मूलम् - स्वार्थपरार्थानुमाने - 42
अनुमानं द्विविधं स्वार्थं परार्थं च। तत्र स्वार्थं स्वानुमितिहेतुः। तथाहि स्वायमेवभूयो दर्शनेन यत्र यत्र धूमस्तत्र तत्राग्निरिति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतस्तद्गते चाग्नौ सन्दिहानः पर्वते धूमं पश्यन्व्याप्तिंस्मरति यत्र यत्रधूमस्तत्र तत्राग्निरिति। तदनन्तरं वह्निव्याप्यधुमवानयं पर्वत इतिज्ञानमुत्पद्यते। अयमेव लिङ्गपरामर्श इत्युच्यते। तस्मात्पर्वतो वह्निमानिति ज्ञानमनुमितिरुत्पद्यते। तदेतत्स्वार्थानुमानम्। यत्तु स्वयं धूमादग्निमनुमाय परप्रतिपत्त्यर्थं पञ्चावयववाक्यं प्रयुङ्कते तत्परार्थानुमानम्। यथा पर्वतो वह्निमान्धूमवत्वाद्यो यो धूमवान्स स वह्निमान्यथा महानसः। तथा चायं। तस्मात्तथेति। अनेन प्रतिपादिताल्लिङ्गात्परोऽप्यग्निं प्रतिपद्यते॥ ४१॥
Tags - 42
अनुमानम्, स्वार्थानुमानम्, परार्थानुमानम्, पञ्चावयववाक्यः
दीपिका - स्वार्थानुमानम्
अनुमानं विभजते- अनुमानमिति। स्वार्थानुमानं दर्शयति- स्वयमेवेति। ननु पार्थिवत्वलोहलेख्यत्वादौ शतशः सहचारदर्शनेऽपि वज्रमणौ व्यभिचारोपलब्धेः भूयो दर्शनेन कथं व्याप्तिग्रह इति चेन्न। व्यभिचारज्ञानविरहसहकृतसहचारज्ञानस्य व्याप्तिग्राहकत्वात्। व्यभिचारज्ञानं निश्चयः शङ्का च, तद्विरह: क्वचित्तर्कात्, क्वचित् स्वतःसिद्ध एव। धूमाग्न्योः व्याप्तिग्रहे कार्यकारणभावभङ्गप्रसङ्गलक्षणस्तर्को व्यभिचारशङ्कानिवर्तकः। ननु सकलवह्निधूमयोरसन्निकर्षात्कथं व्याप्तिग्रह इति चेन्न। वह्नित्वधूमत्वरूपसामान्यलक्षणप्रत्यासत्त्या सकलवह्निधूमज्ञानसम्भवात्। तस्मादिति। लिङ्गपरामर्शादित्यर्थः।
दीपिका - परार्थानुमानम्
प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवाः। पर्वतो वह्निमानिति प्रतिज्ञा। धूमवत्त्वादिति हेतुः। यो यो धूमवान् सोऽग्निमान् यथा महानस इत्युदाहरणम्। तथा चायमित्युपनयः। तस्मात्तथेति निगमनम्। स्वार्थानुमितिपरार्थानुमित्योर्लिङ्गपरामर्श एव कारणम्। तस्माल्लिङ्गपरामर्शोऽनुमानम्।
परार्थानुमानमाह- यत्त्विति। यच्छब्दस्य तत्परार्थानुमानमिति तच्छब्देनान्वयः। पञ्चावयववाक्यमुदाहरति- यथेति।
अवयवस्वरूपमाह- प्रतिज्ञेति। उदाहृतवाक्ये प्रतिज्ञादिविभागमाह- पर्वतो वह्निमानिति। साध्यवत्तया पक्षवचनं प्रतिज्ञा। पञ्चम्यन्तं लिङ्गप्रतिपादकं वचनं हेतुः। व्याप्तिप्रतिपादकं वचनमुदाहरणम्। व्याप्तिविशिष्टलिङ्गप्रतिपादकं वचनमुपनयः। हेतुसाध्यवत्तया पक्षप्रतिपादकं वचनं निगमनम्। पक्षे साध्यज्ञानं प्रतिज्ञाप्रयोजनम्। लिङ्गज्ञानं हेतुप्रयोजनम्। व्याप्तिज्ञानमुदाहरणप्रयोजनम्। पक्षधर्मताज्ञानमुपनयप्रयोजनम्। अबाधितत्वं निगमनप्रयोजनम्।
दीपिका - अनुमेयनिर्णयः
अनुमितिकरणमाह- स्वार्थेति। ननु व्याप्तिस्मृतिपक्षधर्मताज्ञानाभ्यामेवानुमितिसंभवे विशिष्टपरामर्शः किमर्थमङ्गीकर्तव्य इति चेन्न। वह्निव्याप्यवानयमिति शाब्दपरामर्शस्थले परामर्शस्यावश्यकतया लाघवेन सर्वत्र परामर्शस्यैव कारणत्वात् लिङ्गं न करणम् अतीतादौ व्यभिचारात्। व्यापारवत्कारणं करणमिति मते परामर्शद्वारा व्याप्तिज्ञानं करणम्। तज्जन्यत्वे सति तज्जन्यजनको व्यापारः। अनुमानमुपसंहरति- तस्मादिति।
गोवर्धन-न्यायबोधिनी - स्वार्थानुमानविभागः
अनुमानं विभजते। स्वार्थमिति।
गोवर्धन-न्यायबोधिनी - स्वार्थानुमानम्
स्वार्थानुमानं नाम न्यायाप्रयोज्यानुमानम्।
गोवर्धन-न्यायबोधिनी - परार्थानुमानम्
तत्प्रयोज्यानुमानं(न्यायप्रयोज्या) परार्थानुमानम्। न्यायत्वं च प्रतिज्ञाद्यवयवपञ्चकसमुदायत्वम्। अवयवत्वं च प्रतिज्ञाद्यन्यतमत्वम्।
कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - स्वार्थपरार्थानुमानभेदः
अनुमानं द्विविधम्, स्वार्थं परार्थञ्चेति। स्वार्थं स्वानुमितिहेतुः। तथाहि, स्वयमेव भूयो दर्शनेन यत्र धूमः तत्राग्निरिति महानसादौ धूमे वह्निव्याप्तिं गृहीत्वा पर्वतसमीपं गतः तद्गते च अग्नौ सन्दिहानः पर्वते धूमं पश्यन् व्याप्तिं स्मरति यत्र धूमः तत्राग्निरिति। तदनन्तरं वह्निव्याप्यधूमवानयं पर्वतः इति ज्ञानमुत्पद्यते। अयमेव लिङ्गपरामर्शः इत्युच्यते । तस्मात् पर्वतो वह्निमान् इत्यनुमितिरुत्पद्यते। तदेतत् स्वार्थानुमानम्।।
स्वार्थानुमानं दर्शयति स्वयमेवेति। (स्वस्यार्थः अनुमितिरूपं प्रयोजनं यस्मात्तत् स्वार्थं स्वार्थञ्च तत् अनुमानञ्च इति समासः) न्यायाप्रयोज्यत्वे सति अनुमानत्वं स्वार्थानुमानस्य लक्षणम्। (न्यायः पञ्चावयववाक्यसमुदायः) अनुमानत्वमात्रोक्तौ परार्थानुमाने न्यायाप्रयोज्यत्वमात्रोक्तौ घटादौ च अतिव्याप्तिरिति दलद्वयोपादानम्। अत्र च स्वार्थानुमानसामग्रीं दर्शयति स्वयमेवेत्यादिना । प्रथमम्, भूयोदर्शनेनेत्यनेन भूयोदर्शनम् तदनु महानसादौ वह्निव्याप्तिं गृहीत्वेत्यनेन व्याप्त्यनुभवः। तद्गते चाग्नौसन्दिहानः इत्यनेन साध्यसंशयरूपा पक्षता । पर्वते धूमं पश्यन् इत्यनेन पक्षधर्मताज्ञानम्। व्याप्तिं स्मरतीत्यनेन व्याप्तिस्मृतिः। सा च एकसम्बन्धिज्ञानमपरसम्बन्धिस्मारकमिति, न्यायेन पक्षधर्मताज्ञानस्य एकसम्बन्धिरूपधूमविषयकज्ञानत्वेन अपरसम्बन्धिन्याः व्याप्तेः स्मारकत्वात् पक्षधर्मताज्ञानरूपैकसम्बन्धिज्ञानजन्या भवति। व्याप्तिस्मृत्युत्तरं परामर्शः तदन्वनुमितिः, इति क्रमः अनेन वाक्यसमुदायेन बोध्यते।
यत्तु स्वयमेव धूमादग्निमनुमाय परप्रतिपत्त्यर्थं पञ्चावयववाक्यं प्रयुङ्क्ते तत्परार्थानुमानम्। यथा, पर्वतो वह्निमान्, धूमवत्त्वात्, यो यो धूमवान् स सोऽग्निमान् यथा महानसम्, तथाचायम्, तस्मात्तथेति। अनेन वाक्येन प्रतिपादितात् लिङ्गात् परोऽप्यग्निं प्रतिपद्यते। प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्च अवयवाः। पर्वतो वह्निमानिति प्रतिज्ञा। धूमवत्त्वादिति हेतुः। यो यो धूमवान् सोऽग्निमान् यथा महानसम् इत्युदाहरणम्। तथाचायमित्युपनयः। तस्मात्तथेति निगमनम्। स्वार्थानुमितिपरार्थानुमित्योः लिङ्गपरामर्शोऽनुमानम्।
परार्थानुमानमुदाहरति- यत्त्विति। न्यायप्रयोज्यत्वे सत्यनुमानत्वं परार्थानुमानस्य लक्षणम्। अनुमानत्वमात्रोक्तौ स्वार्थनुमाने न्यायप्रयोज्यत्वमात्रोक्तौ न्यायध्वंसे च अतिव्याप्तिः, अतो दलद्वयोपादानम्। अवयवनामान्युदाहरति प्रतिज्ञेति। क्रमेणावयवस्वरूपमाह पर्वतो वह्निमानिति। उदाहृतवाक्ये प्रतिज्ञादिविभागमाह पर्वतो वह्निमानिति प्रतिज्ञेति। पञ्चावयववाक्यप्रयोज्यशाब्दबोधप्रकारः इत्थम्, प्रतिज्ञावाक्यात् वह्निमदभिन्नः पर्वतः इति बोधः। हेतुवाक्यात् धूमादित्यत्र पञ्चम्याः हेतुत्वार्थकतया धूमस्याधेयत्वसम्बन्धेन हेतुत्वाऽन्वये च धूमनिष्ठं हेतुत्वमिति बोधः। उदाहरणवाक्यात् यो यः स स इत्यादिपदानाम् अग्निपदस्य धूमव्यापकवह्नौ लक्षणायां तात्पर्यग्राहकतया विनियुक्तत्वेन धूमवान् धूमव्यापकवह्निमान् इति बोधः भवति। उपनयवाक्यात् तच्छब्देन वह्निव्याप्यधूमबोधने थाल्प्रत्ययस्य आश्रयत्वार्थकत्वे च वह्निव्याप्यधूमवान् पर्वतः इति बोधः भवति । निगमनवाक्यात् तच्छब्दस्य वह्निव्याप्यधूमपरामर्शकत्वे पञ्चम्या ज्ञानज्ञाप्यत्वबोधने च वह्निव्याप्यधूमज्ञानज्ञाप्यवह्निमान् पर्वतः इति बोधः भवति । अत्र पूर्वपूर्वबोधोत्पन्नसंस्कारसहितचरमवाक्यजनिततावद्वाक्यार्थविषयकसमूहालम्बनबोधानन्तरं मानसिकं वह्निव्याप्यधूमवान् पर्वतः इति परामर्शमात्रमुत्पद्यते, न तु पृथक् पक्षधर्मताज्ञानं व्याप्तिस्मृतिश्च भवतः, तयोः पृथक्कल्पने गौरवात् प्रत्येकशाब्दबोधैः तत्स्थानापन्नैरेव चारितार्थ्यात्। ननु सर्वत्र करणत्वस्य व्यापारजनकत्वघटिततया पक्षधर्मत्वाविषयकस्य व्याप्तिज्ञानमात्रस्यैव परामर्शद्वाराऽनुमितिकरणत्वेन स्वार्थानुमितिपरार्थानुमित्योः लिङ्गपरामर्श एव करणमिति कथनमनुपपन्नमिति चेन्न, स्वार्थानुमानस्थले पूर्वोक्तक्रमेण व्याप्तिपक्षधर्मताज्ञानयोः पृथक् सम्भवेऽपि परार्थानुमानस्थले केवलशाब्दपरामर्शस्थले च तयोः सम्भवाभावेन परामर्शस्य तूभयत्र सम्भवेन च अनुपपत्तेः अभावात् । नचैवं परमर्शस्य व्यापाराभावात् करणत्वमनुपपन्नमिति वाच्यम्, करणत्वलक्षणे व्यापारजनकत्वविशेषणाभावेऽपि क्षत्यभावात्। नचैवं व्यापारे (परामर्शे) अनुमानलक्षणातिव्याप्तिरिति वाच्यम्, तस्य लक्ष्यत्वात्।
टिप्पणी- यत्तु स्वयमेव धूमादग्निमनुमायेत्यत्र। नन्वत्र यत्तु पञ्चावयववाक्यमित्यत्र यच्छब्दस्य पञ्चावयववाक्यपरतया परार्थानुमानस्य व्याप्तिज्ञानरूपतया उभयोः भेदात् तत् परार्थानुमानमिति तच्छब्देन परामर्शोऽनुपपन्नः, यत्तच्छब्दार्थयोरैक्यनियमात् प्रकृते तदभावात् इति चेन्न, परस्यार्थः अनुमितिरूपं प्रयोजनं यस्मात् तत् परार्थम्, परार्थम् अनुमानं यस्मात् तत् इति उभयत्र बहुव्रीहिसमासादरे परार्थानुमानप्रयोजकस्य पञ्चावयववाक्यस्य बोध्यत्वेन तत् परार्थानुमानमिति तच्छब्देन परामर्शे अनुपपत्त्यभावात्। यद्वा, यदित्यस्याव्ययतया चतुर्थीविभक्त्यर्थबोधकत्वमङ्गीकृत्य यत् यदर्थं यादृशलिङ्गपरामर्शार्थं पञ्चावयववाक्यं प्रयुङ्क्ते तत् लिङ्गपरामर्शोऽनुमानम् इति समन्वये पूर्वोक्तानुपपत्त्यभावात्, यत्तच्छब्दयोरेकार्थकत्वमपि सम्भवतीति नानुपपत्तिः।। अथवा, आयुः घृतं लाङ्गलं जीवनम् इतिवत् प्रयोज्यप्रयोजकयोः अभेदोपचारात् उपपत्तिः बोध्या।।