मूलम् - सुखम् - 56
सर्वेषामनुकूलतया वेदनीयं सुखम्॥ ५५॥
Tags - 56
सुखम्, अनुकूलता, अनुभवः
दीपिका - सुखलक्षणम्
सुखं लक्षयति सर्वेषामिति। सुख्यहमित्याद्यनुव्यवसायगम्यं सुखत्वादिकमेव लक्षणम्। यथाश्रुतं तु स्वरूपकथनमिति द्रष्टव्यम्।
वरदाचार्य आलोके - पुरुषार्थाः
तर्कसंग्रहः
सर्वेषामनुकूलतया वेदनीयं सुखम्। प्रतिकूलतया वेदनीयं दुःखम्। इच्छा कामः। क्रोधो द्वेष:। कृतिः प्रयत्नः। विहितकर्मजन्यो धर्मः। निषिद्धकर्मजन्योऽधर्मः। बुद्ध्यादयोऽष्टावात्ममात्रविशेषगुणाः। बुद्धीच्छाप्रयत्ना नित्या अनित्याश्च। नित्या ईश्वरस्य अनित्या जीवस्य। संस्कारस्त्रिविधः। वेगो भावना स्थितस्थापकश्चेति। वेगः पृथिव्यादि चतुष्टयमनोवृत्तिः। अनुभवजन्या स्मृतिहेतुर्भावना। आत्ममात्रवृत्तिः। अन्यथाकृतस्य पुनस्तदवस्थापादकः स्थितस्थापकः। कटादि पृथिवीमात्रवृत्तिः।
आलोक- व्याख्या
सर्वेषामित्यादि। अनुकूलत्वं स्वत इष्टत्वम्। एतच्चान्येच्छानधीनेच्छाविषयत्वम्। ‘सुखं मे भूयात्’ इति हि सर्वोऽपि अपेक्षते। अपेक्षैवेच्छा। सुखसाधनेष्वपि धनादाविच्छायास्सत्त्वात्, इच्छाविषयत्वमात्रोक्तौ धनादावतिव्याप्तिः। अतोऽन्येच्छा-नधीनेच्छाविषयत्वमुक्तम्। सुखसाधनत्वादेव धनादाविच्छा, न तु स्वतो धने। ततश्चान्येच्छाधीनेच्छाविषयत्वमेव, न त्वन्येच्छानधीनेच्छाविषयत्वम्। अतश्च ‘सर्वेषाम्’ इति पदमेतदर्थसूचकम्, न तु लक्षणे निवेश्यम्, प्रयोजनाभावात्। ननु लुब्धा धनं स्वतः पुरुषार्थं मन्यन्ते। अतस्तत्रातिव्याप्तिरिति चेत्, तत्रापि लुब्धानां धनदर्शनेन, स्मरणेन वान्तस्सुखं भवतीति, धनज्ञानमेव सुखम्, न तु धनमिति न दोषः। अत एवार्थस्यापि पुरुषार्थेषु गणना। ननु तर्हि सुखमनुकूलज्ञानमेवेति ज्ञानेऽन्तर्भाव्यमिति चेत्, न सुखेऽपि ‘वेदनीयम्’ इति वेद्यत्वांशसत्त्वात्, ज्ञानसामान्यस्य पुरुषार्थत्वासंभवात्, सुखस्य तु पुरुषार्थत्वादतिरिक्तत्वस्यावश्यकत्वात्। न च मुमुक्षूणां सुखस्य त्याज्यत्वोक्तेः, तद्दृष्ट्यानुकूलत्वं मुक्तिसुखेऽतिव्याप्तमिति वाच्यम्, वैषयिकसुखस्यैव तेषां त्याज्यत्वोक्तेः, आत्मसुखस्य तेषामुपादेयत्वात्। सुखस्यैव तत्तद्व्यक्तिभेदेन भिन्नत्वात्, तत्तद्व्यक्तिदृष्ट्यैव सुखलक्षणस्य वक्तव्यत्वान्न दोषः। एवमेव ‘प्रतिकूलतया वेदनीयं दुःखम्’ इत्यत्रापि सर्वेषामिति वर्तते। इतरत् सुखवदेव ज्ञेयम्।।
केचित्तु सुखत्वदुःखत्वादिकं जातिविशेष इति तत्तज्जातिमत्त्वमेव सुखादीनां लक्षणमिति लाघवाद्वदन्ति। परन्तु तदा ‘वृद्धस्य तरुणी विषम्’ इति न्यायात्, एकस्य सुखमन्यस्य दुःखं न स्यात्, जातिसाङ्कर्यप्रसङ्गात्। न हि घटोऽन्यं प्रति अघटः स्यादित्यादिकमन्यत्र द्रष्टव्यम्।।
इच्छा काम इति व्याख्यानम्। अपेक्षितत्वप्रकारकज्ञानजन्यः, आत्मनः प्रयत्नं प्रति हेतुरिच्छा। ‘जानाति, इच्छति, यतते’ इति हि क्रमः। क्रोधो द्वेष इति स्थूलदृष्ट्या। इच्छायाः प्रतिघाते कोप:, ततो द्वेष इति क्रमः। प्रतिकूलत्वज्ञानजन्य आत्मगुणो द्वेषः। एवं प्रयत्नोऽपि आत्मगुणः, प्रवृत्तिहेतुः। लोके प्रवृत्तेः क्रियात्वात्, आत्मनि विभौ क्रियाया असंभवात्, शरीरादिप्रवृत्तिहेतुभूतो गुणविशेषः प्रयत्नः। बुद्धीच्छाद्वेषप्रयत्नाः सविषयका गुणाः।
विहितेत्यादि। आत्मगतो गुणविशेषो धर्मः। एवमधर्मोऽपि। कालान्तरभावि-सुखदुःखहेतुतया एतौ गुणौ सिद्धौ। यागादिक्रियायाः क्षणिकत्वात्, स्वर्गादिसुखहेतुत्वस्य शास्त्रसिद्धत्वादेतन्निर्वाहाय मध्ये द्वारतया कल्प्यमानो धर्मः। एवं गोहत्यादीनां कालान्तरे नरकादि दुःखकारणत्वनिर्वाहार्थमधर्मश्चावश्यकः। विहितत्वनिषिद्धत्वे शास्त्राधीने। एतावुभावेवादृष्टपदवाच्यौ कार्यसामान्यकारणभूतौ।
टिप्पणी
*विध्यर्थः- लिङ्लोट्तव्यत्प्रत्ययैर्विधिरभिधीयत इति सर्वविदितम्। विधेरर्थः कः ? गामानय इत्युक्ते हि कश्चित् कञ्चित् गवानयनरूपे कार्ये प्रेरयतीति प्रतीतेः प्रेरणैव विध्यर्थ इति स्पष्टम्। अथापि शास्त्रकारा बहुधा विप्रतिपद्यन्ते। नियोगो लिडर्थ इति जरन्मीमांसकाः। कार्यमेव लिङर्थ इति प्राभाकराः। भावनैवेति भाट्टाः। अपूर्वमिति नवीनाः। कृतिसाध्यत्वमेव स इति केचित्। इष्टसाधनत्वमेव स इत्यन्ये।
इदमत्रावधेयम्- लोके स्वरसतया प्रतीयमानेष्वप्यर्थेषु एते पण्डिताः क्लिश्यन्ति, क्लेशयन्ति चेति कुतः ? इत्येव तटस्थाः जिज्ञासन्ते। तत्रेदमेवात्र मूलम्। एकैकशास्त्र (दर्शन)स्य प्रत्येकं क्षेत्रं भिन्नमेव। न्यायशास्त्रस्य क्षेत्रं लौकिकक्षेत्रमेव। अत एव न्यायसूत्रभाष्ययोरीश्वरानुमानादिकं न प्रदर्शितम्। अत एव प्रत्यक्षलक्षणमपि इन्द्रियार्थसन्निकर्षोत्पन्नम् इति विशेषितम्, ईश्वरप्रत्यक्षस्य लक्ष्यत्वमेव नास्तीत्येव गौतमस्याशयः। अत एव प्राचीने काले न्यायदर्शनस्य लोकायतम् इत्येव संज्ञाऽऽसीदित्यादिकमन्यत्र प्रदर्शितम्।
एवञ्च नानाविधसंस्कारवतां चेतनानां बुद्धिभेदस्यानिवार्यतया, तत्तत्कक्ष्यानुरोधेन बुद्धेस्समन्वयस्य संपादनीयतया, शास्त्राणां कक्ष्या अपि भिद्येरन्। मूलस्तु एकतत्त्ववादः, तत्त्वद्वयवादः, त्रितत्त्ववाद इति त्रिविधं शास्त्रम्। एकतत्त्ववादी बौद्धानाम्। अद्वयवादी इति खलु बुद्धं निर्दिशति अमरसिंहः। निर्विशेषजीवतत्त्वमेकमङ्गीकृत्यैव सर्वं निर्वोढुं शक्यमिति सोऽमन्यत। तद्वदेव तत्स्थाने निर्विशेषब्रह्मैक्यवादोऽपि अनन्तरं प्रवृत्तः सर्वसमन्वयार्थमित्यपि प्रसिद्धम्। एवं सांख्याः, मीमांसकाश्च प्रकृतिपुरुषरूपतत्त्वद्वयवादिन इति प्रसिद्धमेव। सविशेषब्रह्मवादिनो वैदिकास्तु प्रकृतिः, जीवः, ईश्वरश्चेति तत्त्वत्रयवादिनः। भोक्ता भोग्यं प्ररितारं च मत्वा इति हि तत्त्वत्रयं वदति श्वेताश्वेतरश्रुतिः। इदं सर्वं साधककक्ष्याभेदेनैव। तत्तत्कक्ष्यायां तत्तत्सत्यमेवेत्यादिकं तत्त्वमुक्ताकलापव्याख्यायां सर्वङ्कषायां सत्यसिद्धौ च विस्तरेण प्रतिपादितम्।। प्रकृते न्यायशास्त्रं वैदिकं त्रितत्त्ववादमेवाङ्गीकरोति। वेदोपाङ्गत्वेन परिगणितश्च। अत एवेश्वरकृतो वेद इति वदति। अत एव चेश्वरप्रेरणैव लिङर्थ इत्यङ्गीकरोति। बलवदनिष्टाननुबन्धित्वकृतिसाध्यत्वज्ञानादिकं प्रेरणायाः पोषकतयोपकरोतीत्येव तत्त्वम्। अधिकमन्यत्र।
सर्वं न्याय्यं युक्तिमत्त्वात् विदुषां किमशोभनम् इति वदन् भगवान् शुकः- केवलकलहप्रियाणामविदुषां पण्डितानां तु नैकमपि शास्त्रं मुक्तये कल्पते इत्युद्घोषयति। एवं तर्हि निर्णय एव कुत्रापि न शक्य इति तु न मन्तव्यम् मानवबुद्धीनां परस्परमत्यन्तविलक्षणत्वात्, तत्तत्कक्ष्यानुगुणमेव निर्णयः। अत एवोक्तम्-
यो विद्यया यया युक्तस्तस्य सा दैवतं परम्।
सैव पूज्यार्चनीया च सैव तस्योपकारिणी॥
इत्येव परमं रहस्यम् अशक्तानामाप्तवाक्यमेव परमं प्रमाणम्। इत्याद्यन्यत्र विस्तरः।
आलोक- व्याख्या
ईश्वरस्य द्वेषादिगुणाभावात् ज्ञानेच्छायत्नेष्वेव नित्यानित्यविभागः। एतत् त्रयव्यतिरिक्तास्तु जीवगता अनित्या एव।।
वेगः। ‘आद्यपतनासमवायिकारणं गुरुत्वम्’ इति पूर्वमुक्ते लक्षणे, द्वितीयादिपतने वेगस्यापि कारणत्वं प्रदर्शितम्। अतश्च गुरुत्वादिभिन्नत्वे सति द्वितीयादिपतनासमवायिकारणत्वं वेगस्य लक्षणं ज्ञेयम्।
भावनाख्यं संस्कारं निरूपयति- अनुभवेत्यादि। अनुभवजन्यत्वे सति स्मृतिहेतुत्वं भावनाया लक्षणम्। अनुभवजन्यत्वमात्रोक्तौ अनुभवध्वंसेऽतिव्याप्तिः। अतः स्मृतिहेतुत्वम्। स्मृतिहेतुत्वमात्रोक्तावात्मन्यतिव्याप्तिः, आत्मनस्समवायिकारणत्वात्। अतोऽनुभवजन्यत्वमुक्तम्। आत्मनो नित्यत्वान्नातिव्याप्तिः। ननु तर्हि जन्यत्वमात्रमलम्, तावतैवात्मनि अतिव्याप्तेः परिहारादिति चेत्, न तदा कार्यसामान्यं प्रत्यदृष्टस्य कारणत्वात्, तस्य च जन्यत्वस्य ‘विहितकर्मजन्यः’ ‘निषिद्धकर्मजन्यः’ इत्यनुपदमुक्तत्वात्, अदृष्टपदवाच्यधर्माधर्मयोरतिव्याप्तिः। अतोऽनुभवजन्यत्वमावश्यकम्।
आत्ममात्रेति। जीवात्ममात्रवृत्तिरित्यर्थः। परमात्मा तु सदा सर्वं प्रत्यक्षत एव पश्यतीति, तस्य स्मृतिर्नास्ति। विस्तरस्त्वन्यत्र।।
ननु पूर्वम् ‘संस्कारमात्रजन्यं ज्ञानं स्मृतिः’ इति स्मृतेर्लक्षणमुक्तम्। इदानीं तु अनुभवजन्यत्वे सति स्मृतिहेतुत्वं भावनाख्यसंस्कारस्य लक्षणमुच्यते। एवं सति स्मृतिस्संस्कारजन्या, भावनाख्यसंस्कारस्तु स्मृतिहेतुरित्यन्योन्याश्रयदोष इति चेत्, न। अनुभवजन्यत्वे सति संस्कारत्वजातिमत्त्वमेव वा लघुलक्षणं बोध्यम्। इतरत्सर्वं स्वरूपकथनम्। संस्कारत्वजातिश्च स्मृतिजनकतावच्छेदकतया द्रव्यत्वादिवत्सिद्ध्यतीति युक्तम्।।
अनुभवजन्या स्मृतिहेतु:’ इत्यनेन भावनाख्यसंस्कारस्यानुभव-स्मृत्योर्मध्यवर्तित्वमुक्तं भवति। स्मृतिं प्रति पूर्वानुभवः कारणमिति सर्वसंप्रतिपन्नम्। न तावन्मात्रम्, अनुभवस्मृत्योः समानविषयत्वमपि संप्रतिपन्नम्। तावतानुभूतस्य सर्वस्यापि स्मरणनियमादर्शनात् अनुभवानधिकविषयत्वमेव समानविषयकत्वम्। अत्र च कारणमनुभवतारतम्यमेव। अत्रापि कारणं तत्तत्पुरुषबुद्धितारतम्यमेव। इदमेव ग्रहणधारणसामर्थ्यमित्युच्यते। ग्रहणं तादात्त्विकम्। धारणं संस्कारानुवृत्तिः। संस्कारानुवृत्तावपि कदाचित् स्मरणाभावोऽदृष्टाधीनः। अदृष्टमेव संस्कारोद्बोधकम्। एवं स्मृत्यनुभवयोर्मध्यवर्तित्वकथनात् संस्कारस्य द्वारत्वं सिद्ध्यति। क्षणिकानां क्रियारूपयागादीनां कालान्तरभाविस्वर्गादिकारणत्वनिर्वाहार्थं मध्ये धर्माधर्मयोः कल्पनवदेवाशुतरविनाशिनामनुभवानामपि स्मृतिकारणत्वनिर्वाहार्थं मध्ये संस्कारकल्पना। ननु तर्हि उद्बोधकतयाभिमतधर्माधर्मावेव मध्ये द्वारमास्ताम्, किमर्थमधिकगुणकल्पनेति चेत्, न। धर्माधर्मयोः फलनाश्यत्वात्, सकृत्स्मरणजननेनैव धर्माधर्मरूपसंस्कारक्षयापत्त्या पुनः कालान्तरे तत्स्मरणानुपपत्तेः। न च स्मृत्यैव पुनस्संस्कारान्तरोत्पत्त्या निर्वाहसंभवः। संस्कारस्यानुभवजन्यत्वनियमभंगप्रसङ्गात्। न चेष्टापत्तिः, पुनः पुनःस्मरणेन पूर्वसंस्कारस्यैव दार्ढ्यानुभवस्य वेदाध्ययनादावनुभवसिद्धत्वात्। पूर्वतनसंस्कारानुवृत्तेः स्पष्टमनुभवाच्च। अतो धर्माधर्माभ्यां नान्यथासिद्धिस्संस्कारस्येति संस्कारोऽत्यन्तमावश्यकः।
गोवर्धन-न्यायबोधिनी - सुखलक्षणम्
सुखं निरूपयति। सर्वेषामिति। इतरेच्छाऽनधीनेच्छाविषयत्वमिति निष्कर्षः। यथाश्रुते घटोऽनुकूल इत्याकारकानुकूलत्वप्रकारकज्ञानविशेष्यत्वस्य घटादावपि सत्वात्तत्रातिव्याप्तेः। सुखेच्छाधीने भोजनादावतिव्याप्तिवारणाय इतरेच्छानधीनेतीच्छाविशेषणम्। सुखेच्छा तु सुखत्वप्रकारकज्ञानजन्यैव।
कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - आत्मगुणाः
सर्वेषामनुकूलतया वेदनीयं सुखम्। प्रतिकूलतया वेदनीयं दुःखम्। इच्छा कामः। क्रोधो द्वेष:। कृतिः प्रयत्नः। विहितकर्मजन्यो धर्मः। निषिद्धकर्मजन्योऽधर्मः। बुद्ध्यादयोऽष्टावात्ममात्रवृत्तिविशेषगुणाः। बुद्धीच्छाप्रयत्ना नित्या अनित्याश्च। नित्या ईश्वरस्य अनित्या जीवस्य। संस्कारस्त्रिविधः। वेगो भावना स्थितस्थापकश्चेति। वेगः पृथिव्यादि चतुष्टयमनोवृत्तिः। अनुभवजन्या स्मृतिहेतुर्भावना। आत्ममात्रवृत्तिः। अन्यथाकृतस्य पुनस्तदवस्थापादकः स्थितस्थापकः। कटादि पृथिवीमात्रवृत्तिः।
सुखं लक्षयति सर्वेषामिति। अत्र षष्ठ्याः समवेतत्वम्, तृतीयायाः प्रकारतानिरूपकत्वम्, ‘विद्’ धातोः ज्ञानम्, तदुत्तरवर्तिप्रत्ययस्य विषयत्वञ्चार्थः। तथा च सर्वसमवेतानुकूलत्वप्रकारकज्ञानविषयत्वं सुखस्य लक्षणम् इति फलितम्। सर्वसमवेतं अनुकूलत्वप्रकारकं यत् ज्ञानं सुखं मदनुकूलम् इति ज्ञानं, तद्विषयत्वस्य सुखे सत्त्वात् समन्वयः। अत्र विषयत्वं विशेष्यतारूपं ग्राह्यम्, अन्यथा निरुक्तज्ञानीयप्रकारतामादायानुकूलत्वादावतिव्याप्तिः। सर्वपदाभावे घटादावपि तादृशविषयत्वस्य सत्त्वादतिव्याप्तिः, सर्वपदनिवेशे तु सर्वेषां घटो मदनुकूलः इति ज्ञानाभावेन नातिव्याप्तिः। नचैवमपि शत्रुसुखस्य तत्प्रतिपक्षिणां प्रतिकूलतया तत्र सर्वसमवेतानुकूलत्वप्रकारकज्ञानविषयत्वस्याभावेनाव्याप्तिः, वैषयिके सुखे साधूनां द्वेषदर्शनेन तत्र सर्वसमवेतानुकूलत्वप्रकारकज्ञानविषयत्वस्याभावादव्याप्तिश्चेति वाच्यम्। इतरेच्छानधीनेच्छाविषयत्वस्य तल्लक्षणत्वात्, प्रथमं सुखेच्छायामुत्पन्नायां सुखसाधनेच्छा समुदेति, सुखेच्छां प्रत्यन्येच्छाः न कारणीभवितुमर्हन्ति, तथाच सर्वासाञ्च भोजनादीच्छानां सुखेच्छानन्तरमुत्पद्यमानत्वेन सुखेच्छाधीनतया सुखेच्छायास्तु स्वेतरेच्छानधीनतया इतरेच्छानधीना या इच्छेत्युक्तौ सुखेच्छा भवति, तद्विषयत्वं सुखे वर्तत इति लक्षणसमन्वयः। सुखातिरिक्तविषये सुखेच्छारूपेतरेच्छाधीनेच्छाविषयत्वस्यैव सत्त्वात् विषयेषु नातिव्याप्तिः। इच्छाविषयत्वमात्रोक्तौ भोजनादावतिव्याप्तिः, इतरेच्छानधीनत्वस्येच्छायां निवेशे तु भोजनादीच्छायाः सुखेच्छारूपेतरेच्छाधीनतया नातिव्याप्तिः।
दुःखं लक्षयति सर्वेषामिति। अर्थक्रमः पूर्ववत्। सर्वसमवेतप्रतिकूलत्वप्रकारकज्ञानविषयत्वं दुःखस्य लक्षणमिति फलितम्। सर्वसमवेतं प्रतिकूलत्वप्रकारकं यत् ज्ञानं दुःखं मत्प्रतिकूलम् इति ज्ञानम्, तद्विषयत्वं दुःखे वर्तत इति समन्वयः। अत्रापि विषयत्वं विशेष्यतारूपं ग्राह्यम्, अन्यथा पूर्ववत् प्रतिकूलत्वादावतिव्याप्तिः। सर्वपदाभावे साधुसमवेतप्रतिकूलत्वप्रकारकज्ञानविषयत्वस्य वैषयिकसुखादौ सत्त्वादतिव्याप्तिः। अतः सर्वपदोपादानम्। नचैवमपि सर्पादेः शत्रुसुखादेश्च सर्वसमवेतप्रतिकूलत्वप्रकारकज्ञानविषयत्वादतिव्याप्तिरिति वाच्यम्, इतरद्वेषानधीनद्वेषविषयत्वस्य तल्लक्षणत्वात्। प्रथमं दुःखे द्वेषात् दुःखसाधनेषु सर्पादौ द्वेषः, अतो विषयेषु द्वेषः दुःखद्वेषाधीनः, दुःखद्वेषस्तु इदं दुःखं इति ज्ञानात् जायते, अतः इतरद्वेषानधीनो यो द्वेषः दुःखद्वेषः, तद्विषयत्वस्य दुःखे सत्त्वात् नातिव्याप्तिः। द्वेषविषयत्वमात्रोक्तौ सर्पादावतिव्याप्तिः, द्वेषे इतरद्वेषानधीनत्वनिवेशे तु सर्पादिषु द्वेषस्यापि दुःखद्वेषाधीनतया नातिव्याप्तिः। (फलेच्छा उपायेच्छाकारणम्, फलद्वेषः उपायद्वेषकारणम्, फलेच्छाफलद्वेषौ तु फलज्ञानजन्यौ इति विवेकः।
अहमिच्छामि, अयं क्रुद्धः, अहं करोमि इत्यादि प्रतीतिविषयतावच्छेदकमिच्छात्वादिकमिच्छादीनां लक्षणमिति बुबोधयिषुरन्नम्भट्टः इच्छा कामः, क्रोधो द्वेषः, कृतिः प्रयत्नः, इत्यादिना इच्छाद्वेषप्रयत्नानां पर्यायपदान्येवं प्रादर्शयत्। अथवा, इच्छाप्रयत्नयोः पृथक् लक्षणे अपि सम्भवतः। तथाहि ज्ञानजन्यत्वे सति कृतिजनकत्वम् इच्छायाः लक्षणम्। जानाति इच्छति यतते, इति क्रममनुसृत्य ज्ञानजन्यत्वकृतिजनकत्वयोरिच्छायां सत्त्वात् समन्वयो बोध्यः। (इच्छाजन्यत्वे सति गुणत्वम्) कार्यमात्रकारणतावच्छेदकत्वं कृतिलक्षणं बोध्यम्। (पूर्वक्रममनुसृत्येच्छाजन्यत्वं) कार्यमात्रं प्रति कर्तुः कारणत्वेन कार्यमात्रकारणतावच्छेदकत्वञ्चास्तीति समन्वयो ग्राह्यः। यद्वा। आख्यातशक्यतावच्छेदकधर्मवत्त्वम् कृतिलक्षणम् बोध्यम्। आख्यतमात्रस्य लाघवेन कृतित्वावच्छिन्ने शक्त्यङ्गीकरणेन आख्यातशक्यतावच्छेदककृतित्वमादाय समन्वयो बोध्यः।
धर्मं लक्षयति विहितेति। विहितकर्मजन्यत्वं धर्मस्य लक्षणम्। यागादिविहितकर्मजन्यत्वस्य धर्मे सत्त्वात् समन्वयः। नचैवं विहितकर्मजन्यत्वस्य विहितकर्मध्वंसे सत्त्वादतिव्याप्तिरिति वाच्यम्, गुणत्वस्यापि निवेशनीयत्वात्। नचैवमपि प्रत्यक्षे विषयस्य कारणतया देवतावन्दनादिरूपविहितकर्मविषयकप्रत्यक्षे विहितकर्मजन्यत्वगुणत्वयोस्सत्त्वात् अतिव्याप्तिरिति वाच्यम्, गुणपदस्यातीन्द्रियगुणपरत्वात्, तादृशप्रत्यक्षस्य मनइन्द्रियग्राह्यतयाऽतीन्द्रियत्वाभावात् नातिव्याप्तिः।
अधर्मं लक्षयति निषिद्धेति ॥ निषिद्धकर्मजन्यत्वमधर्मस्य लक्षणम्, निषिद्धकर्म कलञ्चभक्षणादि, तज्जन्यत्वमधर्मे वर्तते इति समन्वय:। नचैवं निषिद्धकर्मजन्यत्वस्य निषिद्धकर्मध्वंसे सत्त्वादतिव्याप्तिरिति वाच्यम्, गुणत्वस्यापि निवेशनीयत्वात्। नचैवं अविहितकर्मविषयकप्रत्यक्षे दलद्वयसत्त्वादतिव्याप्तिरिति वाच्यम्, गुणपदस्य अतीन्द्रियगुणपरत्वात् नातिव्याप्ति: ॥
प्रकृते आत्मेतरावृत्तित्वमेव आत्ममात्रवृत्तित्वम्, आत्मवृत्तित्वस्याऽपि प्रवेशे प्रयोजनाभावत् (नेदं लक्षणम्) बुद्धीच्छाप्रयत्नानां आश्रयभेदेन द्वैविध्यमाह बुद्धीच्छेति। ईश्वराश्रितानां बुद्धीच्छाप्रयत्नानाम् ईश्वरस्य सर्वप्रपञ्चकर्तृत्वानुरोधेन विनिगमनाविरहेण यस्सर्वज्ञस्सर्वविदिति श्रुत्यनुरोधेन च सर्वप्रपञ्चविषयकत्वमङ्गीकर्तव्यम्। ईश्वराश्रितानां तेषाम् अनित्यत्वसाधने विनिगमकाभावेन नित्यत्वमप्यङ्गीकार्यम्। ईश्वराश्रितबुद्धिश्च प्रत्यक्षरूपैव न त्वनुमित्यादिरूपा। ईश्वरस्य नित्यसुखमप्यङ्गीकुर्वन्ति केचन। विभुविशेष (ईश्वरभिन्नविभुविशेष) गुणानां स्वोत्तरोत्पन्नविशेषगुण (विभुविशेषगुण) नाश्यत्वनियमेन नाशप्रतीत्यनुरोधेन च जीवाश्रितस्य तत्त्रयस्य अनित्यत्वमेवाङ्गीकार्यम् (शब्दबुद्ध्योः द्विक्षणावस्थायित्वमेवाङ्गीक्रियते) संस्कारं विभजते संस्कारः इति। वेगं लक्षयति पृथिव्यादीति। एतद्वाक्यं स्वरूपकीर्तनपरम्। लक्षणन्तु मनोवृत्तित्वमेव पृथिव्यादिप्रवेशे प्रयोजनाभावात्। न च (मूर्तानां दिगुपाधित्वमिति न्यायेन मूर्तेषु दिक्कृतविशेषणतासम्बन्धेन सर्वस्यापि प्रपञ्चस्य सत्त्वेन मनोनिरूपितनिरुक्तसम्बन्धावच्छिन्न वृत्तितामादाय घटादावतिव्याप्तिरिति वाच्यम्, मनोनिरूपितवृत्तितायां समवायसम्बन्धावच्छिन्नत्वस्य निवेशनीयत्वात्, तेन सम्बन्धेन मनसि घटादीनामभावात् नातिव्याप्तिः। न च क्रियासंयोगादौ मनोनिरूपितसमवायसम्बन्धावच्छिन्नवृत्तित्वस्य सत्त्वादतिव्याप्तिरिति वाच्यम्, संस्कारत्वस्यापि निवेशनीयत्वात् क्रियादौ संस्कारत्वाभावात् नातिव्याप्तिः।।