मूलम् - संनिकर्षः - 40
प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसंनिकर्षः षड्विधः संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः समवायः समवेतसमवायः विशेषणविशेष्यभावश्चेति। चक्षुषा घटप्रत्यक्षजनने संयोगः संनिकर्षः। घटरूपप्रत्यक्षजनने संयुक्तसमवायः संनिकर्षः। चक्षुः संयुक्ते घटे रूपस्य समवायात्। रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः संनिकर्षः। चक्षुः संयुक्ते घटे रूपं समवेतं तत्र रूपत्वस्य समवायात्। श्रोत्रेण शब्दसाक्षात्कारे समवायः संनिकर्षः कर्णविवरवर्त्याकाशस्यश्रोत्रत्वात् शब्दस्याकाशगुणत्वाद्गुणगुणिनोश्च समवायात्। शब्दत्वसाक्षात्कारे समवेतसमवायः संनिकर्षः श्रोत्रसमवेते शब्देशब्दत्वस्य समवायात्। अभावप्रत्यक्षे विशेषणविशेष्यभावः संनिकर्षः घटाभाववद्भूतलमित्यत्र चक्षुः संयुक्ते भूतले घटाभावस्य विशेषणत्वात्। एवं संनिकर्षषट्कजन्यं ज्ञानं प्रत्यक्षम्। तत्करणमिन्द्रियम्। तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम्॥ ३९॥
Tags - 40
प्रत्यक्षम्, इन्द्रियार्थसंनिकर्षः, षड्विधसंनिकर्षः
दीपिका - सन्निकर्षवैविध्यम्
प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्निकर्ष: षड्विधः। संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेषणविशेष्यभावश्चेति। चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः। घटरूपप्रत्यक्षे संयुक्तसमवायः, चक्षुस्संयुक्तघटे रूपस्य समवायात्। रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः, चक्षुःसंयुक्ते घटे रूपं समवेतम्, तत्र रूपत्वस्य समवायात्। श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः। कर्णविवरवृत्त्याकाशस्य श्रोत्रत्वात्, शब्दस्याकाशगुणत्वात्, गुणगुणिनो: समवायात्। शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः, श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात्। अभावप्रत्यक्षे विशेषणविशेष्यभावः सन्निकर्षः। भूतलं घटाभाववदित्यत्र चक्षुःसंयुक्ते भूतले घटाभावस्य विशेषणत्वात्। एवं सन्निकर्षषट्कजन्यं ज्ञानं प्रत्यक्षम्। तत्करणमिन्द्रियम्। तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम्।
दीपिका - प्रत्यक्षसन्निकर्षभेदाः
इन्द्रियार्थसन्निकर्षं विभजते- प्रत्यक्षेति। संयोगसन्निकर्षमुदाहरति- चक्षुषेति। द्रव्यप्रत्यक्षे सर्वत्र संयोगः संनिकर्ष इत्यर्थः (इन्द्रियाणां प्राप्यप्रकाशकारित्वनियमात्)। आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन, ततः प्रत्यक्षमुत्पद्यते इत्यर्थः। संयुक्तसमवायमुदाहरति- घटरूपेति। तत्र युक्तिमाह- चक्षुःसंयुक्त इति। संयुक्तसमवेतसमवायमुदाहरति- रूपत्वेति। समवायमुदाहरति- श्रोत्रेणेति। तदुपपादयति- कर्णेति। ननु दूरस्थशब्दस्य कथं श्रोत्रसंबन्ध इति चेन्न। वीचीतरङ्गन्यायेन कदम्बमुकुलन्यायेन वा शब्दाच्छब्दान्तरोत्पत्तिक्रमेण श्रोत्रदेशे जातस्य श्रोत्रेण संबन्धात् प्रत्यक्षसंभवः। समवेतसमवायमुदाहरति- शब्दत्वेति। विशेषणविशेष्यभावमुदाहरति-अभावेति। तदुपपादयति- घटाभाववदिति। भूतले घटो नास्तीत्यत्र अभावस्य विशेष्यत्वं द्रष्टव्यम्।
दीपिका - अनुपलब्धिप्रमाणम्
एतेनानुपलब्धेः प्रमाणान्तरत्वं निरस्तम्। यद्यत्र घटोऽभविष्यत्तर्हि भूतलमिव अद्रक्ष्यत। तद्दर्शनाभावात्तन्नास्तीति तर्कितप्रतियोगिसत्त्वविरोध्यनुपलब्धिसहकृतेन्द्रियेणैवाभावज्ञानोत्पत्तावनुपलब्धेः प्रमाणान्तरत्वासम्भवात्। अधिकरणज्ञानार्थमपेक्षणीयेन्द्रियस्यैव करणत्वोपपत्तावनुपलब्धेः करणत्वस्यायुक्तत्वात्। विशेषणविशेष्यभावोऽपि विशेषणविशेष्यस्वरूप एव, नातिरिक्तः संबन्धः। प्रत्यक्षज्ञानमुपसंहरन् तस्य करणमाह-एवमिति। असाधारणकारणत्वादिन्द्रियं प्रत्यक्षज्ञानकरणमित्यर्थः। प्रत्यक्षप्रमाणमुपसंहरति- तस्मादिति।
दीपिका - प्रत्यक्षपरिच्छेदः
।। इति प्रत्यक्षपरिच्छेदः।।
वरदाचार्य आलोके - अलौकिकसन्निकर्षः
।। इति प्रत्यक्षखण्डः।।
टिप्पणी
*सन्निकर्षो द्विविधः- लौकिकः, अलौकिकश्च। उक्तः षड्विधः सन्निकर्षः लौकिक उच्यते। एतद्विलक्षणसन्निकर्षः अलौकिक उच्यते। ‘यत्र यत्र वह्निः, तत्र तत्र धूम:’ इति वह्निधूमयोः कार्यकारणभावे, ‘यत्र यत्र धूमः तत्र वह्निः’ इति व्याप्यव्यापकभावग्रहणं च त्रैकालिकं दृष्टम्। षड्विधसन्निकर्षस्तु वर्तमानवस्तुष्वेव भवेत्। प्रत्यक्षं हि वर्तमानमात्रविषयकम्। कार्यकारणभावादिस्तु त्रैकालिकः। स कथं पुरोवर्तिवस्तुमात्रविषयको भवेत्। अतः पुरोवर्तिवस्तुगतसामान्यधर्ममादायैव सहचारादिदर्शनमुपपादयितव्यम्। एवं सामान्यमूलकं दर्शनम्, न पुरोऽवस्थितवस्तुमात्रे परिसमाप्तम्। धूमो हि सर्वदैव सर्वत्रैव वह्निजन्य एव। अतश्चास्य सामान्यमूलकत्वात् सामान्यलक्षणा प्रत्त्यासत्तिरिति संज्ञा।
एवं ‘सुरभि कुसुमम्’ ‘शीतं शिलातलम् “मधुरा शर्करा’ इत्याद्यनुभवनिर्वाहार्थं ज्ञानलक्षणसन्निकर्ष आवश्यकः। उक्तानुभवेषु हि विशेष्यं कुसुमम्, शिलातलं च चक्षुरिन्द्रियजन्यम्। विशेषणं सौरभं घ्राणेन्द्रियजन्यम्, शैत्यं त्वगिन्द्रियजन्यम्, माधुर्यं च रसनेन्द्रियजन्यम्। युगपत् इन्द्रियद्वयप्रवृत्तेरसंभवात्, विशेष्यग्रहणविशेषणग्रहणयोः सूक्ष्मः कालभेद आवश्यकः। युगपदिन्द्रियद्वयप्रवृत्तौ त्वगिन्द्रियस्य सर्वशरीरव्यापित्वेन, भूतलादिना संयोगस्य सदा वर्तमानत्वेन, चक्षुरादिना रूपादिग्रहणकाले स्पर्शरूपोभयग्रहणमावश्यकं स्यात्। न हि तथानुभूयते। तत्र च कारणं मन एव। मनो यत्रावहितम्, तद्विषयकमेव ज्ञानं भवति। अत एव ‘युगपद् ज्ञानानुत्पत्तिर्मनसो लिङ्गम्’ (न्या. सू. १-१-१६) इत्याह महर्षिः। एवञ्च ‘सुरभि कुसुमम्’ इत्यादौ कुसुमस्य परोक्षत्वे, घ्राणेन गन्धस्य ग्रहणं प्रथमम्। तेनाश्रयस्य कुसुमस्यानुमित्या गृहीतस्य तत्र विशेष्यतया भानम्। कुसुमस्य पुरत एव सत्त्वे, कुसुमस्य चक्षुषा ग्रहणं प्रथमम्। घ्राणेन्द्रियेण गृहीतस्य गन्धस्य कुसुमे विशेषणतया भानम्। ग्रहणं नाम घ्राणेन्द्रियजन्यं ज्ञानमित्यर्थः। सौरभस्य कुसुमे विशेषणत्वं तादृशज्ञानेन भवति। अस्य ज्ञानलक्षणाप्रत्त्यासत्तिरिति संज्ञा। प्रत्त्यासत्तिः सन्निकर्ष:। ‘नीलो घटः’ इति ज्ञानं हि संयोगसंयुक्तसमवाय-संयुक्तसमवेतसमवायसन्निकर्षैर्जायते। एवमनेकसन्निकर्षैरेकज्ञानं यथा जायते, तथैव ‘सुरभिकुसुमम्’ इति ज्ञानमपि लौकिकालौकिकसन्निकर्षद्वयजन्यम्।
एवम् अष्टाङ्गयोगाभ्यासवशात् जायमानोऽलौकिकः शक्तिविशेषः अतीन्द्रियाणां विषये ज्ञानं जनयति। स एव योगजसन्निकर्ष इत्युच्यते।
।। इति प्रत्यक्षखण्डः।।
गोवर्धन-न्यायबोधिनी - प्रत्यक्षकारणसन्निकर्षः
चाक्षुषादिप्रत्यक्षकारणीभूतसन्निकर्षान्विभजते। संयोग इत्यादिना। द्रव्यवृत्तिलौकिकविषयतासंबन्धेन चाक्षुषत्वावच्छिन्नं प्रति चक्षुःसंयोगस्य कारणत्वम्। द्रव्यसमवेतवृत्तिलौकिकविषयतासंबन्धेन चाक्षुषत्वावच्छिन्नं प्रति चक्षुःसंयुक्तसमवायस्य कारणत्वम्। द्रव्यसमवेतसमवेतवृत्तिलौकिकविषयतासंबन्धेन चाक्षुषत्वावच्छिन्नं प्रति चक्षुःसंयुक्तसमवेतसमवायस्य कारणत्वम्। एवं द्रव्यवृत्तिलौकिकविषयतासम्बन्धेन त्वाचप्रत्यक्षत्वावच्छिन्नं प्रति त्वक्संयोगस्य कारणत्वम्। द्रव्यसमवेतविषयकत्वाचप्रत्यक्षे त्वक्संयुक्तसमवायस्य कारणत्वम्। द्रव्यसमवेतसमवेतोष्णत्वादिजातिप्रत्यक्षे त्वक्संयुक्तसमवेतसमवायस्य कारणत्वम्। एवमात्ममानसे मनःसंयोगस्य कारणत्वम्। आत्मसमवेतसुखादिमानसे मनःसंयुक्तसमवायस्य कारणत्वम्। आत्मसमवेतसमवेतसुखत्वादिमानसे मनःसंयुक्तसमवेतसमवायस्य कारणत्वम्। द्रव्यग्राहकाणीन्द्रियाणि चक्षुस्त्वङ्मनांसि त्रीण्येव। अन्यानि घ्राणरसनश्रवणानि तु गुणादिग्राहकाणि। तत्र रसनघ्राणयो रसगन्धतद्गतजातिग्राहकत्वेन द्वितीयतृतीययोः सन्निकर्षयोरेव रसगन्धादिप्रत्यक्षकारणत्वं वाच्यम्। श्रवणेन्द्रियस्याकाशरूपत्वेन शब्दस्याकाशगुणत्वेन श्रवणेन्द्रियेण समं शब्दस्य समवायः सन्निकर्षः। शब्दसमवेतशब्दत्वजातिविषयकश्रावणप्रत्यक्षे समवेतसमवायस्य हेतुत्वं च बोध्यम्। अभावप्रत्यक्ष इति। विशेषणविशेष्यभावो नाम विशेषणतासन्निकर्षः। पञ्चसन्निकर्षेषु मध्ये संयोगस्थाने संयुक्तपदं घटयित्वा समवायस्थाने समवेतपदं घटयित्वा अभावस्थले निर्वाह्यम् तथा हि। द्रव्याधिकरणकाभावप्रत्यक्षे संयुक्तविशेषणता। द्रव्यसमवेताधिकरणकाभावप्रत्यक्षे संयुक्तसमवेतविशेषणता। द्रव्यसमवेतसमवेताधिकरणकाभावप्रत्यक्षे संयुक्तसमवेतसमवेतविशेषणता च सन्निकर्षः। तत्र घटे पटत्वाभावः संयुक्तविशेषणतया गृह्यते। घटसमवेतघटत्वादौ पृथिवीत्वाभावः संयुक्तसमवेतविशेषणतया गृह्यते। घटसमवेतसमवेतरूपत्वादौ नीलत्वाभावश्च संयुक्तसमवेतसमवेतविशेषणतया गृह्यते इति संक्षेपः॥
इति न्यायबोधिन्यां प्रत्यक्षपरिच्छेदः।
कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - सन्निकर्षभेदः
प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्निकर्षः षड्विधः। संयोगः, संयुक्तसमवायः संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेषणविशेष्यभावश्चेति। चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः। घटरूपप्रत्यक्षे संयुक्तसमवायः, चक्षुस्संयुक्ते घटे रूपस्य समवायात्। रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः, चक्षुस्संयुक्ते घटे रूपं समवेतं तत्र रूपत्वस्य समवायात्। श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः, कर्णविवरवृत्त्याकाशस्य श्रोत्रत्वात् शब्दस्याकाशगुणत्वात् गुणगुणिनोस्समवायात्। अभावप्रत्यक्षे विशेषणविशेष्यभावः सन्निकर्षः। भूतलं घटाभाववत् इत्यत्र चक्षुस्संयुक्ते भूतले घटाभावस्य विशेषणत्वात्। एवं सन्निकर्षषट्कजन्यं ज्ञानं प्रत्यक्षम्। तत्करणमिन्द्रियम्। तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम्।। इति तर्कसङ्ग्रहे प्रत्यक्षपरिच्छेदः।
असन्निकृष्टपदार्थस्य प्रत्यक्षे भानासम्भवः इति नियमेन प्रत्यक्षविषयपदार्थे सन्निकर्षस्यावश्यकतया तन्निरूपणावश्यकतायां प्रसक्तायां सन्निकर्षं तमुदाहरति संयोगेत्यादिना। एते लौकिकसन्निकर्षाः। अलौकिकसन्निकर्षाः वक्ष्यन्ते। प्रत्यक्षलक्षणघटकीभूतमिन्द्रियार्थसन्निकर्षं दर्शयति संयोगेत्यादिना। द्रव्यप्रत्यक्षे सन्निकर्षमुदाहरति चक्षुषेति, सन्निकर्षाणामेषां पञ्चानामपि प्रथमम् इन्द्रियपदं योजनीयम्, इन्द्रियसंयोगः इन्द्रियसंयुक्तसमवाय इत्यादिरीत्या। द्रव्यवृत्तिगुणादिप्रत्यक्षे सन्निकर्षमुदाहरति संयुक्तेति, इन्द्रियसंयुक्तं घटादिद्रव्यम्, तत्समवायः गुणादिषु वर्तते। गुणादिवृत्तिजातिप्रत्यक्षे सन्निकर्षमुदाहरति रूपत्वेति, इन्द्रियसंयुक्तं द्रव्यम्, तत्समवेतं गुणादि, तत्समवायः रूपत्वादिजातौ वर्तते। शब्दसाक्षात्कारे सन्निकर्षमुदाहरति श्रोत्रेणेति। अत्रेन्द्रियं श्रोत्रम्, तत्समवायः शब्दे वर्तते, श्रोत्रस्य गगनरूपत्वेन शब्दश्रोत्रयोः समवायात्। शब्दत्वसाक्षात्कारे सन्निकर्षमुदाहरति शब्दत्वेति। अत्र इन्द्रियं श्रोत्रम्, तत्समवेतः शब्दः तत्समवायः शब्दत्वे वर्तते। अभावप्रत्यक्षे सन्निकर्षमुदाहरति अभावेति। विशेषणविशेष्यभावो नाम विशेषणतासन्निकर्षः। अस्य प्रथमम् इन्द्रियसंयुक्तपदम् इन्द्रियसंयुक्तसमवेतपदम् इन्द्रियसंयुक्तसमवेतसमवेतपदं समवेतपदं समवेतसमवेतपदं च स्थलभेदेन संयोज्य तत्तदभावस्थले निर्वाह्यम्। भूतलं घटाभाववदित्यत्र इन्द्रियसंयुक्तं भूतलम्, तद्विशेषणं घटाभावः, तद्विशेषणता घटाभावे वर्तते इति इन्द्रियसंयुक्तविशेषणताख्यः सन्निकर्षः अत्र सम्भवतीति बोध्यम्। एवं क्रमेण इतरेषामप्युदाहरणानि स्थलभेदेन द्रष्टव्यानि।
श्रीमत् कुरुगण्ट्युपाह्वय श्रीरामशास्त्रिविरचिते तर्कसङ्ग्रहसर्वस्वे प्रत्यक्षपरिच्छेदः समाप्तः।