मूलम् - वाक्यद्वयम् - 52
वाक्यं द्विविधं वैदिकं लौकिकं च। वैदिकमीश्वरोक्तत्वात्सर्वमेव प्रमाणम्। लौकिकं त्वाप्तोक्तं प्रमाणम्। अन्यदप्रमाणम्॥ ५१॥
Tags - 52
वाक्यविभागः, वैदिकवाक्यम्, लौकिकवाक्यम्, प्रमाणम्
दीपिका - वाक्यद्वैविध्यम्
वाक्यं विभजते- वाक्यमिति। वैदिकस्य विशेषमाह-वैदिकमीश्वरोक्तत्वादिति। ननु वेदस्यानादित्वात् कथमीश्वरोक्तत्वमिति चेन्न। वेदः पौरुषेयः वाक्यसमूहत्वात् भारतादिवत् इत्यनुमानेन पौरुषेयत्वसिद्धेः। न च स्मर्यमाणकर्तृकत्वमुपाधिः, गौतमादिभिः शिष्यपरम्परया वेदेऽपि कर्तृस्मरणेन साधनव्यापकत्वात्। “तस्मात्तेपानात्त्रयो वेदा अजायन्त" इति श्रुतेश्च।
दीपिका - वैदिकप्रामाण्यम्
ननु वर्णा नित्याः। स एवायं गकार इति प्रत्यभिज्ञाबलात्। तथा च कथं वेदस्यानित्यत्वमिति चेन्न। ‘उत्पन्नो गकारो’, ‘विनष्टो गकारः’ इति प्रतीत्या वर्णानामनित्यत्वात्। सोऽयं गकार इति प्रत्यभिज्ञायाः सेयं दीपज्वाला इतिवत् साजात्यालम्बनत्वात्। वर्णानां नित्यत्वेऽप्यानुपूर्वीविशिष्टवाक्यस्यानित्यत्वाच्च। तस्मादीश्वरोक्तो वेदः। मन्वादिस्मृतीनामाचाराणां च वेदमूलकतया प्रामाण्यम्। स्मृतिमूलवाक्यानामिदानीमनध्ययनात्तन्मूलभूता काचिच्छाखा उत्सन्नैवेति कल्प्यते। ननु पठ्यमानवेदवाक्योत्सादनस्य कल्पयितुमशक्यतया विप्रकीर्णवादस्यायुक्तत्वात् नित्यानुमेयो वेदो मूलमिति चेन्न। तथा सति कदापि वर्णानामानुपूर्वीज्ञानाभावेन बोधकत्वासंभवात्। नन्वेतानि पदानि स्मारितार्थसंसर्गवन्ति आकाङ्क्षादिमत्पदकदम्बकत्वात्, मद्वाक्यवदित्यनुमानादेव संसर्गज्ञानसंभवात् शब्दो न प्रमाणान्तरमिति चेन्न। अनुमित्यपेक्षया विलक्षणस्य शाब्दज्ञानस्य शब्दात्प्रत्येमीत्यनुव्यवसायसाक्षिकस्य सर्वसम्मतत्वात्।
वरदाचार्य आलोके - वाक्यभेदः
तर्कसंग्रहः
वाक्यं द्विविधम्। वैदिकं लौकिकं चेति। वैदिकमीश्वरोक्तत्वात् सर्वमपि प्रमाणम्। लौकिकं त्वाप्तवाक्यं प्रमाणम्। अन्यदप्रमाणम्। वाक्यार्थज्ञानं शाब्दज्ञानम्। तत्करणं शब्दः।
इति तर्कसंग्रहे शब्दपरिच्छेदः समाप्तः॥
आलोक- व्याख्या
वाक्यं विभजते - वाक्यमिति। ईश्वरोच्चरितत्वादिति। तात्पर्यज्ञानस्य शाब्दबोधं प्रति कारणतया, तात्पर्यस्य च वक्तुरिच्छारूपत्वात्, वेदवाक्यजन्यबोधे तद्वक्त्रभावे शाब्दबोधो न स्यात्। अतो वेद ईश्वरेणैवोपदिष्टः। तर्हि ‘वेदोऽपौरुषेयः’ इति प्रसिद्धिः कथमिति चेत्, मानवबुद्धिमूलकत्वाभावाद्वेदस्य, लोके शब्दानां सर्वेषां मानवबुद्धिमूलकत्वात्, वेदस्य मनुष्यकृतत्वाभावात् तथा व्यवहारः। अत एव ‘श्रुतिस्स्मृतिर्ममैवाज्ञा’ इत्यादीश्वरवचनमपि संगच्छते। निगमयति - वाक्येत्यादि।।
ननु ईश्वरेच्छामूलकपाणिन्यादिसंकेततः प्रकृतिप्रत्ययानां शक्तिग्रहो भवेत्। तयोरन्वयः केन संकेत्यते ? ‘घटमानय’ इत्युक्ते घटपदस्य घटोऽर्थः। द्वितीयायाः कर्मत्वमर्थः। कर्मत्वस्य घटवृत्तित्वं कथं ग्राह्यम् ? प्रकृतिप्रत्ययातिरिक्तस्तयोर्मध्ये न हि कश्चन शब्दः श्रूयते। प्रत्यक्षे तु घटभूतलयोः, रूपघटयोर्वा आधाराधेयभावश्चक्षुषैव दृश्यते। आधेयता किं संबन्धावच्छिन्नेति निर्णयस्तु शास्त्रात्। न ह्येवं शब्दानुमानस्थले संबन्धः साक्षाद्वर्तते। न हि व्याप्तिज्ञानमन्तरा धूमदर्शनमात्रात् वह्न्यनुमितिर्भवेत्। न वा शक्तिज्ञानमन्तरा पदात् पदार्थबोधो भवेत्, पदजन्यपदार्थोपस्थितेश्शाब्दबोधं प्रति कारणत्वात्। अतः प्रकृतिप्रत्ययार्थयोस्संबन्धः केन बोध्यते, तद्वाचकशब्दादर्शनादिति चेत्; न तत्तत्समभिव्याहारवशादेव संबन्धो बोध्यते, न तु शक्त्या। अतश्च घटपदशक्त्या घटरूपार्थो बोध्यते। द्वितीयया च कर्मत्वं बोध्यते। तयोराधाराधेयभावस्तु, घटपदोत्तरम् अम्प्रत्ययश्रवणात्, परस्पराकांक्षायोग्यतादिवशात् भासते। एवं कर्मत्वस्यानयनस्य च संबन्धो निरूपकत्वरूपस्तादृशादौचित्यादेव भासते। एवं शाब्दबोधस्यौचित्यमूलकत्वादेव कदाचिदन्योद्देशेन प्रयुक्तात् शब्दात् समीचीनशाब्दबोधाजननेनार्थभ्रान्त्या वादविवादा अपि दृश्यन्ते। अनुमितिस्थले संबन्धो यथाविनाभावः, न तथास्ति तादृशः शब्दार्थयोरविनाभावः, कस्याप्यननुभवात्। एवञ्च प्रथमं प्रकृतिप्रत्ययाद्यैरर्थोपस्थितिः तत्तच्छक्त्या। अनन्तरमाकांक्षाद्यौचित्यवशात् संबन्धग्रहणम्। अयमेवाभिहितान्वयवादः, पदैरभिहितानामर्थानाम् अनन्तरमन्वयभानात्। तथा च प्रकारतया विशेष्यतया वार्थबोधं प्रत्येव पदजन्यपदार्थोपस्थितिः कारणम्, न त्वन्वयोपस्थितिं प्रत्यपि। सर्वेषामनुभवोऽप्येवमेवेति सिद्धान्तिनः।
प्राभाकरास्तु - अन्वयांशेऽपि पदानामस्त्येव शक्तिग्रहः। अतश्च घटपदस्य कर्मत्वान्वितघट एव शक्तिः। अम्प्रत्ययस्यापि घटान्वितकर्मत्व एव शक्तिः। एवं कर्मत्वस्यानयनान्वयस्यापि भानात्, आनयनान्विते कर्मत्व एव अम्प्रत्ययस्य शक्तिः। एवमानयनपदस्यापि कर्मत्वान्वित एवानयने शक्तिरिति बहुधा वर्णयन्तः क्लिश्यन्ति स्वयम्, क्लेशयन्ति चेतरान्। परस्परमन्वितानामेवार्थानां पदैर्बोधनात् अयमेवान्विताभिधानवाद इत्युच्यते। एवं सति हि कस्य पदस्य केन साकं समभिव्याहार इत्यनियमात् कस्यापि पदस्य शक्तिग्रह एव न स्यात्। ‘घटमानय’ ‘पटमानय’ ‘गामानय’ इत्यादिसमभिव्याहारा ह्यनन्ताः। एवं घटमानय, घटं नय, घटं पश्य इत्येवंरूपाः क्रियापदसमभिव्याहारा अप्यनन्ताः। घटपदस्य आनयनान्वितघटे, नयनान्वितघटे, दर्शनान्वितघटे च शक्तिः। एवम् अम्प्रत्ययस्य घटान्वितकर्मत्वे, पटान्वितकर्मत्वे, गवान्वितकर्मत्वे च शक्तिरिति अतिगौरवम्। पदार्थानां पुनःपुनः भानात्पौनरुक्त्यमित्याद्यनन्ता दोषाः। अत औचित्यमूलकमेवान्वयभानमिति युक्तः पन्थाः।
इति शब्दखण्डः
गोवर्धन-न्यायबोधिनी - शब्दविभागः
वैदिकमिति। वेदवाक्यमित्यर्थः। इदमुपलक्षणम्। वेदमूलकस्मृत्यादीन्यपि ग्राह्याणि। लौकिकमिति। वेदवाक्यभिन्नमित्यर्थः॥
इति न्यायबोधिन्यां शब्दपरिच्छेदः समाप्तः॥