65 संस्कारः

मूलम् - संस्कारः - 65

संस्कारस्त्रिविधः। वेगो भावना स्थितिस्थापकश्चेति। वेगः पृथिव्यादिचतुष्टयमनोवृत्तिः। अनुभवजन्या स्मृतिहेतुर्भावना। आत्ममात्रवृत्तिः। अन्यथा कृतस्य पुनस्तदवस्थापकः स्थितिस्थापकः कटादिपृथिवीवृत्तिः॥ ६४॥

Tags - 65

संस्कारः, वेगः, भावना, स्थितिस्थापकः

दीपिका - संस्कारविभागः

संस्कारं विभजते- संस्कार इति। संस्कारत्वजातिमान् संस्कारः। वेगस्याश्रयमाह- वेग इति। वेगत्वजातिमान् वेगः। भावनां लक्षयति- अनुभवेति। अनुभवध्वंसेऽतिव्याप्तिवारणाय स्मृतीति। आत्मादावतिव्याप्तिवारणायानुभवेति। स्मृतेरपि संस्कारजन्यत्वं नवीनैरुक्तम्। स्थितस्थापकं लक्षयति- अन्यथेति।

दीपिका - विशेषगुणत्वम्

संख्यादयोऽष्टौ नैमित्तिकद्रवत्ववेगस्थितस्थापकाः सामान्यगुणाः। अन्ये रूपादयो विशेषगुणाः। द्रव्यविभाजकोपाधिद्वयसमानाधिकरणवृत्तिजातिमद्गुणत्वं विशेषगुणत्वम्।

गोवर्धन-न्यायबोधिनी - संस्कारः

संस्कारं विभजते। संस्कार इति। भावनां लक्षयति। अनुभवेति। अनुभवजन्यत्वे सति स्मृतिहेतुत्वं भावनाया लक्षणम्। अत्रानुभवजन्यत्वे सतीति विशेषणानुपादाने आत्ममनःसंयोगेऽतिव्याप्तिरात्ममनःसंयोगस्य ज्ञानमात्रं प्रत्यसमवायिकारणत्वेन स्मृतिं प्रत्यपि कारणत्वादतस्तदुपादानम्। आत्ममनःसंयोगस्यानुभवजन्यत्वाभावान्नातिव्याप्तिः। तावन्मात्रे कृतेऽनुभवध्वंसेऽतिव्याप्तिः। ध्वंसं प्रति स्वप्रतियोगिनः कारणत्वेनानुभवध्वंसस्याप्यनुभवजन्यत्वात्। अतः स्मृतिहेतुत्वोपादानम्। अनुभवध्वंसे स्मृतिहेतुत्वाभावान्नातिव्याप्तिः। नन्वत्र विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य कारणता सकलतान्त्रिकमतसिद्धा। यथा दण्डविशिष्टबुद्धिं प्रति दण्डज्ञानं कारणम्। दण्डविशिष्टबुद्धिर्नाम दण्डप्रकारकज्ञानम्। तथा च दण्डप्रकारकबुद्धित्वावच्छिन्नं प्रति दण्डज्ञानत्वेन कारणत्वमित्यापतितम्। दण्डप्रकारकबुद्धिर्दण्डी पुरुष इत्याकारकबुद्धिस्तत्र दण्डज्ञानं कारणम्। न हि दण्डमजानानः पुमान् दण्डी पुरुष इति प्रत्येति। एवं च यत्रायं दण्ड इति प्रत्यक्षं जातं तदनन्तरं दण्डी पुरुष इत्याकारकप्रत्यक्षमुत्पन्नं तत्र दण्डी पुरुष इत्याकारकप्रत्यक्षेऽतिव्याप्तिः। तद्धि स्वाव्यवाहितपूर्वक्षणोत्पन्नदण्डज्ञानात्मकानुभवजन्यं जनिष्यमाणे दण्डी पुरुष इत्याकारकस्मरणे कारणं च स्मृतिं प्रत्यनुभवस्य कारणत्वात्। तथा चानुभवजन्यत्वे सति स्मृतिहेतुत्वरूपभावनालक्षणस्य यथोक्तदण्डी पुरुष इत्याकारकानुभवे विद्यमानत्वादतिव्याप्तिरिति चेत्। अत्र ब्रूमः। अनुभवजन्यत्वं अनुभवनिष्ठकारणतानिरूपितकार्यताश्रयत्वम्। तत्र कारणतायामनुभवत्वावच्छिन्नत्वं निवेश्यते। तथा चानुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वमनुभवजन्यत्वमिति फलितम्। अतो नोक्तातिव्याप्तिः। तथा हि। दण्डप्रकारकबुद्धित्वावच्छिन्नकार्यतानिरूपितदण्डज्ञाननिष्ठा या कारणता तस्यां न दण्डानुभवत्वमवच्छेदकं दण्डानुभवात् दण्डस्मरणादपि दण्डप्रकारकबुद्धेरुत्पत्तेः। अतो दण्डप्रकारकबुद्धित्वावच्छिन्नं प्रत्यनुभवस्मरणसाधारणदण्डज्ञानत्वेनैव दण्डज्ञानस्य कारणतायाः स्वीकरणीयत्वेन दण्डज्ञानत्वस्यैव तदवच्छेदकत्वात्। तथा चानुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वस्य यथोक्तप्रत्यक्षानुभवेऽभावान्नातिव्याप्तिः। भावनायां तु लक्षणमिदं वर्तते। तथा हि। अनुभवेनैव भावनाख्यसंस्कारोत्पत्या भावनात्वावच्छिन्नं प्रत्यनुभवस्यानुभवत्वेनैव कारणतया भावनात्वावच्छिन्नकार्यतानिरूपितानुभवनिष्ठा या कारणता तस्यामनुभवत्वमवच्छेदकम्। अतोऽनुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वं भावनायां वर्तत इति नासंभवः। नन्वेवं स्मृतिहेतुत्वविशेषणवैयर्थ्यमापद्यते। तद्ध्यनुभवध्वंसेऽतिव्याप्तिवारणाय प्रागुपात्तम्। न हि यथोक्तानुभवजन्यत्वविवक्षायामनुभवध्वंसेऽतिव्याप्तिः प्रसज्यते। तथा हि। ध्वंसत्वावच्छिन्नं प्रति प्रतियोगिनः कारणत्वं प्रतियोगित्वेन रूपेण तत्तदध्वंसत्वावच्छिन्नं प्रति तत्तत्प्रतियोगिव्यक्तेस्तत्तद्व्यक्तित्वेन कारणत्वमित्येवं ध्वंसप्रतियोगिनोः कार्यकारणभावः। तथा च ध्वंसनिष्ठकार्यतानिरूपिता यानुभवनिष्ठा कारणता तस्यां प्रतियोगित्वमवच्छेदकं तत्तद्व्यक्तित्वं च। न त्वनुभवत्वमपीति सिद्धान्तात्। अन्यत्र दूषितत्वात्। तथा चानुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वरूपानुभवजन्यत्वविरहेणैवातिव्याप्तिवारणसंभवात्कृतं स्मृतिहेतुत्वविशेषणेनेति चेन्न। स्मृतावतिव्याप्तिवारणायैव तद्विशेषणप्रवेशात्। तथा हि। स्मृतिं प्रत्यनुभव एव कारणं। न तु स्मृतिरप्यतो घटस्मृतित्वावच्छिन्नं प्रति घटानुभवस्य घटानुभवत्वेनैव कारणत्वम्। न तु घटज्ञानत्वेन। तथा च घटस्मृतिनिष्ठकार्यतानिरूपिता या घटानुभवनिष्ठा कारणता तस्यां घटानुभवत्वं अवच्छेदकम्। तेन अनुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वस्य स्मृतौ विद्यमानत्वादतिव्याप्तिवारणाय स्मृतिहेतुत्वं उक्तम्। न हि स्मृतिः स्मृतिहेतुः। अतः न तत्रातिव्याप्तिरित्यलं पल्लवतल्लजकल्पानल्पजल्पनेन।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - भावना

भावनां लक्षयति अनुभवेति। अनुभवजन्यत्वे सति स्मृतिहेतुत्वं भावनाया लक्षणम्। प्रथममनुभवः तदनु भावनाख्यसंस्कारः, तदनु स्मृतिः इति क्रममनुसृत्य अनुभवजन्यत्वे सति स्मृतिहेतुत्वस्य भावनायां सत्त्वात् समन्वयः (अनुभवजन्यत्वमात्रोक्तावनुभवध्वंसे स्मृतिहेतुत्वमात्रोक्तावात्मादौ च अतिव्याप्तिः, अतो दलद्वयोपादानम्। नच अनुभवजन्यत्वम् अनुभवनिष्ठसमवायसम्बन्धावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वरूपं निवेश्यते, ध्वंसं प्रति प्रतियोगिनः तादात्म्यसम्बन्धेनैव कारणतया समवायसम्बन्धावच्छिन्नानुभवनिष्ठकारणतानिरूपितकार्यत्वस्य अनुभवध्वंसेऽभावेन अतिव्याप्तिवारणसम्भवेन स्मृतिहेतुत्वदलमनर्थकमिति वाच्यम्, स्मृतिं प्रत्यनुभवस्य समवायसम्बन्धेनैव कारणतया समवायसम्बन्धावच्छिन्नानुभवनिष्ठकारणतानिरूपितकार्यत्वस्य स्मृतौ सत्त्वेन तत्राऽतिव्याप्तिवारणाय स्मृतिहेतुत्वदलसार्थक्यात् अत एव गुणत्वदलेनैव अनुभवध्वंसेऽतिव्याप्तिवारणसम्भवे स्मृतिहेतुत्वदलमफलमिति शङ्का निरस्ता, स्मृतावतिव्याप्तिवारणायैव तत्सार्थक्यात्।
टिप्पणी- भावनालक्षणे। ननु विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य कारणतया दण्डी पुरुष इत्यनुभवात्मकविशिष्टबुद्धौ विशेषणज्ञानात्मकदण्डानुभवजन्यत्वस्य दण्‍डी पुरुष इति जनिष्यमाणस्मृतिहेतुत्वस्य च सत्त्वात् तादृशविशिष्टबुद्धावतिव्याप्तिरिति वाच्यम्, अत्रानुभवजन्यत्वम् अनुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वरूपं निवेश्यते, न त्वनुभवनिष्ठकारणतानिरूपितकार्यताश्रयत्वरूपम्, तथाच विशिष्टबुद्धिं प्रति विशेषणानुभवस्यापि ज्ञानत्वेनैव कारणत्वं न त्वनुभवत्वेन। तथाच ज्ञानत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वस्य दण्डी पुरुष इति विशिष्टबुद्धौ सत्त्वेऽपि अनुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वस्य तत्राभावात् नातिव्याप्तिः। (दण्‍डानुभवात् दण्‍डस्मरणादपि दण्डी पुरुष इति विशिष्टबुद्धेरुदयात् स्मृत्यनुभवसाधारणज्ञानत्वेनैव विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य कारणत्वं वाच्यम्) भावनां प्रत्यनुभवस्यैव कारणतयाऽनुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वं भावनायां वर्तत इति लक्षणसमन्वयः। नचैवं ध्वंसं प्रति प्रतियोगिनः प्रतियोगित्वेन रूपेण तत्तद्ध्वंसत्वावच्छिन्नं प्रति तत्तत्प्रतियोगिव्यक्तेः तत्तद्व्यक्तित्वेनैव कारणत्वस्याङ्गीकृततयाऽनुभवध्वंसं प्रत्यनुभवत्वेन कारणत्वाभावेन अनुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वस्यानुभवध्वंसेऽभावेनैव तत्रातिव्याप्तिवारणसम्भवेन स्मृतिहेतुत्वदलस्य वैयर्थ्यमिति वाच्यम्, स्मृतिं प्रत्यनुभवस्यैव कारणतयाऽनुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वस्य स्मृतौ सत्त्वेन तत्रातिव्याप्तिवारणायैव तत्सार्थक्यात्, स्मृतिहेतुत्वनिवेशे तु न हि स्मृतिः स्मृतिहेतुरिति नातिव्याप्तिरित्यलम्।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - स्थितस्थापकः

स्थितस्थापकं लक्षयति अन्यथेति। अन्यशब्दस्य पूर्वावस्थानभिन्नावस्थानाश्रयत्वम्, थाल्प्रत्ययस्य प्रकारतानिरूपकत्वम्, कृञ् धातोः कृतिः, क्तप्रत्ययस्य विषयताविशिष्टम्, षष्ठ्या आधेयत्वञ्चार्थः। साऽवस्था यस्य सः तदवस्थ:, तदवस्थस्य भावः तादवस्थ्यम्, तच्च तदवस्थावत्त्वम्, तच्च प्रकृत्यर्थे प्रकारीभूतधर्म इति नियमेन तदवस्थैवेति फलितम्। तथा च पूर्वावस्थानभिन्नावस्थानाश्रयत्वप्रकारककृतिनिरूपितविषयताविशिष्टवस्तुनिष्ठपूर्वावस्थानसम्पादकत्वं स्थितस्थापकस्य लक्षणमिति फलितम्। (आत्ममनोऽवृत्तित्वे सति संस्कारत्वं स्थितस्थापकस्य लक्षणम् बोध्यम्)।
चलनात्मकं कर्म। ऊर्ध्वदेशसंयोगहेतुरुत्क्षेपणम्। अधोदेशसंयोगहेतुरपक्षेपणम्। शरीरसन्निकृष्टसंयोगहेतुराकुञ्चनम्। शरीरविप्रकृष्टसंयोगहेतुः प्रसारणम्। अन्यत्सर्वं गमनम्।।
कर्म निरूपयति चलनेति। ऊर्ध्वदेशसंयोगहेतुत्वमुत्क्षेपणस्य लक्षणम्। आदौ क्रिया, ततो विभागः, तत आरम्भकसंयोगनाशः, तत उत्तरदेशसंयोगोत्पत्तिः, इति क्रममनुसृत्य ऊर्ध्वदेशसंयोगहेतुत्वस्य उत्क्षेपणे सत्त्वात् समन्वयः। नचैवं ईश्वरादृष्टादावपि तादृशहेतुत्वस्य सत्त्वादतिव्याप्तिरिति वाच्यम्, कर्मत्वस्यापि निवेशनीयत्वात्। एवं अपक्षेपणादिप्रसारणान्तानां त्रयाणां लक्षणं बोध्यम्। उत्क्षेपणादिभिन्नत्वे सति कर्मत्वं गमनलक्षणं बोध्यम्, एतदेव व्यनक्ति ग्रन्थकारः अन्यत्सर्वं गमनमित्यादिना। तच्च गमनं भ्रमणादिभेदेन पञ्चविधं बोध्यम्।