मूलम् - वाक्यार्थज्ञानहेतवः - 50
आकाङ्क्षा योग्यता संनिधिश्च वाक्यार्थज्ञानहेतुः। पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वमाकाङ्क्षा। अर्थाबाधो योग्यता। पदानामविलम्बेनोच्चारणं संनिधिः॥ ४९॥
Tags - 50
वाक्यार्थज्ञानम्, आकाङ्क्षा, योग्यता, संनिधिः
दीपिका - आकाङ्क्षायोग्यता
आकाङ्क्षेति। आकाङ्क्षादिज्ञानमित्यर्थः। अन्यथा आकाङ्क्षादिभ्रमाच्छाब्दधीर्न स्यात्। आकाङ्क्षां लक्षयति- पदस्येति। योग्यतालक्षणमाह- अर्थेति। सन्निधिलक्षणमाह-पदानामिति। अविलम्बेन पदार्थोपस्थितिः सन्निधिः। उच्चारणं तु तदुपयोगितया उक्तम्। गौरश्व इति। घटः कर्मत्वमिति अनाकाङ्क्षोदाहरणं द्रष्टव्यम्।
गोवर्धन-न्यायबोधिनी - वाक्यार्थप्रतीतिहेतवः
आकाङ्क्षेति। अव्यवहितोत्तरत्वादिसंबन्धेन यत्पदप्रकारकज्ञानव्यतिरेकप्रयुक्तो हि यादृशशाब्दबोधाभावस्तादृशशाब्दबोधे तत्पदे तत्पदवत्वमाकाङ्क्षा। यथा घटमित्यादिस्थलेऽव्यवहितोत्तरत्वादिसंबन्धेन अम्पद घटपदवदित्याकारकाम्पदविशेष्यकघटपदप्रकारकज्ञानसत्त्वे ?घटीयं कर्मत्वमिति बोधो जायते। अम् घट इति विपरीतोच्चारणे तु तादृशज्ञानाभावात्तादृशशाब्दबोधो न जायते। अतस्तादृशाकाङ्क्षाज्ञानं शाब्दबोधे कारणम्। अर्थाबाध इति। बाधाभावो योग्यतेत्यर्थः। अग्निना सिञ्चतीत्यत्र सेककरणत्वस्य जलधर्मस्य वह्नौ बाधनिश्चयसत्त्वान्न तादृशवाक्याच्छाब्दबोधः। संनिधिं निरूपयति। असहोच्चारितानीति। असहोच्चारितानि विलम्बेनोच्चरितानि।
कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - वाक्यार्थज्ञानसामग्री
शाब्दबोधसामग्रीं दर्शयति आकाङ्क्षेति। अनुक्तानां पदज्ञानपदार्थोपस्थितितात्पर्यज्ञानादीनां समुच्चयार्थः चकारः।
(ननु आकाङ्क्षा नाम इच्छा, योग्यता च उत्कृष्टतासंपादकसद्गुणवत्त्वम्, सन्निधिश्च द्वयोरेकत्र समावेशः, तथाच एतेषां शाब्दबोधकारणत्वे वक्तव्ये श्रोतृनिष्ठानां तेषां कारणत्वं वक्तव्यम्, श्रोतुरेव बोधोदयात्। तथाच शाब्दबोधेच्छारहितस्य अयोग्यस्य वक्तृसमावेशरहितस्यापि शाब्दबोधोत्पत्त्या नैतेषां कारणत्वकथनमुचितमिति शङ्कानिरासाय आकाङ्क्षादीन् निर्वक्ति पदस्येति)
पदस्येति। पदस्येत्यत्र पदान्तरेत्यत्रापि पदपदं यत्पदपरम्। षष्ठ्याः आधेयत्वमर्थः, व्यतिरेकः अभावः, अन्वयाऽननुभावकत्वं शाब्दबोधजनकत्वाभावः, षष्ठ्यर्थस्य अन्वयाऽननुभावकत्वेऽन्वयः, तत्पदे तत्पदवत्त्वमित्यध्याहार्यम्। तथाच यत्पदनिष्ठशाब्दबोधजनकत्वाभावः यत्पदान्तराभावप्रयुक्तः तत्पदे तत्पदवत्त्वम् आकाङ्क्षेति योजना। (तत्पदे तत्पदवत्त्वञ्च स्वाव्यवहितोत्तरत्व- स्वाव्यवहितपूर्वत्वान्यतरसम्बन्धेन तत्पदविशिष्टत्वम्) घटमानयेत्यत्र, घटपदनिष्ठः घटीयं कर्मत्वमिति शाब्दबोधजनकत्वाभावः अम्पदाभावप्रयुक्तः अम्पदाभावे घटपदमात्रसत्त्वेऽपि घटनिष्ठं कर्मत्वमिति बोधानुदयात्, अतः घटपदे अम्पदवत्त्वम् अम्पदे घटपदवत्त्वं वा वर्तत इति तस्मिन् वाक्ये नाऽकाङ्क्षायाः क्षतिः।
योग्यतां लक्षयति अर्थाबाधेति। अर्थस्याबाधोऽर्थाबाधः, अबाधः बाधनिश्चयाभावः (बाधनिश्चयः तदभावप्रकारकनिश्चयः), एकपदार्थे इत्यध्याहार्यम्, अर्थस्येत्यत्रार्थपदम् अपरपदार्थपरम्। तथा च एकपदार्थे अपरपदार्थबाधनिश्चयाभावः योग्यतेत्यर्थः पर्यवसितः। तथाच एकपदार्थ इत्यत्र सप्तम्याः विशेष्यतानिरूपकत्वार्थकतया अर्थस्येत्यत्र षष्ठ्या प्रतियोगितानिरूपकत्वार्थकतया तादृशविशेष्यकत्वस्य निश्चये प्रतियोगितानिरूपकत्वस्य बाधशब्दार्थीभूताऽभावे च अन्वये एकपदार्थविशेष्यकः अपरपदार्थप्रतियोगिकाभावप्रकारकश्च यो निश्चयः तदभावः योग्यतेति फलितम्। अग्निना सिञ्चतीत्यत्र अग्निकरणकत्वाभाववत् सेचनम् इति सेचनविशेष्यकाग्निकरणकत्वाभावप्रकारकबाधनिश्चयसद्भावेन तन्निश्चयाभावरूपयोग्यताया अभावेन अग्निकरणकं सेचनम् इति प्रमात्मकबोधो न जायते। जलेन सिञ्चतीत्यत्र जलकरणकत्वाभाववत्सेचनमिति बाधनिश्चयाभावेन जलकरणकं सेचनमिति प्रमात्मकबोधो जायते। अतो योग्यताऽपि शाब्दबोधे कारणमिति सिद्धम्।
सन्निधिं निरूपयति पदानामिति। अविलम्बितप्रवृत्तिकं पदोच्चारणं सन्निधिः। प्रहरे प्रहरेऽसहोच्चरितानां गामानयेत्यादिपदानां निरुक्तसान्निध्याभावेन न तादृशवाक्याच्छाब्दबोधः। वस्तुतस्तु, अविलम्बेन पदार्थोपस्थितिरेव सन्निधिः, उच्चारणन्तु तदुपयोगितयोक्तम्, अन्यथा मौनिश्लोकादिस्थले कण्ठताल्वाद्यभिघातसंयोगजन्यध्वनिरूपस्य उच्चारणस्य असम्भवेन शाब्दबोधानुपपत्तिः।
आकाङ्क्षाद्यभावे शाब्दबोधाभावं क्रमेण स्थलभेदेन निर्दिशति यथा गौरश्व इत्यादिना।
वाक्यं द्विविधम्। वैदिकं लौकिकञ्चेति। वैदिकमीश्वरोक्तत्वात्सर्वमपि प्रमाणम्। लौकिकन्तु आप्तवाक्यं प्रमाणम्। अन्यदप्रमाणम्। वाक्यार्थज्ञानं शाब्दज्ञानम्। तत्करणं शब्दः।
ईश्वरोक्तत्वात्सर्वमपि प्रमाणमिति वाक्यं मनुप्रभृतिभिः मुनिभिरुक्तानां स्मृतिपुराणेतिहासादीनामुपलक्षणम्।
तर्कसङ्ग्रहसर्वस्वे