मूलम् - कर्म - 66
चलनात्मकं कर्म। ऊर्ध्वदेशसंयोगहेतुरुत्क्षेपणम्। अधोदेशसंयोगहेतुरपक्षेपणम्। शरीरसंनिकृष्टसंयोगहेतुराकुञ्चनम्। विप्रकृष्टसंयोगहेतुः प्रसारणम्। अन्यत्सर्वं गमनम्। पृथिव्यादिचतुष्टयमनोमात्रवृत्ति॥ ६५॥
Tags - 66
कर्म, उत्क्षेपणम्, अपक्षेपणम्, आकुञ्चनम्, प्रसारणम्, गमनम्
दीपिका - कर्मलक्षणम्
कर्मणो लक्षणमाह- चलनेति। उत्क्षेपणादीनां कार्यभेदमाह- ऊर्ध्वेति। शरीरेति। वक्रतासंपादकमाकुञ्चनम्। ऋजुतासंपादकं प्रसारणमित्यर्थः।
वरदाचार्य आलोके - कर्म
तर्कसंग्रहः
चलनात्मकं कर्म। ऊर्ध्वदेशसंयोगहेतुः उत्क्षेपणम्। अधोदेशसंयोगहेतुरपक्षेपणम्। शरीरसंनिकृष्टसंयोगहेतुराकुञ्चनम्। विप्रकृष्टसंयोगहेतुः प्रसारणम्। अन्यत्सर्वं गमनम्।
आलोक- व्याख्या
चलनात्मकमिति। ‘चलति’ इतिप्रतीतिसिद्धक्रियात्वरूपजातिमत्त्वं कर्मणो लक्षणम् इत्यर्थः। चलने जाते, पूर्वदेशाद्वस्तुनो विभागः। तेन पूर्वसंयोगनाशः। तत उत्तरदेशसंयोगोत्पत्तिरिति क्रमोऽवर्जनीयः। अतः सर्वापि क्रिया क्षणचतुष्टयमात्रावस्थायिनी। अधिककालानुवृत्तिव्यवहारस्तु क्रियान्तरोत्पत्तिवशादिति ज्ञेयम्।