49 शब्दप्रमाणम्

मूलम् - शब्दप्रमाणम् - 49

आप्तवाक्यं शब्दः। आप्तस्तु यथार्थवक्ता। वाक्यं पदसमूहः। यथा गामानयेति। शक्तं पदम्। अस्मात्पदादयमर्थो बोद्धव्य इतीश्वरसंकेतः शक्तिः॥ ४८॥

Tags - 49

शब्दः, प्रमाणम्, आप्तवाक्यम्, शक्ति

दीपिका - शक्तिः

शब्दं लक्षयति- आप्तेति। आप्तं लक्षयति- आप्तस्त्विति। वाक्यलक्षणमाह-वाक्यमिति। पदलक्षणमाह- शक्तमिति। अर्थस्मृत्यनुकूलपदपदार्थसंबन्धः शक्तिः। सा च पदार्थान्तरमिति मीमांसकाः। तन्निरासार्थमाह- अस्मादिति। डित्थादीनामिव घटादीनामपि संकेत एव शक्तिः, न तु पदार्थान्तरमित्यर्थः।

दीपिका - शक्तिविचारः

ननु गवादिपदानां जातावेव शक्तिः, विशेषणतया जातेः प्रथमोपस्थितत्वात्। व्यक्तिलाभस्त्वाक्षेपादिति केचित्। तन्न, गामानयेत्यादौ वृद्धव्यवहारेण सर्वत्रानयनादेः व्यक्तावेव संभवेन, जातिविशिष्टव्यक्तावेव शक्तिकल्पनात्। शक्तिग्रहश्च वृद्धव्यवहारेण। व्युत्पित्सुर्बालो ‘गामानये’त्युत्तमवृद्धवाक्यश्रवणानन्तरं मध्यमवृद्धस्य प्रवृत्तिमुपलभ्य गवानयनं च दृष्ट्वा मध्यमवृद्धप्रवृत्तिजनकज्ञानस्यान्वयव्यतिरेकाभ्यां वाक्यजन्यत्वं निश्चित्य ‘अश्वमानय’, ‘गां बधाने’ति वाक्यान्तरेण आवापोद्वापाभ्यां गोपदस्य गोत्वविशिष्टे शक्तिः, अश्वपदस्याश्वत्वविशिष्टे शक्तिरिति व्युत्पद्यते।

दीपिका - व्युत्पत्तिः

ननु सर्वत्र कार्यपरत्वात् व्यवहारस्य कार्यपर एव व्युत्पत्तिः, न सिद्धपरे इति चेन्न। काश्यां त्रिभुवनतिलको भूपतिरास्ते इत्यादौ सिद्धेऽपि व्यवहारात्, विकसितपद्मे मधुकरः तिष्ठति इत्यादौ प्रसिद्धपदसमभिव्याहारात्सिद्धेऽपि मधुकरपदादौ व्युत्पत्तिदर्शनाच्च।

दीपिका - लक्षणा

लक्षणापि शब्दवृत्तिः। शक्यसंबन्धो लक्षणा। गङ्गायां घोषः इत्यत्र गङ्गापदवाच्यप्रवाहसंबन्धादेव तीरोपस्थितौ तीरेऽपि शक्तिर्न कल्प्यते। सैन्धवादौ लवणाश्वयोः परस्परसंबन्धाभावान्नानाशक्तिकल्पनम्।

दीपिका - लक्षणात्रैविध्यम्

लक्षणा त्रिविधा। जहल्लक्षणा, अजहल्लक्षणा, जहदजहल्लक्षणा चेति। यत्र वाच्यार्थस्यान्वयाभावस्तत्र जहल्लक्षणा। यथा मञ्चाः क्रोशन्तीति। यत्र वाच्यार्थस्याप्यन्वयः तत्र अजहदिति। यथा छत्रिणो यान्तीति। यत्र वाच्यैकदेशत्यागेनैकदेशान्वयस्तत्र जहदजहदिति। यथा तत्त्वमसीति।

दीपिका - तात्पर्यम्

गौण्यपि लक्षणैव। लक्ष्यमाणगुणसंबन्धरूपा। यथा अग्निर्माणवक इति। व्यञ्जनापि शक्तिलक्षणान्तर्भूता शब्दशक्तिमूला अर्थशक्तिमूला च अनुमानादिनाऽन्यथासिद्धा। तात्पर्यानुपपत्तिर्लक्षणाबीजम्। तत्प्रतीतीच्छया उच्चरितत्वं तात्पर्यम्। तात्पर्यज्ञानं च वाक्यार्थज्ञाने हेतुः। नानार्थानुरोधात्। प्रकरणादिकं तात्पर्यग्राहकम्।

दीपिका - योगरूढिः

द्वारमित्यादौ पिधेहीति शब्दाध्याहारः। नन्वर्थज्ञानार्थत्वाच्छब्दस्य अर्थमविज्ञाय शब्दाध्याहारासंभवादर्थाध्याहार एव युक्त इति चेन्न। पदविशेषजन्यपदार्थोपस्थितेः शाब्दबोधे हेतुत्वात्। अन्यथा घटः कर्मत्वमानयनं कृतिरित्यत्रापि शाब्दबोधप्रसङ्गात्। पङ्कजादिपदेषु योगरूढिः। अवयवशक्तिर्योगः। समुदायशक्ती रूढिः। नियतपद्मत्वज्ञानार्थं
समुदायशक्तिः। अन्यथा कुमुदेऽपि प्रयोगप्रसङ्गात्। इतरान्विते शक्तिरिति प्राभाकराः। अन्वयस्य वाक्यार्थतया भानसंभवादन्वयांशेऽपि शक्तिर्न कल्पनीयेति गौतमीयाः।

वरदाचार्य आलोके - शब्दप्रमाणम्

तर्कसंग्रहः
अथ शब्दखण्डः
आप्तवाक्यं शब्दः। आप्तस्तु यथार्थवक्ता। वाक्यं तु पदसमूहः। शक्तं पदम्। अस्मात्पदादयमर्थो बोद्धव्य इतीश्वरसंङ्केतः शक्तिः।
आलोक- व्याख्या
अथ शब्दखण्ड:
क्रमप्राप्तं शब्दप्रमाणं निरूपयति - आप्तेत्यादि। आप्तस्य वाक्यम् आप्तवाक्यम्। सम्बन्धसामान्ये षष्ठी। स च प्रकृते तदुच्चरितत्वरूपः। तथाच आप्तोच्चरितत्वे सति वाक्यत्वं शब्दप्रमाणलक्षणम्। अनेन जातं च प्रमात्मकं ज्ञानं शाब्दबोध इत्युच्यते। यद्यपि वञ्चकवाक्यजन्यं ज्ञानं भ्रमः स्यात्, परन्तु ‘यथार्थानुभवञ्चतुर्विधः प्रत्यक्षानुमित्युपमितिशाब्दभेदात्। तत्करणमपि चतुर्विधम् - प्रत्यक्षानुमानोपमानशब्दभेदात्’ इत्येवोक्तेः, यथार्थानुभवस्यैवायं विभागः। अतश्चाप्तोच्चरितवाक्यमेव शाब्दप्रमितेः करणभूतः शब्द इत्यनाप्तवाक्यस्य प्रमाकरणत्वमेव नास्तीति नातिव्याप्तिः॥
आप्तो नाम कः ? यथार्थवक्तेति। ‘आप्तो यथादृष्टार्थवक्ता’ इत्यपि दृश्यते। स्वेन यथा दृष्टं तथैव वदेचेदाप्त इति। परं तु तदीयदर्शने यदि भ्रान्तिस्स्यात्तदा का गतिः ? इति प्रश्नो भवति। तदानीं तस्य विप्रलंभकत्वाभावेऽपि आप्तत्वं कथं स्यात्, वस्तुस्थित्या तेनान्यथाकथनादिति चेत्, अत एव ‘यथादृष्टार्थवक्ता’ इति परित्यज्य ‘यथार्थवक्ता’ इत्युक्तम्। यत्र स्वयंभ्रान्तोऽपि तदजानन्नेव सत्यं मत्वा वक्ति, तदा स नाप्तः, नापि विप्रलम्भकः, तस्य विप्रलिप्साया अभावात् नापि यथार्थवक्ता, किन्तु यथादृष्टार्थवक्ता। अत एव शब्दव्यवहारे महान् भारो वर्तते, श्रोतुरपि भारोऽनिवार्यः। प्रामाण्यं प्रति यथार्थवक्तृत्वमेव हेतुः।
आप्तलक्षणमुक्तम्। वाक्यं नाम किम् ? इत्यत्राह - पदसमूह इति। तर्हि पदं नाम किम् ? इत्यत्र - शक्तं पदमिति। शक्तिविशिष्टोऽकारादिवर्णसमुदायः पदमित्यर्थः।
ननु नैयायिकैः शक्तेरतिरिक्ताया अनङ्गीकारात् ‘शक्तम्’ इति कथमुच्यते ? इत्यत्र अस्मादित्यादि। ईश्वरसङ्केतः शक्तिरिति *शक्तेः स्वरूपम्। ‘अस्मात् पदादयमर्थो बोद्धव्यः’ इति ईश्वरसङ्केतस्याभिलापकः प्रदर्शकः शब्दः। लोके हि गवादिशब्दाः सर्वदेशकालेषु सर्वेषामपि सास्नादिमत्प्राणिविशेषबोधजनका दृश्यन्ते। कथमेवमविसंवादेन शब्दप्रयोगः, शाब्दबोधश्च ? पूर्वपूर्वपुरुषाणां परम्परया तथा प्रयोगवशादिति चेत्, प्रथमप्रयोगः कस्येति वक्तव्यम्। ‘गावो वा एतत्सत्रमासत’ इत्यादिषु वैदिकप्रयोग एव प्रथमप्रयोग इति चेत्, वेदस्येश्वरोपदेशरूपत्वात्, ईश्वर एवैतादृशबोधजनकेच्छया एतानि पदानि प्रयुक्तवानिति ज्ञायते। यथा गुणवृद्ध्यादिसंज्ञाः पाणिनिना तत्तदर्थबोधेच्छया संकेतिता इदानीमपि तथैव प्रयुज्यन्ते। ततश्च ‘गुणवृद्ध्यादिपदं तत्तदर्थबोधजनकं भवतु इति पाणिनीच्छापूर्वकं यथा, तथैव गवादिपदान्यपि तदुच्चारयितुरीश्वरस्येच्छया तत्तदर्थबोधनसमर्थानि भवन्तीति ‘अस्मात्पदादयमर्थो बोद्धव्य इतीश्वरेच्छैव शक्तिपदार्थः। नातिरिक्ता शक्तिः।
ननु नदीवृद्ध्यादिपदेषु पाणिनीच्छाया एव दर्शनादीश्वरेच्छाया अदर्शनात्कथं तत्पदानां बोधकत्वं जातमिति चेत्, ‘ईश्वरस्स्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति। भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया।’ इति दर्शनात् ‘तेन विना तृणाग्रमपि न चलति’ इति न्यायात्, पाणिनिना संज्ञाकरणमपीश्वरेच्छाधीनमेवेति परम्परयेश्वरेच्छा तत्रापि वर्तत इति न दोषः। अत ईश्वरेच्छैव शक्तिः।
टिप्पणी
*शक्तिग्राहकप्रमाणानि - कस्य पदस्य कुत्र शक्तिः ? इति कथं ज्ञायते इति चेत्, ईश्वरेच्छैव तत्र नियामिकेत्युक्तं किलेति चेत्, ईश्वरेच्छां सामान्यजनाः कथं जानीयुरिति चेत्, सत्यम् - परिगणितानि शक्तिग्राहकान्येवम् -
शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्यात् व्यवहारतश्च।
वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः।। इति।
अस्यार्थः-
शक्तिग्रहं व्याकरणोपमानादिभिः वृद्धाः प्रवदन्तीत्यन्वयः। शक्तिर्नाम प्रकृते पदानां बोधनसामर्थ्यम्।
१) व्याकरणात् शक्तिग्रहः धातुप्रकृतिप्रत्ययानां भवति। यथा भू सत्तायाम् इत्यादिना भ्वादिधातूनां सत्ताद्यर्थे शक्तिर्ज्ञायते। एवं घटम् इत्यादौ द्वितीयाविभक्त्यादीनां कर्मत्वाद्यर्थे शक्तिरित्यपि कर्मणि द्वितीया इत्यादिव्याकरणात् ज्ञायते।
२) उपमानाच्छक्तिग्रहप्रकारश्चोपमानखण्डे प्रादर्शि।
३)कोश: नामलिङ्गानुशासनादिः। पुलोमजा शचीन्द्राणी इत्यादिकोशात् पुलोमजादिपदानाम् इन्द्रपत्न्यादौ शक्तिर्ज्ञायते। इन्द्रादिपदानां तु वस्तुत उपमानादेव शक्तिरित्यादिकं लोकादेव ज्ञायते। यथा वा एतल्लोके राजानोऽधिपतयः, तथेन्द्रादयोपीत्येव वक्तव्यम्।
४) आप्तवाक्यम् शक्तिग्रहः॥ आप्तानां मित्रादीनां वाक्यादपि पाकशासनादिपदानामिन्द्रादौ शक्तिग्रहः।
५) व्यवहारः- हानोपादानादिः। गामानय, गां नय इत्यादि वृद्धवाक्यं शृण्वन् पार्श्वस्थो बालः, गवानयनादिकर्मणि प्रवृत्तं तत्पुत्रम्, गवानयनादिकं च पश्यन्, तत्तत्पदानामावापोद्वापादिकं च जानन् तत्तत्पदानां तत्तदर्थे शक्तिं जानाति। बाला ह्यतिसूक्ष्ममतयः, सदा कुतूहलिनः, जिज्ञासापरायणास्सहजत एव। अत एव बाल्ये पदानां आनयनादिकार्यान्वित एव शक्तिग्रहात्, कार्यान्वित एव शक्तिरिति केचित्। चैत्रः कीदृश: ? चैत्रस्सुन्दरः इत्यादौ कार्यविशेषाभावेऽपि चैत्रादिपदानां व्यक्तिविशेषबोधजनकत्वदर्शनात्, कार्यान्वितेऽपि शक्तिरस्त्येवेति लोकव्यवहारनिर्वहणचतुरा नैय्यायिकाः।
६) वाक्यस्य शेषात्- वाक्यशेषादित्यर्थ:। यथा गामानय इत्यादौ गोपदस्य वृषभसाधारणस्य गोपदस्य, अद्य भूकर्षणं कर्तव्यम् इति समनन्तरमेव वाक्ये प्रयुक्ते वृषभे शक्तिग्रहः लोके। वेदे तु यवमयश्चरुर्भवति इति वाक्ये यवः क इति संशये, तद्वाक्यशेषभूतात् अथान्या ओषधयो म्लायन्ते, अथैते मोदमानास्तिष्ठन्ते इति वाक्यात् दीर्घशूकविशिष्टे धान्ये शक्तिग्रहः। शूकपदस्य तु शूकोऽस्त्री “लक्षणतीक्ष्णाग्रे इत्यादिकोशात् धान्यानामग्रे वर्तमानः कण्टकतुल्योऽवयवः।
७) विवृतिः - विवरणम्। तदा तदा व्याख्याकारादिभिः लक्षणादिमुखेन क्रियमाणं विवरणं प्रसिद्धम्। आप्तवाक्यं तु पर्यायपदादिशब्दः। विवृतिस्तु- प्रश्नोपप्रश्नादिपूर्वकं शब्दार्थनिश्चयहेतुः॥
८) सान्निध्यात्सिद्धपदस्य - प्रसिद्धपदसान्निध्यमित्यर्थ:। बहुपदघटिते वाक्ये एकपदं विनेतरेषां सर्वेषां शक्तिग्रहे सति तदेकपदस्येतरपदसमभिव्याहारवशाच्छक्तिग्रहो भवति। यथा शृणु, सहकारतरौ मधुरं पिको रौति इति सन्निहितपुरुषोक्ते वाक्ये पिकपदव्यतिरिक्तानामर्थे ज्ञाते, तद्वशात् पिकपदस्य पक्षिविशेषे शक्तिग्रहो भवति। एवमौचित्यवशात्सर्वं ज्ञेयम्॥
आलोक- व्याख्या
*शाब्दबोधोत्पत्तिक्रमः - प्रथमं ‘गामानय’ इति वाक्यश्रवणात् शब्दानुपूर्वीविषयकं श्रोत्रेन्द्रियजन्यं ज्ञानम्। ततः शक्तिस्मरणम्। ततः ‘एकसंबन्धिज्ञानमपरसंबन्धिस्मारकम्’ इति न्यायेन पदार्थस्मरणम्। यथा हस्तिहस्तिपकयोरसकृद्दर्शनेन कालान्तरे, तयोरन्यतरस्य कुत्रचिद्दर्शने, तदन्यविषयस्य स्मरणं भवति, तथा शक्तिस्मरणे पदार्थस्मरणम्। अतश्च शक्तिः पदपदार्थयोस्संबन्धरूपा। स च संबन्धो वाच्यवाचकभावरूपः, नातिरिक्तः। एवं पदार्थस्मरणानन्तरमाकाङ्क्षादिवशात्परस्परम् अन्वयविशिष्टः शाब्दबोधः। अयमेव शाब्दप्रमेत्युच्यते।।

टिप्पणी
*शाब्दबोधः - शब्दजन्यो बोधः शाब्दबोधः। प्रत्यक्षादिषु प्रमाणेषु शब्दस्यैव इतरापेक्षया व्यापकता सर्वानुभवसिद्धा। ‘आदित्येऽस्तमिते, चन्द्रमस्यस्तमिते, अग्नौ शान्ते किंज्योतिरास्ते पुरुषः’ ? इति प्रश्ने, ‘वागेवास्य ज्योतिः’ (बृ.उ.) इति ह्युक्तम्। इतरप्रमाणैः ज्ञातुमशक्यमपि शब्देन ज्ञातुं शक्यते। पारलौकिकोऽपि व्यवहारः शब्दमूलतयैव हि क्रियते। अतश्शाब्दबोधप्रक्रियाप्यवश्यं ज्ञेया सुधीभिः। क्रियारूपधात्वर्थमुख्यविशेष्यकशाब्दबोधवादिनो वैयाकरणाः। ‘सर्वं वाक्यं क्रियायां परिसमप्यते’ इति हि न्यायः। क्रियावाचिनो हि धातवः। अतः क्रियैव वाक्ये प्रधानमिति तदाशयः। (चैत्रकर्तृकः, तण्डुलकर्मकः पाकः इति शाब्दबोधः)। पाकादि क्रिया हि बाह्यः पदार्थः। स च मानवदृष्ट्या प्रयत्नरूपव्यापारसाध्यः। ‘चैत्रः तण्डुलं पचति’ इत्युक्ते ‘चैत्रकर्तृकः तण्डुलकर्मकः पाकानुकूलो व्यापारः’ इति हि बोधः। स च व्यापारः आख्यातवाच्यः। अतः आख्यातार्थमुख्यविशेष्यक एव बोधः इति आख्यातार्थमुख्यविशेष्यक एव शाब्दबोध इति मीमांसकाः।
पुरुषव्यापारस्याख्यातार्थत्वे, पुरुष एव प्राधान्यपर्यवसानात्, कर्ता पुरुष एव वाक्ये प्रधानतया बोध्यते। पुरुषार्थपर्यवसायी खलु व्यवहारः। क्रियानिवर्तकेषु कारकेषु कर्तैव ‘स्वतन्त्रः कर्ता’ इति लक्षितः। ‘चैत्रः घटं करोति’ इत्यादौ चैत्र एव प्रथमान्तपदेनोच्यत इति तत्रैव वाक्यार्थस्य पर्यवसानात् प्रथमान्तमुख्यविशेष्यक एव शाब्दबोधो लोकानुभवसिद्ध इति आख्यातेनोच्यमानो व्यापार एवाख्यातार्थः। तथा च ‘चैत्रस्तण्डुलं पचति’ इत्युक्ते ‘तण्डुलनिष्ठविकप्तयनुकूलव्यापारा(पाका)नुकूल प्रयत्ना(कृत्या)श्रयः चैत्रः’ इत्येव बोधः लोके स्वरसः। अतः प्रथमान्तार्थमुख्यविशेष्यक एव शाब्दबोध इति लोकव्यवहारनिपुणा नैयायिकाः।
‘लकाराः कर्मणि कर्तरि च स्युः’ इत्यत्र ‘कर्मत्वे कर्तृत्वे च’ इति भावप्रधानो निर्देशः ‘द्व्येकयोः’ इत्यत्र ‘द्वित्वैकत्वयोरि’तिवत्। कर्त्राख्याते आख्यातस्य कर्तृत्वमर्थः। कर्तृत्वं च कृतिः। कृतिश्च चैत्रे विशेषणतया भासते। कर्माख्याते तु आख्यातस्य कर्मत्वमर्थः। कर्मत्वं चाश्रयत्वरूपम्। आख्यातेन कर्तुरनभिधानात्, चैत्रपदोत्तरं तृतीयाप्राप्त्या, तृतीयायाः कर्तत्वरूपकृतिरर्थः। प्रकृत्यर्थस्य चैत्रस्य समवेतत्वसंबन्धेन तृतीयार्थकृतावन्वयः। तस्य च स्वप्रयोज्यत्वसंबन्धेन धात्वर्थैकदेशे व्यापारे अन्वयः। पाकः किल विकप्त्यनुकूलव्यापारः। तथा च ‘चैत्रसमवेतकृतिप्रयोज्यव्यापारप्रयोज्यविकप्त्याश्रयः तण्डुल इति बोधः। ‘चैत्रो ग्रामं गच्छती’त्यादौ ‘ग्रामनिष्ठसंयोगानुकूलव्यापारानुकूलकृतिमानि’ति बोधः। ‘चैत्रेण ग्रामो गम्यते’ इत्यत्र च ‘चैत्रसमवेत कृतिजन्यसंयोगाश्रयो ग्राम’ इति बोध इत्याद्यवगन्तव्यम्॥
नन्वेवं सति ‘चैत्रेण तण्डुलः पच्यते’ इत्यादौ कथं तण्डुलविशेष्यकबोधो भवेत् ? इति चेत्, प्राधान्यस्य कदाचित् मानवबुद्ध्यपेक्षत्वात्, कर्मप्राधान्यविवक्षया कर्मणि प्रयोगोपि साधुरेव। तथा च ‘तण्डुलकर्मकपाकानुकूलकृतिमान् चैत्रः’ इति कर्त्राख्याते बोधः। कर्माख्याते तु ‘चैत्रेण तण्डुलः पच्यते’ इत्यादौ ‘चैत्रसमवेत- कृतिजन्यविकड्ट्याश्रयः तण्डुलः’ इति, प्रथमान्तमुख्यविशेष्यक एव शाब्दबोधः। ‘चैत्रेण सुप्यते’ इत्यादिभावाख्यातस्थले तु ‘चैत्रकर्तृकः - चैत्रसमवेतकृतिजन्यः स्वापः’ इति धात्वर्थमुख्यविशेष्यकबोधः। भावाख्यातातिरिक्तस्थले तु प्रथमान्तमुख्यविशेष्यक एव शाब्दबोध इति संक्षेपः। अधिकं व्युत्पत्तिवादादौ। (प्रकृते तर्कसंग्रहे लक्षणवाक्यानां शाब्दबोधप्रक्रियायाः अध्ययनेनेतरत्सर्वं सुगमम्।)
अथ समासस्थले शाब्दवोधप्रक्रिया संग्रहेण प्रदर्श्यते विग्रहवाक्य- समस्तवाक्ययोस्समानविषयकत्वमुत्सर्गः। यथा ‘नीलोत्पलम्’ इति समस्तपदम्। ‘नीलमुत्पलम्’ इति व्यस्तप्रयोगः। ‘नीलं च तत् उत्पलं च’ इति कर्मधारयः। ‘नीलाभिन्नम् उत्पल’ मित्युभयत्रापि शाब्दबोधः। अत एव कर्मधारये न लक्षणा। एवं ‘रामलक्ष्मणौ’ इतीतरेतरद्वन्द्वेऽपि न लक्षणा। ‘रामश्च लक्ष्मणश्चेति’ विग्रहः। अत्रापि रामस्य लक्ष्मणस्य च बोधः। समासेऽपि तावानेव बोध इति नवीनाः।
‘इदमप्रौढमतीनाम् बालानामालोचनम्, न प्रौढमतीनाम्। ‘समुच्चयान्वा- चयेतरेतरयोगसमाहाराश्चार्था’ इति किलाह महर्षिः इत्येकाक्षरस्याव्ययार्थश्चतुर्विधो वर्तते लोकानुभव एव। तेषु समुच्चयान्वाचययोर्न समासः, असमर्थत्वात्। इतरेतरयोगसमा- हारयोरेव समासः इत्यादिकं सरलमतिभिः न ज्ञातुं शक्यम्। इतरेतरयोगो नाम परस्परसौहार्दरूपं मिलनम्। अतोऽर्थस्वारस्यसत्त्वात् सोऽपि समासस्यार्थः। ‘यथेन्द्रशत्रुः स्वरतोऽपराधात्’ इति वर्ण्यमानायामपि संस्कृतौ सूक्ष्मभावतराङ्गाणां स्थानं स्पष्टं प्रदर्शनमावश्यकम्, येन शब्दश्रवणेनैवान्तरङ्गाशयः स्पष्टं ज्ञातुं शक्येत। अधिकमन्यत्र। एवञ्चार्थभेदस्य सत्त्वात् सोऽपि तत्र विवक्षित एव। ततश्चेतरेतरयोगद्वन्द्वेऽपि उत्तरपदे विलक्षणसंयोगविशिष्टे लक्षणा आवश्यकी। नो चेत्, समहारेऽपि लक्षणा न स्यात्।
बहुव्रीहिसमासेऽन्यपदार्थस्य प्राधान्यात् लक्षणाऽनिवार्या। ‘पीतम् अम्बरं यस्य’, पीताम्बरो हरिः। अत्र विग्रहवाक्ये अम्बरपदमेव प्रमथमान्तत्वात् विशेष्यम्। यच्छब्दार्थः हरिः। ‘यस्य हरेः अम्बरं पीतरूपवत्, सः हरिः पीताम्बर’ इति खलु वाक्यस्यार्थो वक्तव्यः। एवञ्च ’ यत् सम्बन्धी अम्बरं पीतरूपवदभिन्नम्’ इति विग्रहवाक्यात् बोधः। समासवाक्यात्तु ‘पीतरूपविशिष्टाभिन्नाम्बरसम्बन्धी हरिरि’ति बोधः। एवं समासघटकपदार्थापेक्षया बाह्यस्यार्थस्य प्राधान्यात् इतरसमासापेक्षया बहुव्रीहिर्जघन्य इत्युच्यते। गत्यन्तराभाव एव स आश्रयणीय इति भावः।
‘माता च पिता च पितरौ’ इत्यादिविरूपैकशेषसमासे पितृपदस्य मातापित्रोः लक्षणेति स्पष्टमेव। इदं विरूपैकशेषसमासे। ‘घटश्च घट घटौ’, ‘घटश्च घट घटश्च घटाः’ इत्यादि सरूपैकशेषे तु विभक्तयैव घटद्वयस्य, बहूनां घटानां च बोधात् न लक्षणा आवश्यकी।
‘उपकुम्भम्’, ‘अर्धपिप्पली’त्यादौ उत्तरपदे कुम्भपदे, पिप्पलीपदे च कुम्भसमीपे, पिप्पल्यर्धे च लक्षणा, पूर्वपदं तात्पर्यग्राहकमात्रम्। एवं च समासे कुत्रापि न शक्तिः। अत एव न लक्षणापि, शक्यसम्बन्धस्याभावात्। वाक्ये शक्तिर्नास्ति, लक्षणा तु वर्तत इति अर्थवादवाक्यानां प्राशस्त्ये लक्षणायाः वक्तव्यत्वादिति मीमांसकाः। उभयमप्यस्तीति वैय्याकरणा इत्याद्यन्यत्र विस्तरः।
आलोक- व्याख्या
ननु यदि पदे शक्तिर्नातिरिक्ता, तर्हि अनादिकालात् सर्वेष्वपि देशेषु कालेषु सर्वेषामपि पदानामेक एवार्थः कथं भवति। कारणस्य पदस्य, वह्न्यादेः दाहकत्ववत्, सर्वदेशकालपुरुषसाधारणत्वात्। न ह्यश्वशब्दस्य कदाचिदपि गर्दभोऽर्थः। गोशब्दस्य अश्वोऽर्थः कदापि न बोध्यः। इयं व्यवस्था कथमिति चेत्, अहो भवान् अतिमृदुमतिरिव भाति। शक्तेरतिरिक्तत्ववाद एवैतादृशशङ्का युज्यते। एतन्मते हि शक्तिः स्वरूपयोग्यतैव। परन्तु शब्दे द्विविधा सा। एका शब्दसाक्षात्कारहेतुभूता, अन्या तु अर्थबोध हेतुभूता। आद्या तु श्रोत्रेण शब्दग्रहणेनैव कृतकृत्या। अस्मिन् विषये तु उक्तमत्रेश्वरेच्छायास्तस्यास्तथा व्यवस्थितत्वादिति नानुपपत्तिः।
तर्कसंग्रहः
आकाङ्क्षा योग्यता सन्निधिश्च वाक्यार्थज्ञानहेतुः। पदस्य पदान्तरव्यतिरेकप्रयुक्ता-न्वयाननुभावकत्वमाकाङ्क्षा | अर्थाबाधो योग्यता | पदानामविलम्बेनोच्चारणं सन्निधिः। आकाङ्क्षादिरहितं वाक्यं न प्रमाणम्। यथा गौरश्वः पुरुषो हस्ती इति वाक्यं न प्रमाणम्, आकाङ्क्षाविरहात्। अग्निना सिञ्चतीति वाक्यं न प्रमाणं योग्यताविरहात्। प्रहरे प्रहरेऽसहोच्चारितानि गामानयेत्यादिपदानि न प्रमाणं सान्निध्याभावात्।
आलोक- व्याख्या
ननु गवादिपदसमूह एव चेत् वाक्यम्, तर्हि ‘गौरश्वः पुरुषो हस्ती’ इत्यादिपदसमूहादपि कश्चन बोधः स्यात्। भवत्येव तत्र गवाद्यर्थानां बोध इति चेत्, नायं बोधः। किन्त्वर्थस्य स्मरणमात्रम्। शाब्दबोधो नाम शब्दजन्यः परस्परान्वितार्थविषयको यथार्थानुभवः। चतुर्विधयथार्थानुभवेषु हि ‘शाब्दः’ इति विभागः प्रादर्शि। ‘गौरश्वः’ इत्यादिवाक्याच्छाब्दबोधो न भवितुमर्हति किन्तु विशकलितपदार्थस्मृतिरेव। एवम् ‘अग्निना सिञ्चति’ इति वाक्ये श्रुतेऽपि शाब्दबोधो न जायते, बाधितार्थकत्वात्। एवं प्रातः घटपदमुक्त्वा सायम् ‘आनय’ इति पदप्रयोगेऽपि शाब्दबोधो न भवति, पदानामत्यन्तं व्यवधानात्। एवं कोशादावपि पदानामर्थोपस्थितिमात्रं भवति। एषु स्थलेषु वाक्ये श्रुतेऽपि शाब्दबोधः कुतो न जायते ? इति शङ्कायाम्, तेषु स्थलेषु शाब्दबोधानुत्पत्तेः कारणान्याह - आकाङ्क्षेत्यादिना। एवञ्चोक्तस्थलेषु पदज्ञाने सत्यपि, सत्यपि च शक्तिज्ञाने आकाङ्क्षाद्यन्यतमकारणाभावान्न शाब्दबोधः। सकलकारणसन्निधाने सत्येव कार्योदयसंभवात्। ‘गौरश्वः पुरुषो हस्ती’ इत्यत्र तेषां पदानां परस्परमाकाङ्क्षाया अभावान्न शाब्दबोधः। यथा ‘भूतले घटः’ इत्युक्ते घटभूतलयोराधाराधेयभावात् आधारस्याधेयाकाङ्क्षा, आधेयस्याधाराकाङ्क्षा च वर्तते, तथा न हि गोपदार्थस्याश्वपदार्थस्य च परस्परमाकाङ्क्षा काचिद्वर्तते। अत आकाङ्क्षाभावान्न शाब्दबोधः। अत एव कोशान्न शाब्दबोधः, परस्परमाकाङ्क्षाभावात्।
आकाङ्क्षायाः स्वरूपमाह - पदस्येत्यादि। पदस्य कस्यचित्पदस्य पदान्तरम् - अन्यत् समीपस्थं पदम्, तद्व्यतिरेकस्तदप्रयोगः। तत्प्रयुक्तम्- तन्निबन्धनम् तत्पदे सति बोधः, तदभावे च न बोध इत्येवंरूपम्, अन्वयाननुभावकत्वम् - परस्परान्वयविशिष्टविषयकशाब्दबोधाजनकत्वं यदा भवति, तदा तयोः पदयोराकाङ्क्षा। यथा क्रियापदे श्रुते, कर्त्राकाङ्क्षा, कर्तृवाचकपदे प्रयुक्ते, क्रियाकाङ्क्षा च भवति। तद्वाचकपदाभावे च शाब्दबोधो न भवति। एवं सकर्मकधातुश्रवणे कर्माकाङ्क्षा, विशेष्यविशेषणवाचकपदादीनां परस्परमाकाङ्क्षादि च ज्ञेयम्।।
योग्यता - अर्थाबाधः। प्रयुक्तशब्दश्रवणेनोपस्थितानामर्थानां परस्परबाधाभावः। परस्परबाधे सति बोधो न जायते। अत एव ‘वह्निना सिञ्चति’ इति वाक्ये श्रुते वह्नेः सेचनसाधनत्वं प्रतीयते। तच्च बाधितम्। जलं हि सेचनसाधनम्। अतः सेचनस्य वह्निकरणकत्वस्य च बाधात् योग्यताया अभावात्तेन वाक्येन शाब्दबोधो न भवति।
सन्निधिः पदानामविलम्बेनोच्चारणमावश्यकम्। तदभावादेव, प्रातः ‘गाम्’ इत्युच्चार्य, सायम् ‘आनय’ इत्युक्ते तयोरन्वयबोधो न भवति। तयोः पदयोस्सान्निध्याभावात्।
एवं वक्तुरिच्छारूपं तात्पर्यज्ञानमपि शाब्दबोधे कारणम्। ‘सैन्धवमानय’ इति वाक्ये श्रुते, सैन्धवपदस्य अश्वः, लवणं द्वयमप्यर्थः। केनाभिप्रायेणायं शब्दः प्रयुक्तः ? इति जिज्ञासायाम्, प्रकरणादिवशाद्वक्तुरिच्छां ज्ञात्वा तदनुगुणमर्थं निर्धारयति। भोजनप्रकरणं चेत् सैन्धवपदस्य लवणमर्थः। प्रयाणप्रकरणं चेत् तत्पदस्याश्वोऽर्थ इति। इदं च तात्पर्यज्ञानं नानार्थकपदस्थल एव कारणम्, न तु सर्वत्र। ‘घटमानय’ इत्यादौ हि घटपदस्यार्थान्तराभावादिति केचिन्मन्यन्ते। परन्तु पदानां शक्तिर्हि घटत्वादिरूपसामान्यधर्मावच्छिन्ने घटसामान्ये। न तु एकस्मिन् घटे, घटान्तरविषयकशाब्दबोधानुत्पत्तिप्रसङ्गात्। एवं घटसामान्ये शक्त्योपस्थापिते घटविशेषनिश्चयस्तु वक्तुरिच्छानुरोधेनैव। अतस्सर्वत्रैव शाब्दबोधे तात्पर्यज्ञानं कारणमित्येव युक्तम्। न हि ‘घटमानय’ इत्युक्ते घटव्यक्तिनिश्चयः तत्तात्पर्यज्ञानमन्तरा सम्भवी॥
ननु पदानां शक्तिः किं जातौ ? उत व्यक्तौ ? यदि व्यक्तौ शक्तिः, तर्हि शक्तिग्रहणवेलायां गोपदस्य एकस्यामेव गवि शक्तिग्रहणात्, अन्यगोविषयकबोधो न स्यात्। अतो जातावेव शक्तिः। ‘गामानय’ इत्युक्ते गोः आनयनान्वयासंभवादन्वयानुपपत्त्या व्यक्तिबोध इति मीमांसकाः। परन्तु ‘गौरस्ति’ इत्यत्र तथानुपपत्तेरभावात् व्यक्तिबोधो न स्यात्। गोपदश्रवणसमनन्तरमेव गोत्वविशिष्टबोधानुभवात् जातौ तद्व्यञ्जकाकृतौ, जात्याश्रयव्यक्तौ चेति त्रिष्वपि शक्तिरिति तार्किकाः।
ननु तर्हि ‘गंगायां घोषः’ इति वाक्यात् कथं बोधः ? गंगापदस्य हि नदी अर्थः। घोषः = आभीरपल्ली। सा कथं गङ्गायां स्यात् ? एवं ‘राजवीथ्यां गृहं वर्तते’ इत्यत्र वीथीपदस्य सञ्चारमार्गोऽर्थः। संचारमार्गे गृहं कथं स्यात् ? इति चेत्, न। एतादृशस्थले लक्षणया बोधात्। लक्षणया गङ्गापदस्य गङ्गातीरमर्थ:, वीथीपदस्य वीथीपार्श्वभागोऽर्थः। लक्षणा नाम शक्यार्थसंबन्धः। गङ्गापदस्य शक्यार्थः गङ्गानदी, तत्सम्बन्धस्तीरे वर्तते। एवं वीथीपदस्य वीथीमार्गोऽर्थः। तत्संबन्धः तत्पार्श्वभागस्य वर्तत इति बोधो भवति। ततश्च शक्तिलक्षणान्यतरसंबन्धः शाब्दबोधहेतुः। शक्तिः, लक्षणा च वृत्तिपदेनोतच्येते।

गोवर्धन-न्यायबोधिनी - लक्षणा

शब्दं लक्षयति। आप्तेति। आप्तोच्चरितत्वे सति वाक्यत्वं शब्दस्य लक्षणम्। प्रमाणशब्दत्वं लक्ष्यतावच्छेदकम्। वाक्यत्वमात्रोक्तावनाप्तोच्चरितवाक्येऽतिव्याप्तिरत आप्तोचरितत्वनिवेशः। तावन्मात्रोक्तौ जबगडदशादावतिव्याप्तिरतो वाक्यत्वम्। आप्तत्वं च प्रयोगहेतुभूतयथार्थज्ञानवत्त्वम्। तथा च प्रयोगहेतुभूतयथार्थज्ञानजन्यशब्दत्वमिति पर्यवसन्नार्थः। वस्तुतस्तु पदज्ञानं करणम्। वृत्तिज्ञानसहकृतपदज्ञानजन्यपदार्थोपस्थितिर्व्यापारः। वाक्यार्थज्ञानं शाब्दबोधः, फलम्। वृत्तिर्नाम शक्तिलक्षणान्यतररूपा। शक्तिर्नाम घटादिपदजन्यबोधविषयत्वप्रकारकेश्वरसङ्केतः। ईश्वरसंकेतो नाम ईश्वरेच्छा। सैव शक्तिरित्यर्थः। शक्तिनिरूपकत्वमेव पदे शक्तत्वम्। विषयतासंबन्धेन शक्याश्रयत्वं अर्थे शक्यत्वम्। शक्यसंबन्धो लक्षणा। सा द्विविधा गौणी शुद्धा चेति। गौणी नाम सादृश्यविशिष्टे लक्षणा। यथा सिंहो माणवक इत्यादौ सिंहपदस्य सिंहसादृश्यविशिष्टे लक्षणा। शुद्धा त्रिविधा। जहल्लक्षणा अजहल्लक्षणा जहदजहल्लक्षणा चेति। लक्ष्यतावच्छेदकरूपेण लक्ष्यमात्रबोधप्रयोजिका लक्षणा जहल्लक्षणा। यथा गङ्गायां घोष इत्यत्र गङ्गापदशक्यप्रवाहसंबन्धस्य तीरे सत्त्वात्तादृशशक्यसंबन्धरूपलक्षणाज्ञानाद्गङ्गापदात्तीरोपस्थितिः। लक्ष्यतावच्छेदकरूपेण लक्ष्यशक्योभयबोधप्रयोजिका लक्षणा अजहल्लक्षणा। यथा काकेभ्यो दधि रक्ष्यतामित्यत्र काकपदस्य दध्युपघातु?के लक्षणा। लक्ष्यतावच्छेदकदध्युपघातुकत्वेन रूपेण दध्युपघातुकानां काकबिडालकुक्कुटादीनां शक्य लक्ष्याणां सर्वेषां बोधात्। शक्यतावच्छेदकपरित्यागेन व्यक्तिमात्रबोधप्रयोजिका जहदजहल्लक्षणा। यथा तत्त्वमसीत्यत्र सर्वज्ञत्वकिंचिज्ज्ञत्वपरित्यागेन व्यक्तिमात्रबोधनात् जहदजहल्लक्षणा। इयं च लक्षणा जीवब्रह्मणोरैक्यं ब्रुवतां वेदान्तिनां सिद्धान्तरीत्या।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - शब्दस्वरूपनिरूपणम्

तर्कसङ्ग्रहसर्वस्वे शब्दपरिच्छेदः

आप्तवाक्यं शब्दः। आप्तस्तु यथार्थवक्ता। वाक्यं तु पदसमूहः। शक्तं पदम्। अस्मात्पदादयमर्थो बोद्धव्य इतीश्वरसङ्केतः शक्तिः।
शब्दं लक्षयति आप्तवाक्यमिति। आप्तस्य वाक्यम् आप्तवाक्यम्, षष्ठ्या उच्चरितत्वमर्थः, तथाच, आप्तोच्चरितत्वे सति वाक्यत्वं शब्दप्रमाणलक्षणम्। गामानयेत्यादिप्रमाणवाक्येषु आप्तोच्चरितत्ववाक्यत्वयोः सत्त्वात् समन्वयः। वाक्यत्वमात्रोक्तौ अनाप्तोच्चरितवाक्येऽतिव्याप्तिः, आप्तोच्चरितत्वमात्रोक्तौ जबगडदशादावतिव्याप्तिः, अतो दलद्वयनिवेशः। न च आप्तत्वस्य यथार्थज्ञानजनकशब्दप्रयोगकर्तृत्वरूपत्वेऽपि प्रथमं महानसो वह्निमान् इति यथार्थज्ञानजनकशब्दप्रयोगकर्त्रोच्चरिते ह्रदो वह्निमान् इति वाक्येऽपि आप्तोच्चरितत्ववाक्यत्वयोः सत्त्वादतिव्याप्तिरिति वाच्यम्, प्रकृतप्रयोगहेतुभूतयथार्थज्ञानजन्यवाक्यत्वस्य तदर्थत्वात्, ह्रदो वह्निमान् इति वाक्यं प्रति ह्रदो वह्निमान् इति अयथार्थज्ञानस्यैव कारणत्वेन यथार्थज्ञानजन्यवाक्यत्वस्य तत्राभावात् नातिव्याप्तिः। अर्थं बुद्ध्वा शब्दरचनेति न्यायेन शब्दप्रयोगं प्रति तदर्थज्ञानस्य हेतुत्वेन गामानयेत्यादिप्रमाणवाक्येषु यथार्थज्ञानस्यैव कारणतया यथार्थज्ञानजन्यशब्दत्वस्य सत्त्वात् समन्वयः। अत्र लक्ष्यतावच्छेदकं प्रमाणशब्दत्वमेव नतु शब्दत्वमात्रम्। शब्दत्वमात्रस्य तत्त्वे अग्निना सिञ्चतीत्याद्यप्रमाणशब्देष्वपि तस्य सत्त्वात् अतिप्रसङ्गः। वस्तुतस्तु, शब्दज्ञानमेव शाब्दधीकरणमिति वक्तव्यम्, नतु शब्दः, शब्दस्यैव करणत्वे मौनिश्लोकादितः शाब्दबोधानुपपत्तिः, कण्ठताल्वाद्यभिघातसंयोगजन्यध्वनिविशेषरूपस्य शब्दस्य तदानीमभावात्। शब्दज्ञानस्य करणत्वे तु लिप्याद्यभिव्यङ्ग्यस्य पदज्ञानस्य मौनिश्लोकादितः शाब्दबोधदशायामपि सत्त्वात् नानुपपत्तिः। शाब्दबोधकारणसामग्री तु मदीयपारिभाषिकपदार्थसङ्ग्रहे शाब्दबोधविचारे द्रष्टव्या। शाब्दबोधं प्रति वृत्तिज्ञानं कारणम्। वृत्तिश्च शक्तिः लक्षणा चेति द्विविधा। शक्तिः मूले निरूपयिष्यते। शक्यसम्बन्धो लक्षणा। सा च जहल्लक्षणाऽजहल्लक्षणा चेति द्विविधा। शक्यतावच्छेदकाप्रकारकलक्ष्यतावच्छेदकप्रकारकबोधप्रयोजिका लक्षणा जहल्लक्षणा, गङ्गायां घोषः इत्यत्र शक्यतावच्छेदकीभूतप्रवाहत्वाप्रकारकलक्ष्यतावच्छेदकीभूततीरत्वप्रकारकबोधजनकत्वस्यात्र लक्षणायां सत्त्वात्समन्वयः (अत्र तीरे घोष इति बोधः) (शक्यार्थपरित्यागे सत्यन्यार्थग्रहणं जहल्लक्षणेति भावः) लक्ष्यतावच्छेदकरूपेण लक्ष्यशक्योभयबोधप्रयोजिका लक्षणाऽजहल्लक्षणा। काकेभ्यो दधि रक्ष्यतामित्यत्र दध्युपघातकत्वेन रूपेण काककुक्कुटबिडालादिशक्यलक्ष्यबोधप्रयोजिकाऽजहल्लक्षणैव (अत्र इष्टसाधनीभूतदध्युपघातकापादानकदधिरक्षणानुकूलकृतिमानिति बोधः) (शक्यार्थापरित्यागे सत्यन्यार्थग्रहणमजहल्लक्षणेति भावः) लक्षणाज्ञानस्थलीयशाब्दबोधसामग्री पारिभाषिकपदार्थसङ्ग्रहे निरूपिता। एषां मते जहदजहल्लक्षणा नाङ्गीक्रियते। गौणी वृत्तिरपि लक्षणायामेवान्तर्भवति। एतत्प्रपञ्चो दीपिकाव्याख्यावसरे निरूपयिष्यते। व्यञ्जनावृत्तेः शक्त्यनुमानाभ्यां चारितार्थ्यमपि पारिभाषिकसङ्ग्रहे निरूपितम्। दीपिकायाञ्च निरूपयिष्यते, अतो नेह प्रपञ्च्यते।
आप्तं लक्षयति आप्तस्त्विति। यथार्थवक्तृत्वञ्च यथार्थज्ञानजनकशब्दप्रयोगकर्तृत्वम्, पर्वतो वह्निमान् इति शब्दप्रयोक्तरि यथार्थज्ञानजनकशब्दप्रयोक्तृत्वस्य सत्त्वात् समन्वयः। न च पूर्वकालावच्छेदेन पर्वतो वह्निमान् इति शब्दप्रयोक्तरि इदानीं ह्रदो वह्निमान् इति शब्दप्रयोक्तर्यनाप्ते पूर्वकालावच्छिन्नशब्दप्रयोगमादाय यथार्थज्ञानजनकशब्दप्रयोक्तृत्वस्य सत्त्वात् ह्रदो वह्निमान् इति शब्दप्रयोगकर्तर्यपि आप्तत्वव्यवहारप्रसङ्ग इति वाच्यम्, तस्येष्टत्वात्। परन्तु अस्मिन् प्रयोगेऽयमाप्त इति व्यवहारस्तु नेष्टः, तत्र एतत्प्रयोगानुकूलयथार्थज्ञानजनकशब्दप्रयोक्तृत्वस्यैव प्रत्यायनात्, तस्य तदा तस्मिन्नसम्भवात्।
आप्तलक्षणघटकीभूतवाक्यं निर्वक्ति वाक्यमिति। (पदसमूह एव वाक्यमिति नैयायिकाः। (अत्र पदं शक्तं ग्राह्यम्) परस्परान्वयान्वयिभावापन्नकर्तृक्रियाकारकवाचकपदसमुदायो वाक्यमिति वैयाकरणाः। नैयायिकमते पदसमूहस्यैव वाक्यतया वाक्ये क्रियापदसमभिव्याहारावश्यम्भावाभावेन नीलो घटः इत्यादिक्रियाप्रयोगविरहस्थलेऽपि वाक्यत्वमभिमतम्। वैयाकरणमते तु क्रियां विना वाक्यपरिसमाप्तेरभावेन नीलो घट इत्यादिष्वध्याहारेण वाक्यत्वमभ्युपगम्यते।
पदं लक्षयति शक्तमिति। नैयायिकमते शक्तस्यैव पदत्वेन सुप्तिङन्तानां विभक्तीनां कृदादिप्रत्ययानाञ्च पदत्वमभिमतम्। वैयाकरणमते सुप्तिङन्तस्यैव पदत्वेन विभक्तीनां कृदादीनाञ्च तदन्तत्वाभावेन तेषां नैव पदत्वमभ्युपगम्यते। किन्तु सुप्तिङन्तानां रामः भवति इत्यादीनामेव पदत्वमङ्गीक्रियते। अस्मिन् मते पदं द्विविधम्, शक्तं लाक्षणिकञ्चेति। शक्त्याऽर्थबोधकं शक्तम्, लक्षणयाऽर्थबोधकम् लाक्षणिकम्। एवमर्थो द्विविधः, शक्यो लक्ष्यश्चेति। शक्त्या बोध्योऽर्थः शक्यः, लक्षणया बोध्योऽर्थो लक्ष्यः। वृत्तिरपि द्विविधाः शक्तिः लक्षणा चेति। शक्तिर्नाम अस्मात्पदादयमर्थो बोद्धव्य इतीश्वरसङ्‌केतः (ईश्वरेच्छा), अनेन च वाक्येन एतत्पदजन्यबोधविषयत्वप्रकारिकायाः एतदर्थविशेष्यकेच्छायाः आकारः प्रदर्शितः। तथाच, अर्थस्य एतादृशशक्तौ विशेष्यतया शक्तिनिरूपितमुख्यविशेष्यताश्रयत्वं शक्यत्वमिति फलितम्, पदस्य शक्तौ परम्परया प्रकारत्वेन शक्त्या परम्परया निरूपितप्रकारत्वं शक्तत्वमिति फलितम्। शक्त्या परम्परया निरूपितप्रकारत्वं नाम शक्तिनिरूपितमुख्यविशेष्यतानिरूपितप्रकारतानिरूपितप्रकारतानिरूपितप्रकारताश्रयत्वम्। एतत्पदजन्यबोधविषयोऽयमर्थ इतीश्वरेच्छायाः शक्तिरूपतया शक्तिनिरूपिता मुख्यविशेष्यता अर्थनिष्ठा विशेष्यता, तन्निरूपिता प्रकारता विषयत्वनिष्ठा प्रकारता, तन्निरूपिता प्रकारता बोधनिष्ठा प्रकारता, तन्निरूपिता प्रकारता जन्यत्वनिष्ठा प्रकारता तन्निरूपिता प्रकारता पदनिष्ठा प्रकारता, तदाश्रयत्वं पदे वर्तते इति। अत्र विशेष्यतायां मुख्यत्वानुपादाने बोधांशे विषयत्वस्यापि विशेष्यतया शक्तिनिरूपितविशेष्यतापदेन विषयत्वनिष्ठविशेष्यतायाः परिग्रहणे तन्निरूपितनिरुक्तप्रकारताश्रत्वस्य तत्तत्पदत्वरूपानुपूर्व्यां सत्त्वात् तत्राऽपि तदर्थशक्तताव्यवहारप्रसङ्गः, अतो मुख्यत्वनिवेशः। विषयत्वनिष्ठविशेष्यतायाः मुख्यत्वाभावात् नातिप्रसङ्गः।
शक्यसम्बन्धो लक्षणा, स च सम्बन्धः क्वचित् साक्षात्सम्बन्धः क्वचित् परम्परासम्बन्धश्च भवति। यथा गङ्गायां घोष इत्यत्र गङ्गापदशक्यप्रवाहस्य संयोगरूपसाक्षात्सम्बन्धस्य तीरे सत्वात् तत्र तीरबोधे साक्षात्सम्बन्धः प्रयोजकः। एवमेव मञ्चाः क्रोशन्ति, यष्टीः प्रवेशय इत्यादौ स्वशक्यमञ्चयष्ट्यादिसंयोगरूपः साक्षात्सम्बन्धः पुरुषबोधोपयोगी। काकेभ्यो दधि रक्ष्यताम् इत्यत्र काकपदशक्यकाकानां स्वनिष्ठदध्युपघातकत्वाश्रयत्वरूपपरम्परासम्बन्धः दध्युपघातकत्वावच्छिन्नबोधोपयोगी। एवं द्विरेफमानयेत्यत्र द्विरेफपदशक्यरेफद्वयस्य स्वघटितपदवाच्यत्वरूपपरम्परासम्बन्धः तत्र मधुकरबोधे समुपयुज्यते। एवं रीत्या स्थलभेदेन साक्षात्परम्परासम्बन्धानां लक्षणारूपत्वं ज्ञेयम्। (सा च लक्षणा पुनः द्विविधा, निरूढलक्षणा स्वारसिकलक्षणा चेति। अनादितात्पर्यविषयीभूता लक्षणा निरूढलक्षणा। यत्पदश्रवणानन्तरमचिरेणैव यथा लक्षणया यत्पदार्थोपस्थितिः भवति तत्पदार्थोपस्थापिका सा निरूढलक्षणेति फलितम्। शक्तिवत् अविलम्बितलक्ष्यप्रतीतिप्रयोजिका लक्षणा निरूढलक्षणेति परमार्थः। यथा, गङ्गायां घोषः, मञ्चाः क्रोशन्ति, काकेभ्यो दधि रक्ष्यताम् इत्यादिषु निरूढलक्षणा। कथञ्चित् प्रकरणादिना लक्ष्योपस्थापिका स्वारसिकलक्षणा। विलम्बितप्रतीतिप्रयोजिकेति पर्यवस्यति। यथा, सप्तपदार्थाः, नव द्रव्याणि इत्यादिषु विभाजकधर्मसप्तकान्यतमवदादिबोधिका स्वारसिका भवति। एतल्लक्षणद्वयविषये बहूनां बहुविधाऽभिप्रायास्सन्ति, विषयान्तरत्वेन नेह तत् प्रपञ्च्यते।)
आकाङ्क्षा योग्यता सन्निधिश्च वाक्यार्थज्ञानहेतुः। पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वमाकाङ्क्षा। अर्थाबाधो योग्यता। पदानामविलम्बेनोच्चारणं सन्निधिः। आकाङ्क्षादिरहितं वाक्यं न प्रमाणम्। यथा गौरश्वः पुरुषो हस्तीति वाक्यं न प्रमाणम् आकाङ्क्षाविरहात्। अग्निना सिञ्चतीति वाक्यं न प्रमाणं योग्यताविरहात्। प्रहरे प्रहरेऽसहोच्चारितानि गामानयेत्यादि पदानि न प्रमाणं सान्निध्याभावात्।