन चान्ते आत्मानात्मचिन्तायामात्मनोऽसङ्कीर्णस्वरूपज्ञानात् मुक्तिरपि क्रमेण भवेदित्याशयः।
इति साधर्म्यवैधर्म्यप्रकरणम्।
वरदाचार्य आलोके - सामान्यम्
तर्कसंग्रहः
नित्यमेकमनेकानुगतं सामान्यम्। परं सत्ता। अपरं द्रव्यत्वादि।
आलोक- व्याख्या
नित्यमित्यादि। अनेकेषु अनुगततया वर्तमानत्वम्। समानानां भावः सामान्यमिति व्युत्पत्तिलब्धोऽयमर्थः। अनेकेषु वर्तमानम् इत्यनेनैव एकत्वं लब्धमिति लक्षण एकत्वं न निवेशनीयम्। तथा च नित्यत्वे सत्यनेकवृत्तित्वं सामान्यस्य लक्षणम्। नित्यत्वमात्रोक्तावाकाशादावतिव्याप्तिः। अतोऽनेकवृत्तित्वम्। ननु आकाशस्यावृत्तिपदार्थत्वेन वृत्तित्वमात्रमेवालमिति चेत्, परमाण्वादिगतैकत्वादौ नित्यत्वस्य वृत्तित्वस्य च सत्त्वादतिव्याप्तिः। अतोऽनेकपदम्। अनेकवृत्तित्वमात्रोक्तौ संयोगादावतिव्याप्तिः। अतो नित्यत्वम्। संयोगस्यानित्यत्वान्नातिव्याप्तिः। एवमप्यत्यन्ताभावस्य नित्यत्वादनेकवृत्तित्वाच्चात्यन्ताभावेऽतिव्याप्तिः। अतो वृत्तित्वं समवायसंबन्धेन बोध्यम्। अभावस्य समवायसंबन्धाभावान्नातिव्याप्तिः। तथा च नित्यत्वे सत्यनेकसमवेतत्त्वं सामान्यस्य लक्षणम्। सामान्यं - जातिः, अखण्डोपाधिरिति द्विविधम्।
तर्कसंग्रहः
गोवर्धन-न्यायबोधिनी - सामान्यलक्षणम्
सामान्यं निरूपयति। नित्यमेकमिति। नित्यत्वे सत्यनेकसमवेतत्वं सामान्यलक्षणम्। नित्यत्वानुपादाने संयोगादावतिव्याप्तिः। तत्रापि अनेकसमवेतत्वसत्त्वात्। तद्वारणाय नित्यत्वविशेपणम्। अनेकसमतत्वानुपादाने आकाशादावतिव्याप्तिस्तद्वारणायानेकसमवेतत्वविशेषणम्। अनेकत्वानुपादाने जलपरमाणुगतरूपादेराकाशगतैकत्वपरिमाणादेर्नित्यत्वात्, समवेतत्वाच्च अतिव्याप्तिः। अतः अनेकेति।
कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - सामान्यविभागः
सामान्यं द्विविधं परमपरञ्चेति।
सामान्यं विभजते सामान्यमिति, विधापदस्यैव विभाजकधर्मद्वयान्यतरवति लक्षणा स्वीकार्या, द्विपदं तात्पर्यग्राहकम्, अन्वयक्रमः पूर्ववत्, तथा च परत्वापरत्वरूपविभाजकधर्मद्वयान्यतरवत्सामान्यमिति बोधः। घटत्वपटत्वादिजातीनामपरत्वमेव, सत्ताजातेः परत्वमेव, द्रव्यत्वपृथिवीत्वादिजातीनां परत्वापरत्वे उभेऽपि सम्भवत इति ज्ञेयम्।।
कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - सामान्यलक्षणम्
नित्यमेकमनेकानुगतं सामान्यम्। द्रव्यगुणकर्मवृत्ति। तद्द्विविधम्। परमपरञ्चेति। परं सत्ता। अपरं द्रव्यत्वादि।
सामान्यं लक्षयति नित्यमिति। अनेकेष्वनुगतम् अनेकानुगतम्, सप्तम्या निरूपितत्वमर्थः। अनुगतत्वञ्च समवेतत्वम्, तच्च समवायसम्बन्धावच्छिन्नवृत्तित्वरूपम्। तथा च नित्यत्वे सति अनेकनिरूपितसमवायसम्बन्धावच्छिन्नवृत्तित्वं सामान्यलक्षणमिति फलितम्। नित्यत्वमात्रोक्तौ गगनादावतिव्याप्तिः। अनेकसमवेतत्वमात्रोक्तौ घटादीनामपि कपालादिरूपानेकपदार्थसमवेतत्वेन घटादावतिव्याप्तिः, अतः दलद्वयोपादानम्। नचैवं आधेयत्वदलेनैव अवृत्तिगगनादावतिव्याप्तिवारणसम्भवेन अनेकसमवेतत्वपर्यन्तस्य वैयर्थ्यमिति वाच्यम्, परमाणुष्वतिव्याप्तिवारणाय तत्सार्थक्यात्। नचैवमपि समवेतत्वदलेनैव तत्रातिव्याप्तिवारणसम्भवेऽनेकपदस्य वैयर्थ्यमिति वाच्यम्, जलपरमाणुगतरूपादौ नित्यत्व-समवेतत्वयोः सत्त्वेनातिव्याप्तिप्रसङ्गात्। तन्निवेशे तु प्रत्येकभिन्नस्य परमाणुरूपस्य कस्यापि अनेकसमवेतत्वाभावेन अतिप्रसङ्गविरहात्। न च विभुद्वयसंयोगाङ्गीकर्तृमते तत्संयोगे दलद्वयसत्त्वेनातिव्याप्तिरिति वाच्यम्, संयोगभिन्नत्वस्यापि निवेशनीयत्वात्। नचात्र एकपदं व्यर्थमिति वाच्यम्, इष्टापत्तेः, तस्य स्वरूपकीर्तनमात्रपरत्वात्। सामान्यं विभजते परमिति। अत्र परत्वमधिकदेशवृत्तित्वरूपम्, अपरत्वं न्यूनदेशवृत्तित्वरूपम्।