मूलम् - अनुमानम् - 41
अनुमितिकरणमनुमानम्। परामर्शजन्यं ज्ञानमनुमितिः। व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः। यथा वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानं परामर्शः। तज्जन्यं पर्वतो वह्निमानिति ज्ञानमनुमितिः। यत्र यत्र धूमस्तत्र तत्राग्निरिति साहचर्यनियमो व्याप्तिः। व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता॥ ४०॥
Tags - 41
अनुमानम्, प्रमाणम्, व्याप्तिः, परामर्शः
दीपिका - परामर्शः
अनुमानं लक्षयति-अनुमितिकरणमिति। अनुमितिं लक्षयति- परामर्शेति। ननु संशयोत्तरप्रत्यक्षेऽतिव्याप्तिः। स्थाणुपुरुषसंशयानन्तरं पुरुषत्वव्याप्यकरादिमानयमिति परामर्शे सति पुरुष एवेति प्रत्यक्षजननात्। न च तत्रानुमितिरेवेति वाच्यम्। “पुरुषं साक्षात्करोमि” इत्यनुव्यवसायविरोधादिति चेन्न। पक्षतासहकृतपरामर्शजन्यत्वस्य विवक्षितत्वात्। सिषाधयिषाविरहविशिष्टसिद्ध्यभावः पक्षता। साध्यसिद्धिरनुमितिप्रतिबन्धिका। सिद्धिसत्त्वेऽप्यनुमिनुयामीतीच्छायामनुमितिदर्शनात् सिषाधयिषोत्तेजिका। ततश्चोत्तेजकाभावविशिष्टमण्यभावस्य दाहकारणत्ववत् सिषाधयिषाविरहविशिष्टसिद्ध्यभावस्याप्यनुमितिकरणत्वम्। परामर्शं लक्षयति- व्याप्तीति। व्याप्तिविषयकं यत्पक्षधर्मताज्ञानं स परामर्श इत्यर्थः। परामर्शमभिनीय दर्शयति-यथेति। अनुमितिमभिनीय दर्शयति- तज्जन्यमिति। परामर्शजन्यमित्यर्थः।
दीपिका - व्याप्तिः
व्याप्तिलक्षणमाह-यत्रेति। यत्र धूमस्तत्राग्निरिति व्याप्तेरभिनयः। साहचर्यनियम इति लक्षणम्। साहचर्यं सामानाधिकरण्यम्, तस्य नियमः हेतुसमानाधिकरणा त्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यं व्याप्तिरित्यर्थः।
दीपिका - पक्षधर्मता
पक्षधर्मतास्वरूपमाह-व्याप्यस्येति।
वरदाचार्य आलोके - अनुमानम्
तर्कसंग्रहः
॥ अथ अनुमानखण्डः॥
अनुमितिकरणमनुमानम्। परामर्शजन्यं ज्ञानमनुमितिः। व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः। यथा ‘वह्निव्याप्यधूमवानयं पर्वत:’ इति ज्ञानं परामर्श:। तज्जन्यं ‘पर्वतो वह्निमान्’ इति ज्ञानमनुमिति:।
आलोक-व्याख्या
क्रमप्राप्तमनुमानं निरूपयति- अनुमितीत्यादि। अनुमितेः करणम् अनुमितिकरणम्। करणम् - करणतावत् - असाधारणकारणतावदित्यर्थः। अनुमितेरित्यत्र षष्ठ्याः कार्यत्वमर्थः। तत्र च प्रकृत्यर्थस्याधेयतासंबन्धेनान्वयः। कार्यताया निरूपितत्वसंबन्धेन असाधारणकारणतायामन्वयः। तथा च अनुमितिनिष्ठकार्यतानिरूपितासाधारणकारणतावत् अनुमानम् इति शाब्दबोधः। लक्षणं तु अनुमितिनिष्ठकार्यतानिरूपितासाधारणकारणतावत्त्वम् इति। अनुमितिनिष्ठा का कार्यतेति चेत् ? ‘पर्वतो वह्निमान्’ इत्याद्यनुमितिनिष्ठा कार्यता। तन्निरूपितासाधारणकारणता व्याप्तिज्ञाननिष्ठा कारणता। तादृशकारणतावत् व्याप्तिज्ञानं भवतीति व्याप्तिज्ञानमेवानुमानपदवाच्यमित्यर्थः। नव्यमते तु परामर्श एवानुमितिकरणम्। कार्यसामान्यं प्रति कालेश्वरादृष्टादेः कारणत्वात्, अनुमितिनिष्ठकार्यतानिरूपितकारणत्वं कालेश्वरादावस्तीत्यतिव्याप्तिः स्यादिति असाधारणेति विशेषणम्। तेषां साधारणकारणत्वान्नातिव्याप्तिः। व्यापारवत् कारणं करणमिति लक्षणे व्याप्तिज्ञानं परामर्शद्वारानुमितिं जनयतीति परमर्शो व्यापारः, तद्वत्करणं व्याप्तिज्ञानमिति समन्वयः।
अनुमितिर्नाम का ? अनुमानजन्यं ज्ञानमनुमितिकथन अन्योन्याश्रय इत्यतः- परामर्शजन्यं ज्ञानमनुमितिरित्युक्तम्। वस्तुतस्तु ‘अनुमिनोमि’ इत्यनुव्यवसायसिद्धो ज्ञानविशेषोऽनुमितिः। तत्करणं व्याप्तिज्ञानमनुमानम्।
परामर्शो नाम कः ? इत्यत्राह- व्याप्तीत्यादि। व्याप्त्या विशिष्टम् व्याप्तिविशिष्टम्। व्याप्तिविशिष्टस्य पक्षधर्मताज्ञानम् - पक्षवृत्तित्वज्ञानम् व्याप्तिविशिष्टपक्षधर्मताज्ञानम्। ‘पर्वतो वह्निमान्’ इत्यनुमितिं प्रति ‘वह्निव्याप्यधूमवान् पर्वतः’ इति ज्ञानं कारणम्। वह्निव्याप्यः वह्निनिरूपितव्याप्तिविशिष्टः = धूमः। तस्य पक्षवृत्तित्वज्ञानम् वह्निव्याप्यधूमवान् पर्वत इति ज्ञानम्। तदेव परामर्शः।
अनुमितेः क्रम एवम् - प्रथमं पर्वते धूमं दूरात्पश्यति। तदा ‘पर्वतो धूमवान्’ इति ज्ञानं जायते। इदमेव पक्षधर्मताज्ञानमित्युच्यते। एतस्मिन् ज्ञाने जाते, अनन्तरं, महानसादौ गृहीतां ‘यत्र धूमस्तत्र वह्निः’ इति व्याप्तिं स्मरति। ततः वह्निव्याप्यधूमवानिति परामर्शः। ततः ‘पर्वतो वह्निमान्’ इत्यनुमितिः। ततश्च प्रथमं पक्षधर्मताज्ञानम्। ततः व्याप्तिस्मरणम्। ततः परामर्शः। ततः अनुमितिरिति क्रमः। अत्र व्याप्तिविशिष्टस्य हेतोः पक्षे वैशिष्ट्यावगाहित्वात् परामर्शो विशिष्टवैशिष्ट्यावगाहिज्ञानरूपो भवति।
तर्कसंग्रहः
यत्र धूमस्तत्राग्निरिति साहचर्यनियमो व्याप्तिः।
आलोक- व्याख्या
व्याप्तिर्नाम केत्यत्राह - यत्रेत्यादि। ‘साहचर्यनियमः’ इति व्याप्तेर्लक्षणम्। तदभिलापकं वाक्यम् ‘यत्र धूमस्तत्राग्निः’ इति। साहचर्यं सामानाधिकरण्यम्। तस्य नियमः - अव्यभिचारः। कादाचित्कं साहचर्यं न व्याप्तिः। सार्वकालिकसाहचर्यं ययोर्वर्तते, तत्र तयोस्साहचर्यनियमः नियतं साहचर्यं वा स्यात्। यथा वह्निधूमयोः। यत्र यत्र धूमः स्यात्, तत्र सर्वत्रापि वह्निरपि स्यात्। एतादृशं वह्निसाहचर्यं धूमे वर्तत इति वह्निव्याप्तिर्धूमे वर्तते। तेन च वह्निव्याप्यो धूमश्च भवति। एवमव्यभिचरितः संबन्धो ययोर्वर्तते, तत्र तयोर्व्याप्तिर्वर्तत एव। यत्र तु कादाचित्कं साहचर्यम्, तत्र तु न व्याप्तिः। यथा धनसुखयोः। लोके कश्चित् धनवान् सुखी दृष्ट इति ‘अयं सुखी, धनवत्त्वात्’ इति यदि ब्रूयात्, तदा व्यभिचारः स्यात्। धनमात्रं न हि सुखसाधनम्, धनवतो रोगपीडायां सुखाभावात्। किन्तु विवेक एव सुखसाधनम्। अतो ‘यत्र धनम्, तत्र सुखम्’ इति न व्याप्तिः। दुःखवत्यपि धनसत्त्वात्। अतोऽयं व्यभिचरितो हेतुः।
तथा च साहचर्यनियमो नाम अव्यभिचरितं साहचर्यम्। ततश्चाव्यभिचरितत्वमेव व्याप्तिः। अव्यभिचरितत्वं च व्यभिचाराभावः। व्यभिचारो नाम तदभाववत्यपि सत्त्वम्। यथा ‘धूमवान् वह्नेः’ इत्युक्ते, धूमवति महानसादौ यद्यपि वह्निर्वर्तते। अथापि धूमाभाववति तप्तायःपिण्डेऽपि वर्तते। अतस्साहचर्यस्य नियमो नास्ति, धूमाभाववद्वृत्तित्वाद्वह्नेः। अयमेव व्यभिचार इत्युच्यते। ततश्च साध्याभाववद्वृत्तित्वं व्यभिचारः। साध्याभाववदवृत्तित्वमव्यभिचारः। इयमेव व्याप्तिरित्युच्यते।
‘वह्निमान् धूमात्’ इत्यादौ लक्षणसमन्वयः। अत्र साध्यो वह्निः। साध्याभावः वह्न्यभावः। तद्वान् ह्रदादिः। तदवृत्तित्वं धूमे वर्तत इति। ‘धूमवान् वह्नेः’ इत्यादिव्यभिचारिणि - साध्यो धूमः। साध्याभावो धूमाभावः। तद्वत् अयोगोलकमपि। तद्वृत्तित्वमेव हेतौ वह्नौ वर्तते, न त्ववृत्तित्वमिति नातिव्याप्तिः।
अत्र साध्याभावो नाम साध्यनिष्ठप्रतियोगितानिरूपकोऽभावः। तत्र प्रतियोगितायां साध्यतावच्छेदकसंबन्धावच्छिन्नत्वं निवेशनीयम्। अन्यथा ‘पर्वतो वह्निमान् धूमात्’ इत्यादिसद्धेतावव्याप्तिः। अत्र साध्यो वह्निः। तन्निष्ठप्रतियोगितानिरूपकोऽभावः ‘वह्निर्नास्ति’ इति प्रतीतिसिद्धोऽभावः। स च यद्यपि पर्वते न संभवति। परन्तु वह्नेः संयोगसंबन्धेनैव पर्वतादौ सत्त्वात्, ‘समवायसम्बन्धेन पर्वते वह्निर्नास्ति’ इति प्रतीतेः प्रामाणिकत्वात् समवायसम्बन्धावच्छिन्नवह्निनिष्ठप्रतियोगितानिरूपको वह्न्यभावः पर्वते वर्तते। ततश्च साध्याभाववान्=वह्न्यभाववान् पर्वतः। तद्वृत्तित्वमेव हेतौ धूमे वर्तते, न त्ववृत्तित्वमित्यव्याप्तिरित्यतः, प्रतियोगितायां साध्यतावच्छेदकसंबन्धावच्छिन्नत्वस्य निवेशनेनाव्याप्तेः परिहारात्। येन संबन्धेन यत् साध्यते, स संबन्धः साध्यतावच्छेदकसंबन्धः। तथा च साध्यतावच्छेदक- संबन्धावच्छिन्नसाध्यनिष्ठप्रतियोगितानिरूपकाभाववदवृत्तित्वं व्याप्तिः इति लक्षणम्। पर्वते च वह्निः संयोगसंबन्धेन साध्यत इति संयोगसंबन्ध एव साध्यतावच्छेदकसंबन्धः। संयोगसंबन्धावच्छिन्नवह्निनिष्ठप्रतियोगितानिरूपकाभावस्तु ‘संयोगेन वह्निर्नास्ति’ इति प्रतीतिसिद्धाभाव एव। स तु पर्वते न स्यात्, संयोगेन वह्नेः पर्वते सत्त्वात्। किन्तु हृदादिरेव तादृशाभाववान्। तदवृत्तित्वं च हेतौ धूमे वर्तत इति नाव्याप्तिः।
अथैवमपि पर्वते वह्नेः सत्त्वेऽपि ‘पर्वते संयोगसंबन्धेन महानसीयवह्निर्नास्ति’ इति प्रतीतेः प्रामाणिकत्वात् संयोगसंबन्धावच्छिन्नवह्नि- निष्ठप्रतियोगितानिरूपकोऽभावः महानसीयवह्न्यभावोऽपि। महानसीयवह्नेरपि वह्नित्वेन महानसीयवह्न्यभावोऽपि वह्न्यभाव एव। स तु पर्वते वर्तत एव। महानसीयवह्नेर्महानस एव सत्त्वात्, पर्वतेऽसंभवात्। तथा च संयोगसंबन्धा- वच्छिन्नवह्निनिष्ठप्रतियोगितानिरूपकाभाववान् पर्वतः। तद्वृत्तित्त्वमेव हेतौ धूमे वर्तते, न त्ववृत्तित्वमित्यव्याप्तिरिति चेत्, न। प्रतियोगितायां साध्यतावच्छेदकधर्मावच्छिन्नत्वस्यापि निवेशनात्। येन धर्मेण यः साध्यः, स धर्मः साध्यतावच्छेदकधर्मः। प्रकृते च वह्निर्वह्नित्वरूपधर्मेणैव साध्यः, न तु महानसीयवह्नित्वेन रूपेण, महानसीयवह्नेः पर्वतेऽसंभवात्। साध्यतावच्छेदकीभूतवह्नित्वावच्छिन्नप्रतियोगितानिरूपकाभावः ‘वह्निर्नास्ति’ इति प्रतीतिसिद्धाभाव एव। न तु महानसीयवह्न्यभावः। अस्य महानसीय- वह्नित्वावच्छिन्नत्वेन केवलवह्नित्वावच्छिन्नत्वाभावात्। वह्नित्वावच्छिन्नाभावस्तु पर्वते न संभवति, पर्वते वह्नेः संयोगसंबन्धेन सत्त्वात्। अतः संयोगसंबन्धावच्छिन्नवह्नित्वावच्छिन्नप्रतियोगितानिरूपकाभाववान् ह्रदादिरेव। तदवृत्तित्त्वं धूमे वर्तत इति नाव्याप्तिः। तथा च लक्षणम् साध्यतावच्छेदकसंबन्धावच्छिन्न-साध्यतावच्छेदकधर्मावच्छिन्नप्रतियोगितानिरूपकाभाववदवृत्तित्वं व्याप्तिरिति संपन्नम्।
नन्वेवमपि महानसीयवह्न्यभावीयप्रतियोगितायां महानसीयत्वस्य वह्नित्वस्य चावच्छेदकतया भानात् सा प्रतियोगिता वह्नित्वावच्छिन्नापि भवतीति महानसीयवह्न्यभावस्य वारणं न भवतीति तादृशाभाववान् पर्वतः। तद्वृत्तित्वमेव हेतौ धूमे वर्तत इत्यव्याप्तिस्तदवस्थैवेति चेत्, न। साध्याभावीयप्रतियोगितायां वैशिष्ट्यानवच्छिन्नत्वस्यापि विशेषणात्। तथा च साध्यतावच्छेदकसंबन्धावच्छिन्न-वैशिष्ट्यानवच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताकाभाववदवृत्तित्वं व्याप्तिः। एवञ्च महानसीयवह्न्यभावप्रतियोगिताया महानसीयत्वविशिष्टवह्नित्वावच्छिन्नत्वेन वैशिष्ट्यावच्छिन्नत्वात्, वैशिष्ट्यानवच्छिन्नप्रतियोगिताकाभावो महानसीयवह्न्यभावो न भवति, किन्तु शुद्धवह्न्यभाव एव। तद्वांश्च ह्रदादिरेव। न तु पर्वतः। तदवृत्तित्वं धूमे वर्तत इति नाव्याप्तिः।
अथैवमपि पर्वतो वह्निमान् धूमात् इत्यत्र अव्याप्तिर्दुर्वारैव। तथाहि घटवत्यपि भूतले पटस्यासत्त्वे ‘घटोपटोभयमस्ति वा?’ इति प्रश्ने ‘घटपटोभयं नास्ति’ इत्येवोत्तरं वक्तव्यम्। एवं पर्वते वह्नेः सत्त्वेऽपि घटस्याभावेन एकसत्त्वेऽपि द्वयं नास्तीति प्रतीतेः प्रामाणिकत्वेन वह्निघटोभयं नास्तीति प्रतीत्या साध्यतावच्छेदकसंबन्धावच्छिन्न-वैशिष्ट्यानवच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताकाभावो वह्निघटोभयाभावोऽपि भवति। तद्वान् पर्वतोऽपि तद्वृत्तित्वमेव धूमे हेतौ वर्तते। अवृत्तित्वं नास्तीत्यव्याप्तिः।
न च वह्निघटोभयाभावीयप्रतियोगिताया वह्नित्वघटत्वोभय- धर्मावच्छिन्नत्वेन केवलवह्नित्वावच्छिन्नाभावपदेनोभयाभावः स्वीकर्तुं न शक्य इति कथमव्याप्तिरिति वाच्यम्; उभयस्य प्रत्येकानतिरिक्तत्वेन वह्नित्वघटत्वोभयावच्छिन्नत्वे वह्नित्वावच्छिन्नत्वस्यानपायात्, तादृशवह्नित्वावच्छिन्नाभाव इत्यनेन वह्निघटोभयाभावः स्वीकर्तुं शक्य एवेति अव्याप्तिर्दुर्वारैव।
न च घटपटोभयाभावीया प्रतियोगिता वह्निघटोभयनिष्ठा। प्रतियोगितावच्छेदकता तु न केवलं वह्नित्वे घटत्वे च वर्तते, किन्तूभयत्वेऽपि। ‘वह्निघटोभयं नास्ति’ इत्येव प्रतीतेः। ‘वह्निघटौ न स्तः’ इति प्रतीतिरपि उभयविषयिण्येव, द्विवचनेनोभयोरपि क्रोडीकारात्। यथोभयाभावीयप्रतियोगितावच्छेदकता घटत्वे पटत्व उभयत्वे चेति त्रिष्वपि वर्तते, उभयत्वस्य व्यासज्यवृत्तिधर्मत्वात्। लक्षणे व्यासज्यवृत्तिधर्मानवच्छिन्नत्वमपि निवेश्यते। एवञ्च साध्यतावच्छेदकसंबन्धावच्छिन्नवैशिष्ट्यव्यासज्यवृत्तिधर्मानवच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताकाभाववदवृत्तित्वं व्याप्तिः। एवञ्च प्रकृते वह्निघटोभयाभावो न स्वीकर्तुं शक्यः। तदभावीयप्रतियोगिताया वह्नित्वघटत्वोभयावच्छिन्नत्वेन व्यासज्यवृत्ति- धर्मावच्छिन्नत्वेन, व्यासज्यवृत्तिधर्मानवच्छिन्नत्वाभावात्। किन्तु शुद्धवह्न्यभाव एव स्वीकार्यः। तादृशाभाववांस्तु ह्रद एव। तदवृत्तित्वं हेतौ धूमे वर्तत इति नाव्याप्तिरिति वाच्यम्, एवं सत्युभयसाध्यकसद्धेतावव्याप्तिर्दुर्वा। तथाहि नव द्रव्येषु रूपरसौ पृथिवीजलमात्रे वर्तेते। अतः ‘इदं रूपरसोभयवत्, पृथीवीजलान्यतरत्वात्’ इति वक्तुं शक्यते। यत्र यत्र पृथिवीजलान्यतरत्वम्, तत्र रूपरसोभयम्, यथा पृथिवी जलं चेत्यन्वयव्याप्तिः। एवं यत्र रूपरसोभयं नास्ति तेज आदौ, तत्र पृथिवीजलान्यतरत्वं नास्तीति व्यतिरेकव्याप्तिः। तथा चायमन्वयव्यतिरेकी सद्धेतुः। अत्र साध्यतावच्छेदक- संबन्धः समवायः। समवायसंबन्धावच्छिन्नवैशिष्ट्यव्यासज्यवृत्तिधर्मानवच्छिन्न- साध्यतावच्छेदकावच्छिन्नप्रतियोगिताकाभाव इत्यनेन रूपरसोभयाभावो न स्वीकर्तुं शक्यते। अस्योभयत्वरूपव्यासज्यवृत्तिधर्मावच्छिन्नत्वेन व्यासज्यवृत्ति- धर्मानवच्छिन्नप्रतियोगिताकत्वाभावात्। तथा च तत्र लक्षणसमन्वयासंभवादव्याप्तिः। अतश्च व्यासज्यवृत्तिधर्मानवच्छिन्नत्वं साध्याभावीयप्रतियोगितायां निवेशयितुं न शक्यम्। अनिवेशे च ‘पर्वतो वह्निमान् धूमात्’ इत्यादौ वह्निघटोभयाभावमादायाव्याप्तिर्दुर्वारेति सेयमुभयतः पाशा रज्जुरिति चेत् - अत्रोच्यते। साध्याभावनिरूपितप्रतियोगिता-वच्छेदकतायाः पर्याप्तेर्निवेशेन सर्वदोषपरिहारः। तथा च लक्षणम्- साध्यतावच्छेदक-संबन्धावच्छिन्नसाध्यतावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभाववदवृत्तित्वमिति। ‘वह्निमान् धूमात्’ इत्यादौ तादृशाभावो वह्नित्वावच्छिन्नाभाव एव। न तु महानसीयवह्नित्वावच्छिन्नाभावः। महानसीयवह्न्यभावप्रतियोगितावच्छेदकताया महानसीयत्वे वह्नित्वे चेत्युभयत्र पर्याप्तत्वेन केवलवह्नित्वेऽपर्याप्तत्वेन साध्यतावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभाव इत्यनेन महानसीयवह्न्यभावमादाय नाव्याप्तिः। न वा वह्निघटोभयाभावमादायाव्याप्तिः। वह्निघटोभयाभावीयप्रतियोगितावच्छेदकताया वह्नित्वे, घटत्वे, उभयत्वे चेति त्रिषु पर्याप्तत्वेन केवलवह्नित्वेपर्याप्तत्वाभावेन, साध्यतावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्न- प्रतियोगिताकाभावो वह्निघटोभयाभावो न भवति, किन्तु ‘वह्निर्नास्ति’ इति प्रतीतिसिद्धाभाव एव। स च ह्रदादावेव संभवति। तत्र च धूमस्यावृत्तेर्नाव्याप्तिः।
नन्वेवमप्युभयस्य प्रत्येकानतिरिक्तत्वेन, प्रत्येकापर्याप्तस्य समुदायपर्याप्तत्वायोगात्, वह्निघटोभयाभावीयप्रतियोगितावच्छेदकता यदि वह्निवे, घटत्वे, उभयत्वे च पर्याप्ता, तर्हि वह्नित्वेऽपि पर्याप्तैवेति साध्यतावच्छेदकतापर्याप्त्यधिकरणधर्मो वह्नित्वमपि। तदवच्छिन्नप्रतियोगिताकाभावो वह्निघटोभयाभावोऽपीति तद्व्यावृत्तेः कर्तुमशक्यत्वेन कथमव्याप्तेः परिहार इति चेत्, न। साध्यतावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकधर्मावच्छिन्नपर्याप्तावच्छेदकताकप्रतियोगिकाभावविवक्षणेनोभयाभावव्यावृत्तेः। तथाहि घटवत्यपि भूतले, पटस्यासत्त्वे ‘घटपटोभयं नास्ति’ इति प्रतीतिः प्रामाणिकी, ‘घटो नास्ति’ इति प्रतीतिस्तु न प्रामाणिकीति सर्वसंमतम्। अनयोः प्रतीत्योः किं वैलक्षण्यम् ? घटाभावीयप्रतियोगितावच्छेदकता घटत्वमात्रे पर्याप्ता। घटपटोभयाभावीया प्रतियोगितावच्छेदकता च घटत्वे, पटत्वे, उभयत्वे चेति त्रिषु पर्याप्ता। उभयस्य प्रत्येकानतिरेकेण, त्रिषु पर्याप्तेति चेत्, प्रत्येकमपि पर्याप्तेत्यप्यावश्यकमेव। अथापि घटत्वावच्छिन्नाभावस्य घटत्वपटत्वोभयत्वावच्छिन्नाभावस्य वैलक्षण्यमावश्यकम्। अत एवं वक्तव्यम्। घटाभावीयप्रतियोगितावच्छेदकता घटत्वत्वावच्छिन्ने घटत्वे, तद्व्यक्तित्वावच्छिन्ने घटत्वे वा पर्याप्ता। घटपटोभयाभावीयप्रतियोगितावच्छेदकता तु घटत्वपटत्वोभयत्वरूपेषु त्रिष्वपि समं पर्याप्ता। अतोऽवच्छेदकतापर्याप्त्यनुयोगि त्रयम्। पर्याप्त्यनुयोगितावच्छेदकता तु एतत्रितयानुगतं त्रित्वम्, त्रित्वावच्छिन्ने त्रयेऽवच्छेदकताया अविशेषेण वर्तमानत्वात्। अतञ्चोभयाभावीयप्रतियोगितावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकधर्मो घटत्वपटत्वोभयत्वानुगतं त्रित्वम्, न तु घटत्वत्वम्, पटत्वत्वम्, उभयत्वत्वं वा, प्रतियोगितावच्छेदकतया अपि त्रिषु व्यासज्यवर्तमानत्वात्। ततश्च घटपटोभयाभावीयप्रतियोगितावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकत्रित्वावच्छिन्ने त्रयेऽवच्छेदकतायाः पर्याप्तिः। घटाभावीयप्रतियोगितावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकं तु घटत्वत्वमात्रम्, घटत्वगततद्व्यक्तित्वं वेति उभयोरभावयोर्वैलक्षण्यम्। एवञ्च प्रकृतेऽपि वह्न्यभाववह्निघटोभयाभावयोरपि वैलक्षण्यमिति, साध्याभावीयप्रतियोगितावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकधर्मावच्छिन्नपर्याप्तावच्छेदकताकप्रतियोगिताकाभाव इत्यनेनोभयाभावो न स्वीकर्तुं शक्यः, किन्तु केवलवह्न्यभाव एवेति, तद्वान् ह्रदः, तदवृत्तित्वं धूमे वर्तत इति नाव्याप्तिः। तथा च साध्यतावच्छेदकसंबन्धावच्छिन्नसाध्यतावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकधर्मावच्छिन्नपर्याप्तावच्छेदकताकप्रतियोगिताकाभाववदवृत्तित्वं व्याप्तिरिति दिक्।
नन्वेवमपि ‘वह्निमान् धूमात्’ इत्यत्राव्याप्तिः। साध्यतावच्छेदकसंयोग- संबन्धावच्छिन्नसाध्यतावच्छेदकवह्नित्वधर्मावच्छिन्नप्रतियोगितानिरूपकाभावः - ‘संयोगेन वह्निर्नास्ति’ इति प्रतीतिसिद्धाभावः। तद्वान् ह्रदादिरिव धूमावयवा अपि। धूमावयवेषु वह्नेरसत्त्वात्। अतः साध्याभाववान् धूमावयवः। तद्वृत्तित्वमेव धूमे हेतौ वर्तते, न त्ववृत्तित्वमित्यव्याप्तिरिति चेत्, न अवृत्तित्वप्रतियोगिभूतवृत्तितायां हेतुतावच्छेदकसंबन्धावच्छिन्नत्वस्यापि निवेशनीयत्वात्। तथा च संयोगसंबन्धावच्छिन्नवह्नित्वावच्छिन्नप्रतियोगितानिरूपकाभाववन्तो धूमावयवाः। तादृशधूमावयवनिरूपितहेतुतावच्छेदकसंयोगसंबन्धावच्छिन्नवृत्तित्वाभावो धूमे वर्तत एव। धूमावयवेषु हि धूमः समवायसंबन्धेनैव वर्तते, अवयवावयविनोः समवायात्। संयोगसंबन्धेन तु न वर्तत एवेति संयोगसंबन्धावच्छिन्नवृत्तित्वाभावो धूमे वर्तत इति नाव्याप्तिरिति।
नन्वेवमपि ‘द्रव्यं गुणकर्मान्यत्वविशिष्टसत्त्वात्’ इत्यादौ अव्याप्तिर्भवेदेव। तथाहि। सत्ताजातिर्द्रव्यगुणकर्मसु त्रिष्वेव वर्तते। गुणकर्मान्यत्वविशिष्टसत्ता तु द्रव्य एव स्यात्। गुणे कर्मणि च गुणकर्मान्यत्वरूपविशेषणस्यासंभवेन गुणकर्मान्यत्वविशिष्टसत्ता गुणे कर्मणि च न स्यात्, किन्तु द्रव्य एव। तथा च यत्र गुणकर्मान्यत्वविशिष्टसत्ता तत्र द्रव्यत्वम्, यत्र च द्रव्यत्वं तत्र गुणकर्मान्यत्वविशिष्टसत्तेति समव्याप्तस्सद्धेतुरयम्। अत्र साध्यतावच्छेदकं द्रव्यत्वम्, साध्यतावच्छेदकसंबन्धश्च समवायः। समवायसंबन्धावच्छिन्न द्रव्यत्वत्वपर्याप्तावच्छेदकताकप्रतियोगिताकाभावो द्रव्यत्वाभावः। तद्वान् गुणः कर्म वा। तत्र गुणकर्मान्यत्वविशिष्टसत्ताया असंभवात् तदवृत्तित्त्वं गुणकर्मान्यत्वविशिष्टसत्तायां हेतौ वर्तत इति समन्वयः कर्तव्यः। परन्तु विशिष्टशुद्धयोरनतिरेकात्, गुणकर्मान्यत्वविशिष्टसत्तायाः शुद्धसत्तायाश्चैकत्वेन साध्याभाववति गुणे सत्तायास्सत्त्वेन, यदि सत्तायां साध्याभाववद्वृत्तित्वमेव स्यात्, न तु साध्याभाववदवृत्तित्वमित्यव्याप्तिरिति चेत्, न। अत्र केचित् - विशिष्टशुद्धयोरनतिरेके द्रव्यत्वाभाववति गुणे हेतोस्सत्त्वेन हेतोर्व्यभिचारित्वेन तस्यालक्ष्यत्वात्तत्र लक्षणासमन्वयस्य गुणत्वात्। अतिरेके चाव्याप्तेरेवाप्रसक्तेर्यत्किञ्चिदेतदित्याहुः। द्रव्यगुणकर्मसु विद्यमानायाः सत्ताया एकत्वेनाखण्डत्वात् किञ्चिद्विशेषणयोजनमात्रेण सखण्डत्वासंभवात् विशिष्टरूपेण भेदेऽपि स्वरूपत ऐक्यमप्यनिवार्यमिति। लक्षणमपि साध्याभाववन्निरूपितहेतु- तावच्छेदकसंबन्धावच्छिन्नवृत्तितानवच्छेदकधर्मवत्त्वं व्याप्तिरिति परिष्करणान्नाव्याप्तिः। एवञ्च प्रकृते साध्यतावच्छेदकेत्याद्यभाववान् गुणः।
तन्निरूपितसमवायसंबन्धावच्छिन्नवृत्तितायामवच्छेदकं सत्तात्वम्। अनवच्छेदकं तु गुणकर्मान्यत्वविशिष्टसत्तात्त्वम्, गुणे गुणान्यत्वरूपविशषणाभावेन ‘गुणः गुणकर्मान्यत्वविशिष्टसत्तावान्’ इति प्रतीतेरसंभवात्।*
टिप्पणी
*नन्वेवमपि ‘एतद्वृक्षः कपिसंयोगी, एतद्वृक्षत्वात्’ इत्यादौ एतद् वृक्षत्वाधिकरणे एतद्वृक्षे मूले कपिसंयोगाभावस्य सत्त्वात्, हेतोः एतद्वृक्षत्वस्य साध्याभाववद्वृत्तित्वात् व्यभिचारित्वापत्तिः। अतः व्यभिचारिलक्षणे साध्याभावे प्रतियोगि वैयधिकरण्यं विशेषणं देयम्। अत एव व्याप्तिलक्षणेऽपि व्यभिचाराभावरूपत्वाद् व्याप्तेः प्रतियोगिव्यधिकरणसाध्याभाववदवृत्तित्वमेव लक्षणं वक्तव्यमिति चेत् –
अत्रेदं चिन्त्यताम् - कपेः प्रायो वृक्षाग्रेवर्तमानत्वेऽपि, ‘वृक्षे कपिरस्ति न वा?’ इति प्रश्ने ‘कपिरस्ति’ इत्येवोत्तरं वक्तव्यम्। कपेस्सत्त्वेऽपि, कपिसंयोगस्याव्याप्यवृत्तित्वात्, ‘मूले कपिसंयोगो नास्ति’ इत्येव प्रामाणिकं किलेति चेत्, ‘वृक्षेऽस्ति न वा’ इति प्रश्ने ‘मूले’ इत्यादि संयोज्योत्तरमपृष्टोत्तरमेव। भेदस्य व्याप्यवृत्तित्वम्, अभावस्त्वव्याप्यवृत्तिः इत्यादिकं तु कुकल्पनामात्रम्। प्रत्युत अत्यन्ताभावस्तु प्रतियोगिमत्यपि वर्तत इत्येव तत्त्वम्। अत एव ‘घटवत्यपि देशे घटात्यन्ताभावबुद्धिः कुतो नोत्पद्यते?’ इत्याशङ्क्य, ‘घटाभावकालीनभूतलस्वरूपस्यैव संबन्धत्वान्न घटात्यन्ताभावबुद्धिः’ इत्याद्युत्तरं संगच्छते। एवञ्च संयोगस्याव्याप्यवृत्तित्वेऽपि वृक्षे कपिसंयोगोऽस्ति, न वा ? इति प्रश्ने ‘अस्ति’ इत्येवोत्तरं प्रमाणिकम्। अन्यथा गृहे चैत्र वर्तमाने सति ‘चैत्रो गृहे न वर्तते, किन्तु गृहैकदेशे क्वचित्कोणे वर्तते’ इत्येवोत्तरं वक्तव्यं भवेत्। न हि चैत्रेण गृहे सर्वत्र व्याप्य स्थातुं शक्यम्। अतो ‘गृहे वर्तते, न वा’ इति प्रश्ने ‘वर्तते’ इत्येव प्रामाणिकम् ऋजूत्तरं वक्तव्यम्। अतश्च प्रतियोगिवैयधिकरण्यनिवेशादिकम् ऋजुमतीनां दृष्ट्या न देयमेव। अत एव च भ्रमलक्षणे ‘तदभाववति’ इत्यत्र ‘प्रतियोगिव्यधिकरणतदभाववति’ इत्यादिपरिष्करणमपि दत्तोत्तरम्। वस्तुतस्तु अभावपदप्रयोगोऽपि शास्त्र एव, न तु लोके। लोके तु ‘नास्ति’ इत्येव प्रयोगः। अधिकमभावविचारे द्रष्टव्यम्॥
आलोक- व्याख्या
तथा च निष्कृष्टं लक्षणम्- साध्यतावच्छेदकसंबन्धावच्छिन्नसाध्यतावच्छे-दकतापर्याप्त्यनुयोगितावच्छेदकधर्मावच्छिन्नपर्याप्तावच्छेदकताकप्रतियोगिताकाभावव-न्निरूपितहेतुतावच्छेदकसंबन्धावच्छिन्नवृत्तितानवच्छेदकधर्मवत्त्वं व्याप्तिः। अधिकं त्वत्रोत्तरग्रन्थेभ्योऽवगन्तव्यम्।
ननु ‘इदं वाच्यम्, ज्ञेयत्वात्’ इत्यादिकेवलान्वयिस्थले साध्यस्य वाच्यत्वस्य सर्वत्र वर्तमानत्वात् तदभावाप्रसिद्ध्या अव्याप्तिरिति चेत्, न। साध्यादिभेदेन व्याप्तेर्भेदात्, तत्स्थलानुसारेण लक्षणान्तरकरणात् अस्य लक्षणस्य केवलान्वयिव्यतिरिक्तस्थले निर्दुष्टत्वान्न परित्यागावश्यकतेति प्राचीनाः। इदानीमेव व्याप्तेरव्यभिचरितत्वं च संगच्छते। अत्यन्ताभावाप्रतियोगित्वं केवलान्वयित्वम्।
सर्वानुगता व्याप्तिस्तु हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगि- साध्यसामानाधिकरण्यम्। ‘वह्निमान् धूमात्’ इत्यादौ - हेतुः धूमः। तदधिकरणं पर्वतादिः। तद्वृत्तिरत्यन्ताभावः घटाद्यभावः। तत्प्रतियोगी घटः। अप्रतियोगी साध्यो वह्निः। तत्सामानाधिकरण्यं हेतौ धूमे वर्तत इति लक्षणसमन्वयः। ‘धूमवान् वह्नेः’ इत्यादौ व्यभिचारिणि, हेतुर्वह्निः। तदधिकरणम् अयोगोलकमपि। तद्वृत्तिर्धूमाभावोऽपि। तत्प्रतियोगी साध्यो धूमः, न त्वप्रतियोगीति नातिव्याप्तिः। ’ इदं वाच्यम् ज्ञेयत्वादित्यादौ। हेतुः ज्ञेयत्वम्। तदधिकरणं घटादिः। तद्वृत्तिर्वाच्यत्वाभावो न भवति, वाच्यत्वस्य सत्त्वात्, किन्तु पटत्वाद्यभावः। तत्प्रतियोगी पटत्वादिः। अप्रतियोगि साध्यं वाच्यत्वम्। तत्सामानाधिकरण्यं हेतौ ज्ञेयत्वे वर्तत इति लक्षणसमन्वयः। परिष्कारादिकं कुशलमतिभिरभ्यूह्यम्।
तर्कसंग्रहः
व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता।
परामर्शघटकस्य व्याप्तेः स्वरूपमभिधाय तद्घटकस्य पक्षधर्मत्वस्य स्वरूपमाह व्याप्यस्येत्यादि। व्याप्यः = व्याप्त्याश्रयो हेतुः। तस्य पक्षे वर्तमानत्वमेव पक्षधर्मतापदार्थः। हेतो: पक्षवृत्तित्वज्ञानं पक्षधर्मताज्ञानमित्युच्यते। पक्षनिरूपितं वृत्तित्त्वम् = पक्षवृत्तित्त्वम्। तच्च हेतुनिष्ठम्। ‘पर्वतो धूमवान्’ इति ज्ञानं पक्षधर्मताज्ञानम्। अत्र हि पर्वतो विशेष्यः, धूमो विशेषणम्। विशेषणम् = धर्मः। विशेष्यो = धर्मी। धूमपर्वतयोर्विशेषणविशेष्यभावे पर्वतनिरूपितं धर्मत्वम् = वृत्तित्वम् विशेषणत्वं धूमे वर्तते। ‘यत्र धूमः, तत्र वह्निः’ इति व्याप्तिः। तत्र धूमो व्याप्यः, व्यापको वह्निः। वह्निनिरूपिता व्याप्तिर्धूमे वर्तते। अतो व्याप्यो धूमः। तस्य पर्वतवृत्तित्वज्ञानं पक्षधर्मताज्ञानमित्युच्यते। एवञ्च व्याप्तिविशिष्टस्य हेतोः पक्षधर्मताज्ञानं परामर्श इति परामर्शस्वरूपमुक्तं भवति।
तर्कसंग्रहः
अनुमानं द्विविधम्। स्वार्थं परार्थं चेति। स्वार्थं स्वानुमितिहेतुः। तथा हि- स्वयमेव भूयोदर्शनेन यत्र धूमस्तत्राग्निरिति महानसादौ धूमे व्याप्तिं गृहीत्वा पर्वतसमीपं गतः, तद्गते चाग्नौ सन्दिहान: पर्वते धूमं पश्यन् व्याप्तिं स्मरति यत्र धूमस्तत्राग्निरिति। तदनन्तरं वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानमुत्पद्यते। अयमेव लिङ्गपरामर्श इत्युच्यते। तस्मात् पर्वतो वह्निमान् इति अनुमितिरुत्पद्यते। तदेतत्स्वार्थानुमानम्।
आलोक- व्याख्या
अनुमानं विभजते - अनुमानं द्विविधमिति। स्वार्थम्, परार्थमिति संज्ञा। सैव तयोर्वैलक्षण्यं वक्तीत्यभिप्रायः। एतदुपपादयति - तथाहीत्यादिना। प्रथमं महानसादौ वह्निधूमयोर्व्याप्तिग्रहणम्। अनन्तरं कदाचिद्यदा पर्वतादौ धूमं पश्यति, तदा ‘धूमवान् पर्वतः’ इति ज्ञानं जायते। इदमेव पक्षधर्मताज्ञानमित्युच्यते। ततः पूर्वं महानसादौ गृहीतां व्याप्तिं स्मरति। इदं व्याप्तिस्मरणमेवानुमानमिति प्राचीनाः। ततस्तादृशव्याप्तिविशिष्टस्य धूमादेः पर्वतवृत्तित्वज्ञानात् ‘वह्निव्याप्यधूमवान् पर्वतः’ इत्याकारकं ज्ञानं जायते। अयमेव ‘परामर्शः’ अथवा ‘लिङ्गपरामर्शः’ इत्युच्यते। इदमेव अनुमानपदवाच्यमिति नवीनाः। ततो व्याप्येन धूमेन व्यापकस्य वह्न्यादेर्निश्चयः पर्वते जायते ‘पर्वतो वह्निमान्’ इति। इयमेवानुमितिरित्युच्यते। इदमेव ‘स्वार्थानुमानम्’ इत्युच्यते। ‘अनुमीयत अनेनेत्यनुमानम्’ इति करणार्थकप्रत्यये तु ज्ञानकरणमर्थः। अस्यानुमानस्य स्वानुभवरूपत्वात् ‘स्वार्थानुमानम्’ इति व्यवहारः।
तर्कसंग्रहः
यत्तु स्वयमेव धूमादग्निमनुमाय परप्रतिपत्त्यर्थं पञ्चावयववाक्यं प्रयुङ्क्तत्तत्परार्थानुमानम्। यथा पर्वतो वह्निमान् धूमवत्त्वात्, यो यो धूमवान् सोऽग्निमान् यथा महानसः, तथा चायम्, तस्मात्तथा इति। अनेन वाक्येन प्रतिपादिताल्लिङ्गात् परोऽप्यग्निं प्रतिपद्यते।
प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवाः। पर्वतो वह्निमान् इति प्रतिज्ञा। धूमवत्त्वात् इति हेतुः। यो यो धूमवान् सोऽग्निमान् यथा महानस इत्युदाहरणम्। तथा चायं इत्युपनयः। तस्मात्तथेति निगमनम्।
स्वार्थानुमितिपरार्थानुमित्योः लिङ्गपरामर्श एव करणम्। तस्माल्लिङ्गपरामर्शोऽनुमानम्।
आलोक- व्याख्या
परार्थानुमानं निरूपयति - यत्त्वित्यादिना। कश्चित् स्वानुभवक्रमेण परस्य पुरुषस्यापि तादृशानुमित्युत्पिपादयिषया वाक्यानि प्रयुङ्क्ते। तानि वाक्यानि श्रृण्वन् परोऽपि तत्फलतया पदार्थनिर्णयं करोति। अत्र तादृशवाक्यप्रयोग एव मूलम्। अतस्तानि वाक्यानि ‘परार्थानुमानम्’ इत्युच्यन्ते। अत्रानुमानपदं करणार्थकम्। तानि च वाक्यानि ‘न्यायः’ इत्युच्यन्ते। तानि च पञ्च प्रतिज्ञाहेतूदाहरणोपनयनिगमनसंज्ञकानि ‘न्यायावयवाः’ इत्यप्युच्यन्ते। ‘पर्वतो वह्निमान्’ इति प्रतिज्ञा। ‘धूमात्’ इति हेतुः। ‘यो धूमवान् स वह्निमान्, यथा महानसम्’ इति व्याप्तिप्रतिपादकं वाक्यम् उदाहरणम्। ‘तथा चायम्’ (‘वह्निव्याप्यधूमवांश्चायम्’) इति परामर्शानुकरणवाक्यम् उपनयः। ‘तस्मात्तथा’ इति चेत् ‘पर्वतस्य वह्निव्याप्यधूमवत्त्वात् पर्वतो वह्निमान्’ इत्युपसंहाररूपं वाक्यं निगमनम्। एतत्पञ्चावयववाक्यसमुदाय एव न्यायः इत्युच्यते। प्रतिज्ञादयः प्रत्येकम् ‘अवयवाः’ अथवा ‘न्यायावयवाः’ इत्युच्यन्ते। एतत्पञ्चावयववाक्यश्रवणात् श्रोतुर्मानसः ‘वह्निव्याप्यधूमवान् पर्वतः’ इति परामर्शो जायते। ततः ‘पर्वतो वह्निमान्’ इति निश्चयऽनुमितिरूपो जायते। परस्यानुमितिं प्रति हेतुत्वात् एतानि पञ्चवाक्यानि ‘परार्थानुमानम्’ इत्युच्यन्ते। विशिष्य वादिप्रतिवादिनोः परस्परमभिमतार्थस्य प्रतिपादनाय वादरूपे जल्परूपे वा वाक्यार्थेऽस्य परमार्थानुमानस्य प्रधानोपयोगः।
स्वार्थानुमितीति। स्वार्थं संपन्ना अनुमितिः स्वार्थानुमितिः। परार्थं संपन्ना अनुमितिः परार्थानुमितिः। उभयोरपि लिङ्गपरामर्श एवानुमित्यव्यवहितपूर्वक्षणे वर्तत इति लिङ्गपरामर्श एवानुमितिकरणमनुमानपदवाच्यमिति नवीनाः। पञ्चावयववाक्यानां परार्थानुमानपदवाच्यत्वं तु अनुमितिहेतुभूतमानसलिङ्गपरामर्शजनकत्वात्पारिभाषिकम्। पूर्वमेव करणलक्षणेऽयमर्थो विचारितो द्रष्टव्यः।
तर्कसंग्रहः
लिङ्गं त्रिविधम्। अन्वयव्यतिरेकि, केवलान्वयि, केवलव्यतिरेकि चेति। अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि। यथा वह्नौ साध्ये धूमवत्त्वम्। यत्र धूमस्तत्राग्निः यथा महानसम् इत्यन्वयव्याप्तिः। यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा महाह्रद इति व्यतिरेकव्याप्तिः। अन्वयमात्रव्याप्तिकं केवलान्वयि। यथा घटोऽभिधेयः प्रमेयत्वात्पटवत् इति। अत्र प्रमेयत्वाभिधेयत्वयोर्व्यतिरेकव्याप्तिर्नास्ति। सर्वस्यापि प्रमेयत्वादभिधेयत्वाच्च। व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि। यथा पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात्। यदितरेभ्यो न भिद्यते न तद्गन्धवत्। यथा जलम्। न चेयं तथा। तस्मान्न तथेति। अत्र यद्गन्धवत्तदितरभिन्नमित्यन्वयदृष्टान्तो नास्ति। पृथिवीमात्रस्य पक्षत्वात्।
आलोक- व्याख्या
अन्वयव्याप्तिः ‘साध्याभाववदवृत्तित्वम्’ इति पूर्वमेवोक्तम्। व्यतिरेकव्याप्तिस्तु ‘साध्याभावव्यापकीभूताभावप्रतियोगित्वम्’। ‘वह्निमान् धूमात्’ इत्यादौ साध्यः वह्निः। तदभावः = वह्न्यभावः। तद्व्यापकीभूतोऽभावः धूमाभावः। तत्प्रतियोगित्वं धूमे वर्तत इति लक्षणसमन्वयः। ‘यत्र साध्याभावः = वह्न्यभावः, तत्र हेत्वभावः धूमाभावः, यथा ह्रद:’ इति व्यतिरेकव्याप्त्यभिलापकः शब्दः। तथा च हेतुसाध्ययोः व्याप्तिरन्वयव्याप्तिः, साध्याभावहेत्वभावयोर्व्याप्तिः व्यतिरेकव्याप्तिरिति निष्कर्षः।।
लिङ्गम् गमको हेतुः। तत् लिङ्गम् त्रिविधम्। व्याप्तिविशिष्टं हि धूमादिकं वह्न्यादिगमकम्, न केवलं धूमादीति सूचनाय हेतुपदं विहाय लिङ्गपदमुक्तम्। हेतुविशेषणस्य व्याप्तेः त्रिविधत्वात् लिङ्गं त्रिविधमित्युक्तम्। कुत्रचित् हेतावन्वयव्याप्तिः, व्यतिरेकव्याप्तिश्चेति द्वयमपि विशेषणतया भासते। अतस्तादृशं लिङ्गमन्वयव्यतिरेकीत्युच्यते। यत्र हेतावन्वयव्याप्तिमात्रं वर्तते तल्लिङ्गं केवलान्वयीत्युच्यते। यत्र हेतौ व्यतिरेकव्याप्तिमात्रं विशेषणतया भासते तत् लिङ्गं केवलव्यतिरेकि। दृष्टान्तः - ‘पर्वतो वह्निमान् धूमात्’ इत्यत्र ‘यत्र धूमः, तत्र वह्निः यथा महानसम्’ इत्यन्वयव्याप्तिः। ‘यत्र वह्निर्नास्ति, तत्र धूमोऽपि नास्ति, यथा महाह्रद’ इति व्यतिरेकव्याप्तिः। एवं धूमे लिङ्गे द्वयमप्यस्तीति धूमोऽन्वयव्यतिरेकिलिङ्गम्। इदं स्वार्थानुमाने। परार्थानुमाने त्वन्वयव्याप्तिक्रमः ‘पर्वतो वह्निमान्’ इति प्रतिज्ञा। ‘धूमात्’ इति हेतुः। ‘यत्र धूमस्तत्र वह्निः, यथा महानसम्’ इत्युदाहरणम्। ‘वह्निव्याप्यधूमवांश्चायम्’ इत्युपनयः। ‘वह्निव्याप्यधूमवत्त्वात् पर्वतो वह्निमान्’ इति निगमनम्। परार्थानुमाने व्यतिरेकव्याप्तिक्रमः ‘पर्वतो वह्निमान्’ इति प्रतिज्ञा। ‘धूमात्’ इति हेतुः। यो न वह्निमान् स न धूमवान्, यथा महाह्रदः’ इत्युदाहरणम्। ‘वह्न्यभावव्यापकीभूतस्य धूमाभावस्याभाववानयम्’ इति वा, ‘वह्न्यभावव्याप- कधूमाभाववान्नायम्’ इति वोपनयः। ‘वह्न्यभावव्यापकधूमाभावस्याभावात्, न वह्न्यभाववानयम्’ इति निगमनम्। ‘न वह्न्यभाववानयम्’ इति चेत् वह्निमत्त्व एव पर्यवसानम्, वह्न्यभावाभावस्य वह्निरूपत्वात्। एवमेव सर्वत्र अन्वयव्यतिरेकव्याप्त्युपपादनं द्रष्टव्यम्।
‘घटोऽभिधेयः, प्रमेयत्वात्’ इत्यत्र ‘यत्र यत्र प्रमेयत्वम्, तत्र तत्राभिधेयत्वम्’ इति स्वार्थानुमानेऽन्वयव्याप्तिः। अभिधेयत्वप्रमेयत्वयोः केवलान्वयित्वेनाभावाप्रसिद्ध्या व्यतिरेकव्याप्तिर्नास्ति। परार्थानुमाने ‘घटः अभिधेयः’ इति प्रतिज्ञा ‘प्रमेयत्वात्’ इति हेतुः। प्रमेयत्वं यत्र तत्राभिधेयत्वम्, यथा पटे’ इत्युदाहरणम्। ‘अभिधेयत्वव्याप्यप्रमेयत्ववांश्चायं घटः’ इत्युपनयः। ‘अभिधेयत्वव्याप्यप्रमेयत्ववत्त्वात् अभिधेयत्ववांश्चायं घटः’ इति निगमनम्।
केवलव्यतिरेकिणं दर्शयति- यथा पृथिवीत्यादि। पृथिव्या गन्धवत्त्वं लक्षणमुक्तम्। लक्षणं चेतरवैलक्षण्यसाधकम्। पृथिवी इतरेभ्यः = जलादिभ्यो भिद्यते। अतः सा इतरेभ्यो भिन्ना विलक्षणा भवति। अत्र यद्गन्धवत्तदितरभिन्नम् इत्यन्वयदृष्टान्तो नास्ति पृथिवीमात्रस्य पक्षत्वात्। कुतः ? गन्धवत्त्वात् इति हेतुः। तथा च ‘पृथिवी जलादिभिन्ना, गन्धवत्त्वात्’ इति प्रयोगः कर्तव्यः। अत्र ‘यत्र यत्र गन्धवत्त्वम्, तत्र जलादिभेदः’ इत्यन्वयव्याप्तिर्न संभवति। गन्धवत्याः पृथिव्याः पक्षत्वात्। अन्यत्र कुत्रापि गन्धाभावात् हेतुसाध्ययोर्व्याप्तिः = अन्वयव्याप्तिर्न संभवति। किन्तु ‘यत्र साध्याभावः, तत्र हेत्वभावः’ इति व्यतिरेकव्याप्तिरेव भवति। अत्र साध्यो जलादिभेदः। साध्याभावः = जलादिभेदाभावः। हेतुः = गन्धवत्त्वम्। हेत्वभावः = गन्धवत्त्वाभावः। यत्र जलादिभेदाभावः, जलादौ वर्तते, तत्र गन्धवत्त्वाभावोऽपि वर्तत इति व्यतिरेकव्याप्तिः।।
व्यतिरेकव्याप्त्यनुगुणान् पञ्चावयवान् प्रदर्शयति - यथेत्यादि। ‘पृथिवी जलादिभिन्ना’ इति प्रतिज्ञा। ‘गन्धवत्त्वात्’ इति हेतुः। ‘यत्र जलादिभेदाभावः, तत्र गन्धवत्त्वाभावः, यथा जलादिकम्’ इत्युदाहरणम्’ न चेयं पृथिवी जलादिभेदाभाव-व्यापकगन्धाभाववती, अपि तु गन्धवती’ इत्युपनयः। ‘जलादिभेदाभावव्यापकगन्धाभाव-स्याभावात् जलादिभेदाभाववती न, किन्तु जलादिभेदवत्येव’ इति निगमनम्।
ननु कुतोऽन्वयव्याप्तिर्नास्ति ? यत्र गन्धवत्त्वम्, तत्र पृथिव्यां जलादिभेदो वर्तत एव किलेत्यत्राह- अत्रेत्यादि। पृथिवीमात्रस्य - सर्वपृथिव्याः। तथा च कृत्स्नपृथिव्याः पक्षत्वात्, सपक्षस्याभावात् अन्वयदृष्टान्तो नास्ति, ‘पर्वतो वह्निमान् धूमात्’ इत्यादौ महानसादिवत्। अतोऽन्वयव्याप्तेरभावात् केवलव्यतिरेकि।
तर्कसंग्रहः
सन्दिग्धसाध्यवान् पक्षः। यथा धूमवत्त्वे हेतौ पर्वतः। निश्चितसाध्यवान् सपक्षः। यथा तत्रैव महानसः। निश्चितसाध्याभाववान् विपक्षः। यथा तत्रैव महाह्रदः।
आलोक-व्याख्या
‘पक्षधर्मता’ इत्यत्र पक्षो नाम कः? इति प्रश्ने, पक्षस्य वक्तव्यत्वात्, तत्प्रसङ्गादन्वयव्याप्तिव्यतिरेकव्याप्त्युपयोगितया सपक्षविपक्षयोरप्यवश्यं ज्ञेयत्वात्तेषां लक्षणान्याह- सन्दिग्धेत्यादि। सन्दिग्धं च तत् साध्यं च सन्दिग्धसाध्यम्। सन्दिग्धसाध्यम् अस्मिन्नस्तीति सन्दिग्धसाध्यवान् इति विग्रहः। सन्दिग्धमित्यत्र संपूर्वक दिहधातोः संशयोऽर्थः। क्तप्रत्ययस्य विषयतावानर्थः। प्रकृते प्रकारतावान् इत्यर्थः। प्रकारतावतश्चाभेदसंबन्धेन साध्येऽन्वयः। तथा च संशयनिरूपितप्रकारतावदभिन्नसाध्य- निष्ठाधेयतानिरूपिताधिकरणतावान् पक्ष इत्यर्थः। साध्यनिष्ठाधेयतानिरूपिताधिकरणत्वं प्रकृते संदेहविशेष्यत्वे पर्यवस्यति। तथा च साध्यनिष्ठप्रकारतानिरूपकसंशयनिरूपितविशेष्यताश्रयः पक्ष इति शाब्दबोधः। साध्यप्रकारकसंदेहविशेष्यत्वं पक्षत्वमिति लक्षणम्। वह्निमपेक्षमाण आरण्यकः कश्चित् ‘पार्श्वस्थः पर्वतो वह्निमान् न वा’ इति संदेग्धि। यदा तत्र धूमं पश्यति, तदा ‘पर्वतो धूमवान्’ इति पक्षधर्मताज्ञानं जायते। अनन्तरं व्याप्तिं स्मरति। अनन्तरं ‘वह्निव्याप्यधूमवानयं पर्वतः’ इति परामर्शः। ततः पर्वतो वह्निमान्’ इत्यनुमितिः। अत्र प्रथमं ‘पर्वतो वह्निमान्, न वा’ इति संशयस्य जननात्, तत्र संशये साध्यस्य वह्नेः प्रकारत्वात्, पर्वतस्य च विशेष्यत्वात् साध्यप्रकारकसंदेहविशेष्यत्वादुक्तानुमितौ पर्वतः पक्ष इत्युच्यते।।
नव्यास्तु अपवरके स्थितस्य घनगर्जनश्रवणे सति ‘गगनं मेघवत्, घनशब्दवत्त्वात्’ इत्यनुमानं हठाज्जायते। अत्र पूर्वं ‘गगनं मेघवन्न वा ?’ इति संशयस्याभावात् अनुमितिर्न स्यात्। अतः साध्यनिश्चयाभावमात्रं पक्षता। ‘साध्यसंशयः पक्षता’ इति तूत्सर्गमात्रम्। पूर्वं निश्चये सति अनुमितेरप्रसरात्, साध्यनिश्चस्यानुमितिं प्रति प्रतिबन्धकत्वात्, प्रतिबन्धकाभावस्य कार्यसामान्यं प्रति कारणत्वात् साध्यनिश्चयाभाव एव पक्षता। यत्र पूर्वं साध्यनिश्चयो नास्ति, स पक्ष इत्युच्यते। साध्यनिश्चय एव साध्यसिद्धिरित्युच्यत इति। साध्यनिश्चयाभाव एव - ‘सिद्ध्यभावः पक्षता’ इति संक्षेपेणोच्यते। परन्त्वत्राप्यस्ति क्लेशः। उत्कटेच्छेतरसर्वकार्यं प्रति प्रतिबन्धिकेति सर्वसंमतम्। सर्वकार्यं प्रतीति चेत् प्रतिबन्धकं प्रत्यपीच्छा प्रतिबन्धिका। एवञ्च सिद्धिरूपप्रतिबन्धकसत्त्वेऽपि ‘पर्वते वह्निमनुमिनुयाम् = अनुमानेन साधयेयम्’ इतीच्छायां सत्यां तु पर्वते वह्न्यनुमितिर्भवत्येव। तदा सिद्ध्यभावरूपपक्षताया अभावेऽप्यनुमितिः। कथमिति चेत्, इच्छाविरहकाल एव सिद्धिः सिषाधयिषाविरहविशिष्टसिद्धिरेव प्रतिबन्धिका। साधयितुमिच्छा सिषाधयिषा प्रकृते अनुमितीच्छा। सिषाधयिषाविरहविशिष्टसिद्धेः प्रतिबन्धकत्वे, प्रतिबन्धकाभावस्य कार्यसामान्यकारणत्वात् सिषाधयिषाविरहविशिष्टसिद्ध्यभावोऽनुमितिं प्रति कारणम्। स एव पक्षतेत्युच्यते। घनगर्जितेन मेघानुमानस्थलेऽपि एतादृशसिद्ध्यभावरूपपक्षताऽस्त्येव। यत्र साध्यसंशयानन्तरमनुमितिः, तत्रापि पूर्वं साध्यसंशयस्यैव सत्त्वेन, सिद्धेरभावात् उक्तसिद्ध्यभावरूपपक्षताऽक्षतैवेति कुत्रापि नानुपपत्तिः।*
टिप्पणी
* साध्य-निश्चयः अनुमितिं प्रति प्रतिबन्धक इत्य् उक्तम् ।
साध्य-निश्चयो द्वि-विधः -
सामानाधिकरण्येन, अवच्छेदकावच्छेदेन च।
पुरो-वृत्ति–पर्वत-मात्रे वह्नि-साधने
सामानाधिकरण्येन साध्य-निश्चयो भवति ।
“धूमवान् पर्वतः सर्वोऽपि वह्निमान् भवेद् एवे"ति साधने
पर्वतत्वावच्छेदेन वह्नि-साधनात्,
इयम् अवच्छेदकावच्छेदेनानुमितिर् इत्य् उच्यते । +++(5)+++
‘कुसुमं पृथिवी, गन्धवत्त्वात्’
इत्य्-आदिर् अप्य् अवच्छेदकावच्छेदेनानुमितिः ।
एवं सिद्धिर् अपि
अवच्छेदकावच्छेदेन सिद्धिः,
सामानाधिकरण्येन सिद्धिर्
इति द्वि-विधा ।
पक्षतावच्छेदकावच्छेदेन सिद्धिर् एव
अवच्छेदकावच्छेदेन सिद्धिर् इत्य् उच्यते ।
पक्षतावच्छेद-विशिष्टे यत्र कुत्रचित् सिद्धिः,
पक्षतावच्छेदक-सामानाधिकरण्येन साध्य-सिद्धाव् अपि
पक्षताऽवच्छेदकावच्छेदेनानुमितेर् अविरोधात्,
+++(तत्र)+++ सामानाधिकरण्येन साध्यसिद्धिः =
‘पुरो-वर्ति-पर्वतो वह्निमान्’ इति सिद्धिः
‘पुरो-वर्ति-पर्वतो वह्निमान्’ इत्यनुमितिं प्रत्य् एव प्रतिबन्धिका +++(सिद्ध-साधनेन)+++।
ततश् चोभय-विध-सिद्धिः
सामानाधिकरण्येनानुमितिं प्रति प्रतिबन्धिका +++(सिद्ध-साधनेन)+++।
अवच्छेदकावच्छेदेनानुमितिं प्रति, अवच्छेदकावच्छेदेन साध्य-सिद्धिर् एव प्रतिबन्धिका +++(सिद्ध-साधनेन)+++।
एवं ‘पर्वतो धूमवान्’ इति पक्षधर्मताज्ञानानन्तरमेव व्याप्तिस्मरणादिक्रमेणानुमितिर्जायते। तदा पर्वतप्रत्यक्षहेतोः पर्वतचक्षुस्संयोगस्यापि सत्त्वेन, पर्वतप्रत्यक्षं जायेत वा, वह्न्यनुमितिर्जायेत वा ? इति प्रश्ने वह्न्यनुमितिरेव जायते, न तु पर्वत प्रत्यक्षमित्येवानुभवः। अतः भिन्ने विषये अनुमितिसामग्र्येव प्रबला, न तु प्रत्यक्षसामग्री। समाने विषये तु प्रत्यक्षसामग्र्येव प्रबला। एवमनङ्गीकारे कुत्राप्यनुमितिरेव न स्यात्। सर्वत्र चक्षुस्सन्निकर्षरूपसामग्र्यास्सत्त्वेन अन्ततः त्वक्संयोगरूपसामग्र्याः भूप्रदेशादिप्रत्यक्षसामग्र्यास्सत्त्वेन, कुत्रापि अन्यज्ञानमेव न स्यात्। कुत्रापि ज्ञानद्वयं युगपन्न संभवति। ‘युगपद् ज्ञानानुत्पत्तिर्मनसो लिङ्गम्’ इति हि सूत्रम्। बाह्येन्द्रियापेक्षया मनसः प्रबलत्वात्, येनेन्द्रियेण मनस्संयुक्तं भवति तदिन्द्रियप्रत्यक्षमेव जायेत। इदमेव मनसोऽवधानमित्युच्यते। ‘अवहितमना नासम्, अतो न ज्ञातम्’ इत्याद्यनुभवदर्शनात्। अत एव पुण्याहादिकर्मप्रयोगकाले “स्वामिनोऽवहितमनसो भवत” “अवहितमनसः स्मः” इति प्रश्नप्रतिवचनादिकं दृश्यते। अतस्समाने विषये प्रत्यक्षसामग्री प्रबला, भिन्ने विषये तु परोक्षसामग्री प्रबला इति नियम आवश्यकः। अयं नियमः शाब्दबोधस्थलेऽपि समानः। अत एव ‘परोक्ष’ पदम्। परं तु इच्छायाः सर्वकार्यं प्रति उत्तेजकत्वात्, तत्तदिच्छायाः इतरसर्वकार्यं प्रति प्रतिबन्धकत्वात् इतरेच्छाविरहः सर्वत्रावश्यकः। एतत्प्रतिबन्धकत्वमेव ‘कामिनीजिज्ञासादिवत्’ स्वातन्त्र्येण प्रतिबन्धकत्वमुच्यते। अत एव तद्वत्ताबुद्धिं प्रति तदभावावच्छेदकतया गृहीतधर्मवत्तानिश्चयः, ज्ञानविशिष्टज्ञानत्वावच्छिन्ना स्वातन्त्र्येणान्यविषयिणी इच्छा च इति ज्ञानस्थले प्रतिबन्धकत्वं चतुर्विधम्; मणिमन्त्रौषधादीनां तु वस्तूत्पत्तिस्थले प्रतिबन्धकत्वमिति विशेषोऽवगन्तव्यः। ज्ञानमपि हि किञ्चिद्वस्तु, अतो ज्ञानोत्पत्तिं प्रत्यपि एषां प्रतिबन्धकत्वमावश्यकमित्येतत्तु उत्सर्गरूपो वर्तेतैव। अत एव प्राचीने काले जल्परूपकथासु जयपराजयप्रधानासु मन्त्रबलेन वाग्बन्धादिकथाः श्रूयन्ते स्म। अयमंशः मुकुन्दमालास्तोत्रेऽति प्राचीने ‘भक्तापायभुजङ्गगारुडमणिः’ ‘जिह्वे! श्रीकृष्णमन्त्रम्’ ‘व्यामोहप्रशमौषधम्- श्रीकृष्णादिव्यौषधम्’ इत्यादि दृश्यते। जैनबौद्धादयः मन्त्रादिसिद्धिबलात् वैदिकान् वादे जित्वा स्वमतप्रचारं कुर्वन्त आसन्; आल्वार् (विष्णुभक्ताः) शिवभक्ताश्चावतीर्य तान् दैवबलात् जित्वा पुनः वैदिकमतं स्थापयामासुः इत्यादिकं (क्रैस्त पञ्चमशताब्देरारभ्याष्टमशताब्दि पर्यन्तकाले) चरित्रं दृश्यत इत्यादिकं ‘सत्यसिद्धौ’ विस्तरेण प्रतिपादितम्॥
आलोक- व्याख्या
पक्षलक्षणानन्तरं सुगमं सपक्षादिलक्षणमिति, तदाह - निश्चितेत्यादि। निश्चितसाध्यवानित्यादिकं पूर्ववदेव ज्ञेयम्। तथा च साध्यप्रकारकनिश्चयविशेष्यत्वं सपक्षत्वम्। एवमेव साध्याभावप्रकारकनिश्चयविशेष्यत्वं विपक्षस्य लक्षणमिति स्पष्टम्। ‘वह्निमान् धूमात्’ इत्यत्र पर्वतः पक्षः, महानसादिः सपक्षः, महाह्रदादिर्विपक्षः।
तर्कसंग्रहः
सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्च हेत्वाभासाः।
एवं अनुमितिः साङ्गा निरूपिता। अनुमितिर्यथार्थानुभवविशेषः। तस्या हेतुः व्याप्तिज्ञानम्, व्याप्तिविशिष्टपक्षधर्मताज्ञानरूपपरामर्शो वा। तत्र व्याप्तिर्नाम का ? पक्षत्वं नाम किम् ? सपक्षत्वम्, विपक्षत्वम् च किम् ? इत्यादिकं सर्वं निरूपितम्। प्रत्यक्षे प्रमाभ्रमविभागो यथा तथानुमितावपि प्रमाभ्रमविभागो वर्तते। प्रत्यक्षे तत्कारणानामिन्द्रियादीनां दोषाद् भ्रमो भवति। तथैवानुमितौ तद्धेतुभूतव्याप्तिपक्षधर्मतादिवैकल्यरूपदोषाद् भ्रमो भवति। व्याप्तिपक्षधर्मतादिविशिष्टत्वं सद्धेतूनां लक्षणं चेत्, व्याप्तिपक्षधर्मताद्यन्यतमशून्यत्वं दुष्टहेतूनां स्वरूपम्। यथा ‘पर्वतो वह्निमान् धूमात्’ इत्यत्र धूमः सद्धेतुः, तथा ‘पर्वतो धूमवान् वह्नेः’ इत्यत्र वह्निर्दुष्टो हेतुः। ‘यत्र धूमस्तत्र वह्निः’ इति वह्निधूमयोर्नियतं साहचर्यं वर्तते। धूमवह्नयोस्तु न तथा साहचर्यं नियतम्, तप्तायोगोलके वह्नेस्सत्त्वेऽपि धूमस्यादर्शनात्। एवमन्येऽपि हेतुदोषास्सन्ति। अतस्सद्धेतुनिरूपणानन्तरमसद्धेतवोऽप्यवश्यं निरूपयितव्याः। असद्धेतव एव हेत्वाभासा इत्युच्यन्ते॥
तान् संकलय्य विभज्य प्रदर्शयति - सव्यभिचारेत्यादि। हेतुवदाभासन्त इति हेत्वाभासा इति हेत्वाभासपदमत्र दुष्टहेतुपरम्, यतः सव्यभिचारादिपदं दोषविशिष्टपरम्। ‘हेतोराभासाः’ इति व्युत्पत्त्या तु हेत्वाभासपदं हेतुदोषपरम्। व्याप्तिपक्षधर्मताद्यन्यतमशून्यत्वं दुष्टहेतूनां लक्षणम्। निष्कृष्टं लक्षणं तु- अनुमितितत्करणान्यतरप्रतिबन्धकयथार्थज्ञानविषयत्वम्। ‘ह्रदो वह्निमान्’ इति बाधस्थले अनुमितितत्करणान्यतरप्रतिबन्धकं यत् यथार्थज्ञानमिति चेत् ? ‘वह्न्यभाववान् ह्रदः’ इत्याकारकं ज्ञानम्। तद्वत्तावुद्धिं प्रति तदभाववत्तानिश्चयस्य प्रतिबन्धकत्वात् ‘ह्रदो वह्निमान्’ इत्यनुमितिं प्रति ‘ह्रदः वह्न्यभाववान्’ इति निश्चयस्य प्रतिबन्धकत्वम्। तच्च यथार्थज्ञानम्। तद्विषयत्वं वह्न्यभाववद्ध्रदे वर्तत इति वह्न्यभाववद्ध्रदो बाधः। तादृशबाधितार्थसाधकतया ‘धूमात्’ इति हेतोः प्रयोगात् हेतुस्तत्र बाधित इत्युच्यते। ‘धूमवान् वह्नेः’ इत्यत्र तु साध्यो धूमः। तदभाववान् तप्तायःपिण्डः, तद्वृत्तित्वं हेतौ वह्नौ वर्तत इत्ययं हेतुर्व्यभिचारीत्युच्यते, एतज्ज्ञानं च, व्याप्तिज्ञानं प्रत्येव प्रतिबन्धकम्। ‘साध्याभाववदवृत्तिर्हेतुः’ इति व्याप्तिज्ञानं प्रति प्रतिबन्धकम्, न तु अनुमितिं प्रति प्रतिबन्धकम्। तदर्थं लक्षणे तत्करणप्रतिबन्धकत्वनिवेशः। ‘पर्वतो वह्निमान् धूमात्’ इत्यादावपि ‘वह्न्यभाववद्वृत्तिर्धूमः’ इत्याकारकभ्रमात्मकज्ञाने जाते, व्याप्तेः प्रतिबन्धात्, अनुमितिकरणप्रतिबन्धकत्वं जातमिति, भ्रमात्मकज्ञानमादाय हेतोर्दुष्टत्वा- पत्तिरित्यतो यथार्थपदं ज्ञाने विशेषणम्। ‘वह्न्यभाववद्वृत्तिर्धूमः’ इति ज्ञानस्य भ्रमत्वात् तदादाय धूमस्य न दुष्टत्वसंभवः। बहु विजृम्भितं नव्यतर्कपण्डितैरत्र। तत्त्वन्यत्र।
तर्कसंग्रहः
सव्यभिचारोऽनैकान्तिकः। स त्रिविधः साधारणासाधारणानुपसंहारिभेदात्। तत्र साध्याभाववद्वृत्तिः साधारणः। यथा पर्वतो वह्निमान् प्रमेयत्वात्। अत्र प्रमेयत्वस्य वह्न्यभाववति ह्रदे विद्यमानत्वात्। सर्वसपक्षविपक्षव्यावृत्तोऽसाधारणः। यथा शब्दो नित्यः शब्दत्वात्। अत्र शब्दत्वं सर्वेभ्यो नित्येभ्योऽनित्येभ्यो व्यावृत्तं शब्दमात्रवृत्ति। अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी। यथा सर्वमनित्यं प्रमेयत्वात्। अत्र सर्वस्यापि पक्षत्वाद्दृष्टान्तो नास्ति।
आलोक- व्याख्या
पञ्चधाविभक्तेषु दुष्टहेतुष्वाद्यं लक्षयति- सव्यभिचारोऽनैकान्तिक इति। ‘धूमवान् वह्नेः’ इति प्रयोगे कृते हि, हेतुर्वह्निः धूमवति महानसादौ वर्तते, धूमाभाववति तप्तायः पिण्डेऽपि वर्तते। अतोऽयं हेतुर्धूमधूमाभावसाधारणः। तेनान्यतरकोटिनिर्णयो न संभवति। अतोऽयं दोषोऽनैकान्तिक इति साधारणादीनां त्रयाणामनुगतं सामान्यलक्षणम्। एकान्तिकः अन्यतरकोटिनिर्णयावसानः। तद्विपरीतोऽनैकान्तिकः। विचारस्यान्तो हि निश्चयः। निश्चये जाते न हि विचारो वर्धेत।
साध्याभाववद्वृत्तित्वं प्रथमस्य साधारणस्य लक्षणम्। ‘पर्वतो वह्निमान्, प्रमेयत्वात्’ इत्यत्र, साध्यो वह्निः। तदभावः वह्न्यभावः। तद्वान् ह्रदादिः। तद्वृत्तित्वं प्रमेयत्वे हेतौ वर्तते। अतः प्रमेयत्वहेतुः साधारणः। सव्यभिचारपदस्य साधारणादित्रयसाधारणत्वेऽप्ययमेव व्यभिचारी इति बहुलं व्यपदिश्यते।
द्वितीयमसाधारणं लक्षयति - सर्वेत्यादि। सर्वेभ्यस्सपक्षेभ्यः, सर्वेभ्यो विपक्षेभ्यश्च व्यावृत्तः- सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिरसाधारण इत्युच्यते। हेतोस्सपक्षवृत्तित्वे एवान्वयव्याप्तिर्गृहीतुं शक्यते। विपक्षव्यावृत्तत्वं तु सद्धेतोर्गुणः। अथापि पक्षमात्रवृत्तित्वबोधनार्थम्, तेनासाधारण्यसंज्ञाया औचित्यार्थं च तदुक्तम्। अतश्च सर्वसपक्षव्यावृत्तत्वमात्रं लक्षणं बोध्यम्।
अनुपसंहारी- अन्वयेत्यादि। अन्वयदृष्टान्तोऽपि नास्ति, व्यतिरेक- दृष्टान्तोऽपि नास्ति यत्र, सोऽनुपसंहारी। यथा ‘सर्वम् अनित्यम्, प्रमेयत्वात्’ इत्यत्र सर्वस्यापि पक्षत्वात्, सपक्षविपक्षौ कथं स्याताम्। असाधारणे सपक्षविपक्षौ स्तः, परन्तु हेतुस्तेभ्यो व्यावृत्तः। अत्र तु सपक्षविपक्षावेव न स्तः। एतत्सूचनाय वा पूर्वं विपक्षोऽपि कोडीकृतः। अतश्च व्याप्तिग्रहणस्थलमेव नास्ति।
तर्कसंग्रहः
साध्याभावव्याप्तो हेतुर्विरुद्धः। यथा शब्दो नित्यः कार्यत्वात् (कृतकत्वात्) घटवत्। अत्र कृतकत्वं हि नित्यत्वाभावेनानित्यत्वेन व्याप्तम्।
आलोक-व्याख्या
विरुद्धः- साध्याभावव्याप्तः। वस्तुतः साध्यव्याप्यो हेतुः स्यात्। एतद्विरुद्धतयात्र हेतुः साध्याभावव्याप्तः प्रकृते इति विरुद्धो हेतुरिति संज्ञा। ‘शब्दः नित्यः, कार्यत्वात्’ इत्यत्र कार्यत्वं हि साध्यस्य नित्यत्वस्याभावेनानित्यत्वेन व्याप्तम्- यत्र यत्र कार्यत्वम्, तत्र सर्वत्रानित्यत्वमिति व्याप्तिः। यद्यप्यत्र साध्याभाववद्वृत्तित्वं हेतोर्वर्तत इति व्यभिचारदोषोऽप्यस्ति, अथापि ‘दुष्टसंकरेऽपि दोषासंकरः’ इति न्यायात् दोषौ एकत्र भवतः। लोके मूर्खः कश्चित् चौर्यं कृत्वा तदाच्छादानार्थम् असत्यं वक्ति। तत्र एकस्मिन् पुरुषे चौर्यमेको दोषः, असत्यवदनमपरो दोष इति एकस्मिन्नेव दोषद्वयप्रसक्तावपि दोषयोर्भेदो वर्तत एव। पुरुषैक्यमात्रात् दोषैक्यम्, पापैक्यं वा न भवति। तद्वत् एकस्मिन्नेव हेतौ दोषद्वयसंभवेऽपि दोषैक्यं कदापि न भवतीत्युक्तन्यायस्यार्थः। विरुद्धहेतुप्रयोगे साध्याभावसाधके हेतु:, भ्रान्त्या साध्यसाधकतयोपन्यस्त इति वादिनोऽज्ञानातिशयो ज्ञाप्यते।
तर्कसंग्रहः
यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते स सत्प्रतिपक्षः। यथा शब्दो नित्यः श्रावणत्वात्, शब्दोऽनित्यः कार्यत्वात् घटवत्।
आलोक-व्याख्या
यस्येत्यादि। प्रतिपक्षः- प्रतिपक्षसाधको हेतुः। तेन सहितो यः, स सप्रतिपक्षः, सत्प्रतिपक्ष इति वा कथ्यते। सन् प्रतिपक्षो यत्रेति बहुव्रीहिः। वादिप्रतिवादिनोश्चर्चायाः ‘कथा’ इति संज्ञा। तत्र वादी स्वपक्षसाधनाय ‘शब्दो नित्यः, श्रावणत्वात्, शब्दत्ववत्’ इति प्रयुङ्क्ते। श्रावणत्वं नाम श्रोत्रेन्द्रियजन्यप्रत्यक्षविषयत्वम्। यत्र श्रावणत्वं वर्तते, तत्र नित्यत्वं वर्तते, यथा शब्दत्वे। ‘येनेन्द्रियेण’ इत्यादिन्यायेन शब्दः श्रोत्रेन्द्रियेण गृह्यते चेत्, शब्दत्वमपि श्रोत्रेण गृह्यत इति व्याप्तिरस्ति। एवं वादिना परार्थानुमाने प्रदर्शिते, प्रतिवादिना उक्तहेतोरप्रयोजकत्वं प्रदर्शनीयम्। अथवा प्रतिप्रयोगो वा कर्तव्यः। नो चेत् वादिनो जयः स्यात्। प्रतिप्रयोगश्चैवम् ‘शब्दोऽनित्यः, कार्यत्वात्, घटवत्’ इति। यत्र यत्र कार्यत्वम्, तत्र सर्वत्रानित्यत्वमिति व्याप्तिरस्ति। एवं पञ्चावयववाक्ये प्रयुक्ते परस्याप्यनुमितिर्भवति ‘शब्दोऽनित्यः’ इति। अत्र हेतावप्रयोजक- त्वेऽप्रदर्शितेऽनुमानद्वयमपि परस्परं प्रतिहतं सत्साध्यसाधकं न भवति। वादिनोः कस्यापि जयो न भवति। अत्र प्रथमो हेतुः सत्प्रतिपक्षदोषयुक्तः ‘सप्रतिपक्षितः’ इत्युच्यते। एतादृशकथायां परार्थानुमानस्य प्रयोगः सार्थकः।
तर्कसंग्रहः
असिद्धस्त्रिविधः - आश्रयासिद्ध: स्वरूपासिद्धो व्याप्यत्वासिद्धश्चेति। आश्रयासिद्धो यथा - गगनारविन्दं सुरभि अरविन्दत्वात् सरोजारविन्दवत्। अत्र गगनारविन्दमाश्रयः। स च नास्त्येव। स्वरूपासिद्धो यथा - शब्दो गुणः चाक्षुषत्वात्। अत्र चाक्षुषत्वं शब्दे नास्ति शब्दस्य श्रावणत्वात्। सोपाधिको हेतुर्व्याप्यत्वासिद्धः। साध्यव्यापकत्वे सति साधनाव्यापकत्वम् उपाधिः। साध्यसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं साध्यव्यापकत्वम्। साधनवन्निष्ठात्यन्ताभावप्रतियोगित्वं साधनाव्यापकत्वम्। (यथा) पर्वतो धूमवान् वह्नेः इत्यत्र आर्द्रेन्धनसंयोग उपाधिः। यत्र धूमः तत्रार्द्रेन्धनसंयोग इति साध्यव्यापकता। यत्र वह्निः तत्रार्द्रेन्धनसंयोग नास्ति, अयोगोलके आर्द्रेन्धनसंयोगाभावात्। एवं साध्यव्यापकत्वे सति साधनाव्यापकत्वादार्द्रेन्धनसंयोग उपाधिः। सोपाधिकत्वाद्वह्निमत्त्वं व्याप्यत्वासिद्धम्।
आलोक-व्याख्या
असिद्ध इति। पक्षहेत्वादीनां स्वरूपस्यैवासिद्ध्या व्याप्तेरप्यसंभवादेषामसिद्ध इति नाम। आश्रयः पक्षः। स एव यत्राप्रसिद्धः, स आश्रयासिद्धः। गगनवृत्तित्वविशिष्टं ह्यरविन्दमप्रसिद्धम्। अप्रसिद्धपक्षकत्वाद्धेतुरप्यसिद्ध इत्युच्यते। एवमेव ‘काञ्चनमयपर्वतो वह्निमान्, धूमात्’ इत्युक्ते पर्वते काञ्चनमयत्वाप्रसिद्ध्याऽऽश्रयासिद्धो हेतुः। तथा च पक्षतावच्छेदकाभाववत्पक्ष आश्रयासिद्ध इति लक्षणम्। पक्षे यत् विशेषणम्, तत् पक्षतावच्छेदकमित्युच्यते। गगनसंबन्धः काञ्चनमयत्वं चोक्तस्थले पक्षतावच्छेदकम्। यद्यप्यरविन्दत्वम्, पर्वतत्वञ्च धर्मितावच्छेदकविधया पक्षे विशेषणत्वात् पक्षतावच्छेदकमेव। तच्च विशेष्येऽरविन्दे, पर्वते च वर्तते, अथापि विशेषणान्तरस्य गगनसंबन्धस्य, काञ्चनमयत्वस्य च विशेष्येऽभावात्, विशिष्टस्यैव पक्षत्वादप्रसिद्धिर्भवत्येवेति दोष एव।
यद्यपि चाक्षुषत्वं गगनारविन्दवन्नाप्रसिद्धम्, दृष्टान्ते रूप एव प्रसिद्धत्वात्, परन्तु हेतोः पक्षवृत्तित्वं प्रधानं स्वरूपम्। तच्च चाक्षुषत्वे नास्ति। अतो हेतुस्वरूपस्यासिद्ध्या स्वरूपासिद्धिरित्युच्यते। ‘पर्वतो वह्निमान्, काञ्चनमयधूमात्’ इत्यादिप्रयोगे तु हेत्वसिद्धिर्दोषः। हेतुतावच्छेदकाभावावान् हेतुः हेत्वसिद्धः। हेत्वसिद्धिस्तु स्वरूपासिद्धेरन्यो दोषः। एवम् ‘पर्वतः काञ्चनमयवह्निमान् धूमात्’ इति प्रयोगे ‘साध्यतावच्छेदकाभाववत्साध्यम्’ साध्याप्रसिद्धिरिति दोषोऽपि ज्ञेयः। अनयोस्सुज्ञत्वात्पृथगनुक्तिः॥
सोपाधिकः उपाधिसहितः। तादृशो हेतुः व्याप्यत्वासिद्धः इत्युच्यते। व्याप्यः = व्याप्त्याश्रयः। व्याप्यत्वं व्याप्तिः। व्याप्तेरसिद्धिरित्यर्थः। उपाधेर्लक्षणम् - साध्येत्यादि। साध्याधिकरणवृत्त्यत्त्यन्ताभावाप्रतियोगित्वम् साध्यव्यापकत्वम्। साधनाधिकरणवृत्त्यत्त्यन्ताभावप्रतियोगित्वम् साधनाव्यापकत्वम्। यथा ‘पर्वतो धूमवान् वह्नेः’ इति प्रयोगे आर्द्रेन्धनसंयोगः संयोगसंबन्धेनार्द्रेन्धनम् उपाधिः। अत्र साध्यः धूमः। तदधिकरणं महानसादिः। तत्र वर्तते योऽत्यन्ताभाव इति चेत्, आर्द्रेन्धनसंयोगाभावो न भवति। महानसे नियमेनार्द्रेन्धनसंयोगस्य सत्त्वात्। वह्नेरार्द्रेन्धनसंयोगे सत्येव धूमस्योत्पत्तेः। किन्तु जलाद्यभाव एव। तत्प्रतियोगि जलादिकम्, अप्रतियोगी आर्द्रेन्धनसंयोग इति साध्यव्यापकत्वम्। एवम् साधनं वह्निः। तदधिकरणं तप्तायःपिण्डोऽपि। तत्र वर्तते योऽत्यन्ताभाव इति चेत्, तप्तायः पिण्डे धूमासंभवात् वह्नेरार्द्रेन्धनसंयोगे सत्येव धूमोत्पत्तेः। अतस्तप्तायःपिण्डे वर्तमानोऽभावः = आर्द्रेन्धनसंयोगाभावः। तत्प्रतियोगी =आर्द्रेन्धनसंयोग इति साधनाव्यापकत्वमपि वर्तते। अतो वह्निना धूमसाधने आर्द्रेन्धनसंयोग उपाधिः। महानसे आर्द्रेन्धनसंयोगस्य प्रत्यक्षप्रतिपन्नत्वात् वह्निसंयोगरहितस्य तस्य धूमहेतुत्वाभावात् आर्द्रेन्धनसंयोग उपाधिरित्युक्तः। एवञ्च धूमेन यथा वह्निस्साध्यते, तथा वह्निनापि धूमस्साधयितुं शक्य इति भ्रान्त्या ‘धूमवान् वह्नेः’ इति प्रयोगे कृते, आर्द्रेन्धनसंयुक्तवह्नेरेव धूमजनकत्वात् आर्द्रेन्धनसंयोगे विद्यमाना धूमव्याप्तिस्तत्सन्निहिते वह्नौ गृहीता भ्रान्त्या।
यथा जपाकुसुमसंबन्धात् ‘लोहितः स्फटिकः’ इति प्रतीतिः स्फटिकसंयुक्त-जपाकुसुमगतलौहित्यस्य स्फटिके भानात् औपाधिकी, तथैवात्रापि आर्द्रेन्धनसंयोगे विद्यमाना धूमव्याप्तिरार्द्रेन्धनसंयोगविशिष्टे वह्नौ भासत इति आर्द्रेन्धनसंयोग उपाधिः। स्वस्मिन् वर्तमानं विशेषं स्वसन्निहिते वस्तुन्यारोपयितुं समर्थं वस्तूपाधिरित्युच्यते। यत्र यत्रोपाधिसहितं वस्तु वर्तते, तत्र सर्वत्र तद्वस्तुनि तद्व्यवहारो लोके प्रसिद्धः। तप्तायःपिण्डो दहति। तत्र दाहकत्वं वह्नेर्धर्मः, न केवलमयसः। अयसा संयुक्तो वह्निर्दहति, न त्वयः। वह्निगतं दाहकत्वं स्वसंयुक्तेऽयसि आरोपितम्। अतोऽयसो दाहकत्वमौपाधिकम्। अत एव ‘अयो दहति’ इति शब्दप्रयोग औपचारिकः। प्रतीतिस्त्वौपाधिकी। इदं सर्वं बुद्धिपूर्वकत्वे। अबुद्धिपूर्वकत्वे तु प्रतीतिर्भ्रान्तिरेव। शब्दप्रयोगोऽपि भ्रान्तिमूलकः।
एवञ्च उप आधीयतेऽनेन (स्वस्मिन् विद्यमानं विशेषं स्वसन्निहिते येनाधीयते) इति व्युत्पत्त्या - उपाधिः इति पदं निष्पन्नम्। जपाकुसुमं हि स्वसन्निहिते स्फटिके स्वगुणं रक्तरूपमादधत् ‘लोहितः स्फटिकः’ इति व्यवहारहेतुर्भवति। वह्निर्हि स्वसंयुक्तेऽयसि स्वगुणं दाहकत्वमादधत् ‘अयो दहति’ इति व्यवहारहेतुर्भवति। एवमार्द्रेन्धनसंयोगः स्वस्मिन् विद्यमानां धूमव्याप्तिं आर्द्रेन्धनसंयुक्ते वह्नौ भासयति। अतो धूमव्याप्तिर्वह्नौ वर्तत इति भ्रान्त्या प्रयुङ्क्ते ‘धूमवान् वह्नेः’ इति। तथा च साध्यव्यापकत्वे सति साधनाव्यापकत्वं तदनुगुणमुपाधेर्लक्षणमुक्तम्। साध्यव्यापकत्वमात्रस्य लक्षणत्वे ‘वह्निमान् धूमात्’ इत्यादावालोकवत्त्वमुपाधिः स्यात्। यत्र यत्र वह्निः, तत्रालोको वर्तत इति साध्यव्यापकत्वात्। तदर्थं साधनाव्यापकत्वमुक्तम्। एवं सति आलोकवत्त्वस्य धूमव्यापकत्वात् साधनाव्यापकत्वाभावान्न तस्योपाधित्वम्। साधनाव्यापकत्वमात्रोक्तौ- ‘शब्दोऽनित्यः, कार्यत्वात्’ इत्यत्र अश्रावणत्वमुपाधिः स्यात्। ‘यत्र यत्र कार्यत्वम्, तत्र सर्वत्र अश्रावणत्वम्’ इति व्याप्तेरभावात्। पक्षे शब्दे कार्यत्त्वसत्त्वेऽपि श्रावणत्वस्याभावेन साधनाव्यापकत्वसत्त्वात्। साध्यव्यापकत्वनिवेशे तु ‘यत्र यत्रानित्यत्वम्, तत्र सर्वत्राश्रावणत्वम्’ इति साध्यव्यापकत्वस्यापि अश्रावणत्वेऽभावान्नोपाधित्वम्। एतादृशोपाधिविशिष्टो हेतुस्सोपाधिकत्वात् व्याप्यत्वासिद्ध इत्युच्यते।
तर्कसंग्रहः
यस्य साध्याभाव: प्रमाणान्तरेण निश्चितः स बाधितः। यथा वह्निरनुष्णः पदार्थत्वात्। अत्रानुष्णत्वं साध्यम्, तदभाव उष्णत्वं त्वाचप्रत्यक्षेण गृह्यत इति बोध्यम्।
आलोक- व्याख्या
बाधितं निरूपयति - यस्येत्यादि। अत्र वाक्ये ‘पक्षे’ इति पूरणीयम्। यस्य हेतोः, सम्बन्धसामान्ये षष्ठी, साध्यस्याभावः पक्षे प्रमाणान्तरेण प्रत्यक्षादिना निश्चितः, स हेतुर्बाधित इत्युच्यते। तथा च साध्याभाववत्पक्षकत्वं बाधः इति बाधदोषस्य लक्षणम्। तादृशपक्षकत्वात् उक्तो हेतुर्बाधित इत्युच्यते। यथा ‘ह्रदो वह्निमान्’ इत्यत्र वह्न्यभाववद्ध्रदो बाधः। ह्रदे वह्न्यभावः प्रत्यक्षसिद्धः।
एवं दुष्टहेतूनां स्वरूपेऽवगते, एभिरनुमितिर्न भवति, साक्षाद्वा परम्परया वानुमितेः प्रतिबन्धात्। तद्वत्तावुद्धिं प्रति तदभाववत्तानिश्चयः, तदभावव्याप्यवत्तानिश्चयश्च प्रतिबन्धकः। भूतलं घटाभाववत्’ इति निश्चयः ‘भूतलं घटवत्’ इति निश्चयं प्रति प्रतिबन्धकः। ‘ह्रदो वह्न्यभाववान्’ इति निश्चये जाते ‘ह्रदो वह्निमान्’ इति ज्ञानं न हि भवितुं शक्यम्। एवम् ‘वह्न्यभावव्याप्यजलवान् ह्रदः’ इति ज्ञाने सत्यपि ‘ह्रदो वह्निमान्’ इति ज्ञानं न भवति। जले विद्यमाने कथं वह्निस्स्यात्। अतस्तद्वत्ताबुद्धिं प्रति तदभाववत्तानिश्चयः, तदभावव्याप्यवत्तानिश्चयश्चेति द्वयं साक्षादेव प्रतिबन्धकम्। एवम् ‘जलवान् ह्रदः’ इति निश्चयोऽपि ‘वह्न्यभावव्याप्यं जलम्’ इति ज्ञानकालिको वह्निमत्ताबुद्धिं प्रति प्रतिबन्धकः। तदभावव्याप्यवत्तानिश्चयस्तु एकं ज्ञानम्। इदं तु ज्ञानविशिष्टं भिन्नं ज्ञानम्। ज्ञानविशिष्टज्ञानत्वेन इदं ज्ञानद्वयं प्रतिबन्धकमित्युच्यते। निष्कर्षस्तु ‘तदभावावच्छेदकतया गृहीतधर्मवत्तानिश्चयोऽपि तद्वत्तावुद्धिं प्रतिबन्धकः’ इति। तदभावः वह्न्यभावः। तदवच्छेदकतया गृहीतो धर्मः ‘जलवत्त्वम्’। ‘वह्न्यभावव्याप्यं जलम्’ इति एकं ज्ञानम्, ‘जलवान् ह्रदः’ इत्यपरं ज्ञानम्। अत्र जलवत्त्वं वह्न्यभावव्याप्यतया गृहीतम्। अतस्तदभावावच्छेदकतया गृहीतधर्मवत्तानिश्चयोऽपि तद्वत्ताबुद्धिं प्रति प्रतिबन्धकः।।
एवं मणिमन्त्रादिन्यायेन प्रतिबन्धकत्वमपि अतिरिक्तमङ्गीकार्यम्। मणिसहितेन वह्निना दाहो न जायते। मणेः सत्तैव दाहं प्रति प्रतिबन्धिका। एवं मन्त्रविशेषोऽपि। आदिना ओषधिविशेषो विवक्षितः। एते हि कार्यं प्रति साक्षादेव प्रतिबन्धकाः। तद्वत्ताज्ञानमप्येकं कार्यम्। एतत्प्रति तदन्यविषयिण्युत्कटेच्छापि प्रतिबन्धिकैव। ‘वह्निव्याप्यधूमवानयं पर्वतः’ इति परामर्शसमकालमन्यविषयिणी उत्कटेच्छा यदि भवेत्, तदा ‘पर्वतो वह्निमान्’ इत्यनुमितिर्न स्यात्। इदमेव प्रतिबन्धकम् ‘कामिनीजिज्ञासादिवत्स्वातन्त्र्येण प्रतिबन्धकम्’ इत्युच्यते। तरुणस्य हि पुरुषस्य कामिनीविषयिणी तीव्रेच्छा- दिदृक्षादिरूपा यदि भवेत्, तदा सा तीव्रेच्छा इतरकार्यप्रतिबन्धिका यतः, तत एवानुमिति प्रत्यपि प्रतिबन्धिका। तथा च तद्वत्ताबुद्धिं प्रति १) तदभाववत्तानिश्चयः २) तदभावव्याप्यवत्तानिश्चयः ३) तदभावावच्छेदकतया गृहीतधर्मवत्तानिश्चयः ४) स्वातन्त्र्येण चेति प्रतिबन्धकत्वं चतुर्विधम्। आद्यं त्रयं ज्ञानरूपम्। अन्तिमं तु न ज्ञानरूपम्। किन्तु वस्तुरूपम्। अत एवेदं चतुर्थं ‘स्वातन्त्र्येण प्रतिबन्धकम्’, ‘मणिमन्त्रादिन्यायेन प्रतिबन्धकम्’, ‘कामिनीजिज्ञासादिवत्प्रतिबन्धकम्’ इत्यादिशब्दैर्व्यवह्रियते। प्रतिबध्यं तु ज्ञानं संशयरूपं निश्चयरूपं च। अत एव प्रतिबध्यकोटौ ‘ज्ञान’पदम्, ‘बुद्धि’ पदमेव वा प्रयोज्यम्। प्रतिबन्धककोटौ तु ‘निश्चय’ पदमेव प्रयोज्यमित्यत्यन्तमवधेयम्।
प्रकृते - सव्यभिचारेषु आद्यं साध्याभाववद्वृत्तित्वरूपसाधारणदोषज्ञानम्, साध्याभाववदवृत्तित्वरूपव्याप्तिज्ञानं प्रति प्रतिबन्धकत्वात् अनुमितितत्करणान्यतरप्रतिबन्धकयथार्थज्ञानविषयत्वाद्धेत्वाभासत्वम्। असाधारण्यं तु हेतोः पक्षमात्रवृत्तित्वरूपम्। तद्ज्ञानं व्याप्तिज्ञानं प्रति प्रतिबन्धकम्। सपक्षसत्त्वेऽपि हेतुस्तत्र न वर्तत इति व्याप्तिग्रहासंभवात्। अनुपसंहारी तु, सर्वस्यापि पक्षत्वात्, सपक्षविपक्षयोरभावात्, अन्वयव्याप्तिर्वा व्यतिरेकव्याप्तिर्वा ग्रहीतुं न शक्यत एवेति व्याप्तिग्रहणासंभवाद्दुष्टः।
विरुद्धो हेतु:, साध्याभावव्याप्तत्वज्ञानात् साध्यव्याप्तिविघटक इति व्याप्तिज्ञानप्रतिबन्धकः। अथवा साध्याभावव्याप्यवत्तानिश्चयविधयानुमितिप्रतिबन्धको वा। सत्प्रतिपक्षितो हेतुस्तु साध्याभावव्याप्यत्वात्, तद्वत्ताबुद्धिं प्रति तदभावव्याप्यवत्तानिश्चयविधया साक्षादेव साध्यवत्ताबुद्धिं प्रति प्रतिबन्धकः। परन्तु हेतुप्रतिहेतुद्वयसत्त्वात् परस्परं तत्तदभावव्याप्यवत्ताबुद्ध्योः प्रतिबन्धकत्वा- दनुमितिप्रतिबन्धकः। असिद्धौ- आश्रयासिद्धिस्तु पक्षस्यैवाप्रसिद्ध्या पक्षे साध्यवत्तानिश्चयासंभवात्परंपरयानुमितिप्रतिबन्धः। एवमेव साध्याप्रसिद्धिहेत्वप्रसिद्धयोरपि ज्ञेयम्। स्वरूपासिद्धेस्तु पक्षे हेतुमत्ताज्ञानरूपपक्षधर्मताज्ञानविघटकत्वात्परामर्शप्रतिबन्धः फलम्।
व्याप्यत्वासिद्धेस्तु- सोपाधिकत्वात्, प्राचीनमते अनौपाधिक- सम्बन्धरूपत्वाद्व्याप्तेः साक्षाद्व्याप्तिज्ञानप्रतिबन्धः फलम्। नवीनमते तु बाधोन्नायकतया साक्षादनुमितिप्रतिबन्धः फलम्। उन्नायकत्वं नामानुमापकत्वम् अनुमितिजनकत्वम्। अथवा व्यभिचारोन्नायकतया व्याप्तिज्ञानप्रतिबन्धः फलम्। ‘हेतुः साध्यव्यभिचारी, साध्यव्यापकोपाधिव्यभिचारित्वात्, यो यद्व्यापकव्यभिचारी, स तद्व्यभिचारी। यथा घटत्वव्यापकपृथिवीत्वव्यभिचारि जलत्वं घटत्वव्यभिचारि’ इति सामान्यव्याप्तिः। अथवा ‘धूमवान् वह्नेः’ इत्यादिस्थले वह्निः धूमव्यभिचारी, धूमव्यापकार्द्रेन्धनसंयोग-व्यभिचारित्वात्, यो यद्व्यापकव्यभिचारी, स तद्व्यभिचारी, यथा घटत्वव्यापकपृथिवीत्व- व्यभिचारि जलत्वं घटत्वव्यभिचारि इति विशेषव्याप्तिः। बाधोन्नायकत्वं नाम तदभावसाध्यकानुमितिजनकत्वम्। यथा ‘धूमवान् वह्नेः’ इत्यादौ ‘अयोगोलकं धूमाभाववत्, धूमव्यापकार्द्रेन्धनसंयोगाभावात्, यत् यद्व्यापकाभाववत्, तत् तदभाववत् यथा घटत्वव्यापकपृथिवीत्वाभाववत् जलं घटत्वाभाववत्’ इत्यनुमानं बोध्यम्। एवञ्च हेतोर्दुष्टत्वज्ञाने जाते, तादृशहेतोरनुपादेयत्वनिश्चयः, अदुष्टहेतोरुपादेयत्वनिश्चयश्च भवतीति हेत्वाभासज्ञानमपि विवेकहेतुतया तत्त्वज्ञानोपयोगीति मन्तव्यम्।
।। इत्यनुमानखण्डः।।
गोवर्धन-न्यायबोधिनी - अनुमानम्
अनुमानं लक्षयति। अनुमितिकरणमिति। अनुमितौ व्याप्तिज्ञानं करणं, परमर्शो व्यापारः, अनुमितिः फलम्। परामर्शस्य व्याप्तिज्ञानजन्यत्वे सति व्याप्तिज्ञानजन्यानुमितिजनकत्वात्तजन्यत्वे सति तज्जन्यजनकत्वरूपव्यापारत्वमुपपन्नम्। अनुमितिकरणत्वमनुमानस्य लक्षणम्। अनुमानं व्याप्तिज्ञानम्। एतस्य परामर्शरूपव्यापारद्वारा अनुमितिं प्रत्यसाधारणकारणतयानुमितिकरणत्वमुपपन्नम्।
गोवर्धन-न्यायबोधिनी - अनुमितिलक्षणम्
परामर्शजन्यमिति। परामर्शजन्यत्वविशिष्टज्ञानत्वमनुमितेर्लक्षणम्। अत्र ज्ञानत्वमात्रोपादाने प्रत्यक्षादावतिव्याप्तिः, अतस्तद्वारणाय परामर्शजन्यत्वे सतीति विशेषणोपादानम्। परामर्शजन्यत्वमात्रोक्तौ परामर्शध्वंसेऽतिव्याप्तिरतस्तद्वारणाय ज्ञानत्वोपादानम्। अनुमितिलक्षणघटकीभूतपरामर्शलक्षणमाचष्टे।
गोवर्धन-न्यायबोधिनी - परामर्शलक्षणम्
व्याप्तिविशिष्टेति। व्याप्तिविशिष्टं च तत्पक्षधर्मताज्ञानं चेति कर्मधारयः। अत्र विशिष्टपदस्य प्रकारतानिरूपकपरत्वात्पक्षधर्मताया ज्ञानमित्यत्र षष्ठ्या विषयत्वबोधनात्। धर्मतापदस्य संबन्धार्थकत्वात् कर्मधारयसमासेन समस्यमानपदार्थयोरभेदसंसर्गलाभाच्च व्याप्तिप्रकारकाभिन्नं यत्पक्षसंबन्धविषयकं ज्ञानं तत्परामर्श इति लभ्यते। एवं सति धूमो वह्निव्याप्यः आलोकवान्पर्वत इत्याकारकसमूहालम्बनेऽप्युक्तपरामर्शलक्षणमस्तीत्यतिव्याप्तिस्तद्वारणाय पक्षनिष्ठविशेष्यतानिरूपितहेतुनिष्ठप्रकारतानिरूपितव्याप्तिनिष्ठप्रकारताशालिज्ञानं परामर्श इति निष्कर्षः कर्तव्यः। एतादृशपरामर्शजन्यत्वे सति ज्ञानत्वमनुमितेर्लक्षणम्। अनुमितिपरामर्शयोर्विशिष्य कार्यकारणभावश्चेत्थम्॥ वह्नित्वावच्छिन्नसंयोगसंबन्धावच्छिन्नविधेयतानिरूपितपर्वतत्वावच्छिन्नोद्देश्यताशाल्यनुमितित्वावच्छिन्नं प्रति वह्नित्वावच्छिन्नप्रकारतानिरूपितव्याप्तित्वावच्छिन्नप्रकारतानिरूपितधूमत्वावच्छिन्नप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यताशालिनिर्णयः कारणम्। वह्नित्वावच्छिन्नप्रकारतानिरूपितव्याप्तित्वावच्छिन्नविशेष्यतायाः धूमत्वावच्छिन्नविशेष्यतानिरूपितव्याप्तित्वावच्छिन्नप्रकारतायाश्च अभेदाङ्गीकर्तृमते वह्नित्वावच्छिन्नप्रकारतानिरूपितविशेष्यत्वावच्छिन्नव्याप्तित्वावच्छिन्नप्रकारतानिरूपितविशेष्यत्वावच्छिन्नधूमत्वावच्छिन्नप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यताशालिनिर्णयः कारणमिति वाच्यम्। स च निर्णयः वह्निव्याप्यधूमवान्पर्वत इत्याकारको बोध्यः।
गोवर्धन-न्यायबोधिनी - अन्वयव्याप्तिः
यत्र यत्रेति। यत्र पदे वीप्सा?वशाद्धूमाधिकरणे यावति वह्निमत्त्वलाभाय। यावत्त्वमहिम्ना वह्नेर्धूमव्यापकत्वं लब्धम्। तथा च धूमव्यापकवह्निमतीत्यर्थः। तदेव स्पष्टयति। साहचर्यनियम इति। नियतसाहचर्यं व्याप्तिरित्यर्थः। नियतत्वं व्यापकत्वम्। साहचर्यं सामानाधिकरण्यम्। तथा च धूमनियतवह्निसामानाधिकरण्यं व्याप्तिरित्यर्थः। वह्नौ धूमव्यापकत्वं च धूमसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्वम्। तथा हि धूमाधिकरणे॥ चत्वरमहानसादौ वर्तते योऽभावः घटत्वाद्यवच्छिन्नप्रतियोगिताकाभावः न तु वह्नित्वावच्छिन्नप्रतियोगिताकाभावः। कुतः। पर्वतादौ वह्नेः सत्त्वात्। एवं सति धूमाधिकरणे पर्वतादौ वर्तमानस्य घटाद्यभावस्य प्रतियोगितावच्छेदकं घटत्वादिकमनवच्छेदकं वह्नित्वं, तद्वत्त्वं वह्नौ वर्ततेऽतो धूमव्यापकत्वं वह्नौ वर्तते। तथा च धूमव्यापकवह्निसामानाधिकरण्यं व्याप्तिरिति फलितमिति। इयमन्वयव्याप्तिः सिद्धान्तानुसारेण। पूर्वपक्षीयव्याप्तिस्तु साध्याभाववदवृत्तित्वम्। साध्यतावच्छेदकसंबन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताकप्रतियोगितावच्छेदकसंबन्धावच्चिन्नप्रतियोगितावच्छेदकावच्छिन्नवैयधिकरण्यावच्छिन्नाभाववन्निरूपितहेतुतावच्छेदकसंबन्धावच्छिन्नवृत्तित्वत्वावच्छिन्नप्रतियोगिताकाभावो व्याप्तिरित्यर्थः। तच्च केवलान्वयिन्यव्याप्तमिति सिद्धान्तानुसरणम्।
कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - अनुमानलक्षणम्
तर्कसङ्ग्रहसर्वस्वे अनुमानपरिच्छेदप्रारम्भः
अनुमितिकरणमनुमानम्। परामर्शजन्यं ज्ञानमनुमितिः। व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः। यथा वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानं परामर्शः। तज्जन्यं पर्वतो वह्निमानिति ज्ञानमनुमितिः।
अनुमानं लक्षयति अनुमितिकरणमिति। अनुमितेः करणम् अनुमितिकरणम्, षष्ठ्याः निरूपितत्वमर्थः, तस्य करणपदार्थैकदेशकरणत्वेऽन्वयः, तथाच अनुमितिनिरूपितकरणतावदभिन्नमनुमानमिति बोधः। अनुमितिकरणत्वम् अनुमानस्य लक्षणम्। अनुमितिकरणत्वञ्च अनुमतित्वावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वे सति (अनुमित्यसाधारणकारणत्वे सति) अनुमितिजनकव्यापारजनकत्वम्, अत्र प्रथमं पर्वतो धूमवान् इति पक्षधर्मताज्ञानम्। ततः यत्र धूमः तत्राग्निः (वह्निव्याप्यो धूमः) इति व्याप्तिस्मरणम् । उभाभ्यां आभ्यां विशेषणज्ञानरूपाभ्यां वह्निव्याप्यधूमवान् पर्वत इति परामर्शः (परामर्शनामकनिश्चयः) ततः पर्वतो वह्निमान् इत्यनुमितिः इति व्याप्तिस्मृतिपरामर्शानुमितीनाम् उत्पत्तिक्रमः (हेतुहेतुमद्भावः) अत्र लक्षणसमन्वयस्तु अनुमितित्वावच्छिन्ना या कार्यता पर्वतो वह्निमान् इत्यनुमितौ विद्यमाना कार्यता, तन्निरूपिता या कारणता वह्निव्याप्यो धूमः इत्याकारके व्याप्तिज्ञाने (अनुमाने) विद्यामाना कारणता, तदाश्रयत्वस्य परामर्शरूपव्यापारजनकत्वस्य च (अनुमाने) व्याप्तिज्ञाने विद्यमानत्वात् लक्ष्ये लक्षणसमन्वयः। व्यापारजनकत्वमात्रोक्तौ कालेश्वरादृष्टादेः कार्यमात्रं प्रति जनकत्वेन व्यापारजनकत्वस्यापि सत्त्वात् अतिव्याप्तिः, अनुमितिनिष्ठकार्यतानिरूपितकारणताश्रयत्वनिवेशेऽपि तत्रैवातिव्याप्तिः, तद्वारणाय अनुमितित्वावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वं निवेशनीयम्, तन्निवेशे तु कालेश्वरादृष्टादौ तस्याभावात् नातिव्याप्तिः। अनुमितित्वावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वमात्रोक्तौ (अनुमित्यसाधारणकारणत्वमात्रोक्तौ) व्यापारभूतपरामर्शस्यापि अनुमित्यसाधारणकारणत्वेन तत्रातिव्याप्तिः, अनुमितिजनकव्यापारजनकत्वनिवेशे तु स्वस्मिन् स्वजनकत्वाभावात् नातिव्याप्तिः। न च व्यापारत्वावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वविवक्षेणेनैवेश्वरादृष्टादावतिव्याप्तिवारणसम्भवे अनुमित्यसाधारणकारणत्वनिवेशस्यैव नैष्फल्यमिति वाच्यम्, व्यापारत्वेन व्याप्तिज्ञानत्वेन कार्यकारणभावाभावेन असम्भवप्रसङ्गात्। नच विशिष्य परामर्शत्वावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वनिवेशेनैव ईश्वरादृष्टादावतिव्याप्तेरसम्भवस्य च अभावात् अनुमित्वावच्छिन्नहेतुत्वनिवेशनमफलमेवेति वाच्यम्, व्याप्तिपक्षधर्मताज्ञानयोः उभयोरपि विशेषणज्ञानमुद्रया परामर्शहेतुत्वेन परामर्शत्वावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वस्य पक्षधर्मताज्ञाने सत्त्वात् अतिव्याप्त्यापत्तेः, अनुमितित्वावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वनिवेशे तु पक्षधर्मताज्ञानस्य परामर्शं प्रत्येव हेतुतया अनुमितित्वावच्छिन्नं प्रत्यहेतुतया अनुमित्यसाधारणकारणत्वस्य तत्राभावात् नातिव्याप्तिः। व्याप्तिज्ञानस्य तु अनुमितिकरणत्वप्रतीत्या अनुमितित्वावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वस्यापि तत्र सत्त्वात् लक्षणसमन्वयः।
टिप्पणी- अनुमितिकरणमनुमानमित्यत्र। नच सिद्धिसमकालीने सिषाधयिषाऽसमानाधिकरणे व्याप्तिज्ञाने (अनुमाने) अनुमितिकारणत्वाभावात् अव्याप्तिरिति वाच्यम्, अनुमितिजनकज्ञानवृत्तिधर्मवत्त्वस्य विवक्षितत्वात्। न च अनुमितिजनकज्ञानवृत्तिप्रमेयत्वादिधर्मवत्त्वस्य व्यापारजनकत्वस्य च ईश्वरादृष्टादौ सत्त्वात् अतिव्याप्तिरिति वाच्यम्, अनुमितित्वावच्छिन्नजनकतावच्छेदकः व्यापारजनकत्वावच्छेदकश्च यो धर्मः तद्वत्त्वस्य विवक्षितत्वात्, सिद्धिसमकालीनव्याप्तिज्ञाने तादृशधर्मस्य व्याप्तिज्ञानत्वस्य सत्त्वात् समन्वयः। ईश्वरादृष्टादौ तस्य अभावात् नातिव्याप्तिः। अथवा पक्षतासहकृतव्याप्तिज्ञानस्यैव अनुमानत्वाङ्गीकारेण सिद्धिसमकालीनस्य अनुमित्यनुपधायकस्य व्याप्तिज्ञानस्य अनुमानत्वमेव न स्वीक्रियते इति नाव्याप्तिशङ्कावकाशः।
घटितबुद्धौ घटकज्ञानस्य कारणत्वात् अनुमानलक्षणघटकीभूतानुमितिं लक्षयति परामर्शजन्यमिति। परामर्शजन्यत्वे सति ज्ञानत्वमनुमितेः लक्षणम्। पूर्वनिर्दिष्टमुत्पत्तिक्रममनुसृत्य परामर्शजन्यत्वस्य ज्ञानत्वस्य च अनुमितौ सत्त्वात् समन्वयः। परामर्शजन्यत्वमात्रोक्तौ ध्वंसं प्रति प्रतियोगिनः कारणत्वेन परामर्शध्वंसेऽपि परामर्शजन्यत्वस्य सत्त्वात् अतिव्याप्तिः, ज्ञानत्वनिवेशे तु ध्वंसे ज्ञानत्वस्याभावात् नातिव्याप्तिः। ज्ञानत्वमात्रोक्तौ प्रत्यक्षज्ञानादावतिव्याप्तिः, परामर्शजन्यत्वनिवेशे तु प्रत्यक्षज्ञानस्य इन्द्रियार्थसन्निकर्षजन्यत्वेन तत्र परामर्शजन्यत्वाभावात् नातिव्याप्तिः। परामर्शनिष्ठजनकतायां समवायसम्बन्धावच्छिन्नत्वनिवेशेनैव परामर्शध्वंसेऽतिव्याप्तिवारणात् ज्ञानत्वदलवैयर्थ्यं दुर्वारम्, प्रतियोगितासम्बन्धेन जायमानध्वंसं प्रति तादात्म्यसम्बन्धेन प्रतियोगिनः कारणत्वेन समवायसम्बन्धावच्छिन्नपरामर्शनिष्ठकारणतानिरूपितकार्यत्वस्य परामर्शध्वंसेऽभावात् इति वाच्यम्, समानविषयकानुभवस्य संस्कारं प्रति समवायसम्बन्धेनैव कारणतया परामर्शनिष्ठसमवायसम्बन्धावच्छिन्नजनकतानिरूपितजन्यत्वस्य साध्यव्याप्यहेतुमत्पक्षविषयकसंस्कारे सत्त्वात् अतिव्याप्तिवारणाय ज्ञानत्वदलसार्थक्यात्। समवायसम्बन्धेन जायमानानुमितिं प्रति समवायसम्बन्धेन परामर्शस्य कारणत्वात् लक्षणसमन्वयः। एतेन प्रत्यक्षे विषयस्य कारणतया परामर्शप्रत्यक्षेऽपि परामर्शजन्यत्वज्ञानत्वयोः सत्त्वात् तत्रातिव्याप्तिरिति शङ्का निरस्ता, प्रत्यक्षे विषयस्य तादात्म्यसम्बन्धेनैव कारणत्वात् समवायसम्बन्धेन कारणत्वाभावात्।
अनुमितिलक्षणघटकीभूतपरामर्शं लक्षयति व्याप्तिविशिष्टेति। व्याप्तिविशिष्टञ्च तत् पक्षधर्मताज्ञानञ्च इति कर्मधारयः, व्याप्त्या विशिष्टमित्यत्र तृतीयायाः आधेयत्वम्, विशिष्टपदस्य प्रकारतानिरूपकत्वम्, पक्षधर्मतायाः ज्ञानमित्यत्र षष्ठ्याः विषयतानिरूपकत्वम्, धर्मतापदस्य सम्बन्धश्च अर्थः, तृतीयार्थाधेयत्वस्य प्रकारतायां षष्ठ्यर्थविषयतानिरूपकत्वस्य ज्ञाने च अन्वयः निपातातिरिक्तनामार्थयोरभेदसम्बन्धेनान्वयः इति नियमेन अत्र व्याप्तिनिष्ठप्रकारतानिरूपकाभिन्नं पक्षसम्बन्धविषयकं ज्ञानं परामर्शः इति बोधः। व्याप्तिनिष्ठप्रकारतानिरूपकत्वे सति पक्षसम्बन्धविषयकत्वे सति ज्ञानत्वं परामर्शस्य लक्षणम्, वह्निव्याप्यधूमवान् पर्वतः इति ज्ञाने धूमांशे व्याप्तेः प्रकारत्वेन व्याप्तिनिष्ठप्रकारतानिरूपकत्वस्य विशेषणविशेष्यावगाहिज्ञाने तयोस्सम्बन्धस्यापि विषयत्वनियमेन पर्वतांशे धूमस्य प्रकारत्वेन तत्र धूमपर्वतसम्बन्धस्य संयोगस्यापि विषयत्वस्याङ्गीकार्यतया पक्षसम्बन्धविषयकत्वज्ञानत्वयोश्च सत्त्वात् लक्षणसमन्वयः। ज्ञानत्वमात्रोक्तावनुमितावतिव्याप्तिः। ज्ञानत्वानुपादाने वह्निव्याप्यधूमवत्पर्वतविषयकसंस्कारादौ अतिव्याप्तिः, तत्रापि तत्तद्विषयकत्वस्य अक्षतत्वात्, ज्ञानत्वनिवेशे संस्कारादौ ज्ञानत्वाभावात् नातिव्याप्तिः। व्याप्तिविषयकत्वे सति ज्ञानत्वमात्रोक्तौ वह्निव्याप्यो धूमः इति व्याप्तिस्मृतौ (अनुमाने) अतिव्याप्तिः। पक्षसम्बन्धविषयकत्वे सति ज्ञानत्वमात्रोक्तौ धूमवान् पर्वतः इति पक्षधर्मताज्ञानेऽतिव्याप्तिः, अतः पक्षसम्बन्धविषयकत्वव्याप्तिप्रकारकत्वयोः उपादानम्। परामर्शमभिनीय दर्शयति यथेति। अनुमितिमभिनीय दर्शयति तज्जन्यमिति।
यत्र यत्र धूमः तत्राग्निः इति साहचर्यनियमो व्याप्तिः।
कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - व्याप्तिः
व्याप्तेः लक्षणमाह यत्रेति। धूमपदसमभिव्याहृतयत्पदेन धूमाधिकरणं वीप्सया यावत्वञ्च बोध्यते, तथाच, धूमाधिकरणे यावति वह्निरिति लभ्यते, तथाच यद्धर्मावच्छिन्नवाचकपदसमभिव्याहारदशायां यावत्पदं श्रूयते तद्धर्मव्यापकत्वं विधेयांशे भासते इति नियमेन धूमाधिकरणबोधकपदसमभिव्याहृतयावत्पर्यवसायिद्विर्वचनश्रुत्या धूमव्यापकत्वं विधेयीभूतवह्न्यंशे भासते। तथाच धूमव्यापकत्वस्य वह्न्यंशे भाने तुल्यवित्तिवेद्यतया वह्निव्याप्यत्वञ्च धूमे लभ्यते, वह्निव्याप्यत्वस्य वह्न्यभाववदवृत्तित्वे सति वह्निसामानाधिकरण्यरूपतया तदभाववदवृत्तित्वांशस्य प्रयोजनाभावेन त्यागे वह्निसामानाधिकरण्यमात्रं गृह्यते, तथाच धूमव्यापकवह्निसामानाधिकरण्यं व्याप्तिरिति फलितम्। साहचर्यनियमः इत्यत्र नियमपदस्थाने नियतपदं संयोज्य व्युत्क्रमेण योजने च नियतसाहचर्यमिति लभ्यते । साहचर्यनियमः नियतसाहचर्यम्। नियतत्वञ्च व्यापकत्वं साहचर्यञ्च सामानाधिकरण्यम्, तथाच धूमाधिकरणवृत्त्यत्यन्ताभावाप्रतियोगिवह्न्यधिकरणवृत्तित्वं व्याप्तिः इति विशेषलक्षणं फलितम्, सामान्यलक्षणन्तु हेत्वधिकरणवृत्त्यत्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यं व्याप्तिरिति पर्यवसन्नम्। तथाच पर्वतो वह्निमान् धूमात् इत्यत्र धूमरूपहेतौ लक्षणसमन्वयः, तथाहि हेतुः धूमः, तदधिकरणं महानसः, तद्वृत्तिः योऽत्यन्ताभावः नहि वह्न्यभावः तत्र वह्नेः सत्त्वात् किन्तु घटाभावः, तत्प्रतियोगि घटादिकम्, अप्रतियोगि यत्साध्यं वह्न्यात्मकं साध्यम्, तदधिकरणं महानसः, तद्वृत्तित्वं धूमे वर्तते इति । पर्वतो धूमवान् वह्नेः इत्यत्र वह्निरूपासद्धेतौ नातिव्याप्तिश्च, तथाहि हेतुः वह्निः, तदधिकरणम् अयोगोलकम्, तद्वृत्तिः योऽत्यन्ताभावः धूमाभावः, तत्प्रतियोग्येव साध्यीभूतधूमः, अप्रतियोगि साध्यं न भवतीति नातिव्याप्तिः। नचैवमपि वह्निमान् धूमात् इत्यत्र धूमरूपहेतावव्याप्तिः, हेत्वधिकरणमहानसादिषु चालिनीन्यायेन वर्तमानानां तत्तद्व्यक्तित्वेन तत्तद्वह्न्यभावानां सर्वस्यापि वह्नेः प्रतियोगित्वात् इति वाच्यम्। हेत्वधिकरणवृत्त्यत्यन्ताभावप्रतियोगितानवच्छेदकत्वस्य साध्यतावच्छेदके निवेशनीयत्वात्, तन्निवेशे च हेत्वधिकरणतत्तद्व्यक्तिवृत्त्यभावप्रतियोगितावच्छेदकत्वस्य तत्तद्व्यक्तित्वे सम्भवेऽपि तदनवच्छेदकत्वस्य साध्यतावच्छेदके सत्त्वात् तदवच्छिन्नसामानाधिकरण्यमादाय लक्षणसमन्वयसम्भवात् नाव्याप्तिप्रसक्तिः।
टिप्पणी- साहचर्यनियमो व्याप्तिरित्यत्र। साहचर्यं सामानाधिकरण्यम्, नियमः नियमवत्, कृदभिहितो भावो द्रव्यवत्प्रकाशते इति न्यायात्, तदर्थश्च कृता बोध्यमानः भावोः धात्वर्थः, द्रव्यवदित्यत्र सप्तम्यन्ताद्वतिः, स्वाश्रये बोध्यमान इवेति यावत्, तथाच कृद्बोध्यमानो भावः स्वाश्रयविशेषणतयापि प्रकाशते इति फलितम्, नियतत्वं व्यापकनिरूपितत्वम्, यत्र धूमः तत्रेति पदत्रयं तात्पर्यग्राहकम्, वह्निपदं धूमव्यापकवह्निसामानाधिकरण्यलक्षकम्, इतिपदार्थश्चाभेदः, तस्य साहचर्येऽन्वयः, एवञ्च धूमव्यापकवह्निसामानाधिकरण्याभिन्नं नियतं सामानाधिकरण्याभिन्नं व्याप्तिः इत्यन्वयः।
कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - पक्षधर्मता
व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता।।
पक्षधर्मतास्वरूपम् उदाहरति व्याप्यस्येति। षष्ठ्याः आधेयत्वम्, पर्वतादौ वृत्तित्वमित्यत्र सप्तम्याः निरूपितत्वञ्च अर्थः, तथा च व्याप्यनिष्ठपर्वतादिनिरूपितवृत्तित्वं पक्षधर्मतेति बोधः।