मूलम् - लिङ्गत्रैविध्यम् - 45
लिङ्गं त्रिविधम्। अन्वयव्यतिरेकि केवलान्वयि केवलव्यतिरेकि चेति। अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि। यथा वह्नौ साध्ये धूमवत्त्वम्। यत्र धूमस्तत्राग्निर्यथा महानस इत्यन्वयव्याप्तिः। यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा महाह्रद इति व्यतिरेकव्याप्तिः। अन्वयमात्रव्याप्तिकं केवलान्वयि। यथा घटोऽभिधेयः प्रमेयत्वात्पटवत्। अत्र प्रमेयत्वाभिधेयत्वयोर्व्यतिरेकव्याप्तिर्नास्ति सर्वस्यापि प्रमेयत्वादभिधेयत्वाच्च। व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि यथा पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात्। यदितरेभ्यो न भिद्यते न तद्गन्धवद्यथा जलम्। न चेयं तथा। तस्मान्न तथेति। अत्र यद्गन्धवत्तदितरभिन्नमित्यन्वयदृष्टान्तो नास्ति पृथिवीमात्रस्यपक्षत्वात्॥ ४४॥
Tags - 45
लिङ्गम्, त्रिविधलिङ्गम्, अन्वयव्यतिरेकि, केवलान्वयि, केवलव्यतिरेकि
दीपिका - लिङ्गत्रैविध्यम्
लिङ्गं त्रिविधम्। अन्वयव्यतिरेकि, केवलान्वयि, केवलव्यतिरेकि चेति। अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि। यथा वह्नौ साध्ये धूमवत्त्वम्। यत्र धूमस्तत्राग्निः यथा महानसम् इत्यन्वयव्याप्तिः। यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा महाह्रद इति व्यतिरेकव्याप्तिः। अन्वयमात्रव्याप्तिकं केवलान्वयि। यथा घटोऽभिधेयः प्रमेयत्वात्पटवत् इति। अत्र प्रमेयत्वाभिधेयत्वयोर्व्यतिरेकव्याप्तिर्नास्ति। सर्वस्यापि प्रमेयत्वादभिधेयत्वाच्च। व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि। यथा पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात्। यदितरेभ्यो न भिद्यते न तद्गन्धवत्। यथा जलम्। न चेयं तथा। तस्मान्न तथेति। अत्र यद्गन्धवत्तदितरभिन्नमित्यन्वयदृष्टान्तो नास्ति। पृथिवीमात्रस्य पक्षत्वात्।
दीपिका - लिङ्गव्याप्तिविचारः
लिङ्गं विभजते- लिङ्गमिति। अन्वयव्यतिरेकिणं लक्षयति- अन्वयेति। हेतुसाध्ययोर्व्याप्तिरन्वयव्याप्तिः। तदभावयोर्व्याप्तिर्व्यतिरेकव्याप्तिः। केवलान्वयिनो लक्षणमाह-अन्वयेति। केवलान्वयिसाध्यकं लिङ्गं केवलान्वयि। अत्यन्ताभावाप्रतियोगित्वं केवलान्वयित्वम्। ईश्वरीयप्रमाविषयत्वं सर्वपदाभिधेयत्वं च सर्वत्रास्तीति। (व्यतिरेको नामाभावः।) केवलव्यतिरेकिणो लक्षणमाह- व्यतिरेकेति। तदुदाहरति-यथेति। ननु इतरभेदः प्रसिद्धो वा न वा। आद्ये यत्र प्रसिद्धस्तत्र हेतुसत्त्वेऽन्वयित्वम्, असत्त्वेऽसाधारण्यम्। द्वितीये साध्यज्ञानाभावात्कथं तद्विशिष्टानुमितिः। विशेषणज्ञानाभावे विशिष्टज्ञानस्यानुदयात्, प्रतियोगिज्ञानाभावात् व्यतिरेकव्याप्तिज्ञानमपि न स्यादिति चेन्न। जलादित्रयोदशान्योन्याभावानां त्रयोदशसु प्रत्येकं प्रसिद्धानां मेलनं पृथिव्यां साध्यते। तत्र त्रयोदशत्वावच्छिन्नभेदात्मकसाध्यस्य एकाधिकरणवृत्तित्वाभावात्। नान्वयित्वासाधारण्ये प्रत्येकाधिकरणप्रसिद्ध्या साध्यविशिष्टानुमितिः व्यतिरेकव्याप्तिनिरूपणं चेति।
गोवर्धन-न्यायबोधिनी - अन्वयव्यतिरेकित्वम्
अन्वयेनेति। साध्यसामानाधिकरण्यरूपान्वयव्याप्तिमानित्यर्थः। व्यतिरेकेणेति। व्यतिरेको नामाभावः। तथा च साध्याभावहेत्वभावयोर्व्याप्तिर्व्यतिरेकव्याप्तिः। इयं च व्याप्तिः यत्र यत्र वह्न्यभावस्तत्र तत्र धूमाभाव इति। यत्र पदवीप्सया वह्न्यभाववति यावति धूमाभावग्रहणे यावत्पदस्य व्यापकत्वपरतया धूमाभावे वह्न्यभावव्यापकत्वं लभ्यते। वह्न्यभावे धूमाभावव्याप्यत्वं च लभ्यते। वह्न्यभावनिष्ठव्याप्यत्वं च स्वाश्रयवह्न्यभावव्यापकीभूताभावप्रतियोगित्वसंबन्धेन धूमनिष्ठतया गृह्यत इति व्यतिरेकव्याप्तिमत्त्वेनान्वयव्याप्तिमत्त्वेन चान्वयव्यतिरेकित्वेन गीयते। व्यतिरेकपरामर्शाकारश्च वह्न्यभावव्यापकीभूताभावप्रतियोगिधूमवानिति। केवलान्वयिनो लक्षणमाह।
गोवर्धन-न्यायबोधिनी - केवलान्वयी
अन्वयेति। व्यतिरेकव्याप्तिशून्यत्वे सति अन्वयव्याप्तिमत्वं केवलान्वयित्वम्। अथवा केवलान्वयिसाध्यकत्वं तत्। एतच्च लक्षणं हेतोर्व्यतिरेकित्वेऽपि सङ्गच्छते। साध्यस्य केवलान्वयित्वादेव व्यतिरेकव्याप्तेरभावादन्वयमात्रव्याप्तिकं केवलान्वयीति मूलोक्तलक्षणमुपपन्नम्। अत्यन्ताभावाप्रतियोगित्वं केवलान्वयित्वम्। न चैवमाकाशाभावे संयोगाभावे चाव्याप्तिरिति वाच्यम्। स्वविरोधिवृत्तिमदत्यन्ताभावाप्रतियोगित्वस्यैव तदर्थत्वात्। तथा च तयोः एकजातीयसंबन्धेन सर्वत्र विद्यमानत्वान्नाव्याप्तिः।
गोवर्धन-न्यायबोधिनी - केवलव्यतिरेकित्वम्
केवलव्यतिरेकिणो लक्षणमाह। व्यतिरेकेति। निश्चितान्वयव्याप्तिशून्यत्वे सति व्यतिरेकव्याप्तिमत्त्वं केवलव्यतिरेकित्वम्। यथेति। अत्र पृथिवीत्वावच्छिन्नं पक्षः। पृथिवीतरजलादिभेदः साध्यम्। गन्धवत्त्वं हेतुः। अत्र यद्गन्धवत्तदितरेभ्यो भिद्यते यथेत्यन्वयदृष्टान्ताभावाद्गन्धव्यापकेतरभेदसामानाधिकरण्यरूपान्वयव्याप्तिग्रहासंभवः। किं तु यत्र यत्र पृथिवीतरभेदाभावस्तत्र तत्र गन्धाभावो यथा जलादिकमिति व्यतिरेकदृष्टान्ते जलादावितरभेदाभावरूपसाध्याभावव्यापकता गन्धाभावे गृहाते। इममेवार्थं मनसि निधाय यदितरेभ्यो न भिद्यते न तद्गन्धवत् यथा जलमिति ग्रन्थेन मूलकारो व्यतिरेकव्याप्तिमेव प्रदर्शितवान्। एवं प्रकारेण व्यतिरेकव्याप्तिग्रहानन्तरमितरभेदाभावव्यापकीभूताभावप्रतियोगिगन्धवती पृथिवीत्याकारकव्यतिरेकपरामर्शात्पृथिवीत्वावच्छिन्नोद्देश्यतानिरूपितेतरभेदत्वावच्छिन्नविधेयताका पृथिवी इतरभेदवतीत्याकारकानुमितिर्जायत इति तत्त्वम्। यथाश्रुतमूलार्थस्तु यज्जलं, इतरेभ्यो न भिद्यत इतरभेदाभाववत्, न तद्गन्धवत् जलमितरभेदाभावव्यापकगन्धाभाववत्। न चेयं तथा। इयं पृथिवी न तथा गन्धाभाववती न, किंतु तदभावगन्धवती। तस्मान्न तथा। तस्मात् गन्धाभावाभाववत्त्वात्, न तथा इतरभेदाभाववती न। किंतु इतरभेदाभावाभाववती इतरभेदवतीति पर्यवसन्न इति।
कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - लिङ्गत्रैविध्यम्
लिङ्गं त्रिविधम्। अन्वयव्यतिरेकि, केवलान्वयि, केवलव्यतिरेकि चेति। अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि। यथा वह्नौ साध्ये धूमवत्त्वम्। यत्र धूमस्तत्राग्निः यथा महानसम् इत्यन्वयव्याप्तिः। यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा महाह्रद इति व्यतिरेकव्याप्तिः। अन्वयमात्रव्याप्तिकं केवलान्वयि। यथा घटोऽभिधेयः प्रमेयत्वात्पटवत् इति। अत्र प्रमेयत्वाभिधेयत्वयोर्व्यतिरेकव्याप्तिर्नास्ति। सर्वस्यापि प्रमेयत्वादभिधेयत्वाच्च। व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि। यथा पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात्। यदितरेभ्यो न भिद्यते न तद्गन्धवत्, यथा जलम्। न चेयं तथा। तस्मान्न तथेति। अत्र यद्गन्धवत्तदितरभिन्नमित्यन्वयदृष्टान्तो नास्ति। पृथिवीमात्रस्य पक्षत्वात्।
लिङ्गं विभजते अन्वयव्यतिरेकीति।। अन्वयव्यतिरेकिणं लक्षयति अन्वयेनेति। अन्वयः साध्यः, व्यतिरेकः साध्याभावः तृतीयायाः निरूपितत्वमर्थः, तथाच अन्वयनिरूपितव्याप्तिमत्त्वे सति व्यतिरेकनिरूपितव्याप्तिमत्त्वम् अन्वयव्यतिरेकिणो लक्षणम् इति फलितम्। अन्वयव्याप्तिमत्त्वञ्च हेत्वधिकरणवृत्त्यत्यन्ताभावाप्रतियोगिसाध्याधिकरणवृत्तित्वं, व्यतिरेकव्याप्तिमत्त्वञ्च साध्याभावव्यापकीभूताभावप्रतियोगित्वम्, तच्च साध्याभावाधिकरणवृत्त्यत्यन्ताभावाप्रतियोग्यभावप्रतियोगित्वम्। तथाच पर्वतो वह्निमान् धूमात् इत्यत्र धूमरूपसद्धेतौ लक्षणसमन्वयः, (अत्र पर्वतः पक्षः, वह्निः साध्यः, धूमो हेतुः) तथाहि हेतुः धूमः, तदधिकरणं महानसः, तद्वृत्तिः योऽत्यन्ताभावः नहि वह्न्यभावः किन्तु घटाद्यभावः, तत्प्रतियोगी घटादिः, तदप्रतियोगी यस्साध्यः वह्निरूपः साध्यः, तदधिकरणं महानसः, तद्वृत्तित्वं धूमे वर्तते। साध्यः वह्निः साध्याभावः वह्न्यभावः, तदधिकरणं ह्रदः, तद्वृत्तिः योऽत्यन्ताभावः नहि धूमाभावाभावः, परन्तु धूमाभावः, तत्प्रतियोगी धूमः, तदप्रतियोगी योऽभावः धूमाभावः तत्प्रतियोगित्वञ्च धूमे वर्तते इति लक्षणसमन्वयः। अन्वयव्याप्तिमात्रोक्तौ केवलान्वयिनि घटः अभिधेयः प्रमेयत्वात् इत्यत्र प्रमेयत्वरूपहेतौ अतिव्याप्तिः, (अत्र घटः पक्षः, अभिधेयत्वं साध्यम्, प्रमेयत्वं हेतुः) तथाहि हेतुः प्रमेयत्वम् (ईश्वरीयप्रमाविषयत्वम्) तदधिकरणं घटादिः, तद्वृत्ति योऽत्यन्ताभावः नहि अभिधेयत्वाभावः अभिधेयत्वस्यैव (ईश्वरेच्छाविषयत्वस्यैव) सर्वत्रापि विद्यमानत्वात् किन्तु पटाद्यभावः, तदप्रतियोगि यत् साध्यम् अभिधेयत्वरूपं साध्यम्, तदधिकरणं घटादिः, तद्वृत्तित्वं प्रमेयत्वे वर्तते इति। अतः तद्वारणाय व्यतिरेकव्याप्तिशून्यत्वदलम्। तन्निवेशे तु तत्र साध्याभावस्याप्रसिद्धत्वेन तद्घटितव्यतिरेकव्याप्तिमत्त्वस्य तत्राभावात् नातिव्याप्तिः। व्यतिरेकव्याप्तिमत्त्वमात्रोक्तौ पृथिवी इतरभिन्ना गन्धवत्त्वात् इत्यत्र गन्धवत्वरूपकेवलव्यतिरेकिहेतौ अतिव्याप्तिः, (अत्र पृथिवी पक्षः, पृथिवीतरभेदः साध्यः, गन्धवत्त्वम् हेतुः) तथाहि साध्याभावः पृथिवीतरभेदाभावः, तदधिकरणं जलादिकम्, तद्वृत्तिः योऽत्यन्ताभावः नहि गन्धाभावाभावः परन्तु गन्धाभावः, तत्प्रतियोगी गन्धः, तदप्रतियोगी योऽभावः गन्धाभावः, तत्प्रतियोगित्वं गन्धे वर्तते इति। अतः तद्वारणाय अन्वयव्याप्तिमत्त्वं निवेशनीयम्, तन्निवेशे तु गन्धाधिकरणे सर्वत्रापि पृथिवीतरभेदस्य विद्यमानत्वेन हेतुव्यापकसाध्यसामानाधिकरण्यरूपान्वयव्याप्तेः प्रकृतहेतौ सत्त्वेऽपि पृथिवीमात्रस्य पक्षत्वेन जलादौ हेतुसाध्ययोरभावेन च दृष्टान्ताभावेन अन्वयव्याप्तिनिश्चयस्य असम्भवेन वस्तुतः अन्वयव्याप्तिमत्त्वस्य सत्त्वेऽपि निश्चितान्वयव्याप्तिमत्त्वस्यैव अन्वयव्यतिरेकिलक्षणघटकत्वेनाङ्गीकर्तव्यतया गन्धवत्त्वरूपहेतौ निश्चितान्वयव्याप्तिमत्त्वस्याभावात् नातिव्याप्तिः।।
केवलान्वयिलिङ्गं लक्षयति अन्वयेति। अत्र मात्रपदस्य इतरव्यवच्छेदार्थकतया व्यतिरेकव्याप्तिशून्यत्वे सति अन्वयव्याप्तिमत्त्वं केवलान्वयिनो लक्षणमिति फलितम्। घटोऽभिधेयः प्रमेयत्वात् इत्यत्र प्रमेयत्वरूपहेतौ लक्षणसमन्वयः। (अत्र घटः पक्षः, अभिधेयत्वं साध्यम्, प्रमेयत्वं हेतुः) ईश्वरीयज्ञानेच्छाकृतीनां विनिगमनाविरहेण सर्वविषयकत्वस्याङ्गीकर्तव्यतया ईश्वरीयज्ञानतदिच्छाविषयत्वयोः सर्वस्मिन्नपि जगति वर्तमानतया प्रमेयत्वं अभिधेयत्वञ्च केवलान्वयिनी (सर्वत्र वर्तमाने) भवतः। तथाच अत्र हेतुः प्रमेयत्वम्, तदधिकरणं घटादिः तद्वृत्तिः योऽत्यन्ताभावः नहि अभिधेयत्वाभावः परन्तु पटाद्यभावः, तत्प्रतियोगी पटादिः, तदप्रतियोगि यत् साध्यम् अभिधेयत्वरूपं साध्यम्, तदधिकरणं पटादि, तद्वृत्तित्वं प्रमेयत्वे वर्तते, अत्र साध्याभावस्याप्रसिद्धत्वेन व्यतिरेकव्याप्तिप्रसक्त्यभावेन व्यतिरेकव्याप्तिशून्यत्वञ्च अस्तीति लक्षणसमन्वयः। अन्वयव्याप्तिमत्त्वमात्रोक्तौ अन्वयव्यतिरेकिणि अतिव्याप्तिः, तद्वारणाय व्यतिरेकव्याप्तिशून्यत्वम्, तन्निवेशे तत्र व्यतिरेकव्याप्तेरपि सम्भवेन तच्छून्यत्वस्याभावात् नातिव्याप्तिः। व्यतिरेकव्याप्तिशून्यत्वमात्रोक्तौ पर्वतो धूमवान् वह्नेः इत्यत्र (अत्र पर्वतः पक्षः, धूमः साध्यः, वह्निः हेतुः) वह्निरूपव्यभिचारिहेतौ अन्वयव्यतिरेकव्याप्त्योः द्वयोरप्यभावेन व्यतिरेकव्याप्तिशून्यत्वस्यापि सम्भवात् अतिव्याप्तिः अन्वयव्याप्तिमत्त्वनिवेशे तु तस्यासद्धेतुतया अन्वयव्याप्तिमत्त्वस्याप्यभावात् नातिव्याप्तिः।
केवलव्यतिरेकिणो लक्षणमाह व्यतिरेकेति। (अत्र पृथिवी पक्षः इतरभेदः साध्यः गन्धवत्त्वं हेतुः) केवलव्यतिरेकः अत्रास्तीति केवलव्यतिरेकि, व्यतिरेकव्याप्तिरेवात्र विद्यते नान्वयव्याप्तिरित्यर्थः। अन्वयव्याप्तिशून्यत्वे सति व्यतिरेकव्याप्तिमत्त्वं केवलव्यतिरेकिणो लक्षणम्। अत्र साध्यः पृथिवीतरभेदः, तदभावः पृथिवीतरभेदाभावः, तदधिकरणं जलादिकम्, तद्वृत्तिः योऽत्यान्ताभावः नहि गन्धाभावाभावः किन्तु गन्धाभावः तत्प्रतियोगी गन्धः, अप्रतियोगी योऽभावः गन्धाभावः तत्प्रतियोगित्वं गन्धे वर्तते एवं हेत्वधिकरणं पुष्पादि, तद्वृत्तिः योऽत्यन्ताभावः नहि इतरभेदाभावः किन्तु पटाद्यभावः, तत्प्रतियोगी पटादिः, तदप्रतियोगी यः साध्यः पृथिवीतरभेदरूपः साध्यः, तदधिकरणं पृथिवी, तद्वृत्तित्वस्यापि गन्धे सत्त्वेनान्वयव्याप्तिशून्यत्वासम्भवेऽपि अत्र लक्षणे निश्चितान्वयव्याप्तिशून्यत्वस्यैव निवेशनीयतया अत्र पृथिवीमात्रस्य पक्षत्वेन जलादौ हेतुसाध्ययोः अभावेन च यत्र गन्धः तत्र इतरभेदः इत्यत्र अन्वयदृष्टान्ताभावेन अन्वयव्याप्तिनिश्चियासम्भवेन निश्चितान्वयव्याप्तिशून्यत्वरूपलक्षणमपि गन्धरूपहेतौ उपपद्यते इति लक्षणसमन्वयः। अन्वयव्याप्तिशून्यत्वमात्रोक्तौ पर्वतो धूमवान् वह्नेः इत्यत्र वह्निरूपहेतावतिव्याप्तिः। व्यतिरेकव्याप्तिमत्त्वमात्रोक्तौ अन्वयव्यतिरेकिणि अतिव्याप्तिः, अतो दलद्वयोपादानम्। केवलव्यतिरेकिस्थले पञ्चावयववाक्यमुदाहरति यदिति। यत् जलम्, इतरेभ्यः न भिद्यते इतरभेदाभाववत्, तज्जलम्, न गन्धवत् गन्धाभाववत्, नचेयं तथा, इयं पृथिवी न तथा गन्धाभाववती न, किन्तु गन्धाभावाभाववती गन्धवतीति फलितोऽर्थः। तस्मात् गन्धाभावाभाववत्त्वात् गन्धवत्त्वात् न तथा इतरभेदाभाववती न, किन्तु इतरभेदाभावाभाववती इतरभेदवतीति पर्यवसितोऽर्थः।