54 अयथार्थानुभवः

मूलम् - अयथार्थानुभवः - 54

अयथार्थानुभवस्त्रिविधः संशयविपर्ययतर्कभेदात्। एकस्मिन्धर्मिणि विरुद्धनानाधर्मवैशिष्ट्यावगाहिज्ञानं संशयः। यथा स्थाणुर्वा पुरुषो वेति। मिथ्याज्ञानं विपर्ययः। यथा शुक्ताविदं रजतमिति। व्याप्यारोपेण व्यापकारोपस्तर्कः यथा यदि वह्निर्नस्यात्तर्हि धूमोऽपि न स्यादिति॥ ५३॥

Tags - 54

अयथार्थानुभवः, संशयः, विपर्ययः, तर्कः

दीपिका - प्रमाणविचारः

नन्वर्थापत्तिरपि प्रमाणान्तरमस्ति। पीनो देवदत्तो दिवा न भुङ्क्ते इति दृष्टे श्रुते वा पीनत्वान्यथाऽनुपपत्त्या रात्रिभोजनमर्थापत्त्या कल्प्यत इति चेन्न। देवदत्तो रात्रौ भुङ्क्ते, दिवा अभुञ्जानत्वे सति पीनत्वादित्यनुमानेनैव रात्रिभोजनस्य सिद्धत्वात्। शते पञ्चाशदिति संभवोऽप्यनुमानमेव। इह वटे यक्षस्तिष्ठतीत्यैतिह्यमपि अज्ञातमूलवक्तृकश्शब्द एव। चेष्टाऽपि शब्दानुमानद्वारा व्यवहारहेतुरिति न प्रमाणान्तरम्। तस्मात्प्रत्यक्षानुमानोपमानशब्दाश्चत्वार्येव प्रमाणानि।

दीपिका - प्रामाण्यनिर्णयः

सर्वेषां ज्ञानानां तद्वति तत्प्रकारकत्वं स्वतोग्राह्यं परतो ग्राह्यं वेति विचार्यते। तत्रेयं विप्रतिपत्तिः। ज्ञानप्रामाण्यं तदप्रामाण्याग्राहकयावज्ज्ञानग्राहकसामग्रीग्राह्यं न वेति। अत्र विधिकोटिः स्वतस्त्वम्। निषेधकोटिः परतस्त्वम्। अनुमानादिग्राह्यत्वेन सिद्धसाधनवारणाय यावदिति। ‘इदं ज्ञानमप्रमा’ इति ज्ञानेन प्रामाण्याग्रहात् बाधवारणाय अप्रामाण्याग्राहकेति। इदं ज्ञानमप्रमा इत्यनुव्यवसायनिष्ठप्रामाण्यग्राहकस्यापि अप्रामाण्याग्राहकत्वाभावात् स्वतस्त्वं न स्यादतस्तदिति। तस्मिन् ग्राह्यप्रामाण्याश्रयेऽप्रामाण्याग्राहिकेत्यर्थः। उदाहृतस्थले व्यवसायेऽप्रामाण्यग्राहकस्याप्यनुव्यवसाये तदग्राहकत्वेन स्वतस्त्वसिद्धिः।

ननु स्वत एव प्रामाण्यं गृह्यते। घटमहं जानामीत्यनुव्यवसायेन घटघटत्वयोरिव तत्संबन्धस्यापि विषयीकरणात्। व्यवसायरूपप्रत्यासत्तेस्तुल्यत्वात् पुरोवर्तिनि प्रकारसंबन्धस्यैव प्रमात्वपदार्थत्वादिति चेन्न। स्वतः प्रामाण्यग्रहे जलज्ञानं प्रमा न वेत्यनभ्यासदशायां प्रमात्वसंशयो न स्यात्। अनुव्यवसायेन प्रामाण्यस्य निश्चितत्वात्। तस्मात् स्वतोग्राह्यत्वाभावात् परतोग्राह्यत्वमेव। तथाहि प्रथमं जलज्ञानानन्तरं प्रवृत्तौ सत्यां जललाभे सति ‘पूर्वोत्पन्नं जलज्ञानं प्रमा सफलप्रवृत्तिजनकत्वात्, यन्नैवं तन्नैवं यथा अप्रमा’ इति केवलव्यतिरेकिणा प्रमात्वं निश्चीयते। द्वितीयादिज्ञानेषु पूर्वज्ञानदृष्टान्तेन तत्सजातीयत्वलिङ्गेन अन्वयव्यतिरेकिणाऽपि गृह्यते।

प्रमायाः गुणजन्यत्वमुत्पत्तौ परतस्त्वम्। प्रमाऽसाधारणकारणं गुणः। अप्रमाऽसाधारणकारणं दोषः। तत्र प्रत्यक्षे विशेषणवद्विशेष्यसंनिकर्षो गुणः। अनुमितौ व्यापकवति व्याप्तिज्ञानम्। उपमितौ यथार्थसादृश्यज्ञानम्। शाब्दज्ञाने यथार्थयोग्यताज्ञानमित्यादिकमूहनीयम्।

पुरोवर्तिनि प्रकाराभावस्य अनुव्यवसायेनानुपस्थितत्वादप्रमात्वं परत एव गृह्यते। पित्तादिदोषजन्यत्वमुत्पत्तौ परतस्त्वम्।

दीपिका - अन्यथाख्यातिविचारः

ननु सर्वेषां ज्ञानानां यथार्थत्वादयथार्थज्ञानमेव नास्तीति। न च शुक्ताविदं रजतमिति ज्ञानात् प्रवृत्तिदर्शनादन्यथाख्यातिसिद्धिरिति वाच्यम्। रजतस्मृति पुरोवर्तिज्ञानाभ्यामेव प्रवृत्तिसम्भवात् स्वतन्त्रोपस्थितेष्टभेदाग्रहस्यैव सर्वत्र प्रवर्तकत्वेन नेदं रजतमित्यादावतिप्रसङ्गाभावादिति चेन्न। सत्यरजतस्थले पुरोवर्तिविशेष्यकरजतत्वप्रकारकज्ञानस्य लाघवेन प्रवृत्तिजनकतया शुक्तावपि रजतार्थिनः प्रवृत्तिजनकत्वेन विशिष्टज्ञानस्यैव कल्पनात्।

दीपिका - अप्रमाविभागः

अयथार्थानुभवं विभजते- अयथार्थेति। स्वप्नस्य मानसविपर्ययरूपत्वान्न त्रैविध्यविरोधः। संशयलक्षणमाह- एकेति। घटपटाविति समूहालम्बनेऽतिव्याप्तिवारणायैकेति। घटो द्रव्यमित्यादावतिव्याप्तिवारणाय विरुद्धेति। घटत्वविरुद्धपटत्ववानित्यत्रातिव्याप्तिवारणाय नानेति। विपर्ययलक्षणमाह-मिथ्येति। तदभाववति तत्प्रकारकनिर्णयः इत्यर्थः। तर्कं लक्षयति- व्याप्येति। यद्यपि तर्को विपर्ययेऽन्तर्भवति, तथापि प्रमाणानुग्राहकत्वाद्भेदेन सङ्कीर्तनम्।

वरदाचार्य आलोके - अयथार्थानुभवः

तर्कसंग्रहः
एवं यथार्थानुभवो निरूपितः। अयथार्थानुभवस्त्रिविधः। संशयविपर्ययतर्कभेदात्। एकस्मिन्धर्मिणि विरुद्धनानाधर्मवैशिष्ट्यावगाहिज्ञानं संशयः। यथा स्थाणुर्वा पुरुषो वेति। मिथ्याज्ञानं विपर्ययः। यथा शुक्ताविदं रजतमिति। व्याप्यारोपेण व्यापकारोपस्तर्कः। यथा यदि वह्निर्न स्यात्तर्हि धूमोऽपि न स्यादिति।
आलोक- व्याख्या
एवम् - ‘यथार्थानुभवश्चतुर्विधः प्रत्यक्षानुमित्युपमितिशाब्दभेदात्’ इति विभक्तस्य यथार्थानुभवस्य विचारस्समाप्तः। अथ प्रप्रथमम् ‘स च द्विविधो यथार्थः, अयथार्थश्चेति विभक्तयोर्मध्ये, अथायथार्थानुभवनिरूपणोपोद्घाततया तस्य संगत्यर्थमाह- एवमित्यादि।।
प्रथमोद्दिष्टं संशयं निरूपयति - एकस्मिन्नित्यादि। विरुद्धाश्च ते नानाधर्माश्च विरुद्धनानाधर्माः। ते प्रकारा यत्र, तत् विरुद्धनानाधर्मप्रकारकम्। ‘एकस्मिन्’ इति धर्मिविशेषणम्। ‘धर्मिणि’ इत्यत्र सप्तम्या विशेष्यत्वमर्थः। प्रकृत्यर्थस्याधेयतासंबन्धेनान्वयः। विरुद्धत्वं परस्परासमानाधिकरणत्वम्। ततश्च विरुद्धनानाधर्मप्रकारकं नाम परस्परासमानाधिकरणनानाधर्मनिष्ठप्रकारतानिरूपकम् इत्यर्थः। ततश्च एकधर्मिनिष्ठविशेष्यतानिरूपकम्, परस्परविरुद्धनानाधर्मनिष्ठ- प्रकारतानिरूपकं च ज्ञानं संशय इत्यर्थः।। एवञ्च एकधर्मावच्छिन्नविशेष्यतानिरूपकत्वे सति, परस्परविरुद्धनानाधर्मावच्छिन्नप्रकारताशालित्वे सति ज्ञानत्वं संशयलक्षणम्। ज्ञानत्वमात्रोक्तौ विपर्यये प्रमायाञ्चातिव्याप्तिः, तयोरपि ज्ञानत्वात्। अतो नानाधर्मप्रकारकत्वं विशेषणम्। शुक्तौ ‘इदं रजतम्’ इति विपर्यये रजतत्वमात्रप्रकारकत्वात् नानाधर्मप्रकारकत्वाभावात् नातिव्याप्तिः। एवमपि ‘भूतलं घटवत् पटवच’ इति समुच्चयात्मकज्ञाने, ‘भूतलं घटपटवत्’ इति समूहालम्बनज्ञाने च एकस्मिन् धर्मिणि नानाधर्मप्रकारकत्वादतिव्याप्तिरित्यतः विरुद्धेति। समुच्चये समूहालम्बने च विरोधस्याभानान्नातिव्याप्तिः।
ननु संशयस्यायथार्थानुभवावान्तरविभागरूपत्वात्, तदभाववति तत्प्रकारकत्वरूपसामान्यलक्षणस्य जागरूकत्वे प्रमात्मकसमुच्चये समूहालम्बने वा कथमतिव्याप्तिप्रसक्तिरिति चेत्, न। शुक्तौ ‘इदमेकं रजतम्’ इति भ्रमे एकत्वरजतत्वरूपनानाधर्मप्रकारकत्वस्य सत्त्वात् विपर्ययेऽतिव्याप्तिः। अतो विरुद्धत्वविशेषणम्। एकत्वरजतत्वयोर्विरोधाभावाद्व्यावृत्तिः। एवमपि अतिव्याप्तिर्दुर्वारैव, रङ्गे रजतत्वावगाहित्वेनायथार्थत्वापरित्यागात् ‘रङ्गरजते दृष्ट्वा ‘इमे रजतरङ्गे’ इति भ्रमे विरुद्धनानाधर्मप्रकारकत्वसत्त्वात् अतिव्याप्तिवारणाय ‘एकस्मिन् धर्मिणि’ इति। तत्र ‘इमे’ इति नानाधर्मिकत्वान्नातिव्याप्तिः।
मिथ्येत्यादि। एतल्लक्षणं च पूर्वमेवोक्तम् - ‘तदभाववति तत्प्रकार- कानुभव इति। ननु तत् अप्रमाया लक्षणम्। अप्रमैव मिथ्याज्ञानमुच्यते। स एव चायथार्थानुभवः। अयं च त्रिविध उक्तः संशयविपर्ययतर्कभेदादिति। तदभाववति तत्प्रकारकत्वं त्रयाणामपि सामान्यं लक्षणम्। एवं चेत् विपर्ययस्य लक्षणं संशये तर्के चातिव्याप्तं किलेति चेत्, सत्यम्। संशयतर्कभिन्नत्वे सति तदभाववति तत्प्रकारकत्वं विपर्ययस्य लक्षणमिति विशेषलक्षणं वक्तव्यमिति न कश्चन दोषः। ननु तर्हि विपर्ययो निश्चयरूपः। निश्चयत्वं च संशयान्यज्ञानत्वम्। एवञ्चान्योन्याश्रयः संशयान्यज्ञानत्वं विपर्ययत्वम्, विपर्ययान्यज्ञानत्वं संशयत्वमितीति चेत्, प्रमाया अपि निश्चयरूपत्वात् विपर्ययत्वनिश्चयत्वयोः पर्यायत्वाभावान्न दोषः अथवा निश्चिनोमीति अनुभवसिद्धजातिमत्त्वमेव निश्चयत्वम्। अथवा ‘तदभाववद्विशेष्यकत्वे सति परस्परविरुद्धधर्माप्रकारकानुभवो विपर्यय इति नान्योन्याश्रयः।
तर्कस्य लक्षणम् - व्याप्येत्यादि। व्याप्यस्यारोपेण व्यापकस्यारोपणं तर्कः। यथा ‘पर्वतो वह्निमान् धूमात्’ इति प्रयुक्ते, कश्चित् पृच्छति ‘धूमस्य सत्त्वमात्रेण, वह्निसत्त्वं कथं निश्चीयते’ इति। एवं प्रश्नस्याप्रयोजकशङ्केति संज्ञा। ‘हेतुरस्तु साध्यं मास्तु’ इति शङ्काप्रयोजकशङ्का। हेतोः सत्त्वं साध्यस्य सत्त्वे न प्रयोजकम्, यदि साध्यं विनापि हेतुः स्यात्पक्षे इति शङ्काया आशयः। तस्योत्तरं वक्ति - ‘यदि साध्यं न स्यात्, तर्हि हेतुरपि न स्यात्’ इति। प्रकृते ‘यदि वह्निर्न स्यात्, तर्हि धूमोऽपि न स्यात्’ इति। जगति यत्र कुत्रापि वह्न्यभावेऽपि धूमो दृष्टः किम् ? अतो वह्न्यभावे धूमोऽपि न स्यादेव। ‘धूमो यतो दृश्यते, तर्हि वह्निरपि स्यादेव, न तु वह्न्यभावः’ इति प्रदर्शनेन प्रकृतहेतोः अप्रयोजकत्वशङ्का= साध्यासाधकत्वशङ्का निवर्तते। अतोऽप्रयोजकशङ्कानिवारकस्तर्क इत्युच्यते। पर्वते वह्नेर्धूमस्य च सत्त्वात् ‘यदि वह्निर्न स्यात्’ इति कल्पयित्वा वक्तव्यम्। एतादृशकल्पनात्मकं ज्ञानम् ‘आरोप:’ इत्युच्यते। एवं ‘धूमोऽपि न स्यात्’ इत्यारोप एव। धूमस्य सत्त्वेन तथा वक्तुमशक्यात्। एतदारोपसूचनार्थमेव ‘स्यात्’ इत्युच्यते। अत्र वह्न्यभावो व्याप्यः, धूमाभावो व्यापकः। आक्षेप्ता पृच्छति - ‘धूमोऽस्तु’ इति। अतस्तस्य पर्वते धूमाभावो नेष्टः। प्रतिवक्ता वदति, ‘यदि पर्वते धूम एव स्यात्, न तु धूमाभावः तर्हि तत्र वह्निरेव स्यात्, न तु वह्न्यभावः। अत्र वह्न्यभाव एवाक्षेप्तुरिष्टः। तत उच्यते ‘यदि वह्न्यभावः स्यात्, तर्हि धूमाभाव एव स्यात्, न तु धूमः’ इति। अतो यदि व्याप्यो वह्न्यभावः स्यात्, तर्हि व्यापको धूमाभाव एव स्यात्। ‘यत्र वह्न्यभावस्तत्र धूमाभावः’ इति व्याप्तेः सत्त्वात्। अतश्च यदि धूमः स्यात्, तर्हि वह्निरप्यावश्यक इति प्रदर्शनमेव तर्कस्य कृत्यम्। आरोपो नाम, वस्तुतस्तथाऽभावेऽपि तथात्वकल्पनम्। बाधकालिकमिच्छाजन्यमिदं ज्ञानम् ‘आहार्यम्’ ‘उपनीतभानम्’ इत्यप्युच्यते। अत एव वह्न्यभावस्य बाधज्ञाने सत्यपि, इच्छया बलात्कारेणोत्पाद्यते एतादृशं ज्ञानम्। एतादृशस्थले तदभाववत्तानिश्चये सत्यपि तद्वत्ताबुद्धिरुत्पद्यते। अत एव प्रतिबध्यप्रतिबन्धकभावकोटावुभयत्रानाहार्यत्वविशेषणम्। आहार्यज्ञानं तु न कुत्रापि प्रतिबन्धकम्, प्रतिबध्यं वा। प्रतिबन्धककोटौ ‘अनाहार्य’ पदं स्पष्टम्। प्रतिबध्यकोटौ तु ‘लौकिकसन्निकर्षाजन्य’ पदमेतदर्थकम्। बलात्कारेणाह्रियमाणत्वात्, तत् आहार्यज्ञानं न लौकिकसन्निकर्षजन्यम्। अधिकमन्यत्र।
तर्कसंग्रह:
स्मृतिरपि द्विविधा। यथार्थाऽयथार्था चेति। प्रमाजन्या यथार्था। अप्रमाजन्या अयथार्था।
आलोक व्याख्या
एवं ‘ज्ञानं द्विविधम्- स्मृतिः, अनुभवश्च’ इति विभक्तयोः मध्येऽनुभवस्यैव स्मृतिं प्रति कारणत्वात् प्रथममनुभवविचारं परिसमाप्य, स्मृतौ वक्तव्यं वक्ति- स्मृतिरपीत्यादि। एवञ्च स्मृतेः प्रमात्वमप्रमात्वं वा तद्धेतुभूतज्ञानाधीनमिति, स्मृतावेतद्विभागो न मुख्यः। स्मृतौ प्रमात्वस्याङ्गीकारे, तद्धेतुभूतस्य संस्कारस्य प्रमाकरणत्वप्राप्त्या प्रमाणत्वं स्यात्। न चास्तु का हानिरिति वाच्यम्, तर्हि अयथार्थस्मृतेरपि प्रमाणजन्यत्वात्, प्रमात्वापत्तिः। अस्तु तर्हि संस्कारेऽपि विभाग इति वाच्यम्, करणे तथा विभागासंभवात्। न हीन्द्रियादौ तथा विभागो वक्तुं शक्यते। इन्द्रियं हि प्रमाकरणम्, न तु अप्रमाकरणम्। तर्हि शुक्तौ ’ इदं रजतम्’ इति ज्ञानमिन्द्रियमन्तरापि स्यादिति चेत्, ‘इदम्’ इत्यंशस्येन्द्रियान्वयव्यतिरेकानुविधानात् तावत्येवेन्द्रियव्यापार- स्योपरमः। ‘रजतम्’ इत्यंशस्तु ज्ञानलक्षणारूपालौकिकसन्निकर्षवशा- द्भवतीत्यादिकमन्यत्र द्रष्टव्यम्। आहत्यातीन्द्रिये संस्कारे द्वैविध्यस्याभावात्, तज्जन्यस्मृतावपि द्वैविध्यं तद्धेतुभूतानुभवाधीनम् इति, विभागप्रदर्शनं स्वरूपकीर्तनमात्रम्।

गोवर्धन-न्यायबोधिनी - संशयः

यथार्थानुभवं निरूप्यायथार्थानुभवं विभजते। संशयेत्यादिना। एकेति। एकधर्मावच्छिन्नविशेष्यकभावाभावप्रकारकज्ञानं संशय इत्यर्थः। भावद्वयकोटिकसंशयप्रसिद्धेः स्थाणुर्वेत्यादौ स्थाणुत्वस्थाणुत्वाभावपुरुषत्वपुरुषत्वाभावकोटिकसंशय एवार्थः।

गोवर्धन-न्यायबोधिनी - विपर्ययः

मिथ्याज्ञानमिति। अयथार्थज्ञानमित्यर्थः। विपर्ययो नाम भ्रमः।

गोवर्धन-न्यायबोधिनी - व्याप्तिविचारः

व्याप्यारोपेणेति। तर्के व्याप्यस्य व्यापकस्य च बाधनिश्चयः कारणम्। अन्यथा इष्टापत्तिदोषेण तर्कानुत्पत्तेः।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - अयथार्थज्ञानप्रकारः

अयथार्थानुभवादिनिरूपणम्
एवं यथार्थानुभवो निरूपितः। अयथार्थानुभवस्त्रिविधः। संशयविपर्ययतर्कभेदात्। एकस्मिन्धर्मिणि विरुद्धनानाधर्मवैशिष्ट्यावगाहिज्ञानं संशयः। यथा स्थाणुर्वा पुरुषो वेति। मिथ्याज्ञानं विपर्ययः। यथा शुक्ताविदं रजतमिति। व्याप्यारोपेण व्यापकारोपस्तर्कः। यथा यदि वह्निर्न स्यात्तर्हि धूमोऽपि न स्यादिति।
एवं यथार्थानुभवे प्रसक्तानुप्रसक्तां तत्सामग्रीञ्च निरूप्य अयथार्थानुभवं निरूपयति अयथार्थानुभव इति। संशयं लक्षयति एकस्मिन्निति। धर्मिणीत्यत्र सप्तम्याः विशेष्यतानिरूपकत्वार्थकत्वेन एकधर्मिविशेष्यकत्वे सति विरुद्धनानाधर्मप्रकारकत्वे सति ज्ञानत्वं संशयस्य लक्षणम् फलितम्। स्थाणुर्वा पुरुषो वेत्यत्र संशये पुरोवर्तिवस्तुरूपैकधर्मिविशेष्यकत्वे सति स्थाणुत्व स्थाणुत्वाभावरूपविरुद्धनानाधर्मप्रकारकत्वे सति ज्ञानत्वस्य विद्यमानत्वात् लक्षणसमन्वयः।
केचन स्थाणुर्वा पुरुषो वेति वाक्येन संशयाभिलापस्थले स्थाणुपुरुषपदयोः स्थाणुत्वपुरुषत्वार्थकत्वम्, उभयत्र वा शब्दयोः (वाकारयोः) स्थाणुत्वाभाव पुरुषत्वाभावार्थकत्वञ्च अङ्गीकृत्य स्थाणुत्वस्थाणुत्वाभाव-पुरुषत्वपुरुषत्वाभावकोटिकं संशयमङ्गीकुर्वन्ति। एतन्मते च भावद्वयकोटिकसंशयो नाभ्युपगम्यते।
अन्ये तु, भावद्वयकोटिकसंशयमङ्गीकुर्वन्तः स्थाणु-पुरुषपदयोः स्थाणुत्व-पुरुषत्वार्थकत्वम्, वाकारद्वयस्य अयं स्थाणुः पुरुषश्चेति समुच्चयव्यावृत्तप्रकारताद्वयनिरूपितैकविशेष्यताकत्वसूचकत्वञ्च अङ्गीकृत्य स्थाणुत्वपुरुषत्वकोटिकं संशयमङ्गीकुर्वन्ति।
अपरे, भावद्वयकोटिकसंशयमनङ्गीकुर्वन्तः स्थाणुपदस्य स्थाणुत्वार्थकत्वम्, पुरुषपदस्य स्थाणुत्वाभावार्थकत्वञ्च अङ्गीकृत्य स्थाणुत्व स्थाणुत्वाभावकोटिकं पुरुषत्व पुरुषत्वाभावकोटिकं वा संशयमङ्गीकुर्वन्ति। अत्रापि वाकारद्वयं निरुक्तविशेष्यतासूचकमेव।
भावद्वयकोटिकसंशयाङ्गीकर्तृमते विरुद्धनानाधर्मपदेन स्थाणुत्व-पुरुषत्वरूपधर्मौ भावद्वयकोटिकसंशयानङ्गीकारे स्थाणुत्व-स्थाणुत्वाभावरूपभावाभावौ चादाय लक्षणसमन्वयः कर्तव्यः।
ज्ञानत्वमात्रोक्तौ विपर्ययादिष्वतिव्याप्तिः। ज्ञानत्वानुपादाने स्थाणुर्वा पुरुषो वेति संशयात् जायमाने संस्कारे (स्थाणुर्वा पुरुषो वेति संशयो भूयात् इतीच्छायां) अतिव्याप्तिः, अतो ज्ञानत्वनिवेशः कार्यः। एकधर्मिविशेष्यकत्वे सति ज्ञानत्वमात्रोक्तौ पर्वतो वह्निमानित्यनुमितावतिव्याप्तिः, विरुद्धनानाधर्मप्रकारकत्वनिवेशे तु वह्नेरेकस्यैव तत्र प्रकारतया विरुद्धनानाधर्मप्रकारकत्वाभावात् नातिव्याप्तिः। विरुद्धनानाधर्मप्रकारकत्वे सति ज्ञानत्वमात्रोक्तौ पर्वतो वह्निमान् ह्रदो वह्न्यभाववान् इत्याकारकसमूहालम्बनज्ञाने वह्निवह्न्यभावरूपनानाधर्मयोः पर्वतह्रदरूपधर्मिभेदेन प्रकारत्वादतिव्याप्तिः। एकधर्मिविशेष्यकत्वोपादाने तु निरुक्तज्ञानस्य धर्मिद्वयमुख्यविशेष्यकत्वेन एकधर्मिविशेष्यकत्वाभावात् नातिव्याप्तिः। नानापदानुपादाने घटत्वविरुद्धपटत्ववान् पटः इति यथार्थज्ञाने पटरूपैकधर्मिविशेष्यकत्व घटत्वविरुद्धपटत्वरूपविरुद्धधर्मप्रकारकत्व ज्ञानत्वानां सत्त्वात् तत्रातिव्याप्तिः, अतो नानापदम्, तन्निवेशे तत्रपटत्वरूपैकधर्मस्यैव प्रकारत्वेन नानाधर्मप्रकारकत्वाभावात् नातिव्याप्तिः। विरुद्धपदानुपादाने घटपटवत् भूतलं इति एकत्र द्वयमिति रीत्याऽवगाहिज्ञाने एकधर्मिविशेष्यकत्वघटपटरूपनानाधर्मप्रकारकत्वज्ञानत्वानां सत्त्वात् तत्राऽतिव्याप्तिः, विरुद्धपदनिवेशे तु घटपटयोर्विरुद्धत्वाभावेन विरुद्धनानाधर्मप्रकारकत्वाभावात् नातिव्याप्तिः।
न च पर्वतो वह्निमान् ह्रदो वह्न्यभाववान् इति ज्ञाने धर्मिद्वयविशेष्यकत्वस्य सत्त्वेन (शते पञ्चाशत् इति न्यायेन) एकधर्मिविशेष्यकत्वस्यापि सत्वादतिव्याप्तिरिति वाच्यम्, एकधर्मिनिष्ठविशेष्यतानिरूपिता या विरुद्धनानाधर्मनिष्ठा प्रकारता तन्निरूपकत्वस्य लक्षणघटकत्वात्, तथाच अत्र ज्ञाने एकस्मिन् धर्मिणि नानाधर्मयोरप्रकारत्वात् नातिव्याप्तिः। न च द्रव्यं वह्निमान् ह्रदो वह्न्यभाववान् इति समूहालम्बनज्ञाने द्रव्यत्वेन रूपेण ह्रदस्यापि विशेष्यतया एकस्मिन् ह्रदरूपे धर्मिणि वह्नितदभावयोः प्रकारत्वेन अतिव्याप्तितादवस्थ्यमिति वाच्यम्। एकधर्मावच्छिन्नविशेष्यतानिरूपितत्वस्य विरूद्धनानाधर्मनिष्ठप्रकारतायां विशेषणीयत्वात्, तथाच द्रव्यत्व ह्रदत्वाभ्यां भासमाने ह्रदरूपैकधर्मिणि नानाधर्मयोः प्रकारत्वेऽपि एकधर्मावच्छिन्ने द्रव्यत्वावच्छिन्ने ह्रदत्वावच्छिन्ने वा विरुद्धनानाधर्मयोः अप्रकारत्वेन एकधर्मावच्छिन्नविशेष्यतानिरूपितविरुद्धनानाधर्मनिष्ठप्रकारताकत्वाभावात् नातिव्याप्तिः।
न च ह्रदो वह्निमान् वह्न्यभाववांश्चेति समुच्चयज्ञाने ह्रदत्वरूपैकधर्मावच्छिन्नविशेष्यतानिरूपितविरुद्धनानाधर्मनिष्ठप्रकारतानिरूपकत्वस्य सत्त्वादतिव्याप्तिरिति वाच्यम्। प्रकारताविशिष्टविशेष्यतानिरूपकत्वस्य तदर्थत्वात्, विशेष्यतायां प्रकारतावैशिष्ट्यञ्च स्वनिरूपितत्व स्वावच्छेदकधर्मावच्छिन्नप्रतियोगिताकाभावत्वावच्छिन्नप्रकारतानिरूपितत्वोभयसम्बन्धेन, तथाच एतस्मिन् समुच्चयज्ञाने प्रकारताद्वयनिरूपितविशेष्यताद्वयस्याङ्गीकृतत्वेन वह्नित्वावच्छिन्नप्रकारतानिरूपितविशेष्यतायाः वह्न्यभावत्वावच्छिन्नप्रकारतानिरूपितविशेष्यतायाश्च परस्परं भिन्नतया निरुक्तसम्बन्धद्वयेन प्रकारताविशिष्टा विशेष्यता न काप्यत्र विशेष्यता भवितुमर्हति, कुतः, स्वपदेन वह्नित्वावच्छिन्नप्रकारतायाः परिग्रहणे स्वनिरूपितविशेष्यतायां स्वाभावनिष्ठप्रकारतानिरूपितत्वं न सम्भवति, अतः निरुक्तसम्बन्धद्वयेन प्रकारता विशिष्टविशेष्यता न कापि एतज्ज्ञानीया प्रसिद्धा भवति, अतो नातिव्याप्तिः। संशये च प्रकारताद्वयनिरूपितैकविशेष्यताया अङ्गीकृतत्वेन तादृशप्रकारताविशिष्टविशेष्यतानिरूपकत्वस्य सत्त्वात् समन्वयः सम्भवतीति न काप्यनुपपत्तिः। भावद्वयकोटिकसंशयाङ्गीकर्तृमते स्वनिरूपितत्व स्वाश्रयविरुद्धधर्मनिष्ठप्रकारतानिरूपितत्वोभयसम्बन्धेन प्रकारतावैशिष्‍ट्यं ग्राह्यम्, अन्यथा, घटत्ववान् पटत्ववांश्च पटः इति समुच्चयेऽतिव्याप्तिः।
(वह्न्यभाववद्ध्रदो वह्निमान् इति नियताहार्यनिश्चयं विरुद्धयोः वह्नितदभावयोः विषयत्वेऽपि वह्न्यभावनिष्ठविषयताया अत्र विशेष्यतावच्छेदकतारूपत्वेन अवच्छेदकत्वानात्मकप्रकारताविशिष्टविशेष्यताकत्वस्य लक्षणत्वेन विवक्षिततया तत्र एतादृशलक्षणाभावेन अतिव्याप्त्यभावात्। संशयमभिनीय दर्शयति- स्थाणुर्वेति।
विपर्ययं लक्षयति मिथ्येति। मिथ्या च तत् ज्ञानञ्चेति कर्मधारयः। तत्र ज्ञाने मिथ्यात्वञ्च तदभाववद्विशेष्यकत्वविशिष्टतत्प्रकारकत्वरूपम्। तथाच, तदभाववद्विशेष्यकत्वे सति तत्प्रकारकत्वे सति ज्ञानत्वं विपर्ययलक्षणमिति फलितम्। तथाच शुक्तौ इदं रजतम् इति ज्ञाने तत्पदग्राह्यरजतत्वाभाववद्विशेषकत्व-रजतत्वप्रकारकत्व-ज्ञानत्वानां सत्त्वात् समन्वयः। नचैवं सति स्थाणुर्वा पुरुषो वेति संशये यदि वह्निः न स्यात् तर्हि धूमोऽपि न स्यात् इति तर्के च तदभाववद्विशेष्यकत्वघटितलक्षणसत्त्वात् अतिव्याप्तिरिति वाच्यम्, तर्कभिन्नत्वनिश्चयत्वयोः निवेशनीयत्वात् संशये निश्चयत्वा(संशयान्यत्वा)भावेन तर्के तर्कभिन्नत्वाभावेन च नातिव्याप्तिः।
तर्कं लक्षयति व्याप्यारोपेणेति। व्याप्यस्याऽरोपः व्यापकस्याऽरोपः इत्यत्र उभयत्रापि षष्ठ्याः विषयतानिरूपकत्वमर्थः। उभयत्रापि आरोपो भ्रमः। व्याप्यारोपेणेत्यत्र तृतीयायाः जन्यत्वमर्थः, तथाच व्याप्यविषयकभ्रमजन्यव्यापकविषयभ्रमत्वम् तर्कस्यलक्षणम्। व्याप्यविषयको यो भ्रमः यदि वह्न्यभाववान् स्यादिति भ्रमः, तज्जन्यो यो भ्रमः धूमाभाववान् स्यादिति भ्रमः, तादृशभ्रमत्वस्य यदि वह्न्यभाववान्‌ स्यादिति भ्रमजन्ये धूमाभाववान् स्यादिति भ्रमे (तर्करूपे) विद्यमानत्वात् लक्षणसमन्वयः।।
पर्वतो वह्निमान् धूमात् इति केनचित् पुंसा धूमरूपहेतुना वह्नौ साधनीये सति पर्वते धूमोऽस्तु वह्निः मास्त्वित्यप्रयोजकशङ्‌कायां प्रसक्तायां सत्यां तच्छङ्‌कानिवृत्त्यर्थम् अनुमानकर्त्रा धूमं प्रति वह्नेः कारणत्वेन (कारणाभावात् कार्याभाव इति नियमेन) यदि वह्निः न स्यात् तर्हि धूमोऽपि न स्यादिति कार्यकारणभावभङ्गानुकूलः तर्कः सम्पाद्यः। तर्कं प्रति व्याप्यव्यापकयोः बाधनिश्चयः कारणं भवतीति वक्तव्यम्। अन्यथा, पर्वते धूमोऽस्तु वह्निः मास्तु इत्यत्राप्रयोजकशङ्‌कावतरणे इष्टापत्तिरेवाभ्युपगम्येत। ततश्च तर्कानुत्पत्तिः प्रसज्येतेति तस्य कारणत्वमावश्यकम्।
स्मृतिरपि द्विविधा, यथार्थाऽयथार्था चेति। प्रमाजन्या यथार्था। अप्रमाजन्याऽयथार्था।।
एवमनुभवं निरूप्य स्मृतिं निरूपयति स्मृतिरित्यादिना। यथार्थस्मृतिं लक्षयति प्रमेति। प्रमाजन्यत्वे सति स्मृतित्वं यथार्थस्मृतेः लक्षणम्। स्मृतित्वमात्रोक्तौ अयथार्थस्मृतौ, प्रमाजन्यत्वमात्रोक्तौ प्रमाध्वंसे च अतिव्याप्तिः, अतः दलद्वयोपादानम्। नच गुणत्वदलेनैव प्रमाध्वंसेऽतिव्याप्तिवारणसम्भवे स्मृतित्वपर्यन्तानुसरणं व्यर्थमिति वाच्यम्, प्रमाजन्यसंस्कारेऽतिव्याप्तिवारणाय तत्सार्थक्यात्। न च ज्ञानत्वदलेनैव संस्कारेऽतिप्रसङ्गवारणसम्भवेन स्मृतित्वस्य वैयर्थ्यमेवेति वाच्यम्, दण्डरूपविशेषणप्रमाजन्यत्वज्ञानत्वयोः दण्डी पुरुष इति अनुभवरूपविशिष्टबुद्धौ सत्त्वात् तत्रातिव्याप्तिवारणाय स्मृतित्वस्य सार्थक्यात्। न च विशिष्टबुद्धिं प्रति विशेषणज्ञानमेव कारणं नतु विशेषणप्रमा अतः तत्कारणतावच्छेदकं बुद्धित्वमेव, नतु प्रमात्वम्, अतः प्रमात्वावच्छिन्नजनकतानिरूपितजन्यत्वदलेनैव ध्वंसे विशिष्टबद्धौ च अतिव्याप्तिवारणेन स्मृतित्वस्य वैयर्थ्यमेव (ध्वंसं प्रति प्रतियोगिनः प्रतियोगित्वेन तत्तद्व्यक्तित्वेन वा कारणत्वात्) इति वाच्यम्, इष्टापत्तेः। अतएव ग्रन्थकृता स्मृतित्वं विहाय प्रमाजन्या यथार्थेत्येतावदेव मूलेऽभिहितम्।
अयथार्थस्मृतिं लक्षयति अप्रमेति। भ्रमजन्यत्वे सति स्मृतित्वम् अयथार्थस्मृतेः लक्षणम्। दलसार्थक्यं विचारश्च पूर्ववत् द्रष्‍टव्यः।