57 दुःखम्

मूलम् - दुःखम् - 57

सर्वेषां प्रतिकूलतया वेदनीयं दुःखम्॥ ५६॥

Tags - 57

दुःखम्, प्रतिकूलता, अनुभवः

गोवर्धन-न्यायबोधिनी - दुःखम्

दुःखं निरूपयति। प्रतिकूलेति। अत्रापीतरद्वेषानधीनद्वेषविषयत्वमिति निष्कर्षः। द्वेषविषयत्वमात्रोक्तौ सर्पादावतिव्याप्तिस्तत्रापि द्वेषविषयत्वसत्त्वादतस्तत्रातिव्याप्तिवारणायेतरद्वेषानधीनेति द्वेषविशेषणम्। सर्पजन्यदुःखादौ द्वेषात्सर्पे द्वेष इति सर्पद्वेषस्य सर्पजन्यदुःखद्वेषजन्यत्वादन्यद्वेषाजन्यद्वेषविषयत्वरूपलक्षणस्य सर्पादौ नातिव्याप्तिः। फलेच्छा उपायेच्छां प्रति कारणम्। अतः फलेच्छावशादुपायेच्छा भवति। एवं फलद्वेषात् उपायद्वेषः।