47 हेत्वाभासाः

मूलम् - हेत्वाभासाः - 47

सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्च हेत्वाभासाः। सव्यभिचारोऽनैकान्तिकः। स त्रिविधः साधारणासाधारणानुपसंहारिभेदात्। तत्र साध्याभाववद्वृत्तिः साधारणोऽनैकान्तिकः। यथा पर्वतो वह्निमान्प्रमेयत्वादिति प्रमेयत्वस्य वह्न्यभाववति ह्रदे विद्यमानत्वात्। सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिः असाधारणः। यथा शब्दो नित्यः शब्दत्वादिति। शब्दत्वं सर्वेभ्यो नित्येभ्योऽनित्येभ्यश्च व्यावृत्तं शब्दमात्रवृत्ति। अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी। यथा सर्वमनित्यं प्रमेयत्वादिति। अत्र सर्वस्यापि पक्षत्वाद्दृष्टान्तो नास्ति। साध्याभावव्याप्तो हेतुर्विरुद्धः। यथा शब्दो नित्यः कृतकत्वादिति। कृतकत्वं हि नित्यत्वाभावेनाऽनित्यत्वेन व्याप्तम्। यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते स सत्प्रतिपक्षः। यथा शब्दो नित्यः श्रावणत्वाच्छब्दत्ववदिति। शब्दोऽनित्यः कार्यत्वाद्घटवदिति। असिद्धस्त्रिविध आश्रयासिद्धः स्वरूपासिद्धो व्याप्यत्वासिद्धश्चेति। आश्रयासिद्धो यथा गगनारविन्दं सुरभि अरविन्दत्वात्सरोजारविन्दवत्। अत्र गगनारविन्दमाश्रयः। स च नास्त्येव। स्वरूपासिद्धो यथा शब्दो गुणश्चाक्षुषत्वात्। अत्र चाक्षुषत्वं शब्दे नास्ति शब्दस्य श्रावणत्वात्। सोपाधिको हेतुर्व्याप्यत्वासिद्धः। साध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधिः। साध्यसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं साध्यव्यापकत्वम्। साधनवन्निष्ठात्यन्ताभावप्रतियोगित्वं साधनाव्यापकत्वम्। पर्वतो धूमवान्वह्निमत्वादित्यत्रार्द्रेन्धनसंयोग उपाधिः। तथाहि यत्र धूमस्तत्रार्द्रेन्धनसंयोग इति साध्यव्यापकता। यत्र वह्निस्तत्रार्द्रेन्धनसंयोगो नास्त्ययोगोलक आर्द्रेन्धनसंयोगाभावादिति साधनाव्यापकता। एवं साध्यव्यापकत्वे सति साधनाव्यापकत्वादार्द्रेन्धनसंयोग उपाधिः। सोपाधिकत्वाद्वह्निमत्त्वं व्याप्यत्वासिद्धम्। यस्य साध्याभावः प्रमाणान्तरेण निश्चितः स बाधितः। यथा वह्निरनुष्णो द्रव्यत्वाज्जलवत्। अत्रानुष्णत्वं साध्यं तदभाव उष्णत्वं स्पार्शनप्रत्यक्षेण गृह्यत इति बाधितत्वम्॥ ४६॥

Tags - 47

हेत्वाभासाः, सव्यभिचारः, विरुद्धः, सत्प्रतिपक्षः, असिद्धः, बाधितः, उपाधिः, अनुमानदोषः

दीपिका - हेत्वाभासविभागः

एवं सद्धेतुं निरूप्यासद्धेतुं निरूपयितुं विभजते- सव्यभिचारेति। अनुमितिप्रतिबन्धकयथार्थज्ञानविषयत्वं हेत्वाभासत्वम्।

दीपिका - अनैकान्तिकत्वम्

सव्यभिचारं विभजते- स त्रिविध इति। साधारणं लक्षयति तत्रेति। उदाहरति- यथेति। असाधारणं लक्षयति- सर्वेति। अनुपसंहारिणो लक्षणमाह- अन्वयेति।

दीपिका - विरुद्धहेतः

विरुद्धं लक्षयति-साध्येति।

दीपिका - सत्प्रतिपक्षः

यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते स सत्प्रतिपक्षः। यथा शब्दो नित्यः श्रावणत्वाच्छब्दत्ववत्। शब्दोऽनित्यः कार्यत्वाद्घटवत्।
सत्प्रतिपक्षं लक्षयति- यस्येति।

दीपिका - असिद्धः

असिद्धं विभजते- असिद्ध इति। आश्रयासिद्धमुदाहरति- गगनेति। स्वरूपासिद्धमुदाहरति- यथेति। व्याप्यत्वासिद्धस्य लक्षणमाह- सोपाधिक इति। उपाधेर्लक्षणमाह- साध्येति।

दीपिका - उपाधिचतुष्टयम्

उपाधिश्चतुर्विधः। केवलसाध्यव्यापकः, पक्षधर्मावच्छिन्नसाध्यव्यापकः, साधनावच्छिन्नसाध्यव्यापकः, उदासीनधर्मावच्छिन्नसाध्यव्यापकश्चेति। आद्य आर्द्रेन्धनसंयोगः। द्वितीयो यथा वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वादित्यत्र बहिर्द्रव्यत्वावच्छिन्नप्रत्यक्षत्वव्यापकमुद्भूतरूपवत्त्वम्। तृतीयो यथा प्रध्वंसो विनाशी जन्यत्वादित्यत्र जन्यत्वावच्छिन्नानित्यत्वव्यापकं भावत्वम्। चतुर्थो यथा प्रागभावो विनाशी प्रमेयत्वादित्यत्र जन्यत्वावच्छिन्नानित्यत्वव्यापकं भावत्वम्।

दीपिका - बाधः

बाधितस्य लक्षणमाह- यस्येति। अत्र बाधस्य ग्राह्याभावनिश्चयत्वेन, सत्प्रतिपक्षस्य विरोधिज्ञानसामग्रीत्वेन साक्षादनुमितिप्रतिबन्धकत्वम्। इतरेषां तु परामर्शप्रतिबन्धकत्वम्। तत्रापि साधारणस्याव्यभिचाराभावरूपतया, विरुद्धस्य सामानाधिकरण्याभावरूपतया, व्याप्यत्वासिद्धस्य विशिष्टव्याप्त्यभावरूपतया, असाधारणानुपसंहारिणोः व्याप्तिसंशयाधायकत्वेन च व्याप्तिज्ञानप्रतिबन्धकत्वम्। आश्रयासिद्धिस्वरूपासिद्ध्योः पक्षधर्मताज्ञानप्रतिबन्धकत्वम्। उपाधिस्तु व्यभिचारज्ञानद्वारा व्याप्तिज्ञानप्रतिबन्धकः। सिद्धसाधनं तु पक्षताविघटकतया आश्रयासिद्धावन्तर्भवतीति प्राञ्चः। निग्रहस्थानान्तरमिति नवीनाः।

गोवर्धन-न्यायबोधिनी - हेत्वदोषनिर्णयः

सद्धेतून्निरूप्य हेत्वाभासान्निरूपयति। सव्यभिचारेति। हेतुवदाभासन्त इति हेत्वाभासाः दुष्टहेतवः। दोषाश्च व्यभिचारविरोधसत्प्रतिपक्षासिद्धिबाधाः। एकज्ञानविषय?प्रकृतहेतुतावच्छेदकवत्त्वसंबन्धेन एतद्विशिष्टहेतव इत्यर्थः। यद्विषयकत्वेन ज्ञानस्यानुमितितत्करणान्यतरप्रतिबन्धकत्वं तत्त्वं दोषसामान्यलक्षणम्। हेतौ दोषज्ञाने सत्यनुमितिप्रतबन्धः तत्करणप्रतिबन्धो वा जायते। अतो वादिनिग्रहार्थं वादिनोद्भावितहेतौ दोषोद्भावनार्थं दुष्टनिरूपणमिति भावः।

गोवर्धन-न्यायबोधिनी - सव्यभिचारः

सव्यभिचारं विभज्य दर्शयति। साधारणेति। साधारणाद्यन्यतमत्वं सव्यभिचारसामान्यलक्षणम्। साधारणत्वं साध्याभाववद्वृत्तित्वम्। पर्वतो वह्निमान् प्रमेयत्वादिति। अत्र प्रमेयत्वरूपहेतौ वह्न्यभाववद्वृत्तित्वरूपव्यभिचारे ज्ञाते वह्नयभाववदवृत्तित्वरूपव्याप्तिज्ञानप्रतिबन्धः फलम्। असाधारण इति। सर्वसपक्षव्यावृत्तत्वं साध्यवद्वृत्तित्वत्वावच्छिन्नप्रतियोगिताकाभावः। हेतौ साध्यवदवृत्तित्वे निश्चिते साध्यवद्वृत्तित्वरूपव्याप्तिज्ञानप्रतिबन्धः फलम्। अनुपसंहारिणं लक्षयति। अन्वयेति। उभयदृष्टान्ताभावादन्वयव्याप्तिज्ञानव्यतिरेकव्याप्तिज्ञानोभयसामग्री नास्तीत्यर्थः। किंचिद्विशेष्यकनिश्चयाविषयसाध्यकत्वे सति कश्चिद्विशेष्यकनिश्चयाविषयसाध्याभावकत्वमेव अनुपसंहारित्वम्। एतदीयज्ञानस्य व्याप्तिसंशयजननद्वारा व्याप्तिज्ञानप्रतिबन्धः फलमिति भावः। वस्तुतस्तु अत्यन्ताभावाप्रतियोगिसाध्यादिकमेव अनुपसंहारित्वमिति बोध्यम्।

गोवर्धन-न्यायबोधिनी - सत्प्रतिपक्षः

विरुद्धसत्प्रतिपक्षयोर्विशेषस्तु हेतोरेकत्वेन हेतोर्द्वित्वेन च ज्ञातव्यः। साध्याभावव्याप्यप्रतिहेतुमत्पक्षस्सत्प्रतिपक्ष इति यावत्। विरुद्धे साध्याभावसाधको हेतुः साध्यसाधकत्वेनोपन्यस्त इत्यसामर्थ्यसूचनमपि।

गोवर्धन-न्यायबोधिनी - असिद्धिः

आश्रयासिद्ध इति। पक्षे पक्षतावच्छेदकविरहः आश्रयासिद्धिः। यथेति। अत्रारविन्दे गगनीयत्वाभावे निश्चिते गगनीयत्वविशिष्टारविन्दे सौरभ्यानुमितिप्रतिबन्धः फलम्। स्वरूपासिद्ध इति। स्वरूपासिद्धिर्नाम पक्षे हेत्वभावः। तथा च हेत्वभावविशिष्टपक्षज्ञानात्पक्षविशेष्यकहेतुप्रकारकपरामर्शप्रतिबन्धः फलम्। व्याप्यत्वासिद्ध इति। प्रकृते धूमव्यापकत्वमार्द्रेन्धनसंयोगे गृहीतं चेद्धूमे आर्द्रेन्धनसंयोगव्याप्यत्वं गृह्यते। एवं वह्नेरव्यापकत्वमार्द्रेन्धनसंयोगे गृहीतं चेद्वह्नौ तदव्याप्यत्वं गृह्यते। तदेव व्यभिचरितत्वम्। तथा चोपाधिव्यभिचरितत्वं साधने गृहीतं चेदुपाधिभूतार्द्रेन्धनसंयोगव्याप्यधूमव्यभिचरितत्वं गृह्यत एव। अनुमानप्रकारश्च पूर्वानुमाने हेतुं पक्षीकृत्य वह्निर्धूमव्यभिचारी धूमव्यापकार्द्रेन्धनसंयोगव्यभिचरितत्वात् घटत्वादिवत्। यो यत्साध्यव्यापकव्यभिचारी स सर्वोऽपि साध्यव्यभिचारीति रीत्या बोध्यः। एवं प्रकारेण प्रकृतानुमानहेतुभूतपक्षे साध्यव्यभिचारोत्थापकतया दूषकत्वमुपाधेः फलम्। तथा च धूमाभाववदवृत्तित्वाभावरूपधूमव्यभिचारे गृहीते वह्नौ धूमाभाववदवृत्तित्वरूपव्याप्तिज्ञानप्रतिबन्धः फलम्। न च व्याप्यत्वासिद्धेः व्यभिचाराभेद इति वाच्यम्। धूमाभाववद्वृत्तित्वाभावाभावत्वेन व्याप्यत्वासिद्धित्वं, धूमाभाववद्वृत्तित्वत्वेन व्यभिचारत्वमिति भेदात्।

गोवर्धन-न्यायबोधिनी - बाधः

यस्येति। यस्य हेतोः साध्याभावः साध्यबाधः प्रमाणान्तरेण प्रत्यक्षप्रमाणेन पक्षे निर्णीतः स बाधित इत्यर्थः। तथा च प्रात्यक्षिकसाध्यबाधनिश्चये जाते साध्यानुमितिप्रतिबन्धः फलम्। बाधितसाध्यकत्वाद्बाधितहेतुरित्युच्यते॥
इति न्यायबोधिन्यामनुमानपरिच्छेदः समाप्तः॥

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - हेत्वाभासलक्षणम्

सव्यभिचारविरूद्धसत्प्रतिपक्षाऽसिद्धबाधिताः पञ्च हेत्वाभासाः।।
व्याप्तिपक्षधर्मताविशिष्टत्वं सद्धेतूनां लक्षणम्। व्याप्तिपक्षधर्मत्वोभयाभाववत्त्वम् असद्धेतूनां लक्षणम्। व्याप्त्यभाववत्त्वमात्रोक्तौ ह्रदो वह्निमान् धूमात् इत्यत्र बाधितहेतौ व्याप्त्यभाववत्त्वस्याभावात् अव्याप्तिः। पक्षधर्मत्वाभाववत्त्वमात्रोक्तौ पर्वतो धूमवान् वह्नेः इत्यत्र व्यभिचारिहेतौ पक्षधर्मत्वाभाववत्त्वस्याभावात् अव्याप्तिः। तदुभयाभाववत्त्वविवक्षणे तु बाधितव्यभिचारिणोरपि एकसत्त्वे द्वयं नास्तीति प्रतीत्या उभयाभाववत्त्वस्याक्षतत्वेन न कुत्राप्यव्याप्तिप्रसक्तिः। व्याप्तिपक्षधर्मत्वान्यतराभाववत्त्वोक्तौ बाधितव्यभिचारिणोः तदन्यतरस्य सद्भावात् अव्याप्तिरित्युभयाभावपर्यन्तानुसरणम्। एवं व्याप्तिविशिष्टपक्षधर्मत्वाभावरूपविशिष्टाभावस्यापि असद्धेतुलक्षणत्वमुपपद्यत एव, ह्रदो वह्निमान् धूमात् इत्यादिबाधितहेतौ पक्षधर्मत्वरूपविशेष्याभावप्रयुक्तः विशिष्टाभावः सम्भवति, पर्वतो धूमवान् वह्नेः इत्यत्र व्याप्तिरूपविशेषणाभावप्रयुक्तः विशिष्टाभावश्च सम्भवतीति न काचिदपि अनुपपत्तिः। न च उत्पत्तिकालावच्छिन्नघटो गन्धवान् पृथिवीत्वात् इत्यत्र, पृथिवीत्वरूपबाधितहेतौ व्याप्तिपक्षधर्मतयोरुभयोरपि सद्भावेन व्याप्तिपक्षधर्मत्वोभयाभावरूपलक्षणस्य व्याप्तिविशिष्टपक्षधर्मत्वाभावरूपलक्षणस्य च तत्राभावेन अव्याप्तिरिति वाच्यम्, अत्र लक्षणद्वये पक्षधर्मतायाः साध्याश्रयपक्षवृत्तित्वरूपत्वेन विवक्षणीयतया लक्षणद्वयेऽप्यव्याप्तिप्रसक्त्यभावात्। न च तर्हि व्याप्तिपक्षधर्मताविशिष्टत्वरूपसद्धेतुलक्षणस्य उत्पत्तिकालावच्छिन्नघटो गन्धवान् पृथिवीत्वात् इत्यत्र पृथिवीत्वरूपहेतावतिव्याप्तिरिति वाच्यम्, तत्रापि पक्षधर्मतायाः साध्याश्रयपक्षवृत्तित्वरूपत्वेन परिष्करणीयतया तादृशपक्षधर्मतायाः प्रकृतपृथिवीत्वहेतावभावाच्च नातिप्रसङ्गः। अथवा, सव्यभिचाराद्यन्यतमत्वमसद्धेतुत्वम्। तदभाववत्त्वं सद्धेतुत्वम्, एवञ्च उत्पत्तिकालवच्छिन्नघटो गन्धवान् पृथिवीत्वात् इत्यत्र पृथिवीत्वरूपहेतोः सव्यभिचाराद्यन्यतमान्तर्गतत्वेन (बाधितत्वेन) असद्धेतुत्वमेव इति न कापि अनुपपत्तिः। सन्तमर्थं बुबोधयिषुणा केनचित् पुंसा पर्वतादौ वह्न्यादिसाध्यके धूमादिरूपसद्धेतौ प्रयुक्ते सति पञ्चम्यन्तत्वादिना सद्धेतुत्वभ्रमजनकत्वे ह्रदो वह्निमान् धूमात् इत्याद्यसद्धेतौ प्रतिपक्षिणा परवञ्चनाय प्रयुक्ते सति तस्मिन् प्रतिपक्षितहेतौ दोषोद्भावनाय दुष्टहेतवो निरूप्यन्ते।
हेतुवदाभासन्त इति हेत्वाभासाः, वत्पदस्य सादृश्यम् आङ्पूर्वकभासधातोः आभासश्चार्थः, आभासो नाम भ्रमः, आख्यातस्य विषयत्वमर्थः, हेतोः सादृश्ये आधेयत्वसम्बन्धेन सादृश्यस्य च आभासे प्रकारतानिरूपकत्वसम्बन्धेन च अन्वयः, हेतुपदं सद्धेतुपरम्। (सादृश्यञ्च व्याप्तिपक्षधर्मताविशिष्टत्वरूपं ग्राह्यं) तथाच, सद्धेतुनिष्ठसादृश्यप्रकारकभ्रमविषयाः पञ्चहेतवः इत्यर्थः। इमे एव दुष्टहेतवः इत्युच्यन्ते। दुष्टत्वञ्च दोषविशिष्टत्वम्। दोषाश्च व्यभिचारविरोधसत्प्रतिपक्षाऽसिद्धिबाधाः।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - दोषलक्षणम्

दोषलक्षणन्तु अनुमितितत्करणान्यतरप्रतिबन्धकयथार्थज्ञानविषयत्वम्। तद्वत्ताबुद्धिं प्रति तदभाववत्तानिश्चयस्य तदाभावव्याप्यवत्तानिश्चयस्य च प्रतिबन्धकत्वं वर्तते। तथाच ह्रदो वह्निमान् धूमात् इत्यत्र वह्न्यभाववद्ध्रदरूपबाधे लक्षणसमन्वयः। तथाहि अनुमितिः ह्रदो वह्निमान् इत्यनुमितिः, तत्प्रतिबन्धकं यत् यथार्थं ज्ञानं ह्रदो वह्न्यभाववान् इति निश्चयरूपं ज्ञानम्, तद्विषयत्वं वह्न्यभाववद्ध्रदे वर्तते इति। अस्मिन्नेव स्थले वह्न्यभावव्याप्यवद्ध्रदरूपसत्प्रतिपक्षेऽपि लक्षणसमन्वयः कार्यः, तथाहि, अनुमितिस्तु निरुक्तैव, प्रतिबन्धकज्ञानन्तु वह्न्यभावव्याप्यवान् ह्रदः इति निश्चयरूपं ग्राह्यम्। अनुमितिप्रतिबन्धकज्ञानविषयत्वमात्रोक्तौ पर्वतो वह्निमान् प्रमेयत्वात् इत्यत्र वह्न्यभाववद्वृत्तिप्रमेयत्वरूपव्यभिचारेऽव्याप्तिः, तत्र वह्न्यभाववद्वृत्ति प्रमेयत्वमिति निश्चयस्य वह्न्यभाववदवृत्ति प्रमेयत्वमिति व्याप्तिज्ञानं प्रत्येव तदभाववत्तानिश्चयमुद्रया प्रतिबन्धकत्वेन अनुमितिप्रतिबन्धकत्वाभावात्, अतः करणपदम्। एतन्निश्चयस्य अनुमितिप्रतिबन्धकत्वाभावेऽपि करणीभूतव्याप्तिज्ञानप्रतिबन्धकत्वात् व्यभिचारेऽपि लक्षणसमन्वयः। तत्करणप्रतिबन्धकज्ञानविषयत्वमात्रोक्तौ बाधस्यानुमितिप्रतिबन्धकत्वेन तत्करणप्रतिबन्धकज्ञानविषयत्वाभावात् अव्याप्तिः। अतः अनुमितितत्करणान्यतरप्रतिबन्धकत्वस्य लक्षणे निवेशः, तन्निवेशे तु बाधनिश्चयस्यानुमितिप्रतिबन्धकत्वेन तदन्यतरप्रतिबन्धकत्वस्य सत्त्वात् समन्वयः।
एषाञ्च दोषाणां स्वज्ञानविषयप्रकृतहेतुतावच्छेदकधर्मवत्त्वसम्बन्धेन हेतौ सत्त्वात् हेतूनां दुष्टत्वव्यवहारः। ह्रदो वह्निमान् धूमात् इत्यत्र वह्न्यभाववद्ध्रदरूपबाधस्य अनेन सम्बन्धेन धूमरूपहेतौ सत्त्वात् धूमस्य दुष्टत्वं सम्भवति। तथाहि स्वं वह्न्यभाववद्ध्रदः, तद्विषयकं यत् ज्ञानं वह्न्यभाववान् ह्रदः धूमश्च इति समूहालम्बनात्मकं ज्ञानम्, तद्विषयभूतं प्रकृतहेतुतावच्छेदकं धूमत्वम्, तद्वत्त्वसम्बन्धेन वह्न्यभाववद्ध्रदः धूमे वर्तते इति।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - सव्यभिचारः

सव्यभिचारोऽनैकान्तिकः। स त्रिविधः साधारणासाधारणानुपसंहारिभेदात्। तत्र साध्याभाववद्वृत्तिः साधारणः। यथा पर्वतो वह्निमान् प्रमेयत्वात्। अत्र प्रमेयत्वस्य वह्न्यभाववति ह्रदे विद्यमानत्वात्। सर्वसपक्षविपक्षव्यावृत्तोऽसाधारणः। यथा शब्दो नित्यः शब्दत्वात्। अत्र शब्दत्वं सर्वेभ्यो नित्येभ्योऽनित्येभ्यो व्यावृत्तं शब्दमात्रवृत्ति। अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी। यथा सर्वमनित्यं प्रमेयत्वात्। अत्र सर्वस्यापि पक्षत्वाद्दृष्टान्तो नास्ति।
सव्यभिचारं विभजते स त्रिविध इति। साधारणाद्यन्यतमत्वं सव्यभिचारसामान्यलक्षणम्। साधारणं लक्षयति साध्याभाववदिति। साध्यनिष्ठप्रतियोगिताकाभाववन्निरूपितवृत्तित्वं साधारणहेतोः लक्षणं फलितम्। पर्वतो वह्निमान् प्रमेयत्वात् इत्यत्र प्रमेयत्वरूपसाधारणहेतौ लक्षणसमन्वयः (अत्र पर्वतः पक्षः, वह्निः साध्यः, प्रमेयत्वं हेतुः)। तथाहि साध्यः वह्निः तन्निष्ठा या प्रतियोगिता वह्निः नास्तीत्याकारकप्रतीतिसिद्धाभावीया वह्नित्वावच्छिन्ना प्रतियोगिता, तन्निरूपको योऽभावः वह्न्यभावः, तदधिकरणं ह्रदः, तन्निरूपितवृत्तित्वं प्रमेयत्वे वर्तते इति। पर्वतो वह्निमान् धूमात् इत्यत्र धूमरूपसद्धेतौ नातिव्याप्तिः, तत्र साध्याभावः, वह्न्यभावः, तदधिकरणं ह्रदादिः, तन्निरूपितवृत्तित्वस्य धूमेऽविद्यमानत्वात्। अत्र साध्यनिष्ठप्रतियोगितायां साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वविशेषणं देयम्। अन्यथा पर्वतो वह्निमान् धूमात् इत्यत्र धूमरूपसद्धेतावतिव्याप्तिः। साध्यनिष्ठा या प्रतियोगिता समवायसम्बन्धावच्छिन्ना वह्नित्वावच्छिन्ना प्रतियोगिता, तन्निरूपको योऽभावः समवायसम्बन्धेन वह्निर्नास्तीति प्रतीतिसिद्धाभावः, तदधिकरणं पर्वतः, तत्र संयोगेन वह्नेः सत्त्वेऽपि समवायेनाभावात्, तन्निरूपितवृत्तित्वस्य धूमे सत्त्वात्। साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वनिवेशे तु साध्यतावच्छेदकसंयोगसंबन्धावच्छिन्नवह्नित्वावच्छिन्नप्रतियोगिताकाभावः संयोगेन वह्न्यभाव एव न तु समवायेन वह्न्यभावः, एतदीयप्रतियोगितायाः साध्यतावच्छेदकसंयोगसम्बन्धानवच्छिन्नत्वात्, संयोगेन वह्न्यभावाधिकरणन्तु न पर्वतः किन्तु ह्रदादिः, तन्निरूपितवृत्तित्वस्य तत्राभावात् नातिव्याप्तिः। साध्यनिष्ठप्रतियोगितायां साध्यतावच्छेदकधर्मावच्छिन्नत्वविशेषणं देयम्, अन्यथा, पर्वतो वह्निमान् धूमात् इत्यत्र धूमरूपहेतौ अतिव्याप्तिः, साध्यतावच्छेदकसम्बन्धावच्छिन्ना साध्यनिष्ठा या प्रतियोगितेत्युक्तौ संयोगेन वह्निघटत्वोभयं नीस्तीति प्रतीतिसिद्धाभावीया वह्निघटत्वोभयत्वावच्छिन्ना प्रतियोगिता गृह्यते, तन्निरूपकाभावः वह्निघटत्वोभयाभावः एकसत्त्वे द्वयं नास्तीति प्रतीत्या तदधिकरणं पर्वतः, तन्निरूपितवृत्तित्वं धूमे वर्तते इति। साध्यतावच्छेदकावच्छिन्नत्वनिवेशे तु साध्यतावच्छेदकावच्छिन्नत्वस्य साध्यतावच्छेदकातिरिक्तधर्मानवच्छिन्नत्वरूपतया वह्निघटत्वोभयाभावीयप्रतियोगितायाः साध्यतावच्छेदकातिरिक्तोभयत्वरूपधर्मावच्छिन्नतया तदनवच्छिन्नप्रतियोगिताकवह्निसामान्याभावाश्रयत्वस्य पर्वतेऽभावाच्च नातिव्याप्तिः। साध्याभावाधिकरणनिरूपितवृत्तितायां हेतुतावच्छेदकसम्बन्धावच्छिन्नत्वविशेषणं देयम्। अन्यथा वह्निमान् धूमात् इत्यत्र धूमरूपहेतावतिव्याप्तिः, तत्र संयोगेन वह्न्यभावाधिकरणधूमावयवनिरूपितसमवायसम्बन्धावच्छिन्नवृत्तित्वस्य धूमे सत्त्वात्। हेतुतावच्छेदकसम्बन्धावच्छिन्नत्वनिवेशे तु धूमावयवनिरूपितसमवायसम्बन्धावच्छिन्नवृत्तितायाः हेतुतावच्छेदकसंयोगसम्बन्धानवच्छिन्नत्वेन न तां वृत्तितामादाय तत्रातिव्याप्तिः। अत्र वह्न्यभाववद्वृत्ति प्रमेयत्वम् इति व्यभिचारनिश्चयस्य वह्न्यभाववदवृत्ति प्रमेयत्वम् इति अनुमितिकरणीभूतव्याप्तिज्ञानांशे (तदभाववत्तानिश्चयमुद्रया) प्रतिबन्धकत्वात् वह्न्यभाववद्वृत्तिप्रमेयत्वरूपव्यभिचारस्य तादृशनिश्चयविषयत्वेन हेत्वाभासलक्षणसमन्वयः सम्भवतीति बोध्यम्।
टिप्पणी- साध्याभाववद्वृत्तिः साधारण इत्यत्र।। साध्यस्याभावः साध्याभावः, सोऽत्रास्तीति साध्याभाववान्, सध्याभाववति वृत्तिः यस्मिन् सः साध्याभाववद्वृत्तिः, तस्य भावः साध्यभाववद्वृत्तित्वं, साध्यस्येत्यत्र षष्ठ्याः प्रतियोगितानिरूपकत्वमर्थः, साध्यस्य प्रतियोगितायाम् आधेयत्वसम्बन्धेनान्वयः, साध्याभाववतीत्यत्र सप्तम्याः निरूपितत्वम् अर्थ:, वृत्तिः वृत्तित्वम्, यस्मिन् सः इत्यत्र सप्तम्याः आधेयत्वमर्थः, अस्य च साध्याभाववद्वृत्तित्वेऽन्वयः, तथाच (विग्रहवाक्यात् यादृशबोधो जायते समासवाक्यात् तद्विपरीतबोधो जायते इति नियमानुसारेण यद्वृत्ति साध्यनिष्ठप्रतियोगिताकाभाववद्वृत्तित्वं इति बोधो जायते, समासवाक्यात्तु साध्याभावाधिकरणनिरूपितवृत्तिताविशिष्टः इति बोधो भवति, तत्र भावार्थकत्वप्रत्ययसंयोजने च तादृशवृत्तिताविशिष्टत्वम् इति बोधो भवति, वृत्तिताविशिष्टत्वञ्च (प्रकृत्यर्थे प्रकारीभूतधर्मो भावप्रत्ययार्थः, इति नियमेन तादृशवृत्तितारूपमेव, तथाच साध्यनिष्ठप्रतियोगितानिरूपकाऽभावाधिकरणनिरूपितवृत्तित्वं साधारणहेतोः लक्षणमिति फलितम्।
असाधारणं लक्षयति सर्वसपक्षेति। सर्वसपक्षविपक्षेभ्यो व्यावृत्तः सर्वसपक्षविपक्षव्यावृत्तः। पञ्चम्याः निरूपितत्वमर्थः, वि आङ् पूर्वकवृत्धातोः व्यावृत्तिरर्थः, सा च वृत्तित्वाभावरूपा, क्तप्रत्ययस्याश्रयत्वम्। तथाच सर्वसपक्षनिरूपितवृत्तित्वाभाववत्त्वे सति सर्वविपक्षनिरूपितवृत्तित्वाभाववत्त्वम् असाधारणहेतोः लक्षणमिति पर्यवसन्नम्। अत्र सपक्षः निश्चितसाध्यवान्, विपक्षः निश्चितसाध्याभाववान् ग्राह्यः। (अत्र शब्दः पक्षः, नित्यत्वं साध्यम्, शब्दत्वं हेतुः) अत्र शब्दस्य पक्षत्वेन साध्यसंशयसद्भावात् निश्चितसाध्यवत् गगनादि, तद्वृत्तित्वं शब्दे वर्तते तदवृत्तित्वं शब्दत्वे वर्तते, निश्चितसाध्याभाववत् घटादि, तद्वृत्तित्वं घटत्वादौ, तदवृत्तित्वञ्च शब्दत्वे वर्तते इति शब्दो नित्यः शब्दत्वात् इत्यत्र शब्दत्वरूपहेतौ लक्षणसमन्वयः। सर्वसपक्षव्यावृत्तत्वमात्रोक्तौ शब्दो नित्यः कार्यत्वात् इत्यत्र कार्यत्वरूपविरुद्धहेतौ सपक्षभूतगगनादिनिरूपितवृत्तित्वाभावस्य सत्त्वात् अतिव्याप्तिः, विपक्षव्यावृत्तत्वनिवेशे तु घटादिरूपविपक्षव्यावृत्तत्वस्य कार्यत्वेऽभावात् नातिव्याप्तिः। सर्वविपक्षव्यावृत्तत्वमात्रोक्तौ पर्वतो वह्निमान् धूमात् इत्यत्र धूमरूपसद्धेतौ विपक्षभूतह्रदादिनिरूपितवृत्तित्वाभावस्य सत्त्वात् अतिव्याप्तिः, सपक्षव्यावृत्तत्वनिवेशे तु सपक्षभूतमहानसादिव्यावृत्तत्वस्य तत्राभावात् नातिव्याप्तिः। सपक्षे सर्वत्वानिवेशे पर्वतो वह्निमान् धूमात् इत्यत्र धूमरूपसद्धेतौ अयोगोलकरूपयत्किञ्चित्सपक्षव्यावृत्तत्वस्य ह्रदादिसर्वविपक्षव्यावृत्तत्वस्य च सत्त्वात् अतिव्याप्तिः, सपक्षे सर्वत्वनिवेशे तु सर्वसपक्षान्तर्गतमहानसादिव्यावृत्तत्वस्य धूमेऽभावात् नातिव्याप्तिः। विपक्षे सर्वत्वानिवेशे पर्वतो वह्निमान् जलात् इत्यत्र महानसादिसर्वसपक्षव्यावृत्तत्वस्य गुणादियत्किञ्चिद्विपक्षव्यावृत्तत्वस्य च जलरूपविरुद्धहेतौ सत्त्वात् अतिव्याप्तिः। विपक्षे सर्वत्वनिवेशे तु सर्वविपक्षान्तर्गतह्रदादिव्यावृत्तत्वस्य जलेऽभावात् नातिव्याप्तिः। अत्र घटः शब्दवान् घटत्वात् इत्यत्र गगनरूपे सपक्षे (अनेकत्वरूपस्य) (यावत्त्वरूपस्य) सर्वत्वस्य अप्रसिद्ध्या घटः शब्दाभाववान् घटत्वात् इत्यत्र विपक्षभूतगगने (निरुक्तस्य) सर्वत्वस्य च अप्रसिद्ध्या अव्याप्तिवारणाय उभयत्रापि सर्वपदस्य सपक्षनिरूपितवृत्तित्वसामान्याभाव विपक्षनिरूपितवृत्तित्वसामान्याभावरूपसामान्याभावस्फोरकत्वमेवेत्यङ्गीकार्यम्। एतेन सर्वसपक्षवृत्तित्वघटत्वोभयाभावादिकमादाय पर्वतो वह्निमान् धूमात् इत्यत्र धूमरूपहेतौ सर्वविपक्षवृत्तित्वघटत्वोभयाभावादिकमादाय शब्दो नित्यः कार्यत्वात् इत्यत्र कार्यत्वरूपहेतौ च अतिव्याप्तिरिति शङ्‌का निरस्ता। नचैवमपि पर्वतो वह्निमान् धूमात् इत्यत्र धूमानामधिकरणभेदेन भिन्नतया सपक्षविपक्षावृत्तित्वस्य पर्वतीयधूमे सत्त्वात् अतिव्याप्तिरिति वाच्यम्, सपक्षनिरूपितवृत्तितानवच्छेदकं विपक्षनिरूपितवृत्तितानवच्छेदकं यद्धेतुतावच्छेदकं तद्वत्त्वस्य विवक्षणीयत्वात् पर्वतीयधूमस्य सपक्षमहानसाद्यवृत्तित्वेऽपि हेतुतावच्छेदकीभूतधूमत्वस्य तद्वृत्तितानच्छेदकत्वाभावात् नातिव्याप्तिः।
वस्तुतस्तु, सपक्षावृत्तित्वमात्रमेव (लघु) लक्षणं भवतु विपक्षावृत्तित्वानिवेशे बाधकाभावात्, तदभावे अस्य लक्षणस्य विरुद्धहेतुसाधारण्येऽपि दुष्टसङ्‌करेऽपि दोषासङ्‌करः इति न्यायेन विरोधासाधारण्यदोषयोः परस्परं भिन्नतया दुष्टयोः विरुद्धासाधारणयोः ऐक्येऽपि सङ्‌करेऽपि क्षत्यभावात्। अत एव बहुषु ग्रन्थेषु सपक्षव्यावृत्तोऽसाधारणः इत्येव पाठो दृश्यते। सपक्षविपक्षावृत्तित्वरूपमूलोक्तलक्षणं शब्दोऽनित्यः शब्दत्वात् इत्यत्र सद्धेतावपि साध्यसंशयदशायाम् असाधारण्यमङ्गीकुर्वतां प्राचीनानां मतमनुसृत्य अभिहितम्। नवीनानां मते अनित्यत्वसाध्यकशब्दत्वहेतोः सद्धेतुतया साध्यवदवृत्तित्वमात्रमेव अतिप्रसङ्गानापादकत्वेन लक्षणतयाऽङ्गीकृतम्, तथा च एतन्मते सपक्षपदं साध्यवन्मात्रबोधकतयाऽङ्गीकृतमिति। शब्दत्वस्य नित्यानित्यव्यावृत्तत्वे किं वा तदधिकरणं प्रसिद्धम् इत्याशङ्‌कायामाह शब्दमात्रेति।
हेतुव्यापकसाध्यसामानाधिकरण्यस्य (साध्याभाववदवृत्तित्वे सति साध्यसामानाधिकरण्यस्य) व्याप्तिरूपतया नित्यत्वासमानाधिकरणं शब्दत्वम् इत्यसाधारण्यनिर्णयः नित्यत्वसमानाधिकरणं शब्दत्वमिति व्याप्तिघटकसामानाधिकरण्यांशे (तदभाववतानिश्चयमुद्रया) अनुमितिकरण (व्याप्तिज्ञान) प्रतिबन्धकत्वात् नित्यत्वासमानाधिकरणशब्दत्वरूपासाधारण्यस्य तादृशनिश्चयविषयत्वेन हेत्वाभासत्वमुपपद्यत एव।
अनुपसंहारिणं लक्षयति अन्वयेति। अन्वयव्यतिरेकदृष्‍टान्ताभ्यां रहितः अन्वयव्यतिरेकदृष्टान्तरहितः, तृतीयायाः प्रतियोगितानिरूपकत्वम्, रहधातोरभावः, क्तप्रत्ययस्याश्रयत्वञ्चार्थः, तथाच अन्वयव्यतिरेकदृष्टान्तप्रतियोगिकाभाववाननुपसंहारीति बोधः। सर्वमनित्यं प्रमेयत्वात् (अत्र सर्वत्वावच्छिन्नं पक्षः, अनित्यत्वं साध्यम्, प्रमेयत्वं हेतुः) इत्यत्र सर्वस्यापि पक्षतया (पक्षव्यतिरिक्तस्यैवाप्रसिद्धतया) अन्वयदृष्टान्तस्य व्यतिरेकदृष्टान्तस्य च अभावेन अन्वयव्यतिरेकदृष्टान्तरहितत्वस्य अत्र प्रमेयत्वहेतौ सत्त्वात् लक्षणसमन्वयः। अन्वयदृष्टान्तरहितत्वमात्रोक्तौ पृथिवी इतरभिन्ना गन्धवत्त्वात् इत्यत्र गन्धरूपकेवलव्यतिरेकिहेतौ अतिव्याप्तिः। व्यतिरेकदृष्टान्तरहितत्वमात्रोक्तौ घटोऽभिधेयः प्रमेयत्वात् इत्यत्र प्रमेयत्वरूपकेवलान्वयिहेतौ अतिव्याप्तिः, अतः दृष्टान्तद्वयरहितत्वनिवेशः कार्यः। नचैवमपि पर्वतो वह्निमान् धूमात् इत्यत्र अन्वयव्यतिरेकदृष्टान्तयोः संयोगसमवायादिसम्बन्धेन धूमेऽभावात् अतिव्याप्तिरिति वाच्यम्, स्वनिरूपितहेतुतावच्छेदकसम्बन्धावच्छिन्नवृत्तित्वसम्बन्धावच्छिन्ना या अन्वयदृष्टान्तनिष्ठा प्रतियोगिता तन्निरूपकाभाववत्त्वे सति स्ववृत्त्यत्यन्ताभावप्रतियोगित्वसम्बन्धावच्छिन्ना या व्यतिरेकदृष्टान्तनिष्ठा प्रतियोगिता, तन्निरूपकाभाववत्त्वस्य लक्षणतया विवक्षणीयतया वह्निमान् धूमात् इत्यत्र धूमे निरुक्तसम्बन्धाभ्याम् अन्वयव्यतिरेकदृष्टान्तयोः सत्त्वेन तत्र अतिव्याप्त्यनवकाशात्। (समानकालिकत्वसम्बन्धावच्छिन्नत्वेन वा अन्वयव्यतिरेकदृष्टान्तनिष्ठा प्रतियोगिता विवक्षणीया, अतो न क्वाप्यतिप्रसङ्गः) (नचैवं साधारणासाधारणयोरपि अन्वयव्यतिरेकव्याप्त्योरभावेन अन्वयव्यतिरेकदृष्टान्तरहितत्वस्य सत्त्वात् तयोरतिव्याप्तिरिति वाच्यम्, पक्षभिन्नत्वे सति साध्यसाधनोभयाश्रयत्वस्य अन्वयदृष्टान्तलक्षणत्वेन पक्षभिन्नत्वे सति साध्याभावहेत्वभावाश्रयत्वस्य व्यतिरेकदृष्टान्तलक्षणत्वेन च अत्र विवक्षितत्वेन अन्वयव्यतिरेकव्याप्त्योः अत्र अप्रविष्टत्वेन साधारणासाधारणस्थलयोः अन्वयव्यतिरेकदृष्टान्तयोः अन्यतरस्य सत्त्वेन अन्वयदृष्टान्तरहितत्वे सति व्यतिरेकदृष्टान्तरहितत्वस्याभावेन अन्वयव्यतिरेकव्याप्त्यभावेऽपि क्षत्यभावात्)। अन्वयव्यतिरेकदृष्टान्तरहितत्वमुपपादयति, अत्र सर्वस्यापीति।
तथाच अन्वयव्यतिरेकदृष्टान्तरहितत्वविशिष्टोऽयं हेतुः इत्यनुपसंहारित्वनिश्चयः अन्वयव्यतिरेकदृष्टान्तसहितोऽयं हेतुः इति ज्ञानं प्रतिबध्नाति एतदभावे च अन्वयव्यतिरेकव्याप्तिमान् अयम् इति निश्चयः न सम्भवति, एतदभावे परामर्शो न सम्भवतीति परामर्शरूपानुमितिकरणसामग्रीविघटकतया अनुपसंहारित्वस्य हेत्वाभासत्वं न तु साक्षात् अनुमितितत्करणान्यतरप्रतिबन्धकज्ञानविषयत्वमिति ध्येयम्।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - विरुद्धहेतुः

साध्याभावव्याप्तो हेतुः विरुद्धः। यथा शब्दो नित्यः कार्यत्वात्, अत्र कार्यत्वं नित्यत्वाभावेनानित्यत्वेन व्याप्तम्।
विरुद्धं लक्षयति साध्याभावेति। साध्याभावेन व्याप्तः साध्याभावव्याप्तः, तृतीयायाः निरूपितत्वम् अर्थः, अस्य च व्याप्तपदार्थैकदेशव्याप्तावन्वयः, तादृशव्याप्तिविशिष्टरूपस्य व्याप्तपदार्थस्य निपातातिरिक्तनामार्थयोः इति न्यायेन विरुद्धपदार्थेऽभेदसम्बन्धेनान्वयः। तथाच साध्याभावनिरूपितव्याप्तिविशिष्टाभिन्नो विरुद्धः इति बोधः। अत्र व्याप्तिपदेन व्यतिरेकव्याप्तिः ग्राह्या, सा च तदभावव्यापकीभूताभावप्रतियोगित्वरूपा, तदेकदेशीभूताभावे तच्छब्दार्थसाध्याभावस्य योजने च साध्याभावाभावव्यापकीभूताभावप्रतियोगीति लभ्यते, व्यापकत्वस्य तदधिकरणवृत्त्यत्यन्ताभावाप्रतियोगित्वरूपत्वेन साध्याभावाभावस्य साध्यरूपतया च साध्याधिकरणवृत्त्यत्यन्ताभावाप्रतियोग्यभावप्रतियोगित्वं विरुद्धहेतोः लक्षणमिति पर्यवसन्नम्। शब्दो नित्यः कार्यत्वात् इत्यत्र (अत्र शब्दः पक्षः, नित्यत्वं साध्यम्, कार्यत्वं हेतुः) कार्यत्वहेतौ लक्षणसमन्वयः। तथाहि अत्र साध्यं नित्यत्वम् तदधिकरणं गगनादिकम्, तद्वृत्तिः योऽत्यन्ताभावः नहि कार्यत्वाभावाभावः परन्तु कार्यत्वाभावः तत्प्रतियोगि कार्यत्वम्, अप्रतियोगी योऽभावः कार्यत्वाभावः, तत्प्रतियोगित्वं कार्यत्वे वर्तते इति। अत्र च साध्यव्यापकत्वं विहाय साध्यसामानाधिकरण्यस्य अत्यन्ताभावे निवेशे पर्वतो वह्निमान् धूमात् इत्यत्र धूमरूपहेतावतिव्याप्तिः। तथाहि साध्यः वह्निः, तदधिकरणम् अयोगोलकम्, तद्वृत्तिः योऽत्यन्ताभावः धूमाभावः, तत्प्रतियोगित्वं धूमे वर्तते इति। व्यापकत्वनिवेशे तु साध्यव्यापकत्वं धूमाभावे न सम्भवति, कुतः, धूमाभावस्य साध्याधिकरणमहानसादिवृत्तिधूमाभावाभावप्रतियोगित्वात्, अतो न तत्रातिव्याप्तिः। नचैवं शब्दो नित्यः शब्दत्वात् इत्यत्र शब्दत्वरूपासाधारणहेतोः नित्यत्वात्मकसाध्यव्यापकीभूतस्य शब्दत्वाभावस्य प्रतियोगित्वेन तत्रातिव्याप्तिरिति वाच्यम्, दुष्टसङ्‌करेऽपि दोषसङ्‌करः इति न्यायेन दोषयोरसाधारण्यविरोधयोः भिन्नतया दुष्टयोस्सङ्‌करेऽपि बाधकाभावत्। अत एव निश्चितसाध्यवद्व्यावृत्तत्वरूपस्य असाधारणलक्षणस्य विरुद्धसाधारण्येऽपि न क्षतिः।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - प्रतिबन्धकता

अत्र च कार्यत्ववान् शब्दः इति निश्चयविशिष्टस्य नित्यत्वव्यापकीभूताभावप्रतियोगि कार्यत्वम् इति निश्चयस्य निश्चयविशिष्टनिश्चयत्वेन (तदभावव्याप्यवत्तानिश्चयमुद्रया) शब्दो नित्यः इत्याकारकानुमितिं प्रति प्रतिबन्धकत्वात्, तादृशनिश्चयविषयीभूते नित्यत्वव्यापकीभूताभावप्रतियोगिकार्यत्वरूपविरोधे हेत्वाभासत्वोपपत्तिः।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - सत्प्रतिपक्षः

यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते सः सत्प्रतिपक्षः। यथा, शब्दो नित्यः श्रावणत्वात् शब्दोऽनित्यःकार्यत्वात् घटवत्।।
सत्प्रतिपक्षं लक्षयति यस्येति। केनचित् भ्रान्तेन पुंसा शब्दे नित्यत्वसाधनाय शब्दो नित्यः श्रावणत्वात् इति श्रावणत्वहेतौ प्रयुक्ते सति अभ्रान्तोऽन्यः श्रावणत्वहेतुः शब्दे नित्यत्वं साधयितुं न शक्नोतीति मन्वानः प्रतिपक्षिप्रयुक्तश्रावणत्वरूपहेतौ दोषोद्भावनाय शब्दे नित्यत्वाभावसाधकं कार्यत्वरूपं हेत्वन्तरं प्रयुङ्क्ते, तत्र प्रथमः श्रावणत्वरूपहेतुः सत्प्रतिपक्षः इति व्यवह्रियते। (प्रथमानुमाने पक्षः शब्दः, नित्यत्वं साध्यम्, श्रावणत्वं हेतुः। द्वितीयानुमाने शब्दः पक्षः, अनित्यत्वं साध्यम्, कार्यत्वं हेतुः) वाक्यार्थस्तु यस्य श्रावणत्वरूपहेतोः यत् नित्यत्वं साध्यत्वेनाभिमतम्, तदभावः नित्यत्वाभावः, तत्साधकं हेत्वन्तरं कार्यत्वरूपहेतुः विद्यते सः श्रावणत्वरूपहेतुः सत्प्रतिपक्षः इति। (यत्तदोः नित्यसम्बन्धः इति न्यायेन यत्तच्छब्दार्थयोरेकार्थबोधकत्वेन तच्छब्देन यत्पदग्राह्यश्रावणत्वरूपहेतुरेव ग्राह्यः) तथाच, साध्याभावव्याप्यप्रतिहेतुमत्पक्षः सत्प्रतिपक्षः इति फलितम्।
अनित्यत्वव्याप्यकार्यत्ववान् शब्दः इति निश्चयस्य शब्दो नित्यः इत्यनुमितिं प्रति तदभावव्याप्यवत्तानिश्चयमुद्रया प्रतिबन्धकत्वेन साध्याभावव्याप्यवत्पक्षरूपसत्प्रतिपक्षस्य तादृशनिश्चयविषयत्वेन हेत्वाभासत्वमुपपद्यत एव, अस्य सत्प्रतिपक्षत्वं नवीनमतसिद्धम्।
प्राचीनास्तु, साध्याभावव्याप्यप्रतिहेतुमत्तापरामर्शकालीनसाध्यव्याप्यप्रकृतहेतुमत्तापरामर्शविषयत्वं सत्प्रतिपक्षः इति वदन्ति। अत्र साध्याभावव्याप्यप्रतिहेतुमत्तापरामर्शः अनित्यत्वव्याप्यकार्यत्वावान् शब्दः इत्याकारकः, तत्कालीनः साध्यव्याप्यप्रकृतहेतुमत्तापरामर्शः नित्यत्वव्याप्यश्रावणत्ववान् शब्दः इत्याकारकः, तद्विषयत्वं श्रावणत्वरूपहेतौ वर्तत इति समन्वयः। अत्र साध्यव्याप्यप्रकृतहेतुमत्तापरामर्शस्य साध्याभावानुमितिं प्रति साध्याभावव्याप्यप्रतिहेतुमत्तापरामर्शस्य साध्यानुमितिं प्रति च तदभावव्याप्यवत्तानिश्चयमुद्रया प्रतिबन्धकत्वेन परस्पराभावव्याप्यवत्तानिश्चयात् परस्परानुमितिप्रतिबन्धः फलमिति ज्ञेयम्।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - असिद्धिः

असिद्धस्त्रिविधः - आश्रयासिद्ध: स्वरूपासिद्धो व्याप्यत्वासिद्धश्चेति। आश्रयासिद्धो यथा - गगनारविन्दं सुरभि अरविन्दत्वात् सरोजारविन्दवत्। अत्र गगनारविन्दमाश्रयः। स च नास्त्येव। स्वरूपासिद्धो यथा - शब्दो गुणः चाक्षुषत्वात्। अत्र चाक्षुषत्वं शब्दे नास्ति शब्दस्य श्रावणत्वात्। सोपाधिको हेतुर्व्याप्यत्वासिद्धः। साध्यव्यापकत्वे सति साधनाव्यापकत्वम् उपाधिः। साध्यसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं साध्यव्यापकत्वम्। साधनवन्निष्ठात्यन्ताभावप्रतियोगित्वं साधनाव्यापकत्वम्। (यथा) पर्वतो धूमवान् वह्नेः इत्यत्र आर्द्रेन्धनसंयोग उपाधिः। यत्र धूमः तत्रार्द्रेन्धनसंयोग इति साध्यव्यापकता। यत्र वह्निः तत्रार्द्रेन्धनसंयोगो नास्ति, अयोगोलके आर्द्रेन्धनसंयोगाभावात्। एवं साध्यव्यापकत्वे सति साधनाव्यापकत्वादार्द्रेन्धनसंयोग उपाधिः। सोपाधिकत्वाद्वह्निमत्त्वं व्याप्यत्वासिद्धम्।
असिद्धं विभजते असिद्ध इति। आश्रयासिद्धाद्यन्यतमत्वम् असिद्धसामान्यलक्षणम्। (अत्र गगनारविन्दं पक्षः, सुरभित्वं साध्यम्, अरविन्दत्वं हेतुः) अत्र गगनेऽरविन्दमिति व्युत्पत्त्या सप्तम्या आधेयत्वार्थकत्वे च गगनवृत्तित्वविशिष्टारविन्दस्य पक्षत्वे सिद्धे गगनवृत्तित्वस्य पक्षविशेषणतया (पक्षविशेषणधर्मस्य पक्षतावच्छेदकतया) पक्षतावच्छेदकत्वेन पक्षतावच्छेदकाभाववत्पक्षस्य आश्रयासिद्धितया गगनवृत्तित्वाभाववदरविन्दस्य आश्रयासिद्धित्वं सम्भवति। तथाच, पक्षतावच्छेदकाभाववत्पक्षकत्वम् आश्रयासिद्धस्य लक्षणम् इति फलितम्। समन्वयस्तु, पक्षतावच्छेदकाभाववत्पक्षः गगनवृत्तित्वाभववदरविन्दं तत्कत्वम् अरविन्दत्वरूपहेतौ वर्तते इति (तादृशपक्षकत्वञ्च तादृशपक्षकालीनत्वम्)।
अत्र गगनवृत्तित्वविशिष्टारविन्दं सुरभि इत्यनुमितिं प्रति पक्षतावच्छेदकविशिष्टपक्षांशे प्रतिबन्धकीभूते गगनवृत्तित्वाभाववदरविन्दम् इति निश्चये गगनवृत्तित्वाभाववदरविन्दरूपाश्रयासिद्धेः विषयतया तत्र हेत्वाभासलक्षणसमन्वयः सम्भवति।
वाक्यार्थस्तु, गगनारविन्दमाश्रय इति। आश्रयः पक्षः स च नास्त्येवेति, स च पक्षः नास्त्येव अप्रसिद्ध एव, अरविन्दे गगनवृत्तित्वस्याप्रसिद्धत्वात् इति।
स्वरूपासिद्धमुदाहरति स्वरूपासिद्ध इति। अत्र शब्दः पक्षः, गुणत्वं साध्यम्, चाक्षुषत्वं हेतुः। चाक्षुषत्वं चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वम्। श्रावणत्वं श्रवणेन्द्रियजन्यप्रत्यक्षविषयत्वम्। हेत्वभाववत्पक्षः स्वरूपासिद्धिः। हेत्वभाववत्पक्षकत्वं स्वरूपासिद्धस्य लक्षणम्। हेत्वभावत्पक्षः चाक्षुषत्वाभाववच्छब्दः, तत्कत्वस्य (तत्कालीनत्वस्य) चाक्षुषत्वहेतौ सत्त्वात् समन्वयः।
अत्र गुणत्वव्याप्यचाक्षुषत्ववान् शब्दः इति परामर्शं प्रति हेतुविशिष्टपक्षांशे चाक्षुषत्वाभाववान् शब्दः इति निश्चयस्य तदभाववत्तानिश्चयमुद्रया प्रतिबन्धकत्वेन तादृशनिश्चयविषयत्वस्य चाक्षुषत्वाभाववच्छब्दरूपस्वरूपासिद्धौ सत्त्वात् हेत्वाभासत्वं सम्भवत्येव।
व्याप्यत्वासिद्धिमुदाहरति सोपाधिक इति। उपाधिविशिष्टत्वं व्याप्यत्वासिद्धस्य लक्षणम्। उपाधिवैशिष्ट्यञ्च स्वाभाववद्वृत्तित्वसम्बन्धेन ग्राह्यम्। यद्वैशिष्ट्यं यत्र भासते स एव स्वपदार्थः इति न्यायेन हेतौ उपाधिवैशिष्ट्यस्य भाने उपाधेरेव स्वपदग्राह्यतया धूमवान् वह्नेरित्यत्र आर्द्रेन्धनसंयोगरूपोपाधेः स्वपदेन ग्रहणे स्वाभावः आर्द्रेन्धनसंयोगाभावः, तद्वदयोगोलकम्, तद्वृत्तित्वस्य वह्नौ तेन सम्बन्धेन उपाधिविशिष्टत्वस्य निरुक्तस्थलीयवह्निरूपहेतौ सत्त्वात् स हेतुः व्याप्यत्वासिद्धो भवति।
उपाधे लक्षणमाह साध्यसमानाधिकरणेति। साध्यसमानाधिकरणा(साध्याधिकरणवृत्ति)त्यन्ताभावाप्रतियोगित्वे सति साधनाधिकरणवृत्त्यत्यन्ताभावप्रतियोगित्वम् उपाधेः लक्षणमिति फलितम्। पर्वतो धूमवान् वह्नेरित्यत्र आर्द्रेन्धनसंयोगरूपोपाधौ लक्षणसमन्वयः। तथाहि साध्यः धूमः, तदधिकरणं महानसादिः, तद्वृत्तिः योऽत्यन्ताभावः नह्यार्द्रेन्धनसंयोगाभावः किन्तु पटाद्यभावः, तत्प्रतियोगी पटादिः, तदप्रतियोगित्वम् आर्द्रेन्धनसंयोगे वर्तते। साधनं वह्निः, तदधिकरणम् अयोगोलकम्, तद्वृत्तिः योऽत्यन्ताभावः आर्द्रेन्धनसंयोगाभावः, तत्प्रतियोगित्वम् आर्द्रेन्धनसंयोगरूपोपाधौ वर्तत इति लक्षणसमन्वयः। साध्यव्यापकत्वमात्रोक्तौ पर्वतो वह्निमान् धूमादित्यत्र सद्धेतुस्थलेऽपि वह्निरूपसाध्येऽतिव्याप्तिः साध्ये साध्यव्यापकत्वस्याक्षतत्वात्। साधनाव्यपकत्वनिवेशे तु वह्नेः साधनीभूतधूमस्यापि व्यापकत्वात् नातिव्याप्तिः। साधनाव्यापकत्वमात्रोक्तौ पर्वतो वह्निमान् धूमादित्यत्र घटादेरपि साधनाधिकरणमहानसादिनिष्ठाभावप्रतियोगित्वेन तत्रातिव्याप्तिः। साध्यव्यापकत्वनिवेशे तु साध्याधिकरणमहानसादिनिष्ठात्यन्ताभावप्रतियोगित्वेन साध्यव्यापकत्वाभावात् घटादौ नातिव्याप्तिः।
नचैवं पर्वतो धूमवान् वह्नेरित्यत्र आर्द्रेन्धनसंयोगस्य धूमाधिकरणवृत्त्यार्द्रेन्धनसंयोगघटत्वोभयाभावप्रतियोगित्वेनाव्याप्तिरिति वाच्यम्। साध्याधिकरणवृत्त्यभावीयप्रतियोगितायां व्यासज्यवृत्तिधर्मानवच्छिन्नत्वस्य निवेशनीयत्वात्। (व्यासज्यवृत्तित्वञ्च एकत्वानवच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगित्वं, तदर्थ:, स्वाधिकरणे पर्याप्तिसम्बन्धेन एकत्वावच्छेदेनावर्तमानत्वम्। तथाच उभयत्वत्रित्वाद्यवच्छेदेन द्वयत्रयादिषु पर्याप्तिसम्बन्धेन वर्तमानाः द्वित्वत्रित्वचतुष्ट्वादयः व्यासज्यवृत्तिधर्माः इति सिद्धम्) तथाच आर्द्रेन्धनसंयोगघटत्वोभयाभावीयायाः प्रतियोगितायाः अत्र उभयत्वरूपव्यासज्यवृत्तिधर्मावच्छिन्नतया न तां प्रतियोगितामादाय पूर्वोक्तविधयाऽव्याप्तिः।
नचैवमपि निरुक्तस्थले आर्द्रेन्धनसंयोगस्य धूमाधिकरणमहानसादिनिष्ठस्य तत्क्षणादिवृत्तित्वविशिष्टार्द्रेन्धनसंयोगाभावस्य प्रतियोगित्वेन तत्र पुनरप्यव्याप्तिरिति वाच्यम्। निरुक्तप्रतियोगितायामेव व्यासज्यवृत्तिधर्मानवच्छिन्नत्वस्येव वैशिष्‍ट्यानवच्छिन्नत्वस्यापि निवेशनीयत्वात्। तन्निवेशे तु तत्क्षणवृत्तित्वविशिष्टार्द्रेन्धनसंयोगत्वावच्छिन्नप्रतियोगितायाः वैशिष्ट्यार्द्रेन्धनसंयोगत्वरूपधर्मद्वयावच्छिन्नतया न तां प्रतियोगितामादाय तत्राव्याप्तिप्रसक्तिः।।
नचैवमपि पर्वतो वह्निमान् धूमादित्यत्र वह्निरूपसाध्यस्य साधनाधिकरणमहानसादिनिष्ठस्य वह्निघटत्वोभयाभावस्य पूर्वक्षणवृत्तित्वविशिष्टवह्न्यभावस्य च प्रतियोगित्वेन साध्यव्यापकत्वेन च वह्नावतिव्याप्तिरिति वाच्यम्। साधनसमानाधिकरणात्यन्ताभावीयप्रतियोगितायामपि वैशिष्ट्यव्यासज्यवृत्तिधर्मानवच्छिन्नत्वयोः निवेशनीयत्वात्, तन्निवेशे तु तदुभयाभावीयप्रतियोगितायाः व्यासज्यवृत्तिधर्मावच्छिन्नतया विशिष्टाभावीयप्रतियोगितायाः वैशिष्ट्यावच्छिन्नतया च न तत्प्रयोगिताद्वयमादाय साध्येऽतिव्याप्तिः। साध्याभाववदवृत्तित्वाभाववद्धेतुः व्याप्यत्वासिद्धिः। उपाधेः दूषकतानिरूपणन्तु दीपिकाव्याख्यानावसरे व्यक्तीकरिष्यते।
अत्र धूमाभाववदवृत्तित्वाभाववान् वह्निः इति निश्चयस्य धूमाभाववदवृत्तिवह्निमान् इति परामर्शं प्रति धूमाभाववदवृत्तिः वह्निः इति व्याप्तिज्ञानांशे प्रतिबन्धकत्वेन तादृशनिश्चयविषयीभूते धूमाभाववदवृत्तित्वाभाववद्वह्निरूपव्याप्यत्वासिद्धौ हेत्वाभासत्वमुपपद्यत एव ।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - दोषताभेदः

नचैवं साध्यभाववदवृत्तित्वाभावस्य साध्याभाववद्वृत्तित्वरूपतया व्यभिचारस्य व्याप्यत्वासिद्धेश्चाभेद इति वाच्यम्, दोषयोरैक्येऽपि साध्याभाववदवृत्तित्वाभावत्वसाध्याभाववद्वृत्तित्वरूपयोः दोषतावच्छेदकयोः भेदस्याक्षतत्वात् दोषयोः दोषतावच्छेदकयोरप्यैक्यसद्भाव एव पार्थक्येन गणनया अनर्हत्वात्।।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - दोषव्याप्तिः

नचैवमपि साध्यतावच्छेदकाभाववत्साध्यरूपसाध्याप्रसिद्धि हेतुतावच्छेदकाभावरूपहेत्वप्रसिद्धिसिद्धसाधनादिरूपदोषान्तराणामनिरूपणेन ग्रन्थकर्तुः न्यूनतेति वाच्यम्, अन्येषामपि दोषाणां व्याप्यत्वासिद्धावेवान्तर्भावस्य कर्तव्यत्वात् (येषां क्वापि गतिर्नास्ति तेषां वाराणसी गतिरिति न्यायोऽत्रानुसन्धेयः।
यस्य साध्याभावः प्रमाणान्तरेण निश्चितः सः बाधितः। यथा, वह्निः अनुष्णः पदार्थत्वात् जलवत्। अत्रानुष्णत्वं साध्यं तदभावः उष्णत्वं त्वाचप्रत्यक्षेण गृह्यते इति बोध्यम्।।
बाधितस्य लक्षणमाह यस्येति। (अत्र वह्नित्वावच्छिन्नं पक्षः, अनुष्णत्वं साध्यम्, पदार्थत्वं हेतुः) वाक्यार्थस्तु यस्य पदार्थत्वरूपहेतोः यत् साध्यं साध्यत्वेनाभिमतमनुष्णत्वं तदभावः अनुष्णत्वाभावः (उष्णत्वम्) त्वाचप्रत्यक्षेण त्वाचप्रत्यक्षजनकत्वगिन्द्रियरूपप्रत्यक्षप्रमाणेन गृह्यते सः पदार्थत्वरूपहेतुः बाधित इति। तथाच साध्याभाववत्पक्षो बाध इति फलितम्। साध्याभाववत्पक्षकत्वं बाधितस्य लक्षणम्।।
अत्र च अनुष्णत्वाभाववान् वह्निः इति बाधनिश्चयस्य वह्निः अनुष्णः इति अनुमितिं प्रति तदभाववत्तानिश्चयमुद्रया प्रतिबन्धकत्वेन तादृशनिश्चयविषयभूतेऽनुष्णत्वाभाववद्वह्नौ हेत्वाभासत्वमुपपद्यते।।
नन्वेवमपि पक्षवृत्तिसाध्याभाव-पक्षावृत्तिसाध्य-साध्यानधिकरणपक्षप्रभृतीनां दोषत्वानिरूपणेन न्यूनतेति चेन्न, तेषामपि पक्षविशेष्यकसाध्यप्रकारकानुमितिप्रतिबन्धकज्ञानविषयत्वतौल्येन (समानयोगक्षेमतया) विशेषणविशेष्यभावव्यत्यासेऽपि बाध एवान्तर्भावात्।
एवमेव व्यभिचारप्रभृतिषु सर्वेष्वपि हेत्वाभासस्थलेषु विशेषणविशेष्यभाववैपरीत्येन प्राप्तानां रूपान्तराणां समानयोगक्षेमतां निमित्तीकृत्य यथायथं तेषुतेष्वन्तर्भावः कार्यः।
एवमेव बाधसत्प्रतिपक्षव्याप्यभिन्नानां तत्तद्धेत्वाभासव्याप्यानामपि तत्तद्धेत्वाभासेष्वेव अन्तर्भावः कार्यः, यथा, साध्याभाववद्वृत्तित्वविशिष्टहेतोः व्यभिचारत्वे साध्याभाववद्वृत्तित्वव्याप्यवान् हेतुरपि व्यभिचार एव। हेत्वभाववत्पक्षस्य स्वरूपासिद्धित्वे हेत्वभावव्याप्यवत्पक्षोऽपि स्वरूपासिद्धिरेव। एवमन्यत्राऽपि तत्तद्व्याप्यघटितानामपि तत्तद्दोषत्वमूह्यम्। बाधव्याप्यस्य तु सत्प्रतिपक्षरूपतया न बाधेऽन्तर्भावः। सत्प्रतिपक्षव्याप्यस्य ह्रदो वह्निमानित्यादौ वह्न्यभावव्याप्यव्याप्यवद्ध्रदादेः कथञ्चिदपि अनुमितितत्करणान्यतरप्रतिबन्धकज्ञानविषयत्वाभावेन न सत्प्रतिपक्षेऽन्तर्भावः, किन्तु तस्य दोषबहिर्भूततैवेति ध्येयम्।।