48 उपमानम्

मूलम् - उपमानम् - 48

उपमितिकरणमुपमानम्। संज्ञासंज्ञिसम्बन्धज्ञानमुपमितिः। तत्करणं सादृश्यज्ञानम्। अतिदेशवाक्यार्थस्मरणमवान्तरव्यापारः। तथा हि कश्चिद्गवयशब्दार्थमजानन्कुतश्चिदारण्यकपुरुषाद्गोसदृशो गवय इति श्रुत्वा वनं गतो वाक्यार्थं स्मरन्गोसदृशं पिण्डं पश्यति। तदनन्तरमसौ गवयशब्दवाच्य इत्युपमितिरुत्पद्यते॥ ४७॥

Tags - 48

उपमानम्, चतुर्विधप्रमाणम्, सादृश्यज्ञानम्

दीपिका - उपमितिः

उपमानं लक्षयति-उपमितिकरणमिति।

वरदाचार्य आलोके - उपमानम्

तर्कसंग्रहः
अथोपमानखण्डः
उपमितिकरणमुपमानम्। संज्ञासंज्ञिसंबन्धज्ञानमुपमितिः। तत्करणं सादृश्यज्ञानम्। अतिदेशवाक्यार्थस्मरणं व्यापारः। तथाहि- कश्चिद् गवयशब्दवाच्य(पदार्थ)मजानन् कुतश्चिदारण्यकपुरुषात् “गोसदृशो गवय” इति श्रुत्वा वनं गतः, गोसदृशपिण्डं पश्यन् वाक्यार्थं स्मरति। तदनन्तरं “अयं गवयपदवाच्यः” इत्युपमितिरुत्पद्यते।
आलोक- व्याख्या
अथोपमानखण्डः
क्रमप्राप्तमुपमानं निरूपयति - उपमितीति। उपमितेः करणम् - उपमितिकरणम्। करणं नाम करणतावत् - असाधारणकारणतावदित्यर्थः। उपमितेरित्यत्र षष्ठ्याः कार्यत्वमर्थः। तत्र च प्रकृत्यर्थस्याधेयतासंबन्धेनान्वयः। कार्यतायाश्च निरूपितत्वसंबन्धेन असाधारणकारणतायामन्वयः। तथा च उपमितिनिष्ठकार्यतानिरूपितासाधारणकारणतावत् उपमानम् इति शाब्दबोधः। लक्षणं तु- उपमितिनिष्ठकार्यतानिरूपितासाधारणकारणतावत्त्वम् इति।
उपमितिर्नाम केत्यत्र - संज्ञेत्यादि। गोसदृशस्यारण्यकप्राणिनः ‘गवयः’ इति संज्ञा। संज्ञी तु प्राणिविशेषः। ‘गवयपदं गोसदृशप्राणिवाचकम्’ इत्यर्थनिर्णयः- गवयपदवाच्यनिर्णय उपमितिशब्दार्थः। स च निर्णयः शब्दार्थयोर्वाच्यवाचकभावसंबन्धज्ञानमूलक इति वाच्यवाचकभावसंबन्धज्ञानम् संज्ञासंज्ञिसंबन्धज्ञानम् उपमानपदार्थो नवीनमते। एतच संबन्धज्ञानं गोगवययोः सादृश्यज्ञानमूलकम्। प्राचीनमते एतदेवोपमानपदार्थः। संज्ञासंज्ञिसंबन्धिज्ञानं मध्ये व्यापारः, अनुमितौ परामर्श इव। एवञ्चोपमानं शक्तिग्राहकं प्रमाणमवगन्तव्यम्। अत एव शब्दप्रमाणात्पूर्वं परिगणितम्। तत्प्रकारं वर्णयति - तथा हीत्यादिना।
नन्वेवं शक्तिग्राहकस्याप्युपमानस्य वस्तुग्राहकप्रमाणानां प्रत्यक्षादीनां मध्ये गणनं कथमिति चेत्, सत्यम्। लोकातीतवस्तुवाचकानां वैदिकानामिन्द्रादिपदानां शक्तिग्रह उपमानादेव वक्तव्यः। एवं परोक्षाणां परदेशानां प्रतिदिनं क्रियमाणो व्यवहारादिरुपमानमूलक एव। यथा भोजनस्य तृप्तिसाधनत्वज्ञानमनुमानरूपमप्यतिपरिचयात् प्रत्यक्षसदृशं भवत्येवमुपमानमपि। अतो वेदप्रामाण्यहेतुत्वात्, दैनन्दिनव्यवहाराणां बहूनां प्रामाण्य- निर्वाहार्थमुपमानस्यैवाश्रयणीयतयांशतो वस्तुग्राहकत्वमप्यस्त्युपमानस्य। नो चेत्प्रायस्सर्वैर्मूखैर्भवितव्यमिति मत्वा उपमानमपि स्वतन्त्रं प्रमाणं परिगणितमिति मन्तव्यम्।
अंशतः पारतन्त्र्यं तु प्रत्यक्षादेरप्यनिवार्यम्। सर्वप्रमाणमूर्धन्यमपि ऐन्द्रियकं प्रत्यक्षप्रमाणमालोकादिसापेक्षमेव। तावता प्रत्यक्षं स्वविषये स्वतन्त्रमित्येव सर्वसंमतम्। एवं शब्दानुमानयोरपि प्रत्यक्षोपजीव्यत्वस्यानिवार्यत्वेऽपि स्वविषये स्वातन्त्र्यमवर्जनीयमेव। एवमेवोपमानमपि केवलशक्तिग्राहकप्रमाणमिति स्थितेऽपि पारलौकिकानां स्वर्गापवर्गादिविषयाणां शब्दैकसमधिगम्यत्वेन तद्विषयकव्यवहारः स्वतन्त्र इव भाति विदुषाम्। अत्रत्यमर्यादाया अतिसूक्ष्माया अपरिचयादेव उच्चावचाः वादविवादाः वर्धन्त इत्यपि न तिरोहितं विदुषाम्। अतः अक्षपादोक्तिरत्यन्तसाधीयसीति प्रामाणिकैर्मन्तव्यम्।
।। इत्युपमानखण्डः।।

गोवर्धन-न्यायबोधिनी - उपमितिः

उपमानं लक्षयति। उपमितिकरणमिति। उपमितिं लक्षयति। संज्ञासंज्ञीति। संज्ञा नाम पदम्। संज्ञी अर्थः। तयोः सम्बन्धः शक्तिः। तथा च पदपदार्थसम्बन्धज्ञानमुपमितिरित्यर्थः। उपमानं नामातिदेशवाक्यार्थज्ञानम्। अतिदेशवाक्यार्थस्मरणं व्यापारः। उपमितिः फलम्। गोसदृशो गवयपदवाच्य इत्याकारकवाक्याद्गोसादृश्यावच्छिन्नविशेष्यकगवयपदवाच्यत्वप्रकारकं यज्ज्ञानं जायते तदेव करणम्।
इति न्यायबोधिन्यामुपमानपरिच्छेदः समाप्तः॥

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - उपमानलक्षणम्

तर्कसङ्ग्रहसर्वस्वे उपमानपरिच्छेदः
उपमितिकरणमुपमानम्। संज्ञासंज्ञिसंबन्धज्ञानमुपमितिः। तत्करणं सादृश्यज्ञानम्। अतिदेशवाक्यार्थस्मरणं व्यापारः। तथाहि- कश्चिद् गवयशब्दवाच्य(पदार्थ)मजानन् कुतश्चिदारण्यकपुरुषात् “गोसदृशो गवय” इति श्रुत्वा वनं गतः, गोसदृशपिण्डं पश्यन् वाक्यार्थं स्मरति। तदनन्तरम् “अयं गवयपदवाच्यः” इत्युपमितिरुत्पद्यते।
उपमानं लक्षयति उपमितीति। बोधप्रकारः अनुमानलक्षण इव ग्राह्यः। उपमितिकरणत्वम् उपमानस्य लक्षणम्। उपमितिकरणत्वञ्च उपमितित्वावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वे सति उपमितिव्यापारजनकत्वम्। उपमितित्वावच्छिन्ना या कार्यता अयं गवयपदवाच्यः (गवयो गवयपदवाच्यः) इत्याकारकगवयत्वावच्छिन्नविशेष्यकगवयपदवाच्यत्वप्रकारकोपमितौ विद्यमाना कार्यता, तन्निरूपिता या कारणता गोसदृशो गवयपदवाच्यः इत्याकारकगोसादृश्यावच्छिन्नविशेष्यकगवयपदवाच्यत्वप्रकारकज्ञानात्मकोपमाननिष्ठा कारणता, तदाश्रयत्वस्य गोसदृशो गवयपदवाच्यः इत्याकारकातिदेशवाक्यार्थविषयकस्मरणरूपव्यापारजनकत्वस्य च गोसदृशो गवयपदवाच्यः इत्याकारकातिदेशवाक्यार्थज्ञानरूपोपमाने सत्त्वात् लक्षणसमन्वयः।
अयं (गवयो) गवयपदवाच्यः इति ज्ञानम् उपमितिः। गोसदृशो गवयपदवाच्यः इति अतिदेशवाक्यर्थस्मरणं व्यापारः। गोसदृशो गवयपदवाच्यः इति अतिदेशवाक्यार्थज्ञानम् उपमानम्। अयं फलव्यापारकरणानामाकारः। व्यापारजनकत्वमात्रोक्तौ ईश्वरादृष्टादौ उपमित्यसाधारणकारणत्वमात्रोक्तौ अतिदेशवाक्यार्थस्मरणरूपव्यापारे च अतिव्याप्तिः, अतः उभयोपादानम्। न च यत्र उपमानोत्पत्त्यनन्तरं प्रतिबन्धकवशात् उपमितिः न जाता तत्र उपमितिकारणत्वस्याभावात् अव्याप्तिरिति वाच्यम्, फलोपधायकत्वरूपकारणत्वस्य तत्राभावेऽपि प्रकृते निविष्टस्य फलस्वरूपयोग्यतारूपस्य कारणत्वस्य तत्राप्यक्षतत्वात्। (फलोपधायकत्वञ्च स्वजनकत्व- स्वसामानाधिकरण्योभयसम्बन्धेन फलविशिष्टत्वम्। फलस्वरूपयोग्यतारूपकारणत्वञ्च फलजनकतावच्छेदधर्मवत्त्वम्।)
उपमितिं लक्षयति संज्ञेति। संज्ञा नाम पदम्, संज्ञी अर्थः, तयोस्सम्बन्धः वाच्यवाचकभावरूपः (वाच्यत्वरूपः), तद्विषयकं ज्ञानम् उपमितिः। संज्ञासंज्ञिसम्बन्धस्य ज्ञानं संज्ञासंज्ञिसम्बन्धज्ञानम्। षष्ठ्या विषयतानिरूपकत्वमर्थः। तथाच, पदपदार्थसम्बन्धविषयकत्वे सति ज्ञानत्वम् उपमितेः लक्षणम्। गवयो गवयपदवाच्यः इत्युपमितौ पदपदार्थसम्बन्धरूपवाच्यत्वविषयकत्वस्य ज्ञानत्वस्य च सत्त्वात् च समन्वयः। ज्ञानत्वमात्रोक्तावनुमित्यादौ, पदपदार्थसम्बन्धविष्यकत्वमात्रोक्तौ अयं गवयपदवाच्यः इति संस्कारे च अतिव्याप्तिः, अतो दलद्वयोपादानम्।
उपमितिसामग्रीम् उपमितिस्वरूपञ्च दर्शयति कश्चिदित्यादिना। गोसदृशो गवय इति श्रुत्वेत्यनेनोपमानं प्रदर्शितम्। वाक्यार्थं स्मरन् इत्यनेन स्मृत्यात्मकव्यापारः प्रदर्शितः। तदनन्तरम् अयं गवयपदवाच्य इत्यनेन उपमितिस्वरूपञ्च प्रदर्शितं भवति।