मूलम् - पक्षसपक्षविपक्षाः - 46
सन्दिग्धसाध्यवान्पक्षः। यथा धूमवत्त्वे हेतौ पर्वतः। निश्चितसाध्यवान्सपक्षः यथा तत्रैव महानसः। निश्चितसाध्याऽभाववान्विपक्षः यथा तत्रैव महाह्रदः॥ ४५॥
Tags - 46
पक्षः, सपक्षः, विपक्षः, अनुमानम्
दीपिका - पक्षलक्षणम्
पक्षलक्षणमाह-सन्दिग्धेति। ननु श्रवणानन्तरभाविमननस्थलेऽव्याप्तिः। तत्र वेदवाक्यैरात्मनो निश्चितत्वेन सन्देहाभावात्। किञ्च प्रत्यक्षेऽपि वह्नौ यत्रेच्छयाऽनुमितिस्तत्राव्याप्तिरिति चेन्न। उक्तपक्षताश्रयत्वस्य पक्षलक्षणत्वात्। सपक्षलक्षणमाह-निश्चितेति। विपक्षलक्षणमाह-निश्चितेति।
गोवर्धन-न्यायबोधिनी - पक्षलक्षणम्
पक्षलक्षणमाह। संदिग्धेति। साध्यप्रकारकसंदेहविशेष्यत्वं पक्षत्वम्। संदेहश्च पर्वतो वह्निमान्न वेत्याकारः। इदं च लक्षणमनुमितेः पूर्वं साध्यसंदेहो नियमेन पक्षे जायत इत्यभिप्रायेण प्राचीनैः कृतम्। गगनविशेष्यकमेघप्रकारकसंदेहाभावदशायामपि गृहमध्यस्थपुरुषस्य घनगर्जितश्रवणेन गगनं मेघवदित्याकारकगगनत्वावच्छिन्नोद्देश्यतानिरूपितमेघत्वावच्छिन्नविधेयताकानुमितिदर्शनात्प्राचीनलक्षणं विहाय नवीनैरनुमित्युद्देश्यत्वं पक्षत्वमिति स्थिरीकृतम्। सपक्षलक्षणमाह।
गोवर्धन-न्यायबोधिनी - सपक्षत्वम्
निश्चितसाध्येति। साध्यप्रकारकनिश्चयविशेष्यत्वं सपक्षत्वम्। निश्चयश्च महानसं वह्निमानित्याकारकः।
गोवर्धन-न्यायबोधिनी - विपक्षलक्षणम्
विपक्षलक्षणमाह। निश्चितसाध्याभाववानिति। साध्याभावप्रकारकनिश्चयविशेष्यत्वं विपक्षत्वम्। निश्चयश्च ह्रदो वह्न्यभाववानित्याकारकः।
कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - पक्षलक्षणम्
सन्दिग्धसाध्यवान्पक्षः। यथा धूमवत्त्वे हेतौ पर्वतः। निश्चितसाध्यवान्सपक्षः। यथा तत्रैव महानसम्। निश्चितसाध्याभाववान्विपक्षः। यथा तत्रैव महाह्रदः।
पृथिवीमात्रस्य पक्षत्वादित्यत्र निर्दिष्टं पक्षं लक्षयति सन्दिग्धेति। सम्पूर्वकदिहधातोः सन्देहोऽर्थः, क्तप्रत्ययस्य विषयोऽर्थः, तस्य साध्येऽन्वये सन्देहविषयीभूतसाध्याश्रयत्वम् पक्षस्य लक्षणम् इति फलितम्। सन्देहः पर्वतो वह्निमान् न वेति सन्देहः, तद्विषयीभूतः यः साध्यः वह्निरूपसाध्यः, तदाश्रयत्वं पर्वतो वह्निमान् धूमात् इत्यत्र पक्षभूतपर्वते वर्तते इति लक्षणसमन्वयः। सन्दिग्धत्वानुपादाने पूर्वोक्तस्थल एव वह्निरूपसाध्याश्रयत्वमादाय सपक्षे महानसादावतिव्याप्तिः। तदुपादाने सपक्षस्य निश्चितसाध्याश्रयत्वेन सन्दिग्धसाध्याश्रयत्वस्याभावात् नातिव्याप्तिः। नचैवमपि पर्वतान्तर्भावेण सन्दिग्धस्य साध्यस्याश्रयत्वमादाय सपक्षेऽतिव्याप्तिः सम्भवतीति वाच्यम्, साध्यप्रकारकसन्देहविशेष्यत्वस्य तदर्थत्वात्। तथाच महानसान्तर्भावेण साध्यप्रकारकसन्देहाभावेन तादृशसन्देहविशेष्यत्वस्य तत्राभावेन नातिव्याप्तिः। नचैवमपि साध्यतावच्छेदकांशे साध्यस्यापि विशेष्यतया साध्यप्रकारकसन्देहविशेष्यत्वस्य साध्येऽपि सत्त्वात् अतिव्याप्तिरिति वाच्यम्, साध्यप्रकारकसन्देहनिरूपितमुख्यविशेष्यत्वस्य विवक्षितत्वात्, वह्नेः वह्नित्वांशे विशेष्यत्वेऽपि पर्वतांशे प्रकारत्वेन वह्नित्वनिष्ठप्रकारतानिरूपितवह्निनिष्ठविशेष्यतायाः पर्वतनिष्ठविशेष्यतानिरूपितप्रकारतासमानाधिकरणतया (प्रकारत्वावच्छिन्नतया) मुख्यविशेष्यतात्वाभावेनातिव्याप्त्यभावात्। विशेष्यतायां मुख्यत्वञ्च प्रकारत्वासमानाधिकरणत्वं प्रकारत्वानवच्छिन्नत्वं वा बोध्यम्। न च पर्वतो वह्निमान् न वा भूतलं घटवत् न वा इति समूहालम्बनरूपं साध्यप्रकारकसंशयमादाय तन्निरूपितमुख्यविशेष्यतामादाय भूतलादावतिव्याप्तिरिति वाच्यम्, साध्यनिष्ठप्रकारतानिरूपिता (साध्याभावनिष्ठप्रकारतानिरूपिता) या संशयीया मुख्यविशेष्यता तदाश्रयत्वस्य लक्षणत्वात्, समूहालम्बनज्ञाननिरूपितभूतलनिष्ठविशेष्यतायाः साध्यप्रकारकसंशयनिरूपितत्वेऽपि भूतले साध्यतदभावयोरप्रकारत्वात् तत्तन्निष्ठप्रकारतानिरूपितविशेष्यतायाः भूतलेऽसत्त्वेनातिव्याप्त्यभावात्। इदञ्च लक्षणं साध्यसंशयस्य पक्षतात्वमङ्गीकुर्वतां प्राचां मते बोध्यम्।
नवीनमते तु संशयविरहदशायामपि घनगर्जितेन मेघानुमानेन सिषाधयिषाकालिकसिद्धिदशायाम् अनुमित्युत्पत्त्या च इदं लक्षणं विहाय सिषाधयिषाविरहविशिष्टसिद्ध्यभाववत्त्वं पक्षलक्षणं बोध्यम्। केषांचिन्मते अनुमित्युद्देश्यत्वमेव पक्षत्वं बोध्यम्।
सपक्षं लक्षयति निश्चितेति। निश्चिनोतेः निश्चयोऽर्थः, क्तप्रत्ययस्य विषयोऽर्थः, तथाच, निश्चयविषयसाध्याश्रयत्वं सपक्षस्य लक्षणम्। निश्चयः महानसो वह्निमान् इति निश्चयः, तद्विषयीभूतः यः साध्यः वह्निरूपः साध्यः, तदाश्रयत्वं महानसे वर्तते इति समन्वयः। निश्चितपदाभावे संदिग्धसाध्याश्रयत्वमादाय पक्षेऽतिव्याप्तिः। तन्निवेशे पक्षे साध्यनिश्चयाभावेन निश्चितसाध्याश्रयत्वस्य तत्राभावात् नातिव्याप्तिः। नचैवमपि महानसान्तर्भावेण निश्चयविषयस्य साध्यस्य आश्रयत्वमादाय पक्षेऽतिव्याप्तिरिति वाच्यम् साध्यप्रकारकनिश्चयाभावेन साध्यप्रकारकनिश्चयविशेष्यत्वस्य पक्षेऽभावात् नातिव्याप्तिः। अत्रापि पूर्ववत् वह्न्यादावतिव्याप्तिवारणाय महानसो वह्निमान्, घटवत् भूतलं इति समूहालम्बनात्मकनिश्चयमादाय भूतलादावतिव्याप्तिवारणाय च साध्यनिष्ठप्रकारतानिरूपितनिश्चयीयमुख्यविशेष्यताश्रयत्वपर्यन्तस्य लक्षणस्य आवश्यकता अस्त्येव।
विपक्षलक्षणमाह निश्चितेति। निश्चयविषयीभूतसाध्याभावाश्रयत्वं विपक्षस्य लक्षणम्। पर्वतो वह्निमान् धूमात् इत्यत्र महाह्रदरूपविपक्षे लक्षणसमन्वयः। तथाहि, निश्चयः ह्रदो वह्न्यभाववान् इति निश्चयः, तद्विषयीभूतो यः साध्याभावः वह्न्यभावः, तदाश्रयत्वं ह्रदेऽस्तीति लक्षणसमन्वयः। निश्चितपदाभावे ह्रदो वह्निमान् धूमात् इत्यत्र ह्रदरूपपक्षेऽपि साध्याभावाश्रयत्वस्य सत्त्वात् अतिव्याप्तिः। तन्निवेशे तु अनुमितिकाले साध्याभावसंशयस्यैव सत्त्वेन तन्निश्चयाभावेन निश्चितसाध्याभावाश्रयत्वस्य असत्त्वात् नातिव्याप्तिः। नचैवमपि ह्रदो वह्निमान् इत्यनुमितिकाले पक्षभूतह्रदेऽपि घटाद्यन्तर्भावेण निश्चयविषयवह्न्यभावरूपसाध्याभावाश्रयत्वस्य विद्यमानत्वात् अतिव्याप्तिरिति वाच्यम्। साध्याभावप्रकारकनिश्चयविशेष्यत्वस्य विवक्षणीयत्वात्, अनुमितिकाले ह्रदे पक्षे साध्याभावनिश्चयाभावेन साध्याभावप्रकारकनिश्चयविशेष्यत्वस्य तदा ह्रदे अभावेन नातिव्याप्तिः। अत्रापि पूर्ववत् साध्यादावतिव्याप्तिवारणाय मुख्यविशेष्यत्वम् गुणो वह्न्यभाववान् ह्रदो जलवान् इति समूहालम्बननिश्चयमादाय पक्षीभूतह्रदेऽतिप्रसङ्गवारणाय साध्याभावत्वावच्छिन्नप्रकारतानिरूपितनिश्चयीयमुख्यविशेष्यताश्रयत्वपर्यन्तं लक्षणं परिष्करणीयमेव, तथा परिष्कारे ह्रदांशे वह्न्यभावस्याप्रकारत्वेन साध्याभावनिष्ठप्रकारतानिरूपितनिश्चयीयमुख्यविशेष्यताश्रयत्वस्य पक्षभूतह्रदेऽभावात् नातिव्याप्तिः।